[१] अग्निमीळ इति नवर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाअग्निर्गायत्री |
अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजं॑ । होता॑रं रत्न॒धात॑मं ॥
अ॒ग्निं , ई॒ळे॒ , पु॒रःऽहि॑तं , य॒ज्ञस्य॑ , दे॒वं , ऋ॒त्विजं॑ । होता॑रं , र॒त्न॒ऽधात॑मं ॥
अ॒ग्निः पूर्वे॑भि॒र्ऋषि॑भि॒रीड्यो॒ नूत॑नैरु॒त । स दे॒वाँ एह व॑क्षति ॥
अ॒ग्निः , पूर्वे॑भिः , ऋषि॑ऽभिः , ईड्यः॑ , नूत॑नैः , उ॒त । सः , दे॒वान् , आ , इ॒ह , व॒क्ष॒ति॒ ॥
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे । य॒शसं॑ वी॒रव॑त्तमं ॥
अ॒ग्निना॑ , र॒यिं , अ॒श्न॒व॒त् , पोषं॑ , ए॒व , दि॒वेऽदि॑वे । य॒शसं॑ , वी॒रव॑त्ऽतमं ॥
अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ । स इद्दे॒वेषु॑ गच्छति ॥
अग्ने॑ , यं , य॒ज्ञं , अ॒ध्व॒रं , वि॒श्वतः॑ , प॒रि॒ऽभूः , असि॑ । सः , इत् , दे॒वेषु॑ , ग॒च्छ॒ति॒ ॥
अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः । दे॒वो दे॒वेभि॒रा ग॑मत् ॥
अ॒ग्निः , होता॑ , क॒विऽक्र॑तुः , स॒त्यः , चि॒त्रश्र॑वःऽतमः । दे॒वः , दे॒वेभिः॑ , आ , ग॒म॒त् ॥
यदं॒ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ । तवेत्तत्स॒त्यमं॑गिरः ॥
यत् , अं॒ग , दा॒शुषे॑ , त्वं , अग्ने॑ , भ॒द्रं , क॒रि॒ष्यसि॑ । तव॑ , इत् , तत् , स॒त्यं , अं॒गि॒रः॒ ॥
उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यं । नमो॒ भरं॑त॒ एम॑सि ॥
उप॑ , त्वा॒ , अ॒ग्ने॒ , दि॒वेऽदि॑वे , दोषा॑ऽवस्तः , धि॒या , व॒यं । नमः॑ , भरं॑तः , आ , इ॒म॒सि॒ ॥
राजं॑तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विं । वर्ध॑मानं॒ स्वे दमे॑ ॥
राजं॑तं , अ॒ध्व॒राणां॑ , गो॒पां , ऋ॒तस्य॑ , दीदि॑विं । वर्ध॑मानं , स्वे , दमे॑ ॥
स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये॑ ॥
सः , नः॒ , पि॒ताऽइ॑व , सू॒नवे॑ , अग्ने॑ , सु॒ऽउ॒पा॒य॒नः , भ॒व॒ । सच॑स्व , नः॒ , स्व॒स्तये॑ ॥
[२] वायवायाहीति नवर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः आद्यतृचस्यवायुः द्वितीयतृचस्येंद्रवायू तृतीयतृचस्यमित्रावरुणौगायत्री |
वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः । तेषां॑ पाहि श्रु॒धी हवं॑ ॥
वायो॒ इति॑ , आ , या॒हि॒ , द॒र्श॒त॒ , इ॒मे , सोमाः॑ , अरं॑ऽकृताः । तेषां॑ , पा॒हि॒ , श्रु॒धि , हवं॑ ॥
वाय॑ उ॒क्थेभि॑र्जरंते॒ त्वामच्छा॑ जरि॒तारः॑ । सु॒तसो॑मा अह॒र्विदः॑ ॥
वायो॒ इति॑ , उ॒क्थेभिः॑ , ज॒रं॒ते॒ , त्वां , अच्छ॑ , ज॒रि॒तारः॑ । सु॒तऽसो॑माः , अ॒हः॒ऽविदः॑ ॥
वायो॒ तव॑ प्रपृंच॒ती धेना॑ जिगाति दा॒शुषे॑ । उ॒रू॒ची सोम॑पीतये ॥
वायो॒ इति॑ , तव॑ , प्र॒ऽपृं॒च॒ती , धेना॑ , जि॒गा॒ति॒ , दा॒शुषे॑ । उ॒रू॒ची , सोम॑ऽपीतये ॥
इंद्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तं । इंद॑वो वामु॒शंति॒ हि ॥
इंद्र॑वायू॒ इति॑ , इ॒मे , सु॒ताः , उप॑ , प्रयः॑ऽभिः॒ , आ , ग॒तं॒ । इंद॑वः , वां॒ , उ॒शंति॑ , हि ॥
वाय॒विंद्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू । तावा या॑त॒मुप॑ द्र॒वत् ॥
वायो॒ इति॑ , इंद्रः॑ , च॒ , चे॒त॒थः॒ , सु॒तानां॑ , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । तौ , आ , या॒तं॒ , उप॑ , द्र॒वत् ॥
वाय॒विंद्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तं । म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥
वायो॒ इति॑ , इंद्रः॑ , च॒ , सु॒न्व॒तः , आ , या॒तं॒ , उप॑ , निः॒ऽकृ॒तं । म॒क्षु , इ॒त्था , धि॒या , न॒रा॒ ॥
मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सं । धियं॑ घृ॒ताचीं॒ साधं॑ता ॥
मि॒त्रं , हु॒वे॒ , पू॒तऽद॑क्षं , वरु॑णं , च॒ , रि॒शाद॑सं । धियं॑ , घृ॒ताचीं॑ , साधं॑ता ॥
ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा । क्रतुं॑ बृ॒हंत॑माशाथे ॥
ऋ॒तेन॑ , मि॒त्रा॒व॒रु॒णौ॒ , ऋ॒त॒ऽवृ॒धौ॒ , ऋ॒त॒ऽस्पृ॒शा॒ । क्रतुं॑ , बृ॒हंतं॑ , आ॒शा॒थे॒ इति॑ ॥
क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ । दक्षं॑ दधाते अ॒पसं॑ ॥
क॒वी इति॑ , नः॒ , मि॒त्रावरु॑णा , तु॒वि॒ऽजा॒तौ , उ॒रु॒ऽक्षया॑ । दक्षं॑ , द॒धा॒ते॒ इति॑ , अ॒पसं॑ ॥
[३] अश्विनायज्वरीरिति द्वादशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः आद्यतृचस्याश्विनौ द्वितीयतृचस्येंद्रः तृतीयतृचस्यविश्वेदेवाः चतुर्थतृचस्यसरस्वतीगायत्री |
अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती । पुरु॑भुजा चन॒स्यतं॑ ॥
अश्वि॑ना , यज्व॑रीः , इषः॑ , द्रव॑त्पाणी॒ इति॒ द्रव॑त्ऽपाणी , शुभः॑ , प॒ती॒ इति॑ । पुरु॑ऽभुजा , च॒न॒स्यतं॑ ॥
अश्वि॑ना॒ पुरु॑दंससा॒ नरा॒ शवी॑रया धि॒या । धिष्ण्या॒ वन॑तं॒ गिरः॑ ॥
अश्वि॑ना , पुरु॑ऽदंससा , नरा॑ , शवी॑रया , धि॒या । धिष्ण्या॑ , वन॑तं , गिरः॑ ॥
दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः । आ या॑तं रुद्रवर्तनी ॥
दस्रा॑ , यु॒वाक॑वः , सु॒ताः , नास॑त्या , वृ॒क्तऽब॑र्हिषः । आ , या॒तं॒ , रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी ॥
इंद्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यवः॑ । अण्वी॑भि॒स्तना॑ पू॒तासः॑ ॥
इंद्र॑ , आ , या॒हि॒ , चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो , सु॒ताः , इ॒मे , त्वा॒ऽयवः॑ । अण्वी॑भिः , तना॑ , पू॒तासः॑ ॥
इंद्रा या॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः । उप॒ ब्रह्मा॑णि वा॒घतः॑ ॥
इंद्र॑ , आ , या॒हि॒ , धि॒या , इ॒षि॒तः , विप्र॑ऽजूतः , सु॒तऽव॑तः । उप॑ , ब्रह्मा॑णि , वा॒घतः॑ ॥
इंद्रा या॑हि॒ तूतु॑जान॒ उप॒ ब्रह्मा॑णि हरिवः । सु॒ते द॑धिष्व न॒श्चनः॑ ॥
इंद्र॑ , आ , या॒हि॒ , तूतु॑जानः , उप॑ , ब्रह्मा॑णि , ह॒रि॒ऽवः॒ । सु॒ते , द॒धि॒ष्व॒ , नः॒ , चनः॑ ॥
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वांसो॑ दा॒शुषः॑ सु॒तं ॥
ओमा॑सः , च॒र्ष॒णि॒ऽधृ॒तः॒ , विश्वे॑ , दे॒वा॒सः॒ , आ , ग॒त॒ । दा॒श्वांसः॑ , दा॒शुषः॑ , सु॒तं ॥
विश्वे॑ दे॒वासो॑ अ॒प्तुरः॑ सु॒तमा गं॑त॒ तूर्ण॑यः । उ॒स्रा इ॑व॒ स्वस॑राणि ॥
विश्वे॑ , दे॒वासः॑ , अ॒प्ऽतुरः॑ , सु॒तं , आ , गं॒त॒ , तूर्ण॑यः । उ॒स्राःऽइ॑व , स्वस॑राणि ॥
विश्वे॑ दे॒वासो॑ अ॒स्रिध॒ एहि॑मायासो अ॒द्रुहः॑ । मेधं॑ जुषंत॒ वह्न॑यः ॥
विश्वे॑ , दे॒वासः॑ , अ॒स्रिधः॑ , एहि॑ऽमायासः , अ॒द्रुहः॑ । मेधं॑ , जु॒षं॒त॒ , वह्न॑यः ॥
पा॒व॒का नः॒ सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥
पा॒व॒का , नः॒ , सर॑स्वती , वाजे॑भिः , वा॒जिनी॑ऽवती । य॒ज्ञं , व॒ष्टु॒ , धि॒याऽव॑सुः ॥
चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेतं॑ती सुमती॒नां । य॒ज्ञं द॑धे॒ सर॑स्वती ॥
चो॒द॒यि॒त्री , सू॒नृता॑नां , चेतं॑ती , सु॒ऽम॒ती॒नां । य॒ज्ञं , द॒धे॒ , सर॑स्वती ॥
म॒हो अर्णः॒ सर॑स्वती॒ प्र चे॑तयति के॒तुना॑ । धियो॒ विश्वा॒ वि रा॑जति ॥
म॒हः , अर्णः॑ , सर॑स्वती , प्र , चे॒त॒य॒ति॒ , के॒तुना॑ । धियः॑ , विश्वाः॑ , वि , रा॒ज॒ति॒ ॥
[४] सुरूपकृत्नुमिति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री |
सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑ । जु॒हू॒मसि॒ द्यवि॑द्यवि ॥
सु॒रू॒प॒ऽकृ॒त्नुं , ऊ॒तये॑ , सु॒दुघां॑ऽइव , गो॒ऽदुहे॑ । जु॒हू॒मसि॑ , द्यवि॑ऽद्यवि ॥
उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब । गो॒दा इद्रे॒वतो॒ मदः॑ ॥
उप॑ , नः॒ , सव॑ना , आ , ग॒हि॒ , सोम॑स्य , सो॒म॒ऽपाः॒ , पि॒ब॒ । गो॒ऽदाः , इत् , रे॒वतः॑ , मदः॑ ॥
अथा॑ ते॒ अंत॑मानां वि॒द्याम॑ सुमती॒नां । मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥
अथ॑ , ते॒ , अंत॑मानां , वि॒द्याम॑ , सु॒ऽम॒ती॒नां । मा , नः॒ , अति॑ , ख्यः॒ , आ , ग॒हि॒ ॥
परे॑हि॒ विग्र॒मस्तृ॑त॒मिंद्रं॑ पृच्छा विप॒श्चितं॑ । यस्ते॒ सखि॑भ्य॒ आ वरं॑ ॥
परा॑ , इ॒हि॒ , विग्रं॑ , अस्तृ॑तं , इंद्रं॑ , पृ॒च्छ॒ , वि॒पः॒ऽचितं॑ । यः , ते॒ , सखि॑ऽभ्यः , आ , वरं॑ ॥
उ॒त ब्रु॑वंतु नो॒ निदो॒ निर॒न्यत॑श्चिदारत । दधा॑ना॒ इंद्र॒ इद्दुवः॑ ॥
उ॒त , ब्रु॒वं॒तु॒ , नः॒ , निदः॑ , निः , अ॒न्यतः॑ , चि॒त् , आ॒र॒त॒ । दधा॑नाः , इंद्रे॑ , इत् , दुवः॑ ॥
उ॒त नः॑ सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑ । स्यामेदिंद्र॑स्य॒ शर्म॑णि ॥
उ॒त , नः॒ , सु॒ऽभगा॑न् , अ॒रिः , वो॒चेयुः॑ , द॒स्म॒ , कृ॒ष्टयः॑ । स्याम॑ , इत् , इंद्र॑स्य , शर्म॑णि ॥
एमा॒शुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नं । प॒त॒यन्मं॑द॒यत्स॑खं ॥
आ , ईं॒ , आ॒शुं , आ॒शवे॑ , भ॒र॒ , य॒ज्ञ॒ऽश्रियं॑ , नृ॒ऽमाद॑नं । प॒त॒यत् , मं॒द॒यत्ऽस॑खं ॥
अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः । प्रावो॒ वाजे॑षु वा॒जिनं॑ ॥
अ॒स्य , पी॒त्वा , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , घ॒नः , वृ॒त्राणां॑ , अ॒भ॒वः॒ । प्र , आ॒वः॒ , वाजे॑षु , वा॒जिनं॑ ॥
तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो । धना॑नामिंद्र सा॒तये॑ ॥
तं , त्वा॒ , वाजे॑षु , वा॒जिनं॑ , वा॒जया॑मः , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । धना॑नां , इं॒द्र॒ , सा॒तये॑ ॥
यो रा॒यो॒३॒॑ऽवनि॑र्म॒हांत्सु॑पा॒रः सु॑न्व॒तः सखा॑ । तस्मा॒ इंद्रा॑य गायत ॥
यः , रा॒यः , अ॒वनिः॑ , म॒हान् , सु॒ऽपा॒रः , सु॒न्व॒तः , सखा॑ । तस्मै॑ , इंद्रा॑य , गा॒य॒त॒ ॥
[५] आत्वेतेति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री |
आ त्वेता॒ नि षी॑द॒तेंद्र॑म॒भि प्र गा॑यत । सखा॑यः॒ स्तोम॑वाहसः ॥
आ , तु , आ , इ॒त॒ , नि , सी॒द॒त॒ , इंद्रं॑ , अ॒भि , प्र , गा॒य॒त॒ । सखा॑यः , स्तोम॑ऽवाहसः ॥
पु॒रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णां । इंद्रं॒ सोमे॒ सचा॑ सु॒ते ॥
पु॒रु॒ऽतमं॑ , पु॒रू॒णां , ईशा॑नं , वार्या॑णां । इंद्रं॑ , सोमे॑ , सचा॑ , सु॒ते ॥
स घा॑ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं॑ध्यां । गम॒द्वाजे॑भि॒रा स नः॑ ॥
सः , घ॒ , नः॒ , योगे॑ , आ , भु॒व॒त् , सः , रा॒ये , सः , पुरं॑ऽध्यां । गम॑त् , वाजे॑भिः , आ , सः , नः॒ ॥
यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः । तस्मा॒ इंद्रा॑य गायत ॥
यस्य॑ , सं॒ऽस्थे , न , वृ॒ण्वते॑ , हरी॒ इति॑ , स॒मत्ऽसु॑ , शत्र॑वः । तस्मै॑ , इंद्रा॑य , गा॒य॒त॒ ॥
सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यंति वी॒तये॑ । सोमा॑सो॒ दध्या॑शिरः ॥
सु॒त॒ऽपाव्ने॑ , सु॒ताः , इ॒मे , शुच॑यः , यं॒ति॒ , वी॒तये॑ । सोमा॑सः , दधि॑ऽआशिरः ॥
त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः । इंद्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥
त्वं , सु॒तस्य॑ , पी॒तये॑ , स॒द्यः , वृ॒द्धः , अ॒जा॒य॒थाः॒ । इंद्र॑ , ज्यैष्ठ्या॑य , सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥
आ त्वा॑ विशंत्वा॒शवः॒ सोमा॑स इंद्र गिर्वणः । शं ते॑ संतु॒ प्रचे॑तसे ॥
आ , त्वा॒ , वि॒शं॒तु॒ , आ॒शवः॑ , सोमा॑सः , इं॒द्र॒ , गि॒र्व॒णः॒ । शं , ते॒ , सं॒तु॒ , प्रऽचे॑तसे ॥
त्वां स्तोमा॑ अवीवृधं॒त्वामु॒क्था श॑तक्रतो । त्वां व॑र्धंतु नो॒ गिरः॑ ॥
त्वां , स्तोमाः॑ , अ॒वी॒वृ॒ध॒न् , त्वां , उ॒क्था , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । त्वां , व॒र्धं॒तु॒ , नः॒ , गिरः॑ ॥
अक्षि॑तोतिः सनेदि॒मं वाज॒मिंद्रः॑ सह॒स्रिणं॑ । यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ॥
अक्षि॑तऽऊतिः , स॒ने॒त् , इ॒मं , वाजं॑ , इंद्रः॑ , स॒ह॒स्रिणं॑ । यस्मि॑न् , विश्वा॑नि , पौंस्या॑ ॥
मा नो॒ मर्ता॑ अ॒भि द्रु॑हंत॒नूना॑मिंद्र गिर्वणः । ईशा॑नो यवया व॒धं ॥
मा , नः॒ , मर्ताः॑ , अ॒भि , द्रु॒ह॒न् , त॒नूनां॑ , इं॒द्र॒ , गि॒र्व॒णः॒ । ईशा॑नः , य॒व॒य॒ , व॒धं ॥
[६] युंजतीति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः आद्यानांतिसृणामिंद्रः ततःषण्णांमरुतः (वीळुचिदिंद्रेणेतिद्वयोरिंद्रश्चवा) दशम्याइंद्रोगायत्री |
युं॒जंति॑ ब्र॒ध्नम॑रु॒षं चरं॑तं॒ परि॑ त॒स्थुषः॑ । रोचं॑ते रोच॒ना दि॒वि ॥
युं॒जंति॑ , ब्र॒ध्नं , अ॒रु॒षं , चरं॑तं , परि॑ , त॒स्थुषः॑ । रोचं॑ते , रो॒च॒ना , दि॒वि ॥
युं॒जंत्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥
युं॒जंति॑ , अ॒स्य॒ , काम्या॑ , हरी॒ इति॑ , विऽप॑क्षसा , रथे॑ । शोणा॑ , धृ॒ष्णू इति॑ , नृ॒ऽवाह॑सा ॥
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ । समु॒षद्भि॑रजायथाः ॥
के॒तुं , कृ॒ण्वन् , अ॒के॒तवे॑ , पेशः॑ , म॒र्याः॒ , अ॒पे॒शसे॑ । सं , उ॒षत्ऽभिः॑ , अ॒जा॒य॒थाः॒ ॥
आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे । दधा॑ना॒ नाम॑ य॒ज्ञियं॑ ॥
आत् , अह॑ , स्व॒धां , अनु॑ , पुनः॑ , ग॒र्भ॒ऽत्वं , आ॒ऽई॒रि॒रे । दधा॑नाः , नाम॑ , य॒ज्ञियं॑ ॥
वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिंद्र॒ वह्नि॑भिः । अविं॑द उ॒स्रिया॒ अनु॑ ॥
वी॒ळु , चि॒त् , आ॒रु॒ज॒त्नुऽभिः॑ , गुहा॑ , चि॒त् , इं॒द्र॒ , वह्नि॑ऽभिः । अविं॑दः , उ॒स्रियाः॑ , अनु॑ ॥
दे॒व॒यंतो॒ यथा॑ म॒तिमच्छा॑ वि॒दद्व॑सुं॒ गिरः॑ । म॒हाम॑नूषत श्रु॒तं ॥
दे॒व॒ऽयंतः॑ , यथा॑ , म॒तिं , अच्छ॑ , वि॒दत्ऽव॑सुं , गिरः॑ । म॒हां , अ॒नू॒ष॒त॒ , श्रु॒तं ॥
इंद्रे॑ण॒ सं हि दृक्ष॑से संजग्मा॒नो अबि॑भ्युषा । मं॒दू स॑मा॒नव॑र्चसा ॥
इंद्रे॑ण , सं , हि , दृक्ष॑से , सं॒ऽज॒ग्मा॒नः , अबि॑भ्युषा । मं॒दू इति॑ , स॒मा॒नऽव॑र्चसा ॥
अ॒न॒व॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति । ग॒णैरिंद्र॑स्य॒ काम्यैः॑ ॥
अ॒न॒व॒द्यैः , अ॒भिद्यु॑ऽभिः , म॒खः , सह॑स्वत् , अ॒र्च॒ति॒ । ग॒णैः , इंद्र॑स्य , काम्यैः॑ ॥
अतः॑ परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑ । सम॑स्मिन्नृंजते॒ गिरः॑ ॥
अतः॑ , प॒रि॒ज्म॒न् , आ , ग॒हि॒ , दि॒वः , वा॒ , रो॒च॒नात् , अधि॑ । सं , अ॒स्मि॒न् , ऋं॒ज॒ते॒ , गिरः॑ ॥
इ॒तो वा॑ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑ । इंद्रं॑ म॒हो वा॒ रज॑सः ॥
इ॒तः , वा॒ , सा॒तिं , ईम॑हे , दि॒वः , वा॒ , पार्थि॑वात् , अधि॑ । इंद्रं॑ , म॒हः , वा॒ , रज॑सः ॥
[७] इंद्रमिदिति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री |
इंद्र॒मिद्गा॒थिनो॑ बृ॒हदिंद्र॑म॒र्केभि॑र॒र्किणः॑ । इंद्रं॒ वाणी॑रनूषत ॥
इंद्रं॑ , इत् , गा॒थिनः॑ , बृ॒हत् , इंद्रं॑ , अ॒र्केभिः॑ , अ॒र्किणः॑ । इंद्रं॑ , वाणीः॑ , अ॒नू॒ष॒त॒ ॥
इंद्र॒ इद्धर्योः॒ सचा॒ संमि॑श्ल॒ आ व॑चो॒युजा॑ । इंद्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ॥
इंद्रः॑ , इत् , हर्योः॑ , सचा॑ , संऽमि॑श्लः , आ , व॒चः॒ऽयुजा॑ । इंद्रः॑ , व॒ज्री , हि॒र॒ण्ययः॑ ॥
इंद्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद्दि॒वि । वि गोभि॒रद्रि॑मैरयत् ॥
इंद्रः॑ , दी॒र्घाय॑ , चक्ष॑से , आ , सूर्यं॑ , रो॒ह॒य॒त् , दि॒वि । वि , गोभिः॑ , अद्रिं॑ , ऐ॒र॒य॒त् ॥
इंद्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च । उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ॥
इंद्रः॑ , वाजे॑षु , नः॒ , अ॒व॒ , स॒हस्र॑ऽप्रधनेषु , च॒ । उ॒ग्रः , उ॒ग्राभिः॑ , ऊ॒तिऽभिः॑ ॥
इंद्रं॑ व॒यं म॑हाध॒न इंद्र॒मर्भे॑ हवामहे । युजं॑ वृ॒त्रेषु॑ व॒ज्रिणं॑ ॥
इंद्रं॑ , व॒यं , म॒हा॒ऽध॒ने , इंद्रं॑ , अर्भे॑ , ह॒वा॒म॒हे॒ । युजं॑ , वृ॒त्रेषु॑ , व॒ज्रिणं॑ ॥
स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि । अ॒स्मभ्य॒मप्र॑तिष्कुतः ॥
सः , नः॒ , वृ॒ष॒न् , अ॒मुं , च॒रुं , सत्रा॑ऽदावन् , अप॑ , वृ॒धि॒ । अ॒स्मभ्यं॑ , अप्र॑तिऽस्कुतः ॥
तुं॒जेतुं॑जे॒ य उत्त॑रे॒ स्तोमा॒ इंद्र॑स्य व॒ज्रिणः॑ । न विं॑धे अस्य सुष्टु॒तिं ॥
तुं॒जेऽतुं॑जे , ये , उत्ऽत॑रे , स्तोमाः॑ , इंद्र॑स्य , व॒ज्रिणः॑ । न , विं॒धे॒ , अ॒स्य॒ , सु॒ऽस्तु॒तिं ॥
वृषा॑ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा । ईशा॑नो॒ अप्र॑तिष्कुतः ॥
वृषा॑ , यू॒थाऽइ॑व , वंस॑गः , कृ॒ष्टीः , इ॒य॒र्ति॒ , ओज॑सा । ईशा॑नः , अप्र॑तिऽस्कुतः ॥
य एक॑श्चर्षणी॒नां वसू॑नामिर॒ज्यति॑ । इंद्रः॒ पंच॑ क्षिती॒नां ॥
यः , एकः॑ , च॒र्ष॒णी॒नां , वसू॑नां , इ॒र॒ज्यति॑ । इंद्रः॑ , पंच॑ , क्षि॒ती॒नां ॥
इंद्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः । अ॒स्माक॑मस्तु॒ केव॑लः ॥
इंद्रं॑ , वः॒ , वि॒श्वतः॑ , परि॑ , हवा॑महे , जने॑भ्यः । अ॒स्माकं॑ , अ॒स्तु॒ , केव॑लः ॥
[८] एंद्रेति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री |
एंद्र॑ सान॒सिं र॒यिं स॒जित्वा॑नं सदा॒सहं॑ । वर्षि॑ष्ठमू॒तये॑ भर ॥
आ , इं॒द्र॒ , सा॒न॒सिं , र॒यिं , स॒ऽजित्वा॑नं , स॒दा॒ऽसहं॑ । वर्षि॑ष्ठं , ऊ॒तये॑ , भ॒र॒ ॥
नि येन॑ मुष्टिह॒त्यया॒ नि वृ॒त्रा रु॒णधा॑महै । त्वोता॑सो॒ न्यर्व॑ता ॥
नि , येन॑ , मु॒ष्टि॒ऽह॒त्यया॑ , नि , वृ॒त्रा , रु॒णधा॑महै । त्वाऽऊ॑तासः , नि , अर्व॑ता ॥
इंद्र॒ त्वोता॑स॒ आ व॒यं वज्रं॑ घ॒ना द॑दीमहि । जये॑म॒ सं यु॒धि स्पृधः॑ ॥
इंद्र॑ , त्वाऽऊ॑तासः , आ , व॒यं , वज्रं॑ , घ॒ना , द॒दी॒म॒हि॒ । जये॑म , सं , यु॒धि , स्पृधः॑ ॥
व॒यं शूरे॑भि॒रस्तृ॑भि॒रिंद्र॒ त्वया॑ यु॒जा व॒यं । सा॒स॒ह्याम॑ पृतन्य॒तः ॥
व॒यं , शूरे॑भिः , अस्तृ॑ऽभिः , इंद्र॑ , त्वया॑ , यु॒जा , व॒यं । सा॒स॒ह्याम॑ , पृ॒त॒न्य॒तः ॥
म॒हाँ इंद्रः॑ प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑ । द्यौर्न प्र॑थि॒ना शवः॑ ॥
म॒हान् , इंद्रः॑ , प॒रः , च॒ , नु , म॒हि॒ऽत्वं , अ॒स्तु॒ , व॒ज्रिणे॑ । द्यौः , न , प्र॒थि॒ना , शवः॑ ॥
स॒मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ । विप्रा॑सो वा धिया॒यवः॑ ॥
सं॒ऽओ॒हे , वा॒ , ये , आश॑त , नरः॑ , तो॒कस्य॑ , सनि॑तौ । विप्रा॑सः , वा॒ , धि॒या॒ऽयवः॑ ॥
यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते । उ॒र्वीरापो॒ न का॒कुदः॑ ॥
यः , कु॒क्षिः , सो॒म॒ऽपात॑मः , स॒मु॒द्रःऽइ॑व , पिन्व॑ते । उ॒र्वीः , आपः॑ , न , का॒कुदः॑ ॥
ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही । प॒क्वा शाखा॒ न दा॒शुषे॑ ॥
ए॒व , हि , अ॒स्य॒ , सू॒नृता॑ , वि॒ऽर॒प्शी , गोऽम॑ती , म॒ही । प॒क्वा , शाखा॑ , न , दा॒शुषे॑ ॥
ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इंद्र॒ माव॑ते । स॒द्यश्चि॒त्संति॑ दा॒शुषे॑ ॥
ए॒व , हि , ते॒ , विऽभू॑तयः , ऊ॒तयः॑ , इं॒द्र॒ , माऽव॑ते । स॒द्यः , चि॒त् , संति॑ , दा॒शुषे॑ ॥
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑ । इंद्रा॑य॒ सोम॑पीतये ॥
ए॒व , हि , अ॒स्य॒ , काम्या॑ , स्तोमः॑ , उ॒क्थं , च॒ , शंस्या॑ । इंद्रा॑य , सोम॑ऽपीतये ॥
[९] इंद्रेहीति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोगायत्री |
इंद्रेहि॒ मत्स्यंध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः । म॒हाँ अ॑भि॒ष्टिरोज॑सा ॥
इंद्र॑ , आ , इ॒हि॒ , मत्सि॑ , अंध॑सः , विश्वे॑भिः , सो॒म॒पर्व॑ऽभिः । म॒हान् , अ॒भि॒ष्टिः , ओज॑सा ॥
एमे॑नं सृजता सु॒ते मं॒दिमिंद्रा॑य मं॒दिने॑ । चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥
आ , ईं॒ , ए॒नं॒ , सृ॒ज॒त॒ , सु॒ते , मं॒दिं , इंद्रा॑य , मं॒दिने॑ । चक्रिं॑ , विश्वा॑नि , चक्र॑ये ॥
मत्स्वा॑ सुशिप्र मं॒दिभिः॒ स्तोमे॑भिर्विश्वचर्षणे । सचै॒षु सव॑ने॒ष्वा ॥
मत्स्व॑ , सु॒ऽशि॒प्र॒ , मं॒दिऽभिः॑ , स्तोमे॑भिः , वि॒श्व॒ऽच॒र्ष॒णे॒ । सचा॑ , ए॒षु , सव॑नेषु , आ ॥
असृ॑ग्रमिंद्र ते॒ गिरः॒ प्रति॒ त्वामुद॑हासत । अजो॑षा वृष॒भं पतिं॑ ॥
असृ॑ग्रं , इं॒द्र॒ , ते॒ , गिरः॑ , प्रति॑ , त्वां , उत् , अ॒हा॒स॒त॒ । अजो॑षाः , वृ॒ष॒भं , पतिं॑ ॥
सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इंद्र॒ वरे॑ण्यं । अस॒दित्ते॑ वि॒भु प्र॒भु ॥
सं , चो॒द॒य॒ , चि॒त्रं , अ॒र्वाक् , राधः॑ , इं॒द्र॒ , वरे॑ण्यं । अस॑त् , इत् , ते॒ , वि॒ऽभु , प्र॒ऽभु ॥
अ॒स्मांत्सु तत्र॑ चोद॒येंद्र॑ रा॒ये रभ॑स्वतः । तुवि॑द्युम्न॒ यश॑स्वतः ॥
अ॒स्मान् , सु , तत्र॑ , चो॒द॒य॒ , इंद्र॑ , रा॒ये , रभ॑स्वतः । तुवि॑ऽद्युम्न , यश॑स्वतः ॥
सं गोम॑दिंद्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत् । वि॒श्वायु॑र्धे॒ह्यक्षि॑तं ॥
सं , गोऽम॑त् , इं॒द्र॒ , वाज॑ऽवत् , अ॒स्मे इति॑ , पृ॒थु , श्रवः॑ , बृ॒हत् । वि॒श्वऽआ॑युः , धे॒हि॒ , अक्षि॑तं ॥
अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मं । इंद्र॒ ता र॒थिनी॒रिषः॑ ॥
अ॒स्मे इति॑ , धे॒हि॒ , श्रवः॑ , बृ॒हत् , द्यु॒म्नं , स॒ह॒स्र॒ऽसात॑मं । इंद्र॑ , ताः , र॒थिनीः॑ , इषः॑ ॥
वसो॒रिंद्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णंत॑ ऋ॒ग्मियं॑ । होम॒ गंता॑रमू॒तये॑ ॥
वसोः॑ , इंद्रं॑ , वसु॑ऽपतिं , गीः॒ऽभिः , गृ॒णंतः॑ , ऋ॒ग्मियं॑ । होम॑ , गंता॑रं , ऊ॒तये॑ ॥
सु॒तेसु॑ते॒ न्यो॑कसे बृ॒हद्बृ॑ह॒त एद॒रिः । इंद्रा॑य शू॒षम॑र्चति ॥
सु॒तेऽसु॑ते , निऽओ॑कसे , बृ॒हत् , बृ॒ह॒ते , आ , इत् , अ॒रिः । इंद्रा॑य , शू॒षं , अ॒र्च॒ति॒ ॥
[१०] गायंतीति द्वादशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाइंद्रोनुष्टुप् |
गायं॑ति त्वा गाय॒त्रिणोऽर्चं॑त्य॒र्कम॒र्किणः॑ । ब्र॒ह्माण॑स्त्वा शतक्रत॒ उद्वं॒शमि॑व येमिरे ॥
गायं॑ति , त्वा॒ , गा॒य॒त्रिणः॑ , अर्चं॑ति , अ॒र्कं , अ॒र्किणः॑ । ब्र॒ह्माणः॑ , त्वा॒ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , उत् , वं॒शंऽइ॑व , ये॒मि॒रे॒ ॥
यत्सानोः॒ सानु॒मारु॑ह॒द्भूर्यस्प॑ष्ट॒ कर्त्वं॑ । तदिंद्रो॒ अर्थं॑ चेतति यू॒थेन॑ वृ॒ष्णिरे॑जति ॥
यत् , सानोः॑ , सानुं॑ , आ , अरु॑हत् , भूरि॑ , अस्प॑ष्ट , कर्त्वं॑ । तत् , इंद्रः॑ , अर्थं॑ , चे॒त॒ति॒ , यू॒थेन॑ , वृ॒ष्णिः , ए॒ज॒ति॒ ॥
यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा । अथा॑ न इंद्र सोमपा गि॒रामुप॑श्रुतिं चर ॥
यु॒क्ष्व , हि , के॒शिना॑ , हरी॒ इति॑ , वृष॑णा , क॒क्ष्य॒ऽप्रा । अथ॑ , नः॒ , इं॒द्र॒ , सो॒म॒ऽपाः॒ , गि॒रां , उप॑ऽश्रुतिं , च॒र॒ ॥
एहि॒ स्तोमाँ॑ अ॒भि स्व॑रा॒भि गृ॑णी॒ह्या रु॑व । ब्रह्म॑ च नो वसो॒ सचेंद्र॑ य॒ज्ञं च॑ वर्धय ॥
आ , इ॒हि॒ , स्तोमा॑न् , अ॒भि , स्व॒र॒ , अ॒भि , गृ॒णी॒हि॒ , आ , रु॒व॒ । ब्रह्म॑ , च॒ , नः॒ , व॒सो॒ इति॑ , सचा॑ , इंद्र॑ , य॒ज्ञं , च॒ , व॒र्ध॒य॒ ॥
उ॒क्थमिंद्रा॑य॒ शंस्यं॒ वर्ध॑नं पुरुनि॒ष्षिधे॑ । श॒क्रो यथा॑ सु॒तेषु॑ णो रा॒रण॑त्स॒ख्येषु॑ च ॥
उ॒क्थं , इंद्रा॑य , शंस्यं॑ , वर्ध॑नं , पु॒रु॒निः॒ऽसिधे॑ । श॒क्रः , यथा॑ , सु॒तेषु॑ , नः॒ , र॒रण॑त् , स॒ख्येषु॑ , च॒ ॥
तमित्स॑खि॒त्व ई॑महे॒ तं रा॒ये तं सु॒वीर्ये॑ । स श॒क्र उ॒त नः॑ शक॒दिंद्रो॒ वसु॒ दय॑मानः ॥
तं , इत् , स॒खि॒ऽत्वे , ई॒म॒हे॒ , तं , रा॒ये , तं , सु॒ऽवीर्ये॑ । सः , श॒क्रः , उ॒त , नः॒ , श॒क॒त् , इंद्रः॑ , वसु॑ , दय॑मानः ॥
सु॒वि॒वृतं॑ सुनि॒रज॒मिंद्र॒ त्वादा॑त॒मिद्यशः॑ । गवा॒मप॑ व्र॒जं वृ॑धि कृणु॒ष्व राधो॑ अद्रिवः ॥
सु॒ऽवि॒वृतं॑ , सु॒निः॒ऽअजं॑ , इंद्र॑ , त्वाऽदा॑तं , इत् , यशः॑ । गवां॑ , अप॑ , व्र॒जं , वृ॒धि॒ , कृ॒णु॒ष्व , राधः॑ , अ॒द्रि॒ऽवः॒ ॥
न॒हि त्वा॒ रोद॑सी उ॒भे ऋ॑घा॒यमा॑ण॒मिन्व॑तः । जेषः॒ स्व॑र्वतीर॒पः सं गा अ॒स्मभ्यं॑ धूनुहि ॥
न॒हि , त्वा॒ , रोद॑सी॒ इति॑ , उ॒भे इति॑ , ऋ॒घा॒यमा॑णं , इन्व॑तः । जेषः॑ , स्वः॑ऽवतीः , अ॒पः , सं , गाः , अ॒स्मभ्यं॑ , धू॒नु॒हि॒ ॥
आश्रु॑त्कर्ण श्रु॒धी हवं॒ नू चि॑द्दधिष्व मे॒ गिरः॑ । इंद्र॒ स्तोम॑मि॒मं मम॑ कृ॒ष्वा यु॒जश्चि॒दंत॑रं ॥
आश्रु॑त्ऽकर्ण , श्रु॒धि , हवं॑ , नू , चि॒त् , द॒धि॒ष्व॒ , मे॒ , गिरः॑ । इंद्र॑ , स्तोमं॑ , इ॒मं , मम॑ , कृ॒ष्व , यु॒जः , चि॒त् , अंत॑रं ॥
वि॒द्मा हि त्वा॒ वृषं॑तमं॒ वाजे॑षु हवन॒श्रुतं॑ । वृषं॑तमस्य हूमह ऊ॒तिं स॑हस्र॒सात॑मां ॥
वि॒द्म , हि , त्वा॒ , वृष॑न्ऽतमं , वाजे॑षु , ह॒व॒न॒ऽश्रुतं॑ । वृष॑न्ऽतमस्य , हू॒म॒हे॒ , ऊ॒तिं , स॒ह॒स्र॒ऽसात॑मां ॥
आ तू न॑ इंद्र कौशिक मंदसा॒नः सु॒तं पि॑ब । नव्य॒मायुः॒ प्र सू ति॑र कृ॒धी स॑हस्र॒सामृषिं॑ ॥
आ , तु , नः॒ , इं॒द्र॒ , कौ॒शि॒क॒ , मं॒द॒सा॒नः , सु॒तं , पि॒ब॒ । नव्यं॑ , आयुः॑ , प्र , सु , ति॒र॒ , कृ॒धि , स॒ह॒स्र॒ऽसां , ऋषिं॑ ॥
परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वंतु वि॒श्वतः॑ । वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवंतु॒ जुष्ट॑यः ॥
परि॑ , त्वा॒ , गि॒र्व॒णः॒ , गिरः॑ , इ॒माः , भ॒वं॒तु॒ , वि॒श्वतः॑ । वृ॒द्धऽआ॑युं , अनु॑ , वृद्ध॑यः , जुष्टाः॑ , भ॒वं॒तु॒ , जुष्ट॑यः ॥
[११] इंद्रंविश्वाइत्यष्टर्चस्य सूक्तस्य जेतामाधुच्छंदसइंद्रोनुष्टुप् |
इंद्रं॒ विश्वा॑ अवीवृधंत्समु॒द्रव्य॑चसं॒ गिरः॑ । र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पतिं॑ ॥
इंद्रं॑ , विश्वाः॑ , अ॒वी॒वृ॒ध॒न् , स॒मु॒द्रऽव्य॑चसं , गिरः॑ । र॒थिऽत॑मं , र॒थिनां॑ , वाजा॑नां , सत्ऽप॑तिं , पतिं॑ ॥
स॒ख्ये त॑ इंद्र वा॒जिनो॒ मा भे॑म शवसस्पते । त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑राजितं ॥
स॒ख्ये , ते॒ , इं॒द्र॒ , वा॒जिनः॑ , मा , भे॒म॒ , श॒व॒सः॒ , प॒ते॒ । त्वां , अ॒भि , प्र , नो॒नु॒मः॒ , जेता॑रं , अप॑राऽजितं ॥
पू॒र्वीरिंद्र॑स्य रा॒तयो॒ न वि द॑स्यंत्यू॒तयः॑ । यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घं ॥
पू॒र्वीः , इंद्र॑स्य , रा॒तयः॑ , न , वि , द॒स्यं॒ति॒ , ऊ॒तयः॑ । यदि॑ , वाज॑स्य , गोऽम॑तः , स्तो॒तृऽभ्यः॑ , मंह॑ते , म॒घं ॥
पु॒रां भिं॒दुर्युवा॑ क॒विरमि॑तौजा अजायत । इंद्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥
पु॒रां , भिं॒दुः , युवा॑ , क॒विः , अमि॑तऽओजाः , अ॒जा॒य॒त॒ । इंद्रः॑ , विश्व॑स्य , कर्म॑णः , ध॒र्ता , व॒ज्री , पु॒रु॒ऽस्तु॒तः ॥
त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिलं॑ । त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः ॥
त्वं , व॒लस्य॑ , गोऽम॑तः , अप॑ , अ॒वः॒ , अ॒द्रि॒ऽवः॒ , बिलं॑ । त्वां , दे॒वाः , अबि॑भ्युषः , तु॒ज्यमा॑नासः , आ॒वि॒षुः॒ ॥
तवा॒हं शू॑र रा॒तिभिः॒ प्रत्या॑यं॒ सिंधु॑मा॒वद॑न् । उपा॑तिष्ठंत गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रवः॑ ॥
तव॑ , अ॒हं , शू॒र॒ , रा॒तिऽभिः॑ , प्रति॑ , आ॒यं॒ , सिंधुं॑ , आ॒ऽवद॑न् । उप॑ , अ॒ति॒ष्ठं॒त॒ , गि॒र्व॒णः॒ , वि॒दुः , ते॒ , तस्य॑ , का॒रवः॑ ॥
मा॒याभि॑रिंद्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः । वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र ॥
मा॒याभिः॑ , इं॒द्र॒ , मा॒यिनं॑ , त्वं , शुष्णं॑ , अव॑ , अ॒ति॒रः॒ । वि॒दुः , ते॒ , तस्य॑ , मेधि॑राः , तेषां॑ , श्रवां॑सि , उत् , ति॒र॒ ॥
इंद्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत । स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ संति॒ भूय॑सीः ॥
इंद्रं॑ , ईशा॑नं , ओज॑सा , अ॒भि , स्तोमाः॑ , अ॒नू॒ष॒त॒ । स॒हस्रं॑ , यस्य॑ , रा॒तयः॑ , उ॒त , वा॒ , संति॑ , भूय॑सीः ॥
[१२] अग्निंदूतमिति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिरग्निर्गायत्री अग्निनाग्निरित्यस्य निर्मथ्याहवनीयावनीदेवते |
अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसं । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतुं॑ ॥
अ॒ग्निं , दू॒तं , वृ॒णी॒म॒हे॒ , होता॑रं , वि॒श्वऽवे॑दसं । अ॒स्य , य॒ज्ञस्य॑ , सु॒ऽक्रतुं॑ ॥
अ॒ग्निम॑ग्निं॒ हवी॑मभिः॒ सदा॑ हवंत वि॒श्पतिं॑ । ह॒व्य॒वाहं॑ पुरुप्रि॒यं ॥
अ॒ग्निंऽअ॑ग्निं , हवी॑मऽभिः , सदा॑ , ह॒वं॒त॒ , वि॒श्पतिं॑ । ह॒व्य॒ऽवाहं॑ , पु॒रु॒ऽप्रि॒यं ॥
अग्ने॑ दे॒वाँ इ॒हा व॑ह जज्ञा॒नो वृ॒क्तब॑र्हिषे । असि॒ होता॑ न॒ ईड्यः॑ ॥
अग्ने॑ , दे॒वान् , इ॒ह , आ , व॒ह॒ , ज॒ज्ञा॒नः , वृ॒क्तऽब॑र्हिषे । असि॑ , होता॑ , नः॒ , ईड्यः॑ ॥
ताँ उ॑श॒तो वि बो॑धय॒ यद॑ग्ने॒ यासि॑ दू॒त्यं॑ । दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥
तान् , उ॒श॒तः , वि , बो॒ध॒य॒ , यत् , अ॒ग्ने॒ , यासि॑ , दू॒त्यं॑ । दे॒वैः , आ , स॒त्सि॒ , ब॒र्हिषि॑ ॥
घृता॑हवन दीदिवः॒ प्रति॑ ष्म॒ रिष॑तो दह । अग्ने॒ त्वं र॑क्ष॒स्विनः॑ ॥
घृत॑ऽआहवन , दी॒दि॒ऽवः॒ , प्रति॑ , स्म॒ , रिष॑तः , द॒ह॒ । अग्ने॑ , त्वं , र॒क्ष॒स्विनः॑ ॥
अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑ । ह॒व्य॒वाड्जु॒ह्वा॑स्यः ॥
अ॒ग्निना॑ , अ॒ग्निः , सं , इ॒ध्य॒ते॒ , क॒विः , गृ॒हऽप॑तिः , युवा॑ । ह॒व्य॒ऽवाट् , जु॒हुऽआ॑स्यः ॥
क॒विम॒ग्निमुप॑ स्तुहि स॒त्यध॑र्माणमध्व॒रे । दे॒वम॑मीव॒चात॑नं ॥
क॒विं , अ॒ग्निं , उप॑ , स्तु॒हि॒ , स॒त्यऽध॑र्माणं , अ॒ध्व॒रे । दे॒वं , अ॒मी॒व॒ऽचात॑नं ॥
यस्त्वाम॑ग्ने ह॒विष्प॑तिर्दू॒तं दे॑व सप॒र्यति॑ । तस्य॑ स्म प्रावि॒ता भ॑व ॥
यः , त्वां , अ॒ग्ने॒ , ह॒विःऽप॑तिः , दू॒तं , दे॒व॒ , स॒प॒र्यति॑ । तस्य॑ , स्म॒ , प्र॒ऽअ॒वि॒ता , भ॒व॒ ॥
यो अ॒ग्निं दे॒ववी॑तये ह॒विष्माँ॑ आ॒विवा॑सति । तस्मै॑ पावक मृळय ॥
यः , अ॒ग्निं , दे॒वऽवी॑तये , ह॒विष्मा॑न् , आ॒ऽविवा॑सति । तस्मै॑ , पा॒व॒क॒ , मृ॒ळ॒य॒ ॥
स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हा व॑ह । उप॑ य॒ज्ञं ह॒विश्च॑ नः ॥
सः , नः॒ , पा॒व॒क॒ , दी॒दि॒ऽवः॒ , अग्ने॑ , दे॒वान् , इ॒ह , आ , व॒ह॒ । उप॑ , य॒ज्ञं , ह॒विः , च॒ , नः॒ ॥
स नः॒ स्तवा॑न॒ आ भ॑र गाय॒त्रेण॒ नवी॑यसा । र॒यिं वी॒रव॑ती॒मिषं॑ ॥
सः , नः॒ , स्तवा॑नः , आ , भ॒र॒ , गा॒य॒त्रेण॑ , नवी॑यसा । र॒यिं , वी॒रऽव॑तीं , इषं॑ ॥
अग्ने॑ शु॒क्रेण॑ शो॒चिषा॒ विश्वा॑भिर्दे॒वहू॑तिभिः । इ॒मं स्तोमं॑ जुषस्व नः ॥
अग्ने॑ , शु॒क्रेण॑ , शो॒चिषा॑ , विश्वा॑भिः , दे॒वहू॑तिऽभिः । इ॒मं , स्तोमं॑ , जु॒ष॒स्व॒ , नः॒ ॥
[१३] सुसमिद्धइति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिः प्रथमायाइध्मः (समिद्धोग्निर्वा) द्वितीयायास्तनूनपात् तृतीयायानराशंसः चतुर्थ्याइळः पंचम्याबर्हिः षष्ट्यादेव्योद्वारः सप्तम्याउषासानक्ता अष्टम्यादैव्यौहोतारौ (प्रचेतसावितिगुणः) नवम्याःसरस्वतीळाभारत्यः दशम्यास्त्वष्टा एकादश्यावनस्पतिः द्वादश्याःस्वाहाकृतयोदेवताः गायत्री छंदः (एतदाप्रीसूक्तं) |
सुस॑मिद्धो न॒ आ व॑ह दे॒वाँ अ॑ग्ने ह॒विष्म॑ते । होतः॑ पावक॒ यक्षि॑ च ॥
सुऽस॑मिद्धः , नः॒ , आ , व॒ह॒ , दे॒वान् , अ॒ग्ने॒ , ह॒विष्म॑ते । होत॒रिति॑ , पा॒व॒क॒ , यक्षि॑ , च॒ ॥
मधु॑मंतं तनूनपाद्य॒ज्ञं दे॒वेषु॑ नः कवे । अ॒द्या कृ॑णुहि वी॒तये॑ ॥
मधु॑ऽमंतं , त॒नू॒ऽन॒पा॒त् , य॒ज्ञं , दे॒वेषु॑ , नः॒ , क॒वे॒ । अ॒द्य , कृ॒णु॒हि॒ , वी॒तये॑ ॥
नरा॒शंस॑मि॒ह प्रि॒यम॒स्मिन्य॒ज्ञ उप॑ ह्वये । मधु॑जिह्वं हवि॒ष्कृतं॑ ॥
नरा॒शंसं॑ , इ॒ह , प्रि॒यं , अ॒स्मिन् , य॒ज्ञे , उप॑ , ह्व॒ये॒ । मधु॑ऽजिह्वं , ह॒विः॒ऽकृतं॑ ॥
अग्ने॑ सु॒खत॑मे॒ रथे॑ दे॒वाँ ई॑ळि॒त आ व॑ह । असि॒ होता॒ मनु॑र्हितः ॥
अग्ने॑ , सु॒खऽत॑मे , रथे॑ , दे॒वान् , इ॒ळि॒तः , आ , व॒ह॒ । असि॑ , होता॑ , मनुः॑ऽहितः ॥
स्तृ॒णी॒त ब॒र्हिरा॑नु॒षग्घृ॒तपृ॑ष्ठं मनीषिणः । यत्रा॒मृत॑स्य॒ चक्ष॑णं ॥
स्तृ॒णी॒त , ब॒र्हिः , आ॒नु॒षक् , घृ॒तऽपृ॑ष्ठं , म॒नी॒षि॒णः॒ । यत्र॑ , अ॒मृत॑स्य , चक्ष॑णं ॥
वि श्र॑यंतामृता॒वृधो॒ द्वारो॑ दे॒वीर॑स॒श्चतः॑ । अ॒द्या नू॒नं च॒ यष्ट॑वे ॥
वि , श्र॒यं॒तां॒ , ऋ॒त॒ऽवृधः॑ , द्वारः॑ , दे॒वीः , अ॒स॒श्चतः॑ । अ॒द्य , नू॒नं , च॒ , यष्ट॑वे ॥
नक्तो॒षासा॑ सु॒पेश॑सा॒स्मिन्य॒ज्ञ उप॑ ह्वये । इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥
नक्तो॒षसा॑ , सु॒ऽपेश॑सा , अ॒स्मिन् , य॒ज्ञे , उप॑ , ह्व॒ये॒ । इ॒दं , नः॒ , ब॒र्हिः , आ॒ऽसदे॑ ॥
ता सु॑जि॒ह्वा उप॑ ह्वये॒ होता॑रा॒ दैव्या॑ क॒वी । य॒ज्ञं नो॑ यक्षतामि॒मं ॥
ता , सु॒ऽजि॒ह्वौ , उप॑ , ह्व॒ये॒ , होता॑रा , दैव्या॑ , क॒वी इति॑ । य॒ज्ञं , नः॒ , य॒क्ष॒तां॒ , इ॒मं ॥
इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ । ब॒र्हिः सी॑दंत्व॒स्रिधः॑ ॥
इळा॑ , सर॑स्वती , म॒ही , ति॒स्रः , दे॒वीः , म॒यः॒ऽभुवः॑ । ब॒र्हिः , सी॒दं॒तु॒ , अ॒स्रिधः॑ ॥
इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्वये । अ॒स्माक॑मस्तु॒ केव॑लः ॥
इ॒ह , त्वष्टा॑रं , अ॒ग्रि॒यं , वि॒श्वऽरू॑पं , उप॑ , ह्व॒ये॒ । अ॒स्माकं॑ , अ॒स्तु॒ , केव॑लः ॥
अव॑ सृजा वनस्पते॒ देव॑ दे॒वेभ्यो॑ ह॒विः । प्र दा॒तुर॑स्तु॒ चेत॑नं ॥
अव॑ , सृ॒ज॒ , व॒न॒स्प॒ते॒ , देव॑ , दे॒वेभ्यः॑ , ह॒विः । प्र , दा॒तुः , अ॒स्तु॒ , चेत॑नं ॥
स्वाहा॑ य॒ज्ञं कृ॑णोत॒नेंद्रा॑य॒ यज्व॑नो गृ॒हे । तत्र॑ दे॒वाँ उप॑ ह्वये ॥
स्वाहा॑ , य॒ज्ञं , कृ॒णो॒त॒न॒ , इंद्रा॑य , यज्व॑नः , गृ॒हे । तत्र॑ , दे॒वान् , उप॑ , ह्व॒ये॒ ॥
[१४] ऐभिरग्नइति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिर्विश्वेदेवागायत्री | (वैश्वदेवत्वंसूक्तभेदप्रयोगेयल्लिंगंसादेवतेतिपक्षेआद्ययोर्द्वयोरग्निः तृतीयायाविश्वेदेवाः ततोनवानामग्निः एवंद्वादशर्च) |
ऐभि॑रग्ने॒ दुवो॒ गिरो॒ विश्वे॑भिः॒ सोम॑पीतये । दे॒वेभि॑र्याहि॒ यक्षि॑ च ॥
आ , ए॒भिः॒ , अ॒ग्ने॒ , दुवः॑ , गिरः॑ , विश्वे॑भिः , सोम॑ऽपीतये । दे॒वेभिः॑ , या॒हि॒ , यक्षि॑ , च॒ ॥
आ त्वा॒ कण्वा॑ अहूषत गृ॒णंति॑ विप्र ते॒ धियः॑ । दे॒वेभि॑रग्न॒ आ ग॑हि ॥
आ , त्वा॒ , कण्वाः॑ , अ॒हू॒ष॒त॒ , गृ॒णंति॑ , वि॒प्र॒ , ते॒ , धियः॑ । दे॒वेभिः॑ , अ॒ग्ने॒ , आ , ग॒हि॒ ॥
इं॒द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं॒ भगं॑ । आ॒दि॒त्यान्मारु॑तं ग॒णं ॥
इं॒द्र॒वा॒यू इति॑ , बृह॒स्पतिं॑ , मि॒त्रा , अ॒ग्निं , पू॒षणं॑ , भगं॑ । आ॒दि॒त्यान् , मारु॑तं , ग॒णं ॥
प्र वो॑ भ्रियंत॒ इंद॑वो मत्स॒रा मा॑दयि॒ष्णवः॑ । द्र॒प्सा मध्व॑श्चमू॒षदः॑ ॥
प्र , वः॒ , भ्रि॒यं॒ते॒ , इंद॑वः , म॒त्स॒राः , मा॒द॒यि॒ष्णवः॑ । द्र॒प्साः , मध्वः॑ , च॒मू॒ऽसदः॑ ॥
ईळ॑ते॒ त्वाम॑व॒स्यवः॒ कण्वा॑सो वृ॒क्तब॑र्हिषः । ह॒विष्मं॑तो अरं॒कृतः॑ ॥
ईळ॑ते , त्वां , अ॒व॒स्यवः॑ , कण्वा॑सः , वृ॒क्तऽब॑र्हिषः । ह॒विष्मं॑तः , अ॒रं॒ऽकृतः॑ ॥
घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वहं॑ति॒ वह्न॑यः । आ दे॒वांत्सोम॑पीतये ॥
घृ॒तऽपृ॑ष्ठाः , म॒नः॒ऽयुजः॑ , ये , त्वा॒ , वहं॑ति , वह्न॑यः । आ , दे॒वान् , सोम॑ऽपीतये ॥
तान्यज॑त्राँ ऋता॒वृधोऽग्ने॒ पत्नी॑वतस्कृधि । मध्वः॑ सुजिह्व पायय ॥
तान् , यज॑त्रान् , ऋ॒त॒ऽवृधः॑ , अग्ने॑ , पत्नी॑ऽवतः , कृ॒धि॒ । मध्वः॑ , सु॒ऽजि॒ह्व॒ , पा॒य॒य॒ ॥
ये यज॑त्रा॒ य ईड्या॒स्ते ते॑ पिबंतु जि॒ह्वया॑ । मधो॑रग्ने॒ वष॑ट्कृति ॥
ये , यज॑त्राः , ये , ईड्याः॑ , ते , ते॒ , पि॒बं॒तु॒ , जि॒ह्वया॑ । मधोः॑ , अ॒ग्ने॒ , वष॑ट्ऽकृति ॥
आकीं॒ सूर्य॑स्य रोच॒नाद्विश्वां॑दे॒वाँ उ॑ष॒र्बुधः॑ । विप्रो॒ होते॒ह व॑क्षति ॥
आकीं॑ , सूर्य॑स्य , रो॒च॒नात् , विश्वा॑न् , दे॒वान् , उ॒षः॒ऽबुधः॑ । विप्रः॑ , होता॑ , इ॒ह , व॒क्ष॒ति॒ ॥
विश्वे॑भिः सो॒म्यं मध्वग्न॒ इंद्रे॑ण वा॒युना॑ । पिबा॑ मि॒त्रस्य॒ धाम॑भिः ॥
विश्वे॑भिः , सो॒म्यं , मधु॑ , अग्ने॑ , इंद्रे॑ण , वा॒युना॑ । पिब॑ , मि॒त्रस्य॑ , धाम॑ऽभिः ॥
त्वं होता॒ मनु॑र्हि॒तोऽग्ने॑ य॒ज्ञेषु॑ सीदसि । सेमं नो॑ अध्व॒रं य॑ज ॥
त्वं , होता॑ , मनुः॑ऽहितः , अग्ने॑ , य॒ज्ञेषु॑ , सी॒द॒सि॒ । सः , इ॒मं , नः॒ , अ॒ध्व॒रं , य॒ज॒ ॥
यु॒क्ष्वा ह्यरु॑षी॒ रथे॑ ह॒रितो॑ देव रो॒हितः॑ । ताभि॑र्दे॒वाँ इ॒हा व॑ह ॥
यु॒क्ष्व , हि , अरु॑षीः , रथे॑ , ह॒रितः॑ , दे॒व॒ , रो॒हितः॑ । ताभिः॑ , दे॒वान् , इ॒ह , आ , व॒ह॒ ॥
[१५] इंद्रसोममिति द्वादशर्चस्य सूक्तस्य काण्वोमेधातिथिः आद्यानांषण्णांइंद्रोमरुतस्त्वष्टाग्निरिंद्रोमित्रावरुणौ ततश्चतसृणां द्रविणोदा अग्निः एकादश्याअश्विनौद्वादश्याअग्निर्गायत्री (ऋतुदेवताएताः) |
इंद्र॒ सोमं॒ पिब॑ ऋ॒तुना त्वा॑ विशं॒त्विंद॑वः । म॒त्स॒रास॒स्तदो॑कसः ॥
इंद्र॑ , सोमं॑ , पिब॑ , ऋ॒तुना॑ , आ , त्वा॒ , वि॒शं॒तु॒ , इंद॑वः । म॒त्स॒रासः॑ , तत्ऽओ॑कसः ॥
मरु॑तः॒ पिब॑त ऋ॒तुना॑ पो॒त्राद्य॒ज्ञं पु॑नीतन । यू॒यं हि ष्ठा सु॑दानवः ॥
मरु॑तः , पिब॑त , ऋ॒तुना॑ , पो॒त्रात् , य॒ज्ञं , पु॒नी॒त॒न॒ । यू॒यं , हि , स्थ , सु॒ऽदा॒न॒वः॒ ॥
अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्टः॒ पिब॑ ऋ॒तुना॑ । त्वं हि र॑त्न॒धा असि॑ ॥
अ॒भि , य॒ज्ञं , गृ॒णी॒हि॒ , नः॒ , ग्नावः॑ , नेष्ट॒रिति॑ , पिब॑ , ऋ॒तुना॑ । त्वं , हि , र॒त्न॒ऽधाः , असि॑ ॥
अग्ने॑ दे॒वाँ इ॒हा व॑ह सा॒दया॒ योनि॑षु त्रि॒षु । परि॑ भूष॒ पिब॑ ऋ॒तुना॑ ॥
अग्ने॑ , दे॒वान् , इ॒ह , आ , व॒ह॒ , सा॒दय॑ , योनि॑षु , त्रि॒षु । परि॑ , भू॒ष॒ , पिब॑ , ऋ॒तुना॑ ॥
ब्राह्म॑णादिंद्र॒ राध॑सः॒ पिबा॒ सोम॑मृ॒तूँरनु॑ । तवेद्धि स॒ख्यमस्तृ॑तं ॥
ब्राह्म॑णात् , इं॒द्र॒ , राध॑सः , पिब॑ , सोमं॑ , ऋ॒तून् , अनु॑ । तव॑ , इत् , हि , स॒ख्यं , अस्तृ॑तं ॥
यु॒वं दक्षं॑ धृतव्रत॒ मित्रा॑वरुण दू॒ळभं॑ । ऋ॒तुना॑ य॒ज्ञमा॑शाथे ॥
यु॒वं , दक्षं॑ , धृ॒त॒ऽव्र॒ता॒ , मित्रा॑वरुणा , दुः॒ऽदभं॑ । ऋ॒तुना॑ , य॒ज्ञं , आ॒शा॒थे॒ इति॑ ॥
द्र॒वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो अध्व॒रे । य॒ज्ञेषु॑ दे॒वमी॑ळते ॥
द्र॒वि॒णः॒ऽदाः , द्रवि॑णसः , ग्राव॑ऽहस्तासः , अ॒ध्व॒रे । य॒ज्ञेषु॑ , दे॒वं , ई॒ळ॒ते॒ ॥
द्र॒वि॒णो॒दा द॑दातु नो॒ वसू॑नि॒ यानि॑ शृण्वि॒रे । दे॒वेषु॒ ता व॑नामहे ॥
द्र॒वि॒णः॒ऽदाः , द॒दा॒तु॒ , नः॒ , वसू॑नि , यानि॑ , शृ॒ण्वि॒रे । दे॒वेषु॑ , ता , व॒ना॒म॒हे॒ ॥
द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत । ने॒ष्ट्रादृ॒तुभि॑रिष्यत ॥
द्र॒वि॒णः॒ऽदाः , पि॒पी॒ष॒ति॒ , जु॒होत॑ , प्र , च॒ , ति॒ष्ठ॒त॒ । ने॒ष्ट्रात् , ऋ॒तुऽभिः॑ , इ॒ष्य॒त॒ ॥
यत्त्वा॑ तु॒रीय॑मृ॒तुभि॒र्द्रवि॑णोदो॒ यजा॑महे । अध॑ स्मा नो द॒दिर्भ॑व ॥
यत् , त्वा॒ , तु॒रीयं॑ , ऋ॒तुऽभिः॑ , द्रवि॑णःऽदः , यजा॑महे । अध॑ , स्म॒ , नः॒ , द॒दिः , भ॒व॒ ॥
अश्वि॑ना॒ पिब॑तं॒ मधु॒ दीद्य॑ग्नी शुचिव्रता । ऋ॒तुना॑ यज्ञवाहसा ॥
अश्वि॑ना , पिब॑तं , मधु॑ , दीद्य॑ग्नी॒ इति॒ दीदि॑ऽअग्नी , शु॒चि॒ऽव्र॒ता॒ । ऋ॒तुना॑ , य॒ज्ञ॒ऽवा॒ह॒सा॒ ॥
गार्ह॑पत्येन संत्य ऋ॒तुना॑ यज्ञ॒नीर॑सि । दे॒वांदे॑वय॒ते य॑ज ॥
गार्ह॑ऽपत्येन , सं॒त्य॒ , ऋ॒तुना॑ , य॒ज्ञ॒ऽनीः , अ॒सि॒ । दे॒वान् , दे॒व॒ऽय॒ते , य॒ज॒ ॥
[१६] आत्वावहंत्विति नवर्चस्य सूक्तस्य काण्वोमेधातिथिरिंद्रोगायत्री |
आ त्वा॑ वहंतु॒ हर॑यो॒ वृष॑णं॒ सोम॑पीतये । इंद्र॑ त्वा॒ सूर॑चक्षसः ॥
आ , त्वा॒ , व॒हं॒तु॒ , हर॑यः , वृष॑णं , सोम॑ऽपीतये । इंद्र॑ , त्वा॒ , सूर॑ऽचक्षसः ॥
इ॒मा धा॒ना घृ॑त॒स्नुवो॒ हरी॑ इ॒होप॑ वक्षतः । इंद्रं॑ सु॒खत॑मे॒ रथे॑ ॥
इ॒माः , धा॒नाः , घृ॒त॒ऽस्नुवः॑ , हरी॒ इति॑ , इ॒ह , उप॑ , व॒क्ष॒तः॒ । इंद्रं॑ , सु॒खऽत॑मे , रथे॑ ॥
इंद्रं॑ प्रा॒तर्ह॑वामह॒ इंद्रं॑ प्रय॒त्य॑ध्व॒रे । इंद्रं॒ सोम॑स्य पी॒तये॑ ॥
इंद्रं॑ , प्रा॒तः , ह॒वा॒म॒हे॒ , इंद्रं॑ , प्र॒ऽय॒ति , अ॒ध्व॒रे । इंद्रं॑ , सोम॑स्य , पी॒तये॑ ॥
उप॑ नः सु॒तमा ग॑हि॒ हरि॑भिरिंद्र के॒शिभिः॑ । सु॒ते हि त्वा॒ हवा॑महे ॥
उप॑ , नः॒ , सु॒तं , आ , ग॒हि॒ , हरि॑ऽभिः , इं॒द्र॒ , के॒शिऽभिः॑ । सु॒ते , हि , त्वा॒ , हवा॑महे ॥
सेमं नः॒ स्तोम॒मा ग॒ह्युपे॒दं सव॑नं सु॒तं । गौ॒रो न तृ॑षि॒तः पि॑ब ॥
सः , इ॒मं , नः॒ , स्तोमं॑ , आ , ग॒हि॒ , उप॑ , इ॒दं , सव॑नं , सु॒तं । गौ॒रः , न , तृ॒षि॒तः , पि॒ब॒ ॥
इ॒मे सोमा॑स॒ इंद॑वः सु॒तासो॒ अधि॑ ब॒र्हिषि॑ । ताँ इं॑द्र॒ सह॑से पिब ॥
इ॒मे , सोमा॑सः , इंद॑वः , सु॒तासः॑ , अधि॑ , ब॒र्हिषि॑ । तान् , इं॒द्र॒ , सह॑से , पि॒ब॒ ॥
अ॒यं ते॒ स्तोमो॑ अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः । अथा॒ सोमं॑ सु॒तं पि॑ब ॥
अ॒यं , ते॒ , स्तोमः॑ , अ॒ग्रि॒यः , हृ॒दि॒ऽस्पृक् , अ॒स्तु॒ , शंऽत॑मः । अथ॑ , सोमं॑ , सु॒तं , पि॒ब॒ ॥
विश्व॒मित्सव॑नं सु॒तमिंद्रो॒ मदा॑य गच्छति । वृ॒त्र॒हा सोम॑पीतये ॥
विश्वं॑ , इत् , सव॑नं , सु॒तं , इंद्रः॑ , मदा॑य , ग॒च्छ॒ति॒ । वृ॒त्र॒ऽहा , सोम॑ऽपीतये ॥
सेमं नः॒ काम॒मा पृ॑ण॒ गोभि॒रश्वैः॑ शतक्रतो । स्तवा॑म त्वा स्वा॒ध्यः॑ ॥
सः , इ॒मं , नः॒ , कामं॑ , आ , पृ॒ण॒ , गोभिः॑ , अश्वैः॑ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । स्तवा॑म , त्वा॒ , सु॒ऽआ॒ध्यः॑ ॥
[१७] इंद्रावरुणयोरिति नवर्चस्य सूक्तस्य काण्वोमेधातिथिरिंद्रावरुणौगायत्री | युवाकुहिद्वृचौपादनिचूतौ (इंद्रः सहस्रेतिह्रसीयसी वा}
इंद्रा॒वरु॑णयोर॒हं स॒म्राजो॒रव॒ आ वृ॑णे । ता नो॑ मृळात ई॒दृशे॑ ॥
इंद्रा॒वरु॑णयोः , अ॒हं , सं॒ऽराजोः॑ , अवः॑ , आ , वृ॒णे॒ । ता , नः॒ , मृ॒ळा॒तः॒ , ई॒दृशे॑ ॥
गंता॑रा॒ हि स्थोऽव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः । ध॒र्तारा॑ चर्षणी॒नां ॥
गंता॑रा , हि , स्थः , अव॑से , हवं॑ , विप्र॑स्य , माव॑तः । ध॒र्तारा॑ , च॒र्ष॒णी॒नां ॥
अ॒नु॒का॒मं त॑र्पयेथा॒मिंद्रा॑वरुण रा॒य आ । ता वां॒ नेदि॑ष्ठमीमहे ॥
अ॒नु॒ऽका॒मं , त॒र्प॒ये॒थां॒ , इंद्रा॑वरुणा , रा॒यः , आ । ता , वां॒ , नेदि॑ष्ठं , ई॒म॒हे॒ ॥
यु॒वाकु॒ हि शची॑नां यु॒वाकु॑ सुमती॒नां । भू॒याम॑ वाज॒दाव्नां॑ ॥
यु॒वाकु॑ , हि , शची॑नां , यु॒वाकु॑ , सु॒ऽम॒ती॒नां । भू॒याम॑ , वा॒ज॒ऽदाव्नां॑ ॥
इंद्रः॑ सहस्र॒दाव्नां॒ वरु॑णः॒ शंस्या॑नां । क्रतु॑र्भवत्यु॒क्थ्यः॑ ॥
इंद्रः॑ , स॒ह॒स्र॒ऽदाव्नां॑ , वरु॑णः , शंस्या॑नां । क्रतुः॑ , भ॒व॒ति॒ , उ॒क्थ्यः॑ ॥
तयो॒रिदव॑सा व॒यं स॒नेम॒ नि च॑ धीमहि । स्यादु॒त प्र॒रेच॑नं ॥
तयोः॑ , इत् , अव॑सा , व॒यं , स॒नेम॑ , नि , च॒ , धी॒म॒हि॒ । स्यात् , उ॒त , प्र॒ऽरेच॑नं ॥
इंद्रा॑वरुण वाम॒हं हु॒वे चि॒त्राय॒ राध॑से । अ॒स्मांत्सु जि॒ग्युष॑स्कृतं ॥
इंद्रा॑वरुणा , वां॒ , अ॒हं , हु॒वे , चि॒त्राय॑ , राध॑से । अ॒स्मान् , सु , जि॒ग्युषः॑ , कृ॒तं॒ ॥
इंद्रा॑वरुण॒ नू नु वां॒ सिषा॑संतीषु धी॒ष्वा । अ॒स्मभ्यं॒ शर्म॑ यच्छतं ॥
इंद्रा॑वरुणा , नु , नु , वां॒ , सिसा॑संतीषु , धी॒षु , आ । अ॒स्मभ्यं॑ , शर्म॑ , य॒च्छ॒तं॒ ॥
प्र वा॑मश्नोतु सुष्टु॒तिरिंद्रा॑वरुण॒ यां हु॒वे । यामृ॒धाथे॑ स॒धस्तु॑तिं ॥
प्र , वां॒ , अ॒श्नो॒तु॒ , सु॒ऽस्तु॒तिः , इंद्रा॑वरुणा , यां , हु॒वे । यां , ऋ॒धाथे॒ इति॑ , स॒धऽस्तु॑तिं ॥
[१८] सोमानमिति नवर्चस्य सूक्तस्य काण्वो मेधातिथिः आद्यानांतिसृणांब्रह्मणस्पतिः चतुर्थ्याइंद्रसोमब्रह्मणस्पतयः पंचम्याइंद्र सोम ब्रह्मणस्पतयोदक्षिणाच ततश्चतसृणांसदसस्पतिः (अंत्यायानराशंसोवा) गायत्री |
सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीवं॑तं॒ य औ॑शि॒जः ॥
सो॒मानं॑ , स्वर॑णं , कृ॒णु॒हि , ब्र॒ह्म॒णः॒ , प॒ते॒ । क॒क्षीवं॑तं , यः , औ॒शि॒जः ॥
यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः । स नः॑ सिषक्तु॒ यस्तु॒रः ॥
यः , रे॒वान् , यः , अ॒मी॒व॒ऽहा , व॒सु॒ऽवित् , पु॒ष्टि॒ऽवर्ध॑नः । सः , नः॒ , सि॒स॒क्तु॒ , यः , तु॒रः ॥
मा नः॒ शंसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य । रक्षा॑ णो ब्रह्मणस्पते ॥
मा , नः॒ , शंसः॑ , अर॑रुषः , धू॒र्तिः , प्रण॑क् , मर्त्य॑स्य । रक्ष॑ , नः॒ , ब्र॒ह्म॒णः॒ , प॒ते॒ ॥
स घा॑ वी॒रो न रि॑ष्यति॒ यमिंद्रो॒ ब्रह्म॑ण॒स्पतिः॑ । सोमो॑ हि॒नोति॒ मर्त्यं॑ ॥
सः , घ॒ , वी॒रः , न , रि॒ष्य॒ति॒ , यं , इंद्रः॑ , ब्रह्म॑णः , पतिः॑ । सोमः॑ , हि॒नोति॑ , मर्त्यं॑ ॥
त्वं तं ब्र॑ह्मणस्पते॒ सोम॒ इंद्र॑श्च॒ मर्त्यं॑ । दक्षि॑णा पा॒त्वंह॑सः ॥
त्वं , तं , ब्र॒ह्म॒णः॒ , प॒ते॒ , सोमः॑ , इंद्रः॑ , च॒ , मर्त्यं॑ । दक्षि॑णा , पा॒तु॒ , अंह॑सः ॥
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिंद्र॑स्य॒ काम्यं॑ । स॒निं मे॒धाम॑यासिषं ॥
सद॑सः , पतिं॑ , अद्भु॑तं , प्रि॒यं , इंद्र॑स्य , काम्यं॑ । स॒निं , मे॒धां , अ॒या॒सि॒षं॒ ॥
यस्मा॑दृ॒ते न सिध्य॑ति य॒ज्ञो वि॑प॒श्चित॑श्च॒न । स धी॒नां योग॑मिन्वति ॥
यस्मा॑त् , ऋ॒ते , न , सिध्य॑ति , य॒ज्ञः , वि॒पः॒ऽचितः॑ , च॒न । सः , धी॒नां , योगं॑ , इ॒न्व॒ति॒ ॥
आदृ॑ध्नोति ह॒विष्कृ॑तिं॒ प्रांचं॑ कृणोत्यध्व॒रं । होत्रा॑ दे॒वेषु॑ गच्छति ॥
आत् , ऋ॒ध्नो॒ति॒ , ह॒विःऽकृ॑तिं , प्रांचं॑ , कृ॒णो॒ति॒ , अ॒ध्व॒रं । होत्रा॑ , दे॒वेषु॑ , ग॒च्छ॒ति॒ ॥
नरा॒शंसं॑ सु॒धृष्ट॑म॒मप॑श्यं स॒प्रथ॑स्तमं । दि॒वो न सद्म॑मखसं ॥
नरा॒शंसं॑ , सु॒ऽधृष्ट॑मं , अप॑श्यं , स॒प्रथः॑ऽतमं । दि॒वः , न , सद्म॑ऽमखसं ॥
[१९] प्रतित्यमिति नवर्चस्य सूक्तस्य काण्वोमेधातिथिरग्नामरुतोगायत्री |
प्रति॒ त्यं चारु॑मध्व॒रं गो॑पी॒थाय॒ प्र हू॑यसे । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
प्रति॑ , त्यं , चारुं॑ , अ॒ध्व॒रं , गो॒ऽपी॒थाय॑ , प्र , हू॒य॒से॒ । म॒रुत्ऽभिः॑ , अ॒ग्ने॒ , आ , ग॒हि॒ ॥
न॒हि दे॒वो न मर्त्यो॑ म॒हस्तव॒ क्रतुं॑ प॒रः । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
न॒हि , दे॒वः , न , मर्त्यः॑ , म॒हः , तव॑ , क्रतुं॑ , प॒रः । म॒रुत्ऽभिः॑ , अ॒ग्ने॒ , आ , ग॒हि॒ ॥
ये म॒हो रज॑सो वि॒दुर्विश्वे॑ दे॒वासो॑ अ॒द्रुहः॑ । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
ये , म॒हः , रज॑सः , वि॒दुः , विश्वे॑ , दे॒वासः॑ , अ॒द्रुहः॑ । म॒रुत्ऽभिः॑ , अ॒ग्ने॒ , आ , ग॒हि॒ ॥
य उ॒ग्रा अ॒र्कमा॑नृ॒चुरना॑धृष्टास॒ ओज॑सा । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
ये , उ॒ग्राः , अ॒र्कं , आ॒नृ॒चुः , अना॑धृष्टासः , ओज॑सा । म॒रुत्ऽभिः॑ , अ॒ग्ने॒ , आ , ग॒हि॒ ॥
ये शु॒भ्रा घो॒रव॑र्पसः सुक्ष॒त्रासो॑ रि॒शाद॑सः । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
ये , शु॒भ्राः , घो॒रऽव॑र्पसः , सु॒ऽक्ष॒त्रासः॑ , रि॒शाद॑सः । म॒रुत्ऽभिः॑ , अ॒ग्ने॒ , आ , ग॒हि॒ ॥
ये नाक॒स्याधि॑ रोच॒ने दि॒वि दे॒वास॒ आस॑ते । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
ये , नाक॑स्य , अधि॑ , रो॒च॒ने , दि॒वि , दे॒वासः॑ , आस॑ते । म॒रुत्ऽभिः॑ , अ॒ग्ने॒ , आ , ग॒हि॒ ॥
य ईं॒खयं॑ति॒ पर्व॑तांति॒रः स॑मु॒द्रम॑र्ण॒वं । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
ये , ईं॒खयं॑ति , पर्व॑तान् , ति॒रः , स॒मु॒द्रं , अ॒र्ण॒वं । म॒रुत्ऽभिः॑ , अ॒ग्ने॒ , आ , ग॒हि॒ ॥
आ ये त॒न्वंति॑ र॒श्मिभि॑स्ति॒रः स॑मु॒द्रमोज॑सा । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
आ , ये , त॒न्वंति॑ , र॒श्मिऽभिः॑ , ति॒रः , स॒मु॒द्रं , ओज॑सा । म॒रुत्ऽभिः॑ , अ॒ग्ने॒ , आ , ग॒हि॒ ॥
अ॒भि त्वा॑ पू॒र्वपी॑तये सृ॒जामि॑ सो॒म्यं मधु॑ । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
अ॒भि , त्वा॒ , पू॒र्वऽपी॑तये , सृ॒जामि॑ , सो॒म्यं , मधु॑ । म॒रुत्ऽभिः॑ , अ॒ग्ने॒ , आ , ग॒हि॒ ॥
[२०] अयंदेवायेत्यष्टर्चस्य सूक्तस्य काण्वो मेधातिथिरृभवो गायत्री |
अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या । अका॑रि रत्न॒धात॑मः ॥
अ॒यं , दे॒वाय॑ , जन्म॑ने , स्तोमः॑ , विप्रे॑भिः , आ॒स॒या । अका॑रि , र॒त्न॒ऽधात॑मः ॥
य इंद्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ । शमी॑भिर्य॒ज्ञमा॑शत ॥
ये , इंद्रा॑य , व॒चः॒ऽयुजा॑ , त॒त॒क्षुः , मन॑सा , हरी॒ इति॑ । शमी॑भिः , य॒ज्ञं , आ॒श॒त॒ ॥
तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथं॑ । तक्षं॑धे॒नुं स॑ब॒र्दुघां॑ ॥
तक्ष॑न् , नास॑त्याभ्यां , परि॑ऽज्मानं , सु॒ऽखं , रथं॑ । तक्ष॑न् , धे॒नुं , स॒बः॒ऽदुघां॑ ॥
युवा॑ना पि॒तरा॒ पुनः॑ स॒त्यमं॑त्रा ऋजू॒यवः॑ । ऋ॒भवो॑ वि॒ष्ट्य॑क्रत ॥
युवा॑ना , पि॒तरा॑ , पुन॒रिति॑ , स॒त्यऽमं॑त्राः , ऋ॒जु॒ऽयवः॑ । ऋ॒भवः॑ , वि॒ष्टी , अ॒क्र॒त॒ ॥
सं वो॒ मदा॑सो अग्म॒तेंद्रे॑ण च म॒रुत्व॑ता । आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥
सं , वः॒ , मदा॑सः , अ॒ग्म॒त॒ , इंद्रे॑ण , च॒ , म॒रुत्व॑ता । आ॒दि॒त्येभिः॑ , च॒ , राज॑ऽभिः ॥
उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तं । अक॑र्त च॒तुरः॒ पुनः॑ ॥
उ॒त , त्यं , च॒म॒सं , नवं॑ , त्वष्टुः॑ , दे॒वस्य॑ , निःऽकृ॑तं । अक॑र्त , च॒तुरः॑ , पुन॒रिति॑ ॥
ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते । एक॑मेकं सुश॒स्तिभिः॑ ॥
ते , नः॒ , रत्ना॑नि , ध॒त्त॒न॒ , त्रिः , आ , साप्ता॑नि , सु॒न्व॒ते । एकं॑ऽएकं , सु॒श॒स्तिऽभिः॑ ॥
अधा॑रयंत॒ वह्न॒योऽभ॑जंत सुकृ॒त्यया॑ । भा॒गं दे॒वेषु॑ य॒ज्ञियं॑ ॥
अधा॑रयंत , वह्न॑यः , अभ॑जंत , सु॒ऽकृ॒त्यया॑ । भा॒गं , दे॒वेषु॑ , य॒ज्ञियं॑ ॥
[२१] इहेंद्राग्नीइति षळर्चस्य सूक्तस्य काण्वोमेधातिथिरिंद्राग्नीगायत्री |
इ॒हेंद्रा॒ग्नी उप॑ ह्वये॒ तयो॒रित्स्तोम॑मुश्मसि । ता सोमं॑ सोम॒पात॑मा ॥
इ॒ह , इं॒द्रा॒ग्नी इति॑ , उप॑ , ह्व॒ये॒ , तयोः॑ , इत् , स्तोमं॑ , उ॒श्म॒सि॒ । ता , सोमं॑ , सो॒म॒ऽपात॑मा ॥
ता य॒ज्ञेषु॒ प्र शं॑सतेंद्रा॒ग्नी शुं॑भता नरः । ता गा॑य॒त्रेषु॑ गायत ॥
ता , य॒ज्ञेषु॑ , प्र , शं॒स॒त॒ , इं॒द्रा॒ग्नी इति॑ , शुं॒भ॒त॒ , न॒रः॒ । ता , गा॒य॒त्रेषु॑ , गा॒य॒त॒ ॥
ता मि॒त्रस्य॒ प्रश॑स्तय इंद्रा॒ग्नी ता ह॑वामहे । सो॒म॒पा सोम॑पीतये ॥
ता , मि॒त्रस्य॑ , प्रऽश॑स्तये , इं॒द्रा॒ग्नी इति॑ , ता , ह॒वा॒म॒हे॒ । सो॒म॒ऽपा , सोम॑ऽपीतये ॥
उ॒ग्रा संता॑ हवामह॒ उपे॒दं सव॑नं सु॒तं । इं॒द्रा॒ग्नी एह ग॑च्छतां ॥
उ॒ग्रा , संता॑ , ह॒वा॒म॒हे॒ , उप॑ , इ॒दं , सव॑नं , सु॒तं । इं॒द्रा॒ग्नी इति॑ , आ , इ॒ह , ग॒च्छ॒तां॒ ॥
ता म॒हांता॒ सद॒स्पती॒ इंद्रा॑ग्नी॒ रक्ष॑ उब्जतं । अप्र॑जाः संत्व॒त्रिणः॑ ॥
ता , म॒हांता॑ , सद॒स्पती॒ इति॑ , इंद्रा॑ग्नी॒ इति॑ , रक्षः॑ , उ॒ब्ज॒तं॒ । अप्र॑जाः , सं॒तु॒ , अ॒त्रिणः॑ ॥
तेन॑ स॒त्येन॑ जागृत॒मधि॑ प्रचे॒तुने॑ प॒दे । इंद्रा॑ग्नी॒ शर्म॑ यच्छतं ॥
तेन॑ , स॒त्येन॑ , जा॒गृ॒तं॒ , अधि॑ , प्र॒ऽचे॒तुने॑ , प॒दे । इंद्रा॑ग्नी॒ इति॑ , शर्म॑ , य॒च्छ॒तं॒ ॥
[२२] प्रातर्युजेत्येकविंशत्यृचस्य सूक्तस्य काण्वोमेधातिथिः आद्यानां चतसृणामश्विनौ ततश्चतसृणांसविता ततोद्वयोरग्निः ततएकस्यादेव्यः ततएकस्याइंद्राणी वरुणान्यग्नाय्यः ततोद्वयोर्द्यावापृथिव्यौ ततएकस्याःपृथिवी ततःषण्णां विष्णुः (अतोदेवाइत्यस्यादेवावा ) गायत्री |
प्रा॒त॒र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छतां । अ॒स्य सोम॑स्य पी॒तये॑ ॥
प्रा॒तः॒ऽयुजा॑ , वि , बो॒ध॒य॒ , अ॒श्विनौ॑ , आ , इ॒ह , ग॒च्छ॒तां॒ । अ॒स्य , सोम॑स्य , पी॒तये॑ ॥
या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑ । अ॒श्विना॒ ता ह॑वामहे ॥
या , सु॒ऽरथा॑ , र॒थिऽत॑मा , उ॒भा , दे॒वा , दि॒वि॒ऽस्पृशा॑ । अ॒श्विना॑ , ता , ह॒वा॒म॒हे॒ ॥
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती । तया॑ य॒ज्ञं मि॑मिक्षतं ॥
या , वां॒ , कशा॑ , मधु॑ऽमती , अश्वि॑ना , सू॒नृता॑ऽवती । तया॑ , य॒ज्ञं , मि॒मि॒क्ष॒तं॒ ॥
न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे॑न॒ गच्छ॑थः । अश्वि॑ना सो॒मिनो॑ गृ॒हं ॥
न॒हि , वां॒ , अस्ति॑ , दू॒र॒के , यत्र॑ , रथे॑न , गच्छ॑थः । अश्वि॑ना , सो॒मिनः॑ , गृ॒हं ॥
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दं ॥
हिर॑ण्यऽपाणिं , ऊ॒तये॑ , स॒वि॒तारं॑ , उप॑ , ह्व॒ये॒ । सः , चेत्ता॑ , दे॒वता॑ , प॒दं ॥
अ॒पां नपा॑त॒मव॑से सवि॒तार॒मुप॑ स्तुहि । तस्य॑ व्र॒तान्यु॑श्मसि ॥
अ॒पां , नपा॑तं , अव॑से , स॒वि॒तारं॑ , उप॑ , स्तु॒हि॒ । तस्य॑ , व्र॒तानि॑ , उ॒श्म॒सि॒ ॥
वि॒भ॒क्तारं॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः । स॒वि॒तारं॑ नृ॒चक्ष॑सं ॥
वि॒ऽभ॒क्तारं॑ , ह॒वा॒म॒हे॒ , वसोः॑ , चि॒त्रस्य॑ , राध॑सः । स॒वि॒तारं॑ , नृ॒ऽचक्ष॑सं ॥
सखा॑य॒ आ नि षी॑दत सवि॒ता स्तोम्यो॒ नु नः॑ । दाता॒ राधां॑सि शुंभति ॥
सखा॑यः , आ , नि , सी॒द॒त॒ , स॒वि॒ता , स्तोम्यः॑ , नु , नः॒ । दाता॑ , राधां॑सि , शुं॒भ॒ति॒ ॥
अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑ । त्वष्टा॑रं॒ सोम॑पीतये ॥
अग्ने॑ , पत्नीः॑ , इ॒ह , आ , व॒ह॒ , दे॒वानां॑ , उ॒श॒तीः , उप॑ । त्वष्टा॑रं , सोम॑ऽपीतये ॥
आ ग्ना अ॑ग्न इ॒हाव॑से॒ होत्रां॑ यविष्ठ॒ भार॑तीं । वरू॑त्रीं धि॒षणां॑ वह ॥
आ , ग्नाः , अ॒ग्ने॒ , इ॒ह , अव॑से , होत्रां॑ , य॒वि॒ष्ठ॒ , भार॑तीं । वरू॑त्रीं , धि॒षणां॑ , व॒ह॒ ॥
अ॒भि नो॑ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नीः॑ । अच्छि॑न्नपत्राः सचंतां ॥
अ॒भि , नः॒ , दे॒वीः , अव॑सा , म॒हः , शर्म॑णा , नृ॒ऽपत्नीः॑ । अच्छि॑न्नऽपत्राः , स॒चं॒तां॒ ॥
इ॒हेंद्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये॑ । अ॒ग्नायीं॒ सोम॑पीतये ॥
इ॒ह , इं॒द्रा॒णीं , उप॑ , ह्व॒ये॒ , व॒रु॒णा॒नीं , स्व॒स्तये॑ । अ॒ग्नायीं॑ , सोम॑ऽपीतये ॥
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षतां । पि॒पृ॒तां नो॒ भरी॑मभिः ॥
म॒ही , द्यौः , पृ॒थि॒वी , च॒ , नः॒ , इ॒मं , य॒ज्ञं , मि॒मि॒क्ष॒तां॒ । पि॒पृ॒तां , नः॒ , भरी॑मऽभिः ॥
तयो॒रिद्घृ॒तव॒त्पयो॒ विप्रा॑ रिहंति धी॒तिभिः॑ । गं॒ध॒र्वस्य॑ ध्रु॒वे प॒दे ॥
तयोः॑ , इत् , घृ॒तऽव॑त् , पयः॑ , विप्राः॑ , रि॒हं॒ति॒ , धी॒तिऽभिः॑ । गं॒ध॒र्वस्य॑ , ध्रु॒वे , प॒दे ॥
स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी । यच्छा॑ नः॒ शर्म॑ स॒प्रथः॑ ॥
स्यो॒ना , पृ॒थि॒वि॒ , भ॒व॒ , अ॒नृ॒क्ष॒रा , नि॒ऽवेश॑नी । यच्छ॑ , नः॒ , शर्म॑ , स॒ऽप्रथः॑ ॥
अतो॑ दे॒वा अ॑वंतु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे । पृ॒थि॒व्याः स॒प्त धाम॑भिः ॥
अतः॑ , दे॒वाः , अ॒वं॒तु॒ , नः॒ , यतः॑ , विष्णुः॑ , वि॒ऽच॒क्र॒मे । पृ॒थि॒व्याः , स॒प्त , धाम॑ऽभिः ॥
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दं । समू॑ळ्हमस्य पांसु॒रे ॥
इ॒दं , विष्णुः॑ , वि , च॒क्र॒मे॒ , त्रे॒धा , नि , द॒धे॒ , प॒दं । संऽऊ॑ळ्हं , अ॒स्य॒ , पां॒सु॒रे ॥
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः । अतो॒ धर्मा॑णि धा॒रय॑न् ॥
त्रीणि॑ , प॒दा , वि , च॒क्र॒मे॒ , विष्णुः॑ , गो॒पाः , अदा॑भ्यः । अतः॑ , धर्मा॑णि , धा॒रय॑न् ॥
विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इंद्र॑स्य॒ युज्यः॒ सखा॑ ॥
विष्णोः॑ , कर्मा॑णि , प॒श्य॒त॒ , यतः॑ , व्र॒तानि॑ , प॒स्प॒शे । इंद्र॑स्य , युज्यः॑ , सखा॑ ॥
तद्विष्णोः॑ पर॒मं प॒दं सदा॑ पश्यंति सू॒रयः॑ । दि॒वी॑व॒ चक्षु॒रात॑तं ॥
तत् , विष्णोः॑ , प॒र॒मं , प॒दं , सदा॑ , प॒श्यं॒ति॒ , सू॒रयः॑ । दि॒विऽइ॑व , चक्षुः॑ , आऽत॑तं ॥
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वांसः॒ समिं॑धते । विष्णो॒र्यत्प॑र॒मं प॒दं ॥
तत् , विप्रा॑सः , वि॒प॒न्यवः॑ , जा॒गृ॒ऽवांसः॑ , सं , इं॒ध॒ते॒ । विष्णोः॑ , यत् , प॒र॒मं , प॒दं ॥
[२३] तीव्राःसोमासैति चतुर्विंशत्यृचस्य सूक्तस्य काण्वोमेधातिथिः आद्यायावायुः ततोद्वयोरिंद्रवायू ततस्तिसृणां मित्रावरुणौ ततस्तिसृणां मरुतः (मरुत्वानिंद्रइति केचित्) ततस्तिसृणां विश्वेदेवाः ततस्तिसृणां पूषाततः सप्तानामापः ततएकस्याअग्न्यापः ततएकस्या अग्निः अप्स्वंतरितिपुरउष्णिक् अप्सुमइत्यनुष्टुप्इदमापइत्याद्यास्तिस्रोनुष्टुभः आपःपृणीतेतिप्रतिष्ठा शेषागायत्र्यः। (अग्न्यापइत्यत्राप्शब्दस्यपूर्वनिपातेप्राप्तेद्वंद्वेधिइति सूत्रादग्निशब्दस्यपूर्वनिपातः कृतः ) |
ती॒व्राः सोमा॑स॒ आ ग॑ह्या॒शीर्वं॑तः सु॒ता इ॒मे । वायो॒ तान्प्रस्थि॑तान्पिब ॥
ती॒व्राः , सोमा॑सः , आ , ग॒हि॒ , आ॒शीःऽवं॑तः , सु॒ताः , इ॒मे । वायो॒ इति॑ , तान् , प्रऽस्थि॑तान् , पि॒ब॒ ॥
उ॒भा दे॒वा दि॑वि॒स्पृशें॑द्रवा॒यू ह॑वामहे । अ॒स्य सोम॑स्य पी॒तये॑ ॥
उ॒भा , दे॒वा , दि॒वि॒ऽस्पृशा॑ , इं॒द्र॒वा॒यू इति॑ , ह॒वा॒म॒हे॒ । अ॒स्य , सोम॑स्य , पी॒तये॑ ॥
इं॒द्र॒वा॒यू म॑नो॒जुवा॒ विप्रा॑ हवंत ऊ॒तये॑ । स॒ह॒स्रा॒क्षा धि॒यस्पती॑ ॥
इं॒द्र॒वा॒यू इति॑ , म॒नः॒ऽजुवा॑ , विप्राः॑ , ह॒वं॒ते॒ , ऊ॒तये॑ । स॒ह॒स्र॒ऽअ॒क्षा , धि॒यः , पती॒ इति॑ ॥
मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये । ज॒ज्ञा॒ना पू॒तद॑क्षसा ॥
मि॒त्रं , व॒यं , ह॒वा॒म॒हे॒ , वरु॑णं , सोम॑ऽपीतये । ज॒ज्ञा॒ना , पू॒तऽद॑क्षसा ॥
ऋ॒तेन॒ यावृ॑ता॒वृधा॑वृ॒तस्य॒ ज्योति॑ष॒स्पती॑ । ता मि॒त्रावरु॑णा हुवे ॥
ऋ॒तेन॑ , यौ , ऋ॒त॒ऽवृधौ॑ , ऋ॒तस्य॑ , ज्योति॑षः , पती॒ इति॑ । ता , मि॒त्रावरु॑णा , हु॒वे॒ ॥
वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभिः॑ । कर॑तां नः सु॒राध॑सः ॥
वरु॑णः , प्र॒ऽअ॒वि॒ता , भु॒व॒त् , मि॒त्रः , विश्वा॑भिः , ऊ॒तिऽभिः॑ । कर॑तां , नः॒ , सु॒ऽराध॑सः ॥
म॒रुत्वं॑तं हवामह॒ इंद्र॒मा सोम॑पीतये । स॒जूर्ग॒णेन॑ तृंपतु ॥
म॒रुत्वं॑तं , ह॒वा॒म॒हे॒ , इंद्रं॑ , आ , सोम॑ऽपीतये । स॒ऽजूः , ग॒णेन॑ , तृं॒प॒तु॒ ॥
इंद्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑सः॒ पूष॑रातयः । विश्वे॒ मम॑ श्रुता॒ हवं॑ ॥
इंद्र॑ऽज्येष्ठाः , मरु॑त्ऽगणाः , देवा॑सः , पूष॑ऽरातयः । विश्वे॑ , मम॑ , श्रु॒त॒ , हवं॑ ॥
ह॒त वृ॒त्रं सु॑दानव॒ इंद्रे॑ण॒ सह॑सा यु॒जा । मा नो॑ दुः॒शंस॑ ईशत ॥
ह॒त , वृ॒त्रं , सु॒ऽदा॒न॒वः॒ , इंद्रे॑ण , सह॑सा , यु॒जा । मा , नः॒ , दुः॒ऽशंसः॑ , ई॒श॒त॒ ॥
विश्वां॑दे॒वान्ह॑वामहे म॒रुतः॒ सोम॑पीतये । उ॒ग्रा हि पृश्नि॑मातरः ॥
विश्वा॑न् , दे॒वान् , ह॒वा॒म॒हे॒ , म॒रुतः॑ , सोम॑ऽपीतये । उ॒ग्राः , हि , पृश्नि॑ऽमातरः ॥
जय॑तामिव तन्य॒तुर्म॒रुता॑मेति धृष्णु॒या । यच्छुभं॑ या॒थना॑ नरः ॥
जय॑तांऽइव , त॒न्य॒तुः , म॒रुतां॑ , ए॒ति॒ , धृ॒ष्णु॒ऽया । यत् , शुभं॑ , या॒थन॑ , न॒रः॒ ॥
ह॒स्का॒राद्वि॒द्युत॒स्पर्यतो॑ जा॒ता अ॑वंतु नः । म॒रुतो॑ मृळयंतु नः ॥
ह॒स्का॒रात् , वि॒ऽद्युतः॑ , परि॑ , अतः॑ , जा॒ताः , अ॒वं॒तु॒ , नः॒ । म॒रुतः॑ , मृ॒ळ॒यं॒तु॒ , नः॒ ॥
आ पू॑षंचि॒त्रब॑र्हिष॒माघृ॑णे ध॒रुणं॑ दि॒वः । आजा॑ न॒ष्टं यथा॑ प॒शुं ॥
आ , पू॒ष॒न् , चि॒त्रऽब॑र्हिषं , आघृ॑णे , ध॒रुणं॑ , दि॒वः । आ , अ॒ज॒ , न॒ष्टं , यथा॑ , प॒शुं ॥
पू॒षा राजा॑न॒माघृ॑णि॒रप॑गूळ्हं॒ गुहा॑ हि॒तं । अविं॑दच्चि॒त्रब॑र्हिषं ॥
पू॒षा , राजा॑नं , आघृ॑णिः , अप॑ऽगूळ्हं , गुहा॑ , हि॒तं । अविं॑दत् , चि॒त्रऽब॑र्हिषं ॥
उ॒तो स मह्य॒मिंदु॑भिः॒ षड्यु॒क्ताँ अ॑नु॒सेषि॑धत् । गोभि॒र्यवं॒ न च॑र्कृषत् ॥
उ॒तो इति॑ , सः , मह्यं॑ , इंदु॑ऽभिः , षट् , यु॒क्तान् , अ॒नु॒ऽसेसि॑धत् । गोभिः॑ , यवं॑ , न , च॒र्कृ॒ष॒त् ॥
अं॒बयो॑ यं॒त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒तां । पृं॒च॒तीर्मधु॑ना॒ पयः॑ ॥
अं॒बयः॑ , यं॒ति॒ , अध्व॑ऽभिः , जा॒मयः॑ , अ॒ध्व॒रि॒ऽय॒तां । पृं॒च॒तीः , मधु॑ना , पयः॑ ॥
अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह । ता नो॑ हिन्वंत्वध्व॒रं ॥
अ॒मूः , याः , उप॑ , सूर्ये॑ , याभिः॑ , वा॒ , सूर्यः॑ , स॒ह । ताः , नः॒ , हि॒न्वं॒तु॒ , अ॒ध्व॒रं ॥
अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गावः॒ पिबं॑ति नः । सिंधु॑भ्यः॒ कर्त्वं॑ ह॒विः ॥
अ॒पः , दे॒वीः , उप॑ , ह्व॒ये॒ , यत्र॑ , गावः॑ , पिबं॑ति , नः॒ । सिंधु॑ऽभ्यः , कर्त्वं॑ , ह॒विः ॥
अ॒प्स्व१॒॑न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तये । देवा॒ भव॑त वा॒जिनः॑ ॥
अ॒प्ऽसु , अं॒तः , अ॒मृतं॑ , अ॒प्ऽसु , भे॒ष॒जं , अ॒पां , उ॒त , प्रऽश॑स्तये । देवाः॑ , भव॑त , वा॒जिनः॑ ॥
अ॒प्सु मे॒ सोमो॑ अब्रवीदं॒तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वशं॑भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥
अ॒प्ऽसु , मे॒ , सोमः॑ , अ॒ब्र॒वी॒त् , अं॒तः , विश्वा॑नि , भे॒ष॒जा । अ॒ग्निं , च॒ , वि॒श्वऽशं॑भुवं , आपः॑ , च॒ , वि॒श्वऽभे॑षजीः ॥
आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑ । ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
आपः॑ , पृ॒णी॒त , भे॒ष॒जं , वरू॑थं , त॒न्वे॑ , मम॑ । ज्योक् , च॒ , सूर्यं॑ , दृ॒शे ॥
इ॒दमा॑पः॒ प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ । यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तं ॥
इ॒दं , आ॒पः॒ , प्र , व॒ह॒त॒ , यत् , किं , च॒ , दुः॒ऽइ॒तं , मयि॑ । यत् , वा॒ , अ॒हं , अ॒भि॒ऽदु॒द्रोह॑ , यत् , वा॒ , शे॒पे , उ॒त , अनृ॑तं ॥
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि । पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥
आपः॑ , अ॒द्य , अनु॑ , अ॒चा॒रि॒षं॒ , रसे॑न , सं , अ॒ग॒स्म॒हि॒ । पय॑स्वान् , अ॒ग्ने॒ , आ , ग॒हि॒ , तं , मा॒ , सं , सृ॒ज॒ , वर्च॑सा ॥
सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा । वि॒द्युर्मे॑ अस्य दे॒वा इंद्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥
सं , मा॒ , अ॒ग्ने॒ , वर्च॑सा , सृ॒ज॒ , सं , प्र॒ऽजया॑ , सं , आयु॑षा । वि॒द्युः , मे॒ , अ॒स्य॒ , दे॒वाः , इंद्रः॑ , वि॒द्या॒त् , स॒ह , ऋषि॑ऽभिः ॥
[२४] कस्यनूनमितिपंचदशर्चस्य सूक्तस्याजीर्गर्तिःशुनःशेपः सकृत्रिमोवैश्वामित्रोदेवरातः आद्यायाः कः द्वितीयायाअग्निस्ततस्तिसृणांसविता ( भगभक्तस्येत्यस्याभगोवा ) नहितेक्षत्रमित्याद्यानांवरुणस्त्रिष्टुप् अभित्वेत्यादितिस्रोगायत्र्यः |
कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ । को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥
कस्य॑ , नू॒नं , क॒त॒मस्य॑ , अ॒मृता॑नां , मना॑महे , चारु॑ , दे॒वस्य॑ , नाम॑ । कः , नः॒ , म॒ह्यै , अदि॑तये , पुनः॑ , दा॒त् , पि॒तरं॑ , च॒ , दृ॒शेयं॑ , मा॒तरं॑ , च॒ ॥
अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ । स नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥
अ॒ग्नेः , व॒यं , प्र॒थ॒मस्य॑ , अ॒मृता॑नां , मना॑महे , चारु॑ , दे॒वस्य॑ , नाम॑ । सः , नः॒ , म॒ह्यै , अदि॑तये , पुनः॑ , दा॒त् , पि॒तरं॑ , च॒ , दृ॒शेयं॑ , मा॒तरं॑ , च॒ ॥
अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णां । सदा॑वन्भा॒गमी॑महे ॥
अ॒भि , त्वा॒ , दे॒व॒ , स॒वि॒तः॒ , ईशा॑नं , वार्या॑णां । सदा॑ , अ॒व॒न् , भा॒गं , ई॒म॒हे॒ ॥
यश्चि॒द्धि त॑ इ॒त्था भगः॑ शशमा॒नः पु॒रा नि॒दः । अ॒द्वे॒षो हस्त॑योर्द॒धे ॥
यः , चि॒त् , हि , ते॒ , इ॒त्था , भगः॑ , श॒श॒मा॒नः , पु॒रा , नि॒दः । अ॒द्वे॒षः , हस्त॑योः , द॒धे ॥
भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा । मू॒र्धानं॑ रा॒य आ॒रभे॑ ॥
भग॑ऽभक्तस्य , ते॒ , व॒यं , उत् , अ॒शे॒म॒ , तव॑ , अव॑सा । मू॒र्धानं॑ , रा॒यः , आ॒ऽरभे॑ ॥
न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तयं॑त आ॒पुः । नेमा आपो॑ अनिमि॒षं चरं॑ती॒र्न ये वात॑स्य प्रमि॒नंत्यभ्वं॑ ॥
न॒हि , ते॒ , क्ष॒त्रं , न , सहः॑ , न , म॒न्युं , वयः॑ , च॒न , अ॒मी इति॑ , प॒तयं॑तः , आ॒पुः । न , इ॒माः , आपः॑ , अ॒नि॒ऽमि॒षं , चरं॑तीः , न , ये , वात॑स्य , प्र॒ऽमि॒नंति॑ , अभ्वं॑ ॥
अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं॑ ददते पू॒तद॑क्षः । नी॒चीनाः॑ स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अं॒तर्निहि॑ताः के॒तवः॑ स्युः ॥
अ॒बु॒ध्ने , राजा॑ , वरु॑णः , वन॑स्य , ऊ॒र्ध्वं , स्तूपं॑ , द॒द॒ते॒ , पू॒तऽद॑क्षः । नी॒चीनाः॑ , स्थुः॒ , उ॒परि॑ , बु॒ध्नः , ए॒षां॒ , अ॒स्मे इति॑ , अं॒तः , निऽहि॑ताः , के॒तवः॑ , स्यु॒रिति॑ स्युः ॥
उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पंथा॒मन्वे॑त॒वा उ॑ । अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥
उ॒रुं , हि , राजा॑ , वरु॑णः , च॒कार॑ , सूर्या॑य , पंथां॑ , अनु॑ऽए॒त॒वै , ऊँ॒ इति॑ । अ॒पदे॑ , पादा॑ , प्रति॑ऽधातवे , अ॒कः॒ , उ॒त , अ॒प॒ऽव॒क्ता , हृ॒द॒य॒ऽविधः॑ , चि॒त् ॥
श॒तं ते॑ राजन्भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु । बाध॑स्व दू॒रे निर्ऋ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत् ॥
श॒तं , ते॒ , रा॒ज॒न् , भि॒षजः॑ , स॒हस्रं॑ , उ॒र्वी , ग॒भी॒रा , सु॒ऽम॒तिः , ते॒ , अ॒स्तु॒ । बाध॑स्व , दू॒रे , निःऽऋ॑तिं , प॒रा॒चैः , कृ॒तं , चि॒त् , एनः॑ , प्र , मु॒मु॒ग्धि॒ , अ॒स्मत् ॥
अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः । अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्चं॒द्रमा॒ नक्त॑मेति ॥
अ॒मी इति॑ , ये , ऋक्षाः॑ , निऽहि॑तासः , उ॒च्चा , नक्तं॑ , ददृ॑श्रे , कुह॑ , चि॒त् , दिवा॑ , ई॒युः॒ । अद॑ब्धानि , वरु॑णस्य , व्र॒तानि॑ , वि॒ऽचाक॑शत् , चं॒द्रमाः॑ , नक्तं॑ , ए॒ति॒ ॥
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वंद॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयुः॒ प्र मो॑षीः ॥
तत् , त्वा॒ , या॒मि॒ , ब्रह्म॑णा , वंद॑मानः , तत् , आ , शा॒स्ते॒ , यज॑मानः , ह॒विःऽभिः॑ । अहे॑ळमानः , व॒रु॒ण॒ , इ॒ह , बो॒धि॒ , उरु॑ऽशंस , मा , नः॒ , आयुः॑ , प्र , मो॒षीः॒ ॥
तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो॑ हृ॒द आ वि च॑ष्टे । शुनः॒शेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु ॥
तत् , इत् , नक्तं॑ , तत् , दिवा॑ , मह्यं॑ , आ॒हुः॒ , तत् , अ॒यं , केतः॑ , हृ॒दः , आ , वि , च॒ष्टे॒ । शुनः॒शेपः॑ , यं , अह्व॑त् , गृ॒भी॒तः , सः , अ॒स्मान् , राजा॑ , वरु॑णः , मु॒मो॒क्तु॒ ॥
शुनः॒शेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा॑दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः । अवै॑नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ॥
शुनः॒शेपः॑ , हि , अह्व॑त् , गृ॒भी॒तः , त्रि॒षु , आ॒दि॒त्यं , द्रु॒ऽप॒देषु॑ , ब॒द्धः । अव॑ , ए॒नं॒ , राजा॑ , वरु॑णः , स॒सृ॒ज्या॒त् , वि॒द्वान् , अद॑ब्धः , वि , मु॒मो॒क्तु॒ , पासा॑न् ॥
अव॑ ते॒ हेळो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां॑सि शिश्रथः कृ॒तानि॑ ॥
अव॑ , ते॒ , हेळः॑ , व॒रु॒ण॒ , नमः॑ऽभिः , अव॑ , य॒ज्ञेभिः॑ , ई॒म॒हे॒ , ह॒विःऽभिः॑ । क्षय॑न् , अ॒स्मभ्यं॑ , अ॒सु॒र॒ , प्र॒चे॒त॒ इति॑ प्रऽचेतः , राज॑न् , एनां॑सि , शि॒श्र॒थः॒ , कृ॒तानि॑ ॥
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥
उत् , उ॒त्ऽत॒मं , व॒रु॒ण॒ , पाशं॑ , अ॒स्मत् , अव॑ , अ॒ध॒मं , वि , म॒ध्य॒मं , श्र॒थ॒य॒ । अथ॑ , व॒यं , आ॒दि॒त्य॒ , व्र॒ते , तव॑ , अना॑गसः , अदि॑तये , स्या॒म॒ ॥
[२५] यच्चिद्धितइत्येकविंशत्यृचस्य सूक्तस्याजीर्गर्तिःशुनःशेपोवरुणोगायत्री |
यच्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तं । मि॒नी॒मसि॒ द्यवि॑द्यवि ॥
यत् , चि॒त् , हि , ते॒ , विशः॑ , य॒था॒ , प्र , दे॒व॒ , व॒रु॒ण॒ , व्र॒तं । मि॒नी॒मसि॑ , द्यवि॑ऽद्यवि ॥
मा नो॑ व॒धाय॑ ह॒त्नवे॑ जिहीळा॒नस्य॑ रीरधः । मा हृ॑णा॒नस्य॑ म॒न्यवे॑ ॥
मा , नः॒ , व॒धाय॑ , ह॒त्नवे॑ , जि॒ही॒ळा॒नस्य॑ , री॒र॒धः॒ । मा , हृ॒णा॒नस्य॑ , म॒न्यवे॑ ॥
वि मृ॑ळी॒काय॑ ते॒ मनो॑ र॒थीरश्वं॒ न संदि॑तं । गी॒र्भिर्व॑रुण सीमहि ॥
वि , मृ॒ळी॒काय॑ , ते॒ , मनः॑ , र॒थीः , अश्वं॑ , न , संऽदि॑तं । गीः॒ऽभिः , व॒रु॒ण॒ , सी॒म॒हि॒ ॥
परा॒ हि मे॒ विम॑न्यवः॒ पतं॑ति॒ वस्य॑इष्टये । वयो॒ न व॑स॒तीरुप॑ ॥
परा॑ , हि , मे॒ , विऽम॑न्यवः , पतं॑ति , वस्यः॑ऽइष्टये । वयः॑ , न , व॒स॒तीः , उप॑ ॥
क॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑णं करामहे । मृ॒ळी॒कायो॑रु॒चक्ष॑सं ॥
क॒दा , क्ष॒त्र॒ऽश्रियं॑ , नरं॑ , आ , वरु॑णं , क॒रा॒म॒हे॒ । मृ॒ळी॒काय॑ , उ॒रु॒ऽचक्ष॑सं ॥
तदित्स॑मा॒नमा॑शाते॒ वेनं॑ता॒ न प्र यु॑च्छतः । धृ॒तव्र॑ताय दा॒शुषे॑ ॥
तत् , इत् , स॒मा॒नं , आ॒शा॒ते॒ इति॑ , वेनं॑ता , न , प्र , यु॒च्छ॒तः॒ । धृ॒तऽव्र॑ताय , दा॒शुषे॑ ॥
वेदा॒ यो वी॒नां प॒दमं॒तरि॑क्षेण॒ पत॑तां । वेद॑ ना॒वः स॑मु॒द्रियः॑ ॥
वेद॑ , यः , वी॒नां , प॒दं , अं॒तरि॑क्षेण , पत॑तां । वेद॑ , ना॒वः , स॒मु॒द्रियः॑ ॥
वेद॑ मा॒सो धृ॒तव्र॑तो॒ द्वाद॑श प्र॒जाव॑तः । वेदा॒ य उ॑प॒जाय॑ते ॥
वेद॑ , मा॒सः , धृ॒तऽव्र॑तः , द्वाद॑श , प्र॒जाऽव॑तः । वेद॑ , यः , उ॒प॒ऽजाय॑ते ॥
वेद॒ वात॑स्य वर्त॒निमु॒रोर्ऋ॒ष्वस्य॑ बृह॒तः । वेदा॒ ये अ॒ध्यास॑ते ॥
वेद॑ , वात॑स्य , व॒र्त॒निं , उ॒रोः , ऋ॒ष्वस्य॑ , बृ॒ह॒तः । वेद॑ , ये , अ॒धि॒ऽआस॑ते ॥
नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒३॒॑स्वा । साम्रा॑ज्याय सु॒क्रतुः॑ ॥
नि , स॒सा॒द॒ , धृ॒तऽव्र॑तः , वरु॑णः , प॒स्त्या॑सु , आ । सांऽरा॑ज्याय , सु॒ऽक्रतुः॑ ॥
अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ अ॒भि प॑श्यति । कृ॒तानि॒ या च॒ कर्त्वा॑ ॥
अतः॑ , विश्वा॑नि , अद्भु॑ता , चि॒कि॒त्वान् , अ॒भि , प॒श्य॒ति॒ । कृ॒तानि॑ , या , च॒ , कर्त्वा॑ ॥
स नो॑ वि॒श्वाहा॑ सु॒क्रतु॑रादि॒त्यः सु॒पथा॑ करत् । प्र ण॒ आयूं॑षि तारिषत् ॥
सः , नः॒ , वि॒श्वाहा॑ , सु॒ऽक्रतुः॑ , आ॒दि॒त्यः , सु॒ऽपथा॑ , क॒र॒त् । प्र , नः॒ , आयूं॑षि , ता॒रि॒ष॒त् ॥
बिभ्र॑द्द्रा॒पिं हि॑र॒ण्ययं॒ वरु॑णो वस्त नि॒र्णिजं॑ । परि॒ स्पशो॒ नि षे॑दिरे ॥
बिभ्र॑त् , द्रा॒पिं , हि॒र॒ण्ययं॑ , वरु॑णः , व॒स्त॒ , निः॒ऽनिजं॑ । परि॑ , स्पशः॑ , नि , से॒दि॒रे॒ ॥
न यं दिप्सं॑ति दि॒प्सवो॒ न द्रुह्वा॑णो॒ जना॑नां । न दे॒वम॒भिमा॑तयः ॥
न , यं , दिप्सं॑ति , दि॒प्सवः॑ , न , द्रुह्वा॑णः , जना॑नां । न , दे॒वं , अ॒भिऽमा॑तयः ॥
उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे असा॒म्या । अ॒स्माक॑मु॒दरे॒ष्वा ॥
उ॒त , यः , मानु॑षेषु , आ , यशः॑ , च॒क्रे , असा॑मि , आ । अ॒स्माकं॑ , उ॒दरे॑षु , आ ॥
परा॑ मे यंति धी॒तयो॒ गावो॒ न गव्यू॑ती॒रनु॑ । इ॒च्छंती॑रुरु॒चक्ष॑सं ॥
पराः॑ , मे॒ , यं॒ति॒ , धी॒तयः॑ , गावः॑ , न , गव्यू॑तीः , अनु॑ । इ॒च्छंतीः॑ , उ॒रु॒ऽचक्ष॑सं ॥
सं नु वो॑चावहै॒ पुन॒र्यतो॑ मे॒ मध्वाभृ॑तं । होते॑व॒ क्षद॑से प्रि॒यं ॥
सं , नु , वो॒चा॒व॒है॒ , पुनः॑ , यतः॑ , मे॒ , मधु॑ , आऽभृ॑तं । होता॑ऽइव , क्षद॑से , प्रि॒यं ॥
दर्शं॒ नु वि॒श्वद॑र्शतं॒ दर्शं॒ रथ॒मधि॒ क्षमि॑ । ए॒ता जु॑षत मे॒ गिरः॑ ॥
दर्शं॑ , नु , वि॒श्वऽद॑र्शतं , दर्शं॑ , रथं॑ , अधि॑ , क्षमि॑ । ए॒ताः , जु॒ष॒त॒ , मे॒ , गिरः॑ ॥
इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय । त्वाम॑व॒स्युरा च॑के ॥
इ॒मं , मे॒ , व॒रु॒ण॒ , श्रुधि॑ , हवं॑ , अ॒द्य , च॒ , मृ॒ळ॒य॒ । त्वां , अ॒व॒स्युः , आ , च॒के॒ ॥
त्वं विश्व॑स्य मेधिर दि॒वश्च॒ ग्मश्च॑ राजसि । स याम॑नि॒ प्रति॑ श्रुधि ॥
त्वं , विश्व॑स्य , मे॒धि॒र॒ , दि॒वः , च॒ , ग्मः , च॒ , रा॒ज॒सि॒ । सः , याम॑नि॒ , प्रति॑ , श्रु॒धि॒ ॥
उदु॑त्त॒मं मु॑मुग्धि नो॒ वि पाशं॑ मध्य॒मं चृ॑त । अवा॑ध॒मानि॑ जी॒वसे॑ ॥
उत् , उ॒त्ऽत॒मं , मु॒मु॒ग्धि॒ , नः॒ , वि , पाशं॑ , म॒ध्य॒मं , चृ॒त॒ । अव॑ , अ॒ध॒मानि॑ , जी॒वसे॑ ॥
[२६] वसिष्वेतिदशर्चस्य सूक्तस्याजीगर्तिःशुनःशेपोग्निर्गायत्री |
वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूर्जां पते । सेमं नो॑ अध्व॒रं य॑ज ॥
वसि॑ष्व , हि , मि॒ये॒ध्य॒ , वस्त्रा॑णि , ऊ॒र्जां॒ , प॒ते॒ । सः , इ॒मं , नः॒ , अ॒ध्व॒रं , य॒ज॒ ॥
नि नो॒ होता॒ वरे॑ण्यः॒ सदा॑ यविष्ठ॒ मन्म॑भिः । अग्ने॑ दि॒वित्म॑ता॒ वचः॑ ॥
नि , नः॒ , होता॑ , वरे॑ण्यः , सदा॑ , य॒वि॒ष्ठ॒ , मन्म॑ऽभिः । अग्ने॑ , दि॒वित्म॑ता , वचः॑ ॥
आ हि ष्मा॑ सू॒नवे॑ पि॒तापिर्यज॑त्या॒पये॑ । सखा॒ सख्ये॒ वरे॑ण्यः ॥
आ , हि , स्म॒ , सू॒नवे॑ , पि॒ता , आ॒पिः , यज॑ति , आ॒पये॑ । सखा॑ , सख्ये॑ , वरे॑ण्यः ॥
आ नो॑ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । सीदं॑तु॒ मनु॑षो यथा ॥
आ , नः॒ , ब॒र्हिः , रि॒शाद॑सः , वरु॑णः , मि॒त्रः , अ॒र्य॒मा । सीदं॑तु , मनु॑षः , य॒था॒ ॥
पूर्व्य॑ होतर॒स्य नो॒ मंद॑स्व स॒ख्यस्य॑ च । इ॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ॥
पूर्व्य॑ , हो॒तः॒ , अ॒स्य , नः॒ , मंद॑स्व , स॒ख्यस्य॑ , च॒ । इ॒माः , ऊँ॒ इति॑ , सु , श्रु॒धी॒ , गिरः॑ ॥
यच्चि॒द्धि शश्व॑ता॒ तना॑ दे॒वंदे॑वं॒ यजा॑महे । त्वे इद्धू॑यते ह॒विः ॥
यत् , चि॒त् , हि , शश्व॑ता , तना॑ , दे॒वंऽदे॑वं , यजा॑महे । त्वे इति॑ , इत् , हू॒य॒ते॒ , ह॒विः ॥
प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ मं॒द्रो वरे॑ण्यः । प्रि॒याः स्व॒ग्नयो॑ व॒यं ॥
प्रि॒यः , नः॒ , अ॒स्तु॒ , वि॒श्पतिः॑ , होता॑ , मं॒द्रः , वरे॑ण्यः । प्रि॒याः , सु॒ऽअ॒ग्नयः॑ , व॒यं ॥
स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः । स्व॒ग्नयो॑ मनामहे ॥
सु॒ऽअ॒ग्नयः॑ , हि , वार्यं॑ , दे॒वासः॑ , द॒धि॒रे , च॒ , नः॒ । सु॒ऽअ॒ग्नयः॑ , म॒ना॒म॒हे॒ ॥
अथा॑ न उ॒भये॑षा॒ममृ॑त॒ मर्त्या॑नां । मि॒थः सं॑तु॒ प्रश॑स्तयः ॥
अथ॑ , नः॒ , उ॒भये॑षां , अमृ॑त , मर्त्या॑नां । मि॒थः , सं॒तु॒ , प्रऽश॑स्तयः ॥
विश्वे॑भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वचः॑ । चनो॑ धाः सहसो यहो ॥
विश्वे॑भिः , अ॒ग्ने॒ , अ॒ग्निऽभिः॑ , इ॒मं , य॒ज्ञं , इ॒दं , वचः॑ । चनः॑ , धाः॒ , स॒ह॒सः॒ , य॒हो॒ इति॑ ॥
[२७] अश्वंनत्वेतित्रयोदशर्चस्यसूक्तस्याजीगर्तिःशुनःशेपोऽग्निर्गायत्री | नमोमहद्भ्यइत्यस्यादेवास्त्रिष्टुप् |
अश्वं॒ न त्वा॒ वार॑वंतं वं॒दध्या॑ अ॒ग्निं नमो॑भिः । स॒म्राजं॑तमध्व॒राणां॑ ॥
अश्वं॑ , न , त्वा॒ , वार॑ऽवंतं , वं॒दध्यै॑ , अ॒ग्निं , नमः॑ऽभिः । सं॒ऽराजं॑तं , अ॒ध्व॒राणां॑ ॥
स घा॑ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेवः॑ । मी॒ढ्वाँ अ॒स्माकं॑ बभूयात् ॥
सः , घ॒ , नः॒ , सू॒नुः , शव॑सा , पृ॒थुऽप्र॑गामा , सु॒ऽशेवः॑ । मी॒ढ्वान् , अ॒स्माकं॑ , ब॒भू॒या॒त् ॥
स नो॑ दू॒राच्चा॒साच्च॒ नि मर्त्या॑दघा॒योः । पा॒हि सद॒मिद्वि॒श्वायुः॑ ॥
सः , नः॒ , दू॒रात् , च॒ , आ॒सात् , च॒ , नि , मर्त्या॑त् , अ॒घ॒ऽयोः । पा॒हि , सदं॑ , इत् , वि॒श्वऽआ॑युः ॥
इ॒ममू॒ षु त्वम॒स्माकं॑ स॒निं गा॑य॒त्रं नव्यां॑सं । अग्ने॑ दे॒वेषु॒ प्र वो॑चः ॥
इ॒मं , ऊँ॒ इति॑ , सु , त्वं , अ॒स्माकं॑ , स॒निं , गा॒य॒त्रं , नव्यां॑सं । अग्ने॑ , दे॒वेषु॑ , प्र , वो॒चः॒ ॥
आ नो॑ भज पर॒मेष्वा वाजे॑षु मध्य॒मेषु॑ । शिक्षा॒ वस्वो॒ अंत॑मस्य ॥
आ , नः॒ , भ॒ज॒ , प॒र॒मेषु॑ , आ , वाजे॑षु , म॒ध्य॒मेषु॑ । शिक्ष॑ , वस्वः॑ , अंत॑मस्य ॥
वि॒भ॒क्तासि॑ चित्रभानो॒ सिंधो॑रू॒र्मा उ॑पा॒क आ । स॒द्यो दा॒शुषे॑ क्षरसि ॥
वि॒ऽभ॒क्ता , अ॒सि॒ , चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो , सिंधोः॑ , ऊ॒र्मौ , उ॒पा॒के , आ । स॒द्यः , दा॒शुषे॑ , क्ष॒र॒सि॒ ॥
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः । स यंता॒ शश्व॑ती॒रिषः॑ ॥
यं , अ॒ग्ने॒ , पृ॒त्ऽसु , मर्त्यं॑ , अवाः॑ , वाजे॑षु , यं , जु॒नाः । सः , यंता॑ , शश्व॑तीः , इषः॑ ॥
नकि॑रस्य सहंत्य पर्ये॒ता कय॑स्य चित् । वाजो॑ अस्ति श्र॒वाय्यः॑ ॥
नकिः॑ , अ॒स्य॒ , स॒हं॒त्य॒ , प॒रि॒ऽए॒ता , कय॑स्य , चि॒त् । वाजः॑ , अ॒स्ति॒ , श्र॒वाय्यः॑ ॥
स वाजं॑ वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒ तरु॑ता । विप्रे॑भिरस्तु॒ सनि॑ता ॥
सः , वाजं॑ , वि॒श्वऽच॑र्षणिः , अर्व॑त्ऽभिः , अ॒स्तु॒ , तरु॑ता । विप्रे॑भिः , अ॒स्तु॒ , सनि॑ता ॥
जरा॑बोध॒ तद्वि॑विड्ढि वि॒शेवि॑शे य॒ज्ञिया॑य । स्तोमं॑ रु॒द्राय॒ दृशी॑कं ॥
जरा॑ऽबोध , तत् , वि॒वि॒ड्ढि॒ , वि॒शेऽवि॑शे , य॒ज्ञिया॑य । स्तोमं॑ , रु॒द्राय॑ , दृशी॑कं ॥
स नो॑ म॒हाँ अ॑निमा॒नो धू॒मके॑तुः पुरुश्चं॒द्रः । धि॒ये वाजा॑य हिन्वतु ॥
सः , नः॒ , म॒हान् , अ॒नि॒ऽमा॒नः , धू॒मऽके॑तुः , पु॒रु॒ऽचं॒द्रः । धि॒ये , वाजा॑य , हि॒न्व॒तु॒ ॥
स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्यः॑ के॒तुः शृ॑णोतु नः । उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः ॥
सः , रे॒वान्ऽइ॑व , वि॒श्पतिः॑ , दैव्यः॑ , के॒तुः , शृ॒णो॒तु॒ , नः॒ । उ॒क्थैः , अ॒ग्निः , बृ॒हत्ऽभा॑नुः ॥
नमो॑ म॒हद्भ्यो॒ नमो॑ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्यः॑ । यजा॑म दे॒वान्यदि॑ श॒क्नवा॑म॒ मा ज्याय॑सः॒ शंस॒मा वृ॑क्षि देवाः ॥
नमः॑ , म॒हत्ऽभ्यः॑ , नमः॑ , अ॒र्भ॒केभ्यः॑ , नमः॑ , युव॑ऽभ्यः , नमः॑ , आ॒शि॒नेभ्यः॑ । यजा॑म , दे॒वान् , यदि॑ , श॒क्नवा॑म , मा , ज्याय॑सः॒ , शंसं॑ , आ , वृ॒क्षि॒ , दे॒वाः॒ ॥
[२८] यत्रग्रावेतिनवर्चस्यसूक्तस्याजीगर्तिःशुनःशेपःआद्यानांचतसृणामिंद्रः ततो द्वयोरुलूखलं ततोद्वयोरुलूखलमुसले अंत्यायाः प्रजापतिर्हरिश्चंद्रः ( अधिषवणचर्मदेवतावा ) आद्याः षळनुष्टुभः अंत्यास्तिस्रोगायत्र्यः |
यत्र॒ ग्रावा॑ पृ॒थुबु॑ध्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे । उ॒लूख॑लसुताना॒मवेद्विं॑द्र जल्गुलः ॥
यत्र॑ , ग्रावा॑ , पृ॒थुऽबु॑ध्नः , ऊ॒र्ध्वः , भव॑ति , सोत॑वे । उ॒लूख॑लऽसुतानां , अव॑ , इत् , ऊँ॒ इति॑ , इं॒द्र॒ , ज॒ल्गु॒लः॒ ॥
यत्र॒ द्वावि॑व ज॒घना॑धिषव॒ण्या॑ कृ॒ता । उ॒लूख॑लसुताना॒मवेद्विं॑द्र जल्गुलः ॥
यत्र॑ , द्वौऽइ॑व , ज॒घना॑ , अ॒धि॒ऽस॒व॒न्या॑ , कृ॒ता । उ॒लूख॑लऽसुतानां , अव॑ , इत् , ऊँ॒ इति॑ , इं॒द्र॒ , ज॒ल्गु॒लः॒ ॥
यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते । उ॒लूख॑लसुताना॒मवेद्विं॑द्र जल्गुलः ॥
यत्र॑ , नारी॑ , अ॒प॒ऽच्य॒वं , उ॒प॒ऽच्य॒वं , च॒ , शिक्ष॑ते । उ॒लूख॑लऽसुतानां , अव॑ , इत् , ऊँ॒ इति॑ , इं॒द्र॒ , ज॒ल्गु॒लः॒ ॥
यत्र॒ मंथां॑ विब॒ध्नते॑ र॒श्मीन्यमि॑त॒वा इ॑व । उ॒लूख॑लसुताना॒मवेद्विं॑द्र जल्गुलः ॥
यत्र॑ , मंथां॑ , वि॒ऽब॒ध्नते॑ , र॒श्मीन् , यमि॑त॒वैऽइ॑व । उ॒लूख॑लऽसुतानां , अव॑ , इत् , ऊँ॒ इति॑ , इं॒द्र॒ , ज॒ल्गु॒लः॒ ॥
यच्चि॒द्धि त्वं गृ॒हेगृ॑ह॒ उलू॑खलक यु॒ज्यसे॑ । इ॒ह द्यु॒मत्त॑मं वद॒ जय॑तामिव दुंदु॒भिः ॥
यत् , चि॒त् , हि , त्वं , गृ॒हेऽगृ॑हे , उलू॑खलक , यु॒ज्यसे॑ । इ॒ह , द्यु॒मत्ऽत॑मं , व॒द॒ , जय॑तांऽइव , दुं॒दु॒भिः ॥
उ॒त स्म॑ ते वनस्पते॒ वातो॒ वि वा॒त्यग्र॒मित् । अथो॒ इंद्रा॑य॒ पात॑वे सु॒नु सोम॑मुलूखल ॥
उ॒त , स्म॒ , ते॒ , व॒न॒स्प॒ते॒ , वातः॑ , वि , वा॒ति॒ , अग्रं॑ , इत् । अथो॒ इति॑ , इंद्रा॑य , पात॑वे , सु॒नु , सोमं॑ , उ॒लू॒ख॒ल॒ ॥
आ॒य॒जी वा॑ज॒सात॑मा॒ ता ह्यु१॒॑च्चा वि॑जर्भृ॒तः । हरी॑ इ॒वांधां॑सि॒ बप्स॑ता ॥
आ॒य॒जी इत्या॑ऽय॒जी , वा॒ज॒ऽसात॑मा , ता , हि , उ॒च्चा , वि॒ऽज॒र्भृ॒तः । हरी॑ इ॒वेति॒ हरी॑ऽइव , अंधां॑सि , बप्स॑ता ॥
ता नो॑ अ॒द्य व॑नस्पती ऋ॒ष्वावृ॒ष्वेभिः॑ सो॒तृभिः॑ । इंद्रा॑य॒ मधु॑मत्सुतं ॥
ता , नः॒ , अ॒द्य , व॒न॒स्पती॒ इति॑ , ऋ॒ष्वौ , ऋ॒ष्वेभिः॑ , सो॒तृऽभिः॑ । इंद्रा॑य , मधु॑ऽमत् , सु॒तं॒ ॥
उच्छि॒ष्टं च॒म्वो॑र्भर॒ सोमं॑ प॒वित्र॒ आ सृ॑ज । नि धे॑हि॒ गोरधि॑ त्व॒चि ॥
उत् , शि॒ष्टं , च॒म्वोः॑ , भ॒र॒ , सोमं॑ , प॒वित्रे॑ , आ , सृ॒ज॒ । नि , धे॒हि॒ , गोः , अधि॑ , त्व॒चि ॥
[२९] यच्चिद्धिसत्येतिसप्तर्चस्यसूक्तस्याजीगर्तिःशुनःशेपइंद्रःपंक्तिः |
यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ । आ तू न॑ इंद्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
यत् , चि॒त् , हि , स॒त्य॒ , सो॒म॒ऽपाः॒ , अ॒ना॒श॒स्ताःऽइ॑व , स्मसि॑ । आ , तु , नः॒ , इं॒द्र॒ , शं॒स॒य॒ , गोषु॑ , अश्वे॑षु , शु॒भ्रिषु॑ , स॒हस्रे॑षु , तु॒वि॒ऽम॒घ॒ ॥
शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑ । आ तू न॑ इंद्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
शिप्रि॑न् , वा॒जा॒नां॒ , प॒ते॒ , शची॑ऽवः , तव॑ , दं॒सना॑ । आ , तु , नः॒ , इं॒द्र॒ , शं॒स॒य॒ , गोषु॑ , अश्वे॑षु , शु॒भ्रिषु॑ , स॒हस्रे॑षु , तु॒वि॒ऽम॒घ॒ ॥
नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने । आ तू न॑ इंद्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
नि , स्वा॒प॒य॒ , मि॒थु॒ऽदृशा॑ , स॒स्तां , अबु॑ध्यमाने॒ इति॑ । आ , तु , नः॒ , इं॒द्र॒ , शं॒स॒य॒ , गोषु॑ , अश्वे॑षु , शु॒भ्रिषु॑ , स॒हस्रे॑षु , तु॒वि॒ऽम॒घ॒ ॥
स॒संतु॒ त्या अरा॑तयो॒ बोधं॑तु शूर रा॒तयः॑ । आ तू न॑ इंद्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स॒संतु॑ , त्याः , अरा॑तयः , बोधं॑तु , शू॒र॒ , रा॒तयः॑ । आ , तु , नः॒ , इं॒द्र॒ , शं॒स॒य॒ , गोषु॑ , अश्वे॑षु , शु॒भ्रिषु॑ , स॒हस्रे॑षु , तु॒वि॒ऽम॒घ॒ ॥
समिं॑द्र गर्द॒भं मृ॑ण नु॒वंतं॑ पा॒पया॑मु॒या । आ तू न॑ इंद्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
सं , इं॒द्र॒ , ग॒र्द॒भं , मृ॒ण॒ , नु॒वंतं॑ , पा॒पया॑ , अ॒मु॒या । आ , तु , नः॒ , इं॒द्र॒ , शं॒स॒य॒ , गोषु॑ , अश्वे॑षु , शु॒भ्रिषु॑ , स॒हस्रे॑षु , तु॒वि॒ऽम॒घ॒ ॥
पता॑ति कुंडृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑ । आ तू न॑ इंद्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
पता॑ति , कुं॒डृ॒णाच्या॑ , दू॒रं , वातः॑ , वना॑त् , अधि॑ । आ , तु , नः॒ , इं॒द्र॒ , शं॒स॒य॒ , गोषु॑ , अश्वे॑षु , शु॒भ्रिषु॑ , स॒हस्रे॑षु , तु॒वि॒ऽम॒घ॒ ॥
सर्वं॑ परिक्रो॒शं ज॑हि जं॒भया॑ कृकदा॒श्वं॑ । आ तू न॑ इंद्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
सर्वं॑ , प॒रि॒ऽक्रो॒शं , ज॒हि॒ , जं॒भय॑ , कृ॒क॒दा॒श्वं॑ । आ , तु , नः॒ , इं॒द्र॒ , शं॒स॒य॒ , गोषु॑ , अश्वे॑षु , शु॒भ्रिषु॑ , स॒हस्रे॑षु , तु॒वि॒ऽम॒घ॒ ॥
[३०] आवइंद्रमिति द्वाविंशत्यृचस्यसूक्तस्याजीगर्तिःशुनःशेपइंद्रः सप्तदश्यादितिसृणामश्विनौ ततस्तिसृणामुषागायत्री अस्माकमितिपादनिचृत् शश्वदिंद्रइतित्रिष्टुप् |
आ व॒ इंद्रं॒ क्रिविं॑ यथा वाज॒यंतः॑ श॒तक्र॑तुं । मंहि॑ष्ठं सिंच॒ इंदु॑भिः ॥
आ , वः॒ , इंद्रं॑ , क्रिविं॑ , य॒था॒ , वा॒ज॒ऽयंतः॑ , श॒तऽक्र॑तुं । मंहि॑ष्ठं , सिं॒चे॒ , इंदु॑ऽभिः ॥
श॒तं वा॒ यः शुची॑नां स॒हस्रं॑ वा॒ समा॑शिरां । एदु॑ नि॒म्नं न री॑यते ॥
श॒तं , वा॒ , यः , शुची॑नां , स॒हस्रं॑ , वा॒ , संऽआ॑शिरां । आ , इत् , ऊँ॒ इति॑ , नि॒म्नं , न , री॒य॒ते॒ ॥
सं यन्मदा॑य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे॑ । स॒मु॒द्रो न व्यचो॑ द॒धे ॥
सं , यत् , मदा॑य , शु॒ष्मिणे॑ , ए॒ना , हि , अ॒स्य॒ , उ॒दरे॑ । स॒मु॒द्रः , न , व्यचः॑ , द॒धे ॥
अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिं । वच॒स्तच्चि॑न्न ओहसे ॥
अ॒यं , ऊँ॒ इति॑ , ते॒ , सं , अ॒त॒सि॒ , क॒पोतः॑ऽइव , ग॒र्भ॒ऽधिं । वचः॑ , तत् , चि॒त् , नः॒ , ओ॒ह॒से॒ ॥
स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते । विभू॑तिरस्तु सू॒नृता॑ ॥
स्तो॒त्रं , रा॒धा॒नां॒ , प॒ते॒ , गिर्वा॑हः , वी॒र॒ , यस्य॑ , ते॒ । विऽभू॑तिः , अ॒स्तु॒ , सु॒नृता॑ ॥
ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो । सम॒न्येषु॑ ब्रवावहै ॥
ऊ॒र्ध्वः , ति॒ष्ठ॒ , नः॒ , ऊ॒तये॑ , अ॒स्मिन् , वाजे॑ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । सं , अ॒न्येषु॑ , ब्र॒वा॒व॒है॒ ॥
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे । सखा॑य॒ इंद्र॑मू॒तये॑ ॥
योगे॑ऽयोगे , त॒वःऽत॑रं , वाजे॑ऽवाजे , ह॒वा॒म॒हे॒ । सखा॑यः , इंद्रं॑ , ऊ॒तये॑ ॥
आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभिः॑ । वाजे॑भि॒रुप॑ नो॒ हवं॑ ॥
आ , घ॒ , ग॒म॒त् , यदि॑ , श्रव॑त् , स॒ह॒स्रिणी॑भिः , ऊ॒तिऽभिः॑ । वाजे॑भिः , उप॑ , नः॒ , हवं॑ ॥
अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नरं॑ । यं ते॒ पूर्वं॑ पि॒ता हु॒वे ॥
अनु॑ , प्र॒त्नस्य॑ , ओक॑सः , हु॒वे , तु॒वि॒ऽप्र॒तिं , नरं॑ । यं , ते॒ , पूर्वं॑ , पि॒ता , हु॒वे ॥
तं त्वा॑ व॒यं वि॑श्ववा॒रा शा॑स्महे पुरुहूत । सखे॑ वसो जरि॒तृभ्यः॑ ॥
तं , त्वा॒ , व॒यं , वि॒श्व॒ऽवा॒र॒ , आ , शा॒स्म॒हे॒ , पु॒रु॒ऽहू॒त॒ । सखे॑ , व॒सो॒ इति॑ , ज॒रि॒तृऽभ्यः॑ ॥
अ॒स्माकं॑ शि॒प्रिणी॑नां॒ सोम॑पाः सोम॒पाव्नां॑ । सखे॑ वज्रिं॒त्सखी॑नां ॥
अ॒स्माकं॑ , शि॒प्रिणी॑नां , सोम॑ऽपाः , सो॒म॒ऽपाव्नां॑ । सखे॑ , व॒ज्रि॒न् , सखी॑नां ॥
तथा॒ तद॑स्तु सोमपाः॒ सखे॑ वज्रिं॒तथा॑ कृणु । यथा॑ त उ॒श्मसी॒ष्टये॑ ॥
तथा॑ , तत् , अ॒स्तु॒ , सो॒म॒ऽपाः॒ , सखे॑ , व॒ज्रि॒न् , तथा॑ , कृ॒णु॒ । यथा॑ , ते॒ , उ॒श्मसि॑ , इ॒ष्टये॑ ॥
रे॒वती॑र्नः सध॒माद॒ इंद्रे॑ संतु तु॒विवा॑जाः । क्षु॒मंतो॒ याभि॒र्मदे॑म ॥
रे॒वतीः॑ , नः॒ , स॒ध॒ऽमादे॑ , इंद्रे॑ , सं॒तु॒ , तु॒विऽवा॑जाः । क्षु॒ऽमंतः॑ , याभिः॑ , मदे॑म ॥
आ घ॒ त्वावां॒त्मना॒प्तः स्तो॒तृभ्यो॑ धृष्णविया॒नः । ऋ॒णोरक्षं॒ न च॒क्र्योः॑ ॥
आ , घ॒ , त्वाऽवा॑न् , त्मना॑ , आ॒प्तः , स्तो॒तृऽभ्यः॑ , धृ॒ष्णो॒ इति॑ , इ॒या॒नः । ऋ॒णोः , अक्षं॑ , न , च॒क्र्योः॑ ॥
आ यद्दुवः॑ शतक्रत॒वा कामं॑ जरितॄ॒णां । ऋ॒णोरक्षं॒ न शची॑भिः ॥
आ , यत् , दुवः॑ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , आ , कामं॑ , ज॒रि॒तॄ॒णां । ऋ॒णोः , अक्षं॑ , न , शची॑भिः ॥
शश्व॒दिंद्रः॒ पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भिः॒ शाश्व॑सद्भि॒र्धना॑नि । स नो॑ हिरण्यर॒थं दं॒सना॑वां॒त्स नः॑ सनि॒ता स॒नये॒ स नो॑ऽदात् ॥
शश्व॑त् , इंद्रः॑ , पोप्रु॑थत्ऽभिः , जि॒गा॒य॒ , नान॑दत्ऽभिः , शाश्व॑सत्ऽभिः , धना॑नि । सः , नः॒ , हि॒र॒ण्य॒ऽर॒थं , दं॒सना॑ऽवान् , सः , नः॒ , स॒नि॒ता , स॒नये॑ , सः , नः॒ , अ॒दा॒त् ॥
आश्वि॑ना॒वश्वा॑वत्ये॒षा या॑तं॒ शवी॑रया । गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥
आ , अ॒श्वि॒नौ॒ , अश्व॑ऽवत्या , इ॒षा , या॒तं॒ , शवी॑रया । गोऽम॑त् , द॒स्रा॒ , हिर॑ण्यऽवत् ॥
स॒मा॒नयो॑जनो॒ हि वां॒ रथो॑ दस्रा॒वम॑र्त्यः । स॒मु॒द्रे अ॑श्वि॒नेय॑ते ॥
स॒मा॒नऽयो॑जनः , हि , वां॒ , रथः॑ , द॒स्रौ॒ , अम॑र्त्यः । स॒मु॒द्रे , अ॒श्वि॒ना॒ , ईय॑ते ॥
न्य१॒॑घ्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः । परि॒ द्याम॒न्यदी॑यते ॥
नि , अ॒घ्न्यस्य॑ , मू॒र्धनि॑ , च॒क्रं , रथ॑स्य , ये॒म॒थुः॒ । परि॑ , द्यां , अ॒न्यत् , ई॒य॒ते॒ ॥
कस्त॑ उषः कधप्रिये भु॒जे मर्तो॑ अमर्त्ये । कं न॑क्षसे विभावरि ॥
कः , ते॒ , उ॒षः॒ , क॒ध॒ऽप्रि॒ये॒ , भु॒जे , मर्तः॑ , अ॒म॒र्त्ये॒ । कं , न॒क्ष॒से॒ , वि॒भा॒ऽव॒रि॒ ॥
व॒यं हि ते॒ अम॑न्म॒ह्यांता॒दा प॑रा॒कात् । अश्वे॒ न चि॑त्रे अरुषि ॥
व॒यं , हि , ते॒ , अम॑न्महि , आ , अंता॑त् , आ , प॒रा॒कात् । अश्वे॑ , न , चि॒त्रे॒ , अ॒रु॒षि॒ ॥
त्वं त्येभि॒रा ग॑हि॒ वाजे॑भिर्दुहितर्दिवः । अ॒स्मे र॒यिं नि धा॑रय ॥
त्वं , त्येभिः॑ , आ , ग॒हि॒ , वाजे॑भिः , दु॒हि॒तः॒ , दि॒वः॒ । अ॒स्मे इति॑ , र॒यिं , नि , धा॒र॒य॒ ॥
[३१] त्वमग्नइत्यष्टादशर्चस्य सूक्तस्यांगिरसोहिरण्यस्तूपोग्निर्जगती अष्टमी षोळश्यंत्यास्त्रिष्टुभः |
त्वम॑ग्ने प्रथ॒मो अंगि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑ । तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यंत म॒रुतो॒ भ्राज॑दृष्टयः ॥
त्वं , अ॒ग्ने॒ , प्र॒थ॒मः , अंगि॑राः , ऋषिः॑ , दे॒वः , दे॒वानां॑ , अ॒भ॒वः॒ , शि॒वः , सखा॑ । तव॑ , व्र॒ते , क॒वयः॑ , वि॒द्म॒नाऽअ॑पसः , अजा॑यंत , म॒रुतः॑ , भ्राज॑त्ऽऋष्टयः ॥
त्वम॑ग्ने प्रथ॒मो अंगि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्र॒तं । वि॒भुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे॑ ॥
त्वं , अ॒ग्ने॒ , प्र॒थ॒मः , अंगि॑रःऽतमः , क॒विः , दे॒वानां॑ , परि॑ , भू॒ष॒सि॒ , व्र॒तं । वि॒ऽभुः , विश्व॑स्मै , भुव॑नाय , मेधि॑रः , द्वि॒ऽमा॒ता , श॒युः , क॒ति॒धा , चि॒त् , आ॒यवे॑ ॥
त्वम॑ग्ने प्रथ॒मो मा॑त॒रिश्व॑न आ॒विर्भ॑व सुक्रतू॒या वि॒वस्व॑ते । अरे॑जेतां॒ रोद॑सी होतृ॒वूर्येऽस॑घ्नोर्भा॒रमय॑जो म॒हो व॑सो ॥
त्वं , अ॒ग्ने॒ , प्र॒थ॒मः , मा॒त॒रिश्व॑ने , आ॒विः , भ॒व॒ , सु॒क्र॒तु॒ऽया , वि॒वस्व॑ते । अरे॑जेतां , रोद॑सी॒ इति॑ , हो॒तृ॒ऽवूर्ये॑ , अस॑घ्नोः , भा॒रं , अय॑जः , म॒हः , व॒सो॒ इति॑ ॥
त्वम॑ग्ने॒ मन॑वे॒ द्याम॑वाशयः पुरू॒रव॑से सु॒कृते॑ सु॒कृत्त॑रः । श्वा॒त्रेण॒ यत्पि॒त्रोर्मुच्य॑से॒ पर्या त्वा॒ पूर्व॑मनय॒न्नाप॑रं॒ पुनः॑ ॥
त्वं , अ॒ग्ने॒ , मन॑वे , द्यां , अ॒वा॒श॒यः॒ , पु॒रू॒रव॑से , सु॒ऽकृते॑ , सु॒कृत्ऽत॑रः । श्वा॒त्रेण॑ , यत् , पि॒त्रोः , मुच्य॑से , परि॑ , आ , त्वा॒ , पूर्वं॑ , अ॒न॒य॒न् , आ , अप॑रं , पुन॒रिति॑ ॥
त्वम॑ग्ने वृष॒भः पु॑ष्टि॒वर्ध॑न॒ उद्य॑तस्रुचे भवसि श्र॒वाय्यः॑ । य आहु॑तिं॒ परि॒ वेदा॒ वष॑ट्कृति॒मेका॑यु॒रग्रे॒ विश॑ आ॒विवा॑ससि ॥
त्वं , अ॒ग्ने॒ , वृ॒ष॒भः , पु॒ष्टि॒ऽवर्ध॑नः , उद्य॑तऽस्रुचे , भ॒व॒सि॒ , श्र॒वाय्यः॑ । यः , आऽहु॑तिं , परि॑ , वेद॑ , वष॑ट्ऽकृतिं , एक॑ऽआयुः , अग्रे॑ , विशः॑ , आ॒ऽविवा॑ससि ॥
त्वम॑ग्ने वृजि॒नव॑र्तनिं॒ नरं॒ सक्म॑न्पिपर्षि वि॒दथे॑ विचर्षणे । यः शूर॑साता॒ परि॑तक्म्ये॒ धने॑ द॒भ्रेभि॑श्चि॒त्समृ॑ता॒ हंसि॒ भूय॑सः ॥
त्वं , अ॒ग्ने॒ , वृ॒जि॒नऽव॑र्तनिं , नरं॑ , सक्म॑न् , पि॒प॒र्षि॒ , वि॒दथे॑ , वि॒ऽच॒र्ष॒णे॒ । यः , शूर॑ऽसाता , परि॑ऽतक्म्ये , धने॑ , द॒भ्रेभिः॑ , चि॒त् , संऽऋ॑ता , हंसि॑ , भूय॑सः ॥
त्वं तम॑ग्ने अमृत॒त्व उ॑त्त॒मे मर्तं॑ दधासि॒ श्रव॑से दि॒वेदि॑वे । यस्ता॑तृषा॒ण उ॒भया॑य॒ जन्म॑ने॒ मयः॑ कृ॒णोषि॒ प्रय॒ आ च॑ सू॒रये॑ ॥
त्वं , तं , अ॒ग्ने॒ , अ॒मृ॒त॒ऽत्वे , उ॒त्ऽत॒मे , मर्तं॑ , द॒धा॒सि॒ , श्रव॑से , दि॒वेऽदि॑वे । यः , त॒तृ॒षा॒णः , उ॒भया॑य , जन्म॑ने , मयः॑ , कृ॒णोषि॑ , प्रयः॑ , आ , च॒ , सू॒रये॑ ॥
त्वं नो॑ अग्ने स॒नये॒ धना॑नां य॒शसं॑ का॒रुं कृ॑णुहि॒ स्तवा॑नः । ऋ॒ध्याम॒ कर्मा॒पसा॒ नवे॑न दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥
त्वं , नः॒ , अ॒ग्ने॒ , स॒नये॑ , धना॑नां , य॒शसं॑ , का॒रुं , कृ॒णु॒हि॒ , स्तवा॑नः । ऋ॒ध्याम॑ , कर्म॑ , अ॒पसा॑ , नवे॑न , दे॒वैः , द्या॒वा॒पृ॒थि॒वी॒ इति॑ , प्र , अ॒व॒तं॒ , नः॒ ॥
त्वं नो॑ अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒वेष्व॑नवद्य॒ जागृ॑विः । त॒नू॒कृद्बो॑धि॒ प्रम॑तिश्च का॒रवे॒ त्वं क॑ल्याण॒ वसु॒ विश्व॒मोपि॑षे ॥
त्वं , नः॒ , अ॒ग्ने॒ , पि॒त्रोः , उ॒पऽस्थे॑ , आ , दे॒वः , दे॒वेषु॑ , अ॒न॒व॒द्य॒ , जागृ॑विः । त॒नू॒ऽकृत् , बो॒धि॒ , प्रऽम॑तिः , च॒ , का॒रवे॑ , त्वं , क॒ल्या॒ण॒ , वसु॑ , विश्वं॑ , आ , ऊ॒पि॒षे॒ ॥
त्वम॑ग्ने॒ प्रम॑ति॒स्त्वं पि॒तासि॑ न॒स्त्वं व॑य॒स्कृत्तव॑ जा॒मयो॑ व॒यं । सं त्वा॒ रायः॑ श॒तिनः॒ सं स॑ह॒स्रिणः॑ सु॒वीरं॑ यंति व्रत॒पाम॑दाभ्य ॥
त्वं , अ॒ग्ने॒ , प्रऽम॑तिः , त्वं , पि॒ता , अ॒सि॒ , नः॒ , त्वं , व॒यः॒ऽकृत् , तव॑ , जा॒मयः॑ , व॒यं । सं , त्वा॒ , रायः॑ , श॒तिनः॒ , सं , स॒ह॒स्रिणः॑ , सु॒वीरं॑ , यं॒ति॒ , व्र॒त॒ऽपां , अ॒दा॒भ्य॒ ॥
त्वाम॑ग्ने प्रथ॒ममा॒युमा॒यवे॑ दे॒वा अ॑कृण्व॒न्नहु॑षस्य वि॒श्पतिं॑ । इळा॑मकृण्व॒न्मनु॑षस्य॒ शास॑नीं पि॒तुर्यत्पु॒त्रो मम॑कस्य॒ जाय॑ते ॥
त्वां , अ॒ग्ने॒ , प्र॒थ॒मं , आ॒युं , आ॒यवे॑ , दे॒वाः , अ॒कृ॒ण्व॒न् , नहु॑षस्य , वि॒श्पतिं॑ । इळां॑ , अ॒कृ॒ण्व॒न् , मनु॑षस्य , शास॑नीं , पि॒तुः , यत् , पु॒त्रः , मम॑कस्य , जाय॑ते ॥
त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॑श्च वंद्य । त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेषं॒ रक्ष॑माण॒स्तव॑ व्र॒ते ॥
त्वं , नः॒ , अ॒ग्ने॒ , तव॑ , दे॒व॒ , पा॒युऽभिः॑ , म॒घोनः॑ , र॒क्ष॒ , त॒न्वः॑ , च॒ , वं॒द्य॒ । त्रा॒ता , तो॒कस्य॑ , तन॑ये , गवां॑ , अ॒सि॒ , अनि॑ऽमेषं , रक्ष॑माणः , तव॑ , व्र॒ते ॥
त्वम॑ग्ने॒ यज्य॑वे पा॒युरंत॑रोऽनिषं॒गाय॑ चतुर॒क्ष इ॑ध्यसे । यो रा॒तह॑व्योऽवृ॒काय॒ धाय॑से की॒रेश्चि॒न्मंत्रं॒ मन॑सा व॒नोषि॒ तं ॥
त्वं , अ॒ग्ने॒ , यज्य॑वे , पा॒युः , अंत॑रः , अ॒नि॒षं॒गाय॑ , च॒तुः॒ऽअ॒क्षः , इ॒ध्य॒से॒ । यः , रा॒तऽह॑व्यः , अ॒वृ॒काय॑ , धाय॑से , की॒रेः , चि॒त् , मंत्रं॑ , मन॑सा , व॒नोषि॑ , तं ॥
त्वम॑ग्न उरु॒शंसा॑य वा॒घते॑ स्पा॒र्हं यद्रेक्णः॑ पर॒मं व॒नोषि॒ तत् । आ॒ध्रस्य॑ चि॒त्प्रम॑तिरुच्यसे पि॒ता प्र पाकं॒ शास्सि॒ प्र दिशो॑ वि॒दुष्ट॑रः ॥
त्वं , अ॒ग्ने॒ , उ॒रु॒ऽशंसा॑य , वा॒घते॑ , स्पा॒र्हं , यत् , रेक्णः॑ , प॒र॒मं , व॒नोषि॑ , तत् । आ॒ध्रस्य॑ , चि॒त् , प्रऽम॑तिः , उ॒च्य॒से॒ , पि॒ता , प्र , पाकं॑ , शास्सि॑ , प्र , दिशः॑ , वि॒दुःऽत॑रः ॥
त्वम॑ग्ने॒ प्रय॑तदक्षिणं॒ नरं॒ वर्मे॑व स्यू॒तं परि॑ पासि वि॒श्वतः॑ । स्वा॒दु॒क्षद्मा॒ यो व॑स॒तौ स्यो॑न॒कृज्जी॑वया॒जं यज॑ते॒ सोप॒मा दि॒वः ॥
त्वं , अ॒ग्ने॒ , प्रय॑तऽदक्षिणं , नरं॑ , वर्म॑ऽइव , स्यू॒तं , परि॑ , पा॒सि॒ , वि॒श्वतः॑ । स्वा॒दु॒ऽक्षद्मा॑ , यः , व॒स॒तौ , स्यो॒न॒ऽकृत् , जी॒व॒ऽया॒जं , यज॑ते , सः , उ॒प॒ऽमा , दि॒वः ॥
इ॒माम॑ग्ने श॒रणिं॑ मीमृषो न इ॒ममध्वा॑नं॒ यमगा॑म दू॒रात् । आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन्मर्त्या॑नां ॥
इ॒मां , अ॒ग्ने॒ , श॒रणिं॑ , मी॒मृ॒षः॒ , नः॒ , इ॒मं , अध्वा॑नं , यं , अगा॑म , दू॒रात् । आ॒पिः , पि॒ता , प्रऽम॑तिः , सो॒म्यानां॑ , भृमिः॑ , अ॒सि॒ , ऋ॒षि॒ऽकृत् , मर्त्या॑नां ॥
म॒नु॒ष्वद॑ग्ने अंगिर॒स्वदं॑गिरो ययाति॒वत्सद॑ने पूर्व॒वच्छु॑चे । अच्छ॑ या॒ह्या व॑हा॒ दैव्यं॒ जन॒मा सा॑दय ब॒र्हिषि॒ यक्षि॑ च प्रि॒यं ॥
म॒नु॒ष्वत् , अ॒ग्ने॒ , अं॒गि॒र॒स्वत् , अं॒गि॒रः॒ , य॒या॒ति॒ऽवत् , सद॑ने , पू॒र्व॒ऽवत् , शु॒चे॒ । अच्छ॑ , या॒हि॒ , आ , व॒ह॒ , दैव्यं॑ , जनं॑ , आ , सा॒द॒य॒ , ब॒र्हिषि॑ , यक्षि॑ , च॒ , प्रि॒यं ॥
ए॒तेना॑ग्ने॒ ब्रह्म॑णा वावृधस्व॒ शक्ती॑ वा॒ यत्ते॑ चकृ॒मा वि॒दा वा॑ । उ॒त प्र णे॑ष्य॒भि वस्यो॑ अ॒स्मांत्सं नः॑ सृज सुम॒त्या वाज॑वत्या ॥
ए॒तेन॑ , अ॒ग्ने॒ , ब्रह्म॑णा , व॒वृ॒ध॒स्व॒ , शक्ती॑ , वा॒ , यत् , ते॒ , च॒कृ॒म , वि॒दा , वा॒ । उ॒त , प्र , ने॒षि॒ , अ॒भि , वस्यः॑ , अ॒स्मान् , सं , नः॒ , सृ॒ज॒ , सु॒ऽम॒त्या , वाज॑ऽवत्या ॥
[३२] इंद्रस्यन्विति पंचदशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपइंद्रस्त्रिष्टुप् |
इंद्र॑स्य॒ नु वी॒र्या॑णि॒ प्र वो॑चं॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री । अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त्पर्व॑तानां ॥
इंद्र॑स्य , नु , वी॒र्या॑णि , प्र , वो॒चं॒ , यानि॑ , च॒कार॑ , प्र॒थ॒मानि॑ , व॒ज्री । अह॑न् , अहिं॑ , अनु॑ , अ॒पः , त॒त॒र्द॒ , प्र , व॒क्षणाः॑ , अ॒भि॒न॒त् , पर्व॑तानां ॥
अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष । वा॒श्रा इ॑व धे॒नवः॒ स्यंद॑माना॒ अंजः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥
अह॑न् , अहिं॑ , पर्व॑ते , शि॒श्रि॒या॒णं , त्वष्टा॑ , अ॒स्मै॒ , वज्रं॑ , स्व॒र्यं॑ , त॒त॒क्ष॒ । वा॒श्राःऽइ॑व , धे॒नवः॑ , स्यंद॑मानाः , अंजः॑ , स॒मु॒द्रं , अव॑ , ज॒ग्मुः॒ , आपः॑ ॥
वृ॒षा॒यमा॑णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ । आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नां ॥
वृ॒ष॒ऽयमा॑णः , अ॒वृ॒णी॒त॒ , सोमं॑ , त्रिऽक॑द्रुकेषु , अ॒पि॒ब॒त् , सु॒तस्य॑ । आ , साय॑कं , म॒घऽवा॑ , अ॒द॒त्त॒ , वज्रं॑ , अह॑न् , ए॒नं॒ , प्र॒थ॒म॒ऽजां , अही॑नां ॥
यदिं॒द्राह॑न्प्रथम॒जामही॑ना॒मान्मा॒यिना॒ममि॑नाः॒ प्रोत मा॒याः । आत्सूर्यं॑ ज॒नयं॒द्यामु॒षासं॑ ता॒दीत्ना॒ शत्रुं॒ न किला॑ विवित्से ॥
यत् , इं॒द्र॒ , अह॑न् , प्र॒थ॒म॒ऽजां , अही॑नां , आत् , मा॒यिनां॑ , अमि॑नाः , प्र , उ॒त , मा॒याः । आत् , सूर्यं॑ , ज॒नय॑न् , द्यां , उ॒षसं॑ , ता॒दीत्ना॑ , शत्रुं॑ , न , किल॑ , वि॒वि॒त्से॒ ॥
अह॑न्वृ॒त्रं वृ॑त्र॒तरं॒ व्यं॑स॒मिंद्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ । स्कंधां॑सीव॒ कुलि॑शेना॒ विवृ॒क्णाहिः॑ शयत उप॒पृक्पृ॑थि॒व्याः ॥
अह॑न् , वृ॒त्रं , वृ॒त्र॒ऽतरं॑ , विऽअं॑सं , इंद्रः॑ , वज्रे॑ण , म॒ह॒ता , व॒धेन॑ । स्कंधां॑सिऽइव , कुलि॑शेन , विऽवृ॑क्णा , अहिः॑ , श॒य॒ते॒ , उ॒प॒ऽपृक् , पृ॒थि॒व्याः ॥
अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षं । नाता॑रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जानाः॑ पिपिष॒ इंद्र॑शत्रुः ॥
अ॒यो॒द्धाऽइ॑व , दुः॒ऽमदः॑ , आ , हि , जु॒ह्वे , म॒हा॒ऽवी॒रं , तु॒वि॒ऽबा॒धं , ऋ॒जी॒षं । न , अ॒ता॒री॒त् , अ॒स्य॒ , संऽऋ॑तिं , व॒धानां॑ , सं , रु॒जानाः॑ , पि॒पि॒षे॒ , इंद्र॑ऽशत्रुः ॥
अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिंद्र॒मास्य॒ वज्र॒मधि॒ सानौ॑ जघान । वृष्णो॒ वध्रिः॑ प्रति॒मानं॒ बुभू॑षन्पुरु॒त्रा वृ॒त्रो अ॑शय॒द्व्य॑स्तः ॥
अ॒पात् , अ॒ह॒स्तः , अ॒पृ॒त॒न्य॒त् , इंद्रं॑ , आ , अ॒स्य॒ , वज्रं॑ , अधि॑ , सानौ॑ , ज॒घा॒न॒ । वृष्णः॑ , वध्रिः॑ , प्र॒ति॒ऽमानं॑ , बुभू॑षन् , पु॒रु॒ऽत्रा , वृ॒त्रः , अ॒श॒य॒त् , विऽअ॑स्तः ॥
न॒दं न भि॒न्नम॑मु॒या शया॑नं॒ मनो॒ रुहा॑णा॒ अति॑ यं॒त्यापः॑ । याश्चि॑द्वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त्तासा॒महिः॑ पत्सुतः॒शीर्ब॑भूव ॥
न॒दं , न , भि॒न्नं , अ॒मु॒या , शया॑नं , मनः॑ , रुहा॑णाः , अति॑ , यं॒ति॒ , आपः॑ । याः , चि॒त् , वृ॒त्रः , म॒हि॒ना , प॒रि॒ऽअति॑ष्ठत् , तासां॑ , अहिः॑ , प॒त्सु॒तः॒ऽशीः , ब॒भू॒व॒ ॥
नी॒चाव॑या अभवद्वृ॒त्रपु॒त्रेंद्रो॑ अस्या॒ अव॒ वध॑र्जभार । उत्त॑रा॒ सूरध॑रः पु॒त्र आ॑सी॒द्दानुः॑ शये स॒हव॑त्सा॒ न धे॒नुः ॥
नी॒चाऽव॑याः , अ॒भ॒व॒त् , वृ॒त्रऽपु॑त्रा , इंद्रः॑ , अ॒स्याः॒ , अव॑ , वधः॑ , ज॒भा॒र॒ । उत्ऽत॑रा , सूः , अध॑रः , पु॒त्रः , आ॒सी॒त् , दानुः॑ , श॒ये॒ , स॒हऽव॑त्सा , न , धे॒नुः ॥
अति॑ष्ठंतीनामनिवेश॒नानां॒ काष्ठा॑नां॒ मध्ये॒ निहि॑तं॒ शरी॑रं । वृ॒त्रस्य॑ नि॒ण्यं वि च॑रं॒त्यापो॑ दी॒र्घं तम॒ आश॑य॒दिंद्र॑शत्रुः ॥
अति॑ष्ठंतीनां , अ॒नि॒ऽवे॒श॒नानां॑ , काष्ठा॑नां , मध्ये॑ , निऽहि॑तं , शरी॑रं । वृ॒त्रस्य॑ , नि॒ण्यं , वि , च॒रं॒ति॒ , आपः॑ , दी॒र्घं , तमः॑ , आ , अ॒श॒य॒त् , इंद्र॑ऽशत्रुः ॥
दा॒सप॑त्नी॒रहि॑गोपा अतिष्ठ॒न्निरु॑द्धा॒ आपः॑ प॒णिने॑व॒ गावः॑ । अ॒पां बिल॒मपि॑हितं॒ यदासी॑द्वृ॒त्रं ज॑घ॒न्वाँ अप॒ तद्व॑वार ॥
दा॒सऽप॑त्नीः , अहि॑ऽगोपाः , अ॒ति॒ष्ठ॒न् , निऽरु॑द्धाः , आपः॑ , प॒णिना॑ऽइव , गावः॑ । अ॒पां , बिलं॑ , अपि॑ऽहितं , यत् , आसी॑त् , वृ॒त्रं , ज॒घ॒न्वान् , अप॑ , तत् , व॒वा॒र॒ ॥
अश्व्यो॒ वारो॑ अभव॒स्तदिं॑द्र सृ॒के यत्त्वा॑ प्र॒त्यहं॑दे॒व एकः॑ । अज॑यो॒ गा अज॑यः शूर॒ सोम॒मवा॑सृजः॒ सर्त॑वे स॒प्त सिंधू॑न् ॥
अश्व्यः॑ , वारः॑ , अ॒भ॒वः॒ , तत् , इं॒द्र॒ , सृ॒के , यत् , त्वा॒ , प्र॒ति॒ऽअह॑न् , दे॒वः , एकः॑ । अज॑यः , गाः , अज॑यः , शू॒र॒ , सोमं॑ , अव॑ , अ॒सृ॒जः॒ , सर्त॑वे , स॒प्त , सिंधू॑न् ॥
नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनिं॑ च । इंद्र॑श्च॒ यद्यु॑यु॒धाते॒ अहि॑श्चो॒ताप॒रीभ्यो॑ म॒घवा॒ वि जि॑ग्ये ॥
न , अ॒स्मै॒ , वि॒ऽद्युत् , न , त॒न्य॒तुः , सि॒से॒ध॒ , न , यां , मिहं॑ , अकि॑रत् , ह्रा॒दुनिं॑ , च॒ । इंद्रः॑ , च॒ , यत् , यु॒यु॒धाते॒ इति॑ , अहिः॑ , च॒ , उ॒त , अ॒प॒रीभ्यः॑ , म॒घऽवा॑ , वि , जि॒ग्ये॒ ॥
अहे॑र्या॒तारं॒ कम॑पश्य इंद्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत् । नव॑ च॒ यन्न॑व॒तिं च॒ स्रवं॑तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां॑सि ॥
अहेः॑ , या॒तारं॑ , कं , अ॒प॒श्यः॒ , इं॒द्र॒ , हृ॒दि , यत् , ते॒ , ज॒घ्नुषः॑ , भीः , अग॑च्छत् । नव॑ , च॒ , यत् , न॒व॒तिं , च॒ , स्रवं॑तीः , श्ये॒नः , न , भी॒तः , अत॑रः , रजां॑सि ॥
इंद्रो॑ या॒तोऽव॑सितस्य॒ राजा॒ शम॑स्य च शृं॒गिणो॒ वज्र॑बाहुः । सेदु॒ राजा॑ क्षयति चर्षणी॒नाम॒रान्न ने॒मिः परि॒ ता ब॑भूव ॥
इंद्रः॑ , या॒तः , अव॑ऽसितस्य , राजा॑ , शम॑स्य , च॒ , शृं॒गिणः॑ , वज्र॑ऽबाहुः । सः , इत् , ऊँ॒ इति॑ , राजा॑ , क्ष॒य॒ति॒ , च॒र्ष॒णी॒नां , अ॒रान् , न , ने॒मिः , परि॑ , ता , ब॒भू॒व॒ ॥
[३३] एतायामेतिपंचदशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपइंद्रस्त्रिष्टुप् |
एताया॒मोप॑ ग॒व्यंत॒ इंद्र॑म॒स्माकं॒ सु प्रम॑तिं वावृधाति । अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर॑मा॒वर्ज॑ते नः ॥
आ , इ॒त॒ , अया॑म , उप॑ , ग॒व्यंतः॑ , इंद्रं॑ , अ॒स्माकं॑ , सु , प्रऽम॑तिं , व॒वृ॒धा॒ति॒ । अ॒ना॒मृ॒णः , कु॒वित् , आत् , अ॒स्य , रा॒यः , गवां॑ , केतं॑ , परं॑ , आ॒ऽवर्ज॑ते , नः॒ ॥
उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि । इंद्रं॑ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒ अस्ति॒ याम॑न् ॥
उप॑ , इत् , अ॒हं , ध॒न॒ऽदां , अप्र॑तिऽइतं , जुष्टां॑ , न , श्ये॒नः , व॒स॒तिं , प॒ता॒मि॒ । इंद्रं॑ , न॒म॒स्यन् , उ॒प॒ऽमेभिः॑ , अ॒र्कैः , यः , स्तो॒तृऽभ्यः॑ , हव्यः॑ , अस्ति॑ , याम॑न् ॥
नि सर्व॑सेन इषु॒धीँर॑सक्त॒ सम॒र्यो गा अ॑जति॒ यस्य॒ वष्टि॑ । चो॒ष्कू॒यमा॑ण इंद्र॒ भूरि॑ वा॒मं मा प॒णिर्भू॑र॒स्मदधि॑ प्रवृद्ध ॥
नि , सर्व॑ऽसेनः , इ॒षु॒ऽधीन् , अ॒स॒क्त॒ , सं , अ॒र्यः , गाः , अ॒ज॒ति॒ , यस्य॑ , वष्टि॑ । चो॒ष्कू॒यमा॑णः , इं॒द्र॒ , भूरि॑ , वा॒मं , मा , प॒णिः , भूः॒ , अ॒स्मत् , अधि॑ , प्र॒ऽवृ॒द्ध॒ ॥
वधी॒र्हि दस्युं॑ ध॒निनं॑ घ॒नेनँ॒ एक॒श्चर॑न्नुपशा॒केभि॑रिंद्र । धनो॒रधि॑ विषु॒णक्ते व्या॑य॒न्नय॑ज्वानः सन॒काः प्रेति॑मीयुः ॥
वधीः॑ , हि , दस्युं॑ , ध॒निनं॑ , घ॒नेन॑ , एकः॑ , चर॑न् , उ॒प॒ऽशा॒केभिः॑ , इं॒द्र॒ । धनोः॑ , अधि॑ , वि॒षु॒णक् , ते , वि , आ॒य॒न् , अय॑ज्वानः , स॒न॒काः , प्रऽइ॑तिं , ई॒युः॒ ॥
परा॑ चिच्छी॒र्षा व॑वृजु॒स्त इं॒द्राय॑ज्वानो॒ यज्व॑भिः॒ स्पर्ध॑मानाः । प्र यद्दि॒वो ह॑रिवः स्थातरुग्र॒ निर॑व्र॒ताँ अ॑धमो॒ रोद॑स्योः ॥
परा॑ , चि॒त् , शी॒र्षा , व॒वृ॒जुः॒ , ते॒ , इं॒द्र॒ , अय॑ज्वानः , यज्व॑ऽभिः , स्पर्ध॑मानाः । प्र , यत् , दि॒वः , ह॒रि॒ऽवः॒ , स्था॒तः॒ , उ॒ग्र॒ , निः , अ॒व्र॒तान् , अ॒ध॒मः॒ , रोद॑स्योः ॥
अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया॑तयंत क्षि॒तयो॒ नव॑ग्वाः । वृ॒षा॒युधो॒ न वध्र॑यो॒ निर॑ष्टाः प्र॒वद्भि॒रिंद्रा॑च्चि॒तयं॑त आयन् ॥
अयु॑युत्सन् , अ॒न॒व॒द्यस्य॑ , सेनां॑ , अया॑तयंत , क्षि॒तयः॑ , नव॑ऽग्वाः । वृ॒ष॒ऽयुधः॑ , न , वध्र॑यः , निःऽअ॑ष्टाः , प्र॒वत्ऽभिः॑ , इंद्रा॑त् , चि॒तयं॑तः , आ॒य॒न् ॥
त्वमे॒तान्रु॑द॒तो जक्ष॑त॒श्चायो॑धयो॒ रज॑स इंद्र पा॒रे । अवा॑दहो दि॒व आ दस्यु॑मु॒च्चा प्र सु॑न्व॒तः स्तु॑व॒तः शंस॑मावः ॥
त्वं , ए॒तान् , रु॒द॒तः , जक्ष॑तः , च॒ , अयो॑धयः , रज॑सः , इं॒द्र॒ , पा॒रे । अव॑ , अ॒द॒हः॒ , दि॒वः , आ , दस्युं॑ , उ॒च्चा , प्र , सु॒न्व॒तः , स्तु॒व॒तः , शंसं॑ , आ॒वः॒ ॥
च॒क्रा॒णासः॑ परी॒णहं॑ पृथि॒व्या हिर॑ण्येन म॒णिना॒ शुंभ॑मानाः । न हि॑न्वा॒नास॑स्तितिरु॒स्त इंद्रं॒ परि॒ स्पशो॑ अदधा॒त्सूर्ये॑ण ॥
च॒का॒णासः॑ , प॒रि॒ऽनहं॑ , पृ॒थि॒व्याः , हिर॑ण्येन , म॒णिना॑ , शुंभ॑मानाः । न , हि॒न्वा॒नासः॑ , ति॒ति॒रुः॒ , ते , इंद्रं॑ , परि॑ , स्पशः॑ , अ॒द॒धा॒त् , सूर्ये॑ण ॥
परि॒ यदिं॑द्र॒ रोद॑सी उ॒भे अबु॑भोजीर्महि॒ना वि॒श्वतः॑ सीं । अम॑न्यमानाँ अ॒भि मन्य॑मानै॒र्निर्ब्र॒ह्मभि॑रधमो॒ दस्यु॑मिंद्र ॥
परि॑ , यत् , इं॒द्र॒ , रोद॑सी॒ इति॑ , उ॒भे इति॑ , अबु॑भोजीः , म॒हि॒ना , वि॒श्वतः॑ , सीं॒ । अम॑न्यमानान् , अ॒भि , मन्य॑मानैः , निः , ब्र॒ह्मऽभिः॑ , अ॒ध॒मः॒ , दस्युं॑ , इं॒द्र॒ ॥
न ये दि॒वः पृ॑थि॒व्या अंत॑मा॒पुर्न मा॒याभि॑र्धन॒दां प॒र्यभू॑वन् । युजं॒ वज्रं॑ वृष॒भश्च॑क्र॒ इंद्रो॒ निर्ज्योति॑षा॒ तम॑सो॒ गा अ॑दुक्षत् ॥
न , ये , दि॒वः , पृ॒थि॒व्याः , अंतं॑ , आ॒पुः , न , मा॒याभिः॑ , ध॒न॒ऽदां , प॒रि॒ऽअभू॑वन् । युजं॑ , वज्रं॑ , वृ॒ष॒भः , च॒क्रे॒ , इंद्रः॑ , निः , ज्योति॑षा , तम॑सः , गाः , अ॒धु॒क्ष॒त् ॥
अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अ॒स्याव॑र्धत॒ मध्य॒ आ ना॒व्या॑नां । स॒ध्री॒चीने॑न॒ मन॑सा॒ तमिंद्र॒ ओजि॑ष्ठेन॒ हन्म॑नाहन्न॒भि द्यून् ॥
अनु॑ , स्व॒धां , अ॒क्ष॒र॒न् , आपः॑ , अ॒स्य॒ , अव॑र्धत , मध्ये॑ , आ , ना॒व्या॑नां । स॒ध्री॒चीने॑न , मन॑सा , तं , इंद्रः॑ , ओजि॑ष्ठेन , हन्म॑ना , अ॒ह॒न् , अ॒भि , द्यून् ॥
न्या॑विध्यदिली॒बिश॑स्य दृ॒ळ्हा वि शृं॒गिण॑मभिन॒च्छुष्ण॒मिंद्रः॑ । याव॒त्तरो॑ मघव॒न्याव॒दोजो॒ वज्रे॑ण॒ शत्रु॑मवधीः पृत॒न्युं ॥
नि , अ॒वि॒ध्य॒त् , इ॒ली॒बिश॑स्य , दृ॒ळ्हा , वि , शृं॒गिणं॑ , अ॒भि॒न॒त् , शुष्णं॑ , इंद्रः॑ । याव॑त् , तरः॑ , म॒घ॒ऽव॒न् , याव॑त् , ओजः॑ , वज्रे॑ण , शत्रुं॑ , अ॒व॒धीः॒ , पृ॒त॒न्युं ॥
अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रू॒न्वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑ऽभेत् । सं वज्रे॑णासृजद्वृ॒त्रमिंद्रः॒ प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः ॥
अ॒भि , सि॒ध्मः , अ॒जि॒गा॒त् , अ॒स्य॒ , शत्रू॑न् , वि , ति॒ग्मेन॑ , वृ॒ष॒भेण॑ , पुरः॑ , अ॒भे॒त् । सं , वज्रे॑ण , अ॒सृ॒ज॒त् , वृ॒त्रं , इंद्रः॑ , प्र , स्वां , म॒तिं , अ॒ति॒र॒त् , शाश॑दानः ॥
आवः॒ कुत्स॑मिंद्र॒ यस्मिं॑चा॒कन्प्रावो॒ युध्यं॑तं वृष॒भं दश॑द्युं । श॒फच्यु॑तो रे॒णुर्न॑क्षत॒ द्यामुच्छ्वै॑त्रे॒यो नृ॒षाह्या॑य तस्थौ ॥
आवः॑ , कुत्सं॑ , इं॒द्र॒ , यस्मि॑न् , चा॒कन् , प्र , आ॒वः॒ , युध्यं॑तं , वृ॒ष॒भं , दश॑ऽद्युं । श॒फऽच्यु॑तः , रे॒णुः , न॒क्ष॒त॒ , द्यां , उत् , श्वै॒त्रे॒यः , नृ॒ऽसह्या॑य , त॒स्थौ॒ ॥
आवः॒ शमं॑ वृष॒भं तुग्र्या॑सु क्षेत्रजे॒षे म॑घवं॒छ्वित्र्यं॒ गां । ज्योक्चि॒दत्र॑ तस्थि॒वांसो॑ अक्रंछत्रूय॒तामध॑रा॒ वेद॑नाकः ॥
आवः॑ , शमं॑ , वृ॒ष॒भं , तुग्र्या॑सु , क्षे॒त्र॒ऽजे॒षे , म॒घ॒ऽव॒न् , श्वित्र्यं॑ , गां । ज्योक् , चि॒त् , अत्र॑ , त॒स्थि॒ऽवांसः॑ , अ॒क्र॒न् , श॒त्रु॒ऽय॒तां , अध॑रा , वेद॑ना , अ॒क॒रित्य॑कः ॥
[३४] त्रिश्चिदितिद्वादशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपोश्विनौजगती नवम्यंत्येत्रिष्टुभौ |
त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना । यु॒वोर्हि यं॒त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या॑ भवतं मनी॒षिभिः॑ ॥
त्रिः , चि॒त् , नः॒ , अ॒द्य , भ॒व॒तं॒ , न॒वे॒द॒सा॒ , वि॒ऽभुः , वां॒ , यामः॑ , उ॒त , रा॒तिः , अ॒श्वि॒ना॒ । यु॒वोः , हि , यं॒त्रं , हि॒म्याऽइ॑व , वास॑सः , अ॒भि॒ऽआ॒यं॒सेन्या॑ , भ॒व॒तं॒ , म॒नी॒षिऽभिः॑ ॥
त्रयः॑ प॒वयो॑ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नामनु॒ विश्व॒ इद्वि॑दुः । त्रयः॑ स्कं॒भासः॑ स्कभ्हि॒तास॑ आ॒रभे॒ त्रिर्नक्तं॑ या॒थस्त्रिर्व॑श्विना॒ दिवा॑ ॥
त्रयः॑ , प॒वयः॑ , म॒धु॒ऽवाहे॑न , रथे॑ , सोम॑स्य , वे॒नां , अनु॑ , विश्वे॑ , इत् , वि॒दुः॒ । त्रयः॑ , स्कं॒भासः॑ , स्क॒मि॒तासः॑ , आ॒ऽरभे॑ , त्रिः , नक्तं॑ , या॒थः , त्रिः , ऊँ॒ इति॑ , अ॒श्वि॒ना॒ , दिवा॑ ॥
स॒मा॒ने अहं॒त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतं । त्रिर्वाज॑वती॒रिषो॑ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतं ॥
स॒मा॒ने , अह॑न् , त्रिः , अ॒व॒द्य॒ऽगो॒ह॒ना॒ , त्रिः , अ॒द्य , य॒ज्ञं , मधु॑ना , मि॒मि॒क्ष॒तं॒ । त्रिः , वाज॑ऽवतीः , इषः॑ , अ॒श्वि॒ना॒ , यु॒वं , दो॒षाः , अ॒स्मभ्यं॑ , उ॒षसः॑ , च॒ , पि॒न्व॒तं॒ ॥
त्रिर्व॒र्तिर्या॑तं॒ त्रिरनु॑व्रते ज॒ने त्रिः सु॑प्रा॒व्ये॑ त्रे॒धेव॑ शिक्षतं । त्रिर्नां॒द्यं॑ वहतमश्विना यु॒वं त्रिः पृक्षो॑ अ॒स्मे अ॒क्षरे॑व पिन्वतं ॥
त्रिः , व॒र्तिः , या॒तं॒ , त्रिः , अनु॑ऽव्रते , जने॑ , त्रिः , सु॒प्र॒ऽअ॒व्ये॑ , त्रे॒धाऽइ॑व , शि॒क्ष॒तं॒ । त्रिः , नां॒द्यं॑ , व॒ह॒तं॒ , अ॒श्वि॒ना॒ , यु॒वं , त्रिः , पृक्षः॑ , अ॒स्मे इति॑ , अ॒क्षरा॑ऽइव , पि॒न्व॒तं॒ ॥
त्रिर्नो॑ र॒यिं व॑हतमश्विना यु॒वं त्रिर्दे॒वता॑ता॒ त्रिरु॒ताव॑तं॒ धियः॑ । त्रिः सौ॑भग॒त्वं त्रिरु॒त श्रवां॑सि नस्त्रि॒ष्ठं वां॒ सूरे॑ दुहि॒ता रु॑ह॒द्रथं॑ ॥
त्रिः , नः॒ , र॒यिं , व॒ह॒तं॒ , अ॒श्वि॒ना॒ , यु॒वं , त्रिः , दे॒वऽता॑ता , त्रिः , उ॒त , अ॒व॒तं॒ , धियः॑ । त्रिः , सौ॒भ॒ग॒ऽत्वं , त्रिः , उ॒त , श्रवां॑सि , नः॒ , त्रि॒ऽस्थं , वां॒ , सूरे॑ , दु॒हि॒ता , आ , रु॒ह॒त् , रथं॑ ॥
त्रिर्नो॑ अश्विना दि॒व्यानि॑ भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः । ओ॒मानं॑ शं॒योर्मम॑काय सू॒नवे॑ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती ॥
त्रिः , नः॒ , अ॒श्वि॒ना॒ , दि॒व्यानि॑ , भे॒ष॒जा , त्रिः , पार्थि॑वान् , त्रिः , ऊँ॒ इति॑ , द॒त्तं॒ , अ॒त्ऽभ्यः । ओ॒मानं॑ , शं॒ऽयोः , मम॑काय , सू॒नवे॑ , त्रि॒ऽधातु॑ , शर्म॑ , व॒ह॒तं॒ , शु॒भः॒ , प॒ती॒ इति॑ ॥
त्रिर्नो॑ अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतं । ति॒स्रो ना॑सत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वातः॒ स्वस॑राणि गच्छतं ॥
त्रिः , नः॒ , अ॒श्वि॒ना॒ , य॒ज॒ता , दि॒वेऽदि॑वे , परि॑ , त्रि॒ऽधातु॑ , पृ॒थि॒वीं , अ॒शा॒य॒तं॒ । ति॒स्रः , ना॒स॒त्या॒ , र॒थ्या॒ , प॒रा॒ऽवतः॑ , आ॒त्माऽइ॑व , वातः॑ , स्वस॑राणि , ग॒च्छ॒तं॒ ॥
त्रिर॑श्विना॒ सिंधु॑भिः स॒प्तमा॑तृभि॒स्त्रय॑ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तं । ति॒स्रः पृ॑थि॒वीरु॒परि॑ प्र॒वा दि॒वो नाकं॑ रक्षेथे॒ द्युभि॑र॒क्तुभि॑र्हि॒तं ॥
त्रिः , आ॒श्वि॒ना॒ , सिंधु॑ऽभिः , स॒प्तमा॑तृऽभिः , त्रयः॑ , आ॒ऽहा॒वाः , त्रे॒धा , ह॒विः , कृ॒तं । ति॒स्रः , पृ॒थि॒वीः , उ॒परि॑ , प्र॒वा , दि॒वः , नाकं॑ , र॒क्षे॒थे॒ इति॑ , द्युऽभिः॑ , अ॒क्तुऽभिः॑ , हि॒तं ॥
क्व१॒॑ त्री च॒क्रा त्रि॒वृतो॒ रथ॑स्य॒ क्व१॒॑ त्रयो॑ वं॒धुरो॒ ये सनी॑ळाः । क॒दा योगो॑ वा॒जिनो॒ रास॑भस्य॒ येन॑ य॒ज्ञं ना॑सत्योपया॒थः ॥
क्व॑ , त्री , च॒क्रा , त्रि॒ऽवृतः॑ , रथ॑स्य , क्व॑ , त्रयः॑ , वं॒धुरः॑ , ये , सऽनी॑ळाः । क॒दा , योगः॑ , वा॒जिनः॑ , रास॑भस्य , येन॑ , य॒ज्ञं , ना॒स॒त्या॒ , उ॒प॒ऽया॒थः ॥
आ ना॑सत्या॒ गच्छ॑तं हू॒यते॑ ह॒विर्मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभिः॑ । यु॒वोर्हि पूर्वं॑ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तवं॑त॒मिष्य॑ति ॥
आ , ना॒स॒त्या॒ , गच्छ॑तं , हू॒यते॑ , ह॒विः , मध्वः॑ , पि॒ब॒तं॒ , म॒धु॒ऽपेभिः॑ , आ॒सऽभिः॑ । यु॒वोः , हि , पूर्वं॑ , स॒वि॒ता , उ॒षसः॑ , रथं॑ , ऋ॒ताय॑ , चि॒त्रं , घृ॒तऽवं॑तं , इष्य॑ति ॥
आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना । प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥
आ , ना॒स॒त्या॒ , त्रि॒ऽभिः , ए॒का॒द॒शैः , इ॒ह , दे॒वेभिः॑ , या॒तं॒ , म॒धु॒ऽपेयं॑ , अ॒श्वि॒ना॒ । प्र , आयुः॑ , तारि॑ष्टं , निः , रपां॑सि , मृ॒क्ष॒तं॒ , सेध॑तं , द्वेषः॑ , भव॑तं , स॒चा॒ऽभुवा॑ ॥
आ नो॑ अश्विना त्रि॒वृता॒ रथे॑ना॒र्वांचं॑ र॒यिं व॑हतं सु॒वीरं॑ । शृ॒ण्वंता॑ वा॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥
आ , नः॒ , अ॒श्वि॒ना॒ , त्रि॒ऽवृता॑ , रथे॑न , अ॒र्वांचं॑ , र॒यिं , व॒ह॒तं॒ , सु॒ऽवीरं॑ । शृ॒ण्वंता॑ , वां॒ , अव॑से , जो॒ह॒वी॒मि॒ , वृ॒धे , च॒ , नः॒ , भ॒व॒तं॒ , वाज॑ऽसातौ ॥
[३५] ह्वयामीत्येकादशर्चस्यसूक्तस्यांगिरसोहिरण्यस्तूपः सवितात्रिष्टुप् आद्यायाश्चतुर्षुपादेषुक्रमेणाग्निमित्रावरुणरात्रिसवितारोदेवताः आद्यानवम्यौ जगत्यौ |
ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से । ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑ ॥
ह्वया॑मि , अ॒ग्निं , प्र॒थ॒मं , स्व॒स्तये॑ , ह्वया॑मि , मि॒त्रावरु॑णौ , इ॒ह , अव॑से । ह्वया॑मि , रात्रीं॑ , जग॑तः , नि॒ऽवेश॑नीं , ह्वया॑मि , दे॒वं , स॒वि॒तारं॑ , ऊ॒तये॑ ॥
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥
आ , कृ॒ष्णेन॑ , रज॑सा , वर्त॑मानः , नि॒ऽवे॒शय॑न् , अ॒मृतं॑ , मर्त्यं॑ , च॒ । हि॒र॒ण्यये॑न , स॒वि॒ता , रथे॑न , आ , दे॒वः , या॒ति॒ , भुव॑नानि , पश्य॑न् ॥
याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्यां । आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥
याति॑ , दे॒वः , प्र॒ऽवता॑ , याति॑ , उ॒त्ऽवता॑ , याति॑ , शु॒भ्राभ्यां॑ , य॒ज॒तः , हरि॑ऽभ्यां । आ , दे॒वः , या॒ति॒ , स॒वि॒ता , प॒रा॒ऽवतः॑ , अप॑ , विश्वा॑ , दुः॒ऽइ॒ता , बाध॑मानः ॥
अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हंतं॑ । आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥
अ॒भिऽवृ॑तं , कृश॑नैः , वि॒श्वऽरू॑पं॒ , हिर॑ण्यऽशम्यं , य॒ज॒तः , बृ॒हंतं॑ । आ , अ॒स्था॒त् , रथं॑ , स॒वि॒ता , चि॒त्रऽभा॑नुः , कृ॒ष्णा , रजां॑सि , तवि॑षीं , दधा॑नः ॥
वि जनां॑छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न्रथं॒ हिर॑ण्यप्रउगं॒ वहं॑तः । शश्व॒द्विशः॑ सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥
वि , जना॑न् , श्या॒वाः , शि॒ति॒ऽपादः॑ , अ॒ख्य॒न् , रथं॑ , हिर॑ण्यऽप्रउगं , वहं॑तः । शश्व॑त् , विशः॑ , स॒वि॒तुः , दैव्य॑स्य , उ॒पऽस्थे॑ , विश्वा॑ , भुव॑नानि , त॒स्थुः॒ ॥
ति॒स्रो द्यावः॑ सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् । आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥
ति॒स्रः , द्यावः॑ , स॒वि॒तुः , द्वौ , उ॒पऽस्था॑ , एका॑ , य॒मस्य॑ , भुव॑ने , वि॒रा॒षाट् । आ॒णिं , न , रथ्यं॑ , अ॒मृता॑ , अधि॑ , त॒स्थुः॒ , इ॒ह , ब्र॒वी॒तु॒ , यः , ऊँ॒ इति॑ , तत् , चिके॑तत् ॥
वि सु॑प॒र्णो अं॒तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः । क्वे॒३॒॑दानीं॒ सूर्यः॒ कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ॥
वि , सु॒ऽप॒र्णः , अं॒तरि॑क्षाणि , अ॒ख्य॒त् , ग॒भी॒रऽवे॑पाः , असु॑रः , सु॒ऽनी॒थः । क्व॑ , इ॒दानीं॑ , सूर्यः॑ , कः , चि॒के॒त॒ , क॒त॒मां , द्यां , र॒श्मिः , अ॒स्य॒ , आ , त॒ता॒न॒ ॥
अ॒ष्टौ व्य॑ख्यत्क॒कुभः॑ पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिंधू॑न् । हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥
अ॒ष्टौ , वि , अ॒ख्य॒त् , क॒कुभः॑ , पृ॒थि॒व्याः , त्री , धन्व॑ , योज॑ना , स॒प्त , सिंधू॑न् । हि॒र॒ण्य॒ऽअ॒क्षः , स॒वि॒ता , दे॒वः , आ , अ॒गा॒त् , दध॑त् , रत्ना॑ , दा॒शुषे॑ , वार्या॑णि ॥
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अं॒तरी॑यते । अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥
हिर॑ण्यऽपाणिः , स॒वि॒ता , विऽच॑र्षणिः , उ॒भे इति॑ , द्यावा॑पृथि॒वी इति॑ , अं॒तः , ई॒य॒ते॒ । अप॑ , अमी॑वां , बाध॑ते , वेति॑ , सूर्यं॑ , अ॒भि , कृ॒ष्णेन॑ , रज॑सा , द्यां , ऋ॒णो॒ति॒ ॥
हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् । अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥
हिर॑ण्यऽहस्तः , असु॑रः , सु॒ऽनी॒थः , सु॒ऽमृ॒ळी॒कः , स्वऽवा॑न् , या॒तु॒ , अ॒र्वाङ् । अ॒प॒ऽसेध॑न् , र॒क्षसः॑ , या॒तु॒ऽधाना॑न् , अस्था॑त् , दे॒वः , प्र॒ति॒ऽदो॒षं , गृ॒णा॒नः ॥
ये ते॒ पंथाः॑ सवितः पू॒र्व्यासो॑ऽरे॒णवः॒ सुकृ॑ता अं॒तरि॑क्षे । तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ॥
ये , ते॒ , पंथाः॑ , स॒वि॒त॒रिति॑ , पू॒र्व्यासः॑ , अ॒रे॒णवः॑ , सुऽकृ॑ताः , अं॒तरि॑क्षे । तेभिः॑ , नः॒ , अ॒द्य , प॒थिऽभिः॑ , सु॒ऽगेभिः॑ , रक्ष॑ , च॒ , नः॒ , अधि॑ , च॒ , ब्रू॒हि॒ , दे॒व॒ ॥
[३६] प्रवोयह्वमितिविंशत्यचस्य सूक्तस्य घौरः कण्वोग्निः ऊर्ध्वऊषुणइतिद्वयोर्यूपः प्रगाथः (अयुजोबृहत्यः युजः सतोबृहत्यइत्यर्थः) |
प्र वो॑ य॒ह्वं पु॑रू॒णां वि॒शां दे॑वय॒तीनां॑ । अ॒ग्निं सू॒क्तेभि॒र्वचो॑भिरीमहे॒ यं सी॒मिद॒न्य ईळ॑ते ॥
प्र , वः॒ , य॒ह्वं , पु॒रू॒णां , वि॒शां , दे॒व॒ऽय॒तीनां॑ । अ॒ग्निं , सु॒ऽउ॒क्तेभिः॑ , वचः॑ऽभिः , ई॒म॒हे॒ , यं , सीं॒ , इत् , अ॒न्ये , ईळ॑ते ॥
जना॑सो अ॒ग्निं द॑धिरे सहो॒वृधं॑ ह॒विष्मं॑तो विधेम ते । स त्वं नो॑ अ॒द्य सु॒मना॑ इ॒हावि॒ता भवा॒ वाजे॑षु संत्य ॥
जना॑सः , अ॒ग्निं , द॒धि॒रे॒ , स॒हः॒ऽवृधं॑ , ह॒विष्मं॑तः , वि॒धे॒म॒ , ते॒ । सः , त्वं , नः॒ , अ॒द्य , सु॒ऽमनाः॑ , इ॒ह , अ॒वि॒ता , भव॑ , वाजे॑षु , सं॒त्य॒ ॥
प्र त्वा॑ दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसं । म॒हस्ते॑ स॒तो वि च॑रंत्य॒र्चयो॑ दि॒वि स्पृ॑शंति भा॒नवः॑ ॥
प्र , त्वा॒ , दू॒तं , वृ॒णी॒म॒हे॒ , होता॑रं , वि॒श्वऽवे॑दसं । म॒हः , ते॒ , स॒तः , वि , च॒रं॒ति॒ , अ॒र्चयः॑ , दि॒वि , स्पृ॒शं॒ति॒ , भा॒नवः॑ ॥
दे॒वास॑स्त्वा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा सं दू॒तं प्र॒त्नमिं॑धते । विश्वं॒ सो अ॑ग्ने जयति॒ त्वया॒ धनं॒ यस्ते॑ द॒दाश॒ मर्त्यः॑ ॥
दे॒वासः॑ , त्वा॒ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा , सं , दू॒तं , प्र॒त्नं , इं॒ध॒ते॒ । विश्वं॑ , सः , अ॒ग्ने॒ , ज॒य॒ति॒ , त्वया॑ , धनं॑ , यः , ते॒ , द॒दाश॑ , मर्त्यः॑ ॥
मं॒द्रो होता॑ गृ॒हप॑ति॒रग्ने॑ दू॒तो वि॒शाम॑सि । त्वे विश्वा॒ संग॑तानि व्र॒ता ध्रु॒वा यानि॑ दे॒वा अकृ॑ण्वत ॥
मं॒द्रः , होता॑ , गृ॒हऽप॑तिः , अग्ने॑ , दू॒तः , वि॒शां , अ॒सि॒ । त्वे इति॑ , विश्वा॑ , संऽग॑तानि , व्र॒ता , ध्रु॒वा , यानि॑ , दे॒वाः , अकृ॑ण्वत ॥
त्वे इद॑ग्ने सु॒भगे॑ यविष्ठ्य॒ विश्व॒मा हू॑यते ह॒विः । स त्वं नो॑ अ॒द्य सु॒मना॑ उ॒ताप॒रं यक्षि॑ दे॒वांत्सु॒वीर्या॑ ॥
त्वे इति॑ , इत् , अ॒ग्ने॒ , सु॒ऽभगे॑ , य॒वि॒ष्ठ्य॒ , विश्वं॑ , आ , हू॒य॒ते॒ , ह॒विः । सः , त्वं , नः॒ , अ॒द्य , सु॒ऽमनाः॑ , उ॒त , अ॒प॒रं , यक्षि॑ , दे॒वान् , सु॒ऽवीर्या॑ ॥
तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते । होत्रा॑भिर॒ग्निं मनु॑षः॒ समिं॑धते तिति॒र्वांसो॒ अति॒ स्रिधः॑ ॥
तं , घ॒ , ईं॒ , इ॒त्था , न॒म॒स्विनः॑ , उप॑ , स्व॒ऽराजं॑ , आ॒स॒ते॒ । होत्रा॑भिः , अ॒ग्निं , मनु॑षः , सं , इं॒ध॒ते॒ , ति॒ति॒र्वांसः॑ , अति॑ , स्रिधः॑ ॥
घ्नंतो॑ वृ॒त्रम॑तर॒न्रोद॑सी अ॒प उ॒रु क्षया॑य चक्रिरे । भुव॒त्कण्वे॒ वृषा॑ द्यु॒म्न्याहु॑तः॒ क्रंद॒दश्वो॒ गवि॑ष्टिषु ॥
घ्नंतः॑ , वृ॒त्रं , अ॒त॒र॒न् , रोद॑सी॒ इति॑ , अ॒पः , उ॒रु , क्षया॑य , च॒क्रि॒रे॒ । भुव॑त् , कण्वे॑ , वृषा॑ , द्यु॒म्नी , आऽहु॑तः , क्रंद॑त् , अश्वः॑ , गोऽइ॑ष्टिषु ॥
सं सी॑दस्व म॒हाँ अ॑सि॒ शोच॑स्व देव॒वीत॑मः । वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तं ॥
सं , सी॒द॒स्व॒ , म॒हान् , अ॒सि॒ , शोच॑स्व , दे॒व॒ऽवीत॑मः । वि , धू॒मं , अ॒ग्ने॒ , अ॒रु॒षं , मि॒ये॒ध्य॒ , सृ॒ज , प्र॒ऽश॒स्त॒ , द॒र्श॒तं ॥
यं त्वा॑ दे॒वासो॒ मन॑वे द॒धुरि॒ह यजि॑ष्ठं हव्यवाहन । यं कण्वो॒ मेध्या॑तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु॑पस्तु॒तः ॥
यं , त्वा॒ , दे॒वासः॑ , मन॑वे , द॒धुः , इ॒ह , यजि॑ष्ठं , ह॒व्य॒ऽवा॒ह॒न॒ । यं , कण्वः॑ , मेध्य॑ऽअतिथिः , ध॒न॒ऽस्पृतं॑ , यं , वृषा॑ , यं , उ॒प॒ऽस्तु॒तः ॥
यम॒ग्निं मेध्या॑तिथिः॒ कण्व॑ ई॒ध ऋ॒तादधि॑ । तस्य॒ प्रेषो॑ दीदियु॒स्तमि॒मा ऋच॒स्तम॒ग्निं व॑र्धयामसि ॥
यं , अ॒ग्निं , मेध्य॑ऽअतिथिः , कण्वः॑ , ई॒धे , ऋ॒तात् , अधि॑ । तस्य॑ , प्र , इषः॑ , दी॒दि॒युः॒ , तं , इ॒माः , ऋचः॑ , तं , अ॒ग्निं , व॒र्ध॒या॒म॒सि॒ ॥
रा॒यस्पू॑र्धि स्वधा॒वोऽस्ति॒ हि तेऽग्ने॑ दे॒वेष्वाप्यं॑ । त्वं वाज॑स्य॒ श्रुत्य॑स्य राजसि॒ स नो॑ मृळ म॒हाँ अ॑सि ॥
रा॒यः , पू॒र्धि॒ , स्व॒धा॒ऽवः॒ , अस्ति॑ , हि , ते॒ , अग्ने॑ , दे॒वेषु॑ , आप्यं॑ । त्वं , वाज॑स्य , श्रुत्य॑स्य , रा॒ज॒सि॒ , सः , नः॒ , मृ॒ळ॒ , म॒हान् , अ॒सि॒ ॥
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यदं॒जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥
ऊ॒र्ध्वः , ऊँ॒ इति॑ , सु , नः॒ , ऊ॒तये॑ , तिष्ठ॑ , दे॒वः , न , स॒वि॒ता । ऊ॒र्ध्वः , वाज॑स्य , सनि॑ता , यत् , अं॒जिऽभिः॑ , वा॒घत्ऽभिः॑ , वि॒ऽह्वया॑महे ॥
ऊ॒र्ध्वो नः॑ पा॒ह्यंह॑सो॒ नि के॒तुना॒ विश्वं॒ सम॒त्रिणं॑ दह । कृ॒धी न॑ ऊ॒र्ध्वांच॒रथा॑य जी॒वसे॑ वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ॥
ऊ॒र्ध्वः , नः॒ , पा॒हि॒ , अंह॑सः , नि , के॒तुना॑ , विश्वं॑ , सं , अ॒त्रिणं॑ , द॒ह॒ । कृ॒धि , नः॒ , ऊ॒र्ध्वान् , च॒रथा॑य , जी॒वसे॑ , वि॒दाः , दे॒वेषु॑ , नः॒ , दुवः॑ ॥
पा॒हि नो॑ अग्ने र॒क्षसः॑ पा॒हि धू॒र्तेररा॑व्णः । पा॒हि रीष॑त उ॒त वा॒ जिघां॑सतो॒ बृह॑द्भानो॒ यवि॑ष्ठ्य ॥
पा॒हि , नः॒ , अ॒ग्ने॒ , र॒क्षसः॑ , पा॒हि , धू॒र्तेः , अरा॑व्णः । पा॒हि , रिष॑तः , उ॒त , वा॒ , जिघां॑सतः , बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो , यवि॑ष्ठ्य ॥
घ॒नेव॒ विष्व॒ग्वि ज॒ह्यरा॑व्ण॒स्तपु॑र्जंभ॒ यो अ॑स्म॒ध्रुक् । यो मर्त्यः॒ शिशी॑ते॒ अत्य॒क्तुभि॒र्मा नः॒ स रि॒पुरी॑शत ॥
घ॒नाऽइ॑व , विष्व॑क् , वि , ज॒हि॒ , अरा॑व्णः , तपुः॑ऽजंभ , यः , अ॒स्म॒ऽध्रुक् । यः , मर्त्यः॑ , शिशी॑ते , अति॑ , अ॒क्तुऽभिः॑ , मा , नः॒ , सः , रि॒पुः , ई॒श॒त॒ ॥
अ॒ग्निर्व॑व्ने सु॒वीर्य॑म॒ग्निः कण्वा॑य॒ सौभ॑गं । अ॒ग्निः प्राव॑न्मि॒त्रोत मेध्या॑तिथिम॒ग्निः सा॒ता उ॑पस्तु॒तं ॥
अ॒ग्निः , व॒व्ने॒ , सु॒ऽवीर्यं॑ , अ॒ग्निः , कण्वा॑य , सौभ॑गं । अ॒ग्निः , प्र , आ॒व॒त् , मि॒त्रा , उ॒त , मेध्य॑ऽअतिथिं , अ॒ग्निः , सा॒तौ , उ॒प॒ऽस्तु॒तं ॥
अ॒ग्निना॑ तु॒र्वशं॒ यदुं॑ परा॒वत॑ उ॒ग्रादे॑वं हवामहे । अ॒ग्निर्न॑य॒न्नव॑वास्त्वं बृ॒हद्र॑थं तु॒र्वीतिं॒ दस्य॑वे॒ सहः॑ ॥
अ॒ग्निना॑ , तु॒र्वशं॑ , यदुं॑ , प॒रा॒ऽवतः॑ , उ॒ग्रऽदे॑वं , ह॒वा॒म॒हे॒ । अ॒ग्निः , न॒य॒त् , नव॑ऽवास्त्वं , बृ॒हत्ऽर॑थं , तु॒र्वीतिं॑ , दस्य॑वे , सहः॑ ॥
नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना॑य॒ शश्व॑ते । दी॒देथ॒ कण्व॑ ऋ॒तजा॑त उक्षि॒तो यं न॑म॒स्यंति॑ कृ॒ष्टयः॑ ॥
नि , त्वां , अ॒ग्ने॒ , मनुः॑ , द॒धे॒ , ज्योतिः॑ , जना॑य , शश्व॑ते । दी॒देथ॑ , कण्वे॑ , ऋ॒तऽजा॑तः , उ॒क्षि॒तः , यं , न॒म॒स्यंति॑ , कृ॒ष्टयः॑ ॥
त्वे॒षासो॑ अ॒ग्नेरम॑वंतो अ॒र्चयो॑ भी॒मासो॒ न प्रती॑तये । र॒क्ष॒स्विनः॒ सद॒मिद्या॑तु॒माव॑तो॒ विश्वं॒ सम॒त्रिणं॑ दह ॥
त्वे॒षासः॑ , अ॒ग्नेः , अम॑ऽवंतः , अ॒र्चयः॑ , भी॒मासः॑ , न , प्रति॑ऽइतये । र॒क्ष॒स्विनः॑ , सदं॑ , इत् , या॒तु॒ऽमाव॑तः , विश्वं॑ , सं , अ॒त्रिणं॑ , द॒ह॒ ॥
[३७] क्रीळंवइतिपंचदशर्चस्य सूक्तस्य घौरःकण्वोमरुतो गायत्री |
क्री॒ळं वः॒ शर्धो॒ मारु॑तमन॒र्वाणं॑ रथे॒शुभं॑ । कण्वा॑ अ॒भि प्र गा॑यत ॥
क्री॒ळं , वः॒ , शर्धः॑ , मारु॑तं , अ॒न॒र्वाणं॑ , र॒थे॒ऽशुभं॑ । कण्वाः॑ , अ॒भि , प्र , गा॒य॒त॒ ॥
ये पृष॑तीभिर्ऋ॒ष्टिभिः॑ सा॒कं वाशी॑भिरं॒जिभिः॑ । अजा॑यंत॒ स्वभा॑नवः ॥
ये , पृष॑तीभिः , ऋ॒ष्टिऽभिः॑ , सा॒कं , वाशी॑भिः , अं॒जिऽभिः॑ । अजा॑यंत , स्वऽभा॑नवः ॥
इ॒हेव॑ शृण्व एषां॒ कशा॒ हस्ते॑षु॒ यद्वदा॑न् । नि यामं॑चि॒त्रमृं॑जते ॥
इ॒हऽइ॑व , शृ॒ण्वे॒ , ए॒षां॒ , कशाः॑ , हस्ते॑षु , यत् , वदा॑न् । नि , याम॑न् , चि॒त्रं , ऋं॒ज॒ते॒ ॥
प्र वः॒ शर्धा॑य॒ घृष्व॑ये त्वे॒षद्यु॑म्नाय शु॒ष्मिणे॑ । दे॒वत्तं॒ ब्रह्म॑ गायत ॥
प्र , वः॒ , शर्धा॑य , घृष्व॑ये , त्वे॒षऽद्यु॑म्नाय , शु॒ष्मिणे॑ । दे॒वत्तं॑ , ब्रह्म॑ , गा॒य॒त॒ ॥
प्र शं॑सा॒ गोष्वघ्न्यं॑ क्री॒ळं यच्छर्धो॒ मारु॑तं । जंभे॒ रस॑स्य वावृधे ॥
प्र , शं॒स॒ , गोषु॑ , अघ्न्यं॑ , क्री॒ळं , यत् , शर्धः॑ , मारु॑तं । जंभे॑ , रस॑स्य , व॒वृ॒धे॒ ॥
को वो॒ वर्षि॑ष्ठ॒ आ न॑रो दि॒वश्च॒ ग्मश्च॑ धूतयः । यत्सी॒मंतं॒ न धू॑नु॒थ ॥
कः , वः॒ , वर्षि॑ष्ठः , आ , न॒रः॒ , दि॒वः , च॒ , ग्मः , च॒ , धू॒त॒यः॒ । यत् , सीं॒ , अंतं॑ , न , धू॒नु॒थ ॥
नि वो॒ यामा॑य॒ मानु॑षो द॒ध्र उ॒ग्राय॑ म॒न्यवे॑ । जिही॑त॒ पर्व॑तो गि॒रिः ॥
नि , वः॒ , यामा॑य , मानु॑षः , द॒ध्रे , उ॒ग्राय॑ , म॒न्यवे॑ । जिही॑त , पर्व॑तः , गि॒रिः ॥
येषा॒मज्मे॑षु पृथि॒वी जु॑जु॒र्वाँ इ॑व वि॒श्पतिः॑ । भि॒या यामे॑षु॒ रेज॑ते ॥
येषां॑ , अज्मे॑षु , पृ॒थि॒वी , जु॒जु॒र्वान्ऽइ॑व , वि॒श्पतिः॑ । भि॒या , यामे॑षु , रेज॑ते ॥
स्थि॒रं हि जान॑मेषां॒ वयो॑ मा॒तुर्निरे॑तवे । यत्सी॒मनु॑ द्वि॒ता शवः॑ ॥
स्थि॒रं , हि , जानं॑ , ए॒षां॒ , वयः॑ , मा॒तुः , निःऽए॑तवे । यत् , सीं॒ , अनु॑ , द्वि॒ता , शवः॑ ॥
उदु॒ त्ये सू॒नवो॒ गिरः॒ काष्ठा॒ अज्मे॑ष्वत्नत । वा॒श्रा अ॑भि॒ज्ञु यात॑वे ॥
उत् , ऊँ॒ इति॑ , त्ये , सू॒नवः॑ , गिरः॑ , काष्ठाः॑ , अज्मे॑षु , अ॒त्न॒त॒ । वा॒श्राः , अ॒भि॒ऽज्ञु , यात॑वे ॥
त्यं चि॑द्घा दी॒र्घं पृ॒थुं मि॒हो नपा॑त॒ममृ॑ध्रं । प्र च्या॑वयंति॒ याम॑भिः ॥
त्यं , चि॒त् , घ॒ , दी॒र्घं , पृ॒थुं , मि॒हः , नपा॑तं , अमृ॑ध्रं । प्र , च्य॒व॒यं॒ति॒ , याम॑ऽभिः ॥
मरु॑तो॒ यद्ध॑ वो॒ बलं॒ जनाँ॑ अचुच्यवीतन । गि॒रीँर॑चुच्यवीतन ॥
मरु॑तः , यत् , ह॒ , वः॒ , बलं॑ , जना॑न् , अ॒चु॒च्य॒वी॒त॒न॒ । गि॒रीन् , अ॒चु॒च्य॒वी॒त॒न॒ ॥
यद्ध॒ यांति॑ म॒रुतः॒ सं ह॑ ब्रुव॒तेऽध्व॒न्ना । शृ॒णोति॒ कश्चि॑देषां ॥
यत् , ह॒ , यांति॑ , म॒रुतः॑ , सं , ह॒ , ब्रु॒व॒ते॒ , अध्व॑न् , आ । शृ॒णोति॑ , कः , चि॒त् , ए॒षां॒ ॥
प्र या॑त॒ शीभ॑मा॒शुभिः॒ संति॒ कण्वे॑षु वो॒ दुवः॑ । तत्रो॒ षु मा॑दयाध्वै ॥
प्र , या॒त॒ , शीभं॑ , आ॒शुऽभिः॑ , संति॑ , कण्वे॑षु , वः॒ , दुवः॑ । तत्रो॒ इति॑ , सु , मा॒द॒या॒ध्वै॒ ॥
अस्ति॒ हि ष्मा॒ मदा॑य वः॒ स्मसि॑ ष्मा व॒यमे॑षां । विश्वं॑ चि॒दायु॑र्जी॒वसे॑ ॥
अस्ति॑ , हि , स्म॒ , मदा॑य , वः॒ , स्मसि॑ , स्म॒ , व॒यं , ए॒षां॒ । विश्वं॑ , चि॒त् , आयुः॑ , जी॒वसे॑ ॥
[३८] कद्धनूनमिति पंचदशर्चस्य सूक्तस्य घौरः कण्वो मरुतो गायत्री |
कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः । द॒धि॒ध्वे वृ॑क्तबर्हिषः ॥
कत् , ह॒ , नू॒नं , क॒ध॒ऽप्रि॒यः॒ , पि॒ता , पु॒त्रं , न , हस्त॑योः । द॒धि॒ध्वे , वृ॒क्त॒ऽब॒र्हि॒षः॒ ॥
क्व॑ नू॒नं कद्वो॒ अर्थं॒ गंता॑ दि॒वो न पृ॑थि॒व्याः । क्व॑ वो॒ गावो॒ न र॑ण्यंति ॥
क्व॑ , नू॒नं , कत् , वः॒ , अर्थं॑ , गंत॑ , दि॒वः , न , पृ॒थि॒व्याः । क्व॑ , वः॒ , गावः॑ , न , र॒ण्यं॒ति॒ ॥
क्व॑ वः सु॒म्ना नव्यां॑सि॒ मरु॑तः॒ क्व॑ सुवि॒ता । क्वो॒३॒॑ विश्वा॑नि॒ सौभ॑गा ॥
क्व॑ , वः॒ , सु॒म्ना , नव्यां॑सि , मरु॑तः , क्व॑ , सु॒वि॒ता । क्वो॒३॒॑ इति॑ , विश्वा॑नि , सौभ॑गा ॥
यद्यू॒यं पृ॑श्निमातरो॒ मर्ता॑सः॒ स्यात॑न । स्तो॒ता वो॑ अ॒मृतः॑ स्यात् ॥
यत् , यू॒यं , पृ॒श्नि॒ऽमा॒त॒रः॒ , मर्ता॑सः , स्यात॑न । स्तो॒ता , वः॒ , अ॒मृतः॑ , स्या॒त् ॥
मा वो॑ मृ॒गो न यव॑से जरि॒ता भू॒दजो॑ष्यः । प॒था य॒मस्य॑ गा॒दुप॑ ॥
मा , वः॒ , मृ॒गः , न , यव॑से , ज॒रि॒ता , भू॒त् , अजो॑ष्यः । प॒था , य॒मस्य॑ , गा॒त् , उप॑ ॥
मो षु णः॒ परा॑परा॒ निर्ऋ॑तिर्दु॒र्हणा॑ वधीत् । प॒दी॒ष्ट तृष्ण॑या स॒ह ॥
मो इति॑ , सु , नः॒ , परा॑ऽपरा , निःऽऋ॑तिः , दुः॒ऽहना॑ , व॒धी॒त् । प॒दी॒ष्ट , तृष्ण॑या , स॒ह ॥
स॒त्यं त्वे॒षा अम॑वंतो॒ धन्वं॑चि॒दा रु॒द्रिया॑सः । मिहं॑ कृण्वंत्यवा॒तां ॥
स॒त्यं , त्वे॒षाः , अम॑ऽवंतः , धन्व॑न् , चि॒त् , आ , रु॒द्रिया॑सः । मिहं॑ , कृ॒ण्वं॒ति॒ , अ॒वा॒तां ॥
वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति । यदे॑षां वृ॒ष्टिरस॑र्जि ॥
वा॒श्राऽइ॑व , वि॒ऽद्युत् , मि॒मा॒ति॒ , व॒त्सं , न , मा॒ता , सि॒स॒क्ति॒ । यत् , ए॒षां॒ , वृ॒ष्टिः , अस॑र्जि ॥
दिवा॑ चि॒त्तमः॑ कृण्वंति प॒र्जन्ये॑नोदवा॒हेन॑ । यत्पृ॑थि॒वीं व्युं॒दंति॑ ॥
दिवा॑ , चि॒त् , तमः॑ , कृ॒ण्वं॒ति॒ , प॒र्जन्ये॑न , उ॒द॒ऽवा॒हेन॑ । यत् , पृ॒थि॒वीं , वि॒ऽउं॒दंति॑ ॥
अध॑ स्व॒नान्म॒रुतां॒ विश्व॒मा सद्म॒ पार्थि॑वं । अरे॑जंत॒ प्र मानु॑षाः ॥
अध॑ , स्व॒नात् , म॒रुतां॑ , विश्वं॑ , आ , सद्म॑ , पार्थि॑वं । अरे॑जंत , प्र , मानु॑षाः ॥
मरु॑तो वीळुपा॒णिभि॑श्चि॒त्रा रोध॑स्वती॒रनु॑ । या॒तेमखि॑द्रयामभिः ॥
मरु॑तः , वी॒ळु॒पा॒णिऽभिः॑ , चि॒त्राः , रोध॑स्वतीः , अनु॑ । या॒त , ईं॒ , अखि॑द्रयामऽभिः ॥
स्थि॒रा वः॑ संतु ने॒मयो॒ रथा॒ अश्वा॑स एषां । सुसं॑स्कृता अ॒भीश॑वः ॥
स्थि॒राः , वः॒ , सं॒तु॒ , ने॒मयः॑ , रथाः॑ , अश्वा॑सः , ए॒षां॒ । सुऽसं॑स्कृताः , अ॒भीश॑वः ॥
अच्छा॑ वदा॒ तना॑ गि॒रा ज॒रायै॒ ब्रह्म॑ण॒स्पतिं॑ । अ॒ग्निं मि॒त्रं न द॑र्श॒तं ॥
अच्छ॑ , व॒द॒ , तना॑ , गि॒रा , ज॒रायै॑ , ब्रह्म॑णः , पतिं॑ । अ॒ग्निं , मि॒त्रं , न , द॒र्श॒तं ॥
मि॒मी॒हि श्लोक॑मा॒स्ये॑ प॒र्जन्य॑ इव ततनः । गाय॑ गाय॒त्रमु॒क्थ्यं॑ ॥
मि॒मी॒हि , श्लोकं॑ , आ॒स्ये॑ , प॒र्जन्यः॑ऽइव , त॒त॒नः॒ । गाय॑ , गा॒य॒त्रं , उ॒क्थ्यं॑ ॥
वंद॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किणं॑ । अ॒स्मे वृ॒द्धा अ॑सन्नि॒ह ॥
वंद॑स्व , मारु॑तं , ग॒णं , त्वे॒षं , प॒न॒स्युं , अ॒र्किणं॑ । अ॒स्मे इति॑ , वृ॒द्धाः , अ॒स॒न् , इ॒ह ॥
[३९] प्रयदित्थेतिदशर्चस्य सूक्तस्य घौरः कण्वोमरुतो बार्हतप्रगाथः (अयुजो बृहत्यः युजः सतोबृहत्यः) |
प्र यदि॒त्था प॑रा॒वतः॑ शो॒चिर्न मान॒मस्य॑थ । कस्य॒ क्रत्वा॑ मरुतः॒ कस्य॒ वर्प॑सा॒ कं या॑थ॒ कं ह॑ धूतयः ॥
प्र , यत् , इ॒त्था , प॒रा॒ऽवतः॑ , शो॒चिः , न , मानं॑ , अस्य॑थ । कस्य॑ , क्रत्वा॑ , म॒रु॒तः॒ , कस्य॑ , वर्प॑सा , कं , या॒थ॒ , कं , ह॒ , धू॒त॒यः॒ ॥
स्थि॒रा वः॑ सं॒त्वायु॑धा परा॒णुदे॑ वी॒ळू उ॒त प्र॑ति॒ष्कभे॑ । यु॒ष्माक॑मस्तु॒ तवि॑षी॒ पनी॑यसी॒ मा मर्त्य॑स्य मा॒यिनः॑ ॥
स्थि॒रा , वः॒ , सं॒तु॒ , आयु॑धा , प॒रा॒ऽनुदे॑ , वी॒ळु , उ॒त , प्र॒ति॒ऽस्कभे॑ । यु॒ष्माकं॑ , अ॒स्तु॒ , तवि॑षी , पनी॑यसी , मा , मर्त्य॑स्य , मा॒यिनः॑ ॥
परा॑ ह॒ यत्स्थि॒रं ह॒थ नरो॑ व॒र्तय॑था गु॒रु । वि या॑थन व॒निनः॑ पृथि॒व्या व्याशाः॒ पर्व॑तानां ॥
परा॑ , ह॒ , यत् , स्थि॒रं , ह॒थ , नरः॑ , व॒र्तय॑थ , गु॒रु । वि , या॒थ॒न॒ , व॒निनः॑ , पृ॒थि॒व्याः , वि , आशाः॑ , पर्व॑तानां ॥
न॒हि वः॒ शत्रु॑र्विवि॒दे अधि॒ द्यवि॒ न भूम्यां॑ रिशादसः । यु॒ष्माक॑मस्तु॒ तवि॑षी॒ तना॑ यु॒जा रुद्रा॑सो॒ नू चि॑दा॒धृषे॑ ॥
न॒हि , वः॒ , शत्रुः॑ , वि॒वि॒दे , अधि॑ , द्यवि॑ , न , भूम्यां॑ , रि॒शा॒द॒सः॒ । यु॒ष्माकं॑ , अ॒स्तु॒ , तवि॑षी , तना॑ , यु॒जा , रुद्रा॑सः , नु , चि॒त् , आ॒ऽधृषे॑ ॥
प्र वे॑पयंति॒ पर्व॑ता॒न्वि विं॑चंति॒ वन॒स्पती॑न् । प्रो आ॑रत मरुतो दु॒र्मदा॑ इव॒ देवा॑सः॒ सर्व॑या वि॒शा ॥
प्र , वे॒प॒यं॒ति॒ , पर्व॑तान् , वि , विं॒चं॒ति॒ , वन॒स्पती॑न् । प्रो इति॑ , आ॒र॒त॒ , म॒रु॒तः॒ , दु॒र्मदाः॑ऽइव , देवा॑सः , सर्व॑या , वि॒शा ॥
उपो॒ रथे॑षु॒ पृष॑तीरयुग्ध्वं॒ प्रष्टि॑र्वहति॒ रोहि॑तः । आ वो॒ यामा॑य पृथि॒वी चि॑दश्रो॒दबी॑भयंत॒ मानु॑षाः ॥
उपो॒ इति॑ , रथे॑षु , पृष॑तीः , अ॒यु॒ग्ध्वं॒ , प्रष्टिः॑ , व॒ह॒ति॒ , रोहि॑तः । आ , वः॒ , यामा॑य , पृ॒थि॒वी , चि॒त् , अ॒श्रो॒त् , अबी॑भयंत , मानु॑षाः ॥
आ वो॑ म॒क्षू तना॑य॒ कं रुद्रा॒ अवो॑ वृणीमहे । गंता॑ नू॒नं नोऽव॑सा॒ यथा॑ पु॒रेत्था कण्वा॑य बि॒भ्युषे॑ ॥
आ , वः॒ , म॒क्षु , तना॑य , कं , रुद्राः॑ , अवः॑ , वृ॒णी॒म॒हे॒ । गंत॑ , नू॒नं , नः॒ , अव॑सा , यथा॑ , पु॒रा , इ॒त्था , कण्वा॑य , बि॒भ्युषे॑ ॥
यु॒ष्मेषि॑तो मरुतो॒ मर्त्ये॑षित॒ आ यो नो॒ अभ्व॒ ईष॑ते । वि तं यु॑योत॒ शव॑सा॒ व्योज॑सा॒ वि यु॒ष्माका॑भिरू॒तिभिः॑ ॥
यु॒ष्माऽइ॑षितः , म॒रु॒तः॒ , मर्त्य॑ऽइषितः , आ , यः , नः॒ , अभ्वः॑ , ईष॑ते । वि , तं , यु॒यो॒त॒ , शव॑सा , वि , ओज॑सा , वि , यु॒ष्माका॑भिः , ऊ॒तिऽभिः॑ ॥
असा॑मि॒ हि प्र॑यज्यवः॒ कण्वं॑ द॒द प्र॑चेतसः । असा॑मिभिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गंता॑ वृ॒ष्टिं न वि॒द्युतः॑ ॥
असा॑मि , हि , प्र॒ऽय॒ज्य॒वः॒ , कण्वं॑ , द॒द , प्र॒ऽचे॒त॒सः॒ । असा॑मिऽभिः , म॒रु॒तः॒ , आ , नः॒ , ऊ॒तिऽभिः॑ , गंत॑ , वृ॒ष्टिं , न , वि॒ऽद्युतः॑ ॥
असा॒म्योजो॑ बिभृथा सुदान॒वोऽसा॑मि धूतयः॒ शवः॑ । ऋ॒षि॒द्विषे॑ मरुतः परिम॒न्यव॒ इषुं॒ न सृ॑जत॒ द्विषं॑ ॥
असा॑मि , ओजः॑ , बि॒भृ॒थ॒ , सु॒ऽदा॒न॒वः॒ , असा॑मि , धू॒त॒यः॒ , शवः॑ । ऋ॒षि॒ऽद्विषे॑ , म॒रु॒तः॒ , प॒रि॒ऽम॒न्यवे॑ , इषुं॑ , न , सृ॒ज॒त॒ , द्विषं॑ ॥
[४०] उत्तिष्ठेत्यष्टर्चस्य सूक्तस्य घौरः कण्वोब्रह्मणस्पतिः प्रगाथः (अयुजोबृहत्यः युजः सतोबृहत्यः) |
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यंत॑स्त्वेमहे । उप॒ प्र यं॑तु म॒रुतः॑ सु॒दान॑व॒ इंद्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ॥
उत् , ति॒ष्ठ॒ , ब्र॒ह्म॒णः॒ , प॒ते॒ , दे॒व॒ऽयंतः॑ , त्वा॒ , ई॒म॒हे॒ । उप॑ , प्र , यं॒तु॒ , म॒रुतः॑ , सु॒ऽदान॑वः , इंद्र॑ , प्रा॒शूः , भ॒व॒ , सचा॑ ॥
त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने॑ हि॒ते । सु॒वीर्यं॑ मरुत॒ आ स्वश्व्यं॒ दधी॑त॒ यो व॑ आच॒के ॥
त्वां , इत् , हि , स॒ह॒सः॒ , पु॒त्र॒ , मर्त्यः॑ , उ॒प॒ऽब्रू॒ते , धने॑ , हि॒ते । सु॒ऽवीर्यं॑ , म॒रु॒तः॒ , आ , सु॒ऽअश्व्यं॑ , दधी॑त , यः , वः॒ , आ॒ऽच॒क्रे ॥
प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये॑तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ पं॒क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यंतु नः ॥
प्र , ए॒तु॒ , ब्रह्म॑णः , पतिः॑ , प्र , दे॒वी , ए॒तु॒ , सू॒नृता॑ । अच्छ॑ , वी॒रं , नर्यं॑ , पं॒क्तिऽरा॑धसं , दे॒वाः , य॒ज्ञं , न॒यं॒तु॒ , नः॒ ॥
यो वा॒घते॒ ददा॑ति सू॒नरं॒ वसु॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ । तस्मा॒ इळां॑ सु॒वीरा॒मा य॑जामहे सु॒प्रतू॑र्तिमने॒हसं॑ ॥
यः , वा॒घते॑ , ददा॑ति , सू॒नरं॑ , वसु॑ , सः , ध॒त्ते॒ , अक्षि॑ति , श्रवः॑ । तस्मै॑ , इळां॑ , सु॒ऽवीरां॑ , आ , य॒जा॒म॒हे॒ , सु॒ऽप्रतू॑र्तिं , अ॒ने॒हसं॑ ॥
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मंत्रं॑ वदत्यु॒क्थ्यं॑ । यस्मि॒न्निंद्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकां॑सि चक्रि॒रे ॥
प्र , नू॒नं , ब्रह्म॑णः , पतिः॑ , मंत्रं॑ , व॒द॒ति॒ , उ॒क्थ्यं॑ । यस्मि॑न् , इंद्रः॑ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा , दे॒वाः , ओकां॑सि , च॒क्रि॒रे ॥
तमिद्वो॑चेमा वि॒दथे॑षु शं॒भुवं॒ मंत्रं॑ देवा अने॒हसं॑ । इ॒मां च॒ वाचं॑ प्रति॒हर्य॑था नरो॒ विश्वेद्वा॒मा वो॑ अश्नवत् ॥
तं , इत् , वो॒चे॒म॒ , वि॒दथे॑षु , शं॒ऽभुवं॑ , मंत्रं॑ , दे॒वाः॒ , अ॒ने॒हसं॑ । इ॒मां , च॒ , वाचं॑ , प्र॒ति॒ऽहर्य॑थ , न॒रः॒ , विश्वा॑ , इत् , वा॒मा , वः॒ , अ॒श्न॒व॒त् ॥
को दे॑व॒यंत॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषं । प्रप्र॑ दा॒श्वान्प॒स्त्या॑भिरस्थितांत॒र्वाव॒त्क्षयं॑ दधे ॥
कः , दे॒व॒ऽयंतं॑ , अ॒श्न॒व॒त् , जनं॑ , कः , वृ॒क्तऽब॑र्हिषं । प्रऽप्र॑ , दा॒श्वान् , प॒स्त्या॑भिः , अ॒स्थि॒त॒ , अं॒तः॒ऽवाव॑त् , क्षयं॑ , द॒धे॒ ॥
उप॑ क्ष॒त्रं पृं॑ची॒त हंति॒ राज॑भिर्भ॒ये चि॑त्सुक्षि॒तिं द॑धे । नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे॑ अस्ति व॒ज्रिणः॑ ॥
उप॑ , क्ष॒त्रं , पृं॒ची॒त , हंति॑ , राज॑ऽभिः , भ॒ये , चि॒त् , सु॒ऽक्षि॒तिं , द॒धे॒ । न , अ॒स्य॒ , व॒र्ता , न , त॒रु॒ता , म॒हा॒ऽध॒ने , न , अर्भे॑ , अ॒स्ति॒ , व॒ज्रिणः॑ ॥
[४१] यंरक्षंतीति नवर्चस्य सूक्तस्य घौरःकण्वः आद्यानांतिसृणामंत्यानांतिसृणांचवरुणमित्रार्यमणस्तृतीयादितिसृणामादित्यागायत्री |
यं रक्षं॑ति॒ प्रचे॑तसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । नू चि॒त्स द॑भ्यते॒ जनः॑ ॥
यं , रक्षं॑ति , प्रऽचे॑तसः , वरु॑णः , मि॒त्रः , अ॒र्य॒मा । नु , चि॒त् , सः , द॒भ्य॒ते॒ , जनः॑ ॥
यं बा॒हुते॑व॒ पिप्र॑ति॒ पांति॒ मर्त्यं॑ रि॒षः । अरि॑ष्टः॒ सर्व॑ एधते ॥
यं , बा॒हुता॑ऽइव , पिप्र॑ति , पांति॑ , मर्त्यं॑ , रि॒षः । अरि॑ष्टः , सर्वः॑ , ए॒ध॒ते॒ ॥
वि दु॒र्गा वि द्विषः॑ पु॒रो घ्नंति॒ राजा॑न एषां । नयं॑ति दुरि॒ता ति॒रः ॥
वि , दुः॒ऽगा , वि , द्विषः॑ , पु॒रः , घ्नंति॑ , राजा॑नः , ए॒षां॒ । नयं॑ति , दुः॒ऽइ॒ता , ति॒रः ॥
सु॒गः पंथा॑ अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते । नात्रा॑वखा॒दो अ॑स्ति वः ॥
सु॒ऽगः , पंथा॑ , अ॒नृ॒क्ष॒रः , आदि॑त्यासः , ऋ॒तं , य॒ते । न , अत्र॑ , अ॒व॒ऽखा॒दः , अ॒स्ति॒ , वः॒ ॥
यं य॒ज्ञं नय॑था नर॒ आदि॑त्या ऋ॒जुना॑ प॒था । प्र वः॒ स धी॒तये॑ नशत् ॥
यं , य॒ज्ञं , नय॑थ , न॒रः॒ , आदि॑त्याः , ऋ॒जुना॑ , प॒था । प्र , वः॒ , सः , धी॒तये॑ , न॒श॒त् ॥
स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं॑ तो॒कमु॒त त्मना॑ । अच्छा॑ गच्छ॒त्यस्तृ॑तः ॥
सः , रत्नं॑ , मर्त्यः॑ , वसु॑ , विश्वं॑ , तो॒कं , उ॒त , त्मना॑ । अच्छ॑ , ग॒च्छ॒ति॒ , अस्तृ॑तः ॥
क॒था रा॑धाम सखायः॒ स्तोमं॑ मि॒त्रस्या॑र्य॒म्णः । महि॒ प्सरो॒ वरु॑णस्य ॥
क॒था , रा॒धा॒म॒ , स॒खा॒यः॒ , स्तोमं॑ , मि॒त्रस्य॑ , अ॒र्य॒म्णः । महि॑ , प्सरः॑ , वरु॑णस्य ॥
मा वो॒ घ्नंतं॒ मा शपं॑तं॒ प्रति॑ वोचे देव॒यंतं॑ । सु॒म्नैरिद्व॒ आ वि॑वासे ॥
मा , वः॒ , घ्नंतं॑ , मा , शपं॑तं , प्रति॑ , वो॒चे॒ , दे॒व॒ऽयंतं॑ । सु॒म्नैः , इत् , वः॒ , आ , वि॒वा॒से॒ ॥
च॒तुर॑श्चि॒द्दद॑मानाद्बिभी॒यादा निधा॑तोः । न दु॑रु॒क्ताय॑ स्पृहयेत् ॥
च॒तुरः॑ , चि॒त् , दद॑मानात् , बि॒भी॒यात् , आ , निऽधा॑तोः । न , दुः॒ऽउ॒क्ताय॑ , स्पृ॒ह॒ये॒त् ॥
[४२] संपूषन्निति दशर्चस्य सूक्तस्य घौरः कण्वः पूषागायत्री |
सं पू॑ष॒न्नध्व॑नस्तिर॒ व्यंहो॑ विमुचो नपात् । सक्ष्वा॑ देव॒ प्र ण॑स्पु॒रः ॥
सं , पू॒ष॒न् , अध्व॑नः , ति॒र॒ , वि , अंहः॑ , वि॒ऽमु॒चः॒ , न॒पा॒त् । सक्ष्व॑ , दे॒व॒ , प्र , नः॒ , पु॒रः ॥
यो नः॑ पूषन्न॒घो वृको॑ दुः॒शेव॑ आ॒दिदे॑शति । अप॑ स्म॒ तं प॒थो ज॑हि ॥
यः , नः॒ , पू॒ष॒न् , अ॒घः , वृकः॑ , दुः॒शेव॑ , आ॒ऽदिदे॑शति । अप॑ , स्म॒ , तं , प॒थः , ज॒हि॒ ॥
अप॒ त्यं प॑रिपं॒थिनं॑ मुषी॒वाणं॑ हुर॒श्चितं॑ । दू॒रमधि॑ स्रु॒तेर॑ज ॥
अप॑ , त्यं , प॒रि॒ऽपं॒थिनं॑ , मु॒षी॒वाणं॑ , हु॒रः॒ऽचितं॑ । दू॒रं , अधि॑ , स्रु॒तेः , अ॒ज॒ ॥
त्वं तस्य॑ द्वया॒विनो॒ऽघशं॑सस्य॒ कस्य॑ चित् । प॒दाभि ति॑ष्ठ॒ तपु॑षिं ॥
त्वं , तस्य॑ , द्व॒या॒विनः॑ , अ॒घऽशं॑सस्य , कस्य॑ , चि॒त् । प॒दा , अ॒भि , ति॒ष्ठ॒ , तपु॑षिं ॥
आ तत्ते॑ दस्र मंतुमः॒ पूष॒न्नवो॑ वृणीमहे । येन॑ पि॒तॄनचो॑दयः ॥
आ , तत् , ते॒ , द॒स्र॒ , मं॒तु॒ऽमः॒ , पू॒ष॒न् , अवः॑ , वृ॒णी॒म॒हे॒ । येन॑ , पि॒तॄन् , अचो॑दयः ॥
अधा॑ नो विश्वसौभग॒ हिर॑ण्यवाशीमत्तम । धना॑नि सु॒षणा॑ कृधि ॥
अध॑ , नः॒ , वि॒श्व॒ऽसौ॒भ॒ग॒ , हिर॑ण्यवाशीमत्ऽतम । धना॑नि , सु॒ऽसना॑ , कृ॒धि॒ ॥
अति॑ नः स॒श्चतो॑ नय सु॒गा नः॑ सु॒पथा॑ कृणु । पूष॑न्नि॒ह क्रतुं॑ विदः ॥
अति॑ , नः , स॒श्चतः॑ , न॒य॒ , सु॒ऽगा , नः॒ , सु॒ऽपथा॑ , कृ॒णु॒ । पूष॑न् , इ॒ह , क्रतुं॑ , वि॒दः॒ ॥
अ॒भि सू॒यव॑सं नय॒ न न॑वज्वा॒रो अध्व॑ने । पूष॑न्नि॒ह क्रतुं॑ विदः ॥
अ॒भि , सु॒ऽयव॑सं , न॒य॒ , न , न॒व॒ऽज्वा॒रः , अध्व॑ने । पूष॑न् , इ॒ह , क्रतुं॑ , वि॒दः॒ ॥
श॒ग्धि पू॒र्धि प्र यं॑सि च शिशी॒हि प्रास्यु॒दरं॑ । पूष॑न्नि॒ह क्रतुं॑ विदः ॥
श॒ग्धि , पू॒र्धि , प्र , यं॒सि॒ , च॒ , शि॒शी॒हि , प्रासि॑ , उ॒दरं॑ । पूष॑न् , इ॒ह , क्रतुं॑ , वि॒दः॒ ॥
न पू॒षणं॑ मेथामसि सू॒क्तैर॒भि गृ॑णीमसि । वसू॑नि द॒स्ममी॑महे ॥
न , पू॒षणं॑ , मे॒था॒म॒सि॒ , सु॒ऽउ॒क्तैः , अ॒भि , गृ॒णी॒म॒सि॒ । वसू॑नि , द॒स्मं , ई॒म॒हे॒ ॥
[४३] कद्रुद्रायेतिनवर्चस्य सूक्तस्य घौरः कण्वोरुद्रस्तृतीयायामित्रावरुणौचसप्तम्यादितृचस्य सोमो गायत्र्यंत्यानुष्टुप् |
कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शंत॑मं हृ॒दे ॥
कत् , रु॒द्राय॑ , प्रऽचे॑तसे , मी॒ळ्हुःऽत॑माय , तव्य॑से । वो॒चेम॑ , शंऽत॑मं , हृ॒दे ॥
यथा॑ नो॒ अदि॑तिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ । यथा॑ तो॒काय॑ रु॒द्रियं॑ ॥
यथा॑ , नः॒ , अदि॑तिः , कर॑त् , पश्वे॑ , नृऽभ्यः॑ , यथा॑ , गवे॑ । यथा॑ , तो॒काय॑ , रु॒द्रियं॑ ॥
यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति । यथा॒ विश्वे॑ स॒जोष॑सः ॥
यथा॑ , नः॒ , मि॒त्रः , वरु॑णः , यथा॑ , रु॒द्रः , चिके॑तति । यथा॑ , विश्वे॑ , स॒ऽजोष॑सः ॥
गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला॑षभेषजं । तच्छं॒योः सु॒म्नमी॑महे ॥
गा॒थऽप॑तिं , मे॒धऽप॑तिं , रु॒द्रं , जला॑षऽभेषजं । तत् , शं॒ऽयोः , सु॒म्नं , ई॒म॒हे॒ ॥
यः शु॒क्र इ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते । श्रेष्ठो॑ दे॒वानां॒ वसुः॑ ॥
यः , शु॒क्रःऽइ॑व , सूर्यः॑ , हिर॑ण्यंऽइव , रोच॑ते । श्रेष्ठः॑ , दे॒वानां॑ , वसुः॑ ॥
शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑ । नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥
शं , नः॒ , क॒र॒ति॒ , अर्व॑ते , सु॒ऽगं , मे॒षाय॑ , मे॒ष्ये॑ । नृऽभ्यः॑ , नारि॑ऽभ्यः , गवे॑ ॥
अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णां । महि॒ श्रव॑स्तुविनृ॒म्णं ॥
अ॒स्मे इति॑ , सो॒म॒ , श्रियं॑ , अधि॑ , नि , धे॒हि॒ , श॒तस्य॑ , नृ॒णां । महि॑ , श्रवः॑ , तु॒वि॒ऽनृ॒म्णं ॥
मा नः॑ सोमपरि॒बाधो॒ मारा॑तयो जुहुरंत । आ न॑ इंदो॒ वाजे॑ भज ॥
मा , नः॒ , सो॒म॒ऽप॒रि॒बाधः॑ , मा , अरा॑तयः , जु॒हु॒रं॒त॒ । आ , नः॒ , इं॒दो॒ इति॑ , वाजे॑ , भ॒ज॒ ॥
यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मिं॒धाम॑न्नृ॒तस्य॑ । मू॒र्धा नाभा॑ सोम वेन आ॒भूषं॑तीः सोम वेदः ॥
याः , ते॒ , प्र॒ऽजाः , अ॒मृत॑स्य , पर॑स्मिन् , धाम॑न् , ऋ॒तस्य॑ । मू॒र्धा , नाभा॑ , सो॒म॒ , वे॒नः॒ , आ॒ऽभूषं॑तीः , सो॒म॒ , वे॒दः॒ ॥
[४४] अग्नेविवस्वदितिचतुर्दशर्चस्य सूक्तस्य काण्वः प्रस्कण्वोग्निराद्येअश्व्युषश्चप्रगाथः (अयुजोबृहत्यः युजःसतोबृहत्यः) |
अग्ने॒ विव॑स्वदु॒षस॑श्चि॒त्रं राधो॑ अमर्त्य । आ दा॒शुषे॑ जातवेदो वहा॒ त्वम॒द्या दे॒वाँ उ॑ष॒र्बुधः॑ ॥
अग्ने॑ , विव॑स्वत् , उ॒षसः॑ , चि॒त्रं , राधः॑ , अ॒म॒र्त्य॒ । आ , दा॒शुषे॑ , जा॒त॒ऽवे॒दः॒ , व॒ह॒ , त्वं , अ॒द्य , दे॒वान् , उ॒षः॒ऽबुधः॑ ॥
जुष्टो॒ हि दू॒तो असि॑ हव्य॒वाह॒नोऽग्ने॑ र॒थीर॑ध्व॒राणां॑ । स॒जूर॒श्विभ्या॑मु॒षसा॑ सु॒वीर्य॑म॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥
जुष्टः॑ , हि , दू॒तः , असि॑ , ह॒व्य॒ऽवाह॑नः , अग्ने॑ , र॒थीः , अ॒ध्व॒राणां॑ । स॒ऽजूः , अ॒श्विऽभ्यां॑ , उ॒षसा॑ , सु॒ऽवीर्यं॑ , अ॒स्मे इति॑ , धे॒हि॒ , श्रवः॑ , बृ॒हत् ॥
अ॒द्या दू॒तं वृ॑णीमहे॒ वसु॑म॒ग्निं पु॑रुप्रि॒यं । धू॒मके॑तुं॒ भाऋ॑जीकं॒ व्यु॑ष्टिषु य॒ज्ञाना॑मध्वर॒श्रियं॑ ॥
अ॒द्य , दू॒तं , वृ॒णी॒म॒हे॒ , वसुं॑ , अ॒ग्निं , पु॒रु॒ऽप्रि॒यं । धू॒मऽके॑तुं , भाःऽऋ॑जीकं , विऽउ॑ष्टिषु , य॒ज्ञानां॑ , अ॒ध्व॒र॒ऽश्रियं॑ ॥
श्रेष्ठं॒ यवि॑ष्ठ॒मति॑थिं॒ स्वा॑हुतं॒ जुष्टं॒ जना॑य दा॒शुषे॑ । दे॒वाँ अच्छा॒ यात॑वे जा॒तवे॑दसम॒ग्निमी॑ळे॒ व्यु॑ष्टिषु ॥
श्रेष्ठं॑ , यवि॑ष्ठं , अति॑थिं , सुऽआ॑हुतं , जुष्टं॑ , जना॑य , दा॒शुषे॑ । दे॒वान् , अच्छ॑ , यात॑वे , जा॒तऽवे॑दसं , अ॒ग्निं , ई॒ळे॒ , विऽउ॑ष्टिषु ॥
स्त॒वि॒ष्यामि॒ त्वाम॒हं विश्व॑स्यामृत भोजन । अग्ने॑ त्रा॒तार॑म॒मृतं॑ मियेध्य॒ यजि॑ष्ठं हव्यवाहन ॥
स्त॒वि॒ष्यामि॑ , त्वां , अ॒हं , विश्व॑स्य , अ॒मृ॒त॒ , भो॒ज॒न॒ । अग्ने॑ , त्रा॒तारं॑ , अ॒मृतं॑ , मि॒ये॒ध्य॒ , यजि॑ष्ठं , ह॒व्य॒ऽवा॒ह॒न॒ ॥
सु॒शंसो॑ बोधि गृण॒ते य॑विष्ठ्य॒ मधु॑जिह्वः॒ स्वा॑हुतः । प्रस्क॑ण्वस्य प्रति॒रन्नायु॑र्जी॒वसे॑ नम॒स्या दैव्यं॒ जनं॑ ॥
सु॒ऽशंसः॑ , बो॒धि॒ , गृ॒ण॒ते , य॒वि॒ष्ठ्य॒ , मधु॑ऽजिह्वः , सुऽआ॑हुतः । प्रस्क॑ण्वस्य , प्र॒ऽति॒रन् , आयुः॑ , जी॒वसे॑ , न॒म॒स्य , दैव्यं॑ , जनं॑ ॥
होता॑रं वि॒श्ववे॑दसं॒ सं हि त्वा॒ विश॑ इं॒धते॑ । स आ व॑ह पुरुहूत॒ प्रचे॑त॒सोऽग्ने॑ दे॒वाँ इ॒ह द्र॒वत् ॥
होता॑रं , वि॒श्वऽवे॑दसं , सं , हि , त्वा॒ , विशः॑ , इं॒धते॑ । सः , आ , व॒ह॒ , पु॒रु॒ऽहू॒त॒ , प्रऽचे॑तसः , अग्ने॑ , दे॒वान् , इ॒ह , द्र॒वत् ॥
स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षपः॑ । कण्वा॑सस्त्वा सु॒तसो॑मास इंधते हव्य॒वाहं॑ स्वध्वर ॥
स॒वि॒तारं॑ , उ॒षसं॑ , अ॒श्विना॑ , भगं॑ , अ॒ग्निं , विऽउ॑ष्टिषु , क्षपः॑ । कण्वा॑सः , त्वा॒ , सु॒तऽसो॑मासः , इं॒ध॒ते॒ , ह॒व्य॒ऽवाहं॑ , सु॒ऽअ॒ध्व॒र॒ ॥
पति॒र्ह्य॑ध्व॒राणा॒मग्ने॑ दू॒तो वि॒शामसि॑ । उ॒ष॒र्बुध॒ आ व॑ह॒ सोम॑पीतये दे॒वाँ अ॒द्य स्व॒र्दृशः॑ ॥
पतिः॑ , हि , अ॒ध्व॒राणां॑ , अग्ने॑ , दू॒तः , वि॒शां , असि॑ । उ॒षः॒ऽबुधः॑ , आ , व॒ह॒ , सोम॑ऽपीतये , दे॒वान् , अ॒द्य , स्वः॒ऽदृशः॑ ॥
अग्ने॒ पूर्वा॒ अनू॒षसो॑ विभावसो दी॒देथ॑ वि॒श्वद॑र्शतः । असि॒ ग्रामे॑ष्ववि॒ता पु॒रोहि॒तोऽसि॑ य॒ज्ञेषु॒ मानु॑षः ॥
अग्ने॑ , पूर्वाः॑ , अनु॑ , उ॒षसः॑ , वि॒भा॒व॒सो॒ इति॑ विभाऽवसो , दी॒देथ॑ , वि॒श्वऽद॑र्शतः । असि॑ , ग्रामे॑षु , अ॒वि॒ता , पु॒रःऽहि॑तः , असि॑ , य॒ज्ञेषु॑ , मानु॑षः ॥
नि त्वा॑ य॒ज्ञस्य॒ साध॑न॒मग्ने॒ होता॑रमृ॒त्विजं॑ । म॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसं जी॒रं दू॒तमम॑र्त्यं ॥
नि , त्वा॒ , य॒ज्ञस्य॑ , साध॑नं , अग्ने॑ , होता॑रं , ऋ॒त्विजं॑ । म॒नु॒ष्वत् , दे॒व॒ , धी॒म॒हि॒ , प्रऽचे॑तसं , जी॒रं , दू॒तं , अम॑र्त्यं ॥
यद्दे॒वानां॑ मित्रमहः पु॒रोहि॒तोऽन्त॑रो॒ यासि॑ दू॒त्यं॑ । सिंधो॑रिव॒ प्रस्व॑नितास ऊ॒र्मयो॒ऽग्नेर्भ्रा॑जंते अ॒र्चयः॑ ॥
यत् , दे॒वानां॑ , मि॒त्र॒ऽम॒हः॒ , पु॒रःऽहि॑तः , अंत॑रः , यासि॑ , दू॒त्यं॑ । सिंधोः॑ऽइव , प्रऽस्व॑नितासः , ऊ॒र्मयः॑ , अ॒ग्नेः , भ्रा॒जं॒ते॒ , अ॒र्चयः॑ ॥
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः । आ सी॑दंतु ब॒र्हिषि॑ मि॒त्रो अ॑र्य॒मा प्रा॑त॒र्यावा॑णो अध्व॒रं ॥
श्रु॒धि , श्रु॒त्ऽक॒र्ण॒ , वह्नि॑ऽभिः , दे॒वैः , अ॒ग्ने॒ , स॒याव॑ऽभिः । आ , सी॒दं॒तु॒ , ब॒र्हिषि॑ , मि॒त्रः , अ॒र्य॒मा , प्रा॒तः॒ऽयावा॑नः , अ॒ध्व॒रं ॥
शृ॒ण्वंतु॒ स्तोमं॑ म॒रुतः॑ सु॒दान॑वोऽग्निजि॒ह्वा ऋ॑ता॒वृधः॑ । पिब॑तु॒ सोमं॒ वरु॑णो धृ॒तव्र॑तो॒ऽश्विभ्या॑मु॒षसा॑ स॒जूः ॥
शृ॒ण्वंतु॑ , स्तोमं॑ , म॒रुतः॑ , सु॒ऽदान॑वः , अ॒ग्नि॒ऽजि॒ह्वाः , ऋ॒त॒ऽवृधः॑ । पिब॑तु , सोमं॑ , वरु॑णः , धृ॒तऽव्र॑तः , अ॒श्विऽभ्यां॑ , उ॒षसा॑ , स॒ऽजूः ॥
[४५] त्वमग्नेवसूनितिदशर्चस्य सूक्तस्य काण्वः प्रस्कण्वोग्निरंत्यायादेवाश्चानुष्टुप् |
त्वम॑ग्ने॒ वसूँ॑रि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त । यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुषं॑ ॥
त्वं , अ॒ग्ने॒ , वसू॑न् , इ॒ह , रु॒द्रान् , आ॒दि॒त्यान् , उ॒त । यज॑ , सु॒ऽअ॒ध्व॒रं , जनं॑ , मनु॑ऽजातं , घृ॒त॒ऽप्रुषं॑ ॥
श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः । तान्रो॑हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह ॥
श्रु॒ष्टी॒ऽवानः॑ , हि , दा॒शुषे॑ , दे॒वाः , अ॒ग्ने॒ , विचे॑तसः । तान् , रो॒हि॒त्ऽअ॒श्व॒ , गि॒र्व॒णः॒ , त्रयः॑ऽत्रिंशतं , आ , व॒ह॒ ॥
प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्जात॑वेदो विरूप॒वत् । अं॒गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क॑ण्वस्य श्रुधी॒ हवं॑ ॥
प्रि॒य॒मे॒ध॒ऽवत् , अ॒त्रि॒ऽवत् , जात॑ऽवेदः , वि॒रू॒प॒ऽवत् । अं॒गि॒र॒स्वत् , म॒हि॒ऽव्र॒त॒ , प्रस्क॑ण्वस्य , श्रु॒धि॒ , हवं॑ ॥
महि॑केरव ऊ॒तये॑ प्रि॒यमे॑धा अहूषत । राजं॑तमध्व॒राणा॑म॒ग्निं शु॒क्रेण॑ शो॒चिषा॑ ॥
महि॑ऽकेरवः , ऊ॒तये॑ , प्रि॒यऽमे॑धाः , अ॒हू॒ष॒त॒ । राजं॑तं , अ॒ध्व॒राणां॑ , अ॒ग्निं , शु॒क्रेण॑ , शो॒चिषा॑ ॥
घृता॑हवन संत्ये॒मा उ॒ षु श्रु॑धी॒ गिरः॑ । याभिः॒ कण्व॑स्य सू॒नवो॒ हवं॒तेऽव॑से त्वा ॥
घृत॑ऽआहवन , सं॒त्य॒ , इ॒माः , ऊँ॒ इति॑ , सु , श्रु॒धि॒ , गिरः॑ । याभिः॑ , कण्व॑स्य , सू॒नवः॑ , हवं॑ते , अव॑से , त्वा॒ ॥
त्वां चि॑त्रश्रवस्तम॒ हवं॑ते वि॒क्षु जं॒तवः॑ । शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥
त्वां , चि॒त्र॒श्र॒वः॒ऽत॒म॒ , हवं॑ते , वि॒क्षु , जं॒तवः॑ । शो॒चिःऽके॑शं , पु॒रु॒ऽप्रि॒य॒ , अग्ने॑ , ह॒व्याय॑ , वोळ्ह॑वे ॥
नि त्वा॒ होता॑रमृ॒त्विजं॑ दधि॒रे व॑सु॒वित्त॑मं । श्रुत्क॑र्णं स॒प्रथ॑स्तमं॒ विप्रा॑ अग्ने॒ दिवि॑ष्टिषु ॥
नि , त्वा॒ , होता॑रं , ऋ॒त्विजं॑ , द॒धि॒रे , व॒सु॒वित्ऽत॑मं । श्रुत्ऽक॑र्णं , स॒प्रथः॑ऽतमं , विप्राः॑ , अ॒ग्ने॒ , दिवि॑ष्टिषु ॥
आ त्वा॒ विप्रा॑ अचुच्यवुः सु॒तसो॑मा अ॒भि प्रयः॑ । बृ॒हद्भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता॑य दा॒शुषे॑ ॥
आ , त्वा॒ , विप्राः॑ , अ॒चु॒च्य॒वुः॒ , सु॒तऽसो॑माः , अ॒भि , प्रयः॑ । बृ॒हत् , भाः , बिभ्र॑तः , ह॒विः , अग्ने॑ , मर्ता॑य , दा॒शुषे॑ ॥
प्रा॒त॒र्याव्णः॑ सहस्कृत सोम॒पेया॑य संत्य । इ॒हाद्य दैव्यं॒ जनं॑ ब॒र्हिरा सा॑दया वसो ॥
प्रा॒तः॒ऽयाव्नः॑ , स॒हः॒ऽकृ॒त॒ , सो॒म॒ऽपेया॑य , सं॒त्य॒ । इ॒ह , अ॒द्य , दैव्यं॑ , जनं॑ , ब॒र्हिः , आ , सा॒द॒य॒ , व॒सो॒ इति॑ ॥
अ॒र्वांचं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू॑तिभिः । अ॒यं सोमः॑ सुदानव॒स्तं पा॑त ति॒रोअ॑ह्न्यं ॥
अ॒र्वांचं॑ , दैव्यं॑ , जनं॑ , अग्ने॑ , यक्ष्व॑ , सहू॑तिऽभिः । अ॒यं , सोमः॑ , सु॒ऽदा॒न॒वः॒ , तं , पा॒त॒ , ति॒रःऽअ॑ह्न्यं ॥
[४६] एषोउषाइति पंचदशर्चस्य सूक्तस्य काण्वः प्रस्कण्वोश्विनौगायत्री |
ए॒षो उ॒षा अपू॑र्व्या॒ व्यु॑च्छति प्रि॒या दि॒वः । स्तु॒षे वा॑मश्विना बृ॒हत् ॥
ए॒षो इति॑ , उ॒षाः , अपू॑र्व्या , वि , उ॒च्छ॒ति॒ , प्रि॒या , दि॒वः । स्तु॒षे , वां॒ , अ॒श्वि॒ना॒ , बृ॒हत् ॥
या द॒स्रा सिंधु॑मातरा मनो॒तरा॑ रयी॒णां । धि॒या दे॒वा व॑सु॒विदा॑ ॥
या , द॒स्रा , सिंधु॑ऽमातरा , म॒नो॒तरा॑ , र॒यी॒णां । धि॒या , दे॒वा , व॒सु॒ऽविदा॑ ॥
व॒च्यंते॑ वां ककु॒हासो॑ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ । यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥
व॒च्यंते॑ , वां॒ , क॒कु॒हासः॑ , जू॒र्णायां॑ , अधि॑ , वि॒ष्टपि॑ । यत् , वां॒ , रथः॑ , विऽभिः॑ , पता॑त् ॥
ह॒विषा॑ जा॒रो अ॒पां पिप॑र्ति॒ पपु॑रिर्नरा । पि॒ता कुट॑स्य चर्ष॒णिः ॥
ह॒विषा॑ , जा॒रः , अ॒पां , पिप॑र्ति , पपु॑रिः , न॒रा॒ । पि॒ता , कुट॑स्य , च॒र्ष॒णिः ॥
आ॒दा॒रो वां॑ मती॒नां नास॑त्या मतवचसा । पा॒तं सोम॑स्य धृष्णु॒या ॥
आ॒ऽदा॒रः , वां॒ , म॒ती॒नां , नास॑त्या , म॒त॒ऽव॒च॒सा॒ । पा॒तं , सोम॑स्य , धृ॒ष्णु॒ऽया ॥
या नः॒ पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः । ताम॒स्मे रा॑साथा॒मिषं॑ ॥
या , नः॒ , पीप॑रत् , अ॒श्वि॒ना॒ , ज्योति॑ष्मती , तमः॑ , ति॒रः । तां , अ॒स्मे इति॑ , रा॒सा॒थां॒ , इषं॑ ॥
आ नो॑ ना॒वा म॑ती॒नां या॒तं पा॒राय॒ गंत॑वे । युं॒जाथा॑मश्विना॒ रथं॑ ॥
आ , नः॒ , ना॒वा , म॒ती॒नां , या॒तं , पा॒राय॑ , गंत॑वे । युं॒जाथां॑ , अ॒श्वि॒ना॒ , रथं॑ ॥
अ॒रित्रं॑ वां दि॒वस्पृ॒थु ती॒र्थे सिंधू॑नां॒ रथः॑ । धि॒या यु॑युज्र॒ इंद॑वः ॥
अ॒रित्रं॑ , वां॒ , दि॒वः , पृ॒थु , ती॒र्थे , सिंधू॑नां , रथः॑ । धि॒या , यु॒यु॒ज्रे॒ , इंद॑वः ॥
दि॒वस्क॑ण्वास॒ इंद॑वो॒ वसु॒ सिंधू॑नां प॒दे । स्वं व॒व्रिं कुह॑ धित्सथः ॥
दि॒वः , क॒ण्वा॒सः॒ , इंद॑वः , वसु॑ , सिंधू॑नां , प॒दे । स्वं , व॒व्रिं , कुह॑ , धि॒त्स॒थः॒ ॥
अभू॑दु॒ भा उ॑ अं॒शवे॒ हिर॑ण्यं॒ प्रति॒ सूर्यः॑ । व्य॑ख्यज्जि॒ह्वयासि॑तः ॥
अभू॑त् , ऊँ॒ इति॑ , भाः , ऊँ॒ इति॑ , अं॒शवे॑ , हिर॑ण्यं , प्रति॑ , सूर्यः॑ । वि , अ॒ख्य॒त् , जि॒ह्वया॑ , असि॑तः ॥
अभू॑दु पा॒रमेत॑वे॒ पंथा॑ ऋ॒तस्य॑ साधु॒या । अद॑र्शि॒ वि स्रु॒तिर्दि॒वः ॥
अभू॑त् , ऊँ॒ इति॑ , पा॒रं , एत॑वे , पंथाः॑ , ऋ॒तस्य॑ , सा॒धु॒ऽया । अद॑र्शि , वि , स्रु॒तिः , दि॒वः ॥
तत्त॒दिद॒श्विनो॒रवो॑ जरि॒ता प्रति॑ भूषति । मदे॒ सोम॑स्य॒ पिप्र॑तोः ॥
तत्ऽत॑त् , इत् , अ॒श्विनोः॑ , अवः॑ , ज॒रि॒ता , प्रति॑ , भू॒ष॒ति॒ । मदे॑ , सोम॑स्य , पिप्र॑तोः ॥
वा॒व॒सा॒ना वि॒वस्व॑ति॒ सोम॑स्य पी॒त्या गि॒रा । म॒नु॒ष्वच्छं॑भू॒ आ ग॑तं ॥
व॒व॒सा॒ना , वि॒वस्व॑ति , सोम॑स्य , पी॒त्या , गि॒रा । म॒नु॒ष्वत् , शं॒भू॒ इति॑ शंऽभू , आ , ग॒तं॒ ॥
यु॒वोरु॒षा अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् । ऋ॒ता व॑नथो अ॒क्तुभिः॑ ॥
यु॒वोः , उ॒षाः , अनु॑ , श्रियं॑ , परि॑ऽज्मनोः , उ॒प॒ऽआच॑रत् । ऋ॒ता , व॒न॒थः॒ , अ॒क्तुऽभिः॑ ॥
उ॒भा पि॑बतमश्विनो॒भा नः॒ शर्म॑ यच्छतं । अ॒वि॒द्रि॒याभि॑रू॒तिऽभिः॑ ॥
उ॒भा , पि॒ब॒तं॒ , अ॒श्वि॒ना॒ , उ॒भा , नः॒ , शर्म॑ , य॒च्छ॒तं॒ । अ॒वि॒द्रि॒याभिः॑ , ऊ॒तिभिः॑ ॥
[४७] अयंवामिति दशर्चस्यसूक्तस्य काण्वः प्रस्कण्वोश्विनौ प्रगाथः (अयुजोबृहत्यो युजःसतोबृहत्यः ) |
अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा । तम॑श्विना पिबतं ति॒रोअ॑ह्न्यं ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
अ॒यं , वां॒ , मधु॑मत्ऽतमः , सु॒तः , सोमः॑ , ऋ॒त॒ऽवृ॒धा॒ । तं , अ॒श्वि॒ना॒ , पि॒ब॒तं॒ , ति॒रःऽअ॑ह्न्यं , ध॒त्तं , रत्ना॑नि , दा॒शुषे॑ ॥
त्रि॒वं॒धु॒रेण॑ त्रि॒वृता॑ सु॒पेश॑सा॒ रथे॒ना या॑तमश्विना । कण्वा॑सो वां॒ ब्रह्म॑ कृण्वंत्यध्व॒रे तेषां॒ सु शृ॑णुतं॒ हवं॑ ॥
त्रि॒ऽवं॒धु॒रेण॑ , त्रि॒ऽवृता॑ , सु॒ऽपेश॑सा , रथे॑न , आ , या॒तं॒ , अ॒श्वि॒ना॒ । कण्वा॑सः , वां॒ , ब्रह्म॑ , कृ॒ण्वं॒ति॒ , अ॒ध्व॒रे , तेषां॑ , सु , शृ॒णु॒तं॒ , हवं॑ ॥
अश्वि॑ना॒ मधु॑मत्तमं पा॒तं सोम॑मृतावृधा । अथा॒द्य द॑स्रा॒ वसु॒ बिभ्र॑ता॒ रथे॑ दा॒श्वांस॒मुप॑ गच्छतं ॥
अश्वि॑ना , मधु॑मत्ऽतमं , पा॒तं , सोमं॑ , ऋ॒त॒ऽवृ॒धा॒ । अथ॑ , अ॒द्य , द॒स्रा॒ , वसु॑ , बिभ्र॑ता , रथे॑ , दा॒श्वांसं॑ , उप॑ , ग॒च्छ॒तं॒ ॥
त्रि॒ष॒ध॒स्थे ब॒र्हिषि॑ विश्ववेदसा॒ मध्वा॑ य॒ज्ञं मि॑मिक्षतं । कण्वा॑सो वां सु॒तसो॑मा अ॒भिद्य॑वो यु॒वां ह॑वंते अश्विना ॥
त्रि॒ऽस॒ध॒स्थे , ब॒र्हिषि॑ , वि॒श्व॒ऽवे॒द॒सा॒ , मध्वा॑ , य॒ज्ञं , मि॒मि॒क्ष॒तं॒ । कण्वा॑सः , वां , सु॒तऽसो॑माः , अ॒भिऽद्य॑वः , यु॒वां , ह॒वं॒ते॒ , अ॒श्वि॒ना॒ ॥
याभिः॒ कण्व॑म॒भिष्टि॑भिः॒ प्राव॑तं यु॒वम॑श्विना । ताभिः॒ ष्व१॒॑स्माँ अ॑वतं शुभस्पती पा॒तं सोम॑मृतावृधा ॥
याभिः॑ , कण्वं॑ , अ॒भिष्टि॑ऽभिः , प्र , आव॑तं , यु॒वं , अ॒श्वि॒ना॒ । ताभिः॑ , सु , अ॒स्मान् , अ॒व॒तं॒ , शु॒भः॒ , प॒ती॒ इति॑ , पा॒तं , सोमं॑ , ऋ॒त॒ऽवृ॒धा॒ ॥
सु॒दासे॑ दस्रा॒ वसु॒ बिभ्र॑ता॒ रथे॒ पृक्षो॑ वहतमश्विना । र॒यिं स॑मु॒द्रादु॒त वा॑ दि॒वस्पर्य॒स्मे ध॑त्तं पुरु॒स्पृहं॑ ॥
सु॒ऽदासे॑ , द॒स्रा॒ , वसु॑ , बिभ्र॑ता , रथे॑ , पृक्षः॑ , व॒ह॒तं॒ , अ॒श्वि॒ना॒ । र॒यिं , स॒मु॒द्रात् , उ॒त , वा॒ , दि॒वः , परि॑ , अ॒स्मे इति॑ , ध॒त्तं॒ , पु॒रु॒ऽस्पृहं॑ ॥
यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अधि॑ तु॒र्वशे॑ । अतो॒ रथे॑न सु॒वृता॑ न॒ आ ग॑तं सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ॥
यत् , ना॒स॒त्या॒ , प॒रा॒ऽवति॑ , यत् , वा॒ , स्थः , अधि॑ , तु॒र्वशे॑ । अतः॑ , रथे॑न , सु॒ऽवृता॑ , नः॒ , आ , ग॒तं॒ , सा॒कं , सूर्य॑स्य , र॒श्मिऽभिः॑ ॥
अ॒र्वांचा॑ वां॒ सप्त॑योऽध्वर॒श्रियो॒ वहं॑तु॒ सव॒नेदुप॑ । इषं॑ पृं॒चंता॑ सु॒कृते॑ सु॒दान॑व॒ आ ब॒र्हिः सी॑दतं नरा ॥
अ॒र्वांचा॑ , वां॒ , सप्त॑यः , अ॒ध्व॒र॒ऽश्रियः॑ , वहं॑तु , सव॑ना , इत् , उप॑ । इषं॑ , पृं॒चंता॑ , सु॒ऽकृते॑ , सु॒ऽदान॑वे , आ , ब॒र्हिः , सी॒द॒तं॒ , न॒रा॒ ॥
तेन॑ नास॒त्या ग॑तं॒ रथे॑न॒ सूर्य॑त्वचा । येन॒ शश्व॑दू॒हथु॑र्दा॒शुषे॒ वसु॒ मध्वः॒ सोम॑स्य पी॒तये॑ ॥
तेन॑ , ना॒स॒त्या॒ , आ , ग॒तं॒ , रथे॑न , सूर्य॑ऽत्वचा । येन॑ , शश्व॑त् , ऊ॒हथुः॑ , दा॒शुषे॑ , वसु॑ , मध्वः॑ , सोम॑स्य , पी॒तये॑ ॥
उ॒क्थेभि॑र॒र्वागव॑से पुरू॒वसू॑ अ॒र्कैश्च॒ नि ह्व॑यामहे । शश्व॒त्कण्वा॑नां॒ सद॑सि प्रि॒ये हि कं॒ सोमं॑ प॒पथु॑रश्विना ॥
उ॒क्थेभिः॑ , अ॒र्वाक् , अव॑से , पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ , अ॒र्कैः , च॒ , नि , ह्व॒या॒म॒हे॒ । शश्व॑त् , कण्वा॑नां , सद॑सि , प्रि॒ये , हि , कं॒ , सोमं॑ , प॒पथुः॑ , अ॒श्वि॒ना॒ ॥
[४८] सहवामेनेति षोळशर्चस्य सूक्तस्य काण्वः प्रस्कण्व उषाः प्रगाथः (अयुजोबृहत्यो युजःसतोबृहत्यः ) |
स॒ह वा॒मेन॑ न उषो॒ व्यु॑च्छा दुहितर्दिवः । स॒ह द्यु॒म्नेन॑ बृह॒ता वि॑भावरि रा॒या दे॑वि॒ दास्व॑ती ॥
स॒ह , वा॒मेन॑ , नः॒ , उ॒षः॒ , वि , उ॒च्छ॒ , दु॒हि॒तः॒ , दि॒वः॒ । स॒ह , द्यु॒म्नेन॑ , बृ॒ह॒ता , वि॒भा॒ऽव॒रि॒ , रा॒या , दे॒वि॒ , दास्व॑ती ॥
अश्वा॑वती॒र्गोम॑तीर्विश्वसु॒विदो॒ भूरि॑ च्यवंत॒ वस्त॑वे । उदी॑रय॒ प्रति॑ मा सू॒नृता॑ उष॒श्चोद॒ राधो॑ म॒घोनां॑ ॥
अश्व॑ऽवतीः , गोऽम॑तीः , वि॒श्व॒ऽसु॒विदः॑ , भूरि॑ , च्य॒वं॒त॒ , वस्त॑वे । उत् , ई॒र॒य॒ , प्रति॑ , मा॒ , सू॒नृताः॑ , उ॒षः॒ , चोद॑ , राधः॑ , म॒घोनां॑ ॥
उ॒वासो॒षा उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा॑नां । ये अ॑स्या आ॒चर॑णेषु दध्रि॒रे स॑मु॒द्रे न श्र॑व॒स्यवः॑ ॥
उ॒वास॑ , उ॒षाः , उ॒च्छात् , च॒ , नु , दे॒वी , जी॒रा , रथा॑नां । ये , अ॒स्याः॒ , आ॒ऽचर॑णेषु , द॒ध्रि॒रे , स॒मु॒द्रे , न , श्र॒व॒स्यवः॑ ॥
उषो॒ ये ते॒ प्र यामे॑षु युं॒जते॒ मनो॑ दा॒नाय॑ सू॒रयः॑ । अत्राह॒ तत्कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णां ॥
उषः॑ , ये , ते॒ , प्र , यामे॑षु , युं॒जते॑ , मनः॑ , दा॒नाय॑ , सू॒रयः॑ । अत्र॑ , अह॑ , तत् , कण्वः॑ , ए॒षां॒ , कण्व॑ऽतमः , नाम॑ , गृ॒णा॒ति॒ , नृ॒णां ॥
आ घा॒ योषे॑व सू॒नर्यु॒षा या॑ति प्रभुंज॒ती । ज॒रयं॑ती॒ वृज॑नं प॒द्वदी॑यत॒ उत्पा॑तयति प॒क्षिणः॑ ॥
आ , घ॒ , योषा॑ऽइव , सू॒नरी॑ , उ॒षाः , या॒ति॒ , प्र॒ऽभुं॒ज॒ती । ज॒रयं॑ती , वृज॑नं , प॒त्ऽवत् , ई॒य॒ते॒ , उत् , पा॒त॒य॒ति॒ , प॒क्षिणः॑ ॥
वि या सृ॒जति॒ सम॑नं॒ व्य१॒॑र्थिनः॑ प॒दं न वे॒त्योद॑ती । वयो॒ नकि॑ष्टे पप्ति॒वांस॑ आसते॒ व्यु॑ष्टौ वाजिनीवति ॥
वि , या , सृ॒जति॑ , सम॑नं , वि , अ॒र्थिनः॑ , प॒दं , न , वे॒ति॒ , ओद॑ती । वयः॒ , नकिः॑ , ते॒ , प॒प्ति॒वांसः॑ , आ॒स॒ते॒ , विऽउ॑ष्टौ , वा॒जि॒नी॒ऽव॒ति॒ ॥
ए॒षायु॑क्त परा॒वतः॒ सूर्य॑स्यो॒दय॑ना॒दधि॑ । श॒तं रथे॑भिः सु॒भगो॒षा इ॒यं वि या॑त्य॒भि मानु॑षान् ॥
ए॒षा , अ॒यु॒क्त॒ , प॒रा॒ऽवतः॑ , सूर्य॑स्य , उ॒त्ऽअय॑नात् , अधि॑ । श॒तं , रथे॑भिः , सु॒ऽभगा॑ , उ॒षाः , इ॒यं , वि , या॒ति॒ , अ॒भि , मानु॑षान् ॥
विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज्ज्योति॑ष्कृणोति सू॒नरी॑ । अप॒ द्वेषो॑ म॒घोनी॑ दुहि॒ता दि॒व उ॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥
विश्वं॑ , अ॒स्याः॒ , न॒ना॒म॒ , चक्ष॑से , जग॑त् , ज्योतिः॑ , कृ॒णो॒ति॒ , सू॒नरी॑ । अप॑ , द्वेषः॑ , म॒घोनी॑ , दु॒हि॒ता , दि॒वः , उ॒षाः , उ॒च्छ॒त् , अप॑ , स्रिधः॑ ॥
उष॒ आ भा॑हि भा॒नुना॑ चं॒द्रेण॑ दुहितर्दिवः । आ॒वहं॑ती॒ भूर्य॒स्मभ्यं॒ सौभ॑गं व्यु॒च्छंती॒ दिवि॑ष्टिषु ॥
उषः॑ , आ , भा॒हि॒ , भा॒नुना॑ , चं॒द्रेण॑ , दु॒हि॒तः॒ , दि॒वः॒ । आ॒ऽवहं॑ती , भूरि॑ , अ॒स्मभ्यं॑ , सौभ॑गं , वि॒ऽउ॒च्छंती॑ , दिवि॑ष्टिषु ॥
विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि । सा नो॒ रथे॑न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हवं॑ ॥
विश्व॑स्य , हि , प्राण॑नं , जीव॑नं , त्वे इति॑ , वि , यत् , उ॒च्छसि॑ , सू॒न॒रि॒ । सा , नः॒ , रथे॑न , बृ॒ह॒ता , वि॒भा॒ऽव॒रि॒ , श्रु॒धि , चि॒त्र॒ऽम॒घे॒ , हवं॑ ॥
उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने॑ । तेना व॑ह सु॒कृतो॑ अध्व॒राँ उप॒ ये त्वा॑ गृ॒णंति॒ वह्न॑यः ॥
उषः॑ , वाजं॑ , हि , वंस्व॑ , यः , चि॒त्रः , मानु॑षे , जने॑ । तेन॑ , आ , व॒ह॒ , सु॒ऽकृतः॑ , अ॒ध्व॒रान् , उप॑ , ये , त्वा॒ , गृ॒णंति॑ , वह्न॑यः ॥
विश्वां॑दे॒वाँ आ व॑ह॒ सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वं । सास्मासु॑ धा॒ गोम॒दश्वा॑वदु॒क्थ्य१॒॑मुषो॒ वाजं॑ सु॒वीर्यं॑ ॥
विश्वा॑न् , दे॒वान् , आ , व॒ह॒ , सोम॑ऽपीतये , अं॒तरि॑क्षात् , उ॒षः॒ , त्वं । सा , अ॒स्मासु॑ , धाः॒ , गोऽम॑त् , अश्व॑ऽवत् , उ॒क्थ्यं॑ , उषः॑ , वाजं॑ , सु॒ऽवीर्यं॑ ॥
यस्या॒ रुशं॑तो अ॒र्चयः॒ प्रति॑ भ॒द्रा अदृ॑क्षत । सा नो॑ र॒यिं वि॒श्ववा॑रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्यं॑ ॥
यस्याः॑ , रुशं॑तः , अ॒र्चयः॑ , प्रति॑ , भ॒द्राः , अदृ॑क्षत । सा , नः॒ , र॒यिं , वि॒श्वऽवा॑रं , सु॒ऽपेश॑सं , उ॒षाः , द॒दा॒तु॒ , सुग्म्यं॑ ॥
ये चि॒द्धि त्वामृष॑यः॒ पूर्व॑ ऊ॒तये॑ जुहू॒रेऽव॑से महि । सा नः॒ स्तोमाँ॑ अ॒भि गृ॑णीहि॒ राध॒सोषः॑ शु॒क्रेण॑ शो॒चिषा॑ ॥
ये , चि॒त् , हि , त्वां , ऋष॑यः , पूर्वे॑ , ऊ॒तये॑ , जु॒हू॒रे , अव॑से , म॒हि॒ । सा , नः॒ , स्तोमा॑न् , अ॒भि , गृ॒णी॒हि॒ , राध॑सा , उषः॑ , शु॒क्रेण॑ , शो॒चिषा॑ ॥
उषो॒ यद॒द्य भा॒नुना॒ वि द्वारा॑वृ॒णवो॑ दि॒वः । प्र नो॑ यच्छतादवृ॒कं पृ॒थु च्छ॒र्दिः प्र दे॑वि॒ गोम॑ती॒रिषः॑ ॥
उषः॑ , यत् , अ॒द्य , भा॒नुना॑ , वि , द्वारौ॑ , ऋ॒णवः॑ , दि॒वः । प्र , नः॒ , य॒च्छ॒ता॒त् , अ॒वृ॒कं , पृ॒थु , छ॒र्दिः , प्र , दे॒वि॒ , गोऽम॑तीः , इषः॑ ॥
सं नो॑ रा॒या बृ॑ह॒ता वि॒श्वपे॑शसा मिमि॒क्ष्वा समिळा॑भि॒रा । सं द्यु॒म्नेन॑ विश्व॒तुरो॑षो महि॒ सं वाजै॑र्वाजिनीवति ॥
सं , नः॒ , रा॒या , बृ॒ह॒ता , वि॒श्वऽपे॑शसा , मि॒मि॒क्ष्व , सं , इळा॑भिः , आ । सं , द्यु॒म्नेन॑ , वि॒श्व॒ऽतुरा॑ , उ॒षः॒ , म॒हि॒ , सं , वाजैः॑ , वा॒जि॒नी॒ऽव॒ति॒ ॥
[४९] उषोभत्रेभिरिति चतुरृचस्व सूक्तस्य काण्वः प्रस्कण्वउषाअनुष्टुप् |
उषो॑ भ॒द्रेभि॒रा ग॑हि दि॒वश्चि॑द्रोच॒नादधि॑ । वहं॑त्वरु॒णप्स॑व॒ उप॑ त्वा सो॒मिनो॑ गृ॒हं ॥
उषः॑ , भ॒द्रेभिः॑ , आ , ग॒हि॒ , दि॒वः , चि॒त् , रो॒च॒नात् , अधि॑ । वहं॑तु , अ॒रु॒णऽप्स॑वः , उप॑ , त्वा॒ , सो॒मिनः॑ , गृ॒हं ॥
सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था॑ उष॒स्त्वं । तेना॑ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः ॥
सु॒ऽपेश॑सं , सु॒ऽखं , रथं॑ , यं , अ॒धि॒ऽअस्थाः॑ , उ॒षः॒ , त्वं । तेन॑ , सु॒ऽश्रव॑सं , जनं॑ , प्र , अ॒व॒ , अ॒द्य , दु॒हि॒तः॒ , दि॒वः॒ ॥
वय॑श्चित्ते पत॒त्रिणो॑ द्वि॒पच्चतु॑ष्पदर्जुनि । उषः॒ प्रार॑न्नृ॒तूँरनु॑ दि॒वो अंते॑भ्य॒स्परि॑ ॥
वयः॑ , चि॒त् , ते॒ , प॒त॒त्रिणः॑ , द्वि॒ऽपत् , चतुः॑ऽपत् , अ॒र्जु॒नि॒ । उषः॑ , प्र , आ॒र॒न् , ऋ॒तून् , अनु॑ , दि॒वः , अंते॑भ्यः , परि॑ ॥
व्यु॒च्छंती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नं । तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत ॥
वि॒ऽउ॒च्छंती॑ , हि , र॒श्मिऽभिः॑ , विश्वं॑ , आ॒ऽभासि॑ , रो॒च॒नं । तां , त्वां , उ॒षः॒ , व॒सु॒ऽयवः॑ , गीः॒ऽभिः , कण्वाः॑ , अ॒हू॒ष॒त॒ ॥
[५०] उदुत्यमिति त्रयोदशर्चस्य सूक्तस्य काण्वःप्रस्कण्वः सूर्यो गायत्री अंत्याश्चतस्रोनुष्टुभः (अंत्यस्तृचोरोगघ्नउपनिषदंत्योर्थर्चोद्विषन्न इतिगुणः) |
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हंति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्यं॑ ॥
उत् , ऊँ॒ इति॑ , त्यं , जा॒तऽवे॑दसं , दे॒वं , व॒हं॒ति॒ , के॒तवः॑ । दृ॒शे , विश्वा॑य , सूर्यं॑ ॥
अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यंत्य॒क्तुभिः॑ । सूरा॑य वि॒श्वच॑क्षसे ॥
अप॑ , त्ये , ता॒यवः॑ , य॒था॒ , नक्ष॑त्रा , यं॒ति॒ , अ॒क्तुऽभिः॑ । सूरा॑य , वि॒श्वऽच॑क्षसे ॥
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ । भ्राजं॑तो अ॒ग्नयो॑ यथा ॥
अदृ॑श्रं , अ॒स्य॒ , के॒तवः॑ , वि , र॒श्मयः॑ , जना॑न् , अनु॑ । भ्राजं॑तः , अ॒ग्नयः॑ , य॒था॒ ॥
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नं ॥
त॒रणिः॑ , वि॒श्वऽद॑र्शतः , ज्यो॒तिः॒ऽकृत् , अ॒सि॒ , सू॒र्य॒ । विश्वं॑ , आ , भा॒सि॒ , रो॒च॒नं ॥
प्र॒त्यङ्दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षान् । प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ॥
प्र॒त्यङ् , दे॒वानां॑ , विशः॑ , प्र॒त्यङ् , उत् , ए॒षि॒ , मानु॑षान् । प्र॒त्यङ् , विश्वं॑ , स्वः॑ , दृ॒शे ॥
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यंतं॒ जनाँ॒ अनु॑ । त्वं व॑रुण॒ पश्य॑सि ॥
येन॑ , पा॒व॒क॒ , चक्ष॑सा , भु॒र॒ण्यंतं॑ , जना॑न् , अनु॑ । त्वं , व॒रु॒ण॒ , पश्य॑सि ॥
वि द्यामे॑षि॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो अ॒क्तुभिः॑ । पश्यं॒जन्मा॑नि सूर्य ॥
वि , द्यां , ए॒षि॒ , रजः॑ , पृ॒थु , अहा॑ , मिमा॑नः , अ॒क्तुऽभिः॑ । पश्य॑न् , जन्मा॑नि , सू॒र्य॒ ॥
स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वहं॑ति देव सूर्य । शो॒चिष्के॑शं विचक्षण ॥
स॒प्त , त्वा॒ , ह॒रितः॑ , रथे॑ , वहं॑ति , दे॒व॒ , सू॒र्य॒ । शो॒चिःऽके॑शं , वि॒ऽच॒क्ष॒ण॒ ॥
अयु॑क्त स॒प्त शुं॒ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑ । ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥
अयु॑क्त , स॒प्त , शुं॒ध्युवः॑ , सूरः॑ , रथ॑स्य , न॒प्त्यः॑ । ताभिः॑ , या॒ति॒ , स्वयु॑क्तिऽभिः ॥
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्यं॑त॒ उत्त॑रं । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मं ॥
उत् , व॒यं , तम॑सः , परि॑ , ज्योतिः॑ , पश्यं॑तः , उत्ऽत॑रं । दे॒वं , दे॒व॒ऽत्रा , सूर्यं॑ , अग॑न्म , ज्योतिः॑ , उ॒त्ऽत॒मं ॥
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिवं॑ । हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं॑ च नाशय ॥
उ॒त्ऽयन् , अ॒द्य , मि॒त्र॒ऽम॒हः॒ , आ॒ऽरोह॑न् , उत्ऽत॑रां , दिवं॑ । हृ॒त्ऽरो॒गं , मम॑ , सू॒र्य॒ , ह॒रि॒माणं॑ , च॒ , ना॒श॒य॒ ॥
शुके॑षु मे हरि॒माणं॑ रोप॒णाका॑सु दध्मसि । अथो॑ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ॥
शुके॑षु , मे॒ , ह॒रि॒माणं॑ , रो॒प॒णाका॑सु , द॒ध्म॒सि॒ । अथो॒ इति॑ , हा॒रि॒द्र॒वेषु॑ , मे॒ , ह॒रि॒माणं॒ , नि , द॒ध्म॒सि॒ ॥
उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह । द्वि॒षंतं॒ मह्यं॑ रं॒धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धं ॥
उत् , अ॒गा॒त् , अ॒यं , आ॒दि॒त्यः , विश्वे॑न , सह॑सा , स॒ह । द्वि॒षंतं॑ , मह्यं॑ , रं॒धय॑न् , मो इति॑ , अ॒हं , द्वि॒ष॒ते , र॒धं॒ ॥
[५१] अभित्यमिति पंचदशर्चस्य सूक्तस्य आंगिरसः सव्यइंद्रोजगतीअंत्येद्वेत्रिष्टुभौ |
अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिंद्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वं । यस्य॒ द्यावो॒ न वि॒चरं॑ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ॥
अ॒भि , त्यं , मे॒षं , पु॒रु॒ऽहू॒तं , ऋ॒ग्मियं॑ , इंद्रं॑ , गीः॒ऽभिः , म॒द॒त॒ , वस्वः॑ , अ॒र्ण॒वं । यस्य॑ , द्यावः॑ , न , वि॒ऽचरं॑ति , मानु॑षा , भु॒जे , मंहि॑ष्ठं , अ॒भि , विप्रं॑ , अ॒र्च॒त॒ ॥
अ॒भीम॑वन्वंत्स्वभि॒ष्टिमू॒तयो॑ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तं । इंद्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं॑ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ॥
अ॒भि , ईं॒ , अ॒व॒न्व॒न् , सु॒ऽअ॒भि॒ष्टिं , ऊ॒तयः॑ , अं॒त॒रि॒क्ष॒ऽप्रां , तवि॑षीभिः , आऽवृ॑तं । इंद्रं॑ , दक्षा॑सः , ऋ॒भवः॑ , म॒द॒ऽच्युतं॑ , श॒तऽक्र॑तुं , जव॑नी , सू॒नृता॑ , आ , अ॒रु॒ह॒त् ॥
त्वं गो॒त्रमंगि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् । स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्वा॒जावद्रिं॑ वावसा॒नस्य॑ न॒र्तय॑न् ॥
त्वं , गो॒त्रं , अंगि॑रःऽभ्यः , अ॒वृ॒णोः॒ , अप॑ , उ॒त , अत्र॑ये , श॒तऽदु॑रेषु , गा॒तु॒ऽवित् । स॒सेन॑ , चि॒त् , वि॒ऽम॒दाय॑ , अ॒व॒हः॒ , वसु॑ , आ॒जौ , अद्रिं॑ , व॒व॒सा॒नस्य॑ , न॒र्तय॑न् ॥
त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रयः॒ पर्व॑ते॒ दानु॑म॒द्वसु॑ । वृ॒त्रं यदिं॑द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ॥
त्वं , अ॒पां , अ॒पि॒ऽधाना॑ , अ॒वृ॒णोः॒ , अप॑ , अधा॑रयः , पर्व॑ते , दानु॑ऽमत् , वसु॑ । वृ॒त्रं , यत् , इं॒द्र॒ , शव॑सा , अव॑धीः , अहिं॑ , आत् , इत् , सूर्यं॑ , दि॒वि , आ , अ॒रो॒ह॒यः॒ , दृ॒शे ॥
त्वं मा॒याभि॒रप॑ मा॒यिनो॑ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत । त्वं पिप्रो॑र्नृमणः॒ प्रारु॑जः॒ पुरः॒ प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ॥
त्वं , मा॒याभिः॑ , अप॑ , मा॒यिनः॑ , अ॒ध॒मः॒ , स्व॒धाभिः॑ , ये , अधि॑ , शुप्तौ॑ , अजु॑ह्वत । त्वं , पिप्रोः॑ , नृ॒ऽम॒नः॒ , प्र , अ॒रु॒जः॒ , पुरः॑ , प्र , ऋ॒जिश्चा॑नं , द॒स्यु॒ऽहत्ये॑षु , आ॒वि॒थ॒ ॥
त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वावि॒थारं॑धयोऽतिथि॒ग्वाय॒ शंब॑रं । म॒हांतं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे ॥
त्वं , कुत्सं॑ , शु॒ष्ण॒ऽहत्ये॑षु , आ॒वि॒थ॒ , अरं॑धयः , अ॒ति॒थि॒ऽग्वाय॑ , शंब॑रं । म॒हांतं॑ , चि॒त् , अ॒र्बु॒दं , नि , क्र॒मीः॒ , प॒दा , स॒नात् , ए॒व , द॒स्यु॒ऽहत्या॑य , ज॒ज्ञि॒षे॒ ॥
त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राधः॑ सोमपी॒थाय॑ हर्षते । तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑ ॥
त्वे इति॑ , विश्वा॑ , तवि॑षी , स॒ध्र्य॑क् , हि॒ता , तव॑ , राधः॑ , सो॒म॒ऽपी॒थाय॑ , ह॒र्ष॒ते॒ । तव॑ , वज्रः॑ , चि॒कि॒ते॒ , बा॒ह्वोः , हि॒तः , वृ॒श्च , शत्रोः॑ , अव॑ , विश्वा॑नि , वृष्ण्या॑ ॥
वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रंधया॒ शास॑दव्र॒तान् । शाकी॑ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ॥
वि , जा॒नी॒हि॒ , आर्या॑न् , ये , च॒ , दस्य॑वः , ब॒र्हिष्म॑ते , रं॒ध॒य॒ , शास॑त् , अ॒व्र॒तान् । शाकी॑ , भ॒व॒ , यज॑मानस्य , चो॒दि॒ता , विश्वा॑ , इत् , ता , ते॒ , स॒ध॒ऽमादे॑षु , चा॒क॒न॒ ॥
अनु॑व्रताय रं॒धय॒न्नप॑व्रताना॒भूभि॒रिंद्रः॑ श्न॒थय॒न्नना॑भुवः । वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षतः॒ स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिहः॑ ॥
अनु॑ऽव्रताय , रं॒धय॑न् , अप॑ऽव्रतान् , आ॒ऽभूभिः॑ , इंद्रः॑ , श्न॒थय॑न् , अना॑भुवः । वृ॒द्धस्य॑ , चि॒त् , वर्ध॑तः , द्यां , इन॑क्षतः , स्तवा॑नः , व॒म्रः , वि , ज॒घा॒न॒ , सं॒ऽदिहः॑ ॥
तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना॑ बाधते॒ शवः॑ । आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रवः॑ ॥
तक्ष॑त् , यत् , ते॒ , उ॒शना॑ , सह॑सा , सहः॑ , वि , रोद॑सी॒ इति॑ , म॒ज्मना॑ , बा॒ध॒ते॒ , शवः॑ । आ , त्वा॒ , वात॑स्य , नृ॒ऽम॒नः॒ , म॒नः॒ऽयुजः॑ , आ , पूर्य॑माणं , अ॒व॒ह॒न् , अ॒भि , श्रवः॑ ॥
मंदि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचाँ॒ इंद्रो॑ वं॒कू वं॑कु॒तराधि॑ तिष्ठति । उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द्वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुरः॑ ॥
मंदि॑ष्ट , यत् , उ॒शने॑ , का॒व्ये , सचा॑ , इंद्रः॑ , वं॒कू इति॑ , वं॒कु॒ऽतरा॑ , अधि॑ , ति॒ष्ठ॒ति॒ । उ॒ग्रः , य॒यिं , निः , अ॒पः , स्रोत॑सा , अ॒सृ॒ज॒त् , वि , शुष्ण॑स्य , दृं॒हि॒ताः , ऐ॒र॒य॒त् , पुरः॑ ॥
आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मंद॑से । इंद्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो॑ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ॥
आ , स्म॒ , रथं॑ , वृ॒ष॒ऽपाने॑षु , ति॒ष्ठ॒सि॒ , शा॒र्या॒तस्य॑ , प्रऽभृ॑ताः , येषु॑ , मंद॑से । इंद्र॑ , यथा॑ , सु॒तऽसो॑मेषु , चा॒कनः॑ , अ॒न॒र्वाणं॑ , श्लोकं॑ , आ , रो॒ह॒से॒ , दि॒वि ॥
अद॑दा॒ अर्भां॑ मह॒ते व॑च॒स्यवे॑ क॒क्षीव॑ते वृच॒यामिं॑द्र सुन्व॒ते । मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॑ ॥
अद॑दाः , अर्भां॑ , म॒ह॒ते , व॒च॒स्यवे॑ , क॒क्षीव॑ते , वृ॒च॒यां , इं॒द्र॒ , सु॒न्व॒ते । मेना॑ , अ॒भ॒वः॒ , वृ॒ष॒ण॒श्वस्य॑ , सु॒क्र॒तो॒ इति॑ सुऽक्रतो , विश्वा॑ , इत् , ता , ते॒ , सव॑नेषु , प्र॒ऽवाच्या॑ ॥
इंद्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ । अ॒श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिंद्र॒ इद्रा॒यः क्ष॑यति प्रयं॒ता ॥
इंद्रः॑ , अ॒श्रा॒यि॒ , सु॒ऽध्यः॑ , नि॒रे॒के , प॒ज्रेषु॑ , स्तोमः॑ , दुर्यः॑ , न , यूपः॑ । अ॒श्व॒ऽयुः , ग॒व्युः , र॒थ॒ऽयुः , व॒सु॒ऽयुः , इंद्रः॑ , इत् , रा॒यः , क्ष॒य॒ति॒ , प्र॒ऽयं॒ता ॥
इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे॑ स॒त्यशु॑ष्माय त॒वसे॑ऽवाचि । अ॒स्मिन्निं॑द्र वृ॒जने॒ सर्व॑वीराः॒ स्मत्सू॒रिभि॒स्तव॒ शर्मं॑त्स्याम ॥
इ॒दं , नमः॑ , वृ॒ष॒भाय॑ , स्व॒ऽराजे॑ , स॒त्यऽशु॑ष्माय , त॒वसे॑ , अ॒वा॒चि॒ । अ॒स्मिन् , इं॒द्र॒ , वृ॒जने॑ , सर्व॑ऽवीराः , स्मत् , सू॒रिऽभिः॑ , तव॑ , शर्म॑न् , स्या॒म॒ ॥
[५२] त्यंसुमेषमिति पंचदशर्चस्य सूक्तस्यांगिरसःसव्यइंद्रोजगती त्रयोदश्यंत्येत्रिष्टुभौ |
त्यं सु मे॒षं म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्वः॑ सा॒कमीर॑ते । अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेंद्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभिः॑ ॥
त्यं , सु , मे॒षं , म॒ह॒य॒ , स्वः॒ऽविदं॑ , श॒तं , यस्य॑ , सु॒ऽभ्वः॑ , सा॒कं , ईर॑ते । अत्यं॑ , न , वाजं॑ , ह॒व॒न॒ऽस्यदं॑ , रथं॑ , आ , इंद्रं॑ , व॒वृ॒त्यां॒ , अव॑से , सु॒वृ॒क्तिऽभिः॑ ॥
स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे । इंद्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अंध॑सा ॥
सः , पर्व॑तः , न , ध॒रुणे॑षु , अच्यु॑तः , स॒हस्रं॑ऽऊतिः , तवि॑षीषु , व॒वृ॒धे॒ । इंद्रः॑ , यत् , वृ॒त्रं , अव॑धीत् , न॒दी॒ऽवृतं॑ , उ॒ब्जन् , अर्णां॑सि , जर्हृ॑षाणः , अंध॑सा ॥
स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि चं॒द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभिः॑ । इंद्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रंध॑सः ॥
सः , हि , द्व॒रः , द्व॒रिषु॑ , व॒व्रः , ऊध॑नि , चं॒द्रऽबु॑ध्नः , मद॑ऽवृद्धः , म॒नी॒षिऽभिः॑ । इंद्रं॑ , तं , अ॒ह्वे॒ , सु॒ऽअ॒प॒स्यया॑ , धि॒या , मंहि॑ष्ठऽरातिं , सः , हि , पप्रिः॑ , अंध॑सः ॥
आ यं पृ॒णंति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्व१॒॑ः स्वा अ॒भिष्ट॑यः । तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तयः॒ शुष्मा॒ इंद्र॑मवा॒ता अह्रु॑तप्सवः ॥
आ , यं , पृ॒णंति॑ , दि॒वि , सद्म॑ऽबर्हिषः , स॒मु॒द्रं , न , सु॒ऽभ्वः॑ , स्वाः , अ॒भिष्ट॑यः । तं , वृ॒त्र॒ऽहत्ये॑ , अनु॑ , त॒स्थुः॒ , ऊ॒तयः॑ , शुष्माः॑ , इंद्रं॑ , अ॒वा॒ताः , अह्रु॑तऽप्सवः ॥
अ॒भि स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑तो र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तयः॑ । इंद्रो॒ यद्व॒ज्री धृ॒षमा॑णो॒ अंध॑सा भि॒नद्व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ॥
अ॒भि , स्वऽवृ॑ष्टिं , मदे॑ , अ॒स्य॒ , युध्य॑तः , र॒घ्वीःऽइ॑व , प्र॒व॒णे , स॒स्रुः॒ , ऊ॒तयः॑ । इंद्रः॑ , यत् , व॒ज्री , धृ॒षमा॑णः , अंध॑सा , भि॒नत् , व॒लस्य॑ , प॒रि॒धीन्ऽइ॑व , त्रि॒तः ॥
परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो॒ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् । वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घंथ॒ हन्वो॑रिंद्र तन्य॒तुं ॥
परि॑ , ईं॒ , घृ॒णा , च॒र॒ति॒ , ति॒त्वि॒षे , शवः॑ , अ॒पः , वृ॒त्वी , रज॑सः , बु॒ध्नं , आ , अ॒श॒य॒त् । वृ॒त्रस्य॑ , यत् , प्र॒व॒णे , दुः॒ऽगृभि॑श्वनः , नि॒ऽज॒घंथ॑ , हन्वोः॑ , इं॒द्र॒ , त॒न्य॒तुं ॥
ह्र॒दं न हि त्वा॑ न्यृ॒षंत्यू॒र्मयो॒ ब्रह्मा॑णींद्र॒ तव॒ यानि॒ वर्ध॑ना । त्वष्टा॑ चित्ते॒ युज्यं॑ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू॑त्योजसं ॥
ह्र॒दं , न , हि , त्वा॒ , नि॒ऽऋ॒षंति॑ , ऊ॒र्मयः॑ , ब्रह्मा॑णि , इं॒द्र॒ , तव॑ , यानि॑ , वर्ध॑ना । त्वष्टा॑ , चि॒त् , ते॒ , युज्यं॑ , व॒वृ॒धे॒ , शवः॑ , त॒तक्ष॑ , वज्रं॑ , अ॒भिभू॑तिऽओजसं ॥
ज॒घ॒न्वाँ उ॒ हरि॑भिः संभृतक्रत॒विंद्र॑ वृ॒त्रं मनु॑षे गातु॒यन्न॒पः । अय॑च्छथा बा॒ह्वोर्वज्र॑माय॒समधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ॥
ज॒घ॒न्वान् , ऊँ॒ इति॑ , हरि॑ऽभिः , सं॒भृ॒त॒क्र॒तो॒ इति॑ संभृतऽक्रतो , इंद्र॑ , वृ॒त्रं , मनु॑षे , गा॒तु॒ऽयन् , अ॒पः । अय॑च्छथाः , बा॒ह्वोः , वज्रं॑ , आ॒य॒सं , अधा॑रयः , दि॒वि , आ , सूर्यं॑ , दृ॒शे ॥
बृ॒हत्स्वश्चं॑द्र॒मम॑व॒द्यदु॒क्थ्य१॒॑मकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः । यन्मानु॑षप्रधना॒ इंद्र॑मू॒तयः॒ स्व॑र्नृ॒षाचो॑ म॒रुतोऽम॑द॒न्ननु॑ ॥
बृ॒हत् , स्वऽचं॑द्रं , अम॑ऽवत् , यत् , उ॒क्थ्यं॑ , अकृ॑ण्वत , भि॒यसा॑ , रोह॑णं , दि॒वः । यत् , मानु॑षऽप्रधनाः , इंद्रं॑ , ऊ॒तयः॑ , स्वः॑ , नृ॒ऽसाचः॑ , म॒रुतः॑ , अम॑दन् , अनु॑ ॥
द्यौश्चि॑द॒स्याम॑वाँ॒ अहेः॑ स्व॒नादयो॑यवीद्भि॒यसा॒ वज्र॑ इंद्र ते । वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॑ रोदसी॒ मदे॑ सु॒तस्य॒ शव॒साभि॑न॒च्छिरः॑ ॥
द्यौः , चि॒त् , अ॒स्य॒ , अम॑ऽवान् , अहेः॑ , स्व॒नात् , अयो॑यवीत् , भि॒यसा॑ , वज्रः॑ , इं॒द्र॒ , ते॒ । वृ॒त्रस्य॑ , यत् , ब॒द्ब॒धा॒नस्य॑ , रो॒द॒सी॒ इति॑ , मदे॑ , सु॒तस्य॑ , शव॑सा , अभि॑नत् , शिरः॑ ॥
यदिन्न्विं॑द्र पृथि॒वी दश॑भुजि॒रहा॑नि॒ विश्वा॑ त॒तनं॑त कृ॒ष्टयः॑ । अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ॥
यत् , इत् , नु , इं॒द्र॒ , पृ॒थि॒वी , दश॑ऽभुजिः , अहा॑नि , विश्वा॑ , त॒तनं॑त , कृ॒ष्टयः॑ । अत्र॑ , अह॑ , ते॒ , म॒घ॒ऽव॒न् , विऽश्रु॑तं , सहः॑ , द्यां , अनु॑ , शव॑सा , ब॒र्हणा॑ , भु॒व॒त् ॥
त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मनः॒ स्वभू॑त्योजा॒ अव॑से धृषन्मनः । च॒कृ॒षे भूमिं॑ प्रति॒मान॒मोज॑सो॒ऽपः स्वः॑ परि॒भूरे॒ष्या दिवं॑ ॥
त्वं , अ॒स्य , पा॒रे , रज॑सः , विऽओ॑मनः , स्वभू॑तिऽओजाः , अव॑से , धृ॒ष॒त्ऽम॒नः॒ । च॒कृ॒षे , भूमिं॑ , प्र॒ति॒ऽमानं॑ , ओज॑सः , अ॒पः , स्व१॒॑रिति॒ स्वः॑ , प॒रि॒ऽभूः , ए॒षि॒ , आ , दिवं॑ ॥
त्वं भु॑वः प्रति॒मानं॑ पृथि॒व्या ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः । विश्व॒माप्रा॑ अं॒तरि॑क्षं महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ॥
त्वं , भु॒वः॒ , प्र॒ति॒ऽमानं॑ , पृ॒थि॒व्याः , ऋ॒ष्वऽवी॑रस्य , बृ॒ह॒तः , पतिः॑ , भूः॒ । विश्वं॑ , आ , अ॒प्राः॒ , अं॒तरि॑क्षं , म॒हि॒ऽत्वा , स॒त्यं , अ॒द्धा , नकिः॑ , अ॒न्यः , त्वाऽवा॑न् ॥
न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो॒ न सिंध॑वो॒ रज॑सो॒ अंत॑मान॒शुः । नोत स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑त॒ एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ॥
न , यस्य॑ , द्यावा॑पृथि॒वी इति॑ , अनु॑ , व्यचः॑ , न , सिंध॑वः , रज॑सः , अंतं॑ , आ॒न॒शुः । न , उ॒त , स्वऽवृ॑ष्टिं , मदे॑ , अ॒स्य॒ , युध्य॑तः , एकः॑ , अ॒न्यत् , च॒कृ॒षे॒ , विश्वं॑ , आ॒नु॒षक् ॥
आर्च॒न्नत्र॑ म॒रुतः॒ सस्मि॑न्ना॒जौ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा । वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता॑ व॒धेन॒ नि त्वमिं॑द्र॒ प्रत्या॒नं ज॒घंथ॑ ॥
आर्च॑न् , अत्र॑ , म॒रुतः॑ , सस्मि॑न् , आ॒जौ , विश्वे॑ , दे॒वासः॑ , अ॒म॒द॒न् , अनु॑ , त्वा॒ । वृ॒त्रस्य॑ , यत् , भृ॒ष्टि॒ऽमता॑ , व॒धेन॑ , नि , त्वं , इं॒द्र॒ , प्रति॑ , आ॒नं , ज॒घंथ॑ ॥
[५३] न्यूषुवाचमित्येकादशर्चस्य सूक्तस्यांगिरसःसव्यइंद्रोजगतीअंत्येद्वेत्रिष्टुभौ |
न्यू॒३॒॑ षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इंद्रा॑य॒ सद॑ने वि॒वस्व॑तः । नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑द॒न्न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ॥
नि , ऊँ॒ इति॑ , सु , वाचं॑ , प्र , म॒हे , भ॒रा॒म॒हे॒ , गिरः॑ , इंद्रा॑य , सद॑ने , वि॒वस्व॑तः । नु , चि॒त् , हि , रत्नं॑ , स॒स॒तांऽइ॑व , अवि॑दत् , न , दुः॒ऽस्तु॒तिः , द्र॒वि॒णः॒ऽदेषु॑ , श॒स्य॒ते॒ ॥
दु॒रो अश्व॑स्य दु॒र इं॑द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पतिः॑ । शि॒क्षा॒न॒रः प्र॒दिवो॒ अका॑मकर्शनः॒ सखा॒ सखि॑भ्य॒स्तमि॒दं गृ॑णीमसि ॥
दु॒रः , अश्व॑स्य , दु॒रः , इं॒द्र॒ , गोः , अ॒सि॒ , दु॒रः , यव॑स्य , वसु॑नः , इ॒नः , पतिः॑ । शि॒क्षा॒ऽन॒रः , प्र॒ऽदिवः॑ , अका॑मऽकर्शनः , सखा॑ , सखि॑ऽभ्यः , तं , इ॒दं , गृ॒णी॒म॒सि॒ ॥
शची॑व इंद्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑ । अतः॑ सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ॥
शची॑ऽवः , इं॒द्र॒ , पु॒रु॒ऽकृ॒त् , द्यु॒म॒त्ऽत॒म॒ , तव॑ , इत् , इ॒दं , अ॒भितः॑ , चे॒कि॒ते॒ , वसु॑ । अतः॑ , सं॒ऽगृभ्य॑ , अ॒भि॒ऽभू॒ते॒ , आ , भ॒र॒ , मा , त्वा॒ऽय॒तः , ज॒रि॒तुः , कामं॑ , ऊ॒न॒यीः॒ ॥
ए॒भिर्द्युभिः॑ सु॒मना॑ ए॒भिरिंदु॑भिर्निरुंधा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑ । इंद्रे॑ण॒ दस्युं॑ द॒रयं॑त॒ इंदु॑भिर्यु॒तद्वे॑षसः॒ समि॒षा र॑भेमहि ॥
ए॒भिः , द्युऽभिः॑ , सु॒ऽमनाः॑ , ए॒भिः , इंदु॑ऽभिः , निः॒ऽउं॒धा॒नः , अम॑तिं , गोभिः॑ , अ॒श्विना॑ । इंद्रे॑ण , दस्युं॑ , द॒रयं॑तः , इंदु॑ऽभिः , यु॒तऽद्वे॑षसः , सं , इ॒षा , र॒भे॒म॒हि॒ ॥
समिं॑द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे॑भिः पुरुश्चं॒द्रैर॒भिद्यु॑भिः । सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया॒ गोअ॑ग्र॒याश्वा॑वत्या रभेमहि ॥
सं , इं॒द्र॒ , रा॒या , सं , इ॒षा , र॒भे॒म॒हि॒ , सं , वाजे॑भिः , पु॒रु॒ऽचं॒द्रैः , अ॒भिद्यु॑ऽभिः । सं , दे॒व्या , प्रऽम॑त्या , वी॒रऽशु॑ष्मया , गोऽअ॑ग्रया , अश्व॑ऽवत्या , र॒भे॒म॒हि॒ ॥
ते त्वा॒ मदा॑ अमदं॒तानि॒ वृष्ण्या॒ ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते । यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ॥
ते , त्वा॒ , मदाः॑ , अ॒म॒द॒न् , तानि॑ , वृष्ण्या॑ , ते , सोमा॑सः , वृ॒त्र॒ऽहत्ये॑षु , स॒त्ऽप॒ते॒ । यत् , का॒रवे॑ , दश॑ , वृ॒त्राणि॑ , अ॒प्र॒ति , ब॒र्हिष्म॑ते , नि , स॒हस्रा॑णि , ब॒र्हयः॑ ॥
यु॒धा युध॒मुप॒ घेदे॑षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा । नम्या॒ यदिं॑द्र॒ सख्या॑ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिनं॑ ॥
यु॒धा , युधं॑ , उप॑ , घ॒ , इत् , ए॒षि॒ , धृ॒श्णु॒ऽया , पु॒रा , पुरं॑ , सं , इ॒दं , हं॒सि॒ , ओज॑सा । नम्या॑ , यत् , इं॒द्र॒ , सख्या॑ , प॒रा॒ऽवति॑ , नि॒ऽब॒र्हयः॑ , नमु॑चिं , नाम॑ , मा॒यिनं॑ ॥
त्वं करं॑जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी । त्वं श॒ता वंगृ॑दस्याभिन॒त्पुरो॑ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥
त्वं , करं॑जं , उ॒त , प॒र्णयं॑ , व॒धीः॒ , तेजि॑ष्ठया , अ॒ति॒थि॒ऽग्वस्य॑ , व॒र्त॒नी । त्वं , श॒ता , वंगृ॑दस्य , अ॒भि॒न॒त् , पुरः॑ , अ॒न॒नु॒ऽदः , परि॑ऽसूताः , ऋ॒जिश्व॑ना ॥
त्वमे॒तांज॑न॒राज्ञो॒ द्विर्दशा॑बं॒धुना॑ सु॒श्रव॑सोपज॒ग्मुषः॑ । ष॒ष्टिं स॒हस्रा॑ नव॒तिं नव॑ श्रु॒तो नि च॒क्रेण॒ रथ्या॑ दु॒ष्पदा॑वृणक् ॥
त्वं , ए॒तान् , ज॒न॒ऽराज्ञः॑ , द्विः , दश॑ , अ॒बं॒धुना॑ , सु॒ऽश्रव॑सा , उ॒प॒ऽज॒ग्मुषः॑ । ष॒ष्टिं , स॒हस्रा॑ , न॒व॒तिं , नव॑ , श्रु॒तः , नि , च॒क्रेण॑ , रथ्या॑ , दुः॒ऽपदा॑ , अ॒वृ॒ण॒क् ॥
त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिंद्र॒ तूर्व॑याणं । त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरंधनायः ॥
त्वं , आ॒वि॒थ॒ , सु॒ऽश्रव॑सं , तव॑ , ऊ॒तिऽभिः॑ , तव॑ , त्राम॑ऽभिः , इं॒द्र॒ , तूर्व॑याणं । त्वं , अ॒स्मै॒ , कुत्सं॑ , अ॒ति॒थि॒ऽग्वं , आ॒युं , म॒हे , राज्ञे॑ , यूने॑ , अ॒रं॒ध॒ना॒यः॒ ॥
य उ॒दृचीं॑द्र दे॒वगो॑पाः॒ सखा॑यस्ते शि॒वत॑मा॒ असा॑म । त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥
ये , उ॒त्ऽऋचि॑ , इं॒द्र॒ , दे॒वऽगो॑पाः , सखा॑यः , ते॒ , शि॒वऽत॑माः , असा॑म । त्वां , स्तो॒षा॒म॒ , त्वया॑ , सु॒ऽवीराः॑ , द्राघी॑यः , आयुः॑ , प्र॒ऽत॒रं , दधा॑नाः ॥
[५४] मानोअस्मिन्नित्येकादशर्चस्यसूक्तस्यांगिरसः सव्यइंद्रोजगती षष्ट्यष्टमीनवम्येकादश्यस्त्रिष्टुभः |
मा नो॑ अ॒स्मिन्म॑घवन्पृ॒त्स्वंह॑सि न॒हि ते॒ अंतः॒ शव॑सः परी॒णशे॑ । अक्रं॑दयो न॒द्यो॒३॒॑ रोरु॑व॒द्वना॑ क॒था न क्षो॒णीर्भि॒यसा॒ समा॑रत ॥
मा , नः॒ , अ॒स्मिन् , म॒घ॒ऽव॒न् , पृ॒त्ऽसु , अंह॑सि , न॒हि , ते॒ , अंतः॑ , शव॑सः , प॒रि॒ऽनशे॑ । अक्रं॑दयः , न॒द्यः॑ , रोरु॑वत् , वना॑ , क॒था , न , क्षो॒णीः , भि॒यसा॑ , सं , आ॒र॒त॒ ॥
अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते शृ॒ण्वंत॒मिंद्रं॑ म॒हय॑न्न॒भि ष्टु॑हि । यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृं॒जते॑ ॥
अर्च॑ , श॒क्राय॑ , शा॒किने॑ , शची॑ऽवते , शृ॒ण्वंतं॑ , इंद्रं॑ , म॒हय॑न् , अ॒भि , स्तु॒हि॒ । यः , धृ॒ष्णुना॑ , शव॑सा , रोद॑सी॒ इति॑ , उ॒भे इति॑ , वृषा॑ , वृ॒ष॒ऽत्वा , वृ॒ष॒भः , नि॒ऽऋं॒जते॑ ॥
अर्चा॑ दि॒वे बृ॑ह॒ते शू॒ष्यं१॒॑ वचः॒ स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मनः॑ । बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा॑ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ॥
अर्च॑ , दि॒वे , बृ॒ह॒ते , शू॒ष्यं॑ , वचः॑ , स्वऽक्ष॑त्रं , यस्य॑ , धृ॒ष॒तः , धृ॒षत् , मनः॑ । बृ॒हत्ऽश्र॑वाः , असु॑रः , ब॒र्हणा॑ , कृ॒तः , पु॒रः , हरि॑ऽभ्यां , वृ॒ष॒भः , रथः॑ , हि , सः ॥
त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒योऽव॒ त्मना॑ धृष॒ता शंब॑रं भिनत् । यन्मा॒यिनो॑ व्रं॒दिनो॑ मं॒दिना॑ धृ॒षच्छि॒तां गभ॑स्तिम॒शनिं॑ पृत॒न्यसि॑ ॥
त्वं , दि॒वः , बृ॒ह॒तः , सानु॑ , को॒प॒यः॒ , अव॑ , त्मना॑ , धृ॒ष॒ता , शंब॑रं , भि॒न॒त् । यत् , मा॒यिनः॑ , व्रं॒दिनः॑ , मं॒दिना॑ , धृ॒षत् , शि॒तां , गभ॑स्तिं , अ॒शनिं॑ , पृ॒त॒न्यसि॑ ॥
नि यद्वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद्व्रं॒दिनो॒ रोरु॑व॒द्वना॑ । प्रा॒चीने॑न॒ मन॑सा ब॒र्हणा॑वता॒ यद॒द्या चि॑त्कृ॒णवः॒ कस्त्वा॒ परि॑ ॥
नि , यत् , वृ॒णक्षि॑ , श्व॒स॒नस्य॑ , मू॒र्धनि॑ , शुष्ण॑स्य , चि॒त् , व्रं॒दिनः॑ , रोरु॑वत् , वना॑ । प्रा॒चीने॑न , मन॑सा , ब॒र्हणा॑ऽवता , यत् , अ॒द्य , चि॒त् , कृ॒णवः॑ , कः , त्वा॒ , परि॑ ॥
त्वमा॑विथ॒ नर्यं॑ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं॑ व॒य्यं॑ शतक्रतो । त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने॒ त्वं पुरो॑ नव॒तिं दं॑भयो॒ नव॑ ॥
त्वं , आ॒वि॒थ॒ , नर्यं॑ , तु॒र्वशं॑ , यदुं॑ , त्वं , तु॒र्वीतिं॑ , व॒य्यं॑ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । त्वं , रथं॑ , एत॑शं , कृत्व्ये॑ , धने॑ , त्वं , पुरः॑ , न॒व॒तिं , दं॒भ॒यः॒ , नव॑ ॥
स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो॑ रा॒तह॑व्यः॒ प्रति॒ यः शास॒मिन्व॑ति । उ॒क्था वा॒ यो अ॑भिगृ॒णाति॒ राध॑सा॒ दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ॥
सः , घ॒ , राजा॑ , सत्ऽप॑तिः , शू॒शु॒व॒त् , जनः॑ , रा॒तऽह॑व्यः , प्रति॑ , यः , शासं॑ , इन्व॑ति । उ॒क्था , वा॒ , यः , अ॒भि॒ऽगृ॒णाति॑ , राध॑सा , दानुः॑ , अ॒स्मै॒ , उप॑रा , पि॒न्व॒ते॒ , दि॒वः ॥
अस॑मं क्ष॒त्रमस॑मा मनी॒षा प्र सो॑म॒पा अप॑सा संतु॒ नेमे॑ । ये त॑ इंद्र द॒दुषो॑ व॒र्धयं॑ति॒ महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं॑ च ॥
अस॑मं , क्ष॒त्रं , अस॑मा , म॒नी॒षा , प्र , सो॒म॒ऽपाः , अप॑सा , सं॒तु॒ , नेमे॑ । ये , ते॒ , इं॒द्र॒ , द॒दुषः॑ , व॒र्धयं॑ति , महि॑ , क्ष॒त्रं , स्थवि॑रं , वृष्ण्यं॑ , च॒ ॥
तुभ्येदे॒ते ब॑हु॒ला अद्रि॑दुग्धाश्चमू॒षद॑श्चम॒सा इं॑द्र॒पानाः॑ । व्य॑श्नुहि त॒र्पया॒ काम॑मेषा॒मथा॒ मनो॑ वसु॒देया॑य कृष्व ॥
तुभ्य॑ , इत् , ए॒ते , ब॒हु॒लाः , अद्रि॑ऽदुग्धाः , च॒मू॒ऽसदः॑ , च॒म॒साः , इं॒द्र॒ऽपानाः॑ । वि , अ॒श्नु॒हि॒ , त॒र्पय॑ , कामं॑ , ए॒षां॒ , अथ॑ , मनः॑ , व॒सु॒ऽदेया॑य , कृ॒ष्व॒ ॥
अ॒पाम॑तिष्ठद्ध॒रुण॑ह्वरं॒ तमो॒ऽन्तर्वृ॒त्रस्य॑ ज॒ठरे॑षु॒ पर्व॑तः । अ॒भीमिंद्रो॑ न॒द्यो॑ व॒व्रिणा॑ हि॒ता विश्वा॑ अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ॥
अ॒पां , अ॒ति॒ष्ठ॒त् , ध॒रुण॑ऽह्वरं , तमः॑ , अं॒तः , वृ॒त्रस्य॑ , ज॒ठरे॑षु , पर्व॑तः । अ॒भि , ईं॒ , इंद्रः॑ , न॒द्यः॑ , व॒व्रिणा॑ , हि॒ताः , विश्वाः॑ , अ॒नु॒ऽस्थाः , प्र॒व॒णेषु॑ , जि॒घ्न॒ते॒ ॥
स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळिं॑द्र॒ तव्यं॑ । रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन्रा॒ये च॑ नः स्वप॒त्या इ॒षे धाः॑ ॥
सः , शेऽवृ॑धं , अधि॑ , धाः॒ , द्यु॒म्नं , अ॒स्मे इति॑ , महि॑ , क्ष॒त्रं , ज॒ना॒षाट् , इं॒द्र॒ , तव्यं॑ । रक्ष॑ , च॒ , नः॒ , म॒घोनः॑ , पा॒हि , सू॒रीन् , रा॒ये , च॒ , नः॒ , सु॒ऽअ॒प॒त्यै , इ॒षे , धाः॒ ॥
[५५] दिवश्चिदित्यष्टर्चस्य सूक्तस्यांगिरसः सव्य इंद्रोजगती |
दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इंद्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ । भी॒मस्तुवि॑ष्मांचर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ॥
दि॒वः , चि॒त् , अ॒स्य॒ , व॒रि॒मा , वि , प॒प्र॒थे॒ , इंद्रं॑ , न , म॒ह्ना , पृ॒थि॒वी , च॒न , प्रति॑ । भी॒मः , तुवि॑ष्मान् , च॒र्ष॒णिऽभ्यः॑ , आ॒ऽत॒पः , शिशी॑ते , वज्रं॑ , तेज॑से , न , वंस॑गः ॥
सो अ॑र्ण॒वो न न॒द्यः॑ समु॒द्रियः॒ प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः । इंद्रः॒ सोम॑स्य पी॒तये॑ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ॥
सः , अ॒र्ण॒वः , न , न॒द्यः॑ , स॒मु॒द्रियः॑ , प्रति॑ , गृ॒भ्णा॒ति॒ , विऽश्रि॑ताः , वरी॑मऽभिः । इंद्रः॑ , सोम॑स्य , पी॒तये॑ , वृ॒ष॒ऽय॒ते॒ , स॒नात् , सः , यु॒ध्मः , ओज॑सा , प॒न॒स्य॒ते॒ ॥
त्वं तमिं॑द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि । प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ॥
त्वं , तं , इं॒द्र॒ , पर्व॑तं , न , भोज॑से , म॒हः , नृ॒म्णस्य॑ , धर्म॑णां , इ॒र॒ज्य॒सि॒ । प्र , वी॒र्ये॑ण , दे॒वता॑ , अति॑ , चे॒कि॒ते॒ , विश्व॑स्मै , उ॒ग्रः , कर्म॑णे , पु॒रःऽहि॑तः ॥
स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इं॑द्रि॒यं । वृषा॒ छंदु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥
सः , इत् , वने॑ , न॒म॒स्युऽभिः॑ , व॒च॒स्य॒ते॒ , चारु॑ , जने॑षु , प्र॒ऽब्रु॒वा॒णः , इं॒द्रि॒यं । वृषा॑ , छंदुः॑ , भ॒व॒ति॒ , ह॒र्य॒तः , वृषा॑ , क्षेमे॑ण , धेनां॑ , म॒घव्ऽआ॑ , यत् , इन्व॑ति ॥
स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना॑ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः । अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत॒ इंद्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धं ॥
सः , इत् , म॒हानि॑ , सं॒ऽइ॒थानि॑ , म॒ज्मना॑ , कृ॒णोति॑ , यु॒ध्मः , ओज॑सा , जने॑भ्यः । अध॑ , च॒न , श्रत् , द॒ध॒ति॒ , त्विषि॑ऽमते , इंद्रा॑य , वज्रं॑ , नि॒ऽघनि॑घ्नते , व॒धं ॥
स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा॑ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् । ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतुः॒ सर्त॒वा अ॒पः सृ॑जत् ॥
सः , हि , श्र॒व॒स्युः , सद॑नानि , कृ॒त्रिमा॑ , क्ष्म॒या , वृ॒धा॒नः , ओज॑सा , वि॒ऽना॒शय॑न् । ज्योतीं॑षि , कृ॒ण्वन् , अ॒वृ॒काणि॑ , यज्य॑वे , अव॑ , सु॒ऽक्रतुः॑ , सर्त॒वै , अ॒पः , सृ॒ज॒त् ॥
दा॒नाय॒ मनः॑ सोमपावन्नस्तु ते॒ऽर्वांचा॒ हरी॑ वंदनश्रु॒दा कृ॑धि । यमि॑ष्ठासः॒ सार॑थयो॒ य इं॑द्र ते॒ न त्वा॒ केता॒ आ द॑भ्नुवंति॒ भूर्ण॑यः ॥
दा॒नाय॑ , मनः॑ , सो॒म॒ऽपा॒व॒न् , अ॒स्तु॒ , ते॒ , अ॒र्वांचा॑ , हरी॒ इति॑ , वं॒द॒न॒ऽश्रु॒त् , आ , कृ॒धि॒ । यमि॑ष्ठासः , सार॑थयः , ये , इं॒द्र , ते॒ , न , त्वा॒ , केताः॑ , आ , द॒भ्नु॒वं॒ति॒ , भूर्ण॑यः ॥
अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा॑ळ्हं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे । आवृ॑तासोऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इंद्र॒ भूर॑यः ॥
अप्र॑ऽक्षितं , वसु॑ , बि॒भ॒र्षि॒ , हस्त॑योः , अषा॑ळ्हं , सहः॑ , त॒न्वि॑ , श्रु॒तः , द॒धे॒ । आऽवृ॑तासः , अ॒व॒तासः॑ , न , क॒र्तृऽभिः॑ , त॒नूषु॑ , ते॒ , क्रत॑वः , इं॒द्र॒ , भूर॑यः ॥
[५६] एषप्रपूर्वीरिति षळर्चस्य सूक्तस्यांगिरसःसव्यइंद्रोजगती |
ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषोऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणिः॑ । दक्षं॑ म॒हे पा॑ययते हिर॒ण्ययं॒ रथ॑मा॒वृत्या॒ हरि॑योग॒मृभ्व॑सं ॥
ए॒षः , प्र , पू॒र्वीः , अव॑ , तस्य॑ , च॒म्रिषः॑ , अत्यः॑ , न , योषां॑ , उत् , अ॒यं॒स्त॒ , भु॒र्वणिः॑ । दक्षं॑ , म॒हे , पा॒य॒य॒ते॒ , हि॒र॒ण्ययं॑ , रथं॑ , आ॒ऽवृत्य॑ , हरि॑ऽयोगं , ऋभ्व॑सं ॥
तं गू॒र्तयो॑ नेम॒न्निषः॒ परी॑णसः समु॒द्रं न सं॒चर॑णे सनि॒ष्यवः॑ । पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो॑ गि॒रिं न वे॒ना अधि॑ रोह॒ तेज॑सा ॥
तं , गू॒र्तयः॑ , ने॒म॒न्ऽइषः॑ , परी॑णसः , स॒मु॒द्रं , न , सं॒ऽचर॑णे , स॒नि॒ष्यवः॑ । पतिं॑ , दक्ष॑स्य , वि॒दथ॑स्य , नु , सहः॑ , गि॒रिं , न , वे॒नाः , अधि॑ , रो॒ह॒ , तेज॑सा ॥
स तु॒र्वणि॑र्म॒हाँ अ॑रे॒णु पौंस्ये॑ गि॒रेर्भृ॒ष्टिर्न भ्रा॑जते तु॒जा शवः॑ । येन॒ शुष्णं॑ मा॒यिन॑माय॒सो मदे॑ दु॒ध्र आ॒भूषु॑ रा॒मय॒न्नि दाम॑नि ॥
सः , तु॒र्वणिः॑ , म॒हान् , अ॒रे॒णु , पौंस्ये॑ , गि॒रेः , भृ॒ष्टिः , न , भ्रा॒ज॒ते॒ , तु॒जा , शवः॑ । येन॑ , शुष्णं॑ , मा॒यिनं॑ , आ॒य॒सः , मदे॑ , दु॒ध्रः , आ॒भूषु॑ , र॒मय॑त् , नि , दाम॑नि ॥
दे॒वी यदि॒ तवि॑षी॒ त्वावृ॑धो॒तय॒ इंद्रं॒ सिष॑क्त्यु॒षसं॒ न सूर्यः॑ । यो धृ॒ष्णुना॒ शव॑सा॒ बाध॑ते॒ तम॒ इय॑र्ति रे॒णुं बृ॒हद॑र्हरि॒ष्वणिः॑ ॥
दे॒वी , यदि॑ , तवि॑षी , त्वाऽवृ॑धा , ऊ॒तये॑ , इंद्रं॑ , सिस॑क्ति , उ॒षसं॑ , न , सूर्यः॑ । यः , धृ॒ष्णुना॑ , शव॑सा , बाध॑ते , तमः॑ , इय॑र्ति , रे॒णुं , बृ॒हत् , अ॒र्ह॒रि॒ऽस्वनिः॑ ॥
वि यत्ति॒रो ध॒रुण॒मच्यु॑तं॒ रजोऽति॑ष्ठिपो दि॒व आता॑सु ब॒र्हणा॑ । स्व॑र्मीळ्हे॒ यन्मद॑ इंद्र॒ हर्ष्याह॑न्वृ॒त्रं निर॒पामौ॑ब्जो अर्ण॒वं ॥
वि , यत् , ति॒रः , ध॒रुणं॑ , अच्यु॑तं , रजः॑ , अति॑स्थिपः , दि॒वः , आता॑सु , ब॒र्हणा॑ । स्वः॑ऽमीळ्हे , यत् , मदे॑ , इं॒द्र॒ , हर्ष्या॑ , अह॑न् , वृ॒त्रं , निः , अ॒पां , औ॒ब्जः॒ , अ॒र्ण॒वं ॥
त्वं दि॒वो ध॒रुणं॑ धिष॒ ओज॑सा पृथि॒व्या इं॑द्र॒ सद॑नेषु॒ माहि॑नः । त्वं सु॒तस्य॒ मदे॑ अरिणा अ॒पो वि वृ॒त्रस्य॑ स॒मया॑ पा॒ष्या॑रुजः ॥
त्वं , दि॒वः , ध॒रुणं॑ , धि॒षे॒ , ओज॑सा , पृ॒थि॒व्याः , इं॒द्र॒ , सद॑नेषु , माहि॑नः । त्वं , सु॒तस्य॑ , मदे॑ , अ॒रि॒णाः॒ , अ॒पः , वि , वृ॒त्रस्य॑ , स॒मया॑ , पा॒ष्या॑ , अ॒रु॒जः॒ ॥
[५७] प्रमंहिष्ठायेति षळर्चस्यसूक्तस्यांगिरसः सव्यइंद्रोजगती |
प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे॑ म॒तिं भ॑रे । अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑वृतं ॥
प्र , मंहि॑ष्ठाय , बृ॒ह॒ते , बृ॒हत्ऽर॑ये , स॒त्यऽशु॑ष्माय , त॒वसे॑ , म॒तिं , भ॒रे॒ । अ॒पांऽइ॑व , प्र॒व॒णे , यस्य॑ , दुः॒ऽधरं॑ , राधः॑ , वि॒श्वऽआ॑यु , शव॑से , अप॑ऽवृतं ॥
अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः । यत्पर्व॑ते॒ न स॒मशी॑त हर्य॒त इंद्र॑स्य॒ वज्रः॒ श्नथि॑ता हिर॒ण्ययः॑ ॥
अध॑ , ते॒ , विश्वं॑ , अनु॑ , ह॒ , अ॒स॒त् , इ॒ष्टये॑ , आपः॑ , नि॒म्नाऽइ॑व , सव॑ना , ह॒विष्म॑तः । यत् , पर्व॑ते , न , सं॒ऽअशी॑त , ह॒र्य॒तः , इंद्र॑स्य , वज्रः॑ , श्नथि॑ता , हि॒र॒ण्ययः॑ ॥
अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी॑यसे । यस्य॒ धाम॒ श्रव॑से॒ नामें॑द्रि॒यं ज्योति॒रका॑रि ह॒रितो॒ नाय॑से ॥
अ॒स्मै , भी॒माय॑ , नम॑सा , सं , अ॒ध्व॒रे , उषः॑ , न , शु॒भ्रे॒ , आ , भ॒र॒ , पनी॑यसे । यस्य॑ , धाम॑ , श्रव॑से , नाम॑ , इं॒द्रि॒यं , ज्योतिः॑ , अका॑रि , ह॒रितः॑ , न , अय॑से ॥
इ॒मे त॑ इंद्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो । न॒हि त्वद॒न्यो गि॑र्वणो॒ गिरः॒ सघ॑त्क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वचः॑ ॥
इ॒मे , ते॒ , इं॒द्र॒ , ते , व॒यं , पु॒रु॒ऽस्तु॒त॒ , ये , त्वा॒ , आ॒ऽरभ्य॑ , चरा॑मसि , प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । न॒हि , त्वत् , अ॒न्यः , गि॒र्व॒णः॒ , गिरः॑ , सघ॑त् , क्षो॒णीःऽइ॑व , प्रति॑ , नः॒ , ह॒र्य॒ , तत् , वचः॑ ॥
भूरि॑ त इंद्र वी॒र्यं१॒॑ तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण । अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं॑ मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥
भूरि॑ , ते॒ , इं॒द्र॒ , वी॒र्यं॑ , तव॑ , स्म॒सि॒ , अ॒स्य , स्तो॒तुः , म॒घऽव॒न् , कामं॑ , आ , पृ॒ण॒ । अनु॑ , ते॒ , द्यौः , बृ॒ह॒ती , वी॒र्यं॑ , म॒मे॒ , इ॒यं , च॒ , ते॒ , पृ॒थि॒वी , ने॒मे॒ , ओज॑से ॥
त्वं तमिं॑द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ । अवा॑सृजो॒ निवृ॑ताः॒ सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सहः॑ ॥
त्वं , तं , इं॒द्र॒ , पर्व॑तं , म॒हां , उ॒रुं , वज्रे॑ण , व॒ज्रि॒न् , प॒र्व॒ऽशः , च॒क॒र्ति॒थ॒ । अव॑ , अ॒सृ॒जः॒ , निऽवृ॑ताः , सर्त॒वै , अ॒पः , स॒त्रा , विश्वं॑ , द॒धि॒षे॒ , केव॑लं , सहः॑ ॥
[५८] नूचिदितिनवर्चस्य सूक्तस्य गौतमोनोधाअग्निर्जगती अंत्याश्चतस्रस्त्रिष्टुभः |
नू चि॑त्सहो॒जा अ॒मृतो॒ नि तुं॑दते॒ होता॒ यद्दू॒तो अभ॑वद्वि॒वस्व॑तः । वि साधि॑ष्ठेभिः प॒थिभी॒ रजो॑ मम॒ आ दे॒वता॑ता ह॒विषा॑ विवासति ॥
नु , चि॒त् , स॒हः॒ऽजाः , अ॒मृतः॑ , नि , तुं॒द॒ते॒ , होता॑ , यत् , दू॒तः , अभ॑वत् , वि॒वस्व॑तः । वि , साधि॑ष्ठेभिः , प॒थिऽभिः॑ , रजः॑ , म॒मे॒ , आ , दे॒वऽता॑ता , ह॒विषा॑ , वि॒वा॒स॒ति॒ ॥
आ स्वमद्म॑ यु॒वमा॑नो अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति । अत्यो॒ न पृ॒ष्ठं प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रदत् ॥
आ , स्वं , अद्म॑ , यु॒वमा॑नः , अ॒जरः॑ , तृ॒षु , अ॒वि॒ष्यन् , अ॒त॒सेषु॑ , ति॒ष्ठ॒ति॒ । अत्यः॑ , न , पृ॒ष्ठं , प्रु॒षि॒तस्य॑ , रो॒च॒ते॒ , दि॒वः , न , सानु॑ , स्त॒नय॑न् , अ॒चि॒क्र॒द॒त् ॥
क्रा॒णा रु॒द्रेभि॒र्वसु॑भिः पु॒रोहि॑तो॒ होता॒ निष॑त्तो रयि॒षाळम॑र्त्यः । रथो॒ न वि॒क्ष्वृं॑जसा॒न आ॒युषु॒ व्या॑नु॒षग्वार्या॑ दे॒व ऋ॑ण्वति ॥
क्रा॒णा , रु॒द्रेभिः॑ , वसु॑ऽभिः , पु॒रःऽहि॑तः , होता॑ , निऽस॑त्तः , र॒यि॒षाट् , अम॑र्त्यः । रथः॑ , न , वि॒क्षु , ऋं॒ज॒सा॒नः , आ॒युषु॑ , वि , आ॒नु॒षक् , वार्या॑ , दे॒वः , ऋ॒ण्व॒ति॒ ॥
वि वात॑जूतो अत॒सेषु॑ तिष्ठते॒ वृथा॑ जु॒हूभिः॒ सृण्या॑ तुवि॒ष्वणिः॑ । तृ॒षु यद॑ग्ने व॒निनो॑ वृषा॒यसे॑ कृ॒ष्णं त॒ एम॒ रुश॑दूर्मे अजर ॥
वि , वात॑ऽजूतः , अ॒त॒सेषु॑ , ति॒ष्ठ॒ते॒ , वृथा॑ , जु॒हूभिः॑ , सृण्या॑ , तु॒वि॒ऽस्वणिः॑ । तृ॒षु , यत् , अ॒ग्ने॒ , व॒निनः॑ , वृ॒ष॒ऽयसे॑ , कृ॒ष्णं , ते॒ , एम॑ , रुश॑त्ऽऊर्मे , अ॒ज॒र॒ ॥
तपु॑र्जंभो॒ वन॒ आ वात॑चोदितो यू॒थे न सा॒ह्वाँ अव॑ वाति॒ वंस॑गः । अ॒भि॒व्रज॒न्नक्षि॑तं॒ पाज॑सा॒ रजः॑ स्था॒तुश्च॒रथं॑ भयते पत॒त्रिणः॑ ॥
तपुः॑ऽजंभः , वने॑ , आ , वात॑ऽचोदितः , यू॒थे , न , सा॒ह्वान् , अव॑ , वा॒ति॒ , वंस॑गः । अ॒भि॒ऽव्रज॑न् , अक्षि॑तं , पाज॑सा , रजः॑ , स्था॒तुः , च॒रथं॑ , भ॒य॒ते॒ , प॒त॒त्रिणः॑ ॥
द॒धुष्ट्वा॒ भृग॑वो॒ मानु॑षे॒ष्वा र॒यिं न चारुं॑ सु॒हवं॒ जने॑भ्यः । होता॑रमग्ने॒ अति॑थिं॒ वरे॑ण्यं मि॒त्रं न शेवं॑ दि॒व्याय॒ जन्म॑ने ॥
द॒धुः , त्वा॒ , भृग॑वः , मानु॑षेषु , आ , र॒यिं , न , चारुं॑ , सु॒ऽहवं॑ , जने॑भ्यः । होता॑रं , अ॒ग्ने॒ , अति॑थिं , वरे॑ण्यं , मि॒त्रं , न , शेवं॑ , दि॒व्याय॑ , जन्म॑ने ॥
होता॑रं स॒प्त जु॒ह्वो॒३॒॑ यजि॑ष्ठं॒ यं वा॒घतो॑ वृ॒णते॑ अध्व॒रेषु॑ । अ॒ग्निं विश्वे॑षामर॒तिं वसू॑नां सप॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्नं॑ ॥
होता॑रं , स॒प्त , जु॒ह्वः॑ , यजि॑ष्ठं , यं , वा॒घतः॑ , वृ॒णते॑ , अ॒ध्व॒रेषु॑ । अ॒ग्निं , विश्वे॑षां , अ॒र॒तिं , वसू॑नां , स॒प॒र्यामि॑ , प्रय॑सा , यामि॑ , रत्नं॑ ॥
अच्छि॑द्रा सूनो सहसो नो अ॒द्य स्तो॒तृभ्यो॑ मित्रमहः॒ शर्म॑ यच्छ । अग्ने॑ गृ॒णंत॒मंह॑स उरु॒ष्योर्जो॑ नपात्पू॒र्भिराय॑सीभिः ॥
अच्छि॑द्रा , सू॒नो॒ इति॑ , स॒ह॒सः॒ , नः॒ , अ॒द्य , स्तो॒तृऽभ्यः॑ , मि॒त्र॒ऽम॒हः॒ , शर्म॑ , य॒च्छ॒ । अग्ने॑ , गृ॒णंतं॑ , अंह॑सः , उ॒रु॒ष्य॒ , ऊर्जः॑ , न॒पा॒त् , पूः॒ऽभिः , आय॑सीभिः ॥
भवा॒ वरू॑थं गृण॒ते वि॑भावो॒ भवा॑ मघवन्म॒घव॑द्भ्यः॒ शर्म॑ । उ॒रु॒ष्याग्ने॒ अंह॑सो गृ॒णंतं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
भव॑ , वरू॑थं , गृ॒ण॒ते , वि॒भा॒ऽवः॒ , भव॑ , म॒घ॒ऽव॒न् , म॒घव॑त्ऽभ्यः , शर्म॑ । उ॒रु॒ष्य , अ॒ग्ने॒ , अंह॑सः , गृ॒णंतं॑ , प्रा॒तः , म॒क्षु , धि॒याऽव॑सुः , ज॒ग॒म्या॒त् ॥
[५९] वयाइदितिसप्तर्चस्य सूक्तस्य गौतमोनोधावैश्वानरोग्निस्त्रिष्टुप् |
व॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये त्वे विश्वे॑ अ॒मृता॑ मादयंते । वैश्वा॑नर॒ नाभि॑रसि क्षिती॒नां स्थूणे॑व॒ जनाँ॑ उप॒मिद्य॑यंथ ॥
व॒याः , इत् , अ॒ग्ने॒ , अ॒ग्नयः॑ , ते॒ , अ॒न्ये , त्वे इति॑ , विश्वे॑ , अ॒मृताः॑ , मा॒द॒यं॒ते॒ । वैश्वा॑नर , नाभिः॑ , अ॒सि॒ , क्षि॒ती॒नां , स्थूणा॑ऽइव , जना॑न् , उ॒प॒ऽमित् , य॒यं॒थ॒ ॥
मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या अथा॑भवदर॒ती रोद॑स्योः । तं त्वा॑ दे॒वासो॑ऽजनयंत दे॒वं वैश्वा॑नर॒ ज्योति॒रिदार्या॑य ॥
मू॒र्धा , दि॒वः , नाभिः॑ , अ॒ग्निः , पृ॒थि॒व्याः , अथ॑ , अ॒भ॒व॒त् , अ॒र॒तिः , रोद॑स्योः । तं , त्वा॒ , दे॒वासः॑ , अ॒ज॒न॒यं॒त॒ , दे॒वं , वैश्वा॑नर , ज्योतिः॑ , इत् , आर्या॑य ॥
आ सूर्ये॒ न र॒श्मयो॑ ध्रु॒वासो॑ वैश्वान॒रे द॑धिरे॒ऽग्ना वसू॑नि । या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु या मानु॑षे॒ष्वसि॒ तस्य॒ राजा॑ ॥
आ , सूर्ये॑ , न , र॒श्मयः॑ , ध्रु॒वासः॑ , वै॒श्वा॒न॒रे , द॒धि॒रे॒ , अ॒ग्ना , वसू॑नि । या , पर्व॑तेषु , ओष॑धीषु , अ॒प्ऽसु , या , मानु॑षेषु , असि॑ , तस्य॑ , राजा॑ ॥
बृ॒ह॒ती इ॑व सू॒नवे॒ रोद॑सी॒ गिरो॒ होता॑ मनु॒ष्यो॒३॒॑ न दक्षः॑ । स्व॑र्वते स॒त्यशु॑ष्माय पू॒र्वीर्वै॑श्वान॒राय॒ नृत॑माय य॒ह्वीः ॥
बृ॒ह॒ती इ॒वेति॑ बृह॒तीऽइ॑व , सू॒नवे॑ , रोद॑सी॒ इति॑ , गिरः॑ , होता॑ , म॒नु॒ष्यः॑ , न , दक्षः॑ । स्वः॑ऽवते , स॒त्यऽशु॑ष्माय , पू॒र्वीः , वै॒श्वा॒न॒राय॑ , नृऽत॑माय , य॒ह्वीः ॥
दि॒वश्चि॑त्ते बृह॒तो जा॑तवेदो॒ वैश्वा॑नर॒ प्र रि॑रिचे महि॒त्वं । राजा॑ कृष्टी॒नाम॑सि॒ मानु॑षीणां यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥
दि॒वः , चि॒त् , ते॒ , बृ॒ह॒तः , जा॒त॒ऽवे॒दः॒ , वैश्वा॑नर , प्र , रि॒रि॒चे॒ , म॒हि॒ऽत्वं । राजा॑ , कृ॒ष्टी॒नां , अ॒सि॒ , मानु॑षीणां , यु॒धा , दे॒वेभ्यः॑ , वरि॑वः , च॒क॒र्थ॒ ॥
प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं॒ यं पू॒रवो॑ वृत्र॒हणं॒ सचं॑ते । वै॒श्वा॒न॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ अधू॑नो॒त्काष्ठा॒ अव॒ शंब॑रं भेत् ॥
प्र , नु , म॒हि॒ऽत्वं , वृ॒ष॒भस्य॑ , वो॒चं॒ , यं , पू॒रवः॑ , वृ॒त्र॒ऽहनं॑ , सचं॑ते । वै॒श्वा॒न॒रः , दस्युं॑ , अ॒ग्निः , ज॒घ॒न्वान् , अधू॑नोत् , काष्ठाः॑ , अव॑ , शंब॑रं , भे॒त् ॥
वै॒श्वा॒न॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्भ॒रद्वा॑जेषु यज॒तो वि॒भावा॑ । शा॒त॒व॒ने॒ये श॒तिनी॑भिर॒ग्निः पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ॥
वै॒श्वा॒न॒रः , म॒हि॒म्ना , वि॒श्वऽकृ॑ष्टिः , भ॒रत्ऽवा॑जेषु , य॒ज॒तः , वि॒भाऽवा॑ । शा॒त॒ऽव॒ने॒ये , श॒तिनी॑भिः , अ॒ग्निः , पु॒रु॒ऽनी॒थे , ज॒र॒ते॒ , सू॒नृता॑ऽवान् ॥
[६०] वह्निंयशसमिति पंचर्चस्य सूक्तस्य गौतमोनोधाअग्नित्रिष्टुप् |
वह्निं॑ य॒शसं॑ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं॑ दू॒तं स॒द्योअ॑र्थं । द्वि॒जन्मा॑नं र॒यिमि॑व प्रश॒स्तं रा॒तिं भ॑र॒द्भृग॑वे मात॒रिश्वा॑ ॥
वह्निं॑ , य॒शसं॑ , वि॒दथ॑स्य , के॒तुं , सु॒प्र॒ऽअ॒व्यं॑ , दू॒तं , स॒द्यःऽअ॑र्थं । द्वि॒ऽजन्मा॑नं , र॒यिंऽइ॑व , प्र॒ऽश॒स्तं , रा॒तिं , भ॒र॒त् , भृग॑वे , मा॒त॒रिश्वा॑ ॥
अ॒स्य शासु॑रु॒भया॑सः सचंते ह॒विष्मं॑त उ॒शिजो॒ ये च॒ मर्ताः॑ । दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता॒पृच्छ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः ॥
अ॒स्य , शासुः॑ , उ॒भया॑सः , स॒चं॒ते॒ , ह॒विष्मं॑तः , उ॒शिजः॑ , ये , च॒ , मर्ताः॑ । दि॒वः , चि॒त् , पूर्वः॑ , नि , अ॒सा॒दि॒ , होता॑ , आ॒ऽपृच्छ्यः॑ , वि॒श्पतिः॑ , वि॒क्षु , वे॒धाः ॥
तं नव्य॑सी हृ॒द आ जाय॑मानम॒स्मत्सु॑की॒र्तिर्मधु॑जिह्वमश्याः । यमृ॒त्विजो॑ वृ॒जने॒ मानु॑षासः॒ प्रय॑स्वंत आ॒यवो॒ जीज॑नंत ॥
तं , नव्य॑सी , हृ॒दः , आ , जाय॑मानं , अ॒स्मत् , सु॒ऽकी॒र्तिः , मधु॑ऽजिह्वं , अ॒श्याः॒ । यं , ऋ॒त्विजः॑ , वृ॒जने॑ , मानु॑षासः , प्रय॑स्वंतः , आ॒यवः॑ , जीज॑नंत ॥
उ॒शिक्पा॑व॒को वसु॒र्मानु॑षेषु॒ वरे॑ण्यो॒ होता॑धायि वि॒क्षु । दमू॑ना गृ॒हप॑ति॒र्दम॒ आँ अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णां ॥
उ॒शिक् , पा॒व॒कः , वसुः॑ , मानु॑षेषु , वरे॑ण्यः , होता॑ , अ॒धा॒यि॒ , वि॒क्षु । दमू॑नाः , गृ॒हऽप॑तिः , दमे॑ , आ , अ॒ग्निः , भु॒व॒त् , र॒यि॒ऽपतिः॑ , र॒यी॒णां ॥
तं त्वा॑ व॒यं पति॑मग्ने रयी॒णां प्र शं॑सामो म॒तिभि॒र्गोत॑मासः । आ॒शुं न वा॑जंभ॒रं म॒र्जयं॑तः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
तं , त्वा॒ , व॒यं , पतिं॑ , अ॒ग्ने॒ , र॒यी॒णां , प्र , शं॒सा॒मः॒ , म॒तिऽभिः॑ , गोत॑मासः । आ॒शुं , न , वा॒जं॒ऽभ॒रं , म॒र्जयं॑तः , प्रा॒तः , म॒क्षु , धि॒याऽव॑सुः , ज॒ग॒म्या॒त् ॥
[६१] अस्माइद्विति षोळशर्चस्य सूक्तस्य गौतमोनोधाइंद्रस्त्रिष्टुप् |
अ॒स्मा इदु॒ प्र त॒वसे॑ तु॒राय॒ प्रयो॒ न ह॑र्मि॒ स्तोमं॒ माहि॑नाय । ऋची॑षमा॒याध्रि॑गव॒ ओह॒मिंद्रा॑य॒ ब्रह्मा॑णि रा॒तत॑मा ॥
अ॒स्मै , इत् , ऊँ॒ इति॑ , प्र , त॒वसे॑ , तु॒राय॑ , प्रयः॑ , न , ह॒र्मि॒ , स्तोमं॑ , माहि॑नाय । ऋची॑षमाय , अध्रि॑ऽगवे , ओहं॑ , इंद्रा॑य , ब्रह्मा॑णि , रा॒तऽत॑मा ॥
अ॒स्मा इदु॒ प्रय॑ इव॒ प्र यं॑सि॒ भरा॑म्यांगू॒षं बाधे॑ सुवृ॒क्ति । इंद्रा॑य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो॑ मर्जयंत ॥
अ॒स्मै , इत् , ऊँ॒ इति॑ , प्रयः॑ऽइव , प्र , यं॒सि॒ , भरा॑मि , आं॒गू॒षं , बाधे॑ , सु॒ऽवृ॒क्ति । इंद्रा॑य , हृ॒दा , मन॑सा , म॒नी॒षा , प्र॒त्नाय॑ , पत्ये॑ , धियः॑ , म॒र्ज॒यं॒त॒ ॥
अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्यांगू॒षमा॒स्ये॑न । मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभिः॑ सू॒रिं वा॑वृ॒धध्यै॑ ॥
अ॒स्मै , इत् , ऊँ॒ इति॑ , त्यं , उ॒प॒ऽमं , स्वः॒ऽसां , भरा॑मि , आं॒गू॒षं , आ॒स्ये॑न । मंहि॑ष्ठं , अच्छो॑क्तिऽभिः , म॒ती॒नां , सु॒वृ॒क्तिऽभिः॑ , सू॒रिं , व॒वृ॒धध्यै॑ ॥
अ॒स्मा इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे॑व॒ तत्सि॑नाय । गिर॑श्च॒ गिर्वा॑हसे सुवृ॒क्तींद्रा॑य विश्वमि॒न्वं मेधि॑राय ॥
अ॒स्मै , इत् , ऊँ॒ इति॑ , स्तोमं॑ , सं , हि॒नो॒मि॒ , रथं॑ , न , तष्टा॑ऽइव , तत्ऽसि॑नाय । गिरः॑ , च॒ , गिर्वा॑हसे , सु॒ऽवृ॒क्ति , इंद्रा॑य , वि॒श्वं॒ऽइ॒न्वं , मेधि॑राय ॥
अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येंद्रा॑या॒र्कं जु॒ह्वा॒३॒॑ समं॑जे । वी॒रं दा॒नौक॑सं वं॒दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माणं॑ ॥
अ॒स्मै , इत् , ऊँ॒ इति॑ , सप्तिं॑ऽइव , श्र॒व॒स्या , इंद्रा॑य , अ॒र्कं , जु॒ह्वा॑ , सं , अं॒जे॒ । वी॒रं , दा॒नऽओ॑कसं , वं॒दध्यै॑ , पु॒रां , गू॒र्तऽश्र॑वसं , द॒र्माणं॑ ॥
अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं१॒॑ रणा॑य । वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥
अ॒स्मै , इत् , ऊँ॒ इति॑ , त्वष्टा॑ , त॒क्ष॒त् , वज्रं॑ , स्वपः॑ऽतमं , स्व॒र्यं॑ , रणा॑य । वृ॒त्रस्य॑ , चि॒त् , वि॒दत् , येन॑ , मर्म॑ , तु॒जन् , ईशा॑नः , तु॒ज॒ता , कि॒ये॒धाः ॥
अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वांचार्वन्ना॑ । मु॒षा॒यद्विष्णुः॑ पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥
अ॒स्य , इत् , ऊँ॒ इति॑ , मा॒तुः , सव॑नेषु , स॒द्यः , म॒हः , पि॒तुं , प॒पि॒ऽवान् , चारु॑ , अन्ना॑ । मु॒षा॒यत् , विष्णुः॑ , प॒च॒तं , सही॑यान् , विध्य॑त् , व॒रा॒हं , ति॒रः , अद्रिं॑ , अस्ता॑ ॥
अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिंद्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः । परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ॥
अ॒स्मै , इत् , ऊँ॒ इति॑ , ग्नाः , चि॒त् , दे॒वऽप॑त्नीः , इंद्रा॑य , अ॒र्कं , अ॒हि॒ऽहत्ये॑ , ऊ॒वु॒रित्यू॑वुः । परि॑ , द्यावा॑पृथि॒वी इति॑ , ज॒भ्रे॒ , उ॒र्वी इति॑ , न , अ॒स्य॒ , ते इति॑ , म॒हि॒मानं॑ , परि॑ , स्त॒ इति॑ स्तः ॥
अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्यं॒तरि॑क्षात् । स्व॒राळिंद्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥
अ॒स्य , इत् , ए॒व , प्र , रि॒रि॒चे॒ , म॒हि॒ऽत्वं , दि॒वः , पृ॒थि॒व्याः , परि॑ , अं॒तरि॑क्षात् । स्व॒ऽराट् , इंद्रः॑ , दमे॑ , आ , वि॒श्वऽगू॑र्तः , सु॒ऽअ॒रिः , अम॑त्रः , व॒व॒क्षे॒ , रणा॑य ॥
अ॒स्येदे॒व शव॑सा शु॒षंतं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिंद्रः॑ । गा न व्रा॒णा अ॒वनी॑रमुंचद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ॥
अ॒स्य , इत् , ए॒व , शव॑सा , शु॒षंतं॑ , वि , वृ॒श्च॒त् , वज्रे॑ण , वृ॒त्रं , इंद्रः॑ । गाः , न , व्रा॒णाः , अ॒वनीः॑ , अ॒मुं॒च॒त् , अ॒भि , श्रवः॑ , दा॒वने॑ , सऽचे॑ताः ॥
अ॒स्येदु॑ त्वे॒षसा॑ रंत॒ सिंध॑वः॒ परि॒ यद्वज्रे॑ण सी॒मय॑च्छत् । ई॒शा॒न॒कृद्दा॒शुषे॑ दश॒स्यंतु॒र्वीत॑ये गा॒धं तु॒र्वणिः॑ कः ॥
अ॒स्य , इत् , ऊँ॒ इति॑ , त्वे॒षसा॑ , रं॒त॒ , सिंध॑वः , परि॑ , यत् , वज्रे॑ण , सीं॒ , अय॑च्छत् । ई॒शा॒न॒ऽकृत् , दा॒शुषे॑ , द॒श॒स्यन् , तु॒र्वीत॑ये , गा॒धं , तु॒र्वणिः॑ , क॒रिति॑ कः ॥
अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः । गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां॑स्य॒पां च॒रध्यै॑ ॥
अ॒स्मै , इत् , ऊँ॒ इति॑ , प्र , भ॒र॒ , तूतु॑जानः , वृ॒त्राय॑ , वज्रं॑ , ईशा॑नः , कि॒ये॒धाः । गोः , न , पर्व॑ , वि , र॒द॒ , ति॒र॒श्चा॑ , इष्य॑न् , अर्णां॑सि , अ॒पां , च॒रध्यै॑ ॥
अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः । यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ॥
अ॒स्य , इत् , ऊँ॒ इति॑ , प्र , ब्रू॒हि॒ , पू॒र्व्याणि॑ , तु॒रस्य॑ , कर्मा॑णि , नव्यः॑ , उ॒क्थैः । यु॒धे , यत् , इ॒ष्णा॒नः , आयु॑धानि , ऋ॒घा॒यमा॑णः , नि॒ऽरि॒णाति॑ , शत्रू॑न् ॥
अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ळ्हा द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तुजेते । उपो॑ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद्वी॒र्या॑य नो॒धाः ॥
अ॒स्य , इत् , ऊँ॒ इति॑ , भि॒या , गि॒रयः॑ , च॒ , दृ॒ळ्हाः , द्यावा॑ , च॒ , भूम॑ , ज॒नुषः॑ , तु॒जे॒ते॒ इति॑ । उपो॒ इति॑ , वे॒नस्य॑ , जोगु॑वानः , ओ॒णिं , स॒द्यः , भु॒व॒त् , वी॒र्या॑य , नो॒धाः ॥
अ॒स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद्व॒व्ने भूरे॒रीशा॑नः । प्रैत॑शं॒ सूर्ये॑ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिंद्रः॑ ॥
अ॒स्मै , इत् , ऊँ॒ इति॑ , त्यत् , अनु॑ , दा॒यि॒ , ए॒षां॒ , एकः॑ , यत् , व॒व्ने , भूरेः॑ , ईशा॑नः । प्र , एत॑शं , सूर्ये॑ , प॒स्पृ॒धा॒नं , सौव॑श्व्ये , सुस्विं॑ , आ॒व॒त् , इंद्रः॑ ॥
ए॒वा ते॑ हारियोजना सुवृ॒क्तींद्र॒ ब्रह्मा॑णि॒ गोत॑मासो अक्रन् । ऐषु॑ वि॒श्वपे॑शसं॒ धियं॑ धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
ए॒व , ते॒ , हा॒रि॒ऽयो॒ज॒न॒ , सु॒ऽवृ॒क्ति , इंद्र॑ , ब्रह्मा॑णि , गोत॑मासः , अ॒क्र॒न् । आ , ए॒षु॒ , वि॒श्वऽपे॑शसं , धियं॑ , धाः॒ , प्रा॒तः , म॒क्षु , धि॒याऽव॑सुः , ज॒ग॒म्या॒त् ॥
[६२] प्रमन्मह इतित्रयोदशर्चस्य सूक्तस्य गौतमोनोधाइंद्रस्त्रिष्टुप् |
प्र म॑न्महे शवसा॒नाय॑ शू॒षमां॑गू॒षं गिर्व॑णसे अंगिर॒स्वत् । सु॒वृ॒क्तिभिः॑ स्तुव॒त ऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ॥
प्र , म॒न्म॒हे॒ , श॒व॒सा॒नाय॑ , शू॒षं , आं॒गू॒षं , गिर्व॑णसे , अं॒गि॒र॒स्वत् । सु॒वृ॒क्तिऽभिः॑ , स्तु॒व॒ते , ऋ॒ग्मि॒याय॑ , अर्चा॑म , अ॒र्कं , नरे॑ , विऽश्रु॑ताय ॥
प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमांगू॒ष्यं॑ शवसा॒नाय॒ साम॑ । येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञा अर्चं॑तो॒ अंगि॑रसो॒ गा अविं॑दन् ॥
प्र , वः॒ , म॒हे , महि॑ , नमः॑ , भ॒र॒ध्वं॒ , आं॒गू॒ष्यं॑ , श॒व॒सा॒नाय॑ , साम॑ । येन॑ , नः॒ , पूर्वे॑ , पि॒तरः॑ , प॒द॒ऽज्ञाः , अर्चं॑तः , अंगि॑रसः , गाः , अविं॑दन् ॥
इंद्र॒स्यांगि॑रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन॑याय धा॒सिं । बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः समु॒स्रिया॑भिर्वावशंत॒ नरः॑ ॥
इंद्र॑स्य , अंगि॑रसां , च॒ , इ॒ष्टौ , वि॒दत् , स॒रमा॑ , तन॑याय , धा॒सिं । बृह॒स्पतिः॑ , भि॒नत् , अद्रिं॑ , वि॒दत् , गाः , सं , उ॒स्रिया॑भिः , वा॒व॒शं॒त॒ , नरः॑ ॥
स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रैः॑ स्व॒रेणाद्रिं॑ स्व॒र्यो॒३॒॑ नव॑ग्वैः । स॒र॒ण्युभिः॑ फलि॒गमिं॑द्र शक्र व॒लं रवे॑ण दरयो॒ दश॑ग्वैः ॥
सः , सु॒ऽस्तुभा॑ , सः , स्तु॒भा , स॒प्त , विप्रैः॑ , स्व॒रेण॑ , अद्रिं॑ , स्व॒र्यः॑ , नव॑ऽग्वैः । स॒र॒ण्युऽभिः॑ , फ॒लि॒ऽगं , इं॒द्र॒ , श॒क्र॒ , व॒लं , रवे॑ण , द॒र॒यः॒ , दश॑ऽग्वैः ॥
गृ॒णा॒नो अंगि॑रोभिर्दस्म॒ वि व॑रु॒षसा॒ सूर्ये॑ण॒ गोभि॒रंधः॑ । वि भूम्या॑ अप्रथय इंद्र॒ सानु॑ दि॒वो रज॒ उप॑रमस्तभायः ॥
गृ॒णा॒नः , अंगि॑रःऽभिः , द॒स्म॒ , वि , वः॒ , उ॒षसा॑ , सूर्ये॑ण , गोभिः॑ , अंधः॑ । वि , भूम्याः॑ , अ॒प्र॒थ॒यः॒ , इं॒द्र॒ , सानु॑ , दि॒वः , रजः॑ , उप॑रं , अ॒स्त॒भा॒यः॒ ॥
तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्ति॒ दंसः॑ । उ॒प॒ह्व॒रे यदुप॑रा॒ अपि॑न्व॒न्मध्व॑र्णसो न॒द्य१॒॑श्चत॑स्रः ॥
तत् , ऊँ॒ इति॑ , प्रय॑क्षऽतमं , अ॒स्य॒ , कर्म॑ , द॒स्मस्य॑ , चारु॑ऽतमं , अ॒स्ति॒ , दंसः॑ । उ॒प॒ऽह्व॒रे , यत् , उप॑राः , अपि॑न्वत् , मधु॑ऽअर्णसः , न॒द्यः॑ , चत॑स्रः ॥
द्वि॒ता वि व॑व्रे स॒नजा॒ सनी॑ळे अ॒यास्यः॒ स्तव॑मानेभिर॒र्कैः । भगो॒ न मेने॑ पर॒मे व्यो॑म॒न्नधा॑रय॒द्रोद॑सी सु॒दंसाः॑ ॥
द्वि॒ता , वि , व॒व्रे॒ , स॒ऽनजा॑ , सनी॑ळे॒ इति॒ सऽनी॑ळे , अ॒यास्यः॑ , स्तव॑मानेभिः , अ॒र्कैः । भगः॑ , न , मेने॒ इति॑ , प॒र॒मे , विऽओ॑मन् , अधा॑रयत् , रोद॑सी॒ इति॑ , सु॒ऽदंसाः॑ ॥
स॒नाद्दिवं॒ परि॒ भूमा॒ विरू॑पे पुन॒र्भुवा॑ युव॒ती स्वेभि॒रेवैः॑ । कृ॒ष्णेभि॑र॒क्तोषा रुश॑द्भि॒र्वपु॑र्भि॒रा च॑रतो अ॒न्यान्या॑ ॥
स॒नात् , दिवं॑ , परि॑ , भूम॑ , विरू॑पे॒ इति॒ विऽरू॑पे , पु॒नः॒ऽभुवा॑ , यु॒व॒ती इति॑ , स्वेभिः॑ , एवैः॑ । कृ॒ष्णेभिः॑ , अ॒क्ता , उ॒षाः , रुश॑त्ऽभिः , वपुः॑ऽभिः , आ , च॒र॒तः॒ , अ॒न्याऽअ॑न्या ॥
सने॑मि स॒ख्यं स्व॑प॒स्यमा॑नः सू॒नुर्दा॑धार॒ शव॑सा सु॒दंसाः॑ । आ॒मासु॑ चिद्दधिषे प॒क्वमं॒तः पयः॑ कृ॒ष्णासु॒ रुश॒द्रोहि॑णीषु ॥
सने॑मि , स॒ख्यं , सु॒ऽअ॒प॒स्यमा॑नः , सू॒नुः , दा॒धा॒र॒ , शव॑सा , सु॒ऽदंसाः॑ । आ॒मासु॑ , चि॒त् , द॒धि॒षे॒ , प॒क्वं , अं॒तरिति॑ , पयः॑ , कृ॒ष्णासु॑ , रुश॑त् , रोहि॑णीषु ॥
स॒नात्सनी॑ळा अ॒वनी॑रवा॒ता व्र॒ता र॑क्षंते अ॒मृताः॒ सहो॑भिः । पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी॑र्दुव॒स्यंति॒ स्वसा॑रो॒ अह्र॑याणं ॥
स॒नात् , सऽनी॑ळाः , अ॒वनीः॑ , अ॒वा॒ताः , व्र॒ता , र॒क्षं॒ते॒ , अ॒मृताः॑ , सहः॑ऽभिः । पु॒रु , स॒हस्रा॑ , जन॑यः , न , पत्नीः॑ , दु॒व॒स्यंति॑ , स्वसा॑रः , अह्र॑याणं ॥
स॒ना॒युवो॒ नम॑सा॒ नव्यो॑ अ॒र्कैर्व॑सू॒यवो॑ म॒तयो॑ दस्म दद्रुः । पतिं॒ न पत्नी॑रुश॒तीरु॒शंतं॑ स्पृ॒शंति॑ त्वा शवसावन्मनी॒षाः ॥
स॒ना॒ऽयुवः॑ , नम॑सा , नव्यः॑ , अ॒र्कैः , व॒सु॒ऽयवः॑ , म॒तयः॑ , द॒स्म॒ , द॒द्रुः॒ । पतिं॑ , न , पत्नीः॑ , उ॒श॒तीः , उ॒शंतं॑ , स्पृ॒शंति॑ , त्वा॒ , श॒व॒सा॒ऽव॒न् , म॒नी॒षाः ॥
स॒नादे॒व तव॒ रायो॒ गभ॑स्तौ॒ न क्षीयं॑ते॒ नोप॑ दस्यंति दस्म । द्यु॒माँ अ॑सि॒ क्रतु॑माँ इंद्र॒ धीरः॒ शिक्षा॑ शचीव॒स्तव॑ नः॒ शची॑भिः ॥
स॒नात् , ए॒व , तव॑ , रायः॑ , गभ॑स्तौ , न , क्षीयं॑ते , न , उप॑ , द॒स्यं॒ति॒ , द॒स्म॒ । द्यु॒ऽमान् , अ॒सि॒ , क्रतु॑ऽमान् , इं॒द्र॒ , धीरः॑ , शिक्ष॑ , श॒ची॒ऽवः॒ , तव॑ , नः॒ , शची॑भिः ॥
स॒ना॒य॒ते गोत॑म इंद्र॒ नव्य॒मत॑क्ष॒द्ब्रह्म॑ हरि॒योज॑नाय । सु॒नी॒थाय॑ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
स॒ना॒ऽय॒ते , गोत॑मः , इं॒द्र॒ , नव्यं॑ , अत॑क्षत् , ब्रह्म॑ , ह॒रि॒ऽयोज॑नाय । सु॒ऽनी॒थाय॑ , नः॒ , श॒व॒सा॒न॒ , नो॒धाः , प्रा॒तः , म॒क्षु , धि॒याऽव॑सुः , ज॒ग॒म्या॒त् ॥
[६३] त्वंमहानिति नवर्चस्य सूक्तस्य गौतमोनोधाइंद्रस्त्रिष्टुप् |
त्वं म॒हाँ इं॑द्र॒ यो ह॒ शुष्मै॒र्द्यावा॑ जज्ञा॒नः पृ॑थि॒वी अमे॑ धाः । यद्ध॑ ते॒ विश्वा॑ गि॒रय॑श्चि॒दभ्वा॑ भि॒या दृ॒ळ्हासः॑ कि॒रणा॒ नैज॑न् ॥
त्वं , म॒हान् , इं॒द्र॒ , यः , ह॒ , शुष्मैः॑ , द्यावा॑ , ज॒ज्ञा॒नः , पृ॒थि॒वी इति॑ , अमे॑ , धाः॒ । यत् , ह॒ , ते॒ , विश्वा॑ , गि॒रयः॑ , चि॒त् , अभ्वा॑ , भि॒या , दृ॒ळ्हासः॑ , कि॒रणाः॑ , न , ऐज॑न् ॥
आ यद्धरी॑ इंद्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं॑ जरि॒ता बा॒ह्वोर्धा॑त् । येना॑विहर्यतक्रतो अ॒मित्रा॒न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ॥
आ , यत् , हरी॒ इति॑ , इं॒द्र॒ , विऽव्र॑ता , वेः , आ , ते॒ , वज्रं॑ , ज॒रि॒ता , बा॒ह्वोः , धा॒त् । येन॑ , अ॒वि॒ह॒र्य॒त॒क्र॒तो॒ इत्य॑विहर्यतऽक्रतो , अ॒मित्रा॑न् , पुरः॑ , इ॒ष्णासि॑ , पु॒रु॒ऽहू॒त॒ , पू॒र्वीः ॥
त्वं स॒त्य इं॑द्र धृ॒ष्णुरे॒तांत्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् । त्वं शुष्णं॑ वृ॒जने॑ पृ॒क्ष आ॒णौ यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ॥
त्वं , स॒त्यः , इं॒द्र॒ , धृ॒ष्णुः , ए॒तान् , त्वं , ऋ॒भु॒क्षाः , नर्यः॑ , त्वं , षाट् । त्वं , शुष्णं॑ , वृ॒जने॑ , पृ॒क्षे , आ॒णौ , यूने॑ , कुत्सा॑य , द्यु॒ऽमते॑ , सचा॑ , अ॒ह॒न् ॥
त्वं ह॒ त्यदिं॑द्र चोदीः॒ सखा॑ वृ॒त्रं यद्व॑ज्रिन्वृषकर्मन्नु॒भ्नाः । यद्ध॑ शूर वृषमणः परा॒चैर्वि दस्यूँ॒र्योना॒वकृ॑तो वृथा॒षाट् ॥
त्वं , ह॒ , त्यत् , इं॒द्र॒ , चो॒दीः॒ , सखा॑ , वृ॒त्रं , यत् , व॒ज्रि॒न् , वृ॒ष॒ऽक॒र्म॒न् , उ॒भ्नाः । यत् , ह॒ , शू॒र॒ , वृ॒ष॒ऽम॒नः॒ , प॒रा॒चैः , वि , दस्यू॑न् , योनौ॑ , अकृ॑तः , वृ॒था॒षाट् ॥
त्वं ह॒ त्यदिं॒द्रारि॑षण्यंदृ॒ळ्हस्य॑ चि॒न्मर्ता॑ना॒मजु॑ष्टौ । व्य१॒॑स्मदा काष्ठा॒ अर्व॑ते वर्घ॒नेव॑ वज्रिंछ्नथिह्य॒मित्रा॑न् ॥
त्वं , ह॒ , त्यत् , इं॒द्र॒ , अरि॑षण्यन् , दृ॒ळ्हस्य॑ , चि॒त् , मर्ता॑नां , अजु॑ष्टौ । वि , अ॒स्मत् , आ , काष्ठाः॑ , अर्व॑ते , वः॒ , घ॒नाऽइ॑व , व॒ज्रि॒न् , श्न॒थि॒हि॒ , अ॒मित्रा॑न् ॥
त्वां ह॒ त्यदिं॒द्रार्ण॑सातौ॒ स्व॑र्मीळ्हे॒ नर॑ आ॒जा ह॑वंते । तव॑ स्वधाव इ॒यमा स॑म॒र्य ऊ॒तिर्वाजे॑ष्वत॒साय्या॑ भूत् ॥
त्वां , ह॒ , त्यत् , इं॒द्र॒ , अर्ण॑ऽसातौ , स्वः॑ऽमीळ्हे , नरः॑ , आ॒जा , ह॒वं॒ते॒ । तव॑ , स्व॒धा॒ऽवः॒ , इ॒यं , आ , स॒ऽम॒र्ये , ऊ॒तिः , वाजे॑षु , अ॒त॒साय्या॑ , भू॒त् ॥
त्वं ह॒ त्यदिं॑द्र स॒प्त युध्य॒न्पुरो॑ वज्रिन्पुरु॒कुत्सा॑य दर्दः । ब॒र्हिर्न यत्सु॒दासे॒ वृथा॒ वर्गं॒हो रा॑ज॒न्वरि॑वः पू॒रवे॑ कः ॥
त्वं , ह॒ , त्यत् , इं॒द्र॒ , स॒प्त , युध्य॑न् , पुरः॑ , व॒ज्रि॒न् , पु॒रु॒ऽकुत्सा॑य , द॒र्द॒रिति॑ दर्दः । ब॒र्हिः , न , यत् , सु॒ऽदासे॑ , वृथा॑ , वर्क् , अं॒होः , रा॒ज॒न् , वरि॑वः , पू॒रवे॑ , कः॒ ॥
त्वं त्यां न॑ इंद्र देव चि॒त्रामिष॒मापो॒ न पी॑पयः॒ परि॑ज्मन् । यया॑ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ॥
त्वं , त्यां , नः॒ , इं॒द्र॒ , दे॒व॒ , चि॒त्रां , इषं॑ , आपः॑ , न , पी॒प॒यः॒ , परि॑ऽज्मन् । यया॑ , शू॒र॒ , प्रति॑ , अ॒स्मभ्यं॑ , यंसि॑ , त्मनं॑ , ऊर्जं॑ , न , वि॒श्वध॑ , क्षर॑ध्यै ॥
अका॑रि त इंद्र॒ गोत॑मेभि॒र्ब्रह्मा॒ण्योक्ता॒ नम॑सा॒ हरि॑भ्यां । सु॒पेश॑सं॒ वाज॒मा भ॑रा नः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
अका॑रि , ते॒ , इं॒द्र॒ , गोत॑मेभिः , ब्रह्मा॑णि , आऽउ॑क्ता , नम॑सा , हरि॑ऽभ्यां । सु॒ऽपेश॑सं , वाजं॑ , आ , भ॒र॒ , नः॒ , प्रा॒तः , म॒क्षु , धि॒याऽव॑सुः , ज॒ग॒म्या॒त् ॥
[६४] वृष्णेशर्धायेति पंचदशर्चस्य सूक्तस्य गौतमोनोधामरुतोजगती अंत्यात्रिष्टुप् |
वृष्णे॒ शर्धा॑य॒ सुम॑खाय वे॒धसे॒ नोधः॑ सुवृ॒क्तिं प्र भ॑रा म॒रुद्भ्यः॑ । अ॒पो न धीरो॒ मन॑सा सु॒हस्त्यो॒ गिरः॒ समं॑जे वि॒दथे॑ष्वा॒भुवः॑ ॥
वृष्णे॑ , शर्धा॑य , सुऽम॑खाय , वे॒धसे॑ , नोधः॑ , सु॒ऽवृ॒क्तिं , प्र , भ॒र॒ , म॒रुत्ऽभ्यः॑ । अ॒पः , न , धीरः॑ , मन॑सा , सु॒ऽहस्त्यः॑ , गिरः॑ , सं , अं॒जे॒ , वि॒दथे॑षु , आ॒ऽभुवः॑ ॥
ते ज॑ज्ञिरे दि॒व ऋ॒ष्वास॑ उ॒क्षणो॑ रु॒द्रस्य॒ मर्या॒ असु॑रा अरे॒पसः॑ । पा॒व॒कासः॒ शुच॑यः॒ सूर्या॑ इव॒ सत्वा॑नो॒ न द्र॒प्सिनो॑ घो॒रव॑र्पसः ॥
ते , ज॒ज्ञि॒रे॒ , दि॒वः , ऋ॒ष्वासः॑ , उ॒क्षणः॑ , रु॒द्रस्य॑ , मर्याः॑ , असु॑राः , अ॒रे॒पसः॑ । पा॒व॒कासः॑ , शुच॑यः , सूर्याः॑ऽइव , सत्वा॑नः , न , द्र॒प्सिनः॑ , घो॒रऽव॑र्पसः ॥
युवा॑नो रु॒द्रा अ॒जरा॑ अभो॒ग्घनो॑ वव॒क्षुरध्रि॑गावः॒ पर्व॑ता इव । दृ॒ळ्हा चि॒द्विश्वा॒ भुव॑नानि॒ पार्थि॑वा॒ प्र च्या॑वयंति दि॒व्यानि॑ म॒ज्मना॑ ॥
युवा॑नः , रु॒द्राः , अ॒जराः॑ , अ॒भो॒क्ऽहनः॑ , व॒व॒क्षुः , अध्रि॑ऽगावः , पर्व॑ताःऽइव । दृ॒ळ्हा , चि॒त् , विश्वा॑ , भुव॑नानि , पार्थि॑वा , प्र , च्य॒व॒यं॒ति॒ , दि॒व्यानि॑ , म॒ज्मना॑ ॥
चि॒त्रैरं॒जिभि॒र्वपु॑षे॒ व्यं॑जते॒ वक्षः॑सु रु॒क्माँ अधि॑ येतिरे शु॒भे । अंसे॑ष्वेषां॒ नि मि॑मृक्षुर्ऋ॒ष्टयः॑ सा॒कं ज॑ज्ञिरे स्व॒धया॑ दि॒वो नरः॑ ॥
चि॒त्रैः , अं॒जिऽभिः॑ , वपु॑षे , वि , अं॒ज॒ते॒ , वक्षः॑ऽसु , रु॒क्मान् , अधि॑ , ये॒ति॒रे॒ , शु॒भे । अंसे॑षु , ए॒षां॒ , नि , मि॒मृ॒क्षुः॒ , ऋ॒ष्टयः॑ , सा॒कं , ज॒ज्ञि॒रे॒ , स्व॒धया॑ , दि॒वः , नरः॑ ॥
ई॒शा॒न॒कृतो॒ धुन॑यो रि॒शाद॑सो॒ वाता॑न्वि॒द्युत॒स्तवि॑षीभिरक्रत । दु॒हंत्यूध॑र्दि॒व्यानि॒ धूत॑यो॒ भूमिं॑ पिन्वंति॒ पय॑सा॒ परि॑ज्रयः ॥
ई॒शा॒न॒ऽकृतः॑ , धुन॑यः , रि॒शाद॑सः , वाता॑न् , वि॒ऽद्युतः॑ , तवि॑षीभिः , अ॒क्र॒त॒ । दु॒हंति॑ , ऊधः॑ , दि॒व्यानि॑ , धूत॑यः , भूमिं॑ , पि॒न्वं॒ति॒ , पय॑सा , परि॑ऽज्रयः ॥
पिन्वं॑त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो॑ घृ॒तव॑द्वि॒दथे॑ष्वा॒भुवः॑ । अत्यं॒ न मि॒हे वि न॑यंति वा॒जिन॒मुत्सं॑ दुहंति स्त॒नयं॑त॒मक्षि॑तं ॥
पिन्वं॑ति , अ॒पः , म॒रुतः॑ , सु॒ऽदान॑वः , पयः॑ , घृ॒तऽव॑त् , वि॒दथे॑षु , आ॒ऽभुवः॑ । अत्यं॑ , न , मि॒हे , वि , न॒यं॒ति॒ , वा॒जिनं॑ , उत्सं॑ , दु॒हं॒ति॒ , स्त॒नयं॑तं , अक्षि॑तं ॥
म॒हि॒षासो॑ मा॒यिन॑श्चि॒त्रभा॑नवो गि॒रयो॒ न स्वत॑वसो रघु॒ष्यदः॑ । मृ॒गा इ॑व ह॒स्तिनः॑ खादथा॒ वना॒ यदारु॑णीषु॒ तवि॑षी॒रयु॑ग्ध्वं ॥
म॒हि॒षासः॑ , मा॒यिनः॑ , चि॒त्रऽभा॑नवः , गि॒रयः॑ , न , स्वऽत॑वसः , र॒घु॒ऽस्यदः॑ । मृ॒गाःऽइ॑व , ह॒स्तिनः॑ , खा॒द॒थ॒ , वना॑ , यत् , आरु॑णीषु , तवि॑षीः , अयु॑ग्ध्वं ॥
सिं॒हा इ॑व नानदति॒ प्रचे॑तसः पि॒शा इ॑व सु॒पिशो॑ वि॒श्ववे॑दसः । क्षपो॒ जिन्वं॑तः॒ पृष॑तीभिर्ऋ॒ष्टिभिः॒ समित्स॒बाधः॒ शव॒साहि॑मन्यवः ॥
सिं॒हाःऽइ॑व , ना॒न॒द॒ति॒ , प्रऽचे॑तसः , पि॒शाःऽइ॑व , सु॒ऽपिशः॑ , वि॒श्वऽवे॑दसः । क्षपः॑ , जिन्वं॑तः , पृष॑तीभिः , ऋ॒ष्टिऽभिः॑ , सं , इत् , स॒ऽबाधः॒ , शव॑सा , अहि॑ऽमन्यवः ॥
रोद॑सी॒ आ व॑दता गणश्रियो॒ नृषा॑चः शूराः॒ शव॒साहि॑मन्यवः । आ वं॒धुरे॑ष्व॒मति॒र्न द॑र्श॒ता वि॒द्युन्न त॑स्थौ मरुतो॒ रथे॑षु वः ॥
रोद॑सी॒ इति॑ , आ , व॒द॒त॒ , ग॒ण॒ऽश्रि॒यः॒ , नृऽसा॑चः , शूराः॑ , शव॑सा , अहि॑ऽमन्यवः । आ , वं॒धुरे॑षु , अ॒मतिः॑ , न , द॒र्श॒ता , वि॒ऽद्युत् , न , त॒स्थौ॒ , म॒रु॒तः॒ , रथे॑षु , वः॒ ॥
वि॒श्ववे॑दसो र॒यिभिः॒ समो॑कसः॒ संमि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिनः॑ । अस्ता॑र॒ इषुं॑ दधिरे॒ गभ॑स्त्योरनं॒तशु॑ष्मा॒ वृष॑खादयो॒ नरः॑ ॥
वि॒श्वऽवे॑दसः , र॒यिऽभिः॑ , संऽओ॑कसः , संऽमि॑श्लासः , तवि॑षीभिः , वि॒ऽर॒प्शिनः॑ । अस्ता॑रः , इषुं॑ , द॒धि॒रे॒ , गभ॑स्त्योः , अ॒नं॒तऽशु॑ष्माः , वृष॑ऽखादयः , नरः॑ ॥
हि॒र॒ण्यये॑भिः प॒विभिः॑ पयो॒वृध॒ उज्जि॑घ्नंत आप॒थ्यो॒३॒॑ न पर्व॑तान् । म॒खा अ॒यासः॑ स्व॒सृतो॑ ध्रुव॒च्युतो॑ दुध्र॒कृतो॑ म॒रुतो॒ भ्राज॑दृष्टयः ॥
हि॒र॒ण्यये॑भिः , प॒विऽभिः॑ , प॒यः॒ऽवृधः॑ , उत् , जि॒घ्नं॒ते॒ , आ॒ऽप॒थ्यः॑ , न , पर्व॑तान् । म॒खाः , अ॒यासः॑ , स्व॒ऽसृतः॑ , ध्रु॒व॒ऽच्युतः॑ , दु॒ध्र॒ऽकृतः॑ , म॒रुतः॑ , भ्राज॑त्ऽऋष्टयः ॥
घृषुं॑ पाव॒कं व॒निनं॒ विच॑र्षणिं रु॒द्रस्य॑ सू॒नुं ह॒वसा॑ गृणीमसि । र॒ज॒स्तुरं॑ त॒वसं॒ मारु॑तं ग॒णमृ॑जी॒षिणं॒ वृष॑णं सश्चत श्रि॒ये ॥
घृषुं॑ , पा॒व॒कं , व॒निनं॑ , विऽच॑र्षणिं , रु॒द्रस्य॑ , सू॒नुं , ह॒वसा॑ , गृ॒णी॒म॒सि॒ । र॒जः॒ऽतुरं॑ , त॒वसं॑ , मारु॑तं , ग॒णं , ऋ॒जी॒षिणं॑ , वृष॑णं , स॒श्च॒त॒ , श्रि॒ये ॥
प्र नू स मर्तः॒ शव॑सा॒ जनाँ॒ अति॑ त॒स्थौ व॑ ऊ॒ती म॑रुतो॒ यमाव॑त । अर्व॑द्भि॒र्वाजं॑ भरते॒ धना॒ नृभि॑रा॒पृच्छ्यं॒ क्रतु॒मा क्षे॑ति॒ पुष्य॑ति ॥
प्र , नु , सः , मर्तः॑ , शव॑सा , जना॑न् , अति॑ , त॒स्थौ , वः॒ , ऊ॒ती , म॒रुतः॑ , यं , आव॑त । अर्व॑त्ऽभिः , वाजं॑ , भ॒र॒ते॒ , धना॑ , नृऽभिः॑ , आ॒ऽपृच्छ्यं॑ , क्रतुं॑ , आ , क्षे॒ति॒ , पुष्य॑ति ॥
च॒र्कृत्यं॑ मरुतः पृ॒त्सु दु॒ष्टरं॑ द्यु॒मंतं॒ शुष्मं॑ म॒घव॑त्सु धत्तन । ध॒न॒स्पृत॑मु॒क्थ्यं॑ वि॒श्वच॑र्षणिं तो॒कं पु॑ष्येम॒ तन॑यं श॒तं हिमाः॑ ॥
च॒र्कृत्यं॑ , म॒रु॒तः॒ , पृ॒त्ऽसु , दु॒स्तरं॑ , द्यु॒ऽमंतं॑ , शुष्मं॑ , म॒घव॑त्ऽसु , ध॒त्त॒न॒ । ध॒न॒ऽस्पृतं॑ , उ॒क्थ्यं॑ , वि॒श्वऽच॑र्षणिं , तो॒कं , पु॒ष्ये॒म॒ , तन॑यं , श॒तं , हिमाः॑ ॥
नू ष्ठि॒रं म॑रुतो वी॒रवं॑तमृती॒षाहं॑ र॒यिम॒स्मासु॑ धत्त । स॒ह॒स्रिणं॑ श॒तिनं॑ शूशु॒वांसं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
नु , स्थि॒रं , म॒रु॒तः॒ , वी॒रऽवं॑तं , ऋ॒ति॒ऽसहं॑ , र॒यिं , अ॒स्मासु॑ , ध॒त्त॒ । स॒ह॒स्रिणं॑ , श॒तिनं॑ , शू॒शु॒ऽवांसं॑ , प्रा॒तः , म॒क्षु , धि॒याऽव॑सुः , ज॒ग॒म्या॒त् ॥
[६५] पश्वानेति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् |
प॒श्वा न ता॒युं गुहा॒ चतं॑तं॒ नमो॑ युजा॒नं नमो॒ वहं॑तं ॥
प॒श्वा , न , ता॒युं , गुहा॑ , चतं॑तं , नमः॑ , यु॒जा॒नं , नमः॑ , वहं॑तं ॥ ।
स॒जोषा॒ धीराः॑ प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न्विश्वे॒ यज॑त्राः ॥
स॒ऽजोषाः॑ , धीराः॑ , प॒दैः , अनु॑ , ग्म॒न् , उप॑ , त्वा॒ , सी॒द॒न् , विश्वे॑ , यज॑त्राः ॥ ।
ऋ॒तस्य॑ दे॒वा अनु॑ व्र॒ता गु॒र्भुव॒त्परि॑ष्टि॒र्द्यौर्न भूम॑ ॥
ऋ॒तस्य॑ , दे॒वाः , अनु॑ , व्र॒ता , गुः॒ , भुव॑त् , परि॑ष्टिः , द्यौः , न , भूम॑ ॥ ।
वर्धं॑ती॒मापः॑ प॒न्वा सुशि॑श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा॑तं ॥
वर्धं॑ति , ईं॒ , आपः॑ , प॒न्वा , सुऽशि॑श्विं , ऋ॒तस्य॑ , योना॑ , गर्भे॑ , सुऽजा॑तं ॥ ।
पु॒ष्टिर्न र॒ण्वा क्षि॒तिर्न पृ॒थ्वी गि॒रिर्न भुज्म॒ क्षोदो॒ न शं॒भु ॥
पु॒ष्टिः , न , र॒ण्वा , क्षि॒तिः , न , पृ॒थ्वी , गि॒रिः , न , भुज्म॑ , क्षोदः॑ , न , शं॒ऽभु ॥ ।
अत्यो॒ नाज्मं॒त्सर्ग॑प्रतक्तः॒ सिंधु॒र्न क्षोदः॒ क ईं॑ वराते ॥
अत्यः॑ , न , अज्म॑न् , सर्ग॑ऽप्रतक्तः , सिंधुः॑ , न , क्षोदः॑ , कः , इं॒ , व॒रा॒ते॒ ॥ ।
जा॒मिः सिंधू॑नां॒ भ्राते॑व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना॑न्यत्ति ॥
जा॒मिः , सिंधू॑नां , भ्राता॑ऽइव , स्वस्रां॑ , इभ्या॑न् , न , राजा॑ , वना॑नि , अ॒त्ति॒ ॥ ।
यद्वात॑जूतो॒ वना॒ व्यस्था॑द॒ग्निर्ह॑ दाति॒ रोमा॑ पृथि॒व्याः ॥
यत् , वात॑ऽजूतः , वना॑ , वि , अस्था॑त् , अ॒ग्निः , ह॒ , दा॒ति॒ , रोम॑ , पृ॒थि॒व्याः ॥ ।
श्वसि॑त्य॒प्सु हं॒सो न सीद॒न्क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ॥
श्वसि॑ति , अ॒प्ऽसु , हं॒सः , न , सीद॑न् , क्रत्वा॑ , चेति॑ष्ठः , वि॒शां , उ॒षः॒ऽभुत् ॥ ।
सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभाः॑ ॥
सोमः॑ , न , वे॒धाः , ऋ॒तऽप्र॑जातः , प॒शुः , न , शिश्वा॑ , वि॒ऽभुः , दू॒रेऽभाः॑ ॥ ।
[६६] रयिर्नेति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् |
र॒यिर्न चि॒त्रा सूरो॒ न सं॒दृगायु॒र्न प्रा॒णो नित्यो॒ न सू॒नुः ॥
र॒यिः , न , चि॒त्रा , सूरः॑ , न , सं॒ऽदृक् , आयुः॑ , न , प्रा॒णः , नित्यः॑ , न , सू॒नुः ॥ ।
तक्वा॒ न भूर्णि॒र्वना॑ सिषक्ति॒ पयो॒ न धे॒नुः शुचि॑र्वि॒भावा॑ ॥
तक्वा॑ , न , भूर्णिः॑ , वना॑ , सि॒स॒क्ति॒ , पयः॑ , न , धे॒नुः , शुचिः॑ , वि॒भाऽवा॑ ॥ ।
दा॒धार॒ क्षेम॒मोको॒ न र॒ण्वो यवो॒ न प॒क्वो जेता॒ जना॑नां ॥
दा॒धार॑ , क्षेमं॑ , ओकः॑ , न , र॒ण्वः , यवः॑ , न , प॒क्वः , जेता॑ , जना॑नां ॥ ।
ऋषि॒र्न स्तुभ्वा॑ वि॒क्षु प्र॑श॒स्तो वा॒जी न प्री॒तो वयो॑ दधाति ॥
ऋषिः॑ , न , स्तुभ्वा॑ , वि॒क्षु , प्र॒ऽश॒स्तः , वा॒जी , न , प्री॒तः , वयः॑ , द॒धा॒ति॒ ॥ ।
दु॒रोक॑शोचिः॒ क्रतु॒र्न नित्यो॑ जा॒येव॒ योना॒वरं॒ विश्व॑स्मै ॥
दु॒रोक॑ऽशोचिः , क्रतुः॑ , न , नित्यः॑ , जा॒याऽइ॑व , योनौ॑ , अरं॑ , विश्व॑स्मै ॥ ।
चि॒त्रो यदभ्रा॑ट् छ्वे॒तो न वि॒क्षु रथो॒ न रु॒क्मी त्वे॒षः स॒मत्सु॑ ॥
चि॒त्रः , यत् , अभ्रा॑ट् , श्वे॒तः , न , वि॒क्षु , रथः॑ , न , रु॒क्मी , त्वे॒षः , स॒मत्ऽसु॑ ॥ ।
सेने॑व सृ॒ष्टामं॑ दधा॒त्यस्तु॒र्न दि॒द्युत्त्वे॒षप्र॑तीका ॥
सेना॑ऽइव , सृ॒ष्टा , अमं॑ , द॒धा॒ति॒ , अस्तुः॑ , न , दि॒द्युत् , त्वे॒षऽप्र॑तीका ॥ ।
य॒मो ह॑ जा॒तो य॒मो जनि॑त्वं जा॒रः क॒नीनां॒ पति॒र्जनी॑नां ॥
य॒मः , ह॒ , जा॒तः , य॒मः , जनि॑ऽत्वं , जा॒रः , क॒नीनां॑ , पतिः॑ , जनी॑नां ॥ ।
तं व॑श्च॒राथा॑ व॒यं व॑स॒त्यास्तं॒ न गावो॒ नक्षं॑त इ॒द्धं ॥
तं , वः॒ , च॒राथा॑ , व॒यं , व॒स॒त्या , अस्तं॑ , न , गावः॑ , नक्षं॑ते , इ॒द्धं ॥ ।
सिंधु॒र्न क्षोदः॒ प्र नीची॑रैनो॒न्नवं॑त॒ गावः॒ स्व१॒॑र्दृशी॑के ॥
सिंधुः॑ , न , क्षोदः॑ , प्र , नीचीः॑ , ऐ॒नो॒त् , नवं॑त , गावः॑ , स्वः॑ , दृशी॑के ॥ ।
[६७] वनेष्वितिदशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् |
वने॑षु जा॒युर्मर्ते॑षु मि॒त्रो वृ॑णी॒ते श्रु॒ष्टिं राजे॑वाजु॒र्यं ॥
वने॑षु , जा॒युः , मर्ते॑षु , मि॒त्रः , वृ॒णी॒ते॒ , श्रु॒ष्टिं , राजा॑ऽइव , अ॒जु॒र्यं ॥ ।
क्षेमो॒ न सा॒धुः क्रतु॒र्न भ॒द्रो भुव॑त्स्वा॒धीर्होता॑ हव्य॒वाट् ॥
क्षेमः॑ , न , सा॒धुः , क्रतुः॑ , न , भ॒द्रः , भुव॑त् , सु॒ऽआ॒धीः , होता॑ , ह॒व्य॒ऽवाट् ॥ ।
हस्ते॒ दधा॑नो नृ॒म्णा विश्वा॒न्यमे॑ दे॒वांधा॒द्गुहा॑ नि॒षीद॑न् ॥
हस्ते॑ , दधा॑नः , नृ॒म्णा , विश्वा॑नि , अमे॑ , दे॒वान् , धा॒त् , गुहा॑ , नि॒ऽसीद॑न् ॥ ।
वि॒दंती॒मत्र॒ नरो॑ धियं॒धा हृ॒दा यत्त॒ष्टान्मंत्राँ॒ अशं॑सन् ॥
वि॒दंति॑ , ईं॒ , अत्र॑ , नरः॑ , धि॒यं॒ऽधाः , हृ॒दा , यत् , त॒ष्टान् , मंत्रा॑न् , अशं॑सन् ॥ ।
अ॒जो न क्षां दा॒धार॑ पृथि॒वीं त॒स्तंभ॒ द्यां मंत्रे॑भिः स॒त्यैः ॥
अ॒जः , न , क्षां , दा॒धार॑ , पृ॒थि॒वीं , त॒स्तंभ॑ , द्यां , मंत्रे॑भिः , स॒त्यैः ॥ ।
प्रि॒या प॒दानि॑ प॒श्वो नि पा॑हि वि॒श्वायु॑रग्ने गु॒हा गुहं॑ गाः ॥
प्रि॒या , प॒दानि॑ , प॒श्वः , नि , पा॒हि॒ , वि॒श्वऽआ॑युः , अ॒ग्ने॒ , गु॒हा , गुहं॑ , गाः॒ ॥ ।
य ईं॑ चि॒केत॒ गुहा॒ भवं॑त॒मा यः स॒साद॒ धारा॑मृ॒तस्य॑ ॥
यः , ईं॒ , चि॒केत॑ , गुहा॑ , भवं॑तं , आ , यः , स॒साद॑ , धारां॑ , ऋ॒तस्य॑ ॥ ।
वि ये चृ॒तंत्यृ॒ता सपं॑त॒ आदिद्वसू॑नि॒ प्र व॑वाचास्मै ॥
वि , ये , चृ॒तंति॑ , ऋ॒ता , सपं॑तः , आत् , इत् , वसू॑नि , प्र , व॒वा॒च॒ , अ॒स्मै॒ ॥ ।
वि यो वी॒रुत्सु॒ रोध॑न्महि॒त्वोत प्र॒जा उ॒त प्र॒सूष्वं॒तः ॥
वि , यः , वी॒रुत्ऽसु॑ , रोध॑त् , म॒हि॒ऽत्वा , उ॒त , प्र॒ऽजाः , उ॒त , प्र॒ऽसूषु॑ , अं॒तरिति॑ ॥ ।
चित्ति॑र॒पां दमे॑ वि॒श्वायुः॒ सद्मे॑व॒ धीराः॑ सं॒माय॑ चक्रुः ॥
चित्तिः॑ , अ॒पां , दमे॑ , वि॒श्वऽआ॑युः , सद्म॑ऽइव , धीराः॑ , सं॒ऽमाय॑ , च॒क्रुः॒ ॥ ।
[६८] श्रीणन्निति दशर्चस्य सुक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् |
श्री॒णन्नुप॑ स्था॒द्दिवं॑ भुर॒ण्युः स्था॒तुश्च॒रथ॑म॒क्तून्व्यू॑र्णोत् ॥
श्री॒णन् , उप॑ , स्था॒त् , दिवं॑ , भु॒र॒ण्युः , स्था॒तुः , च॒रथं॑ , अ॒क्तून् , वि , ऊ॒र्णो॒त् ॥ ।
परि॒ यदे॑षा॒मेको॒ विश्वे॑षां॒ भुव॑द्दे॒वो दे॒वानां॑ महि॒त्वा ॥
परि॑ , यत् , ए॒षां॒ , एकः॑ , विश्वे॑षां , भुव॑त् , दे॒वः , दे॒वानां॑ , म॒हि॒ऽत्वा ॥ ।
आदित्ते॒ विश्वे॒ क्रतुं॑ जुषंत॒ शुष्का॒द्यद्दे॑व जी॒वो जनि॑ष्ठाः ॥
आत् , इत् , ते॒ , विश्वे॑ , क्रतुं॑ , जु॒षं॒त॒ , शुष्का॑त् , यत् , दे॒व॒ , जी॒वः , जनि॑ष्ठाः ॥ ।
भजं॑त॒ विश्वे॑ देव॒त्वं नाम॑ ऋ॒तं सपं॑तो अ॒मृत॒मेवैः॑ ॥
भजं॑त , विश्वे॑ , दे॒व॒ऽत्वं , नाम॑ , ऋ॒तं , सपं॑तः , अ॒मृतं॑ , एवैः॑ ॥ ।
ऋ॒तस्य॒ प्रेषा॑ ऋ॒तस्य॑ धी॒तिर्वि॒श्वायु॒र्विश्वे॒ अपां॑सि चक्रुः ॥
ऋ॒तस्य॑ , प्रेषाः॑ , ऋ॒तस्य॑ , धी॒तिः , वि॒श्वऽआ॑युः , विश्वे॑ , अपां॑सि , च॒क्रुः॒ ॥ ।
यस्तुभ्यं॒ दाशा॒द्यो वा॑ ते॒ शिक्षा॒त्तस्मै॑ चिकि॒त्वान्र॒यिं द॑यस्व ॥
यः , तुभ्यं॑ , दाशा॑त् , यः , वा॒ , ते॒ , शिक्षा॑त् , तस्मै॑ , चि॒कि॒त्वान् , र॒यिं , द॒य॒स्व॒ ॥ ।
होता॒ निष॑त्तो॒ मनो॒रप॑त्ये॒ स चि॒न्न्वा॑सां॒ पती॑ रयी॒णां ॥
होता॑ , निऽस॑त्तः , मनोः॑ , अप॑त्ये , सः , चि॒त् , नु , आ॒सां॒ , पतिः॑ , र॒यी॒णां ॥ ।
इ॒च्छंत॒ रेतो॑ मि॒थस्त॒नूषु॒ सं जा॑नत॒ स्वैर्दक्षै॒रमू॑राः ॥
इ॒च्छंत॑ , रेतः॑ , मि॒थः , त॒नूषु॑ , सं , जा॒न॒त॒ , स्वैः , दक्षैः॑ , अमू॑राः ॥ ।
पि॒तुर्न पु॒त्राः क्रतुं॑ जुषंत॒ श्रोष॒न्ये अ॑स्य॒ शासं॑ तु॒रासः॑ ॥
पि॒तुः , न , पु॒त्राः , क्रतुं॑ , जु॒षं॒त॒ , श्रोष॑न् , ये , अ॒स्य॒ , शासं॑ , तु॒रासः॑ ॥ ।
वि राय॑ और्णो॒द्दुरः॑ पुरु॒क्षुः पि॒पेश॒ नाकं॒ स्तृभि॒र्दमू॑नाः ॥
वि , रायः॑ , औ॒र्णो॒त् , दुरः॑ , पु॒रु॒ऽक्षुः , पि॒पेश॑ , नाकं॑ , स्तृऽभिः॑ , दमू॑नाः ॥ ।
[६९] शुक्रइति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् |
शु॒क्रः शु॑शु॒क्वाँ उ॒षो न जा॒रः प॒प्रा स॑मी॒ची दि॒वो न ज्योतिः॑ ॥
शु॒क्रः , शु॒शु॒क्वान् , उ॒षः , न , जा॒रः , प॒प्रा , स॒मी॒ची इति॑ सं॒ऽई॒ची , दि॒वः , न , ज्योतिः॑ ॥ ।
परि॒ प्रजा॑तः॒ क्रत्वा॑ बभूथ॒ भुवो॑ दे॒वानां॑ पि॒ता पु॒त्रः सन् ॥
परि॑ , प्रऽजा॑तः , क्रत्वा॑ , ब॒भू॒थ॒ , भुवः॑ , दे॒वानां॑ , पि॒ता , पु॒त्रः , सन् ॥ ।
वे॒धा अदृ॑प्तो अ॒ग्निर्वि॑जा॒नन्नूध॒र्न गोनां॒ स्वाद्मा॑ पितू॒नां ॥
वे॒धाः , अदृ॑प्तः , अ॒ग्निः , वि॒ऽजा॒नन् , ऊधः॑ , न , गोनां॑ , स्वाद्म॑ , पि॒तू॒नां ॥ ।
जने॒ न शेव॑ आ॒हूर्यः॒ सन्मध्ये॒ निष॑त्तो र॒ण्वो दु॑रो॒णे ॥
जने॑ , न , शेवः॑ , आ॒ऽहूर्यः॑ , सन् , मध्ये॑ , निऽस॑त्तः , र॒ण्वः , दु॒रो॒णे ॥ ।
पु॒त्रो न जा॒तो र॒ण्वो दु॑रो॒णे वा॒जी न प्री॒तो विशो॒ वि ता॑रीत् ॥
पु॒त्रः , न , जा॒तः , र॒ण्वः , दु॒रो॒णे , वा॒जी , न , प्री॒तः , विशः॑ , वि , ता॒री॒त् ॥ ।
विशो॒ यदह्वे॒ नृभिः॒ सनी॑ळा अ॒ग्निर्दे॑व॒त्वा विश्वा॑न्यश्याः ॥
विशः॑ , यत् , अह्वे॑ , नृऽभिः॑ , सऽनी॑ळाः , अ॒ग्निः , दे॒व॒ऽत्वा , विश्वा॑नि , अ॒श्याः॒ ॥ ।
नकि॑ष्ट ए॒ता व्र॒ता मि॑नंति॒ नृभ्यो॒ यदे॒भ्यः श्रु॒ष्टिं च॒कर्थ॑ ॥
नकिः॑ , ते॒ , ए॒ता , व्र॒ता , मि॒नं॒ति॒ , नृऽभ्यः॑ , यत् , ए॒भ्यः , श्रु॒ष्टिं , च॒कर्थ॑ ॥ ।
तत्तु ते॒ दंसो॒ यदहं॑त्समा॒नैर्नृभि॒र्यद्यु॒क्तो वि॒वे रपां॑सि ॥
तत् , तु , ते॒ , दंसः॑ , यत् , अह॑न् , स॒मा॒नैः , नृऽभिः॑ , यत् , यु॒क्तः , वि॒वेः , रपां॑सि ॥ ।
उ॒षो न जा॒रो वि॒भावो॒स्रः संज्ञा॑तरूप॒श्चिके॑तदस्मै ॥
उ॒षः , न , जा॒रः , वि॒भाऽवा॑ , उ॒स्रः , संज्ञा॑तऽरूपः , चिके॑तत् , अ॒स्मै॒ ॥ ।
त्मना॒ वहं॑तो॒ दुरो॒ व्यृ॑ण्व॒न्नवं॑त॒ विश्वे॒ स्व१॒॑र्दृशी॑के ॥
त्मना॑ , वहं॑तः , दुरः॑ , वि , ऋ॒ण्व॒न् , नवं॑त , विश्वे॑ , स्वः॑ , दृशी॑के ॥ ।
[७०] वनेमेत्येकादशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निर्द्विपदाविराट् |
व॒नेम॑ पू॒र्वीर॒र्यो म॑नी॒षा अ॒ग्निः सु॒शोको॒ विश्वा॑न्यश्याः ॥
व॒नेम॑ , पू॒र्वीः , अ॒र्यः , म॒नी॒षा , अ॒ग्निः , सु॒ऽशोकः॑ , विश्वा॑नि , अ॒श्याः॒ ॥ ।
आ दैव्या॑नि व्र॒ता चि॑कि॒त्वाना मानु॑षस्य॒ जन॑स्य॒ जन्म॑ ॥
आ , दैव्या॑नि , व्र॒ता , चि॒कि॒त्वान् , आ , मानु॑षस्य , जन॑स्य , जन्म॑ ॥ ।
गर्भो॒ यो अ॒पां गर्भो॒ वना॑नां॒ गर्भ॑श्च स्था॒तां गर्भ॑श्च॒रथां॑ ॥
गर्भः॑ , यः , अ॒पां , गर्भः॑ , वना॑नां , गर्भः॑ , च॒ , स्था॒तां , गर्भः॑ , च॒रथां॑ ॥ ।
अद्रौ॑ चिदस्मा अं॒तर्दु॑रो॒णे वि॒शां न विश्वो॑ अ॒मृतः॑ स्वा॒धीः ॥
अद्रौ॑ , चि॒त् , अ॒स्मै॒ , अं॒तः , दु॒रो॒णे , वि॒शां , न , विश्वः॑ , अ॒मृतः॑ , सु॒ऽआ॒धीः ॥ ।
स हि क्ष॒पावाँ॑ अ॒ग्नी र॑यी॒णां दाश॒द्यो अ॑स्मा॒ अरं॑ सू॒क्तैः ॥
सः , हि , क्ष॒पाऽवा॑न् , अ॒ग्निः , र॒यी॒णां , दाश॑त् , यः , अ॒स्मै॒ , अरं॑ , सु॒ऽउ॒क्तैः ॥ ।
ए॒ता चि॑कित्वो॒ भूमा॒ नि पा॑हि दे॒वानां॒ जन्म॒ मर्ताँ॑श्च वि॒द्वान् ॥
ए॒ता , चि॒कि॒त्वः॒ , भूम॒ , नि , पा॒हि॒ , दे॒वानां॑ , जन्म॑ , मर्ता॑न् , च॒ , वि॒द्वान् ॥ ।
वर्धा॒न्यं पू॒र्वीः क्ष॒पो विरू॑पाः स्था॒तुश्च॒ रथ॑मृ॒तप्र॑वीतं ॥
वर्धा॑न् , यं , पू॒र्वीः , क्ष॒पः , विऽरू॑पाः , स्था॒तुः , च॒ , रथं॑ , ऋ॒तऽप्र॑वीतं ॥ ।
अरा॑धि॒ होता॒ स्व१॒॑र्निष॑त्तः कृ॒ण्वन्विश्वा॒न्यपां॑सि स॒त्या ॥
अरा॑धि , होता॑ , स्वः॑ , निऽस॑त्तः , कृ॒ण्वन् , विश्वा॑नि , अपां॑सि , स॒त्या ॥ ।
गोषु॒ प्रश॑स्तिं॒ वने॑षु धिषे॒ भरं॑त॒ विश्वे॑ ब॒लिं स्व॑र्णः ॥
गोषु॑ , प्रऽश॑स्तिं , वने॑षु , धि॒षे॒ , भरं॑त , विश्वे॑ , ब॒लिं , स्वः॑ , नः॒ ॥ ।
वि त्वा॒ नरः॑ पुरु॒त्रा स॑पर्यन्पि॒तुर्न जिव्रे॒र्वि वेदो॑ भरंत ॥
वि , त्वा॒ , नरः॑ , पु॒रु॒ऽत्रा , स॒प॒र्य॒न् , पि॒तुः , न , जिव्रेः॑ , वि , वेदः॑ , भ॒रं॒त॒ ॥ ।
सा॒धुर्न गृ॒ध्नुरस्ते॑व॒ शूरो॒ याते॑व भी॒मस्त्वे॒षः स॒मत्सु॑ ॥
सा॒धुः , न , गृ॒ध्नुः , अस्ता॑ऽइव , शूरः॑ , याता॑ऽइव , भी॒मः , त्वे॒षः , स॒मत्ऽसु॑ ॥ ।
[७१] उपप्रजिन्वन्निति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निस्त्रिष्टुप्
उप॒ प्र जि॑न्वन्नुश॒तीरु॒शंतं॒ पतिं॒ न नित्यं॒ जन॑यः॒ सनी॑ळाः । स्वसा॑रः॒ श्यावी॒मरु॑षीमजुष्रंचि॒त्रमु॒च्छंती॑मु॒षसं॒ न गावः॑ ॥
उप॑ , प्र , जि॒न्व॒न् , उ॒श॒तीः , उ॒शंतं॑ , पतिं॑ , न , नित्यं॑ , जन॑यः , सऽनी॑ळाः । स्वसा॑रः , श्यावीं॑ , अरु॑षीं , अ॒जु॒ष्र॒न् , चि॒त्रं , उ॒च्छंतीं॑ , उ॒षसं॑ , न , गावः॑ ॥
वी॒ळु चि॑द्दृ॒ळ्हा पि॒तरो॑ न उ॒क्थैरद्रिं॑ रुज॒न्नंगि॑रसो॒ रवे॑ण । च॒क्रुर्दि॒वो बृ॑ह॒तो गा॒तुम॒स्मे अहः॒ स्व॑र्विविदुः के॒तुमु॒स्राः ॥
वी॒ळु , चि॒त् , दृ॒ळ्हा , पि॒तरः॑ , नः॒ , उ॒क्थैः , अद्रिं॑ , रु॒ज॒न् , अंगि॑रसः , रवे॑ण । च॒क्रुः , दि॒वः , बृ॒ह॒तः , गा॒तुं , अ॒स्मे इति॑ , अह॒रिति॑ , स्वः॑ , वि॒वि॒दुः॒ , के॒तुं , उ॒स्राः ॥
दध॑न्नृ॒तं ध॒नय॑न्नस्य धी॒तिमादिद॒र्यो दि॑धि॒ष्वो॒३॒॑ विभृ॑त्राः । अतृ॑ष्यंतीर॒पसो॑ यं॒त्यच्छा॑ दे॒वांजन्म॒ प्रय॑सा व॒र्धयं॑तीः ॥
दध॑न् , ऋ॒तं , ध॒नय॑न् , अ॒स्य॒ , धी॒तिं , आत् , इत् , अ॒र्यः , द॒धि॒ष्वः॑ , विऽभृ॑त्राः । अतृ॑ष्यंतीः , अ॒पसः॑ , यं॒ति॒ , अच्छ॑ , दे॒वान् , जन्म॑ , प्रय॑सा , व॒र्धयं॑तीः ॥
मथी॒द्यदीं॒ विभृ॑तो मात॒रिश्वा॑ गृ॒हेगृ॑हे श्ये॒तो जेन्यो॒ भूत् । आदीं॒ राज्ञे॒ न सही॑यसे॒ सचा॒ सन्ना दू॒त्यं१॒॑ भृग॑वाणो विवाय ॥
मथी॑त् , यत् , ईं॒ , विऽभृ॑तः , मा॒त॒रिश्वा॑ , गृ॒हेऽगृ॑हे , श्ये॒तः , जेन्यः॑ , भूत् । आत् , ईं॒ , राज्ञे॑ , न , सही॑यसे , सचा॑ , सन् , आ , दू॒त्यं॑ , भृग॑वाणः , वि॒वा॒य॒ ॥
म॒हे यत्पि॒त्र ईं॒ रसं॑ दि॒वे करव॑ त्सरत्पृश॒न्य॑श्चिकि॒त्वान् । सृ॒जदस्ता॑ धृष॒ता दि॒द्युम॑स्मै॒ स्वायां॑ दे॒वो दु॑हि॒तरि॒ त्विषिं॑ धात् ॥
म॒हे , यत् , पि॒त्रे , ईं॒ , रसं॑ , दि॒वे , कः , अव॑ , त्स॒र॒त् , पृ॒श॒न्यः॑ , चि॒कि॒त्वान् । सृ॒जत् , अस्ता॑ , धृ॒ष॒ता , दि॒द्युं , अ॒स्मै॒ , स्वायां॑ , दे॒वः , दु॒हि॒तरि॑ , त्विषिं॑ , धा॒त् ॥
स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति॒ नमो॑ वा॒ दाशा॑दुश॒तो अनु॒ द्यून् । वर्धो॑ अग्ने॒ वयो॑ अस्य द्वि॒बर्हा॒ यास॑द्रा॒या स॒रथं॒ यं जु॒नासि॑ ॥
स्वे , आ , यः , तुभ्यं॑ , दमे॑ , आ , वि॒ऽभाति॑ , नमः॑ , वा॒ , दाशा॑त् , उ॒श॒तः , अनु॑ , द्यून् । वर्धो॒ इति॑ , अ॒ग्ने॒ , वयः॑ , अ॒स्य॒ , द्वि॒ऽबर्हाः॑ , यास॑त् , रा॒या , स॒ऽरथं॑ , यं , जु॒नासि॑ ॥
अ॒ग्निं विश्वा॑ अ॒भि पृक्षः॑ सचंते समु॒द्रं न स्र॒वतः॑ स॒प्त य॒ह्वीः । न जा॒मिभि॒र्वि चि॑किते॒ वयो॑ नो वि॒दा दे॒वेषु॒ प्रम॑तिं चिकि॒त्वान् ॥
अ॒ग्निं , विश्वाः॑ , अ॒भि , पृक्षः॑ , स॒चं॒ते॒ , स॒मु॒द्रं , न , स्र॒वतः॑ , स॒प्त , य॒ह्वीः । न , जा॒मिऽभिः॑ , वि , चि॒कि॒ते॒ , वयः॑ , नः॒ , वि॒दाः , दे॒वेषु॑ , प्रऽम॑तिं , चि॒कि॒त्वान् ॥
आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑ । अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नं स्वा॒ध्यं॑ जनयत्सू॒दय॑च्च ॥
आ , यत् , इ॒षे , नृ॒ऽपतिं॑ , तेजः॑ , आन॑ट् , शुचि॑ , रेतः॑ , निऽसि॑क्तं , द्यौः , अ॒भीके॑ । अ॒ग्निः , शर्धं॑ , अ॒न॒व॒द्यं , युवा॑नं , सु॒ऽआ॒ध्यं॑ , ज॒न॒य॒त् , सू॒दय॑त् , च॒ ॥
मनो॒ न योऽध्व॑नः स॒द्य एत्येकः॑ स॒त्रा सूरो॒ वस्व॑ ईशे । राजा॑ना मि॒त्रावरु॑णा सुपा॒णी गोषु॑ प्रि॒यम॒मृतं॒ रक्ष॑माणा ॥
मनः॑ , न , यः , अध्व॑नः , स॒द्यः , एति॑ , एकः॑ , स॒त्रा , सूरः॑ , वस्वः॑ , ई॒शे॒ । राजा॑ना , मि॒त्रावरु॑णा , सु॒पा॒णी इति॑ सु॒ऽपा॒णी , गोषु॑ , प्रि॒यं , अ॒मृतं॑ , रक्ष॑माणा ॥
मा नो॑ अग्ने स॒ख्या पित्र्या॑णि॒ प्र म॑र्षिष्ठा अ॒भि वि॒दुष्क॒विः सन् । नभो॒ न रू॒पं ज॑रि॒मा मि॑नाति पु॒रा तस्या॑ अ॒भिश॑स्ते॒रधी॑हि ॥
मा , नः॒ , अ॒ग्ने॒ , स॒ख्या , पित्र्या॑णि , प्र , म॒र्षि॒ष्ठाः॒ , अ॒भि , वि॒दुः , क॒विः , सन् । नभः॑ , न , रू॒पं , ज॒रि॒मा , मि॒ना॒ति॒ , पु॒रा , तस्याः॑ , अ॒भिऽश॑स्तेः , अधि॑ , इ॒हि॒ ॥
[७२] निकाव्येति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निस्त्रिष्टुप् |
नि काव्या॑ वे॒धसः॒ शश्व॑तस्क॒र्हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ । अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णां स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा॑ ॥
नि , काव्या॑ , वे॒धसः॑ , शश्व॑तः , कः॒ , हस्ते॑ , दधा॑नः , नर्या॑ , पु॒रूणि॑ । अ॒ग्निः , भु॒व॒त् , र॒यि॒ऽपतिः॑ , र॒यी॒णां , स॒त्रा , च॒क्रा॒णः , अ॒मृता॑नि , विश्वा॑ ॥
अ॒स्मे व॒त्सं परि॒ षंतं॒ न विं॑दन्नि॒च्छंतो॒ विश्वे॑ अ॒मृता॒ अमू॑राः । श्र॒म॒युवः॑ पद॒व्यो॑ धियं॒धास्त॒स्थुः प॒दे प॑र॒मे चार्व॒ग्नेः ॥
अ॒स्मे इति॑ , व॒त्सं , परि॑ , संतं॑ , न , विं॒द॒न् , इ॒च्छंतः॑ , विश्वे॑ , अ॒मृताः॑ , अमू॑राः । श्र॒म॒ऽयुवः॑ , प॒द॒ऽव्यः॑ , धि॒यं॒ऽधाः , त॒स्थुः , प॒दे , प॒र॒मे , चारु॑ , अ॒ग्नेः ॥
ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामिच्छुचिं॑ घृ॒तेन॒ शुच॑यः सप॒र्यान् । नामा॑नि चिद्दधिरे य॒ज्ञिया॒न्यसू॑दयंत त॒न्व१॒॑ः सुजा॑ताः ॥
ति॒स्रः , यत् , अ॒ग्ने॒ , श॒रदः॑ , त्वां , इत् , शुचिं॑ , घृ॒तेन॑ , शुच॑यः , स॒प॒र्यान् । नामा॑नि , चि॒त् , द॒धि॒रे॒ , य॒ज्ञिया॑नि , असू॑दयंत , त॒न्वः॑ , सुऽजा॑ताः ॥
आ रोद॑सी बृह॒ती वेवि॑दानाः प्र रु॒द्रिया॑ जभ्रिरे य॒ज्ञिया॑सः । वि॒दन्मर्तो॑ ने॒मधि॑ता चिकि॒त्वान॒ग्निं प॒दे प॑र॒मे त॑स्थि॒वांसं॑ ॥
आ , रोद॑सी॒ इति॑ , बृ॒ह॒ती इति॑ , वेवि॑दानाः॑ , प्र , रु॒द्रिया॑ , ज॒भ्रि॒रे॒ , य॒ज्ञिया॑सः । वि॒दत् , मर्तः॑ , ने॒मऽधि॑ता , चि॒कि॒त्वान् , अ॒ग्निं , प॒दे , प॒र॒मे , त॒स्थि॒ऽवांसं॑ ॥
सं॒जा॒ना॒ना उप॑ सीदन्नभि॒ज्ञु पत्नी॑वंतो नम॒स्यं॑ नमस्यन् । रि॒रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ स्वाः सखा॒ सख्यु॑र्नि॒मिषि॒ रक्ष॑माणाः ॥
सं॒ऽजा॒ना॒नाः , उप॑ , सी॒द॒न् , अ॒भि॒ऽज्ञु , पत्नी॑ऽवंतः , न॒म॒स्यं॑ , न॒म॒स्य॒न्निति॑ नमस्यन् । रि॒रि॒क्वांसः॑ , त॒न्वः॑ , कृ॒ण्व॒त॒ , स्वाः , सखा॑ , सख्युः॑ , नि॒ऽमिषि॑ , रक्ष॑माणाः ॥
त्रिः स॒प्त यद्गुह्या॑नि॒ त्वे इत्प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया॑सः । तेभी॑ रक्षंते अ॒मृतं॑ स॒जोषाः॑ प॒शूंच॑ स्था॒तॄंच॒रथं॑ च पाहि ॥
त्रिः , स॒प्त , यत् , गुह्या॑नि , त्वे इति॑ , इत् , प॒दा , अ॒वि॒द॒न् , निऽहि॑ता , य॒ज्ञिया॑सः । तेभिः॑ , र॒क्षं॒ते॒ , अ॒मृतं॑ , स॒ऽजोषाः॑ , प॒शून् , च॒ , स्था॒तॄन् , च॒रथं॑ , च॒ , पा॒हि॒ ॥
वि॒द्वाँ अ॑ग्ने व॒युना॑नि क्षिती॒नां व्या॑नु॒षक्छु॒रुधो॑ जी॒वसे॑ धाः । अं॒त॒र्वि॒द्वाँ अध्व॑नो देव॒याना॒नतं॑द्रो दू॒तो अ॑भवो हवि॒र्वाट् ॥
वि॒द्वान् , अ॒ग्ने॒ , व॒युना॑नि , क्षि॒ती॒नां , वि , आ॒नु॒षक् , शु॒रुधः॑ , जी॒वसे॑ , धाः॒ । अं॒तः॒ऽवि॒द्वान् , अध्व॑नः , दे॒व॒ऽयाना॑न् , अतं॑द्रः , दू॒तः , अ॒भ॒वः॒ , ह॒विः॒ऽवाट् ॥
स्वा॒ध्यो॑ दि॒व आ स॒प्त य॒ह्वी रा॒यो दुरो॒ व्यृ॑त॒ज्ञा अ॑जानन् । वि॒दद्गव्यं॑ स॒रमा॑ दृ॒ळ्हमू॒र्वं येना॒ नु कं॒ मानु॑षी॒ भोज॑ते॒ विट् ॥
सु॒ऽआ॒ध्यः॑ , दि॒वः , आ , स॒प्त , य॒ह्वीः , रा॒यः , दुरः॑ , वि , ऋ॒त॒ऽज्ञाः , अ॒जा॒न॒न् । वि॒दत् , गव्यं॑ , स॒रमा॑ , दृ॒ळ्हं , ऊ॒र्वं , येन॑ , नु , कं॒ , मानु॑षी , भोज॑ते , विट् ॥
आ ये विश्वा॑ स्वप॒त्यानि॑ त॒स्थुः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुं । म॒ह्ना म॒हद्भिः॑ पृथि॒वी वि त॑स्थे मा॒ता पु॒त्रैरदि॑ति॒र्धाय॑से॒ वेः ॥
आ , ये , विश्वा॑ , सु॒ऽअ॒प॒त्यानि॑ , त॒स्थुः , कृ॒ण्वा॒नासः॑ , अ॒मृ॒त॒ऽत्वाय॑ , गा॒तुं । म॒ह्ना , म॒हत्ऽभिः॑ , पृ॒थि॒वी , वि , त॒स्थे॒ , मा॒ता , पु॒त्रैः , अदि॑तिः , धाय॑से , वेरिति॒ वेः ॥
अधि॒ श्रियं॒ नि द॑धु॒श्चारु॑मस्मिंदि॒वो यद॒क्षी अ॒मृता॒ अकृ॑ण्वन् । अध॑ क्षरंति॒ सिंध॑वो॒ न सृ॒ष्टाः प्र नीची॑रग्ने॒ अरु॑षीरजानन् ॥
अधि॑ , श्रियं॑ , नि , द॒धुः॒ , चारुं॑ , अ॒स्मि॒न् , दि॒वः , यत् , अ॒क्षी इति॑ , अ॒मृताः॑ , अकृ॑ण्वन् । अध॑ , क्ष॒रं॒ति॒ , सिंध॑वः , न , सृ॒ष्टाः , प्र , नीचीः॑ , अ॒ग्ने॒ , अरु॑षीः , अ॒जा॒न॒न् ॥
[७३] रयिर्नेति दशर्चस्य सूक्तस्य शाक्त्यः पराशरोग्निस्त्रिष्टुप् |
र॒यिर्न यः पि॑तृवि॒त्तो व॑यो॒धाः सु॒प्रणी॑तिश्चिकि॒तुषो॒ न शासुः॑ । स्यो॒न॒शीरति॑थि॒र्न प्री॑णा॒नो होते॑व॒ सद्म॑ विध॒तो वि ता॑रीत् ॥
र॒यिः , न , यः , पि॒तृ॒ऽवि॒त्तः , व॒यः॒ऽधाः , सु॒ऽप्रनी॑तिः , चि॒कि॒तुषः॑ , न , शासुः॑ । स्यो॒न॒ऽशीः , अति॑थिः , न , प्री॒णा॒नः , होता॑ऽइव , सद्म॑ , वि॒ध॒तः , वि , ता॒री॒त् ॥
दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा॒ क्रत्वा॑ नि॒पाति॑ वृ॒जना॑नि॒ विश्वा॑ । पु॒रु॒प्र॒श॒स्तो अ॒मति॒र्न स॒त्य आ॒त्मेव॒ शेवो॑ दिधि॒षाय्यो॑ भूत् ॥
दे॒वः , न , यः , स॒वि॒ता , स॒त्यऽम॑न्मा , क्रत्वा॑ , नि॒ऽपाति॑ , वृ॒जना॑नि , विश्वा॑ । पु॒रु॒ऽप्र॒श॒स्तः , अ॒मतिः॑ , न , स॒त्यः , आ॒त्माऽइ॑व , शेवः॑ , दि॒धि॒षाय्यः॑ , भू॒त् ॥
दे॒वो न यः पृ॑थि॒वीं वि॒श्वधा॑या उप॒क्षेति॑ हि॒तमि॑त्रो॒ न राजा॑ । पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा अ॑नव॒द्या पति॑जुष्टेव॒ नारी॑ ॥
दे॒वः , न , यः , पृ॒थि॒वीं , वि॒श्वऽधा॑याः , उ॒प॒ऽक्षेति॑ , हि॒तऽमि॑त्रः , न , राजा॑ । पु॒रः॒ऽसदः॑ , श॒र्म॒ऽसदः॑ , न , वी॒राः , अ॒न॒व॒द्या , पति॑जुष्टाऽइव , नारी॑ ॥
तं त्वा॒ नरो॒ दम॒ आ नित्य॑मि॒द्धमग्ने॒ सचं॑त क्षि॒तिषु॑ ध्रु॒वासु॑ । अधि॑ द्यु॒म्नं नि द॑धु॒र्भूर्य॑स्मि॒न्भवा॑ वि॒श्वायु॑र्ध॒रुणो॑ रयी॒णां ॥
तं , त्वा॒ , नरः॑ , दमे॑ , आ , नित्यं॑ , इ॒द्धं , अग्ने॑ , सचं॑त , क्षि॒तिषु॑ , ध्रु॒वासु॑ । अधि॑ , द्यु॒म्नं , नि , द॒धुः॒ , भूरि॑ , अ॒स्मि॒न् , भव॑ , वि॒श्वऽआ॑युः , ध॒रुणः॑ , र॒यी॒णां ॥
वि पृक्षो॑ अग्ने म॒घवा॑नो अश्यु॒र्वि सू॒रयो॒ दद॑तो॒ विश्व॒मायुः॑ । स॒नेम॒ वाजं॑ समि॒थेष्व॒र्यो भा॒गं दे॒वेषु॒ श्रव॑से॒ दधा॑नाः ॥
वि , पृक्षः॑ , अ॒ग्ने॒ , म॒घऽवा॑नः , अ॒श्युः॒ , वि , सू॒रयः॑ , दद॑तः , विश्वं॑ , आयुः॑ । स॒नेम॑ , वाजं॑ , सं॒ऽइ॒थेषु॑ , अ॒र्यः , भा॒गं , दे॒वेषु॑ , श्रव॑से , दधा॑नाः ॥
ऋ॒तस्य॒ हि धे॒नवो॑ वावशा॒नाः स्मदू॑ध्नीः पी॒पयं॑त॒ द्युभ॑क्ताः । प॒रा॒वतः॑ सुम॒तिं भिक्ष॑माणा॒ वि सिंध॑वः स॒मया॑ सस्रु॒रद्रिं॑ ॥
ऋ॒तस्य॑ , हि , धे॒नवः॑ , वा॒व॒शा॒नाः , स्मत्ऽऊ॑ध्नीः , पी॒पयं॑त , द्युऽभ॑क्ताः । प॒रा॒ऽवतः॑ , सु॒ऽम॒तिं , भिक्ष॑माणाः , वि , सिंध॑वः , स॒मया॑ , स॒स्रुः॒ , अद्रिं॑ ॥
त्वे अ॑ग्ने सुम॒तिं भिक्ष॑माणा दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः । नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे कृ॒ष्णं च॒ वर्ण॑मरु॒णं च॒ सं धुः॑ ॥
त्वे इति॑ , अ॒ग्ने॒ , सु॒ऽम॒तिं , भिक्ष॑माणाः , दि॒वि , श्रवः॑ , द॒धि॒रे॒ , य॒ज्ञिया॑सः । नक्ता॑ , च॒ , च॒क्रुः , उ॒षसा॑ , विरू॑पे॒ इति॒ विऽरू॑पे , कृ॒ष्णं , च॒ , वर्णं॑ , अ॒रु॒णं , च॒ , सं , धु॒रिति॑ धुः ॥
यान्रा॒ये मर्तां॒त्सुषू॑दो अग्ने॒ ते स्या॑म म॒घवा॑नो व॒यं च॑ । छा॒येव॒ विश्वं॒ भुव॑नं सिसक्ष्यापप्रि॒वान्रोद॑सी अं॒तरि॑क्षं ॥
यान् , रा॒ये , मर्ता॑न् , सुसू॑दः , अ॒ग्ने॒ , ते , स्या॒म॒ , म॒घऽवा॑नः , व॒यं , च॒ । छा॒याऽइ॑व , विश्वं॑ , भुव॑नं , सि॒स॒क्षि॒ , आ॒प॒प्रि॒ऽवान् , रोद॑सी॒ इति॑ , अं॒तरि॑क्षं ॥
अर्व॑द्भिरग्ने॒ अर्व॑तो॒ नृभि॒र्नॄन्वी॒रैर्वी॒रान्व॑नुयामा॒ त्वोताः॑ । ई॒शा॒नासः॑ पितृवि॒त्तस्य॑ रा॒यो वि सू॒रयः॑ श॒तहि॑मा नो अश्युः ॥
अर्व॑त्ऽभिः , अ॒ग्ने॒ , अर्व॑तः , नृऽभिः॑ , नॄन् , वी॒रैः , वी॒रान् , व॒नु॒या॒म॒ , त्वाऽऊ॑ताः । ई॒शा॒नासः॑ , पि॒तृ॒ऽवि॒त्तस्य॑ , रा॒यः , वि , सू॒रयः॑ , श॒तऽहि॑माः , नः॒ , अ॒श्युः॒ ॥
ए॒ता ते॑ अग्न उ॒चथा॑नि वेधो॒ जुष्टा॑नि संतु॒ मन॑से हृ॒दे च॑ । श॒केम॑ रा॒यः सु॒धुरो॒ यमं॒ तेऽधि॒ श्रवो॑ दे॒वभ॑क्तं॒ दधा॑नाः ॥
ए॒ता , ते॒ , अ॒ग्ने॒ , उ॒चथा॑नि , वे॒धः॒ , जुष्टा॑नि , सं॒तु॒ , मन॑से , हृ॒दे , च॒ । श॒केम॑ , रा॒यः , सु॒ऽधुरः॑ , यमं॑ , ते॒ , अधि॑ , श्रवः॑ , दे॒वऽभ॑क्तं , दधा॑नाः ॥
[७४] उपप्रयंतइति नवर्चस्य सूक्तस्य राहूगणोगोतमोग्निर्गायत्री |
उ॒प॒प्र॒यंतो॑ अध्व॒रं मंत्रं॑ वोचेमा॒ग्नये॑ । आ॒रे अ॒स्मे च॑ शृण्व॒ते ॥
उ॒प॒ऽप्र॒यंतः॑ , अ॒ध्व॒रं , मंत्रं॑ , वो॒चे॒म॒ , अ॒ग्नये॑ । आ॒रे , अ॒स्मे इति॑ , च॒ , शृ॒ण्व॒ते ॥
यः स्नीहि॑तीषु पू॒र्व्यः सं॑जग्मा॒नासु॑ कृ॒ष्टिषु॑ । अर॑क्षद्दा॒शुषे॒ गयं॑ ॥
यः , स्नीहि॑तीषु , पू॒र्व्यः , सं॒ऽज॒ग्मा॒नासु॑ , कृ॒ष्टिषु॑ । अर॑क्षत् , दा॒शुषे॑ , गयं॑ ॥
उ॒त ब्रु॑वंतु जं॒तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि । ध॒नं॒ज॒यो रणे॑रणे ॥
उ॒त , ब्रु॒वं॒तु॒ , जं॒तवः॑ , उत् , अ॒ग्निः , वृ॒त्र॒ऽहा , अ॒ज॒नि॒ । ध॒नं॒ऽज॒यः , रणे॑ऽरणे ॥
यस्य॑ दू॒तो असि॒ क्षये॒ वेषि॑ ह॒व्यानि॑ वी॒तये॑ । द॒स्मत्कृ॒णोष्य॑ध्व॒रं ॥
यस्य॑ , दू॒तः , असि॑ , क्षये॑ , वेषि॑ , ह॒व्यानि॑ , वी॒तये॑ । द॒स्मत् , कृ॒णोषि॑ , अ॒ध्व॒रं ॥
तमित्सु॑ह॒व्यमं॑गिरः सुदे॒वं स॑हसो यहो । जना॑ आहुः सुब॒र्हिषं॑ ॥
तं , इत् , सु॒ऽह॒व्यं , अं॒गि॒रः॒ , सु॒ऽदे॒वं , स॒ह॒सः॒ , य॒हो॒ इति॑ । जनाः॑ , आ॒हुः॒ , सु॒ऽब॒र्हिषं॑ ॥
आ च॒ वहा॑सि॒ ताँ इ॒ह दे॒वाँ उप॒ प्रश॑स्तये । ह॒व्या सु॑श्चंद्र वी॒तये॑ ॥
आ , च॒ , वहा॑सि , तान् , इ॒ह , दे॒वान् , उप॑ , प्रऽश॑स्तये । ह॒व्या , सु॒ऽचं॒द्र॒ , वी॒तये॑ ॥
न योरु॑प॒ब्दिरश्व्यः॑ शृ॒ण्वे रथ॑स्य॒ कच्च॒न । यद॑ग्ने॒ यासि॑ दू॒त्यं॑ ॥
न , योः , उ॒प॒ब्दिः , अश्व्यः॑ , शृ॒ण्वे , रथ॑स्य , कत् , च॒न । यत् , अ॒ग्ने॒ , यासि॑ , दू॒त्यं॑ ॥
त्वोतो॑ वा॒ज्यह्र॑यो॒ऽभि पूर्व॑स्मा॒दप॑रः । प्र दा॒श्वाँ अ॑ग्ने अस्थात् ॥
त्वाऽऊ॑तः , वा॒जी , अह्र॑यः , अ॒भि , पूर्व॑स्मात् , अप॑रः । प्र , दा॒श्वान् , अ॒ग्ने॒ , अ॒स्था॒त् ॥
उ॒त द्यु॒मत्सु॒वीर्यं॑ बृ॒हद॑ग्ने विवाससि । दे॒वेभ्यो॑ देव दा॒शुषे॑ ॥
उ॒त , द्यु॒ऽमत् , सु॒ऽवीर्यं॑ , बृ॒हत् , अ॒ग्ने॒ , वि॒वा॒स॒सि॒ । दे॒वेभ्यः॑ , दे॒व॒ , दा॒शुषे॑ ॥
[७५] जुषस्वेति पंचर्चस्य सूक्तस्य राहूगणोगोतमोग्निर्गायत्री |
जु॒षस्व॑ स॒प्रथ॑स्तमं॒ वचो॑ दे॒वप्स॑रस्तमं । ह॒व्या जुह्वा॑न आ॒सनि॑ ॥
जु॒षस्व॑ , स॒प्रथः॑ऽतमं , वचः॑ , दे॒वप्स॑रःऽतमं । ह॒व्या , जुह्वा॑नः , आ॒सनि॑ ॥
अथा॑ ते अंगिरस्त॒माग्ने॑ वेधस्तम प्रि॒यं । वो॒चेम॒ ब्रह्म॑ सान॒सि ॥
अथ॑ , ते॒ , अं॒गि॒रः॒ऽत॒म॒ , अग्ने॑ , वे॒धः॒ऽत॒म॒ , प्रि॒यं । वो॒चेम॑ , ब्रह्म॑ , सा॒न॒सि ॥
कस्ते॑ जा॒मिर्जना॑ना॒मग्ने॒ को दा॒श्व॑ध्वरः । को ह॒ कस्मि॑न्नसि श्रि॒तः ॥
कः , ते॒ , जा॒मिः , जना॑नां , अग्ने॑ , कः , दा॒शुऽअ॑ध्वरः । कः , ह॒ , कस्मि॑न् , अ॒सि॒ , श्रि॒तः ॥
त्वं जा॒मिर्जना॑ना॒मग्ने॑ मि॒त्रो अ॑सि प्रि॒यः । सखा॒ सखि॑भ्य॒ ईड्यः॑ ॥
त्वं , जा॒मिः , जना॑नां , अग्ने॑ , मि॒त्रः , अ॒सि॒ , प्रि॒यः । सखा॑ , सखि॑ऽभ्यः , ईड्यः॑ ॥
यजा॑ नो मि॒त्रावरु॑णा॒ यजा॑ दे॒वाँ ऋ॒तं बृ॒हत् । अग्ने॒ यक्षि॒ स्वं दमं॑ ॥
यज॑ , नः॒ , मि॒त्रावरु॑णा , यज॑ , दे॒वान् , ऋ॒तं , बृ॒हत् । अग्ने॑ , यक्षि॑ , स्वं , दमं॑ ॥
[७६] कातइति पंचचस्य सूक्तस्य राहूगणोगोतमोग्निस्त्रिष्टुप् |
का त॒ उपे॑ति॒र्मन॑सो॒ वरा॑य॒ भुव॑दग्ने॒ शंत॑मा॒ का म॑नी॒षा । को वा॑ य॒ज्ञैः परि॒ दक्षं॑ त आप॒ केन॑ वा ते॒ मन॑सा दाशेम ॥
का , ते॒ , उप॑ऽइतिः , मन॑सः , वरा॑य , भुव॑त् , अ॒ग्ने॒ , शंऽत॑मा , का , म॒नी॒षा । कः , वा॒ , य॒ज्ञैः , परि॑ , दक्षं॑ , ते॒ , आ॒प॒ , केन॑ , वा॒ , ते॒ , मन॑सा , दा॒शे॒म॒ ॥
एह्य॑ग्न इ॒ह होता॒ नि षी॒दाद॑ब्धः॒ सु पु॑रए॒ता भ॑वा नः । अव॑तां त्वा॒ रोद॑सी विश्वमि॒न्वे यजा॑ म॒हे सौ॑मन॒साय॑ दे॒वान् ॥
आ , इ॒हि॒ , अ॒ग्ने॒ , इ॒ह , होता॑ , नि , सी॒द॒ , अद॑ब्धः , सु , पु॒रः॒ऽए॒ता , भ॒व॒ , नः॒ । अव॑तां , त्वा॒ , रोद॑सी॒ इति॑ , वि॒श्व॒मि॒न्वे इति॑ वि॒श्वं॒ऽइ॒न्वे , यज॑ , म॒हे , सौ॒म॒न॒साय॑ , दे॒वान् ॥
प्र सु विश्वा॑न्र॒क्षसो॒ धक्ष्य॑ग्ने॒ भवा॑ य॒ज्ञाना॑मभिशस्ति॒पावा॑ । अथा व॑ह॒ सोम॑पतिं॒ हरि॑भ्यामाति॒थ्यम॑स्मै चकृमा सु॒दाव्ने॑ ॥
प्र , सु , विश्वा॑न् , र॒क्षसः॑ , धक्षि॑ , अ॒ग्ने॒ , भव॑ , य॒ज्ञानां॑ , अ॒भि॒श॒स्ति॒ऽपावा॑ । अथ॑ , आ , व॒ह॒ , सोम॑ऽपतिं , हरि॑ऽभ्यां , आ॒ति॒थ्यं , अ॒स्मै॒ , च॒कृ॒म॒ , सु॒ऽदाव्ने॑ ॥
प्र॒जाव॑ता॒ वच॑सा॒ वह्नि॑रा॒सा च॑ हु॒वे नि च॑ सत्सी॒ह दे॒वैः । वेषि॑ हो॒त्रमु॒त पो॒त्रं य॑जत्र बो॒धि प्र॑यंतर्जनित॒र्वसू॑नां ॥
प्र॒जाऽव॑ता , वच॑सा , वह्निः॑ , आ॒सा , आ , च॒ , हु॒वे , नि , च॒ , स॒त्सि॒ , इ॒ह , दे॒वैः । वेषि॑ , हो॒त्रं , उ॒त , पो॒त्रं , य॒ज॒त्र॒ , बो॒धि , प्र॒ऽयं॒तः॒ , ज॒नि॒तः॒ , वसू॑नां ॥
यथा॒ विप्र॑स्य॒ मनु॑षो ह॒विर्भि॑र्दे॒वाँ अय॑जः क॒विभिः॑ क॒विः सन् । ए॒वा हो॑तः सत्यतर॒ त्वम॒द्याग्ने॑ मं॒द्रया॑ जु॒ह्वा॑ यजस्व ॥
यथा॑ , विप्र॑स्य , मनु॑षः , ह॒विःऽभिः॑ , दे॒वान् , अय॑जः , क॒विऽभिः॑ , क॒विः , सन् । ए॒व , हो॒त॒रिति॑ , स॒त्य॒ऽत॒र॒ , त्वं , अ॒द्य , अग्ने॑ , मं॒द्रया॑ , जु॒ह्वा॑ , य॒ज॒स्व॒ ॥
[७७] कथादाशेमेति पंचर्चस्य सूक्तस्य राहूगणोगोतमोग्निस्त्रिष्टुप्
क॒था दा॑शेमा॒ग्नये॒ कास्मै॑ दे॒वजु॑ष्टोच्यते भा॒मिने॒ गीः । यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॒ होता॒ यजि॑ष्ठ॒ इत्कृ॒णोति॑ दे॒वान् ॥
क॒था , दा॒शे॒म॒ , अ॒ग्नये॑ , का , अ॒स्मै॒ , दे॒वऽजु॑ष्टा , उ॒च्य॒ते॒ , भा॒मिने॑ , गीः । यः , मर्त्ये॑षु , अ॒मृतः॑ , ऋ॒तऽवा॑ , होता॑ , यजि॑ष्ठः , इत् , कृ॒णोति॑ , दे॒वान् ॥
यो अ॑ध्व॒रेषु॒ शंत॑म ऋ॒तावा॒ होता॒ तमू॒ नमो॑भि॒रा कृ॑णुध्वं । अ॒ग्निर्यद्वेर्मर्ता॑य दे॒वांत्स चा॒ बोधा॑ति॒ मन॑सा यजाति ॥
यः , अ॒ध्व॒रेषु॑ , शंऽत॑मः , ऋ॒तऽवा॑ , होता॑ , तं , ऊँ॒ इति॑ , नमः॑ऽभिः , आ , कृ॒णु॒ध्वं॒ । अ॒ग्निः , यत् , वेः , मर्ता॑य , दे॒वान् , सः , च॒ , बोधा॑ति , मन॑सा , य॒जा॒ति॒ ॥
स हि क्रतुः॒ स मर्यः॒ स सा॒धुर्मि॒त्रो न भू॒दद्भु॑तस्य र॒थीः । तं मेधे॑षु प्रथ॒मं दे॑व॒यंती॒र्विश॒ उप॑ ब्रुवते द॒स्ममारीः॑ ॥
सः , हि , क्रतुः॑ , सः , मर्यः॑ , सः , सा॒धुः , मि॒त्रः , न , भू॒त् , अद्भु॑तस्य , र॒थीः । तं , मेधे॑षु , प्र॒थ॒मं , दे॒व॒ऽयंत्ीः , विशः॑ , उप॑ , ब्रु॒व॒ते॒ , द॒स्मं , आरीः॑ ॥
स नो॑ नृ॒णां नृत॑मो रि॒शादा॑ अ॒ग्निर्गिरोऽव॑सा वेतु धी॒तिं । तना॑ च॒ ये म॒घवा॑नः॒ शवि॑ष्ठा॒ वाज॑प्रसूता इ॒षयं॑त॒ मन्म॑ ॥
सः , नः॒ , नृ॒णां , नृऽत॑मः , रि॒शादाः॑ , अ॒ग्निः , गिरः॑ , अव॑सा , वे॒तु॒ , धी॒तिं । तना॑ , च॒ , ये , म॒घऽवा॑नः , शवि॑ष्ठाः , वाज॑ऽप्रसूताः , इ॒षयं॑त , मन्म॑ ॥
ए॒वाग्निर्गोत॑मेभिर्ऋ॒तावा॒ विप्रे॑भिरस्तोष्ट जा॒तवे॑दाः । स ए॑षु द्यु॒म्नं पी॑पय॒त्स वाजं॒ स पु॒ष्टिं या॑ति॒ जोष॒मा चि॑कि॒त्वान् ॥
ए॒व , अ॒ग्निः , गोत॑मेभिः , ऋ॒तऽवा॑ , विप्रे॑भिः , अ॒स्तो॒ष्ट॒ , जा॒तऽवे॑दाः । सः , ए॒षु॒ , द्यु॒म्नं , पी॒प॒य॒त् , सः , वाजं॑ , सः , पु॒ष्टिं , या॒ति॒ , जोषं॑ , आ , चि॒कि॒त्वान् ॥
[७८] अभित्वेति पंचर्चस्य सूक्तस्य राहूगणोगोतमोग्निर्गायत्री |
अ॒भि त्वा॒ गोत॑मा गि॒रा जात॑वेदो॒ विच॑र्षणे । द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
अ॒भि , त्वा॒ , गोत॑माः , गि॒रा , जात॑ऽवेदः , विऽच॑र्षणे । द्यु॒म्नैः , अ॒भि , प्र , नो॒नु॒मः॒ ॥
तमु॑ त्वा॒ गोत॑मो गि॒रा रा॒यस्का॑मो दुवस्यति । द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
तं , ऊँ॒ इति॑ , त्वा॒ , गोत॑मः , गि॒रा , रा॒यःऽका॑मः , दु॒व॒स्य॒ति॒ । द्यु॒म्नैः , अ॒भि , प्र , नो॒नु॒मः॒ ॥
तमु॑ त्वा वाज॒सात॑ममंगिर॒स्वद्ध॑वामहे । द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
तं , ऊँ॒ इति॑ , त्वा॒ , वा॒ज॒ऽसात॑मं , अं॒गि॒र॒स्वत् , ह॒वा॒म॒हे॒ । द्यु॒म्नैः , अ॒भि , प्र , नो॒नु॒मः॒ ॥
तमु॑ त्वा वृत्र॒हंत॑मं॒ यो दस्यूँ॑रवधूनु॒षे । द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
तं , ऊँ॒ इति॑ , त्वा॒ , वृ॒त्र॒हन्ऽत॑मं , यः , दस्यू॑न् , अ॒व॒ऽधू॒नु॒षे । द्यु॒म्नैः , अ॒भि , प्र , नो॒नु॒मः॒ ॥
अवो॑चाम॒ रहू॑गणा अ॒ग्नये॒ मधु॑म॒द्वचः॑ । द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
अवो॑चाम , रहू॑गणाः , अ॒ग्नये॑ , मधु॑ऽमत् , वचः॑ । द्यु॒म्नैः , अ॒भि , प्र , नो॒नु॒मः॒ ॥
[७९] हिरण्यकेशइति द्वादशर्चस्य सूक्तस्य राहूगणो गोतमोग्निर्गायत्री आद्यास्तिस्रोस्त्रिष्टुभः ततस्तिस्रउष्णिह: (आद्यानांतिसृणांमध्यमोग्निः पार्थिवोवा) |
हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् । शुचि॑भ्राजा उ॒षसो॒ नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ॥
हिर॑ण्यऽकेशः , रज॑सः , वि॒ऽसा॒रे , अहिः॑ , धुनिः॑ , वातः॑ऽइव , ध्रजी॑मान् । शुचि॑ऽभ्राजाः , उ॒षसः॑ , नवे॑दाः , यश॑स्वतीः , अ॒प॒स्युवः॑ , न , स॒त्याः ॥
आ ते॑ सुप॒र्णा अ॑मिनंतँ॒ एवैः॑ कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दं । शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पतं॑ति॒ मिहः॑ स्त॒नयं॑त्य॒भ्रा ॥
आ , ते॒ , सु॒ऽप॒र्णाः , अ॒मि॒नं॒त॒ , एवैः॑ , कृ॒ष्णः , नो॒ना॒व॒ , वृ॒ष॒भः , यदि॑ , इ॒दं । शि॒वाभिः॑ , न , स्मय॑मानाभिः , आ , अ॒गा॒त् , पतं॑ति , मिहः॑ , स्त॒नयं॑ति , अ॒भ्रा ॥
यदी॑मृ॒तस्य॒ पय॑सा॒ पिया॑नो॒ नय॑न्नृ॒तस्य॑ प॒थिभी॒ रजि॑ष्ठैः । अ॒र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा॒ त्वचं॑ पृंचं॒त्युप॑रस्य॒ योनौ॑ ॥
यत् , ईं॒ , ऋ॒तस्य॑ , पय॑सा , पिया॑नः , नय॑न् , ऋ॒तस्य॑ , प॒थिऽभिः॑ , रजि॑ष्ठैः । अ॒र्य॒मा , मि॒त्रः , वरु॑णः , परि॑ऽज्मा , त्वचं॑ , पृं॒चं॒ति॒ , उप॑रस्य , योनौ॑ ॥
अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो । अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रवः॑ ॥
अग्ने॑ , वाज॑स्य , गोऽम॑तः , ईशा॑नः , स॒ह॒सः॒ , य॒हो॒ इति॑ । अ॒स्मे इति॑ , धे॒हि॒ , जा॒त॒ऽवे॒दः॒ , महि॑ , श्रवः॑ ॥
स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒ळेन्यो॑ गि॒रा । रे॒वद॒स्मभ्यं॑ पुर्वणीक दीदिहि ॥
सः , इ॒धा॒नः , वसुः॑ , क॒विः , अ॒ग्निः , ई॒ळेन्यः॑ , गि॒रा । रे॒वत् , अ॒स्मभ्यं॑ , पु॒रु॒ऽअ॒णी॒क॒ , दी॒दि॒हि॒ ॥
क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषसः॑ । स ति॑ग्मजंभ र॒क्षसो॑ दह॒ प्रति॑ ॥
क्ष॒पः , रा॒ज॒न् , उ॒त , त्मना॑ , अग्ने॑ , वस्तोः॑ , उ॒त , उ॒षसः॑ । सः , ति॒ग्म॒ऽजं॒भ॒ , र॒क्षसः॑ , द॒ह॒ , प्रति॑ ॥
अवा॑ नो अग्न ऊ॒तिभि॑र्गाय॒त्रस्य॒ प्रभ॑र्मणि । विश्वा॑सु धी॒षु वं॑द्य ॥
अव॑ , नः॒ , अ॒ग्ने॒ , ऊ॒तिऽभिः॑ , गा॒य॒त्रस्य॑ , प्रऽभ॑र्मणि । विश्वा॑सु , धी॒षु , वं॒द्य॒ ॥
आ नो॑ अग्ने र॒यिं भ॑र सत्रा॒साहं॒ वरे॑ण्यं । विश्वा॑सु पृ॒त्सु दु॒ष्टरं॑ ॥
आ , नः॒ , अ॒ग्ने॒ , र॒यिं , भ॒र॒ , स॒त्रा॒ऽसहं॑ , वरे॑ण्यं । विश्वा॑सु , पृ॒त्ऽसु , दु॒स्तरं॑ ॥
आ नो॑ अग्ने सुचे॒तुना॑ र॒यिं वि॒श्वायु॑पोषसं । मा॒र्डी॒कं धे॑हि जी॒वसे॑ ॥
आ , नः॒ , अ॒ग्ने॒ , सु॒ऽचे॒तुना॑ , र॒यिं , वि॒श्वायु॑ऽपोषसं । मा॒र्डी॒कं , धे॒हि॒ , जी॒वसे॑ ॥
प्र पू॒तास्ति॒ग्मशो॑चिषे॒ वाचो॑ गोतमा॒ग्नये॑ । भर॑स्व सुम्न॒युर्गिरः॑ ॥
प्र , पू॒ताः , ति॒ग्मऽशो॑चिषे , वाचः॑ , गो॒त॒म॒ , अ॒ग्नये॑ । भर॑स्व , सु॒म्न॒ऽयुः , गिरः॑ ॥
यो नो॑ अग्नेऽभि॒दास॒त्यंति॑ दू॒रे प॑दी॒ष्ट सः । अ॒स्माक॒मिद्वृ॒धे भ॑व ॥
यः , नः॒ , अ॒ग्ने॒ , अ॒भि॒ऽदास॑ति , अंति॑ , दू॒रे , प॒दी॒ष्ट , सः । अ॒स्माकं॑ , इत् , वृ॒धे , भ॒व॒ ॥
स॒ह॒स्रा॒क्षो विच॑र्षणिर॒ग्नी रक्षां॑सि सेधति । होता॑ गृणीत उ॒क्थ्यः॑ ॥
स॒ह॒स्र॒ऽअ॒क्षः , विऽच॑र्षणिः , अ॒ग्निः , रक्षां॑सि , से॒ध॒ति॒ । होता॑ , गृ॒णी॒ते॒ , उ॒क्थ्यः॑ ॥
[८०] इत्थाहीति षोडशर्चस्य सूक्तस्य राहूगणोगोतमइंद्रोंत्यायादद्ध्यङ्मनुरथर्वाचपंक्तिः |
इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नं । शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा॒ अहि॒मर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
इ॒त्था , हि , सोमे॑ , इत् , मदे॑ , ब्र॒ह्मा , च॒कार॑ , वर्ध॑नं । शवि॑ष्ठ , व॒ज्रि॒न् , ओज॑सा , पृ॒थि॒व्याः , निः , श॒शाः॒ , अहिं॑ , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
स त्वा॑मद॒द्वृषा॒ मदः॒ सोमः॑ श्ये॒नाभृ॑तः सु॒तः । येना॑ वृ॒त्रं निर॒द्भ्यो ज॒घंथ॑ वज्रि॒न्नोज॒सार्च॒न्ननु॑ स्व॒राज्यं॑ ॥
सः , त्वा॒ , अ॒म॒द॒त् , वृषा॑ , मदः॑ , सोमः॑ , श्ये॒नऽआ॑भृतः , सु॒तः । येन॑ , वृ॒त्रं , निः , अ॒त्ऽभ्यः , ज॒घंथ॑ , व॒ज्रि॒न् , ओज॑सा , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
प्रेह्य॒भी॑हि धृष्णु॒हि न ते॒ वज्रो॒ नि यं॑सते । इंद्र॑ नृ॒म्णं हि ते॒ शवो॒ हनो॑ वृ॒त्रं जया॑ अ॒पोऽर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
प्र , इ॒हि॒ , अ॒भि , इ॒हि॒ , धृ॒ष्णु॒हि , न , ते॒ , वज्रः॑ , नि , यं॒स॒ते॒ । इंद्र॑ , नृ॒म्णं , हि , ते॒ , शवः॑ , हनः॑ , वृ॒त्रं , जयाः॑ , अ॒पः , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
निरिं॑द्र॒ भूम्या॒ अधि॑ वृ॒त्रं ज॑घंथ॒ निर्दि॒वः । सृ॒जा म॒रुत्व॑ती॒रव॑ जी॒वध॑न्या इ॒मा अ॒पोऽर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
निः , इं॒द्र॒ , भूम्याः॑ , अधि॑ , वृ॒त्रं , ज॒घं॒थ॒ , निः , दि॒वः । सृ॒ज , म॒रुत्व॑तीः , अव॑ , जी॒वऽध॑न्याः , इ॒माः , अ॒पः , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
इंद्रो॑ वृ॒त्रस्य॒ दोध॑तः॒ सानुं॒ वज्रे॑ण हीळि॒तः । अ॒भि॒क्रम्याव॑ जिघ्नते॒ऽपः सर्मा॑य चो॒दय॒न्नर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
इंद्रः॑ , वृ॒त्रस्य॑ , दोध॑तः , सानुं॑ , वज्रे॑ण , ही॒ळि॒तः । अ॒भि॒ऽक्रम्य॑ , अव॑ , जि॒घ्न॒ते॒ , अ॒पः , सर्मा॑य , चो॒दय॑न् , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
अधि॒ सानौ॒ नि जि॑घ्नते॒ वज्रे॑ण श॒तप॑र्वणा । मं॒दा॒न इंद्रो॒ अंध॑सः॒ सखि॑भ्यो गा॒तुमि॑च्छ॒त्यर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
अधि॑ , सानौ॑ , नि , जि॒घ्न॒ते॒ , वज्रे॑ण , श॒तऽप॑र्वणा । मं॒दा॒नः , इंद्रः॑ , अंध॑सः , सखि॑ऽभ्यः , गा॒तुं , इ॒च्छ॒ति॒ , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
इंद्र॒ तुभ्य॒मिद॑द्रि॒वोऽनु॑त्तं वज्रिन्वी॒र्यं॑ । यद्ध॒ त्यं मा॒यिनं॑ मृ॒गं तमु॒ त्वं मा॒यया॑वधी॒रर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
इंद्र॑ , तुभ्यं॑ , इत् , अ॒द्रि॒ऽवः॒ , अनु॑त्तं , व॒ज्रि॒न् , वी॒र्यं॑ । यत् , ह॒ , त्यं , मा॒यिनं॑ , मृ॒गं , तं , ऊँ॒ इति॑ , त्वं , मा॒यया॑ , अ॒व॒धीः॒ , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
वि ते॒ वज्रा॑सो अस्थिरन्नव॒तिं ना॒व्या॒३॒॑ अनु॑ । म॒हत्त॑ इंद्र वी॒र्यं॑ बा॒ह्वोस्ते॒ बलं॑ हि॒तमर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
वि , ते॒ , वज्रा॑सः , अ॒स्थि॒र॒न् , न॒व॒तिं , ना॒व्याः॑ , अनु॑ । म॒हत् , ते॒ , इं॒द्र॒ , वी॒र्यं॑ , बा॒ह्वोः , ते॒ , बलं॑ , हि॒तं , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
स॒हस्रं॑ सा॒कम॑र्चत॒ परि॑ ष्टोभत विंश॒तिः । श॒तैन॒मन्व॑नोनवु॒रिंद्रा॑य॒ ब्रह्मोद्य॑त॒मर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
स॒हस्रं॑ , सा॒कं , अ॒र्च॒त॒ , परि॑ , स्तो॒भ॒त॒ , विं॒श॒तिः । श॒ता , ए॒नं॒ , अनु॑ , अ॒नो॒न॒वुः॒ , इंद्रा॑य , ब्रह्म॑ , उत्ऽय॑तं , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
इंद्रो॑ वृ॒त्रस्य॒ तवि॑षीं॒ निर॑हं॒त्सह॑सा॒ सहः॑ । म॒हत्तद॑स्य॒ पौंस्यं॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒दर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
इंद्रः॑ , वृ॒त्रस्य॑ , तवि॑षीं , निः , अ॒ह॒न् , सह॑सा , सहः॑ । म॒हत् , तत् , अ॒स्य॒ , पौंस्यं॑ , वृ॒त्रं , ज॒घ॒न्वान् , अ॒सृ॒ज॒त् , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
इ॒मे चि॒त्तव॑ म॒न्यवे॒ वेपे॑ते भि॒यसा॑ म॒ही । यदिं॑द्र वज्रि॒न्नोज॑सा वृ॒त्रं म॒रुत्वाँ॒ अव॑धी॒रर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
इ॒मे इति॑ , चि॒त् , तव॑ , म॒न्यवे॑ , वेपे॑ते॒ इति॑ , भि॒यसा॑ , म॒ही इति॑ । यत् , इं॒द्र॒ , व॒ज्रि॒न् , ओज॑सा , वृ॒त्रं , म॒रुत्वा॑न् , अव॑धीः , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
न वेप॑सा॒ न त॑न्य॒तेंद्रं॑ वृ॒त्रो वि बी॑भयत् । अ॒भ्ये॑नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्यं॑ ॥
न , वेप॑सा , न , त॒न्य॒ता , इंद्रं॑ , वृ॒त्रः , वि , बी॒भ॒य॒त् । अ॒भि , ए॒नं॒ , वज्रः॑ , आ॒य॒सः , स॒हस्र॑ऽभृष्टिः , आ॒या॒त॒ , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
यद्वृ॒त्रं तव॑ चा॒शनिं॒ वज्रे॑ण स॒मयो॑धयः । अहि॑मिंद्र॒ जिघां॑सतो दि॒वि ते॑ बद्बधे॒ शवोऽर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
यत् , वृ॒त्रं , तव॑ , च॒ , अ॒शनिं॑ , वज्रे॑ण , सं॒ऽअयो॑धयः । अहिं॑ , इं॒द्र॒ , जिघां॑सतः , दि॒वि , ते॒ , ब॒द्ब॒धे॒ , शवः॑ , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
अ॒भि॒ष्ट॒ने ते॑ अद्रिवो॒ यत्स्था जग॑च्च रेजते । त्वष्टा॑ चि॒त्तव॑ म॒न्यव॒ इंद्र॑ वेवि॒ज्यते॑ भि॒यार्च॒न्ननु॑ स्व॒राज्यं॑ ॥
अ॒भि॒ऽस्त॒ने , ते॒ , अ॒द्रि॒ऽवः॒ , यत् , स्थाः , जग॑त् , च॒ , रे॒ज॒ते॒ । त्वष्टा॑ , चि॒त् , तव॑ , म॒न्यवे॑ , इंद्र॑ , वे॒वि॒ज्यते॑ , भि॒या , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
न॒हि नु याद॑धी॒मसींद्रं॒ को वी॒र्या॑ प॒रः । तस्मि॑न्नृ॒म्णमु॒त क्रतुं॑ दे॒वा ओजां॑सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्यं॑ ॥
न॒हि , नु , यात् , अ॒धि॒ऽइ॒मसि॑ , इंद्रं॑ , कः , वी॒र्या॑ , प॒रः । तस्मि॑न् , नृ॒म्णं , उ॒त , क्रतुं॑ , दे॒वाः , ओजां॑सि , सं , द॒धुः॒ , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
यामथ॑र्वा॒ मनु॑ष्पि॒ता द॒ध्यङ्धिय॒मत्न॑त । तस्मि॒न्ब्रह्मा॑णि पू॒र्वथेंद्र॑ उ॒क्था सम॑ग्म॒तार्च॒न्ननु॑ स्व॒राज्यं॑ ॥
यां , अथ॑र्वा , मनुः॑ , पि॒ता , द॒ध्यङ् , धियं॑ , अत्न॑त । तस्मि॑न् , ब्रह्मा॑णि , पू॒र्वऽथा॑ , इंद्रे॑ , उ॒क्था , सं , अ॒ग्म॒त॒ , अर्च॑न् , अनु॑ , स्व॒ऽराज्यं॑ ॥
[८१] इंद्रोमदायेति नवर्चस्य सूक्तस्य राहूगणोगोतमइंद्रःपंक्तिः
इंद्रो॒ मदा॑य वावृधे॒ शव॑से वृत्र॒हा नृभिः॑ । तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे॑ हवामहे॒ स वाजे॑षु॒ प्र नो॑ऽविषत् ॥
इंद्रः॑ , मदा॑य , व॒वृ॒धे॒ , शव॑से , वृ॒त्र॒ऽहा , नृऽभिः॑ । तं , इत् , म॒हत्ऽसु॑ , आ॒जिषु॑ , उ॒त , ईं॒ , अर्भे॑ , ह॒वा॒म॒हे॒ , सः , वाजे॑षु , प्र , नः॒ , अ॒वि॒ष॒त् ॥
असि॒ हि वी॑र॒ सेन्योऽसि॒ भूरि॑ पराद॒दिः । असि॑ द॒भ्रस्य॑ चिद्वृ॒धो यज॑मानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ॥
असि॑ , हि , वी॒र॒ , सेन्यः॑ , असि॑ , भूरि॑ , प॒रा॒ऽद॒दिः । असि॑ , द॒भ्रस्य॑ , चि॒त् , वृ॒धः , यज॑मानाय , शि॒क्ष॒सि॒ , सु॒न्व॒ते , भूरि॑ , ते॒ , वसु॑ ॥
यदु॒दीर॑त आ॒जयो॑ धृ॒ष्णवे॑ धीयते॒ धना॑ । यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हनः॒ कं वसौ॑ दधो॒ऽस्माँ इं॑द्र॒ वसौ॑ दधः ॥
यत् , उ॒त्ऽईर॑ते , आ॒जयः॑ , धृ॒ष्णवे॑ , धी॒य॒ते॒ , धना॑ । यु॒क्ष्व , म॒द॒ऽच्युता॑ , हरी॒ इति॑ , कं , हनः॑ , कं , वसौ॑ , द॒धः॒ , अ॒स्मान् , इं॒द्र॒ , वसौ॑ , द॒धः॒ ॥
क्रत्वा॑ म॒हाँ अ॑नुष्व॒धं भी॒म आ वा॑वृधे॒ शवः॑ । श्रि॒य ऋ॒ष्व उ॑पा॒कयो॒र्नि शि॒प्री हरि॑वांदधे॒ हस्त॑यो॒र्वज्र॑माय॒सं ॥
क्रत्वा॑ , म॒हान् , अ॒नु॒ऽस्व॒धं , भी॒मः , आ , व॒वृ॒धे॒ , शवः॑ । श्रि॒ये , ऋ॒ष्वः , उ॒पा॒कयोः॑ , नि , शि॒प्री , हरि॑ऽवान् , द॒धे॒ , हस्त॑योः , वज्रं॑ , आ॒य॒सं ॥
आ प॑प्रौ॒ पार्थि॑वं॒ रजो॑ बद्ब॒धे रो॑च॒ना दि॒वि । न त्वावाँ॑ इंद्र॒ कश्च॒न न जा॒तो न ज॑निष्य॒तेऽति॒ विश्वं॑ ववक्षिथ ॥
आ , प॒प्रौ॒ , पार्थि॑वं , रजः॑ , ब॒द्ब॒धे , रो॒च॒ना , दि॒वि । न , त्वाऽवा॑न् , इं॒द्र॒ , कः , च॒न , न , जा॒तः , न , ज॒नि॒ष्य॒ते॒ , अति॑ , विश्वं॑ , व॒व॒क्षि॒थ॒ ॥
यो अ॒र्यो म॑र्त॒भोज॑नं परा॒ददा॑ति दा॒शुषे॑ । इंद्रो॑ अ॒स्मभ्यं॑ शिक्षतु॒ वि भ॑जा॒ भूरि॑ ते॒ वसु॑ भक्षी॒य तव॒ राध॑सः ॥
यः , अ॒र्यः , म॒र्त॒ऽभोज॑नं , प॒रा॒ऽददा॑ति , दा॒शुषे॑ । इंद्रः॑ , अ॒स्मभ्यं॑ , शि॒क्ष॒तु॒ , वि , भ॒ज॒ , भूरि॑ , ते॒ , वसु॑ , भ॒क्षी॒य , तव॑ , राध॑सः ॥
मदे॑मदे॒ हि नो॑ द॒दिर्यू॒था गवा॑मृजु॒क्रतुः॑ । सं गृ॑भाय पु॒रू श॒तोभ॑याह॒स्त्या वसु॑ शिशी॒हि रा॒य आ भ॑र ॥
मदे॑ऽमदे , हि , नः॒ , द॒दिः , यू॒था , गवां॑ , ऋ॒जु॒ऽक्रतुः॑ । सं , गृ॒भा॒य॒ , पु॒रु , श॒ता , उ॒भ॒या॒ह॒स्त्या , वसु॑ , शि॒शी॒हि , रा॒यः , आ , भ॒र॒ ॥
मा॒दय॑स्व सु॒ते सचा॒ शव॑से शूर॒ राध॑से । वि॒द्मा हि त्वा॑ पुरू॒वसु॒मुप॒ कामां॑त्ससृ॒ज्महेऽथा॑ नोऽवि॒ता भ॑व ॥
मा॒दय॑स्व , सु॒ते , सचा॑ , शव॑से , शू॒र॒ , राध॑से । वि॒द्म , हि , त्वा॒ , पु॒रु॒ऽवसुं॑ , उप॑ , कामा॑न् , स॒सृ॒ज्महे॑ , अथ॑ , नः॒ , अ॒वि॒ता , भ॒व॒ ॥
ए॒ते त॑ इंद्र जं॒तवो॒ विश्वं॑ पुष्यंति॒ वार्यं॑ । अं॒तर्हि ख्यो जना॑नाम॒र्यो वेदो॒ अदा॑शुषां॒ तेषां॑ नो॒ वेद॒ आ भ॑र ॥
ए॒ते , ते॒ , इं॒द्र॒ , जं॒तवः॑ , विश्वं॑ , पु॒ष्यं॒ति॒ , वार्यं॑ । अं॒तः , हि , ख्यः , जना॑नां , अ॒र्यः , वेदः॑ , अदा॑शुषां , तेषां॑ , नः॒ , वेदः॑ , आ , भ॒र॒ ॥
[८२] उपोष्विति षळर्चस्य सूक्तस्य राहूगणोगोतमइंद्रःपंक्तिरंत्याजगती
उपो॒ षु शृ॑णु॒ही गिरो॒ मघ॑व॒न्मात॑था इव । य॒दा नः॑ सू॒नृता॑वतः॒ कर॒ आद॒र्थया॑स॒ इद्योजा॒ न्विं॑द्र ते॒ हरी॑ ॥
उपो॒ इति॑ , सु , शृ॒णु॒हि , गिरः॑ , मघ॑ऽवन् , मा , अत॑थाःऽइव । य॒दा , नः॒ , सू॒नृता॑ऽवतः , करः॑ , आत् , अ॒र्थया॑से , इत् , योज॑ , नु , इं॒द्र॒ , ते॒ , हरी॒ इति॑ ॥
अक्ष॒न्नमी॑मदंत॒ ह्यव॑ प्रि॒या अ॑धूषत । अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्विं॑द्र ते॒ हरी॑ ॥
अक्ष॑न् , अमी॑मदंत , हि , अव॑ , प्रि॒याः , अ॒धू॒ष॒त॒ । अस्तो॑षत , स्वऽभा॑नवः , विप्राः॑ , नवि॑ष्ठया , म॒ती , योज॑ , नु , इं॒द्र॒ , ते॒ , हरी॒ इति॑ ॥
सु॒सं॒दृशं॑ त्वा व॒यं मघ॑वन्वंदिषी॒महि॑ । प्र नू॒नं पू॒र्णवं॑धुरः स्तु॒तो या॑हि॒ वशाँ॒ अनु॒ योजा॒ न्विं॑द्र ते॒ हरी॑ ॥
सु॒ऽसं॒दृशं॑ , त्वा॒ , व॒यं , मघ॑ऽवन् , वं॒दि॒षी॒महि॑ । प्र , नू॒नं , पू॒र्णऽवं॑धुरः , स्तु॒तः , या॒हि॒ , वशा॑न् , अनु॑ , योज॑ , नु , इं॒द्र॒ , ते॒ , हरी॒ इति॑ ॥
स घा॒ तं वृष॑णं॒ रथ॒मधि॑ तिष्ठाति गो॒विदं॑ । यः पात्रं॑ हारियोज॒नं पू॒र्णमिं॑द्र॒ चिके॑तति॒ योजा॒ न्विं॑द्र ते॒ हरी॑ ॥
सः , घ॒ , तं , वृष॑णं , रथं॑ , अधि॑ , ति॒ष्ठा॒ति॒ , गो॒ऽविदं॑ । यः , पात्रं॑ , हा॒रि॒ऽयो॒ज॒नं , पू॒र्णं , इं॒द्र॒ , चिके॑तति , योज॑ , नु , इं॒द्र॒ , ते॒ , हरी॒ इति॑ ॥
यु॒क्तस्ते॑ अस्तु॒ दक्षि॑ण उ॒त स॒व्यः श॑तक्रतो । तेन॑ जा॒यामुप॑ प्रि॒यां मं॑दा॒नो या॒ह्यंध॑सो॒ योजा॒ न्विं॑द्र ते॒ हरी॑ ॥
यु॒क्तः , ते॒ , अ॒स्तु॒ , दक्षि॑णः , उ॒त , स॒व्यः , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । तेन॑ , जा॒यां , उप॑ , प्रि॒यां , मं॒दा॒नः , या॒हि॒ , अंध॑सः , योज॑ , नु , इं॒द्र॒ , ते॒ , हरी॒ इति॑ ॥
यु॒नज्मि॑ ते॒ ब्रह्म॑णा के॒शिना॒ हरी॒ उप॒ प्र या॑हि दधि॒षे गभ॑स्त्योः । उत्त्वा॑ सु॒तासो॑ रभ॒सा अ॑मंदिषुः पूष॒ण्वान्व॑ज्रिं॒त्समु॒ पत्न्या॑मदः ॥
यु॒नज्मि॑ , ते॒ , ब्रह्म॑णा , के॒शिना॑ , हरी॒ इति॑ , उप॑ , प्र , या॒हि॒ , द॒धि॒षे , गभ॑स्त्योः । उत् , त्वा॒ , सु॒तासः॑ , र॒भ॒साः , अ॒मं॒दि॒षुः॒ , पू॒ष॒ण्ऽवान् , व॒ज्रि॒न् , सं , ऊँ॒ इति॑ , पत्न्या॑ , अ॒म॒दः॒ ॥
[८३] अश्वावतीतिषडृचस्य सूक्तस्य राहूगणोगोतमइंद्रोजगती
अश्वा॑वति प्रथ॒मो गोषु॑ गच्छति सुप्रा॒वीरिं॑द्र॒ मर्त्य॒स्तवो॒तिभिः॑ । तमित्पृ॑णक्षि॒ वसु॑ना॒ भवी॑यसा॒ सिंधु॒मापो॒ यथा॒भितो॒ विचे॑तसः ॥
अश्व॑ऽवति , प्र॒थ॒मः , गोषु॑ , ग॒च्च॒ति॒ , सु॒प्र॒ऽआ॒वीः , इं॒द्र॒ , मर्त्यः॑ , तव॑ , ऊ॒तिऽभिः॑ । तं , इत् , पृ॒ण॒क्षि॒ , वसु॑ना , भवी॑यसा , सिंधुं॑ , आपः॑ , यथा॑ , अ॒भितः॑ , विऽचे॑तसः ॥
आपो॒ न दे॒वीरुप॑ यंति हो॒त्रिय॑म॒वः प॑श्यंति॒ वित॑तं॒ यथा॒ रजः॑ । प्रा॒चैर्दे॒वासः॒ प्र ण॑यंति देव॒युं ब्र॑ह्म॒प्रियं॑ जोषयंते व॒रा इ॑व ॥
आपः॑ , न , दे॒वीः , उप॑ , यं॒ति॒ , हो॒त्रियं॑ , अ॒वः , प॒श्यं॒ति॒ , विऽत॑तं , यथा॑ , रजः॑ । प्रा॒चैः , दे॒वासः॑ , प्र , न॒यं॒ति॒ , दे॒व॒ऽयुं , ब्र॒ह्म॒ऽप्रियं॑ , जो॒ष॒यं॒ते॒ , व॒राःऽइ॑व ॥
अधि॒ द्वयो॑रदधा उ॒क्थ्यं१॒॑ वचो॑ य॒तस्रु॑चा मिथु॒ना या स॑प॒र्यतः॑ । असं॑यत्तो व्र॒ते ते॑ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ॥
अधि॑ , द्वयोः॑ , अ॒द॒धाः॒ , उ॒क्थ्यं॑ , वचः॑ , य॒तऽस्रु॑चा , मि॒थु॒ना , या , स॒प॒र्यतः॑ । असं॑ऽयत्तः , व्र॒ते , ते॒ , क्षे॒ति॒ , पुष्य॑ति , भ॒द्रा , श॒क्तिः , यज॑मानाय , सु॒न्व॒ते ॥
आदंगि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑यः॒ शम्या॒ ये सु॑कृ॒त्यया॑ । सर्वं॑ प॒णेः सम॑विंदंत॒ भोज॑न॒मश्वा॑वंतं॒ गोमं॑त॒मा प॒शुं नरः॑ ॥
आत् , अंगि॑राः , प्र॒थ॒मं , द॒धि॒रे॒ , वयः॑ , इ॒द्धऽअ॑ग्नयः , शम्या॑ , ये , सु॒ऽकृ॒त्यया॑ । सर्वं॑ , प॒णेः , सं , अ॒विं॒दं॒त॒ , भोज॑नं , अश्व॑ऽवंतं , गोऽमं॑तं , आ , प॒शुं , नरः॑ ॥
य॒ज्ञैरथ॑र्वा प्रथ॒मः प॒थस्त॑ते॒ ततः॒ सूर्यो॑ व्रत॒पा वे॒न आज॑नि । आ गा आ॑जदु॒शना॑ का॒व्यः सचा॑ य॒मस्य॑ जा॒तम॒मृतं॑ यजामहे ॥
य॒ज्ञैः , अथ॑र्वा , प्र॒थ॒मः , प॒थः , त॒ते॒ , ततः॑ , सूर्यः॑ , व्र॒त॒ऽपाः , वे॒नः , आ , अ॒ज॒नि॒ । आ , गाः , आ॒ज॒त् , उ॒शना॑ , का॒व्यः , सचा॑ , य॒मस्य॑ , जा॒तं , अ॒मृतं॑ , य॒जा॒म॒हे॒ ॥
ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि । ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्य१॒॑स्तस्येदिंद्रो॑ अभिपि॒त्वेषु॑ रण्यति ॥
ब॒र्हिः , वा॒ , यत् , सु॒ऽअ॒प॒त्याय॑ , वृ॒ज्यते॑ , अ॒र्कः , वा॒ , श्लोकं॑ , आ॒ऽघोष॑ते , दि॒वि । ग्रावा॑ , यत्र॑ , वद॑ति , का॒रुः , उ॒क्थ्यः॑ , तस्य॑ , इत् , इंद्रः॑ , अ॒भि॒ऽपि॒त्वेषु॑ , र॒ण्य॒ति॒ ॥
[८४] असावीति विंशत्यृचस्य सूक्तस्य राहूगणोगोतमइंद्रआद्याः षळनुष्टुभः सप्तम्याद्यास्तिस्रउष्णिहः दशम्याद्यास्तिस्रःपंक्त्यः त्रयोदशाद्यास्तिस्रो गायत्र्यः षोळश्याद्यास्तिस्रस्त्रिष्टुभः अंत्येद्वेबृहतीसतोबृहत्यौ
असा॑वि॒ सोम॑ इंद्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि । आ त्वा॑ पृणक्त्विंद्रि॒यं रजः॒ सूर्यो॒ न र॒श्मिभिः॑ ॥
असा॑वि , सोमः॑ , इं॒द्र॒ , ते॒ , शवि॑ष्ठ , धृ॒ष्णो॒ इति॑ , आ , ग॒हि॒ । आ , त्वा॒ , पृ॒ण॒क्तु॒ , इं॒द्रि॒यं , रजः॑ , सूर्यः॑ , न , र॒श्मिऽभिः॑ ॥
इंद्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसं । ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणां ॥
इंद्रं॑ , इत् , हरी॒ इति॑ , व॒ह॒तः॒ , अप्र॑तिधृष्टऽशवसं । ऋषी॑णां , च॒ , स्तु॒तीः , उप॑ , य॒ज्ञं , च॒ , मानु॑षाणां ॥
आ ति॑ष्ठ वृत्रह॒न्रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ । अ॒र्वा॒चीनं॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ॥
आ , ति॒ष्ठ॒ , वृ॒त्र॒ऽह॒न् , रथं॑ , यु॒क्ता , ते॒ , ब्रह्म॑णा , हरी॒ इति॑ । अ॒र्वा॒चीनं॑ , सु , ते॒ , मनः॑ , ग्रावा॑ , कृ॒णो॒तु॒ , व॒ग्नुना॑ ॥
इ॒ममिं॑द्र सु॒तं पि॑ब॒ ज्येष्ठ॒मम॑र्त्यं॒ मदं॑ । शु॒क्रस्य॑ त्वा॒भ्य॑क्षरं॒धारा॑ ऋ॒तस्य॒ साद॑ने ॥
इ॒मं , इं॒द्र॒ , सु॒तं , पि॒ब॒ , ज्येष्ठं॑ , अम॑र्त्यं , मदं॑ । शु॒क्रस्य॑ , त्वा॒ , अ॒भि , अ॒क्ष॒र॒न् , धाराः॑ , ऋ॒तस्य॑ , सद॑ने ॥
इंद्रा॑य नू॒नम॑र्चतो॒क्थानि॑ च ब्रवीतन । सु॒ता अ॑मत्सु॒रिंद॑वो॒ ज्येष्ठं॑ नमस्यता॒ सहः॑ ॥
इंद्रा॑य , नू॒नं , अ॒र्च॒त॒ , उ॒क्थानि॑ , च॒ , ब्र॒वी॒त॒न॒ । सु॒ताः , अ॒म॒त्सुः॒ , इंद॑वः , ज्येष्ठं॑ , न॒म॒स्य॒त॒ , सहः॑ ॥
नकि॒ष्ट्वद्र॒थीत॑रो॒ हरी॒ यदिं॑द्र॒ यच्छ॑से । नकि॒ष्ट्वानु॑ म॒ज्मना॒ नकिः॒ स्वश्व॑ आनशे ॥
नकिः॑ , त्वत् , र॒थिऽत॑रः , हरी॒ इति॑ , यत् , इं॒द्र॒ , यच्छ॑से । नकिः॑ , त्वा॒ , अनु॑ , म॒ज्मना॑ , नकिः॑ , सु॒ऽअश्वः॑ , आ॒न॒शे॒ ॥
य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ । ईशा॑नो॒ अप्र॑तिष्कुत॒ इंद्रो॑ अं॒ग ॥
यः , एकः॑ , इत् , वि॒ऽदय॑ते , वसु॑ , मर्ता॑य , दा॒शुषे॑ । ईशा॑नः , अप्र॑तिऽस्कुतः , इंद्रः॑ , अं॒ग ॥
क॒दा मर्त॑मरा॒धसं॑ प॒दा क्षुंप॑मिव स्फुरत् । क॒दा नः॑ शुश्रव॒द्गिर॒ इंद्रो॑ अं॒ग ॥
क॒दा , मर्तं॑ , अ॒रा॒धसं॑ , प॒दा , क्षुंपं॑ऽइव , स्फु॒र॒त् । क॒दा , नः॒ , शु॒श्र॒व॒त् , गिरः॑ , इंद्रः॑ , अं॒ग ॥
यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति । उ॒ग्रं तत्प॑त्यते॒ शव॒ इंद्रो॑ अं॒ग ॥
यः , चि॒त् , हि , त्वा॒ , ब॒हुऽभ्यः॑ , आ , सु॒तऽवा॑न् , आ॒ऽविवा॑सति । उ॒ग्रं , तत् , प॒त्य॒ते॒ , शवः॑ , इंद्रः॑ , अं॒ग ॥
स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्वः॑ पिबंति गौ॒र्यः॑ । या इंद्रे॑ण स॒याव॑री॒र्वृष्णा॒ मदं॑ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्यं॑ ॥
स्वा॒दोः , इ॒त्था , वि॒षु॒ऽवतः॑ , मध्वः॑ , पि॒बं॒ति॒ , गौ॒र्यः॑ । याः , इंद्रे॑ण , स॒ऽयाव॑रीः , वृष्णा॑ , मदं॑ति , शो॒भसे॑ , वस्वीः॑ , अनु॑ , स्व॒ऽराज्यं॑ ॥
ता अ॑स्य पृशना॒युवः॒ सोमं॑ श्रीणंति॒ पृश्न॑यः । प्रि॒या इंद्र॑स्य धे॒नवो॒ वज्रं॑ हिन्वंति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्यं॑ ॥
ताः , अ॒स्य॒ , पृ॒श॒न॒ऽयुवः॑ , सोमं॑ , श्री॒णं॒ति॒ , पृश्न॑यः । प्रि॒याः , इंद्र॑स्य , धे॒नवः॑ , वज्रं॑ , हि॒न्वं॒ति॒ , साय॑कं , वस्वीः॑ , अनु॑ , स्व॒ऽराज्यं॑ ॥
ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यंति॒ प्रचे॑तसः । व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्यं॑ ॥
ताः , अ॒स्य॒ , नम॑सा , सहः॑ , स॒प॒र्यंति॑ , प्रऽचे॑तसः । व्र॒तानि॑ , अ॒स्य॒ , स॒श्चि॒रे॒ , पु॒रूणि॑ , पू॒र्वऽचि॑त्तये , वस्वीः॑ , अनु॑ , स्व॒ऽराज्यं॑ ॥
इंद्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः । ज॒घान॑ नव॒तीर्नव॑ ॥
इंद्रः॑ , द॒धी॒चः , अ॒स्थऽभिः॑ , वृ॒त्राणि॑ , अप्र॑तिऽस्कुतः । ज॒घान॑ , न॒व॒तीः , नव॑ ॥
इ॒च्छन्नश्व॑स्य॒ यच्छिरः॒ पर्व॑ते॒ष्वप॑श्रितं । तद्वि॑दच्छर्य॒णाव॑ति ॥
इ॒च्छन् , अश्व॑स्य , यत् , शिरः॑ , पर्व॑तेषु , अप॑ऽश्रितं । तत् , वि॒द॒त् , श॒र्य॒णाऽव॑ति ॥
अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्यं॑ । इ॒त्था चं॒द्रम॑सो गृ॒हे ॥
अत्र॑ , अह॑ , गोः , अ॒म॒न्व॒त॒ , नाम॑ , त्वष्टुः॑ , अ॒पी॒च्यं॑ । इ॒त्था , चं॒द्रम॑सः , गृ॒हे ॥
को अ॒द्य युं॑क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् । आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ॥
कः , अ॒द्य , युं॒क्ते॒ , धु॒रि , गाः , ऋ॒तस्य॑ , शिमी॑ऽवतः , भा॒मिनः॑ , दुः॒ऽहृ॒णा॒यून् । आ॒सन्ऽइ॑षून् , हृ॒त्सु॒ऽअसः॑ , म॒यः॒ऽभून् , यः , ए॒षां॒ , भृ॒त्यां , ऋ॒णध॑त् , सः , जी॒वा॒त् ॥
क ई॑षते तु॒ज्यते॒ को बि॑भाय॒ को मं॑सते॒ संत॒मिंद्रं॒ को अंति॑ । कस्तो॒काय॒ क इभा॑यो॒त रा॒येऽधि॑ ब्रवत्त॒न्वे॒३॒॑ को जना॑य ॥
कः , ई॒ष॒ते॒ , तु॒ज्यते॑ , कः , बि॒भा॒य॒ , कः , मं॒स॒ते॒ , संतं॑ , इंद्रं॑ , कः , अंति॑ । कः , तो॒काय॑ , कः , इभा॑य , उ॒त , रा॒ये , अधि॑ , ब्र॒व॒त् , त॒न्वे॑ , कः , जना॑य ॥
को अ॒ग्निमी॑ट्टे ह॒विषा॑ घृ॒तेन॑ स्रु॒चा य॑जाता ऋ॒तुभि॑र्ध्रु॒वेभिः॑ । कस्मै॑ दे॒वा आ व॑हाना॒शु होम॒ को मं॑सते वी॒तिहो॑त्रः सुदे॒वः ॥
कः , अ॒ग्निं , ई॒ट्टे॒ , ह॒विषा॑ , घृ॒तेन॑ , स्रु॒चा , य॒जा॒तै॒ , ऋ॒तुऽभिः॑ , ध्रु॒वेभिः॑ । कस्मै॑ , दे॒वाः , आ , व॒हा॒न् , आ॒शु , होम॑ , कः , मं॒स॒ते॒ , वी॒तिऽहो॑त्रः , सु॒ऽदे॒वः ॥
त्वमं॒ग प्र शं॑सिषो दे॒वः श॑विष्ठ॒ मर्त्यं॑ । न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेंद्र॒ ब्रवी॑मि ते॒ वचः॑ ॥
त्वं , अं॒ग , प्र , शं॒सि॒षः॒ , दे॒वः , श॒वि॒ष्ठ॒ , मर्त्यं॑ । न , त्वत् , अ॒न्यः , म॒घ॒ऽव॒न् , अ॒स्ति॒ , म॒र्डि॒ता , इंद्र॑ , ब्रवी॑मि , ते॒ , वचः॑ ॥
मा ते॒ राधां॑सि॒ मा त॑ ऊ॒तयो॑ वसो॒ऽस्मान्कदा॑ च॒ना द॑भन् । विश्वा॑ च न उपमिमी॒हि मा॑नुष॒ वसू॑नि चर्ष॒णिभ्य॒ आ ॥
मा , ते॒ , राधां॑सि , मा , ते॒ , ऊ॒तयः॑ , व॒सो॒ इति॑ , अ॒स्मान् , कदा॑ , च॒न , द॒भ॒न् । विश्वा॑ , च॒ , नः॒ , उ॒प॒ऽमि॒मी॒हि , मा॒नु॒ष॒ , वसू॑नि , च॒र्ष॒णिऽभ्यः॑ , आ ॥
[८५] प्रयेशुंभंतइति द्वादशर्चस्य सूक्तस्य राहूगणोगोतमो मरुतो जगतीपंचम्यंत्येत्रिष्टुभौ |
प्र ये शुंभं॑ते॒ जन॑यो॒ न सप्त॑यो॒ याम॑न्रु॒द्रस्य॑ सू॒नवः॑ सु॒दंस॑सः । रोद॑सी॒ हि म॒रुत॑श्चक्रि॒रे वृ॒धे मदं॑ति वी॒रा वि॒दथे॑षु॒ घृष्व॑यः ॥
प्र , ये , शुंभं॑ते , जन॑यः , न , सप्त॑यः , याम॑न् , रु॒द्रस्य॑ , सू॒नवः॑ , सु॒ऽदंस॑सः । रोद॑सी॒ इति॑ , हि , म॒रुतः॑ , च॒क्रि॒रे , वृ॒धे , मदं॑ति , वी॒राः , वि॒दथे॑षु , घृष्व॑यः ॥
त उ॑क्षि॒तासो॑ महि॒मान॑माशत दि॒वि रु॒द्रासो॒ अधि॑ चक्रिरे॒ सदः॑ । अर्चं॑तो अ॒र्कं ज॒नयं॑त इंद्रि॒यमधि॒ श्रियो॑ दधिरे॒ पृश्नि॑मातरः ॥
ते , उ॒क्षि॒तासः॑ , म॒हि॒मानं॑ , आ॒श॒त॒ , दि॒वि , रु॒द्रासः॑ , अधि॑ , च॒क्रि॒रे॒ , सदः॑ । अर्चं॑तः , अ॒र्कं , ज॒नयं॑तः , इं॒द्रि॒यं , अधि॑ , श्रियः॑ , द॒धि॒रे॒ , पृश्नि॑ऽमातरः ॥
गोमा॑तरो॒ यच्छु॒भयं॑ते अं॒जिभि॑स्त॒नूषु॑ शु॒भ्रा द॑धिरे वि॒रुक्म॑तः । बाधं॑ते॒ विश्व॑मभिमा॒तिन॒मप॒ वर्त्मा॑न्येषा॒मनु॑ रीयते घृ॒तं ॥
गोऽमा॑तरः , यत् , शु॒भयं॑ते , अं॒जिऽभिः॑ , त॒नूषु॑ , शु॒भ्राः , द॒धि॒रे॒ , वि॒रुक्म॑तः । बाधं॑ते , विश्वं॑ , अ॒भि॒ऽमा॒तिनं॑ , अप॑ , वर्त्मा॑नि , ए॒षां॒ , अनु॑ , री॒य॒ते॒ , घृ॒तं ॥
वि ये भ्राजं॑ते॒ सुम॑खास ऋ॒ष्टिभिः॑ प्रच्या॒वयं॑तो॒ अच्यु॑ता चि॒दोज॑सा । म॒नो॒जुवो॒ यन्म॑रुतो॒ रथे॒ष्वा वृष॑व्रातासः॒ पृष॑ती॒रयु॑ग्ध्वं ॥
वि , ये , भ्राजं॑ते , सुऽम॑खासः , ऋ॒ष्टिऽभिः॑ , प्र॒ऽच्य॒वयं॑तः , अच्यु॑ता , चि॒त् , ओज॑सा । म॒नः॒ऽजुवः॑ , यत् , म॒रु॒तः॒ , रथे॑षु , आ , वृष॑ऽव्रातासः , पृष॑तीः , अयु॑ग्ध्वं ॥
प्र यद्रथे॑षु॒ पृष॑ती॒रयु॑ग्ध्वं॒ वाजे॒ अद्रिं॑ मरुतो रं॒हयं॑तः । उ॒तारु॒षस्य॒ वि ष्यं॑ति॒ धारा॒श्चर्मे॑वो॒दभि॒र्व्युं॑दंति॒ भूम॑ ॥
प्र , यत् , रथे॑षु , पृष॑तीः , अयु॑ग्ध्वं , वाजे॑ , अद्रिं॑ , म॒रु॒तः॒ , रं॒हयं॑तः । उ॒त , अ॒रु॒षस्य॑ , वि , स्यं॒ति॒ , धाराः॑ , चर्म॑ऽइव , उ॒दऽभिः॑ , वि , उं॒दं॒ति॒ , भूम॑ ॥
आ वो॑ वहंतु॒ सप्त॑यो रघु॒ष्यदो॑ रघु॒पत्वा॑नः॒ प्र जि॑गात बा॒हुभिः॑ । सीद॒ता ब॒र्हिरु॒रु वः॒ सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अंध॑सः ॥
आ , वः॒ , व॒हं॒तु॒ , सप्त॑यः , र॒घु॒ऽस्यदः॑ , र॒घु॒ऽपत्वा॑नः , प्र , जि॒गा॒त॒ , बा॒हुऽभिः॑ । सीद॑त , आ , ब॒र्हिः , उ॒रु , वः॒ , सदः॑ , कृ॒तं , मा॒दय॑ध्वं , म॒रु॒तः॒ , मध्वः॑ , अंध॑सः ॥
ते॑ऽवर्धंत॒ स्वत॑वसो महित्व॒ना नाकं॑ त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑ । विष्णु॒र्यद्धाव॒द्वृष॑णं मद॒च्युतं॒ वयो॒ न सी॑द॒न्नधि॑ ब॒र्हिषि॑ प्रि॒ये ॥
ते , अ॒व॒र्धं॒त॒ , स्वऽत॑वसः , म॒हि॒ऽत्व॒ना , आ , नाकं॑ , त॒स्थुः , उ॒रु , च॒क्रि॒रे॒ , सदः॑ । विष्णुः॑ , यत् , ह॒ , आव॑त् , वृष॑णं , म॒द॒ऽच्युतं॑ , वयः॑ , न , सी॒द॒न् , अधि॑ , ब॒र्हिषि॑ , प्रि॒ये ॥
शूरा॑ इ॒वेद्युयु॑धयो॒ न जग्म॑यः श्रव॒स्यवो॒ न पृत॑नासु येतिरे । भयं॑ते॒ विश्वा॒ भुव॑ना म॒रुद्भ्यो॒ राजा॑न इव त्वे॒षसं॑दृशो॒ नरः॑ ॥
शूराः॑ऽइव , इत् , युयु॑धयः , न , जग्म॑यः , श्र॒व॒स्यवः॑ , न , पृत॑नासु , ये॒ति॒रे॒ । भयं॑ते , विश्वा॑ , भुव॑ना , म॒रुत्ऽभ्यः॑ , राजा॑नःऽइव , त्वे॒षऽसं॑दृशः , नरः॑ ॥
त्वष्टा॒ यद्वज्रं॒ सुकृ॑तं हिर॒ण्ययं॑ स॒हस्र॑भृष्टिं॒ स्वपा॒ अव॑र्तयत् । ध॒त्त इंद्रो॒ नर्यपां॑सि॒ कर्त॒वेऽह॑न्वृ॒त्रं निर॒पामौ॑ब्जदर्ण॒वं ॥
त्वष्टा॑ , यत् , वज्रं॑ , सुऽकृ॑तं , हि॒र॒ण्ययं॑ , स॒हस्र॑ऽभृष्टिं , सु॒ऽअपाः॑ , अव॑र्तयत् । ध॒त्ते , इंद्रः॑ , नरि॑ , अपां॑सि , कर्त॑वे , अह॑न् , वृ॒त्रं , निः , अ॒पां , औ॒ब्ज॒त् , अ॒र्ण॒वं ॥
ऊ॒र्ध्वं नु॑नुद्रेऽव॒तं त ओज॑सा दादृहा॒णं चि॑द्बिभिदु॒र्वि पर्व॑तं । धमं॑तो वा॒णं म॒रुतः॑ सु॒दान॑वो॒ मदे॒ सोम॑स्य॒ रण्या॑नि चक्रिरे ॥
ऊ॒र्ध्वं , नु॒नु॒द्रे॒ , अ॒व॒तं , ते , ओज॑सा , द॒दृ॒हा॒णं , चि॒त् , बि॒भि॒दुः॒ , वि , पर्व॑तं । धमं॑तः , वा॒णं , म॒रुतः॑ , सु॒ऽदान॑वः , मदे॑ , सोम॑स्य , रण्या॑नि , च॒क्रि॒रे॒ ॥
जि॒ह्मं नु॑नुद्रेऽव॒तं तया॑ दि॒शासिं॑च॒न्नुत्सं॒ गोत॑माय तृ॒ष्णजे॑ । आ ग॑च्छंती॒मव॑सा चि॒त्रभा॑नवः॒ कामं॒ विप्र॑स्य तर्पयंत॒ धाम॑भिः ॥
जि॒ह्मं , नु॒नु॒द्रे॒ , अ॒व॒तं , तया॑ , दि॒शा , असिं॑चन् , उत्सं॑ , गोत॑माय , तृ॒ष्णऽजे॑ । आ , ग॒च्छं॒ति॒ , ईं॒ , अव॑सा , चि॒त्रऽभा॑नवः , कामं॑ , विप्र॑स्य , त॒र्प॒यं॒त॒ , धाम॑ऽभिः ॥
या वः॒ शर्म॑ शशमा॒नाय॒ संति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि यं॑त र॒यिं नो॑ धत्त वृषणः सु॒वीरं॑ ॥
या , वः॒ , शर्म॑ , श॒श॒मा॒नाय॑ , संति॑ , त्रि॒ऽधातू॑नि , दा॒शुषे॑ , य॒च्छ॒त॒ , अधि॑ । अ॒स्मभ्यं॑ , तानि॑ , म॒रु॒तः॒ , वि , यं॒त॒ , र॒यिं , नः॒ , ध॒त्त॒ , वृ॒ष॒णः॒ , सु॒ऽवीरं॑ ॥
[८६] मरुतोयस्येति दशर्चस्य सूक्तस्य राहूगणोगोतमो मरुतो गायत्री
मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जनः॑ ॥
मरु॑तः , यस्य॑ , हि , क्षये॑ , पा॒थ , दि॒वः , वि॒ऽम॒ह॒सः॒ । सः , सु॒ऽगो॒पात॑मः , जनः॑ ॥
य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नां । मरु॑तः शृणु॒ता हवं॑ ॥
य॒ज्ञैः , वा॒ , य॒ज्ञ॒ऽवा॒ह॒सः॒ , विप्र॑स्य , वा॒ , म॒ती॒नां । मरु॑तः , शृ॒णु॒त , हवं॑ ॥
उ॒त वा॒ यस्य॑ वा॒जिनोऽनु॒ विप्र॒मत॑क्षत । स गंता॒ गोम॑ति व्र॒जे ॥
उ॒त , वा॒ , यस्य॑ , वा॒जिनः॑ , अनु॑ , विप्रं॑ , अत॑क्षत । सः , गंता॑ , गोऽम॑ति , व्र॒जे ॥
अ॒स्य वी॒रस्य॑ ब॒र्हिषि॑ सु॒तः सोमो॒ दिवि॑ष्टिषु । उ॒क्थं मद॑श्च शस्यते ॥
अ॒स्य , वी॒रस्य॑ , ब॒र्हिषि॑ , सु॒तः , सोमः॑ , दिवि॑ष्टिषु । उ॒क्थं , मदः॑ , च॒ , श॒स्य॒ते॒ ॥
अ॒स्य श्रो॑षं॒त्वा भुवो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि । सूरं॑ चित्स॒स्रुषी॒रिषः॑ ॥
अ॒स्य , श्रो॒षं॒तु॒ , आ , भुवः॑ , विश्वाः॑ , यः , च॒र्ष॒णीः , अ॒भि । सूरं॑ , चि॒त् , स॒स्रुषीः॑ , इषः॑ ॥
पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यं । अवो॑भिश्चर्षणी॒नां ॥
पू॒र्वीभिः॑ , हि , द॒दा॒शि॒म , श॒रत्ऽभिः॑ , म॒रु॒तः॒ , व॒यं । अवः॑ऽभिः , च॒र्ष॒णी॒नां ॥
सु॒भगः॒ स प्र॑यज्यवो॒ मरु॑तो अस्तु॒ मर्त्यः॑ । यस्य॒ प्रयां॑सि॒ पर्ष॑थ ॥
सु॒ऽभगः॑ , सः , प्र॒ऽय॒ज्य॒वः॒ , मरु॑तः , अ॒स्तु॒ , मर्त्यः॑ । यस्य॑ , प्रयां॑सि , पर्ष॑थ ॥
श॒श॒मा॒नस्य॑ वा नरः॒ स्वेद॑स्य सत्यशवसः । वि॒दा काम॑स्य॒ वेन॑तः ॥
श॒श॒मा॒नस्य॑ , वा॒ , न॒रः॒ , स्वेद॑स्य , स॒त्य॒ऽश॒व॒सः॒ । वि॒द , काम॑स्य , वेन॑तः ॥
यू॒यं तत्स॑त्यशवस आ॒विष्क॑र्त महित्व॒ना । विध्य॑ता वि॒द्युता॒ रक्षः॑ ॥
यू॒यं , तत् , स॒त्य॒ऽश॒व॒सः॒ , आ॒विः , क॒र्त॒ , म॒हि॒ऽत्व॒ना । विध्य॑त , वि॒ऽद्युता॑ , रक्षः॑ ॥
गूह॑ता॒ गुह्यं॒ तमो॒ वि या॑त॒ विश्व॑म॒त्रिणं॑ । ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ॥
गूह॑त , गुह्यं॑ , तमः॑ , वि , या॒त॒ , विश्वं॑ , अ॒त्रिणं॑ । ज्योतिः॑ , क॒र्त॒ , यत् , उ॒श्मसि॑ ॥
[८७] प्रत्वक्षसइति षडृचस्य सूक्तस्य राहूगणोगोतमो मरुतोजगती
प्रत्व॑क्षसः॒ प्रत॑वसो विर॒प्शिनोऽना॑नता॒ अवि॑थुरा ऋजी॒षिणः॑ । जुष्ट॑तमासो॒ नृत॑मासो अं॒जिभि॒र्व्या॑नज्रे॒ के चि॑दु॒स्रा इ॑व॒ स्तृभिः॑ ॥
प्रऽत्व॑क्षसः , प्रऽत॑वसः , वि॒ऽर॒प्शिनः॑ , अना॑नताः , अवि॑थुराः , ऋ॒जी॒षिणः॑ । जुष्ट॑ऽतमासः , नृऽत॑मासः , अं॒जिऽभिः॑ , वि , आ॒न॒ज्रे॒ , के , चि॒त् , उ॒स्राऽइ॑व , स्तृऽभिः॑ ॥
उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वं य॒यिं वय॑ इव मरुतः॒ केन॑ चित्प॒था । श्चोतं॑ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ॥
उ॒प॒ऽह्व॒रेषु॑ , यत् , अचि॑ध्वं , य॒यिं , वयः॑ऽइव , म॒रु॒तः॒ , केन॑ , चि॒त् , प॒था । श्चोतं॑ति , कोशाः॑ , उप॑ , वः॒ , रथे॑षु , आ , घृ॒तं , उ॒क्ष॒त॒ , मधु॑ऽवर्णं , अर्च॑ते ॥
प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ युं॒जते॑ शु॒भे । ते क्री॒ळयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयंत॒ धूत॑यः ॥
प्र , ए॒षां॒ , अज्मे॑षु , वि॒थु॒राऽइ॑व , रे॒ज॒ते॒ , भूमिः॑ , यामे॑षु , यत् , ह॒ , युं॒जते॑ , शु॒भे । ते , क्री॒ळयः॑ , धुन॑यः , भ्राज॑त्ऽऋष्टयः , स्व॒यं , म॒हि॒ऽत्वं , प॒न॒यं॒त॒ , धूत॑यः ॥
स हि स्व॒सृत्पृष॑दश्वो॒ युवा॑ ग॒णो॒३॒॑ऽया ई॑शा॒नस्तवि॑षीभि॒रावृ॑तः । असि॑ स॒त्य ऋ॑ण॒यावाने॑द्यो॒ऽस्या धि॒यः प्रा॑वि॒ताथा॒ वृषा॑ ग॒णः ॥
सः , हि , स्व॒ऽसृत् , पृष॑त्ऽअश्वः , युवा॑ , ग॒णः , अ॒या , ई॒शा॒नः , तवि॑षीभिः , आऽवृ॑तः । असि॑ , स॒त्यः , ऋ॒ण॒ऽयावा॑ , अने॑द्यः , अ॒स्याः , धि॒यः , प्र॒ऽअ॒वि॒ता , अथ॑ , वृषा॑ , ग॒णः ॥
पि॒तुः प्र॒त्नस्य॒ जन्म॑ना वदामसि॒ सोम॑स्य जि॒ह्वा प्र जि॑गाति॒ चक्ष॑सा । यदी॒मिंद्रं॒ शम्यृक्वा॑ण॒ आश॒तादिन्नामा॑नि य॒ज्ञिया॑नि दधिरे ॥
पि॒तुः , प्र॒त्नस्य॑ , जन्म॑ना , व॒दा॒म॒सि॒ , सोम॑स्य , जि॒ह्वा , प्र , जि॒गा॒ति॒ , चक्ष॑सा । यत् , ईं॒ , इंद्रं॑ , शमि॑ , ऋक्वा॑णः , आश॑त , आत् , इत् , नामा॑नि , य॒ज्ञिया॑नि , द॒धि॒रे॒ ॥
श्रि॒यसे॒ कं भा॒नुभिः॒ सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ । ते वाशी॑मंत इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ॥
श्रि॒यसे॑ , कं , भा॒नुऽभिः॑ , सं , मि॒मि॒क्षि॒रे॒ , ते , र॒श्मिऽभिः॑ , ते , ऋक्व॑ऽभिः , सु॒ऽखा॒दयः॑ । ते , वाशी॑ऽमंतः , इ॒ष्मिणः॑ , अभी॑रवः , वि॒द्रे , प्रि॒यस्य॑ , मारु॑तस्य , धाम्नः॑ ॥
[८८] आविद्युन्मद्भिरिति षडृचस्य सूक्तस्य राहूगणोगोतमोमरुतस्त्रिष्टुप् आद्यांत्ये प्रस्तारपंक्तीपंचमीविराड्रूपा
आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः । आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ॥
आ , वि॒द्युन्म॑त्ऽभिः , म॒रु॒तः॒ , सु॒ऽअ॒र्कैः , रथे॑भिः , या॒त॒ , ऋ॒ष्टि॒मत्ऽभिः॑ , अश्व॑ऽपर्णैः । आ , वर्षि॑ष्ठया , नः॒ , इ॒षा , वयः॑ , न , प॒प्त॒त॒ , सु॒ऽमा॒याः॒ ॥
ते॑ऽरु॒णेभि॒र्वर॒मा पि॒शंगैः॑ शु॒भे कं यां॑ति रथ॒तूर्भि॒रश्वैः॑ । रु॒क्मो न चि॒त्रः स्वधि॑तीवान्प॒व्या रथ॑स्य जंघनंत॒ भूम॑ ॥
ते , अ॒रु॒णेभिः॑ , वरं॑ , आ , पि॒शंगैः॑ , शु॒भे , कं , यां॒ति॒ , र॒थ॒तूःऽभिः॑ , अश्वैः॑ । रु॒क्मः , न , चि॒त्रः , स्वधि॑तिऽवान् , प॒व्या , रथ॑स्य , जं॒घ॒नं॒त॒ , भूम॑ ॥
श्रि॒ये कं वो॒ अधि॑ त॒नूषु॒ वाशी॑र्मे॒धा वना॒ न कृ॑णवंत ऊ॒र्ध्वा । यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविद्यु॒म्नासो॑ धनयंते॒ अद्रिं॑ ॥
श्रि॒ये , कं , वः॒ , अधि॑ , त॒नूषु॑ , वाशीः॑ , मे॒धा , वना॑ , न , कृ॒ण॒वं॒ते॒ , ऊ॒र्ध्वा । यु॒ष्मभ्यं॑ , कं , म॒रु॒तः॒ , सु॒ऽजा॒ताः॒ , तु॒वि॒ऽद्यु॒म्नासः॑ , ध॒न॒यं॒ते॒ , अद्रिं॑ ॥
अहा॑नि॒ गृध्राः॒ पर्या व॒ आगु॑रि॒मां धियं॑ वार्का॒र्यां च॑ दे॒वीं । ब्रह्म॑ कृ॒ण्वंतो॒ गोत॑मासो अ॒र्कैरू॒र्ध्वं नु॑नुद्र उत्स॒धिं पिब॑ध्यै ॥
अहा॑नि , गृध्राः॑ , परि॑ , आ , वः॒ , आ , अ॒गुः॒ , इ॒मां , धियं॑ , वा॒र्का॒र्यां , च॒ , दे॒वीं । ब्रह्म॑ , कृ॒ण्वंतः॑ , गोत॑मासः , अ॒र्कैः , ऊ॒र्ध्वं , नु॒नु॒द्रे॒ , उ॒त्स॒ऽधिं , पिब॑ध्यै ॥
ए॒तत्त्यन्न योज॑नमचेति स॒स्वर्ह॒ यन्म॑रुतो॒ गोत॑मो वः । पश्य॒न्हिर॑ण्यचक्रा॒नयो॑दंष्ट्रान्वि॒धाव॑तो व॒राहू॑न् ॥
ए॒तत् , त्यत् , न , योज॑नं , अ॒चे॒ति॒ , स॒स्वः , ह॒ , यत् , म॒रु॒तः॒ , गोत॑मः , वः॒ । पश्य॑न् , हिर॑ण्यऽचक्रान् , अयः॑ऽदंष्ट्रान् , वि॒ऽधाव॑तः , व॒राहू॑न् ॥
ए॒षा स्या वो॑ मरुतोऽनुभ॒र्त्री प्रति॑ ष्टोभति वा॒घतो॒ न वाणी॑ । अस्तो॑भय॒द्वृथा॑सा॒मनु॑ स्व॒धां गभ॑स्त्योः ॥
ए॒षा , स्या , वः॒ , म॒रु॒तः॒ , अ॒नु॒ऽभ॒र्त्री , प्रति॑ , स्तो॒भ॒ति॒ , वा॒घतः॑ , न , वाणी॑ । अस्तो॑भयत् , वृथा॑ , आ॒सां॒ , अनु॑ , स्व॒धां , गभ॑स्त्योः ॥
[८९] आनोभद्राइति दशर्चस्य सूक्तस्य राहूगणोगोतमो विश्वेदेवास्त्रिष्टुप् आद्याः पंचसप्तमीच जगत्यः षष्ठीविराट्स्थाना (सूक्तभेदप्रयोगपक्षेतुआद्यानांचतसृणां विश्वेदेवाः ततएकस्याइंद्रापूषणौततश्चतसृणां विश्वेदेवाःततएकस्याअदितिः एवंदश) |
आ नो॑ भ॒द्राः क्रत॑वो यंतु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ । दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥
आ , नः॒ , भ॒द्राः , क्रत॑वः , यं॒तु॒ , वि॒श्वतः॑ , अद॑ब्धासः , अप॑रिऽइतासः , उ॒त्ऽभिदः॑ । दे॒वाः , नः॒ , यथा॑ , सदं॑ , इत् , वृ॒धे , अस॑न् , अप्र॑ऽआयुवः , र॒क्षि॒तारः॑ , दि॒वेऽदि॑वे ॥
दे॒वानां॑ भ॒द्रा सु॑म॒तिर्ऋ॑जूय॒तां दे॒वानां॑ रा॒तिर॒भि नो॒ नि व॑र्ततां । दे॒वानां॑ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्र ति॑रंतु जी॒वसे॑ ॥
दे॒वानां॑ , भ॒द्रा , सु॒ऽम॒तिः , ऋ॒जु॒ऽय॒तां , दे॒वानां॑ , रा॒तिः , अ॒भि , नः॒ , नि , व॒र्त॒तां॒ । दे॒वानां॑ , स॒ख्यं , उप॑ , से॒दि॒म॒ , व॒यं , दे॒वाः , नः॒ , आयुः॑ , प्र , ति॒रं॒तु॒ , जी॒वसे॑ ॥
तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिधं॑ । अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥
तान् , पूर्व॑या , नि॒ऽविदा॑ , हू॒म॒हे॒ , व॒यं , भगं॑ , मि॒त्रं , अदि॑तिं , दक्षं॑ , अ॒स्रिधं॑ । अ॒र्य॒मणं॑ , वरु॑णं , सोमं॑ , अ॒श्विना॑ , सर॑स्वती , नः॒ , सु॒ऽभगा॑ , मयः॑ , क॒र॒त् ॥
तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः । तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वं ॥
तत् , नः॒ , वातः॑ , म॒यः॒ऽभु , वा॒तु॒ , भे॒ष॒जं , तत् , मा॒ता , पृ॒थि॒वी , तत् , पि॒ता , द्यौः । तत् , ग्रावा॑णः , सो॒म॒ऽसुतः॑ , म॒यः॒ऽभुवः॑ , तत् , अ॒श्वि॒ना॒ , शृ॒णु॒तं॒ , धि॒ष्ण्या॒ , यु॒वं ॥
तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियंजि॒न्वमव॑से हूमहे व॒यं । पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥
तं , ईशा॑नं , जग॑तः , त॒स्थुषः॑ , पतिं॑ , धि॒यं॒ऽजि॒न्वं , अव॑से , हू॒म॒हे॒ , व॒यं । पू॒षा , नः॒ , यथा॑ , वेद॑सां , अस॑त् , वृ॒धे , र॒क्षि॒ता , पा॒युः , अद॑ब्धः , स्व॒स्तये॑ ॥
स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
स्व॒स्ति , नः॒ , इंद्रः॑ , वृ॒द्धऽश्र॑वाः , स्व॒स्ति , नः॒ , पू॒षा , वि॒श्वऽवे॑दाः । स्व॒स्ति , नः॒ , तार्क्ष्यः॑ , अरि॑ष्टऽनेमिः , स्व॒स्ति , नः॒ , बृह॒स्पतिः॑ , द॒धा॒तु॒ ॥
पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः । अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥
पृष॑त्ऽअश्वाः , म॒रुतः॑ , पृश्नि॑ऽमातरः , शु॒भं॒ऽयावा॑नः , वि॒दथे॑षु , जग्म॑यः । अ॒ग्नि॒ऽजि॒ह्वाः , मन॑वः , सूर॑ऽचक्षसः , विश्वे॑ , नः॒ , दे॒वाः , अव॑सा , आ , ग॒म॒न् , इ॒ह ॥
भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः । स्थि॒रैरंगै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ॥
भ॒द्रं , कर्णे॑भिः , शृ॒णु॒या॒म॒ , दे॒वाः॒ , भ॒द्रं , प॒श्ये॒म॒ , अ॒क्षऽभिः॑ , य॒ज॒त्राः॒ । स्थि॒रैः , अंगैः॑ , तु॒स्तु॒ऽवांसः॑ , त॒नूभिः॑ , वि , अ॒शे॒म॒ , दे॒वऽहि॑तं , यत् , आयुः॑ ॥
श॒तमिन्नु श॒रदो॒ अंति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूनां॑ । पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भवं॑ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गंतोः॑ ॥
श॒तं , इत् , नु , श॒रदः॑ , अंति॑ , दे॒वाः॒ , यत्र॑ , नः॒ , च॒क्र , ज॒रसं॑ , त॒नूनां॑ । पु॒त्रासः॑ , यत्र॑ , पि॒तरः॑ , भवं॑ति , मा , नः॒ , म॒ध्या , रि॒रि॒ष॒त॒ , आयुः॑ , गंतोः॑ ॥
अदि॑ति॒र्द्यौरदि॑तिरं॒तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिः॒ पंच॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वं ॥
अदि॑तिः , द्यौः , अदि॑तिः , अं॒तरि॑क्षं , अदि॑तिः , मा॒ता , सः , पि॒ता , सः , पु॒त्रः । विश्वे॑ , दे॒वाः , अदि॑तिः , पंच॑ , जनाः॑ , अदि॑तिः , जा॒तं , अदि॑तिः , जनि॑ऽत्वं ॥
[९०] ऋजुनीतीनइतिनवर्चस्य सूक्तस्य राहूगणोगोतमो विश्वेदेवागायत्री अंत्यानुष्टुप् (वैश्वदेवसूक्तेप्यस्मिन्भेदप्रयोगकरणाशक्यत्वान्नवानामपिविश्वेदेवाएव) |
ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् । अ॒र्य॒मा दे॒वैः स॒जोषाः॑ ॥
ऋ॒जु॒ऽनी॒ती , नः॒ , वरु॑णः , मि॒त्रः , न॒य॒तु॒ , वि॒द्वान् । अ॒र्य॒मा , दे॒वैः , स॒ऽजोषाः॑ ॥
ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः । व्र॒ता र॑क्षंते वि॒श्वाहा॑ ॥
ते , हि , वस्वः॑ , वस॑वानाः , ते , अप्र॑ऽमूराः , महः॑ऽभिः । व्र॒ता , र॒क्षं॒ते॒ , वि॒श्वाहा॑ ॥
ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः । बाध॑माना॒ अप॒ द्विषः॑ ॥
ते , अ॒स्मभ्यं॑ , शर्म॑ , यं॒स॒न् , अ॒मृताः॑ , मर्त्ये॑भ्यः । बाध॑मानाः , अप॑ , द्विषः॑ ॥
वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यंत्विंद्रो॑ म॒रुतः॑ । पू॒षा भगो॒ वंद्या॑सः ॥
वि , नः॒ , प॒थः , सु॒वि॒ताय॑ , चि॒यंतु॑ , इंद्रः॑ , म॒रुतः॑ । पू॒षा , भगः॑ , वंद्या॑सः ॥
उ॒त नो॒ धियो॒ गोअ॑ग्राः॒ पूष॒न्विष्ण॒वेव॑यावः । कर्ता॑ नः स्वस्ति॒मतः॑ ॥
उ॒त , नः॒ , धियः॑ , गोऽअ॑ग्राः , पूष॑न् , विष्णो॒ इति॑ , एव॑ऽयावः । कर्त॑ , नः॒ , स्व॒स्ति॒ऽमतः॑ ॥
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरंति॒ सिंध॑वः । माध्वी॑र्नः सं॒त्वोष॑धीः ॥
मधु॑ , वाताः॑ , ऋ॒त॒ऽय॒ते , मधु॑ , क्ष॒रं॒ति॒ , सिंध॑वः । माध्वीः॑ , नः॒ , सं॒तु॒ , ओष॑धीः ॥
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता ॥
मधु॑ , नक्तं॑ , उ॒त , उ॒षसः॑ , मधु॑ऽमत् , पार्थि॑वं , रजः॑ । मधु॑ , द्यौः , अ॒स्तु॒ , नः॒ , पि॒ता ॥
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवंतु नः ॥
मधु॑ऽमान् , नः॒ , वन॒स्पतिः॑ , मधु॑ऽमान् , अ॒स्तु॒ , सूर्यः॑ । माध्वीः॑ , गावः॑ , भ॒वं॒तु॒ , नः॒ ॥
शं नो॑ मि॒त्रः शं वरु॑णः॒ शं नो॑ भवत्वर्य॒मा । शं न॒ इंद्रो॒ बृह॒स्पतिः॒ शं नो॒ विष्णु॑रुरुक्र॒मः ॥
शं , नः॒ , मि॒त्रः , शं , वरु॑णः॒ , शं , नः॒ , भ॒व॒तु॒ , अ॒र्य॒मा । शं , नः॒ , इंद्रः॑ , बृह॒स्पतिः॑ , शं , नः॒ , विष्णुः॑ , उ॒रु॒ऽक्र॒मः ॥
[९१] त्वंसोमइति त्रयोविंशत्यृचस्य सूक्तस्य राहूगणोगोतमःसोमस्त्रिष्टुप् पंचम्यादिद्वादशगायत्र्यः सप्तदश्युष्णिक् |
त्वं सो॑म॒ प्र चि॑कितो मनी॒षा त्वं रजि॑ष्ठ॒मनु॑ नेषि॒ पंथां॑ । तव॒ प्रणी॑ती पि॒तरो॑ न इंदो दे॒वेषु॒ रत्न॑मभजंत॒ धीराः॑ ॥
त्वं , सो॒म॒ , प्र , चि॒कि॒तः॒ , म॒नी॒षा , त्वं , रजि॑ष्ठं , अनु॑ , ने॒षि॒ , पंथां॑ । तव॑ , प्रऽनी॑ती , पि॒तरः॑ , नः॒ , इं॒दो॒ इति॑ , दे॒वेषु॑ , रत्नं॑ , अ॒भ॒जं॒त॒ , धीराः॑ ॥
त्वं सो॑म॒ क्रतु॑भिः सु॒क्रतु॑र्भू॒स्त्वं दक्षैः॑ सु॒दक्षो॑ वि॒श्ववे॑दाः । त्वं वृषा॑ वृष॒त्वेभि॑र्महि॒त्वा द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षाः॑ ॥
त्वं , सो॒म॒ , क्रतु॑ऽभिः , सु॒ऽक्रतुः॑ , भूः॒ , त्वं , दक्षैः॑ , सु॒ऽदक्षः॑ , वि॒श्वऽवे॑दाः । त्वं , वृषा॑ , वृ॒ष॒ऽत्वेभिः॑ , म॒हि॒ऽत्वा , द्यु॒म्नेभिः॑ , द्यु॒म्नी , अ॒भ॒वः॒ , नृ॒ऽचक्षाः॑ ॥
राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ । शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥
राज्ञः॑ , नु , ते॒ , वरु॑णस्य , व्र॒तानि॑ , बृ॒हत् , ग॒भी॒रं , तव॑ , सो॒म॒ , धाम॑ । शुचिः॑ , त्वं , अ॒सि॒ , प्रि॒यः , न , मि॒त्रः , द॒क्षाय्यः॑ , अ॒र्य॒माऽइ॑व , अ॒सि॒ , सो॒म॒ ॥
या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । तेभि॑र्नो॒ विश्वैः॑ सु॒मना॒ अहे॑ळ॒न्राजं॑त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥
या , ते॒ , धामा॑नि , दि॒वि , या , पृ॒थि॒व्यां , या , पर्व॑तेषु , ओष॑धीषु , अ॒प्ऽसु । तेभिः॑ , नः॒ , विश्वैः॑ , सु॒ऽमनाः॑ , अहे॑ळन् , राज॑न् , सो॒म॒ , प्रति॑ , ह॒व्या , गृ॒भा॒य॒ ॥
त्वं सो॑मासि॒ सत्प॑ति॒स्त्वं राजो॒त वृ॑त्र॒हा । त्वं भ॒द्रो अ॑सि॒ क्रतुः॑ ॥
त्वं , सो॒म॒ , अ॒सि॒ , सत्ऽप॑तिः , त्वं , राजा॑ , उ॒त , वृ॒त्र॒ऽहा । त्वं , भ॒द्रः , अ॒सि॒ , क्रतुः॑ ॥
त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं॒ न म॑रामहे । प्रि॒यस्तो॑त्रो॒ वन॒स्पतिः॑ ॥
त्वं , च॒ , सो॒म॒ , नः॒ , वशः॑ , जी॒वातुं॑ , न , म॒रा॒म॒हे॒ । प्रि॒यऽस्तो॑त्रः , वन॒स्पतिः॑ ॥
त्वं सो॑म म॒हे भगं॒ त्वं यून॑ ऋताय॒ते । दक्षं॑ दधासि जी॒वसे॑ ॥
त्वं , सो॒म॒ , म॒हे , भगं॑ , त्वं , यूने॑ , ऋ॒त॒ऽय॒ते । दक्षं॑ , द॒धा॒सि॒ , जी॒वसे॑ ॥
त्वं नः॑ सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः । न रि॑ष्ये॒त्त्वाव॑तः॒ सखा॑ ॥
त्वं , नः॒ , सो॒म॒ , वि॒श्वतः॑ , रक्ष॑ , रा॒ज॒न् , अ॒घ॒ऽय॒तः । न , रि॒ष्ये॒त् , त्वाऽव॑तः , सखा॑ ॥
सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तयः॒ संति॑ दा॒शुषे॑ । ताभि॑र्नोऽवि॒ता भ॑व ॥
सोम॑ , याः , ते॒ , म॒यः॒ऽभुवः॑ , ऊ॒तयः॑ , संति॑ , दा॒शुषे॑ । ताभिः॑ , नः॒ , अ॒वि॒ता , भ॒व॒ ॥
इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि । सोम॒ त्वं नो॑ वृ॒धे भ॑व ॥
इ॒मं , य॒ज्ञं , इ॒दं , वचः॑ , जु॒जु॒षा॒णः , उ॒प॒ऽआग॑हि । सोम॑ , त्वं , नः॒ , वृ॒धे , भ॒व॒ ॥
सोम॑ गी॒र्भिष्ट्वा॑ व॒यं व॒र्धया॑मो वचो॒विदः॑ । सु॒मृ॒ळी॒को न॒ आ वि॑श ॥
सोम॑ , गीः॒ऽभिः , त्वा॒ , व॒यं , व॒र्धया॑मः , व॒चः॒ऽविदः॑ । सु॒ऽमृ॒ळी॒कः , नः॒ , आ , वि॒श॒ ॥
ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः । सु॒मि॒त्रः सो॑म नो भव ॥
ग॒य॒ऽस्फानः॑ , अ॒मी॒व॒ऽहा , व॒सु॒ऽवित् , पु॒ष्टि॒ऽवर्ध॑नः । सु॒ऽमि॒त्रः , सो॒म॒ , नः॒ , भ॒व॒ ॥
सोम॑ रारं॒धि नो॑ हृ॒दि गावो॒ न यव॑से॒ष्वा । मर्य॑ इव॒ स्व ओ॒क्ये॑ ॥
सोम॑ , र॒रं॒धि , नः॒ , हृ॒दि , गावः॑ , न , यव॑सेषु , आ । मर्यः॑ऽइव , स्वे , ओ॒क्ये॑ ॥
यः सो॑म स॒ख्ये तव॑ रा॒रण॑द्देव॒ मर्त्यः॑ । तं दक्षः॑ सचते क॒विः ॥
यः , सो॒म॒ , स॒ख्ये , तव॑ , र॒रण॑त् , दे॒व॒ , मर्त्यः॑ । तं , दक्षः॑ , स॒च॒ते॒ , क॒विः ॥
उ॒रु॒ष्या णो॑ अ॒भिश॑स्तेः॒ सोम॒ नि पा॒ह्यंह॑सः । सखा॑ सु॒शेव॑ एधि नः ॥
उ॒रु॒ष्य , नः॒ , अ॒भिऽश॑स्तेः , सोम॑ , नि , पा॒हि॒ , अंह॑सः । सखा॑ , सु॒ऽशेवः॑ , ए॒धि॒ , नः॒ ॥
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्यं॑ । भवा॒ वाज॑स्य संग॒थे ॥
आ , प्या॒य॒स्व॒ , सं , ए॒तु॒ , ते॒ , वि॒श्वतः॑ , सो॒म॒ , वृष्ण्यं॑ । भव॑ , वाज॑स्य , सं॒ऽग॒थे ॥
आ प्या॑यस्व मदिंतम॒ सोम॒ विश्वे॑भिरं॒शुभिः॑ । भवा॑ नः सु॒श्रव॑स्तमः॒ सखा॑ वृ॒धे ॥
आ , प्या॒य॒स्व॒ , म॒दि॒न्ऽत॒म॒ , सोम॑ , विश्वे॑भिः , अं॒शुऽभिः॑ । भव॑ , नः॒ , सु॒श्रवः॑ऽतमः , सखा॑ , वृ॒धे ॥
सं ते॒ पयां॑सि॒ समु॑ यंतु॒ वाजाः॒ सं वृष्ण्या॑न्यभिमाति॒षाहः॑ । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवां॑स्युत्त॒मानि॑ धिष्व ॥
सं , ते॒ , पयां॑सि , सं , ऊँ॒ इति॑ , यं॒तु॒ , वाजाः॑ , सं , वृष्ण्या॑नि , अ॒भि॒मा॒ति॒ऽसहः॑ । आ॒ऽप्याय॑मानः , अ॒मृता॑य , सो॒म॒ , दि॒वि , श्रवां॑सि , उ॒त्ऽत॒मानि॑ , धि॒ष्व॒ ॥
या ते॒ धामा॑नि ह॒विषा॒ यजं॑ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञं । ग॒य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ॥
या , ते॒ , धामा॑नि , ह॒विषा॑ , यजं॑ति , ता , ते॒ , विश्वा॑ , प॒रि॒ऽभूः , अ॒स्तु॒ , य॒ज्ञं । ग॒य॒ऽस्फानः॑ , प्र॒ऽतर॑णः , सु॒ऽवीरः॑ , अवी॑रऽहा , प्र , च॒र॒ , सो॒म॒ , दुर्या॑न् ॥
सोमो॑ धे॒नुं सोमो॒ अर्वं॑तमा॒शुं सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददाति । सा॒द॒न्यं॑ विद॒थ्यं॑ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ॥
सोमः॑ , धे॒नुं , सोमः॑ , अर्वं॑तं , आ॒शुं , सोमः॑ , वी॒रं , क॒र्म॒ण्यं॑ , द॒दा॒ति॒ । स॒द॒न्यं॑ , वि॒द॒थ्यं॑ , स॒भेयं॑ , पि॒तृ॒ऽश्रव॑णं , यः , ददा॑शत् , अ॒स्मै॒ ॥
अषा॑ळ्हं यु॒त्सु पृत॑नासु॒ पप्रिं॑ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पां । भ॒रे॒षु॒जां सु॑क्षि॒तिं सु॒श्रव॑सं॒ जयं॑तं॒ त्वामनु॑ मदेम सोम ॥
अषा॑ळ्हं , यु॒त्ऽसु , पृत॑नासु , पप्रिं॑ , स्वः॒ऽसां , अ॒प्सां , वृ॒जन॑स्य , गो॒पां । भ॒रे॒षु॒ऽजां , सु॒ऽक्षि॒तिं , सु॒ऽश्रव॑सं , जयं॑तं , त्वां , अनु॑ , म॒दे॒म॒ , सो॒म॒ ॥
त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः । त्वमा त॑तंथो॒र्व१॒॑न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ ॥
त्वं , इ॒माः , ओष॑धीः , सो॒म॒ , विश्वाः॑ , त्वं , अ॒पः , अ॒ज॒न॒यः॒ , त्वं , गाः । त्वं , आ , त॒तं॒थ॒ , उ॒रु , अं॒तरि॑क्षं , त्वं , ज्योति॑षा , वि , तमः॑ , व॒व॒र्थ॒ ॥
दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गं स॑हसावन्न॒भि यु॑ध्य । मा त्वा त॑न॒दीशि॑षे वी॒र्य॑स्यो॒भये॑भ्यः॒ प्र चि॑कित्सा॒ गवि॑ष्टौ ॥
दे॒वेन॑ , नः॒ , मन॑सा , दे॒व॒ , सो॒म॒ , रा॒यः , भा॒गं , स॒ह॒सा॒ऽव॒न् , अ॒भि , यु॒ध्य॒ । मा , त्वा॒ , आ , त॒न॒त् , ईशि॑षे , वी॒र्य॑स्य , उ॒भये॑भ्यः , प्र , चि॒कि॒त्स॒ , गोऽइ॑ष्टौ ॥
[९२] एताउत्याइत्यष्टादशर्चस्य सूक्तस्य राहूगणोगोतम उषाः अंत्यानां तिसृणामश्विनौ आद्याश्चतस्रोजगत्यः ततोष्टौत्रिष्टुभः अंत्याः षळुष्णिहः |
ए॒ता उ॒ त्या उ॒षसः॑ के॒तुम॑क्रत॒ पूर्वे॒ अर्धे॒ रज॑सो भा॒नुमं॑जते । नि॒ष्कृ॒ण्वा॒ना आयु॑धानीव धृ॒ष्णवः॒ प्रति॒ गावोऽरु॑षीर्यंति मा॒तरः॑ ॥
ए॒ताः , ऊँ॒ इति॑ , त्याः , उ॒षसः॑ , के॒तुं , अ॒क्र॒त॒ , पूर्वे॑ , अर्धे॑ , रज॑सः , भा॒नुं , अं॒ज॒ते॒ । निः॒ऽकृ॒ण्वा॒नाः , आयु॑धानिऽइव , धृ॒ष्णवः॑ , प्रति॑ , गावः॑ , अरु॑षीः , यं॒ति॒ , मा॒तरः॑ ॥
उद॑पप्तन्नरु॒णा भा॒नवो॒ वृथा॑ स्वा॒युजो॒ अरु॑षी॒र्गा अ॑युक्षत । अक्र॑न्नु॒षासो॑ व॒युना॑नि पू॒र्वथा॒ रुशं॑तं भा॒नुमरु॑षीरशिश्रयुः ॥
उत् , अ॒प॒प्त॒न् , अ॒रु॒णाः , भा॒नवः॑ , वृथा॑ , सु॒ऽआ॒युजः॑ , अरु॑षीः , गाः , अ॒यु॒क्ष॒त॒ । अक्र॑न् , उ॒षसः॑ , व॒युना॑नि , पू॒र्वऽथा॑ , रुशं॑तं , भा॒नुं , अरु॑षीः , अ॒शि॒श्र॒युः॒ ॥
अर्चं॑ति॒ नारी॑र॒पसो॒ न वि॒ष्टिभिः॑ समा॒नेन॒ योज॑ने॒ना प॑रा॒वतः॑ । इषं॒ वहं॑तीः सु॒कृते॑ सु॒दान॑वे॒ विश्वेदह॒ यज॑मानाय सुन्व॒ते ॥
अर्चं॑ति , नारीः॑ , अ॒पसः॑ , न , वि॒ष्टिऽभिः॑ , स॒मा॒नेन॑ , योज॑नेन , आ , प॒रा॒ऽवतः॑ । इषं॒ , वहं॑तीः , सु॒ऽकृते॑ , सु॒ऽदान॑वे , विश्वा॑ , इत् , अह॑ , यज॑मानाय , सु॒न्व॒ते ॥
अधि॒ पेशां॑सि वपते नृ॒तूरि॒वापो॑र्णुते॒ वक्ष॑ उ॒स्रेव॒ बर्ज॑हं । ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृण्व॒ती गावो॒ न व्र॒जं व्यु१॒॑षा आ॑व॒र्तमः॑ ॥
अधि॑ , पेशां॑सि , व॒प॒ते॒ , नृ॒तूःऽइ॑व , अप॑ , ऊ॒र्णु॒ते॒ , वक्षः॑ , उ॒स्राऽइ॑व , बर्ज॑हं । ज्योतिः॑ , विश्व॑स्मै , भुव॑नाय , कृ॒ण्व॒ती , गावः॑ , न , व्र॒जं , वि , उ॒षाः , आ॒व॒रित्या॑वः , तमः॑ ॥
प्रत्य॒र्ची रुश॑दस्या अदर्शि॒ वि ति॑ष्ठते॒ बाध॑ते कृ॒ष्णमभ्वं॑ । स्वरुं॒ न पेशो॑ वि॒दथे॑ष्वं॒जंचि॒त्रं दि॒वो दु॑हि॒ता भा॒नुम॑श्रेत् ॥
प्रति॑ , अ॒र्चिः , रुश॑त् , अ॒स्याः॒ , अ॒द॒र्शि॒ , वि , ति॒ष्ठ॒ते॒ , बाध॑ते , कृ॒ष्णं , अभ्वं॑ । स्वरुं॑ , न , पेशः॑ , वि॒दथे॑षु , अं॒जन् , चि॒त्रं , दि॒वः , दु॒हि॒ता , भा॒नुं , अ॒श्रे॒त् ॥
अता॑रिष्म॒ तम॑सस्पा॒रम॒स्योषा उ॒च्छंती॑ व॒युना॑ कृणोति । श्रि॒ये छंदो॒ न स्म॑यते विभा॒ती सु॒प्रती॑का सौमन॒साया॑जीगः ॥
अता॑रिष्म , तम॑सः , पा॒रं , अ॒स्य , उ॒षाः , उ॒च्छंती॑ , व॒युना॑ , कृ॒णो॒ति॒ । श्रि॒ये , छंदः॑ , न , स्म॒य॒ते॒ , वि॒ऽभा॒ती , सु॒ऽप्रती॑का , सौ॒म॒न॒साय॑ , अ॒जी॒ग॒रिति॑ ॥
भास्व॑ती ने॒त्री सू॒नृता॑नां दि॒वः स्त॑वे दुहि॒ता गोत॑मेभिः । प्र॒जाव॑तो नृ॒वतो॒ अश्व॑बुध्या॒नुषो॒ गोअ॑ग्राँ॒ उप॑ मासि॒ वाजा॑न् ॥
भास्व॑ती , ने॒त्री , सू॒नृता॑नां , दि॒वः , स्त॒वे॒ , दु॒हि॒ता , गोत॑मेभिः । प्र॒जाऽव॑तः , नृ॒ऽवतः॑ , अश्व॑ऽबुध्यान् , उषः॑ , गोऽअ॑ग्रान् , उप॑ , मा॒सि॒ , वाजा॑न् ॥
उष॒स्तम॑श्यां य॒शसं॑ सु॒वीरं॑ दा॒सप्र॑वर्गं र॒यिमश्व॑बुध्यं । सु॒दंस॑सा॒ श्रव॑सा॒ या वि॒भासि॒ वाज॑प्रसूता सुभगे बृ॒हंतं॑ ॥
उषः॑ , तं , अ॒श्यां , य॒शसं॑ , सु॒ऽवीरं॑ , दा॒सऽप्र॑वर्गं , र॒यिं , अश्व॑ऽबुध्यं । सु॒ऽदंस॑सा , श्रव॑सा , या , वि॒ऽभासि॑ , वाज॑ऽप्रसूता , सु॒ऽभ॒गे॒ , बृ॒हंतं॑ ॥
विश्वा॑नि दे॒वी भुव॑नाभि॒चक्ष्या॑ प्रती॒ची चक्षु॑रुर्वि॒या वि भा॑ति । विश्वं॑ जी॒वं च॒रसे॑ बो॒धयं॑ती॒ विश्व॑स्य॒ वाच॑मविदन्मना॒योः ॥
विश्वा॑नि , दे॒वी , भुव॑ना , अ॒भि॒ऽचक्ष्य॑ , प्र॒ती॒ची , चक्षुः॑ , उ॒र्वि॒या , वि , भा॒ति॒ । विश्वं॑ , जी॒वं , च॒रसे॑ , बो॒धयं॑ती , विश्व॑स्य , वाचं॑ , अ॒वि॒द॒त् , म॒ना॒योः ॥
पुनः॑पुन॒र्जाय॑माना पुरा॒णी स॑मा॒नं वर्ण॑म॒भि शुंभ॑माना । श्व॒घ्नीव॑ कृ॒त्नुर्विज॑ आमिना॒ना मर्त॑स्य दे॒वी ज॒रयं॒त्यायुः॑ ॥
पुनः॑ऽपुनः , जाय॑माना , पु॒रा॒णी , स॒मा॒नं , वर्णं॑ , अ॒भि , शुंभ॑माना । श्व॒घ्नीऽइ॑व , कृ॒त्नुः , विजः॑ , आ॒ऽमि॒ना॒ना , मर्त॑स्य , दे॒वी , ज॒रयं॑ती , आयुः॑ ॥
व्यू॒र्ण्व॒ती दि॒वो अंताँ॑ अबो॒ध्यप॒ स्वसा॑रं सनु॒तर्यु॑योति । प्र॒मि॒न॒ती म॑नु॒ष्या॑ यु॒गानि॒ योषा॑ जा॒रस्य॒ चक्ष॑सा॒ वि भा॑ति ॥
वि॒ऽऊ॒र्ण्व॒ती , दि॒वः , अंता॑न् , अ॒बो॒धि॒ , अप॑ , स्वसा॑रं , स॒नु॒तः , यु॒यो॒ति॒ । प्र॒ऽमि॒न॒ती , म॒नु॒ष्या॑ , यु॒गानि॑ , योषा॑ , जा॒रस्य॑ , चक्ष॑सा , वि , भा॒ति॒ ॥
प॒शून्न चि॒त्रा सु॒भगा॑ प्रथा॒ना सिंधु॒र्न क्षोद॑ उर्वि॒या व्य॑श्वैत् । अमि॑नती॒ दैव्या॑नि व्र॒तानि॒ सूर्य॑स्य चेति र॒श्मिभि॑र्दृशा॒ना ॥
प॒शून् , न , चि॒त्रा , सु॒ऽभगा॑ , प्र॒था॒ना , सिंधुः॑ , न , क्षोदः॑ , उ॒र्वि॒या , वि , अ॒श्वै॒त् । अमि॑नती , दैव्या॑नि , व्र॒तानि॑ , सूर्य॑स्य , चे॒ति॒ , र॒श्मिऽभिः॑ , दृ॒शा॒ना ॥
उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति । येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥
उषः॑ , तत् , चि॒त्रं , आ , भ॒र॒ , अ॒स्मभ्यं॑ , वा॒जि॒नी॒ऽव॒ति॒ । येन॑ , तो॒कं , च॒ , तन॑यं , च॒ , धाम॑हे ॥
उषो॑ अ॒द्येह गो॑म॒त्यश्वा॑वति विभावरि । रे॒वद॒स्मे व्यु॑च्छ सूनृतावति ॥
उषः॑ , अ॒द्य , इ॒ह , गो॒ऽम॒ति॒ , अश्व॑ऽवति , वि॒भा॒ऽव॒रि॒ । रे॒वत् , अ॒स्मे इति॑ , वि , उ॒च्छ॒ , सू॒नृ॒ता॒ऽव॒ति॒ ॥
यु॒क्ष्वा हि वा॑जिनीव॒त्यश्वाँ॑ अ॒द्यारु॒णाँ उ॑षः । अथा॑ नो॒ विश्वा॒ सौभ॑गा॒न्या व॑ह ॥
यु॒क्ष्व , हि , वा॒जि॒नी॒ऽव॒ति॒ , अश्वा॑न् , अ॒द्य , अ॒रु॒णान् , उ॒षः॒ । अथ॑ , नः॒ , विश्वा॑ , सौभ॑गानि , आ , व॒ह॒ ॥
अश्वि॑ना व॒र्तिर॒स्मदा गोम॑द्दस्रा॒ हिर॑ण्यवत् । अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं ॥
अश्वि॑ना , व॒र्तिः , अ॒स्मत् , आ , गोऽम॑त् , द॒स्रा॒ , हिर॑ण्यऽवत् । अ॒र्वाक् , रथं॑ , सऽम॑नसा , नि , य॒च्छ॒तं॒ ॥
यावि॒त्था श्लोक॒मा दि॒वो ज्योति॒र्जना॑य च॒क्रथुः॑ । आ न॒ ऊर्जं॑ वहतमश्विना यु॒वं ॥
यौ , इ॒त्था , श्लोकं॑ , आ , दि॒वः , ज्योतिः॑ , जना॑य , च॒क्रथुः॑ । आ , नः॒ , ऊर्जं॑ , व॒ह॒तं॒ , अ॒श्वि॒ना॒ , यु॒वं ॥
एह दे॒वा म॑यो॒भुवा॑ द॒स्रा हिर॑ण्यवर्तनी । उ॒ष॒र्बुधो॑ वहंतु॒ सोम॑पीतये ॥
आ , इ॒ह , दे॒वा , म॒यः॒ऽभुवा॑ , द॒स्रा , हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । उ॒षः॒ऽबुधः॑ , व॒हं॒तु॒ , सोम॑ऽपीतये ॥
[९३] अग्नीषोमाविति द्वादशर्चस्य सूक्तस्य राहूगणोगोतमोग्नीषोमौत्रिष्टुप् आद्यास्तिस्रोनुष्टुभोष्टमीजगतीवा नवम्यादितिस्रोगायत्र्यः |
अग्नी॑षोमावि॒मं सु मे॑ शृणु॒तं वृ॑षणा॒ हवं॑ । प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मयः॑ ॥
अग्नी॑षोमौ , इ॒मं , सु , मे॒ , शृ॒णु॒तं , वृ॒ष॒णा॒ , हवं॑ । प्रति॑ , सु॒ऽउ॒क्तानि॑ , ह॒र्य॒तं॒ , भव॑तं , दा॒शुषे॑ , मयः॑ ॥
अग्नी॑षोमा॒ यो अ॒द्य वा॑मि॒दं वचः॑ सप॒र्यति॑ । तस्मै॑ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्यं॑ ॥
अग्नी॑षोमा , यः , अ॒द्य , वां॒ , इ॒दं , वचः॑ , स॒प॒र्यति॑ । तस्मै॑ , ध॒त्तं॒ , सु॒ऽवीर्यं॑ , गवां॑ , पोषं॑ , सु॒ऽअश्व्यं॑ ॥
अग्नी॑षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा॑द्ध॒विष्कृ॑तिं । स प्र॒जया॑ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ॥
अग्नी॑षोमा , यः , आऽहु॑तिं , यः , वां॒ , दाशा॑त् , ह॒विःऽकृ॑तिं । सः , प्र॒ऽजया॑ , सु॒ऽवीर्यं॑ , विश्वं॑ , आयुः॑ , वि , अ॒श्न॒व॒त् ॥
अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यं॑ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः । अवा॑तिरतं॒ बृस॑यस्य॒ शेषोऽविं॑दतं॒ ज्योति॒रेकं॑ ब॒हुभ्यः॑ ॥
अग्नी॑षोमा , चेति॑ , तत् , वी॒र्यं॑ , वां॒ , यत् , अमु॑ष्णीतं , अ॒व॒सं , प॒णिं , गाः । अव॑ , अ॒ति॒र॒तं॒ , बृस॑यस्य , शेषः॑ , अविं॑दतं , ज्योतिः॑ , एकं॑ , ब॒हुऽभ्यः॑ ॥
यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तं । यु॒वं सिंधूँ॑र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमुं॑चतं गृभी॒तान् ॥
यु॒वं , ए॒तानि॑ , दि॒वि , रो॒च॒नानि॑ , अ॒ग्निः , च॒ , सो॒म॒ , सक्र॑तू॒ इति॒ सऽक्र॑तू , अ॒ध॒त्तं॒ । यु॒वं , सिंधू॑न् , अ॒भिऽश॑स्तेः , अ॒व॒द्यात् , अग्नी॑षोमौ , अमुं॑चतं , गृ॒भी॒तान् ॥
आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रेः॑ । अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ॥
आ , अ॒न्यं , दि॒वः , मा॒त॒रिश्वा॑ , ज॒भा॒र॒ , अम॑थ्नात् , अ॒न्यं , परि॑ , श्ये॒नः , अद्रेः॑ । अग्नी॑षोमा , ब्रह्म॑णा , व॒वृ॒धा॒ना , उ॒रुं , य॒ज्ञाय॑ , च॒क्र॒थुः॒ , ऊँ॒ इति॑ , लो॒कं ॥
अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथां॑ । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः ॥
अग्नी॑षोमा , ह॒विषः॑ , प्रऽस्थि॑तस्य , वी॒तं , हर्य॑तं , वृ॒ष॒णा॒ , जु॒षेथां॑ । सु॒ऽशर्मा॑णा , सु॒ऽअव॑सा , हि , भू॒तं , अथ॑ , ध॒त्तं॒ , यज॑मानाय , शं , योः ॥
यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्याद्दे॑व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ । तस्य॑ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतं ॥
यः , अ॒ग्नीषोमा॑ , ह॒विषा॑ , स॒प॒र्यात् , दे॒व॒द्रीचा॑ , मन॑सा , यः , घृ॒तेन॑ । तस्य॑ , व्र॒तं , र॒क्ष॒तं॒ , पा॒तं , अंह॑सः , वि॒शे , जना॑य , महि॑ , शर्म॑ , य॒च्छ॒तं॒ ॥
अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिरः॑ । सं दे॑व॒त्रा ब॑भूवथुः ॥
अग्नी॑षोमा , सऽवे॑दसा , सहू॑ती॒ इति॒ सऽहू॑ती , व॒न॒तं॒ , गिरः॑ । सं , दे॒व॒ऽत्रा , ब॒भू॒व॒थुः॒ ॥
अग्नी॑षोमाव॒नेन॑ वां॒ यो वां॑ घृ॒तेन॒ दाश॑ति । तस्मै॑ दीदयतं बृ॒हत् ॥
अग्नी॑षोमौ , अ॒नेन॑ , वां॒ , यः , वां॒ , घृ॒तेन॑ , दाश॑ति । तस्मै॑ , दी॒द॒य॒तं॒ , बृ॒हत् ॥
अग्नी॑षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतं । आ या॑त॒मुप॑ नः॒ सचा॑ ॥
अग्नी॑षोमौ , इ॒मानि॑ , नः॒ , यु॒वं , ह॒व्या , जु॒जो॒ष॒तं॒ । आ , या॒तं॒ , उप॑ , नः॒ , सचा॑ ॥
अग्नी॑षोमा पिपृ॒तमर्व॑तो न॒ आ प्या॑यंतामु॒स्रिया॑ हव्य॒सूदः॑ । अ॒स्मे बला॑नि म॒घव॑त्सु धत्तं कृणु॒तं नो॑ अध्व॒रं श्रु॑ष्टि॒मंतं॑ ॥
अग्नी॑षोमा , पि॒पृ॒तं , अर्व॑तः , नः॒ , आ , प्या॒यं॒तां॒ , उ॒स्रियाः॑ , ह॒व्य॒ऽसूदः॑ । अ॒स्मे इति॑ , बला॑नि , म॒घव॑त्ऽसु , ध॒त्तं॒ , कृ॒णु॒तं , नः॒ , अ॒ध्व॒रं , श्रु॒ष्टि॒ऽमंतं॑ ॥
[९४] इमंस्तोममिति षोडशर्चस्य सूक्तस्य कुत्सोग्निः पूर्वोदेवाइत्यस्यादेवाअग्निश्च तन्नोमित्र इत्यंत्यार्धर्चस्यमित्रवरुणादिति सिंधुपृथिवीद्यावोजगती अंत्येत्रिष्टुभौ | (यद्दैवत्यंवा सूक्तमितिपक्षेऽग्निरेवदेवता) |
इ॒मं स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया॑ । भ॒द्रा हि नः॒ प्रम॑तिरस्य सं॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
इ॒मं , स्तोमं॑ , अर्ह॑ते , जा॒तऽवे॑दसे , रथं॑ऽइव , सं , म॒हे॒म॒ , म॒नी॒षया॑ । भ॒द्रा , हि , नः॒ , प्रऽम॑तिः , अ॒स्य॒ , सं॒ऽसदि॑ , अग्ने॑ , स॒ख्ये , मा , रि॒षा॒म॒ , व॒यं , तव॑ ॥
यस्मै॒ त्वमा॒यज॑से॒ स सा॑धत्यन॒र्वा क्षे॑ति॒ दध॑ते सु॒वीर्यं॑ । स तू॑ताव॒ नैन॑मश्नोत्यंह॒तिरग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
यस्मै॑ , त्वं , आ॒ऽयज॑से , सः , सा॒ध॒ति॒ , अ॒न॒र्वा , क्षे॒ति॒ , दध॑ते , सु॒ऽवीर्यं॑ । सः , तू॒ता॒व॒ , न , ए॒नं॒ , अ॒श्नो॒ति॒ , अं॒ह॒तिः , अग्ने॑ , स॒ख्ये , मा , रि॒षा॒म॒ , व॒यं , तव॑ ॥
श॒केम॑ त्वा स॒मिधं॑ सा॒धया॒ धिय॒स्त्वे दे॒वा ह॒विर॑दं॒त्याहु॑तं । त्वमा॑दि॒त्याँ आ व॑ह॒ तान्ह्यु१॒॑श्मस्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
श॒केम॑ , त्वा॒ , सं॒ऽइधं॑ , सा॒धय॑ , धियः॑ , त्वे॒ इति॑ , दे॒वाः , ह॒विः , अ॒दं॒ति॒ , आऽहु॑तं । त्वं , आ॒दि॒त्यान् , आ , व॒ह॒ , तान् , हि , उ॒श्मसि॑ , अग्ने॑ , स॒ख्ये , मा , रि॒षा॒म॒ , व॒यं , तव॑ ॥
भरा॑मे॒ध्मं कृ॒णवा॑मा ह॒वींषि॑ ते चि॒तयं॑तः॒ पर्व॑णापर्वणा व॒यं । जी॒वात॑वे प्रत॒रं सा॑धया॒ धियोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
भरा॑म , इ॒ध्मं , कृ॒णवा॑म , ह॒वींषि॑ , ते॒ , चि॒तयं॑तः , पर्व॑णाऽपर्वणा , व॒यं । जी॒वात॑वे , प्र॒ऽत॒रं , सा॒ध॒य॒ , धियः॑ , अग्ने॑ , स॒ख्ये , मा , रि॒षा॒म॒ , व॒यं , तव॑ ॥
वि॒शां गो॒पा अ॑स्य चरंति जं॒तवो॑ द्वि॒पच्च॒ यदु॒त चतु॑ष्पद॒क्तुभिः॑ । चि॒त्रः प्र॑के॒त उ॒षसो॑ म॒हाँ अ॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
वि॒शां , गो॒पाः , अ॒स्य॒ , च॒रं॒ति॒ , जं॒तवः॑ , द्वि॒ऽपत् , च॒ , यत् , उ॒त , चतुः॑ऽपत् , अ॒क्तुऽभिः॑ । चि॒त्रः , प्र॒ऽके॒तः , उ॒षसः॑ , म॒हान् , अ॒सि॒ , अग्ने॑ , स॒ख्ये , मा , रि॒षा॒म॒ , व॒यं , तव॑ ॥
त्वम॑ध्व॒र्युरु॒त होता॑सि पू॒र्व्यः प्र॑शा॒स्ता पोता॑ ज॒नुषा॑ पु॒रोहि॑तः । विश्वा॑ वि॒द्वाँ आर्त्वि॑ज्या धीर पुष्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
त्वं , अ॒ध्व॒र्युः , उ॒त , होता॑ , अ॒सि॒ , पू॒र्व्यः , प्र॒ऽशा॒स्ता , पोता॑ , ज॒नुषा॑ , पु॒रःऽहि॑तः । विश्वा॑ , वि॒द्वान् , आर्त्वि॑ज्या , धी॒र॒ , पु॒ष्य॒सि॒ , अग्ने॑ , स॒ख्ये , मा , रि॒षा॒म॒ , व॒यं , तव॑ ॥
यो वि॒श्वतः॑ सु॒प्रती॑कः स॒दृङ्ङसि॑ दू॒रे चि॒त्संत॒ळिदि॒वाति॑ रोचसे । रात्र्या॑श्चि॒दंधो॒ अति॑ देव पश्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
यः , वि॒श्वतः॑ , सु॒ऽप्रती॑कः , स॒ऽदृङ् , असि॑ , दू॒रे , चि॒त् , सन् , त॒ळित्ऽइ॑व , अति॑ , रो॒च॒से॒ । रात्र्याः॑ , चि॒त् , अंधः॑ , अति॑ , दे॒व॒ , प॒श्य॒सि॒ , अग्ने॑ , स॒ख्ये , मा , रि॒षा॒म॒ , व॒यं , तव॑ ॥
पूर्वो॑ देवा भवतु सुन्व॒तो रथो॒ऽस्माकं॒ शंसो॑ अ॒भ्य॑स्तु दू॒ढ्यः॑ । तदा जा॑नीतो॒त पु॑ष्यता॒ वचोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
पूर्वः॑ , दे॒वाः॒ , भ॒व॒तु॒ , सु॒न्व॒तः , रथः॑ , अ॒स्माकं॑ , शंसः॑ , अ॒भि , अ॒स्तु॒ , दुः॒ऽध्यः॑ । तत् , आ , जा॒नी॒त॒ , उ॒त , पु॒ष्य॒त॒ , वचः॑ , अग्ने॑ , स॒ख्ये , मा , रि॒षा॒म॒ , व॒यं , तव॑ ॥
व॒धैर्दुः॒शंसाँ॒ अप॑ दू॒ढ्यो॑ जहि दू॒रे वा॒ ये अंति॑ वा॒ के चि॑द॒त्रिणः॑ । अथा॑ य॒ज्ञाय॑ गृण॒ते सु॒गं कृ॒ध्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
व॒धैः , दुः॒ऽशंसा॑न् , अप॑ , दुः॒ऽध्यः॑ , ज॒हि॒ , दू॒रे , वा॒ , ये , अंति॑ , वा॒ , के , चि॒त् , अ॒त्रिणः॑ । अथ॑ , य॒ज्ञाय॑ , गृ॒ण॒ते॒ , सु॒ऽगं , कृ॒धि॒ , अग्ने॑ , स॒ख्ये , मा , रि॒षा॒म॒ , व॒यं , तव॑ ॥
यदयु॑क्था अरु॒षा रोहि॑ता॒ रथे॒ वात॑जूता वृष॒भस्ये॑व ते॒ रवः॑ । आदि॑न्वसि व॒निनो॑ धू॒मके॑तु॒नाग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
यत् , अयु॑क्थाः , अ॒रु॒षा , रोहि॑ता , रथे॑ , वात॑ऽजूता , वृ॒ष॒भस्य॑ऽइव , ते॒ , रवः॑ । आत् , इ॒न्व॒सि॒ , व॒निनः॑ , धू॒मऽके॑तुना , अग्ने॑ , स॒ख्ये , मा , रि॒षा॒म॒ , व॒यं , तव॑ ॥
अध॑ स्व॒नादु॒त बि॑भ्युः पत॒त्रिणो॑ द्र॒प्सा यत्ते॑ यव॒सादो॒ व्यस्थि॑रन् । सु॒गं तत्ते॑ ताव॒केभ्यो॒ रथे॒भ्योऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
अध॑ , स्व॒नात् , उ॒त , बि॒भ्युः॒ , प॒त॒त्रिणः॑ , द्र॒प्साः , यत् , ते॒ , य॒व॒स॒ऽअदः॑ , वि , अस्थि॑रन् । सु॒ऽगं , तत् , ते॒ , ता॒व॒केभ्यः॑ , रथे॑भ्यः , अग्ने॑ , स॒ख्ये , मा , रि॒षा॒म॒ , व॒यं , तव॑ ॥
अ॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाय॑सेऽवया॒तां म॒रुतां॒ हेळो॒ अद्भु॑तः । मृ॒ळा सु नो॒ भूत्वे॑षां॒ मनः॒ पुन॒रग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
अ॒यं , मि॒त्रस्य॑ , वरु॑णस्य , धाय॑से , अ॒व॒ऽया॒तां , म॒रुतां॑ , हेळः॑ , अद्भु॑तः । मृ॒ळ , सु , नः॒ , भूतु॑ , ए॒षां॒ , मनः॑ , पुनः॑ , अग्ने॑ , स॒ख्ये , मा , रि॒षा॒म॒ , व॒यं , तव॑ ॥
दे॒वो दे॒वाना॑मसि मि॒त्रो अद्भु॑तो॒ वसु॒र्वसू॑नामसि॒ चारु॑रध्व॒रे । शर्मं॑त्स्याम॒ तव॑ स॒प्रथ॑स्त॒मेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
दे॒वः , दे॒वानां॑ , अ॒सि॒ , मि॒त्रः , अद्भु॑तः , वसुः॑ , वसू॑नां , अ॒सि॒ , चारुः॑ , अ॒ध्व॒रे । शर्म॑न् , स्या॒म॒ , तव॑ , स॒प्रथः॑ऽतमे , अग्ने॑ , स॒ख्ये , मा , रि॒षा॒म॒ , व॒यं , तव॑ ॥
तत्ते॑ भ॒द्रं यत्समि॑द्धः॒ स्वे दमे॒ सोमा॑हुतो॒ जर॑से मृळ॒यत्त॑मः । दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
तत् , ते॒ , भ॒द्रं , यत् , संऽइ॑द्धः , स्वे , दमे॑ , सोम॑ऽआहुतः , जर॑से , मृ॒ळ॒यत्ऽत॑मः । दधा॑सि , रत्नं॑ , द्रवि॑णं , च॒ , दा॒शुषे॑ , अग्ने॑ , स॒ख्ये , मा , रि॒षा॒म॒ , व॒यं , तव॑ ॥
यस्मै॒ त्वं सु॑द्रविणो॒ ददा॑शोऽनागा॒स्त्वम॑दिते स॒र्वता॑ता । यं भ॒द्रेण॒ शव॑सा चो॒दया॑सि प्र॒जाव॑ता॒ राध॑सा॒ ते स्या॑म ॥
यस्मै॑ , त्वं , सु॒ऽद्र॒वि॒णः॒ , ददा॑शः , अ॒ना॒गाः॒ऽत्वं , अ॒दि॒ते॒ , स॒र्वऽता॑ता । यं , भ॒द्रेण॑ , शव॑सा , चो॒दया॑सि , प्र॒जाऽव॑ता , राध॑सा , ते॒ , स्या॒म॒ ॥
स त्वम॑ग्ने सौभग॒त्वस्य॑ वि॒द्वान॒स्माक॒मायुः॒ प्र ति॑रे॒ह दे॑व । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
सः , त्वं , अ॒ग्ने॒ , सौ॒भ॒ग॒ऽत्वस्य॑ , वि॒द्वान् , अ॒स्माकं॑ , आयुः॑ , प्र , ति॒र॒ , इ॒ह , दे॒व॒ । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[९५] द्वेविरूपेइत्येकादशर्चस्य सूक्तस्य कुत्स उषोग्निस्त्रिष्टुप् | (इतआरभ्यजातवेदसइत्यंतं शुद्धोग्निर्वा) |
द्वे विरू॑पे चरतः॒ स्वर्थे॑ अ॒न्यान्या॑ व॒त्समुप॑ धापयेते । हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावां॑छु॒क्रो अ॒न्यस्यां॑ ददृशे सु॒वर्चाः॑ ॥
द्वे इति॑ , विरू॑पे॒ इति॒ विऽरू॑पे , च॒र॒तः॒ , स्वर्थे॒ इति॑ सु॒ऽअर्थे॑ , अ॒न्याऽअ॑न्या , व॒त्सं , उप॑ , धा॒प॒ये॒ते॒ इति॑ । हरिः॑ , अ॒न्यस्यां॑ , भव॑ति , स्व॒धाऽवा॑न् , शु॒क्रः , अ॒न्यस्यां॑ , द॒दृ॒शे॒ , सु॒ऽवर्चाः॑ ॥
दशे॒मं त्वष्टु॑र्जनयंत॒ गर्भ॒मतं॑द्रासो युव॒तयो॒ विभृ॑त्रं । ति॒ग्मानी॑कं॒ स्वय॑शसं॒ जने॑षु वि॒रोच॑मानं॒ परि॑ षीं नयंति ॥
दश॑ , इ॒मं , त्वष्टुः॑ , ज॒न॒यं॒त॒ , गर्भं॑ , अतं॑द्रासः , यु॒व॒तयः॑ , विऽभृ॑त्रं । ति॒ग्मऽअ॑नीकं , स्वऽय॑शसं , जने॑षु , वि॒ऽरोच॑मानं , परि॑ , सीं॒ , न॒यं॒ति॒ ॥
त्रीणि॒ जाना॒ परि॑ भूषंत्यस्य समु॒द्र एकं॑ दि॒व्येक॑म॒प्सु । पूर्वा॒मनु॒ प्र दिशं॒ पार्थि॑वानामृ॒तून्प्र॒शास॒द्वि द॑धावनु॒ष्ठु ॥
त्रीणि॑ , जाना॑ , परि॑ , भू॒षं॒ति॒ , अ॒स्य॒ , स॒मु॒द्रे , एकं॑ , दि॒वि , एकं॑ , अ॒प्ऽसु । पूर्वां॑ , अनु॑ , प्र , दिशं॑ , पार्थि॑वानां , ऋ॒तून् , प्र॒ऽशास॑त् , वि , द॒धौ॒ , अ॒नु॒ष्ठु ॥
क इ॒मं वो॑ नि॒ण्यमा चि॑केत व॒त्सो मा॒तॄर्ज॑नयत स्व॒धाभिः॑ । ब॒ह्वी॒नां गर्भो॑ अ॒पसा॑मु॒पस्था॑न्म॒हान्क॒विर्निश्च॑रति स्व॒धावा॑न् ॥
कः , इ॒मं , वः॒ , नि॒ण्यं , आ , चि॒के॒त॒ , व॒त्सः , मा॒तॄः , ज॒न॒य॒त॒ , स्व॒धाभिः॑ । ब॒ह्वी॒नां , गर्भः॑ , अ॒पसां॑ , उ॒पऽस्था॑त् , म॒हान् , क॒विः , निः , च॒र॒ति॒ , स्व॒धाऽवा॑न् ॥
आ॒विष्ट्यो॑ वर्धते॒ चारु॑रासु जि॒ह्माना॑मू॒र्ध्वः स्वय॑शा उ॒पस्थे॑ । उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात्प्रती॒ची सिं॒हं प्रति॑ जोषयेते ॥
आ॒विःऽत्यः॑ , व॒र्ध॒ते॒ , चारुः॑ , आ॒सु॒ , जि॒ह्मानां॑ , ऊ॒र्ध्वः , स्वऽय॑शाः , उ॒पऽस्थे॑ । उ॒भे इति॑ , त्वष्टुः॑ , बि॒भ्य॒तुः॒ , जाय॑मानात् , प्र॒ती॒ची इति॑ , सिं॒हं , प्रति॑ , जो॒ष॒ये॒ते॒ इति॑ ॥
उ॒भे भ॒द्रे जो॑षयेते॒ न मेने॒ गावो॒ न वा॒श्रा उप॑ तस्थु॒रेवैः॑ । स दक्षा॑णां॒ दक्ष॑पतिर्बभूवां॒जंति॒ यं द॑क्षिण॒तो ह॒विर्भिः॑ ॥
उ॒भे इति॑ , भ॒द्रे इति॑ , जो॒ष॒ये॒ते॒ इति॑ , न , मेने॒ इति॑ , गावः॑ , न , वा॒श्राः , उप॑ , त॒स्थुः॒ , एवैः॑ । सः , दक्षा॑णां , दक्ष॑ऽपतिः , ब॒भू॒व॒ , अं॒जंति॑ , यं , द॒क्षि॒ण॒तः , ह॒विःऽभिः॑ ॥
उद्यं॑यमीति सवि॒तेव॑ बा॒हू उ॒भे सिचौ॑ यतते भी॒म ऋं॒जन् । उच्छु॒क्रमत्क॑मजते सि॒मस्मा॒न्नवा॑ मा॒तृभ्यो॒ वस॑ना जहाति ॥
उत् , यं॒य॒मी॒ति॒ , स॒वि॒ताऽइ॑व , बा॒हू इति॑ , उ॒भे इति॑ , सिचौ॑ , य॒त॒ते॒ , भी॒मः , ऋं॒जन् । उत् , शु॒क्रं , अत्कं॑ , अ॒ज॒ते॒ , सि॒मस्मा॑त् , नवा॑ , मा॒तृऽभ्यः॑ , वस॑ना , ज॒हा॒ति॒ ॥
त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑रं॒ यत्सं॑पृंचा॒नः सद॑ने॒ गोभि॑र॒द्भिः । क॒विर्बु॒ध्नं परि॑ मर्मृज्यते॒ धीः सा दे॒वता॑ता॒ समि॑तिर्बभूव ॥
त्वे॒षं , रू॒पं , कृ॒णु॒ते॒ , उत्ऽत॑रं , यत् , सं॒ऽपृं॒चा॒नः , सद॑ने॒ , गोभिः॑ , अ॒त्ऽभिः । क॒विः , बु॒ध्नं , परि॑ , म॒र्मृ॒ज्य॒ते॒ , धीः , सा , दे॒वऽता॑ता , संऽइ॑तिः , ब॒भू॒व॒ ॥
उ॒रु ते॒ ज्रयः॒ पर्ये॑ति बु॒ध्नं वि॒रोच॑मानं महि॒षस्य॒ धाम॑ । विश्वे॑भिरग्ने॒ स्वय॑शोभिरि॒द्धोऽद॑ब्धेभिः पा॒युभिः॑ पाह्य॒स्मान् ॥
उ॒रु , ते॒ , ज्रयः॑ , परि॑ , ए॒ति॒ , बु॒ध्नं , वि॒ऽरोच॑मानं , म॒हि॒षस्य॑ , धाम॑ । विश्वे॑भिः , अ॒ग्ने॒ , स्वय॑शःऽभिः , इ॒द्धः , अद॑ब्धेभिः , पा॒युऽभिः॑ , पा॒हि॒ , अ॒स्मान् ॥
धन्वं॒त्स्रोतः॑ कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि॑र॒भि न॑क्षति॒ क्षां । विश्वा॒ सना॑नि ज॒ठरे॑षु धत्ते॒ऽन्तर्नवा॑सु चरति प्र॒सूषु॑ ॥
धन्व॑न् , स्रोतः॑ , कृ॒णु॒ते॒ , ग॒तुं , ऊ॒र्मिं , शु॒क्रैः , ऊ॒र्मिऽभिः॑ , अ॒भि , न॒क्ष॒ति॒ , क्षां । विश्वा॑ , सना॑नि , ज॒ठरे॑षु , ध॒त्ते॒ , अं॒तः , नवा॑सु , च॒र॒ति॒ , प्र॒ऽसूषु॑ ॥
ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑से॒ वि भा॑हि । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
ए॒व , नः॒ , अ॒ग्ने॒ , सं॒ऽइधा॑ , वृ॒धा॒नः , रे॒वत् , पा॒व॒क॒ , श्रव॑से , वि , भा॒हि॒ । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[९६] सप्रत्नथेति नवर्चस्य सूक्तस्य कुत्सोद्रविणोदाअग्निस्त्रिष्टुप् |
स प्र॒त्नथा॒ सह॑सा॒ जाय॑मानः स॒द्यः काव्या॑नि॒ बळ॑धत्त॒ विश्वा॑ । आप॑श्च मि॒त्रं धि॒षणा॑ च साधंदे॒वा अ॒ग्निं धा॑रयंद्रविणो॒दां ॥
सः , प्र॒त्नऽथा॑ , सह॑सा , जाय॑मानः , स॒द्यः , काव्या॑नि , बट् , अ॒ध॒त्त॒ , विश्वा॑ । आपः॑ , च॒ , मि॒त्रं , धि॒षणा॑ , च॒ , सा॒ध॒न् , दे॒वाः , अ॒ग्निं , धा॒र॒य॒न् , द्र॒वि॒णः॒ऽदां ॥
स पूर्व॑या नि॒विदा॑ क॒व्यता॒योरि॒माः प्र॒जा अ॑जनय॒न्मनू॑नां । वि॒वस्व॑ता॒ चक्ष॑सा॒ द्याम॒पश्च॑ दे॒वा अ॒ग्निं धा॑रयंद्रविणो॒दां ॥
सः , पूर्व॑या , नि॒ऽविदा॑ , क॒व्यता॑ , आ॒योः , इ॒माः , प्र॒ऽजाः , अ॒ज॒न॒य॒त् , मनू॑नां । वि॒वस्व॑ता , चक्ष॑सा , द्यां , अ॒पः , च॒ , दे॒वाः , अ॒ग्निं , धा॒र॒य॒न् , द्र॒वि॒णः॒ऽदां ॥
तमी॑ळत प्रथ॒मं य॑ज्ञ॒साधं॒ विश॒ आरी॒राहु॑तमृंजसा॒नं । ऊ॒र्जः पु॒त्रं भ॑र॒तं सृ॒प्रदा॑नुं दे॒वा अ॒ग्निं धा॑रयंद्रविणो॒दां ॥
तं , इ॒ळ॒त॒ , प्र॒थ॒मं , य॒ज्ञ॒ऽसाधं॑ , विशः॑ , आरीः॑ , आऽहु॑तं , ऋं॒ज॒सा॒नं । ऊ॒र्जः , पु॒त्रं , भ॒र॒तं , सृ॒प्रऽदा॑नुं , दे॒वाः , अ॒ग्निं , धा॒र॒य॒न् , द्र॒वि॒णः॒ऽदां ॥
स मा॑त॒रिश्वा॑ पुरु॒वार॑पुष्टिर्वि॒दद्गा॒तुं तन॑याय स्व॒र्वित् । वि॒शां गो॒पा ज॑नि॒ता रोद॑स्योर्दे॒वा अ॒ग्निं धा॑रयंद्रविणो॒दां ॥
सः , मा॒त॒रिश्वा॑ , पु॒रु॒वार॑ऽपुष्टिः , वि॒दत् , गा॒तुं , तन॑याय , स्वः॒ऽवित् । वि॒शां , गो॒पाः , ज॒नि॒ता , रोद॑स्योः , दे॒वाः , अ॒ग्निं , धा॒र॒य॒न् , द्र॒वि॒णः॒ऽदां ॥
नक्तो॒षासा॒ वर्ण॑मा॒मेम्या॑ने धा॒पये॑ते॒ शिशु॒मेकं॑ समी॒ची । द्यावा॒क्षामा॑ रु॒क्मो अं॒तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयंद्रविणो॒दां ॥
नक्तो॒षसा॑ , वर्णं॑ , आ॒मेम्या॑ने॒ इत्या॒ऽमेम्या॑ने , धा॒पये॑ते॒ इति॑ , शिशुं॑ , एकं॑ , स॒मी॒ची इति॑ सं॒ऽई॒ची । द्यावा॒क्षामा॑ , रु॒क्मः , अं॒तः , वि , भा॒ति॒ , दे॒वाः , अ॒ग्निं , धा॒र॒य॒न् , द्र॒वि॒णः॒ऽदां ॥
रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां य॒ज्ञस्य॑ के॒तुर्म॑न्म॒साध॑नो॒ वेः । अ॒मृ॒त॒त्वं रक्ष॑माणास एनं दे॒वा अ॒ग्निं धा॑रयंद्रविणो॒दां ॥
रा॒यः , बु॒ध्नः , सं॒ऽगम॑नः , वसू॑नां , य॒ज्ञस्य॑ , के॒तुः , म॒न्म॒ऽसाध॑नः , वेरिति॒ वेः । अ॒मृ॒त॒ऽत्वं , रक्ष॑माणासः , ए॒नं॒ , दे॒वाः , अ॒ग्निं , धा॒र॒य॒न् , द्र॒वि॒णः॒ऽदां ॥
नू च॑ पु॒रा च॒ सद॑नं रयी॒णां जा॒तस्य॑ च॒ जाय॑मानस्य च॒ क्षां । स॒तश्च॑ गो॒पां भव॑तश्च॒ भूरे॑र्दे॒वा अ॒ग्निं धा॑रयंद्रविणो॒दां ॥
नु , च॒ , पु॒रा , च॒ , सद॑नं , र॒यी॒णां , जा॒तस्य॑ , च॒ , जाय॑मानस्य , च॒ , क्षां । स॒तः , च॒ , गो॒पां , भव॑तः , च॒ , भूरेः॑ , दे॒वाः , अ॒ग्निं , धा॒र॒य॒न् , द्र॒वि॒णः॒ऽदां ॥
द्र॒वि॒णो॒दा द्रवि॑णसस्तु॒रस्य॑ द्रविणो॒दाः सन॑रस्य॒ प्र यं॑सत् । द्र॒वि॒णो॒दा वी॒रव॑ती॒मिषं॑ नो द्रविणो॒दा रा॑सते दी॒र्घमायुः॑ ॥
द्र॒वि॒णः॒ऽदाः , द्रवि॑णसः , तु॒रस्य॑ , द्र॒वि॒णः॒ऽदाः , सन॑रस्य , प्र , यं॒स॒त् । द्र॒वि॒णः॒ऽदाः , वी॒रऽव॑तीं , इषं॑ , नः॒ , द्र॒वि॒णः॒ऽदाः , रा॒स॒ते॒ , दी॒र्घं , आयुः॑ ॥
ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑से॒ वि भा॑हि । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
ए॒व , नः॒ , अ॒ग्ने॒ , सं॒ऽइधा॑ , वृ॒धा॒नः , रे॒वत् , पा॒व॒क॒ , श्रव॑से , वि , भा॒हि॒ । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[९७] अपनइत्यष्टर्चस्य सूक्तस्यकुत्सःशुचिरग्निर्गायत्री |
अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒ग्ध्या र॒यिं । अप॑ नः॒ शोशु॑चद॒घं ॥
अप॑ , नः॒ , शोशु॑चत् , अ॒घं , अग्ने॑ , शु॒शु॒ग्धि , आ , र॒यिं । अप॑ , नः॒ , शोशु॑चत् , अ॒घं ॥
सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे । अप॑ नः॒ शोशु॑चद॒घं ॥
सु॒ऽक्षे॒त्रि॒या , सु॒गा॒तु॒ऽया , व॒सु॒ऽया , च॒ , य॒जा॒म॒हे॒ । अप॑ , नः॒ , शोशु॑चत् , अ॒घं ॥
प्र यद्भंदि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑ । अप॑ नः॒ शोशु॑चद॒घं ॥
प्र , यत् , भंदि॑ष्ठः , ए॒षां॒ , प्र , अ॒स्माका॑सः , च॒ , सू॒रयः॑ । अप॑ , नः॒ , शोशु॑चत् , अ॒घं ॥
प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यं । अप॑ नः॒ शोशु॑चद॒घं ॥
प्र , यत् , ते॒ , अ॒ग्ने॒ , सू॒रयः॑ , जाये॑महि , प्र , ते॒ , व॒यं । अप॑ , नः॒ , शोशु॑चत् , अ॒घं ॥
प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यंति॑ भा॒नवः॑ । अप॑ नः॒ शोशु॑चद॒घं ॥
प्र , यत् , अ॒ग्नेः , सह॑स्वतः , वि॒श्वतः॑ , यंति॑ , भा॒नवः॑ । अप॑ , नः॒ , शोशु॑चत् , अ॒घं ॥
त्वं हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ । अप॑ नः॒ शोशु॑चद॒घं ॥
त्वं , हि , वि॒श्व॒तः॒ऽमु॒ख॒ , वि॒श्वतः॑ , प॒रि॒ऽभूः , असि॑ । अप॑ , नः॒ , शोशु॑चत् , अ॒घं ॥
द्विषो॑ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय । अप॑ नः॒ शोशु॑चद॒घं ॥
द्विषः॑ , नः॒ , वि॒श्व॒तः॒ऽमु॒ख॒ , अति॑ , ना॒वाऽइ॑व , पा॒र॒य॒ । अप॑ , नः॒ , शोशु॑चत् , अ॒घं ॥
स नः॒ सिंधु॑मिव ना॒वयाति॑ पर्षा स्व॒स्तये॑ । अप॑ नः॒ शोशु॑चद॒घं ॥
सः , नः॒ , सिंधुं॑ऽइव , ना॒वया॑ , अति॑ , प॒र्ष॒ , स्व॒स्तये॑ । अप॑ , नः॒ , शोशु॑चत् , अ॒घं ॥
[९८] वैश्वानरस्येतितृचस्य सूक्तस्य कुत्सोवैश्वानरोग्निस्त्रिष्टुप् |
वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः । इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥
वै॒श्वा॒न॒रस्य॑ , सु॒ऽम॒तौ , स्या॒म॒ , राजा॑ , हि , कं॒ , भुव॑नानां , अ॒भि॒ऽश्रीः । इ॒तः , जा॒तः , विश्वं॑ , इ॒दं , वि , च॒ष्टे॒ , वै॒श्वा॒न॒रः , य॒त॒ते॒ , सूर्ये॑ण ॥
पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश । वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्तं॑ ॥
पृ॒ष्टः , दि॒वि , पृ॒ष्टः , अ॒ग्निः , पृ॒थि॒व्यां , पृ॒ष्टः , विश्वाः॑ , ओष॑धीः , आ , वि॒वे॒श॒ । वै॒श्वा॒न॒रः , सह॑सा , पृ॒ष्टः , अ॒ग्निः , सः , नः॒ , दिवा॑ , सः , रि॒षः , पा॒तु॒ , नक्तं॑ ॥
वैश्वा॑नर॒ तव॒ तत्स॒त्यम॑स्त्व॒स्मान्रायो॑ म॒घवा॑नः सचंतां । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
वैश्वा॑नर , तव॑ , तत् , स॒त्यं , अ॒स्तु॒ , अ॒स्मान् , रायः॑ , म॒घऽवा॑नः , स॒चं॒तां॒ । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[९९] जातवेदसइत्येकर्चस्य सूक्तस्य मारीचः कश्यपोजातवेदा अग्निस्त्रिष्टुप् |
जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिंधुं॑ दुरि॒तात्य॒ग्निः ॥
जा॒तऽवे॑दसे , सु॒न॒वा॒म॒ , सोमं॑ , अ॒रा॒ति॒ऽय॒तः , नि , द॒हा॒ति॒ , वेदः॑ । सः , नः॒ , प॒र्ष॒त् , अति॑ , दुः॒ऽगानि॑ , विश्वा॑ , ना॒वाऽइ॑व , सिंधुं॑ , दुः॒ऽइ॒ता , अति॑ , अ॒ग्निः ॥
[१००] सयोवृषेत्येकोनविंशतृचस्य सूक्तस्य वार्षागिराऋज्राश्वांबरीष सहदेव भयमानसुराधसइंद्रस्त्रिष्टुप् (इतआरभ्य मरुत्वानिंद्रैतिकश्चित् | तन्न | सर्वानुक्रमादिभिरनादृतत्वात्)
स यो वृषा॒ वृष्ण्ये॑भिः॒ समो॑का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् । स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥
सः , यः , वृषा॑ , वृष्ण्ये॑भिः , संऽओ॑काः , म॒हः , दि॒वः , पृ॒थि॒व्याः , च॒ , सं॒ऽराट् । स॒ती॒नऽस॑त्वा , हव्यः॑ , भरे॑षु , म॒रुत्वा॑न् , नः॒ , भ॒व॒तु॒ , इंद्रः॑ , ऊ॒ती ॥
यस्याना॑प्तः॒ सूर्य॑स्येव॒ यामो॒ भरे॑भरे वृत्र॒हा शुष्मो॒ अस्ति॑ । वृषं॑तमः॒ सखि॑भिः॒ स्वेभि॒रेवै॑र्म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥
यस्य॑ , अना॑प्तः , सूर्य॑स्यऽइव , यामः॑ , भरे॑ऽभरे , वृ॒त्र॒ऽहा , शुष्मः॑ , अस्ति॑ । वृष॑न्ऽतमः , सखि॑ऽभिः , स्वेभिः॑ , एवैः॑ , म॒रुत्वा॑न् , नः॒ , भ॒व॒तु॒ , इंद्रः॑ , ऊ॒ती ॥
दि॒वो न यस्य॒ रेत॑सो॒ दुघा॑नाः॒ पंथा॑सो॒ यंति॒ शव॒साप॑रीताः । त॒रद्द्वे॑षाः सास॒हिः पौंस्ये॑भिर्म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥
दि॒वः , न , यस्य॑ , रेत॑सः , दुघा॑नाः , पंथा॑सः , यंति॑ , शव॑सा , अप॑रिऽइताः । त॒रत्ऽद्वे॑षाः , स॒स॒हिः , पौंस्ये॑भिः , म॒रुत्वा॑न् , नः॒ , भ॒व॒तु॒ , इंद्रः॑ , ऊ॒ती ॥
सो अंगि॑रोभि॒रंगि॑रस्तमो भू॒द्वृषा॒ वृष॑भिः॒ सखि॑भिः॒ सखा॒ सन् । ऋ॒ग्मिभि॑र्ऋ॒ग्मी गा॒तुभि॒र्ज्येष्ठो॑ म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥
सः , अंगि॑रःऽभिः , अंगि॑रःऽतमः , भू॒त् , वृषा॑ , वृष॑ऽभिः , सखि॑ऽभिः , सखा॑ , सन् । ऋ॒ग्मिऽभिः॑ , ऋ॒ग्मी , गा॒तुऽभिः॑ , ज्येष्ठः॑ , म॒रुत्वा॑न् , नः॒ , भ॒व॒तु॒ , इंद्रः॑ , ऊ॒ती ॥
स सू॒नुभि॒र्न रु॒द्रेभि॒र्ऋभ्वा॑ नृ॒षाह्ये॑ सास॒ह्वाँ अ॒मित्रा॑न् । सनी॑ळेभिः श्रव॒स्या॑नि॒ तूर्व॑न्म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥
सः , सू॒नुऽभिः॑ , न , रु॒द्रेभिः॑ , ऋभ्वा॑ , नृ॒ऽसह्ये॑ , स॒स॒ह्वान् , अ॒मित्रा॑न् । सऽनी॑ळेभिः , श्र॒व॒स्या॑नि , तूर्व॑न् , म॒रुत्वा॑न् , नः॒ , भ॒व॒तु॒ , इंद्रः॑ , ऊ॒ती ॥
स म॑न्यु॒मीः स॒मद॑नस्य क॒र्तास्माके॑भि॒र्नृभिः॒ सूर्यं॑ सनत् । अ॒स्मिन्नहं॒त्सत्प॑तिः पुरुहू॒तो म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥
सः , म॒न्यु॒ऽमीः , स॒ऽमद॑नस्य , क॒र्ता , अ॒स्माके॑भिः , नृऽभिः॑ , सूर्यं॑ , स॒न॒त् । अ॒स्मिन् , अह॑न् , सत्ऽप॑तिः , पु॒रु॒ऽहू॒तः , म॒रुत्वा॑न् , नः॒ , भ॒व॒तु॒ , इंद्रः॑ , ऊ॒ती ॥
तमू॒तयो॑ रणयं॒छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तयः॑ कृण्वत॒ त्रां । स विश्व॑स्य क॒रुण॑स्येश॒ एको॑ म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥
तं , ऊ॒तयः॑ , र॒ण॒य॒न् , शूर॑ऽसातौ , तं , क्षेम॑स्य , क्षि॒तयः॑ , कृ॒ण्व॒त॒ , त्रां । सः , विश्व॑स्य , क॒रुण॑स्य , ई॒शे॒ , एकः॑ , म॒रुत्वा॑न् , नः॒ , भ॒व॒तु॒ , इंद्रः॑ , ऊ॒ती ॥
तम॑प्संत॒ शव॑स उत्स॒वेषु॒ नरो॒ नर॒मव॑से॒ तं धना॑य । सो अं॒धे चि॒त्तम॑सि॒ ज्योति॑र्विदन्म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥
तं , अ॒प्सं॒त॒ , शव॑सः , उ॒त्ऽस॒वेषु॑ , नरः॑ , नरं॑ , अव॑से , तं , धना॑य । सः , अं॒धे , चि॒त् , तम॑सि , ज्योतिः॑ , वि॒द॒त् , म॒रुत्वा॑न् , नः॒ , भ॒व॒तु॒ , इंद्रः॑ , ऊ॒ती ॥
स स॒व्येन॑ यमति॒ व्राध॑तश्चि॒त्स द॑क्षि॒णे संगृ॑भीता कृ॒तानि॑ । स की॒रिणा॑ चि॒त्सनि॑ता॒ धना॑नि म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥
सः , स॒व्येन॑ , य॒म॒ति॒ , व्राध॑तः , चि॒त् , सः , द॒क्षि॒णे , संऽगृ॑भीता , कृ॒तानि॑ । सः , की॒रिणा॑ , चि॒त् , सनि॑ता , धना॑नि , म॒रुत्वा॑न् , नः॒ , भ॒व॒तु॒ , इंद्रः॑ , ऊ॒ती ॥
स ग्रामे॑भिः॒ सनि॑ता॒ स रथे॑भिर्वि॒दे विश्वा॑भिः कृ॒ष्टिभि॒र्न्व१॒॑द्य । स पौंस्ये॑भिरभि॒भूरश॑स्तीर्म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥
सः , ग्रामे॑भिः , सनि॑ता , सः , रथे॑भिः , वि॒दे , विश्वा॑भिः , कृ॒ष्टिऽभिः॑ , नु , अ॒द्य । सः , पौंस्ये॑भिः , अ॒भि॒ऽभूः , अश॑स्तीः , म॒रुत्वा॑न् , नः॒ , भ॒व॒तु॒ , इंद्रः॑ , ऊ॒ती ॥
स जा॒मिभि॒र्यत्स॒मजा॑ति मी॒ळ्हेऽजा॑मिभिर्वा पुरुहू॒त एवैः॑ । अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥
सः , जा॒मिऽभिः॑ , यत् , सं॒ऽअजा॑ति , मी॒ळ्हे , अजा॑मिऽभिः , वा॒ , पु॒रु॒ऽहू॒तः , एवैः॑ । अ॒पां , तो॒कस्य॑ , तन॑यस्य , जे॒षे , म॒रुत्वा॑न् , नः॒ , भ॒व॒तु॒ , इंद्रः॑ , ऊ॒ती ॥
स व॑ज्र॒भृद्द॑स्यु॒हा भी॒म उ॒ग्रः स॒हस्र॑चेताः श॒तनी॑थ॒ ऋभ्वा॑ । च॒म्री॒षो न शव॑सा॒ पांच॑जन्यो म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥
सः , व॒ज्र॒ऽभृत् , द॒स्यु॒ऽहा , भी॒मः , उ॒ग्रः , स॒हस्र॑ऽचेताः , श॒तऽनी॑थः , ऋभ्वा॑ । च॒म्री॒षः , न , शव॑सा , पांच॑ऽजन्यः , म॒रुत्वा॑न् , नः॒ , भ॒व॒तु॒ , इंद्रः॑ , ऊ॒ती ॥
तस्य॒ वज्रः॑ क्रंदति॒ स्मत्स्व॒र्षा दि॒वो न त्वे॒षो र॒वथः॒ शिमी॑वान् । तं स॑चंते स॒नय॒स्तं धना॑नि म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥
तस्य॑ , वज्रः॑ , क्रं॒द॒ति॒ , स्मत् , स्वः॒ऽसाः , दि॒वः , न , त्वे॒षः , र॒वथः॑ , शिमी॑ऽवान् । तं , स॒चं॒ते॒ , स॒नयः॑ , तं , धना॑नि , म॒रुत्वा॑न् , नः॒ , भ॒व॒तु॒ , इंद्रः॑ , ऊ॒ती ॥
यस्याज॑स्रं॒ शव॑सा॒ मान॑मु॒क्थं प॑रिभु॒जद्रोद॑सी वि॒श्वतः॑ सीं । स पा॑रिष॒त्क्रतु॑भिर्मंदसा॒नो म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥
यस्य॑ , अज॑स्रं , शव॑सा , मानं॑ , उ॒क्थं , प॒रि॒ऽभु॒जत् , रोद॑सी॒ इति॑ , वि॒श्वतः॑ , सीं॒ । सः , पा॒रि॒ष॒त् , क्रतु॑ऽभिः , मं॒द॒सा॒नः , म॒रुत्वा॑न् , नः॒ , भ॒व॒तु॒ , इंद्रः॑ , ऊ॒ती ॥
न यस्य॑ दे॒वा दे॒वता॒ न मर्ता॒ आप॑श्च॒न शव॑सो॒ अंत॑मा॒पुः । स प्र॒रिक्वा॒ त्वक्ष॑सा॒ क्ष्मो दि॒वश्च॑ म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥
न , यस्य॑ , दे॒वाः , दे॒वता॑ , न , मर्ताः॑ , आपः॑ , च॒न , शव॑सः , अंतं॑ , आ॒पुः । सः , प्र॒ऽरिक्वा॑ , त्वक्ष॑सा , क्ष्मः , दि॒वः , च॒ , म॒रुत्वा॑न् , नः॒ , भ॒व॒तु॒ , इंद्रः॑ , ऊ॒ती ॥
रो॒हिच्छ्या॒वा सु॒मदं॑शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व॑स्य । वृष॑ण्वंतं॒ बिभ्र॑ती धू॒र्षु रथं॑ मं॒द्रा चि॑केत॒ नाहु॑षीषु वि॒क्षु ॥
रो॒हित् , श्या॒वा , सु॒मत्ऽअं॑शुः , ल॒ला॒मीः , द्यु॒क्षा , रा॒ये , ऋ॒ज्रऽअ॑श्वस्य । वृष॑ण्ऽवंतं , बिभ्र॑ती , धूः॒ऽसु , रथं॑ , मं॒द्रा , चि॒के॒त॒ , नाहु॑षीषु , वि॒क्षु ॥
ए॒तत्त्यत्त॑ इंद्र॒ वृष्ण॑ उ॒क्थं वा॑र्षागि॒रा अ॒भि गृ॑णंति॒ राधः॑ । ऋ॒ज्राश्वः॒ प्रष्टि॑भिरंब॒रीषः॑ स॒हदे॑वो॒ भय॑मानः सु॒राधाः॑ ॥
ए॒तत् , त्यत् , ते॒ , इं॒द्र॒ , वृष्णे॑ , उ॒क्थं , वा॒र्षा॒गि॒राः , अ॒भि , गृ॒णं॒ति॒ , राधः॑ । ऋ॒ज्रऽअ॑श्वः , प्रष्टि॑ऽभिः , अं॒ब॒रीषः॑ , स॒हऽदे॑वः , भय॑मानः , सु॒ऽराधाः॑ ॥
दस्यूं॒छिम्यूँ॑श्च पुरुहू॒त एवै॑र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब॑र्हीत् । सन॒त्क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभिः॒ सन॒त्सूर्यं॒ सन॑द॒पः सु॒वज्रः॑ ॥
दस्यू॑न् , शिम्यू॑न् , च॒ , पु॒रु॒ऽहू॒तः , एवैः॑ , ह॒त्वा , पृ॒थि॒व्यां , शर्वा॑ , नि , ब॒र्ही॒त् । सन॑त् , क्षेत्रं॑ , सखि॑ऽभिः , श्वि॒त्न्येभिः॑ , सन॑त् , सूर्यं॑ , सन॑त् , अ॒पः , सु॒ऽवज्रः॑ ॥
वि॒श्वाहेंद्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाजं॑ । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
वि॒श्वाहा॑ , इंद्रः॑ , अ॒धि॒ऽव॒क्ता , नः॒ , अ॒स्तु॒ , अप॑रिऽह्वृताः , स॒नु॒या॒म॒ , वाजं॑ । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[१०१] प्रमंदिनइत्येकादशर्चस्य सूक्तस्य कुत्स इंद्रोजगतीअंत्याश्चतस्रत्रिष्टुभः | (आद्यागर्भस्राविणीतिगुणः) |
प्र मं॒दिने॑ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह॑न्नृ॒जिश्व॑ना । अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥
प्र , मं॒दिने॑ , पि॒तु॒ऽमत् , अ॒र्च॒त॒ , वचः॑ , यः , कृ॒ष्णऽग॑र्भाः , निः॒ऽअह॑न् , ऋ॒जिश्व॑ना । अ॒व॒स्यवः॑ , वृष॑णं , वज्र॑ऽदक्षिणं , म॒रुत्वं॑तं , स॒ख्याय॑ , ह॒वा॒म॒हे॒ ॥
यो व्यं॑सं जाहृषा॒णेन॑ म॒न्युना॒ यः शंब॑रं॒ यो अह॒न्पिप्रु॑मव्र॒तं । इंद्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥
यः , विऽअं॑सं , ज॒हृ॒षा॒णेन॑ , म॒न्युना॑ , यः , शंब॑रं , यः , अह॑न् , पिप्रुं॑ , अ॒व्र॒तं । इंद्रः॑ , यः , शुष्णं॑ , अ॒शुषं॑ , नि , अवृ॑णक् , म॒रुत्वं॑तं , स॒ख्याय॑ , ह॒वा॒म॒हे॒ ॥
यस्य॒ द्यावा॑पृथि॒वी पौंस्यं॑ म॒हद्यस्य॑ व्र॒ते वरु॑णो॒ यस्य॒ सूर्यः॑ । यस्येंद्र॑स्य॒ सिंध॑वः॒ सश्च॑ति व्र॒तं म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥
यस्य॑ , द्यावा॑पृथि॒वी इति॑ , पौंस्यं॑ , म॒हत् , यस्य॑ , व्र॒ते , वरु॑णः , यस्य॑ , सूर्यः॑ । यस्य॑ , इंद्र॑स्य , सिंध॑वः , सश्च॑ति , व्र॒तं , म॒रुत्वं॑तं , स॒ख्याय॑ , ह॒वा॒म॒हे॒ ॥
यो अश्वा॑नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ॑रि॒तः कर्म॑णिकर्मणि स्थि॒रः । वी॒ळोश्चि॒दिंद्रो॒ यो असु॑न्वतो व॒धो म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥
यः , अश्वा॑नां , यः , गवां॑ , गोऽप॑तिः , व॒शी , यः , आ॒रि॒तः , कर्म॑णिऽकर्मणि , स्थि॒रः । वी॒ळोः , चि॒त् , इंद्रः॑ , यः , असु॑न्वतः , व॒धः , म॒रुत्वं॑तं , स॒ख्याय॑ , ह॒वा॒म॒हे॒ ॥
यो विश्व॑स्य॒ जग॑तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे॑ प्रथ॒मो गा अविं॑दत् । इंद्रो॒ यो दस्यूँ॒रध॑राँ अ॒वाति॑रन्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥
यः , विश्व॑स्य , जग॑तः , प्रा॒ण॒तः , पतिः॑ , यः , ब्र॒ह्मणे॑ , प्र॒थ॒मः , गाः , अविं॑दत् । इंद्रः॑ , यः , दस्यू॑न् , अध॑रान् , अ॒व॒ऽअति॑रत् , म॒रुत्वं॑तं , स॒ख्याय॑ , ह॒वा॒म॒हे॒ ॥
यः शूरे॑भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभिः॑ । इंद्रं॒ यं विश्वा॒ भुव॑ना॒भि सं॑द॒धुर्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥
यः , शूरे॑भिः , हव्यः॑ , यः , च॒ , भी॒रुऽभिः॑ , यः , धाव॑त्ऽभिः , हू॒यते॑ , यः , च॒ , जि॒ग्युभिः॑ । इंद्रं॑ , यं , विश्वा॑ , भुव॑ना , अ॒भि , सं॒ऽद॒धुः , म॒रुत्वं॑तं , स॒ख्याय॑ , ह॒वा॒म॒हे॒ ॥
रु॒द्राणा॑मेति प्र॒दिशा॑ विचक्ष॒णो रु॒द्रेभि॒र्योषा॑ तनुते पृ॒थु ज्रयः॑ । इंद्रं॑ मनी॒षा अ॒भ्य॑र्चति श्रु॒तं म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥
रु॒द्राणां॑ , ए॒ति॒ , प्र॒ऽदिशा॑ , वि॒ऽच॒क्ष॒णः , रु॒द्रेभिः॑ , योषा॑ , त॒नु॒ते॒ , पृ॒थु , ज्रयः॑ । इंद्रं॑ , म॒नी॒षा , अ॒भि , अ॒र्च॒ति॒ , श्रु॒तं , म॒रुत्वं॑तं , स॒ख्याय॑ , ह॒वा॒म॒हे॒ ॥
यद्वा॑ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा॑व॒मे वृ॒जने॑ मा॒दया॑से । अत॒ आ या॑ह्यध्व॒रं नो॒ अच्छा॑ त्वा॒या ह॒विश्च॑कृमा सत्यराधः ॥
यत् , वा॒ , म॒रु॒त्वः॒ , प॒र॒मे , स॒धऽस्थे॑ , यत् , वा॒ , अ॒व॒मे , वृ॒जने॑ , मा॒दया॑से । अतः॑ , आ , या॒हि॒ , अ॒ध्व॒रं , नः॒ , अच्छ॑ , त्वा॒ऽया , ह॒विः , च॒कृ॒म॒ , स॒त्य॒ऽरा॒धः॒ ॥
त्वा॒येंद्र॒ सोमं॑ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः । अधा॑ नियुत्वः॒ सग॑णो म॒रुद्भि॑र॒स्मिन्य॒ज्ञे ब॒र्हिषि॑ मादयस्व ॥
त्वा॒ऽया , इं॒द्र॒ , सोमं॑ , सु॒सु॒म॒ , सु॒ऽद॒क्ष॒ , त्वा॒ऽया , ह॒विः , च॒कृ॒म॒ , ब्र॒ह्म॒ऽवा॒हः॒ । अध॑ , नि॒ऽयु॒त्वः॒ , सऽग॑णः , म॒रुत्ऽभिः॑ , अ॒स्मिन् , य॒ज्ञे , ब॒र्हिषि॑ , मा॒द॒य॒स्व॒ ॥
मा॒दय॑स्व॒ हरि॑भि॒र्ये त॑ इंद्र॒ वि ष्य॑स्व॒ शिप्रे॒ वि सृ॑जस्व॒ धेने॑ । आ त्वा॑ सुशिप्र॒ हर॑यो वहंतू॒शन्ह॒व्यानि॒ प्रति॑ नो जुषस्व ॥
मा॒दय॑स्व , हरि॑ऽभिः , ये , ते॒ , इं॒द्र॒ , वि , स्य॒स्व॒ , शिप्रे॒ इति॑ , वि , सृ॒ज॒स्व॒ , धेने॒ इति॑ । आ , त्वा॒ , सु॒ऽशि॒प्र॒ , हर॑यः , व॒हं॒तु॒ , उ॒शन् , ह॒व्यानि॑ , प्रति॑ , नः॒ , जु॒ष॒स्व॒ ॥
म॒रुत्स्तो॑त्रस्य वृ॒जन॑स्य गो॒पा व॒यमिंद्रे॑ण सनुयाम॒ वाजं॑ । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
म॒रुत्ऽस्तो॑त्रस्य , वृ॒जन॑स्य , गो॒पाः , व॒यं , इंद्रे॑ण , स॒नु॒या॒म॒ , वाजं॑ । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[१०२] इमांतइत्येकादशर्चस्य सूक्तस्य कुत्स इंद्रोजगतीअंत्यात्रिष्टुप् |
इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे । तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिंद्रं॑ दे॒वासः॒ शव॑सामद॒न्ननु॑ ॥
इ॒मां , ते॒ , धियं॑ , प्र , भ॒रे॒ , म॒हः , म॒हीं , अ॒स्य , स्तो॒त्रे , धि॒षणा॑ , यत् , ते॒ , आ॒न॒जे । तं , उ॒त्ऽस॒वे , च॒ , प्र॒ऽस॒वे , च॒ , स॒स॒हिं , इंद्रं॑ , दे॒वासः॑ , शव॑सा , अ॒म॒द॒न् , अनु॑ ॥
अ॒स्य श्रवो॑ न॒द्यः॑ स॒प्त बि॑भ्रति॒ द्यावा॒क्षामा॑ पृथि॒वी द॑र्श॒तं वपुः॑ । अ॒स्मे सू॑र्याचंद्र॒मसा॑भि॒चक्षे॑ श्र॒द्धे कमिं॑द्र चरतो वितर्तु॒रं ॥
अ॒स्य , श्रवः॑ , न॒द्यः॑ , स॒प्त , बि॒भ्र॒ति॒ , द्यावा॒क्षामा॑ , पृ॒थि॒वी , द॒र्श॒तं , वपुः॑ । अ॒स्मे इति॑ , सू॒र्या॒चं॒द्र॒मसा॑ , अ॒भि॒ऽचक्षे॑ , श्र॒द्धे , कं , इं॒द्र॒ , च॒र॒तः॒ , वि॒ऽत॒र्तु॒रं ॥
तं स्मा॒ रथं॑ मघव॒न्प्राव॑ सा॒तये॒ जैत्रं॒ यं ते॑ अनु॒मदा॑म संग॒मे । आ॒जा न॑ इंद्र॒ मन॑सा पुरुष्टुत त्वा॒यद्भ्यो॑ मघवं॒छर्म॑ यच्छ नः ॥
तं , स्म॒ , रथं॑ , म॒घ॒ऽव॒न् , प्र , अ॒व॒ , सा॒तये॑ , जैत्रं॑ , यं , ते॒ , अ॒नु॒ऽमदा॑म , सं॒ऽग॒मे । आ॒जा , नः॒ , इं॒द्र॒ , मन॑सा , पु॒रु॒ऽस्तु॒त॒ , त्वा॒यत्ऽभ्यः॑ , म॒घ॒ऽव॒न् , शर्म॑ , य॒च्छ॒ , नः॒ ॥
व॒यं ज॑येम॒ त्वया॑ यु॒जा वृत॑म॒स्माक॒मंश॒मुद॑वा॒ भरे॑भरे । अ॒स्मभ्य॑मिंद्र॒ वरि॑वः सु॒गं कृ॑धि॒ प्र शत्रू॑णां मघव॒न्वृष्ण्या॑ रुज ॥
व॒यं , ज॒ये॒म॒ , त्वया॑ , यु॒जा , वृतं॑ , अ॒स्माकं॑ , अंशं॑ , उत् , अ॒व॒ , भरे॑ऽभरे । अ॒स्मभ्यं॑ , इं॒द्र॒ , वरि॑वः , सु॒ऽगं , कृ॒धि॒ , प्र , शत्रू॑णां , म॒घ॒ऽव॒न् , वृष्ण्या॑ , रु॒ज॒ ॥
नाना॒ हि त्वा॒ हव॑माना॒ जना॑ इ॒मे धना॑नां धर्त॒रव॑सा विप॒न्यवः॑ । अ॒स्माकं॑ स्मा॒ रथ॒मा ति॑ष्ठ सा॒तये॒ जैत्रं॒ हीं॑द्र॒ निभृ॑तं॒ मन॒स्तव॑ ॥
नाना॑ , हि , त्वा॒ , हव॑मानाः , जनाः॑ , इ॒मे , धना॑नां , ध॒र्तः॒ , अव॑सा , वि॒प॒न्यवः॑ । अ॒स्माकं॑ , स्म॒ , रथं॑ , आ , ति॒ष्ठ॒ , सा॒तये॑ , जैत्रं॑ , हि , इं॒द्र॒ , निऽभृ॑तं , मनः॑ , तव॑ ॥
गो॒जिता॑ बा॒हू अमि॑तक्रतुः सि॒मः कर्म॑न्कर्मंछ॒तमू॑तिः खजंक॒रः । अ॒क॒ल्प इंद्रः॑ प्रति॒मान॒मोज॒साथा॒ जना॒ वि ह्व॑यंते सिषा॒सवः॑ ॥
गो॒ऽजिता॑ , बा॒हू इति॑ , अमि॑तऽक्रतुः , सि॒मः , कर्म॑न्ऽकर्मन् , श॒तंऽऊ॑तिः , ख॒जं॒ऽक॒रः । अ॒क॒ल्पः , इंद्रः॑ , प्र॒ति॒ऽमानं॑ , ओज॑सा , अथ॑ , जनाः॑ , वि , ह्व॒यं॒ते॒ , सि॒सा॒सवः॑ ॥
उत्ते॑ श॒तान्म॑घव॒न्नुच्च॒ भूय॑स॒ उत्स॒हस्रा॑द्रिरिचे कृ॒ष्टिषु॒ श्रवः॑ । अ॒मा॒त्रं त्वा॑ धि॒षणा॑ तित्विषे म॒ह्यधा॑ वृ॒त्राणि॑ जिघ्नसे पुरंदर ॥
उत् , ते॒ , श॒तात् , म॒घ॒ऽव॒न् , उत् , च॒ , भूय॑सः , उत् , स॒हस्रा॑त् , रि॒रि॒चे॒ , कृ॒ष्टिषु॑ , श्रवः॑ । अ॒मा॒त्रं , त्वा॒ , धि॒षणा॑ , ति॒त्वि॒षे॒ , म॒ही , अध॑ , वृ॒त्राणि॑ , जि॒घ्न॒से॒ , पु॒रं॒ऽद॒र॒ ॥
त्रि॒वि॒ष्टि॒धातु॑ प्रति॒मान॒मोज॑सस्ति॒स्रो भूमी॑र्नृपते॒ त्रीणि॑ रोच॒ना । अती॒दं विश्वं॒ भुव॑नं ववक्षिथाश॒त्रुरिं॑द्र ज॒नुषा॑ स॒नाद॑सि ॥
त्रि॒वि॒ष्टि॒ऽधातु॑ , प्र॒ति॒ऽमानं॑ , ओज॑सः , ति॒स्रः , भूमीः॑ , नृ॒ऽप॒ते॒ , त्रीणि॑ , रो॒च॒ना । अति॑ , इ॒दं , विश्वं॑ , भुव॑नं , व॒व॒क्षि॒थ॒ , अ॒श॒त्रुः , इं॒द्र॒ , ज॒नुषा॑ , स॒नात् , अ॒सि॒ ॥
त्वां दे॒वेषु॑ प्रथ॒मं ह॑वामहे॒ त्वं ब॑भूथ॒ पृत॑नासु सास॒हिः । सेमं नः॑ का॒रुमु॑पम॒न्युमु॒द्भिद॒मिंद्रः॑ कृणोतु प्रस॒वे रथं॑ पु॒रः ॥
त्वां , दे॒वेषु॑ , प्र॒थ॒मं , ह॒वा॒म॒हे॒ , त्वं , ब॒भू॒थ॒ , पृत॑नासु , स॒स॒हिः । सः , इ॒मं , नः॒ , का॒रुं , उ॒प॒ऽम॒न्युं , उ॒त्ऽभिदं॑ , इंद्रः॑ , कृ॒णो॒तु॒ , प्र॒ऽस॒वे , रथं॑ , पु॒रः ॥
त्वं जि॑गेथ॒ न धना॑ रुरोधि॒थार्भे॑ष्वा॒जा म॑घवन्म॒हत्सु॑ च । त्वामु॒ग्रमव॑से॒ सं शि॑शीम॒स्यथा॑ न इंद्र॒ हव॑नेषु चोदय ॥
त्वं , जि॒गे॒थ॒ , न , धना॑ , रु॒रो॒धि॒थ॒ , अर्भे॑षु , आ॒जा , म॒घ॒ऽव॒न् , म॒हत्ऽसु॑ , च॒ । त्वां , उ॒ग्रं , अव॑से , सं , शि॒शी॒म॒सि॒ , अथ॑ , नः॒ , इं॒द्र॒ , हव॑नेषु , चो॒द॒य॒ ॥
वि॒श्वाहेंद्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाजं॑ । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
वि॒श्वाहा॑ , इंद्रः॒ , अ॒धि॒ऽव॒क्ता , नः॒ , अ॒स्तु॒ , अप॑रिऽह्वृताः , स॒नु॒या॒म॒ , वाजं॑ । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[१०३] तत्तइत्यष्टर्चस्य सूक्तस्य कुत्स इंद्रस्त्रिष्टुप् |
तत्त॑ इंद्रि॒यं प॑र॒मं प॑रा॒चैरधा॑रयंत क॒वयः॑ पु॒रेदं । क्ष॒मेदम॒न्यद्दि॒व्य१॒॑न्यद॑स्य॒ समी॑ पृच्यते सम॒नेव॑ के॒तुः ॥
तत् , ते॒ , इं॒द्रि॒यं , प॒र॒मं , प॒रा॒चैः , अधा॑रयंत , क॒वयः॑ , पु॒रा , इ॒दं । क्ष॒मा , इ॒दं , अ॒न्यत् , दि॒वि , अ॒न्यत् , अ॒स्य॒ , सं , ई॒मिति॑ , पृ॒च्य॒ते॒ , स॒म॒नाऽइ॑व , के॒तुः ॥
स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ वज्रे॑ण ह॒त्वा निर॒पः स॑सर्ज । अह॒न्नहि॒मभि॑नद्रौहि॒णं व्यह॒न्व्यं॑सं म॒घवा॒ शची॑भिः ॥
सः , धा॒र॒य॒त् , पृ॒थि॒वीं , प॒प्रथ॑त् , च॒ , वज्रे॑ण , ह॒त्वा , निः , अ॒पः , स॒स॒र्ज॒ । अह॑न् , अहिं॑ , अभि॑नत् , रौ॒हि॒णं , वि , अह॑न् , विऽअं॑सं , म॒घऽवा॑ , शची॑भिः ॥
स जा॒तूभ॑र्मा श्र॒द्दधा॑न॒ ओजः॒ पुरो॑ विभिं॒दन्न॑चर॒द्वि दासीः॑ । वि॒द्वान्व॑ज्रिं॒दस्य॑वे हे॒तिम॒स्यार्यं॒ सहो॑ वर्धया द्यु॒म्नमिं॑द्र ॥
सः , जा॒तूऽभ॑र्मा , श्र॒त्ऽदधा॑नः , ओजः॑ , पुरः॒ , वि॒ऽभिं॒दन् , अ॒च॒र॒त् , वि , दासीः॑ । वि॒द्वान् , व॒ज्रि॒न् , दस्य॑वे , हे॒तिं , अ॒स्य॒ , आर्यं॑ , सहः॑ , व॒र्ध॒य॒ , द्यु॒म्नं , इं॒द्र॒ ॥
तदू॒चुषे॒ मानु॑षे॒मा यु॒गानि॑ की॒र्तेन्यं॑ म॒घवा॒ नाम॒ बिभ्र॑त् । उ॒प॒प्र॒यंद॑स्यु॒हत्या॑य व॒ज्री यद्ध॑ सू॒नुः श्रव॑से॒ नाम॑ द॒धे ॥
तत् , ऊ॒चुषे॑ , मानु॑षा , इ॒मा , यु॒गानि॑ , की॒र्तेन्यं॑ , म॒घऽवा॑ , नाम॑ , बिभ्र॑त् । उ॒प॒ऽप्र॒यन् , द॒स्यु॒ऽहत्या॑य , व॒ज्री , यत् , ह॒ , सू॒नुः , श्रव॑से , नाम॑ , द॒धे ॥
तद॑स्ये॒दं प॑श्यता॒ भूरि॑ पु॒ष्टं श्रदिंद्र॑स्य धत्तन वी॒र्या॑य । स गा अ॑विंद॒त्सो अ॑विंद॒दश्वां॒त्स ओष॑धीः॒ सो अ॒पः स वना॑नि ॥
तत् , अ॒स्य॒ , इ॒दं , प॒श्य॒त॒ , भूरि॑ , पु॒ष्टं , श्रत् , इंद्र॑स्य , ध॒त्त॒न॒ , वी॒र्या॑य । सः , गाः , अ॒विं॒द॒त् , सः , अ॒विं॒द॒त् , अश्वा॑न् , सः , ओष॑धीः , सः , अ॒पः , सः , वना॑नि ॥
भूरि॑कर्मणे वृष॒भाय॒ वृष्णे॑ स॒त्यशु॑ष्माय सुनवाम॒ सोमं॑ । य आ॒दृत्या॑ परिपं॒थीव॒ शूरोऽय॑ज्वनो वि॒भज॒न्नेति॒ वेदः॑ ॥
भूरि॑ऽकर्मणे , वृ॒ष॒भाय॑ , वृश्णे॑ , स॒त्यऽशु॑ष्माय , सु॒न॒वा॒म॒ , सोमं॑ । यः , आ॒ऽदृत्य॑ , प॒रि॒पं॒थीऽइ॑व , शूरः॑ , अय॑ज्वनः , वि॒ऽभज॑न् , एति॑ , वेदः॑ ॥
तदिं॑द्र॒ प्रेव॑ वी॒र्यं॑ चकर्थ॒ यत्स॒संतं॒ वज्रे॒णाबो॑ध॒योऽहिं॑ । अनु॑ त्वा॒ पत्नी॑र्हृषि॒तं वय॑श्च॒ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ॥
तत् , इं॒द्र॒ , प्रऽइ॑व , वी॒र्यं॑ , च॒क॒र्थ॒ , यत् , स॒संतं॑ , वज्रे॑ण , अबो॑धयः , अहिं॑ । अनु॑ , त्वा॒ , पत्नीः॑ , हृ॒षि॒तं , वयः॑ , च॒ , विश्वे॑ , दे॒वासः॑ , अ॒म॒द॒न् , अनु॑ , त्वा॒ ॥
शुष्णं॒ पिप्रुं॒ कुय॑वं वृ॒त्रमिं॑द्र य॒दाव॑धी॒र्वि पुरः॒ शंब॑रस्य । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
शुष्णं॑ , पिप्रुं॑ , कुय॑वं , वृ॒त्रं , इं॒द्र॒ , य॒दा , अव॑धीः , वि , पुरः॑ , शंब॑रस्य । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[१०४] योनिष्टइति नवर्चस्य सूक्तस्य कुत्स इंद्रस्त्रिष्टुप् |
योनि॑ष्ट इंद्र नि॒षदे॑ अकारि॒ तमा नि षी॑द स्वा॒नो नार्वा॑ । वि॒मुच्या॒ वयो॑ऽव॒सायाश्वां॑दो॒षा वस्तो॒र्वही॑यसः प्रपि॒त्वे ॥
योनिः॑ , ते॒ , इं॒द्र॒ , नि॒ऽसदे॑ , अ॒का॒रि॒ , तं , आ , नि , सी॒द॒ , स्वा॒नः , न , अर्वा॑ । वि॒ऽमुच्य॑ , वयः॑ , अ॒व॒ऽसाय॑ , अश्वा॑न् , दो॒षा , वस्तोः॑ , वही॑यसः , प्र॒ऽपि॒त्वे ॥
ओ त्ये नर॒ इंद्र॑मू॒तये॑ गु॒र्नू चि॒त्तांत्स॒द्यो अध्व॑नो जगम्यात् । दे॒वासो॑ म॒न्युं दास॑स्य श्चम्नं॒ते न॒ आ व॑क्षंत्सुवि॒ताय॒ वर्णं॑ ॥
ओ इति॑ , त्ये , नरः॑ , इंद्रं॑ , ऊ॒तये॑ , गुः॒ , नु , चि॒त् , तान् , स॒द्यः , अध्व॑नः , ज॒ग॒म्या॒त् । दे॒वासः॑ , म॒न्युं , दास॑स्य , श्च॒म्न॒न् , ते , नः॒ , आ , व॒क्ष॒न् , सु॒वि॒ताय॑ , वर्णं॑ ॥
अव॒ त्मना॑ भरते॒ केत॑वेदा॒ अव॒ त्मना॑ भरते॒ फेन॑मु॒दन् । क्षी॒रेण॑ स्नातः॒ कुय॑वस्य॒ योषे॑ ह॒ते ते स्या॑तां प्रव॒णे शिफा॑याः ॥
अव॑ , त्मना॑ , भ॒र॒ते॒ , केत॑ऽवेदाः , अव॑ , त्मना॑ , भ॒र॒ते॒ , फेनं॑ , उ॒दन् । क्षी॒रेण॑ , स्ना॒तः॒ , कुय॑वस्य , योषे॒ इति॑ , ह॒ते इति॑ , ते इति॑ , स्या॒तां॒ , प्र॒व॒णे , शिफा॑याः ॥
यु॒योप॒ नाभि॒रुप॑रस्या॒योः प्र पूर्वा॑भिस्तिरते॒ राष्टि॒ शूरः॑ । अं॒ज॒सी कु॑लि॒शी वी॒रप॑त्नी॒ पयो॑ हिन्वा॒ना उ॒दभि॑र्भरंते ॥
यु॒योप॑ , नाभिः॑ , उप॑रस्य , आ॒योः , प्र , पूर्वा॑भिः , ति॒र॒ते॒ , राष्टि॑ , शूरः॑ । अं॒ज॒सी , कु॒लि॒शी , वी॒रऽप॑त्नी , पयः॑ , हि॒न्वा॒नाः , उ॒दऽभिः॑ , भ॒रं॒ते॒ ॥
प्रति॒ यत्स्या नीथाद॑र्शि॒ दस्यो॒रोको॒ नाच्छा॒ सद॑नं जान॒ती गा॑त् । अध॑ स्मा नो मघवंचर्कृ॒तादिन्मा नो॑ म॒घेव॑ निष्ष॒पी परा॑ दाः ॥
प्रति॑ , यत् , स्या , नीथा॑ , अद॑र्शि , दस्योः॑ , ओकः॑ , न , अच्छ॑ , सद॑नं , जा॒न॒ती , गा॒त् । अध॑ , स्म॒ , नः॒ , म॒घ॒ऽव॒न् , च॒र्कृ॒तात् , इत् , मा , नः॒ , म॒घाऽइ॑व , नि॒ष्ष॒पी , परा॑ , दाः॒ ॥
स त्वं न॑ इंद्र॒ सूर्ये॒ सो अ॒प्स्व॑नागा॒स्त्व आ भ॑ज जीवशं॒से । मांत॑रां॒ भुज॒मा री॑रिषो नः॒ श्रद्धि॑तं ते मह॒त इं॑द्रि॒याय॑ ॥
सः , त्वं , नः॒ , इं॒द्र॒ , सूर्ये॑ , सः , अ॒प्ऽसु , अ॒ना॒गाः॒ऽत्वे , आ , भ॒ज॒ , जी॒व॒ऽशं॒से । मा , अंत॑रां , भुजं॑ , आ , रि॒रि॒षः॒ , नः॒ , श्रद्धि॑तं , ते॒ , म॒ह॒ते , इं॒द्रि॒याय॑ ॥
अधा॑ मन्ये॒ श्रत्ते॑ अस्मा अधायि॒ वृषा॑ चोदस्व मह॒ते धना॑य । मा नो॒ अकृ॑ते पुरुहूत॒ योना॒विंद्र॒ क्षुध्य॑द्भ्यो॒ वय॑ आसु॒तिं दाः॑ ॥
अध॑ , म॒न्ये॒ , श्रत् , ते॒ , अ॒स्मै॒ , अ॒धा॒यि॒ , वृषा॑ , चो॒द॒स्व॒ , म॒ह॒ते , धना॑य । मा , नः॒ , अकृ॑ते , पु॒रु॒ऽहू॒त॒ , योनौ॑ , इंद्र॑ , क्षुध्य॑त्ऽभ्यः , वयः॑ , आ॒ऽसु॒तिं , दाः॒ ॥
मा नो॑ वधीरिंद्र॒ मा परा॑ दा॒ मा नः॑ प्रि॒या भोज॑नानि॒ प्र मो॑षीः । आं॒डा मा नो॑ मघवंछक्र॒ निर्भे॒न्मा नः॒ पात्रा॑ भेत्स॒हजा॑नुषाणि ॥
मा , नः॒ , व॒धीः॒ , इं॒द्र॒ , मा , परा॑ , दाः॒ , मा , नः॒ , प्रि॒या , भोज॑नानि , प्र , मो॒षीः॒ । आं॒डा , मा , नः॒ , म॒घ॒ऽव॒न् , श॒क्र॒ , निः , भे॒त् , मा , नः॒ , पात्रा॑ , भे॒त् , स॒हऽजा॑नुषाणि ॥
अ॒र्वाङेहि॒ सोम॑कामं त्वाहुर॒यं सु॒तस्तस्य॑ पिबा॒ मदा॑य । उ॒रु॒व्यचा॑ ज॒ठर॒ आ वृ॑षस्व पि॒तेव॑ नः शृणुहि हू॒यमा॑नः ॥
अ॒र्वाङ् , आ , इ॒हि॒ , सोम॑ऽकामं , त्वा॒ , आ॒हुः॒ , अ॒यं , सु॒तः , तस्य॑ , पि॒ब॒ , मदा॑य । उ॒रु॒ऽव्यचाः॑ , ज॒ठरे॑ , आ , वृ॒ष॒स्व॒ , पि॒ताऽइ॑व , नः॒ , शृ॒णु॒हि॒ , हू॒यमा॑नः ॥
[१०५] चंद्रमाइत्येकोनविंशत्यृचस्य सूक्तस्याप्त्यस्त्रितो विश्वेदेवाः पंक्तिः अंत्यात्रिष्टुप् अष्टमी महाबृहतीयवमध्या | (सूक्तभेदप्रयोगपक्षेतु आद्याया विश्वेदेवाः द्वितीयायारोदसी तृतीयाया विश्वेदेवाः चतुर्थ्याअग्निरोदस्यः ततस्तिसृणां विश्वेदेवाः अष्टम्याइंद्ररोदस्यः नवम्याः सूर्यरश्मिरोदस्यः दशम्या विश्वेदेवाः एकादश्याः सूर्यरश्मिरोदस्यः द्वादश्या विश्वेदेवाः ततोद्वयोरग्निरोदसी ततएकस्यावरुणरोदस्यः ततोद्वयोर्विश्वेदेवाः तत एकस्यारोदसी अंत्यायाविश्वेदेवाः, उत्तरसूक्तद्वयेविश्वेदेवाएव)|
चं॒द्रमा॑ अ॒प्स्व१॒॑न्तरा सु॑प॒र्णो धा॑वते दि॒वि । न वो॑ हिरण्यनेमयः प॒दं विं॑दंति विद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
चं॒द्रमाः॑ , अ॒प्ऽसु , अं॒तः , आ , सु॒ऽप॒र्णः , धा॒व॒ते॒ , दि॒वि । न , वः॒ , हि॒र॒ण्य॒ऽने॒म॒यः॒ , प॒दं , विं॒दं॒ति॒ , वि॒ऽद्यु॒तः॒ , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
अर्थ॒मिद्वा उ॑ अ॒र्थिन॒ आ जा॒या यु॑वते॒ पतिं॑ । तुं॒जाते॒ वृष्ण्यं॒ पयः॑ परि॒दाय॒ रसं॑ दुहे वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अर्थं॑ , इत् , वै , ऊँ॒ इति॑ , अ॒र्थिनः॑ , आ , जा॒या , यु॒व॒ते॒ , पतिं॑ । तुं॒जाते॒ इति॑ , वृष्ण्यं॑ , पयः॑ , प॒रि॒ऽदाय॑ , रसं॑ , दु॒हे॒ , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
मो षु दे॑वा अ॒दः स्व१॒॑रव॑ पादि दि॒वस्परि॑ । मा सो॒म्यस्य॑ शं॒भुवः॒ शूने॑ भूम॒ कदा॑ च॒न वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
मो इति॑ , सु , दे॒वाः॒ , अ॒दः , स्वः॑ , अव॑ , पा॒दि॒ , दि॒वः , परि॑ । मा , सो॒म्यस्य॑ , शं॒ऽभुवः॑ , शूने॑ , भू॒म॒ , कदा॑ , च॒न , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
य॒ज्ञं पृ॑च्छाम्यव॒मं स तद्दू॒तो वि वो॑चति । क्व॑ ऋ॒तं पू॒र्व्यं ग॒तं कस्तद्बि॑भर्ति॒ नूत॑नो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
य॒ज्ञं , पृ॒च्छा॒मि॒ , अ॒व॒मं , सः , तत् , दू॒तः , वि , वो॒च॒ति॒ । क्व॑ , ऋ॒तं , पू॒र्व्यं , ग॒तं , कः , तत् , बि॒भ॒र्ति॒ , नूत॑नः , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
अ॒मी ये दे॑वाः॒ स्थन॑ त्रि॒ष्वा रो॑च॒ने दि॒वः । कद्व॑ ऋ॒तं कदनृ॑तं॒ क्व॑ प्र॒त्ना व॒ आहु॑तिर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अ॒मी इति॑ , ये , दे॒वाः॒ , स्थन॑ , त्रि॒षु , आ , रो॒च॒ने , दि॒वः । कत् , वः॒ , ऋ॒तं , कत् , अनृ॑तं , क्व॑ , प्र॒त्ना , वः॒ , आऽहु॑तिः , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
कद्व॑ ऋ॒तस्य॑ धर्ण॒सि कद्वरु॑णस्य॒ चक्ष॑णं । कद॑र्य॒म्णो म॒हस्प॒थाति॑ क्रामेम दू॒ढ्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
कत् , वः॒ , ऋ॒तस्य॑ , ध॒र्ण॒सि , कत् , वरु॑णस्य , चक्ष॑णं । कत् , अ॒र्य॒म्णः , म॒हः , प॒था , अति॑ , क्रा॒मे॒म॒ , दुः॒ऽध्यः॑ , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
अ॒हं सो अ॑स्मि॒ यः पु॒रा सु॒ते वदा॑मि॒ कानि॑ चित् । तं मा॑ व्यंत्या॒ध्यो॒३॒॑ वृको॒ न तृ॒ष्णजं॑ मृ॒गं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अ॒हं , सः , अ॒स्मि॒ , यः , पु॒रा , सु॒ते , वदा॑मि , कानि॑ , चि॒त् । तं , मा॒ , व्यं॒ति॒ , आ॒ऽध्यः॑ , वृकः॑ , न , तृ॒ष्णऽजं॑ , मृ॒गं , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
सं मा॑ तपंत्य॒भितः॑ स॒पत्नी॑रिव॒ पर्श॑वः । मूषो॒ न शि॒श्ना व्य॑दंति मा॒ध्यः॑ स्तो॒तारं॑ ते शतक्रतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
सं , मा॒ , त॒पं॒ति॒ , अ॒भितः॑ , स॒पत्नीः॑ऽइव , पर्श॑वः । मूषः॑ , न , शि॒श्ना , वि , अ॒दं॒ति॒ , मा॒ , आ॒ऽध्यः॑ , स्तो॒तारं॑ , ते॒ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
अ॒मी ये स॒प्त र॒श्मय॒स्तत्रा॑ मे॒ नाभि॒रात॑ता । त्रि॒तस्तद्वे॑दा॒प्त्यः स जा॑मि॒त्वाय॑ रेभति वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अ॒मी इति॑ , ये , स॒प्त , र॒श्मयः॑ , तत्र॑ , मे॒ , नाभिः॑ , आऽत॑ता । त्रि॒तः , तत् , वे॒द॒ , आ॒प्त्यः , सः , जा॒मि॒ऽत्वाय॑ , रे॒भ॒ति॒ , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
अ॒मी ये पंचो॒क्षणो॒ मध्ये॑ त॒स्थुर्म॒हो दि॒वः । दे॒व॒त्रा नु प्र॒वाच्यं॑ सध्रीची॒ना नि वा॑वृतुर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अ॒मी इति॑ , ये , पंच॑ , उ॒क्षणः॑ , मध्ये॑ , त॒स्थुः , म॒हः , दि॒वः । दे॒व॒ऽत्रा , नु , प्र॒ऽवाच्यं॑ , स॒ध्री॒ची॒नाः , नि , व॒वृ॒तुः॒ , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
सु॒प॒र्णा ए॒त आ॑सते॒ मध्य॑ आ॒रोध॑ने दि॒वः । ते से॑धंति प॒थो वृकं॒ तरं॑तं य॒ह्वती॑र॒पो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
सु॒ऽप॒र्णाः , ए॒ते , आ॒स॒ते॒ , मध्ये॑ , आ॒ऽरोध॑ने , दि॒वः । ते , से॒धं॒ति॒ , प॒थः , वृकं॑ , तरं॒तं॒ , य॒ह्वतीः॑ , अ॒पः , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
नव्यं॒ तदु॒क्थ्यं॑ हि॒तं देवा॑सः सुप्रवाच॒नं । ऋ॒तम॑र्षंति॒ सिंध॑वः स॒त्यं ता॑तान॒ सूर्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
नव्यं॑ , तत् , उ॒क्थ्यं॑ , हि॒तं , देवा॑सः , सु॒ऽप्र॒वा॒च॒नं । ऋ॒तं , अ॒र्षं॒ति॒ , सिंध॑वः , स॒त्यं , त॒ता॒न॒ , सूर्यः॑ , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
अग्ने॒ तव॒ त्यदु॒क्थ्यं॑ दे॒वेष्व॒स्त्याप्यं॑ । स नः॑ स॒त्तो म॑नु॒ष्वदा दे॒वान्य॑क्षि वि॒दुष्ट॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अग्ने॑ , तव॑ , त्यत् , उ॒क्थ्यं॑ , दे॒वेषु॑ , अ॒स्ति॒ , आप्यं॑ । सः , नः॒ , स॒त्तः , म॒नु॒ष्वत् , आ , दे॒वान् , य॒क्षि॒ , वि॒दुःऽत॑रः , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
स॒त्तो होता॑ मनु॒ष्वदा दे॒वाँ अच्छा॑ वि॒दुष्ट॑रः । अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
स॒त्तः , होता॑ , म॒नु॒ष्वत् , आ , दे॒वान् , अच्छ॑ , वि॒दुःऽत॑रः । अ॒ग्निः , ह॒व्या , सु॒सू॒द॒ति॒ , दे॒वः , दे॒वेषु॑ , मेधि॑रः , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
ब्रह्मा॑ कृणोति॒ वरु॑णो गातु॒विदं॒ तमी॑महे । व्यू॑र्णोति हृ॒दा म॒तिं नव्यो॑ जायतामृ॒तं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
ब्रह्म॑ , कृ॒णो॒ति॒ , वरु॑णः , गा॒तु॒ऽविदं॑ , तं , ई॒म॒हे॒ । वि , ऊ॒र्णो॒ति॒ , हृ॒दा , म॒तिं , नव्यः॑ , जा॒य॒तां॒ , ऋ॒तं , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
अ॒सौ यः पंथा॑ आदि॒त्यो दि॒वि प्र॒वाच्यं॑ कृ॒तः । न स दे॑वा अति॒क्रमे॒ तं म॑र्तासो॒ न प॑श्यथ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अ॒सौ , यः , पंथाः॑ , आ॒दि॒त्यः , दि॒वि , प्र॒ऽवाच्यं॑ , कृ॒तः । न , सः , दे॒वाः॒ , अ॒ति॒ऽक्रमे॑ , तं , म॒र्ता॒सः॒ , न , प॒श्य॒थ॒ , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
त्रि॒तः कूपेऽव॑हितो दे॒वान्ह॑वत ऊ॒तये॑ । तच्छु॑श्राव॒ बृह॒स्पतिः॑ कृ॒ण्वन्नं॑हूर॒णादु॒रु वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
त्रि॒तः , कूपे॑ , अव॑ऽहितः , दे॒वान् , ह॒व॒ते॒ , ऊ॒तये॑ । तत् , शु॒श्रा॒व॒ , बृह॒स्पतिः॑ , कृ॒ण्वन् , अं॒हू॒र॒णात् , उ॒रु , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
अ॒रु॒णो मा॑ स॒कृद्वृकः॑ प॒था यंतं॑ द॒दर्श॒ हि । उज्जि॑हीते नि॒चाय्या॒ तष्टे॑व पृष्ट्याम॒यी वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अ॒रु॒णः , मा॒ , स॒कृत् , वृकः॑ , प॒था , यंतं॑ , द॒दर्श॑ , हि । उत् , जि॒ही॒ते॒ , नि॒ऽचाय्य॑ , तष्टा॑ऽइव , पृ॒ष्टि॒ऽआ॒म॒यी , वि॒त्तं , मे॒ , अ॒स्य , रो॒द॒सी॒ इति॑ ॥
ए॒नांगू॒षेण॑ व॒यमिंद्र॑वंतो॒ऽभि ष्या॑म वृ॒जने॒ सर्व॑वीराः । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
ए॒ना , आं॒गू॒षेण॑ , व॒यं , इंद्र॑ऽवंतः , अ॒भि , स्या॒म॒ , वृ॒जने॑ , सर्व॑ऽवीराः । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[१०६] इंद्रंमित्रमिति सप्तर्चस्य सूक्तस्य कुत्सो विश्वेदेवाजगतीअंत्यात्रिष्टुप् |
इंद्रं॑ मि॒त्रं वरु॑णम॒ग्निमू॒तये॒ मारु॑तं॒ शर्धो॒ अदि॑तिं हवामहे । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
इंद्रं॑ , मि॒त्रं , वरु॑णं , अ॒ग्निं , ऊ॒तये॑ , मारु॑तं , शर्धः॑ , अदि॑तिं , ह॒वा॒म॒हे॒ । रथं॑ , न , दुः॒ऽगात् , व॒स॒वः॒ , सु॒ऽदा॒न॒वः॒ , विश्व॑स्मात् , नः॒ , अंह॑सः , निः , पि॒प॒र्त॒न॒ ॥
त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये भू॒त दे॑वा वृत्र॒तूर्ये॑षु शं॒भुवः॑ । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
ते , आ॒दि॒त्याः॒ , आ , ग॒त॒ , स॒र्वऽता॑तये , भू॒त , दे॒वाः॒ , वृ॒त्र॒ऽतूर्ये॑षु , शं॒ऽभुवः॑ । रथं॑ , न , दुः॒ऽगात् , व॒स॒वः॒ , सु॒ऽदा॒न॒वः॒ , विश्व॑स्मात् , नः॒ , अंह॑सः , निः , पि॒प॒र्त॒न॒ ॥
अवं॑तु नः पि॒तरः॑ सुप्रवाच॒ना उ॒त दे॒वी दे॒वपु॑त्रे ऋता॒वृधा॑ । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
अवं॑तु , नः॒ , पि॒तरः॑ , सु॒ऽप्र॒वा॒च॒नाः , उ॒त , दे॒वी इति॑ , दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे , ऋ॒त॒ऽवृधा॑ । रथं॑ , न , दुः॒ऽगात् , व॒स॒वः॒ , सु॒ऽदा॒न॒वः॒ , विश्व॑स्मात् , नः॒ , अंह॑सः , निः , पि॒प॒र्त॒न॒ ॥
नरा॒शंसं॑ वा॒जिनं॑ वा॒जय॑न्नि॒ह क्ष॒यद्वी॑रं पू॒षणं॑ सु॒म्नैरी॑महे । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
नरा॒शंसं॑ , वा॒जिनं॑ , वा॒जय॑न् , इ॒ह , क्ष॒यत्ऽवी॑रं , पू॒षणं॑ , सु॒म्नैः , ई॒म॒हे॒ । रथं॑ , न , दुः॒ऽगात् , व॒स॒वः॒ , सु॒ऽदा॒न॒वः॒ , विश्व॑स्मात् , नः॒ , अंह॑सः , निः , पि॒प॒र्त॒न॒ ॥
बृह॑स्पते॒ सद॒मिन्नः॑ सु॒गं कृ॑धि॒ शं योर्यत्ते॒ मनु॑र्हितं॒ तदी॑महे । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
बृह॑स्पते , सदं॑ , इत् , नः॒ , सु॒ऽगं , कृ॒धि॒ , शं , योः , यत् , ते॒ , मनुः॑ऽहितं , तत् , ई॒म॒हे॒ । रथं॑ , न , दुः॒ऽगात् , व॒स॒वः॒ , सु॒ऽदा॒न॒वः॒ , विश्व॑स्मात् , नः॒ , अंह॑सः , निः , पि॒प॒र्त॒न॒ ॥
इंद्रं॒ कुत्सो॑ वृत्र॒हणं॒ शची॒पतिं॑ का॒टे निबा॑ळ्ह॒ ऋषि॑रह्वदू॒तये॑ । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
इंद्रं॑ , कुत्सः॑ , वृ॒त्र॒ऽहनं॑ , शची॒३॒॑ऽपतिं॑ , का॒टे , निऽबा॑ळ्हः , ऋषिः॑ , अ॒ह्व॒त् , ऊ॒तये॑ । रथं॑ , न , दुः॒ऽगात् , व॒स॒वः॒ , सु॒ऽदा॒न॒वः॒ , विश्व॑स्मात् , नः॒ , अंह॑सः , निः , पि॒प॒र्त॒न॒ ॥
दे॒वैर्नो॑ दे॒व्यदि॑ति॒र्नि पा॑तु दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑युच्छन् । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
दे॒वैः , नः॒ , दे॒वी , अदि॑तिः , नि , पा॒तु॒ , दे॒वः , त्रा॒ता , त्रा॒य॒तां॒ , अप्र॑ऽयुच्छन् । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[१०७] यज्ञोदेवानामिति तृचस्य सूक्तस्य कुत्सोविश्वेदेवास्त्रिष्टुप् |
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यंतः॑ । आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥
य॒ज्ञः , दे॒वानां॑ , प्रति॑ , ए॒ति॒ , सु॒म्नं , आदि॑त्यासः , भव॑त , मृ॒ळ॒यंतः॑ । आ , वः॒ , अ॒र्वाची॑ , सु॒ऽम॒तिः , व॒वृ॒त्या॒त् , अं॒होः , चि॒त् , या , व॒रि॒वो॒वित्ऽत॑रा , अस॑त् ॥
उप॑ नो दे॒वा अव॒सा ग॑मं॒त्वंगि॑रसां॒ साम॑भिः स्तू॒यमा॑नाः । इंद्र॑ इंद्रि॒यैर्म॒रुतो॑ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥
उप॑ , नः॒ , दे॒वाः , अव॑सा , आ , ग॒मं॒तु॒ , अंगि॑रसां , साम॑ऽभिः , स्तू॒यमा॑नाः । इंद्रः॑ , इं॒द्रि॒यैः , म॒रुतः॑ , म॒रुत्ऽभिः॑ , आ॒दि॒त्यैः , नः॒ , अदि॑तिः , शर्म॑ , यं॒स॒त् ॥
तन्न॒ इंद्र॒स्तद्वरु॑ण॒स्तद॒ग्निस्तद॑र्य॒मा तत्स॑वि॒ता चनो॑ धात् । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
तत् , नः॒ , इंद्रः॑ , तत् , वरु॑णः , तत् , अ॒ग्निः , तत् , अ॒र्य॒मा , तत् , स॒वि॒ता , चनः॑ , धा॒त् । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[१०८] यइंद्राग्नी इति त्रयोदशर्चस्य सूक्तस्य कुत्स इंद्राग्नीत्रिष्टुप् |
य इं॑द्राग्नी चि॒त्रत॑मो॒ रथो॑ वाम॒भि विश्वा॑नि॒ भुव॑नानि॒ चष्टे॑ । तेना या॑तं स॒रथं॑ तस्थि॒वांसाथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
यः , इं॒द्रा॒ग्नी॒ इति॑ , चि॒त्रऽत॑मः , रथः॑ , वां॒ , अ॒भि , विश्वा॑नि , भुव॑नानि , चष्टे॑ । तेन॑ , आ , या॒तं॒ , स॒ऽरथं॑ , त॒स्थि॒ऽवांसा॑ , अथ॑ , सोम॑स्य , पि॒ब॒तं॒ , सु॒तस्य॑ ॥
याव॑दि॒दं भुव॑नं॒ विश्व॒मस्त्यु॑रु॒व्यचा॑ वरि॒मता॑ गभी॒रं । तावाँ॑ अ॒यं पात॑वे॒ सोमो॑ अ॒स्त्वर॑मिंद्राग्नी॒ मन॑से यु॒वभ्यां॑ ॥
याव॑त् , इदं॒ , भुव॑नं , विश्वं॑ , अस्ति॑ , उ॒रु॒ऽव्यचा॑ , व॒रि॒मता॑ , ग॒भी॒रं । तावा॑न् , अ॒यं , पात॑वे , सोमः॑ , अ॒स्तु॒ , अरं॑ , इं॒द्रा॒ग्नी॒ इति॑ , मन॑से , यु॒वऽभ्यां॑ ॥
च॒क्राथे॒ हि स॒ध्र्य१॒॑ङ्नाम॑ भ॒द्रं स॑ध्रीची॒ना वृ॑त्रहणा उ॒त स्थः॑ । ताविं॑द्राग्नी स॒ध्र्यं॑चा नि॒षद्या॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथां ॥
च॒क्राथे॒ इति॑ , हि , स॒ध्र्य॑क् , नाम॑ , भ॒द्रं , स॒ध्री॒ची॒ना , वृ॒त्र॒ऽह॒नौ॒ , उ॒त , स्थः॒ । तौ , इं॒द्रा॒ग्नी॒ इति॑ , स॒ध्र्यं॑चा , नि॒ऽसद्य॑ , वृष्णः॑ , सोम॑स्य , वृ॒ष॒णा॒ , आ , वृ॒षे॒थां॒ ॥
समि॑द्धेष्व॒ग्निष्वा॑नजा॒ना य॒तस्रु॑चा ब॒र्हिरु॑ तिस्तिरा॒णा । ती॒व्रैः सोमैः॒ परि॑षिक्तेभिर॒र्वागेंद्रा॑ग्नी सौमन॒साय॑ यातं ॥
संऽइ॑द्धेषु , अ॒ग्निषु॑ , आ॒न॒जा॒ना , य॒तऽस्रु॑चा , ब॒र्हिः , ऊँ॒ इति॑ , ति॒स्ति॒रा॒णा । ती॒व्रैः , सोमैः॑ , परि॑ऽसिक्तेभिः , अ॒र्वाक् , आ , इं॒द्रा॒ग्नी॒ इति॑ , सौ॒म॒न॒साय॑ , या॒तं॒ ॥
यानीं॑द्राग्नी च॒क्रथु॑र्वी॒र्या॑णि॒ यानि॑ रू॒पाण्यु॒त वृष्ण्या॑नि । या वां॑ प्र॒त्नानि॑ स॒ख्या शि॒वानि॒ तेभिः॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
यानि॑ , इं॒द्रा॒ग्नी॒ इति॑ , च॒क्रथुः॑ , वी॒र्या॑णि , यानि॑ , रू॒पाणि॑ , उ॒त , वृष्ण्या॑नि । या , वां॒ , प्र॒त्नानि॑ , स॒ख्या , शि॒वानि॑ , तेभिः॑ , सोम॑स्य , पि॒ब॒तं॒ , सु॒तस्य॑ ॥
यदब्र॑वं प्रथ॒मं वां॑ वृणा॒नो॒३॒॑ऽयं सोमो॒ असु॑रैर्नो वि॒हव्यः॑ । तां स॒त्यां श्र॒द्धाम॒भ्या हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
यत् , अब्र॑वं , प्र॒थ॒मं , वां॒ , वृ॒णा॒नः , अ॒यं , सोमः॑ , असु॑रैः , नः॒ , वि॒ऽहव्यः॑ । तां , स॒त्यां , श्र॒द्धां , अ॒भि , आ , हि , या॒तं , अथ॑ , सोम॑स्य , पि॒ब॒तं॒ , सु॒तस्य॑ ॥
यदिं॑द्राग्नी॒ मद॑थः॒ स्वे दु॑रो॒णे यद्ब्र॒ह्मणि॒ राज॑नि वा यजत्रा । अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
यत् , इं॒द्रा॒ग्नी॒ इति॑ , मद॑थः , स्वे , दु॒रो॒णे , यत् , ब्र॒ह्मणि॑ , राज॑नि , वा॒ , य॒ज॒त्रा॒ । अतः॑ , परि॑ , वृ॒ष॒णौ॒ , आ , हि , या॒तं , अथ॑ , सोम॑स्य , पि॒ब॒तं॒ , सु॒तस्य॑ ॥
यदिं॑द्राग्नी॒ यदु॑षु तु॒र्वशे॑षु॒ यद्द्रु॒ह्युष्वनु॑षु पू॒रुषु॒ स्थः । अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
यत् , इं॒द्रा॒ग्नी॒ इति॑ , यदु॑षु , तु॒र्वशे॑षु , यत् , द्रु॒ह्युषु॑ , अनु॑षु , पू॒रुषु॑ , स्थः । अतः॑ , परि॑ , वृ॒ष॒णौ॒ , आ , हि , या॒तं , अथ॑ , सोम॑स्य , पि॒ब॒तं॒ , सु॒तस्य॑ ॥
यदिं॑द्राग्नी अव॒मस्यां॑ पृथि॒व्यां म॑ध्य॒मस्यां॑ पर॒मस्या॑मु॒त स्थः । अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
यत् , इं॒द्रा॒ग्नी॒ इति॑ , अ॒व॒मस्यां॑ , पृ॒थि॒व्यां , म॒ध्य॒मस्यां॑ , प॒र॒मस्यां॑ , उ॒त , स्थः । अतः॑ , परि॑ , वृ॒ष॒णौ॒ , आ , हि , या॒तं , अथ॑ , सोम॑स्य , पि॒ब॒तं॒ , सु॒तस्य॑ ॥
यदिं॑द्राग्नी पर॒मस्यां॑ पृथि॒व्यां म॑ध्य॒मस्या॑मव॒मस्या॑मु॒त स्थः । अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
यत् , इं॒द्रा॒ग्नी॒ इति॑ , प॒र॒मस्यां॑ , पृ॒थि॒व्यां , म॒ध्य॒मस्यां॑ , अ॒व॒मस्यां॑ , उ॒त , स्थः । अतः॑ , परि॑ , वृ॒ष॒णौ॒ , आ , हि , या॒तं , अथ॑ , सोम॑स्य , पि॒ब॒तं॒ , सु॒तस्य॑ ॥
यदिं॑द्राग्नी दि॒वि ष्ठो यत्पृ॑थि॒व्यां यत्पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
यत् , इं॒द्रा॒ग्नी॒ इति॑ , दि॒वि , स्थः , यत् , पृ॒थि॒व्यां , यत् , पर्व॑तेषु , ओष॑धीषु , अ॒प्ऽसु । अतः॑ , परि॑ , वृ॒ष॒णौ॒ , आ , हि , या॒तं , अथ॑ , सोम॑स्य , पि॒ब॒तं॒ , सु॒तस्य॑ ॥
यदिं॑द्राग्नी॒ उदि॑ता॒ सूर्य॑स्य॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दये॑थे । अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
यत् , इं॒द्रा॒ग्नी॒ इति॑ , उत्ऽइ॑ता , सूर्य॑स्य , मध्ये॑ , दि॒वः , स्व॒धया॑ , मा॒दये॑थे॒ इति॑ । अतः॑ , परि॑ , वृ॒ष॒णौ॒ , आ , हि , या॒तं , अथ॑ , सोम॑स्य , पि॒ब॒तं॒ , सु॒तस्य॑ ॥
ए॒वेंद्रा॑ग्नी पपि॒वांसा॑ सु॒तस्य॒ विश्वा॒स्मभ्यं॒ सं ज॑यतं॒ धना॑नि । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
ए॒व , इं॒द्रा॒ग्नी॒ इति॑ , प॒पि॒ऽवांसा॑ , सु॒तस्य॑ , विश्वा॑ , अ॒स्मभ्यं॑ , सं , ज॒यतं॒ , धना॑नि । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[१०९] विह्यख्यमित्यष्टर्चस्य सूक्तस्य कुत्सइंद्राग्नीत्रिष्टुप् |
वि ह्यख्यं॒ मन॑सा॒ वस्य॑ इ॒च्छन्निंद्रा॑ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् । नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्यं॒ स वां॒ धियं॑ वाज॒यंती॑मतक्षं ॥
वि , हि , अख्यं॑ , मन॑सा , वस्यः॑ , इ॒च्छन् , इंद्रा॑ग्नी॒ इति॑ , ज्ञा॒सः , उ॒त , वा॒ , स॒ऽजा॒तान् । न , अ॒न्या , यु॒वत् , प्रऽम॑तिः , अ॒स्ति॒ , मह्यं॑ , सः , वां॒ , धियं॑ , वा॒ज॒ऽयंतीं॑ , अ॒त॒क्षं॒ ॥
अश्र॑वं॒ हि भू॑रि॒दाव॑त्तरा वां॒ विजा॑मातुरु॒त वा॑ घा स्या॒लात् । अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिंद्रा॑ग्नी॒ स्तोमं॑ जनयामि॒ नव्यं॑ ॥
अश्र॑वं , हि , भू॒रि॒दाव॑त्ऽतरा , वां॒ , विऽजा॑मातुः , उ॒त , वा॒ , घ॒ , स्या॒लात् । अथ॑ , सोम॑स्य , प्रऽय॑ती , यु॒वऽभ्यां॑ , इंद्रा॑ग्नी॒ इति॑ , स्तोमं॑ , ज॒न॒या॒मि॒ , नव्यं॑ ॥
मा च्छे॑द्म र॒श्मीँरिति॒ नाध॑मानाः पितॄ॒णां श॒क्तीर॑नु॒यच्छ॑मानाः । इं॒द्रा॒ग्निभ्यां॒ कं वृष॑णो मदंति॒ ता ह्यद्री॑ धि॒षणा॑या उ॒पस्थे॑ ॥
मा , छे॒द्म॒ , र॒श्मीन् , इति॑ , नाध॑मानाः , पि॒तॄ॒णां , श॒क्तीः , अ॒नु॒ऽयच्छ॑मानाः । इं॒द्रा॒ग्निऽभ्यां॑ , कं , वृष॑णः , म॒दं॒ति॒ , ता , हि , अद्री॒ इति॑ , धि॒षणा॑याः , उ॒पऽस्थे॑ ॥
यु॒वाभ्यां॑ दे॒वी धि॒षणा॒ मदा॒येंद्रा॑ग्नी॒ सोम॑मुश॒ती सु॑नोति । ताव॑श्विना भद्रहस्ता सुपाणी॒ आ धा॑वतं॒ मधु॑ना पृं॒क्तम॒प्सु ॥
यु॒वाभ्यां॑ , दे॒वी , धि॒षणा॑ , मदा॑य , इंद्रा॑ग्नी॒ इति॑ , सोमं॑ , उ॒श॒ती , सु॒नो॒ति॒ । तौ , अ॒श्वि॒ना॒ , भ॒द्र॒ऽह॒स्ता॒ , सु॒पा॒णी॒ इति॑ सुऽपाणी , आ , धा॒व॒तं॒ , मधु॑ना , पृं॒क्तं , अ॒प्ऽसु ॥
यु॒वामिं॑द्राग्नी॒ वसु॑नो विभा॒गे त॒वस्त॑मा शुश्रव वृत्र॒हत्ये॑ । तावा॒सद्या॑ ब॒र्हिषि॑ य॒ज्ञे अ॒स्मिन्प्र च॑र्षणी मादयेथां सु॒तस्य॑ ॥
यु॒वां , इं॒द्रा॒ग्नी॒ इति॑ , वसु॑नः , वि॒ऽभा॒गे , त॒वःऽत॑मा , शु॒श्र॒व॒ , वृ॒त्र॒ऽहत्ये॑ । तौ , आ॒ऽसद्य॑ , ब॒र्हिषि॑ , य॒ज्ञे , अ॒स्मिन् , प्र , च॒र्ष॒णी॒ इति॑ , मा॒द॒ये॒थां॒ , सु॒तस्य॑ ॥
प्र च॑र्ष॒णिभ्यः॑ पृतना॒हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ । प्र सिंधु॑भ्यः॒ प्र गि॒रिभ्यो॑ महि॒त्वा प्रेंद्रा॑ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ॥
प्र , च॒र्ष॒णिऽभ्यः॑ , पृ॒त॒ना॒ऽहवे॑षु , प्र , पृ॒थि॒व्याः , रि॒रि॒चा॒थे॒ इति॑ , दि॒वः , च॒ । प्र , सिंधु॑ऽभ्यः , प्र , गि॒रिऽभ्यः॑ , म॒हि॒ऽत्वा , प्र , इं॒द्रा॒ग्नी॒ इति॑ , विश्वा॑ , भुव॑ना , अति॑ , अ॒न्या ॥
आ भ॑रतं॒ शिक्ष॑तं वज्रबाहू अ॒स्माँ इं॑द्राग्नी अवतं॒ शची॑भिः । इ॒मे नु ते र॒श्मयः॒ सूर्य॑स्य॒ येभिः॑ सपि॒त्वं पि॒तरो॑ न॒ आस॑न् ॥
आ , भ॒र॒तं॒ , शिक्ष॑तं , व॒ज्र॒बा॒हू॒ इति॑ वज्रऽबाहू , अ॒स्मान् , इं॒द्रा॒ग्नी॒ इति॑ , अ॒व॒तं॒ , शची॑भिः । इ॒मे , नु , ते , र॒श्मयः॑ , सूर्य॑स्य , येभिः॑ , स॒ऽपि॒त्वं , पि॒तरः॑ , नः॒ , आस॑न् ॥
पुरं॑दरा॒ शिक्ष॑तं वज्रहस्ता॒स्माँ इं॑द्राग्नी अवतं॒ भरे॑षु । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
पुरं॑ऽदरा , शिक्ष॑तं , व॒ज्र॒ऽह॒स्ता॒ , अ॒स्मान् , इं॒द्रा॒ग्नी॒ इति॑ , अ॒व॒तं॒ , भरे॑षु । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[११०] ततंमइति नवर्चस्य सूक्तस्य कुत्स ऋभवोजगतीपंचम्यंत्येत्रिष्टुभौ
त॒तं मे॒ अप॒स्तदु॑ तायते॒ पुनः॒ स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते । अ॒यं स॑मु॒द्र इ॒ह वि॒श्वदे॑व्यः॒ स्वाहा॑कृतस्य॒ समु॑ तृप्णुत ऋभवः ॥
त॒तं , मे॒ , अपः॑ , तत् , ऊँ॒ इति॑ , ता॒य॒ते॒ , पुन॒रिति॑ , स्वादि॑ष्ठा , धी॒तिः , उ॒चथा॑य , श॒स्य॒ते॒ । अ॒यं , स॒मु॒द्रः , इ॒ह , वि॒श्वऽदे॑व्यः॒ , स्वाहा॑ऽकृतस्य , सं , ऊँ॒ इति॑ , तृ॒प्णु॒त॒ , ऋ॒भ॒वः॒ ॥
आ॒भो॒गयं॒ प्र यदि॒च्छंत॒ ऐत॒नापा॑काः॒ प्रांचो॒ मम॒ के चि॑दा॒पयः॑ । सौध॑न्वनासश्चरि॒तस्य॑ भू॒मनाग॑च्छत सवि॒तुर्दा॒शुषो॑ गृ॒हं ॥
आ॒ऽभो॒गयं॑ , प्र , यत् , इ॒च्छंतः॑ , ऐत॑न , अपा॑काः , प्रांचः॑ , मम॑ , के , चि॒त् , आ॒पयः॑ । सौध॑न्वनासः , च॒रि॒तस्य॑ , भू॒मना॑ , अग॑च्छत , स॒वि॒तुः , दा॒शुषः॑ , गृ॒हं ॥
तत्स॑वि॒ता वो॑ऽमृत॒त्वमासु॑व॒दगो॑ह्यं॒ यच्छ्र॒वयं॑त॒ ऐत॑न । त्यं चि॑च्चम॒समसु॑रस्य॒ भक्ष॑ण॒मेकं॒ संत॑मकृणुता॒ चतु॑र्वयं ॥
तत् , स॒वि॒ता , वः॒ , अ॒मृ॒त॒ऽत्वं , आ , अ॒सु॒व॒त् , अगो॑ह्यं , यत् , श्र॒वयं॑तः , ऐत॑न । त्यं , चि॒त् , च॒म॒सं , असु॑रस्य , भक्ष॑णं , एकं॑ , संतं॑ , अ॒कृ॒णु॒त॒ , चतुः॑ऽवयं ॥
वि॒ष्ट्वी शमी॑ तरणि॒त्वेन॑ वा॒घतो॒ मर्ता॑सः॒ संतो॑ अमृत॒त्वमा॑नशुः । सौ॒ध॒न्व॒ना ऋ॒भवः॒ सूर॑चक्षसः संवत्स॒रे सम॑पृच्यंत धी॒तिभिः॑ ॥
वि॒ष्ट्वी , शमी॑ , त॒र॒णि॒ऽत्वेन॑ , वा॒घतः॑ , मर्ता॑सः , संतः॑ , अ॒मृ॒त॒ऽत्वं , आ॒न॒शुः॒ । सौ॒ध॒न्व॒नाः , ऋ॒भवः॑ , सूर॑ऽचक्षसः , सं॒व॒त्स॒रे , सं , अ॒पृ॒च्यं॒त॒ , धी॒तिऽभिः॑ ॥
क्षेत्र॑मिव॒ वि म॑मु॒स्तेज॑नेनँ॒ एकं॒ पात्र॑मृ॒भवो॒ जेह॑मानं । उप॑स्तुता उप॒मं नाध॑माना॒ अम॑र्त्येषु॒ श्रव॑ इ॒च्छमा॑नाः ॥
क्षेत्रं॑ऽइव , वि , म॒मुः॒ , तेज॑नेन , एकं॑ , पात्रं॑ , ऋ॒भवः॑ , जेह॑मानं । उप॑ऽस्तुताः , उ॒प॒ऽमं , नाध॑मानाः , अम॑र्त्येषु , श्रवः॑ , इ॒च्छमा॑नाः ॥
आ म॑नी॒षामं॒तरि॑क्षस्य॒ नृभ्यः॑ स्रु॒चेव॑ घृ॒तं जु॑हवाम वि॒द्मना॑ । त॒र॒णि॒त्वा ये पि॒तुर॑स्य सश्चि॒र ऋ॒भवो॒ वाज॑मरुहंदि॒वो रजः॑ ॥
आ , मा॒नी॒षां , अं॒तरि॑क्षस्य , नृऽभ्यः॑ , स्रु॒चाऽइ॑व , घृ॒तं , जु॒ह॒वा॒म॒ , वि॒द्मना॑ । त॒र॒णि॒ऽत्वा , ये , पि॒तुः , अ॒स्य॒ , स॒श्चि॒रे , ऋ॒भवः॑ , वाजं॑ , अ॒रु॒ह॒न् , दि॒वः , रजः॑ ॥
ऋ॒भुर्न॒ इंद्रः॒ शव॑सा॒ नवी॑यानृ॒भुर्वाजे॑भि॒र्वसु॑भि॒र्वसु॑र्द॒दिः । यु॒ष्माकं॑ देवा॒ अव॒साह॑नि प्रि॒ये॒३॒॑ऽभि ति॑ष्ठेम पृत्सु॒तीरसु॑न्वतां ॥
ऋ॒भुः , नः॒ , इंद्रः॑ , शव॑सा , नवी॑यान् , ऋ॒भुः , वाजे॑भिः , वसु॑ऽभिः , वसुः॑ , द॒दिः । यु॒ष्माकं॑ , दे॒वाः॒ , अव॑सा , अह॑नि , प्रि॒ये , अ॒भि , ति॒ष्ठे॒म॒ , पृ॒त्सु॒तीः , असु॑न्वतां ॥
निश्चर्म॑ण ऋभवो॒ गाम॑पिंशत॒ सं व॒त्सेना॑सृजता मा॒तरं॒ पुनः॑ । सौध॑न्वनासः स्वप॒स्यया॑ नरो॒ जिव्री॒ युवा॑ना पि॒तरा॑कृणोतन ॥
निः , चर्म॑णः , ऋ॒भ॒वः॒ , गां , अ॒पिं॒श॒त॒ , सं , व॒त्सेन॑ , अ॒सृ॒ज॒त॒ , मा॒तरं॑ , पुन॒रिति॑ । सौध॑न्वनासः , सु॒ऽअ॒प॒स्यया॑ , न॒रः॒ , जिव्री॒ इति॑ , युवा॑ना , पि॒तरा॑ , अ॒कृ॒णो॒त॒न॒ ॥
वाजे॑भिर्नो॒ वाज॑सातावविड्ढ्यृभु॒माँ इं॑द्र चि॒त्रमा द॑र्षि॒ राधः॑ । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
वाजे॑भिः , नः॒ , वाज॑ऽसातौ , अ॒वि॒ड्ढि॒ , ऋ॒भु॒ऽमान् , इं॒द्र॒ , चि॒त्रं , आ , द॒र्षि॒ , राधः॑ । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[१११] तक्षन्रथमिति पंचर्चस्य सूक्तस्य कुत्स ऋभवोजगतीअंत्यात्रिष्टुप् |
तक्ष॒न्रथं॑ सु॒वृतं॑ विद्म॒नाप॑स॒स्तक्ष॒न्हरी॑ इंद्र॒वाहा॒ वृष॑ण्वसू । तक्ष॑न्पि॒तृभ्या॑मृ॒भवो॒ युव॒द्वय॒स्तक्ष॑न्व॒त्साय॑ मा॒तरं॑ सचा॒भुवं॑ ॥
तक्ष॑न् , रथं॑ , सु॒ऽवृतं॑ , वि॒द्म॒नाऽअ॑पसः , तक्ष॑न् , हरी॒ इति॑ , इं॒द्र॒ऽवाहा॑ , वृष॑ण्वसू॒ इति॒ वृष॑ण्ऽवसू । तक्ष॑न् , पि॒तृऽभ्यां॑ , ऋ॒भवः॑ , युव॑त् , वयः॑ , तक्ष॑न् , व॒त्साय॑ , मा॒तरं॑ , स॒चा॒ऽभुवं॑ ॥
आ नो॑ य॒ज्ञाय॑ तक्षत ऋभु॒मद्वयः॒ क्रत्वे॒ दक्षा॑य सुप्र॒जाव॑ती॒मिषं॑ । यथा॒ क्षया॑म॒ सर्व॑वीरया वि॒शा तन्नः॒ शर्धा॑य धासथा॒ स्विं॑द्रि॒यं ॥
आ , नः॒ , य॒ज्ञाय॑ , त॒क्ष॒त॒ , ऋ॒भु॒ऽमत् , वयः॑ , क्रत्वे॑ , दक्षा॑य , सु॒ऽप्र॒जाव॑तीं , इषं॑ । यथा॑ , क्षया॑म , सर्व॑ऽवीरया , वि॒शा , तत् , नः॒ , शर्धा॑य , धा॒स॒थ॒ , सु , इं॒द्रि॒यं ॥
आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा॑य सा॒तिमर्व॑ते नरः । सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा॑ जा॒मिमजा॑मिं॒ पृत॑नासु स॒क्षणिं॑ ॥
आ , त॒क्ष॒त॒ , सा॒तिं , अ॒स्मभ्यं॑ , ऋ॒भ॒वः॒ , सा॒तिं , रथा॑य , सा॒तिं , अर्व॑ते , न॒रः॒ । सा॒तिं , नः॒ , जैत्रीं॑ , सं , म॒हे॒त॒ , वि॒श्वऽहा॑ , जा॒मिं , अजा॑मिं , पृत॑नासु , स॒क्षणिं॑ ॥
ऋ॒भु॒क्षण॒मिंद्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा॑न्म॒रुतः॒ सोम॑पीतये । उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो॑ हिन्वंतु सा॒तये॑ धि॒ये जि॒षे ॥
ऋ॒भु॒क्षणं॑ , इंद्रं॑ , आ , हु॒वे॒ , ऊ॒तये॑ , ऋ॒भून् , वाजा॑न् , म॒रुतः॑ , सोम॑ऽपीतये । उ॒भा , मि॒त्रावरु॑णा , नू॒नं , अ॒श्विना॑ , ते , नः॒ , हि॒न्वं॒तु॒ , सा॒तये॑ , धि॒ये , जि॒षे ॥
ऋ॒भुर्भरा॑य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो॑ अ॒स्माँ अ॑विष्टु । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
ऋ॒भुः , भरा॑य , सं , शि॒शा॒तु॒ , सा॒तिं , स॒म॒र्य॒ऽजित् , वाजः॑ , अ॒स्मान् , अ॒वि॒ष्टु॒ । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[११२] ईळेद्यावापृथिवीइति पंचविंशत्यृचस्य सूक्तस्य कुत्सः आद्यायाद्यावापृथिव्यग्न्यश्विनः शिष्टानामश्विनौ जगतीअंत्येद्वेत्रिष्टुभौ
ईळे॒ द्यावा॑पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम॑न्नि॒ष्टये॑ । याभि॒र्भरे॑ का॒रमंशा॑य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
ईळे॑ , द्यावा॑पृथि॒वी इति॑ , पू॒र्वऽचि॑त्तये , अ॒ग्निं , घ॒र्मं , सु॒ऽरुचं॑ , याम॑न् , इ॒ष्टये॑ । याभिः॑ , भरे॑ , का॒रं , अंशा॑य , जिन्व॑थः , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
यु॒वोर्दा॒नाय॑ सु॒भरा॑ अस॒श्चतो॒ रथ॒मा त॑स्थुर्वच॒सं न मंत॑वे । याभि॒र्धियोऽव॑थः॒ कर्म॑न्नि॒ष्टये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
यु॒वोः , दा॒नाय॑ , सु॒ऽभराः॑ , अ॒स॒श्चतः॑ , रथं॑ , आ , त॒स्थुः॒ , व॒च॒सं , न , मंत॑वे । याभिः॑ , धियः॑ , अव॑थः , कर्म॑न् , इ॒ष्टये॑ , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
यु॒वं तासां॑ दि॒व्यस्य॑ प्र॒शास॑ने वि॒शां क्ष॑यथो अ॒मृत॑स्य म॒ज्मना॑ । याभि॑र्धे॒नुम॒स्वं१॒॑ पिन्व॑थो नरा॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
यु॒वं , तासां॑ , दि॒व्यस्य॑ , प्र॒ऽशास॑ने , वि॒शां , क्ष॒य॒थः॒ , अ॒मृत॑स्य , म॒ज्मना॑ । याभिः॑ , धे॒नुं , अ॒स्वं॑ , पिन्व॑थः , न॒रा॒ , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभिः॒ परि॑ज्मा॒ तन॑यस्य म॒ज्मना॑ द्विमा॒ता तू॒र्षु त॒रणि॑र्वि॒भूष॑ति । याभि॑स्त्रि॒मंतु॒रभ॑वद्विचक्ष॒णस्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , परि॑ऽज्मा , तन॑यस्य , म॒ज्मना॑ , द्वि॒ऽमा॒ता , तू॒र्षु , त॒रणिः॑ , वि॒ऽभूष॑ति । याभिः॑ , त्रि॒ऽमंतुः॑ , अभ॑वत् , वि॒ऽच॒क्ष॒णः , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभी॑ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद्वंद॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे । याभिः॒ कण्वं॒ प्र सिषा॑संत॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , रे॒भं , निऽवृ॑तं , सि॒तं , अ॒त्ऽभ्यः , उत् , वंद॑नं , ऐर॑यतं , स्वः॑ , दृ॒शे । याभिः॑ , कण्वं॑ , प्र , सिसा॑संतं , आव॑तं , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभि॒रंत॑कं॒ जस॑मान॒मार॑णे भु॒ज्युं याभि॑रव्य॒थिभि॑र्जिजि॒न्वथुः॑ । याभिः॑ क॒र्कंधुं॑ व॒य्यं॑ च॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , अंत॑कं , जस॑मानं , आ॒ऽअर॑णे , भु॒ज्युं , याभिः॑ , अ॒व्य॒थिऽभिः॑ , जि॒जि॒न्वथुः॑ । याभिः॑ , क॒र्कंधुं॑ , व॒य्यं॑ , च॒ , जिन्व॑थः , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभिः॑ शुचं॒तिं ध॑न॒सां सु॑षं॒सदं॑ त॒प्तं घ॒र्ममो॒म्यावं॑त॒मत्र॑ये । याभिः॒ पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , शु॒चं॒तिं , ध॒न॒ऽसां , सु॒ऽसं॒सदं॑ , त॒प्तं , घ॒र्मं , ओ॒म्याऽवं॑तं , अत्र॑ये । याभिः॑ , पृष्नि॑ऽगुं , पु॒रु॒ऽकुत्सं॑ , आव॑तं , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभिः॒ शची॑भिर्वृषणा परा॒वृजं॒ प्रांधं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः । याभि॒र्वर्ति॑कां ग्रसि॒ताममुं॑चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , शची॑भिः , वृ॒ष॒णा॒ , प॒रा॒ऽवृजं॑ , प्र , अं॒धं , श्रो॒णं , चक्ष॑से , एत॑वे , कृ॒थः । याभिः॑ , वर्ति॑कां , ग्र॒सि॒तां , अमुं॑चतं , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभिः॒ सिंधुं॒ मधु॑मंत॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि॑न्वतं । याभिः॒ कुत्सं॑ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , सिंधुं॑ , मधु॑ऽमंतं , अस॑श्चतं , वसि॑ष्ठं , याभिः॑ , अ॒ज॒रौ॒ , अजि॑न्वतं । याभिः॑ , कुत्सं॑ , श्रु॒तर्यं॑ , नर्यं॑ , आव॑तं , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभि॑र्वि॒श्पलां॑ धन॒साम॑थ॒र्व्यं॑ स॒हस्र॑मीळ्ह आ॒जावजि॑न्वतं । याभि॒र्वश॑म॒श्व्यं प्रे॒णिमाव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , वि॒श्पलां॑ , ध॒न॒ऽसां , अ॒थ॒र्व्यं॑ , स॒हस्र॑ऽमीळ्हे , आ॒जौ , अजि॑न्वतं । याभिः॑ , वशं॑ , अ॒श्व्यं , प्रे॒णिं , आव॑तं , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभिः॑ सुदानू औशि॒जाय॑ व॒णिजे॑ दी॒र्घश्र॑वसे॒ मधु॒ कोशो॒ अक्ष॑रत् । क॒क्षीवं॑तं स्तो॒तारं॒ याभि॒राव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , सु॒दा॒नू॒ इति॑ सुऽदानू , औ॒शि॒जाय॑ , व॒णिजे॑ , दी॒र्घऽश्र॑वसे , मधु॑ , कोशः॑ , अक्ष॑रत् । क॒क्षीवं॑तं , स्तो॒तारं॑ , याभिः॑ , आव॑तं , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभी॑ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे । याभि॑स्त्रि॒शोक॑ उ॒स्रिया॑ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , र॒सां , क्षोद॑सा , उ॒द्नः , पि॒पि॒न्वथुः॑ , अ॒न॒श्वं , याभिः॑ , रथं॑ , आव॑तं , जि॒षे । याभिः॑ , त्रि॒ऽशोकः॑ , उ॒स्रियाः॑ , उ॒त्ऽआज॑त , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभिः॒ सूर्यं॑ परिया॒थः प॑रा॒वति॑ मंधा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तं । याभि॒र्विप्रं॒ प्र भ॒रद्वा॑ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , सूर्यं॑ , प॒रि॒ऽया॒थः , प॒रा॒ऽवति॑ , मं॒धा॒तारं॑ , क्षैत्र॑ऽपत्येषु , आव॑तं । याभिः॑ , विप्रं॑ , प्र , भ॒रत्ऽवा॑जं , आव॑तं , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभि॑र्म॒हाम॑तिथि॒ग्वं क॑शो॒जुवं॒ दिवो॑दासं शंबर॒हत्य॒ आव॑तं । याभिः॑ पू॒र्भिद्ये॑ त्र॒सद॑स्यु॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , म॒हां , अ॒ति॒थि॒ऽग्वं , क॒शः॒ऽजुवं॑ , दिवः॑ऽदासं , शं॒ब॒र॒ऽहत्ये॑ , आव॑तं । याभिः॑ , पूः॒ऽभिद्ये॑ , त्र॒सद॑स्युं , आव॑तं , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभि॑र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि॑र्वि॒त्तजा॑निं दुव॒स्यथः॑ । याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , व॒म्रं , वि॒ऽपि॒पा॒नं , उ॒प॒ऽस्तु॒तं , क॒लिं , याभिः॑ , वि॒त्तऽजा॑निं , दु॒व॒स्यथः॑ । याभिः॑ , विऽअ॑श्वं , उ॒त , पृथिं॑ , आव॑तं , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभि॑र्नरा श॒यवे॒ याभि॒रत्र॑ये॒ याभिः॑ पु॒रा मन॑वे गा॒तुमी॒षथुः॑ । याभिः॒ शारी॒राज॑तं॒ स्यूम॑रश्मये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , न॒रा॒ , श॒यवे॑ , याभिः॑ , अत्र॑ये , याभिः॑ , पु॒रा , मन॑वे , गा॒तुं , ई॒षथुः॑ । याभिः॑ , शारीः॑ , आज॑तं , स्यूम॑ऽरश्मये , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभिः॒ पठ॑र्वा॒ जठ॑रस्य म॒ज्मना॒ग्निर्नादी॑देच्चि॒त इ॒द्धो अज्म॒न्ना । याभिः॒ शर्या॑त॒मव॑थो महाध॒ने ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , पठ॑र्वा , जठ॑रस्य , म॒ज्मना॑ , अ॒ग्निः , न , अदी॑देत् , चि॒तः , इ॒द्धः , अज्म॑न् , आ । याभिः॑ , शर्या॑तं , अव॑थः , म॒हा॒ऽध॒ने , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभि॑रंगिरो॒ मन॑सा निर॒ण्यथोऽग्रं॒ गच्छ॑थो विव॒रे गोअ॑र्णसः । याभि॒र्मनुं॒ शूर॑मि॒षा स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , अं॒गि॒रः॒ , मन॑सा , नि॒ऽर॒ण्यथः॑ , अग्रं॑ , गच्छ॑थः , वि॒ऽव॒रे , गोऽअ॑र्णसः । याभिः॑ , मनुं॒ , शूरं॑ , इ॒षा , सं॒ऽआव॑तं , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभिः॒ पत्नी॑र्विम॒दाय॑ न्यू॒हथु॒रा घ॑ वा॒ याभि॑ररु॒णीरशि॑क्षतं । याभिः॑ सु॒दास॑ ऊ॒हथुः॑ सुदे॒व्यं१॒॑ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , पत्नीः॑ , वि॒ऽम॒दाय॑ , नि॒ऽऊ॒हथुः॑ , आ , घ॒ , वा॒ , याभिः॑ , अ॒रु॒णीः , अशि॑क्षतं । याभिः॑ , सु॒ऽदासे॑ , ऊ॒हथुः॑ , सु॒ऽदे॒व्यं॑ , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभिः॒ शंता॑ती॒ भव॑थो ददा॒शुषे॑ भु॒ज्युं याभि॒रव॑थो॒ याभि॒रध्रि॑गुं । ओ॒म्याव॑तीं सु॒भरा॑मृत॒स्तुभं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , शंता॑ती॒ इति॒ शंऽता॑ती , भव॑थः , द॒दा॒शुषे॑ , भु॒ज्युं , याभिः॑ , अव॑थः , याभिः॑ , अध्रि॑ऽगुं । ओ॒म्याऽव॑तीं , सु॒ऽभरां॑ , ऋ॒त॒ऽस्तुभं॑ , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभिः॑ कृ॒शानु॒मस॑ने दुव॒स्यथो॑ ज॒वे याभि॒र्यूनो॒ अर्वं॑त॒माव॑तं । मधु॑ प्रि॒यं भ॑रथो॒ यत्स॒रड्भ्य॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , कृ॒शानुं॑ , अस॑ने , दु॒व॒स्यथः॑ , ज॒वे , याभिः॑ , यूनः॑ , अर्वं॑तं , आव॑तं । मधु॑ , प्रि॒यं , भ॒र॒थः॒ , यत् , स॒रट्ऽभ्यः॑ , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभि॒र्नरं॑ गोषु॒युधं॑ नृ॒षाह्ये॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः । याभी॒ रथाँ॒ अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , नरं॑ , गो॒षु॒ऽयुधं॑ , नृ॒ऽसह्ये॑ , क्षेत्र॑स्य , सा॒ता , तन॑यस्य , जिन्व॑थः । याभिः॑ , रथा॑न् , अव॑थः , याभिः॑ , अर्व॑तः , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
याभिः॒ कुत्स॑मार्जुने॒यं श॑तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च॑ द॒भीति॒माव॑तं । याभि॑र्ध्व॒संतिं॑ पुरु॒षंति॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः॑ , कुत्सं॑ , आ॒र्जु॒ने॒यं , श॒त॒क्र॒तू॒ इति॑ शतऽक्रतू , प्र , तु॒र्वीतिं॑ , प्र , च॒ , द॒भीतिं॑ , आव॑तं । याभिः॑ , ध्व॒संतिं॑ , पु॒रु॒ऽसंतिं॑ , आव॑तं , ताभिः॑ , ऊँ॒ इति॑ , सु , ऊ॒तिऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षां । अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥
अप्न॑स्वतीं , अ॒श्वि॒ना॒ , वाचं॑ , अ॒स्मे इति॑ , कृ॒तं , नः॒ , द॒स्रा॒ , वृ॒ष॒णा॒ , म॒नी॒षां । अ॒द्यू॒त्ये॑ , अव॑से , नि , ह्व॒ये॒ , वां॒ , वृ॒धे , च॒ , नः॒ , भ॒व॒तं॒ , वाज॑ऽसातौ ॥
द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
द्युऽभिः॑ , अ॒क्तुऽभिः॑ , परि॑ , पा॒तं॒ , अ॒स्मान् , अरि॑ष्टेभिः , अ॒श्वि॒ना॒ , सौभ॑गेभिः । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[११३] इदंश्रेष्ठमिति विंशत्यृचस्य सूक्तस्य कुत्स उषाद्वितीयायाअर्धर्चोरात्रिस्त्रिष्टुप् |
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॒रागा॑च्चि॒त्रः प्र॑के॒तो अ॑जनिष्ट॒ विभ्वा॑ । यथा॒ प्रसू॑ता सवि॒तुः स॒वायँ॑ ए॒वा रात्र्यु॒षसे॒ योनि॑मारैक् ॥
इ॒दं , श्रेष्ठं॑ , ज्योति॑षां , ज्योतिः॑ , आ , अ॒गा॒त् , चि॒त्रः , प्र॒ऽके॒तः , अ॒ज॒नि॒ष्ट॒ , विऽभ्वा॑ । यथा॑ , प्रऽसू॑ता , स॒वि॒तुः , स॒वाय॑ , ए॒व , रात्री॑ , उ॒षसे॑ , योनिं॑ , अ॒रै॒क् ॥
रुश॑द्वत्सा॒ रुश॑ती श्वे॒त्यागा॒दारै॑गु कृ॒ष्णा सद॑नान्यस्याः । स॒मा॒नबं॑धू अ॒मृते॑ अनू॒ची द्यावा॒ वर्णं॑ चरत आमिना॒ने ॥
रुश॑त्ऽवत्सा , रुश॑ती , श्वे॒त्या , आ , अ॒गा॒त् , अरै॑क् , ऊँ॒ इति॑ , कृ॒ष्णा , सद॑नानि , अ॒स्याः॒ । स॒मा॒नबं॑धू॒ इति॑ स॒मा॒नऽबं॑धू , अ॒मृते॒ इति॑ , अ॒नू॒ची इति॑ , द्यावा॑ , वर्णं॑ , च॒र॒तः॒ , आ॒मि॒ना॒ने इत्या॑ऽमि॒ना॒ने ॥
स॒मा॒नो अध्वा॒ स्वस्रो॑रनं॒तस्तम॒न्यान्या॑ चरतो दे॒वशि॑ष्टे । न मे॑थेते॒ न त॑स्थतुः सु॒मेके॒ नक्तो॒षसा॒ सम॑नसा॒ विरू॑पे ॥
स॒मा॒नः , अध्वा॑ , स्वस्रोः॑ , अ॒नं॒तः , तं , अ॒न्याऽअ॑न्या , च॒र॒तः॒ , दे॒वशि॑ष्टे॒ इति॑ दे॒वऽशि॑ष्टे । न , मे॒थे॒ते॒ इति॑ , न , त॒स्थ॒तुः॒ , सु॒मेके॒ इति॑ सु॒ऽमेके॑ , नक्तो॒षासा॑ , सऽम॑नसा , विरू॑पे॒ इति॒ विऽरू॑पे ॥
भास्व॑ती ने॒त्री सू॒नृता॑ना॒मचे॑ति चि॒त्रा वि दुरो॑ न आवः । प्रार्प्या॒ जग॒द्व्यु॑ नो रा॒यो अ॑ख्यदु॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
भास्व॑ती , ने॒त्री , सू॒नृता॑नां , अचे॑ति , चि॒त्रा , वि , दुरः॑ , नः॒ , आ॒व॒रित्या॑वः । प्र॒ऽअर्प्य॑ , जग॑त् , वि , ऊँ॒ इति॑ , नः॒ , रा॒यः , अ॒ख्य॒त् , उ॒षाः , अ॒जी॒गः॒ , भुव॑नानि , विश्वा॑ ॥
जि॒ह्म॒श्ये॒३॒॑ चरि॑तवे म॒घोन्या॑भो॒गय॑ इ॒ष्टये॑ रा॒य उ॑ त्वं । द॒भ्रं पश्य॑द्भ्य उर्वि॒या वि॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
जि॒ह्म॒ऽश्ये॑ , चरि॑तवे , म॒घोनी॑ , आ॒ऽभो॒गये॑ , इ॒ष्टये॑ , रा॒ये , ऊँ॒ इति॑ , त्वं॒ । द॒भ्रं , पश्य॑त्ऽभ्यः , उ॒र्वि॒या , वि॒ऽचक्षे॑ , उ॒षाः , अ॒जी॒गः॒ , भुव॑नानि , विश्वा॑ ॥
क्ष॒त्राय॑ त्वं॒ श्रव॑से त्वं मही॒या इ॒ष्टये॑ त्व॒मर्थ॑मिव त्वमि॒त्यै । विस॑दृशा जीवि॒ताभि॑प्र॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
क्ष॒त्राय॑ , त्वं॒ , श्रव॑से , त्वं॒ , म॒ही॒यै , इ॒ष्टये॑ , त्वं॒ , अर्थं॑ऽइव , त्वं॒ , इ॒त्यै । विऽस॑दृशा , जी॒वि॒ता , अ॒भि॒ऽप्र॒चक्षे॑ , उ॒षाः , अ॒जी॒गः॒ , भुव॑नानि , विश्वा॑ ॥
ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि व्यु॒च्छंती॑ युव॒तिः शु॒क्रवा॑साः । विश्व॒स्येशा॑ना॒ पार्थि॑वस्य॒ वस्व॒ उषो॑ अ॒द्येह सु॑भगे॒ व्यु॑च्छ ॥
ए॒षा , दि॒वः , दु॒हि॒ता , प्रति॑ , अ॒द॒र्शि॒ , वि॒ऽउ॒च्छंती॑ , यु॒व॒तिः , शु॒क्रऽवा॑साः । विश्व॑स्य , ईशा॑ना , पार्थि॑वस्य , वस्वः॑ , उषः॑ , अ॒द्य , इ॒ह , सु॒ऽभ॒गे॒ , वि , उ॒च्छ॒ ॥
प॒रा॒य॒ती॒नामन्वे॑ति॒ पाथ॑ आयती॒नां प्र॑थ॒मा शश्व॑तीनां । व्यु॒च्छंती॑ जी॒वमु॑दी॒रयं॑त्यु॒षा मृ॒तं कं च॒न बो॒धयं॑ती ॥
प॒रा॒ऽय॒ती॒नां , अनु॑ , ए॒ति॒ , पाथः॑ , आ॒ऽय॒ती॒नां , प्र॒थ॒मा , शश्व॑तीनां । वि॒ऽउ॒च्छंती॑ , जी॒वं , उ॒त्ऽई॒रयं॑ती , उ॒षाः , मृ॒तं , कं , च॒न , बो॒धयं॑ती ॥
उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य । यन्मानु॑षान्य॒क्ष्यमा॑णाँ॒ अजी॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमप्नः॑ ॥
उषः॑ , यत् , अ॒ग्निं , सं॒ऽइधे॑ , च॒कर्थ॑ , वि , यत् , आवः॑ , चक्ष॑सा , सूर्य॑स्य । यत् , मानु॑षान् , य॒क्ष्यमा॑णान् , अजी॑ग॒रिति॑ , तत् , दे॒वेषु॑ , च॒कृ॒षे॒ , भ॒द्रं , अप्नः॑ ॥
किया॒त्या यत्स॒मया॒ भवा॑ति॒ या व्यू॒षुर्याश्च॑ नू॒नं व्यु॒च्छान् । अनु॒ पूर्वाः॑ कृपते वावशा॒ना प्र॒दीध्या॑ना॒ जोष॑म॒न्याभि॑रेति ॥
किय॑ति , आ , यत् , स॒मया॑ , भवा॑ति , याः , वि॒ऽऊ॒षुः , याः , च॒ , नू॒नं , वि॒ऽउ॒च्छान् । अनु॑ , पूर्वाः॑ , कृ॒प॒ते॒ , वा॒व॒शा॒ना , प्र॒ऽदीध्या॑ना , जोषं॑ , अ॒न्याभिः॑ , ए॒ति॒ ॥
ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन्व्यु॒च्छंती॑मु॒षसं॒ मर्त्या॑सः । अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑भू॒दो ते यं॑ति॒ ये अ॑प॒रीषु॒ पश्या॑न् ॥
ई॒युः , ते , ये , पूर्व॑ऽतरां , अप॑श्यन् , वि॒ऽउ॒च्छंतीं॑ , उ॒षसं॑ , मर्त्या॑सः । अ॒स्माभिः॑ , ऊँ॒ इति॑ , नु , प्र॒ति॒ऽचक्ष्या॑ , अ॒भू॒त् , ओ इति॑ , ते , यं॒ति॒ , ये , अ॒प॒रीषु॑ , पश्या॑न् ॥
या॒व॒यद्द्वे॑षा ऋत॒पा ऋ॑ते॒जाः सु॑म्ना॒वरी॑ सू॒नृता॑ ई॒रयं॑ती । सु॒मं॒ग॒लीर्बिभ्र॑ती दे॒ववी॑तिमि॒हाद्योषः॒ श्रेष्ठ॑तमा॒ व्यु॑च्छ ॥
य॒व॒यत्ऽद्वे॑षाः , ऋ॒त॒ऽपाः , ऋ॒ते॒ऽजाः , सु॒म्न॒ऽवरी॑ , सू॒नृताः॑ , ई॒रयं॑ती । सु॒ऽमं॒ग॒लीः , बिभ्र॑ती , दे॒वऽवी॑तिं , इ॒ह , अ॒द्य , उ॒षः॒ , श्रेष्ठ॑ऽतमा , वि , उ॒च्छ॒ ॥
शश्व॑त्पु॒रोषा व्यु॑वास दे॒व्यथो॑ अ॒द्येदं व्या॑वो म॒घोनी॑ । अथो॒ व्यु॑च्छा॒दुत्त॑राँ॒ अनु॒ द्यून॒जरा॒मृता॑ चरति स्व॒धाभिः॑ ॥
शश्व॑त् , पु॒रा , उ॒षाः , वि , उ॒वा॒स॒ , दे॒वी , अथो॒ इति॑ , अ॒द्य , इ॒दं , वि , आ॒वः॒ , म॒घोनी॑ । अथो॒ इति॑ , वि , उ॒च्छा॒त् , उत्ऽत॑रान् , अनु॑ , द्यून् , अ॒जरा॑ , अ॒मृता॑ , च॒र॒ति॒ , स्व॒धाभिः॑ ॥
व्य१॒॑ञ्जिभि॑र्दि॒व आता॑स्वद्यौ॒दप॑ कृ॒ष्णां नि॒र्णिजं॑ दे॒व्या॑वः । प्र॒बो॒धयं॑त्यरु॒णेभि॒रश्वै॒रोषा या॑ति सु॒युजा॒ रथे॑न ॥
वि , अं॒जिऽभिः॑ , दि॒वः , आता॑सु , अ॒द्यौ॒त् , अप॑ , कृ॒ष्णां , निः॒ऽनिजं॑ , दे॒वी , आ॒व॒रित्या॑वः । प्र॒ऽबो॒धयं॑ती , अ॒रु॒णेभिः॑ , अश्वैः॑ , आ , उ॒षाः , या॒ति॒ , सु॒ऽयुजा॑ , रथे॑न ॥
आ॒वहं॑ती॒ पोष्या॒ वार्या॑णि चि॒त्रं के॒तुं कृ॑णुते॒ चेकि॑ताना । ई॒युषी॑णामुप॒मा शश्व॑तीनां विभाती॒नां प्र॑थ॒मोषा व्य॑श्वैत् ॥
आ॒ऽवहं॑ती , पोष्या॑ , वार्या॑णि , चि॒त्रं , के॒तुं , कृ॒णु॒ते॒ , चेकि॑ताना । ई॒युषी॑णां , उ॒प॒ऽमा , शश्व॑तीनां , वि॒ऽभा॒ती॒नां , प्र॒थ॒मा , उ॒षाः , वि , अ॒श्वै॒त् ॥
उदी॑र्ध्वं जी॒वो असु॑र्न॒ आगा॒दप॒ प्रागा॒त्तम॒ आ ज्योति॑रेति । आरै॒क्पंथां॒ यात॑वे॒ सूर्या॒याग॑न्म॒ यत्र॑ प्रति॒रंत॒ आयुः॑ ॥
उत् , ई॒र्ध्वं॒ , जी॒वः , असुः॑ , नः॒ , आ , अ॒गा॒त् , अप॑ , प्र , अ॒गा॒त् , तमः॑ , आ , ज्योतिः॑ , ए॒ति॒ । अरै॑क् , पंथां॑ , यात॑वे , सूर्या॑य , अग॑न्म , यत्र॑ , प्र॒ऽति॒रंते॑ , आयुः॑ ॥
स्यूम॑ना वा॒च उदि॑यर्ति॒ वह्निः॒ स्तवा॑नो रे॒भ उ॒षसो॑ विभा॒तीः । अ॒द्या तदु॑च्छ गृण॒ते म॑घोन्य॒स्मे आयु॒र्नि दि॑दीहि प्र॒जाव॑त् ॥
स्यूम॑ना , वा॒चः , उत् , इ॒य॒र्ति॒ , वह्निः॑ , स्तवा॑नः , रे॒भः , उ॒षसः॑ , वि॒ऽभा॒तीः । अ॒द्य , तत् , उ॒च्छ॒ , गृ॒ण॒ते , म॒घो॒नि॒ , अ॒स्मे इति॑ , आयुः॑ , नि , दि॒दी॒हि॒ , प्र॒जाऽव॑त् ॥
या गोम॑तीरु॒षसः॒ सर्व॑वीरा व्यु॒च्छंति॑ दा॒शुषे॒ मर्त्या॑य । वा॒योरि॑व सू॒नृता॑नामुद॒र्के ता अ॑श्व॒दा अ॑श्नवत्सोम॒सुत्वा॑ ॥
याः , गोऽम॑तीः , उ॒षसः॑ , सर्व॑ऽवीराः , वि॒ऽउ॒च्छंति॑ , दा॒शुषे॑ , मर्त्या॑य । वा॒योःऽइ॑व , सू॒नृता॑नां , उ॒त्ऽअ॒र्के , ताः , अ॒श्व॒ऽदाः , अ॒श्न॒व॒त् , सो॒म॒ऽसुत्वा॑ ॥
मा॒ता दे॒वाना॒मदि॑ते॒रनी॑कं य॒ज्ञस्य॑ के॒तुर्बृ॑ह॒ती वि भा॑हि । प्र॒श॒स्ति॒कृद्ब्रह्म॑णे नो॒ व्यु१॒॑च्छा नो॒ जने॑ जनय विश्ववारे ॥
मा॒ता , दे॒वानां॑ , अदि॑तेः , अनी॑कं , य॒ज्ञस्य॑ , के॒तुः , बृ॒ह॒ती , वि , भा॒हि॒ । प्र॒श॒स्ति॒ऽकृत् , ब्रह्म॑णे , नः॒ , वि , उ॒च्छ॒ , आ , नः॒ , जने॑ , ज॒न॒य॒ , वि॒श्व॒ऽवा॒रे॒ ॥
यच्चि॒त्रमप्न॑ उ॒षसो॒ वहं॑तीजा॒नाय॑ शशमा॒नाय॑ भ॒द्रं । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
यत् , चि॒त्रं , अप्नः॑ , उ॒षसः॑ , वहं॑ति , ई॒जा॒नाय॑ , श॒श॒मा॒नाय॑ , भ॒द्रं । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[११४] इमारुद्रायेत्येकादशर्चस्य सूक्तस्य कुत्सोरुद्रोजगतीअंत्येद्वेत्रिष्टुभौ |
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः । यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रं ॥
इ॒माः , रु॒द्राय॑ , त॒वसे॑ , क॒प॒र्दिने॑ , क्ष॒यत्ऽवी॑राय , प्र , भ॒रा॒म॒हे॒ , म॒तीः । यथा॑ , शं , अस॑त् , द्वि॒ऽपदे॑ , चतुः॑ऽपदे , विश्वं॑ , पु॒ष्टं , ग्रामे॑ , अ॒स्मिन् , अ॒ना॒तु॒रं ॥
मृ॒ळा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते । यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तिषु ॥
मृ॒ळ , नः॒ , रु॒द्र॒ , उ॒त , नः॒ , मयः॑ , कृ॒धि॒ , क्ष॒यत्ऽवी॑राय , नम॑सा , वि॒धे॒म॒ , ते॒ । यत् , शं , च॒ , योः , च॒ , मनुः॑ , आ॒ऽये॒जे , पि॒ता , तत् , अ॒श्या॒म॒ , तव॑ , रु॒द्र॒ , प्रऽनी॑तिषु ॥
अ॒श्याम॑ ते सुम॒तिं दे॑वय॒ज्यया॑ क्ष॒यद्वी॑रस्य॒ तव॑ रुद्र मीढ्वः । सु॒म्ना॒यन्निद्विशो॑ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ॥
अ॒श्याम॑ , ते॒ , सु॒ऽम॒तिं , दे॒व॒ऽय॒ज्यया॑ , क्ष॒यत्ऽवी॑रस्य , तव॑ , रु॒द्र॒ , मी॒ढ्वः॒ । सु॒म्न॒ऽयन् , इत् , विशः॑ , अ॒स्माकं॑ , आ , च॒र॒ , अरि॑ष्टऽवीराः , जु॒ह॒वा॒म॒ , ते॒ , ह॒विः ॥
त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं॑ वं॒कुं क॒विमव॑से॒ नि ह्व॑यामहे । आ॒रे अ॒स्मद्दैव्यं॒ हेळो॑ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ॥
त्वे॒षं , व॒यं , रु॒द्रं , य॒ज्ञ॒ऽसाधं॑ , वं॒कुं , क॒विं , अव॑से , नि , ह्व॒या॒म॒हे॒ । आ॒रे , अ॒स्मत् , दैव्यं॑ , हेळः॑ , अ॒स्य॒तु॒ , सु॒ऽम॒तिं , इत् , व॒यं , अ॒स्य॒ , आ , वृ॒णी॒म॒हे॒ ॥
दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं॑ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे । हस्ते॒ बिभ्र॑द्भेष॒जा वार्या॑णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं॑ यंसत् ॥
दि॒वः , व॒रा॒हं , अ॒रु॒षं , क॒प॒र्दिनं॑ , त्वे॒षं , रू॒पं , नम॑सा , नि , ह्व॒या॒म॒हे॒ । हस्ते॑ , बिभ्र॑त् , भे॒ष॒जा , वार्या॑णि , शर्म॑ , वर्म॑ , छ॒र्दिः , अ॒स्मभ्यं॑ , यं॒स॒त् ॥
इ॒दं पि॒त्रे म॒रुता॑मुच्यते॒ वचः॑ स्वा॒दोः स्वादी॑यो रु॒द्राय॒ वर्ध॑नं । रास्वा॑ च नो अमृत मर्त॒भोज॑नं॒ त्मने॑ तो॒काय॒ तन॑याय मृळ ॥
इ॒दं , पि॒त्रे , म॒रुतां॑ , उ॒च्य॒ते॒ , वचः॑ , स्वा॒दोः , स्वादी॑यः , रु॒द्राय॑ , वर्ध॑नं । रास्व॑ , च॒ , नः॒ , अ॒मृ॒त॒ , म॒र्त॒ऽभोज॑नं , त्मने॑ , तो॒काय॑ , तन॑याय , मृ॒ळ॒ ॥
मा नो॑ म॒हांत॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्षं॑तमु॒त मा न॑ उक्षि॒तं । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो॑ रुद्र रीरिषः ॥
मा , नः॒ , म॒हांतं॑ , उ॒त , मा , नः॒ , अ॒र्भ॒कं , मा , नः॒ , उक्षं॑तं , उ॒त , मा , नः॒ , उ॒क्षि॒तं । मा , नः॒ , व॒धीः॒ , पि॒तरं॑ , मा , उ॒त , मा॒तरं॑ , मा , नः॒ , प्रि॒याः , त॒न्वः॑ , रु॒द्र॒ , रि॒रि॒षः॒ ॥
मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्मं॑तः॒ सद॒मित्त्वा॑ हवामहे ॥
मा , नः॒ , तो॒के , तन॑ये , मा , नः॒ , आ॒यौ , मा , नः॒ , गोषु॑ , मा , नः॒ , अश्वे॑षु , रि॒रि॒षः॒ । वी॒रान् , मा , नः॒ , रु॒द्र॒ , भा॒मि॒तः , व॒धीः॒ , ह॒विष्मं॑तः , सदं॑ , इत् , त्वा॒ , ह॒वा॒म॒हे॒ ॥
उप॑ ते॒ स्तोमा॑न्पशु॒पा इ॒वाक॑रं॒ रास्वा॑ पितर्मरुतां सु॒म्नम॒स्मे । भ॒द्रा हि ते॑ सुम॒तिर्मृ॑ळ॒यत्त॒माथा॑ व॒यमव॒ इत्ते॑ वृणीमहे ॥
उप॑ , ते॒ , स्तोमा॑न् , प॒शु॒पाःऽइ॑व , आ , अ॒क॒रं॒ , रास्व॑ , पि॒तः॒ , म॒रु॒तां॒ , सु॒म्नं , अ॒स्मे इति॑ । भ॒द्रा , हि , ते॒ , सु॒ऽम॒तिः , मृ॒ळ॒यत्ऽत॑मा , अथ॑ , व॒यं , अवः॑ , इत् , ते॒ , वृ॒णी॒म॒हे॒ ॥
आ॒रे ते॑ गो॒घ्नमु॒त पू॑रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु । मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः॑ ॥
आ॒रे , ते॒ , गो॒ऽघ्नं , उ॒त , पु॒रु॒ष॒ऽघ्नं , क्षय॑त्ऽवीर , सु॒म्नं , अ॒स्मे इति॑ , ते॒ , अ॒स्तु॒ । मृ॒ळ , च॒ , नः॒ , अधि॑ , च॒ , ब्रू॒हि॒ , दे॒व॒ , अध॑ , च॒ , नः॒ , शर्म॑ , य॒च्छ॒ , द्वि॒ऽबर्हाः॑ ॥
अवो॑चाम॒ नमो॑ अस्मा अव॒स्यवः॑ शृ॒णोतु॑ नो॒ हवं॑ रु॒द्रो म॒रुत्वा॑न् । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
अवो॑चाम , नमः॑ , अ॒स्मै॒ , अ॒व॒स्यवः॑ , शृ॒णोतु॑ , नः॒ , हवं॑ , रु॒द्रः , म॒रुत्वा॑न् । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[११५] चित्रंदेवानामितिषडृचस्य सूक्तस्य कुत्सः सूर्यस्त्रिष्टुप् |
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अं॒तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥
चि॒त्रं , दे॒वानां॑ , उत् , अ॒गा॒त् , अनी॑कं , चक्षुः॑ , मि॒त्रस्य॑ , वरु॑णस्य , अ॒ग्नेः । आ , अ॒प्राः॒ , द्यावा॑पृथि॒वी इति॑ , अं॒तरि॑क्षं , सूर्यः॑ , आ॒त्मा , जग॑तः , त॒स्थुषः॑ , च॒ ॥
सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात् । यत्रा॒ नरो॑ देव॒यंतो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रं ॥
सूर्यः॑ , दे॒वीं , उ॒षसं॑ , रोच॑मानां , मर्यः॑ , न , योषां॑ , अ॒भि , ए॒ति॒ , प॒श्चात् । यत्र॑ , नरः॑ , दे॒व॒ऽयंतः॑ , यु॒गानि॑ , वि॒ऽत॒न्व॒ते , प्रति॑ , भ॒द्राय॑ , भ॒द्रं ॥
भ॒द्रा अश्वा॑ ह॒रितः॒ सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या॑सः । न॒म॒स्यंतो॑ दि॒व आ पृ॒ष्ठम॑स्थुः॒ परि॒ द्यावा॑पृथि॒वी यं॑ति स॒द्यः ॥
भ॒द्राः , अश्वाः॑ , ह॒रितः॑ , सूर्य॑स्य , चि॒त्राः , एत॑ऽग्वाः , अ॒नु॒ऽमाद्या॑सः । न॒म॒स्यंतः॑ , दि॒वः , आ , पृ॒ष्ठं , अ॒स्थुः॒ , परि॑ , द्यावा॑पृथि॒वी इति॑ , यं॒ति॒ , स॒द्यः ॥
तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार । य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥
तत् , सूर्य॑स्य , दे॒व॒ऽत्वं , तत् , म॒हि॒ऽत्वं , म॒ध्या , कर्तोः॑ , विऽत॑तं , सं , ज॒भा॒र॒ । य॒दा , इत् , अयु॑क्त , ह॒रितः॑ , स॒धऽस्था॑त् , आत् , रात्री॑ , वासः॑ , त॒नु॒ते॒ , सि॒मस्मै॑ ॥
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ । अ॒नं॒तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रंति ॥
तत् , मि॒त्रस्य॑ , वरु॑णस्य , अ॒भि॒ऽचक्षे॑ , सूर्यः॑ , रू॒पं , कृ॒णु॒ते॒ , द्योः , उ॒पऽस्थे॑ । अ॒नं॒तं , अ॒न्यत् , रुश॑त् , अ॒स्य॒ , पाजः॑ , कृ॒ष्णं , अ॒न्यत् , ह॒रितः॑ , सं , भ॒रं॒ति॒ ॥
अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
अ॒द्य , दे॒वाः॒ , उत्ऽइ॑ता , सूर्य॑स्य , निः , अंह॑सः , पि॒पृ॒त , निः , अ॒व॒द्यात् । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[११६] नासत्याभ्यामिति पंचविंशत्यृचस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौत्रिष्टुप् |
नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृं॑जे॒ स्तोमाँ॑ इयर्म्य॒भ्रिये॑व॒ वातः॑ । यावर्भ॑गाय विम॒दाय॑ जा॒यां से॑ना॒जुवा॑ न्यू॒हतू॒ रथे॑न ॥
नास॑त्याभ्यां , ब॒र्हिःऽइ॑व , प्र , वृं॒जे॒ , स्तोमा॑न् , इ॒य॒र्मि॒ , अ॒भ्रिया॑ऽइव , वातः॑ । यौ , अर्भ॑गाय , वि॒ऽम॒दाय॑ , जा॒यां , से॒ना॒ऽजुवा॑ , नि॒ऽऊ॒हतुः॑ , रथे॑न ॥
वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभिः॒ शाश॑दाना । तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥
वी॒ळु॒पत्म॑ऽभिः , आ॒शु॒हेम॑ऽभिः , वा॒ , दे॒वानां॑ , वा॒ , जू॒तिऽभिः॑ , शाश॑दाना । तत् , रास॑भः , ना॒स॒त्या॒ , स॒हस्रं॑ , आ॒जा , य॒मस्य॑ , प्र॒ऽधने॑ , जि॒गा॒य॒ ॥
तुग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि॑न्ममृ॒वाँ अवा॑हाः । तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिरंतरिक्ष॒प्रुद्भि॒रपो॑दकाभिः ॥
तुग्रः॑ , ह॒ , भु॒ज्युं , अ॒श्वि॒ना॒ , उ॒द॒ऽमे॒घे , र॒यिं , न , कः , चि॒त् , म॒मृ॒ऽवान् , अव॑ , अ॒हाः॒ । तं , ऊ॒ह॒थुः॒ , नौ॒भिः , आ॒त्म॒न्ऽवती॑भिः , अं॒त॒रि॒क्ष॒प्रुत्ऽभिः॑ , अप॑ऽउदकाभिः ॥
ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू॑हथुः पतं॒गैः । स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथैः॑ श॒तप॑द्भिः॒ षळ॑श्वैः ॥
ति॒स्रः , क्षपः॑ , त्रिः , अहा॑ , अ॒ति॒व्रज॑त्ऽभिः , नास॑त्या , भु॒ज्युं , ऊ॒ह॒थुः॒ , प॒तं॒गैः । स॒मु॒द्रस्य॑ , धन्व॑न् , आ॒र्द्रस्य॑ , पा॒रे , त्रि॒ऽभिः , रथैः॑ , श॒तप॑त्ऽभिः , षट्ऽअ॑श्वैः ॥
अ॒ना॒रं॒भ॒णे तद॑वीरयेथामनास्था॒ने अ॑ग्रभ॒णे स॑मु॒द्रे । यद॑श्विना ऊ॒हथु॑र्भु॒ज्युमस्तं॑ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांसं॑ ॥
अ॒ना॒रं॒भ॒णे , तत् , अ॒वी॒र॒ये॒थां॒ , अ॒ना॒स्था॒ने , अ॒ग्र॒भ॒णे , स॒मु॒द्रे । यत् , अ॒श्वि॒नौ॒ , ऊ॒हथुः॑ , भु॒ज्युं , अस्तं॑ , श॒तऽअ॑रित्रान् , नावं॑ , आ॒त॒स्थि॒ऽवांसं॑ ॥
यम॑श्विना द॒दथुः॑ श्वे॒तमश्व॑म॒घाश्वा॑य॒ शश्व॒दित्स्व॒स्ति । तद्वां॑ दा॒त्रं महि॑ की॒र्तेन्यं॑ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो॑ अ॒र्यः ॥
यं , अ॒श्वि॒ना॒ , द॒दथुः॑ , श्वे॒तं , अश्वं॑ , अ॒घऽअ॑श्वाय , शश्व॑त् , इत् , स्व॒स्ति । तत् , वां॒ , दा॒त्रं , महि॑ , की॒र्तेन्यं॑ , भू॒त् , पै॒द्वः , वा॒जी , सदं॑ , इत् , हव्यः॑ , अ॒र्यः ॥
यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते अरदतं॒ पुरं॑धिं । का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्णः॑ श॒तं कुं॒भाँ अ॑सिंचतं॒ सुरा॑याः ॥
यु॒वं , न॒रा॒ , स्तु॒व॒ते , प॒ज्रि॒याय॑ , क॒क्षीव॑ते , अ॒र॒द॒तं॒ , पुरं॑ऽधिं । का॒रो॒त॒रात् , श॒फात् , अश्व॑स्य , वृष्णः॑ , श॒तं , कुं॒भान् , अ॒सिं॒च॒तं॒ , सुरा॑याः ॥
हि॒मेना॒ग्निं घ्रं॒सम॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा अधत्तं । ऋ॒बीसे॒ अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि॑न्यथुः॒ सर्व॑गणं स्व॒स्ति ॥
हि॒मेन॑ , अ॒ग्निं , घ्रं॒सं , अ॒वा॒र॒ये॒थां॒ , पि॒तु॒ऽमतीं॑ , ऊर्जं॑ , अ॒स्मै॒ , अ॒ध॒त्तं॒ । ऋ॒बीसे॑ , अत्रिं॑ , अ॒श्वि॒ना॒ , अव॑ऽनीतं , उत् , नि॒न्य॒थुः॒ , सर्व॑ऽगणं , स्व॒स्ति ॥
परा॑व॒तं ना॑सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मबा॑रं । क्षर॒न्नापो॒ न पा॒यना॑य रा॒ये स॒हस्रा॑य॒ तृष्य॑ते॒ गोत॑मस्य ॥
परा॑ , अ॒व॒तं , ना॒स॒त्या॒ , अ॒नु॒दे॒थां॒ , उ॒च्चाऽबु॑ध्नं , च॒क्र॒थुः॒ , जि॒ह्मऽबा॑रं । क्षर॑न् , आपः॑ , न , पा॒यना॑य , रा॒ये , स॒हस्रा॑य , तृष्य॑ते , गोत॑मस्य ॥
जु॒जु॒रुषो॑ नासत्यो॒त व॒व्रिं प्रामुं॑चतं द्रा॒पिमि॑व॒ च्यवा॑नात् । प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित्पति॑मकृणुतं क॒नीनां॑ ॥
जु॒जु॒रुषः॑ , ना॒स॒त्या॒ , उ॒त , व॒व्रिं , प्र , अ॒मुं॒च॒तं॒ , द्रा॒पिंऽइ॑व , च्यवा॑नात् । प्र , अ॒ति॒र॒तं॒ , ज॒हि॒तस्य॑ , आयुः॑ , द॒स्रा॒ , आत् , इत् , पतिं॑ , अ॒कृ॒णु॒तं॒ , क॒नीनां॑ ॥
तद्वां॑ नरा॒ शंस्यं॒ राध्यं॑ चाभिष्टि॒मन्ना॑सत्या॒ वरू॑थं । यद्वि॒द्वांसा॑ नि॒धिमि॒वाप॑गूळ्ह॒मुद्द॑र्श॒तादू॒पथु॒र्वंद॑नाय ॥
तत् , वां॒ , न॒रा॒ , शंस्यं॑ , राध्यं॑ , च॒ , अ॒भि॒ष्टि॒ऽमत् , ना॒स॒त्या॒ , वरू॑थं । यत् , वि॒द्वांसा॑ , नि॒धिंऽइ॑व , अप॑ऽगूळ्हं , उत् , द॒र्श॒तात् , ऊ॒पथुः॑ , वंद॑नाय ॥
तद्वां॑ नरा स॒नये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिं । द॒ध्यङ्ह॒ यन्मध्वा॑थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी॑मु॒वाच॑ ॥
तत् , वां॒ , न॒रा॒ , स॒नये॑ , दंसः॑ , उ॒ग्रं , आ॒विः , कृ॒णो॒मि॒ , त॒न्य॒तुः , न , वृ॒ष्टिं । द॒ध्यङ् , ह॒ , यत् , मधु॑ , आ॒थ॒र्व॒णः , वां॒ , अश्व॑स्य , सी॒र्ष्णा , प्र , यत् , ईं॒ , उ॒वाच॑ ॥
अजो॑हवीन्नासत्या क॒रा वां॑ म॒हे याम॑न्पुरुभुजा॒ पुरं॑धिः । श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर॑ण्यहस्तमश्विनावदत्तं ॥
अजो॑हवीत् , ना॒स॒त्या॒ , क॒रा , वां॒ , म॒हे , याम॑न् , पु॒रु॒ऽभु॒जा॒ , पुरं॑ऽधिः । श्रु॒तं , तत् , शासुः॑ऽइव , व॒ध्रि॒ऽम॒त्याः , हिर॑ण्यऽहस्तं , अ॒श्वि॒नौ॒ , अ॒द॒त्तं॒ ॥
आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके॑ यु॒वं न॑रा नासत्यामुमुक्तं । उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे॑ ॥
आ॒स्नः , वृक॑स्य , वर्ति॑कां , अ॒भीके॑ , यु॒वं , न॒रा॒ , ना॒स॒त्या॒ , अ॒मु॒मु॒क्तं॒ । उ॒तो इति॑ , क॒विं , पु॒रु॒ऽभु॒जा॒ , यु॒वं , ह॒ , कृप॑माणं , अ॒कृ॒णु॒तं॒ , वि॒ऽचक्षे॑ ॥
च॒रित्रं॒ हि वेरि॒वाच्छे॑दि प॒र्णमा॒जा खे॒लस्य॒ परि॑तक्म्यायां । स॒द्यो जंघा॒माय॑सीं वि॒श्पला॑यै॒ धने॑ हि॒ते सर्त॑वे॒ प्रत्य॑धत्तं ॥
च॒रित्रं॑ , हि , वेःऽइ॑व , अच्छे॑दि , प॒र्णं , आ॒जा , खे॒लस्य॑ , परि॑ऽतक्म्यायां । स॒द्यः , जंघां॑ , आय॑सीं , वि॒श्पला॑यै , धने॑ , हि॒ते , सर्त॑वे , प्रति॑ , अ॒ध॒त्तं॒ ॥
श॒तं मे॒षान्वृ॒क्ये॑ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तांधं च॑कार । तस्मा॑ अ॒क्षी ना॑सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ॥
श॒तं , मे॒षान् , वृ॒क्ये॑ , च॒क्ष॒दा॒नं , ऋ॒ज्रऽअ॑श्वं , तं , पि॒ता , अं॒धं , च॒का॒र॒ । तस्मै॑ , अ॒क्षी इति॑ , ना॒स॒त्या॒ , वि॒ऽचक्षे॑ , आ , अ॒ध॒त्तं॒ , द॒स्रा॒ , भि॒ष॒जौ॒ , अ॒न॒र्वन् ॥
आ वां॒ रथं॑ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे॑वातिष्ठ॒दर्व॑ता॒ जयं॑ती । विश्वे॑ दे॒वा अन्व॑मन्यंत हृ॒द्भिः समु॑ श्रि॒या ना॑सत्या सचेथे ॥
आ , वां॒ , रथं॑ , दु॒हि॒ता , सूर्य॑स्य , कार्ष्म॑ऽइव , अ॒ति॒ष्ठ॒त् , अर्व॑ता , जयं॑ती । विश्वे॑ , दे॒वाः , अनु॑ , अ॒म॒न्यं॒त॒ , हृ॒त्ऽभिः , सं , ऊँ॒ इति॑ , श्रि॒या , ना॒स॒त्या॒ , स॒चे॒थे॒ इति॑ ॥
यदया॑तं॒ दिवो॑दासाय व॒र्तिर्भ॒रद्वा॑जायाश्विना॒ हयं॑ता । रे॒वदु॑वाह सच॒नो रथो॑ वां वृष॒भश्च॑ शिंशु॒मार॑श्च यु॒क्ता ॥
यत् , अया॑तं , दिवः॑ऽदासाय , व॒र्तिः , भ॒रत्ऽवा॑जाय , अ॒श्वि॒ना॒ , हयं॑ता । रे॒वत् , उ॒वा॒ह॒ , स॒च॒नः , रथः॑ , वां॒ , वृ॒ष॒भः , च॒ , शिं॒शु॒मारः॑ , च॒ , यु॒क्ता ॥
र॒यिं सु॑क्ष॒त्रं स्व॑प॒त्यमायुः॑ सु॒वीर्यं॑ नासत्या॒ वहं॑ता । आ ज॒ह्नावीं॒ सम॑न॒सोप॒ वाजै॒स्त्रिरह्नो॑ भा॒गं दध॑तीमयातं ॥
र॒यिं , सु॒ऽक्ष॒त्रं , सु॒ऽअ॒प॒त्यं , आयुः॑ , सु॒ऽवीर्यं॑ , ना॒स॒त्या॒ , वहं॑ता । आ , ज॒ह्नावीं॑ , सऽम॑नसा , उप॑ , वाजैः॑ , त्रिः , अह्नः॑ , भा॒गं , दध॑तीं , अ॒या॒तं॒ ॥
परि॑विष्टं जाहु॒षं वि॒श्वतः॑ सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो॑भिः । वि॒भिं॒दुना॑ नासत्या॒ रथे॑न॒ वि पर्व॑ताँ अजर॒यू अ॑यातं ॥
परि॑ऽविष्टं , जा॒हु॒षं , वि॒श्वतः॑ , सीं॒ , सु॒ऽगेभिः॑ , नक्तं॑ , ऊ॒ह॒थुः॒ , रजः॑ऽभिः । वि॒ऽभिं॒दुना॑ , ना॒स॒त्या॒ , रथे॑न , वि , पर्व॑तान् , अ॒ज॒र॒यू इति॑ , अ॒या॒तं॒ ॥
एक॑स्या॒ वस्तो॑रावतं॒ रणा॑य॒ वश॑मश्विना स॒नये॑ स॒हस्रा॑ । निर॑हतं दु॒च्छुना॒ इंद्र॑वंता पृथु॒श्रव॑सो वृषणा॒वरा॑तीः ॥
एक॑स्याः , वस्तोः॑ , आ॒व॒तं॒ , रणा॑य , वशं॑ , अ॒श्वि॒ना॒ , स॒नये॑ , स॒हस्रा॑ । निः , अ॒ह॒तं॒ , दु॒च्छुनाः॑ , इंद्र॑ऽवंता , पृ॒थु॒ऽश्रव॑सः , वृ॒ष॒णौ॒ , अरा॑तीः ॥
श॒रस्य॑ चिदार्च॒त्कस्या॑व॒तादा नी॒चादु॒च्चा च॑क्रथुः॒ पात॑वे॒ वाः । श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्यं॑ पिप्यथु॒र्गां ॥
श॒रस्य॑ , चि॒त् , आ॒र्च॒त्ऽकस्य॑ , अ॒व॒तात् , आ , नी॒चात् , उ॒च्चा , च॒क्र॒थुः॒ , पात॑वे , वारिति॒ वाः । श॒यवे॑ , चि॒त् , ना॒स॒त्या॒ , शची॑भिः , जसु॑रये , स्त॒र्यं॑ , पि॒प्य॒थुः॒ , गां ॥
अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः । प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥
अ॒व॒स्य॒ते , स्तु॒व॒ते , कृ॒ष्णि॒याय॑ , ऋ॒जु॒ऽय॒ते , ना॒स॒त्या॒ , शची॑भिः । प॒शुं , न , न॒ष्टंऽइ॑व , दर्श॑नाय , वि॒ष्णा॒प्वं॑ , द॒द॒थुः॒ , विश्व॑काय ॥
दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्व१॒॑न्तः । विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि॑न्यथुः॒ सोम॑मिव स्रु॒वेण॑ ॥
दश॑ , रात्रीः॑ , अशि॑वेन , नव॑ , द्यून् , अव॑ऽनद्धं , श्न॒थि॒तं , अ॒प्ऽसु , अं॒तरिति॑ । विऽप्रु॑तं , रे॒भं , उ॒दनि॑ , प्रऽवृ॑क्तं , उत् , नि॒न्य॒थुः॒ , सोमं॑ऽइव , स्रु॒वेण॑ ॥
प्र वां॒ दंसां॑स्यश्विनाववोचम॒स्य पतिः॑ स्यां सु॒गवः॑ सु॒वीरः॑ । उ॒त पश्य॑न्नश्नु॒वंदी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं॑ जगम्यां ॥
प्र , वां॒ , दंसां॑सि , अ॒श्वि॒नौ॒ , अ॒वो॒चं॒ , अ॒स्य , पतिः॑ , स्यां॒ , सु॒ऽगवः॑ , सु॒ऽवीरः॑ । उ॒त , पश्य॑न् , अ॒श्नु॒वन् , दी॒र्घं , आयुः॑ , अस्तं॑ऽइव , इत् , ज॒रि॒माणं॑ , ज॒ग॒म्यां॒ ॥
[११७] मध्वःसोमस्येति पंचविंशत्यृचस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौत्रिष्टुप् |
मध्वः॒ सोम॑स्याश्विना॒ मदा॑य प्र॒त्नो होता वि॑वासते वां । ब॒र्हिष्म॑ती रा॒तिर्विश्रि॑ता॒ गीरि॒षा या॑तं नास॒त्योप॒ वाजैः॑ ॥
मध्वः॑ , सोम॑स्य , अ॒श्वि॒ना॒ , मदा॑य , प्र॒त्नः , होता॑ , आ , वि॒वा॒स॒ते॒ , वां॒ । ब॒र्हिष्म॑ती , रा॒तिः , विऽश्रि॑ता , गीः , इ॒षा , या॒तं॒ , ना॒स॒त्या॒ , उप॑ , वाजैः॑ ॥
यो वा॑मश्विना॒ मन॑सो॒ जवी॑या॒न्रथः॒ स्वश्वो॒ विश॑ आ॒जिगा॑ति । येन॒ गच्छ॑थः सु॒कृतो॑ दुरो॒णं तेन॑ नरा व॒र्तिर॒स्मभ्यं॑ यातं ॥
यः , वां॒ , अ॒श्वि॒ना॒ , मन॑सः , जवी॑यान् , रथः॑ , सु॒ऽअश्वः॑ , विशः॑ , आ॒ऽजिगा॑ति । येन॑ , गच्छ॑थः , सु॒ऽकृतः॑ , दु॒रो॒णं , तेन॑ , न॒रा॒ , व॒र्तिः , अ॒स्मभ्यं॑ , या॒तं॒ ॥
ऋषिं॑ नरा॒वंह॑सः॒ पांच॑जन्यमृ॒बीसा॒दत्रिं॑ मुंचथो ग॒णेन॑ । मि॒नंता॒ दस्यो॒रशि॑वस्य मा॒या अ॑नुपू॒र्वं वृ॑षणा चो॒दयं॑ता ॥
ऋषिं॑ , न॒रौ॒ , अंह॑सः , पांच॑ऽजन्यं , ऋ॒बीसा॑त् , अत्रिं॑ , मुं॒च॒थः॒ , ग॒णेन॑ । मि॒नंता॑ , दस्योः॑ , अशि॑वस्य , मा॒याः , अ॒नु॒ऽपू॒र्वं , वृ॒ष॒णा॒ , चो॒दयं॑ता ॥
अश्वं॒ न गू॒ळ्हम॑श्विना दु॒रेवै॒र्ऋषिं॑ नरा वृषणा रे॒भम॒प्सु । सं तं रि॑णीथो॒ विप्रु॑तं॒ दंसो॑भि॒र्न वां॑ जूर्यंति पू॒र्व्या कृ॒तानि॑ ॥
अश्वं॑ , न , गू॒ळ्हं , अ॒श्वि॒ना॒ , दुः॒ऽएवैः॑ , ऋषिं॑ , न॒रा॒ , वृ॒ष॒णा॒ , रे॒भं , अ॒प्ऽसु । सं , तं , रि॒णी॒थः॒ , विऽप्रु॑तं , दंसः॑ऽभिः , न , वां॒ , जू॒र्यं॒ति॒ , पू॒र्व्या , कृ॒तानि॑ ॥
सु॒षु॒प्वांसं॒ न निर्ऋ॑तेरु॒पस्थे॒ सूर्यं॒ न द॑स्रा॒ तम॑सि क्षि॒यंतं॑ । शु॒भे रु॒क्मं न द॑र्श॒तं निखा॑त॒मुदू॑पथुरश्विना॒ वंद॑नाय ॥
सु॒सु॒प्वांसं॑ , न , निःऽऋ॑तेः , उ॒पऽस्थे॑ , सूर्यं॑ , न , द॒स्रा॒ , तम॑सि , क्षि॒यंतं॑ । शु॒भे , रु॒क्मं , न , द॒र्श॒तं , निऽखा॑तं , उत् , ऊ॒प॒थुः॒ , अ॒श्वि॒ना॒ , वंद॑नाय ॥
तद्वां॑ नरा॒ शंस्यं॑ पज्रि॒येण॑ क॒क्षीव॑ता नासत्या॒ परि॑ज्मन् । श॒फादश्व॑स्य वा॒जिनो॒ जना॑य श॒तं कुं॒भाँ अ॑सिंचतं॒ मधू॑नां ॥
तत् , वां॒ , न॒रा॒ , शंस्यं॑ , प॒ज्रि॒येण॑ , क॒क्षीव॑ता , ना॒स॒त्या॒ , परि॑ऽज्मन् । श॒फात् , अश्व॑स्य , वा॒जिनः॑ , जना॑य , श॒तं , कुं॒भान् , अ॒सिं॒च॒तं॒ , मधू॑नां ॥
यु॒वं न॑रा स्तुव॒ते कृ॑ष्णि॒याय॑ विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय । घोषा॑यै चित्पितृ॒षदे॑ दुरो॒णे पतिं॒ जूर्यं॑त्या अश्विनावदत्तं ॥
यु॒वं , न॒रा॒ , स्तु॒व॒ते , कृ॒ष्णि॒याय॑ , वि॒ष्णा॒प्वं॑ , द॒द॒थुः॒ , विश्व॑काय । घोषा॑यै , चि॒त् , पि॒तृ॒ऽसदे॑ , दु॒रो॒णे , पतिं॑ , जूर्यं॑त्यै , अ॒श्वि॒नौ॒ , अ॒द॒त्तं॒ ॥
यु॒वं श्यावा॑य॒ रुश॑तीमदत्तं म॒हः क्षो॒णस्या॑श्विना॒ कण्वा॑य । प्र॒वाच्यं॒ तद्वृ॑षणा कृ॒तं वां॒ यन्ना॑र्ष॒दाय॒ श्रवो॑ अ॒ध्यध॑त्तं ॥
यु॒वं , श्यावा॑य , रुश॑तीं , अ॒द॒त्तं॒ , म॒हः , क्षो॒णस्य॑ , अ॒श्वि॒ना॒ , कण्वा॑य । प्र॒ऽवाच्यं॑ , तत् , वृ॒ष॒णा॒ , कृ॒तं , वां॒ , यत् , ना॒र्ष॒दाय॑ , श्रवः॑ , अ॒धि॒ऽअध॑त्तं ॥
पु॒रू वर्पां॑स्यश्विना॒ दधा॑ना॒ नि पे॒दव॑ ऊहथुरा॒शुमश्वं॑ । स॒ह॒स्र॒सां वा॒जिन॒मप्र॑तीतमहि॒हनं॑ श्रव॒स्यं१॒॑ तरु॑त्रं ॥
पु॒रु , वर्पां॑सि , अ॒श्वि॒ना॒ , दधा॑ना , नि , पे॒दवे॑ , ऊ॒ह॒थुः॒ , आ॒शुं , अश्वं॑ । स॒ह॒स्र॒ऽसां , वा॒जिनं॑ , अप्र॑तिऽइतं , अ॒हि॒ऽहनं॑ , श्र॒व॒स्यं॑ , तरु॑त्रं ॥
ए॒तानि॑ वां श्रव॒स्या॑ सुदानू॒ ब्रह्मां॑गू॒षं सद॑नं॒ रोद॑स्योः । यद्वां॑ प॒ज्रासो॑ अश्विना॒ हवं॑ते या॒तमि॒षा च॑ वि॒दुषे॑ च॒ वाजं॑ ॥
ए॒तानि॑ , वां॒ , श्र॒व॒स्या॑ , सु॒दा॒नू॒ इति॑ सुऽदानू , ब्रह्म॑ , आं॒गू॒षं , सद॑नं , रोद॑स्योः । यत् , वां॒ , प॒ज्रासः॑ , अ॒श्वि॒ना॒ , हवं॑ते , या॒तं , इ॒षा , च॒ , वि॒दुषे॑ , च॒ , वाजं॑ ॥
सू॒नोर्माने॑नाश्विना गृणा॒ना वाजं॒ विप्रा॑य भुरणा॒ रदं॑ता । अ॒गस्त्ये॒ ब्रह्म॑णा वावृधा॒ना सं वि॒श्पलां॑ नासत्यारिणीतं ॥
सू॒नोः , माने॑न , अ॒श्वि॒ना॒ , गृ॒णा॒ना , वाजं॑ , विप्रा॑य , भु॒र॒णा॒ , रदं॑ता । अ॒गस्त्ये॑ , ब्रह्म॑णा , व॒वृ॒धा॒ना , सं , वि॒श्पलां॑ , ना॒स॒त्या॒ , अ॒रि॒णी॒तं॒ ॥
कुह॒ यांता॑ सुष्टु॒तिं का॒व्यस्य॒ दिवो॑ नपाता वृषणा शयु॒त्रा । हिर॑ण्यस्येव क॒लशं॒ निखा॑त॒मुदू॑पथुर्दश॒मे अ॑श्वि॒नाह॑न् ॥
कुह॑ , यांता॑ , सु॒ऽस्तु॒तिं , का॒व्यस्य॑ , दिवः॑ , न॒पा॒ता॒ , वृ॒ष॒णा॒ , श॒यु॒ऽत्रा । हिर॑ण्यस्यऽइव , क॒लशं॑ , निऽखा॑तं , उत् , ऊ॒प॒थुः॒ , द॒श॒मे , अ॒श्वि॒ना॒ , अह॑न् ॥
यु॒वं च्यवा॑नमश्विना॒ जरं॑तं॒ पुन॒र्युवा॑नं चक्रथुः॒ शची॑भिः । यु॒वो रथं॑ दुहि॒ता सूर्य॑स्य स॒ह श्रि॒या ना॑सत्यावृणीत ॥
यु॒वं , च्यवा॑नं , अ॒श्वि॒ना॒ , जरं॑तं , पुनः॑ , युवा॑नं , च॒क्र॒थुः॒ , शची॑भिः । यु॒वोः , रथं॑ , दु॒हि॒ता , सूर्य॑स्य , स॒ह , श्रि॒या , ना॒स॒त्या॒ , अ॒वृ॒णी॒त॒ ॥
यु॒वं तुग्रा॑य पू॒र्व्येभि॒रेवैः॑ पुनर्म॒न्याव॑भवतं युवाना । यु॒वं भु॒ज्युमर्ण॑सो॒ निः स॑मु॒द्राद्विभि॑रूहथुर्ऋ॒ज्रेभि॒रश्वैः॑ ॥
यु॒वं , तुग्रा॑य , पू॒र्व्येभिः॑ , एवैः॑ , पु॒नः॒ऽम॒न्यौ , अ॒भ॒व॒तं॒ , यु॒वा॒ना॒ । यु॒वं , भु॒ज्युं , अर्ण॑सः , निः , स॒मु॒द्रात् , विऽभिः॑ , ऊ॒ह॒थुः॒ , ऋ॒ज्रेभिः॑ , अश्वैः॑ ॥
अजो॑हवीदश्विना तौ॒ग्र्यो वां॒ प्रोळ्हः॑ समु॒द्रम॑व्य॒थिर्ज॑ग॒न्वान् । निष्टमू॑हथुः सु॒युजा॒ रथे॑न॒ मनो॑जवसा वृषणा स्व॒स्ति ॥
अजो॑हवीत् , अ॒श्वि॒ना॒ , तौ॒ग्र्यः , वां॒ , प्रऽऊ॑ळ्हः , स॒मु॒द्रं , अ॒व्य॒थिः , ज॒ग॒न्वान् । निः , तं , ऊ॒ह॒थुः॒ , सु॒ऽयुजा॑ , रथे॑न , मनः॑ऽजवसा , वृ॒ष॒णा॒ , स्व॒स्ति ॥
अजो॑हवीदश्विना॒ वर्ति॑का वामा॒स्नो यत्सी॒ममुं॑चतं॒ वृक॑स्य । वि ज॒युषा॑ ययथुः॒ सान्वद्रे॑र्जा॒तं वि॒ष्वाचो॑ अहतं वि॒षेण॑ ॥
अजो॑हवीत् , अ॒श्वि॒ना॒ , वर्ति॑का , वां॒ , आ॒स्नः , यत् , सीं॒ , अमुं॑चतं , वृक॑स्य । वि , ज॒युषा॑ , य॒य॒थुः॒ , सानु॑ , अद्रेः॑ , जा॒तं , वि॒ष्वाचः॑ , अ॒ह॒तं॒ , वि॒षेण॑ ॥
श॒तं मे॒षान्वृ॒क्ये॑ मामहा॒नं तमः॒ प्रणी॑त॒मशि॑वेन पि॒त्रा । आक्षी ऋ॒ज्राश्वे॑ अश्विनावधत्तं॒ ज्योति॑रं॒धाय॑ चक्रथुर्वि॒चक्षे॑ ॥
श॒तं , मे॒षान् , वृ॒क्ये॑ , म॒म॒हा॒नं , तमः॑ , प्रऽनी॑तं , अशि॑वेन , पि॒त्रा । आ , अ॒क्षी इति॑ , ऋ॒ज्रऽअ॑श्वे , अ॒श्वि॒नौ॒ , अ॒ध॒त्तं॒ , ज्योतिः॑ , अं॒धाय॑ , च॒क्र॒थुः॒ , वि॒ऽचक्षे॑ ॥
शु॒नमं॒धाय॒ भर॑मह्वय॒त्सा वृ॒कीर॑श्विना वृषणा॒ नरेति॑ । जा॒रः क॒नीन॑ इव चक्षदा॒न ऋ॒ज्राश्वः॑ श॒तमेकं॑ च मे॒षान् ॥
शु॒नं , अं॒धाय॑ , भरं॑ , अ॒ह्व॒य॒त् , सा , वृ॒कीः , अ॒श्वि॒ना॒ , वृ॒ष॒णा॒ , नरा॑ , इति॑ । जा॒रः , क॒नीनः॑ऽइव , च॒क्ष॒दा॒नः , ऋ॒ज्रऽअ॑श्वः , श॒तं , एकं॑ , च॒ , मे॒षान् ॥
म॒ही वा॑मू॒तिर॑श्विना मयो॒भूरु॒त स्रा॒मं धि॑ष्ण्या॒ सं रि॑णीथः । अथा॑ यु॒वामिद॑ह्वय॒त्पुरं॑धि॒राग॑च्छतं सीं वृषणा॒ववो॑भिः ॥
म॒ही , वां॒ , ऊ॒तिः , अ॒श्वि॒ना॒ , म॒यः॒ऽभूः , उ॒त , स्रा॒मं , धि॒ष्ण्या॒ , सं , रि॒णी॒थः॒ । अथ॑ , यु॒वां , इत् , अ॒ह्व॒य॒त् , पुरं॑ऽधिः , आ , अ॒ग॒च्छ॒तं॒ , सीं॒ , वृ॒ष॒णौ॒ , अवः॑ऽभिः ॥
अधे॑नुं दस्रा स्त॒र्यं१॒॑ विष॑क्ता॒मपि॑न्वतं श॒यवे॑ अश्विना॒ गां । यु॒वं शची॑भिर्विम॒दाय॑ जा॒यां न्यू॑हथुः पुरुमि॒त्रस्य॒ योषां॑ ॥
अधे॑नुं , द॒स्रा॒ , स्त॒र्यं॑ , विऽस॑क्तां , अपि॑न्वतं , श॒यवे॑ , अ॒श्वि॒ना॒ , गां । यु॒वं , शची॑भिः , वि॒ऽम॒दाय॑ , जा॒यां , नि , ऊ॒ह॒थुः॒ , पु॒रु॒ऽमि॒त्रस्य॑ , योषां॑ ॥
यवं॒ वृके॑णाश्विना॒ वपं॒तेषं॑ दु॒हंता॒ मनु॑षाय दस्रा । अ॒भि दस्युं॒ बकु॑रेणा॒ धमं॑तो॒रु ज्योति॑श्चक्रथु॒रार्या॑य ॥
यवं॑ , वृके॑ण , अ॒श्वि॒न॒ , वपं॑ता , इषं॑ , दु॒हंता॑ , मनु॑षाय , द॒स्रा॒ । अ॒भि , दस्युं॑ , बकु॑रेण , धमं॑ता , उ॒रु , ज्योतिः॑ , च॒क्र॒थुः॒ , आर्या॑य ॥
आ॒थ॒र्व॒णाया॑श्विना दधी॒चेऽश्व्यं॒ शिरः॒ प्रत्यै॑रयतं । स वां॒ मधु॒ प्र वो॑चदृता॒यंत्वा॒ष्ट्रं यद्द॑स्रावपिक॒क्ष्यं॑ वां ॥
आ॒थ॒र्व॒णाय॑ , अ॒श्वि॒ना॒ , द॒धी॒चे , अश्व्यं॑ , शिरः॑ , प्रति॑ , ऐ॒र॒य॒तं॒ । सः , वां॒ , मधु॑ , प्र , वो॒च॒त् , ऋ॒त॒ऽयन् , त्वा॒ष्ट्रं , यत् , द॒स्रौ॒ , अ॒पि॒ऽक॒क्ष्यं॑ , वां॒ ॥
सदा॑ कवी सुम॒तिमा च॑के वां॒ विश्वा॒ धियो॑ अश्विना॒ प्राव॑तं मे । अ॒स्मे र॒यिं ना॑सत्या बृ॒हंत॑मपत्य॒साचं॒ श्रुत्यं॑ रराथां ॥
सदा॑ , क॒वी॒ इति॑ , सु॒ऽम॒तिं , आ , च॒के॒ , वां॒ , विश्वाः॑ , धियः॑ , अ॒श्वि॒ना॒ , प्र , अ॒व॒तं॒ , मे॒ । अ॒स्मे इति॑ , र॒यिं , ना॒स॒त्या॒ , बृ॒हंतं॑ , अ॒प॒त्य॒ऽसाचं॑ , श्रुत्यं॑ , र॒रा॒थां॒ ॥
हिर॑ण्यहस्तमश्विना॒ ररा॑णा पु॒त्रं न॑रा वध्रिम॒त्या अ॑दत्तं । त्रिधा॑ ह॒ श्याव॑मश्विना॒ विक॑स्त॒मुज्जी॒वस॑ ऐरयतं सुदानू ॥
हिर॑ण्यऽहस्तं , अ॒श्वि॒ना॒ , ररा॑णा , पु॒त्रं , न॒रा॒ , व॒ध्रि॒ऽम॒त्याः , अ॒द॒त्तं॒ । त्रिधा॑ , ह॒ , श्यावं॑ , अ॒श्वि॒ना॒ , विऽक॑स्तं , उत् , जी॒वसे॑ , ऐ॒र॒य॒तं॒ , सु॒दा॒नू॒ इति॑ सुऽदानू ॥
ए॒तानि॑ वामश्विना वी॒र्या॑णि॒ प्र पू॒र्व्याण्या॒यवो॑ऽवोचन् । ब्रह्म॑ कृ॒ण्वंतो॑ वृषणा यु॒वभ्यां॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
ए॒तानि॑ , वां॒ , अ॒श्वि॒ना॒ , वी॒र्या॑णि , प्र , पू॒र्व्याणि॑ , आ॒यवः॑ , अ॒वो॒च॒न् । ब्रह्म॑ , कृ॒ण्वंतः॑ , वृ॒ष॒णा॒ , यु॒वऽभ्यां॑ , सु॒ऽवीरा॑सः , वि॒दथं॑ , आ , व॒दे॒म॒ ॥
[११८] आवांरथइत्येकादशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौत्रिष्टुप् |
आ वां॒ रथो॑ अश्विना श्ये॒नप॑त्वा सुमृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् । यो मर्त्य॑स्य॒ मन॑सो॒ जवी॑यांत्रिवंधु॒रो वृ॑षणा॒ वात॑रंहाः ॥
आ , वां॒ , रथः॑ , अ॒श्वि॒ना॒ , श्ये॒नऽप॑त्वा , सु॒ऽमृ॒ळी॒कः , स्वऽवा॑न् , या॒तु॒ , अ॒र्वाङ् । यः , मर्त्य॑स्य , मन॑सः , जवी॑यान् , त्रि॒ऽवं॒धु॒रः , वृ॒ष॒णा॒ , वात॑ऽरंहाः ॥
त्रि॒वं॒धु॒रेण॑ त्रि॒वृता॒ रथे॑न त्रिच॒क्रेण॑ सु॒वृता या॑तम॒र्वाक् । पिन्व॑तं॒ गा जिन्व॑त॒मर्व॑तो नो व॒र्धय॑तमश्विना वी॒रम॒स्मे ॥
त्रि॒ऽवं॒धु॒रेण॑ , त्रि॒ऽवृता॑ , रथे॑न , त्रि॒ऽच॒क्रेण॑ , सु॒ऽवृता॑ , आ , या॒तं॒ , अ॒र्वाक् । पिन्व॑तं , गाः , जिन्व॑तं , अर्व॑तः , नः॒ , व॒र्धय॑तं , अ॒श्वि॒ना॒ , वी॒रं , अ॒स्मे इति॑ ॥
प्र॒वद्या॑मना सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः॑ । किमं॒ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥
प्र॒वत्ऽया॑मना , सु॒ऽवृता॑ , रथे॑न , दस्रौ॑ , इ॒मं , शृ॒णु॒तं॒ , श्लोकं॑ , अद्रेः॑ । किं , अं॒ग , वां॒ , प्रति॑ , अव॑र्तिं , गमि॑ष्ठा , आ॒हुः , विप्रा॑सः , अ॒श्वि॒ना॒ , पु॒रा॒ऽजाः ॥
आ वां॑ श्ये॒नासो॑ अश्विना वहंतु॒ रथे॑ यु॒क्तास॑ आ॒शवः॑ पतं॒गाः । ये अ॒प्तुरो॑ दि॒व्यासो॒ न गृध्रा॑ अ॒भि प्रयो॑ नासत्या॒ वहं॑ति ॥
आ , वां॒ , श्ये॒नासः॑ , अ॒श्वि॒ना॒ , व॒हं॒तु॒ , रथे॑ , यु॒क्तासः॑ , आ॒शवः॑ , प॒तं॒गाः । ये , अ॒प्ऽतुरः॑ , दि॒व्यासः॑ , न , गृध्राः॑ , अ॒भि , प्रयः॑ , ना॒स॒त्या॒ , वहं॑ति ॥
आ वां॒ रथं॑ युव॒तिस्ति॑ष्ठ॒दत्र॑ जु॒ष्ट्वी न॑रा दुहि॒ता सूर्य॑स्य । परि॑ वा॒मश्वा॒ वपु॑षः पतं॒गा वयो॑ वहंत्वरु॒षा अ॒भीके॑ ॥
आ , वां॒ , रथं॑ , यु॒व॒तिः , ति॒ष्ठ॒त् , अत्र॑ , जु॒ष्ट्वी , न॒रा॒ , दु॒हि॒ता , सूर्य॑स्य । परि॑ , वां॒ , अश्वाः॑ , वपु॑षः , प॒तं॒गाः , वयः॑ , व॒हं॒तु॒ , अ॒रु॒षाः , अ॒भीके॑ ॥
उद्वंद॑नमैरतं दं॒सना॑भि॒रुद्रे॒भं द॑स्रा वृषणा॒ शची॑भिः । निष्टौ॒ग्र्यं पा॑रयथः समु॒द्रात्पुन॒श्च्यवा॑नं चक्रथु॒र्युवा॑नं ॥
उत् , वंद॑नं , ऐ॒र॒तं॒ , दं॒सना॑भिः , उत् , रे॒भं , द॒स्रा॒ , वृ॒ष॒णा॒ , शची॑भिः । निः , तौ॒ग्र्यं , पा॒र॒य॒थः॒ , स॒मु॒द्रात् , पुन॒रिति॑ , च्यवा॑नं , च॒क्र॒थुः॒ , युवा॑नं ॥
यु॒वमत्र॒येऽव॑नीताय त॒प्तमूर्ज॑मो॒मान॑मश्विनावधत्तं । यु॒वं कण्वा॒यापि॑रिप्ताय॒ चक्षुः॒ प्रत्य॑धत्तं सुष्टु॒तिं जु॑जुषा॒णा ॥
यु॒वं , अत्र॑ये , अव॑ऽनीताय , त॒प्तं , ऊर्जं॑ , ओ॒मानं॑ , अ॒श्वि॒नौ॒ , अ॒ध॒त्तं॒ । यु॒वं , कण्वा॑य , अपि॑ऽरिप्ताय , चक्षुः॑ , प्रति॑ , अ॒ध॒त्तं॒ , सु॒ऽस्तु॒तिं , जु॒जु॒षा॒णा ॥
यु॒वं धे॒नुं श॒यवे॑ नाधि॒तायापि॑न्वतमश्विना पू॒र्व्याय॑ । अमुं॑चतं॒ वर्ति॑का॒मंह॑सो॒ निः प्रति॒ जंघां॑ वि॒श्पला॑या अधत्तं ॥
यु॒वं , धे॒नुं , श॒यवे॑ , ना॒धि॒ताय॑ , अपि॑न्वतं , अ॒श्वि॒ना॒ , पू॒र्व्याय॑ । अमुं॑चतं , वर्ति॑कां , अंह॑सः , निः , प्रति॑ , जंघां॑ , वि॒श्पला॑याः , अ॒ध॒त्तं॒ ॥
यु॒वं श्वे॒तं पे॒दव॒ इंद्र॑जूतमहि॒हन॑मश्विनादत्त॒मश्वं॑ । जो॒हूत्र॑म॒र्यो अ॒भिभू॑तिमु॒ग्रं स॑हस्र॒सां वृष॑णं वी॒ड्वं॑गं ॥
यु॒वं , श्वे॒तं , पे॒दवे॑ , इंद्र॑ऽजूतं , अ॒हि॒ऽहनं॑ , अ॒श्वि॒ना॒ , अ॒द॒त्तं॒ , अश्वं॑ । जो॒हूत्रं॑ , अ॒र्यः , अ॒भिऽभू॑तिं , उ॒ग्रं , स॒ह॒स्र॒ऽसां , वृष॑णं , वी॒ळुऽअं॑गं ॥
ता वां॑ नरा॒ स्वव॑से सुजा॒ता हवा॑महे अश्विना॒ नाध॑मानाः । आ न॒ उप॒ वसु॑मता॒ रथे॑न॒ गिरो॑ जुषा॒णा सु॑वि॒ताय॑ यातं ॥
ता , वां॒ , न॒रा॒ , सु , अव॑से , सु॒ऽजा॒ता , हवा॑महे , अ॒श्वि॒ना॒ , नाध॑मानाः । आ , नः॒ , उप॑ , वसु॑ऽमता , रथे॑न , गिरः॑ , जु॒षा॒णा , सु॒वि॒ताय॑ , या॒तं॒ ॥
आ श्ये॒नस्य॒ जव॑सा॒ नूत॑नेना॒स्मे या॑तं नासत्या स॒जोषाः॑ । हवे॒ हि वा॑मश्विना रा॒तह॑व्यः शश्वत्त॒माया॑ उ॒षसो॒ व्यु॑ष्टौ ॥
आ , श्ये॒नस्य॑ , जव॑सा , नूत॑नेन , अ॒स्मे इति॑ , य॒तं॒ , ना॒स॒त्या॒ , स॒जोषाः॑ । हवे॑ , हि , वां॒ , अ॒श्वि॒ना॒ , रा॒तऽह॑व्यः , श॒श्व॒त्ऽत॒मायाः॑ , उ॒षसः॑ , विऽउ॑ष्टौ ॥
[११९] आवांरथमिति दशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौजगती |
आ वां॒ रथं॑ पुरुमा॒यं म॑नो॒जुवं॑ जी॒राश्वं॑ य॒ज्ञियं॑ जी॒वसे॑ हुवे । स॒हस्र॑केतुं व॒निनं॑ श॒तद्व॑सुं श्रुष्टी॒वानं॑ वरिवो॒धाम॒भि प्रयः॑ ॥
आ , वां॒ , रथं॑ , पु॒रु॒ऽमा॒यं , म॒नः॒ऽजुवं॑ , जी॒रऽअ॑श्वं , य॒ज्ञियं॑ , जी॒वसे॑ , हु॒वे॒ । स॒हस्र॑ऽकेतुं , व॒निनं॑ , श॒तत्ऽव॑सुं , श्रु॒ष्टी॒ऽवानं॑ , व॒रि॒वः॒ऽधां , अ॒भि , प्रयः॑ ॥
ऊ॒र्ध्वा धी॒तिः प्रत्य॑स्य॒ प्रया॑म॒न्यधा॑यि॒ शस्मं॒त्सम॑यंत॒ आ दिशः॑ । स्वदा॑मि घ॒र्मं प्रति॑ यंत्यू॒तय॒ आ वा॑मू॒र्जानी॒ रथ॑मश्विनारुहत् ॥
ऊ॒र्ध्वा , धी॒तिः , प्रति॑ , अ॒स्य॒ , प्रऽया॑मनि , अधा॑यि , शस्म॑न् , सं , अ॒यं॒ते॒ , आ , दिशः॑ । स्वदा॑मि , घ॒र्मं , प्रति॑ , यं॒ति॒ , ऊ॒तयः॑ , आ , वां॒ , ऊ॒र्जानी॑ , रथं॑ , अ॒श्वि॒ना॒ , अ॒रु॒ह॒त् ॥
सं यन्मि॒थः प॑स्पृधा॒नासो॒ अग्म॑त शु॒भे म॒खा अमि॑ता जा॒यवो॒ रणे॑ । यु॒वोरह॑ प्रव॒णे चे॑किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वरं॑ ॥
सं , यत् , मि॒थः , प॒स्पृ॒धा॒नासः॑ , अग्म॑त , शु॒भे , म॒खाः , अमि॑ताः , जा॒यवः॑ , रणे॑ । यु॒वोः , अह॑ , प्र॒व॒णे , चे॒कि॒ते॒ , रथः॑ , यत् , अ॒श्वि॒ना॒ , वह॑थः , सू॒रिं , आ , वरं॑ ॥
यु॒वं भु॒ज्युं भु॒रमा॑णं॒ विभि॑र्ग॒तं स्वयु॑क्तिभिर्नि॒वहं॑ता पि॒तृभ्य॒ आ । या॒सि॒ष्टं व॒र्तिर्वृ॑षणा विजे॒न्यं१॒॑ दिवो॑दासाय॒ महि॑ चेति वा॒मवः॑ ॥
यु॒वं , भु॒ज्युं , भु॒रमा॑णं , विऽभिः॑ , ग॒तं , स्वयु॑क्तिऽभिः , नि॒ऽवहं॑ता , पि॒तृऽभ्यः॑ , आ । या॒सि॒ष्टं , व॒र्तिः , वृ॒ष॒णा॒ , वि॒ऽजे॒न्यं॑ , दिवः॑ऽदासाय , महि॑ , चे॒ति॒ , वां॒ , अवः॑ ॥
यु॒वोर॑श्विना॒ वपु॑षे युवा॒युजं॒ रथं॒ वाणी॑ येमतुरस्य॒ शर्ध्यं॑ । आ वां॑ पति॒त्वं स॒ख्याय॑ ज॒ग्मुषी॒ योषा॑वृणीत॒ जेन्या॑ यु॒वां पती॑ ॥
यु॒वोः , अ॒श्वि॒ना॒ , वपु॑षे , यु॒वा॒ऽयुजं॑ , रथं॑ , वाणी॒ इति॑ , ये॒म॒तुः॒ , अ॒स्य॒ , शर्ध्यं॑ । आ , वां॒ , प॒ति॒ऽत्वं , स॒ख्याय॑ , ज॒ग्मुषी॑ , योषा॑ , अ॒वृ॒णी॒त॒ , जेन्या॑ , यु॒वां , पती॒ इति॑ ॥
यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये । यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वंद॑नस्ता॒र्यायु॑षा ॥
यु॒वं , रे॒भं , परि॑ऽसूतेः , उ॒रु॒ष्य॒थः॒ , हि॒मेन॑ , घ॒र्मं , परि॑ऽतप्तं , अत्र॑ये । यु॒वं , श॒योः , अ॒व॒सं , पि॒प्य॒थुः॒ , गवि॑ , प्र , दी॒र्घेण॑ , वंद॑नः , ता॒रि॒ , आयु॑षा ॥
यु॒वं वंद॑नं॒ निर्ऋ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि॑न्वथः । क्षेत्रा॒दा विप्रं॑ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना॑ भुवत् ॥
यु॒वं , वंद॑नं , निःऽऋ॑तं , ज॒र॒ण्यया॑ , रथं॑ , न , द॒स्रा॒ , क॒र॒णा , सं , इ॒न्व॒थः॒ । क्षेत्रा॑त् , आ , विप्रं॑ , ज॒न॒थः॒ , वि॒प॒न्यया॑ , प्र , वां॒ , अत्र॑ , वि॒ध॒ते , दं॒सना॑ , भु॒व॒त् ॥
अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा॑धितं । स्व॑र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा अ॒भीके॑ अभवन्न॒भिष्ट॑यः ॥
अग॑च्छतं , कृप॑माणं , प॒रा॒ऽवति॑ , पि॒तुः , स्वस्य॑ , त्यज॑सा , निऽबा॑धितं । स्वः॑ऽवतीः , इ॒तः , ऊ॒तीः , यु॒वोः , अह॑ , चि॒त्राः , अ॒भीके॑ , अ॒भ॒व॒न् , अ॒भिष्ट॑यः ॥
उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति । यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिरः॒ प्रति॑ वा॒मश्व्यं॑ वदत् ॥
उ॒त , स्या , वां॒ , मधु॑ऽमत् , मक्षि॑का , अ॒र॒प॒त् , मदे॑ , सोम॑स्य , औ॒शि॒जः , हु॒व॒न्य॒ति॒ । यु॒वं , द॒धी॒चः , मनः॑ , आ , वि॒वा॒स॒थः॒ , अथ॑ , शिरः॑ , प्रति॑ , वां॒ , अश्व्यं॑ , व॒द॒त् ॥
यु॒वं पे॒दवे॑ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं॑ दुवस्यथः । शर्यै॑र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं॑ च॒र्कृत्य॒मिंद्र॑मिव चर्षणी॒सहं॑ ॥
यु॒वं , पे॒दवे॑ , पु॒रु॒ऽवारं॑ , अ॒श्वि॒ना॒ , स्पृ॒धां , श्वे॒तं , त॒रु॒तारं॑ , दु॒व॒स्य॒थः॒ । शर्यैः॑ , अ॒भिऽद्युं॑ , पृत॑नासु , दु॒स्तरं॑ , च॒र्कृत्यं॑ , इंद्रं॑ऽइव , च॒र्ष॒णि॒ऽसहं॑ ॥
[१२०] काराधदिति द्वादशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानश्विनौ आद्यागायत्री द्वितीयाककुप् तृतीयाकाविराट् चतुर्थीनष्टरूपी पंचमीतनुशिरा षष्ट्युष्णिक् सप्तमीविष्टारबृहत्यष्टमीकृतिर्नवमीविराट्अंत्यास्तिस्रोगायत्र्यः ( अंत्यादुःस्वप्ननाशिनी )
का रा॑ध॒द्धोत्रा॑श्विना वां॒ को वां॒ जोष॑ उ॒भयोः॑ । क॒था वि॑धा॒त्यप्र॑चेताः ॥
का , रा॒ध॒त् , होत्रा॑ , अ॒श्वि॒ना॒ , वां॒ , कः , वां॒ , जोषे॑ , उ॒भयोः॑ । क॒था , वि॒धा॒ति॒ , अप्र॑ऽचेताः ॥
वि॒द्वांसा॒विद्दुरः॑ पृच्छे॒दवि॑द्वानि॒त्थाप॑रो अचे॒ताः । नू चि॒न्नु मर्ते॒ अक्रौ॑ ॥
वि॒द्वांसौ॑ , इत् , दुरः॑ , पृ॒च्छे॒त् , अवि॑द्वान् , इ॒त्था , अप॑रः , अ॒चे॒ताः । नु , चि॒त् , नु , मर्ते॑ , अक्रौ॑ ॥
ता वि॒द्वांसा॑ हवामहे वां॒ ता नो॑ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य । प्रार्च॒द्दय॑मानो यु॒वाकुः॑ ॥
ता , वि॒द्वांसा॑ , ह॒वा॒म॒हे॒ , वां॒ , ता , नः॒ , वि॒द्वांसा॑ , मन्म॑ , वो॒चे॒तं॒ , अ॒द्य । प्र , आ॒र्च॒त् , दय॑मानः , यु॒वाकुः॑ ॥
वि पृ॑च्छामि पा॒क्या॒३॒॑ न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा । पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ॥
वि , पृ॒च्छा॒मि॒ , पा॒क्या॑ , न , दे॒वान् , वष॑ट्ऽकृतस्य , अ॒द्भु॒तस्य॑ , द॒स्रा॒ । पा॒तं , च॒ , सह्य॑सः , यु॒वं , च॒ , रभ्य॑सः , नः॒ ॥
प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया॑ वा॒चा यज॑ति पज्रि॒यो वां॑ । प्रैष॒युर्न वि॒द्वान् ॥
प्र , या , घोषे॑ , भृग॑वाणे , न , शोभे॑ , यया॑ , वा॒चा , यज॑ति , प॒ज्रि॒यः , वां॒ । प्र , इ॒ष॒ऽयुः , न , वि॒द्वान् ॥
श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वां । आक्षी शु॑भस्पती॒ दन् ॥
श्रु॒तं , गा॒य॒त्रं , तक॑वानस्य , अ॒हं , चि॒त् , हि , रि॒रेभ॑ , अ॒श्वि॒ना॒ , वां॒ । आ , अ॒क्षी इति॑ , शु॒भः॒ , प॒ती॒ इति॑ , दन् ॥
यु॒वं ह्यास्तं॑ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतं । ता नो॑ वसू सुगो॒पा स्या॑तं पा॒तं नो॒ वृका॑दघा॒योः ॥
यु॒वं , हि , आस्तं॑ , म॒हः , रन् , यु॒वं , वा॒ , यत् , निः॒ऽअत॑तंसतं । ता , नः॒ , व॒सू॒ इति॑ , सु॒ऽगो॒पा , स्या॒तं॒ , पा॒तं , नः॒ , वृका॑त् , अ॒घ॒ऽयोः ॥
मा कस्मै॑ धातम॒भ्य॑मि॒त्रिणे॑ नो॒ माकुत्रा॑ नो गृ॒हेभ्यो॑ धे॒नवो॑ गुः । स्त॒ना॒भुजो॒ अशि॑श्वीः ॥
मा , कस्मै॑ , धा॒तं॒ , अ॒भि , अ॒मि॒त्रिणे॑ , नः॒ , मा , अ॒कुत्र॑ , नः॒ , गृ॒हेभ्यः॑ , धे॒नवः॑ , गुः॒ । स्त॒न॒ऽभुजः॑ , अशि॑श्वीः ॥
दु॒ही॒यन्मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै । इ॒षे च॑ नो मिमीतं धेनु॒मत्यै॑ ॥
दु॒ही॒यन् , मि॒त्रऽधि॑तये , यु॒वाकु॑ , रा॒ये , च॒ , नः॒ , मि॒मी॒तं , वाज॑ऽवत्यै । इ॒षे , च॒ , नः॒ , मि॒मी॒तं॒ , धे॒नु॒ऽमत्यै॑ ॥
अ॒श्विनो॑रसनं॒ रथ॑मन॒श्वं वा॒जिनी॑वतोः । तेना॒हं भूरि॑ चाकन ॥
अ॒श्विनोः॑ , अ॒स॒नं॒ , रथं॑ , अ॒न॒श्वं , वा॒जिनी॑ऽवतोः । तेन॑ , अ॒हं , भूरि॑ , चा॒क॒न॒ ॥
अ॒यं स॑मह मा तनू॒ह्याते॒ जनाँ॒ अनु॑ । सो॒म॒पेयं॑ सु॒खो रथः॑ ॥
अ॒यं , स॒म॒ह॒ , मा॒ , त॒नु॒ , ऊ॒ह्याते॑ , जना॑न् , अनु॑ । सो॒म॒ऽपेयं॑ , सु॒ऽखः , रथः॑ ॥
अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभुं॑जतश्च रे॒वतः॑ । उ॒भा ता बस्रि॑ नश्यतः ॥
अध॑ , स्वप्न॑स्य , निः , वि॒दे॒ , अभुं॑जतः , च॒ , रे॒वतः॑ । उ॒भा , ता , बस्रि॑ , न॒श्य॒तः॒ ॥
[१२१] कदित्थेति पंचदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानिंद्रस्त्रिष्टुप् (विश्वेदेवावा) |
कदि॒त्था नॄँः पात्रं॑ देवय॒तां श्रव॒द्गिरो॒ अंगि॑रसां तुर॒ण्यन् । प्र यदान॒ड्विश॒ आ ह॒र्म्यस्यो॒रु क्रं॑सते अध्व॒रे यज॑त्रः ॥
कत् , इ॒त्था , नॄन् , पात्रं॑ , दे॒व॒ऽय॒तां , श्रव॑त् , गिरः॑ , अंगि॑रसां , तु॒र॒ण्यन् । प्र , यत् , आन॑ट् , विशः॑ , आ , ह॒र्म्यस॑ , उ॒रु , क्रं॒स॒ते॒ , अ॒ध्व॒रे , यज॑त्रः ॥
स्तंभी॑द्ध॒ द्यां स ध॒रुणं॑ प्रुषायदृ॒भुर्वाजा॑य॒ द्रवि॑णं॒ नरो॒ गोः । अनु॑ स्व॒जां म॑हि॒षश्च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः ॥
स्तंभी॑त् , ह॒ , द्यां , सः , ध॒रुणं॑ , प्रु॒षा॒य॒त् , ऋ॒भुः , वाजा॑य , द्रवि॑णं , नरः॑ , गोः । अनु॑ , स्व॒ऽजां , म॒हि॒षः , च॒क्ष॒त॒ , व्रां , मेनां॑ , अश्व॑स्य , परि॑ , मा॒तरं॑ , गोः ॥
नक्ष॒द्धव॑मरु॒णीः पू॒र्व्यं राट् तु॒रो वि॒शामंगि॑रसा॒मनु॒ द्यून् । तक्ष॒द्वज्रं॒ नियु॑तं त॒स्तंभ॒द्द्यां चतु॑ष्पदे॒ नर्या॑य द्वि॒पादे॑ ॥
नक्ष॑त् , हवं॑ , अ॒रु॒णीः , पू॒र्व्यं , राट् , तु॒रः , वि॒शां , अंगि॑रसां , अनु॑ , द्यून् । तक्ष॑त् , वज्रं॑ , निऽयु॑तं , त॒स्तंभ॑त् , द्यां , चतुः॑ऽपदे , नर्या॑य , द्वि॒ऽपादे॑ ॥
अ॒स्य मदे॑ स्व॒र्यं॑ दा ऋ॒तायापी॑वृतमु॒स्रिया॑णा॒मनी॑कं । यद्ध॑ प्र॒सर्गे॑ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु॑षस्य॒ दुरो॑ वः ॥
अ॒स्य , मदे॑ , स्व॒र्यं॑ , दाः॒ , ऋ॒ताय॑ , अपि॑ऽवृतं , उ॒स्रिया॑णां , अनी॑कं । यत् , ह॒ , प्र॒ऽसर्गे॑ , त्रि॒ऽक॒कुप् , नि॒ऽवर्त॑त् , अप॑ , द्रुहः॑ , मानु॑षस्य , दुरः॑ , व॒रिति॑ ॥
तुभ्यं॒ पयो॒ यत्पि॒तरा॒वनी॑तां॒ राधः॑ सु॒रेत॑स्तु॒रणे॑ भुर॒ण्यू । शुचि॒ यत्ते॒ रेक्ण॒ आय॑जंत सब॒र्दुघा॑याः॒ पय॑ उ॒स्रिया॑याः ॥
तुभ्यं॑ , पयः॑ , यत् , पि॒तरौ॑ , अनी॑तां , राधः॑ , सु॒ऽरेतः॑ , तु॒रणे॑ , भु॒र॒ण्यू इति॑ । शुचि॑ , यत् , ते॒ , रेक्णः॑ , आ , अय॑जंत , स॒बः॒ऽदुघा॑याः , पयः॑ , उ॒स्रिया॑याः ॥
अध॒ प्र ज॑ज्ञे त॒रणि॑र्ममत्तु॒ प्र रो॑च्य॒स्या उ॒षसो॒ न सूरः॑ । इंदु॒र्येभि॒राष्ट॒ स्वेदु॑हव्यैः स्रु॒वेण॑ सिं॒चंज॒रणा॒भि धाम॑ ॥
अध॑ , प्र , ज॒ज्ञे॒ , त॒रणिः॑ , म॒म॒त्तु॒ , प्र , रो॒चि॒ , अ॒स्याः , उ॒षसः॑ , न , सूरः॑ । इंदुः॑ , येभिः॑ , आष्ट॑ , स्व॒ऽइदु॑हव्यैः , स्रु॒वेण॑ , सिं॒चन् , ज॒रणा॑ , अ॒भि , धाम॑ ॥
स्वि॒ध्मा यद्व॒नधि॑तिरप॒स्यात्सूरो॑ अध्व॒रे परि॒ रोध॑ना॒ गोः । यद्ध॑ प्र॒भासि॒ कृत्व्याँ॒ अनु॒ द्यूनन॑र्विशे प॒श्विषे॑ तु॒राय॑ ॥
सु॒ऽइ॒ध्मा , यत् , व॒नऽधि॑तिः , अ॒प॒स्यात् , सूरः॑ , अ॒ध्व॒रे , परि॑ , रोध॑ना , गोः । यत् , ह॒ , प्र॒ऽभासि॑ , कृत्व्या॑न् , अनु॑ , द्यून् , अन॑र्विशे , प॒शु॒ऽइषे॑ , तु॒राय॑ ॥
अ॒ष्टा म॒हो दि॒व आदो॒ हरी॑ इ॒ह द्यु॑म्ना॒साह॑म॒भि यो॑धा॒न उत्सं॑ । हरिं॒ यत्ते॑ मं॒दिनं॑ दु॒क्षन्वृ॒धे गोर॑भस॒मद्रि॑भिर्वा॒ताप्यं॑ ॥
अ॒ष्टा , म॒हः , दि॒वः , आदः॑ , हरी॒ इति॑ , इ॒ह , द्यु॒म्न॒ऽसहं॑ , अ॒भि , यो॒धा॒नः , उत्सं॑ । हरिं॑ , यत् , ते॒ , मं॒दिनं॑ , धु॒क्षन् , वृ॒धे , गोऽर॑भसं , अद्रि॑ऽभिः , वा॒ताप्यं॑ ॥
त्वमा॑य॒सं प्रति॑ वर्तयो॒ गोर्दि॒वो अश्मा॑न॒मुप॑नीत॒मृभ्वा॑ । कुत्सा॑य॒ यत्र॑ पुरुहूत व॒न्वंछुष्ण॑मनं॒तैः प॑रि॒यासि॑ व॒धैः ॥
त्वं , आ॒य॒सं , प्रति॑ , व॒र्त॒यः॒ , गोः , दि॒वः , अश्मा॑नं , उप॑ऽनीतं , ऋभ्वा॑ । कुत्सा॑य , यत्र॑ , पु॒रु॒ऽहू॒त॒ , व॒न्वन् , शुष्णं॑ , अ॒नं॒तैः , प॒रि॒ऽयासि॑ , व॒धैः ॥
पु॒रा यत्सूर॒स्तम॑सो॒ अपी॑ते॒स्तम॑द्रिवः फलि॒गं हे॒तिम॑स्य । शुष्ण॑स्य चि॒त्परि॑हितं॒ यदोजो॑ दि॒वस्परि॒ सुग्र॑थितं॒ तदादः॑ ॥
पु॒रा , यत् , सूरः॑ , तम॑सः , अपि॑ऽइतेः , तं , अ॒द्रि॒ऽवः॒ , फ॒लि॒ऽगं , हे॒तिं , अ॒स्य॒ । शुष्ण॑स्य , चि॒त् , परि॑ऽहितं , यत् , ओजः॑ , दि॒वः , परि॑ , सुऽग्र॑थितं , तत् , आ , अ॒द॒रित्य॑दः ॥
अनु॑ त्वा म॒ही पाज॑सी अच॒क्रे द्यावा॒क्षामा॑ मदतामिंद्र॒ कर्म॑न् । त्वं वृ॒त्रमा॒शया॑नं सि॒रासु॑ म॒हो वज्रे॑ण सिष्वपो व॒राहुं॑ ॥
अनु॑ , त्वा॒ , म॒ही इति॑ , पाज॑सी॒ इति॑ , अ॒च॒क्रे इति॑ , द्यावा॒क्षामा॑ , म॒द॒तां॒ , इं॒द्र॒ , कर्म॑न् । त्वं , वृ॒त्रं , आ॒ऽशया॑नं , सि॒रासु॑ , म॒हः , वज्रे॑ण , सि॒स्व॒पः॒ , व॒राहुं॑ ॥
त्वमिं॑द्र॒ नर्यो॒ याँ अवो॒ नॄंतिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान् । यं ते॑ का॒व्य उ॒शना॑ मं॒दिनं॒ दाद्वृ॑त्र॒हणं॒ पार्यं॑ ततक्ष॒ वज्रं॑ ॥
त्वं , इं॒द्र॒ , नर्यः॑ , यान् , अवः॑ , नॄन् , तिष्ठ॑ , वात॑स्य , सु॒ऽयुजः॑ , वहि॑ष्ठान् । यं , ते॒ , का॒व्यः , उ॒शना॑ , मं॒दिनं॑ , दात् , वृ॒त्र॒ऽहनं॑ , पार्यं॑ , त॒त॒क्ष॒ , वज्रं॑ ॥
त्वं सूरो॑ ह॒रितो॑ रामयो॒ नॄन्भर॑च्च॒क्रमेत॑शो॒ नायमिं॑द्र । प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या॑ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून् ॥
त्वं , सूरः॑ , ह॒रितः॑ , र॒म॒यः॒ , नॄन् , भर॑त् , च॒क्रं , एत॑शः , न , अ॒यं , इं॒द्र॒ । प्र॒ऽअस्य॑ , पा॒रं , न॒व॒तिं , ना॒व्या॑नां , अपि॑ , क॒र्तं , अ॒व॒र्त॒यः॒ , अय॑ज्यून् ॥
त्वं नो॑ अ॒स्या इं॑द्र दु॒र्हणा॑याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके॑ । प्र नो॒ वाजा॑न्र॒थ्यो॒३॒॑ अश्व॑बुध्यानि॒षे यं॑धि॒ श्रव॑से सू॒नृता॑यै ॥
त्वं , नः॒ , अ॒स्याः , इं॒द्र॒ , दुः॒ऽहना॑याः , पा॒हि , व॒ज्रि॒ऽवः॒ , दुः॒ऽइ॒तात् , अ॒भीके॑ । प्र , नः॒ , वाजा॑न् , र॒थ्यः॑ , अश्व॑ऽबुध्यान् , इ॒षे , यं॒धि॒ , श्रव॑से , सू॒नृता॑यै ॥
मा सा ते॑ अ॒स्मत्सु॑म॒तिर्वि द॑स॒द्वाज॑प्रमहः॒ समिषो॑ वरंत । आ नो॑ भज मघव॒न्गोष्व॒र्यो मंहि॑ष्ठास्ते सध॒मादः॑ स्याम ॥
मा , सा , ते॒ , अ॒स्मत् , सु॒ऽम॒तिः , वि , द॒स॒त् , वाज॑ऽप्रमहः , सं , इषः॑ , व॒रं॒त॒ । आ , नः॒ , भ॒ज॒ , म॒घ॒ऽव॒न् , गोषु॑ , अ॒र्यः , मंहि॑ष्ठाः , ते॒ , स॒ध॒ऽमादः॑ , स्या॒म॒ ॥
[१२२] प्रवःपांतमिति पंचदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्विश्वेदेवास्त्रिष्टुप् पंचमीषष्ठ्यौ विराड्रूपे | (भेदप्रयोगपक्षेतुआद्यानांषण्णांक्रमेणरुद्रमरुतउषासानक्ता विश्वेदेवाअश्विनौविश्वेदेवामित्रावरुणसिंधवोदेवताः ततोद्वयोर्विश्वेदेवाः ततोद्वयोर्मित्रावरुणौ अंत्य पंचानांविश्वेदेवाः एवं १५) |
प्र वः॒ पांतं॑ रघुमन्य॒वोऽन्धो॑ य॒ज्ञं रु॒द्राय॑ मी॒ळ्हुषे॑ भरध्वं । दि॒वो अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः ॥
प्र , वः॒ , पांतं॑ , र॒घु॒ऽम॒न्य॒वः॒ , अंधः॑ , य॒ज्ञं , रु॒द्राय॑ , मी॒ळ्हुषे॑ , भ॒र॒ध्वं॒ । दि॒वः , अ॒स्तो॒षि॒ , असु॑रस्य , वी॒रैः , इ॒षु॒ध्याऽइ॑व , म॒रुतः॑ , रोद॑स्योः ॥
पत्नी॑व पू॒र्वहू॑तिं वावृ॒धध्या॑ उ॒षासा॒नक्ता॑ पुरु॒धा विदा॑ने । स्त॒रीर्नात्कं॒ व्यु॑तं॒ वसा॑ना॒ सूर्य॑स्य श्रि॒या सु॒दृशी॒ हिर॑ण्यैः ॥
पत्नी॑ऽइव , पू॒र्वऽहू॑तिं , व॒वृ॒धध्यै॑ , उ॒षसा॒नक्ता॑ , पु॒रु॒धा , विदा॑ने॒ इति॑ । स्त॒रीः , न , अत्कं॑ , विऽउ॑तं , वसा॑ना , सूर्य॑स्य , श्रि॒या , सु॒ऽदृशी॑ , हिर॑ण्यैः ॥
म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् । शि॒शी॒तमिं॑द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यंतु दे॒वाः ॥
म॒मत्तु॑ , नः॒ , परि॑ऽज्मा , व॒स॒र्हा , म॒मत्तु॑ , वातः॑ , अ॒पां , वृष॑ण्ऽवान् । शि॒शी॒तं , इं॒द्रा॒प॒र्व॒ता॒ , यु॒वं , नः॒ , तत् , नः॒ , विश्वे॑ , व॒रि॒व॒स्यं॒तु॒ , दे॒वाः ॥
उ॒त त्या मे॑ य॒शसा॑ श्वेत॒नायै॒ व्यंता॒ पांतौ॑शि॒जो हु॒वध्यै॑ । प्र वो॒ नपा॑तम॒पां कृ॑णुध्वं॒ प्र मा॒तरा॑ रास्पि॒नस्या॒योः ॥
उ॒त , त्या , मे॒ , य॒शसा॑ , श्वे॒त॒नायै॑ , व्यंता॑ , पांता॑ , औ॒शि॒जः॒ , हु॒वध्यै॑ । प्र , वः॒ , नपा॑तं , अ॒पां , कृ॒णु॒ध्वं॒ , प्र , मा॒तरा॑ , रा॒स्पि॒नस्य॑ , आ॒योः ॥
आ वो॑ रुव॒ण्युमौ॑शि॒जो हु॒वध्यै॒ घोषे॑व॒ शंस॒मर्जु॑नस्य॒ नंशे॑ । प्र वः॑ पू॒ष्णे दा॒वन॒ आँ अच्छा॑ वोचेय व॒सुता॑तिम॒ग्नेः ॥
आ , वः॒ , रु॒व॒ण्युं , औ॒शि॒जः , हु॒वध्यै॑ , घोषा॑ऽइव , शंसं॑ , अर्जु॑नस्य , नंशे॑ । प्र , वः॒ , पू॒ष्णे , दा॒वने॑ , आ , अच्छ॑ , वो॒चे॒य॒ , व॒सुऽता॑तिं , अ॒ग्नेः ॥
श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मोत श्रु॑तं॒ सद॑ने वि॒श्वतः॑ सीं । श्रोतु॑ नः॒ श्रोतु॑रातिः सु॒श्रोतुः॑ सु॒क्षेत्रा॒ सिंधु॑र॒द्भिः ॥
श्रु॒तं , मे॒ , मि॒त्रा॒व॒रु॒णा॒ , हवा॑ , इ॒मा , उ॒त , श्रु॒तं॒ , सद॑ने , वि॒श्वतः॑ , सीं॒ । श्रोतु॑ , नः॒ , श्रोतु॑ऽरातिः , सु॒ऽश्रोतुः॑ , सु॒ऽक्षेत्रा॑ , सिंधुः॑ , अ॒त्ऽभिः ॥
स्तु॒षे सा वां॑ वरुण मित्र रा॒तिर्गवां॑ श॒ता पृ॒क्षया॑मेषु प॒ज्रे । श्रु॒तर॑थे प्रि॒यर॑थे॒ दधा॑नाः स॒द्यः पु॒ष्टिं नि॑रुंधा॒नासो॑ अग्मन् ॥
स्तु॒षे , सा , वां॒ , व॒रु॒ण॒ , मि॒त्र॒ , रा॒तिः , गवां॑ , श॒ता , पृ॒क्षऽया॑मेषु , प॒ज्रे । श्रु॒तऽर॑थे , प्रि॒यऽर॑थे , दधा॑नाः , स॒द्यः , पु॒ष्टिं , नि॒ऽरुं॒धा॒नासः॑ , अ॒ग्म॒न् ॥
अ॒स्य स्तु॑षे॒ महि॑मघस्य॒ राधः॒ सचा॑ सनेम॒ नहु॑षः सु॒वीराः॑ । जनो॒ यः प॒ज्रेभ्यो॑ वा॒जिनी॑वा॒नश्वा॑वतो र॒थिनो॒ मह्यं॑ सू॒रिः ॥
अ॒स्य , स्तु॒षे॒ , महि॑ऽमघस्य , राधः॑ , सचा॑ , स॒ने॒म॒ , नहु॑षः , सु॒ऽवीराः॑ । जनः॑ , यः , प॒ज्रेभ्यः॑ , वा॒जिनी॑ऽवान् , अश्व॑ऽवतः , र॒थिनः॑ , मह्यं॑ , सू॒रिः ॥
जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां॑ सु॒नोत्य॑क्ष्णया॒ध्रुक् । स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा॑भिर्ऋ॒तावा॑ ॥
जनः॑ , यः , मि॒त्रा॒व॒रु॒णौ॒ , अ॒भि॒ऽध्रुक् , अ॒पः , न , वां॒ , सु॒नोति॑ , अ॒क्ष्ण॒या॒ऽध्रुक् । स्व॒यं , सः , यक्ष्मं॑ , हृद॑ये , नि , ध॒त्ते॒ , आप॑ , यत् , ईं॒ , होत्रा॑भिः , ऋ॒तऽवा॑ ॥
स व्राध॑तो॒ नहु॑षो॒ दंसु॑जूतः॒ शर्ध॑स्तरो न॒रां गू॒र्तश्र॑वाः । विसृ॑ष्टरातिर्याति बाळ्ह॒सृत्वा॒ विश्वा॑सु पृ॒त्सु सद॒मिच्छूरः॑ ॥
सः , व्राध॑तः , नहु॑षः , दंऽसु॑जूतः , शर्धः॑ऽतरः , न॒रां , गू॒र्तऽश्र॑वाः । विसृ॑ष्टऽरातिः , या॒ति॒ , बा॒ळ्ह॒ऽसृत्वा॑ , विश्वा॑सु , पृ॒त्ऽसु , सदं॑ , इत् , शूरः॑ ॥
अध॒ ग्मंता॒ नहु॑षो॒ हवं॑ सू॒रेः श्रोता॑ राजानो अ॒मृत॑स्य मंद्राः । न॒भो॒जुवो॒ यन्नि॑र॒वस्य॒ राधः॒ प्रश॑स्तये महि॒ना रथ॑वते ॥
अध॑ , ग्मंत॑ , नहु॑षः , हवं॑ , सू॒रेः , श्रोत॑ , रा॒जा॒नः॒ , अ॒मृत॑स्य , मं॒द्राः॒ । न॒भः॒ऽजुवः॑ , यत् , नि॒र॒वस्य॑ , राधः॑ , प्रऽश॑स्तये , म॒हि॒ना , रथ॑ऽवते ॥
ए॒तं शर्धं॑ धाम॒ यस्य॑ सू॒रेरित्य॑वोचं॒दश॑तयस्य॒ नंशे॑ । द्यु॒म्नानि॒ येषु॑ व॒सुता॑ती रा॒रन्विश्वे॑ सन्वंतु प्रभृ॒थेषु॒ वाजं॑ ॥
ए॒तं , शर्धं॑ , धा॒म॒ , यस्य॑ , सू॒रेः , इति॑ , अ॒वो॒च॒न् , दश॑ऽतयस्य , नंशे॑ । द्यु॒म्नानि॑ , येषु॑ , व॒सुऽता॑तिः , र॒रन् , विश्वे॑ , स॒न्वं॒तु॒ , प्र॒ऽभृ॒थेषु॑ , वाजं॑ ॥
मंदा॑महे॒ दश॑तयस्य धा॒सेर्द्विर्यत्पंच॒ बिभ्र॑तो॒ यंत्यन्ना॑ । किमि॒ष्टाश्व॑ इ॒ष्टर॑श्मिरे॒त ई॑शा॒नास॒स्तरु॑ष ऋंजते॒ नॄन् ॥
मंदा॑महे , दश॑ऽतयस्य , धा॒सेः , द्विः , यत् , पंच॑ , बिभ्र॑तः , यंति॑ , अन्ना॑ । किं , इ॒ष्टऽअ॑श्वः , इ॒ष्टऽर॑श्मिः , ए॒ते , ई॒शा॒नासः॑ , तरु॑षः , ऋं॒ज॒ते॒ , नॄन् ॥
हिर॑ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे॑ वरिवस्यंतु दे॒वाः । अ॒र्यो गिरः॑ स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा॑कंतू॒भये॑ष्व॒स्मे ॥
हिर॑ण्यऽकर्णं , म॒णि॒ऽग्री॒वं॒ , अर्णः॑ , तत् , नः॒ , विश्वे॑ , व॒रि॒व॒स्यं॒तु॒ , दे॒वाः । अ॒र्यः , गिरः॑ , स॒द्यः , आ , ज॒ग्मुषीः॑ , आ , उ॒स्राः , चा॒कं॒तु॒ , उ॒भये॑षु , अ॒स्मे इति॑ ॥
च॒त्वारो॑ मा मश॒र्शार॑स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय॑वसस्य जि॒ष्णोः । रथो॑ वां मित्रावरुणा दी॒र्घाप्साः॒ स्यूम॑गभस्तिः॒ सूरो॒ नाद्यौ॑त् ॥
च॒त्वारः॑ , मा॒ , म॒श॒र्शार॑स्य , शिश्वः॑ , त्रयः॑ , राज्ञः॑ , आय॑वसस्य , जि॒ष्णोः । रथः॑ , वां॒ , मि॒त्रा॒व॒रु॒णा॒ , दी॒र्घऽअ॑प्साः , स्यूम॑ऽगभस्तिः , सूरः॑ , न , अ॒द्यौ॒त् ॥
[१२३] पृथूरथइति त्रयोदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानुषास्त्रिष्टुप् |
पृ॒थू रथो॒ दक्षि॑णाया अयो॒ज्यैनं॑ दे॒वासो॑ अ॒मृता॑सो अस्थुः । कृ॒ष्णादुद॑स्थाद॒र्या॒३॒॑ विहा॑या॒श्चिकि॑त्संती॒ मानु॑षाय॒ क्षया॑य ॥
पृ॒थुः , रथः॑ , दक्षि॑णायाः , अ॒यो॒जि॒ , आ , ए॒नं॒ , दे॒वासः॑ , अ॒मृता॑सः , अ॒स्थुः॒ । कृ॒ष्णात् , उत् , अ॒स्था॒त् , अ॒र्या॑ , विऽहा॑याः , चिकि॑त्संती , मानु॑षाय , क्षया॑य ॥
पूर्वा॒ विश्व॑स्मा॒द्भुव॑नादबोधि॒ जयं॑ती॒ वाजं॑ बृह॒ती सनु॑त्री । उ॒च्चा व्य॑ख्यद्युव॒तिः पु॑न॒र्भूरोषा अ॑गन्प्रथ॒मा पू॒र्वहू॑तौ ॥
पूर्वा॑ , विश्व॑स्मात् , भुव॑नात् , अ॒बो॒धि॒ , जयं॑ती , वाजं॑ , बृ॒ह॒ती , सनु॑त्री । उ॒च्चा , वि , अ॒ख्य॒त् , यु॒व॒तिः , पु॒नः॒ऽभूः , आ , उ॒षाः , अ॒ग॒न् , प्र॒थ॒मा , पू॒र्वऽहू॑तौ ॥
यद॒द्य भा॒गं वि॒भजा॑सि॒ नृभ्य॒ उषो॑ देवि मर्त्य॒त्रा सु॑जाते । दे॒वो नो॒ अत्र॑ सवि॒ता दमू॑ना॒ अना॑गसो वोचति॒ सूर्या॑य ॥
यत् , अ॒द्य , भा॒गं , वि॒ऽभजा॑सि , नृऽभ्यः॑ , उषः॑ , दे॒वि॒ , म॒र्त्य॒ऽत्रा , सु॒ऽजा॒ते॒ । दे॒वः , नः॒ , अत्र॑ , स॒वि॒ता , दमू॑नाः , अना॑गसः , वो॒च॒ति॒ , सूर्या॑य ॥
गृ॒हंगृ॑हमह॒ना या॒त्यच्छा॑ दि॒वेदि॑वे॒ अधि॒ नामा॒ दधा॑ना । सिषा॑संती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒ वसू॑नां ॥
गृ॒हंऽगृ॑हं , अ॒ह॒ना , या॒ति॒ , अच्छ॑ , दि॒वेऽदि॑वे , अधि॑ , नाम॑ , दधा॑ना । सिसा॑संती , द्यो॒त॒ना , शश्व॑त् , आ , अ॒गा॒त् , अग्रं॑ऽअग्रं , इत् , भ॒ज॒ते॒ , वसू॑नां ॥
भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुषः॑ सूनृते प्रथ॒मा ज॑रस्व । प॒श्चा स द॑घ्या॒ यो अ॒घस्य॑ धा॒ता जये॑म॒ तं दक्षि॑णया॒ रथे॑न ॥
भग॑स्य , स्वसा॑ , वरु॑णस्य , जा॒मिः , उषः॑ , सू॒नृ॒ते॒ , प्र॒थ॒मा , ज॒र॒स्व॒ । प॒श्चा , सः , द॒ध्याः॒ , यः , अ॒घस्य॑ , धा॒ता , जये॑म , तं , दक्षि॑णया , रथे॑न ॥
उदी॑रतां सू॒नृता॒ उत्पुरं॑धी॒रुद॒ग्नयः॑ शुशुचा॒नासो॑ अस्थुः । स्पा॒र्हा वसू॑नि॒ तम॒साप॑गूळ्हा॒विष्कृ॑ण्वंत्यु॒षसो॑ विभा॒तीः ॥
उत् , ई॒र॒तां॒ , सू॒नृताः॑ , उत् , पुरं॑ऽधीः , उत् , अ॒ग्नयः॑ , शु॒शु॒चा॒नासः॑ , अ॒स्थुः॒ । स्पा॒र्हा , वसू॑नि , तम॑सा , अप॑ऽगूळ्हा , आ॒विः , कृ॒ण्वं॒ति॒ , उ॒षसः॑ , वि॒ऽभा॒तीः ॥
अपा॒न्यदेत्य॒भ्य१॒॑न्यदे॑ति॒ विषु॑रूपे॒ अह॑नी॒ सं च॑रेते । प॒रि॒क्षितो॒स्तमो॑ अ॒न्या गुहा॑क॒रद्यौ॑दु॒षाः शोशु॑चता॒ रथे॑न ॥
अप॑ , अ॒न्यत् , एति॑ , अ॒भि , अ॒न्यत् , ए॒ति॒ , विषु॑रूपे॒ इति॒ विषु॑ऽरूपे , अह॑नी॒ इति॑ , सं , च॒रे॒ते॒ इति॑ । प॒रि॒ऽक्षितोः॑ , तमः॑ , अ॒न्या , गुहा॑ , अ॒कः॒ , अद्यौ॑त् , उ॒षाः , शोशु॑चता , रथे॑न ॥
स॒दृशी॑र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चंते॒ वरु॑णस्य॒ धाम॑ । अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै॑का॒ क्रतुं॒ परि॑ यंति स॒द्यः ॥
स॒ऽदृशीः॑ , अ॒द्य , स॒ऽदृशीः॑ , इत् , ऊँ॒ इति॑ , श्वः , दी॒र्घं , स॒चं॒ते॒ , वरु॑णस्य , धाम॑ । अ॒न॒व॒द्याः , त्रिं॒शतं॑ , योज॑नानि , एका॑ऽएका , क्रतुं॑ , परि॑ , यं॒ति॒ , स॒द्यः ॥
जा॒न॒त्यह्नः॑ प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची । ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चरं॑ती ॥
जा॒न॒ती , अह्नः॑ , प्र॒थ॒मस्य॑ , नाम॑ , शु॒क्रा , कृ॒ष्णात् , अ॒ज॒नि॒ष्ट॒ , श्वि॒ती॒ची । ऋ॒तस्य॑ , योषा॑ , न , मि॒ना॒ति॒ , धाम॑ , अहः॑ऽअहः , निः॒ऽकृ॒तं , आ॒ऽचरं॑ती ॥
क॒न्ये॑व त॒न्वा॒३॒॑ शाश॑दानाँ॒ एषि॑ देवि दे॒वमिय॑क्षमाणं । सं॒स्मय॑माना युव॒तिः पु॒रस्ता॑दा॒विर्वक्षां॑सि कृणुषे विभा॒ती ॥
क॒न्या॑ऽइव , त॒न्वा॑ , शाश॑दाना , एषि॑ , दे॒वि॒ , दे॒वं , इय॑क्षमाणं । सं॒ऽस्मय॑माना , यु॒व॒तिः , पु॒रस्ता॑त् , आ॒विः , वक्षां॑सि , कृ॒णु॒षे॒ , वि॒ऽभा॒ती ॥
सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं॑ कृणुषे दृ॒शे कं । भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते॑ अ॒न्या उ॒षसो॑ नशंत ॥
सु॒ऽसं॒का॒शा , मा॒तृमृ॑ष्टाऽइव , योषा॑ , आ॒विः , त॒न्वं॑ , कृ॒णु॒षे॒ , दृ॒शे , कं । भ॒द्रा , त्वं , उ॒षः॒ , वि॒ऽत॒रं , वि , उ॒च्छ॒ , न , तत् , ते॒ , अ॒न्याः , उ॒षसः॑ , न॒शं॒त॒ ॥
अश्वा॑वती॒र्गोम॑तीर्वि॒श्ववा॑रा॒ यत॑माना र॒श्मिभिः॒ सूर्य॑स्य । परा॑ च॒ यंति॒ पुन॒रा च॑ यंति भ॒द्रा नाम॒ वह॑माना उ॒षासः॑ ॥
अश्व॑ऽवतीः , गोऽम॑तीः , वि॒श्वऽवा॑राः , यत॑मानाः , र॒श्मिऽभिः॑ , सूर्य॑स्य । परा॑ , च॒ , यंति॑ , पुनः॑ , आ , च॒ , यं॒ति॒ , भ॒द्रा , नाम॑ , वह॑मानाः , उ॒षसः॑ ॥
ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रंभ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि । उषो॑ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो॑ म॒घव॑त्सु च स्युः ॥
ऋ॒तस्य॑ , र॒श्मिं , अ॒नु॒ऽयच्छ॑माना , भ॒द्रंऽभ॑द्रं , क्रतुं॑ , अ॒स्मासु॑ , धे॒हि॒ । उषः॑ , नः॒ , अ॒द्य , सु॒ऽहवा॑ , वि , उ॒च्छ॒ , अ॒स्मासु॑ , रायः॑ , म॒घव॑त्ऽसु , च॒ , स्यु॒रिति॑ स्युः ॥
[१२४] उषा उच्छंतीति त्रयोदशर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानुषास्त्रिष्टुप् |
उ॒षा उ॒च्छंती॑ समिधा॒ने अ॒ग्ना उ॒द्यंत्सूर्य॑ उर्वि॒या ज्योति॑रश्रेत् । दे॒वो नो॒ अत्र॑ सवि॒ता न्वर्थं॒ प्रासा॑वीद्द्वि॒पत्प्र चतु॑ष्पदि॒त्यै ॥
उ॒षाः , उ॒च्छंती॑ , सं॒ऽइ॒धा॒ने , अ॒ग्नौ , उ॒त्ऽयन् , सूर्यः॑ , उ॒र्वि॒या , ज्योतिः॑ , अ॒श्रे॒त् । दे॒वः , नः॒ , अत्र॑ , स॒वि॒ता , नु , अर्थं॑ , प्र , अ॒सा॒वी॒त् , द्वि॒ऽपत् , प्र , चतुः॑ऽपत् , इ॒त्यै ॥
अमि॑नती॒ दैव्या॑नि व्र॒तानि॑ प्रमिन॒ती म॑नु॒ष्या॑ यु॒गानि॑ । ई॒युषी॑णामुप॒मा शश्व॑तीनामायती॒नां प्र॑थ॒मोषा व्य॑द्यौत् ॥
अमि॑नती , दैव्या॑नि , व्र॒तानि॑ , प्र॒ऽमि॒न॒ती , म॒नु॒ष्या॑ , यु॒गानि॑ । ई॒युषी॑णां , उ॒प॒मा , शश्व॑तीनां , आ॒ऽय॒ती॒नां , प्र॒थ॒मा , उ॒षाः , वि , अ॒द्यौ॒त् ॥
ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि॒ ज्योति॒र्वसा॑ना सम॒ना पु॒रस्ता॑त् । ऋ॒तस्य॒ पंथा॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥
ए॒षा , दि॒वः , दु॒हि॒ता , प्रति॑ , अ॒द॒र्शि॒ , ज्योतिः॑ , वसा॑ना , स॒म॒ना , पु॒रस्ता॑त् । ऋ॒तस्य॑ , पंथां॑ , अनु॑ , ए॒ति॒ , सा॒धु , प्र॒जा॒न॒तीऽइ॑व , न , दिशः॑ , मि॒ना॒ति॒ ॥
उपो॑ अदर्शि शुं॒ध्युवो॒ न वक्षो॑ नो॒धा इ॑वा॒विर॑कृत प्रि॒याणि॑ । अ॒द्म॒सन्न स॑स॒तो बो॒धयं॑ती शश्वत्त॒मागा॒त्पुन॑रे॒युषी॑णां ॥
उपो॒ इति॑ , अ॒द॒र्शि॒ , शुं॒ध्युवः॑ , न , वक्षः॑ , नो॒धाःऽइ॑व , आ॒विः , अ॒कृ॒त॒ , प्रि॒याणि॑ । अ॒द्म॒ऽसत् , न , स॒स॒तः , बो॒धयं॑ती , श॒श्व॒त्ऽत॒मा , आ , अ॒गा॒त् , पुनः॑ , आ॒ऽई॒युषी॑णां ॥
पूर्वे॒ अर्धे॒ रज॑सो अ॒प्त्यस्य॒ गवां॒ जनि॑त्र्यकृत॒ प्र के॒तुं । व्यु॑ प्रथते वित॒रं वरी॑य॒ ओभा पृ॒णंती॑ पि॒त्रोरु॒पस्था॑ ॥
पूर्वे॑ , अर्धे॑ , रज॑सः , अ॒प्त्यस्य॑ , गवां॑ , जनि॑त्री , अ॒कृ॒त॒ , प्र , के॒तुं । वि , ऊँ॒ इति॑ , प्र॒थ॒ते॒ , वि॒ऽत॒रं , वरी॑यः , आ , उ॒भा , पृ॒णंती॑ , पि॒त्रोः , उ॒पऽस्था॑ ॥
ए॒वेदे॒षा पु॑रु॒तमा॑ दृ॒शे कं नाजा॑मिं॒ न परि॑ वृणक्ति जा॒मिं । अ॒रे॒पसा॑ त॒न्वा॒३॒॑ शाश॑दाना॒ नार्भा॒दीष॑ते॒ न म॒हो वि॑भा॒ती ॥
ए॒व , इत् , ए॒षा , पु॒रु॒ऽतमा॑ , दृ॒शे , कं , न , अजा॑मिं , न , परि॑ , वृ॒ण॒क्ति॒ , जा॒मिं । अ॒रे॒पसा॑ , त॒न्वा॑ , शाश॑दाना , न , अर्भा॑त् , ईष॑ते , न , म॒हः , वि॒ऽभा॒ती ॥
अ॒भ्रा॒तेव॑ पुं॒स ए॑ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना॑नां । जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ उ॒षा ह॒स्रेव॒ नि रि॑णीते॒ अप्सः॑ ॥
अ॒भ्रा॒ताऽइ॑व , पुं॒सः , ए॒ति॒ , प्र॒ती॒ची , ग॒र्त॒ऽआ॒रुगि॑व , स॒नये॑ , धना॑नां । जा॒याऽइ॑व , पत्ये॑ , उ॒श॒ती , सु॒ऽवासाः॑ , उ॒षाः , ह॒स्राऽइ॑व , नि , रि॒णी॒ते॒ , अप्सः॑ ॥
स्वसा॒ स्वस्रे॒ ज्याय॑स्यै॒ योनि॑मारै॒गपै॑त्यस्याः प्रति॒चक्ष्ये॑व । व्यु॒च्छंती॑ र॒श्मिभिः॒ सूर्य॑स्यां॒ज्यं॑क्ते समन॒गा इ॑व॒ व्राः ॥
स्वसा॑ , स्वस्रे॑ , ज्याय॑स्यै , योनिं॑ , अ॒रै॒क् , अप॑ , ए॒ति॒ , अ॒स्याः॒ , प्र॒ति॒चक्ष्य॑ऽइव । वि॒ऽउ॒च्छंती॑ , र॒श्मिऽभिः॑ , सूर्य॑स्य , अं॒जि , अं॒क्ते॒ , स॒म॒न॒गाःऽइ॑व , व्राः ॥
आ॒सां पूर्वा॑सा॒मह॑सु॒ स्वसॄ॑णा॒मप॑रा॒ पूर्वा॑म॒भ्ये॑ति प॒श्चात् । ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छंतु सु॒दिना॑ उ॒षासः॑ ॥
आ॒सां , पूर्वा॑सां , अह॑ऽसु , स्वसॄ॑णां , अप॑रा , पूर्वां॑ , अ॒भि , ए॒ति॒ , प॒श्चात् । ताः , प्र॒त्न॒ऽवत् , नव्य॑सीः , नू॒नं , अ॒स्मे इति॑ , रे॒वत् , उ॒च्छं॒तु॒ , सु॒ऽदिनाः॑ , उ॒षसः॑ ॥
प्र बो॑धयोषः पृण॒तो म॑घो॒न्यबु॑ध्यमानाः प॒णयः॑ ससंतु । रे॒वदु॑च्छ म॒घव॑द्भ्यो मघोनि रे॒वत्स्तो॒त्रे सू॑नृते जा॒रयं॑ती ॥
प्र , बो॒ध॒य॒ , उ॒षः॒ , पृ॒ण॒तः , म॒घो॒नि॒ , अबु॑ध्यमानाः , प॒णयः॑ , स॒सं॒तु॒ । रे॒वत् , उ॒च्छ॒ , म॒घव॑त्ऽभ्यः , म॒घो॒नि॒ , रे॒वत् , स्तो॒त्रे , सू॒नृ॒ते॒ , ज॒रयं॑ती ॥
अवे॒यम॑श्वैद्युव॒तिः पु॒रस्ता॑द्युं॒क्ते गवा॑मरु॒णाना॒मनी॑कं । वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते अ॒ग्निः ॥
अव॑ , इ॒यं , अ॒श्वै॒त् , यु॒व॒तिः , पु॒रस्ता॑त् , युं॒क्ते , गवां॑ , अ॒रु॒णानां॑ , अनी॑कं । वि , नू॒नं , उ॒च्छा॒त् , अस॑ति , प्र , के॒तुः , गृ॒हंऽगृ॑हं , उप॑ , ति॒ष्ठा॒ते॒ , अ॒ग्निः ॥
उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ । अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥
उत् , ते॒ , वयः॑ , चि॒त् , व॒स॒तेः , अ॒प॒प्त॒न् , नरः॑ , च॒ , ये , पि॒तु॒ऽभाजः॑ , विऽउ॑ष्टौ । अ॒मा , स॒ते , व॒ह॒सि॒ , भूरि॑ , वा॒मं , उषः॑ , दे॒वि॒ , दा॒शुषे॑ , मर्त्या॑य ॥
अस्तो॑ढ्वं स्तोम्या॒ ब्रह्म॑णा॒ मेऽवी॑वृधध्वमुश॒तीरु॑षासः । यु॒ष्माकं॑ देवी॒रव॑सा सनेम सह॒स्रिणं॑ च श॒तिनं॑ च॒ वाजं॑ ॥
अस्तो॑ढ्वं , स्तो॒म्याः॒ , ब्रह्म॑णा , मे॒ , अवी॑वृधध्वं , उ॒श॒तीः , उ॒ष॒सः॒ । यु॒ष्माकं॑ , दे॒वीः॒ , अव॑सा , स॒ने॒म॒ , स॒ह॒स्रिणं॑ , च॒ , श॒तिनं॑ , च॒ , वाजं॑ ॥
[१२५] प्रातारत्नमिति सप्तर्चस्य सूक्तस्य दैर्घतमसः कक्षीवांत्स्वनयस्यदानस्तुतिस्त्रिष्टुप् चतुर्थीपंचम्यौजगत्यौ | (स्वनयनाम्नोराज्ञोदानस्तुतिरतःस्वनयोदेवता) |
प्रा॒ता रत्नं॑ प्रात॒रित्वा॑ दधाति॒ तं चि॑कि॒त्वान्प्र॑ति॒गृह्या॒ नि ध॑त्ते । तेन॑ प्र॒जां व॒र्धय॑मान॒ आयू॑ रा॒यस्पोषे॑ण सचते सु॒वीरः॑ ॥
प्रा॒तरिति॑ , रत्नं॑ , प्रा॒तः॒ऽइत्वा॑ , द॒धा॒ति॒ , तं , चि॒कि॒त्वान् , प्र॒ति॒ऽगृह्य॑ , नि , ध॒त्ते॒ । तेन॑ , प्र॒ऽजां , व॒र्धय॑मानः , आयुः॑ , रा॒यः , पोषे॑ण , स॒च॒ते॒ , सु॒ऽवीरः॑ ॥
सु॒गुर॑सत्सुहिर॒ण्यः स्वश्वो॑ बृ॒हद॑स्मै॒ वय॒ इंद्रो॑ दधाति । यस्त्वा॒यंतं॒ वसु॑ना प्रातरित्वो मु॒क्षीज॑येव॒ पदि॑मुत्सि॒नाति॑ ॥
सु॒ऽगुः , अ॒स॒त् , सु॒ऽहि॒र॒ण्यः , सु॒ऽअश्वः॑ , बृ॒हत् , अ॒स्मै॒ , वयः॑ , इंद्रः॑ , द॒धा॒ति॒ । यः , त्वा॒ , आ॒ऽयंतं॑ , वसु॑ना , प्रा॒तः॒ऽइ॒त्वः॒ , मु॒क्षीज॑याऽइव , पदिं॑ , उ॒त्ऽसि॒नाति॑ ॥
आय॑म॒द्य सु॒कृतं॑ प्रा॒तरि॒च्छन्नि॒ष्टेः पु॒त्रं वसु॑मता॒ रथे॑न । अं॒शोः सु॒तं पा॑यय मत्स॒रस्य॑ क्ष॒यद्वी॑रं वर्धय सू॒नृता॑भिः ॥
आयं॑ , अ॒द्य , सु॒ऽकृतं॑ , प्रा॒तः , इ॒च्छन् , इ॒ष्टेः , पु॒त्रं , वसु॑ऽमता , रथे॑न । अं॒शोः , सु॒तं , पा॒य॒य॒ , म॒त्स॒रस्य॑ , क्ष॒यत्ऽवी॑रं , व॒र्ध॒य॒ , सू॒नृता॑भिः ॥
उप॑ क्षरंति॒ सिंध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा॑णं च धे॒नवः॑ । पृ॒णंतं॑ च॒ पपु॑रिं च श्रव॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यंति वि॒श्वतः॑ ॥
उप॑ , क्ष॒रं॒ति॒ , सिंध॑वः , म॒यः॒ऽभुवः॑ , ई॒जा॒नं , च॒ , य॒क्ष्यमा॑णं , च॒ , धे॒नवः॑ । पृ॒णंतं॑ , च॒ , पपु॑रिं , च॒ , श्र॒व॒स्यवः॑ , घृ॒तस्य॑ , धाराः॑ , उप॑ , यं॒ति॒ , वि॒श्वतः॑ ॥
नाक॑स्य पृ॒ष्ठे अधि॑ तिष्ठति श्रि॒तो यः पृ॒णाति॒ स ह॑ दे॒वेषु॑ गच्छति । तस्मा॒ आपो॑ घृ॒तम॑र्षंति॒ सिंध॑व॒स्तस्मा॑ इ॒यं दक्षि॑णा पिन्वते॒ सदा॑ ॥
नाक॑स्य , पृ॒ष्ठे , अधि॑ , ति॒ष्ठ॒ति॒ , श्रि॒तः , यः , पृ॒णाति॑ , सः , ह॒ , दे॒वेषु॑ , ग॒च्छ॒ति॒ । तस्मै॑ , आपः॑ , घृ॒तं , अ॒र्षं॒ति॒ , सिंध॑वः , तस्मै॑ , इ॒यं , दक्षि॑णा , पि॒न्व॒ते॒ , सदा॑ ॥
दक्षि॑णावता॒मिदि॒मानि॑ चि॒त्रा दक्षि॑णावतां दि॒वि सूर्या॑सः । दक्षि॑णावंतो अ॒मृतं॑ भजंते॒ दक्षि॑णावंतः॒ प्र ति॑रंत॒ आयुः॑ ॥
दक्षि॑णाऽवतां , इत् , इ॒मानि॑ , चि॒त्रा , दक्षि॑णाऽवतां , दि॒वि , सूर्या॑सः । दक्षि॑णाऽवंतः , अ॒मृतं॑ , भ॒जं॒ते॒ , दक्षि॑णाऽवंतः , प्र , ति॒रं॒ते॒ , आयुः॑ ॥
मा पृ॒णंतो॒ दुरि॑त॒मेन॒ आर॒न्मा जा॑रिषुः सू॒रयः॑ सुव्र॒तासः॑ । अ॒न्यस्तेषां॑ परि॒धिर॑स्तु॒ कश्चि॒दपृ॑णंतम॒भि सं यं॑तु॒ शोकाः॑ ॥
मा , पृ॒णंतः॑ , दुःऽइ॑तं , एनः॑ , आ , अ॒र॒न् , मा , जा॒रि॒षुः॒ , सू॒रयः॑ , सु॒ऽव्र॒तासः॑ । अ॒न्यः , तेषां॑ , प॒रि॒ऽधिः , अ॒स्तु॒ , कः , चि॒त् , अपृ॑णंतं , अ॒भि , सं , यं॒तु॒ , शोकाः॑ ॥
[१२६] अमंदानिति सप्तर्चस्य सूक्तस्य दैर्घतमसः कक्षीवानृषिः आगधितेत्यस्यभावयव्यऋषिः रोमशादेवता उपोपमइत्यस्यरोमशाऋषिकास्वनयोदेवतात्रिष्टुप् अंत्येद्वेअनुष्टुभौ | (स्वनयएवभावयव्यशब्देनोच्यते रोमशास्वनयभार्याअंत्येद्वेऋचौतयोः परस्परंसंवादः आद्याभिःपंचभिर्दानुतष्टः कक्षीवान्भावयव्यमस्तौत् ततश्चसएवदेवता) |
अमं॑दां॒त्स्तोमा॒न्प्र भ॑रे मनी॒षा सिंधा॒वधि॑ क्षिय॒तो भा॒व्यस्य॑ । यो मे॑ स॒हस्र॒ममि॑मीत स॒वान॒तूर्तो॒ राजा॒ श्रव॑ इ॒च्छमा॑नः ॥
अमं॑दान् , स्तोमा॑न् , प्र , भ॒रे॒ , म॒नी॒षा , सिंधौ॑ , अधि॑ , क्षि॒य॒तः , भा॒व्यस्य॑ । यः , मे॒ , स॒हस्रं॑ , अमि॑मीत , स॒वान् , अ॒तूर्तः॑ , राजा॑ , श्रवः॑ , इ॒च्छमा॑नः ॥
श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्कांछ॒तमश्वा॒न्प्रय॑तांत्स॒द्य आदं॑ । श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां॑ दि॒वि श्रवो॒ऽजर॒मा त॑तान ॥
श॒तं , राज्ञः॑ , नाध॑मानस्य , नि॒ष्कान् , श॒तं , अश्वा॑न् , प्रऽय॑तान् , स॒द्यः , आदं॑ । श॒तं , क॒क्षीवा॑न् , असु॑रस्य , गोनां॑ , दि॒वि , श्रवः॑ , अ॒जरं॑ , आ , त॒ता॒न॒ ॥
उप॑ मा श्या॒वाः स्व॒नये॑न द॒त्ता व॒धूमं॑तो॒ दश॒ रथा॑सो अस्थुः । ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ॑ अभिपि॒त्वे अह्नां॑ ॥
उप॑ , मा॒ , श्या॒वाः , स्व॒नये॑न , द॒त्ताः , व॒धूऽमं॑तः , दश॑ , रथा॑सः , अ॒स्थुः॒ । ष॒ष्टिः , स॒हस्रं॑ , अनु॑ , गव्यं॑ , आ , अ॒गा॒त् , सन॑त् , क॒क्षीवा॑न् , अ॒भि॒ऽपि॒त्वे , अह्नां॑ ॥
च॒त्वा॒रिं॒शद्दश॑रथस्य॒ शोणाः॑ स॒हस्र॒स्याग्रे॒ श्रेणिं॑ नयंति । म॒द॒च्युतः॑ कृश॒नाव॑तो॒ अत्या॑न्क॒क्षीवं॑त॒ उद॑मृक्षंत प॒ज्राः ॥
च॒त्वा॒रिं॒शत् , दश॑ऽरथस्य , शोणाः॑ , स॒हस्र॑स्य , अग्रे॑ , श्रेणिं॑ , न॒यं॒ति॒ । म॒द॒ऽच्युतः॑ , कृ॒श॒नऽव॑तः , अत्या॑न् , क॒क्षीवं॑तः , उत् , अ॒मृ॒क्षं॒त॒ , प॒ज्राः ॥
पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा॑यसो॒ गाः । सु॒बंध॑वो॒ ये वि॒श्या॑ इव॒ व्रा अन॑स्वंतः॒ श्रव॒ ऐषं॑त प॒ज्राः ॥
पूर्वां॑ , अनु॑ , प्रऽय॑तिं , आ , द॒दे॒ , वः॒ , त्रीन् , यु॒क्तान् , अ॒ष्टौ , अ॒रिऽधा॑यसः , गाः । सु॒ऽबंध॑वः , ये , वि॒श्याः॑ऽइव , व्राः , अन॑स्वंतः , श्रवः॑ , ऐषं॑त , प॒ज्राः ॥
आग॑धिता॒ परि॑गधिता॒ या क॑शी॒केव॒ जंग॑हे । ददा॑ति॒ मह्यं॒ यादु॑री॒ याशू॑नां भो॒ज्या॑ श॒ता ॥
आऽग॑धिता , परि॑ऽगधिता , या , क॒शी॒काऽइ॑व , जंग॑हे । ददा॑ति , मह्यं॑ , यादु॑री , याशू॑नां , भो॒ज्या॑ , श॒ता ॥
उपो॑प मे॒ परा॑ मृश॒ मा मे॑ द॒भ्राणि॑ मन्यथाः । सर्वा॒हम॑स्मि रोम॒शा गं॒धारी॑णामिवावि॒का ॥
उप॑ऽउप , मे॒ , परा॑ , मृ॒श॒ , मा , मे॒ , द॒भ्राणि॑ , म॒न्य॒थाः॒ । सर्वा॑ , अ॒हं , अ॒स्मि॒ , रो॒म॒शा , गं॒धारी॑णांऽइव , अ॒वि॒का ॥
[१२७] अग्निहोतारमित्येकादशर्चस्य सूक्तस्य दैवोदासिःपरुच्छेपोऽग्निरत्यष्टिः षष्ट्यतिधृतिः |
अ॒ग्निं होता॑रं मन्ये॒ दास्वं॑तं॒ वसुं॑ सू॒नुं सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसं । य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा । घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒जुह्वा॑नस्य स॒र्पिषः॑ ॥
अ॒ग्निं , होता॑रं , म॒न्ये॒ , दास्वं॑तं , वसुं॑ , सू॒नुं , सह॑सः , जा॒तऽवे॑दसं , विप्रं॑ , न , जा॒तऽवे॑दसं । यः , ऊ॒र्ध्वया॑ , सु॒ऽअ॒ध्व॒रः , दे॒वः , दे॒वाच्या॑ , कृ॒पा घृ॒तस्य॑ , विऽभ्रा॑ष्टिं , अनु॑ , व॒ष्टि॒ , शो॒चिषा॑ , आ॒ऽजुह्वा॑नस्य , स॒र्पिषः॑ ॥
यजि॑ष्ठं त्वा॒ यज॑माना हुवेम॒ ज्येष्ठ॒मंगि॑रसां विप्र॒ मन्म॑भि॒र्विप्रे॑भिः शुक्र॒ मन्म॑भिः । परि॑ज्मानमिव॒ द्यां होता॑रं चर्षणी॒नां । शो॒चिष्के॑शं॒ वृष॑णं॒ यमि॒मा विशः॒ प्रावं॑तु जू॒तये॒ विशः॑ ॥
यजि॑ष्ठं , त्वा॒ , यज॑मानाः , हु॒वे॒म॒ , ज्येष्ठं॑ , अंगि॑रसां , वि॒प्र॒ , मन्म॑ऽभिः , विप्रे॑भिः , शु॒क्र॒ , मन्म॑ऽभिः । परि॑ज्मानंऽइव , द्यां , होता॑रं , च॒र्ष॒णी॒नां शो॒चिःऽके॑शं , वृष॑णं , यं , इ॒माः , विशः॑ , प्र , अ॒वं॒तु॒ , जू॒तये॑ , विशः॑ ॥
स हि पु॒रू चि॒दोज॑सा वि॒रुक्म॑ता॒ दीद्या॑नो॒ भव॑ति द्रुहंत॒रः प॑र॒शुर्न द्रु॑हंत॒रः । वी॒ळु चि॒द्यस्य॒ समृ॑तौ॒ श्रुव॒द्वने॑व॒ यत्स्थि॒रं । निः॒षह॑माणो यमते॒ नाय॑ते धन्वा॒सहा॒ नाय॑ते ॥
सः , हि , पु॒रु , चि॒त् , ओज॑सा , वि॒रुक्म॑ता , दीद्या॑नः , भव॑ति , द्रु॒हं॒ऽत॒रः , प॒र॒शुः , न , द्रु॒हं॒ऽत॒रः । वी॒ळु , चि॒त् , यस्य॑ , संऽऋ॑तौ , श्रुव॑त् , वना॑ऽइव , यत् , स्थि॒रं निः॒ऽसह॑माणः , य॒म॒ते॒ , न , अ॒य॒ते॒ , ध॒न्व॒ऽसहा॑ , न , अ॒य॒ते॒ ॥
दृ॒ळ्हा चि॑दस्मा॒ अनु॑ दु॒र्यथा॑ वि॒दे तेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒ऽग्नये॑ दा॒ष्ट्यव॑से । प्र यः पु॒रूणि॒ गाह॑ते॒ तक्ष॒द्वने॑व शो॒चिषा॑ । स्थि॒रा चि॒दन्ना॒ नि रि॑णा॒त्योज॑सा॒ नि स्थि॒राणि॑ चि॒दोज॑सा ॥
दृ॒ळ्हा , चि॒त् , अ॒स्मै॒ , अनु॑ , दुः॒ , यथा॑ , वि॒दे , तेजि॑ष्ठाभिः , अ॒रणि॑ऽभिः , दा॒ष्टि॒ , अव॑से , अ॒ग्नये॑ , दा॒ष्टि॒ , अव॑से । प्र , यः , पु॒रूणि॑ , गाह॑ते , तक्ष॑त् , वना॑ऽइव , शो॒चिषा॑ स्थि॒रा , चि॒त् , अन्ना॑ , नि , रि॒णा॒ति॒ , ओज॑सा , नि , स्थि॒राणि॑ , चि॒त् , ओज॑सा ॥
तम॑स्य पृ॒क्षमुप॑रासु धीमहि॒ नक्तं॒ यः सु॒दर्श॑तरो॒ दिवा॑तरा॒दप्रा॑युषे॒ दिवा॑तरात् । आद॒स्यायु॒र्ग्रभ॑णवद्वी॒ळु शर्म॒ न सू॒नवे॑ । भ॒क्तमभ॑क्त॒मवो॒ व्यंतो॑ अ॒जरा॑ अ॒ग्नयो॒ व्यंतो॑ अ॒जराः॑ ॥
तं , अ॒स्य॒ , पृ॒क्षं , उप॑रासु , धी॒म॒हि॒ , नक्तं॑ , यः , सु॒दर्श॑ऽतरः , दिवा॑ऽतरात् , अप्र॑ऽआयुषे , दिवा॑ऽतरात् । आत् , अ॒स्य॒ , आयुः॑ , ग्रभ॑णऽवत् , वी॒ळु॒ , शर्म॑ , न , सू॒नवे॑ भ॒क्तं , अभ॑क्तं , अवः॑ , व्यंतः॑ , अ॒जराः॑ , अ॒ग्नयः॑ , व्यंतः॑ , अ॒जराः॑ ॥
स हि शर्धो॒ न मारु॑तं तुवि॒ष्वणि॒रप्न॑स्वतीषू॒र्वरा॑स्वि॒ष्टनि॒रार्त॑नास्वि॒ष्टनिः॑ । आद॑द्ध॒व्यान्या॑द॒दिर्य॒ज्ञस्य॑ के॒तुर॒र्हणा॑ । अध॑ स्मास्य॒ हर्ष॑तो॒ हृषी॑वतो॒ विश्वे॑ जुषंत॒ पंथां॒ नरः॑ शु॒भे न पंथां॑ ॥
सः , हि , शर्धः॑ , न , मारु॑तं , तु॒वि॒ऽस्वणिः॑ , अप्न॑स्वतीषु , उ॒र्वरा॑सु , इ॒ष्टनिः॑ , आर्त॑नासु , इ॒ष्टनिः॑ । आद॑त् , ह॒व्यानि॑ , आ॒ऽद॒दिः , य॒ज्ञस्य॑ , के॒तुः , अ॒र्हणा॑ अध॑ , स्म॒ , अ॒स्य॒ , हर्ष॑तः , हृषी॑वतः , विश्वे॑ , जु॒षं॒त॒ , पंथां॑ , नरः॑ , शु॒भे , न , पंथां॑ ॥
द्वि॒ता यदीं॑ की॒स्तासो॑ अ॒भिद्य॑वो नम॒स्यंत॑ उप॒वोचं॑त॒ भृग॑वो म॒थ्नंतो॑ दा॒शा भृग॑वः । अ॒ग्निरी॑शे॒ वसू॑नां॒ शुचि॒र्यो ध॒र्णिरे॑षां । प्रि॒याँ अ॑पि॒धीँर्व॑निषीष्ट॒ मेधि॑र॒ आ व॑निषीष्ट॒ मेधि॑रः ॥
द्वि॒ता , यत् , ईं॒ , की॒स्तासः॑ , अ॒भिऽद्य॑वः , न॒म॒स्यंतः॑ , उ॒प॒ऽवोचं॑त , भृग॑वः , म॒थ्नंतः॑ , दा॒शा , भृग॑वः । अ॒ग्निः , ई॒शे॒ , वसू॑नां , शुचिः॑ , यः , ध॒र्णिः , ए॒षां॒ प्रि॒यान् , अ॒पि॒ऽधीन् , व॒नि॒षी॒ष्ट॒ , मेधि॑रः , आ , व॒नि॒षी॒श्ट॒ , मेधि॑रः ॥
विश्वा॑सां त्वा वि॒शां पतिं॑ हवामहे॒ सर्वा॑सां समा॒नं दंप॑तिं भु॒जे स॒त्यगि॑र्वाहसं भु॒जे । अति॑थिं॒ मानु॑षाणां पि॒तुर्न यस्या॑स॒या । अ॒मी च॒ विश्वे॑ अ॒मृता॑स॒ आ वयो॑ ह॒व्या दे॒वेष्वा वयः॑ ॥
विश्वा॑सां , त्वा॒ , वि॒शां , पतिं॑ , ह॒वा॒म॒हे॒ , सर्वा॑सां , स॒मा॒नं , दंऽप॑तिं , भु॒जे , स॒त्यऽगि॑र्वाहसं , भु॒जे । अति॑थिं , मानु॑षाणां , पि॒तुः , न , यस्य॑ , आ॒स॒या अ॒मी इति॑ , च॒ , विश्वे॑ , अ॒मृता॑सः , आ , वयः॑ , ह॒व्या , दे॒वेषु॑ , आ , वयः॑ ॥
त्वम॑ग्ने॒ सह॑सा॒ सहं॑तमः शु॒ष्मिंत॑मो जायसे दे॒वता॑तये र॒यिर्न दे॒वता॑तये । शु॒ष्मिंत॑मो॒ हि ते॒ मदो॑ द्यु॒म्निंत॑म उ॒त क्रतुः॑ । अध॑ स्मा ते॒ परि॑ चरंत्यजर श्रुष्टी॒वानो॒ नाज॑र ॥
त्वं , अ॒ग्ने॒ , सह॑सा , सह॑न्ऽतमः , शु॒ष्मिन्ऽत॑मः , जा॒य॒से॒ , दे॒वऽता॑तये , र॒यिः , न , दे॒वऽता॑तये । शु॒ष्मिन्ऽत॑मः , हि , ते॒ , मदः॑ , द्यु॒म्निन्ऽत॑मः , उ॒त , क्रतुः॑ अध॑ , स्म॒ , ते॒ , परि॑ , च॒रं॒ति॒ , अ॒ज॒र॒ , श्रु॒ष्टी॒ऽवानः॑ , न , अ॒ज॒र॒ ॥
प्र वो॑ म॒हे सह॑सा॒ सह॑स्वत उष॒र्बुधे॑ पशु॒षे नाग्नये॒ स्तोमो॑ बभूत्व॒ग्नये॑ । प्रति॒ यदीं॑ ह॒विष्मा॒न्विश्वा॑सु॒ क्षासु॒ जोगु॑वे । अग्रे॑ रे॒भो न ज॑रत ऋषू॒णां जूर्णि॒र्होत॑ ऋषू॒णां ॥
प्र , वः॒ , म॒हे , सह॑सा , सह॑स्वते , उ॒षः॒ऽबुधे॑ , प॒शु॒ऽसे , न , अ॒ग्नये॑ , स्तोमः॑ , ब॒भू॒तु॒ , अ॒ग्नये॑ । प्रति॑ , यत् , ईं॒ , ह॒विष्मा॑न् , विश्वा॑सु , क्षासु॑ , जोगु॑वे अग्रे॑ , रे॒भः , न , ज॒र॒ते॒ , ऋ॒षू॒णां , जूर्णिः॑ , होता॑ , ऋ॒षू॒णां ॥
स नो॒ नेदि॑ष्ठं॒ ददृ॑शान॒ आ भ॒राग्ने॑ दे॒वेभिः॒ सच॑नाः सुचे॒तुना॑ म॒हो रा॒यः सु॑चे॒तुना॑ । महि॑ शविष्ठ नस्कृधि सं॒चक्षे॑ भु॒जे अ॒स्यै । महि॑ स्तो॒तृभ्यो॑ मघवंत्सु॒वीर्यं॒ मथी॑रु॒ग्रो न शव॑सा ॥
सः , नः॒ , नेदि॑ष्ठं , ददृ॑शानः , आ , भ॒र॒ , अग्ने॑ , दे॒वेभिः॑ , सऽच॑नाः , सु॒ऽचे॒तुना॑ , म॒हः , रा॒यः , सु॒ऽचे॒तुना॑ । महि॑ , श॒वि॒ष्ठ॒ , नः॒ , कृ॒धि॒ , सं॒ऽचक्षे॑ , भु॒जे , अ॒स्यै महि॑ , स्तो॒तृऽभ्यः॑ , म॒घ॒ऽव॒न् , सु॒ऽवीर्यं॑ , मथीः॑ , उ॒ग्रः , न , शव॑सा ॥
[१२८] अयंजायतेत्यष्टर्चस्य सूक्तस्य दैवोदासिःपरुच्छेपोग्निरत्यष्टिः |
अ॒यं जा॑यत॒ मनु॑षो॒ धरी॑मणि॒ होता॒ यजि॑ष्ठ उ॒शिजा॒मनु॑ व्र॒तम॒ग्निः स्वमनु॑ व्र॒तं । वि॒श्वश्रु॑ष्टिः सखीय॒ते र॒यिरि॑व श्रवस्य॒ते । अद॑ब्धो॒ होता॒ नि ष॑ददि॒ळस्प॒दे परि॑वीत इ॒ळस्प॒दे ॥
अ॒यं , जा॒य॒त॒ , मनु॑षः , धरी॑मणि , होता॑ , यजि॑ष्ठः , उ॒शिजां॑ , अनु॑ , व्र॒तं , अ॒ग्निः , स्वं , अनु॑ , व्र॒तं । वि॒श्वऽश्रु॑ष्टिः , स॒खि॒ऽय॒ते , र॒यिःऽइ॑व , श्र॒व॒स्य॒ते अद॑ब्धः , होता॑ , नि , स॒द॒त् , इ॒ळः , प॒दे , परि॑ऽवीतः , इ॒ळः , प॒दे ॥
तं य॑ज्ञ॒साध॒मपि॑ वातयामस्यृ॒तस्य॑ प॒था नम॑सा ह॒विष्म॑ता दे॒वता॑ता ह॒विष्म॑ता । स न॑ ऊ॒र्जामु॒पाभृ॑त्य॒या कृ॒पा न जू॑र्यति । यं मा॑त॒रिश्वा॒ मन॑वे परा॒वतो॑ दे॒वं भाः प॑रा॒वतः॑ ॥
तं , य॒ज्ञ॒ऽसाधं॑ , अपि॑ , वा॒त॒या॒म॒सि॒ , ऋ॒तस्य॑ , प॒था , नम॑सा , ह॒विष्म॑ता , दे॒वऽता॑ता , ह॒विष्म॑ता । सः , नः॒ , ऊ॒र्जां , उ॒प॒ऽआभृ॑ति , अ॒या , कृ॒पा , न , जू॒र्य॒ति॒ यं , मा॒त॒रिश्वा॑ , मन॑वे , प॒रा॒ऽवतः॑ , दे॒वं , भारिति॒ भाः , प॒रा॒ऽवतः॑ ॥
एवे॑न स॒द्यः पर्ये॑ति॒ पार्थि॑वं मुहु॒र्गी रेतो॑ वृष॒भः कनि॑क्रद॒द्दध॒द्रेतः॒ कनि॑क्रदत् । श॒तं चक्षा॑णो अ॒क्षभि॑र्दे॒वो वने॑षु तु॒र्वणिः॑ । सदो॒ दधा॑न॒ उप॑रेषु॒ सानु॑ष्व॒ग्निः परे॑षु॒ सानु॑षु ॥
एवे॑न , स॒द्यः , परि॑ , ए॒ति॒ , पार्थि॑वं , मु॒हुः॒ऽगीः , रेतः॑ , वृ॒ष॒भः , कनि॑क्रदत् , दध॑त् , रेतः॑ , कनि॑क्रदत् । श॒तं , चक्षा॑णः , अ॒क्षऽभिः॑ , दे॒वः , वने॑षु , तु॒र्वणिः॑ सदः॑ , दधा॑नः , उप॑रेषु , सानु॑षु , अ॒ग्निः , परे॑षु , सानु॑षु ॥
स सु॒क्रतुः॑ पु॒रोहि॑तो॒ दमे॑दमे॒ऽग्निर्य॒ज्ञस्या॑ध्व॒रस्य॑ चेतति॒ क्रत्वा॑ य॒ज्ञस्य॑ चेतति । क्रत्वा॑ वे॒धा इ॑षूय॒ते विश्वा॑ जा॒तानि॑ पस्पशे । यतो॑ घृत॒श्रीरति॑थि॒रजा॑यत॒ वह्नि॑र्वे॒धा अजा॑यत ॥
सः , सु॒ऽक्रतुः॑ , पु॒रःऽहि॑तः , दमे॑ऽदमे , अ॒ग्निः , य॒ज्ञस्य॑ , अ॒ध्व॒रस्य॑ , चे॒त॒ति॒ , क्रत्वा॑ , य॒ज्ञस्य॑ , चे॒त॒ति॒ । क्रत्वा॑ , वे॒धाः , इ॒षु॒ऽय॒ते , विश्वा॑ , जा॒तानि॑ , प॒स्प॒शे॒ यतः॑ , घृ॒त॒ऽश्रीः , अति॑थिः , अजा॑यत , वह्निः॑ , वे॒धाः , अजा॑यत ॥
क्रत्वा॒ यद॑स्य॒ तवि॑षीषु पृं॒चते॒ऽग्नेरवे॑ण म॒रुतां॒ न भो॒ज्ये॑षि॒राय॒ न भो॒ज्या॑ । स हि ष्मा॒ दान॒मिन्व॑ति॒ वसू॑नां च म॒ज्मना॑ । स न॑स्त्रासते दुरि॒ताद॑भि॒ह्रुतः॒ शंसा॑द॒घाद॑भि॒ह्रुतः॑ ॥
क्रत्वा॑ , यत् , अ॒स्य॒ , तवि॑षीषु , पृं॒चते॑ , अ॒ग्नेः , अवे॑न , म॒रुतां॑ , न , भो॒ज्या॑ , इ॒षि॒राय॑ , न , भो॒ज्या॑ । सः , हि , स्म॒ , दानं॑ , इन्व॑ति , वसू॑नां , च॒ , म॒ज्मना॑ सः , नः॒ , त्रा॒स॒ते॒ , दुः॒ऽइ॒तात् , अ॒भि॒ऽह्रुतः॑ , शंसा॑त् , अ॒घात् , अ॒भि॒ऽह्रुतः॑ ॥
विश्वो॒ विहा॑या अर॒तिर्वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे त॒रणि॒र्न शि॑श्रथच्छ्रव॒स्यया॒ न शि॑श्रथत् । विश्व॑स्मा॒ इदि॑षुध्य॒ते दे॑व॒त्रा ह॒व्यमोहि॑षे । विश्व॑स्मा॒ इत्सु॒कृते॒ वार॑मृण्वत्य॒ग्निर्द्वारा॒ व्यृ॑ण्वति ॥
विश्वः॑ , विऽहा॑याः , अ॒र॒तिः , वसुः॑ , द॒धे॒ , हस्ते॑ , दक्षि॑णे , त॒रणिः॑ , न , शि॒श्र॒थ॒त् , श्र॒व॒स्यया॑ , न , शि॒श्र॒थ॒त् । विश्व॑स्मै॒ , इत् , इ॒षु॒ध्य॒ते , दे॒व॒ऽत्रा , ह॒व्यं , आ , ऊ॒हि॒षे॒ विश्व॑स्मै , इत् , सु॒ऽकृते॑ , वारं॑ , ऋ॒ण्व॒ति॒ , अ॒ग्निः , द्वारा॑ , वि , ऋ॒ण्व॒ति॒ ॥
स मानु॑षे वृ॒जने॒ शंत॑मो हि॒तो॒३॒॑ऽग्निर्य॒ज्ञेषु॒ जेन्यो॒ न वि॒श्पतिः॑ प्रि॒यो य॒ज्ञेषु॑ वि॒श्पतिः॑ । स ह॒व्या मानु॑षाणामि॒ळा कृ॒तानि॑ पत्यते । स न॑स्त्रासते॒ वरु॑णस्य धू॒र्तेर्म॒हो दे॒वस्य॑ धू॒र्तेः ॥
सः , मानु॑षे , वृ॒जने॑ , शंऽत॑मः , हि॒तः , अ॒ग्निः , य॒ज्ञेषु॑ , जेन्यः॑ , न , वि॒श्पतिः॑ , प्रि॒यः , य॒ज्ञेषु॑ , वि॒श्पतिः॑ । सः , ह॒व्या , मानु॑षाणां , इ॒ळा , कृ॒तानि॑ , प॒त्य॒ते॒ सः , नः॒ , त्रा॒स॒ते॒ , वरु॑णस्य , धू॒र्तेः , म॒हः , दे॒वस्य॑ , धू॒र्तेः ॥
अ॒ग्निं होता॑रमीळते॒ वसु॑धितिं प्रि॒यं चेति॑ष्ठमर॒तिं न्ये॑रिरे हव्य॒वाहं॒ न्ये॑रिरे । वि॒श्वायुं॑ वि॒श्ववे॑दसं॒ होता॑रं यज॒तं क॒विं । दे॒वासो॑ र॒ण्वमव॑से वसू॒यवो॑ गी॒र्भी र॒ण्वं व॑सू॒यवः॑ ॥
अ॒ग्निं , होता॑रं , ई॒ळ॒ते॒ , वसु॑ऽधितिं , प्रि॒यं , चेति॑ष्ठं , अ॒र॒तिं , नि , ए॒रि॒रे॒ , ह॒व्य॒ऽवाहं॑ , नि , ए॒रि॒रे॒ । वि॒श्वऽआ॑युं , वि॒श्वऽवे॑दसं , होता॑रं , य॒ज॒तं , क॒विं दे॒वासः॑ , र॒ण्वं , अव॑से , व॒सु॒ऽयवः॑ , गीः॒ऽभिः , र॒ण्वं , व॒सु॒ऽयवः॑ ॥
[१२९] यंत्वंरथमित्येकादशर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रः षष्ट्याइंदुरत्यष्टिः अष्टमीनवम्यावतिशक्वर्यावेकादश्यष्टिः |
यं त्वं रथ॑मिंद्र मे॒धसा॑तयेऽपा॒का संत॑मिषिर प्र॒णय॑सि॒ प्रान॑वद्य॒ नय॑सि । स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒ करो॒ वश॑श्च वा॒जिनं॑ । सास्माक॑मनवद्य तूतुजान वे॒धसा॑मि॒मां वाचं॒ न वे॒धसां॑ ॥
यं , त्वं , रथं॑ , इं॒द्र॒ , मे॒धऽसा॑तये , अ॒पा॒का , संतं॑ , इ॒षि॒र॒ , प्र॒ऽनय॑सि , प्र , अ॒न॒व॒द्य॒ , नय॑सि । स॒द्यः , चि॒त् , तं , अ॒भिष्ट॑ये , करः॑ , वशः॑ , च॒ , वा॒जिनं॑ सः , अ॒स्माकं॑ , अ॒न॒व॒द्य॒ , तू॒तु॒जा॒न॒ , वे॒धसां॑ , इ॒मां , वाचं॑ , न , वे॒धसां॑ ॥
स श्रु॑धि॒ यः स्मा॒ पृत॑नासु॒ कासु॑ चिद्द॒क्षाय्य॑ इंद्र॒ भर॑हूतये॒ नृभि॒रसि॒ प्रतू॑र्तये॒ नृभिः॑ । यः शूरैः॒ स्व१॒॑ः सनि॑ता॒ यो विप्रै॒र्वाजं॒ तरु॑ता । तमी॑शा॒नास॑ इरधंत वा॒जिनं॑ पृ॒क्षमत्यं॒ न वा॒जिनं॑ ॥
सः , श्रु॒धि॒ , यः , स्म॒ , पृत॑नासु , कासु॑ , चि॒त् , द॒क्षाय्यः॑ , इं॒द्र॒ , भर॑ऽहूतये , नृऽभिः॑ , अ॒सि॒ , प्रऽतू॑र्तये , नृऽभिः॑ । यः , शूरैः॑ , स्व१॒॑रिति॒ स्वः॑ , सनि॑ता , यः , विप्रैः॑ , वाजं॑ , तरु॑ता तं , ई॒शा॒नासः॑ , इ॒र॒धं॒त॒ , वा॒जिनं॑ , पृ॒क्षं , अत्यं॑ , न , वा॒जिनं॑ ॥
द॒स्मो हि ष्मा॒ वृष॑णं॒ पिन्व॑सि॒ त्वचं॒ कं चि॑द्यावीर॒ररुं॑ शूर॒ मर्त्यं॑ परिवृ॒णक्षि॒ मर्त्यं॑ । इंद्रो॒त तुभ्यं॒ तद्दि॒वे तद्रु॒द्राय॒ स्वय॑शसे । मि॒त्राय॑ वोचं॒ वरु॑णाय स॒प्रथः॑ सुमृळी॒काय॑ स॒प्रथः॑ ॥
द॒स्मः , हि , स्म॒ , वृष॑णं , पिन्व॑सि , त्वचं॑ , कं , चि॒त् , या॒वीः॒ , अ॒ररुं॑ , शू॒र॒ , मर्त्यं॑ , प॒रि॒ऽवृ॒णक्षि॑ , मर्त्यं॑ । इंद्र॑ , उ॒त , तुभ्यं॑ , तत् , दि॒वे , तत् , रु॒द्राय॑ , स्वऽय॑शसे मि॒त्राय॑ , वोचं॑ , वरु॑णाय , स॒ऽप्रथः॑ , सु॒ऽमृ॒ळी॒काय॑ , स॒ऽप्रथः॑ ॥
अ॒स्माकं॑ व॒ इंद्र॑मुश्मसी॒ष्टये॒ सखा॑यं वि॒श्वायुं॑ प्रा॒सहं॒ युजं॒ वाजे॑षु प्रा॒सहं॒ युजं॑ । अ॒स्माकं॒ ब्रह्मो॒तयेऽवा॑ पृ॒त्सुषु॒ कासु॑ चित् । न॒हि त्वा॒ शत्रुः॒ स्तर॑ते स्तृ॒णोषि॒ यं विश्वं॒ शत्रुं॑ स्तृ॒णोषि॒ यं ॥
अ॒स्माकं॑ , वः॒ , इंद्रं॑ , उ॒श्म॒सि॒ , इ॒ष्टये॑ , सखा॑य , वि॒श्वऽआ॑युं , प्र॒ऽसहं॑ , युजं॑ , वाजे॑षु , प्र॒ऽसहं॑ , युजं॑ । अ॒स्माकं॑ , ब्रह्म॑ , ऊ॒तये॑ , अव॑ , पृ॒त्सुषु॑ , कासु॑ , चि॒त् न॒हि , त्वा॒ , शत्रुः॑ , स्तर॑ते , स्तृ॒णोषि॑ , यं , विश्वं॑ , शत्रुं॑ , स्तृ॒णोषि॑ , यं ॥
नि षू न॒माति॑मतिं॒ कय॑स्य चि॒त्तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभिः॑ । नेषि॑ णो॒ यथा॑ पु॒राने॒नाः शू॑र॒ मन्य॑से । विश्वा॑नि पू॒रोरप॑ पर्षि॒ वह्नि॑रा॒सा वह्नि॑र्नो॒ अच्छ॑ ॥
नि , सु , न॒म॒ , अति॑ऽमतिं , कय॑स्य , चि॒त् , तेजि॑ष्ठाभिः , अ॒रणि॑ऽभिः , न , ऊ॒तिऽभिः॑ , उ॒ग्राभिः॑ , उ॒ग्र॒ , ऊ॒तिऽभिः॑ । नेषि॑ , नः॒ , यथा॑ , पु॒रा , अ॒ने॒नाः , शू॒र॒ , मन्य॑से विश्वा॑नि , पू॒रोः , अप॑ , प॒र्षि॒ , वह्निः॑ , आ॒सा , वह्निः॑ , नः॒ , अच्छ॑ ॥
प्र तद्वो॑चेयं॒ भव्या॒येंद॑वे॒ हव्यो॒ न य इ॒षवा॒न्मन्म॒ रेज॑ति रक्षो॒हा मन्म॒ रेज॑ति । स्व॒यं सो अ॒स्मदा नि॒दो व॒धैर॑जेत दुर्म॒तिं । अव॑ स्रवेद॒घशं॑सोऽवत॒रमव॑ क्षु॒द्रमि॑व स्रवेत् ॥
प्र , तत् , वो॒चे॒यं॒ , भव्या॑य , इंद॑वे , हव्यः॑ , न , यः , इ॒षऽवा॑न् , मन्म॑ , रेज॑ति , र॒क्षः॒ऽहा , मन्म॑ , रेज॑ति । स्व॒यं , सः , अ॒स्मत् , आ , नि॒दः , व॒धैः , अ॒जे॒त॒ , दुः॒ऽम॒तिं अव॑ , स्र॒वे॒त् , अ॒घऽशं॑सः , अ॒व॒ऽत॒रं , अव॑ , क्षु॒द्रंऽइ॑व , स्र॒वे॒त् ॥
व॒नेम॒ तद्धोत्र॑या चि॒तंत्या॑ व॒नेम॑ र॒यिं र॑यिवः सु॒वीर्यं॑ र॒ण्वं संतं॑ सु॒वीर्यं॑ । दु॒र्मन्मा॑नं सु॒मंतु॑भि॒रेमि॒षा पृ॑चीमहि । आ स॒त्याभि॒रिंद्रं॑ द्यु॒म्नहू॑तिभि॒र्यज॑त्रं द्यु॒म्नहू॑तिभिः ॥
व॒नेम॑ , तत् , होत्र॑या , चि॒तंत्या॑ , व॒नेम॑ , र॒यिं , र॒यि॒ऽवः॒ , सु॒ऽवीर्यं॑ , र॒ण्वं , संतं॑ , सु॒ऽवीर्यं॑ । दुः॒ऽमन्मा॑नं , सु॒मंतु॑ऽभिः , आ , ईं॒ , इ॒षा , पृ॒ची॒म॒हि॒ आ , स॒त्याभिः॑ , इंद्रं॑ , द्यु॒म्नहू॑तिऽभिः , यज॑त्रं , द्यु॒म्नहू॑तिऽभिः ॥
प्रप्रा॑ वो अ॒स्मे स्वय॑शोभिरू॒ती प॑रिव॒र्ग इंद्रो॑ दुर्मती॒नां दरी॑मंदुर्मती॒नां । स्व॒यं सा रि॑ष॒यध्यै॒ या न॑ उपे॒षे अ॒त्रैः । ह॒तेम॑स॒न्न व॑क्षति क्षि॒प्ता जू॒र्णिर्न व॑क्षति ॥
प्रऽप्र॑ , वः॒ , अ॒स्मे इति॑ , स्वय॑शःऽभिः , ऊ॒ती , प॒रि॒ऽव॒र्गे , इंद्रः॑ , दुः॒ऽम॒ती॒नां , दरी॑मन् , दुः॒ऽम॒ती॒नां । स्व॒यं , सा , रि॒ष॒यध्यै॒ , या , नः॒ , उ॒प॒ऽई॒षे , अ॒त्रैः ह॒ता , ईं॒ , अ॒स॒त् , न , व॒क्ष॒ति॒ , क्षि॒प्ता , जू॒र्णिः , न , व॒क्ष॒ति॒ ॥
त्वं न॑ इंद्र रा॒या परी॑णसा या॒हि प॒थाँ अ॑ने॒हसा॑ पु॒रो या॑ह्यर॒क्षसा॑ । सच॑स्व नः परा॒क आ सच॑स्वास्तमी॒क आ । पा॒हि नो॑ दू॒रादा॒राद॒भिष्टि॑भिः॒ सदा॑ पाह्य॒भिष्टि॑भिः ॥
त्वं , नः॒ , इं॒द्र॒ , रा॒या , परी॑णसा , या॒हि , प॒था , अ॒ने॒हसा॑ , पु॒रः , या॒हि , अ॒र॒क्षसा॑ । सच॑स्व , नः , प॒रा॒के , आ , सच॑स्व , अ॒स्तं॒ऽई॒के , आ पा॒हि , नः॒ , दू॒रात् , आ॒रात् , अ॒भिष्टि॑ऽभिः , सदा॑ , पा॒हि॒ , अ॒भिष्टि॑ऽभिः ॥
त्वं न॑ इंद्र रा॒या तरू॑षसो॒ग्रं चि॑त्त्वा महि॒मा स॑क्ष॒दव॑से म॒हे मि॒त्रं नाव॑से । ओजि॑ष्ठ॒ त्रात॒रवि॑ता॒ रथं॒ कं चि॑दमर्त्य । अ॒न्यम॒स्मद्रि॑रिषेः॒ कं चि॑दद्रिवो॒ रिरि॑क्षंतं चिदद्रिवः ॥
त्वं , नः॒ , इं॒द्र॒ , रा॒या , तरु॑षसा , उ॒ग्रं , चि॒त् , त्वा॒ , म॒हि॒मा , स॒क्ष॒त् , अव॑से , म॒हे , मि॒त्रं , न , अव॑से । ओजि॑ष्ठ , त्रातः॑ , अवि॑त॒रिति॑ , रथं॑ , कं , चि॒त् , अ॒म॒र्त्य॒ अ॒न्यं , अ॒स्मत् , रि॒रि॒षेः॒ , कं , चि॒त् , अ॒द्रि॒ऽवः॒ , रिरि॑क्षंतं , चि॒त् , अ॒द्रि॒ऽवः॒ ॥
पा॒हि न॑ इंद्र सुष्टुत स्रि॒धो॑ऽवया॒ता सद॒मिद्दु॑र्मती॒नां दे॒वः संदु॑र्मती॒नां । हं॒ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः । अधा॒ हि त्वा॑ जनि॒ता जीज॑नद्वसो रक्षो॒हणं॑ त्वा॒ जीज॑नद्वसो ॥
पा॒हि , नः॒ , इं॒द्र॒ , सु॒ऽस्तु॒त॒ , स्रि॒धः , अ॒व॒ऽया॒ता , सदं॑ , इत् , दुः॒ऽम॒ती॒नां , दे॒वः , सन् , दुः॒ऽम॒ती॒नां । हं॒ता , पा॒पस्य॑ , र॒क्षसः॑ , त्रा॒ता , विप्र॑स्य , माऽव॑तः अध॑ , हि , त्वा॒ , ज॒नि॒ता , जीज॑नत् , व॒सो॒ इति॑ , र॒क्षः॒ऽहनं॑ , त्वा॒ , जीज॑नत् , व॒सो॒ इति॑ ॥
[१३०] एंद्रयाहीतिदशर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोत्यष्टिरंत्यात्रिष्टुप् | (अष्टिरित्येवप्रयोगः साधुः)|
एंद्र॑ या॒ह्युप॑ नः परा॒वतो॒ नायमच्छा॑ वि॒दथा॑नीव॒ सत्प॑ति॒रस्तं॒ राजे॑व॒ सत्प॑तिः । हवा॑महे त्वा व॒यं प्रय॑स्वंतः सु॒ते सचा॑ । पु॒त्रासो॒ न पि॒तरं॒ वाज॑सातये॒ मंहि॑ष्ठं॒ वाज॑सातये ॥
आ , इं॒द्र॒ , या॒हि॒ , उप॑ , नः॒ , प॒रा॒ऽवतः॑ , न , अ॒यं , अच्छ॑ , वि॒दथा॑निऽइव , सत्ऽप॑तिः , अस्तं॑ , राजा॑ऽइव , सत्ऽप॑तिः । हवा॑महे , त्वा॒ , व॒यं , प्रय॑स्वंतः , सु॒ते , सचा॑ पु॒त्रासः॑ , न , पि॒तरं॑ , वाज॑ऽसातये , मंहि॑ष्ठं , वाज॑ऽसातये ॥
पिबा॒ सोम॑मिंद्र सुवा॒नमद्रि॑भिः॒ कोशे॑न सि॒क्तम॑व॒तं न वंस॑गस्तातृषा॒णो न वंस॑गः । मदा॑य हर्य॒ताय॑ ते तु॒विष्ट॑माय॒ धाय॑से । आ त्वा॑ यच्छंतु ह॒रितो॒ न सूर्य॒महा॒ विश्वे॑व॒ सूर्यं॑ ॥
पिब॑ , सोमं॑ , इं॒द्र॒ , सु॒वा॒नं , अद्रि॑ऽभिः , कोशे॑न , सि॒क्तं , अ॒व॒तं , न , वंस॑गः , त॒तृ॒षा॒णः , न , वंस॑गः । मदा॑य , ह॒र्य॒ताय॑ , ते॒ , तु॒विःऽत॑माय , धाय॑से आ , त्वा॒ , य॒च्छं॒तु॒ , ह॒रितः॑ , न , सूर्यं॑ , अहा॑ , विश्वा॑ऽइव , सूर्यं॑ ॥
अविं॑दद्दि॒वो निहि॑तं॒ गुहा॑ नि॒धिं वेर्न गर्भं॒ परि॑वीत॒मश्म॑न्यनं॒ते अं॒तरश्म॑नि । व्र॒जं व॒ज्री गवा॑मिव॒ सिषा॑स॒न्नंगि॑रस्तमः । अपा॑वृणो॒दिष॒ इंद्रः॒ परी॑वृता॒ द्वार॒ इषः॒ परी॑वृताः ॥
अविं॑दत् , दि॒वः , निऽहि॑तं , गुहा॑ , नि॒ऽधिं , वेः , न , गर्भं॑ , परि॑ऽवीतं , अश्म॑नि , अ॒नं॒ते , अं॒तः , अश्म॑नि । व्र॒जं , व॒ज्री , गवां॑ऽइव , सिसा॑सन् , अंगि॑रःऽतमः अप॑ , अ॒वृ॒णो॒त् , इषः॑ , इंद्रः॑ , परि॑ऽवृताः , द्वारः॑ , इषः॑ , परि॑ऽवृताः ॥
दा॒दृ॒हा॒णो वज्र॒मिंद्रो॒ गभ॑स्त्योः॒ क्षद्मे॑व ति॒ग्ममस॑नाय॒ सं श्य॑दहि॒हत्या॑य॒ सं श्य॑त् । सं॒वि॒व्या॒न ओज॑सा॒ शवो॑भिरिंद्र म॒ज्मना॑ । तष्टे॑व वृ॒क्षं व॒निनो॒ नि वृ॑श्चसि पर॒श्वेव॒ नि वृ॑श्चसि ॥
द॒दृ॒हा॒णः , वज्रं॑ , इंद्रः॑ , गभ॑स्त्योः , क्षद्म॑ऽइव , ति॒ग्मं , अस॑नाय , सं , श्य॒त् , अ॒हि॒ऽहत्या॑य , सं , श्य॒त् । सं॒ऽवि॒व्या॒नः , ओज॑सा , शवः॑ऽभिः , इं॒द्र॒ , म॒ज्मना॑ तष्टा॑ऽइव , वृ॒क्षं , व॒निनः॑ , नि , वृ॒श्च॒सि॒ , प॒र॒श्वाऽइ॑व , नि , वृ॒श्च॒सि॒ ॥
त्वं वृथा॑ न॒द्य॑ इंद्र॒ सर्त॒वेऽच्छा॑ समु॒द्रम॑सृजो॒ रथाँ॑ इव वाजय॒तो रथाँ॑ इव । इ॒त ऊ॒तीर॑युंजत समा॒नमर्थ॒मक्षि॑तं । धे॒नूरि॑व॒ मन॑वे वि॒श्वदो॑हसो॒ जना॑य वि॒श्वदो॑हसः ॥
त्वं , वृथा॑ , न॒द्यः॑ , इं॒द्र॒ , सर्त॑वे , अच्छ॑ , स॒मु॒द्रं , अ॒सृ॒जः॒ , रथा॑न्ऽइव , वा॒ज॒ऽय॒तः , रथा॑न्ऽइव । इ॒तः , ऊ॒तीः , अ॒युं॒ज॒त॒ , स॒मा॒नं , अर्थं॑ , अक्षि॑तं धे॒नूःऽइ॑व , मन॑वे , वि॒श्वऽदो॑हसः , जना॑य , वि॒श्वऽदो॑हसः ॥
इ॒मां ते॒ वाचं॑ वसू॒यंत॑ आ॒यवो॒ रथं॒ न धीरः॒ स्वपा॑ अतक्षिषुः सु॒म्नाय॒ त्वाम॑तक्षिषुः । शुं॒भंतो॒ जेन्यं॑ यथा॒ वाजे॑षु विप्र वा॒जिनं॑ । अत्य॑मिव॒ शव॑से सा॒तये॒ धना॒ विश्वा॒ धना॑नि सा॒तये॑ ॥
इ॒मां , ते॒ , वाचं॑ , व॒सु॒ऽयंतः॑ , आ॒यवः॑ , रथं॑ , न , धीरः॑ , सु॒ऽअपाः॑ , अ॒त॒क्षि॒षुः॒ , सु॒म्नाय॑ , त्वां , अ॒त॒क्षि॒षुः॒ । शुं॒भंतः॑ , जेन्यं॑ , यथा॑ , वाजे॑षु , वि॒प्र॒ , वा॒जिनं॑ अत्यं॑ऽइव , शव॑से , सा॒तये॑ , धना॑ , विश्वा॑ , धना॑नि , सा॒तये॑ ॥
भि॒नत्पुरो॑ नव॒तिमिं॑द्र पू॒रवे॒ दिवो॑दासाय॒ महि॑ दा॒शुषे॑ नृतो॒ वज्रे॑ण दा॒शुषे॑ नृतो । अ॒ति॒थि॒ग्वाय॒ शंब॑रं गि॒रेरु॒ग्रो अवा॑भरत् । म॒हो धना॑नि॒ दय॑मान॒ ओज॑सा॒ विश्वा॒ धना॒न्योज॑सा ॥
भि॒नत् , पुरः॑ , न॒व॒तिं , इं॒द्र॒ , पू॒रवे॑ , दिवः॑ऽदासाय , महि॑ , दा॒शुषे॑ , नृ॒तो॒ इति॑ , वज्रे॑ण , दा॒शुषे॑ , नृ॒तो॒ इति॑ । अ॒ति॒थि॒ऽग्वाय॑ , शंब॑रं , गि॒रेः , उ॒ग्रः , अव॑ , अ॒भ॒र॒त् म॒हः , धना॑नि , दय॑मानः , ओज॑सा , विश्वा॑ , धना॑नि , ओज॑सा ॥
इंद्रः॑ स॒मत्सु॒ यज॑मान॒मार्यं॒ प्राव॒द्विश्वे॑षु श॒तमू॑तिरा॒जिषु॒ स्व॑र्मीळ्हेष्वा॒जिषु॑ । मन॑वे॒ शास॑दव्र॒तांत्वचं॑ कृ॒ष्णाम॑रंधयत् । दक्ष॒न्न विश्वं॑ ततृषा॒णमो॑षति॒ न्य॑र्शसा॒नमो॑षति ॥
इंद्रः॑ , स॒मत्ऽसु॑ , यज॑मानं , आर्यं॑ , प्र , आ॒व॒त् , विश्वे॑षु , श॒तंऽऊ॑तिः , आ॒जिषु॑ , स्वः॑ऽमीळ्हेषु , आ॒जिषु॑ । मन॑वे , शास॑त् , अ॒व्र॒तान् , त्वचं॑ , कृ॒ष्णां , अ॒रं॒ध॒य॒त् धक्ष॑त् , न , विश्वं॑ , त॒तृ॒षा॒णं , ओ॒ष॒ति॒ , नि , अ॒र्श॒सा॒नं , ओ॒ष॒ति॒ ॥
सूर॑श्च॒क्रं प्र वृ॑हज्जा॒त ओज॑सा प्रपि॒त्वे वाच॑मरु॒णो मु॑षायतीशा॒न आ मु॑षायति । उ॒शना॒ यत्प॑रा॒वतोऽज॑गन्नू॒तये॑ कवे । सु॒म्नानि॒ विश्वा॒ मनु॑षेव तु॒र्वणि॒रहा॒ विश्वे॑व तु॒र्वणिः॑ ॥
सूरः॑ , च॒क्रं , प्र , वृ॒ह॒त् , जा॒तः , ओज॑सा , प्र॒ऽपि॒त्वे , वाचं॑ , अ॒रु॒णः , मु॒षा॒य॒ति॒ , ई॒शा॒नः , आ , मु॒षा॒य॒ति॒ । उ॒शना॑ , यत् , प॒रा॒ऽवतः॑ , अज॑गन् , ऊ॒तये॑ , क॒वे॒ सु॒म्नानि॑ , विश्वा॑ , मनु॑षाऽइव , तु॒र्वणिः॑ , अहा॑ , विश्वा॑ऽइव , तु॒र्वणिः॑ ॥
स नो॒ नव्ये॑भिर्वृषकर्मन्नु॒क्थैः पुरां॑ दर्तः पा॒युभिः॑ पाहि श॒ग्मैः । दि॒वो॒दा॒सेभि॑रिंद्र॒ स्तवा॑नो वावृधी॒था अहो॑भिरिव॒ द्यौः ॥
सः , नः॒ , नव्ये॑भिः , वृ॒ष॒ऽक॒र्म॒न् , उ॒क्थैः , पुरां॑ , द॒र्त॒रिति॑ दर्तः , पा॒युऽभिः॑ , पा॒हि॒ , श॒ग्मैः । दि॒वः॒ऽदा॒सेभिः॑ , इं॒द्र॒ , स्तवा॑नः , व॒वृ॒धी॒थाः , अहो॑भिःऽइव , द्यौः ॥
[१३१] इंद्रायहीति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोत्यष्टिः |
इंद्रा॑य॒ हि द्यौरसु॑रो॒ अन॑म्न॒तेंद्रा॑य म॒ही पृ॑थि॒वी वरी॑मभिर्द्यु॒म्नसा॑ता॒ वरी॑मभिः । इंद्रं॒ विश्वे॑ स॒जोष॑सो दे॒वासो॑ दधिरे पु॒रः । इंद्रा॑य॒ विश्वा॒ सव॑नानि॒ मानु॑षा रा॒तानि॑ संतु॒ मानु॑षा ॥
इंद्रा॑य , हि , द्यौः , असु॑रः , अन॑म्नत , इंद्रा॑य , म॒ही , पृ॒थि॒वी , वरी॑मऽभिः , द्यु॒म्नऽसा॑ता , वरी॑मऽभिः । इंद्रं॑ , विश्वे॑ , स॒ऽजोष॑सः , दे॒वासः॑ , द॒धि॒रे॒ , पु॒रः इंद्रा॑य , विश्वा॑ , सव॑नानि , मानु॑षा , रा॒तानि॑ , सं॒तु॒ , मानु॑षा ॥
विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तुं॒जते॑ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क्स्वः॑ सनि॒ष्यवः॒ पृथ॑क् । तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि । इंद्रं॒ न य॒ज्ञैश्चि॒तयं॑त आ॒यवः॒ स्तोमे॑भि॒रिंद्र॑मा॒यवः॑ ॥
विश्वे॑षु , हि , त्वा॒ , सव॑नेषु , तुं॒जते॑ , स॒मा॒नं , एकं॑ , वृष॑ऽमन्यवः , पृथ॑क् , स्व१॒॑रिति॒ स्वः॑ , स॒नि॒ष्यवः॑ , पृथ॑क् । तं , त्वा॒ , नावं॑ , न , प॒र्षणिं॑ , शू॒षस्य॑ , धु॒रि , धी॒म॒हि॒ इंद्रं॑ , न , य॒ज्ञैः , चि॒तयं॑तः , आ॒यवः॑ , स्तोमे॑भिः , इंद्रं॑ , आ॒यवः॑ ॥
वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सृजः॒ सक्षं॑त इंद्र निः॒सृजः॑ । यद्ग॒व्यंता॒ द्वा जना॒ स्व१॒॑र्यंता॑ स॒मूह॑सि । आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिंद्र सचा॒भुवं॑ ॥
वि , त्वा॒ , त॒त॒स्रे॒ , मि॒थु॒नाः , अ॒व॒स्यवः॑ , व्र॒जस्य॑ , सा॒ता , गव्य॑स्य , निः॒ऽसृजः॑ , सक्षं॑तः , इं॒द्र॒ , निः॒ऽसृजः॑ । यत् , ग॒व्यंता॑ , द्वा , जना॑ , स्वः॑ , यंता॑ , सं॒ऽऊह॑सि आ॒विः , करि॑क्रत् , वृष॑णं , स॒चा॒ऽभुवं॑ , वज्रं॑ , इं॒द्र॒ , स॒चा॒ऽभुवं॑ ॥
वि॒दुष्टे॑ अ॒स्य वी॒र्य॑स्य पू॒रवः॒ पुरो॒ यदिं॑द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः । शास॒स्तमिं॑द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते । म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो मं॑दसा॒न इ॒मा अ॒पः ॥
वि॒दुः , ते॒ , अ॒स्य , वी॒र्य॑स्य , पू॒रवः॑ , पुरः॑ , यत् , इं॒द्र॒ , शार॑दीः , अ॒व॒ऽअति॑रः , स॒स॒हा॒नः , अ॒व॒ऽअति॑रः । शासः॑ , तं , इं॒द्र॒ , मर्त्यं॑ , अय॑ज्युं , श॒व॒सः॒ , प॒ते॒ म॒हीं , अ॒मु॒ष्णाः॒ , पृ॒थि॒वीं , इ॒माः , अ॒पः , मं॒द॒सा॒नः , इ॒माः , अ॒पः ॥
आदित्ते॑ अ॒स्य वी॒र्य॑स्य चर्किर॒न्मदे॑षु वृषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो यदावि॑थ । च॒कर्थ॑ का॒रमे॑भ्यः॒ पृत॑नासु॒ प्रवं॑तवे । ते अ॒न्याम॑न्यां न॒द्यं॑ सनिष्णत श्रव॒स्यंतः॑ सनिष्णत ॥
आत् , इत् , ते॒ , अ॒स्य , वी॒र्य॑स्य , च॒र्कि॒र॒न् , मदे॑षु , वृ॒ष॒न् , उ॒शिजः॑ , यत् , आवि॑थ , स॒खि॒ऽय॒तः , यत् , आवि॑थ । च॒कर्थ॑ , का॒रं , ए॒भ्यः॒ , पृत॑नासु , प्रऽवं॑तवे ते , अ॒न्यांऽअ॑न्यां , न॒द्यं॑ , स॒नि॒ष्ण॒त॒ , श्र॒व॒स्यंतः॑ , स॒नि॒ष्ण॒त॒ ॥
उ॒तो नो॑ अ॒स्या उ॒षसो॑ जु॒षेत॒ ह्य१॒॑र्कस्य॑ बोधि ह॒विषो॒ हवी॑मभिः॒ स्व॑र्षाता॒ हवी॑मभिः । यदिं॑द्र॒ हंत॑वे॒ मृधो॒ वृषा॑ वज्रिं॒चिके॑तसि । आ मे॑ अ॒स्य वे॒धसो॒ नवी॑यसो॒ मन्म॑ श्रुधि॒ नवी॑यसः ॥
उ॒तो इति॑ , नः॒ , अ॒स्याः , उ॒षसः॑ , जु॒षेत॑ , हि , अ॒र्कस्य॑ , बो॒धि॒ , ह॒विषः॑ , हवी॑मऽभिः , स्वः॑ऽसाता , हवी॑मऽभिः । यत् , इं॒द्र॒ , हंत॑वे , मृधः॑ , वृषा॑ , व॒ज्रि॒न् , चिके॑तसि आ , मे॒ , अ॒स्य , वे॒धसः॑ , नवी॑यसः , मन्म॑ , श्रु॒धि॒ , नवी॑यसः ॥
त्वं तमिं॑द्र वावृधा॒नो अ॑स्म॒युर॑मित्र॒यंतं॑ तुविजात॒ मर्त्यं॒ वज्रे॑ण शूर॒ मर्त्यं॑ । ज॒हि यो नो॑ अघा॒यति॑ शृणु॒ष्व सु॒श्रव॑स्तमः । रि॒ष्टं न याम॒न्नप॑ भूतु दुर्म॒तिर्विश्वाप॑ भूतु दुर्म॒तिः ॥
त्वं , तं , इं॒द्र॒ , व॒वृ॒धा॒नः , अ॒स्म॒ऽयुः , अ॒मि॒त्र॒ऽयंतं॑ , तु॒वि॒ऽजा॒त॒ , मर्त्यं॑ , वज्रे॑ण , शू॒र॒ , मर्त्यं॑ । ज॒हि , यः , नः॒ , अ॒घ॒ऽयति॑ , शृ॒णु॒ष्व , सु॒श्रवः॑ऽतमः रि॒ष्टं , न , याम॑न् , अप॑ , भू॒तु॒ , दुः॒ऽम॒तिः , विश्वा॑ , अप॑ , भू॒तु॒ , दुः॒ऽम॒तिः ॥
[१३२] त्वयावयमिति षडृचस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्रोयुवंतमिंद्रेत्यर्धचइंद्रापर्वतावत्यष्टिः
त्वया॑ व॒यं म॑घव॒न्पूर्व्ये॒ धन॒ इंद्र॑त्वोताः सासह्याम पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तः । नेदि॑ष्ठे अ॒स्मिन्नह॒न्यधि॑ वोचा॒ नु सु॑न्व॒ते । अ॒स्मिन्य॒ज्ञे वि च॑येमा॒ भरे॑ कृ॒तं वा॑ज॒यंतो॒ भरे॑ कृ॒तं ॥
त्वया॑ , व॒यं , म॒घ॒ऽव॒न् , पूर्व्ये॑ , धने॑ , इंद्र॑त्वाऽऊताः , स॒स॒ह्या॒म॒ , पृ॒त॒न्य॒तः , व॒नु॒याम॑ , व॒नु॒ष्य॒तः । नेदि॑ष्ठे , अ॒स्मिन् , अह॑नि , अधि॑ , वो॒च॒ , नु , सु॒न्व॒ते अ॒स्मिन् , य॒ज्ञे , वि , च॒ये॒म॒ , भरे॑ , कृ॒तं , वा॒ज॒ऽयंतः॑ , भरे॑ , कृ॒तं ॥
स्व॒र्जे॒षे भर॑ आ॒प्रस्य॒ वक्म॑न्युष॒र्बुधः॒ स्वस्मि॒न्नंज॑सि क्रा॒णस्य॒ स्वस्मि॒न्नंज॑सि । अह॒न्निंद्रो॒ यथा॑ वि॒दे शी॒र्ष्णाशी॑र्ष्णोप॒वाच्यः॑ । अ॒स्म॒त्रा ते॑ स॒ध्र्य॑क्संतु रा॒तयो॑ भ॒द्रा भ॒द्रस्य॑ रा॒तयः॑ ॥
स्वः॒ऽजे॒षे , भरे॑ , आ॒प्रस्य॑ , वक्म॑नि , उ॒षः॒ऽबुधः॑ , स्वस्मि॑न् , अंज॑सि , क्रा॒णस्य॑ , स्वस्मि॑न् , अंज॑सि । अह॑न् , इंद्रः॑ , यथा॑ , वि॒दे , शी॒र्ष्णाऽशी॑र्ष्णा , उ॒प॒ऽवाच्यः॑ अ॒स्म॒ऽत्रा , ते॒ , स॒ध्र्य॑क् , सं॒तु॒ , रा॒तयः॑ , भ॒द्राः , भ॒द्रस्य॑ , रा॒तयः॑ ॥
तत्तु प्रयः॑ प्र॒त्नथा॑ ते शुशुक्व॒नं यस्मि॑न्य॒ज्ञे वार॒मकृ॑ण्वत॒ क्षय॑मृ॒तस्य॒ वार॑सि॒ क्षयं॑ । वि तद्वो॑चे॒रध॑ द्वि॒तांतः प॑श्यंति र॒श्मिभिः॑ । स घा॑ विदे॒ अन्विंद्रो॑ ग॒वेष॑णो बंधु॒क्षिद्भ्यो॑ ग॒वेष॑णः ॥
तत् , तु , प्रयः॑ , प्र॒त्नऽथा॑ , ते॒ , शु॒शु॒क्व॒नं , यस्मि॑न् , य॒ज्ञे , वारं॑ , अकृ॑ण्वत , क्षयं॑ , ऋ॒तस्य॑ , वाः , अ॒सि॒ , क्षयं॑ । वि , तत् , वो॒चेः॒ , अध॑ , द्वि॒ता , अं॒तरिति॑ , प॒श्यं॒ति॒ , र॒श्मिऽभिः॑ सः , घ॒ , वि॒दे॒ , अनु॑ , इंद्रः॑ , गो॒ऽएष॑णः , बं॒धु॒क्षित्ऽभ्यः॑ , गो॒ऽएष॑णः ॥
नू इ॒त्था ते॑ पू॒र्वथा॑ च प्र॒वाच्यं॒ यदंगि॑रो॒भ्योऽवृ॑णो॒रप॑ व्र॒जमिंद्र॒ शिक्ष॒न्नप॑ व्र॒जं । ऐभ्यः॑ समा॒न्या दि॒शास्मभ्यं॑ जेषि॒ योत्सि॑ च । सु॒न्वद्भ्यो॑ रंधया॒ कं चि॑दव्र॒तं हृ॑णा॒यंतं॑ चिदव्र॒तं ॥
नु , इ॒त्था , ते॒ , पू॒र्वऽथा॑ , च॒ , प्र॒ऽवाच्यं॑ , यत् , अंगि॑रःऽभ्यः , अवृ॑णोः , अप॑ , व्र॒जं , इंद्र॑ , शिक्ष॑न् , अप॑ , व्र॒जं । आ , ए॒भ्यः॒ , स॒मा॒न्या , दि॒शा , अ॒स्मभ्यं॑ , जे॒षि॒ , योत्सि॑ , च॒ सु॒न्वत्ऽभ्यः॑ , रं॒ध॒य॒ , कं , चि॒त् , अ॒व्र॒तं , हृ॒णा॒यंतं॑ , चि॒त् , अ॒व्र॒तं ॥
सं यज्जना॒न्क्रतु॑भिः॒ शूर॑ ई॒क्षय॒द्धने॑ हि॒ते त॑रुषंत श्रव॒स्यवः॒ प्र य॑क्षंत श्रव॒स्यवः॑ । तस्मा॒ आयुः॑ प्र॒जाव॒दिद्बाधे॑ अर्चं॒त्योज॑सा । इंद्र॑ ओ॒क्यं॑ दिधिषंत धी॒तयो॑ दे॒वाँ अच्छा॒ न धी॒तयः॑ ॥
सं , यत् , जना॑न् , क्रतु॑ऽभिः , शूरः॑ , ई॒क्षय॑त् , धने॑ , हि॒ते , त॒रु॒षं॒त॒ , श्र॒व॒स्यवः॑ , प्र , य॒क्षं॒त॒ , श्र॒व॒स्यवः॑ । तस्मै॑ , आयुः॑ , प्र॒जाऽव॑त् , इत् , बाधे॑ , अ॒र्चं॒ति॒ , ओज॑सा इंद्रे॑ , ओ॒क्यं॑ , दि॒धि॒षं॒त॒ , धी॒तयः॑ , दे॒वान् , अच्छ॑ , न , धी॒तयः॑ ॥
यु॒वं तमिं॑द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तंत॒मिद्ध॑तं॒ वज्रे॑ण॒ तंत॒मिद्ध॑तं । दू॒रे च॒त्ताय॑ च्छंत्स॒द्गह॑नं॒ यदिन॑क्षत् । अ॒स्माकं॒ शत्रू॒न्परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षीष्ट वि॒श्वतः॑ ॥
यु॒वं , तं , इं॒द्रा॒प॒र्व॒ता॒ , पु॒रः॒ऽयुधा॑ , यः , नः॒ , पृ॒त॒न्यात् , अप॑ , तंऽतं॑ , इत् , ह॒तं॒ , वज्रे॑ण , तंऽतं॑ , इत् , ह॒तं॒ । दू॒रे , च॒त्ताय॑ , छं॒त्स॒त् , गह॑नं , यत् , इन॑क्षत् अ॒स्माकं॑ , शत्रू॑न् , परि॑ , शू॒र॒ , वि॒श्वतः॑ , द॒र्मा , द॒र्षी॒ष्ट॒ , वि॒श्वतः॑ ॥
[१३३] उभेपुनामीति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपइंद्र आद्यात्रिष्टुप् द्वितीयादितिस्रोनुष्टुभः पंचमीगायत्री षष्ठीधृतिः सप्तम्यष्टिः |
उ॒भे पु॑नामि॒ रोद॑सी ऋ॒तेन॒ द्रुहो॑ दहामि॒ सं म॒हीर॑निं॒द्राः । अ॒भि॒व्लग्य॒ यत्र॑ ह॒ता अ॒मित्रा॑ वैलस्था॒नं परि॑ तृ॒ळ्हा अशे॑रन् ॥
उ॒भे इति॑ , पु॒ना॒मि॒ , रोद॑सी॒ इति॑ , ऋ॒तेन॑ , द्रुहः॑ , द॒हा॒मि॒ , सं , म॒हीः , अ॒निं॒द्राः । अ॒भि॒ऽव्लग्य॑ , यत्र॑ , ह॒ताः , अ॒मित्राः॑ , वै॒ल॒ऽस्था॒नं , परि॑ , तृ॒ळ्हाः , अशे॑रन् ॥
अ॒भि॒व्लग्या॑ चिदद्रिवः शी॒र्षा या॑तु॒मती॑नां । छिं॒धि व॑टू॒रिणा॑ प॒दा म॒हाव॑टूरिणा प॒दा ॥
अ॒भि॒ऽव्लग्य॑ , चि॒त् , अ॒द्रि॒ऽवः॒ , शी॒र्षा , या॒तु॒ऽमती॑नां । छिं॒धि , व॒टू॒रिणा॑ , प॒दा , म॒हाऽव॑टूरिणा , प॒दा ॥
अवा॑सां मघवंजहि॒ शर्धो॑ यातु॒मती॑नां । वै॒ल॒स्था॒न॒के अ॑र्म॒के म॒हावै॑लस्थे अर्म॒के ॥
अव॑ , आ॒सां॒ , म॒घ॒ऽव॒न् , ज॒हि॒ , शर्धः॑ , या॒तु॒ऽमती॑नां । वै॒ल॒ऽस्था॒न॒के , अ॒र्भ॒के , म॒हाऽवै॑लस्थे , अ॒र्भ॒के ॥
यासां॑ ति॒स्रः पं॑चा॒शतो॑ऽभिव्लं॒गैर॒पाव॑पः । तत्सु ते॑ मनायति त॒कत्सु ते॑ मनायति ॥
यासां॑ , ति॒स्रः , पं॒चा॒शतः॑ , अ॒भि॒ऽव्लं॒गैः , अ॒प॒ऽअव॑पः । तत् , सु , ते॒ , म॒ना॒य॒ति॒ , त॒कत् , सु , ते॒ , म॒ना॒य॒ति॒ ॥
पि॒शंग॑भृष्टिमंभृ॒णं पि॒शाचि॑मिंद्र॒ सं मृ॑ण । सर्वं॒ रक्षो॒ नि ब॑र्हय ॥
पि॒शंग॑ऽभृष्टिं , अं॒भृ॒णं , पि॒शाचिं॑ , इं॒द्र॒ , सं , मृ॒ण॒ । सर्वं॑ , रक्षः॑ , नि , ब॒र्ह॒य॒ ॥
अ॒वर्म॒ह इं॑द्र दादृ॒हि श्रु॒धी नः॑ शु॒शोच॒ हि द्यौः क्षा न भी॒षाँ अ॑द्रिवो घृ॒णान्न भी॒षाँ अ॑द्रिवः । शु॒ष्मिंत॑मो॒ हि शु॒ष्मिभि॑र्व॒धैरु॒ग्रेभि॒रीय॑से । अपू॑रुषघ्नो अप्रतीत शूर॒ सत्व॑भिस्त्रिस॒प्तैः शू॑र॒ सत्व॑भिः ॥
अ॒वः , म॒हः , इं॒द्र॒ , द॒दृ॒हि , श्रु॒धि , नः॒ , शु॒शोच॑ , हि , द्यौः , क्षाः , न , भी॒षा , अ॒द्रि॒ऽवः॒ , घृ॒णात् , न , भी॒षा , अ॒द्रि॒ऽवः॒ । शु॒ष्मिन्ऽत॑मः , हि , शु॒ष्मिऽभिः॑ , व॒धैः , उ॒ग्रेभिः॑ , ईय॑से अपु॑रुषऽघ्नः , अ॒प्र॒ति॒ऽइ॒त॒ , शू॒र॒ , सत्व॑ऽभिः , त्रि॒ऽस॒प्तैः , शू॒र॒ , सत्व॑ऽभिः ॥
व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी॑णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो॑ दे॒वाना॒मव॒ द्विषः॑ । सु॒न्वा॒न इत्सि॑षासति स॒हस्रा॑ वा॒ज्यवृ॑तः । सु॒न्वा॒नायेंद्रो॑ ददात्या॒भुवं॑ र॒यिं द॑दात्या॒भुवं॑ ॥
व॒नोति॑ , हि , सु॒न्वन् , क्षयं॑ , परी॑णसः , सु॒न्वा॒नः , हि , स्म॒ , यज॑ति , अव॑ , द्विषः॑ , दे॒वानां॑ , अव॑ , द्विषः॑ । सु॒न्वा॒नः , इत् , सि॒सा॒स॒ति॒ , स॒हस्रा॑ , वा॒जी , अवृ॑तः सु॒न्वा॒नाय॑ , इंद्रः॑ , द॒दा॒ति॒ , आ॒ऽभुवं॑ , र॒यिं , द॒दा॒ति॒ , आ॒ऽभुवं॑ ॥
[१३४] आत्वाजुवइति षडृचस्य सूक्तस्य दैवोदासिः परुच्छेपोवायुरत्यष्टिरंत्याष्टिः |
आ त्वा॒ जुवो॑ रारहा॒णा अ॒भि प्रयो॒ वायो॒ वहं॑त्वि॒ह पू॒र्वपी॑तये॒ सोम॑स्य पू॒र्वपी॑तये । ऊ॒र्ध्वा ते॒ अनु॑ सू॒नृता॒ मन॑स्तिष्ठतु जान॒ती । नि॒युत्व॑ता॒ रथे॒ना या॑हि दा॒वने॒ वायो॑ म॒खस्य॑ दा॒वने॑ ॥
आ , त्वा॒ , जुवः॑ , र॒र॒हा॒णाः , अ॒भि , प्रयः॑ , वायो॒ इति॑ , वहं॑तु , इ॒ह , पू॒र्वऽपी॑तये , सोम॑स्य , पू॒र्वऽपी॑तये । ऊ॒र्ध्वा , ते॒ , अनु॑ , सू॒नृता॑ , मनः॑ , ति॒ष्ठ॒तु॒ , जा॒न॒ती नि॒युत्व॑ता , रथे॑न , आ , या॒हि॒ , दा॒वने॑ , वायो॒ इति॑ , म॒खस्य॑ , दा॒वने॑ ॥
मंदं॑तु त्वा मं॒दिनो॑ वाय॒विंद॑वो॒ऽस्मत्क्रा॒णासः॒ सुकृ॑ता अ॒भिद्य॑वो॒ गोभिः॑ क्रा॒णा अ॒भिद्य॑वः । यद्ध॑ क्रा॒णा इ॒रध्यै॒ दक्षं॒ सचं॑त ऊ॒तयः॑ । स॒ध्री॒ची॒ना नि॒युतो॑ दा॒वने॒ धिय॒ उप॑ ब्रुवत ईं॒ धियः॑ ॥
मंदं॑तु , त्वा॒ , मं॒दिनः॑ , वायो॒ इति॑ , इंद॑वः , अ॒स्मत् , क्रा॒णासः॑ , सुऽकृ॑ताः , अ॒भिऽद्य॑वः , गोऽभिः॑ , क्रा॒णाः , अ॒भिऽद्य॑वः । यत् , ह॒ , क्रा॒णाः , इ॒रध्यै॑ , दक्षं॑ , सचं॑ते , ऊ॒तयः॑ स॒ध्री॒ची॒नाः , नि॒ऽयुतः॑ , दा॒वने॑ , धियः॑ , उप॑ , ब्रु॒व॒ते॒ , ईं॒ , धियः॑ ॥
वा॒युर्युं॑क्ते॒ रोहि॑ता वा॒युर॑रु॒णा वा॒यू रथे॑ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे । प्र बो॑धया॒ पुरं॑धिं जा॒र आ स॑स॒तीमि॑व । प्र च॑क्षय॒ रोद॑सी वासयो॒षसः॒ श्रव॑से वासयो॒षसः॑ ॥
वा॒युः , युं॒क्ते॒ , रोहि॑ता , वा॒युः , अ॒रु॒णा , वा॒युः , रथे॑ , अ॒जि॒रा , धु॒रि , वोळ्ह॑वे , वहि॑ष्ठा , धु॒रि , वोळ्ह॑वे । प्र , बो॒ध॒य॒ , पुरं॑ऽधिं , जा॒रः , आ , स॒स॒तींऽइ॑व प्र , च॒क्ष॒य॒ , रोद॑सी॒ इति॑ , वा॒स॒य॒ , उ॒षसः॑ , श्रव॑से , वा॒स॒य॒ , उ॒षसः॑ ॥
तुभ्य॑मु॒षासः॒ शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा॑ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये॑षु र॒श्मिषु॑ । तुभ्यं॑ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू॑नि दोहते । अज॑नयो म॒रुतो॑ व॒क्षणा॑भ्यो दि॒व आ व॒क्षणा॑भ्यः ॥
तुभ्यं॑ , उ॒षसः॑ , शुच॑यः , प॒रा॒ऽवति॑ , भ॒द्रा , वस्त्रा॑ , त॒न्व॒ते॒ , दंऽसु॑ , र॒श्मिषु॑ , चि॒त्रा , नव्ये॑षु , र॒श्मिषु॑ । तुभ्यं॑ , धे॒नुः , स॒बः॒ऽदुघा॑ , विश्वा॑ , वसू॑नि , दो॒ह॒ते॒ अज॑नयः , म॒रुतः॑ , व॒क्षणा॑भ्यः , दि॒वः , आ , व॒क्षणा॑भ्यः ॥
तुभ्यं॑ शु॒क्रासः॒ शुच॑यस्तुर॒ण्यवो॒ मदे॑षू॒ग्रा इ॑षणंत भु॒र्वण्य॒पामि॑षंत भु॒र्वणि॑ । त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये॑ । त्वं विश्व॑स्मा॒द्भुव॑नात्पासि॒ धर्म॑णासु॒र्या॑त्पासि॒ धर्म॑णा ॥
तुभ्यं॑ , शु॒क्रास॑ , शुच॑यः , तु॒र॒ण्यवः॑ , मदे॑षु , उ॒ग्राः , इ॒ष॒णं॒त॒ , भु॒र्वणि॑ , अ॒पां , इ॒षं॒त॒ , भु॒र्वणि॑ । त्वां , त्सा॒री , दस॑मानः , भगं॑ , ई॒ट्टे॒ , त॒क्व॒ऽवीये॑ त्वं , विश्व॑स्मात् , भुव॑नात् , पा॒सि॒ , धर्म॑णा , अ॒सु॒र्या॑त् , पा॒सि॒ , धर्म॑णा ॥
त्वं नो॑ वायवेषा॒मपू॑र्व्यः॒ सोमा॑नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां॑ पी॒तिम॑र्हसि । उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी॑णां । विश्वा॒ इत्ते॑ धे॒नवो॑ दुह्र आ॒शिरं॑ घृ॒तं दु॑ह्रत आ॒शिरं॑ ॥
त्वं , नः॒ , वा॒यो॒ इति॑ , ए॒षां॒ , अपू॑र्व्यः , सोमा॑नां , प्र॒थ॒मः , पी॒तिं , अ॒र्ह॒सि॒ , सु॒तानां॑ , पी॒तिं , अ॒र्ह॒सि॒ । उ॒तो इति॑ , वि॒हुत्म॑तीनां , वि॒शां , व॒व॒र्जुषी॑णां विश्वाः॑ , इत् , ते॒ , धे॒नवः॑ , दु॒ह्रे॒ , आ॒ऽशिरं॑ , घृ॒तं , दु॒ह्र॒ते॒ , आ॒ऽशिरं॑ ॥
[१३५] स्तीर्णंबर्हिरिति नवर्चस्य सूक्तस्य दैवोदासिः परुच्छेपोवायुश्चतुर्थ्यादिपंचानामिंद्रोवाअत्यष्टिः सप्तम्यष्टम्यावष्टी |
स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये॑ स॒हस्रे॑ण नि॒युता॑ नियुत्वते श॒तिनी॑भिर्नियुत्वते । तुभ्यं॒ हि पू॒र्वपी॑तये दे॒वा दे॒वाय॑ येमि॒रे । प्र ते॑ सु॒तासो॒ मधु॑मंतो अस्थिर॒न्मदा॑य॒ क्रत्वे॑ अस्थिरन् ॥
स्ती॒र्णं , ब॒र्हिः , उप॑ , नः॒ , या॒हि॒ , वी॒तये॑ , स॒हस्रे॑ण , नि॒ऽयुता॑ , नि॒यु॒त्व॒ते॒ , श॒तिनी॑भिः , नि॒यु॒त्व॒ते॒ । तुभ्यं॑ , हि , पू॒र्वऽपी॑तये , दे॒वाः , दे॒वाय॑ , ये॒मि॒रे प्र , ते॒ , सु॒तासः॑ , मधु॑ऽमंतः , अ॒स्थि॒र॒न् , मदा॑य , क्रत्वे॑ , अ॒स्थि॒र॒न् ॥
तुभ्या॒यं सोमः॒ परि॑पूतो॒ अद्रि॑भिः स्पा॒र्हा वसा॑नः॒ परि॒ कोश॑मर्षति शु॒क्रा वसा॑नो अर्षति । तवा॒यं भा॒ग आ॒युषु॒ सोमो॑ दे॒वेषु॑ हूयते । वह॑ वायो नि॒युतो॑ याह्यस्म॒युर्जु॑षा॒णो या॑ह्यस्म॒युः ॥
तुभ्य॑ , अ॒यं , सोमः॑ , परि॑ऽपूतः , अद्रि॑ऽभिः , स्पा॒र्हा , वसा॑नः , परि॑ , कोशं॑ , अ॒र्ष॒ति॒ , शु॒क्रा , वसा॑नः , अ॒र्ष॒ति॒ । तव॑ , अ॒यं , भा॒गः , आ॒युषु॑ , सोमः॑ , दे॒वेषु॑ , हू॒य॒ते॒ वह॑ , वा॒यो॒ इति॑ , नि॒ऽयुतः॑ , या॒हि॒ , अ॒स्म॒ऽयुः , जु॒षा॒णः , या॒हि॒ , अ॒स्म॒ऽयुः ॥
आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ । तवा॒यं भा॒ग ऋ॒त्वियः॒ सर॑श्मिः॒ सूर्ये॒ सचा॑ । अ॒ध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत ॥
आ , नः॒ , नि॒युत्ऽभिः॑ , श॒तिनी॑भिः , अ॒ध्व॒रं , स॒ह॒स्रिणी॑भिः , उप॑ , या॒हि॒ , वी॒तये॑ , वायो॒ इति॑ , ह॒व्यानि॑ , वी॒तये॑ । तव॑ , अ॒यं , भा॒गः , ऋ॒त्वियः॑ , सऽर॑श्मिः , सूर्ये॑ , सचा॑ अ॒ध्व॒र्युऽभिः॑ , भर॑माणाः , अ॒यं॒स॒त॒ , वायो॒ इति॑ , शु॒क्राः , अ॒यं॒स॒त॒ ॥
आ वां॒ रथो॑ नि॒युत्वा॑न्वक्ष॒दव॑से॒ऽभि प्रयां॑सि॒ सुधि॑तानि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ । पिब॑तं॒ मध्वो॒ अंध॑सः पूर्व॒पेयं॒ हि वां॑ हि॒तं । वाय॒वा चं॒द्रेण॒ राध॒सा ग॑त॒मिंद्र॑श्च॒ राध॒सा ग॑तं ॥
आ , वां॒ , रथः॑ , नि॒युत्वा॑न् , व॒क्ष॒त् , अव॑से , अ॒भि , प्रयां॑सि , सुऽधि॑तानि , वी॒तये॑ , वायो॒ इति॑ , ह॒व्यानि॑ , वी॒तये॑ । पिब॑तं , मध्वः॑ , अंध॑सः , पू॒र्व॒ऽपेयं॑ , हि , वां॒ , हि॒तं वायो॒ इति॑ , आ , चं॒द्रेण॑ , राध॑सा , आ , ग॒तं॒ , इंद्रः॑ , च॒ , राध॑सा , आ , ग॒तं॒ ॥
आ वां॒ धियो॑ ववृत्युरध्व॒राँ उपे॒ममिंदुं॑ मर्मृजंत वा॒जिन॑मा॒शुमत्यं॒ न वा॒जिनं॑ । तेषां॑ पिबतमस्म॒यू आ नो॑ गंतमि॒होत्या । इंद्र॑वायू सु॒ताना॒मद्रि॑भिर्यु॒वं मदा॑य वाजदा यु॒वं ॥
आ , वां॒ , धियः॑ , व॒वृ॒त्युः॒ , अ॒ध्व॒रान् , उप॑ , इ॒मं , इंदुं॑ , म॒र्मृ॒जं॒त॒ , वा॒जिनं॑ , आ॒शुं , अत्यं॑ , न , वा॒जिनं॑ । तेषां॑ , पि॒ब॒तं॒ , अ॒स्म॒यू इत्य॑स्म॒ऽयू , आ , नः॒ , गं॒तं॒ , इ॒ह , ऊ॒त्या इंद्र॑वायू॒ इति॑ , सु॒तानां॑ , अद्रि॑ऽभिः , यु॒वं , मदा॑य , वा॒ज॒ऽदा॒ , यु॒वं ॥
इ॒मे वां॒ सोमा॑ अ॒प्स्वा सु॒ता इ॒हाध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत । ए॒ते वा॑म॒भ्य॑सृक्षत ति॒रः प॒वित्र॑मा॒शवः॑ । यु॒वा॒यवोऽति॒ रोमा॑ण्य॒व्यया॒ सोमा॑सो॒ अत्य॒व्यया॑ ॥
इ॒मे , वां॒ , सोमाः॑ , अ॒प्ऽसु , आ , सु॒ताः , इ॒ह , अ॒ध्व॒र्युऽभिः॑ , भर॑माणाः , अ॒यं॒स॒त॒ , वायो॒ इति॑ , शु॒क्राः , अ॒यं॒स॒त॒ । ए॒ते , वां॒ , अ॒भि , अ॒सृ॒क्ष॒त॒ , ति॒रः , प॒वित्रं॑ , आ॒शवः॑ यु॒वा॒ऽयवः॑ , अति॑ , रोमा॑णि , अ॒व्यया॑ , सोमा॑सः , अति॑ , अ॒व्यया॑ ॥
अति॑ वायो सस॒तो या॑हि॒ शश्व॑तो॒ यत्र॒ ग्रावा॒ वद॑ति॒ तत्र॑ गच्छतं गृ॒हमिंद्र॑श्च गच्छतं । वि सू॒नृता॒ ददृ॑शे॒ रीय॑ते घृ॒तमा पू॒र्णया॑ नि॒युता॑ याथो अध्व॒रमिंद्र॑श्च याथो अध्व॒रं ॥
अति॑ , वा॒यो॒ इति॑ , स॒स॒तः , या॒हि॒ , शश्व॑तः , यत्र॑ , ग्रावा॑ , वद॑ति , तत्र॑ , ग॒च्छ॒तं॒ , गृ॒हं , इंद्रः॑ , च॒ , ग॒च्छ॒तं॒ । वि , सू॒नृता॑ , ददृ॑शे , रीय॑ते , घृ॒तं , आ , पू॒र्णया॑ , नि॒ऽयुता॑ , या॒थः॒ , अ॒ध्व॒रं , इंद्रः॑ , च॒ , या॒थः॒ , अ॒ध्व॒रं ॥
अत्राह॒ तद्व॑हेथे॒ मध्व॒ आहु॑तिं॒ यम॑श्व॒त्थमु॑प॒तिष्ठं॑त जा॒यवो॒ऽस्मे ते सं॑तु जा॒यवः॑ । सा॒कं गावः॒ सुव॑ते॒ पच्य॑ते॒ यवो॒ न ते॑ वाय॒ उप॑ दस्यंति धे॒नवो॒ नाप॑ दस्यंति धे॒नवः॑ ॥
अत्र॑ , अह॑ , तत् , व॒हे॒थे॒ इति॑ , मध्वः॑ , आऽहु॑तिं , यं , अ॒श्व॒त्थं , उ॒प॒ऽतिष्ठं॑त , जा॒यवः॑ , अ॒स्मे इति॑ , ते , सं॒तु॒ , जा॒यवः॑ । सा॒कं , गावः॑ , सुव॑ते , पच्य॑ते , यवः॑ , न , ते॒ , वा॒यो॒ इति॑ , उप॑ , द॒स्यं॒ति॒ , धे॒नवः॑ , न , अप॑ , द॒स्यं॒ति॒ , धे॒नवः॑ ॥
इ॒मे ये ते॒ सु वा॑यो बा॒ह्वो॑जसो॒ऽन्तर्न॒दी ते॑ प॒तयं॑त्यु॒क्षणो॒ महि॒ व्राधं॑त उ॒क्षणः॑ । धन्वं॑चि॒द्ये अ॑ना॒शवो॑ जी॒राश्चि॒दगि॑रौकसः । सूर्य॑स्येव र॒श्मयो॑ दुर्नि॒यंत॑वो॒ हस्त॑योर्दुर्नि॒यंत॑वः ॥
इ॒मे , ये , ते॒ , सु , वा॒यो॒ इति॑ , बा॒हुऽओ॑जसः , अं॒तः , न॒दी इति॑ , ते॒ , प॒तयं॑ति , उ॒क्षणः॑ , महि॑ , व्राधं॑तः , उ॒क्षणः॑ । धन्व॑न् , चि॒त् , ये , अ॒ना॒शवः॑ , जी॒राः , चि॒त् , अगि॑राऽओकसः सूर्य॑स्यऽइव , र॒श्मयः॑ , दुः॒ऽनि॒यंत॑वः , हस्त॑योः , दुः॒ऽनि॒यंत॑वः ॥
[१३६] प्रसुज्येष्ठमिति सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेपोमित्रावरुणौ नमोदिवइत्यस्यारोदसी मित्रावरुणेंद्राग्न्यर्यमभगसोमा देवताः ऊतीदेवानामित्यस्यादेवमरुदग्निमित्रवरुणमघवंतोदेवता अत्यष्टिः अंत्यात्रिष्टुप् |
प्र सु ज्येष्ठं॑ निचि॒राभ्यां॑ बृ॒हन्नमो॑ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्यां॑ । ता स॒म्राजा॑ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता । अथै॑नोः क्ष॒त्रं न कुत॑श्च॒नाधृषे॑ देव॒त्वं नू चि॑दा॒धृषे॑ ॥
प्र , सु , ज्येष्ठं॑ , नि॒ऽचि॒राभ्यां॑ , बृ॒हत् , नमः॑ , ह॒व्यं , म॒तिं , भ॒र॒त॒ , मृ॒ळ॒यत्ऽभ्यां॑ , स्वादि॑ष्ठं , मृ॒ळ॒यत्ऽभ्यां॑ । ता , सं॒ऽराजा॑ , घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ॑सुती , य॒ज्ञेऽय॑ज्ञे , उप॑ऽस्तुता अथ॑ , ए॒नोः॒ , क्ष॒त्रं , न , कुतः॑ , च॒न , आ॒ऽधृषे॑ , दे॒व॒ऽत्वं , नु , चि॒त् , आ॒ऽधृषे॑ ॥
अद॑र्शि गा॒तुरु॒रवे॒ वरी॑यसी॒ पंथा॑ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभिः॑ । द्यु॒क्षं मि॒त्रस्य॒ सद॑नमर्य॒म्णो वरु॑णस्य च । अथा॑ दधाते बृ॒हदु॒क्थ्यं१॒॑ वय॑ उप॒स्तुत्यं॑ बृ॒हद्वयः॑ ॥
अद॑र्शि , गा॒तुः , उ॒रवे॑ , वरी॑यसी , पंथाः॑ , ऋ॒तस्य॑ , सं , अ॒यं॒स्त॒ , र॒श्मिऽभिः॑ , चक्षुः॑ , भग॑स्य , र॒श्मिऽभिः॑ । द्यु॒क्षं , मि॒त्रस्य॑ , साद॑नं , अ॒र्य॒म्णः , वरु॑णस्य , च॒ अथ॑ , द॒धा॒ते॒ इति॑ , बृ॒हत् , उ॒क्थ्यं॑ , वयः॑ , उ॒प॒ऽस्तुत्यं॑ , बृ॒हत् , वयः॑ ॥
ज्योति॑ष्मती॒मदि॑तिं धार॒यत्क्षि॑तिं॒ स्व॑र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा॑ दि॒वेदि॑वे । ज्योति॑ष्मत्क्ष॒त्रमा॑शाते आदि॒त्या दानु॑न॒स्पती॑ । मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या॑त॒यज्ज॑नः ॥
ज्योति॑ष्मतीं , अदि॑तिं , धा॒र॒यत्ऽक्षि॑तिं , स्वः॑ऽवतीं , आ , स॒चे॒ते॒ इति॑ , दि॒वेऽदि॑वे , जा॒गृ॒ऽवांसा॑ , दि॒वेऽदि॑वे । ज्योति॑ष्मत् , क्ष॒त्रं , आ॒शा॒ते॒ इति॑ , आ॒दि॒त्या , दानु॑नः , पती॒ इति॑ मि॒त्रः , तयोः॑ , वरु॑णः , या॒त॒यत्ऽज॑नः , अ॒र्य॒मा , या॒त॒यत्ऽज॑नः ॥
अ॒यं मि॒त्राय॒ वरु॑णाय॒ शंत॑मः॒ सोमो॑ भूत्वव॒पाने॒ष्वाभ॑गो दे॒वो दे॒वेष्वाभ॑गः । तं दे॒वासो॑ जुषेरत॒ विश्वे॑ अ॒द्य स॒जोष॑सः । तथा॑ राजाना करथो॒ यदीम॑ह॒ ऋता॑वाना॒ यदीम॑हे ॥
अ॒यं , मि॒त्राय॑ , वरु॑णाय , शंऽत॑मः , सोमः॑ , भू॒तु॒ , अ॒व॒ऽपाने॑षु , आऽभ॑गः , दे॒वः , दे॒वेषु॑ , आऽभ॑गः । तं , दे॒वासः॑ , जु॒षे॒र॒त॒ , विश्वे॑ , अ॒द्य , स॒ऽजोष॑सः तथा॑ , रा॒जा॒ना॒ , क॒र॒थः॒ , यत् , ईम॑हे , ऋत॑ऽवाना , यत् , ईम॑हे ॥
यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो॑ऽन॒र्वाणं॒ तं परि॑ पातो॒ अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः । तम॑र्य॒माभि र॑क्षत्यृजू॒यंत॒मनु॑ व्र॒तं । उ॒क्थैर्य ए॑नोः परि॒भूष॑ति व्र॒तं स्तोमै॑रा॒भूष॑ति व्र॒तं ॥
यः , मि॒त्राय॑ , वरु॑णाय , अवि॑धत् , जनः॑ , अ॒न॒र्वाणं॑ , तं , परि॑ , पा॒तः॒ , अंह॑सः , दा॒श्वांसं॑ , मर्तं॑ , अंह॑सः । तं , अ॒र्य॒मा , अ॒भि , र॒क्ष॒ति॒ , ऋ॒जु॒ऽयंतं॑ , अनु॑ , व्र॒तं उ॒क्थैः , यः , ए॒नोः॒ , प॒रि॒ऽभूष॑ति , व्र॒तं , स्तोमैः॑ , आ॒ऽभूष॑ति , व्र॒तं ॥
नमो॑ दि॒वे बृ॑ह॒ते रोद॑सीभ्यां मि॒त्राय॑ वोचं॒ वरु॑णाय मी॒ळ्हुषे॑ सुमृळी॒काय॑ मी॒ळ्हुषे॑ । इंद्र॑म॒ग्निमुप॑ स्तुहि द्यु॒क्षम॑र्य॒मणं॒ भगं॑ । ज्योग्जीवं॑तः प्र॒जया॑ सचेमहि॒ सोम॑स्यो॒ती स॑चेमहि ॥
नमः॑ , दि॒वे , बृ॒ह॒ते , रोद॑सीभ्यां , मि॒त्राय॑ , वो॒चं॒ , वरु॑णाय , मी॒ळ्हुषे॑ , सु॒ऽमृ॒ळी॒काय॑ , मी॒ळ्हुषे॑ । इंद्रं॑ , अ॒ग्निं , उप॑ , स्तु॒हि॒ , द्यु॒क्षं , अ॒र्य॒मणं॑ , भगं॑ ज्योक् , जीवं॑तः , प्र॒ऽजया॑ , स॒चे॒म॒हि॒ , सोम॑स्य , ऊ॒ती , स॒चे॒म॒हि॒ ॥
ऊ॒ती दे॒वानां॑ व॒यमिंद्र॑वंतो मंसी॒महि॒ स्वय॑शसो म॒रुद्भिः॑ । अ॒ग्निर्मि॒त्रो वरु॑णः॒ शर्म॑ यंसं॒तद॑श्याम म॒घवा॑नो व॒यं च॑ ॥
ऊ॒ती , दे॒वानां॑ , व॒यं , इंद्र॑ऽवंतः , मं॒सी॒महि॑ , स्वऽय॑शसः , म॒रुत्ऽभिः॑ । अ॒ग्निः , मि॒त्रः , वरु॑णः , शर्म॑ , यं॒स॒न् , तत् , अ॒श्या॒म॒ , म॒घऽवा॑नः , व॒यं , च॒ ॥
[१३७] सुषुमेति तृचस्य सूक्तस्य दैवोदासिःपरुच्छेपोमित्रावरुणावतिशक्वरी |
सु॒षु॒मा या॑त॒मद्रि॑भि॒र्गोश्री॑ता मत्स॒रा इ॒मे सोमा॑सो मत्स॒रा इ॒मे । आ रा॑जाना दिविस्पृशास्म॒त्रा गं॑त॒मुप॑ नः । इ॒मे वां॑ मित्रावरुणा॒ गवा॑शिरः॒ सोमाः॑ शु॒क्रा गवा॑शिरः ॥
सु॒षु॒म , आ , या॒तं॒ , अद्रि॑ऽभिः , गोऽश्री॑ताः , म॒त्स॒राः , इ॒मे , सोमा॑सः , म॒त्स॒राः , इ॒मे । आ , रा॒जा॒ना॒ , दि॒वि॒ऽस्पृ॒शा॒ , अ॒स्म॒ऽत्रा , गं॒तं॒ , उप॑ , नः॒ इ॒मे , वां॒ , मि॒त्रा॒व॒रु॒णा॒ , गोऽआ॑शिरः , सोमाः॑ , शु॒क्राः , गोऽआ॑शिरः ॥
इ॒म आ या॑त॒मिंद॑वः॒ सोमा॑सो॒ दध्या॑शिरः सु॒तासो॒ दध्या॑शिरः । उ॒त वा॑मु॒षसो॑ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभिः॑ । सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु॑र्ऋ॒ताय॑ पी॒तये॑ ॥
इ॒मे , आ , या॒तं॒ , इंद॑वः , सोमा॑सः , दधि॑ऽआशिरः , सु॒तासः॑ , दधि॑ऽआशिरः । उ॒त , वां॒ , उ॒षसः॑ , बु॒धि , सा॒कं , सूर्य॑स्य , र॒श्मिऽभिः॑ सु॒तः , मि॒त्राय॑ , वरु॑णाय , पी॒तये॑ , चारुः॑ , ऋ॒ताय॑ , पी॒तये॑ ॥
तां वां॑ धे॒नुं न वा॑स॒रीमं॒शुं दु॑हं॒त्यद्रि॑भिः॒ सोमं॑ दुहं॒त्यद्रि॑भिः । अ॒स्म॒त्रा गं॑त॒मुप॑ नो॒ऽर्वांचा॒ सोम॑पीतये । अ॒यं वां॑ मित्रावरुणा॒ नृभिः॑ सु॒तः सोम॒ आ पी॒तये॑ सु॒तः ॥
तां , वां॒ , धे॒नुं , न , वा॒स॒रीं , अं॒शुं , दु॒हं॒ति॒ , अद्रि॑ऽभिः , सोमं॑ , दु॒हं॒ति॒ , अद्रि॑ऽभिः । अ॒स्म॒ऽत्रा , गं॒तं॒ , उप॑ , नः॒ , अ॒र्वांचा॑ , सोम॑ऽपीतये अ॒यं , वां॒ , मि॒त्रा॒व॒रु॒णा॒ , नृऽभिः॑ , सु॒तः , सोमः॑ , आ , पी॒तये॑ , सु॒तः ॥
[१३८] प्रप्रपूष्णइति चतुरृचस्य सूक्तस्य दैवोदासिःपरुच्छेपःपूषात्यष्टिः |
प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न तं॑दते स्तो॒त्रम॑स्य॒ न तं॑दते । अर्चा॑मि सुम्न॒यन्न॒हमंत्यू॑तिं मयो॒भुवं॑ । विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ॑युयु॒वे म॒खः ॥
प्रऽप्र॑ , पू॒ष्णः , तु॒वि॒ऽजा॒तस्य॑ , श॒स्य॒ते॒ , म॒हि॒ऽत्वं , अ॒स्य॒ , त॒वसः॑ , न , तं॒द॒ते॒ , स्तो॒त्रं , अ॒स्य॒ , न , तं॒द॒ते॒ । अर्चा॑मि , सु॒म्न॒ऽयन् , अ॒हं , अंति॑ऽऊतिं , म॒यः॒ऽभुवं॑ विश्व॑स्य , यः , मनः॑ , आ॒ऽयु॒यु॒वे , म॒खः , दे॒वः , आ॒ऽयु॒यु॒वे , म॒खः ॥
प्र हि त्वा॑ पूषन्नजि॒रं न याम॑नि॒ स्तोमे॑भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी॑परो॒ मृधः॑ । हु॒वे यत्त्वा॑ मयो॒भुवं॑ दे॒वं स॒ख्याय॒ मर्त्यः॑ । अ॒स्माक॑मांगू॒षांद्यु॒म्निन॑स्कृधि॒ वाजे॑षु द्यु॒म्निन॑स्कृधि ॥
प्र , हि , त्वा॒ , पू॒ष॒न् , अ॒जि॒रं , न , याम॑नि , स्तोमे॑भिः , कृ॒ण्वे , ऋ॒णवः॑ , यथा॑ , मृधः॑ , उष्ट्रः॑ , न , पी॒प॒रः॒ , मृधः॑ । हु॒वे , यत् , त्वा॒ , म॒यः॒ऽभुवं॑ , दे॒वं , स॒ख्याय॑ , मर्त्यः॑ अ॒स्माकं॑ , आं॒गू॒षान् , द्यु॒म्निनः॑ , कृ॒धि॒ , वाजे॑षु , द्यु॒म्निनः॑ , कृ॒धि॒ ॥
यस्य॑ ते पूषंत्स॒ख्ये वि॑प॒न्यवः॒ क्रत्वा॑ चि॒त्संतोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा॑ बुभुज्रि॒रे । तामनु॑ त्वा॒ नवी॑यसीं नि॒युतं॑ रा॒य ई॑महे । अहे॑ळमान उरुशंस॒ सरी॑ भव॒ वाजे॑वाजे॒ सरी॑ भव ॥
यस्य॑ , ते॒ , पू॒ष॒न् , स॒ख्ये , वि॒प॒न्यवः॑ , क्रत्वा॑ , चि॒त् , संतः॑ , अव॑सा , बु॒भु॒ज्रि॒रे , इति॑ , क्रत्वा॑ , बु॒भु॒ज्रि॒रे । तां , अनु॑ , त्वा॒ , नवी॑यसीं , नि॒ऽयुतं॑ , रा॒यः , ई॒म॒हे॒ अहे॑ळमानः , उ॒रु॒ऽशं॒स॒ , सरी॑ , भ॒व॒ , वाजे॑ऽवाजे , सरी॑ , भ॒व॒ ॥
अ॒स्या ऊ॒ षु ण॒ उप॑ सा॒तये॑ भु॒वोऽहे॑ळमानो ररि॒वाँ अ॑जाश्व श्रवस्य॒ताम॑जाश्व । ओ षु त्वा॑ ववृतीमहि॒ स्तोमे॑भिर्दस्म सा॒धुभिः॑ । न॒हि त्वा॑ पूषन्नति॒मन्य॑ आघृणे॒ न ते॑ स॒ख्यम॑पह्नु॒वे ॥
अ॒स्याः , ऊँ॒ इति॑ , सु , नः॒ , उप॑ , सा॒तये॑ , भु॒वः॒ , अहे॑ळमानः , र॒रि॒ऽवान् , अ॒ज॒ऽअ॒श्व॒ , श्र॒व॒स्य॒तां , अ॒ज॒ऽअ॒श्व॒ । ओ इति॑ , सु , त्वा॒ , व॒वृ॒ती॒म॒हि॒ , स्तोमे॑भिः , द॒स्म॒ , सा॒धुऽभिः॑ न॒हि , त्वा॒ , पू॒ष॒न् , अ॒ति॒ऽमन्ये॑ , आ॒घृ॒णे॒ , न , ते॒ , स॒ख्यं , अ॒प॒ऽह्नु॒वे ॥
[१३९] अस्तुश्रौषडित्येकादशर्चस्य सूक्तस्य दैवोदासिःपरुच्छेप आद्यायाविश्वेदेवाः द्वितीयायामित्रावरुणौ तृतीयादितिसृणामाश्विनौ षष्ठ्याइंद्रः सप्तम्याअग्निरष्टम्यामरुतो नवम्याइंद्राग्नी दशम्याबृहस्पतिरंत्यायाविश्वेदेवाअत्यष्टिः पंचमीबृहत्यंत्यात्रिष्टुप् | ( वैश्वदेवमेतत्सूक्तं | अत्रप्रत्येकं देवताविभागस्त्वाकरएवपठितः | अनयैवदिशासर्वत्रापिवैश्वदेवसूक्ते देवताविभागः कर्तव्यइतिहितदनुज्ञा | यथाह - एवमन्यासामपिसूक्तप्रयोगेवैश्वदेवत्वं सूक्तभेदप्रयोगेतुयल्लिंगंसादेवतेति) |
अस्तु॒ श्रौष॑ट् पु॒रो अ॒ग्निं धि॒या द॑ध॒ आ नु तच्छर्धो॑ दि॒व्यं वृ॑णीमह इंद्रवा॒यू वृ॑णीमहे । यद्ध॑ क्रा॒णा वि॒वस्व॑ति॒ नाभा॑ सं॒दायि॒ नव्य॑सी । अध॒ प्र सू न॒ उप॑ यंतु धी॒तयो॑ दे॒वाँ अच्छा॒ न धी॒तयः॑ ॥
अस्तु॑ , श्रौष॑ट् , पु॒रः , अ॒ग्निं , धि॒या , द॒धे॒ , आ , नु , तत् , शर्धः॑ , दि॒व्यं , वृ॒णी॒म॒हे॒ , इं॒द्र॒वा॒यू इति॑ , वृ॒णी॒म॒हे॒ । यत् , ह॒ , क्रा॒णा , वि॒वस्व॑ति , नाभा॑ , सं॒ऽदायि॑ , नव्य॑सी अध॑ , प्र , सु , नः॒ , उप॑ , यं॒तु॒ , धी॒तयः॑ , दे॒वान् , अच्छ॑ , न , धी॒तयः॑ ॥
यद्ध॒ त्यन्मि॑त्रावरुणावृ॒तादध्या॑द॒दाथे॒ अनृ॑तं॒ स्वेन॑ म॒न्युना॒ दक्ष॑स्य॒ स्वेन॑ म॒न्युना॑ । यु॒वोरि॒त्थाधि॒ सद्म॒स्वप॑श्याम हिर॒ण्ययं॑ । धी॒भिश्च॒न मन॑सा॒ स्वेभि॑र॒क्षभिः॒ सोम॑स्य॒ स्वेभि॑र॒क्षभिः॑ ॥
यत् , ह॒ , त्यत् , मि॒त्रा॒व॒रु॒णौ॒ , ऋ॒तात् , अधि॑ , आ॒द॒दाथे॒ इत्या॑ऽद॒दाथे॑ , अनृ॑तं , स्वेन॑ , म॒न्युना॑ , दक्ष॑स्य , स्वेन॑ , म॒न्युना॑ । यु॒वोः , इ॒त्था , अधि॑ , सद्म॑ऽसु , अप॑श्याम , हि॒र॒ण्ययं॑ धी॒भिः , च॒न , मन॑सा , स्वेभिः॑ , अ॒क्षऽभिः॑ , सोम॑स्य , स्वेभिः॑ , अ॒क्षऽभिः॑ ॥
यु॒वां स्तोमे॑भिर्देव॒यंतो॑ अश्विनाश्रा॒वयं॑त इव॒ श्लोक॑मा॒यवो॑ यु॒वां ह॒व्याभ्या॒३॒॑यवः॑ । यु॒वोर्विश्वा॒ अधि॒ श्रियः॒ पृक्ष॑श्च विश्ववेदसा । प्रु॒षा॒यंते॑ वां प॒वयो॑ हिर॒ण्यये॒ रथे॑ दस्रा हिर॒ण्यये॑ ॥
यु॒वां , स्तोमे॑भिः , दे॒व॒ऽयंतः॑ , अ॒श्वि॒ना॒ , आ॒श्र॒वयं॑तःऽइव , श्लोकं॑ , आ॒यवः॑ , यु॒वां , ह॒व्या , अ॒भि , आ॒यवः॑ । यु॒वोः , विश्वाः॑ , अधि॑ , श्रियः॑ , पृक्षः॑ , च॒ , वि॒श्व॒ऽवे॒द॒सा॒ प्रु॒षा॒यंते॑ , वां॒ , प॒वयः॑ , हि॒र॒ण्यये॑ , रथे॑ , द॒स्रा॒ , हि॒र॒ण्यये॑ ॥
अचे॑ति दस्रा॒ व्यु१॒॑ नाक॑मृण्वथो युं॒जते॑ वां रथ॒युजो॒ दिवि॑ष्टिष्वध्व॒स्मानो॒ दिवि॑ष्टिषु । अधि॑ वां॒ स्थाम॑ वं॒धुरे॒ रथे॑ दस्रा हिर॒ण्यये॑ । प॒थेव॒ यंता॑वनु॒शास॑ता॒ रजोऽञ्ज॑सा॒ शास॑ता॒ रजः॑ ॥
अचे॑ति , द॒स्रा॒ , वि , ऊँ॒ इति॑ , नाकं॑ , ऋ॒ण्व॒थः॒ , युं॒जते॑ , वां॒ , र॒थ॒ऽयुजः॑ , दिवि॑ष्टिशु , अ॒ध्व॒स्मानः॑ , दिवि॑ष्टिषु । अधि॑ , वां॒ , स्थाम॑ , वं॒धुरे॑ , रथे॑ , द॒स्रा॒ , हि॒र॒ण्यये॑ प॒थाऽइ॑व , यंतौ॑ , अ॒नु॒ऽशास॑ता , रजः॑ , अंज॑सा , शास॑ता , रजः॑ ॥
शची॑भिर्नः शचीवसू॒ दिवा॒ नक्तं॑ दशस्यतं । मा वां॑ रा॒तिरुप॑ दस॒त्कदा॑ च॒नास्मद्रा॒तिः कदा॑ च॒न ॥
शची॑भिः , नः॒ , श॒ची॒व॒सू॒ इति॑ शचीऽवसू , दिवा॑ , नक्तं॑ , द॒श॒स्य॒तं॒ । मा , वां॒ , रा॒तिः , उप॑ , द॒स॒त् , कदा॑ , च॒न , अ॒स्मत् , रा॒तिः , कदा॑ , च॒न ॥
वृष॑न्निंद्र वृष॒पाणा॑स॒ इंद॑व इ॒मे सु॒ता अद्रि॑षुतास उ॒द्भिद॒स्तुभ्यं॑ सु॒तास॑ उ॒द्भिदः॑ । ते त्वा॑ मंदंतु दा॒वने॑ म॒हे चि॒त्राय॒ राध॑से । गी॒र्भिर्गि॑र्वाहः॒ स्तव॑मान॒ आ ग॑हि सुमृळी॒को न॒ आ ग॑हि ॥
वृष॑न् , इं॒द्र॒ , वृ॒ष॒ऽपाना॑सः , इंद॑वः , इ॒मे , सु॒ताः , अद्रि॑ऽसुतासः , उ॒त्ऽभिदः॑ , तुभ्यं॑ , सु॒तासः॑ , उ॒त्ऽभिदः॑ । ते , त्वा॒ , मं॒दं॒तु॒ , दा॒वने॑ , म॒हे , चि॒त्राय॑ , राध॑से गीः॒ऽभिः , गि॒र्वा॒हः॒ , स्तव॑मानः , आ , ग॒हि॒ , सु॒ऽमृ॒ळी॒कः , नः॒ , आ , ग॒हि॒ ॥
ओ षू णो॑ अग्ने शृणुहि॒ त्वमी॑ळि॒तो दे॒वेभ्यो॑ ब्रवसि य॒ज्ञिये॑भ्यो॒ राज॑भ्यो य॒ज्ञिये॑भ्यः । यद्ध॒ त्यामंगि॑रोभ्यो धे॒नुं दे॑वा॒ अद॑त्तन । वि तां दु॑ह्रे अर्य॒मा क॒र्तरी॒ सचाँ॑ ए॒ष तां वे॑द मे॒ सचा॑ ॥
ओ इति॑ , सु , नः॒ , अ॒ग्ने॒ , शृ॒णु॒हि॒ , त्वं , ई॒ळि॒तः , दे॒वेभ्यः॑ , ब्र॒व॒सि॒ , य॒ज्ञिये॑भ्यः , राज॑ऽभ्यः , य॒ज्ञिये॑भ्यः । यत् , ह॒ , त्यां , अंगि॑रःऽभ्यः , धे॒नुं , दे॒वाः॒ , अद॑त्तन वि , तां , दु॒ह्रे॒ , अ॒र्य॒मा , क॒र्तरि॑ , सचा॑ , ए॒षः , तां , वे॒द॒ , मे॒ , सचा॑ ॥
मो षु वो॑ अ॒स्मद॒भि तानि॒ पौंस्या॒ सना॑ भूवंद्यु॒म्नानि॒ मोत जा॑रिषुर॒स्मत्पु॒रोत जा॑रिषुः । यद्व॑श्चि॒त्रं यु॒गेयु॑गे॒ नव्यं॒ घोषा॒दम॑र्त्यं । अ॒स्मासु॒ तन्म॑रुतो॒ यच्च॑ दु॒ष्टरं॑ दिधृ॒ता यच्च॑ दु॒ष्टरं॑ ॥
मो इति॑ , सु , वः॒ , अ॒स्मत् , अ॒भि , तानि॑ , पौंस्या॑ , सना॑ , भू॒व॒न् , द्यु॒म्नानि॑ , मा , उ॒त , जा॒रि॒षुः॒ , अ॒स्मत् , पु॒रा , उ॒त , जा॒रि॒षुः॒ । यत् , वः॒ , चि॒त्रं , यु॒गेऽयु॑गे , नव्यं॑ , घोषा॑त् , अम॑र्त्यं अ॒स्मासु॑ , तत् , म॒रु॒तः॒ , यत् , च॒ , दु॒स्तरं॑ , दि॒धृ॒त , यत् , च॒ , दु॒स्तरं॑ ॥
द॒ध्यङ्ह॑ मे ज॒नुषं॒ पूर्वो॒ अंगि॑राः प्रि॒यमे॑धः॒ कण्वो॒ अत्रि॒र्मनु॑र्विदु॒स्ते मे॒ पूर्वे॒ मनु॑र्विदुः । तेषां॑ दे॒वेष्वाय॑तिर॒स्माकं॒ तेषु॒ नाभ॑यः । तेषां॑ प॒देन॒ मह्या न॑मे गि॒रेंद्रा॒ग्नी आ न॑मे गि॒रा ॥
द॒ध्यङ् , ह॒ , मे॒ , ज॒नुषं॑ , पूर्वः॑ , अंगि॑राः , प्रि॒यऽमे॑धः , कण्वः॑ , अत्रिः॑ , मनुः॑ , वि॒दुः॒ , ते , मे॒ , पूर्वे॑ , मनुः॑ , वि॒दुः॒ । तेषां॑ , दे॒वेषु॑ , आऽय॑तिः , अ॒स्माकं॑ , तेषु॑ , नाभ॑यः तेषां॑ , प॒देन॑ , महि॑ , आ , न॒मे॒ , गि॒रा , इं॒द्रा॒ग्नी इति॑ , आ , न॒मे॒ , गि॒रा ॥
होता॑ यक्षद्व॒निनो॑ वंत॒ वार्यं॒ बृह॒स्पति॑र्यजति वे॒न उ॒क्षभिः॑ पुरु॒वारे॑भिरु॒क्षभिः॑ । ज॒गृ॒भ्मा दू॒रआ॑दिशं॒ श्लोक॒मद्रे॒रध॒ त्मना॑ । अधा॑रयदर॒रिंदा॑नि सु॒क्रतुः॑ पु॒रू सद्मा॑नि सु॒क्रतुः॑ ॥
होता॑ , य॒क्ष॒त् , व॒निनः॑ , वं॒त॒ , वार्यं॑ , बृह॒स्पतिः॑ , य॒ज॒ति॒ , वे॒नः , उ॒क्षऽभिः॑ , पु॒रु॒ऽवारे॑भिः , उ॒क्षऽभिः॑ । ज॒गृ॒भ्म , दू॒रेऽआ॑दिशं , श्लोकं॑ , अद्रेः॑ , अध॑ , त्मना॑ अधा॑रयत् , अ॒र॒रिंदा॑नि , सु॒ऽक्रतुः॑ , पु॒रु , सद्मा॑नि , सु॒ऽक्रतुः॑ ॥
ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ । अ॒प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वं ॥
ये , दे॒वा॒सः॒ , दि॒वि , एका॑दश , स्थ , पृ॒थि॒व्यां , अधि॑ , एका॑दश , स्थ । अ॒प्सु॒ऽक्षितः॑ , म॒हि॒ना , एका॑दश , स्थ , ते , दे॒वा॒सः॒ , य॒ज्ञं , इ॒मं , जु॒ष॒ध्वं॒ ॥
[१४०] वेदिषदइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगती अंत्येद्वेत्रिष्टुभौदशमीत्रिष्टुब्वा |
वे॒दि॒षदे॑ प्रि॒यधा॑माय सु॒द्युते॑ धा॒सिमि॑व॒ प्र भ॑रा॒ योनि॑म॒ग्नये॑ । वस्त्रे॑णेव वासया॒ मन्म॑ना॒ शुचिं॑ ज्यो॒तीर॑थं शु॒क्रव॑र्णं तमो॒हनं॑ ॥
वे॒दि॒ऽसदे॑ , प्रि॒यऽधा॑माय , सु॒ऽद्युते॑ , धा॒सिंऽइ॑व , प्र , भ॒र॒ , योनिं॑ , अ॒ग्नये॑ । वस्त्रे॑णऽइव , वा॒स॒य॒ , मन्म॑ना , शुचिं॑ , ज्यो॒तिःऽर॑थं , शु॒क्रऽव॑र्णं , त॒मः॒ऽहनं॑ ॥
अ॒भि द्वि॒जन्मा॑ त्रि॒वृदन्न॑मृज्यते संवत्स॒रे वा॑वृधे ज॒ग्धमी॒ पुनः॑ । अ॒न्यस्या॒सा जि॒ह्वया॒ जेन्यो॒ वृषा॒ न्य१॒॑न्येन॑ व॒निनो॑ मृष्ट वार॒णः ॥
अ॒भि , द्वि॒ऽजन्मा॑ , त्रि॒ऽवृत् , अन्नं॑ , ऋ॒ज्य॒ते॒ , सं॒व॒त्स॒रे , व॒वृ॒धे॒ , ज॒ग्धं , ई॒मिति॑ , पुन॒रिति॑ । अ॒न्यस्य॑ , आ॒सा , जि॒ह्वया॑ , जेन्यः॑ , वृषा॑ , नि , अ॒न्येन॑ , व॒निनः॑ , मृ॒ष्ट॒ , वा॒र॒णः ॥
कृ॒ष्ण॒प्रुतौ॑ वेवि॒जे अ॑स्य स॒क्षिता॑ उ॒भा त॑रेते अ॒भि मा॒तरा॒ शिशुं॑ । प्रा॒चाजि॑ह्वं ध्व॒सयं॑तं तृषु॒च्युत॒मा साच्यं॒ कुप॑यं॒ वर्ध॑नं पि॒तुः ॥
कृ॒ष्ण॒ऽप्रुतौ॑ , वे॒वि॒जे इति॑ , अ॒स्य॒ , स॒ऽक्षितौ॑ , उ॒भा , त॒रे॒ते॒ इति॑ , अ॒भि , मा॒तरा॑ , शिशुं॑ । प्रा॒चाऽजि॑ह्वं , ध्व॒सयं॑तं , तृ॒षु॒ऽच्युतं॑ , आ , साच्यं॑ , कुप॑यं , वर्ध॑नं , पि॒तुः ॥
मु॒मु॒क्ष्वो॒३॒॑ मन॑वे मानवस्य॒ते र॑घु॒द्रुवः॑ कृ॒ष्णसी॑तास ऊ॒ जुवः॑ । अ॒स॒म॒ना अ॑जि॒रासो॑ रघु॒ष्यदो॒ वात॑जूता॒ उप॑ युज्यंत आ॒शवः॑ ॥
मु॒मु॒क्ष्वः॑ , मन॑वे , मा॒न॒व॒स्य॒ते , र॒घु॒ऽद्रुवः॑ , कृ॒ष्णऽसी॑तासः , ऊँ॒ इति॑ , जुवः॑ । अ॒स॒म॒नाः , अ॒जि॒रासः॑ , र॒घु॒ऽस्यदः॑ , वात॑ऽजूताः , उप॑ , यु॒ज्यं॒ते॒ , आ॒शवः॑ ॥
आद॑स्य॒ ते ध्व॒सयं॑तो॒ वृथे॑रते कृ॒ष्णमभ्वं॒ महि॒ वर्पः॒ करि॑क्रतः । यत्सीं॑ म॒हीम॒वनिं॒ प्राभि मर्मृ॑शदभिश्व॒संत्स्त॒नय॒न्नेति॒ नान॑दत् ॥
आत् , अ॒स्य॒ , ते , ध्व॒सयं॑तः , वृथा॑ , ई॒र॒ते॒ , कृ॒ष्णं , अभ्वं॑ , महि॑ , वर्पः॑ , करि॑क्रतः । यत् , सीं॒ , म॒हीं , अ॒वनिं॑ , प्र , अ॒भि , मर्मृ॑शत् , अ॒भि॒ऽश्व॒सन् , स्त॒नय॑न् , एति॑ , नान॑दत् ॥
भूष॒न्न योऽधि॑ ब॒भ्रूषु॒ नम्न॑ते॒ वृषे॑व॒ पत्नी॑र॒भ्ये॑ति॒ रोरु॑वत् । ओ॒जा॒यमा॑नस्त॒न्व॑श्च शुंभते भी॒मो न शृंगा॑ दविधाव दु॒र्गृभिः॑ ॥
भूष॑न् , न , यः , अधि॑ , ब॒भ्रूषु॑ , नम्न॑ते , वृषा॑ऽइव , पत्नीः॑ , अ॒भि , ए॒ति॒ , रोरु॑वत् । ओ॒जा॒यमा॑नः , त॒न्वः॑ , च॒ , शुं॒भ॒ते॒ , भी॒मः , न , शृंगा॑ , द॒वि॒धा॒व॒ , दुः॒ऽगृभिः॑ ॥
स सं॒स्तिरो॑ वि॒ष्टिरः॒ सं गृ॑भायति जा॒नन्ने॒व जा॑न॒तीर्नित्य॒ आ श॑ये । पुन॑र्वर्धंते॒ अपि॑ यंति दे॒व्य॑म॒न्यद्वर्पः॑ पि॒त्रोः कृ॑ण्वते॒ सचा॑ ॥
सः , सं॒ऽस्तिरः॑ , वि॒ऽस्तिरः॑ , सं , गृ॒भा॒य॒ति॒ , जा॒नन् , ए॒व , जा॒न॒तीः , नित्यः॑ , आ , श॒ये॒ । पुनः॑ , व॒र्धं॒ते॒ , अपि॑ , यं॒ति॒ , दे॒व्यं॑ , अ॒न्यत् , वर्पः॑ , पि॒त्रोः , कृ॒ण्व॒ते॒ , सचा॑ ॥
तम॒ग्रुवः॑ के॒शिनीः॒ सं हि रे॑भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषीः॒ प्रायवे॒ पुनः॑ । तासां॑ ज॒रां प्र॑मुं॒चन्ने॑ति॒ नान॑द॒दसुं॒ परं॑ ज॒नयं॑जी॒वमस्तृ॑तं ॥
तं , अ॒ग्रुवः॑ , के॒शिनीः॑ , सं , हि , रे॒भि॒रे , ऊ॒र्ध्वाः , त॒स्थुः॒ , म॒म्रुषीः॑ , प्र , आ॒यवे॑ , पुन॒रिति॑ । तासां॑ , ज॒रां , प्र॒ऽमुं॒चन् , ए॒ति॒ , नान॑दत् , असुं॑ , परं॑ , ज॒नय॑न् , जी॒वं , अस्तृ॑तं ॥
अ॒धी॒वा॒सं परि॑ मा॒तू रि॒हन्नह॑ तुवि॒ग्रेभिः॒ सत्व॑भिर्याति॒ वि ज्रयः॑ । वयो॒ दध॑त्प॒द्वते॒ रेरि॑ह॒त्सदानु॒ श्येनी॑ सचते वर्त॒नीरह॑ ॥
अ॒धी॒वा॒सं , परि॑ , मा॒तुः , रि॒हन् , अह॑ , तु॒वि॒ऽग्रेभिः॑ , सत्व॑ऽभिः , या॒ति॒ , वि , ज्रयः॑ । वयः॑ , दध॑त् , प॒त्ऽवते॑ , रेरि॑हत् , सदा॑ , अनु॑ , श्येनी॑ , स॒च॒ते॒ , व॒र्त॒निः , अह॑ ॥
अ॒स्माक॑मग्ने म॒घव॑त्सु दीदि॒ह्यध॒ श्वसी॑वान्वृष॒भो दमू॑नाः । अ॒वास्या॒ शिशु॑मतीरदीदे॒र्वर्मे॑व यु॒त्सु प॑रि॒जर्भु॑राणः ॥
अ॒स्माकं॑ , अ॒ग्ने॒ , म॒घव॑त्ऽसु , दी॒दि॒हि॒ , अध॑ , श्वसी॑वान् , वृ॒ष॒भः , दमू॑नाः । अ॒व॒ऽअस्य॑ , शिशु॑ऽमतीः , अ॒दी॒देः॒ , वर्म॑ऽइव , यु॒त्ऽसु , प॒रि॒ऽजर्भु॑राणः ॥
इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन्म॑नः॒ प्रेयो॑ अस्तु ते । यत्ते॑ शु॒क्रं त॒न्वो॒३॒॑ रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं॑ वनसे॒ रत्न॒मा त्वं ॥
इ॒दं , अ॒ग्ने॒ , सुऽधि॑तं , दुःऽधि॑तात् , अधि॑ , प्रि॒यात् , ऊँ॒ इति॑ , चि॒त् , मन्म॑नः , प्रेयः॑ , अ॒स्तु॒ , ते॒ । यत् , ते॒ , शु॒क्रं , त॒न्वः॑ , रोच॑ते , शुचि॑ , तेन॑ , अ॒स्मभ्यं॑ , व॒न॒से॒ , रत्नं॑ , आ , त्वं ॥
रथा॑य॒ नाव॑मु॒त नो॑ गृ॒हाय॒ नित्या॑रित्रां प॒द्वतीं॑ रास्यग्ने । अ॒स्माकं॑ वी॒राँ उ॒त नो॑ म॒घोनो॒ जनाँ॑श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ॥
रथा॑य , नावं॑ , उ॒त , नः॒ , गृ॒हाय॑ , नित्य॑ऽअरित्रां , प॒त्ऽवतीं॑ , रा॒सि॒ , अ॒ग्ने॒ । अ॒स्माकं॑ , वी॒रान् , उ॒त , नः॒ , म॒घोनः॑ , जना॑न् , च॒ , या , पा॒रया॑त् , शर्म॑ , या , च॒ ॥
अ॒भी नो॑ अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिंध॑वश्च॒ स्वगू॑र्ताः । गव्यं॒ यव्यं॒ यंतो॑ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो॑ वरंत ॥
अ॒भि , नः॒ , अ॒ग्ने॒ , उ॒क्थं , इत् , जु॒गु॒र्याः॒ , द्यावा॒क्षामा॑ , सिंध॑वः , च॒ , स्वऽगू॑र्ताः । गव्यं॑ , यव्यं॑ , यंतः॑ , दी॒र्घा , अहा॑ , इषं॑ , वरं॑ , अ॒रु॒ण्यः॑ , व॒रं॒त॒ ॥
[१४१] बळित्थेति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगती अंत्येद्वेत्रिष्टुभौ|
बळि॒त्था तद्वपु॑षे धायि दर्श॒तं दे॒वस्य॒ भर्गः॒ सह॑सो॒ यतो॒ जनि॑ । यदी॒मुप॒ ह्वर॑ते॒ साध॑ते म॒तिर्ऋ॒तस्य॒ धेना॑ अनयंत स॒स्रुतः॑ ॥
बट् , इ॒त्था , तत् , वपु॑षे , धा॒यि॒ , द॒र्श॒तं , दे॒वस्य॑ , भर्गः॑ , सह॑सः , यतः॑ , जनि॑ । यत् , ईं॒ , उप॑ , ह्वर॑ते , साध॑ते , म॒तिः , ऋ॒तस्य॑ , धेनाः॑ , अ॒न॒यं॒त॒ , स॒ऽस्रुतः॑ ॥
पृ॒क्षो वपुः॑ पितु॒मान्नित्य॒ आ श॑ये द्वि॒तीय॒मा स॒प्तशि॑वासु मा॒तृषु॑ । तृ॒तीय॑मस्य वृष॒भस्य॑ दो॒हसे॒ दश॑प्रमतिं जनयंत॒ योष॑णः ॥
पृ॒क्षः , वपुः॑ , पि॒तु॒ऽमान् , नित्यः॑ , आ , श॒ये॒ , द्वि॒तीयं॑ , आ , स॒प्तऽशि॑वासु , मा॒तृषु॑ । तृ॒तीयं॑ , अ॒स्य॒ , वृ॒ष॒भस्य॑ , दो॒हसे॑ , दश॑ऽप्रमतिं , ज॒न॒यं॒त॒ , योष॑णः ॥
निर्यदीं॑ बु॒ध्नान्म॑हि॒षस्य॒ वर्प॑स ईशा॒नासः॒ शव॑सा॒ क्रंत॑ सू॒रयः॑ । यदी॒मनु॑ प्र॒दिवो॒ मध्व॑ आध॒वे गुहा॒ संतं॑ मात॒रिश्वा॑ मथा॒यति॑ ॥
निः , यत् , ईं॒ , बु॒ध्नात् , म॒हि॒षस्य॑ , वर्प॑सः , ई॒शा॒नासः॑ , शव॑सा , क्रंत॑ , सू॒रयः॑ । यत् , ईं॒ , अनु॑ , प्र॒ऽदिवः॑ , मध्वः॑ , आ॒ऽध॒वे , गुहा॑ , संतं॑ , मा॒त॒रिश्वा॑ , म॒था॒यति॑ ॥
प्र यत्पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो॑ वी॒रुधो॒ दंसु॑ रोहति । उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो अभवद्घृ॒णा शुचिः॑ ॥
प्र , यत् , पि॒तुः , प॒र॒मात् , नी॒यते॑ , परि॑ , आ , पृ॒क्षुधः॑ , वी॒रुधः॑ , दंऽसु॑ , रो॒ह॒ति॒ । उ॒भा , यत् , अ॒स्य॒ , ज॒नुषं॑ , यत् , इन्व॑तः , आत् , इत् , यवि॑ष्ठः , अ॒भ॒व॒त् , घृ॒णा , शुचिः॑ ॥
आदिन्मा॒तॄरावि॑श॒द्यास्वा शुचि॒रहिं॑स्यमान उर्वि॒या वि वा॑वृधे । अनु॒ यत्पूर्वा॒ अरु॑हत्सना॒जुवो॒ नि नव्य॑सी॒ष्वव॑रासु धावते ॥
आत् , इत् , मा॒तॄः , आ , अ॒वि॒श॒त् , यासु॑ , आ , शुचिः॑ , अहिं॑स्यमानः , उ॒र्वि॒या , वि , व॒वृ॒धे॒ । अनु॑ , यत् , पूर्वाः॑ , अरु॑हत् , स॒ना॒ऽजुवः॑ , नि , नव्य॑सीषु , अव॑रासु , धा॒व॒ते॒ ॥
आदिद्धोता॑रं वृणते॒ दिवि॑ष्टिषु॒ भग॑मिव पपृचा॒नास॑ ऋंजते । दे॒वान्यत्क्रत्वा॑ म॒ज्मना॑ पुरुष्टु॒तो मर्तं॒ शंसं॑ वि॒श्वधा॒ वेति॒ धाय॑से ॥
आत् , इत् , होता॑रं , वृ॒ण॒ते॒ , दिवि॑ष्टिषु , भगं॑ऽइव , प॒पृ॒चा॒नासः॑ , ऋं॒ज॒ते॒ । दे॒वान् , यत् , क्रत्वा॑ , म॒ज्मना॑ , पु॒रु॒ऽस्तु॒तः , मर्तं॑ , शंसं॑ , वि॒श्वधा॑ , वेति॑ , धाय॑से ॥
वि यदस्था॑द्यज॒तो वात॑चोदितो ह्वा॒रो न वक्वा॑ ज॒रणा॒ अना॑कृतः । तस्य॒ पत्मं॑द॒क्षुषः॑ कृ॒ष्णजं॑हसः॒ शुचि॑जन्मनो॒ रज॒ आ व्य॑ध्वनः ॥
वि , यत् , अस्था॑त् , य॒ज॒तः , वात॑ऽचोदितः , ह्वा॒रः , न , वक्वा॑ , ज॒रणाः॑ , अना॑कृतः । तस्य॑ , पत्म॑न् , ध॒क्षुषः॑ , कृ॒ष्णऽजं॑हसः , शुचि॑ऽजन्मनः , रजः॑ , आ , विऽअ॑ध्वनः ॥
रथो॒ न या॒तः शिक्व॑भिः कृ॒तो द्यामंगे॑भिररु॒षेभि॑रीयते । आद॑स्य॒ ते कृ॒ष्णासो॑ दक्षि सू॒रयः॒ शूर॑स्येव त्वे॒षथा॑दीषते॒ वयः॑ ॥
रथः॑ , न , या॒तः , शिक्व॑ऽभिः , कृ॒तः , द्यां , अंगे॑भिः , अ॒रु॒षेभिः॑ , ई॒य॒ते॒ । आत् , अ॒स्य॒ , ते , कृ॒ष्णासः॑ , ध॒क्षि॒ , सू॒रयः॑ , शूर॑स्यऽइव , त्वे॒षथा॑त् , ई॒ष॒ते॒ , वयः॑ ॥
त्वया॒ ह्य॑ग्ने॒ वरु॑णो धृ॒तव्र॑तो मि॒त्रः शा॑श॒द्रे अ॑र्य॒मा सु॒दान॑वः । यत्सी॒मनु॒ क्रतु॑ना वि॒श्वथा॑ वि॒भुर॒रान्न ने॒मिः प॑रि॒भूरजा॑यथाः ॥
त्वया॑ , हि , अ॒ग्ने॒ , वरु॑णः , धृ॒तऽव्र॑तः , मि॒त्रः , शा॒श॒द्रे , अ॒र्य॒मा , सु॒ऽदान॑वः । यत् , सीं॒ , अनु॑ , क्रतु॑ना , वि॒श्वऽथा॑ , वि॒ऽभुः , अ॒रान् , न , ने॒मिः , प॒रि॒ऽभूः , अजा॑यथाः ॥
त्वम॑ग्ने शशमा॒नाय॑ सुन्व॒ते रत्नं॑ यविष्ठ दे॒वता॑तिमिन्वसि । तं त्वा॒ नु नव्यं॑ सहसो युवन्व॒यं भगं॒ न का॒रे म॑हिरत्न धीमहि ॥
त्वं , अ॒ग्ने॒ , श॒श॒मा॒नाय॑ , सु॒न्व॒ते , रत्नं॑ , य॒वि॒ष्ठ॒ , दे॒वऽता॑तिं , इ॒न्व॒सि॒ । त्वं , त्वा॒ , नु , नव्यं॑ , स॒ह॒सः॒ , यु॒व॒न् , व॒यं , भगं॑ , न , का॒रे , म॒हि॒ऽर॒त्न॒ , धी॒म॒हि॒ ॥
अ॒स्मे र॒यिं न स्वर्थं॒ दमू॑नसं॒ भगं॒ दक्षं॒ न प॑पृचासि धर्ण॒सिं । र॒श्मीँरि॑व॒ यो यम॑ति॒ जन्म॑नी उ॒भे दे॒वानां॒ शंस॑मृ॒त आ च॑ सु॒क्रतुः॑ ॥
अ॒स्मे इति॑ , र॒यिं , न , सु॒ऽअर्थं॑ , दमू॑नसं , भग॑न् , दक्षं॑ , न , प॒पृ॒चा॒सि॒ , ध॒र्ण॒सिं । र॒श्मीन्ऽइ॑व , यः , यम॑ति , जन्म॑नी॒ इति॑ , उ॒भे इति॑ , दे॒वानां॑ , शंसं॑ , ऋ॒ते , आ , च॒ , सु॒ऽक्रतुः॑ ॥
उ॒त नः॑ सु॒द्योत्मा॑ जी॒राश्वो॒ होता॑ मं॒द्रः शृ॑णवच्चं॒द्रर॑थः । स नो॑ नेष॒न्नेष॑तमै॒रमू॑रो॒ऽग्निर्वा॒मं सु॑वि॒तं वस्यो॒ अच्छ॑ ॥
उ॒त , नः॒ , सु॒ऽद्योत्मा॑ , जी॒रऽअ॑श्वः , होता॑ , मं॒द्रः , शृ॒ण॒व॒त् , चं॒द्रऽर॑थः । सः , नः॒ , ने॒ष॒त् , नेष॑ऽतमैः , अमू॑रः , अ॒ग्निः , वा॒मं , सु॒ऽवि॒तं , वस्यः॑ , अच्छ॑ ॥
अस्ता॑व्य॒ग्निः शिमी॑वद्भिर॒र्कैः साम्रा॑ज्याय प्रत॒रं दधा॑नः । अ॒मी च॒ ये म॒घवा॑नो व॒यं च॒ मिहं॒ न सूरो॒ अति॒ निष्ट॑तन्युः ॥
अस्ता॑वि , अ॒ग्निः , शिमी॑वत्ऽभिः , अ॒र्कैः , सांऽरा॑ज्याय , प्र॒ऽत॒रं , दधा॑नः । अ॒मी इति॑ , च॒ , ये , म॒घऽवा॑नः , व॒यं , च॒ , मिहं॑ , न , सूरः॑ , अति॑ , निः , त॒त॒न्युः॒ ॥
[१४२] समिद्धोअग्नइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाऋषिः इध्मस्तनूनपान्नराशंसइळो बर्हिर्देवीर्द्वार उषासानक्ता देव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिः स्वाहाकृतयइतिक्रमेणदेवताः अंत्याया इंद्रोनुष्टुप् |
समि॑द्धो अग्न॒ आ व॑ह दे॒वाँ अ॒द्य य॒तस्रु॑चे । तंतुं॑ तनुष्व पू॒र्व्यं सु॒तसो॑माय दा॒शुषे॑ ॥
संऽइ॑द्धः , अ॒ग्ने॒ , आ , व॒ह॒ , दे॒वान् , अ॒द्य , य॒तऽस्रु॑चे । तंतुं॑ , त॒नु॒ष्व॒ , पू॒र्व्यं , सु॒तऽसो॑माय , दा॒शुषे॑ ॥
घृ॒तवं॑त॒मुप॑ मासि॒ मधु॑मंतं तनूनपात् । य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑ ॥
घृ॒तऽवं॑तं , उप॑ , मा॒सि॒ , मधु॑ऽमंतं , त॒नू॒ऽन॒पा॒त् । य॒ज्ञं , विप्र॑स्य , माऽव॑तः , श॒श॒मा॒नस्य॑ , दा॒शुषः॑ ॥
शुचिः॑ पाव॒को अद्भु॑तो॒ मध्वा॑ य॒ज्ञं मि॑मिक्षति । नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥
शुचिः॑ , पा॒व॒कः , अद्भु॑तः , मध्वा॑ , य॒ज्ञं , मि॒मि॒क्ष॒ति॒ । नरा॒शंसः॑ , त्रिः , आ , दि॒वः , दे॒वः , दे॒वेषु॑ , य॒ज्ञियः॑ ॥
ई॒ळि॒तो अ॑ग्न॒ आ व॒हेंद्रं॑ चि॒त्रमि॒ह प्रि॒यं । इ॒यं हि त्वा॑ म॒तिर्ममाच्छा॑ सुजिह्व व॒च्यते॑ ॥
ई॒ळि॒तः , अ॒ग्ने॒ , आ , व॒ह॒ , इंद्रं॑ , चि॒त्रं , इ॒ह , प्रि॒यं । इ॒यं , हि , त्वा॒ , म॒तिः , मम॑ , अच्छ॑ , सु॒ऽजि॒ह्व॒ , व॒च्यते॑ ॥
स्तृ॒णा॒नासो॑ य॒तस्रु॑चो ब॒र्हिर्य॒ज्ञे स्व॑ध्व॒रे । वृं॒जे दे॒वव्य॑चस्तम॒मिंद्रा॑य॒ शर्म॑ स॒प्रथः॑ ॥
स्तृ॒णा॒नासः॑ , य॒तऽस्रु॑चः , ब॒र्हिः , य॒ज्ञे , सु॒ऽअ॒ध्व॒रे । वृं॒जे , दे॒वव्य॑चःऽतमं , इंद्रा॑य , शर्म॑ , स॒ऽप्रथः॑ ॥
वि श्र॑यंतामृता॒वृधः॑ प्र॒यै दे॒वेभ्यो॑ म॒हीः । पा॒व॒कासः॑ पुरु॒स्पृहो॒ द्वारो॑ दे॒वीर॑स॒श्चतः॑ ॥
वि , श्र॒यं॒तां॒ , ऋ॒त॒ऽवृधः॑ , प्र॒ऽयै , दे॒वेभ्यः॑ , म॒हीः । पा॒व॒कासः॑ , पु॒रु॒ऽस्पृहः॑ , द्वारः॑ , दे॒वीः , अ॒स॒श्चतः॑ ॥
आ भंद॑माने॒ उपा॑के॒ नक्तो॒षासा॑ सु॒पेश॑सा । य॒ह्वी ऋ॒तस्य॑ मा॒तरा॒ सीद॑तां ब॒र्हिरा सु॒मत् ॥
आ , भंद॑माने॒ इति॑ , उपा॑के॒ इति॑ , नक्तो॒षसा॑ , सु॒ऽपेश॑सा । य॒ह्वी इति॑ , ऋ॒तस्य॑ , मा॒तरा॑ , सीद॑तां , ब॒र्हिः , आ , सु॒ऽमत् ॥
मं॒द्रजि॑ह्वा जुगु॒र्वणी॒ होता॑रा॒ दैव्या॑ क॒वी । य॒ज्ञं नो॑ यक्षतामि॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृशं॑ ॥
मं॒द्रऽजि॑ह्वा , जु॒गु॒र्वणी॒ इति॑ , होता॑रा , दैव्या॑ , क॒वी इति॑ । य॒ज्ञं , नः॒ , य॒क्ष॒तां॒ , इ॒मं , सि॒ध्रं , अ॒द्य , दि॒वि॒ऽस्पृशं॑ ॥
शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा॑ म॒रुत्सु॒ भार॑ती । इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी॑दंतु य॒ज्ञियाः॑ ॥
शुचिः॑ , दे॒वेषु॑ , अर्पि॑ता , होत्रा॑ , म॒रुत्ऽसु॑ , भार॑ती । इळा॑ , सर॑स्वती , म॒ही , ब॒र्हिः , सी॒दं॒तु॒ , य॒ज्ञियाः॑ ॥
तन्न॑स्तु॒रीप॒मद्भु॑तं पु॒रु वारं॑ पु॒रु त्मना॑ । त्वष्टा॒ पोषा॑य॒ वि ष्य॑तु रा॒ये नाभा॑ नो अस्म॒युः ॥
तत् , नः॒ , तु॒रीपं॑ , अद्भु॑तं , पु॒रु , वा॒ , अरं॑ , पु॒रु , त्मना॑ । त्वष्टा॑ , पोषा॑य , वि , स्य॒तु॒ , रा॒ये , नाभा॑ , नः॒ , अ॒स्म॒ऽयुः ॥
अ॒व॒सृ॒जन्नुप॒ त्मना॑ दे॒वान्य॑क्षि वनस्पते । अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रः ॥
अ॒व॒ऽसृ॒जन् , उप॑ , त्मना॑ , दे॒वान् , य॒क्षि॒ , व॒न॒स्प॒ते॒ । अ॒ग्निः , ह॒व्या , सु॒सू॒द॒ति॒ , दे॒वः , दे॒वेषु॑ , मेधि॑रः ॥
पू॒ष॒ण्वते॑ म॒रुत्व॑ते वि॒श्वदे॑वाय वा॒यवे॑ । स्वाहा॑ गाय॒त्रवे॑पसे ह॒व्यमिंद्रा॑य कर्तन ॥
पू॒ष॒ण्ऽवते॑ , म॒रुत्व॑ते , वि॒श्वऽदे॑वाय , वा॒यवे॑ । स्वाहा॑ , गा॒य॒त्रऽवे॑पसे , ह॒व्यं , इंद्रा॑य , क॒र्त॒न॒ ॥
स्वाहा॑कृता॒न्या ग॒ह्युप॑ ह॒व्यानि॑ वी॒तये॑ । इंद्रा ग॑हि श्रु॒धी हवं॒ त्वां ह॑वंते अध्व॒रे ॥
स्वाहा॑ऽकृतानि , आ , ग॒हि॒ , उप॑ , ह॒व्यानि॑ , वी॒तये॑ । इंद्र॑ , आ , ग॒हि॒ , श्रु॒धि , हवं॑ , त्वां , ह॒वं॒ते॒ , अ॒ध्व॒रे ॥
[१४३] प्रतव्यसीमित्यष्टर्चस्य सूक्तस्यौचथ्यो दीर्घतमाअग्निर्जगतीअंत्यात्रिष्टुप् |
प्र तव्य॑सीं॒ नव्य॑सीं धी॒तिम॒ग्नये॑ वा॒चो म॒तिं सह॑सः सू॒नवे॑ भरे । अ॒पां नपा॒द्यो वसु॑भिः स॒ह प्रि॒यो होता॑ पृथि॒व्यां न्यसी॑ददृ॒त्वियः॑ ॥
प्र , तव्य॑सीं , नव्य॑सीं , धी॒तिं , अ॒ग्नये॑ , वा॒चः , म॒तिं , सह॑सः , सू॒नवे॑ , भ॒रे॒ । अ॒पां , नपा॑त् , यः , वसु॑ऽभिः , स॒ह , प्रि॒यः , होता॑ , पृ॒थि॒व्यां , नि , असी॑दत् , ऋ॒त्वियः॑ ॥
स जाय॑मानः पर॒मे व्यो॑मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने । अ॒स्य क्रत्वा॑ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा॑ शो॒चिः पृ॑थि॒वी अ॑रोचयत् ॥
सः , जाय॑मानः , प॒र॒मे , विऽओ॑मनि , आ॒विः , अ॒ग्निः , अ॒भ॒व॒त् , मा॒त॒रिश्व॑ने । अ॒स्य , क्रत्वा॑ , सं॒ऽइ॒धा॒नस्य॑ , म॒ज्मना॑ , प्र , द्यावा॑ , शो॒चिः , पृ॒थि॒वी इति॑ , अ॒रो॒च॒य॒त् ॥
अ॒स्य त्वे॒षा अ॒जरा॑ अ॒स्य भा॒नवः॑ सुसं॒दृशः॑ सु॒प्रती॑कस्य सु॒द्युतः॑ । भात्व॑क्षसो॒ अत्य॒क्तुर्न सिंध॑वो॒ऽग्ने रे॑जंते॒ अस॑संतो अ॒जराः॑ ॥
अ॒स्य , त्वे॒षाः , अ॒जराः॑ , अ॒स्य , भा॒नवः॑ , सु॒ऽसं॒दृशः॑ , सु॒ऽप्रती॑कस्य , सु॒ऽद्युतः॑ । भाऽत्व॑क्षसः , अति॑ , अ॒क्तुः , न , सिंध॑वः , अ॒ग्नेः , रे॒जं॒ते॒ , अस॑संतः , अ॒जराः॑ ॥
यमे॑रि॒रे भृग॑वो वि॒श्ववे॑दसं॒ नाभा॑ पृथि॒व्या भुव॑नस्य म॒ज्मना॑ । अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ॥
यं , आ॒ऽई॒रि॒रे , भृग॑वः , वि॒श्वऽवे॑दसं , नाभा॑ , पृ॒थि॒व्याः , भुव॑नस्य , म॒ज्मना॑ । अ॒ग्निं , तं , गीः॒ऽभिः , हि॒नु॒हि॒ , स्वे , आ , दमे॑ , यः , एकः॑ , वस्वः॑ , वरु॑णः , न , राज॑ति ॥
न यो वरा॑य म॒रुता॑मिव स्व॒नः सेने॑व सृ॒ष्टा दि॒व्या यथा॒शनिः॑ । अ॒ग्निर्जंभै॑स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रूं॒त्स वना॒ न्यृं॑जते ॥
न , यः , वरा॑य , म॒रुतां॑ऽइव , स्व॒नः , सेना॑ऽइव , सृ॒ष्टा , दि॒व्या , यथा॑ , अ॒शनिः॑ । अ॒ग्निः , जंभैः॑ , ति॒गि॒तैः , अ॒त्ति॒ , भर्व॑ति , यो॒धः , न , शत्रू॑न् , सः , वना॑ , नि , ऋं॒ज॒ते॒ ॥
कु॒विन्नो॑ अ॒ग्निरु॒चथ॑स्य॒ वीरस॒द्वसु॑ष्कु॒विद्वसु॑भिः॒ काम॑मा॒वर॑त् । चो॒दः कु॒वित्तु॑तु॒ज्यात्सा॒तये॒ धियः॒ शुचि॑प्रतीकं॒ तम॒या धि॒या गृ॑णे ॥
कु॒वित् , नः॒ , अ॒ग्निः , उ॒चथ॑स्य , वीः , अस॑त् , वसुः॑ , कु॒वित् , वसु॑ऽभिः , कामं॑ , आ॒ऽवर॑त् । चो॒दः , कु॒वित् , तु॒तु॒ज्यात् , सा॒तये॑ , धियः॑ , शुचि॑ऽप्रतीकं , तं , अ॒या , धि॒या , गृ॒णे॒ ॥
घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धू॒र्षद॑म॒ग्निं मि॒त्रं न स॑मिधा॒न ऋं॑जते । इंधा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑च्छु॒क्रव॑र्णा॒मुदु॑ नो यंसते॒ धियं॑ ॥
घृ॒तऽप्र॑तीकं , वः॒ , ऋ॒तस्य॑ , धूः॒ऽसदं॑ , अ॒ग्निं , मि॒त्रं , न , सं॒ऽइ॒धा॒नः , ऋं॒ज॒ते॒ । इंधा॑नः , अ॒क्रः , वि॒दथे॑षु , दीद्य॑त् , शु॒क्रऽव॑र्णां , उत् , ऊँ॒ इति॑ , नः॒ , यं॒स॒ते॒ , धियं॑ ॥
अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने शि॒वेभि॑र्नः पा॒युभिः॑ पाहि श॒ग्मैः । अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भिः॒ परि॑ पाहि नो॒ जाः ॥
अप्र॑ऽयुच्छन् , अप्र॑युच्छत्ऽभिः , अ॒ग्ने॒ , शि॒वेभिः॑ , नः॒ , पा॒युऽभिः॑ , पा॒हि॒ , श॒ग्मैः । अद॑ब्धेभिः , अदृ॑पितेभिः , इ॒ष्टे॒ , अनि॑मिषत्ऽभिः , परि॑ , पा॒हि॒ , नः॒ , जाः ॥
[१४४] एतीति सप्तर्चस्य सूक्तस्यौचथ्योदीर्घतमाग्निर्जगती |
एति॒ प्र होता॑ व्र॒तम॑स्य मा॒ययो॒र्ध्वां दधा॑नः॒ शुचि॑पेशसं॒ धियं॑ । अ॒भि स्रुचः॑ क्रमते दक्षिणा॒वृतो॒ या अ॑स्य॒ धाम॑ प्रथ॒मं ह॒ निंस॑ते ॥
एति॑ , प्र , होता॑ , व्र॒तं , अ॒स्य॒ , मा॒यया॑ , ऊ॒र्ध्वां , दधा॑नः , शुचि॑ऽपेशसं , धियं॑ । अ॒भि , स्रुचः॑ , क्र॒म॒ते॒ , द॒क्षि॒णा॒ऽआ॒वृतः॑ , याः , अ॒स्य॒ , धाम॑ , प्र॒थ॒मं , ह॒ , निंस॑ते ॥
अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूषत॒ योनौ॑ दे॒वस्य॒ सद॑ने॒ परी॑वृताः । अ॒पामु॒पस्थे॒ विभृ॑तो॒ यदाव॑स॒दध॑ स्व॒धा अ॑धय॒द्याभि॒रीय॑ते ॥
अ॒भि , ईं॒ , ऋ॒तस्य॑ , दो॒हनाः॑ , अ॒नू॒ष॒त॒ , योनौ॑ , दे॒वस्य॑ , सद॑ने , परि॑ऽवृताः । अ॒पां , उ॒पऽस्थे॑ , विऽभृ॑तः , यत् , आ , अव॑सत् , अध॑ , स्व॒धाः , अ॒ध॒य॒त् , याभिः॑ , ईय॑ते ॥
युयू॑षतः॒ सव॑यसा॒ तदिद्वपुः॑ समा॒नमर्थं॑ वि॒तरि॑त्रता मि॒थः । आदीं॒ भगो॒ न हव्यः॒ सम॒स्मदा वोळ्हु॒र्न र॒श्मींत्सम॑यंस्त॒ सार॑थिः ॥
युयू॑षतः , सऽव॑यसा , तत् , इत् , वपुः॑ , स॒मा॒नं , अर्थं॑ , वि॒ऽतरि॑त्रता , मि॒थः । आत् , ईं , भगः॑ , न , हव्यः॑ , सं , अ॒स्मत् , आ , वोळ्हुः॑ , न , र॒श्मीन् , सं , अ॒यं॒स्त॒ , सार॑थिः ॥
यमीं॒ द्वा सव॑यसा सप॒र्यतः॑ समा॒ने योना॑ मिथु॒ना समो॑कसा । दिवा॒ न नक्तं॑ पलि॒तो युवा॑जनि पु॒रू चर॑न्न॒जरो॒ मानु॑षा यु॒गा ॥
यं , ईं॒ , द्वा , सऽव॑यसा , स॒प॒र्यतः॑ , स॒मा॒ने , योना॑ , मि॒थु॒ना , संऽओ॑कसा । दिवा॑ , न , नक्तं॑ , प॒लि॒तः , युवा॑ , अ॒ज॒नि॒ , पु॒रु , चर॑न् , अ॒जरः॑ , मानु॑षा , यु॒गा ॥
तमीं॑ हिन्वंति धी॒तयो॒ दश॒ व्रिशो॑ दे॒वं मर्ता॑स ऊ॒तये॑ हवामहे । धनो॒रधि॑ प्र॒वत॒ आ स ऋ॑ण्वत्यभि॒व्रज॑द्भिर्व॒युना॒ नवा॑धित ॥
तं , ईं॒ , हि॒न्वं॒ति॒ , धी॒तयः॑ , दश॑ , व्रिशः॑ , दे॒वं , मर्ता॑सः , ऊ॒तये॑ , ह॒वा॒म॒हे॒ । धनोः॑ , अधि॑ , प्र॒ऽवतः॑ , आ , सः , ऋ॒ण्व॒ति॒ , अ॒भि॒व्रज॑त्ऽभिः , व॒युना॑ , नव॑ , अ॒धि॒त॒ ॥
त्वं ह्य॑ग्ने दि॒व्यस्य॒ राज॑सि॒ त्वं पार्थि॑वस्य पशु॒पा इ॑व॒ त्मना॑ । एनी॑ त ए॒ते बृ॑ह॒ती अ॑भि॒श्रिया॑ हिर॒ण्ययी॒ वक्व॑री ब॒र्हिरा॑शाते ॥
त्वं , हि , अ॒ग्ने॒ , दि॒व्यस्य॑ , राज॑सि , त्वं , पार्थि॑वस्य , प॒शु॒पाःऽइ॑व , त्मना॑ । एनी॒ इति॑ , ते॒ , ए॒ते इति॑ , बृ॒ह॒ती इति॑ , अ॒भि॒ऽश्रिया॑ , हि॒र॒ण्ययी॒ इति॑ , वक्व॑री॒ इति॑ , ब॒र्हिः , आ॒शा॒ते॒ इति॑ ॥
अग्ने॑ जु॒षस्व॒ प्रति॑ हर्य॒ तद्वचो॒ मंद्र॒ स्वधा॑व॒ ऋत॑जात॒ सुक्र॑तो । यो वि॒श्वतः॑ प्र॒त्यङ्ङसि॑ दर्श॒तो र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयः॑ ॥
अग्ने॑ , जु॒षस्व॑ , प्रति॑ , ह॒र्य॒ , तत् , वचः॑ , मंद्र॑ , स्वधा॑ऽवः , ऋत॑ऽजात , सुक्र॑तो॒ इति॒ सुऽक्र॑तो । यः , वि॒श्वतः॑ , प्र॒त्यङ् , असि॑ , द॒र्श॒तः , र॒ण्वः , संऽदृ॑ष्टौ , पि॒तु॒मान्ऽइ॑व , क्षयः॑ ॥
[१४५] तंपृच्छतेति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्जगतीअंत्यात्रिष्टुप् |
तं पृ॑च्छता॒ स ज॑गामा॒ स वे॑द॒ स चि॑कि॒त्वाँ ई॑यते॒ सा न्वी॑यते । तस्मिं॑त्संति प्र॒शिष॒स्तस्मि॑न्नि॒ष्टयः॒ स वाज॑स्य॒ शव॑सः शु॒ष्मिण॒स्पतिः॑ ॥
तं , पृ॒च्छ॒त॒ , सः , ज॒गा॒म॒ , सः , वे॒द॒ , सः , चि॒कि॒त्वान् , ई॒य॒ते॒ , सः , नु , ई॒य॒ते॒ । तस्मि॑न् , सं॒ति॒ , प्र॒ऽशिषः॑ , तस्मि॑न् , इ॒ष्टयः॑ , सः , वाज॑स्य , शव॑सः , शु॒ष्मिणः॑ , पतिः॑ ॥
तमित्पृ॑च्छंति॒ न सि॒मो वि पृ॑च्छति॒ स्वेने॑व॒ धीरो॒ मन॑सा॒ यदग्र॑भीत् । न मृ॑ष्यते प्रथ॒मं नाप॑रं॒ वचो॒ऽस्य क्रत्वा॑ सचते॒ अप्र॑दृपितः ॥
तं , इत् , पृ॒च्छं॒ति॒ , न , सि॒मः , वि , पृ॒च्छ॒ति॒ , स्वेन॑ऽइव , धीरः॑ , मन॑सा , यत् , अग्र॑भीत् । न , मृ॒ष्य॒ते॒ , प्र॒थ॒मं , न , अप॑रं , वचः॑ , अ॒स्य , क्रत्वा॑ , स॒च॒ते॒ , अप्र॑ऽदृपितः ॥
तमिद्ग॑च्छंति जु॒ह्व१॒॑स्तमर्व॑ती॒र्विश्वा॒न्येकः॑ शृणव॒द्वचां॑सि मे । पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोतिः॒ शिशु॒राद॑त्त॒ सं रभः॑ ॥
तं , इत् , ग॒च्छं॒ति॒ , जु॒ह्वः॑ , तं , अर्व॑तीः , विश्वा॑नि , एकः॑ , शृ॒ण॒व॒त् , वचां॑सि , मे॒ । पु॒रु॒ऽप्रै॒षः , ततु॑रिः , य॒ज्ञ॒ऽसाध॑नः , अच्छि॑द्रऽऊतिः , शिशुः॑ , आ , अ॒द॒त्त॒ , सं , रभः॑ ॥
उ॒प॒स्थायं॑ चरति॒ यत्स॒मार॑त स॒द्यो जा॒तस्त॑त्सार॒ युज्ये॑भिः । अ॒भि श्वां॒तं मृ॑शते नां॒द्ये॑ मु॒दे यदीं॒ गच्छं॑त्युश॒तीर॑पिष्ठि॒तं ॥
उ॒प॒ऽस्थायं॑ , च॒र॒ति॒ , यत् , सं॒ऽआर॑त , स॒द्यः , जा॒तः , त॒त्सा॒र॒ , युज्ये॑भिः । अ॒भि , श्वां॒तं , मृ॒श॒ते॒ , नां॒द्ये॑ , मु॒दे , यत् , ईं॒ , गच्छं॑ति , उ॒श॒तीः , अ॒पि॒ऽस्थि॒तं ॥
स ईं॑ मृ॒गो अप्यो॑ वन॒र्गुरुप॑ त्व॒च्यु॑प॒मस्यां॒ नि धा॑यि । व्य॑ब्रवीद्व॒युना॒ मर्त्ये॑भ्यो॒ऽग्निर्वि॒द्वाँ ऋ॑त॒चिद्धि स॒त्यः ॥
सः , ईं॒ , मृ॒गः , अप्यः॑ , व॒न॒र्गुः , उप॑ , त्व॒चि , उ॒प॒ऽमस्यां॑ , नि , धा॒यि॒ । वि , अ॒ब्र॒वी॒त् , व॒युना॑ , मर्त्ये॑भ्यः , अ॒ग्निः , वि॒द्वान् , ऋ॒त॒ऽचित् , हि , स॒त्यः ॥
[१४६] त्रिमूर्धानमिति पंचर्चस्य सूक्तस्यौचथ्यो दीर्घतमाअग्निस्त्रिष्टुप् |
त्रि॒मू॒र्धानं॑ स॒प्तर॑श्मिं गृणी॒षेऽनू॑नम॒ग्निं पि॒त्रोरु॒पस्थे॑ । नि॒ष॒त्तम॑स्य॒ चर॑तो ध्रु॒वस्य॒ विश्वा॑ दि॒वो रो॑च॒नाप॑प्रि॒वांसं॑ ॥
त्रि॒ऽमू॒र्धानं॑ , स॒प्तऽर॑श्मिं , गृ॒णी॒षे॒ , अनू॑नं , अ॒ग्निं , पि॒त्रोः , उ॒पऽस्थे॑ । नि॒ऽस॒त्तं , अ॒स्य॒ , चर॑तः , ध्रु॒वस्य॑ , विश्वा॑ , दि॒वः , रो॒च॒ना , आ॒प॒प्रि॒ऽवांसं॑ ॥
उ॒क्षा म॒हाँ अ॒भि व॑वक्ष एने अ॒जर॑स्तस्थावि॒तऊ॑तिर्ऋ॒ष्वः । उ॒र्व्याः प॒दो नि द॑धाति॒ सानौ॑ रि॒हंत्यूधो॑ अरु॒षासो॑ अस्य ॥
उ॒क्षा , म॒हान् , अ॒भि , व॒व॒क्षे॒ , ए॒ने॒ इति॑ , अ॒जरः॑ , त॒स्थौ॒ , इ॒तःऽऊ॑तिः , ऋ॒ष्वः । उ॒र्व्याः , प॒दः , नि , द॒धा॒ति॒ , सानौ॑ , रि॒हंति॑ , ऊधः॑ , अ॒रु॒षासः॑ , अ॒स्य॒ ॥
स॒मा॒नं व॒त्सम॒भि सं॒चरं॑ती॒ विष्व॑ग्धे॒नू वि च॑रतः सु॒मेके॑ । अ॒न॒प॒वृ॒ज्याँ अध्व॑नो॒ मिमा॑ने॒ विश्वा॒न्केताँ॒ अधि॑ म॒हो दधा॑ने ॥
स॒मा॒नं , व॒त्सं , अ॒भि , सं॒चरं॑ती॒ इति॑ सं॒ऽचरं॑ती , विष्व॑क् , धे॒नू इति॑ , वि , च॒र॒तः॒ , सु॒मेके॒ इति॑ सु॒ऽमेके॑ । अ॒न॒प॒ऽवृ॒ज्यान् , अध्व॑नः , मिमा॑ने॒ इति॑ , विश्वा॑न् , केता॑न् , अधि॑ , म॒हः , दधा॑ने॒ इति॑ ॥
धीरा॑सः प॒दं क॒वयो॑ नयंति॒ नाना॑ हृ॒दा रक्ष॑माणा अजु॒र्यं । सिषा॑संतः॒ पर्य॑पश्यंत॒ सिंधु॑मा॒विरे॑भ्यो अभव॒त्सूर्यो॒ नॄन् ॥
धीरा॑सः , प॒दं , क॒वयः॑ , न॒यं॒ति॒ , नाना॑ , हृ॒दा , रक्ष॑माणाः , अ॒जु॒र्यं । सिसा॑संतः , परि॑ , अ॒प॒श्यं॒त॒ , सिंधुं॑ , आ॒विः , ए॒भ्यः॒ , अ॒भ॒व॒त् , सूर्यः॑ , नॄन् ॥
दि॒दृ॒क्षेण्यः॒ परि॒ काष्ठा॑सु॒ जेन्य॑ ई॒ळेन्यो॑ म॒हो अर्भा॑य जी॒वसे॑ । पु॒रु॒त्रा यदभ॑व॒त्सूरहै॑भ्यो॒ गर्भे॑भ्यो म॒घवा॑ वि॒श्वद॑र्शतः ॥
दि॒दृ॒क्षेण्यः॑ , परि॑ , काष्ठा॑सु , जेन्यः॑ , ई॒ळेन्यः॑ , म॒हः , अर्भा॑य , जी॒वसे॑ । पु॒रु॒ऽत्रा , यत् , अभ॑वत् , सूः , अह॑ , ए॒भ्यः॒ , गर्भे॑भ्यः , म॒घऽवा॑ , वि॒श्वऽद॑र्शतः ॥
[१४७] कथातइतिपंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्नित्रिष्टुप् |
क॒था ते॑ अग्ने शु॒चयं॑त आ॒योर्द॑दा॒शुर्वाजे॑भिराशुषा॒णाः । उ॒भे यत्तो॒के तन॑ये॒ दधा॑ना ऋ॒तस्य॒ साम॑न्र॒णयं॑त दे॒वाः ॥
क॒था , ते॒ , अ॒ग्ने॒ , शु॒चयं॑तः , आ॒योः , द॒दा॒शुः , वाजे॑भिः , आ॒शु॒षा॒णाः । उ॒भे इति॑ , यत् , तो॒के इति॑ , तन॑ये , दधा॑नाः , ऋ॒तस्य॑ , साम॑न् , र॒णयं॑त , दे॒वाः ॥
बोधा॑ मे अ॒स्य वच॑सो यविष्ठ॒ मंहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति त्वो॒ अनु॑ त्वो गृणाति वं॒दारु॑स्ते त॒न्वं॑ वंदे अग्ने ॥
बोध॑ , मे॒ , अ॒स्य , वच॑सः , य॒वि॒ष्ठ॒ , मंहि॑ष्ठस्य , प्रऽभृ॑तस्य , स्व॒धा॒ऽवः॒ । पीय॑ति , त्वः॒ , अनु॑ , त्वः॒ , गृ॒णा॒ति॒ , वं॒दारुः॑ , ते॒ , त॒न्वं॑ , वं॒दे॒ , अ॒ग्ने॒ ॥
ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्यं॑तो अं॒धं दु॑रि॒तादर॑क्षन् । र॒रक्ष॒ तांत्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्सं॑त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥
ये , पा॒यवः॑ , मा॒म॒ते॒यं , ते॒ , अ॒ग्ने॒ , पश्यं॑तः , अं॒धं , दुः॒ऽइ॒तात् , अर॑क्षन् । र॒रक्ष॑ , तान् , सु॒ऽकृतः॑ , वि॒श्वऽवे॑दाः , दिप्सं॑तः , इत् , रि॒पवः॑ , न , अह॑ , दे॒भुः॒ ॥
यो नो॑ अग्ने॒ अर॑रिवाँ अघा॒युर॑राती॒वा म॒र्चय॑ति द्व॒येन॑ । मंत्रो॑ गु॒रुः पुन॑रस्तु॒ सो अ॑स्मा॒ अनु॑ मृक्षीष्ट त॒न्वं॑ दुरु॒क्तैः ॥
यः , नः॒ , अ॒ग्ने॒ , अर॑रिऽवान् , अ॒घ॒ऽयुः , अ॒रा॒ति॒ऽवा , म॒र्चय॑ति , द्व॒येन॑ । मंत्रः॑ , गु॒रुः , पुनः॑ , अ॒स्तु॒ , सः , अ॒स्मै॒ , अनु॑ , मृ॒क्षी॒ष्ट॒ , त॒न्वं॑ , दुः॒ऽउ॒क्तैः ॥
उ॒त वा॒ यः स॑हस्य प्रवि॒द्वान्मर्तो॒ मर्तं॑ म॒र्चय॑ति द्व॒येन॑ । अतः॑ पाहि स्तवमान स्तु॒वंत॒मग्ने॒ माकि॑र्नो दुरि॒ताय॑ धायीः ॥
उ॒त , वा॒ , यः , स॒ह॒स्य॒ , प्र॒ऽवि॒द्वान् , मर्तः॑ , मर्तं॑ , म॒र्चय॑ति , द्व॒येन॑ । अतः॑ , पा॒हि॒ , स्त॒व॒मा॒न॒ , स्तु॒वंतं॑ , अग्ने॑ , माकिः॑ , नः॒ , दुः॒ऽइ॒ताय॑ , धा॒यीः॒ ॥
[१४८] मथीद्यदीमिति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निस्त्रिष्टुप् |
मथी॒द्यदीं॑ वि॒ष्टो मा॑त॒रिश्वा॒ होता॑रं वि॒श्वाप्सुं॑ वि॒श्वदे॑व्यं । नि यं द॒धुर्म॑नु॒ष्या॑सु वि॒क्षु स्व१॒॑र्ण चि॒त्रं वपु॑षे वि॒भावं॑ ॥
मथी॑त् , यत् , ईं॒ , वि॒ष्टः , मा॒त॒रिश्वा॑ , होता॑रं , वि॒श्वऽअ॑प्सुं , वि॒श्वऽदे॑व्यं । नि , यं , द॒धुः , म॒नु॒ष्या॑सु , वि॒क्षु , स्वः॑ , न , चि॒त्रं , वपु॑षे , वि॒भाऽवं॑ ॥
द॒दा॒नमिन्न द॑दभंत॒ मन्मा॒ग्निर्वरू॑थं॒ मम॒ तस्य॑ चाकन् । जु॒षंत॒ विश्वा॑न्यस्य॒ कर्मोप॑स्तुतिं॒ भर॑माणस्य का॒रोः ॥
द॒दा॒नं , इत् , न , द॒द॒भं॒त॒ , मन्म॑ , अ॒ग्निः , वरू॑थं , मम॑ , तस्य॑ , चा॒क॒न् । जु॒षंत॑ , विश्वा॑नि , अ॒स्य॒ , कर्म॑ , उप॑ऽस्तुतिं , भर॑माणस्य , का॒रोः ॥
नित्ये॑ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया॑सः । प्र सू न॑यंत गृ॒भयं॑त इ॒ष्टावश्वा॑सो॒ न र॒थ्यो॑ रारहा॒णाः ॥
नित्ये॑ , चि॒त् , नु , यं , सद॑ने , ज॒गृ॒भ्रे , प्रश॑स्तिऽभिः , द॒धि॒रे , य॒ज्ञिया॑सः । प्र , सु , न॒यं॒त॒ , गृ॒भयं॑तः , इ॒ष्टौ , अश्वा॑सः , न , र॒थ्यः॑ , र॒र॒हा॒णाः ॥
पु॒रूणि॑ द॒स्मो नि रि॑णाति॒ जंभै॒राद्रो॑चते॒ वन॒ आ वि॒भावा॑ । आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरस्तु॒र्न शर्या॑मस॒नामनु॒ द्यून् ॥
पु॒रूणि॑ , द॒स्मः , नि , रि॒णा॒ति॒ , जंभैः॑ , आत् , रो॒च॒ते॒ , वने॑ , आ , वि॒भाऽवा॑ । आत् , अ॒स्य॒ , वातः॑ , अनु॑ , वा॒ति॒ , शो॒चिः , अस्तुः॑ , न , शर्यां॑ , अ॒स॒नां , अनु॑ , द्यून् ॥
न यं रि॒पवो॒ न रि॑ष॒ण्यवो॒ गर्भे॒ संतं॑ रेष॒णा रे॒षयं॑ति । अं॒धा अ॑प॒श्या न द॑भन्नभि॒ख्या नित्या॑स ईं प्रे॒तारो॑ अरक्षन् ॥
न , यं , रि॒पवः॑ , न , रि॒ष॒ण्यवः॑ , गर्भे॑ , संतं॑ , रे॒ष॒णाः , रे॒षयं॑ति । अं॒धाः , अ॒प॒श्याः , न , द॒भ॒न् , अ॒भि॒ऽख्या , नित्या॑सः , ईं॒ , प्रे॒तारः॑ , अ॒र॒क्ष॒न् ॥
[१४९] महः सरायइति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाअग्निर्विराट् |
म॒हः स रा॒य एष॑ते॒ पति॒र्दन्नि॒न इ॒नस्य॒ वसु॑नः प॒द आ । उप॒ ध्रजं॑त॒मद्र॑यो वि॒धन्नित् ॥
म॒हः , सः , रा॒यः , आ , ई॒ष॒ते॒ , पतिः॑ , दन् , इ॒नः , इ॒नस्य॑ , वसु॑नः , प॒दे , आ । उप॑ , ध्रजं॑तं , अद्र॑यः , वि॒धन् , इत् ॥
स यो वृषा॑ न॒रां न रोद॑स्योः॒ श्रवो॑भि॒रस्ति॑ जी॒वपी॑तसर्गः । प्र यः स॑स्रा॒णः शि॑श्री॒त योनौ॑ ॥
सः , यः , वृषा॑ , न॒रां , न , रोद॑स्योः , श्रवः॑ऽभिः , अस्ति॑ , जी॒वपी॑तऽसर्गः । प्र , यः , स॒स्रा॒णः , शि॒श्री॒त , योनौ॑ ॥
आ यः पुरं॒ नार्मि॑णी॒मदी॑दे॒दत्यः॑ क॒विर्न॑भ॒न्यो॒३॒॑ नार्वा॑ । सूरो॒ न रु॑रु॒क्वांछ॒तात्मा॑ ॥
आ , यः , पुरं॑ , नार्मि॑णीं , अदी॑देत् , अत्यः॑ , क॒विः , न॒भ॒न्यः॑ , न , आर्वा॑ । सूरः॑ , न , रु॒रु॒क्वान् , श॒तऽआ॑त्मा ॥
अ॒भि द्वि॒जन्मा॒ त्री रो॑च॒नानि॒ विश्वा॒ रजां॑सि शुशुचा॒नो अ॑स्थात् । होता॒ यजि॑ष्ठो अ॒पां स॒धस्थे॑ ॥
अ॒भि , द्वि॒ऽजन्मा॑ , त्री , रो॒च॒नानि॑ , विश्वा॑ , रजां॑सि , शु॒शु॒चा॒नः , अ॒स्था॒त् । होता॑ , यजि॑ष्ठः , अ॒पां , स॒धऽस्थे॑ ॥
अ॒यं स होता॒ यो द्वि॒जन्मा॒ विश्वा॑ द॒धे वार्या॑णि श्रव॒स्या । मर्तो॒ यो अ॑स्मै सु॒तुको॑ द॒दाश॑ ॥
अ॒यं , सः , होता॑ , यः , द्वि॒ऽजन्मा॑ , विश्वा॑ , द॒धे , वार्या॑णि , श्र॒व॒स्या । मर्तः॑ , यः , अ॒स्मै॒ , सु॒ऽतुकः॑ , द॒दाश॑ ॥
[१५०] पुरुत्वेति तृचस्य सूक्तस्यौचथ्योदीर्घतमाअग्निरुष्णिक् |
पु॒रु त्वा॑ दा॒श्वान्वो॑चे॒ऽरिर॑ग्ने॒ तव॑ स्वि॒दा । तो॒दस्ये॑व शर॒ण आ म॒हस्य॑ ॥
पु॒रु , त्वा॒ , दा॒श्वान् , वो॒चे॒ , अ॒रिः , अ॒ग्ने॒ , तव॑ , स्वि॒त् , आ । तो॒दस्य॑ऽइव , श॒र॒णे , आ , म॒हस्य॑ ॥
व्य॑नि॒नस्य॑ ध॒निनः॑ प्रहो॒षे चि॒दर॑रुषः । क॒दा च॒न प्र॒जिग॑तो॒ अदे॑वयोः ॥
वि , अ॒नि॒नस्य॑ , ध॒निनः॑ , प्र॒ऽहो॒षे , चि॒त् , अर॑रुषः । क॒दा , च॒न , प्र॒ऽजिग॑तः , अदे॑वऽयोः ॥
स चं॒द्रो वि॑प्र॒ मर्त्यो॑ म॒हो व्राधं॑तमो दि॒वि । प्रप्रेत्ते॑ अग्ने व॒नुषः॑ स्याम ॥
सः , चं॒द्रः , वि॒प्र॒ , मर्त्यः॑ , म॒हः , व्राध॑न्ऽतमः , दि॒वि । प्रऽप्र॑ , इत् , ते॒ , अ॒ग्ने॒ , व॒नुषः॑ , स्या॒म॒ ॥
[१५१] मित्रंनयमिति नवर्चस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणावाद्यायामित्रोजगती |
मि॒त्रं न यं शिम्या॒ गोषु॑ ग॒व्यवः॑ स्वा॒ध्यो॑ वि॒दथे॑ अ॒प्सु जीज॑नन् । अरे॑जेतां॒ रोद॑सी॒ पाज॑सा गि॒रा प्रति॑ प्रि॒यं य॑ज॒तं ज॒नुषा॒मवः॑ ॥
मि॒त्रं , न , यं , शिम्या॑ , गोषु॑ , ग॒व्यवः॑ , सु॒ऽआ॒ध्यः॑ , वि॒दथे॑ , अ॒प्ऽसु , जीज॑नन् । अरे॑जेतां , रोद॑सी॒ इति॑ , पाज॑सा , गि॒रा , प्रति॑ , प्रि॒यं , य॒ज॒तं , ज॒नुषां॑ , अवः॑ ॥
यद्ध॒ त्यद्वां॑ पुरुमी॒ळ्हस्य॑ सो॒मिनः॒ प्र मि॒त्रासो॒ न द॑धि॒रे स्वा॒भुवः॑ । अध॒ क्रतुं॑ विदतं गा॒तुमर्च॑त उ॒त श्रु॑तं वृषणा प॒स्त्या॑वतः ॥
यत् , ह॒ , त्यत् , वां॒ , पु॒रु॒ऽमी॒ळ्हस्य॑ , सो॒मिनः॑ , प्र , मि॒त्रासः॑ , न , द॒धि॒रे , सु॒ऽआ॒भुवः॑ । अध॑ , क्रतुं॑ , वि॒द॒तं॒ , गा॒तुं , अर्च॑ते , उ॒त , श्रु॒तं॒ , वृ॒ष॒णा॒ , प॒स्त्य॑ऽवतः ॥
आ वां॑ भूषन्क्षि॒तयो॒ जन्म॒ रोद॑स्योः प्र॒वाच्यं॑ वृषणा॒ दक्ष॑से म॒हे । यदी॑मृ॒ताय॒ भर॑थो॒ यदर्व॑ते॒ प्र होत्र॑या॒ शिम्या॑ वीथो अध्व॒रं ॥
आ , वां॒ , भू॒ष॒न् , क्षि॒तयः॑ , जन्म॑ , रोद॑स्योः , प्र॒ऽवाच्यं॑ , वृ॒ष॒णा॒ , दक्ष॑से , म॒हे । यत् , ईं॒ , ऋ॒ताय॑ , भर॑थः , यत् , अर्व॑ते , प्र , होत्र॑या , शिम्या॑ , वी॒थः॒ , अ॒ध्व॒रं ॥
प्र सा क्षि॒तिर॑सुर॒ या महि॑ प्रि॒य ऋता॑वानावृ॒तमा घो॑षथो बृ॒हत् । यु॒वं दि॒वो बृ॑ह॒तो दक्ष॑मा॒भुवं॒ गां न धु॒र्युप॑ युंजाथे अ॒पः ॥
प्र , सा , क्षि॒तिः , अ॒सु॒रा॒ , या , महि॑ , प्रि॒या , ऋत॑ऽवानौ , ऋ॒तं , आ , घो॒ष॒थः॒ , बृ॒हत् । यु॒वं , दि॒वः , बृ॒ह॒तः , दक्षं॑ , आ॒ऽभुवं॑ , गां , न , धु॒रि , उप॑ , युं॒जा॒थे॒ इति॑ , अ॒पः ॥
म॒ही अत्र॑ महि॒ना वार॑मृण्वथोऽरे॒णव॒स्तुज॒ आ सद्मं॑धे॒नवः॑ । स्वरं॑ति॒ ता उ॑प॒रता॑ति॒ सूर्य॒मा नि॒म्रुच॑ उ॒षस॑स्तक्व॒वीरि॑व ॥
म॒ही इति॑ , अत्र॑ , म॒हि॒ना , वारं॑ , ऋ॒ण्व॒थः॒ , अ॒रे॒णवः॑ , तुजः॑ , आ , सद्म॑न् , धे॒नवः॑ । स्वरं॑ति , ताः , उ॒प॒रऽता॑ति , सूर्यं॑ , आ , नि॒ऽम्रुचः॑ , उ॒षसः॑ , त॒क्व॒वीःऽइ॑व ॥
आ वा॑मृ॒ताय॑ के॒शिनी॑रनूषत॒ मित्र॒ यत्र॒ वरु॑ण गा॒तुमर्च॑थः । अव॒ त्मना॑ सृ॒जतं॒ पिन्व॑तं॒ धियो॑ यु॒वं विप्र॑स्य॒ मन्म॑नामिरज्यथः ॥
आ , वां॒ , ऋ॒ताय॑ , के॒शिनीः॑ , अ॒नू॒ष॒त॒ , मित्र॑ , यत्र॑ , वरु॑ण , गा॒तुं , अर्च॑थः । अव॑ , त्मना॑ , सृ॒जतं॑ , पिन्व॑तं , धियः॑ , यु॒वं , विप्र॑स्य , मन्म॑नां , इ॒र॒ज्य॒थः॒ ॥
यो वां॑ य॒ज्ञैः श॑शमा॒नो ह॒ दाश॑ति क॒विर्होता॒ यज॑ति मन्म॒साध॑नः । उपाह॒ तं गच्छ॑थो वी॒थो अ॑ध्व॒रमच्छा॒ गिरः॑ सुम॒तिं गं॑तमस्म॒यू ॥
यः , वां॒ , य॒ज्ञैः , श॒श॒मा॒नः , ह॒ , दाश॑ति , क॒विः , होता॑ , यज॑ति , म॒न्म॒ऽसाध॑नः । उप॑ , अह॑ , तं , गच्छ॑थः , वी॒थः , अ॒ध्व॒रं , अच्छ॑ , गिरः॑ , सु॒ऽम॒तिं , गं॒तं॒ , अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥
यु॒वां य॒ज्ञैः प्र॑थ॒मा गोभि॑रंजत॒ ऋता॑वाना॒ मन॑सो॒ न प्रयु॑क्तिषु । भरं॑ति वां॒ मन्म॑ना सं॒यता॒ गिरोऽदृ॑प्यता॒ मन॑सा रे॒वदा॑शाथे ॥
यु॒वां , य॒ज्ञैः , प्र॒थ॒मा , गोभिः॑ , अं॒ज॒ते॒ , ऋत॑ऽवाना , मन॑सः , न , प्रऽयु॑क्तिषु । भरं॑ति , वां॒ , मन्म॑ना , सं॒ऽयता॑ , गिरः॑ , अदृ॑प्यता , मन॑सा , रे॒वत् , आ॒शा॒थे॒ इति॑ ॥
रे॒वद्वयो॑ दधाथे रे॒वदा॑शाथे॒ नरा॑ मा॒याभि॑रि॒तऊ॑ति॒ माहि॑नं । न वां॒ द्यावोऽह॑भि॒र्नोत सिंध॑वो॒ न दे॑व॒त्वं प॒णयो॒ नान॑शुर्म॒घं ॥
रे॒वत् , वयः॑ , द॒धा॒थे॒ इति॑ , रे॒वत् , आ॒शा॒थे॒ इति॑ , नरा॑ , मा॒याभिः॑ , इ॒तःऽऊ॑ति , माहि॑नं । न , वां॒ , द्यावः॑ , अह॑ऽभिः , न , उ॒त , सिंध॑वः , न , दे॒व॒ऽत्वं , प॒णयः॑ , न , आ॒न॒शुः॒ , म॒घं ॥
[१५२] युवंवस्त्राणीति सप्तर्चस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणौत्रिष्टुप् |
यु॒वं वस्त्रा॑णि पीव॒सा व॑साथे यु॒वोरच्छि॑द्रा॒ मंत॑वो ह॒ सर्गाः॑ । अवा॑तिरत॒मनृ॑तानि॒ विश्व॑ ऋ॒तेन॑ मित्रावरुणा सचेथे ॥
यु॒वं , वस्त्रा॑णि , पी॒व॒सा , व॒सा॒थे॒ इति॑ , यु॒वोः , अच्छि॑द्राः , मंत॑वः , ह॒ , सर्गाः॑ । अव॑ , अ॒ति॒र॒तं॒ , अनृ॑तानि , विश्वा॑ , ऋ॒तेन॑ , मि॒त्रा॒व॒रु॒णा॒ , स॒चे॒थे॒ इति॑ ॥
ए॒तच्च॒न त्वो॒ वि चि॑केतदेषां स॒त्यो मंत्रः॑ कविश॒स्त ऋघा॑वान् । त्रि॒रश्रिं॑ हंति॒ चतु॑रश्रिरु॒ग्रो दे॑व॒निदो॒ ह प्र॑थ॒मा अ॑जूर्यन् ॥
ए॒तत् , च॒न , त्वः॒ , वि , चि॒के॒त॒त् , ए॒षां॒ , स॒त्यः , मंत्रः॑ , क॒वि॒ऽश॒स्तः , ऋघा॑वान् । त्रिः॒ऽअश्रिं॑ , हं॒ति॒ , चतुः॑ऽअश्रिः , उ॒ग्रः , दे॒व॒ऽनिदः॑ , ह॒ , प्र॒थ॒माः , अ॒जू॒र्य॒न् ॥
अ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां॒ कस्तद्वां॑ मित्रावरु॒णा चि॑केत । गर्भो॑ भा॒रं भ॑र॒त्या चि॑दस्य ऋ॒तं पिप॒र्त्यनृ॑तं॒ नि ता॑रीत् ॥
अ॒पात् , ए॒ति॒ , प्र॒थ॒मा , प॒त्ऽवती॑नां , कः , तत् , वां॒ , मि॒त्रा॒व॒रु॒णा॒ , आ , चि॒के॒त॒ । गर्भः॑ , भा॒रं , भ॒र॒ति॒ , आ , चि॒त् , अ॒स्य॒ , ऋ॒तं , पिप॑र्ति , अनृ॑तं , नि , ता॒रीत् ॥
प्र॒यंत॒मित्परि॑ जा॒रं क॒नीनां॒ पश्या॑मसि॒ नोप॑नि॒पद्य॑मानं । अन॑वपृग्णा॒ वित॑ता॒ वसा॑नं प्रि॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाम॑ ॥
प्र॒ऽयंतं॑ , इत् , परि॑ , जा॒रं , क॒नीनां॑ , पश्या॑मसि , न , उ॒प॒ऽनि॒पद्य॑मानं । अन॑वऽपृग्णा , विऽत॑ता , वसा॑नं , प्रि॒यं , मि॒त्रस्य॑ , वरु॑णस्य , धाम॑ ॥
अ॒न॒श्वो जा॒तो अ॑नभी॒शुरर्वा॒ कनि॑क्रदत्पतयदू॒र्ध्वसा॑नुः । अ॒चित्तं॒ ब्रह्म॑ जुजुषु॒र्युवा॑नः॒ प्र मि॒त्रे धाम॒ वरु॑णे गृ॒णंतः॑ ॥
अ॒न॒श्वः , जा॒तः , अ॒न॒भी॒शुः , अर्वा॑ , कनि॑क्रदत् , प॒त॒य॒त् , ऊ॒र्ध्वऽसा॑नुः । अ॒चित्तं॑ , ब्रह्म॑ , जु॒जु॒षुः॒ , युवा॑नः , प्र , मि॒त्रे , धाम॑ , वरु॑णे , गृ॒णंतः॑ ॥
आ धे॒नवो॑ मामते॒यमवं॑तीर्ब्रह्म॒प्रियं॑ पीपयं॒त्सस्मि॒न्नूध॑न् । पि॒त्वो भि॑क्षेत व॒युना॑नि वि॒द्वाना॒साविवा॑स॒न्नदि॑तिमुरुष्येत् ॥
आ , धे॒नवः॑ , मा॒म॒ते॒यं , अवं॑तीः , ब्र॒ह्म॒ऽप्रियं॑ , पी॒प॒य॒न् , सस्मि॑न् , ऊध॑न् । पि॒त्वः , भि॒क्षे॒त॒ , व॒युना॑नि , वि॒द्वान् , आ॒सा , आ॒ऽविवा॑सन् , अदि॑तिं , उ॒रु॒ष्ये॒त् ॥
आ वां॑ मित्रावरुणा ह॒व्यजु॑ष्टिं॒ नम॑सा देवा॒वव॑सा ववृत्यां । अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या अ॒स्माकं॑ वृ॒ष्टिर्दि॒व्या सु॑पा॒रा ॥
आ , वां॒ , मि॒त्रा॒व॒रु॒णा॒ , ह॒व्यऽजु॑ष्टिं , नम॑सा , दे॒वौ॒ , अव॑सा , व॒वृ॒त्यां॒ । अ॒स्माकं॑ , ब्रह्म॑ , पृत॑नासु , स॒ह्याः॒ , अ॒स्माकं॑ , वृ॒ष्टिः , दि॒व्या , सु॒ऽपा॒रा ॥
[१५३] यजामहइति चतुरृचस्य सूक्तस्यौचथ्योदीर्घतमामित्रावरुणौत्रिष्टुप् |
यजा॑महे वां म॒हः स॒जोषा॑ ह॒व्येभि॑र्मित्रावरुणा॒ नमो॑भिः । घृ॒तैर्घृ॑तस्नू॒ अध॒ यद्वा॑म॒स्मे अ॑ध्व॒र्यवो॒ न धी॒तिभि॒र्भरं॑ति ॥
यजा॑महे , वां॒ , म॒हः , स॒ऽजोषाः॑ , ह॒व्येभिः॑ , मि॒त्रा॒व॒रु॒णा॒ , नमः॑ऽभिः । घृ॒तैः , घृ॒त॒स्नू॒ इति॑ घृतऽस्नू , अध॑ , यत् , वां॒ , अ॒स्मे इति॑ , अ॒ध्व॒र्यवः॑ , न , धी॒तिऽभिः॑ , भरं॑ति ॥
प्रस्तु॑तिर्वां॒ धाम॒ न प्रयु॑क्ति॒रया॑मि मित्रावरुणा सुवृ॒क्तिः । अ॒नक्ति॒ यद्वां॑ वि॒दथे॑षु॒ होता॑ सु॒म्नं वां॑ सू॒रिर्वृ॑षणा॒विय॑क्षन् ॥
प्रऽस्तु॑तिः , वां॒ , धाम॑ , न , प्रऽयु॑क्तिः , अया॑मि , मि॒त्रा॒व॒रु॒णा॒ , सु॒ऽवृ॒क्तिः । अ॒नक्ति॑ , यत् , वां॒ , वि॒दथे॑षु , होता॑ , सु॒म्नं , वां॒ , सू॒रिः , वृ॒ष॒णौ॒ , इय॑क्षन् ॥
पी॒पाय॑ धे॒नुरदि॑तिर्ऋ॒ताय॒ जना॑य मित्रावरुणा हवि॒र्दे । हि॒नोति॒ यद्वां॑ वि॒दथे॑ सप॒र्यंत्स रा॒तह॑व्यो॒ मानु॑षो॒ न होता॑ ॥
पी॒पाय॑ , धे॒नुः , अदि॑तिः , ऋ॒ताय॑ , जना॑य , मि॒त्रा॒व॒रु॒णा॒ , ह॒विः॒ऽदे । हि॒नोति॑ , यत् , वां॒ , वि॒दथे॑ , स॒प॒र्यन् , सः , रा॒तऽह॑व्यः , मानु॑षः , न , होता॑ ॥
उ॒त वां॑ वि॒क्षु मद्या॒स्वंधो॒ गाव॒ आप॑श्च पीपयंत दे॒वीः । उ॒तो नो॑ अ॒स्य पू॒र्व्यः पति॒र्दन्वी॒तं पा॒तं पय॑स उ॒स्रिया॑याः ॥
उ॒त , वां॒ , वि॒क्षु , मद्या॑सु , अंधः॑ , गावः॑ , आपः॑ , च॒ , पी॒प॒यं॒त॒ , दे॒वीः । उ॒तो इति॑ , नः॒ , अ॒स्य , पू॒र्व्यः , पतिः॑ , दन् , वी॒तं , पा॒तं , पय॑सः , उ॒स्रिया॑याः ॥
[१५४] विष्णोर्नुकमिति षडृचस्य सूक्तस्यौचध्योदीर्घतमा विष्णुस्त्रिष्टुप् |
विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥
विष्णोः॑ , नु , कं॒ , वी॒र्या॑णि , प्र , वो॒चं॒ , यः , पार्थि॑वानि , वि॒ऽम॒मे , रजां॑सि । यः , अस्क॑भायत् , उत्ऽत॑रं , स॒धऽस्थं॑ , वि॒ऽच॒क्र॒मा॒णः , त्रे॒धा , ऊ॒रु॒ऽगा॒यः ॥
प्र तद्विष्णुः॑ स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यंति॒ भुव॑नानि॒ विश्वा॑ ॥
प्र , तत् , विष्णुः॑ , स्त॒व॒ते॒ , वी॒र्ये॑ण , मृ॒गः , न , भी॒मः , कु॒च॒रः , गि॒रि॒ऽस्थाः । यस्य॑ , उ॒रुषु॑ , त्रि॒षु , वि॒ऽक्रम॑णेषु , अ॒धि॒ऽक्षि॒यंति॑ , भुव॑नानि , विश्वा॑ ॥
प्र विष्ण॑वे शू॒षमे॑तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे॑ । य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको॑ विम॒मे त्रि॒भिरित्प॒देभिः॑ ॥
प्र , विष्ण॑वे , शू॒षं , ए॒तु॒ , मन्म॑ , गि॒रि॒ऽक्षिते॑ , उ॒रु॒ऽगा॒याय॑ , वृष्णे॑ । यः , इ॒दं , दी॒र्घं , प्रऽय॑तं , स॒धऽस्थं॑ , एकः॑ , वि॒ऽम॒मे , त्रि॒ऽभिः , इत् , प॒देऽभिः॑ ॥
यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी॑यमाणा स्व॒धया॒ मदं॑ति । य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको॑ दा॒धार॒ भुव॑नानि॒ विश्वा॑ ॥
यस्य॑ , त्री , पू॒र्णा , मधु॑ना , प॒दानि॑ , अक्षी॑यमाणा , स्व॒धया॑ , मदं॑ति । यः , ऊँ॒ इति॑ , त्रि॒ऽधातु॑ , पृ॒थि॒वीं , उ॒त , द्यां , एकः॑ , दा॒धार॑ , भुव॑नानि , विश्वा॑ ॥
तद॑स्य प्रि॒यम॒भि पाथो॑ अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मदं॑ति । उ॒रु॒क्र॒मस्य॒ स हि बंधु॑रि॒त्था विष्णोः॑ प॒दे प॑र॒मे मध्व॒ उत्सः॑ ॥
तत् , अ॒स्य॒ , प्रि॒यं , अ॒भि , पाथः॑ , अ॒श्यां॒ , नरः॑ , यत्र॑ , दे॒व॒ऽयवः॑ , मदं॑ति । उ॒रु॒ऽक्र॒मस्य॑ , सः , हि , बंधुः॑ , इ॒त्था , विष्णोः॑ , प॒दे , प॒र॒मे , मध्वः॑ , उत्सः॑ ॥
ता वां॒ वास्तू॑न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृंगा अ॒यासः॑ । अत्राह॒ तदु॑रुगा॒यस्य॒ वृष्णः॑ पर॒मं प॒दमव॑ भाति॒ भूरि॑ ॥
ता , वां॒ , वास्तू॑नि , उ॒श्म॒सि॒ , गम॑ध्यै , यत्र॑ , गावः॑ , भूरि॑ऽशृंगाः , अ॒यासः॑ । अत्र॑ , अह॑ , तत् , उ॒रु॒ऽगा॒यस्य॑ , वृष्णः॑ , प॒र॒मं , प॒दं , अव॑ , भा॒ति॒ , भूरि॑ ॥
[१५५] प्रवःपांतमिति षडृचस्य सूक्तस्यौचथ्योदीर्घतमा आद्यानांतिसृणामिंद्राविष्णू ततस्तिसृणांविष्णुर्जगती |
प्र वः॒ पांत॒मंध॑सो धियाय॒ते म॒हे शूरा॑य॒ विष्ण॑वे चार्चत । या सानु॑नि॒ पर्व॑ताना॒मदा॑भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना॑ ॥
प्र , वः॒ , पांतं॑ , अंध॑सः , धि॒या॒ऽय॒ते , म॒हे , शूरा॑य , विष्ण॑वे , च॒ , अ॒र्च॒त॒ । या , सानु॑नि , पर्व॑तानां , अदा॑भ्या , म॒हः , त॒स्थतुः॑ , अर्व॑ताऽइव , सा॒धुना॑ ॥
त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी॑वतो॒रिंद्रा॑विष्णू सुत॒पा वा॑मुरुष्यति । या मर्त्या॑य प्रतिधी॒यमा॑न॒मित्कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ ॥
त्वे॒षं , इ॒त्था , सं॒ऽअर॑णं , शिमी॑ऽवतोः , इंद्रा॑विष्णू॒ इति॑ , सु॒त॒ऽपाः , वां॒ , उ॒रु॒ष्य॒ति॒ । या , मर्त्या॑य , प्र॒ति॒ऽधी॒यमा॑नं , इत् , कृ॒शानोः॑ , अस्तुः॑ , अ॒स॒नां , उ॒रु॒ष्यथः॑ ॥
ता ईं॑ वर्धंति॒ मह्य॑स्य॒ पौंस्यं॒ नि मा॒तरा॑ नयति॒ रेत॑से भु॒जे । दधा॑ति पु॒त्रोऽव॑रं॒ परं॑ पि॒तुर्नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥
ताः , ईं॒ , व॒र्धं॒ति॒ , महि॑ , अ॒स्य॒ , पौंस्यं॑ , नि , मा॒तरा॑ , न॒य॒ति॒ , रेत॑से , भु॒जे । दधा॑ति , पु॒त्रः , अव॑रं , परं॑ , पि॒तुः , नाम॑ , तृ॒तीयं॑ , अधि॑ , रो॒च॒ने , दि॒वः ॥
तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुषः॑ । यः पार्थि॑वानि त्रि॒भिरिद्विगा॑मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे॑ ॥
तत्ऽत॑त् , इत् , अ॒स्य॒ , पौंस्यं॑ , गृ॒णी॒म॒सि॒ , इ॒नस्य॑ , त्रा॒तुः , अ॒वृ॒कस्य॑ , मी॒ळ्हुषः॑ । यः , पार्थि॑वानि , त्रि॒ऽभिः , इत् , विगा॑मऽभिः , उ॒रु , क्रमि॑ष्ट , उ॒रु॒ऽगा॒याय॑ , जी॒वसे॑ ॥
द्वे इद॑स्य॒ क्रम॑णे स्व॒र्दृशो॑ऽभि॒ख्याय॒ मर्त्यो॑ भुरण्यति । तृ॒तीय॑मस्य॒ नकि॒रा द॑धर्षति॒ वय॑श्च॒न प॒तयं॑तः पत॒त्रिणः॑ ॥
द्वे इति॑ , इत् , अ॒स्य॒ , क्रम॑णे॒ इति॑ , स्वः॒ऽदृशः॑ , अ॒भि॒ऽख्याय॑ , मर्त्यः॑ , भु॒र॒ण्य॒ति॒ । तृ॒तीयं॑ , अ॒स्य॒ , नकिः॑ , आ , द॒ध॒र्ष॒ति॒ , वयः॑ , च॒न , प॒तयं॑तः , प॒त॒त्रिणः॑ ॥
च॒तुर्भिः॑ सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यतीँ॑रवीविपत् । बृ॒हच्छ॑रीरो वि॒मिमा॑न॒ ऋक्व॑भि॒र्युवाकु॑मारः॒ प्रत्ये॑त्याह॒वं ॥
च॒तुःऽभिः॑ , सा॒कं , न॒व॒तिं , च॒ , नाम॑ऽभिः , च॒क्रं , न , वृ॒त्तं , व्यती॑न् , अ॒वी॒वि॒प॒त् । बृ॒हत्ऽश॑रीरः , वि॒ऽमिमा॑नः , ऋक्व॑ऽभिः , युवा॑ , अकु॑मारः , प्रति॑ , ए॒ति॒ , आ॒ऽह॒वं ॥
[१५६] भवामित्रइति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाविष्णुर्जगती |
भवा॑ मि॒त्रो न शेव्यो॑ घृ॒तासु॑ति॒र्विभू॑तद्युम्न एव॒या उ॑ स॒प्रथाः॑ । अधा॑ ते विष्णो वि॒दुषा॑ चि॒दर्ध्यः॒ स्तोमो॑ य॒ज्ञश्च॒ राध्यो॑ ह॒विष्म॑ता ॥
भव॑ , मि॒त्रः , न , शेव्यः॑ , घृ॒तऽआ॑सुतिः , विभू॑तऽद्युम्नः , ए॒व॒ऽयाः , ऊँ॒ इति॑ , स॒ऽप्रथाः॑ । अध॑ , ते॒ , वि॒ष्णो॒ इति॑ , वि॒दुषा॑ , चि॒त् , अर्ध्यः॑ , स्तोमः॑ , य॒ज्ञः , च॒ , राध्यः॑ , ह॒विष्म॑ता ॥
यः पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति । यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त्सेदु॒ श्रवो॑भि॒र्युज्यं॑ चिद॒भ्य॑सत् ॥
यः , पू॒र्व्याय॑ , वे॒धसे॑ , नवी॑यसे , सु॒मत्ऽजा॑नये , विष्ण॑वे , ददा॑शति । यः , जा॒तं , अ॒स्य॒ , म॒ह॒तः , महि॑ , ब्रव॑त् , सः , इत् , ऊँ॒ इति॑ , श्रवः॑ऽभिः , युज्यं॑ , चि॒त् , अ॒भि , अ॒स॒त् ॥
तमु॑ स्तोतारः पू॒र्व्यं यथा॑ वि॒द ऋ॒तस्य॒ गर्भं॑ ज॒नुषा॑ पिपर्तन । आस्य॑ जा॒नंतो॒ नाम॑ चिद्विवक्तन म॒हस्ते॑ विष्णो सुम॒तिं भ॑जामहे ॥
तं , ऊँ॒ इति॑ , स्तो॒ता॒रः॒ , पू॒र्व्यं , यथा॑ , वि॒द , ऋ॒तस्य॑ , गर्भं॑ , ज॒नुषा॑ , पि॒प॒र्त॒न॒ । आ , अ॒स्य॒ , जा॒नंतः॑ , नाम॑ , चि॒त् , वि॒व॒क्त॒न॒ , म॒हः , ते॒ , वि॒ष्णो॒ इति॑ , सु॒ऽम॒तिं , भ॒जा॒म॒हे॒ ॥
तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं॑ सचंत॒ मारु॑तस्य वे॒धसः॑ । दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं॑ व्र॒जं च॒ विष्णुः॒ सखि॑वाँ अपोर्णु॒ते ॥
तं , अ॒स्य॒ , राजा॑ , वरु॑णः , तं , अ॒श्विना॑ , क्रतुं॑ , स॒चं॒त॒ , मारु॑तस्य , वे॒धसः॑ । दा॒धार॑ , दक्षं॑ , उ॒त्ऽत॒मं , अ॒हः॒ऽविदं॑ , व॒र्जं , च॒ , विष्णुः॑ , सखि॑ऽवान् , अ॒प॒ऽऊ॒र्णु॒ते ॥
आ यो वि॒वाय॑ स॒चथा॑य॒ दैव्य॒ इंद्रा॑य॒ विष्णुः॑ सु॒कृते॑ सु॒कृत्त॑रः । वे॒धा अ॑जिन्वत्त्रिषध॒स्थ आर्य॑मृ॒तस्य॑ भा॒गे यज॑मान॒माभ॑जत् ॥
आ , यः , वि॒वाय॑ , स॒चथा॑य , दैव्यः॑ , इंद्रा॑य , विष्णुः॑ , सु॒ऽकृते॑ , सु॒कृत्ऽत॑रः । वे॒धाः , अ॒जि॒न्व॒त् , त्रि॒ऽस॒ध॒स्थः , आर्यं॑ , ऋ॒तस्य॑ , भा॒गे , यज॑मानं , आ , अ॒भ॒ज॒त् ॥
[१५७] अबोध्यग्निरिति षडृचस्य सूक्तस्यौचथ्योदीर्घतमाअश्विनौ जगत्यंत्येद्वेत्रिष्टुभौ |
अबो॑ध्य॒ग्निर्ज्म उदे॑ति॒ सूर्यो॒ व्यु१॒॑षाश्चं॒द्रा म॒ह्या॑वो अ॒र्चिषा॑ । आयु॑क्षाताम॒श्विना॒ यात॑वे॒ रथं॒ प्रासा॑वीद्दे॒वः स॑वि॒ता जग॒त्पृथ॑क् ॥
अबो॑धि , अ॒ग्निः , ज्मः , उत् , ए॒ति॒ , सूर्यः॑ , वि , उ॒षाः , चं॒द्रा , म॒ही , आ॒वः॒ , अ॒र्चिषा॑ । अयु॑क्षातां , अ॒श्विना॑ , यात॑वे , रथं॑ , प्र , अ॒सा॒वी॒त् , दे॒वः , स॒वि॒ता , जग॑त् , पृथ॑क् ॥
यद्युं॒जाथे॒ वृष॑णमश्विना॒ रथं॑ घृ॒तेन॑ नो॒ मधु॑ना क्ष॒त्रमु॑क्षतं । अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु जिन्वतं व॒यं धना॒ शूर॑साता भजेमहि ॥
यत् , युं॒जाथे॒ इति॑ , वृष॑णं , अ॒श्वि॒ना॒ , रथं॑ , घृ॒तेन॑ , नः॒ , मधु॑ना , क्ष॒त्रं , उ॒क्ष॒तं॒ । अ॒स्माकं॑ , ब्रह्म॑ , पृत॑नासु , जि॒न्व॒तं॒ , व॒यं , धना॑ , शूर॑ऽसाता , भ॒जे॒म॒हि॒ ॥
अ॒र्वाङ्त्रि॑च॒क्रो म॑धु॒वाह॑नो॒ रथो॑ जी॒राश्वो॑ अ॒श्विनो॑र्यातु॒ सुष्टु॑तः । त्रि॒वं॒धु॒रो म॒घवा॑ वि॒श्वसौ॑भगः॒ शं न॒ आ व॑क्षद्द्वि॒पदे॒ चतु॑ष्पदे ॥
अ॒र्वाङ् , त्रि॒ऽच॒क्रः , म॒धु॒ऽवाह॑नः , रथः॑ , जी॒रऽअ॑श्वः , अ॒श्विनोः॑ , या॒तु॒ , सुऽस्तु॑तः । त्रि॒ऽवं॒धु॒रः , म॒घऽवा॑ , वि॒श्वऽसौ॑भगः , शं , नः॒ , आ , व॒क्ष॒त् , द्वि॒ऽपदे॑ , चतुः॑ऽपदे ॥
आ न॒ ऊर्जं॑ वहतमश्विना यु॒वं मधु॑मत्या नः॒ कश॑या मिमिक्षतं । प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥
आ , नः॒ , ऊर्जं॑ , व॒ह॒तं॒ , अ॒श्वि॒ना॒ , यु॒वं , मधु॑ऽमत्या , नः॒ , कश॑या , मि॒मि॒क्ष॒तं॒ । प्र , आयुः॑ , तारि॑ष्टं , निः , रपां॑सि , मृ॒क्ष॒तं॒ , सेध॑तं , द्वेषः॑ , भव॑तं , स॒चा॒ऽभुवा॑ ॥
यु॒वं ह॒ गर्भं॒ जग॑तीषु धत्थो यु॒वं विश्वे॑षु॒ भुव॑नेष्वं॒तः । यु॒वम॒ग्निं च॑ वृषणाव॒पश्च॒ वन॒स्पतीँ॑रश्विना॒वैर॑येथां ॥
यु॒वं , ह॒ , गर्भं॑ , जग॑तीषु , ध॒त्थः॒ , यु॒वं , विश्वे॑षु , भुव॑नेषु , अं॒तरिति॑ । यु॒वं , अ॒ग्निं , च॒ , वृ॒ष॒णौ॒ , अ॒पः , च॒ , वन॒स्पती॑न् , अ॒श्वि॒नौ॒ , ऐर॑येथां ॥
यु॒वं ह॑ स्थो भि॒षजा॑ भेष॒जेभि॒रथो॑ ह स्थो र॒थ्या॒३॒॑ राथ्ये॑भिः । अथो॑ ह क्ष॒त्रमधि॑ धत्थ उग्रा॒ यो वां॑ ह॒विष्मा॒न्मन॑सा द॒दाश॑ ॥
यु॒वं , ह॒ , स्थः॒ , भि॒षजा॑ , भे॒ष॒जेभिः॑ , अथो॒ इति॑ , ह॒ , स्थः॒ , र॒थ्या॑ , रथ्ये॑भि॒रिति॒ रथ्ये॑भिः । अथो॒ इति॑ , ह॒ , क्ष॒त्रं , अधि॑ , ध॒त्थ॒ , उ॒ग्रा॒ , यः , वां॒ , ह॒विष्मा॑न् , मन॑सा , द॒दाश॑ ॥
[१५८] वसूरुद्राइति षडृचस्य सूक्तस्यौचथ्योदीर्घतमाअश्विनौत्रिष्टुबंत्यानुष्टुप् |
वसू॑ रु॒द्रा पु॑रु॒मंतू॑ वृ॒धंता॑ दश॒स्यतं॑ नो वृषणाव॒भिष्टौ॑ । दस्रा॑ ह॒ यद्रेक्ण॑ औच॒थ्यो वां॒ प्र यत्स॒स्राथे॒ अक॑वाभिरू॒ती ॥
वसू॒ इति॑ , रु॒द्रा , पु॒रु॒मंतू॒ इति॑ पु॒रु॒ऽमंतू॑ , वृ॒धंता॑ , द॒श॒स्यतं॑ , नः॒ , वृ॒ष॒णौ॒ , अ॒भिष्टौ॑ । दस्रा॑ , ह॒ , यत् , रेक्णः॑ , औ॒च॒थ्यः , वां॒ , प्र , यत् , स॒स्राथे॒ इति॑ , अक॑वाभिः , ऊ॒ती ॥
को वां॑ दाशत्सुम॒तये॑ चिद॒स्यै वसू॒ यद्धेथे॒ नम॑सा प॒दे गोः । जि॒गृ॒तम॒स्मे रे॒वतीः॒ पुरं॑धीः काम॒प्रेणे॑व॒ मन॑सा॒ चरं॑ता ॥
कः , वां॒ , दा॒श॒त् , सु॒ऽम॒तये॑ , चि॒त् , अ॒स्यै , वसू॒ इति॑ , यत् , धेथे॒ इति॑ , नम॑सा , प॒दे , गोः । जि॒गृ॒तं , अ॒स्मे इति॑ , रे॒वतीः॑ , पुरं॑ऽधीः , का॒म॒प्रेण॑ऽइव , मन॑सा , चरं॑ता ॥
यु॒क्तो ह॒ यद्वां॑ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒ अर्ण॑सो॒ धायि॑ प॒ज्रः । उप॑ वा॒मवः॑ शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवैः॑ ॥
यु॒क्तः , ह॒ , यत् , वां॒ , तौ॒ग्र्याय॑ , पे॒रुः , वि , मध्ये॑ , अर्ण॑सः , धायि॑ , प॒ज्रः । उप॑ , वां॒ , अवः॑ , श॒र॒णं , ग॒मे॒यं॒ , शूरः॑ , न , अज्म॑ , प॒तय॑त्ऽभिः , एवैः॑ ॥
उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धां । मा मामेधो॒ दश॑तयश्चि॒तो धा॒क्प्र यद्वां॑ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षां ॥
उप॑ऽस्तुतिः , औ॒च॒थ्यं , उ॒रु॒ष्ये॒त् , मा , मां , इ॒मे इति॑ , प॒त॒त्रिणी॒ इति॑ , वि , दु॒ग्धां॒ । मा , मां , एधः॑ , दश॑ऽतयः , चि॒तः , धा॒क् , प्र , यत् , वां॒ , ब॒द्धः , त्मनि॑ , खाद॑ति , क्षां ॥
न मा॑ गरन्न॒द्यो॑ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधुः॑ । शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त्स्व॒यं दा॒स उरो॒ अंसा॒वपि॑ ग्ध ॥
न , मा॒ , ग॒र॒न् , न॒द्यः॑ , मा॒तृऽत॑माः , दा॒साः , यत् , ईं॒ , सुऽस॑मुब्धं , अ॒व॒ऽअधुः॑ । शिरः॑ , यत् , अ॒स्य॒ , त्रै॒त॒नः , वि॒ऽतक्ष॑त् , स्व॒यं , दा॒सः , उरः॑ , अंसौ॑ , अपि॑ , ग्धेति॑ ग्ध ॥
दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वांद॑श॒मे यु॒गे । अ॒पामर्थं॑ य॒तीनां॑ ब्र॒ह्मा भ॑वति॒ सार॑थिः ॥
दी॒र्घऽत॑माः , मा॒म॒ते॒यः , जु॒जु॒र्वान् , द॒श॒मे , यु॒गे । अ॒पां , अर्थं॑ , य॒तीनां॑ , ब्र॒ह्मा , भ॒व॒ति॒ , सार॑थिः ॥
[१५९] प्रद्यावायज्ञैरिति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाद्यावापृथिव्यौजगती |
प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी ऋ॑ता॒वृधा॑ म॒ही स्तु॑षे वि॒दथे॑षु॒ प्रचे॑तसा । दे॒वेभि॒र्ये दे॒वपु॑त्रे सु॒दंस॑से॒त्था धि॒या वार्या॑णि प्र॒भूष॑तः ॥
प्र , द्यावा॑ , य॒ज्ञैः , पृ॒थि॒वी इति॑ , ऋ॒त॒ऽवृधा॑ , म॒ही इति॑ , स्तु॒षे॒ , वि॒दथे॑षु , प्रऽचे॑तसा । दे॒वेभिः॑ , ये इति॑ , दे॒वऽपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे , सु॒ऽदंस॑सा , इ॒त्था , धि॒या , वार्या॑णि , प्र॒ऽभूष॑तः ॥
उ॒त म॑न्ये पि॒तुर॒द्रुहो॒ मनो॑ मा॒तुर्महि॒ स्वत॑व॒स्तद्धवी॑मभिः । सु॒रेत॑सा पि॒तरा॒ भूम॑ चक्रतुरु॒रु प्र॒जाया॑ अ॒मृतं॒ वरी॑मभिः ॥
उ॒त , म॒न्ये॒ , पि॒तुः , अ॒द्रुहः॑ , मनः॑ , मा॒तुः , महि॑ , स्वऽत॑वः , तत् , हवी॑मऽभिः । सु॒ऽरेत॑सा , पि॒तरा॑ , भूम॑ , च॒क्र॒तुः॒ , उ॒रु , प्र॒ऽजायाः॑ , अ॒मृतं॑ , वरी॑मऽभिः ॥
ते सू॒नवः॒ स्वप॑सः सु॒दंस॑सो म॒ही ज॑ज्ञुर्मा॒तरा॑ पू॒र्वचि॑त्तये । स्था॒तुश्च॑ स॒त्यं जग॑तश्च॒ धर्म॑णि पु॒त्रस्य॑ पाथः प॒दमद्व॑याविनः ॥
ते , सू॒नवः॑ , सु॒ऽअप॑सः , सु॒ऽदंस॑सः , म॒ही इति॑ , ज॒ज्ञुः॒ , मा॒तरा॑ , पू॒र्वऽचि॑त्तये । स्था॒तुः , च॒ , स॒त्यं , जग॑तः , च॒ , धर्म॑णि , पु॒त्रस्य॑ , पा॒थः॒ , प॒दं , अद्व॑याविनः ॥
ते मा॒यिनो॑ ममिरे सु॒प्रचे॑तसो जा॒मी सयो॑नी मिथु॒ना समो॑कसा । नव्यं॑नव्यं॒ तंतु॒मा त॑न्वते दि॒वि स॑मु॒द्रे अं॒तः क॒वयः॑ सुदी॒तयः॑ ॥
ते , मा॒यिनः॑ , म॒मि॒रे॒ , सु॒ऽप्रचे॑तसः , जा॒मी इति॑ , सयो॑नी॒ इति॒ सऽयो॑नी , मि॒थु॒ना , संऽओ॑कसा । नव्यं॑ऽनव्यं , तंतुं॑ , आ , त॒न्व॒ते , दि॒वि , स॒मु॒द्रे , अं॒तरिति॑ , क॒वयः॑ , सु॒ऽदी॒तयः॑ ॥
तद्राधो॑ अ॒द्य स॑वि॒तुर्वरे॑ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे । अ॒स्मभ्यं॑ द्यावापृथिवी सुचे॒तुना॑ र॒यिं ध॑त्तं॒ वसु॑मंतं शत॒ग्विनं॑ ॥
तत् , राधः॑ , अ॒द्य , स॒वि॒तुः , वरे॑ण्यं , व॒यं , दे॒वस्य॑ , प्र॒ऽस॒वे , म॒ना॒म॒हे॒ । अ॒स्मभ्यं॑ , द्या॒वा॒पृ॒थि॒वी॒ इति॑ , सु॒ऽचे॒तुना॑ , र॒यिं , ध॒त्तं॒ , वसु॑ऽमंतं , श॒त॒ऽग्विनं॑ ॥
[१६०] तेहीति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाद्यावापृथिव्यौजगती |
ते हि द्यावा॑पृथि॒वी वि॒श्वशं॑भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी । सु॒जन्म॑नी धि॒षणे॑ अं॒तरी॑यते दे॒वो दे॒वी धर्म॑णा॒ सूर्यः॒ शुचिः॑ ॥
ते इति॑ , हि , द्यावा॑पृथि॒वी इति॑ , वि॒श्वऽशं॑भुवा , ऋ॒तव॑री॒ इत्यृ॒तऽव॑री , रज॑सः , धा॒र॒यत्क॑वी॒ इति॑ धा॒र॒यत्ऽक॑वी । सु॒जन्म॑नी॒ इति॑ सु॒ऽजन्म॑नी , धि॒षणे॒ इति॑ , अं॒तः , ई॒य॒ते॒ , दे॒वः , दे॒वी इति॑ , धर्म॑णा , सूर्यः॑ , शुचिः॑ ॥
उ॒रु॒व्यच॑सा म॒हिनी॑ अस॒श्चता॑ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः । सु॒धृष्ट॑मे वपु॒ष्ये॒३॒॑ न रोद॑सी पि॒ता यत्सी॑म॒भि रू॒पैरवा॑सयत् ॥
उ॒रु॒ऽव्यच॑सा , म॒हिनी॒ इति॑ , अ॒स॒श्चता॑ , पि॒ता , मा॒ता , च॒ , भुव॑नानि , र॒क्ष॒तः॒ । सु॒धृष्ट॑मे॒ इति॑ सु॒ऽधृष्ट॑मे , व॒पु॒ष्ये॒३॒॑ इति॑ , न , रोद॑सी॒ इति॑ , पि॒ता , यत् , सीं॒ , अ॒भि , रू॒पैः , अवा॑सयत् ॥
स वह्निः॑ पु॒त्रः पि॒त्रोः प॒वित्र॑वान्पु॒नाति॒ धीरो॒ भुव॑नानि मा॒यया॑ । धे॒नुं च॒ पृश्निं॑ वृष॒भं सु॒रेत॑सं वि॒श्वाहा॑ शु॒क्रं पयो॑ अस्य दुक्षत ॥
सः , वह्निः॑ , पु॒त्रः , पि॒त्रोः , प॒वित्र॑ऽवान् , पु॒नाति॑ , धीरः॑ , भुव॑नानि , मा॒यया॑ । धे॒नुं , च॒ , पृश्निं॑ , वृ॒ष॒भं , सु॒ऽरेत॑सं , वि॒श्वाहा॑ , शु॒क्रं , पयः॑ , अ॒स्य॒ , धु॒क्ष॒त॒ ॥
अ॒यं दे॒वाना॑म॒पसा॑म॒पस्त॑मो॒ यो ज॒जान॒ रोद॑सी वि॒श्वशं॑भुवा । वि यो म॒मे रज॑सी सुक्रतू॒यया॒जरे॑भिः॒ स्कंभ॑नेभिः॒ समा॑नृचे ॥
अ॒यं , दे॒वानां॑ , अ॒पसां॑ , अ॒पःऽत॑मः , यः , ज॒जान॑ , रोद॑सी॒ इति॑ , वि॒श्वऽशं॑भुवा । वि , यः , म॒मे , रज॑सी॒ इति॑ , सु॒क्र॒तु॒ऽयया॑ , अ॒जरे॑भिः , स्कंभ॑नेभिः , सं , आ॒नृ॒चे॒ ॥
ते नो॑ गृणा॒ने म॑हिनी॒ महि॒ श्रवः॑ क्ष॒त्रं द्या॑वापृथिवी धासथो बृ॒हत् । येना॒भि कृ॒ष्टीस्त॒तना॑म वि॒श्वहा॑ प॒नाय्य॒मोजो॑ अ॒स्मे समि॑न्वतं ॥
ते इति॑ , नः॒ , गृ॒णा॒ने इति॑ , म॒हि॒नी॒ इति॑ , महि॑ , श्रवः॑ , क्ष॒त्रं , द्या॒वा॒पृ॒थि॒वी॒ इति॑ , धा॒स॒थः॒ , बृ॒हत् । येन॑ , अ॒भि , कृ॒ष्टीः , त॒तना॑म , वि॒श्वहा॑ , प॒नाय्यं॑ , ओजः॑ , अ॒स्मे इति॑ , सं , इ॒न्व॒तं॒ ॥
[१६१] किमुश्रेष्ठइति चतुर्दशर्चस्य सूक्तस्यौचथ्योदीर्घतमाऋभवोजगत्यंत्या त्रिष्टुप् |
किमु॒ श्रेष्ठः॒ किं यवि॑ष्ठो न॒ आज॑ग॒न्किमी॑यते दू॒त्यं१॒॑ कद्यदू॑चि॒म । न निं॑दिम चम॒सं यो म॑हाकु॒लोऽग्ने॑ भ्रात॒र्द्रुण॒ इद्भू॒तिमू॑दिम ॥
किं , ऊँ॒ इति॑ , श्रेष्ठः॑ , किं , यवि॑ष्ठः , नः॒ , आ , अ॒ज॒ग॒न् , किं , ई॒य॒ते॒ , दू॒त्यं॑ , कत् , यत् , ऊ॒चि॒म । न , निं॒दि॒म॒ , च॒म॒सं , यः , म॒हा॒ऽकु॒लः , अग्ने॑ , भ्रा॒तः॒ , द्रुणः॑ , इत् , भू॒तिं , ऊ॒दि॒म॒ ॥
एकं॑ चम॒सं च॒तुरः॑ कृणोतन॒ तद्वो॑ दे॒वा अ॑ब्रुवं॒तद्व॒ आग॑मं । सौध॑न्वना॒ यद्ये॒वा क॑रि॒ष्यथ॑ सा॒कं दे॒वैर्य॒ज्ञिया॑सो भविष्यथ ॥
एकं॑ , च॒म॒सं , च॒तुरः॑ , कृ॒णो॒त॒न॒ , तत् , वः॒ , दे॒वाः , अ॒ब्रु॒व॒न् , तत् , वः॒ , आ , अ॒ग॒मं॒ । सौध॑न्वनाः , यदि॑ , ए॒व , क॒रि॒ष्यथ॑ , सा॒कं , दे॒वैः , य॒ज्ञिया॑सः , भ॒वि॒ष्य॒थ॒ ॥
अ॒ग्निं दू॒तं प्रति॒ यदब्र॑वीत॒नाश्वः॒ कर्त्वो॒ रथ॑ उ॒तेह कर्त्वः॑ । धे॒नुः कर्त्वा॑ युव॒शा कर्त्वा॒ द्वा तानि॑ भ्रात॒रनु॑ वः कृ॒त्व्येम॑सि ॥
अ॒ग्निं , दू॒तं , प्रति॑ , यत् , अब्र॑वीतन , अश्वः॑ , कर्त्वः॑ , रथः॑ , उ॒त , इ॒ह , कर्त्वः॑ । धे॒नुः , कर्त्वा॑ , यु॒व॒शा , कर्त्वा॑ , द्वा , तानि॑ , भ्रा॒तः॒ , अनु॑ , वः॒ , कृ॒त्वी , आ , इ॒म॒सि॒ ॥
च॒कृ॒वांस॑ ऋभव॒स्तद॑पृच्छत॒ क्वेद॑भू॒द्यः स्य दू॒तो न॒ आज॑गन् । य॒दावाख्य॑च्चम॒सांच॒तुरः॑ कृ॒तानादित्त्वष्टा॒ ग्नास्वं॒तर्न्या॑नजे ॥
च॒कृ॒ऽवांसः॑ , ऋ॒भ॒वः॒ , तत् , अ॒पृ॒च्छ॒त॒ , क्व॑ , इत् , अ॒भू॒त् , यः , स्यः , दू॒तः , नः॒ , आ , अज॑गन् । य॒दा , अ॒व॒ऽअख्य॑त् , च॒म॒सान् , च॒तुरः॑ , कृ॒तान् , आत् , इत् , त्वष्टा॑ , ग्नासु॑ , अं॒तः , नि , आ॒न॒जे॒ ॥
हना॑मैनाँ॒ इति॒ त्वष्टा॒ यदब्र॑वीच्चम॒सं ये दे॑व॒पान॒मनिं॑दिषुः । अ॒न्या नामा॑नि कृण्वते सु॒ते सचाँ॑ अ॒न्यैरे॑नान्क॒न्या॒३॒॑ नाम॑भिः स्परत् ॥
हना॑म , ए॒ना॒न् , इति॑ , त्वष्टा॑ , यत् , अब्र॑वीत् , च॒म॒सं , ये , दे॒व॒ऽपानं॑ , अनिं॑दिषुः । अ॒न्या , नामा॑नि , कृ॒ण्व॒ते॒ , सु॒ते , सचा॑ , अ॒न्यैः , ए॒ना॒न् , क॒न्या॑ , नाम॑ऽभिः , स्प॒र॒त् ॥
इंद्रो॒ हरी॑ युयु॒जे अ॒श्विना॒ रथं॒ बृह॒स्पति॑र्वि॒श्वरू॑पा॒मुपा॑जत । ऋ॒भुर्विभ्वा॒ वाजो॑ दे॒वाँ अ॑गच्छत॒ स्वप॑सो य॒ज्ञियं॑ भा॒गमै॑तन ॥
इंद्रः॑ , हरी॑ , यु॒यु॒जे , अ॒श्विना॑ , रथं॑ , बृह॒स्पतिः॑ , वि॒श्वऽरू॑पां , उप॑ , आ॒ज॒त॒ । ऋ॒भुः , विऽभ्वा॑ , वाजः॑ , दे॒वान् , अ॒ग॒च्छ॒त॒ , सु॒ऽअप॑सः , य॒ज्ञियं॑ , भा॒गं , ऐ॒त॒न॒ ॥
निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॒र्या जरं॑ता युव॒शा ताकृ॑णोतन । सौध॑न्वना॒ अश्वा॒दश्व॑मतक्षत यु॒क्त्वा रथ॒मुप॑ दे॒वाँ अ॑यातन ॥
निः , चर्म॑णः , गां , अ॒रि॒णी॒त॒ , धी॒तिऽभिः॑ , या , जरं॑ता , यु॒व॒शा , ता , अ॒कृ॒णो॒त॒न॒ । सौध॑न्वनाः , अश्वा॑त् , अश्वं॑ , अ॒त॒क्ष॒त॒ , यु॒क्त्वा , रथं॑ , उप॑ , दे॒वान् , अ॒या॒त॒न॒ ॥
इ॒दमु॑द॒कं पि॑ब॒तेत्य॑ब्रवीतने॒दं वा॑ घा पिबता मुंज॒नेज॑नं । सौध॑न्वना॒ यदि॒ तन्नेव॒ हर्य॑थ तृ॒तीये॑ घा॒ सव॑ने मादयाध्वै ॥
इ॒दं , उ॒द॒कं , पि॒ब॒त॒ , इति॑ , अ॒ब्र॒वी॒त॒न॒ , इ॒दं , वा॒ , घ॒ , पि॒ब॒त॒ , मुं॒ज॒ऽनेज॑नं । सौध॑न्वनाः , यदि॑ , तत् , नऽइ॑व , हर्य॑थ , तृ॒तीये॑ , घ॒ , सव॑ने , मा॒द॒या॒ध्वै॒ ॥
आपो॒ भूयि॑ष्ठा॒ इत्येको॑ अब्रवीद॒ग्निर्भूयि॑ष्ठ॒ इत्य॒न्यो अ॑ब्रवीत् । व॒ध॒र्यंतीं॑ ब॒हुभ्यः॒ प्रैको॑ अब्रवीदृ॒ता वदं॑तश्चम॒साँ अ॑पिंशत ॥
आपः॑ , भूयि॑ष्ठाः , इति॑ , एकः॑ , अ॒ब्र॒वी॒त् , अ॒ग्निः , भूयि॑ष्ठः , इति॑ , अ॒न्यः , अ॒ब्र॒वी॒त् । व॒धः॒ऽयंतीं॑ , ब॒हुऽभ्यः॑ , प्र , एकः॑ , अ॒ब्र॒वी॒त् , ऋ॒ता , वदं॑तः , च॒म॒सान् , अ॒पिं॒श॒त॒ ॥
श्रो॒णामेक॑ उद॒कं गामवा॑जति मां॒समेकः॑ पिंशति सू॒नयाभृ॑तं । आ नि॒म्रुचः॒ शकृ॒देको॒ अपा॑भर॒त्किं स्वि॑त्पु॒त्रेभ्यः॑ पि॒तरा॒ उपा॑वतुः ॥
श्रो॒णां , एकः॑ , उ॒द॒कं , गां , अव॑ , अ॒ज॒ति॒ , मां॒सं , एकः॑ , पिं॒श॒ति॒ , सू॒नया॑ , आऽभृ॑तं । आ , नि॒ऽम्रुचः॑ , शकृ॑त् , एकः॑ , अप॑ , अ॒भ॒र॒त् , किं , स्वि॒त् , पु॒त्रेभ्यः॑ , पि॒तरौ॑ , उप॑ , आ॒व॒तुः॒ ॥
उ॒द्वत्स्व॑स्मा अकृणोतना॒ तृणं॑ नि॒वत्स्व॒पः स्व॑प॒स्यया॑ नरः । अगो॑ह्यस्य॒ यदस॑स्तना गृ॒हे तद॒द्येदमृ॑भवो॒ नानु॑ गच्छथ ॥
उ॒द्वत्ऽसु॑ , अ॒स्मै॒ , अ॒कृ॒णो॒त॒न॒ , तृणं॑ , नि॒वत्ऽसु॑ , अ॒पः , सु॒ऽअ॒प॒स्यया॑ , न॒रः॒ । अगो॑ह्यस्य , यत् , अस॑स्तन , गृ॒हे , तत् , अ॒द्य , इ॒दं , ऋ॒भ॒वः॒ , न , अनु॑ , ग॒च्छ॒थ॒ ॥
सं॒मील्य॒ यद्भुव॑ना प॒र्यस॑र्पत॒ क्व॑ स्वित्ता॒त्या पि॒तरा॑ व आसतुः । अश॑पत॒ यः क॒रस्नं॑ व आद॒दे यः प्राब्र॑वी॒त्प्रो तस्मा॑ अब्रवीतन ॥
सं॒ऽमील्य॑ , यत् , भुव॑ना , प॒रि॒ऽअस॑र्पत , क्व॑ , स्वि॒त् , ता॒त्या , पि॒तरा॑ , वः॒ , आ॒स॒तुः॒ । अश॑पत , यः , क॒रस्नं॑ , वः॒ , आ॒ऽद॒दे , यः , प्र , अब्र॑वीत् , प्रो इति॑ , तस्मै॑ , अ॒ब्र॒वी॒त॒न॒ ॥
सु॒षु॒प्वांस॑ ऋभव॒स्तद॑पृच्छ॒तागो॑ह्य॒ क इ॒दं नो॑ अबूबुधत् । श्वानं॑ ब॒स्तो बो॑धयि॒तार॑मब्रवीत्संवत्स॒र इ॒दम॒द्या व्य॑ख्यत ॥
सु॒सु॒प्वांसः॑ , ऋ॒भ॒वः॒ , तत् , अ॒पृ॒च्छ॒त॒ , अगो॑ह्य , कः , इ॒दं , नः॒ , अ॒बू॒बु॒ध॒त् । श्वानं॑ , ब॒स्तः , बो॒ध॒यि॒तारं॑ , अ॒ब्र॒वी॒त् , सं॒व॒त्स॒रे , इ॒दं , अ॒द्य , वि , अ॒ख्य॒त॒ ॥
दि॒वा यां॑ति म॒रुतो॒ भूम्या॒ग्निर॒यं वातो॑ अं॒तरि॑क्षेण याति । अ॒द्भिर्या॑ति॒ वरु॑णः समु॒द्रैर्यु॒ष्माँ इ॒च्छंतः॑ शवसो नपातः ॥
दि॒वा , यां॒ति॒ , म॒रुतः॑ , भूम्या॑ , अ॒ग्निः , अ॒यं , वातः॑ , अं॒तरि॑क्षेण , या॒ति॒ । अ॒त्ऽभिः , या॒ति॒ , वरु॑णः , स॒मु॒द्रैः , यु॒ष्मान् , इ॒च्छंतः॑ , श॒व॒सः॒ , न॒पा॒तः॒ ॥
[१६२] मानोमित्रइति द्वाविंशत्यृचस्य सूक्तस्य औचथ्योदीर्घतमाअश्वस्त्रिष्टुप् तृतीयाषष्ट्यौजगत्यौ | (अश्वस्तुत्याश्वोदेवता) |
मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिंद्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन् । यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः॑ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥
मा , नः॒ , मि॒त्रः , वरु॑णः , अ॒र्य॒मा , आ॒युः , इंद्रः॑ , ऋ॒भु॒क्षाः , म॒रुतः॑ , परि॑ , ख्य॒न् । यत् , वा॒जिनः॑ , दे॒वऽजा॑तस्य , सप्तेः॑ , प्र॒ऽव॒क्ष्यामः॑ , वि॒दथे॑ , वी॒र्या॑णि ॥
यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नयं॑ति । सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इंद्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ॥
यत् , निः॒ऽनिजा॑ , रेक्ण॑सा , प्रावृ॑तस्य , रा॒तिं , गृ॒भी॒तां , मु॒ख॒तः , नयं॑ति । सुऽप्रा॑ङ् , अ॒जः , मेम्य॑त् , वि॒श्वऽरू॑पः , इं॒द्रा॒पू॒ष्णोः , प्रि॒यं , अपि॑ , ए॒ति॒ , पाथः॑ ॥
ए॒ष च्छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः । अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे॑नं सौश्रव॒साय॑ जिन्वति ॥
ए॒षः , छागः॑ , पु॒रः , अश्वे॑न , वा॒जिना॑ , पू॒ष्णः , भा॒गः , नी॒य॒ते॒ , वि॒श्वऽदे॑व्यः । अ॒भि॒ऽप्रियं॑ , यत् , पु॒रो॒ळाशं॑ , अर्व॑ता , त्वष्टा॑ , इत् , ए॒नं॒ , सौ॒श्र॒व॒साय॑ , जि॒न्व॒ति॒ ॥
यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नयं॑ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः ॥
यत् , ह॒वि॒ष्यं॑ , ऋ॒तु॒ऽशः , दे॒व॒ऽयानं॑ , त्रिः , मानु॑षाः , परि॑ , अश्वं॑ , नयं॑ति । अत्र॑ , पू॒ष्णः , प्र॒थ॒मः , भा॒गः , ए॒ति॒ , य॒ज्ञं , दे॒वेभ्यः॑ , प्र॒ति॒ऽवे॒दय॑न् , अ॒जः ॥
होता॑ध्व॒र्युराव॑या अग्निमिं॒धो ग्रा॑वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वं ॥
होता॑ , अ॒ध्व॒र्युः , आऽव॑याः , अ॒ग्निं॒ऽइं॒धः , ग्रा॒व॒ऽग्रा॒भः , उ॒त , शंस्ता॑ , सुऽवि॑प्रः । तेन॑ , य॒ज्ञेन॑ , सुऽअ॑रंकृतेन , सुऽइ॑ष्टेन , व॒क्षणाः॑ , आ , पृ॒ण॒ध्वं॒ ॥
यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति । ये चार्व॑ते॒ पच॑नं सं॒भरं॑त्यु॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥
यू॒प॒ऽव्र॒स्काः , उ॒त , ये , यू॒प॒ऽवा॒हाः , च॒षालं॑ , ये , अ॒श्व॒ऽयू॒पाय॑ , तक्ष॑ति । ये , च॒ , अर्व॑ते , पच॑नं , सं॒ऽभरं॑ति , उ॒तो इति॑ , तेषां॑ , अ॒भिऽगू॑र्तिः , नः॒ , इ॒न्व॒तु॒ ॥
उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः । अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदंति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बंधुं॑ ॥
उप॑ , प्र , अ॒गा॒त् , सु॒ऽमत् , मे॒ , अ॒धा॒यि॒ , मन्म॑ , दे॒वानां॑ , आशाः॑ , उप॑ , वी॒तऽपृ॑ष्ठः । अनु॑ , ए॒नं॒ , विप्राः॑ , ऋष॑यः , म॒दं॒ति॒ , दे॒वानां॑ , पु॒ष्टे , च॒कृ॒म॒ , सु॒ऽबंधुं॑ ॥
यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒३॒॑ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
यत् , वा॒जिनः॑ , दाम॑ , सं॒ऽदानं॑ , अर्व॑तः , या , शी॒र्ष॒ण्या॑ , र॒श॒ना , रज्जुः॑ , अ॒स्य॒ । यत् , वा॒ , घ॒ , अ॒स्य॒ , प्रऽभृ॑तं , आ॒स्ये॑ , तृणं॑ , सर्वा॑ , ता , ते॒ , अपि॑ , दे॒वेषु॑ , अ॒स्तु॒ ॥
यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ । यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
यत् , अश्व॑स्य , क्र॒विषः॑ , मक्षि॑का , आश॑ , यत् , वा॒ , स्वरौ॑ , स्वऽधि॑तौ , रि॒प्तं , अस्ति॑ । यत् , हस्त॑योः , श॒मि॒तुः , यत् , न॒खेषु॑ , सर्वा॑ , ता , ते॒ , अपि॑ , दे॒वेषु॑ , अ॒स्तु॒ ॥
यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ गं॒धो अस्ति॑ । सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वंतू॒त मेधं॑ शृत॒पाकं॑ पचंतु ॥
यत् , ऊव॑ध्यं , उ॒दर॑स्य , अ॒प॒ऽवाति॑ , यः , आ॒मस्य॑ , क्र॒विषः॑ , गं॒धः , अस्ति॑ । सु॒ऽकृ॒ता , तत् , श॒मि॒तारः॑ , कृ॒ण्वं॒तु॒ , उ॒त , मेधं॑ , शृ॒त॒ऽपाकं॑ , प॒चं॒तु॒ ॥
यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति । मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥
यत् , ते॒ , गात्रा॑त् , अ॒ग्निना॑ , प॒च्यमा॑नात् , अ॒भि , शूलं॑ , निऽह॑तस्य , अ॒व॒ऽधाव॑ति । मा , तत् , भूम्यां॑ , आ , श्रि॒ष॒त् , मा , तृणे॑षु , दे॒वेभ्यः॑ , तत् , उ॒शत्ऽभ्यः॑ , रा॒तं , अ॒स्तु॒ ॥
ये वा॒जिनं॑ परि॒पश्यं॑ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ । ये चार्व॑तो मांसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥
ये , वा॒जिनं॑ , प॒रि॒ऽपश्यं॑ति , प॒क्वं , ये , ईं॒ , आ॒हुः , सु॒र॒भिः , निः , ह॒र॒ , इति॑ । ये , च॒ , अर्व॑तः , मां॒स॒ऽभि॒क्षां , उ॒प॒ऽआस॑ते , उ॒तो इति॑ , तेषां॑ , अ॒भिऽगू॑र्तिः , नः॒ , इ॒न्व॒तु॒ ॥
यन्नीक्ष॑णं माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि । ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णामं॒काः सू॒नाः परि॑ भूषं॒त्यश्वं॑ ॥
यत् , नि॒ऽईक्ष॑णं , मां॒स्पच॑न्याः , उ॒खायाः॑ , या , पात्रा॑णि , यू॒ष्णः , आ॒ऽसेच॑नानि । ऊ॒ष्म॒ण्या॑ , अ॒पि॒ऽधाना॑ , च॒रू॒णां , अं॒काः , सू॒नाः , परि॑ , भू॒षं॒ति॒ , अश्वं॑ ॥
नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः । यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
नि॒ऽक्रम॑णं , नि॒ऽसद॑नं , वि॒ऽवर्त॑नं , यत् , च॒ , पड्बी॑शं , अर्व॑तः । यत् , च॒ , प॒पौ , यत् , च॒ , घा॒सिं , ज॒घास॑ , सर्वा॑ , ता , ते॒ , अपि॑ , दे॒वेषु॑ , अ॒स्तु॒ ॥
मा त्वा॒ग्निर्ध्व॑नयीद्धू॒मगं॑धि॒र्मोखा भ्राजं॑त्य॒भि वि॑क्त॒ जघ्रिः॑ । इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्णं॒त्यश्वं॑ ॥
मा , त्वा॒ , अ॒ग्निः , ध्व॒न॒यी॒त् , धू॒मऽगं॑धिः , मा , उ॒खा , भ्राजं॑ती , अ॒भि , वि॒क्त॒ , जघ्रिः॑ । इ॒ष्टं , वी॒तं , अ॒भिऽगू॑र्तं , वष॑ट्ऽकृतं , तं , दे॒वासः॑ , प्रति॑ , गृ॒भ्णं॒ति॒ , अश्वं॑ ॥
यदश्वा॑य॒ वास॑ उपस्तृ॒णंत्य॑धीवा॒सं या हिर॑ण्यान्यस्मै । सं॒दान॒मर्वं॑तं॒ पड्बी॑शं प्रि॒या दे॒वेष्वा या॑मयंति ॥
यत् , अश्वा॑य , वासः॑ , उ॒प॒ऽस्तृ॒णंति॑ , अ॒धी॒वा॒सं , या , हिर॑ण्यानि , अ॒स्मै॒ । सं॒ऽदानं॑ , अर्वं॑तं , पड्बी॑शं , प्रि॒या , दे॒वेषु॑ , आ , य॒म॒यं॒ति॒ ॥
यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑ । स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥
यत् , ते॒ , सा॒दे , मह॑सा , शूकृ॑तस्य , पार्ष्ण्या॑ , वा॒ , कश॑या , वा॒ , तु॒तोद॑ । स्रु॒चाऽइ॑व , ता , ह॒विषः॑ , अ॒ध्व॒रेषु॑ , सर्वा॑ , ता , ते॒ , ब्रह्म॑णा , सू॒द॒या॒मि॒ ॥
चतु॑स्त्रिंशद्वा॒जिनो॑ दे॒वबं॑धो॒र्वंक्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति । अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥
चतुः॑ऽत्रिंशत् , वा॒जिनः॑ , दे॒वऽबं॑धोः , वंक्रीः॑ , अश्व॑स्य , स्वऽधि॑तिः , सं , ए॒ति॒ । अच्छि॑द्रा , गात्रा॑ , व॒युना॑ , कृ॒णो॒त॒ , परुः॑ऽपरुः , अ॒नु॒ऽघुष्य॑ , वि , श॒स्त॒ ॥
एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा यं॒तारा॑ भवत॒स्तथ॑ ऋ॒तुः । या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिंडा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥
एकः॑ , त्वष्टुः॑ , अश्व॑स्य , वि॒ऽश॒स्ता , द्वा , यं॒तारा॑ , भ॒व॒तः॒ , तथा॑ , ऋ॒तुः । या , ते॒ , गात्रा॑णां , ऋ॒तु॒ऽथा , कृ॒णोमि॑ , ताऽता॑ , पिंडा॑नां , प्र , जु॒हो॒मि॒ , अ॒ग्नौ ॥
मा त्वा॑ तपत्प्रि॒य आ॒त्मापि॒यंतं॒ मा स्वधि॑तिस्त॒न्व१॒॑ आ ति॑ष्ठिपत्ते । मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ॥
मा , त्वा॒ , त॒प॒त् , प्रि॒यः , आ॒त्मा , अ॒पि॒ऽयंतं॑ , मा , स्वऽधि॑तिः , त॒न्वः॑ , आ , ति॒स्थि॒प॒त् , ते॒ । मा , ते॒ , गृ॒ध्नुः , अ॒वि॒ऽश॒स्ता , अ॒ति॒ऽहाय॑ , छि॒द्रा , गात्रा॑णि , अ॒सिना॑ , मिथु॑ , क॒रिति॑ कः ॥
न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ । हरी॑ ते॒ युंजा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ॥
न , वै , ऊँ॒ इति॑ , ए॒तत् , म्रि॒य॒से॒ , न , रि॒ष्य॒सि॒ , दे॒वान् , इत् , ए॒षि॒ , प॒थिऽभिः॑ , सु॒ऽगेभिः॑ । हरी॒ इति॑ , ते॒ , युंजा॑ , पृष॑ती॒ इति॑ , अ॒भू॒तां॒ , उप॑ , अ॒स्था॒त् , वा॒जी , धु॒रि , रास॑भस्य ॥
सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पुं॒सः पु॒त्राँ उ॒त वि॑श्वा॒पुषं॑ र॒यिं । अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनतां ह॒विष्मा॑न् ॥
सु॒ऽगव्यं॑ , नः॒ , वा॒जी , सु॒ऽअश्व्यं॑ , पुं॒सः , पु॒त्रान् , उ॒त , वि॒श्व॒ऽपुषं॑ , र॒यिं । अ॒ना॒गाः॒ऽत्वं , नः॒ , अदि॑तिः , कृ॒णो॒तु॒ , क्ष॒त्रं , नः॒ , अश्वः॑ , व॒न॒तां॒ , ह॒विष्मा॑न् ॥
[१६३] यदक्रंदइति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाअश्वस्त्रिष्टुप् |
यदक्रं॑दः प्रथ॒मं जाय॑मान उ॒द्यंत्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥
यत् , अक्रं॑दः , प्र॒थ॒मं , जाय॑मानः , उ॒त्ऽयन् , स॒मु॒द्रात् , उ॒त , वा॒ , पुरी॑षात् । श्ये॒नस्य॑ , प॒क्षा , ह॒रि॒णस्य॑ , बा॒हू इति॑ , उ॒प॒ऽस्तुत्यं॑ , महि॑ , जा॒तं , ते॒ , अ॒र्व॒न् ॥
य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिंद्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् । गं॒ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ॥
य॒मेन॑ , द॒त्तं , त्रि॒तः , ए॒नं॒ , अ॒यु॒न॒क् , इंद्रः॑ , ए॒नं॒ , प्र॒थ॒मः , अधि॑ , अ॒ति॒ष्ठ॒त् । गं॒ध॒र्वः , अ॒स्य॒ , र॒श॒नां , अ॒गृ॒भ्णा॒त् , सूरा॑त् , अश्वं॑ , व॒स॒वः॒ , निः , अ॒त॒ष्ट॒ ॥
असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बंध॑नानि ॥
असि॑ , य॒मः , असि॑ , आ॒दि॒त्यः , अ॒र्व॒न् , असि॑ , त्रि॒तः , गुह्ये॑न , व्र॒तेन॑ । असि॑ , सोमे॑न , स॒मया॑ , विऽपृ॑क्तः , आ॒हुः , ते॒ , त्रीणि॑ , दि॒वि , बंध॑नानि ॥
त्रीणि॑ त आहुर्दि॒वि बंध॑नानि॒ त्रीण्य॒प्सु त्रीण्यं॒तः स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश्छंत्स्यर्व॒न्यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्रं॑ ॥
त्रीणि॑ , ते॒ , आ॒हुः॒ , दि॒वि , बंध॑नानि , त्रीणि॑ , अ॒प्ऽसु , त्रीणि॑ , अं॒तरिति॑ , स॒मु॒द्रे । उ॒तऽइ॑व , मे॒ , वरु॑णः , छं॒त्सि॒ , अ॒र्व॒न् , यत्र॑ , ते॒ , आ॒हुः , प॒र॒मं , ज॒नित्रं॑ ॥
इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानां॑ सनि॒तुर्नि॒धाना॑ । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्षं॑ति गो॒पाः ॥
इ॒मा , ते॒ , वा॒जि॒न् , अ॒व॒ऽमार्ज॑नानि , इ॒मा , श॒फानां॑ , स॒नि॒तुः , नि॒ऽधाना॑ । अत्र॑ , ते॒ , भ॒द्राः , र॒श॒नाः , अ॒प॒श्यं॒ , ऋ॒तस्य॑ , याः , अ॒भि॒ऽरक्षं॑ति , गो॒पाः ॥
आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तयं॑तं पतं॒गं । शिरो॑ अपश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ॥
आ॒त्मानं॑ , ते॒ , मन॑सा , आ॒रात् , अ॒जा॒नां॒ , अ॒वः , दि॒वा , प॒तयं॑तं , प॒तं॒गं । शिरः॑ , अ॒प॒श्यं॒ , प॒थिऽभिः॑ , सु॒ऽगेभिः॑ , अ॒रे॒णुऽभिः॑ , जेह॑मानं , प॒त॒त्रि ॥
अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ळादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥
अत्र॑ , ते॒ , रू॒पं , उ॒त्ऽत॒मं , अ॒प॒श्यं॒ , जिगी॑षमाणं , इ॒षः , आ , प॒दे , गोः । य॒दा , ते॒ , मर्तः॑ , अनु॑ , भोगं॑ , आन॑ट् , आत् , इत् , ग्रसि॑ष्ठः , ओष॑धीः , अ॒जी॒ग॒रिति॑ ॥
अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीनां॑ । अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॑ ते ॥
अनु॑ , त्वा॒ , रथः॑ , अनु॑ , मर्यः॑ , अ॒र्व॒न् , अनु॑ , गावः॑ , अनु॑ , भगः॑ , क॒नीनां॑ । अनु॑ , व्राता॑सः , तव॑ , स॒ख्यं , ई॒युः॒ , अनु॑ , दे॒वाः , म॒मि॒रे॒ , वी॒र्यं॑ , ते॒ ॥
हिर॑ण्यशृं॒गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इंद्र॑ आसीत् । दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्वं॑तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ॥
हिर॑ण्यऽशृंगः , अयः॑ , अ॒स्य॒ , पादाः॑ , मनः॑ऽजवाः , अव॑रः , इंद्रः॑ , आ॒सी॒त् । दे॒वाः , इत् , अ॒स्य॒ , ह॒विः॒ऽअद्यं॑ , आ॒य॒न् , यः , अर्वं॑तं , प्र॒थ॒मः , अ॒धि॒ऽअति॑ष्ठत् ॥
ई॒र्मांता॑सः॒ सिलि॑कमध्यमासः॒ सं शूर॑णासो दि॒व्यासो॒ अत्याः॑ । हं॒सा इ॑व श्रेणि॒शो य॑तंते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः॑ ॥
ई॒र्मऽअं॑तासः , सिलि॑कऽमध्यमासः , सं , शूर॑णासः , दि॒व्यासः॑ , अत्याः॑ । हं॒साःऽइ॑व , श्रे॒णि॒ऽशः , य॒तं॒ते॒ , यत् , आक्षि॑षुः , दि॒व्यं , अज्मं॑ , अश्वाः॑ ॥
तव॒ शरी॑रं पतयि॒ष्ण्व॑र्वं॒तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् । तव॒ शृंगा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरंति ॥
तव॑ , शरी॑रं , प॒त॒यि॒ष्णु , अ॒र्व॒न् , तव॑ , चि॒त्तं , वातः॑ऽइव , ध्रजी॑मान् । तव॑ , शृंगा॑णि , विऽस्थि॑ता , पु॒रु॒ऽत्रा , अर॑ण्येषु , जर्भु॑राणा , च॒रं॒ति॒ ॥
उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः । अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यंति रे॒भाः ॥
उप॑ , प्र , अ॒गा॒त् , शस॑नं , वा॒जी , अर्वा॑ , दे॒व॒द्रीचा॑ , मन॑सा , दीध्या॑नः । अ॒जः , पु॒रः , नी॒य॒ते॒ , नाभिः॑ , अ॒स्य॒ , अनु॑ , प॒श्चात् , क॒वयः॑ , यं॒ति॒ , रे॒भाः ॥
उप॒ प्रागा॑त्पर॒मं यत्स॒धस्थ॒मर्वाँ॒ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च । अ॒द्या दे॒वांजुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ॥
उप॑ , प्र , अ॒गा॒त् , प॒र॒मं , यत् , स॒धऽस्थं॑ , अर्वा॑न् , अच्छ॑ , पि॒तरं॑ , मा॒तरं॑ , च॒ । अ॒द्य , दे॒वान् , जुष्ट॑ऽतमः , हि , ग॒म्याः , अथ॑ , आ , शा॒स्ते॒ , दा॒शुषे॑ , वार्या॑णि ॥
[१६४] अस्यवामस्येति द्विपंचाशदृचस्य सूक्तस्य औचथ्योदीर्घतमा आद्यानामेकचत्वारिंशटृचां विश्वेदेवास्तस्याः समुद्राइत्यस्यावाक्समुद्राक्षरापः शकमयमित्यस्याःशकधूमसोमौत्रयः केशिनइत्यस्याअग्निसूर्यवायवो (केशिनइतिगुणः) चत्वारिवागित्यस्यावाक्इंद्रंमित्रमितिद्वयोः सूर्योद्वादशप्रधयइत्यस्याः कालचक्रं (अत्रसंवत्सरसंस्थंकालचक्रवर्णनं) यस्तइत्यस्याः सरस्वतीयज्ञेनेत्यस्याः साध्याःसमानमित्यस्याः सूर्यः (पर्जन्याग्नीवा) दिव्यंसुपर्णमित्यस्याः सरस्वान् (सूर्योवा) त्रिष्टुप् द्वादशी पंचदशी त्रयोविंशी एकोनत्रिंशी षट्त्रिंश्येकचत्वारिं- शीचजगत्यः द्विचत्वारिंशी प्रस्तारपंक्तिः एकपंचाश्यनुष्टुप् |
अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्नः॑ । तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रं ॥
अ॒स्य , वा॒मस्य॑ , प॒लि॒तस्य॑ , होतुः॑ , तस्य॑ , भ्राता॑ , म॒ध्य॒मः , अ॒स्ति॒ , अश्नः॑ । तृ॒तीयः॑ , भ्राता॑ , घृ॒तऽपृ॑ष्ठः , अ॒स्य॒ , अत्र॑ , अ॒प॒श्यं॒ , वि॒श्पतिं॑ , स॒प्तऽपु॑त्रं ॥
स॒प्त युं॑जंति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो॑ वहति स॒प्तना॑मा । त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ॥
स॒प्त , युं॒जं॒ति॒ , रथं॑ , एक॑ऽचक्रं , एकः॑ , अश्वः॑ , व॒ह॒ति॒ , स॒प्तऽना॑मा । त्रि॒ऽनाभि॑ , च॒क्रं , अ॒जरं॑ , अ॒न॒र्वं , यत्र॑ , इ॒मा , विश्वा॑ , भुव॑ना , अधि॑ , त॒स्थुः ॥
इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑हं॒त्यश्वाः॑ । स॒प्त स्वसा॑रो अ॒भि सं न॑वंते॒ यत्र॒ गवां॒ निहि॑ता स॒प्त नाम॑ ॥
इ॒मं , रथं॑ , अधि॑ , ये , स॒प्त , त॒स्थुः , स॒प्तऽच॑क्रं , स॒प्त , व॒हं॒ति॒ , अश्वाः॑ । स॒प्त , स्वसा॑रः , अ॒भि , सं , न॒वं॒ते॒ , यत्र॑ , गवां॑ , निऽहि॑ता , स॒प्त , नाम॑ ॥
को द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वंतं॒ यद॑न॒स्था बिभ॑र्ति । भूम्या॒ असु॒रसृ॑गा॒त्मा क्व॑ स्वि॒त्को वि॒द्वांस॒मुप॑ गा॒त्प्रष्टु॑मे॒तत् ॥
कः , द॒द॒र्श॒ , प्र॒थ॒मं , जाय॑मानं , अ॒स्थ॒न्ऽवंतं॑ , यत् , अ॒न॒स्था , बिभ॑र्ति । भूम्याः॑ , असुः॑ , असृ॑क् , आ॒त्मा , क्व॑ , स्वि॒त् , कः , वि॒द्वांसं॑ , उप॑ , गा॒त् , प्रष्टुं॑ , ए॒तत् ॥
पाकः॑ पृच्छामि॒ मन॒सावि॑जानंदे॒वाना॑मे॒ना निहि॑ता प॒दानि॑ । व॒त्से ब॒ष्कयेऽधि॑ स॒प्त तंतू॒न्वि त॑त्निरे क॒वय॒ ओत॒वा उ॑ ॥
पाकः॑ , पृ॒च्छा॒मि॒ , मन॑सा , अवि॑ऽजानन् , दे॒वानां॑ , ए॒ना , निऽहि॑ता , प॒दानि॑ । व॒त्से , ब॒ष्कये॑ , अधि॑ , स॒प्त , तंतू॑न् , वि , त॒त्नि॒रे॒ , क॒वयः॑ , ओत॒वै , ऊँ॒ इति॑ ॥
अचि॑कित्वांचिकि॒तुष॑श्चि॒दत्र॑ क॒वीन्पृ॑च्छामि वि॒द्मने॒ न वि॒द्वान् । वि यस्त॒स्तंभ॒ षळि॒मा रजां॑स्य॒जस्य॑ रू॒पे किमपि॑ स्वि॒देकं॑ ॥
अचि॑कित्वान् , चि॒कि॒तुषः॑ , चि॒त् , अत्र॑ , क॒वीन् , पृ॒च्छा॒मि॒ , वि॒द्मने॑ , न , वि॒द्वान् । वि , यः , त॒स्तंभ॑ , षट् , इ॒मा , रजां॑सि , अ॒जस्य॑ , रू॒पे , किं , अपि॑ , स्वि॒त् , एकं॑ ॥
इ॒ह ब्र॑वीतु॒ य ई॑मं॒ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः । शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो॑ अस्य व॒व्रिं वसा॑ना उद॒कं प॒दापुः॑ ॥
इ॒ह , ब्र॒वी॒तु॒ , यः , ईं॒ , अं॒ग , वेद॑ , अ॒स्य , वा॒मस्य॑ , निऽहि॑तं , प॒दं , वेरिति॒ वेः । शी॒र्ष्णः , क्षी॒रं , दु॒ह्र॒ते॒ , गावः॑ , अ॒स्य॒ , व॒व्रिं , वसा॑नाः , उ॒द॒कं , प॒दा , अ॒पुः॒ ॥
मा॒ता पि॒तर॑मृ॒त आ ब॑भाज धी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे । सा बी॑भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वंत॒ इदु॑पवा॒कमी॑युः ॥
मा॒ता , पि॒तरं॑ , ऋ॒ते , आ , ब॒भा॒ज॒ , धी॒ती , अग्रे॑ , मन॑सा , सं , हि , ज॒ग्मे । सा , बी॒भ॒त्सुः , गर्भ॑ऽरसा , निऽवि॑द्धा , नम॑स्वंतः , इत् , उ॒प॒ऽवा॒कं , ई॒युः॒ ॥
यु॒क्ता मा॒तासी॑द्धु॒रि दक्षि॑णाया॒ अति॑ष्ठ॒द्गर्भो॑ वृज॒नीष्वं॒तः । अमी॑मेद्व॒त्सो अनु॒ गाम॑पश्यद्विश्वरू॒प्यं॑ त्रि॒षु योज॑नेषु ॥
यु॒क्ता , मा॒ता , आ॒सी॒त् , धु॒रि , दक्षि॑णायाः , अति॑ष्ठत् , गर्भः॑ , वृ॒ज॒नीषु॑ , अं॒तरिति॑ । अमी॑मेत् , व॒त्सः , अनु॑ , गां , अ॒प॒श्य॒त् , वि॒श्व॒ऽरू॒प्यं॑ , त्रि॒षु , योज॑नेषु ॥
ति॒स्रो मा॒तॄस्त्रीन्पि॒तॄन्बिभ्र॒देक॑ ऊ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयंति । मं॒त्रयं॑ते दि॒वो अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदं॒ वाच॒मवि॑श्वमिन्वां ॥
ति॒स्रः , मा॒तॄः , त्रीन् , पि॒तॄन् , बिभ्र॑त् , एकः॑ , ऊ॒र्ध्वः , त॒स्थौ॒ , न , ईं॒ , अव॑ , ग्ल॒प॒यं॒ति॒ । मं॒त्रयं॑ते , दि॒वः , अ॒मुष्य॑ , पृ॒ष्ठे , वि॒श्व॒ऽविदं॑ , वाचं॑ , अवि॑श्वऽमिन्वां ॥
द्वाद॑शारं न॒हि तज्जरा॑य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ । आ पु॒त्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ॥
द्वाद॑शऽअरं , न॒हि , तत् , जरा॑य , वर्व॑र्ति , च॒क्रं , परि॑ , द्यां , ऋ॒तस्य॑ । आ , पु॒त्राः , अ॒ग्ने॒ , मि॒थु॒नासः॑ , अत्र॑ , स॒प्त , श॒तानि॑ , विं॒श॒तिः , च॒ , त॒स्थुः॒ ॥
पंच॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ॑हुः॒ परे॒ अर्धे॑ पुरी॒षिणं॑ । अथे॒मे अ॒न्य उप॑रे विचक्ष॒णं स॒प्तच॑क्रे॒ षळ॑र आहु॒रर्पि॑तं ॥
पंच॑ऽपादं , पि॒तरं॑ , द्वाद॑शऽआकृतिं , दि॒वः , आ॒हुः॒ , परे॑ , अर्धे॑ , पु॒री॒षिणं॑ । अथ॑ , इ॒मे , अ॒न्ये , उप॑रे , वि॒ऽच॒क्ष॒णं , स॒प्तऽच॑क्रे , षट्ऽअ॑रे , आ॒हुः॒ , अर्पि॑तं ॥
पंचा॑रे च॒क्रे प॑रि॒वर्त॑माने॒ तस्मि॒न्ना त॑स्थु॒र्भुव॑नानि॒ विश्वा॑ । तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न शी॑र्यते॒ सना॑भिः ॥
पंच॑ऽअरे , च॒क्रे , प॒रि॒ऽवर्त॑माने , तस्मि॑न् , आ , त॒स्थुः॒ , भुव॑नानि , विश्वा॑ । तस्य॑ , न , अक्षः॑ , त॒प्य॒ते॒ , भूरि॑ऽभारः , स॒नात् , ए॒व , न , शी॒र्य॒ते॒ , सऽना॑भिः ॥
सने॑मि च॒क्रम॒जरं॒ वि वा॑वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हंति । सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ तस्मि॒न्नार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ॥
सऽने॑मि , च॒क्रं , अ॒जरं॑ , वि , व॒वृ॒ते॒ , उ॒त्ता॒नायां॑ , दश॑ , यु॒क्ताः , व॒हं॒ति॒ । सूर्य॑स्य , चक्षुः॑ , रज॑सा , ए॒ति॒ , आऽवृ॑तं , तस्मि॑न् , आर्पि॑ता , भुव॑नानि , विश्वा॑ ॥
सा॒कं॒जानां॑ स॒प्तथ॑माहुरेक॒जं षळिद्य॒मा ऋष॑यो देव॒जा इति॑ । तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः स्था॒त्रे रे॑जंते॒ विकृ॑तानि रूप॒शः ॥
सा॒कं॒ऽजानां॑ , स॒प्तथं॑ , आ॒हुः॒ , ए॒क॒ऽजं , षट् , इत् , य॒माः , ऋष॑यः , दे॒व॒ऽजाः , इति॑ । तेषां॑ , इ॒ष्टानि॑ , विऽहि॑तानि , धा॒म॒ऽशः , स्था॒त्रे , रे॒जं॒ते॒ , विऽकृ॑तानि , रू॒प॒ऽशः ॥
स्त्रियः॑ स॒तीस्ताँ उ॑ मे पुं॒स आ॑हुः॒ पश्य॑दक्ष॒ण्वान्न वि चे॑तदं॒धः । क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ॥
स्त्रियः॑ , स॒तीः , तान् , ऊँ॒ इति॑ , मे॒ , पुं॒सः , आ॒हुः॒ , पश्य॑त् , अ॒क्ष॒ण्ऽवान् , न , वि , चे॒त॒त् , अं॒धः । क॒विः , यः , पु॒त्रः , सः , ईं॒ , आ , चि॒के॒त॒ , यः , ता , वि॒ऽजा॒नात् , सः , पि॒तुः , पि॒ता , अ॒स॒त् ॥
अ॒वः परे॑ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात् । सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त्क्व॑ स्वित्सूते न॒हि यू॒थे अं॒तः ॥
अ॒वः , परे॑ण , प॒रः , ए॒ना , अव॑रेण , प॒दा , व॒त्सं , बिभ्र॑ती , गौः , उत् , अ॒स्था॒त् । सा , क॒द्रीची॑ , कं , स्वि॒त् , अर्धं॑ , परा॑ , अ॒गा॒त् , क्व॑ , स्वि॒त् , सू॒ते॒ , न॒हि , यू॒थे , अं॒तरिति॑ ॥
अ॒वः परे॑ण पि॒तरं॒ यो अ॑स्यानु॒वेद॑ प॒र ए॒नाव॑रेण । क॒वी॒यमा॑नः॒ क इ॒ह प्र वो॑चद्दे॒वं मनः॒ कुतो॒ अधि॒ प्रजा॑तं ॥
अ॒वः , परे॑ण , पि॒तरं॑ , यः , अ॒स्य॒ , अ॒नु॒ऽवेद॑ , प॒रः , ए॒ना , अव॑रेण । क॒वि॒ऽयमा॑नः , कः , इ॒ह , प्र , वो॒च॒त् , दे॒वं , मनः॑ , कुतः॑ , अधि॑ , प्रऽजा॑तं ॥
ये अ॒र्वांच॒स्ताँ उ॒ परा॑च आहु॒र्ये परां॑च॒स्ताँ उ॑ अ॒र्वाच॑ आहुः । इंद्र॑श्च॒ या च॒क्रथुः॑ सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहंति ॥
ये , अ॒र्वांचः॑ , तान् , ऊँ॒ इति॑ , परा॑चः , आ॒हुः॒ , ये , परां॑चः , तान् , ऊँ॒ इति॑ , अ॒र्वाचः॑ , आ॒हुः॒ । इंद्रः॑ , च॒ , या , च॒क्रथुः॑ , सो॒म॒ , तानि॑ , धु॒रा , न , यु॒क्ताः , रज॑सः , व॒हं॒ति॒ ॥
द्वा सु॑प॒र्णा स॒युजा॒ सखा॑या समा॒नं वृ॒क्षं परि॑ षस्वजाते । तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति ॥
द्वा , सु॒ऽप॒र्णा , स॒ऽयुजा॑ , सखा॑या , स॒म॒नं , वृ॒क्षं , परि॑ , स॒स्व॒जा॒ते॒ इति॑ । तयोः॑ , अ॒न्यः , पिप्प॑लं , स्वा॒दु , अत्ति॑ , अन॑श्नन् , अ॒न्यः , अ॒भि , चा॒क॒शी॒ति॒ ॥
यत्रा॑ सुप॒र्णा अ॒मृत॑स्य भा॒गमनि॑मेषं वि॒दथा॑भि॒स्वरं॑ति । इ॒नो विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीरः॒ पाक॒मत्रा वि॑वेश ॥
यत्र॑ , सु॒ऽप॒र्णाः , अ॒मृत॑स्य , भा॒गं , अनि॑ऽमेषं , वि॒दथा॑ , अ॒भि॒ऽस्वरं॑ति । इ॒नः , विश्व॑स्य , भुव॑नस्य , गो॒पाः , सः , मा॒ , धीरः॑ , पाकं॑ , अत्र॑ , आ , वि॒वे॒श॒ ॥
यस्मि॑न्वृ॒क्षे म॒ध्वदः॑ सुप॒र्णा नि॑वि॒शंते॒ सुव॑ते॒ चाधि॒ विश्वे॑ । तस्येदा॑हुः॒ पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द्यः पि॒तरं॒ न वेद॑ ॥
यस्मि॑न् , वृ॒क्षे , म॒धु॒ऽअदः॑ , सु॒ऽप॒र्णाः , नि॒ऽवि॒शंते॑ , सुव॑ते , च॒ , अधि॑ , विश्वे॑ । तस्य॑ , इत् , आ॒हुः॒ , पिप्प॑लं , स्वा॒दु , अग्रे॑ , तत् , न , उत् , न॒श॒त् , यः , पि॒तरं॑ , न , वेद॑ ॥
यद्गा॑य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भाद्वा॒ त्रैष्टु॑भं नि॒रत॑क्षत । यद्वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद्वि॒दुस्ते अ॑मृत॒त्वमा॑नशुः ॥
यत् , गा॒य॒त्रे , अधि॑ , गा॒य॒त्रं , आऽहि॑तं , त्रैस्तु॑भात् , वा॒ , त्रैस्तु॑भं , निः॒ऽअत॑क्षत । यत् , वा॒ , जग॑त् , जग॑ति , आऽहि॑तं , प॒दं , ये , इत् , तत् , वि॒दुः , ते , अ॒मृ॒त॒ऽत्वं , आ॒न॒शुः॒ ॥
गा॒य॒त्रेण॒ प्रति॑ मिमीते अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कं । वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे॑ण मिमते स॒प्त वाणीः॑ ॥
गा॒य॒त्रेण॑ , प्रति॑ , मि॒मी॒ते॒ , अ॒र्कं , अ॒र्केण॑ , साम॑ , त्रैस्तु॑भेन , वा॒कं । वा॒केन॑ , वा॒कं , द्वि॒ऽपदा॑ , चतुः॑ऽपदा , अ॒क्षरे॑ण , मि॒म॒ते॒ , स॒प्त , वाणीः॑ ॥
जग॑ता॒ सिंधुं॑ दि॒व्य॑स्तभायद्रथंत॒रे सूर्यं॒ पर्य॑पश्यत् । गा॒य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ॑हु॒स्ततो॑ म॒ह्ना प्र रि॑रिचे महि॒त्वा ॥
जग॑ता , सिंधुं॑ , दि॒वि , अ॒स्त॒भा॒य॒त् , र॒थं॒ऽत॒रे , सूर्यं॑ , परि॑ , अ॒प॒श्य॒त् । गा॒य॒त्रस्य॑ , सं॒ऽइधः॑ , ति॒स्रः , आ॒हुः॒ , ततः॑ , म॒ह्रा , प्र , रि॒रि॒चे॒ , म॒हि॒ऽत्वा ॥
उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनां । श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ऽभी॑द्धो घ॒र्मस्तदु॒ षु प्र वो॑चं ॥
उप॑ , ह्व॒ये॒ , सु॒ऽदुघां॑ , धे॒नुं , ए॒तां , सु॒ऽहस्तः॑ , गो॒ऽधुक् , उ॒त , दो॒ह॒त् , ए॒नां॒ । श्रेष्ठं॑ , स॒वं , स॒वि॒ता , सा॒वि॒ष॒त् , नः॒ , अ॒भिऽइ॑द्धः , घ॒र्मः , तत् , ऊँ॒ इति॑ , सु , प्र , वो॒चं॒ ॥
हिं॒कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒च्छंती॒ मन॑सा॒भ्यागा॑त् । दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥
हि॒ङ्ऽकृ॒ण्व॒ती , व॒सु॒ऽपत्नी॑ , वसू॑नां , व॒त्सं , इ॒च्छंती॑ , मन॑सा , अ॒भि , आ , अ॒गा॒त् । दु॒हां , अ॒श्विऽभ्यां॑ , पयः॑ , अ॒घ्न्या , इ॒यं , सा , व॒र्ध॒तां॒ , म॒ह॒ते , सौभ॑गाय ॥
गौर॑मीमे॒दनु॑ व॒त्सं मि॒षंतं॑ मू॒र्धानं॒ हिङ्ङ॑कृणो॒न्मात॒वा उ॑ । सृक्वा॑णं घ॒र्मम॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥
गौः , अ॒मी॒मे॒त् , अनु॑ , व॒त्सं , मि॒षंतं॑ , मू॒र्धानं॑ , हिङ् , अ॒कृ॒णो॒त् , मात॒वै , ऊँ॒ इति॑ । सृक्वा॑णं , घ॒र्मं , अ॒भि , वा॒व॒शा॒ना , मिमा॑ति , मा॒युं , पय॑ते , पयः॑ऽभिः ॥
अ॒यं स शिं॑क्ते॒ येन॒ गौर॒भीवृ॑ता॒ मिमा॑ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता । सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्यं॑ वि॒द्युद्भवं॑ती॒ प्रति॑ व॒व्रिमौ॑हत ॥
अ॒यं , सः , शिं॒क्ते॒ , येन॑ , गौः , अ॒भिऽवृ॑ता , मिमा॑ति , मा॒युं , ध्व॒सनौ॑ , अधि॑ , श्रि॒ता । सा , चि॒त्तिऽभिः॑ , नि , हि , च॒कार॑ , मर्त्यं॑ , वि॒ऽद्युत् , भवं॑ती , प्रति॑ , व॒व्रिं , औ॒ह॒त॒ ॥
अ॒नच्छ॑ये तु॒रगा॑तु जी॒वमेज॑द्ध्रु॒वं मध्य॒ आ प॒स्त्या॑नां । जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ॥
अ॒नत् , श॒ये॒ , तु॒रऽगा॑तु , जी॒वं , एज॑त् , ध्रु॒वं , मध्ये॑ , आ , प॒स्त्या॑नां । जी॒वः , मृ॒तस्य॑ , च॒र॒ति॒ , स्व॒धाभिः॑ , अम॑र्त्यः , मर्त्ये॑न , सऽयो॑निः ॥
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चरं॑तं । स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्वं॒तः ॥
अप॑श्यं , गो॒पां , अनि॑ऽपद्यमानं , आ , च॒ , परा॑ , च॒ , प॒थिऽभिः॑ , चरं॑तं । सः , स॒ध्रीचीः॑ , सः , विषू॑चीः , वसा॑नः , आ , व॒री॒व॒र्ति॒ , भुव॑नेषु , अं॒तरिति॑ ॥
य ईं॑ च॒कार॒ न सो अ॒स्य वे॑द॒ य ईं॑ द॒दर्श॒ हिरु॒गिन्नु तस्मा॑त् । स मा॒तुर्योना॒ परि॑वीतो अं॒तर्ब॑हुप्र॒जा निर्ऋ॑ति॒मा वि॑वेश ॥
यः , ईं॒ , च॒कार॑ , न , सः , अ॒स्य , वे॒द॒ , यः , ईं॒ , द॒दर्श॑ , हिरु॑क् , इत् , नु , तस्मा॑त् । सः , मा॒तुः , योना॑ , परि॑ऽवीतः , अं॒तः , ब॒हु॒ऽप्र॒जाः , निःऽऋ॑तिं , आ , वि॒वे॒श॒ ॥
द्यौर्मे॑ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बंधु॑र्मे मा॒ता पृ॑थि॒वी म॒हीयं । उ॒त्ता॒नयो॑श्च॒म्वो॒३॒॑र्योनि॑रं॒तरत्रा॑ पि॒ता दु॑हि॒तुर्गर्भ॒माधा॑त् ॥
द्यौः , मे॒ , पि॒ता , ज॒नि॒ता , नाभिः॑ , अत्र॑ , बंधुः॑ , मे॒ , मा॒ता , पृ॒थि॒वी , म॒ही , इ॒यं । उ॒त्ता॒नयोः॑ , च॒म्वोः॑ , योनिः॑ , अं॒तः , अत्र॑ , पि॒ता , दु॒हि॒तुः , गर्भं॑ , आ , अ॒धा॒त् ॥
पृ॒च्छामि॑ त्वा॒ पर॒मंतं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभिः॑ । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥
पृ॒च्छामि॑ , त्वा॒ , परं॑ , अंतं॑ , पृ॒थि॒व्याः , पृ॒च्छामि॑ , यत्र॑ , भुव॑नस्य , नाभिः॑ । पृ॒च्छामि॑ , त्वा॒ , वृष्णः॑ , अश्व॑स्य , रेतः॑ , पृ॒च्छामि॑ , वा॒चः , प॒र॒मं , विऽओ॑म ॥
इ॒यं वेदिः॒ परो॒ अंतः॑ पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभिः॑ । अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ॥
इ॒यं , वेदिः॑ , परः॑ , अंतः॑ , पृ॒थि॒व्याः , अ॒यं , य॒ज्ञः , भुव॑नस्य , नाभिः॑ । अ॒यं , सोमः॑ , वृष्णः॑ , अश्व॑स्य , रेतः॑ , ब्र॒ह्मा , अ॒यं , वा॒चः , प॒र॒मं , विऽओ॑म ॥
स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो॑स्तिष्ठंति प्र॒दिशा॒ विध॑र्मणि । ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चितः॑ परि॒भुवः॒ परि॑ भवंति वि॒श्वतः॑ ॥
स॒प्त , अ॒र्ध॒ऽग॒र्भाः , भुव॑नस्य , रेतः॑ , विष्णोः॑ , ति॒ष्ठं॒ति॒ , प्र॒ऽदिशा॑ , विऽध॑र्मणि । ते , धी॒तिऽभिः॑ , मन॑सा , ते , वि॒पः॒ऽचितः॑ , प॒रि॒ऽभुवः॑ , परि॑ , भ॒वं॒ति॒ , वि॒श्वतः॑ ॥
न वि जा॑नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि । य॒दा माग॑न्प्रथम॒जा ऋ॒तस्यादिद्वा॒चो अ॑श्नुवे भा॒गम॒स्याः ॥
न , वि , जा॒ना॒मि॒ , यत्ऽइ॑व , इ॒दं , अस्मि॑ , नि॒ण्यः , संऽन॑द्धः , मन॑सा , च॒रा॒मि॒ । य॒दा , मा॒ , आ , अग॑न् , प्र॒थ॒म॒ऽजाः , ऋ॒तस्य॑ , आत् , इत् , वा॒चः , अ॒श्नु॒वे॒ , भा॒गं , अ॒स्याः ॥
अपा॒ङ्प्राङे॑ति स्व॒धया॑ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः । ता शश्वं॑ता विषू॒चीना॑ वि॒यंता॒ न्य१॒॑न्यं चि॒क्युर्न नि चि॑क्युर॒न्यं ॥
अपा॑ङ् , प्राङ् , ए॒ति॒ , स्व॒धया॑ , गृ॒भी॒तः , अम॑र्त्यः , मर्त्ये॑न , सऽयो॑निः । ता , शश्वं॑ता , वि॒षू॒चीना॑ , वि॒ऽयंता॑ , नि , अ॒न्यं , चि॒क्युः , न , नि , चि॒क्युः॒ , अ॒न्यं ॥
ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न्यस्मिं॑दे॒वा अधि॒ विश्वे॑ निषे॒दुः । यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सते ॥
ऋ॒चः , अ॒क्षरे॑ , प॒र॒मे , विऽओ॑मन् , यस्मि॑न् , दे॒वाः , अधि॑ , विश्वे॑ , नि॒ऽसे॒दुः । यः , तत् , न , वेद॑ , किं , ऋ॒चा , क॒रि॒ष्य॒ति॒ , ये , इत् , तत् , वि॒दुः , ते , इ॒मे , सं , आ॒स॒ते॒ ॥
सू॒य॒व॒साद्भग॑वती॒ हि भू॒या अथो॑ व॒यं भग॑वंतः स्याम । अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चरं॑ती ॥
सु॒य॒व॒स॒ऽअत् , भग॑ऽवती , हि , भू॒याः , अथो॒ इति॑ , व॒यं , भग॑ऽवंतः , स्या॒म॒ । अ॒द्धि , तृणं॑ , अ॒घ्न्ये॒ , वि॒श्व॒ऽदानीं॑ , पिब॑ , शु॒द्धं , उ॒द॒कं , आ॒ऽचरं॑ती ॥
गौ॒रीर्मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा पर॒मे व्यो॑मन् ॥
गौ॒रीः , मि॒मा॒य॒ , स॒लि॒लानि॑ , तक्ष॑ती , एक॑ऽपदी , द्वि॒ऽपदी॑ , सा , चतुः॑ऽपदी । अ॒ष्टाऽप॑दी , नव॑ऽपदी , ब॒भू॒वुषी॑ , स॒हस्र॑ऽअक्षरा , प॒र॒मे , विऽओ॑मन् ॥
तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रंति॒ तेन॑ जीवंति प्र॒दिश॒श्चत॑स्रः । ततः॑ क्षरत्य॒क्षरं॒ तद्विश्व॒मुप॑ जीवति ॥
तस्याः॑ , स॒मु॒द्राः , अधि॑ , वि , क्ष॒रं॒ति॒ , तेन॑ , जी॒वं॒ति॒ , प्र॒ऽदिशः॑ , चत॑स्रः । ततः॑ , क्ष॒र॒ति॒ , अ॒क्षरं॑ , तत् , विश्वं॑ , उप॑ , जी॒व॒ति॒ ॥
श॒क॒मयं॑ धू॒ममा॒राद॑पश्यं विषू॒वता॑ प॒र ए॒नाव॑रेण । उ॒क्षाणं॒ पृश्नि॑मपचंत वी॒रास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ॥
श॒क॒ऽमयं॑ , धू॒मं , आ॒रात् , अ॒प॒श्यं॒ , वि॒षु॒ऽवता॑ , प॒रः , ए॒ना , अव॑रेण । उ॒क्षाणं॑ , पृश्निं॑ , अ॒प॒चं॒त॒ , वी॒राः , तानि॑ , धर्मा॑णि , प्र॒थ॒मानि॑ , आ॒स॒न् ॥
त्रयः॑ के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषां । विश्व॒मेको॑ अ॒भि च॑ष्टे॒ शची॑भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पं ॥
त्रयः॑ , के॒शिनः॑ , ऋ॒तु॒ऽथा , वि , च॒क्ष॒ते॒ , सं॒व॒त्स॒रे , व॒प॒ते॒ , एकः॑ , ए॒षां॒ । विश्वं॑ , एकः॑ , अ॒भि , च॒ष्टे॒ , शची॑भिः , ध्राजिः॑ , एक॑स्य , द॒दृ॒शे॒ , न , रू॒पं ॥
च॒त्वारि॒ वाक्परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ । गुहा॒ त्रीणि॒ निहि॑ता॒ नेंग॑यंति तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदंति ॥
च॒त्वारि॑ , वाक् , परि॑ऽमिता , प॒दानि॑ , तानि॑ , वि॒दुः॒ , ब्रा॒ह्म॒णाः , ये , म॒नी॒षिणः॑ । गुहा॑ , त्रीणि॑ , निऽहि॑ता , न , इं॒ग॒यं॒ति॒ , तु॒रीयं॑ , वा॒चः , म॒नु॒ष्याः॑ , व॒दं॒ति॒ ॥
इंद्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् । एकं॒ सद्विप्रा॑ बहु॒धा व॑दंत्य॒ग्निं य॒मं मा॑त॒रिश्वा॑नमाहुः ॥
इंद्रं॑ , मि॒त्रं , वरु॑णं , अ॒ग्निं , आ॒हुः॒ , अथो॒ इति॑ , दि॒व्यः , सः , सु॒ऽप॒र्णः , ग॒रुत्मा॑न् । एकं॑ , सत् , विप्राः॑ , ब॒हु॒धा , व॒दं॒ति॒ , अ॒ग्निं , य॒मं , मा॒त॒रिश्वा॑नं , आ॒हुः॒ ॥
कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तंति । त आव॑वृत्रं॒त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ॥
कृ॒ष्णं , नि॒ऽयानं॑ , हर॑यः , सु॒ऽप॒र्णाः , अ॒पः , वसा॑नाः , दिवं॑ , उत् , प॒तं॒ति॒ । ते , आ , अ॒व॒वृ॒त्र॒न् , सद॑नात् , ऋ॒तस्य॑ , आत् , इत् , घृ॒तेन॑ , पृ॒थि॒वी , वि , उ॒द्य॒ते॒ ॥
द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत । तस्मिं॑त्सा॒कं त्रि॑श॒ता न शं॒कवो॑ऽर्पि॒ताः ष॒ष्टिर्न च॑लाच॒लासः॑ ॥
द्वाद॑श , प्र॒ऽधयः॑ , च॒क्रं , एकं॑ , त्रीणि॑ , नभ्या॑नि , कः , ऊँ॒ इति॑ , तत् , चि॒के॒त॒ । तस्मि॑न् , सा॒कं , त्रि॒ऽश॒ताः , न , शं॒कवः॑ , अ॒र्पि॒ताः , ष॒ष्टिः , न , च॒ला॒च॒लासः॑ ॥
यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूर्येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि । यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्रः॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ॥
यः , ते॒ , स्तनः॑ , श॒श॒यः , यः , म॒यः॒ऽभूः , येन॑ , विश्वा॑ , पुष्य॑सि , वार्या॑णि । यः , र॒त्न॒ऽधाः , व॒सु॒ऽवित् , यः , सु॒ऽदत्रः॑ , सर॑स्वति , तं , इ॒ह , धात॑वे , क॒रिति॑ कः ॥
य॒ज्ञेन॑ य॒ज्ञम॑यजंत दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मानः॑ सचंत॒ यत्र॒ पूर्वे॑ सा॒ध्याः संति॑ दे॒वाः ॥
य॒ज्ञेन॑ , य॒ज्ञं , अ॒य॒जं॒त॒ , दे॒वाः , तानि॑ , धर्मा॑णि , प्र॒थ॒मानि॑ , आ॒स॒न् । ते , ह॒ , नाकं॑ , म॒हि॒मानः॑ , स॒चं॒त॒ , यत्र॑ , पूर्वे॑ , सा॒ध्याः , संति॑ , दे॒वाः ॥
स॒मा॒नमे॒तदु॑द॒कमुच्चैत्यव॒ चाह॑भिः । भूमिं॑ प॒र्जन्या॒ जिन्वं॑ति॒ दिवं॑ जिन्वंत्य॒ग्नयः॑ ॥
स॒मा॒नं , ए॒तत् , उ॒द॒कं , उत् , च॒ , एति॑ , अव॑ , च॒ , अह॑ऽभिः । भूमिं॑ , प॒र्जन्याः॑ , जिन्वं॑ति , दिवं॑ , जि॒न्वं॒ति॒ , अ॒ग्नयः॑ ॥
दि॒व्यं सु॑प॒र्णं वा॑य॒सं बृ॒हंत॑म॒पां गर्भं॑ दर्श॒तमोष॑धीनां । अ॒भी॒प॒तो वृ॒ष्टिभि॑स्त॒र्पयं॑तं॒ सर॑स्वंत॒मव॑से जोहवीमि ॥
दि॒व्यं , सु॒ऽप॒र्णं , वा॒य॒सं , बृ॒हंतं॑ , अ॒पां , गर्भं॑ , द॒र्श॒तं , ओष॑धीनां । अ॒भी॒प॒तः , वृ॒ष्टिऽभिः॑ , त॒र्पयं॑तं , सर॑स्वंतं , अव॑से , जो॒ह॒वी॒मि॒ ॥
[१६५] कयाशुभेति पंचदशर्चस्य सूक्तस्य तृतीयाद्ययुगृचामेकादशीवर्ज्यानां मरुतः त्रयोदश्यादितिसृणामगस्त्यः शिष्टानामिंद्रऋषिः | सर्वसूक्तस्यमरुत्वानिंद्रोदेवतात्रिष्टुप्छंदः |
कया॑ शु॒भा सव॑यसः॒ सनी॑ळाः समा॒न्या म॒रुतः॒ सं मि॑मिक्षुः । कया॑ म॒ती कुत॒ एता॑स ए॒तेऽर्चं॑ति॒ शुष्मं॒ वृष॑णो वसू॒या ॥
कया॑ , शु॒भा , सऽव॑यसः , सऽनी॑ळाः , स॒मा॒न्या , म॒रुतः॑ , सं , मि॒मि॒क्षुः॒ । कया॑ , म॒ती , कुतः॑ , आऽइ॑तासः , ए॒ते , अर्चं॑ति , शुष्मं॑ , वृष॑णः , व॒सु॒ऽया ॥
कस्य॒ ब्रह्मा॑णि जुजुषु॒र्युवा॑नः॒ को अ॑ध्व॒रे म॒रुत॒ आ व॑वर्त । श्ये॒नाँ इ॑व॒ ध्रज॑तो अं॒तरि॑क्षे॒ केन॑ म॒हा मन॑सा रीरमाम ॥
कस्य॑ , ब्रह्मा॑णि , जु॒जु॒षुः॒ , युवा॑नः , कः , अ॒ध्व॒रे , म॒रुतः॑ , आ , व॒व॒र्त॒ । श्ये॒नान्ऽइ॑व , ध्रज॑तः , अं॒तरि॑क्षे , केन॑ , म॒हा , मन॑सा , री॒र॒मा॒म॒ ॥
कुत॒स्त्वमिं॑द्र॒ माहि॑नः॒ सन्नेको॑ यासि सत्पते॒ किं त॑ इ॒त्था । सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ अ॒स्मे ॥
कुतः॑ , त्वं , इं॒द्र॒ , माहि॑नः , सन् , एकः॑ , या॒सि॒ , स॒त्ऽप॒ते॒ , किं , ते॒ , इ॒त्था । सं , पृ॒च्छ॒से॒ , सं॒ऽअ॒रा॒णः , शु॒भा॒नैः , वो॒चेः , तत् , नः॒ , ह॒रि॒ऽवः॒ , यत् , ते॒ , अ॒स्मे इति॑ ॥
ब्रह्मा॑णि मे म॒तयः॒ शं सु॒तासः॒ शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒ अद्रिः॑ । आ शा॑सते॒ प्रति॑ हर्यंत्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ अच्छ॑ ॥
ब्रह्मा॑णि , मे॒ , म॒तयः॑ , शं , सु॒तासः॑ , शुष्मः॑ , इ॒य॒र्ति॒ , प्रऽभृ॑तः , मे॒ , अद्रिः॑ । आ , शा॒स॒ते॒ , प्रति॑ , ह॒र्यं॒ति॒ , उ॒क्था , इ॒मा , हरी॒ इति॑ , व॒ह॒तः॒ , ता , नः॒ , अच्छ॑ ॥
अतो॑ व॒यमं॑त॒मेभि॑र्युजा॒नाः स्वक्ष॑त्रेभिस्त॒न्व१॒॑ः शुंभ॑मानाः । महो॑भि॒रेताँ॒ उप॑ युज्महे॒ न्विंद्र॑ स्व॒धामनु॒ हि नो॑ ब॒भूथ॑ ॥
अतः॑ , व॒यं , अं॒त॒मेभिः॑ , यु॒जा॒नाः , स्वऽक्ष॑त्रेभिः , त॒न्वः॑ , शुंभ॑मानाः । महः॑ऽभिः , एता॑न् , उप॑ , यु॒ज्म॒हे॒ , नु , इंद्र॑ , स्व॒धां , अनु॑ , हि , नः॒ , ब॒भूथ॑ ॥
क्व१॒॑ स्या वो॑ मरुतः स्व॒धासी॒द्यन्मामेकं॑ स॒मध॑त्ताहि॒हत्ये॑ । अ॒हं ह्यु१॒॑ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः ॥
क्व॑ , स्या , वः॒ , म॒रु॒तः॒ , स्व॒धा , आ॒सी॒त् , यत् , मां , एकं॑ , सं॒ऽअध॑त्त , अ॒हि॒ऽहत्ये॑ । अ॒हं , हि , उ॒ग्रः , त॒वि॒षः , तुवि॑ष्मान् , विश्व॑स्य , शत्रोः॑ , अन॑मं , व॒ध॒ऽस्नैः ॥
भूरि॑ चकर्थ॒ युज्ये॑भिर॒स्मे स॑मा॒नेभि॑र्वृषभ॒ पौंस्ये॑भिः । भूरी॑णि॒ हि कृ॒णवा॑मा शवि॒ष्ठेंद्र॒ क्रत्वा॑ मरुतो॒ यद्वशा॑म ॥
भूरि॑ , च॒क॒र्थ॒ , युज्ये॑भिः , अ॒स्मे इति॑ , स॒मा॒नेभिः॑ , वृ॒ष॒भ॒ , पौंस्ये॑भिः । भूरी॑णि , हि , कृ॒णवा॑म , श॒वि॒ष्ठ॒ , इंद्र॑ , क्रत्वा॑ , म॒रु॒तः॒ , यत् , वशा॑म ॥
वधीं॑ वृ॒त्रं म॑रुत इंद्रि॒येण॒ स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् । अ॒हमे॒ता मन॑वे वि॒श्वश्चं॑द्राः सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ॥
वधीं॑ , वृ॒त्रं , म॒रु॒तः॒ , इं॒द्रि॒येण॑ , स्वेन॑ , भामे॑न , त॒वि॒षः , ब॒भू॒वान् । अ॒हं , ए॒ताः , मन॑वे , वि॒श्वऽचं॑द्राः , सु॒ऽगाः , अ॒पः , च॒क॒र॒ , वज्र॑ऽबाहुः ॥
अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑ अस्ति दे॒वता॒ विदा॑नः । न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ॥
अनु॑त्तं , आ , ते॒ , म॒घ॒ऽव॒न् , नकिः॑ , नु , न , त्वाऽवा॑न् , अ॒स्ति॒ , दे॒वता॑ , विदा॑नः । न , जाय॑मानः , नश॑ते , न , जा॒तः , यानि॑ , क॒रि॒ष्या , कृ॒णु॒हि , प्र॒ऽवृ॒द्ध॒ ॥
एक॑स्य चिन्मे वि॒भ्व१॒॑स्त्वोजो॒ या नु द॑धृ॒ष्वान्कृ॒णवै॑ मनी॒षा । अ॒हं ह्यु१॒॑ग्रो म॑रुतो॒ विदा॑नो॒ यानि॒ च्यव॒मिंद्र॒ इदी॑श एषां ॥
एक॑स्य , चि॒त् , मे॒ , वि॒ऽभु , अ॒स्तु॒ , ओजः॑ , या , नु , द॒धृ॒ष्वान् , कृ॒णवै॑ , म॒नी॒षा । अ॒हं , हि , उ॒ग्रः , म॒रु॒तः॒ , विदा॑नः , यानि॑ , च्यवं॑ , इंद्रः॑ , इत् , ई॒शे॒ , ए॒षां॒ ॥
अमं॑दन्मा मरुतः॒ स्तोमो॒ अत्र॒ यन्मे॑ नरः॒ श्रुत्यं॒ ब्रह्म॑ च॒क्र । इंद्रा॑य॒ वृष्णे॒ सुम॑खाय॒ मह्यं॒ सख्ये॒ सखा॑यस्त॒न्वे॑ त॒नूभिः॑ ॥
अमं॑दत् , मा॒ , म॒रु॒तः॒ , स्तोमः॑ , अत्र॑ , यत् , मे॒ , न॒रः॒ , श्रुत्यं॑ , ब्रह्म॑ , च॒क्र । इंद्रा॑य , वृष्णे॑ , सुऽम॑खाय , मह्यं॑ , सख्ये॑ , सखा॑यः , त॒न्वे॑ , त॒नूभिः॑ ॥
ए॒वेदे॒ते प्रति॑ मा॒ रोच॑माना॒ अने॑द्यः॒ श्रव॒ एषो॒ दधा॑नाः । सं॒चक्ष्या॑ मरुतश्चं॒द्रव॑र्णा॒ अच्छां॑त मे छ॒दया॑था च नू॒नं ॥
ए॒व , इत् , ए॒ते , प्रति॑ , मा॒ , रोच॑मानाः , अने॑द्यः , श्रवः॑ , आ , इषः॑ , दधा॑नाः । सं॒ऽचक्ष्य॑ , म॒रु॒तः॒ , चं॒द्रऽव॑र्णाः , अच्छां॑त , मे॒ , छ॒दया॑थ , च॒ , नू॒नं ॥
को न्वत्र॑ मरुतो मामहे वः॒ प्र या॑तन॒ सखीँ॒रच्छा॑ सखायः । मन्मा॑नि चित्रा अपिवा॒तयं॑त ए॒षां भू॑त॒ नवे॑दा म ऋ॒तानां॑ ॥
कः , नु , अत्र॑ , म॒रु॒तः॒ , म॒म॒हे॒ , वः॒ , प्र , या॒त॒न॒ , सखी॒न् , अच्छ॑ , स॒खा॒यः॒ । मन्मा॑नि , चि॒त्राः॒ , अ॒पि॒ऽवा॒तयं॑तः , ए॒षां , भू॒त॒ , नवे॑दाः , मे॒ , ऋ॒तानां॑ ॥
आ यद्दु॑व॒स्याद्दु॒वसे॒ न का॒रुर॒स्मांच॒क्रे मा॒न्यस्य॑ मे॒धा । ओ षु व॑र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा॑णि जरि॒ता वो॑ अर्चत् ॥
आ , यत् , दु॒व॒स्यात् , दु॒वसे॑ , न , का॒रुः , अ॒स्मान् , च॒क्रे , मा॒न्यस्य॑ , मे॒धा । ओ इति॑ , सु , व॒र्त्त॒ , म॒रु॒तः॒ , विप्रं॑ , अच्छ॑ , इ॒मा , ब्रह्मा॑णि , ज॒रि॒ता , वः॒ , अ॒र्च॒त् ॥
ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मां॑दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः । एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
ए॒षः , वः॒ , स्तोमः॑ , म॒रु॒तः॒ , इ॒यं , गीः , मां॒दा॒र्यस्य॑ , मा॒न्यस्य॑ , का॒रोः । आ , इ॒षा , या॒सी॒ष्ट॒ , त॒न्वे॑ , व॒यां , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१६६] तन्नुवोचामेति पंचदशर्चस्य सूक्तस्यमैत्रावरुणिरगस्त्योमरुतोजगत्यंत्येद्वेत्रिष्टुभौ |
तन्नु वो॑चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं॑ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे॑ । ऐ॒धेव॒ याम॑न्मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ॥
तत् , नु , वो॒चा॒म॒ , र॒भ॒साय॑ , जन्म॑ने , पूर्वं॑ , म॒हि॒त्वं , वृ॒ष॒भस्य॑ , के॒तवे॑ । ऐ॒धाऽइ॑व , याम॑न् , म॒रु॒तः॒ , तु॒वि॒ऽस्व॒णः॒ , यु॒धाऽइ॑व , श॒क्राः॒ , त॒वि॒षाणि॑ , क॒र्त॒न॒ ॥
नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळं॑ति क्री॒ळा वि॒दथे॑षु॒ घृष्व॑यः । नक्षं॑ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धंति॒ स्वत॑वसो हवि॒ष्कृतं॑ ॥
नित्यं॑ , न , सू॒नुं , मधु॑ , बिभ्र॑तः , उप॑ , क्रीळं॑ति , क्री॒ळाः , वि॒दथे॑षु , घृष्व॑यः । नक्षं॑ति , रु॒द्राः , अव॑सा , न॒म॒स्विनं॑ , न , म॒र्धं॒ति॒ , स्वऽत॑वसः , ह॒विः॒ऽकृतं॑ ॥
यस्मा॒ ऊमा॑सो अ॒मृता॒ अरा॑सत रा॒यस्पोषं॑ च ह॒विषा॑ ददा॒शुषे॑ । उ॒क्षंत्य॑स्मै म॒रुतो॑ हि॒ता इ॑व पु॒रू रजां॑सि॒ पय॑सा मयो॒भुवः॑ ॥
यस्मै॑ , ऊमा॑सः , अ॒मृताः॑ , अरा॑सत , रा॒यः , पोषं॑ , च॒ , ह॒विषा॑ , द॒दा॒शुषे॑ । उ॒क्षंति॑ , अ॒स्मै॒ , म॒रुतः॑ , हि॒ताःऽइ॑व , पु॒रु , रजां॑सि , पय॑सा , म॒यः॒ऽभुवः॑ ॥
आ ये रजां॑सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा॑सः॒ स्वय॑तासो अध्रजन् । भयं॑ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ यामः॒ प्रय॑तास्वृ॒ष्टिषु॑ ॥
आ , ये , रजां॑सि , तवि॑षीभिः , अव्य॑त , प्र , वः॒ , एवा॑सः , स्वऽय॑तासः , अ॒ध्र॒ज॒न् । भयं॑ते , विश्वा॑ , भुव॑नानि , ह॒र्म्या , चि॒त्रः , वः॒ , यामः॑ , प्रऽय॑तासु , ऋ॒ष्टिषु॑ ॥
यत्त्वे॒षया॑मा न॒दयं॑त॒ पर्व॑तांदि॒वो वा॑ पृ॒ष्ठं नर्या॒ अचु॑च्यवुः । विश्वो॑ वो॒ अज्म॑न्भयते॒ वन॒स्पती॑ रथी॒यंती॑व॒ प्र जि॑हीत॒ ओष॑धिः ॥
यत् , त्वे॒षऽया॑माः , न॒दयं॑त , पर्व॑तान् , दि॒वः , वा॒ , पृ॒ष्ठं , नर्याः॑ , अचु॑च्यवुः । विश्वः॑ , वः॒ , अज्म॑न् , भ॒य॒ते॒ , वन॒स्पतिः॑ , र॒थि॒यंती॑ऽइव , प्र , जि॒ही॒ते॒ , ओष॑धिः ॥
यू॒यं न॑ उग्रा मरुतः सुचे॒तुनारि॑ष्टग्रामाः सुम॒तिं पि॑पर्तन । यत्रा॑ वो दि॒द्युद्रद॑ति॒ क्रिवि॑र्दती रि॒णाति॑ प॒श्वः सुधि॑तेव ब॒र्हणा॑ ॥
यू॒यं , नः॒ , उ॒ग्राः॒ , म॒रु॒तः॒ , सु॒ऽचे॒तुना॑ , अरि॑ष्टऽग्रामाः , सु॒ऽम॒तिं , पि॒प॒र्त॒न॒ । यत्र॑ , वः॒ , दि॒द्युत् , रद॑ति , क्रिविः॑ऽदती , रि॒णाति॑ , प॒श्वः , सुधि॑ताऽइव , ब॒र्हणा॑ ॥
प्र स्कं॒भदे॑ष्णा अनव॒भ्ररा॑धसोऽलातृ॒णासो॑ वि॒दथे॑षु॒ सुष्टु॑ताः । अर्चं॑त्य॒र्कं म॑दि॒रस्य॑ पी॒तये॑ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या॑ ॥
प्र , स्कं॒भऽदे॑ष्णाः , अ॒न॒व॒भ्रऽरा॑धसः , अ॒ला॒तृ॒णासः॑ , वि॒दथे॑षु , सुऽस्तु॑ताः । अर्चं॑ति , अ॒र्कं , म॒दि॒रस्य॑ , पी॒तये॑ , वि॒दुः , वी॒रस्य॑ , प्र॒थ॒मानि॑ , पौंस्या॑ ॥
श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्पू॒र्भी र॑क्षता मरुतो॒ यमाव॑त । जनं॒ यमु॑ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन॑यस्य पु॒ष्टिषु॑ ॥
श॒तभु॑जिऽभिः , तं , अ॒भिऽह्रु॑तेः , अ॒घात् , पूः॒ऽभिः , र॒क्ष॒त॒ , म॒रु॒तः॒ , यं , आव॑त । जनं॑ , यं , उ॒ग्राः॒ , त॒व॒सः॒ , वि॒ऽर॒प्शि॒नः॒ , पा॒थन॑ , शंसा॑त् , तन॑यस्य , पु॒ष्टिषु॑ ॥
विश्वा॑नि भ॒द्रा म॑रुतो॒ रथे॑षु वो मिथ॒स्पृध्ये॑व तवि॒षाण्याहि॑ता । अंसे॒ष्वा वः॒ प्रप॑थेषु खा॒दयोऽक्षो॑ वश्च॒क्रा स॒मया॒ वि वा॑वृते ॥
विश्वा॑नि , भ॒द्रा , म॒रु॒तः॒ , रथे॑षु , वः॒ , मि॒थ॒स्पृध्या॑ऽइव , त॒वि॒षाणि॑ , आऽहि॑ता । अंसे॑षु , आ , वः॒ , प्रऽप॑थेषु , खा॒दयः॑ , अक्षः॑ , वः॒ , च॒क्रा , स॒मया॑ , वि , व॒वृ॒ते॒ ॥
भूरी॑णि भ॒द्रा नर्ये॑षु बा॒हुषु॒ वक्षः॑सु रु॒क्मा र॑भ॒सासो॑ अं॒जयः॑ । अंसे॒ष्वेताः॑ प॒विषु॑ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो॑ धिरे ॥
भूरी॑णि , भ॒द्रा , नर्ये॑षु , बा॒हुषु॑ , वक्षः॑ऽसु , रु॒क्माः , र॒भ॒सासः॑ , अं॒जयः॑ । अंसे॑षु , एताः॑ , प॒विषु॑ , क्षु॒राः , अधि॑ , वयः॑ , न , प॒क्षान् , वि , अनु॑ , श्रियः॑ , धि॒रे॒ ॥
म॒हांतो॑ म॒ह्ना वि॒भ्वो॒३॒॑ विभू॑तयो दूरे॒दृशो॒ ये दि॒व्या इ॑व॒ स्तृभिः॑ । मं॒द्राः सु॑जि॒ह्वाः स्वरि॑तार आ॒सभिः॒ संमि॑श्ला॒ इंद्रे॑ म॒रुतः॑ परि॒ष्टुभः॑ ॥
म॒हांतः॑ , म॒ह्ना , वि॒ऽभ्वः॑ , विऽभू॑तयः , दू॒रे॒ऽदृशः॑ , ये , दि॒व्याःऽइ॑व , स्तृऽभिः॑ । मं॒द्राः , सु॒ऽजि॒ह्वाः , स्वरि॑तारः , आ॒सऽभिः॑ , संऽमि॑श्लाः , इंद्रे॑ , म॒रुतः॑ , प॒रि॒ऽस्तुभः॑ ॥
तद्वः॑ सुजाता मरुतो महित्व॒नं दी॒र्घं वो॑ दा॒त्रमदि॑तेरिव व्र॒तं । इंद्र॑श्च॒न त्यज॑सा॒ वि ह्रु॑णाति॒ तज्जना॑य॒ यस्मै॑ सु॒कृते॒ अरा॑ध्वं ॥
तत् , वः॒ , सु॒ऽजा॒ताः॒ , म॒रु॒तः॒ , म॒हि॒ऽत्व॒नं , दी॒र्घं , वः॒ , दा॒त्रं , अदि॑तेःऽइव , व्र॒तं । इंद्रः॑ , च॒न , त्यज॑सा , वि , ह्रु॒णा॒ति॒ , तत् , जना॑य , यस्मै॑ , सु॒ऽकृते॑ , अरा॑ध्वं ॥
तद्वो॑ जामि॒त्वं म॑रुतः॒ परे॑ यु॒गे पु॒रू यच्छंस॑ममृतास॒ आव॑त । अ॒या धि॒या मन॑वे श्रु॒ष्टिमाव्या॑ सा॒कं नरो॑ दं॒सनै॒रा चि॑कित्रिरे ॥
तत् , वः॒ , जा॒मि॒ऽत्वं , म॒रु॒तः॒ , परे॑ , यु॒गे , पु॒रु , यत् , शंसं॑ , अ॒मृ॒ता॒सः॒ , आव॑त । अ॒या , धि॒या , मन॑वे , श्रु॒ष्टिं , आव्य॑ , सा॒कं , नरः॑ , दं॒सनैः॑ , आ , चि॒कि॒त्रि॒रे॒ ॥
येन॑ दी॒र्घं म॑रुतः शू॒शवा॑म यु॒ष्माके॑न॒ परी॑णसा तुरासः । आ यत्त॒तन॑न्वृ॒जने॒ जना॑स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्यां ॥
येन॑ , दी॒र्घं , म॒रु॒तः॒ , शू॒शवा॑म , यु॒ष्माके॑न , परी॑णसा , तु॒रा॒सः॒ । आ , यत् , त॒तनं॑ , वृ॒जने॑ , जना॑सः , ए॒भिः , य॒ज्ञेभिः॑ , तत् , अ॒भि , इष्टिं॑ , अ॒श्यां॒ ॥
ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मां॑दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः । एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
ए॒षः , वः॒ , स्तोमः॑ , म॒रु॒तः॒ , इ॒यं , गीः , मां॒दा॒र्यस्य॑ , मा॒न्यस्य॑ , का॒रोः । आ , इ॒षा , या॒सी॒ष्ट॒ , त॒न्वे॑ , व॒यां , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१६७] सहस्रंतइत्येकादशर्चस्य सूक्तस्यमैत्रावरुणिरगस्त्यो मरुत आद्यायाइंद्रस्त्रिष्टुप् |
स॒हस्रं॑ त इंद्रो॒तयो॑ नः स॒हस्र॒मिषो॑ हरिवो गू॒र्तत॑माः । स॒हस्रं॒ रायो॑ माद॒यध्यै॑ सह॒स्रिण॒ उप॑ नो यंतु॒ वाजाः॑ ॥
स॒हस्रं॑ , ते॒ , इं॒द्र॒ , ऊ॒तयः॑ , नः॒ , स॒हस्रं॑ , इषः॑ , ह॒रि॒ऽवः॒ , गू॒र्तऽत॑माः । स॒हस्रं॑ , रायः॑ , मा॒द॒यध्यै॑ , स॒ह॒स्रिणः॑ , उप॑ , नः॒ , यं॒तु॒ , वाजाः॑ ॥
आ नोऽवो॑भिर्म॒रुतो॑ यां॒त्वच्छा॒ ज्येष्ठे॑भिर्वा बृ॒हद्दि॑वैः सुमा॒याः । अध॒ यदे॑षां नि॒युतः॑ पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नयं॑त पा॒रे ॥
आ , नः॒ , अवः॑ऽभिः , म॒रुतः॑ , यां॒तु॒ , अच्छ॑ , ज्येष्ठे॑भिः , वा॒ , बृ॒हत्ऽदि॑वैः , सु॒ऽमा॒याः । अध॑ , यत् , ए॒षां॒ , नि॒ऽयुतः॑ , प॒र॒माः , स॒मु॒द्रस्य॑ , चि॒त् , ध॒नयं॑त , पा॒रे ॥
मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर॑ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः । गुहा॒ चरं॑ती॒ मनु॑षो॒ न योषा॑ स॒भाव॑ती विद॒थ्ये॑व॒ सं वाक् ॥
मि॒म्यक्ष॑ , येषु॑ , सुऽधि॑ता , घृ॒ताची॑ , हिर॑ण्यऽनिर्निक् , उप॑रा , न , ऋ॒ष्टिः । गुहा॑ , चरं॑ती , मनु॑षः , न , योषा॑ , स॒भाऽव॑ती , वि॒द॒थ्या॑ऽइव , सं , वाक् ॥
परा॑ शु॒भ्रा अ॒यासो॑ य॒व्या सा॑धार॒ण्येव॑ म॒रुतो॑ मिमिक्षुः । न रो॑द॒सी अप॑ नुदंत घो॒रा जु॒षंत॒ वृधं॑ स॒ख्याय॑ दे॒वाः ॥
परा॑ , शु॒भ्राः , अ॒यासः॑ , य॒व्या , सा॒धा॒र॒ण्याऽइ॑व , म॒रुतः॑ , मि॒मि॒क्षुः॒ । न , रो॒द॒सी इति॑ , अप॑ , नु॒दं॒त॒ , घो॒राः , जु॒षंत॑ , वृधं॑ , स॒ख्याय॑ , दे॒वाः ॥
जोष॒द्यदी॑मसु॒र्या॑ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणाः॑ । आ सू॒र्येव॑ विध॒तो रथं॑ गात्त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ॥
जोष॑त् , यत् , ईं॒ , अ॒सु॒र्या॑ , स॒चध्यै॑ , विसि॑तऽस्तुका , रो॒द॒सी , नृ॒ऽमनाः॑ । आ , सू॒र्याऽइ॑व , वि॒ध॒तः , रथं॑ , गा॒त् , त्वे॒षऽप्र॑तीका , नभ॑सः , न , इ॒त्या ॥
आस्था॑पयंत युव॒तिं युवा॑नः शु॒भे निमि॑श्लां वि॒दथे॑षु प॒ज्रां । अ॒र्को यद्वो॑ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो॑मो दुव॒स्यन् ॥
आ , अ॒स्था॒प॒यं॒त॒ , यु॒व॒तिं , युवा॑नः , शु॒भे , निऽमि॑श्लां , वि॒दथे॑षु , प॒ज्रां । अ॒र्कः , यत् , वः॒ , म॒रु॒तः॒ , ह॒विष्मा॑न् , गाय॑त् , गा॒थं , सु॒तऽसो॑मः , दु॒व॒स्यन् ॥
प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए॑षां म॒रुतां॑ महि॒मा स॒त्यो अस्ति॑ । सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ॥
प्र , तं , वि॒व॒क्मि॒ , वक्म्यः॑ , यः , ए॒षां॒ , म॒रुतां॑ , म॒हि॒मा , स॒त्यः , अस्ति॑ । सचा॑ , यत् , ईं॒ , वृष॑ऽमनाः , अ॒हं॒ऽयुः , स्थि॒रा , चि॒त् , जनीः॑ , वह॑ते , सु॒ऽभा॒गाः ॥
पांति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान् । उ॒त च्य॑वंते॒ अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं॑ मरुतो॒ दाति॑वारः ॥
पांति॑ , मि॒त्रावरु॑णौ , अ॒व॒द्यात् , चय॑ते , ईं॒ , अ॒र्य॒मो इति॑ , अप्र॑ऽशस्तान् । उ॒त , च्य॒वं॒ते॒ , अच्यु॑ता , ध्रु॒वाणि॑ , व॒वृ॒धे , ईं॒ , म॒रु॒तः॒ , दाति॑ऽवारः ॥
न॒ही नु वो॑ मरुतो॒ अंत्य॒स्मे आ॒रात्ता॑च्चि॒च्छव॑सो॒ अंत॑मा॒पुः । ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो॑ धृष॒ता परि॑ ष्ठुः ॥
न॒हि , नु , वः॒ , म॒रु॒तः॒ , अंति॑ , अ॒स्मे इति॑ , आ॒रात्ता॑त् , चि॒त् , शव॑सः , अंतं॑ , आ॒पुः । ते , धृ॒ष्णुना॑ , शव॑सा , शू॒शु॒ऽवांसः॑ , अर्णः॑ , न , द्वेषः॑ , धृ॒ष॒ता , परि॑ , स्थुः॒ ॥
व॒यम॒द्येंद्र॑स्य॒ प्रेष्ठा॑ व॒यं श्वो वो॑चेमहि सम॒र्ये । व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यूंतन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ॥
व॒यं , अ॒द्य , इंद्र॑स्य , प्रेष्ठाः॑ , व॒यं , श्वः , वो॒चे॒म॒हि॒ , स॒ऽम॒र्ये । व॒यं , पु॒रा , महि॑ , च॒ , नः॒ , अनु॑ , द्यून् , तत् , नः॒ , ऋ॒भु॒क्षाः , न॒रां , अनु॑ , स्या॒त् ॥
ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मां॑दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः । एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
ए॒षः , वः॒ , स्तोमः॑ , म॒रु॒तः॒ , इ॒यं , गीः , मां॒दा॒र्यस्य॑ , मा॒न्यस्य॑ , का॒रोः । आ , इ॒षा , या॒सी॒ष्ट॒ , त॒न्वे॑ , व॒यां , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१६८] यज्ञायज्ञेति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यो मरुतोजगती अंत्यास्तिस्रस्त्रिष्टुभः |
य॒ज्ञाय॑ज्ञा वः सम॒ना तु॑तु॒र्वणि॒र्धियं॑धियं वो देव॒या उ॑ दधिध्वे । आ वो॒ऽर्वाचः॑ सुवि॒ताय॒ रोद॑स्योर्म॒हे व॑वृत्या॒मव॑से सुवृ॒क्तिभिः॑ ॥
य॒ज्ञाऽय॑ज्ञा , वः॒ , स॒म॒ना , तु॒तु॒र्वणिः॑ , धियं॑ऽधियं , वः॒ , दे॒व॒ऽयाः , ऊँ॒ इति॑ , द॒धि॒ध्वे॒ । आ , वः॒ , अ॒र्वाचः॑ , सु॒वि॒ताय॑ , रोद॑स्योः , म॒हे , व॒वृ॒त्यां॒ , अव॑से , सु॒वृ॒क्तिऽभिः॑ ॥
व॒व्रासो॒ न ये स्व॒जाः स्वत॑वस॒ इषं॒ स्व॑रभि॒जायं॑त॒ धूत॑यः । स॒ह॒स्रिया॑सो अ॒पां नोर्मय॑ आ॒सा गावो॒ वंद्या॑सो॒ नोक्षणः॑ ॥
व॒व्रासः॑ , न , ये , स्व॒ऽजाः , स्वऽत॑वसः , इषं॑ , स्वः॑ , अ॒भि॒ऽजायं॑त , धूत॑यः । स॒ह॒स्रिया॑सः , अ॒पां , न , ऊ॒र्मयः॑ , आ॒सा , गावः॑ , वंद्या॑सः , न , उ॒क्षणः॑ ॥
सोमा॑सो॒ न ये सु॒तास्तृ॒प्तांश॑वो हृ॒त्सु पी॒तासो॑ दु॒वसो॒ नास॑ते । ऐषा॒मंसे॑षु रं॒भिणी॑व रारभे॒ हस्ते॑षु खा॒दिश्च॑ कृ॒तिश्च॒ सं द॑धे ॥
सोमा॑सः , न , ये , सु॒ताः , तृ॒प्तऽअं॑शवः , हृ॒त्ऽसु , पी॒तासः॑ , दु॒वसः॑ , न , आस॑ते । आ , ए॒षां॒ , अंसे॑षु , रं॒भिणी॑ऽइव , र॒र॒भे॒ , हस्ते॑षु , खा॒दिः , च॒ , कृ॒तिः , च॒ , सं , द॒धे॒ ॥
अव॒ स्वयु॑क्ता दि॒व आ वृथा॑ ययु॒रम॑र्त्याः॒ कश॑या चोदत॒ त्मना॑ । अ॒रे॒णव॑स्तुविजा॒ता अ॑चुच्यवुर्दृ॒ळ्हानि॑ चिन्म॒रुतो॒ भ्राज॑दृष्टयः ॥
अव॑ , स्वऽयु॑क्ताः , दि॒वः , आ , वृथा॑ , य॒युः॒ , अम॑र्त्याः , कश॑या , चो॒द॒त॒ , त्मना॑ । अ॒रे॒णवः॑ , तु॒वि॒ऽजा॒ताः , अ॒चु॒च्य॒वुः॒ , दृ॒ळ्हानि॑ , चि॒त् , म॒रुतः॑ , भ्राज॑त्ऽऋष्टयः ॥
को वो॒ऽन्तर्म॑रुत ऋष्टिविद्युतो॒ रेज॑ति॒ त्मना॒ हन्वे॑व जि॒ह्वया॑ । ध॒न्व॒च्युत॑ इ॒षां न याम॑नि पुरु॒प्रैषा॑ अह॒न्यो॒३॒॑ नैत॑शः ॥
कः , वः॒ , अं॒तः , म॒रु॒तः॒ , ऋ॒ष्टि॒ऽवि॒द्यु॒तः॒ , रेज॑ति , त्मना॑ , हन्वा॑ऽइव , जि॒ह्वया॑ । ध॒न्व॒ऽच्युतः॑ , इ॒षां , न , याम॑नि , पु॒रु॒ऽप्रैषाः॑ , अ॒ह॒न्यः॑ , न , एत॑शः ॥
क्व॑ स्विद॒स्य रज॑सो म॒हस्परं॒ क्वाव॑रं मरुतो॒ यस्मि॑न्नाय॒य । यच्च्या॒वय॑थ विथु॒रेव॒ संहि॑तं॒ व्यद्रि॑णा पतथ त्वे॒षम॑र्ण॒वं ॥
क्व॑ , स्वि॒त् , अ॒स्य , रज॑सः , म॒हः , परं॑ , क्व॑ , अव॑रं , म॒रु॒तः॒ , यस्मि॑न् , आ॒ऽय॒य । यत् , च्य॒वय॑थ , वि॒थु॒राऽइ॑व , संऽहि॑तं , वि , अद्रि॑णा , प॒त॒थ॒ , त्वे॒षं , अ॒र्ण॒वं ॥
सा॒तिर्न वोऽम॑वती॒ स्व॑र्वती त्वे॒षा विपा॑का मरुतः॒ पिपि॑ष्वती । भ॒द्रा वो॑ रा॒तिः पृ॑ण॒तो न दक्षि॑णा पृथु॒ज्रयी॑ असु॒र्ये॑व॒ जंज॑ती ॥
सा॒तिः , न , वः॒ , अम॑ऽवती , स्वः॑ऽवती , त्वे॒षा , विऽपा॑का , म॒रु॒तः॒ , पिपि॑ष्वती । भ॒द्रा , वः॒ , रा॒तिः , पृ॒ण॒तः , न , दक्षि॑णा , पृ॒थु॒ऽज्रयी॑ , अ॒सु॒र्या॑ऽइव , जंज॑ती ॥
प्रति॑ ष्टोभंति॒ सिंध॑वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच॑मुदी॒रयं॑ति । अव॑ स्मयंत वि॒द्युतः॑ पृथि॒व्यां यदी॑ घृ॒तं म॒रुतः॑ प्रुष्णु॒वंति॑ ॥
प्रति॑ , स्तो॒भं॒ति॒ , सिंध॑वः , प॒विऽभ्यः॑ , यत् , अ॒भ्रियां॑ , वाचं॑ , उ॒त्ऽई॒रयं॑ति । अव॑ , स्म॒यं॒त॒ , वि॒ऽद्युतः॑ , पृ॒थि॒व्यां , यदि॑ , घृ॒तं , म॒रुतः॑ , प्रु॒ष्णु॒वंति॑ ॥
असू॑त॒ पृश्नि॑र्मह॒ते रणा॑य त्वे॒षम॒यासां॑ म॒रुता॒मनी॑कं । ते स॑प्स॒रासो॑ऽजनयं॒ताभ्व॒मादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥
असू॑त , पृश्निः॑ , म॒ह॒ते , रणा॑य , त्वे॒षं , अ॒यासां॑ , म॒रुतां॑ , अनी॑कं । ते , स॒प्स॒रासः॑ , अ॒ज॒न॒यं॒त॒ , अभ्वं॑ , आत् , इत् , स्व॒धां , इ॒षि॒रां , परि॑ , अ॒प॒श्य॒न् ॥
ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मां॑दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः । एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
ए॒षः , वः॒ , स्तोमः॑ , म॒रु॒तः॒ , इ॒यं , गीः , मां॒दा॒र्यस्य॑ , मा॒न्यस्य॑ , का॒रोः । आ , इ॒षा , या॒सी॒ष्ट॒ , त॒न्वे॑ , व॒यां , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१६९] महश्चिदित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् द्वितीयाविराट् |
म॒हश्चि॒त्त्वमिं॑द्र य॒त ए॒तान्म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता । स नो॑ वेधो म॒रुतां॑ चिकि॒त्वांत्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा॑ ॥
म॒हः , चि॒त् , त्वं , इं॒द्र॒ , य॒तः , ए॒तान् , म॒हः , चि॒त् , अ॒सि॒ , त्यज॑सः , व॒रू॒ता । सः , नः॒ , वे॒धः॒ , म॒रुतां॑ , चि॒कि॒त्वान् , सु॒म्ना , व॒नु॒ष्व॒ , तव॑ , हि , प्रेष्ठा॑ ॥
अयु॑ज्रंत इंद्र वि॒श्वकृ॑ष्टीर्विदा॒नासो॑ नि॒ष्षिधो॑ मर्त्य॒त्रा । म॒रुतां॑ पृत्सु॒तिर्हास॑माना॒ स्व॑र्मीळ्हस्य प्र॒धन॑स्य सा॒तौ ॥
अयु॑ज्रन् , ते , इं॒द्र॒ , वि॒श्वऽकृ॑ष्टीः , वि॒दा॒नासः॑ , निः॒ऽसिधः॑ , म॒र्त्य॒ऽत्रा । म॒रुतां॑ , पृ॒त्सु॒तिः , हास॑माना , स्वः॑ऽमीळ्हस्य , प्र॒ऽधन॑स्य , सा॒तौ ॥
अम्य॒क्सा त॑ इंद्र ऋ॒ष्टिर॒स्मे सने॒म्यभ्वं॑ म॒रुतो॑ जुनंति । अ॒ग्निश्चि॒द्धि ष्मा॑त॒से शु॑शु॒क्वानापो॒ न द्वी॒पं दध॑ति॒ प्रयां॑सि ॥
अम्य॑क् , सा , ते॒ , इं॒द्र॒ , ऋ॒ष्टिः , अ॒स्मे इति॑ , सने॑मि , अभ्वं॑ , म॒रुतः॑ , जु॒नं॒ति॒ । अ॒ग्निः , चि॒त् , हि , स्म॒ , अ॒त॒से , शु॒शु॒क्वान् , आपः॑ , न , द्वी॒पं , दध॑ति , प्रयां॑सि ॥
त्वं तू न॑ इंद्र॒ तं र॒यिं दा॒ ओजि॑ष्ठया॒ दक्षि॑णयेव रा॒तिं । स्तुत॑श्च॒ यास्ते॑ च॒कनं॑त वा॒योः स्तनं॒ न मध्वः॑ पीपयंत॒ वाजैः॑ ॥
त्वं , तु , नः॒ , इं॒द्र॒ , तं , र॒यिं , दाः॒ , ओजि॑ष्ठया , दक्षि॑णयाऽइव , रा॒तिं । स्तुतः॑ , च॒ , याः , ते॒ , च॒कनं॑त , वा॒योः , स्तनं॑ , न , मध्वः॑ , पी॒प॒यं॒त॒ , वाजैः॑ ॥
त्वे राय॑ इंद्र तो॒शत॑माः प्रणे॒तारः॒ कस्य॑ चिदृता॒योः । ते षु णो॑ म॒रुतो॑ मृळयंतु॒ ये स्मा॑ पु॒रा गा॑तू॒यंती॑व दे॒वाः ॥
त्वे इति॑ , रायः॑ , इं॒द्र॒ , तो॒शऽत॑माः , प्र॒ऽने॒तारः॑ , कस्य॑ , चि॒त् , ऋ॒त॒ऽयोः । ते , सु , नः॒ , म॒रुतः॑ , मृ॒ळ॒यं॒तु॒ , ये , स्म॒ , पु॒रा , गा॒तु॒यंति॑ऽइव , दे॒वाः ॥
प्रति॒ प्र या॑हींद्र मी॒ळ्हुषो॒ नॄन्म॒हः पार्थि॑वे॒ सद॑ने यतस्व । अध॒ यदे॑षां पृथुबु॒ध्नास॒ एता॑स्ती॒र्थे नार्यः पौंस्या॑नि त॒स्थुः ॥
प्रति॑ , प्र , या॒हि॒ , इं॒द्र॒ , मी॒ळ्हुषः॑ , नॄन् , म॒हः , पार्थि॑वे , सद॑ने , य॒त॒स्व॒ । अध॑ , यत् , ए॒षां॒ , पृ॒थु॒ऽबु॒ध्नासः॑ , एताः॑ , ती॒र्थे , न , अ॒र्यः , पौंस्या॑नि , त॒स्थुः ॥
प्रति॑ घो॒राणा॒मेता॑नाम॒यासां॑ म॒रुतां॑ शृण्व आय॒तामु॑प॒ब्दिः । ये मर्त्यं॑ पृतना॒यंत॒मूमै॑र्ऋणा॒वानं॒ न प॒तयं॑त॒ सर्गैः॑ ॥
प्रति॑ , घो॒राणां॑ , एता॑नां , अ॒यासां॑ , म॒रुतां॑ , शृ॒ण्वे॒ , आ॒ऽय॒तां , उ॒प॒ब्दिः । ये , मर्त्यं॑ , पृ॒त॒ना॒ऽयंतं॑ , ऊमैः॑ , ऋ॒ण॒ऽवानं॑ , न , प॒तयं॑त , सर्गैः॑ ॥
त्वं माने॑भ्य इंद्र वि॒श्वज॑न्या॒ रदा॑ म॒रुद्भिः॑ शु॒रुधो॒ गोअ॑ग्राः । स्तवा॑नेभिः स्तवसे देव दे॒वैर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
त्वं , माने॑भ्यः , इं॒द्र॒ , वि॒श्वऽज॑न्या , रद॑ , म॒रुत्ऽभिः॑ , शु॒रुधः॑ , गोऽअ॑ग्राः । स्तवा॑नेभिः , स्त॒व॒से॒ , दे॒व॒ , दे॒वैः , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१७०] ननूनमिति पंचर्चस्य सूक्तस्यप्रथमतृतीयाचतुर्थीनामृचामिंद्रोगस्त्यो द्वितीयापंचम्योरगस्यऋषिरिंद्रोदेवता आद्याबृहती ततस्तिस्रोनुष्टुभोंत्यात्रिष्टुप् |
न नू॒नमस्ति॒ नो श्वः कस्तद्वे॑द॒ यदद्भु॑तं । अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति ॥
न , नू॒नं , अस्ति॑ , नो इति॑ , श्वः , कः , तत् , वे॒द॒ , यत् , अद्भु॑तं । अ॒न्यस्य॑ , चि॒त्तं , अ॒भि , सं॒ऽच॒रेण्यं॑ , उ॒त , आऽधी॑तं , वि , न॒श्य॒ति॒ ॥
किं न॑ इंद्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ । तेभिः॑ कल्पस्व साधु॒या मा नः॑ स॒मर॑णे वधीः ॥
किं , नः॒ , इं॒द्र॒ , जि॒घां॒स॒सि॒ , भ्रात॑रः , म॒रुतः॑ , तव॑ । तेभिः॑ , क॒ल्प॒स्व॒ , सा॒धु॒ऽया , मा , नः॒ , सं॒ऽअर॑णे , व॒धीः॒ ॥
किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे । वि॒द्मा हि ते॒ यथा॒ मनो॒ऽस्मभ्य॒मिन्न दि॑त्ससि ॥
किं , नः॒ , भ्रा॒तः॒ , अ॒ग॒स्त्य॒ , सखा॑ , सन् , अति॑ , म॒न्य॒से॒ । वि॒द्म , हि , ते॒ , यथा॑ , मनः॑ , अ॒स्मभ्यं॑ , इत् , न , दि॒त्स॒सि॒ ॥
अरं॑ कृण्वंतु॒ वेदिं॒ सम॒ग्निमिं॑धतां पु॒रः । तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥
अरं॑ , कृ॒ण्वं॒तु॒ , वेदिं॑ , सं , अ॒ग्निं , इं॒ध॒तां॒ , पु॒रः । तत्र॑ , अ॒मृत॑स्य , चेत॑नं , य॒ज्ञं , ते॒ , त॒न॒वा॒व॒है॒ ॥
त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठः॑ । इंद्र॒ त्वं म॒रुद्भिः॒ सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑ ॥
त्वं , ई॒शि॒षे॒ , व॒सु॒ऽप॒ते॒ , वसू॑नां , त्वं , मि॒त्राणां॑ , मि॒त्र॒ऽप॒ते॒ , धेष्ठः॑ । इंद्र॑ , त्वं , म॒रुत्ऽभिः॑ , सं , व॒द॒स्व॒ , अध॑ , प्र , अ॒शा॒न॒ , ऋ॒तु॒ऽथा , ह॒वींषि॑ ॥
[१७१] प्रतिवइति षडृचस्य सूक्तस्यागस्त्योमरुतः अंत्यानांचतसृणांमरुत्वानिंद्रस्त्रिष्टुप् |
प्रति॑ व ए॒ना नम॑सा॒हमे॑मि सू॒क्तेन॑ भिक्षे सुम॒तिं तु॒राणां॑ । र॒रा॒णता॑ मरुतो वे॒द्याभि॒र्नि हेळो॑ ध॒त्त वि मु॑चध्व॒मश्वा॑न् ॥
प्रति॑ , वः॒ , ए॒ना , नम॑सा , अ॒हं , ए॒मि॒ , सु॒ऽउ॒क्तेन॑ , भि॒क्षे॒ , सु॒ऽम॒तिं , तु॒राणां॑ । र॒रा॒णता॑ , म॒रु॒तः॒ , वे॒द्याभिः॑ , नि , हेळः॑ , ध॒त्त , वि , मु॒च॒ध्वं॒ , अश्वा॑न् ॥
ए॒ष वः॒ स्तोमो॑ मरुतो॒ नम॑स्वान्हृ॒दा त॒ष्टो मन॑सा धायि देवाः । उपे॒मा या॑त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद्वृ॒धासः॑ ॥
ए॒षः , वः॒ , स्तोमः॑ , म॒रु॒तः॒ , नम॑स्वान् , हृ॒दा , त॒ष्टः , मन॑सा , धा॒यि॒ , दे॒वाः॒ । उप॑ , ईं॒ , आ , या॒त॒ , मन॑सा , जु॒षा॒णाः , यू॒यं , हि , स्थ , नम॑सः , इत् , वृ॒धासः॑ ॥
स्तु॒तासो॑ नो म॒रुतो॑ मृळयंतू॒त स्तु॒तो म॒घवा॒ शंभ॑विष्ठः । ऊ॒र्ध्वा नः॑ संतु को॒म्या वना॒न्यहा॑नि॒ विश्वा॑ मरुतो जिगी॒षा ॥
स्तु॒तासः॑ , नः॒ , म॒रुतः॑ , मृ॒ळ॒यं॒तु॒ , उ॒त , स्तु॒तः , म॒घऽवा॑ , शंऽभ॑विष्ठः । ऊ॒र्ध्वा , नः॒ , सं॒तु॒ , को॒म्या , वना॑नि , अहा॑नि , विश्वा॑ , म॒रु॒तः॒ , जि॒गी॒षा ॥
अ॒स्माद॒हं त॑वि॒षादीष॑माण॒ इंद्रा॑द्भि॒या म॑रुतो॒ रेज॑मानः । यु॒ष्मभ्यं॑ ह॒व्या निशि॑तान्यासं॒तान्या॒रे च॑कृमा मृ॒ळता॑ नः ॥
अ॒स्मात् , अ॒हं , त॒वि॒षात् , ईष॑माणः , इंद्रा॑त् , भि॒या , म॒रु॒तः॒ , रेज॑मानः । यु॒ष्मभ्यं॑ , ह॒व्या , निऽशि॑तानि , आ॒स॒न् , तानि॑ , आ॒रे , च॒कृ॒म॒ , मृ॒ळत॑ , नः॒ ॥
येन॒ माना॑सश्चि॒तयं॑त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनां । स नो॑ म॒रुद्भि॑र्वृषभ॒ श्रवो॑ धा उ॒ग्र उ॒ग्रेभिः॒ स्थवि॑रः सहो॒दाः ॥
येन॑ , माना॑सः , चि॒तयं॑ते , उ॒स्राः , विऽउ॑ष्टिषु , शव॑सा , शश्व॑तीनां । सः , नः॒ , म॒रुत्ऽभिः॑ , वृ॒ष॒भ॒ , श्रवः॑ , धाः॒ , उ॒ग्रः , उ॒ग्रेभिः॑ , स्थवि॑रः , स॒हः॒ऽदाः ॥
त्वं पा॑हींद्र॒ सही॑यसो॒ नॄन्भवा॑ म॒रुद्भि॒रव॑यातहेळाः । सु॒प्र॒के॒तेभिः॑ सास॒हिर्दधा॑नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
त्वं , पा॒हि॒ , इं॒द्र॒ , सही॑यसः , नॄन् , भव॑ , म॒रुत्ऽभिः॑ , अव॑यातऽहेळाः । सु॒ऽप्र॒के॒तेभिः॑ , स॒स॒हिः , दधा॑नः , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१७२] चित्रोवइति तृचस्य सूक्तस्य मैत्रावरुणिरगस्त्यो मरुतो गायत्री |
चि॒त्रो वो॑ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः । मरु॑तो॒ अहि॑भानवः ॥
चि॒त्रः , वः॒ , अ॒स्तु॒ , यामः॑ , चि॒त्रः , ऊ॒ती , सु॒ऽदा॒न॒वः॒ । मरु॑तः , अहि॑ऽभानवः ॥
आ॒रे सा वः॑ सुदानवो॒ मरु॑त ऋंज॒ती शरुः॑ । आ॒रे अश्मा॒ यमस्य॑थ ॥
आ॒रे , सा , वः॒ , सु॒ऽदा॒न॒वः॒ , मरु॑तः , ऋं॒ज॒ती , शरुः॑ । आ॒रे , अश्मा॑ , यं , अस्य॑थ ॥
तृ॒ण॒स्कं॒दस्य॒ नु विशः॒ परि॑ वृंक्त सुदानवः । ऊ॒र्ध्वान्नः॑ कर्त जी॒वसे॑ ॥
तृ॒ण॒ऽस्कं॒दस्य॑ , नु , विशः॑ , परि॑ , वृं॒क्त॒ , सु॒ऽदा॒न॒वः॒ । ऊ॒र्ध्वान् , नः॒ , क॒र्त॒ , जी॒वसे॑ ॥
[१७३] गायत्सामेति त्रयोदशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
गाय॒त्साम॑ नभ॒न्यं१॒॑ यथा॒ वेरर्चा॑म॒ तद्वा॑वृधा॒नं स्व॑र्वत् । गावो॑ धे॒नवो॑ ब॒र्हिष्यद॑ब्धा॒ आ यत्स॒द्मानं॑ दि॒व्यं विवा॑सान् ॥
गाय॑त् , साम॑ , न॒भ॒न्यं॑ , यथा॑ , वेः , अर्चा॑म , तत् , व॒वृ॒धा॒नं , स्वः॑ऽवत् । गावः॑ , धे॒नवः॑ , ब॒र्हिषि॑ , अद॑ब्धाः , आ , यत् , स॒द्मानं॑ , दि॒व्यं , विवा॑सान् ॥
अर्च॒द्वृषा॒ वृष॑भिः॒ स्वेदु॑हव्यैर्मृ॒गो नाश्नो॒ अति॒ यज्जु॑गु॒र्यात् । प्र मं॑द॒युर्म॒नां गू॑र्त॒ होता॒ भर॑ते॒ मर्यो॑ मिथु॒ना यज॑त्रः ॥
अर्च॑त् , वृषा॑ , वृष॑ऽभिः , स्व॒ऽइदु॑हव्यैः , मृ॒गः , न , अश्नः॑ , अति॑ , यत् , जु॒गु॒र्यात् । प्र , मं॒द॒युः , म॒नां , गू॒र्त॒ , होता॑ , भर॑ते , मर्यः॑ , मि॒थु॒ना , यज॑त्रः ॥
नक्ष॒द्धोता॒ परि॒ सद्म॑ मि॒ता यन्भर॒द्गर्भ॒मा श॒रदः॑ पृथि॒व्याः । क्रंद॒दश्वो॒ नय॑मानो रु॒वद्गौरं॒तर्दू॒तो न रोद॑सी चर॒द्वाक् ॥
नक्ष॑त् , होता॑ , परि॑ , सद्म॑ , मि॒ता , यन् , भर॑त् , गर्भं॑ , आ , श॒रदः॑ , पृ॒थि॒व्याः । क्रंद॑त् , अश्वः॑ , नय॑मानः , रु॒वत् , गौः , अं॒तः , दू॒तः , न , रोद॑सी॒ इति॑ , च॒र॒त् , वाक् ॥
ता क॒र्माष॑तरास्मै॒ प्र च्यौ॒त्नानि॑ देव॒यंतो॑ भरंते । जुजो॑ष॒दिंद्रो॑ द॒स्मव॑र्चा॒ नास॑त्येव॒ सुग्म्यो॑ रथे॒ष्ठाः ॥
ता , क॒र्म॒ , अष॑ऽतरा , अ॒स्मै॒ , प्र , च्यौ॒त्नानि॑ , दे॒व॒ऽयंतः॑ , भ॒रं॒ते॒ । जुजो॑षत् , इंद्रः॑ , द॒स्मऽव॑र्चाः , नास॑त्याऽइव , सुग्म्यः॑ , र॒थे॒ऽस्थाः ॥
तमु॑ ष्टु॒हींद्रं॒ यो ह॒ सत्वा॒ यः शूरो॑ म॒घवा॒ यो र॑थे॒ष्ठाः । प्र॒ती॒चश्चि॒द्योधी॑या॒न्वृष॑ण्वान्वव॒व्रुष॑श्चि॒त्तम॑सो विहं॒ता ॥
तं , उँ॒ इति॑ , स्तु॒हि॒ , इंद्रं॑ , यः , ह॒ , सत्वा॑ , यः , शूरः॑ , म॒घऽवा॑ , यः , र॒थे॒ऽस्थाः । प्र॒ती॒चः , चि॒त् , योधी॑यान् , वृष॑ण्ऽवान् , व॒व॒व्रुषः॑ , चि॒त् , तम॑सः , वि॒ऽहं॒ता ॥
प्र यदि॒त्था म॑हि॒ना नृभ्यो॒ अस्त्यरं॒ रोद॑सी क॒क्ष्ये॒३॒॑ नास्मै॑ । सं वि॑व्य॒ इंद्रो॑ वृ॒जनं॒ न भूमा॒ भर्ति॑ स्व॒धावाँ॑ ओप॒शमि॑व॒ द्यां ॥
प्र , यत् , इ॒त्था , म॒हि॒ना , नृऽभ्यः॑ , अस्ति॑ , अरं॑ , रोद॑सी॒ इति॑ , क॒क्ष्ये॒३॒॑ इति॑ , न , अ॒स्मै॒ । सं , वि॒व्ये॒ , इंद्रः॑ , वृ॒जनं॑ , न , भूम॑ , भर्ति॑ , स्व॒धाऽवा॑न् , ओ॒प॒शंऽइ॑व , द्यां ॥
स॒मत्सु॑ त्वा शूर स॒तामु॑रा॒णं प्र॑प॒थिंत॑मं परितंस॒यध्यै॑ । स॒जोष॑स॒ इंद्रं॒ मदे॑ क्षो॒णीः सू॒रिं चि॒द्ये अ॑नु॒मदं॑ति॒ वाजैः॑ ॥
स॒मत्ऽसु॑ , त्वा॒ , शू॒र॒ , स॒तां , उ॒रा॒णं , प्र॒प॒थिन्ऽत॑मं , प॒रि॒ऽतं॒स॒यध्यै॑ । स॒ऽजोष॑सः , इंद्रं॑ , मदे॑ , क्षो॒णीः , सू॒रिं , चि॒त् , ये , अ॒नु॒ऽमदं॑ति , वाजैः॑ ॥
ए॒वा हि ते॒ शं सव॑ना समु॒द्र आपो॒ यत्त॑ आ॒सु मदं॑ति दे॒वीः । विश्वा॑ ते॒ अनु॒ जोष्या॑ भू॒द्गौः सू॒रीँश्चि॒द्यदि॑ धि॒षा वेषि॒ जना॑न् ॥
ए॒व , हि , ते॒ , शं , सव॑ना , स॒मु॒द्रे , आपः॑ , यत् , ते॒ , आ॒सु , मदं॑ति , दे॒वीः । विश्वा॑ , ते॒ , अनु॑ , जोष्या॑ , भू॒त् , गौः , सू॒रीन् , चि॒त् , यदि॑ , धि॒षा , वेषि॑ , जना॑न् ॥
असा॑म॒ यथा॑ सुष॒खाय॑ एन स्वभि॒ष्टयो॑ न॒रां न शंसैः॑ । अस॒द्यथा॑ न॒ इंद्रो॑ वंदने॒ष्ठास्तु॒रो न कर्म॒ नय॑मान उ॒क्था ॥
असा॑म , यथा॑ , सु॒ऽस॒खायः॑ , ए॒न॒ , सु॒ऽअ॒भि॒ष्टयः॑ , न॒रां , न , शंसैः॑ । अस॑त् , यथा॑ , नः॒ , इंद्रः॑ , वं॒द॒ने॒ऽस्थाः , तु॒रः , न , कर्म॑ , नय॑मानः , उ॒क्था ॥
विष्प॑र्धसो न॒रां न शंसै॑र॒स्माका॑स॒दिंद्रो॒ वज्र॑हस्तः । मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षंति य॒ज्ञैः ॥
विऽस्प॑र्धसः , न॒रां , न , शंसैः॑ , अ॒स्माक॑ , अ॒स॒त् , इंद्रः॑ , वज्र॑ऽहस्तः । मि॒त्र॒ऽयुवः॑ , न , पूःऽप॑तिं , सुऽशि॑ष्टौ , म॒ध्य॒ऽयुवः॑ , उप॑ , शि॒क्षं॒ति॒ , य॒ज्ञैः ॥
य॒ज्ञो हि ष्मेंद्रं॒ कश्चि॑दृं॒धंजु॑हुरा॒णश्चि॒न्मन॑सा परि॒यन् । ती॒र्थे नाच्छा॑ तातृषा॒णमोको॑ दी॒र्घो न सि॒ध्रमा कृ॑णो॒त्यध्वा॑ ॥
य॒ज्ञः , हि , स्म॒ , इंद्रं॑ , कः , चि॒त् , ऋं॒धन् , जु॒हु॒रा॒णः , चि॒त् , मन॑सा , प॒रि॒ऽयन् । ती॒र्थे , न , अच्छ॑ , त॒तृ॒षा॒णं , ओकः॑ , दी॒र्घः , न , सि॒ध्रं , आ , कृ॒णो॒ति॒ , अध्वा॑ ॥
मो षू ण॑ इं॒द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः । म॒हश्चि॒द्यस्य॑ मी॒ळ्हुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वंद॑ते॒ गीः ॥
मो इति॑ , सु , नः॒ , इं॒द्र॒ , अत्र॑ , पृ॒त्ऽसु , दे॒वैः , अस्ति॑ , हि , स्म॒ , ते॒ , शु॒ष्मि॒न् , अ॒व॒ऽयाः । म॒हः , चि॒त् , यस्य॑ , मी॒ळ्हुषः॑ , य॒व्या , ह॒विष्म॑तः , म॒रुतः॑ , वंद॑ते , गीः ॥
ए॒ष स्तोम॑ इंद्र॒ तुभ्य॑म॒स्मे ए॒तेन॑ गा॒तुं ह॑रिवो विदो नः । आ नो॑ ववृत्याः सुवि॒ताय॑ देव वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
ए॒षः , स्तोमः॑ , इं॒द्र॒ , तुभ्यं॑ , अ॒स्मे इति॑ , ए॒तेन॑ , गा॒तुं , ह॒रि॒ऽवः॒ , वि॒दः॒ , नः॒ । आ , नः॒ , व॒वृ॒त्याः॒ , सु॒वि॒ताय॑ , दे॒व॒ , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१७४] त्वंराजेति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
त्वं राजें॑द्र॒ ये च॑ दे॒वा रक्षा॒ नॄन्पा॒ह्य॑सुर॒ त्वम॒स्मान् । त्वं सत्प॑तिर्म॒घवा॑ न॒स्तरु॑त्र॒स्त्वं स॒त्यो वस॑वानः सहो॒दाः ॥
त्वं , राजा॑ , इं॒द्र॒ , ये , च॒ , दे॒वाः , रक्ष॑ , नॄन् , पा॒हि , अ॒सु॒र॒ , त्वं , अ॒स्मान् । त्वं , सत्ऽप॑तिः , म॒घऽवा॑ , नः॒ , तरु॑त्रः , त्वं , स॒त्यः , वस॑वानः , स॒हः॒ऽदाः ॥
दनो॒ विश॑ इंद्र मृ॒ध्रवा॑चः स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्त् । ऋ॒णोर॒पो अ॑नव॒द्यार्णा॒ यूने॑ वृ॒त्रं पु॑रु॒कुत्सा॑य रंधीः ॥
दनः॑ , विशः॑ , इं॒द्र॒ , मृ॒ध्रऽवा॑चः , स॒प्त , यत् , पुरः॑ , शर्म॑ , शार॑दीः , दर्त् । ऋ॒णोः , अ॒पः , अ॒न॒व॒द्य॒ , अर्णाः॑ , यूने॑ , वृ॒त्रं , पु॒रु॒ऽकुत्सा॑य , रं॒धीः॒ ॥
अजा॒ वृत॑ इंद्र॒ शूर॑पत्नी॒र्द्यां च॒ येभिः॑ पुरुहूत नू॒नं । रक्षो॑ अ॒ग्निम॒शुषं॒ तूर्व॑याणं सिं॒हो न दमे॒ अपां॑सि॒ वस्तोः॑ ॥
अज॑ , वृतः॑ , इं॒द्र॒ , शूर॑ऽपत्नीः , द्यां , च॒ , येभिः॑ , पु॒रु॒ऽहू॒त॒ , नू॒नं । रक्षो॒ इति॑ , अ॒ग्निं , अ॒शुषं॑ , तूर्व॑याणं , सिं॒हः , न , दमे॑ , अपां॑सि , वस्तोः॑ ॥
शेष॒न्नु त इं॑द्र॒ सस्मि॒न्योनौ॒ प्रश॑स्तये॒ पवी॑रवस्य म॒ह्ना । सृ॒जदर्णां॒स्यव॒ यद्यु॒धा गास्तिष्ठ॒द्धरी॑ धृष॒ता मृ॑ष्ट॒ वाजा॑न् ॥
शेष॑न् , नु , ते , इं॒द्र॒ , सस्मि॑न् , योनौ॑ , प्रऽश॑स्तये , पवी॑रवस्य , म॒ह्ना । सृ॒जत् , अर्णां॑सि , अव॑ , यत् , यु॒धा , गाः , तिष्ठ॑त् , हरी॒ इति॑ , धृ॒ष॒ता , मृ॒ष्ट॒ , वाजा॑न् ॥
वह॒ कुत्स॑मिंद्र॒ यस्मिं॑चा॒कंत्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑ । प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो॑ यासिष॒द्वज्र॑बाहुः ॥
वह॑ , कुत्सं॑ , इं॒द्र॒ , यस्मि॑न् , चा॒कन् , स्यू॒म॒न्यू इति॑ , ऋ॒ज्रा , वात॑स्य , अश्वा॑ । प्र , सूरः॑ , च॒क्रं , वृ॒ह॒ता॒त् , अ॒भीके॑ , अ॒भि , स्पृधः॑ , या॒सि॒ष॒त् , वज्र॑ऽबाहुः ॥
ज॒घ॒न्वाँ इं॑द्र मि॒त्रेरूं॑चो॒दप्र॑वृद्धो हरिवो॒ अदा॑शून् । प्र ये पश्य॑न्नर्य॒मणं॒ सचा॒योस्त्वया॑ शू॒र्ता वह॑माना॒ अप॑त्यं ॥
ज॒घ॒न्वान् , इं॒द्र॒ , मि॒त्रेरू॑न् , चो॒दऽप्र॑वृद्धः , ह॒रि॒ऽवः॒ , अदा॑शून् । प्र , ये , पश्य॑न् , अ॒र्य॒मणं॑ , सचा॑ , आ॒योः , त्वया॑ , शू॒र्ताः , वह॑मानाः , अप॑त्यं ॥
रप॑त्क॒विरिं॑द्रा॒र्कसा॑तौ॒ क्षां दा॒सायो॑प॒बर्ह॑णीं कः । कर॑त्ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु॑र्यो॒णे कुय॑वाचं मृ॒धि श्रे॑त् ॥
रप॑त् , क॒विः , इं॒द्र॒ , अ॒र्कऽसा॑तौ , क्षां , दा॒साय॑ , उ॒प॒ऽबर्ह॑णीं , क॒रिति॑ कः । कर॑त् , ति॒स्रः , म॒घऽवा॑ , दानु॑ऽचित्राः , नि , दु॒र्यो॒णे , कुय॑वाचं , मृ॒धि , श्रे॒त् ॥
सना॒ ता त॑ इंद्र॒ नव्या॒ आगुः॒ सहो॒ नभोऽवि॑रणाय पू॒र्वीः । भि॒नत्पुरो॒ न भिदो॒ अदे॑वीर्न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥
सना॑ , ता , ते॒ , इं॒द्र॒ , नव्याः॑ , आ , अ॒गुः॒ , सहः॑ , नभः॑ , अवि॑ऽरणाय , पू॒र्वीः । भि॒नत् , पुरः॑ , न , भिदः॑ , अदे॑वीः , न॒नमः॑ , वधः॑ , अदे॑वस्य , पी॒योः ॥
त्वं धुनि॑रिंद्र॒ धुनि॑मतीर्ऋ॒णोर॒पः सी॒रा न स्रवं॑तीः । प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥
त्वं , धुनिः॑ , इं॒द्र॒ , धुनि॑ऽमतीः , ऋ॒णोः , अ॒पः , सी॒राः , न , स्रवं॑तीः । प्र , यत् , स॒मु॒द्रं , अति॑ , शू॒र॒ , पर्षि॑ , पा॒रय॑ , तु॒र्वशं॑ , यदुं॑ , स्व॒स्ति ॥
त्वम॒स्माक॑मिंद्र वि॒श्वध॑ स्या अवृ॒कत॑मो न॒रां नृ॑पा॒ता । स नो॒ विश्वा॑सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
त्वं , अ॒स्माकं॑ , इं॒द्र॒ , वि॒श्वध॑ , स्याः॒ , अ॒वृ॒कऽत॑मः , न॒रां , नृ॒ऽपा॒ता । सः , नः॒ , विश्वा॑सां , स्पृ॒धां , स॒हः॒ऽदाः , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१७५] मत्स्यपायीति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्य इंद्रोनुष्टुप् आद्यास्कंधोग्रीवी अंत्यात्रिष्टुप् |
मत्स्यपा॑यि ते॒ महः॒ पात्र॑स्येव हरिवो मत्स॒रो मदः॑ । वृषा॑ ते॒ वृष्ण॒ इंदु॑र्वा॒जी स॑हस्र॒सात॑मः ॥
मत्सि॑ , अपा॑यि , ते॒ , महः॑ , पात्र॑स्यऽइव , ह॒रि॒ऽवः , म॒त्स॒रः , मदः॑ । वृषा॑ , ते॒ , वृष्णे॑ , इंदुः॑ , वा॒जी , स॒ह॒स्र॒ऽसात॑मः ॥
आ न॑स्ते गंतु मत्स॒रो वृषा॒ मदो॒ वरे॑ण्यः । स॒हावाँ॑ इंद्र सान॒सिः पृ॑तना॒षाळम॑र्त्यः ॥
आ , नः॒ , ते॒ , गं॒तु॒ , म॒त्स॒रः , वृषा॑ , मदः॑ , वरे॑ण्यः । स॒हऽवा॑न् , इं॒द्र॒ , सा॒न॒सिः , पृ॒त॒ना॒षाट् , अम॑र्त्यः ॥
त्वं हि शूरः॒ सनि॑ता चो॒दयो॒ मनु॑षो॒ रथं॑ । स॒हावां॒दस्यु॑मव्र॒तमोषः॒ पात्रं॒ न शो॒चिषा॑ ॥
त्वं , हि , शूरः॑ , सनि॑ता , चो॒दयः॑ , मनु॑षः , रथं॑ । स॒हऽवा॑न् , दस्युं॑ , अ॒व्र॒तं , ओषः॑ , पात्रं॑ , न , शो॒चिषा॑ ॥
मु॒षा॒य सूर्यं॑ कवे च॒क्रमीशा॑न॒ ओज॑सा । वह॒ शुष्णा॑य व॒धं कुत्सं॒ वात॒स्याश्वैः॑ ॥
मु॒षा॒य , सूर्यं॑ , क॒वे॒ , च॒क्रं , ईशा॑नः , ओज॑सा । वह॑ , शुष्णा॑य , व॒धं , कुत्सं॑ , वात॑स्य , अश्वैः॑ ॥
शु॒ष्मिंत॑मो॒ हि ते॒ मदो॑ द्यु॒म्निंत॑म उ॒त क्रतुः॑ । वृ॒त्र॒घ्ना व॑रिवो॒विदा॑ मंसी॒ष्ठा अ॑श्व॒सात॑मः ॥
शु॒ष्मिन्ऽत॑मः , हि , ते॒ , मदः॑ , द्यु॒म्निन्ऽत॑मः , उ॒त , क्रतुः॑ । वृ॒त्र॒ऽघ्ना , व॒रि॒वः॒ऽविदा॑ , मं॒सी॒ष्ठाः , अ॒श्व॒ऽसात॑मः ॥
यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इंद्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ । तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
यथा॑ , पूर्वे॑भ्यः , ज॒रि॒तृऽभ्यः॑ , इं॒द्र॒ , मयः॑ऽइव , आपः॑ , न , तृष्य॑ते , ब॒भूथ॑ । तां , अनु॑ , त्वा॒ , नि॒ऽविदं॑ , जो॒ह॒वी॒मि॒ , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१७६] मत्सिनइति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्य इंद्रोनुष्टुबंत्या त्रिष्टुप् |
मत्सि॑ नो॒ वस्य॑इष्टय॒ इंद्र॑मिंदो॒ वृषा वि॑श । ऋ॒घा॒यमा॑ण इन्वसि॒ शत्रु॒मंति॒ न विं॑दसि ॥
मत्सि॑ , नः॒ , वस्यः॑ऽइष्टये , इंद्रं॑ , इं॒दो॒ इति॑ , वृषा॑ , आ , वि॒श॒ । ऋ॒घा॒यमा॑णः , इ॒न्व॒सि॒ , शत्रुं॑ , अंति॑ , न , विं॒द॒सि॒ ॥
तस्मि॒न्ना वे॑शया॒ गिरो॒ य एक॑श्चर्षणी॒नां । अनु॑ स्व॒धा यमु॒प्यते॒ यवं॒ न चर्कृ॑ष॒द्वृषा॑ ॥
तस्मि॑न् , आ , वे॒श॒य॒ , गिरः॑ , यः , एकः॑ , च॒र्ष॒णी॒नां । अनु॑ , स्व॒धा , यं , उ॒प्यते॑ , यवं॑ , न , चर्कृ॑षत् , वृषा॑ ॥
यस्य॒ विश्वा॑नि॒ हस्त॑योः॒ पंच॑ क्षिती॒नां वसु॑ । स्पा॒शय॑स्व॒ यो अ॑स्म॒ध्रुग्दि॒व्येवा॒शनि॑र्जहि ॥
यस्य॑ , विश्वा॑नि , हस्त॑योः , पंच॑ , क्षि॒ती॒नां , वसु॑ । स्पा॒शय॑स्व , यः , अ॒स्म॒ऽध्रुक् , दि॒व्याऽइ॑व , अ॒शनिः॑ , ज॒हि॒ ॥
असु॑न्वंतं समं जहि दू॒णाशं॒ यो न ते॒ मयः॑ । अ॒स्मभ्य॑मस्य॒ वेद॑नं द॒द्धि सू॒रिश्चि॑दोहते ॥
असु॑न्वंतं , स॒मं॒ , ज॒हि॒ , दुः॒ऽनशं॑ , यः , न , ते॒ , मयः॑ । अ॒स्मभ्यं॑ , अ॒स्य॒ , वेद॑नं , द॒द्धि , सू॒रिः , चि॒त् , ओ॒ह॒ते॒ ॥
आवो॒ यस्य॑ द्वि॒बर्ह॑सो॒ऽर्केषु॑ सानु॒षगस॑त् । आ॒जाविंद्र॑स्येंदो॒ प्रावो॒ वाजे॑षु वा॒जिनं॑ ॥
आवः॑ , यस्य॑ , द्वि॒ऽबर्ह॑सः , अ॒र्केषु॑ , सा॒नु॒षक् , अस॑त् । आ॒जौ , इंद्र॑स्य , इं॒दो॒ इति॑ , प्र , आ॒वः॒ , वाजे॑षु , वा॒जिनं॑ ॥
यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इंद्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ । तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
यथा॑ , पूर्वे॑भ्यः , ज॒रि॒तृऽभ्यः॑ , इं॒द्र॒ , मयः॑ऽइव , आपः॑ , न , तृष्य॑ते , ब॒भूथ॑ । तां , अनु॑ , त्वा॒ , नि॒ऽविदं॑ , जो॒ह॒वी॒मि॒ , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१७७] आचर्षणिप्राइति पंचर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
आ च॑र्षणि॒प्रा वृ॑ष॒भो जना॑नां॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इंद्रः॑ । स्तु॒तः श्र॑व॒स्यन्नव॒सोप॑ म॒द्रिग्यु॒क्त्वा हरी॒ वृष॒णा या॑ह्य॒र्वाङ् ॥
आ , च॒र्ष॒णि॒ऽप्राः , वृ॒ष॒भः , जना॑नां , राजा॑ , कृ॒ष्टी॒नां , पु॒रु॒ऽहू॒तः , इंद्रः॑ । स्तु॒तः , श्र॒व॒स्यन् , अव॑सा , उप॑ , म॒द्रिक् , यु॒क्त्वा , हरी॒ इति॑ , वृ॒ष॒णा , आ , या॒हि॒ , अ॒र्वाङ् ॥
ये ते॒ वृष॑णो वृष॒भास॑ इंद्र ब्रह्म॒युजो॒ वृष॑रथासो॒ अत्याः॑ । ताँ आ ति॑ष्ठ॒ तेभि॒रा या॑ह्य॒र्वाङ्हवा॑महे त्वा सु॒त इं॑द्र॒ सोमे॑ ॥
ये , ते॒ , वृष॑णः , वृ॒ष॒भासः॑ , इं॒द्र॒ , ब्र॒ह्म॒ऽयुजः॑ , वृष॑ऽरथासः , अत्याः॑ । तान् , आ , ति॒ष्ठ॒ , तेभिः॑ , आ , या॒हि॒ , अ॒र्वाङ् , हवा॑महे , त्वा॒ , सु॒ते , इं॒द्र॒ , सोमे॑ ॥
आ ति॑ष्ठ॒ रथं॒ वृष॑णं॒ वृषा॑ ते सु॒तः सोमः॒ परि॑षिक्ता॒ मधू॑नि । यु॒क्त्वा वृष॑भ्यां वृषभ क्षिती॒नां हरि॑भ्यां याहि प्र॒वतोप॑ म॒द्रिक् ॥
आ , ति॒ष्ठ॒ , रथं॑ , वृष॑णं , वृषा॑ , ते॒ , सु॒तः , सोमः॑ , परि॑ऽसिक्ता , मधू॑नि । यु॒क्त्वा , वृष॑ऽभ्यां , वृ॒ष॒भ॒ , क्षि॒ती॒नां , हरि॑ऽभ्यां , या॒हि॒ , प्र॒ऽवता॑ , उप॑ , म॒द्रिक् ॥
अ॒यं य॒ज्ञो दे॑व॒या अ॒यं मि॒येध॑ इ॒मा ब्रह्मा॑ण्य॒यमिं॑द्र॒ सोमः॑ । स्ती॒र्णं ब॒र्हिरा तु श॑क्र॒ प्र या॑हि॒ पिबा॑ नि॒षद्य॒ वि मु॑चा॒ हरी॑ इ॒ह ॥
अ॒यं , य॒ज्ञः , दे॒व॒ऽयाः , अ॒यं , मि॒येधः॑ , इ॒मा , ब्रह्मा॑णि , अ॒यं , इं॒द्र॒ , सोमः॑ । स्ती॒र्णं , ब॒र्हिः , आ , तु , श॒क्र॒ , प्र , या॒हि॒ , पिब॑ , नि॒ऽसद्य॑ , वि , मु॒च॒ , हरी॒ इति॑ , इ॒ह ॥
ओ सुष्टु॑त इंद्र याह्य॒र्वाङुप॒ ब्रह्मा॑णि मा॒न्यस्य॑ का॒रोः । वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णंतो॑ वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
ओ इति॑ , सुऽस्तु॑तः , इं॒द्र॒ , या॒हि॒ , अ॒र्वाङ् , उप॑ , ब्रह्मा॑णि , मा॒न्यस्य॑ , का॒रोः । वि॒द्याम॑ , वस्तोः॑ , अव॑सा , गृ॒णंतः॑ , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१७८] यद्धस्यातइति पंचर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यइंद्रस्त्रिष्टुप् |
यद्ध॒ स्या त॑ इंद्र श्रु॒ष्टिरस्ति॒ यया॑ ब॒भूथ॑ जरि॒तृभ्य॑ ऊ॒ती । मा नः॒ कामं॑ म॒हयं॑त॒मा ध॒ग्विश्वा॑ ते अश्यां॒ पर्याप॑ आ॒योः ॥
यत् , ह॒ , स्या , ते॒ , इं॒द्र॒ , श्रु॒ष्टिः , अस्ति॑ , यया॑ , ब॒भूथ॑ , ज॒रि॒तृऽभ्यः॑ , ऊ॒ती । मा , नः॒ , कामं॑ , म॒हयं॑तं , आ , ध॒क् , विश्वा॑ , ते॒ , अ॒श्यां॒ , परि॑ , आपः॑ , आ॒योः ॥
न घा॒ राजेंद्र॒ आ द॑भन्नो॒ या नु स्वसा॑रा कृ॒णवं॑त॒ योनौ॑ । आप॑श्चिदस्मै सु॒तुका॑ अवेष॒न्गम॑न्न॒ इंद्रः॑ स॒ख्या वय॑श्च ॥
न , घ॒ , राजा॑ , इंद्रः॑ , आ , द॒भ॒त् , नः॒ , या , नु , स्वसा॑रा , कृ॒णवं॑त , योनौ॑ । आपः॑ , चि॒त् , अ॒स्मै॒ , सु॒ऽतुकाः॑ , अ॒वे॒ष॒न् , गम॑त् , नः॒ , इंद्रः॑ , स॒ख्या , वयः॑ , च॒ ॥
जेता॒ नृभि॒रिंद्रः॑ पृ॒त्सु शूरः॒ श्रोता॒ हवं॒ नाध॑मानस्य का॒रोः । प्रभ॑र्ता॒ रथं॑ दा॒शुष॑ उपा॒क उद्यं॑ता॒ गिरो॒ यदि॑ च॒ त्मना॒ भूत् ॥
जेता॑ , नृऽभिः॑ , इंद्रः॑ , पृ॒त्ऽसु , शूरः॑ , श्रोता॑ , हवं॑ , नाध॑मानस्य , का॒रोः । प्रऽभ॑र्ता , रथं॑ , दा॒शुषः॑ , उ॒पा॒के , उत्ऽयं॑ता , गिरः॑ , यदि॑ , च॒ , त्मना॑ , भूत् ॥
ए॒वा नृभि॒रिंद्रः॑ सुश्रव॒स्या प्र॑खा॒दः पृ॒क्षो अ॒भि मि॒त्रिणो॑ भूत् । स॒म॒र्य इ॒षः स्त॑वते॒ विवा॑चि सत्राक॒रो यज॑मानस्य॒ शंसः॑ ॥
ए॒व , नृऽभिः॑ , इंद्रः॑ , सु॒ऽश्र॒व॒स्या , प्र॒ऽखा॒दः , पृ॒क्षः , अ॒भि , मि॒त्रिणः॑ , भू॒त् । स॒ऽम॒र्ये , इ॒षः , स्त॒व॒ते॒ , विऽवा॑चि , स॒त्रा॒ऽक॒रः , यज॑मानस्य , शंसः॑ ॥
त्वया॑ व॒यं म॑घवन्निंद्र॒ शत्रू॑न॒भि ष्या॑म मह॒तो मन्य॑मानान् । त्वं त्रा॒ता त्वमु॑ नो वृ॒धे भू॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
त्वया॑ , व॒यं , म॒घ॒ऽव॒न् , इं॒द्र॒ , शत्रू॑न् , अ॒भि , स्या॒म॒ , म॒ह॒तः , मन्य॑मानान् । त्वं , त्रा॒ता , त्वं , ऊँ॒ इति॑ , नः॒ , वृ॒धे , भूः॒ , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१७९] पूर्वीरमिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्यः आद्ययोर्द्वयोर्लोपामुद्राऋषिका अंत्ययोर्द्वयोरगस्त्यांतेवासीब्रह्मचारीऋषिः सर्वासांरतिर्देवता त्रिष्टुप् पंचमी बृहती |
पू॒र्वीर॒हं श॒रदः॑ शश्रमा॒णा दो॒षा वस्तो॑रु॒षसो॑ ज॒रयं॑तीः । मि॒नाति॒ श्रियं॑ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥
पू॒र्वीः , अ॒हं , श॒रदः॑ , श॒श्र॒मा॒णा , दो॒षाः , वस्तोः॑ , उ॒षसः॑ , ज॒रयं॑तीः । मि॒नाति॑ , श्रियं॑ , ज॒रि॒मा , त॒नूनां॑ , अपि॑ , ऊँ॒ इति॑ , नु , पत्नीः॑ , वृष॑णः , ज॒ग॒म्युः॒ ॥
ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आसं॑त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ । ते चि॒दवा॑सुर्न॒ह्यंत॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥
ये , चि॒त् , हि , पूर्वे॑ , ऋ॒त॒ऽसापः॑ , आस॑न् , सा॒कं , दे॒वेभिः॑ , अव॑दन् , ऋ॒तानि॑ । ते , चि॒त् , अव॑ , अ॒सुः॒ , न॒हि , अंतं॑ , आ॒पुः , सं , ऊँ॒ इति॑ , नु , पत्नीः॑ , वृष॑ऽभिः , ज॒ग॒म्युः॒ ॥
न मृषा॑ श्रां॒तं यदवं॑ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव । जया॒वेदत्र॑ श॒तनी॑थमा॒जिं यत्स॒म्यंचा॑ मिथु॒नाव॒भ्यजा॑व ॥
न , मृषा॑ , श्रां॒तं , यत् , अवं॑ति , दे॒वाः , विश्वाः॑ , इत् , स्पृधः॑ , अ॒भि , अ॒श्न॒वा॒व॒ । जया॑व , इत् , अत्र॑ , श॒तऽनी॑थं , आ॒जिं , यत् , स॒म्यंचा॑ , मि॒थु॒नौ , अ॒भि , अजा॑व ॥
न॒दस्य॑ मा रुध॒तः काम॒ आग॑न्नि॒त आजा॑तो अ॒मुतः॒ कुत॑श्चित् । लोपा॑मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी॑रा धयति श्व॒संतं॑ ॥
न॒दस्य॑ , मा॒ , रु॒ध॒तः , कामः॑ , आ , अ॒ग॒न् , इ॒तः , आऽजा॑तः , अ॒मुतः॑ , कुतः॑ , चि॒त् । लोपा॑मुद्रा , वृष॑णं , निः , रि॒णा॒ति॒ , धीरं॑ , अधी॑रा , ध॒य॒ति॒ , श्व॒संतं॑ ॥
इ॒मं नु सोम॒मंति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे । यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्यः॑ ॥
इ॒मं , नु , सोमं॑ , अंति॑तः , हृ॒त्ऽसु , पी॒तं , उप॑ , ब्रु॒वे॒ । यत् , सीं॒ , आगः॑ , च॒कृ॒म , तत् , सु , मृ॒ळ॒तु॒ , पु॒लु॒ऽकामः॑ , हि , मर्त्यः॑ ॥
अ॒गस्त्यः॒ खन॑मानः ख॒नित्रैः॑ प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा॑नः । उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो॑ जगाम ॥
अ॒गस्त्यः॑ , खन॑मानः , ख॒नित्रैः॑ , प्र॒ऽजां , अप॑त्यं , बलं॑ , इ॒च्छमा॑नः । उ॒भौ , वर्णौ॑ , ऋषिः॑ , उ॒ग्रः , पु॒पो॒ष॒ , स॒त्याः , दे॒वेषु॑ , आ॒ऽशिषः॑ , ज॒गा॒म॒ ॥
[१८०] युवोरजांसीति दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
यु॒वो रजां॑सि सु॒यमा॑सो॒ अश्वा॒ रथो॒ यद्वां॒ पर्यर्णां॑सि॒ दीय॑त् । हि॒र॒ण्यया॑ वां प॒वयः॑ प्रुषाय॒न्मध्वः॒ पिबं॑ता उ॒षसः॑ सचेथे ॥
यु॒वोः , रजां॑सि , सु॒ऽयमा॑सः , अश्वाः॑ , रथः॑ , यत् , वां॒ , परि॑ , अर्णां॑सि , दीय॑त् । हि॒र॒ण्ययाः॑ , वां , प॒वयः॑ , प्रु॒षा॒य॒न् , मध्वः॑ , पिबं॑तौ , उ॒षसः॑ , स॒चे॒थे॒ इति॑ ॥
यु॒वमत्य॒स्याव॑ नक्षथो॒ यद्विप॑त्मनो॒ नर्य॑स्य॒ प्रय॑ज्योः । स्वसा॒ यद्वां॑ विश्वगूर्ती॒ भरा॑ति॒ वाजा॒येट्टे॑ मधुपावि॒षे च॑ ॥
यु॒वं , अत्य॑स्य , अव॑ , न॒क्ष॒थः॒ , यत् , विऽप॑त्मनः , नर्य॑स्य , प्रऽय॑ज्योः । स्वसा॑ , यत् , वां॒ , वि॒श्व॒गू॒र्ती॒ इति॑ विश्वऽगूर्ती , भरा॑ति , वाजा॑य , ईट्टे॑ , म॒धु॒ऽपौ॒ , इ॒षे , च॒ ॥
यु॒वं पय॑ उ॒स्रिया॑यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः । अं॒तर्यद्व॒निनो॑ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न् ॥
यु॒वं , पयः॑ , उ॒स्रिया॑यां , अ॒ध॒त्तं॒ , प॒क्वं , आ॒मायां॑ , अव॑ , पूर्व्यं॑ , गोः । अं॒तः , यत् , व॒निनः॑ , वां॒ , ऋ॒त॒प्सू॒ इत्यृ॑तऽप्सू , ह्वा॒रः , न , शुचिः॑ , यज॑ते , ह॒विष्मा॑न् ॥
यु॒वं ह॑ घ॒र्मं मधु॑मंत॒मत्र॑ये॒ऽपो न क्षोदो॑ऽवृणीतमे॒षे । तद्वां॑ नरावश्विना॒ पश्व॑इष्टी॒ रथ्ये॑व च॒क्रा प्रति॑ यंति॒ मध्वः॑ ॥
यु॒वं , ह॒ , घ॒र्मं , मधु॑ऽमंतं , अत्र॑ये , अ॒पः , न , क्षोदः॑ , अ॒वृ॒णी॒तं॒ , ए॒षे । तत् , वां॒ , न॒रौ॒ , अ॒श्वि॒ना॒ , पश्वः॑ऽइष्टिः , रथ्या॑ऽइव , च॒क्रा , प्रति॑ , यं॒ति॒ , मध्वः॑ ॥
आ वां॑ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे॑ण तौ॒ग्र्यो न जिव्रिः॑ । अ॒पः क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा ॥
आ , वां॒ , दा॒नाय॑ , व॒वृ॒ती॒य॒ , द॒स्रा॒ , गोः , ओहे॑न , तौ॒ग्र्यः , न , जिव्रिः॑ । अ॒पः , क्षो॒णी इति॑ , स॒च॒ते॒ , माहि॑ना , वां॒ , जू॒र्णः , वां॒ , अक्षुः॑ , अंह॑सः , य॒ज॒त्रा॒ ॥
नि यद्यु॒वेथे॑ नि॒युतः॑ सुदानू॒ उप॑ स्व॒धाभिः॑ सृजथः॒ पुरं॑धिं । प्रेष॒द्वेष॒द्वातो॒ न सू॒रिरा म॒हे द॑दे सुव्र॒तो न वाजं॑ ॥
नि , यत् , यु॒वेथे॒ इति॑ , नि॒ऽयुतः॑ , सु॒दा॒नू॒ इति॑ सुऽदानू , उप॑ , स्व॒धाभिः॑ , सृ॒ज॒थः॒ , पुरं॑ऽधिं । प्रेष॑त् , वेष॑त् , वातः॑ , न , सू॒रिः , आ , म॒हे , द॒दे॒ , सु॒ऽव्र॒तः , न , वाजं॑ ॥
व॒यं चि॒द्धि वां॑ जरि॒तारः॑ स॒त्या वि॑प॒न्याम॑हे॒ वि प॒णिर्हि॒तावा॑न् । अधा॑ चि॒द्धि ष्मा॑श्विनावनिंद्या पा॒थो हि ष्मा॑ वृषणा॒वंति॑देवं ॥
व॒यं , चि॒त् , हि , वां॒ , ज॒रि॒तारः॑ , स॒त्याः , वि॒प॒न्याम॑हे , वि , प॒णिः , हि॒तऽवा॑न् । अध॑ , चि॒त् , हि , स्म॒ , अ॒श्वि॒नौ॒ , अ॒निं॒द्या॒ , पा॒थः , हि , स्म॒ , वृ॒ष॒णौ॒ , अंति॑ऽदेवं ॥
यु॒वां चि॒द्धि ष्मा॑श्विना॒वनु॒ द्यून्विरु॑द्रस्य प्र॒स्रव॑णस्य सा॒तौ । अ॒गस्त्यो॑ न॒रां नृषु॒ प्रश॑स्तः॒ कारा॑धुनीव चितयत्स॒हस्रैः॑ ॥
यु॒वां , चि॒त् , हि , स्म॒ , अ॒श्वि॒नौ॒ , अनु॑ , द्यून् , विऽरु॑द्रस्य , प्र॒ऽस्रव॑णस्य , सा॒तौ । अ॒गस्त्यः॑ , न॒रां , नृषु॑ , प्रऽश॑स्तः , कारा॑धुनीऽइव , चि॒त॒य॒त् , स॒हस्रैः॑ ॥
प्र यद्वहे॑थे महि॒ना रथ॑स्य॒ प्र स्पं॑द्रा याथो॒ मनु॑षो॒ न होता॑ । ध॒त्तं सू॒रिभ्य॑ उ॒त वा॒ स्वश्व्यं॒ नास॑त्या रयि॒षाचः॑ स्याम ॥
प्र , यत् , वहे॑थे॒ इति॑ , म॒हि॒ना , रथ॑स्य , प्र , स्पं॒द्रा॒ , या॒थः॒ , मनु॑षः , न , होता॑ । ध॒त्तं , सू॒रिऽभ्यः॑ , उ॒त , वा॒ , सु॒ऽअश्व्यं॑ , नास॑त्या , र॒यि॒ऽसाचः॑ , स्या॒म॒ ॥
तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम॒ स्तोमै॑रश्विना सुवि॒ताय॒ नव्यं॑ । अरि॑ष्टनेमिं॒ परि॒ द्यामि॑या॒नं वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
तं , वां॒ , रथं॑ , व॒यं , अ॒द्य , हु॒वे॒म॒ , स्तोमैः॑ , अ॒श्वि॒ना॒ , सु॒वि॒ताय॑ , नव्यं॑ । अरि॑ष्टऽनेमिं , परि॑ , द्यां , इ॒या॒नं , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१८१] कदुप्रेष्ठाविति नवर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
कदु॒ प्रेष्टा॑वि॒षां र॑यी॒णाम॑ध्व॒र्यंता॒ यदु॑न्निनी॒थो अ॒पां । अ॒यं वां॑ य॒ज्ञो अ॑कृत॒ प्रश॑स्तिं॒ वसु॑धिती॒ अवि॑तारा जनानां ॥
कत् , ऊँ॒ इति॑ , प्रेष्ठौ॑ , इ॒षां , र॒यी॒णां , अ॒ध्व॒र्यंता॑ , यत् , उ॒त्ऽनि॒नी॒थः , अ॒पां । अ॒यं , वां॒ , य॒ज्ञः , अ॒कृ॒त॒ , प्रऽश॑स्तिं , वसु॑धिती॒ इति॒ वसु॑ऽधिती , अवि॑तारा , ज॒ना॒नां॒ ॥
आ वा॒मश्वा॑सः॒ शुच॑यः पय॒स्पा वात॑रंहसो दि॒व्यासो॒ अत्याः॑ । म॒नो॒जुवो॒ वृष॑णो वी॒तपृ॑ष्ठा॒ एह स्व॒राजो॑ अ॒श्विना॑ वहंतु ॥
आ , वां॒ , अश्वा॑सः , शुच॑यः , प॒यः॒ऽपाः , वात॑ऽरंहसः , दि॒व्यासः॑ , अत्याः॑ । म॒नः॒ऽजुवः॑ , वृष॑णः , वी॒तऽपृ॑ष्ठाः , आ , इ॒ह , स्व॒ऽराजः॑ , अ॒श्विना॑ , व॒हं॒तु॒ ॥
आ वां॒ रथो॒ऽवनि॒र्न प्र॒वत्वां॑त्सृ॒प्रवं॑धुरः सुवि॒ताय॑ गम्याः । वृष्णः॑ स्थातारा॒ मन॑सो॒ जवी॑यानहंपू॒र्वो य॑ज॒तो धि॑ष्ण्या॒ यः ॥
आ , वां॒ , रथः॑ , अ॒वनिः॑ , न , प्र॒वत्वा॑न् , सृ॒प्रऽवं॑धुरः , सु॒वि॒ताय॑ , ग॒म्याः॒ । वृष्णः॑ , स्था॒ता॒रा॒ , मन॑सः , जवी॑यान् , अ॒हं॒ऽपू॒र्वः , य॒ज॒तः , धि॒ष्ण्या॒ , यः ॥
इ॒हेह॑ जा॒ता सम॑वावशीतामरे॒पसा॑ त॒न्वा॒३॒॑ नाम॑भिः॒ स्वैः । जि॒ष्णुर्वा॑म॒न्यः सुम॑खस्य सू॒रिर्दि॒वो अ॒न्यः सु॒भगः॑ पु॒त्र ऊ॑हे ॥
इ॒हऽइ॑ह , जा॒ता , सं , अ॒वा॒व॒शी॒तां॒ , अ॒रे॒पसा॑ , त॒न्वा॑ , नाम॑ऽभिः , स्वैः । जि॒ष्णुः , वां॒ , अ॒न्यः , सुऽम॑खस्य , सू॒रिः , दि॒वः , अ॒न्यः , सु॒ऽभगः॑ , पु॒त्रः , ऊ॒हे॒ ॥
प्र वां॑ निचे॒रुः क॑कु॒हो वशाँ॒ अनु॑ पि॒शंग॑रूपः॒ सद॑नानि गम्याः । हरी॑ अ॒न्यस्य॑ पी॒पयं॑त॒ वाजै॑र्म॒थ्रा रजां॑स्यश्विना॒ वि घोषैः॑ ॥
प्र , वां॒ , नि॒ऽचे॒रुः , क॒कु॒हः , वशा॑न् , अनु॑ , पि॒शंग॑ऽरूपः , सद॑नानि , ग॒म्याः॒ । हरी॒ इति॑ , अ॒न्यस्य॑ , पी॒पयं॑त , वाजैः॑ , म॒थ्रा , रजां॑सि , अ॒श्वि॒ना॒ , वि , घोषैः॑ ॥
प्र वां॑ श॒रद्वा॑न्वृष॒भो न नि॒ष्षाट् पू॒र्वीरिष॑श्चरति॒ मध्व॑ इ॒ष्णन् । एवै॑र॒न्यस्य॑ पी॒पयं॑त॒ वाजै॒र्वेषं॑तीरू॒र्ध्वा न॒द्यो॑ न॒ आगुः॑ ॥
प्र , वां॒ , श॒रत्ऽवा॑न् , वृ॒ष॒भः , न , नि॒ष्षाट् , पू॒र्वीः , इषः॑ , च॒र॒ति॒ , मध्वः॑ , इ॒ष्णन् । एवैः॑ , अ॒न्यस्य॑ , पी॒पयं॑त , वाजैः॑ , वेषं॑तीः , ऊ॒र्ध्वाः , न॒द्यः॑ , नः॒ , आ , अ॒गुः॒ ॥
अस॑र्जि वां॒ स्थवि॑रा वेधसा॒ गीर्बा॒ळ्हे अ॑श्विना त्रे॒धा क्षरं॑ती । उप॑स्तुताववतं॒ नाध॑मानं॒ याम॒न्नया॑मंछृणुतं॒ हवं॑ मे ॥
अस॑र्जि , वां॒ , स्थवि॑रा , वे॒ध॒सा॒ , गीः , बा॒ळ्हे , अ॒श्वि॒ना॒ , त्रे॒धा , क्षरं॑ती । उप॑ऽस्तुतौ , अ॒व॒तं॒ , नाध॑मानं , याम॑न् , अया॑मन् , शृ॒णु॒तं॒ , हवं॑ , मे॒ ॥
उ॒त स्या वां॒ रुश॑तो॒ वप्स॑सो॒ गीस्त्रि॑ब॒र्हिषि॒ सद॑सि पिन्वते॒ नॄन् । वृषा॑ वां मे॒घो वृ॑षणा पीपाय॒ गोर्न सेके॒ मनु॑षो दश॒स्यन् ॥
उ॒त , स्या , वां॒ , रुश॑तः , वप्स॑सः , गीः , त्रि॒ऽब॒र्हिषि॑ , सद॑सि , पि॒न्व॒ते॒ , नॄन् । वृषा॑ , वां॒ , मे॒घः , वृ॒ष॒णा॒ , पी॒पा॒य॒ , गोः , न , सेके॑ , मनु॑षः , द॒श॒स्यन् ॥
यु॒वां पू॒षेवा॑श्विना॒ पुरं॑धिर॒ग्निमु॒षां न ज॑रते ह॒विष्मा॑न् । हु॒वे यद्वां॑ वरिव॒स्या गृ॑णा॒नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
यु॒वां , पू॒षाऽइ॑व , अ॒श्वि॒ना॒ , पुरं॑ऽधिः , अ॒ग्निं , उ॒षां , न , ज॒र॒ते॒ , ह॒विष्मा॑न् । हु॒वे , यत् , वां॒ , व॒रि॒व॒स्या , गृ॒णा॒नः , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१८२] अभूदिदमित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौजगती षष्ठ्यंत्येत्रिष्टुभौ |
अभू॑दि॒दं व॒युन॒मो षु भू॑षता॒ रथो॒ वृष॑ण्वा॒न्मद॑ता मनीषिणः । धि॒यं॒जि॒न्वा धिष्ण्या॑ वि॒श्पला॑वसू दि॒वो नपा॑ता सु॒कृते॒ शुचि॑व्रता ॥
अभू॑त् , इ॒दं , व॒युनं॑ , ओ इति॑ , सु , भू॒ष॒त॒ , रथः॑ , वृष॑ण्ऽवान् , मद॑त , म॒नी॒षि॒णः॒ । धि॒यं॒ऽजि॒न्वा , धिष्ण्या॑ , वि॒श्पला॑वसू॒ इति॑ , दि॒वः , नपा॑ता , सु॒ऽकृते॑ , शुचि॑ऽव्रता ॥
इंद्र॑तमा॒ हि धिष्ण्या॑ म॒रुत्त॑मा द॒स्रा दंसि॑ष्ठा र॒थ्या॑ र॒थीत॑मा । पू॒र्णं रथं॑ वहेथे॒ मध्व॒ आचि॑तं॒ तेन॑ दा॒श्वांस॒मुप॑ याथो अश्विना ॥
इंद्र॑ऽतमा , हि , धिष्ण्या॑ , म॒रुत्ऽत॑मा , द॒स्रा , दंसि॑ष्ठा , र॒थ्या॑ , र॒थिऽत॑मा । पू॒र्णं , रथं॑ , व॒हे॒थे॒ इति॑ , मध्वः॑ , आऽचि॑तं , तेन॑ , दा॒श्वांसं॑ , उप॑ , या॒थः॒ , अ॒श्वि॒ना॒ ॥
किमत्र॑ दस्रा कृणुथः॒ किमा॑साथे॒ जनो॒ यः कश्चि॒दह॑विर्मही॒यते॑ । अति॑ क्रमिष्टं जु॒रतं॑ प॒णेरसुं॒ ज्योति॒र्विप्रा॑य कृणुतं वच॒स्यवे॑ ॥
किं , अत्र॑ , द॒स्रा॒ , कृ॒णु॒थः॒ , किं , आ॒सा॒थे॒ इति॑ , जनः॑ , यः , कः , चि॒त् , अह॑विः , म॒ही॒यते॑ । अति॑ , क्र॒मि॒ष्टं॒ , जु॒रतं॑ , प॒णेः , असुं॑ , ज्योतिः॑ , विप्रा॑य , कृ॒णु॒तं॒ , व॒च॒स्यवे॑ ॥
जं॒भय॑तम॒भितो॒ राय॑तः॒ शुनो॑ ह॒तं मृधो॑ वि॒दथु॒स्तान्य॑श्विना । वाचं॑वाचं जरि॒तू र॒त्निनीं॑ कृतमु॒भा शंसं॑ नासत्यावतं॒ मम॑ ॥
जं॒भय॑तं , अ॒भितः॑ , राय॑तः , शुनः॑ , ह॒तं , मृधः॑ , वि॒दथुः॑ , तानि॑ , अ॒श्वि॒ना॒ । वाचं॑ऽवाचं , ज॒रि॒तुः , र॒त्निनीं॑ , कृ॒तं॒ , उ॒भा , संसं॑ , ना॒स॒त्या॒ , अ॒व॒तं॒ , मम॑ ॥
यु॒वमे॒तं च॑क्रथुः॒ सिंधु॑षु प्ल॒वमा॑त्म॒न्वंतं॑ प॒क्षिणं॑ तौ॒ग्र्याय॒ कं । येन॑ देव॒त्रा मन॑सा निरू॒हथुः॑ सुपप्त॒नी पे॑तथुः॒ क्षोद॑सो म॒हः ॥
यु॒वं , ए॒तं , च॒क्र॒तुः॒ , सिंधु॑षु , प्ल॒वं , आ॒त्म॒न्ऽवंतं॑ , प॒क्षिणं॑ , तौ॒ग्र्याय॑ , कं । येन॑ , दे॒व॒ऽत्रा , मन॑सा , निः॒ऽऊ॒हथुः॑ , सु॒ऽप॒प्त॒नि , पे॒त॒थुः॒ , क्षोद॑सः , म॒हः ॥
अव॑विद्धं तौ॒ग्र्यम॒प्स्व१॒॑न्तर॑नारंभ॒णे तम॑सि॒ प्रवि॑द्धं । चत॑स्रो॒ नावो॒ जठ॑लस्य॒ जुष्टा॒ उद॒श्विभ्या॑मिषि॒ताः पा॑रयंति ॥
अव॑ऽविद्धं , तौ॒ग्र्यं , अ॒प्ऽसु , अं॒तः , अ॒ना॒रं॒भ॒णे , तम॑सि , प्रऽवि॑द्धं । चत॑स्रः , नावः॑ , जठ॑लस्य , जुष्टाः॑ , उत् , अ॒श्विऽभ्यां॑ , इ॒षि॒ताः , पा॒र॒यं॒ति॒ ॥
कः स्वि॑द्वृ॒क्षो निष्ठि॑तो॒ मध्ये॒ अर्ण॑सो॒ यं तौ॒ग्र्यो ना॑धि॒तः प॒र्यष॑स्वजत् । प॒र्णा मृ॒गस्य॑ प॒तरो॑रिवा॒रभ॒ उद॑श्विना ऊहथुः॒ श्रोम॑ताय॒ कं ॥
कः , स्वि॒त् , वृ॒क्षः , निःऽस्थि॑तः , मध्ये॑ , अर्ण॑सः , यं , तौ॒ग्र्यः , ना॒धि॒तः , प॒रि॒ऽअस॑स्वजत् । प॒र्णा , मृ॒गस्य॑ , प॒तरोः॑ऽइव , आ॒ऽरभे॑ , उत् , अ॒श्वि॒नौ॒ , ऊ॒ह॒थुः॒ , श्रोम॑ताय , कं ॥
तद्वां॑ नरा नासत्या॒वनु॑ ष्या॒द्यद्वां॒ माना॑स उ॒चथ॒मवो॑चन् । अ॒स्माद॒द्य सद॑सः सो॒म्यादा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
तत् , वां॒ , न॒रा॒ , ना॒स॒त्यौ॒ , अनु॑ , स्या॒त् , यत् , वां॒ , माना॑सः , उ॒चथं॑ , अवो॑चन् । अ॒स्मात् , अ॒द्य , सद॑सः , सो॒म्यात् , आ , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१८३] तंयुंजाथामिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
तं युं॑जाथां॒ मन॑सो॒ यो जवी॑यांत्रिवंधु॒रो वृ॑षणा॒ यस्त्रि॑च॒क्रः । येनो॑पया॒थः सु॒कृतो॑ दुरो॒णं त्रि॒धातु॑ना पतथो॒ विर्न प॒र्णैः ॥
तं , युं॒जा॒थां॒ , मन॑सः , यः , जवी॑यान् , त्रि॒ऽवं॒धु॒रः , वृ॒ष॒णा॒ , यः , त्रि॒ऽच॒क्रः । येन॑ , उ॒प॒ऽया॒थः , सु॒ऽकृतः॑ , दु॒रो॒णं , त्रि॒ऽधातु॑ना , प॒त॒थः॒ , विः , न , प॒र्णैः ॥
सु॒वृद्रथो॑ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थः॒ क्रतु॑मं॒तानु॑ पृ॒क्षे । वपु॑र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा॑ सचेथे ॥
सु॒ऽवृत् , रथः॑ , व॒र्त॒ते॒ , यन् , अ॒भि , क्षां , यत् , तिष्ठ॑थः , क्रतु॑ऽमंता , अनु॑ , पृ॒क्षे । वपुः॑ , व॒पु॒ष्या , स॒च॒तां॒ , इ॒यं , गीः , दि॒वः , दु॒हि॒त्रा , उ॒षसा॑ , स॒चे॒थे॒ इति॑ ॥
आ ति॑ष्ठतं सु॒वृतं॒ यो रथो॑ वा॒मनु॑ व्र॒तानि॒ वर्त॑ते ह॒विष्मा॑न् । येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥
आ , ति॒ष्ठ॒तं॒ , सु॒ऽवृतं॑ , यः , रथः॑ , वां॒ , अनु॑ , व्र॒तानि॑ , वर्त॑ते , ह॒विष्मा॑न् । येन॑ , न॒रा॒ , ना॒स॒त्या॒ , इ॒ष॒यध्यै॑ , व॒र्तिः , या॒थः , तन॑याय , त्मने॑ , च॒ ॥
मा वां॒ वृको॒ मा वृ॒कीरा द॑धर्षी॒न्मा परि॑ वर्क्तमु॒त माति॑ धक्तं । अ॒यं वां॑ भा॒गो निहि॑त इ॒यं गीर्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नां ॥
मा , वां॒ , वृकः॑ , मा , वृ॒कीः , आ , द॒ध॒र्षी॒त् , मा , परि॑ , व॒र्क्तं॒ , उ॒त , मा , अति॑ , ध॒क्तं॒ । अ॒यं , वां॒ , भा॒गः , निऽहि॑तः , इ॒यं , गीः , दस्रौ॑ , इ॒मे , वां॒ , नि॒ऽधयः॑ , मधू॑नां ॥
यु॒वां गोत॑मः पुरुमी॒ळ्हो अत्रि॒र्दस्रा॒ हव॒तेऽव॑से ह॒विष्मा॑न् । दिशं॒ न दि॒ष्टामृ॑जू॒येव॒ यंता मे॒ हवं॑ नास॒त्योप॑ यातं ॥
यु॒वां , गोत॑मः , पु॒रु॒ऽमी॒ळ्हः , अत्रिः॑ , दस्रा॑ , हव॑ते , अव॑से , ह॒विष्मा॑न् । दिशं॑ , न , दि॒ष्टां , ऋ॒जु॒याऽइ॑व , यंता॑ , आ , मे॒ , हवं॑ , ना॒स॒त्या॒ , उप॑ , या॒तं॒ ॥
अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि । एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
अता॑रिष्म , तम॑सः , पा॒रं , अ॒स्य , प्रति॑ , वां॒ , स्तोमः॑ , अ॒श्वि॒नौ॒ , अ॒धा॒यि॒ । आ , इ॒ह , या॒तं॒ , प॒थिऽभिः॑ , दे॒व॒ऽयानैः॑ , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१८४] तावामिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्योश्विनौत्रिष्टुप् |
ता वा॑म॒द्य ताव॑प॒रं हु॑वेमो॒च्छंत्या॑मु॒षसि॒ वह्नि॑रु॒क्थैः । नास॑त्या॒ कुह॑ चि॒त्संता॑व॒र्यो दि॒वो नपा॑ता सु॒दास्त॑राय ॥
ता , वां॒ , अ॒द्य , तौ , अ॒प॒रं , हु॒वे॒म॒ , उ॒च्छंत्यां॑ , उ॒षसि॑ , वह्निः॑ , उ॒क्थैः । नास॑त्या , कुह॑ , चि॒त् , संतौ॑ , अ॒र्यः , दि॒वः , नपा॑ता , सु॒दाःऽत॑राय ॥
अ॒स्मे ऊ॒ षु वृ॑षणा मादयेथा॒मुत्प॒णीँर्ह॑तमू॒र्म्या मदं॑ता । श्रु॒तं मे॒ अच्छो॑क्तिभिर्मती॒नामेष्टा॑ नरा॒ निचे॑तारा च॒ कर्णैः॑ ॥
अ॒स्मे इति॑ , ऊँ॒ इति॑ , सु , वृ॒ष॒णा॒ , मा॒द॒ये॒थां॒ , उत् , प॒णीन् , ह॒तं॒ , ऊ॒र्म्या , मदं॑ता । श्रु॒तं , मे॒ , अच्छो॑क्तिऽभिः , म॒ती॒नां , एष्टा॑ , न॒रा॒ , निऽचे॑तारा , च॒ , कर्णैः॑ ॥
श्रि॒ये पू॑षन्निषु॒कृते॑व दे॒वा नास॑त्या वह॒तुं सू॒र्यायाः॑ । व॒च्यंते॑ वां ककु॒हा अ॒प्सु जा॒ता यु॒गा जू॒र्णेव॒ वरु॑णस्य॒ भूरेः॑ ॥
श्रि॒ये , पू॒ष॒न् , इ॒षु॒कृता॑ऽइव , दे॒वा , नास॑त्या , व॒ह॒तुं , सू॒र्यायाः॑ । व॒च्यंते॑ , वां , क॒कु॒हाः , अ॒प्ऽसु , जा॒ताः , यु॒गा , जू॒र्णाऽइ॑व , वरु॑णस्य , भूरेः॑ ॥
अ॒स्मे सा वां॑ माध्वी रा॒तिर॑स्तु॒ स्तोमं॑ हिनोतं मा॒न्यस्य॑ का॒रोः । अनु॒ यद्वां॑ श्रव॒स्या॑ सुदानू सु॒वीर्या॑य चर्ष॒णयो॒ मदं॑ति ॥
अ॒स्मे इति॑ , सा , वां॒ , मा॒ध्वी॒ इति॑ , रा॒तिः , अ॒स्तु॒ , स्तोमं॑ , हि॒नो॒तं॒ , मा॒न्यस्य॑ , का॒रोः । अनु॑ , यत् , वां॒ , श्र॒व॒स्या॑ , सु॒दा॒नू॒ इति॑ सुऽदानू , सु॒ऽवीर्या॑य , च॒र्ष॒णयः॑ , मदं॑ति ॥
ए॒ष वां॒ स्तोमो॑ अश्विनावकारि॒ माने॑भिर्मघवाना सुवृ॒क्ति । या॒तं व॒र्तिस्तन॑याय॒ त्मने॑ चा॒गस्त्ये॑ नासत्या॒ मदं॑ता ॥
ए॒षः , वां॒ , स्तोमः॑ , अ॒श्वि॒नौ॒ , अ॒का॒रि॒ , माने॑भिः , म॒घ॒ऽवा॒ना॒ , सु॒ऽवृ॒क्ति । या॒तं , व॒र्तिः , तन॑याय , त्मने॑ , च॒ , अ॒गस्त्ये॑ , ना॒स॒त्या॒ , मदं॑ता ॥
अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि । एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
अता॑रिष्म , तम॑सः , पा॒रं , अ॒स्य , प्रति॑ , वां॒ , स्तोमः॑ , अ॒श्वि॒नौ॒ , अ॒धा॒यि॒ । आ , इ॒ह , या॒तं॒ , प॒थिऽभिः॑ , दे॒व॒ऽयानैः॑ , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१८५] कतरेत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योद्यावापृथिवीत्रिष्टुप् |
क॒त॒रा पूर्वा॑ कत॒राप॑रा॒योः क॒था जा॒ते क॑वयः॒ को वि वे॑द । विश्वं॒ त्मना॑ बिभृतो॒ यद्ध॒ नाम॒ वि व॑र्तेते॒ अह॑नी च॒क्रिये॑व ॥
क॒त॒रा , पूर्वा॑ , क॒त॒रा , अप॑रा , अ॒योः , क॒था , जा॒ते इति॑ , क॒व॒यः॒ , कः , वि , वे॒द॒ । विश्वं॑ , त्मना॑ , बि॒भृ॒तः॒ , यत् , ह॒ , नाम॑ , वि , व॒र्ते॒ते॒ , अह॑नी॒ इति॑ , च॒क्रिया॑ऽइव ॥
भूरिं॒ द्वे अच॑रंती॒ चरं॑तं प॒द्वंतं॒ गर्भ॑म॒पदी॑ दधाते । नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
भूरि॑ , द्वे इति॑ , अच॑रंती॒ इति॑ , चरं॑तं , प॒त्ऽवंतं॑ , गर्भं॑ , अ॒पदी॒ इति॑ , द॒धा॒ते॒ इति॑ । नित्यं॑ , न , सू॒नुं , पि॒त्रोः , उ॒पऽस्थे॑ , द्यावा॑ , रक्ष॑तं , पृ॒थि॒वी॒ इति॑ , नः॒ , अभ्वा॑त् ॥
अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व॑र्वदव॒धं नम॑स्वत् । तद्रो॑दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
अ॒ने॒हः , दा॒त्रं , अदि॑तेः , अ॒न॒र्वं , हु॒वे , स्वः॑ऽवत् , अ॒व॒धं , नम॑स्वत् । तत् , रो॒द॒सी॒ इति॑ , ज॒न॒य॒तं॒ , ज॒रि॒त्रे , द्यावा॑ , रक्ष॑तं , पृ॒थि॒वी॒ इति॑ , नः॒ , अभ्वा॑त् ॥
अत॑प्यमाने॒ अव॒सावं॑ती॒ अनु॑ ष्याम॒ रोद॑सी दे॒वपु॑त्रे । उ॒भे दे॒वाना॑मु॒भये॑भि॒रह्नां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
अत॑प्यमाने॒ इति॑ , अव॑सा , अवं॑ती॒ इति॑ , अनु॑ , स्या॒म॒ , रोद॑सी॒ इति॑ , दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । उ॒भे इति॑ , दे॒वानां॑ , उ॒भये॑भिः , अह्नां॑ , द्यावा॑ , रक्ष॑तं , पृ॒थि॒वी॒ इति॑ , नः॒ , अभ्वा॑त् ॥
सं॒गच्छ॑माने युव॒ती समं॑ते॒ स्वसा॑रा जा॒मी पि॒त्रोरु॒पस्थे॑ । अ॒भि॒जिघ्रं॑ती॒ भुव॑नस्य॒ नाभिं॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
सं॒गच्छ॑माने॒ इति॑ सं॒ऽगच्छ॑माने , यु॒व॒ती इति॑ , समं॑ते॒ इति॒ संऽअं॑ते , स्वसा॑रा , जा॒मी इति॑ , पि॒त्रोः , उ॒पऽस्थे॑ । अ॒भि॒जिघ्रं॑ती॒ इत्य॑भि॒ऽजिघ्रं॑ती , भुव॑नस्य , नाभिं॑ , द्यावा॑ , रक्ष॑तं , पृ॒थि॒वी॒ इति॑ , नः॒ , अभ्वा॑त् ॥
उ॒र्वी सद्म॑नी बृह॒ती ऋ॒तेन॑ हु॒वे दे॒वाना॒मव॑सा॒ जनि॑त्री । द॒धाते॒ ये अ॒मृतं॑ सु॒प्रती॑के॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
उ॒र्वी इति॑ , सद्म॑नी॒ इति॑ , बृ॒ह॒ती इति॑ , ऋ॒तेन॑ , हु॒वे , दे॒वानां॑ , अव॑सा , जनि॑त्री॒ इति॑ । द॒धाते॒ इति॑ , ये इति॑ , अ॒मृतं॑ , सु॒प्रती॑के॒ इति॑ सु॒ऽप्रती॑के , द्यावा॑ , रक्ष॑तं , पृ॒थि॒वी॒ इति॑ , नः॒ , अभ्वा॑त् ॥
उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रेअं॑ते॒ उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन् । द॒धाते॒ ये सु॒भगे॑ सु॒प्रतू॑र्ती॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
उ॒र्वी इति॑ , पृ॒थ्वी इति॑ , ब॒हु॒ले इति॑ , दू॒रेअं॑ते॒ इति॑ दू॒रेऽअं॑ते , उप॑ , ब्रु॒वे॒ , नम॑सा , य॒ज्ञे , अ॒स्मिन् । द॒धाते॒ इति॑ , ये इति॑ , सु॒भगे॒ इति॑ सु॒ऽभगे॑ , सु॒प्रतू॑र्ती॒ इति॑ सु॒ऽप्रतू॑र्ती , द्यावा॑ , रक्ष॑तं , पृ॒थि॒वी॒ इति॑ , नः॒ , अभ्वा॑त् ॥
दे॒वान्वा॒ यच्च॑कृ॒मा कच्चि॒दागः॒ सखा॑यं वा॒ सद॒मिज्जास्प॑तिं वा । इ॒यं धीर्भू॑या अव॒यान॑मेषां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
दे॒वान् , वा॒ , यत् , च॒कृ॒म , कत् , चि॒त् , आगः॑ , सखा॑यं , वा॒ , सदं॑ , इत् , जाःऽप॑तिं , वा॒ । इ॒यं , धीः , भू॒याः॒ , अ॒व॒ऽयानं॑ , एषां॑ , द्यावा॑ , रक्ष॑तं , पृ॒थि॒वी॒ इति॑ , नः॒ , अभ्वा॑त् ॥
उ॒भा शंसा॒ नर्या॒ माम॑विष्टामु॒भे मामू॒ती अव॑सा सचेतां । भूरि॑ चिद॒र्यः सु॒दास्त॑राये॒षा मदं॑त इषयेम देवाः ॥
उ॒भा , शंसा॑ , नर्या॑ , मां , अ॒वि॒ष्टां॒ , उ॒भे इति॑ , मां , ऊ॒ती इति॑ , अव॑सा , स॒चे॒तां॒ । भूरि॑ , चि॒त् , अ॒र्यः , सु॒दाःऽत॑राय , इ॒षा , मदं॑तः , इ॒ष॒ये॒म॒ , दे॒वाः॒ ॥
ऋ॒तं दि॒वे तद॑वोचं पृथि॒व्या अ॑भिश्रा॒वाय॑ प्रथ॒मं सु॑मे॒धाः । पा॒ताम॑व॒द्याद्दु॑रि॒ताद॒भीके॑ पि॒ता मा॒ता च॑ रक्षता॒मवो॑भिः ॥
ऋ॒तं , दि॒वे , तत् , अ॒वो॒चं॒ , पृ॒थि॒व्यै , अ॒भि॒ऽश्रा॒वाय॑ , प्र॒थ॒मं , सु॒ऽमे॒धाः । पा॒तां , अ॒व॒द्यात् , दुः॒ऽइ॒तात् , अ॒भीके॑ , पि॒ता , मा॒ता , च॒ , र॒क्ष॒तां॒ , अवः॑ऽभिः ॥
इ॒दं द्या॑वापृथिवी स॒त्यम॑स्तु॒ पित॒र्मात॒र्यदि॒होप॑ब्रु॒वे वां॑ । भू॒तं दे॒वाना॑मव॒मे अवो॑भिर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
इ॒दं , द्या॒वा॒पृ॒थि॒वी॒ इति॑ , स॒त्यं , अ॒स्तु॒ , पितः॑ , मातः॑ , यत् , इ॒ह , उ॒प॒ऽब्रु॒वे , वां॒ । भू॒तं , दे॒वानां॑ , अ॒व॒मे इति॑ , अवः॑ऽभिः , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१८६] आनइळाभिरित्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योविश्वेदेवास्त्रिष्टुप् | (सूक्तभेदप्रयोगेतु-आद्यचतसृणां विश्वेदेवाः ततएकस्याअहिर्बुध्न्यः ततएकस्यास्त्वष्टा ततएकस्याइंद्रः ततोद्वयोर्मरुतः ततोद्वयोर्विश्वेदेवाः एवमेकादश) |
आ न॒ इळा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु । अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥
आ , नः॒ , इळा॑भिः , वि॒दथे॑ , सु॒ऽश॒स्ति , वि॒श्वान॑रः , स॒वि॒ता , दे॒वः , ए॒तु॒ । अपि॑ , यथा॑ , यु॒वा॒नः॒ , मत्स॑थ , नः॒ , विश्वं॑ , जग॑त् , अ॒भि॒ऽपि॒त्वे , म॒नी॒षा ॥
आ नो॒ विश्व॒ आस्क्रा॑ गमंतु दे॒वा मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषाः॑ । भुव॒न्यथा॑ नो॒ विश्वे॑ वृ॒धासः॒ करं॑त्सु॒षाहा॑ विथु॒रं न शवः॑ ॥
आ , नः॒ , विश्वे॑ , आस्क्राः॑ , ग॒मं॒तु॒ , दे॒वाः , मि॒त्रः , अ॒र्य॒मा , वरु॑णः , स॒ऽजोषाः॑ । भुव॑न् , यथा॑ , नः॒ , विश्वे॑ , वृ॒धासः॑ , कर॑न् , सु॒ऽसहा॑ , वि॒थु॒रं , न , शवः॑ ॥
प्रेष्ठं॑ वो॒ अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणिः॑ स॒जोषाः॑ । अस॒द्यथा॑ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ॥
प्रेष्ठं॑ , वः॒ , अति॑थिं , गृ॒णी॒षे॒ , अ॒ग्निं , श॒स्तिऽभिः॑ , तु॒र्वणिः॑ , स॒ऽजोषाः॑ । अस॑त् , यथा॑ , नः॒ , वरु॑णः , सु॒ऽकी॒र्तिः , इषः॑ , च॒ , प॒र्ष॒त् , अ॒रि॒ऽगू॒र्तः , सू॒रिः ॥
उप॑ व॒ एषे॒ नम॑सा जिगी॒षोषासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः । स॒मा॒ने अह॑न्वि॒मिमा॑नो अ॒र्कं विषु॑रूपे॒ पय॑सि॒ सस्मि॒न्नूध॑न् ॥
उप॑ , वः॒ , आ , इ॒षे॒ , नम॑सा , जि॒गी॒षा , उ॒षसा॒नक्ता॑ , सु॒दुघा॑ऽइव , धे॒नुः । स॒मा॒ने , अह॑न् , वि॒ऽमिमा॑नः , अ॒र्कं , विषु॑ऽरूपे , पय॑सि , सस्मि॑न् , ऊध॑न् ॥
उ॒त नोऽहि॑र्बु॒ध्न्यो॒३॒॑ मय॑स्कः॒ शिशुं॒ न पि॒प्युषी॑व वेति॒ सिंधुः॑ । येन॒ नपा॑तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वहं॑ति ॥
उ॒त , नः॒ , अहिः॑ , बु॒ध्न्यः॑ , मयः॑ , क॒रिति॑ कः , शिशुं॑ , न , पि॒प्युषी॑ऽइव , वे॒ति॒ , सिंधुः॑ । येन॑ , नपा॑तं , अ॒पां , जु॒नाम॑ , म॒नः॒ऽजुवः॑ , वृष॑णः , यं , वहं॑ति ॥
उ॒त न॑ ईं॒ त्वष्टा गं॒त्वच्छा॒ स्मत्सू॒रिभि॑रभिपि॒त्वे स॒जोषाः॑ । आ वृ॑त्र॒हेंद्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मो न॒रां न॑ इ॒ह ग॑म्याः ॥
उ॒त , नः॒ , ईं॒ , त्वष्टा॑ , आ , गं॒तु॒ , अच्छ॑ , स्मत् , सू॒रिऽभिः॑ , अ॒भि॒ऽपि॒त्वे , स॒ऽजोषाः॑ । आ , वृ॒त्र॒ऽहा , इंद्रः॑ , च॒र्ष॒णि॒ऽप्राः , तु॒विःऽत॑मः , न॒रां , नः॒ , इ॒ह , ग॒म्याः॒ ॥
उ॒त न॑ ईं म॒तयोऽश्व॑योगाः॒ शिशुं॒ न गाव॒स्तरु॑णं रिहंति । तमीं॒ गिरो॒ जन॑यो॒ न पत्नीः॑ सुर॒भिष्ट॑मं न॒रां न॑संत ॥
उ॒त , नः॒ , ईं॒ , म॒तयः॑ , अश्व॑ऽयोगाः , शिशुं॑ , न , गावः॑ , तरु॑णं , रि॒हं॒ति॒ । तं , ईं॒ , गिरः॑ , जन॑यः , न , पत्नीः॑ , सु॒र॒भिःऽत॑मं , न॒रां , न॒सं॒त॒ ॥
उ॒त न॑ ईं म॒रुतो॑ वृ॒द्धसे॑नाः॒ स्मद्रोद॑सी॒ सम॑नसः सदंतु । पृष॑दश्वासो॒ऽवन॑यो॒ न रथा॑ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ॥
उ॒त , नः॒ , ईं॒ , म॒रुतः॑ , वृ॒द्धऽसे॑नाः , स्मत् , रोद॑सी॒ इति॑ , सऽम॑नसः , स॒दं॒तु॒ । पृष॑त्ऽअश्वासः , अ॒वन॑यः , न , रथाः॑ , रि॒शाद॑सः , मि॒त्र॒ऽयुजः॑ , न , दे॒वाः ॥
प्र नु यदे॑षां महि॒ना चि॑कि॒त्रे प्र युं॑जते प्र॒युज॒स्ते सु॑वृ॒क्ति । अध॒ यदे॑षां सु॒दिने॒ न शरु॒र्विश्व॒मेरि॑णं प्रुषा॒यंत॒ सेनाः॑ ॥
प्र , नु , यत् , ए॒षां॒ , म॒हि॒ना , चि॒कि॒त्रे , प्र , युं॒ज॒ते॒ , प्र॒ऽयुजः॑ , ते , सु॒ऽवृ॒क्ति । अध॑ , यत् , ए॒षां॒ , सु॒ऽदिने॑ , न , शरुः॑ , विश्वं॑ , आ , इरि॑णं , प्रु॒षा॒यंत॑ , सेनाः॑ ॥
प्रो अ॒श्विना॒वव॑से कृणुध्वं॒ प्र पू॒षणं॒ स्वत॑वसो॒ हि संति॑ । अ॒द्वे॒षो विष्णु॒र्वात॑ ऋभु॒क्षा अच्छा॑ सु॒म्नाय॑ ववृतीय दे॒वान् ॥
प्रो इति॑ , अ॒श्विनौ॑ , अव॑से , कृ॒णु॒ध्वं॒ , प्र , पू॒षणं॑ , स्वऽत॑वसः , हि , संति॑ । अ॒द्वे॒षः , विष्णुः॑ , वातः॑ , ऋ॒भु॒क्षाः , अच्छ॑ , सु॒म्नाय॑ , व॒वृ॒ती॒य॒ , दे॒वान् ॥
इ॒यं सा वो॑ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी॑ च॒ सद॑नी च भूयाः । नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
इ॒यं , सा , वः॒ , अ॒स्मे इति॑ , दीधि॑तिः , य॒ज॒त्राः॒ , अ॒पि॒ऽप्राणी॑ , च॒ , सद॑नी , च॒ , भू॒याः॒ । नि , या , दे॒वेषु॑ , यत॑ते , व॒सु॒ऽयुः , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१८७] पितुंन्वित्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योन्नं गायत्री आद्यानुष्टुगर्भा तृतीयापंचम्याद्याश्चतस्रोनुष्टुभोंत्याबृहतीवा |
पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीं । यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥
पि॒तुं , नु , स्तो॒षं॒ , म॒हः , ध॒र्माणं॑ , तवि॑षीं । यस्य॑ , त्रि॒तः , वि , ओज॑सा , वृ॒त्रं , विऽप॑र्वं , अ॒र्दय॑त् ॥
स्वादो॑ पितो॒ मधो॑ पितो व॒यं त्वा॑ ववृमहे । अ॒स्माक॑मवि॒ता भ॑व ॥
स्वादो॒ इति॑ , पितो॒ इति॑ , मधो॒ इति॑ , पि॒तो॒ इति॑ , व॒यं , त्वा॒ , व॒वृ॒म॒हे॒ । अ॒स्माकं॑ , अ॒वि॒ता , भ॒व॒ ॥
उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभिः॑ । म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥
उप॑ , नः॒ , पि॒तो॒ इति॑ , आ , च॒र॒ , शि॒वः , शि॒वाभिः॑ , ऊ॒तिऽभिः॑ । म॒यः॒ऽभुः , अ॒द्वि॒षे॒ण्यः , सखा॑ , सु॒ऽशेवः॑ , अद्व॑याः ॥
तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः । दि॒वि वाता॑ इव श्रि॒ताः ॥
तव॑ , त्ये , पि॒तो॒ इति॑ , रसाः॑ , रजां॑सि , अनु॑ , विऽस्थि॑ताः । दि॒वि , वाताः॑ऽइव , श्रि॒ताः ॥
तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो । प्र स्वा॒द्मानो॒ रसा॑नां तुवि॒ग्रीवा॑ इवेरते ॥
तव॑ , त्ये , पि॒तो॒ इति॑ , दद॑तः , तव॑ , स्वा॒दि॒ष्ठ॒ , ते , पि॒तो॒ इति॑ । प्र , स्वा॒द्मानः॑ , रसा॑नां , तु॒वि॒ग्रीवाः॑ऽइव , ई॒र॒ते॒ ॥
त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तं । अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥
त्वे इति॑ , पि॒तो॒ इति॑ , म॒हानां॑ , दे॒वानां॑ , मनः॑ , हि॒तं । अका॑रि , चारु॑ , के॒तुना॑ , तव॑ , अहिं॑ , अव॑सा , अ॒व॒धी॒त् ॥
यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानां । अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः ॥
यत् , अ॒दः , पि॒तो॒ इति॑ , अज॑गन् , वि॒वस्व॑ , पर्व॑तानां । अत्र॑ , चि॒त् , नः॒ , म॒धो॒ इति॑ , पि॒तो॒ इति॑ , अरं॑ , भ॒क्षाय॑ , ग॒म्याः॒ ॥
यद॒पामोष॑धीनां परिं॒शमा॑रि॒शाम॑हे । वाता॑पे॒ पीव॒ इद्भ॑व ॥
यत् , अ॒पां , ओष॑धीनां , प॒रिं॒शं , आ॒ऽरि॒शाम॑हे । वाता॑पे , पीवः॑ , इत् , भ॒व॒ ॥
यत्ते॑ सोम॒ गवा॑शिरो॒ यवा॑शिरो॒ भजा॑महे । वाता॑पे॒ पीव॒ इद्भ॑व ॥
यत् , ते॒ , सो॒म॒ , गोऽआ॑शिरः , यव॑ऽआशिरः , भजा॑महे । वाता॑पे , पीवः॑ , इत् , भ॒व॒ ॥
क॒रं॒भ ओ॑षधे भव॒ पीवो॑ वृ॒क्क उ॑दार॒थिः । वाता॑पे॒ पीव॒ इद्भ॑व ॥
क॒रं॒भः , ओ॒ष॒धे॒ , भ॒व॒ , पीवः॑ , वृ॒क्कः , उ॒दा॒र॒थिः । वाता॑पे , पीवः॑ , इत् , भ॒व॒ ॥
तं त्वा॑ व॒यं पि॑तो॒ वचो॑भि॒र्गावो॒ न ह॒व्या सु॑षूदिम । दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं॑ त्वा सध॒मादं॑ ॥
त्वं , त्वा॒ , व॒यं , पि॒तो॒ इति॑ , वचः॑ऽभिः , गावः॑ , न , ह॒व्या , सु॒सू॒दि॒म॒ । दे॒वेभ्यः॑ , त्वा॒ , स॒ध॒ऽमादं॑ , अ॒स्मभ्यं॑ , त्वा॒ , स॒ध॒ऽमादं॑ ॥
[१८८] समिद्धइत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य इध्मस्तनूनपादिळोबर्हिर्देवीर्द्वार उषासानक्तादैव्यौहोतारौ सरस्वतीळा भारत्यस्त्वष्टा वनस्पति स्वाहाकृतयइतिक्रमेणदेवताः गायत्रीच्छंदः |
समि॑द्धो अ॒द्य रा॑जसि दे॒वो दे॒वैः स॑हस्रजित् । दू॒तो ह॒व्या क॒विर्व॑ह ॥
संऽइ॑द्धः , अ॒द्य , रा॒ज॒सि॒ , दे॒वः , दे॒वैः , स॒ह॒स्र॒ऽजि॒त् । दू॒तः , ह॒व्या , क॒विः , व॒ह॒ ॥
तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते । दध॑त्सह॒स्रिणी॒रिषः॑ ॥
तनू॑ऽनपात् , ऋ॒तं , य॒ते , मध्वा॑ , य॒ज्ञः , सं , अ॒ज्य॒ते॒ । दध॑त् , स॒ह॒स्रिणीः॑ , इषः॑ ॥
आ॒जुह्वा॑नो न॒ ईड्यो॑ दे॒वाँ आ व॑क्षि य॒ज्ञिया॑न् । अग्ने॑ सहस्र॒सा अ॑सि ॥
आ॒ऽजुह्वा॑नः , नः॒ , ईड्यः॑ , दे॒वान् , आ , व॒क्षि॒ , य॒ज्ञिया॑न् । अग्ने॑ , स॒ह॒स्र॒ऽसाः , अ॒सि॒ ॥
प्रा॒चीनं॑ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् । यत्रा॑दित्या वि॒राज॑थ ॥
प्रा॒चीनं॑ , ब॒र्हिः , ओज॑सा , स॒हस्र॑ऽवीरं , अ॒स्तृ॒ण॒न् । यत्र॑ , आ॒दि॒त्याः॒ , वि॒ऽराज॑थ ॥
वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः । दुरो॑ घृ॒तान्य॑क्षरन् ॥
वि॒ऽराट् , सं॒ऽराट् , वि॒ऽभ्वीः , प्र॒ऽभ्वीः , ब॒ह्वीः , च॒ , भूय॑सीः , च॒ , याः । दुरः॑ , घृ॒तानि॑ , अ॒क्ष॒र॒न् ॥
सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः । उ॒षासा॒वेह सी॑दतां ॥
सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे , हि , सु॒ऽपेश॑सा , अधि॑ , श्रि॒या , वि॒ऽराज॑तः । उ॒षसौ॑ , आ , इ॒ह , सी॒द॒तां॒ ॥
प्र॒थ॒मा हि सु॒वाच॑सा॒ होता॑रा॒ दैव्या॑ क॒वी । य॒ज्ञं नो॑ यक्षतामि॒मं ॥
प्र॒थ॒मा , हि , सु॒ऽवाच॑सा , होता॑रा , दैव्या॑ , क॒वी इति॑ । य॒ज्ञं , नः॒ , य॒क्ष॒तां॒ , इ॒मं ॥
भार॒तीळे॒ सर॑स्वति॒ या वः॒ सर्वा॑ उपब्रु॒वे । ता न॑श्चोदयत श्रि॒ये ॥
भार॑ति , इळे॑ , सर॑स्वति , याः , वः॒ , सर्वाः॑ , उ॒प॒ऽब्रु॒वे । ताः , नः॒ , चो॒द॒य॒त॒ , श्रि॒ये ॥
त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वां॑त्समान॒जे । तेषां॑ नः स्फा॒तिमा य॑ज ॥
त्वष्टा॑ , रू॒पाणि॑ , हि , प्र॒ऽभुः , प॒शून् , विश्वा॑न् , सं॒ऽआ॒न॒जे । तेषां॑ , नः॒ , स्फा॒तिं , आ , य॒ज॒ ॥
उप॒ त्मन्या॑ वनस्पते॒ पाथो॑ दे॒वेभ्यः॑ सृज । अ॒ग्निर्ह॒व्यानि॑ सिष्वदत् ॥
उप॑ , त्मन्या॑ , व॒न॒स्प॒ते॒ , पाथः॑ , दे॒वेभ्यः॑ , सृ॒ज॒ । अ॒ग्निः , ह॒व्यानि॑ , सि॒स्व॒द॒त् ॥
पु॒रो॒गा अ॒ग्निर्दे॒वानां॑ गाय॒त्रेण॒ सम॑ज्यते । स्वाहा॑कृतीषु रोचते ॥
पु॒रः॒ऽगाः , अ॒ग्निः , दे॒वानां॑ , गा॒य॒त्रेण॑ , सं , अ॒ज्य॒ते॒ । स्वाहा॑ऽकृतीषु , रो॒च॒ते॒ ॥
[१८९] अग्नेनयेत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योग्निस्त्रिष्टुप् |
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य१॒॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥
अग्ने॑ , नय॑ , सु॒ऽपथा॑ , रा॒ये , अ॒स्मान् , विश्वा॑नि , दे॒व॒ , व॒युना॑नि , वि॒द्वान् । यु॒यो॒धि , अ॒स्मत् , जु॒हु॒रा॒णं , एनः॑ , भूयि॑ष्ठां , ते॒ , नमः॑ऽउक्तिं , वि॒धे॒म॒ ॥
अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मांत्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः ॥
अग्ने॑ , त्वं , पा॒र॒य॒ , नव्यः॑ , अ॒स्मान् , स्व॒स्तिऽभिः॑ , अति॑ , दुः॒ऽगाणि॑ , विश्वा॑ । पूः , च॒ , पृ॒थ्वी , ब॒हु॒ला , नः॒ , उ॒र्वी , भव॑ , तो॒काय॑ , तन॑याय , शं , योः ॥
अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वा॒ अन॑ग्नित्रा अ॒भ्यमं॑त कृ॒ष्टीः । पुन॑र॒स्मभ्यं॑ सुवि॒ताय॑ देव॒ क्षां विश्वे॑भिर॒मृते॑भिर्यजत्र ॥
अग्ने॑ , त्वं , अ॒स्मत् , यु॒यो॒धि॒ , अमी॑वाः , अन॑ग्निऽत्राः , अ॒भि , अमं॑त , कृ॒ष्टीः । पुनः॑ , अ॒स्मभ्यं॑ , सु॒वि॒ताय॑ , दे॒व॒ , क्षां , विश्वे॑भिः , अ॒मृते॑भिः , य॒ज॒त्र॒ ॥
पा॒हि नो॑ अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान् । मा ते॑ भ॒यं ज॑रि॒तारं॑ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ॥
पा॒हि , नः॒ , अ॒ग्ने॒ , पा॒युऽभिः॑ , अज॑स्रैः , उ॒त , प्रि॒ये , सद॑ने , आ , शु॒शु॒क्वान् । मा , ते॒ , भ॒यं , ज॒रि॒तारं॑ , य॒वि॒ष्ठ॒ , नू॒नं , वि॒द॒त् , मा , अ॒प॒रं , स॒ह॒स्वः॒ ॥
मा नो॑ अ॒ग्नेऽव॑ सृजो अ॒घाया॑वि॒ष्यवे॑ रि॒पवे॑ दु॒च्छुना॑यै । मा द॒त्वते॒ दश॑ते॒ मादते॑ नो॒ मा रीष॑ते सहसाव॒न्परा॑ दाः ॥
मा , नः॒ , अ॒ग्ने॒ , अव॑ , सृ॒जः॒ , अ॒घाय॑ , अ॒वि॒ष्यवे॑ , रि॒पवे॑ , दु॒च्छुना॑यै । मा , द॒त्वते॑ , दश॑ते , मा , अ॒दते॑ , नः॒ , मा , रिष॑ते , स॒ह॒सा॒ऽव॒न् , परा॑ , दाः॒ ॥
वि घ॒ त्वावाँ॑ ऋतजात यंसद्गृणा॒नो अ॑ग्ने त॒न्वे॒३॒॑ वरू॑थं । विश्वा॑द्रिरि॒क्षोरु॒त वा॑ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे॑व वि॒ष्पट् ॥
वि , घ॒ , त्वाऽवा॑न् , ऋ॒त॒ऽजा॒त॒ , यं॒स॒त् , गृ॒ण॒नः , अ॒ग्ने॒ , त॒न्वे॑ , वरू॑थं । विश्वा॑त् , रि॒रि॒क्षोः , उ॒त , वा॒ , नि॒नि॒त्सोः , अ॒भि॒ऽह्रुतां॑ , असि॑ , हि , दे॒व॒ , वि॒ष्पट् ॥
त्वं ताँ अ॑ग्न उ॒भया॒न्वि वि॒द्वान्वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र । अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो॑ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ॥
त्वं , तां , अ॒ग्ने॒ , उ॒भया॑न् , वि , वि॒द्वान् , वेषि॑ , प्र॒ऽपि॒त्वे , मनु॑षः , य॒ज॒त्र॒ । अ॒भि॒ऽपि॒त्वे , मन॑वे , शास्यः॑ , भूः॒ , म॒र्मृ॒जेन्यः॑ , उ॒शिक्ऽभिः॑ , न , अ॒क्रः ॥
अवो॑चाम नि॒वच॑नान्यस्मि॒न्मान॑स्य सू॒नुः स॑हसा॒ने अ॒ग्नौ । व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
अवो॑चाम , नि॒ऽवच॑नानि , अ॒स्मि॒न् , मान॑स्य , सू॒नुः , स॒ह॒सा॒ने , अ॒ग्नौ । व॒यं , स॒हस्रं॑ , ऋषि॑ऽभिः , स॒ने॒म॒ , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१९०] अनर्वाणमित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्यो बृहस्पतिस्त्रिष्टुप् |
अ॒न॒र्वाणं॑ वृष॒भं मं॒द्रजि॑ह्वं॒ बृह॒स्पतिं॑ वर्धया॒ नव्य॑म॒र्कैः । गा॒था॒न्यः॑ सु॒रुचो॒ यस्य॑ दे॒वा आ॑शृ॒ण्वंति॒ नव॑मानस्य॒ मर्ताः॑ ॥
अ॒न॒र्वाणं॑ , वृ॒ष॒भं , मं॒द्रऽजि॑ह्वं , बृह॒स्पतिं॑ , व॒र्ध॒य॒ , नव्यं॑ , अ॒र्कैः । गा॒था॒न्यः॑ , सु॒ऽरुचः॑ , यस्य॑ , दे॒वाः , आ॒ऽशृ॒ण्वंति॑ , नव॑मानस्य , मर्ताः॑ ॥
तमृ॒त्विया॒ उप॒ वाचः॑ सचंते॒ सर्गो॒ न यो दे॑वय॒तामस॑र्जि । बृह॒स्पतिः॒ स ह्यंजो॒ वरां॑सि॒ विभ्वाभ॑व॒त्समृ॒ते मा॑त॒रिश्वा॑ ॥
तं , ऋ॒त्वियाः॑ , उप॑ , वाचः॑ , स॒चं॒ते॒ , सर्गः॑ , न , यः , दे॒व॒ऽय॒तां , अस॑र्जि । बृह॒स्पतिः॑ , सः , हि , अंजः॑ , वरां॑सि , विऽभ्वा॑ , अभ॑वत् , सं , ऋ॒ते , मा॒त॒रिश्वा॑ ॥
उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं॑ यंसत्सवि॒तेव॒ प्र बा॒हू । अ॒स्य क्रत्वा॑ह॒न्यो॒३॒॑ यो अस्ति॑ मृ॒गो न भी॒मो अ॑र॒क्षस॒स्तुवि॑ष्मान् ॥
उप॑ऽस्तुतिं , नम॑सः , उत्ऽय॑तिं , च॒ , श्लोकं॑ , यं॒स॒त् , स॒वि॒ताऽइ॑व , प्र , बा॒हू इति॑ । अ॒स्य , क्रत्वा॑ , अ॒ह॒न्यः॑ , यः , अस्ति॑ , मृ॒गः , न , भी॒मः , अ॒र॒क्षसः॑ , तुवि॑ष्मान् ॥
अ॒स्य श्लोको॑ दि॒वीय॑ते पृथि॒व्यामत्यो॒ न यं॑सद्यक्ष॒भृद्विचे॑ताः । मृ॒गाणां॒ न हे॒तयो॒ यंति॑ चे॒मा बृह॒स्पते॒रहि॑मायाँ अ॒भि द्यून् ॥
अ॒स्य , श्लोकः॑ , दि॒वि , ई॒य॒ते॒ , पृ॒थि॒व्यां , अत्यः॑ , न , यं॒स॒त् , य॒क्ष॒ऽभृत् , विऽचे॑ताः । मृ॒गाणां॑ , न , हे॒तयः॑ , यंति॑ , च॒ , इ॒माः , बृह॒स्पतेः॑ , अहि॑ऽमायान् , अ॒भि , द्यून् ॥
ये त्वा॑ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीवं॑ति प॒ज्राः । न दू॒ढ्ये॒३॒॑ अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत्पिया॑रुं ॥
ये , त्वा॒ , दे॒व॒ , उ॒स्रि॒कं , मन्य॑मानाः , पा॒पाः , भ॒द्रं , उ॒प॒ऽजीवं॑ति , प॒ज्राः । न , दुः॒ऽध्ये॑ , अनु॑ , द॒दा॒सि॒ , वा॒मं , बृह॑स्पते , चय॑से , इत् , पिया॑रुं ॥
सु॒प्रैतुः॑ सू॒यव॑सो॒ न पंथा॑ दुर्नि॒यंतुः॒ परि॑प्रीतो॒ न मि॒त्रः । अ॒न॒र्वाणो॑ अ॒भि ये चक्ष॑ते॒ नोऽपी॑वृता अपोर्णु॒वंतो॑ अस्थुः ॥
सु॒ऽप्रैतुः॑ , सु॒ऽयव॑सः , न , पंथाः॑ , दुः॒ऽनि॒यंतुः॑ , परि॑ऽप्रीतः , न , मि॒त्रः । अ॒न॒र्वाणः॑ , अ॒भि , ये , चक्ष॑ते , नः॒ , अपि॑ऽवृताः , अ॒प॒ऽऊ॒र्णु॒वंतः॑ , अ॒स्थुः॒ ॥
सं यं स्तुभो॒ऽवन॑यो॒ न यंति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः । स वि॒द्वाँ उ॒भयं॑ चष्टे अं॒तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्रः॑ ॥
सं , यं , स्तुभः॑ , अ॒वन॑यः , न , यंति॑ , स॒मु॒द्रं , न , स्र॒वतः॑ , रोध॑ऽचक्राः । सः , वि॒द्वान् , उ॒भयं॑ , च॒ष्टे॒ , अं॒तः , बृह॒स्पतिः॑ , तरः॑ , आपः॑ , च॒ , गृध्रः॑ ॥
ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्बृह॒स्पति॑र्वृष॒भो धा॑यि दे॒वः । स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
ए॒व , म॒हः , तु॒वि॒ऽजा॒तः , तुवि॑ष्मान् , बृह॒स्पतिः॑ , वृ॒ष॒भः , धा॒यि॒ , दे॒वः । सः , नः॒ , स्तु॒तः , वी॒रऽव॑त् , धा॒तु॒ , गोऽम॑त् , वि॒द्याम॑ , इ॒षं , वृ॒जनं॑ , जी॒रऽदा॑नुं ॥
[१९१] कंकतइति षोळशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योप्तृणसूर्याअनुष्टुप् दशम्याद्यास्तिस्रो महापंक्तयस्त्रयोदशी महाबृहती | (विषन्नसूक्तं) |
कंक॑तो॒ न कंक॒तोऽथो॑ सती॒नकं॑कतः । द्वाविति॒ प्लुषी॒ इति॒ न्य१॒॑दृष्टा॑ अलिप्सत ॥
कंक॑तः , न , कंक॑तः , अथो॒ इति॑ , स॒ती॒नऽकं॑कतः । द्वौ , इति॑ , प्लुषी॒ इति॑ , इति॑ , नि , अ॒दृष्टाः॑ , अ॒लि॒प्स॒त॒ ॥
अ॒दृष्टा॑न्हंत्याय॒त्यथो॑ हंति पराय॒ती । अथो॑ अवघ्न॒ती हं॒त्यथो॑ पिनष्टि पिंष॒ती ॥
अ॒दृष्टा॑न् , हं॒ति॒ , आ॒ऽय॒ती , अथो॒ इति॑ , हं॒ति॒ , प॒रा॒ऽय॒ती । अथो॒ इति॑ , अ॒व॒ऽघ्न॒ती , हं॒ति॒ , अथो॒ इति॑ , पि॒न॒ष्टि॒ , पिं॒ष॒ती ॥
श॒रासः॒ कुश॑रासो द॒र्भासः॑ सै॒र्या उ॒त । मौं॒जा अ॒दृष्टा॑ वैरि॒णाः सर्वे॑ सा॒कं न्य॑लिप्सत ॥
श॒रासः॑ , कुश॑रासः , द॒र्भासः॑ , सै॒र्याः , उ॒त । मौं॒जाः , अ॒दृष्टाः॑ , वै॒रि॒णाः , सर्वे॑ , सा॒कं , नि , अ॒लि॒प्स॒त॒ ॥
नि गावो॑ गो॒ष्ठे अ॑सद॒न्नि मृ॒गासो॑ अविक्षत । नि के॒तवो॒ जना॑नां॒ न्य१॒॑दृष्टा॑ अलिप्सत ॥
नि , गावः॑ , गो॒ऽस्थे , अ॒स॒द॒न् , नि , मृ॒गासः॑ , अ॒वि॒क्ष॒त॒ । नि , के॒तवः॑ , जना॑नां , नि , अ॒दृष्टाः॑ , अ॒लि॒प्स॒त॒ ॥
ए॒त उ॒ त्ये प्रत्य॑दृश्रन्प्रदो॒षं तस्क॑रा इव । अदृ॑ष्टा॒ विश्व॑दृष्टाः॒ प्रति॑बुद्धा अभूतन ॥
ए॒ते , ऊँ॒ इति॑ , त्ये , प्रति॑ , अ॒दृ॒श्र॒न् , प्र॒ऽदो॒षं , तस्क॑राःऽइव । अदृ॑ष्टाः , विश्व॑ऽदृष्टाः , प्रति॑ऽबुद्धाः , अ॒भू॒त॒न॒ ॥
द्यौर्वः॑ पि॒ता पृ॑थि॒वी मा॒ता सोमो॒ भ्रातादि॑तिः॒ स्वसा॑ । अदृ॑ष्टा॒ विश्व॑दृष्टा॒स्तिष्ठ॑ते॒लय॑ता॒ सु कं॑ ॥
द्यौः , वः॒ , पि॒ता , पृ॒थि॒वी , मा॒ता , सोमः॑ , भ्राता॑ , अदि॑तिः , स्वसा॑ । अदृ॑ष्टाः , विश्व॑ऽदृष्टाः , तिष्ठ॑त , इ॒लय॑त , सु , कं॒ ॥
ये अंस्या॒ ये अंग्याः॑ सू॒चीका॒ ये प्र॑कंक॒ताः । अदृ॑ष्टाः॒ किं च॒नेह वः॒ सर्वे॑ सा॒कं नि ज॑स्यत ॥
ये , अंस्याः॑ , ये , अंग्याः॑ , सू॒चीकाः॑ , ये , प्र॒ऽकं॒क॒ताः । अदृ॑ष्टाः , किं , च॒न , इ॒ह , वः॒ , सर्वे॑ , सा॒कं , नि , ज॒स्य॒त॒ ॥
उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा । अ॒दृष्टां॒त्सर्वां॑जं॒भयं॒त्सर्वा॑श्च यातुधा॒न्यः॑ ॥
उत् , पु॒रस्ता॑त् , सूर्यः॑ , ए॒ति॒ , वि॒श्वऽदृ॑ष्टः , अ॒दृ॒ष्ट॒ऽहा । अ॒दृष्टा॑न् , सर्वा॑न् , जं॒भय॑न् , सर्वाः॑ , च॒ , या॒तु॒ऽधा॒न्यः॑ ॥
उद॑पप्तद॒सौ सूर्यः॑ पु॒रु विश्वा॑नि॒ जूर्व॑न् । आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ॥
उत् , अ॒प॒प्त॒त् , अ॒सौ , सूर्यः॑ , पु॒रु , विश्वा॑नि , जूर्व॑न् । आ॒दि॒त्यः , पर्व॑तेभ्यः , वि॒श्वऽदृ॑ष्टः , अ॒दृ॒ष्ट॒ऽहा ॥
सूर्ये॑ वि॒षमा स॑जामि॒ दृतिं॒ सुरा॑वतो गृ॒हे । सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
सूर्ये॑ , वि॒षं , आ , स॒जा॒मि॒ , दृतिं॑ , सुरा॑ऽवतः , गृ॒हे । सः , चि॒त् , नु , न , म॒रा॒ति॒ , नो इति॑ , व॒यं , म॒रा॒म॒ , आ॒रे , अ॒स्य॒ , योज॑नं , ह॒रि॒ऽस्थाः , मधु॑ , त्वा॒ , म॒धु॒ला , च॒का॒र॒ ॥
इ॒य॒त्ति॒का श॑कुंति॒का स॒का ज॑घास ते वि॒षं । सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
इ॒य॒त्ति॒का , श॒कुं॒ति॒का , स॒का , ज॒घा॒स॒ , ते॒ , वि॒षं । सो इति॑ , चि॒त् , नु , न , म॒रा॒ति॒ , नो इति॑ , व॒यं , म॒रा॒म॒ , आ॒रे , अ॒स्य॒ , योज॑नं , ह॒रि॒ऽस्थाः , मधु॑ , त्वा॒ , म॒धु॒ला , च॒का॒र॒ ॥
त्रिः स॒प्त वि॑ष्पुलिंग॒का वि॒षस्य॒ पुष्य॑मक्षन् । ताश्चि॒न्नु न म॑रंति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
त्रिः , स॒प्त , वि॒ष्पु॒लिं॒ग॒काः , वि॒षस्य॑ , पुष्यं॑ , अ॒क्ष॒न् । ताः , चि॒त् , नु , न , म॒रं॒ति॒ , नो इति॑ , व॒यं , म॒रा॒म॒ , आ॒रे , अ॒स्य॒ , योज॑नं , ह॒रि॒ऽस्थाः , मधु॑ , त्वा॒ , म॒धु॒ला , च॒का॒र॒ ॥
न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणां । सर्वा॑सामग्रभं॒ नामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
न॒वा॒नां , न॒व॒ती॒नां , वि॒षस्य॑ , रोपु॑षीणां । सर्वा॑सां , अ॒ग्र॒भं॒ , नाम॑ , आ॒रे , अ॒स्य॒ , योज॑नं , ह॒रि॒ऽस्थाः , मधु॑ , त्वा॒ , म॒धु॒ला , च॒का॒र॒ ॥
त्रिः स॒प्त म॑यू॒र्यः॑ स॒प्त स्वसा॑रो अ॒ग्रुवः॑ । तास्ते॑ वि॒षं वि ज॑भ्रिर उद॒कं कुं॒भिनी॑रिव ॥
त्रिः , स॒प्त , म॒यू॒र्यः॑ , स॒प्त , स्वसा॑रः , अ॒ग्रुवः॑ । ताः , ते॒ , वि॒षं , वि , ज॒भ्रि॒रे॒ , उ॒द॒कं , कुं॒भिनीः॑ऽइव ॥
इ॒य॒त्त॒कः कु॑षुंभ॒कस्त॒कं भि॑न॒द्म्यश्म॑ना । ततो॑ वि॒षं प्र वा॑वृते॒ परा॑ची॒रनु॑ सं॒वतः॑ ॥
इ॒य॒त्त॒कः , कु॒षुं॒भ॒कः , त॒कं , भि॒न॒द्मि॒ , अश्म॑ना । ततः॑ , वि॒षं , प्र , व॒वृ॒ते॒ , परा॑चीः , अनु॑ , सं॒ऽवतः॑ ॥
कु॒षुं॒भ॒कस्तद॑ब्रवीद्गि॒रेः प्र॑वर्तमान॒कः । वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षं ॥
कु॒षुं॒भ॒कः , तत् , अ॒ब्र॒वी॒त् , गि॒रेः , प्र॒ऽव॒र्त॒मा॒न॒कः । वृश्चि॑कस्य , अ॒र॒सं , वि॒षं , अ॒र॒सं , वृ॒श्चि॒क॒ , ते॒ , वि॒षं ॥
[१] त्वमग्नइतिषोळशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती |
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥
त्वं , अ॒ग्ने॒ , द्युऽभिः॑ , त्वं , आ॒शु॒शु॒क्षणिः॑ , त्वं , अ॒त्ऽभ्यः , त्वं , अश्म॑नः , परि॑ । त्वं , वने॑भ्यः , त्वं , ओष॑धीभ्यः , त्वं , नृ॒णां , नृ॒ऽप॒ते॒ , जा॒य॒से॒ , शुचिः॑ ॥
तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः । तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥
तव॑ , अ॒ग्ने॒ , हो॒त्रं , तव॑ , पो॒त्रं , ऋ॒त्वियं॑ , तव॑ , ने॒ष्ट्रं , त्वं , अ॒ग्नित् , ऋ॒त॒ऽय॒तः । तव॑ , प्र॒ऽशा॒स्त्रं , त्वं , अ॒ध्व॒रि॒ऽय॒सि॒ , ब्र॒ह्मा , च॒ , असि॑ , गृ॒हऽप॑तिः , च॒ , नः॒ , दमे॑ ॥
त्वम॑ग्न॒ इंद्रो॑ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्यः॑ । त्वं ब्र॒ह्मा र॑यि॒विद्ब्र॑ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं॑ध्या ॥
त्वं , अ॒ग्ने॒ , इंद्रः॑ , वृ॒ष॒भः , स॒तां , अ॒सि॒ , त्वं , विष्णुः॑ , उ॒रु॒ऽगा॒यः , न॒म॒स्यः॑ । त्वं , ब्र॒ह्मा , र॒यि॒ऽवित् , ब्र॒ह्म॒णः॒ , प॒ते॒ , त्वं , वि॒ध॒र्त॒रिति॑ विऽधर्तः , स॒च॒से॒ , पुरं॑ऽध्या ॥
त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्यः॑ । त्वम॑र्य॒मा सत्प॑ति॒र्यस्य॑ सं॒भुजं॒ त्वमंशो॑ वि॒दथे॑ देव भाज॒युः ॥
त्वं , अ॒ग्ने॒ , राजा॑ , वरु॑णः , धृ॒तऽव्र॑तः , त्वं , मि॒त्रः , भ॒व॒सि॒ , द॒स्मः , ईड्यः॑ । त्वं , अ॒र्य॒मा , सत्ऽप॑तिः , यस्य॑ , सं॒ऽभुजं॑ , त्वं , अंशः॑ , वि॒दथे॑ , दे॒व॒ , भा॒ज॒युः ॥
त्वम॑ग्ने॒ त्वष्टा॑ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो॑ मित्रमहः सजा॒त्यं॑ । त्वमा॑शु॒हेमा॑ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो॑ असि पुरू॒वसुः॑ ॥
त्वं , अ॒ग्ने॒ , त्वष्टा॑ , वि॒ध॒ते , सु॒ऽवीर्यं॑ , तव॑ , ग्नावः॑ , मि॒त्र॒ऽम॒हः॒ , स॒ऽजा॒त्यं॑ । त्वं , आ॒शु॒ऽहेमा॑ , र॒रि॒षे॒ , सु॒ऽअश्व्यं॑ , त्वं , न॒रां , शर्धः॑ , अ॒सि॒ , पु॒रु॒ऽवसुः॑ ॥
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे । त्वं वातै॑ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑ ॥
त्वं , अ॒ग्ने॒ , रु॒द्रः , असु॑रः , म॒हः , दि॒वः , त्वं , शर्धः॑ , मारु॑तं , पृ॒क्षः , ई॒शि॒षे॒ । त्वं , वातैः॑ , अ॒रु॒णैः , या॒सि॒ , शं॒ऽग॒यः , त्वं , पू॒षा , वि॒ध॒तः , पा॒सि॒ , नु , त्मना॑ ॥
त्वम॑ग्ने द्रविणो॒दा अ॑रं॒कृते॒ त्वं दे॒वः स॑वि॒ता र॑त्न॒धा अ॑सि । त्वं भगो॑ नृपते॒ वस्व॑ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्तेऽवि॑धत् ॥
त्वं , अ॒ग्ने॒ , द्र॒वि॒णः॒ऽदाः , अ॒रं॒ऽकृते॑ , त्वं , दे॒वः , स॒वि॒ता , र॒त्न॒ऽधाः , अ॒सि॒ । त्वं , भगः॑ , नृ॒ऽप॒ते॒ , वस्वः॑ , ई॒शि॒षे॒ , त्वं , पा॒युः , दमे॑ , यः , ते॒ , अवि॑धत् ॥
त्वाम॑ग्ने॒ दम॒ आ वि॒श्पतिं॒ विश॒स्त्वां राजा॑नं सुवि॒दत्र॑मृंजते । त्वं विश्वा॑नि स्वनीक पत्यसे॒ त्वं स॒हस्रा॑णि श॒ता दश॒ प्रति॑ ॥
त्वां , अ॒ग्ने॒ , दमे॑ , आ , वि॒श्पतिं॑ , विशः॑ , त्वां , राजा॑नं , सु॒ऽवि॒दत्रं॑ , ऋं॒ज॒ते॒ । त्वं , विश्वा॑नि , सु॒ऽअ॒नी॒क॒ , प॒त्य॒से॒ , त्वं , स॒हस्रा॑णि , श॒ता , दश॑ , प्रति॑ ॥
त्वाम॑ग्ने पि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वां भ्रा॒त्राय॒ शम्या॑ तनू॒रुचं॑ । त्वं पु॒त्रो भ॑वसि॒ यस्तेऽवि॑ध॒त्त्वं सखा॑ सु॒शेवः॑ पास्या॒धृषः॑ ॥
त्वां , अ॒ग्ने॒ , पि॒तरं॑ , इ॒ष्टिऽभिः॑ , नरः॑ , त्वां , भ्रा॒त्राय॑ , शम्या॑ , त॒नू॒ऽरुचं॑ । त्वं , पु॒त्रः , भ॒व॒सि॒ , यः , ते॒ , अवि॑धत् , त्वं , सखा॑ , सु॒ऽशेवः॑ , पा॒सि॒ , आ॒ऽधृषः॑ ॥
त्वम॑ग्न ऋ॒भुरा॒के न॑म॒स्य१॒॑स्त्वं वाज॑स्य क्षु॒मतो॑ रा॒य ई॑शिषे । त्वं वि भा॒स्यनु॑ दक्षि दा॒वने॒ त्वं वि॒शिक्षु॑रसि य॒ज्ञमा॒तनिः॑ ॥
त्वं , अ॒ग्ने॒ , ऋ॒भुः , आ॒के , न॒म॒स्यः॑ , त्वं , वाज॑स्य , क्षु॒ऽमतः॑ , रा॒यः , ई॒शि॒षे॒ । त्वं , वि , भा॒सि॒ , अनु॑ , ध॒क्षि॒ , दा॒वने॑ , त्वं , वि॒ऽशिक्षुः॑ , अ॒सि॒ , य॒ज्ञं , आ॒ऽतनिः॑ ॥
त्वम॑ग्ने॒ अदि॑तिर्देव दा॒शुषे॒ त्वं होत्रा॒ भार॑ती वर्धसे गि॒रा । त्वमिळा॑ श॒तहि॑मासि॒ दक्ष॑से॒ त्वं वृ॑त्र॒हा व॑सुपते॒ सर॑स्वती ॥
त्वं , अ॒ग्ने॒ , अदि॑तिः , दे॒व॒ , दा॒शुषे॑ , त्वं , होत्रा॑ , भार॑ती , व॒र्ध॒से॒ , गि॒रा । त्वं , इळा॑ , श॒तऽहि॑मा , अ॒सि॒ , दक्ष॑से , त्वं , वृ॒त्र॒ऽहा , व॒सु॒ऽप॒ते॒ , सर॑स्वती ॥
त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः॑ । त्वं वाजः॑ प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः ॥
त्वं , अ॒ग्ने॒ , सुऽभृ॑तः , उ॒त्ऽत॒मं , वयः॑ , तव॑ , स्पा॒र्हे , वर्णे॑ , आ , सं॒ऽदृशि॑ , श्रियः॑ । त्वं , वाजः॑ , प्र॒ऽतर॑णः , बृ॒हन् , अ॒सि॒ , त्वं , र॒यिः , ब॒हु॒लः , वि॒श्वतः॑ , पृ॒थुः ॥
त्वाम॑ग्न आदि॒त्यास॑ आ॒स्यं१॒॑ त्वां जि॒ह्वां शुच॑यश्चक्रिरे कवे । त्वां रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे॒ त्वे दे॒वा ह॒विर॑दं॒त्याहु॑तं ॥
त्वां , अ॒ग्ने॒ , आ॒दि॒त्यासः॑ , आ॒स्यं॑ , त्वां , जि॒ह्वां , शुच॑यः , च॒क्रि॒रे॒ , क॒वे॒ । त्वां , रा॒ति॒ऽसाचः॑ , अ॒ध्व॒रेषु॑ , स॒श्चि॒रे॒ , त्वे इति॑ , दे॒वाः , ह॒विः , अ॒दं॒ति॒ , आऽहु॑तं ॥
त्वे अ॑ग्ने॒ विश्वे॑ अ॒मृता॑सो अ॒द्रुह॑ आ॒सा दे॒वा ह॒विर॑दं॒त्याहु॑तं । त्वया॒ मर्ता॑सः स्वदंत आसु॒तिं त्वं गर्भो॑ वी॒रुधां॑ जज्ञिषे॒ शुचिः॑ ॥
त्वे इति॑ , अ॒ग्ने॒ , विश्वे॑ , अ॒मृता॑सः , अ॒द्रुहः॑ , आ॒सा , दे॒वाः , ह॒विः , अ॒दं॒ति॒ , आऽहु॑तं । त्वया॑ , मर्ता॑सः , स्व॒दं॒ते॒ , आ॒ऽसु॒तिं , त्वं , गर्भः॑ , वी॒रुधां॑ , ज॒ज्ञि॒षे॒ , शुचिः॑ ॥
त्वं तांत्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने॑ सुजात॒ प्र च॑ देव रिच्यसे । पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा॑पृथि॒वी रोद॑सी उ॒भे ॥
त्वं , तान् , सं , च॒ , प्रति॑ , च॒ , अ॒सि॒ , म॒ज्मना॑ , अग्ने॑ , सु॒ऽजा॒त॒ , प्र , च॒ , दे॒व॒ , रि॒च्य॒से॒ । पृ॒क्षः , यत् , अत्र॑ , म॒हि॒ना , वि , ते॒ , भुव॑त् , अनु॑ , द्यावा॑पृथि॒वी इति॑ , रोद॑सी॒ इति॑ , उ॒भे इति॑ ॥
ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने॑ रा॒तिमु॑पसृ॒जंति॑ सू॒रयः॑ । अ॒स्मांच॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
ये , स्तो॒तृऽभ्यः॑ , गोऽअ॑ग्रां , अश्व॑ऽपेशसं , अग्ने॑ , रा॒तिं , उ॒प॒ऽसृ॒जंति॑ , सू॒रयः॑ । अ॒स्मान् , च॒ , तान् , च॒ , प्र , हि , नेषि॑ , वस्यः॑ , आ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[२] यज्ञेनेति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती |
य॒ज्ञेन॑ वर्धत जा॒तवे॑दसम॒ग्निं य॑जध्वं ह॒विषा॒ तना॑ गि॒रा । स॒मि॒धा॒नं सु॑प्र॒यसं॒ स्व॑र्णरं द्यु॒क्षं होता॑रं वृ॒जने॑षु धू॒र्षदं॑ ॥
य॒ज्ञेन॑ , व॒र्ध॒त॒ , जा॒तऽवे॑दसं , अ॒ग्निं , य॒ज॒ध्वं॒ , ह॒विषा॑ , तना॑ , गि॒रा । सं॒ऽइ॒धा॒नं , सु॒ऽप्र॒यसं॑ , स्वः॑ऽनरं , द्यु॒क्षं , होता॑रं , वृ॒जने॑षु , धूः॒ऽसदं॑ ॥
अ॒भि त्वा॒ नक्ती॑रु॒षसो॑ ववाशि॒रेऽग्ने॑ व॒त्सं न स्वस॑रेषु धे॒नवः॑ । दि॒व इ॒वेद॑र॒तिर्मानु॑षा यु॒गा क्षपो॑ भासि पुरुवार सं॒यतः॑ ॥
अ॒भि , त्वा॒ , नक्तीः॑ , उ॒षसः॑ , व॒वा॒शि॒रे॒ , अग्ने॑ , व॒त्सं , न , स्वस॑रेषु , धे॒नवः॑ । दि॒वःऽइ॑व , इत् , अ॒र॒तिः , मानु॑षा , यु॒गा , आ , क्षपः॑ , भा॒सि॒ , पु॒रु॒ऽवा॒र॒ , सं॒ऽयतः॑ ॥
तं दे॒वा बु॒ध्ने रज॑सः सु॒दंस॑सं दि॒वस्पृ॑थि॒व्योर॑र॒तिं न्ये॑रिरे । रथ॑मिव॒ वेद्यं॑ शु॒क्रशो॑चिषम॒ग्निं मि॒त्रं न क्षि॒तिषु॑ प्र॒शंस्यं॑ ॥
तं , दे॒वाः , बु॒ध्ने , रज॑सः , सु॒ऽदंस॑सं , दि॒वःपृ॑थि॒व्योः , अ॒र॒तिं , नि , ए॒रि॒रे॒ । रथं॑ऽइव , वेद्यं॑ , शु॒क्रऽशो॑चिषं , अ॒ग्निं , मि॒त्रं , न , क्षि॒तिषु॑ , प्र॒ऽशंस्यं॑ ॥
तमु॒क्षमा॑णं॒ रज॑सि॒ स्व आ दमे॑ चं॒द्रमि॑व सु॒रुचं॑ ह्वा॒र आ द॑धुः । पृश्न्याः॑ पत॒रं चि॒तयं॑तम॒क्षभिः॑ पा॒थो न पा॒युं जन॑सी उ॒भे अनु॑ ॥
तं , उ॒क्षमा॑णं , रज॑सि , स्वे , आ , दमे॑ , चं॒द्रंऽइ॑व , सु॒ऽरुचं॑ , ह्वा॒रे , आ , द॒धुः॒ । पृश्न्याः॑ , प॒त॒रं , चि॒तयं॑तं , अ॒क्षऽभिः॑ , पा॒थः , न , पा॒युं , जन॑सी॒ इति॑ , उ॒भे इति॑ , अनु॑ ॥
स होता॒ विश्वं॒ परि॑ भूत्वध्व॒रं तमु॑ ह॒व्यैर्मनु॑ष ऋंजते गि॒रा । हि॒रि॒शि॒प्रो वृ॑धसा॒नासु॒ जर्भु॑र॒द्द्यौर्न स्तृभि॑श्चितय॒द्रोद॑सी॒ अनु॑ ॥
सः , होता॑ , विश्वं॑ , परि॑ , भू॒तु॒ , अ॒ध्व॒रं , तं , ऊँ॒ इति॑ , ह॒व्यैः , मनु॑षः , ऋं॒ज॒ते॒ , गि॒रा । हि॒रि॒ऽशि॒प्रः , वृ॒ध॒सा॒नासु॑ , जर्भु॑रत् , द्यौः , न , स्तृऽभिः॑ , चि॒त॒य॒त् , रोद॑सी॒ इति॑ , अनु॑ ॥
स नो॑ रे॒वत्स॑मिधा॒नः स्व॒स्तये॑ संदद॒स्वान्र॒यिम॒स्मासु॑ दीदिहि । आ नः॑ कृणुष्व सुवि॒ताय॒ रोद॑सी॒ अग्ने॑ ह॒व्या मनु॑षो देव वी॒तये॑ ॥
सः , नः॒ , रे॒वत् , सं॒ऽइ॒धा॒नः , स्व॒स्तये॑ , सं॒ऽद॒द॒स्वान् , र॒यिं , अ॒स्मासु॑ , दी॒दि॒हि॒ । आ , नः॒ , कृ॒णु॒ष्व॒ , सु॒वि॒ताय॑ , रोद॑सी॒ इति॑ , अग्ने॑ , ह॒व्या , मनु॑षः , दे॒व॒ , वी॒तये॑ ॥
दा नो॑ अग्ने बृह॒तो दाः स॑ह॒स्रिणो॑ दु॒रो न वाजं॒ श्रुत्या॒ अपा॑ वृधि । प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ स्व१॒॑र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतः ॥
दाः , नः॒ , अ॒ग्ने॒ , बृ॒ह॒तः , दाः , स॒ह॒स्रिणः॑ , दु॒रः , न , वाजं॑ , श्रुत्यै॑ , अप॑ , वृ॒धि॒ । प्राची॒ इति॑ , द्यावा॑पृथि॒वी इति॑ , ब्रह्म॑णा , कृ॒धि॒ , स्वः॑ , न , शु॒क्रं , उ॒षसः॑ , वि , दि॒द्यु॒तः॒ ॥
स इ॑धा॒न उ॒षसो॒ राम्या॒ अनु॒ स्व१॒॑र्ण दी॑देदरु॒षेण॑ भा॒नुना॑ । होत्रा॑भिर॒ग्निर्मनु॑षः स्वध्व॒रो राजा॑ वि॒शामति॑थि॒श्चारु॑रा॒यवे॑ ॥
सः , इ॒धा॒नः , उ॒षसः॑ , राम्याः॑ , अनु॑ , स्वः॑ , न , दी॒दे॒त् , अ॒रु॒षेण॑ , भा॒नुना॑ । होत्रा॑भिः , अ॒ग्निः , मनु॑षः , सु॒ऽअ॒ध्व॒रः , राजा॑ , वि॒शां , अति॑थिः , चारुः॑ , आ॒यवे॑ ॥
ए॒वा नो॑ अग्ने अ॒मृते॑षु पूर्व्य॒ धीष्पी॑पाय बृ॒हद्दि॑वेषु॒ मानु॑षा । दुहा॑ना धे॒नुर्वृ॒जने॑षु का॒रवे॒ त्मना॑ श॒तिनं॑ पुरु॒रूप॑मि॒षणि॑ ॥
ए॒व , नः॒ , अ॒ग्ने॒ , अ॒मृते॑षु , पू॒र्व्य॒ , धीः , पी॒पा॒य॒ , बृ॒हत्ऽदि॑वेषु , मानु॑षा । दुहा॑ना , धे॒नुः , वृ॒जने॑षु , का॒रवे॑ , त्मना॑ , श॒तिनं॑ , पु॒रु॒ऽरूपं॑ , इ॒षणि॑ ॥
व॒यम॑ग्ने॒ अर्व॑ता वा सु॒वीर्यं॒ ब्रह्म॑णा वा चितयेमा॒ जनाँ॒ अति॑ । अ॒स्माकं॑ द्यु॒म्नमधि॒ पंच॑ कृ॒ष्टिषू॒च्चा स्व१॒॑र्ण शु॑शुचीत दु॒ष्टरं॑ ॥
व॒यं , अ॒ग्ने॒ , अर्व॑ता , वा , सु॒ऽवीर्यं॑ , ब्रह्म॑णा , वा , चि॒त॒ये॒म॒ , जना॑न् , अति॑ । अ॒स्माकं॑ , द्यु॒म्नं , अधि॑ , पंच॑ , कृ॒ष्टिषु॑ , उ॒च्चा , स्वः॑ , न , शु॒शु॒ची॒त॒ , दु॒स्तरं॑ ॥
स नो॑ बोधि सहस्य प्र॒शंस्यो॒ यस्मिं॑त्सुजा॒ता इ॒षयं॑त सू॒रयः॑ । यम॑ग्ने य॒ज्ञमु॑प॒यंति॑ वा॒जिनो॒ नित्ये॑ तो॒के दी॑दि॒वांसं॒ स्वे दमे॑ ॥
सः , नः॒ , बो॒धि॒ , स॒ह॒स्य॒ , प्र॒ऽशंस्यः॑ , यस्मि॑न् , सु॒ऽजा॒ताः , इ॒षयं॑त , सू॒रयः॑ । यं , अ॒ग्ने॒ , य॒ज्ञं , उ॒प॒ऽयंति॑ , वा॒जिनः॑ , नित्ये॑ , तो॒के , दी॒दि॒ऽवांसं॑ , स्वे , दमे॑ ॥
उ॒भया॑सो जातवेदः स्याम ते स्तो॒तारो॑ अग्ने सू॒रय॑श्च॒ शर्म॑णि । वस्वो॑ रा॒यः पु॑रुश्चं॒द्रस्य॒ भूय॑सः प्र॒जाव॑तः स्वप॒त्यस्य॑ शग्धि नः ॥
उ॒भया॑सः , जा॒त॒ऽवे॒दः॒ , स्या॒म॒ , ते॒ , स्तो॒तारः॑ , अ॒ग्ने॒ , सू॒रयः॑ , च॒ , शर्म॑णि । वस्वः॑ , रा॒यः , पु॒रु॒ऽचं॒द्रस्य॑ , भूय॑सः , प्र॒जाऽव॑तः , सु॒ऽअ॒प॒त्यस्य॑ , श॒ग्धि॒ , नः॒ ॥
ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने॑ रा॒तिमु॑पसृ॒जंति॑ सू॒रयः॑ । अ॒स्मांच॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
ये , स्तो॒तृऽभ्यः॑ , गोऽअ॑ग्रां , अश्व॑ऽपेशसं , अग्ने॑ , रा॒तिं , उ॒प॒ऽसृ॒जंति॑ , सू॒रयः॑ । अ॒स्मान् , च॒ , तान् , च॒ , प्र , हि , नेषि॑ , वस्यः॑ , आ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[३] समिद्धोअग्निरित्येकादशर्चस्य सूक्तस्य शौनको गृत्समदइध्मो नराशंसइळो बर्हिर्देवीर्द्वारउषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् सप्तम्यौजगत्यौ |
समि॑द्धो अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ्विश्वा॑नि॒ भुव॑नान्यस्थात् । होता॑ पाव॒कः प्र॒दिवः॑ सुमे॒धा दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥
संऽइ॑द्धः , अ॒ग्निः , निऽहि॑तः , पृ॒थि॒व्यां , प्र॒त्यङ् , विश्वा॑नि , भुव॑नानि , अ॒स्था॒त् । होता॑ , पा॒व॒कः , प्र॒ऽदिवः॑ , सु॒ऽमे॒धाः , दे॒वः , दे॒वान् , य॒ज॒तु॒ , अ॒ग्निः , अर्ह॑न् ॥
नरा॒शंसः॒ प्रति॒ धामा॑न्यं॒जंति॒स्रो दिवः॒ प्रति॑ म॒ह्ना स्व॒र्चिः । घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमुं॒दन्मू॒र्धन्य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥
नरा॒शंसः॑ , प्रति॑ , धामा॑नि , अं॒जन् , ति॒स्रः , दिवः॑ , प्रति॑ , म॒ह्ना , सु॒ऽअ॒र्चिः । घृ॒त॒ऽप्रुषा॑ , मन॑सा , ह॒व्यं , उं॒दन् , मू॒र्धन् , य॒ज्ञस्य॑ , सं , अ॒न॒क्तु॒ , दे॒वान् ॥
ई॒ळि॒तो अ॑ग्ने॒ मन॑सा नो॒ अर्हं॑दे॒वान्य॑क्षि॒ मानु॑षा॒त्पूर्वो॑ अ॒द्य । स आ व॑ह म॒रुतां॒ शर्धो॒ अच्यु॑त॒मिंद्रं॑ नरो बर्हि॒षदं॑ यजध्वं ॥
ई॒ळि॒तः , अ॒ग्ने॒ , मन॑सा , नः॒ , अर्ह॑न् , दे॒वान् , य॒क्षि॒ , मानु॑षात् , पूर्वः॑ , अ॒द्य । सः , आ , व॒ह॒ , म॒रुतां॑ , शर्धः॑ , अच्यु॑तं , इंद्रं॑ , न॒रः॒ , ब॒र्हि॒ऽसदं॑ , य॒ज॒ध्वं॒ ॥
देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं॑ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्यां । घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे॑ देवा आदित्या य॒ज्ञिया॑सः ॥
देव॑ , ब॒र्हिः॒ , वर्ध॑मानं , सु॒ऽवीरं॑ , स्ती॒र्णं , रा॒ये , सु॒ऽभरं॑ , वेदी॒ इति॑ , अ॒स्यां । घृ॒तेन॑ , अ॒क्तं , व॒स॒वः॒ , सी॒द॒त॒ , इ॒दं , विश्वे॑ , दे॒वाः॒ , आ॒दि॒त्याः॒ , य॒ज्ञिया॑सः ॥
वि श्र॑यंतामुर्वि॒या हू॒यमा॑ना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा नमो॑भिः । व्यच॑स्वती॒र्वि प्र॑थंतामजु॒र्या वर्णं॑ पुना॒ना य॒शसं॑ सु॒वीरं॑ ॥
वि , श्र॒यं॒तां॒ , उ॒र्वि॒या , हू॒यमा॑नाः , द्वारः॑ , दे॒वीः , सु॒प्र॒ऽअ॒य॒नाः , नमः॑ऽभिः । व्यच॑स्वतीः , वि , प्र॒थं॒तां॒ , अ॒जु॒र्याः , वर्णं॑ , पु॒ना॒नाः , य॒शसं॑ , सु॒ऽवीरं॑ ॥
सा॒ध्वपां॑सि स॒नता॑ न उक्षि॒ते उ॒षासा॒नक्ता॑ व॒य्ये॑व रण्वि॒ते । तंतुं॑ त॒तं सं॒वयं॑ती समी॒ची य॒ज्ञस्य॒ पेशः॑ सु॒दुघे॒ पय॑स्वती ॥
सा॒धु , अपां॑सि , स॒नता॑ , नः॒ , उ॒क्षि॒ते इति॑ , उ॒षसा॒नक्ता॑ , व॒य्या॑ऽइव , र॒ण्वि॒ते इति॑ । तंतुं॑ , त॒तं , सं॒वयं॑ती॒ इति॑ सं॒ऽवयं॑ती , स॒मी॒ची इति॑ सं॒ऽई॒ची , य॒ज्ञस्य॑ , पेशः॑ , सु॒दुघे॒ इति॑ सु॒ऽदुघे॑ , पय॑स्वती॒ इति॑ ॥
दैव्या॒ होता॑रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षतः॒ समृ॒चा व॒पुष्ट॑रा । दे॒वान्यजं॑तावृतु॒था समं॑जतो॒ नाभा॑ पृथि॒व्या अधि॒ सानु॑षु त्रि॒षु ॥
दैव्या॑ , होता॑रा , प्र॒थ॒मा , वि॒दुःऽत॑रा , ऋ॒जु , य॒क्ष॒तः॒ , सं , ऋ॒चा , व॒पुःऽत॑रा । दे॒वान् , यजं॑तौ , ऋ॒तु॒ऽथा , सं , अं॒ज॒तः॒ , नाभा॑ , पृ॒थि॒व्याः , अधि॑ , सानु॑षु , त्रि॒षु ॥
सर॑स्वती सा॒धयं॑ती॒ धियं॑ न॒ इळा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः । ति॒स्रो दे॒वीः स्व॒धया॑ ब॒र्हिरेदमच्छि॑द्रं पांतु शर॒णं नि॒षद्य॑ ॥
सर॑स्वती , सा॒धयं॑ती , धियं॑ , नः॒ , इळा॑ , दे॒वी , भार॑ती , वि॒श्वऽतू॑र्तिः । ति॒स्रः , दे॒वीः , स्व॒धया॑ , ब॒र्हिः , आ , इ॒दं , अच्छि॑द्रं , पां॒तु॒ , श॒र॒णं , नि॒ऽसद्य॑ ॥
पि॒शंग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥
पि॒शंग॑ऽरूपः , सु॒ऽभरः॑ , व॒यः॒ऽधाः , श्रु॒ष्टी , वी॒रः , जा॒य॒ते॒ , दे॒वऽका॑मः । प्र॒ऽजां , त्वष्टा॑ , वि , स्य॒तु॒ , नाभिं॑ , अ॒स्मे इति॑ , अथ॑ , दे॒वानां॑ , अपि॑ , ए॒तु॒ , पाथः॑ ॥
वन॒स्पति॑रवसृ॒जन्नुप॑ स्थाद॒ग्निर्ह॒विः सू॑दयाति॒ प्र धी॒भिः । त्रिधा॒ सम॑क्तं नयतु प्रजा॒नंदे॒वेभ्यो॒ दैव्यः॑ शमि॒तोप॑ ह॒व्यं ॥
वन॒स्पतिः॑ , अ॒व॒ऽसृ॒जन् , उप॑ , स्था॒त् , अ॒ग्निः , ह॒विः , सू॒द॒या॒ति॒ , प्र , धी॒भिः । त्रिधा॑ , संऽअ॑क्तं , न॒य॒तु॒ , प्र॒ऽजा॒नन् , दे॒वेभ्यः॑ , दैव्यः॑ , श॒मि॒ता , उप॑ , ह॒व्यं ॥
घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ । अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यं ॥
घृ॒तं , मि॒मि॒क्षे॒ , घृ॒तं , अ॒स्य॒ , योनिः॑ , घृ॒ते , श्रि॒तः , घृ॒तं , ऊँ॒ इति॑ , अ॒स्य॒ , धाम॑ । अ॒नु॒ऽस्व॒धं , आ , व॒ह॒ , मा॒दय॑स्व , स्वाहा॑ऽकृतं , वृ॒ष॒भ॒ , व॒क्षि॒ , ह॒व्यं ॥
[४] हुवेवइति नवर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निस्त्रिष्टुप् |
हु॒वे वः॑ सु॒द्योत्मा॑नं सुवृ॒क्तिं वि॒शाम॒ग्निमति॑थिं सुप्र॒यसं॑ । मि॒त्र इ॑व॒ यो दि॑धि॒षाय्यो॒ भूद्दे॒व आदे॑वे॒ जने॑ जा॒तवे॑दाः ॥
हु॒वे , वः॒ , सु॒ऽद्योत्मा॑नं , सु॒ऽवृ॒क्तिं , वि॒शां , अ॒ग्निं , अति॑थिं , सु॒ऽप्र॒यसं॑ । मि॒त्रःऽइ॑व , यः , दि॒धि॒षाय्यः॑ , भूत् , दे॒वः , आऽदे॑वे , जने॑ , जा॒तऽवे॑दाः ॥
इ॒मं वि॒धंतो॑ अ॒पां स॒धस्थे॑ द्वि॒ताद॑धु॒र्भृग॑वो वि॒क्ष्वा॒३॒॑योः । ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ भूमा॑ दे॒वाना॑म॒ग्निर॑र॒तिर्जी॒राश्वः॑ ॥
इ॒मं , वि॒धंतः॑ , अ॒पां , स॒धऽस्थे॑ , द्वि॒ता , अ॒द॒धुः॒ , भृग॑वः , वि॒क्षु , आ॒योः । ए॒षः , विश्वा॑नि , अ॒भि , अ॒स्तु॒ , भूम॑ , दे॒वानां॑ , अ॒ग्निः , अ॒र॒तिः , जी॒रऽअ॑श्वः ॥
अ॒ग्निं दे॒वासो॒ मानु॑षीषु वि॒क्षु प्रि॒यं धुः॑ क्षे॒ष्यंतो॒ न मि॒त्रं । स दी॑दयदुश॒तीरूर्म्या॒ आ द॒क्षाय्यो॒ यो दास्व॑ते॒ दम॒ आ ॥
अ॒ग्निं , दे॒वासः॑ , मानु॑षीषु , वि॒क्षु , प्रि॒यं , धुः॒ , क्षे॒ष्यंतः॑ , न , मि॒त्रं । सः , दी॒द॒य॒त् , उ॒श॒तीः , ऊर्म्याः॑ , आ , द॒क्षाय्यः॑ , यः , दास्व॑ते , दमे॑ , आ ॥
अ॒स्य र॒ण्वा स्वस्ये॑व पु॒ष्टिः संदृ॑ष्टिरस्य हिया॒नस्य॒ दक्षोः॑ । वि यो भरि॑भ्र॒दोष॑धीषु जि॒ह्वामत्यो॒ न रथ्यो॑ दोधवीति॒ वारा॑न् ॥
अ॒स्य , र॒ण्वा , स्वस्य॑ऽइव , पु॒ष्टिः , संऽदृ॑ष्टिः , अ॒स्य॒ , हि॒या॒नस्य॑ , धक्षोः॑ । वि , यः , भरि॑भ्रत् , ओष॑धीषु , जि॒ह्वां , अत्यः॑ , न , रथ्यः॑ , दो॒ध॒वी॒ति॒ , वारा॑न् ॥
आ यन्मे॒ अभ्वं॑ व॒नदः॒ पनं॑तो॒शिग्भ्यो॒ नामि॑मीत॒ वर्णं॑ । स चि॒त्रेण॑ चिकिते॒ रंसु॑ भा॒सा जु॑जु॒र्वाँ यो मुहु॒रा युवा॒ भूत् ॥
आ , यत् , मे॒ , अभ्वं॑ , व॒नदः॑ , पनं॑त , उ॒शिक्ऽभ्यः॑ , न , अ॒मि॒मी॒त॒ , वर्णं॑ । सः , चि॒त्रेण॑ , चि॒कि॒ते॒ , रंऽसु॑ , भा॒सा , जु॒जु॒र्वान् , यः , मुहुः॑ , आ , युवा॑ , भूत् ॥
आ यो वना॑ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये॑व स्वानीत् । कृ॒ष्णाध्वा॒ तपू॑ र॒ण्वश्चि॑केत॒ द्यौरि॑व॒ स्मय॑मानो॒ नभो॑भिः ॥
आ , यः , वना॑ , त॒तृ॒षा॒णः , न , भाति॑ , वाः , न , प॒था , रथ्या॑ऽइव , स्वा॒नी॒त् । कृ॒ष्णऽअ॑ध्वा , तपुः॑ , र॒ण्वः , चि॒के॒त॒ , द्यौःऽइ॑व , स्मय॑मानः , नभः॑ऽभिः ॥
स यो व्यस्था॑द॒भि दक्ष॑दु॒र्वीं प॒शुर्नैति॑ स्व॒युरगो॑पाः । अ॒ग्निः शो॒चिष्माँ॑ अत॒सान्यु॒ष्णन्कृ॒ष्णव्य॑थिरस्वदय॒न्न भूम॑ ॥
सः , यः , वि , अस्था॑त् , अ॒भि , धक्ष॑त् , उ॒र्वीं , प॒शुः , न , ए॒ति॒ , स्व॒ऽयुः , अगो॑पाः । अ॒ग्निः , शो॒चिष्मा॑न् , अ॒त॒सानि॑ , उ॒ष्णन् , कृ॒ष्णऽव्य॑थिः , अ॒स्व॒द॒य॒त् , न , भूम॑ ॥
नू ते॒ पूर्व॒स्याव॑सो॒ अधी॑तौ तृ॒तीये॑ वि॒दथे॒ मन्म॑ शंसि । अ॒स्मे अ॑ग्ने सं॒यद्वी॑रं बृ॒हंतं॑ क्षु॒मंतं॒ वाजं॑ स्वप॒त्यं र॒यिं दाः॑ ॥
नु , ते॒ , पूर्व॑स्य , अव॑सः , अधि॑ऽइतौ , तृ॒तीये॑ , वि॒दथे॑ , मन्म॑ , शं॒सि॒ । अ॒स्मे इति॑ , अ॒ग्ने॒ , सं॒यत्ऽवी॑रं , बृ॒हंतं॑ , क्षु॒ऽमंतं॑ , वाजं॑ , सु॒ऽअ॒प॒त्यं , र॒यिं , दाः॒ ॥
त्वया॒ यथा॑ गृत्सम॒दासो॑ अग्ने॒ गुहा॑ व॒न्वंत॒ उप॑राँ अ॒भि ष्युः । सु॒वीरा॑सो अभिमाति॒षाहः॒ स्मत्सू॒रिभ्यो॑ गृण॒ते तद्वयो॑ धाः ॥
त्वया॑ , यथा॑ , गृ॒त्स॒ऽम॒दासः॑ , अ॒ग्ने॒ , गुहा॑ , व॒न्वंतः॑ , उप॑रान् , अ॒भि , स्युरिति॒ स्युः । सु॒ऽवीरा॑सः , अ॒भि॒मा॒ति॒ऽसहः॑ , स्मत् , सू॒रिऽभ्यः॑ , गृ॒ण॒ते , तत् , वयः॑ , धाः॒ ॥
[५] होताजनिष्ठेत्यष्टर्चस्य सूक्तस्य भार्गवः सोमाहुतिरग्निरनुष्टुप् |
होता॑जनिष्ट॒ चेत॑नः पि॒ता पि॒तृभ्य॑ ऊ॒तये॑ । प्र॒यक्षं॒जेन्यं॒ वसु॑ श॒केम॑ वा॒जिनो॒ यमं॑ ॥
होता॑ , अ॒ज॒नि॒ष्ट॒ , चेत॑नः , पि॒ता , पि॒तृऽभ्यः॑ , ऊ॒तये॑ । प्र॒ऽयक्ष॑न् , जेन्यं॑ , वसु॑ , श॒केम॑ , वा॒जिनः॑ , यमं॑ ॥
आ यस्मिं॑त्स॒प्त र॒श्मय॑स्त॒ता य॒ज्ञस्य॑ ने॒तरि॑ । म॒नु॒ष्वद्दैव्य॑मष्ट॒मं पोता॒ विश्वं॒ तदि॑न्वति ॥
आ , यस्मि॑न् , स॒प्त , र॒श्मयः॑ , त॒ताः , य॒ज्ञस्य॑ , ने॒तरि॑ । म॒नु॒ष्वत् , दैव्यं॑ , अ॒ष्ट॒मं , पोता॑ , विश्वं॑ , तत् , इ॒न्व॒ति॒ ॥
द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्ब्रह्मा॑णि॒ वेरु॒ तत् । परि॒ विश्वा॑नि॒ काव्या॑ ने॒मिश्च॒क्रमि॑वाभवत् ॥
द॒ध॒न्वे , वा॒ , यत् , ईं॒ , अनु॑ , वोच॑त् , ब्रह्मा॑णि , वेः , ऊँ॒ इति॑ , तत् । परि॑ , विश्वा॑नि , काव्या॑ , ने॒मिः , च॒क्रंऽइ॑व , अ॒भ॒व॒त् ॥
सा॒कं हि शुचि॑ना॒ शुचिः॑ प्रशा॒स्ता क्रतु॒नाज॑नि । वि॒द्वाँ अ॑स्य व्र॒ता ध्रु॒वा व॒या इ॒वानु॑ रोहते ॥
सा॒कं , हि , शुचि॑ना , शुचिः॑ , प्र॒ऽशा॒स्ता , क्रतु॑ना , अज॑नि । वि॒द्वान् , अ॒स्य॒ , व्र॒ता , ध्रु॒वा , व॒याःऽइ॑व , अनु॑ , रो॒ह॒ते॒ ॥
ता अ॑स्य॒ वर्ण॑मा॒युवो॒ नेष्टुः॑ सचंत धे॒नवः॑ । कु॒वित्ति॒सृभ्य॒ आ वरं॒ स्वसा॑रो॒ या इ॒दं य॒युः ॥
ताः , अ॒स्य॒ , वर्णं॑ , आ॒युवः॑ , नेष्टुः॑ , स॒चं॒त॒ , धे॒नवः॑ । कु॒वित् , ति॒सृऽभ्यः॑ , आ , वरं॑ , स्वसा॑रः , याः , इ॒दं , य॒युः ॥
यदी॑ मा॒तुरुप॒ स्वसा॑ घृ॒तं भरं॒त्यस्थि॑त । तासा॑मध्व॒र्युराग॑तौ॒ यवो॑ वृ॒ष्टीव॑ मोदते ॥
यदि॑ , मा॒तुः , उप॑ , स्वसा॑ , घृ॒तं , भरं॑ती , अस्थि॑त । तासां॑ , अ॒ध्व॒र्युः , आऽग॑तौ , यवः॑ , वृ॒ष्टीऽइ॑व , मो॒द॒ते॒ ॥
स्वः स्वाय॒ धाय॑से कृणु॒तामृ॒त्विगृ॒त्विजं॑ । स्तोमं॑ य॒ज्ञं चादरं॑ व॒नेमा॑ ररि॒मा व॒यं ॥
स्वः , स्वाय॑ , धाय॑से , कृ॒णु॒तां , ऋ॒त्विक् , ऋ॒त्विजं॑ । स्तोमं॑ , य॒ज्ञं , च॒ , आत् , अरं॑ , व॒नेम॑ , र॒रि॒म , व॒यं ॥
यथा॑ वि॒द्वाँ अरं॒ कर॒द्विश्वे॑भ्यो यज॒तेभ्यः॑ । अ॒यम॑ग्ने॒ त्वे अपि॒ यं य॒ज्ञं च॑कृ॒मा व॒यं ॥
यथा॑ , वि॒द्वान् , अरं॑ , कर॑त् , विश्वे॑भ्यः , य॒ज॒तेभ्यः॑ । अ॒यं , अ॒ग्ने॒ , त्वे इति॑ , अपि॑ , यं , य॒ज्ञं , च॒कृ॒म , व॒यं ॥
[६] इमांमइत्यष्टर्चस्य सूक्तस्य भार्गवःसोमाहुतिरग्निर्गायत्री |
इ॒मां मे॑ अग्ने स॒मिध॑मि॒मामु॑प॒सदं॑ वनेः । इ॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ॥
इ॒मां , मे॒ , अ॒ग्ने॒ , सं॒ऽइधं॑ , इ॒मां , उ॒प॒ऽसदं॑ , व॒ने॒रिति॑ वनेः । इ॒माः , ऊँ॒ इति॑ , सु , श्रु॒धि॒ , गिरः॑ ॥
अ॒या ते॑ अग्ने विधे॒मोर्जो॑ नपा॒दश्व॑मिष्टे । ए॒ना सू॒क्तेन॑ सुजात ॥
अ॒या , ते॒ , अ॒ग्ने॒ , वि॒धे॒म॒ , ऊर्जः॑ , न॒पा॒त् , अश्वं॑ऽइष्टे । ए॒ना , सु॒ऽउ॒क्तेन॑ , सु॒ऽजा॒त॒ ॥
तं त्वा॑ गी॒र्भिर्गिर्व॑णसं द्रविण॒स्युं द्र॑विणोदः । स॒प॒र्येम॑ सप॒र्यवः॑ ॥
तं , त्वा॒ , गीः॒ऽभिः , गिर्व॑णसं , द्र॒वि॒ण॒स्युं , द्र॒वि॒णः॒ऽदः॒ । स॒प॒र्येम॑ , स॒प॒र्यवः॑ ॥
स बो॑धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् । यु॒यो॒ध्य१॒॑स्मद्द्वेषां॑सि ॥
सः , बो॒धि॒ , सू॒रिः , म॒घऽवा॑ , वसु॑ऽपते , वसु॑ऽदावन् । यु॒यो॒धि , अ॒स्मत् , द्वेषां॑सि ॥
स नो॑ वृ॒ष्टिं दि॒वस्परि॒ स नो॒ वाज॑मन॒र्वाणं॑ । स नः॑ सह॒स्रिणी॒रिषः॑ ॥
सः , नः॒ , वृ॒ष्टिं , दि॒वः , परि॑ , सः , नः॒ , वाजं॑ , अ॒न॒र्वाणं॑ । सः , नः॒ , स॒ह॒स्रिणीः॑ , इषः॑ ॥
ईळा॑नायाव॒स्यवे॒ यवि॑ष्ठ दूत नो गि॒रा । यजि॑ष्ठ होत॒रा ग॑हि ॥
ईळा॑नाय , अ॒व॒स्यवे॑ , यवि॑ष्ठ , दू॒त॒ , नः॒ , गि॒रा । यजि॑ष्ठ , हो॒तः॒ , आ , ग॒हि॒ ॥
अं॒तर्ह्य॑ग्न॒ ईय॑से वि॒द्वांजन्मो॒भया॑ कवे । दू॒तो जन्ये॑व॒ मित्र्यः॑ ॥
अं॒तः , हि , अ॒ग्ने॒ , ईय॑से , वि॒द्वान् , जन्म॑ , उ॒भया॑ , क॒वे॒ । दू॒तः , जन्या॑ऽइव , मित्र्यः॑ ॥
स वि॒द्वाँ आ च॑ पिप्रयो॒ यक्षि॑ चिकित्व आनु॒षक् । आ चा॒स्मिंत्स॑त्सि ब॒र्हिषि॑ ॥
सः , वि॒द्वान् , आ , च॒ , पि॒प्र॒यः॒ , यक्षि॑ , चि॒कि॒त्वः॒ , आ॒नु॒षक् । आ , च॒ , अ॒स्मिन् , स॒त्सि॒ , ब॒र्हिषि॑ ॥
[७] श्रेष्ठमिति षडृचस्य सूक्तस्य भार्गवः सोमाहुतिरग्निर्गायत्री |
श्रेष्ठं॑ यविष्ठ भार॒ताग्ने॑ द्यु॒मंत॒मा भ॑र । वसो॑ पुरु॒स्पृहं॑ र॒यिं ॥
श्रेष्ठं॑ , य॒वि॒ष्ठ॒ , भा॒र॒त॒ , अग्ने॑ , द्यु॒ऽमंतं॑ , आ , भ॒र॒ । वसो॒ इति॑ , पु॒रु॒ऽस्पृहं॑ , र॒यिं ॥
मा नो॒ अरा॑तिरीशत दे॒वस्य॒ मर्त्य॑स्य च । पर्षि॒ तस्या॑ उ॒त द्वि॒षः ॥
मा , नः॒ , अरा॑तिः , ई॒श॒त॒ , दे॒वस्य॑ , मर्त्य॑स्य , च॒ । पर्षि॑ , तस्याः॑ , उ॒त , द्वि॒षः ॥
विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव । अति॑ गाहेमहि॒ द्विषः॑ ॥
विश्वाः॑ , उ॒त , त्वया॑ , व॒यं , धाराः॑ , उ॒द॒न्याः॑ऽइव । अति॑ , गा॒हे॒म॒हि॒ , द्विषः॑ ॥
शुचिः॑ पावक॒ वंद्योऽग्ने॑ बृ॒हद्वि रो॑चसे । त्वं घृ॒तेभि॒राहु॑तः ॥
शुचिः॑ , पा॒व॒क॒ , वंद्यः॑ , अग्ने॑ , बृ॒हत् , वि , रो॒च॒से॒ । त्वं , घृ॒तेभिः॑ , आऽहु॑तः ॥
त्वं नो॑ असि भार॒ताग्ने॑ व॒शाभि॑रु॒क्षभिः॑ । अ॒ष्टाप॑दीभि॒राहु॑तः ॥
त्वं , नः॒ , अ॒सि॒ , भा॒र॒त॒ , अग्ने॑ , व॒शाभिः॑ , उ॒क्षऽभिः॑ । अ॒ष्टाऽप॑दीभिः , आऽहु॑तः ॥
द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः । सह॑सस्पु॒त्रो अद्भु॑तः ॥
द्रुऽअ॑न्नः , स॒र्पिःऽआ॑सुतिः , प्र॒त्नः , होता॑ , वरे॑ण्यः । सह॑सः , पु॒त्रः , अद्भु॑तः ॥
[८] वाजयन्नितिषडृचस्य सूक्तस्य शौनकोगृत्समदोग्निर्गायत्र्यंत्यानुष्टुप् |
वा॒ज॒यन्नि॑व॒ नू रथा॒न्योगाँ॑ अ॒ग्नेरुप॑ स्तुहि । य॒शस्त॑मस्य मी॒ळ्हुषः॑ ॥
वा॒ज॒यन्ऽइ॑व , नु , रथा॑न् , योगा॑न् , अ॒ग्नेः , उप॑ , स्तु॒हि॒ । य॒शःऽत॑मस्य , मी॒ळ्हुषः॑ ॥
यः सु॑नी॒थो द॑दा॒शुषे॑ऽजु॒र्यो ज॒रय॑न्न॒रिं । चारु॑प्रतीक॒ आहु॑तः ॥
यः , सु॒ऽनी॒थः , द॒दा॒शुषे॑ , अ॒जु॒र्यः , ज॒रय॑न् , अ॒रिं । चारु॑ऽप्रतीकः , आऽहु॑तः ॥
य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते॑ । यस्य॑ व्र॒तं न मीय॑ते ॥
यः , ऊँ॒ इति॑ , श्रि॒या , दमे॑षु , आ , दो॒षा , उ॒षसि॑ , प्र॒ऽश॒स्यते॑ । यस्य॑ , व्र॒तं , न , मीय॑ते ॥
आ यः स्व१॒॑र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य॒र्चिषा॑ । अं॒जा॒नो अ॒जरै॑र॒भि ॥
आ , यः , स्वः॑ , न , भा॒नुना॑ , चि॒त्रः , वि॒ऽभाति॑ , अ॒र्चिषा॑ । अं॒जा॒नः , अ॒जरैः॑ , अ॒भि ॥
अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः । विश्वा॒ अधि॒ श्रियो॑ दधे ॥
अत्रिं॑ , अनु॑ , स्व॒ऽराज्यं॑ , अ॒ग्निं , उ॒क्थानि॑ , व॒वृ॒धुः॒ । विश्वाः॑ , अधि॑ , श्रियः॑ , द॒धे॒ ॥
अ॒ग्नेरिंद्र॑स्य॒ सोम॑स्य दे॒वाना॑मू॒तिभि॑र्व॒यं । अरि॑ष्यंतः सचेमह्य॒भि ष्या॑म पृतन्य॒तः ॥
अ॒ग्नेः , इंद्र॑स्य , सोम॑स्य , दे॒वानां॑ , ऊ॒तिऽभिः॑ , व॒यं । अरि॑ष्यंतः , स॒चे॒म॒हि॒ , अ॒भि , स्या॒म॒ , पृ॒त॒न्य॒तः ॥
[९] निहोतेति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् |
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ अ॑सदत्सु॒दक्षः॑ । अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रंभ॒रः शुचि॑जिह्वो अ॒ग्निः ॥
नि , होता॑ , हो॒तृ॒ऽसद॑ने , विदा॑नः , त्वे॒षः , दी॒दि॒ऽवान् , अ॒स॒द॒त् , सु॒ऽदक्षः॑ । अद॑ब्धव्रतऽप्रमतिः , वसि॑ष्ठः , स॒ह॒स्रं॒ऽभ॒रः , शुचि॑ऽजिह्वः , अ॒ग्निः ॥
त्वं दू॒तस्त्वमु॑ नः पर॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता । अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छं॒दीद्य॑द्बोधि गो॒पाः ॥
त्वं , दू॒तः , त्वं , ऊँ॒ इति॑ , नः॒ , प॒रः॒ऽपाः , त्वं , वस्यः॑ , आ , वृ॒ष॒भ॒ , प्र॒ऽने॒ता । अग्ने॑ , तो॒कस्य॑ , नः॒ , तने॑ , त॒नूनां॑ , अप्र॑ऽयुच्छन् , दीद्य॑त् , बो॒धि॒ , गो॒पाः ॥
वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑ । यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वींषि॑ जुहुरे॒ समि॑द्धे ॥
वि॒धेम॑ , ते , प॒र॒मे , जन्म॑न् , अ॒ग्ने॒ , वि॒धेम॑ , स्तोमैः॑ , अव॑रे , स॒धऽस्थे॑ । यस्मा॑त् , योनेः॑ , उ॒त्ऽआरि॑थ , यजे॑ , तं , प्र , त्वे इति॑ , ह॒वींषि॑ , जु॒हु॒रे॒ , संऽइ॑द्धे ॥
अग्ने॒ यज॑स्व ह॒विषा॒ यजी॑यांछ्रु॒ष्टी दे॒ष्णम॒भि गृ॑णीहि॒ राधः॑ । त्वं ह्यसि॑ रयि॒पती॑ रयी॒णां त्वं शु॒क्रस्य॒ वच॑सो म॒नोता॑ ॥
अग्ने॑ , यज॑स्व , ह॒विषा॑ , यजी॑यान् , श्रु॒ष्टी , दे॒ष्णं , अ॒भि , गृ॒णी॒हि॒ , राधः॑ । त्वं , हि , असि॑ , र॒यि॒ऽपतिः॑ , र॒यी॒णां , त्वं , शु॒क्रस्य॑ , वच॑सः , म॒नोता॑ ॥
उ॒भयं॑ ते॒ न क्षी॑यते वस॒व्यं॑ दि॒वेदि॑वे॒ जाय॑मानस्य दस्म । कृ॒धि क्षु॒मंतं॑ जरि॒तार॑मग्ने कृ॒धि पतिं॑ स्वप॒त्यस्य॑ रा॒यः ॥
उ॒भयं॑ , ते॒ , न , क्षी॒य॒ते॒ , व॒स॒व्यं॑ , दि॒वेऽदि॑वे , जाय॑मानस्य , द॒स्म॒ । कृ॒धि , क्षु॒ऽमंतं॑ , ज॒रि॒तारं॑ , अ॒ग्ने॒ , कृ॒धि , पतिं॑ , सु॒ऽअ॒प॒त्यस्य॑ , रा॒यः ॥
सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ॥
सः , ए॒ना , अनी॑केन , सु॒ऽवि॒दत्रः॑ , अ॒स्मे इति॑ , यष्टा॑ , दे॒वान् , आऽय॑जिष्ठः , स्व॒स्ति । अद॑ब्धः , गो॒पाः , उ॒त , नः॒ , प॒रः॒ऽपाः , अग्ने॑ , द्यु॒ऽमत् , उ॒त , रे॒वत् , दि॒दी॒हि॒ ॥
[१०] जोहूत्रइति षडृचस्य सूक्तस्य शौनकोगृत्समदोग्निस्त्रिष्टुप् |
जो॒हूत्रो॑ अ॒ग्निः प्र॑थ॒मः पि॒तेवे॒ळस्प॒दे मनु॑षा॒ यत्समि॑द्धः । श्रियं॒ वसा॑नो अ॒मृतो॒ विचे॑ता मर्मृ॒जेन्यः॑ श्रव॒स्य१॒॑ः स वा॒जी ॥
जो॒हूत्रः॑ , अ॒ग्निः , प्र॒थ॒मः , पि॒ताऽइ॑व , इ॒ळः , प॒दे , मनु॑षा , यत् , संऽइ॑द्धः । श्रियं॑ , वसा॑नः , अ॒मृतः॑ , विऽचे॑ताः , म॒र्मृ॒जेन्यः॑ , श्र॒व॒स्यः॑ , सः , वा॒जी ॥
श्रू॒या अ॒ग्निश्चि॒त्रभा॑नु॒र्हवं॑ मे॒ विश्वा॑भिर्गी॒र्भिर॒मृतो॒ विचे॑ताः । श्या॒वा रथं॑ वहतो॒ रोहि॑ता वो॒तारु॒षाह॑ चक्रे॒ विभृ॑त्रः ॥
श्रु॒याः , अ॒ग्निः , चि॒त्रऽभा॑नुः , हवं॑ , मे॒ , विश्वा॑भिः , गीः॒ऽभिः , अ॒मृतः॑ , विऽचे॑ताः । श्या॒वा , रथं॑ , व॒ह॒तः॒ , रोहि॑ता , वा॒ , उ॒त , अ॒रु॒षा , अह॑ , च॒क्रे॒ , विऽभृ॑त्रः ॥
उ॒त्ता॒नाया॑मजनयं॒त्सुषू॑तं॒ भुव॑द॒ग्निः पु॑रु॒पेशा॑सु॒ गर्भः॑ । शिरि॑णायां चिद॒क्तुना॒ महो॑भि॒रप॑रीवृतो वसति॒ प्रचे॑ताः ॥
उ॒त्ता॒नायां॑ , अ॒ज॒न॒य॒न् , सुऽसू॑तं , भुव॑त् , अ॒ग्निः , पु॒रु॒ऽपेशा॑सु , गर्भः॑ । शिरि॑णायां , चि॒त् , अ॒क्तुना॑ , महः॑ऽभिः , अप॑रिऽवृतः , व॒स॒ति॒ , प्रऽचे॑ताः ॥
जिघ॑र्म्य॒ग्निं ह॒विषा॑ घृ॒तेन॑ प्रतिक्षि॒यंतं॒ भुव॑नानि॒ विश्वा॑ । पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हंतं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नं ॥
जिघ॑र्मि , अ॒ग्निं , ह॒विषा॑ , घृ॒तेन॑ , प्र॒ति॒ऽक्षि॒यंतं॑ , भुव॑नानि , विश्वा॑ । पृ॒थुं , ति॒र॒श्चा , वय॑सा , बृ॒हंतं॑ , व्यचि॑ष्ठं , अन्नैः॑ , र॒भ॒सं , दृशा॑नं ॥
आ वि॒श्वतः॑ प्र॒त्यंचं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत । मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒न्वा॒३॒॑ जर्भु॑राणः ॥
आ , वि॒श्वतः॑ , प्र॒त्यंचं॑ , जि॒घ॒र्मि॒ , अ॒र॒क्षसा॑ , मन॑सा , तत् , जु॒षे॒त॒ । मर्य॑ऽश्रीः , स्पृ॒ह॒यत्ऽव॑र्णः , अ॒ग्निः , न , अ॒भि॒ऽमृशे॑ , त॒न्वा॑ , जर्भु॑राणः ॥
ज्ञे॒या भा॒गं स॑हसा॒नो वरे॑ण॒ त्वादू॑तासो मनु॒वद्व॑देम । अनू॑नम॒ग्निं जु॒ह्वा॑ वच॒स्या म॑धु॒पृचं॑ धन॒सा जो॑हवीमि ॥
ज्ञे॒याः , भा॒गं , स॒ह॒सा॒नः , वरे॑ण , त्वाऽदू॑तासः , म॒नु॒ऽवत् , व॒दे॒म॒ । अनू॑नं , अ॒ग्निं , जु॒ह्वा॑ , व॒च॒स्या , म॒धु॒ऽपृचं॑ , ध॒न॒ऽसाः , जो॒ह॒वी॒मि॒ ॥
[११] श्रुधीहवमित्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदइंद्रोविराट्स्थानाअंत्यात्रिष्टुप् |
श्रु॒धी हव॑मिंद्र॒ मा रि॑षण्यः॒ स्याम॑ ते दा॒वने॒ वसू॑नां । इ॒मा हि त्वामूर्जो॑ व॒र्धयं॑ति वसू॒यवः॒ सिंध॑वो॒ न क्षरं॑तः ॥
श्रु॒धि , हवं॑ , इं॒द्र॒ , मा , रि॒ष॒ण्यः॒ , स्याम॑ , ते॒ , दा॒वने॑ , वसू॑नां । इ॒माः , हि , त्वां , ऊर्जः॑ , व॒र्धयं॑ति , व॒सु॒ऽयवः॑ , सिंध॑वः , न , क्षरं॑तः ॥
सृ॒जो म॒हीरिं॑द्र॒ या अपि॑न्वः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः । अम॑र्त्यं चिद्दा॒सं मन्य॑मान॒मवा॑भिनदु॒क्थैर्वा॑वृधा॒नः ॥
सृ॒जः , म॒हीः , इं॒द्र॒ , याः , अपि॑न्वः , परि॑ऽस्थिताः , अहि॑ना , शू॒र॒ , पू॒र्वीः । अम॑र्त्यं , चि॒त् , दा॒सं , मन्य॑मानं , अव॑ , अ॒भि॒न॒त् , उ॒क्थैः , व॒वृ॒धा॒नः ॥
उ॒क्थेष्विन्नु शू॑र॒ येषु॑ चा॒कंत्स्तोमे॑ष्विंद्र रु॒द्रिये॑षु च । तुभ्येदे॒ता यासु॑ मंदसा॒नः प्र वा॒यवे॑ सिस्रते॒ न शु॒भ्राः ॥
उ॒क्थेषु॑ , इत् , नु , शू॒र॒ , येषु॑ , चा॒कन् , स्तोमे॑षु , इं॒द्र॒ , रु॒द्रिये॑षु , च॒ । तुभ्य॑ , इत् , ए॒ताः , यासु॑ , मं॒द॒सा॒नः , प्र , वा॒यवे॑ , सि॒स्र॒ते॒ , न , शु॒भ्राः ॥
शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धयं॑तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः । शु॒भ्रस्त्वमिं॑द्र वावृधा॒नो अ॒स्मे दासी॒र्विशः॒ सूर्ये॑ण सह्याः ॥
शु॒भ्रं , नु , ते॒ , शुष्मं॑ , व॒र्धयं॑तः , शु॒भ्रं , वज्रं॑ , बा॒ह्वोः , दधा॑नाः । शु॒भ्रः , त्वं , इं॒द्र॒ , व॒वृ॒धा॒नः , अ॒स्मे इति॑ , दासीः॑ , विशः॑ , सूर्ये॑ण , स॒ह्याः॒ ॥
गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्स्वपी॑वृतं मा॒यिनं॑ क्षि॒यंतं॑ । उ॒तो अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं॑ शूर वी॒र्ये॑ण ॥
गुहा॑ , हि॒तं , गुह्यं॑ , गू॒ळ्हं , अ॒प्ऽसु , अपि॑ऽवृतं , मा॒यिनं॑ , क्षि॒यंतं॑ । उ॒तो इति॑ , अ॒पः , द्यां , त॒स्त॒भ्वांसं॑ , अह॑न् , अहिं॑ , शू॒र॒ , वी॒र्ये॑ण ॥
स्तवा॒ नु त॑ इंद्र पू॒र्व्या म॒हान्यु॒त स्त॑वाम॒ नूत॑ना कृ॒तानि॑ । स्तवा॒ वज्रं॑ बा॒ह्वोरु॒शंतं॒ स्तवा॒ हरी॒ सूर्य॑स्य के॒तू ॥
स्तव॑ , नु , ते॒ , इं॒द्र॒ , पू॒र्व्या , म॒हानि॑ , उ॒त , स्त॒वा॒म॒ , नूत॑ना , कृ॒तानि॑ । स्तव॑ , वज्रं॑ , बा॒ह्वोः , उ॒शंतं॑ , स्तव॑ , हरी॒ इति॑ , सूर्य॑स्य , के॒तू इति॑ ॥
हरी॒ नु त॑ इंद्र वा॒जयं॑ता घृत॒श्चुतं॑ स्वा॒रम॑स्वार्ष्टां । वि स॑म॒ना भूमि॑रप्रथि॒ष्टारं॑स्त॒ पर्व॑तश्चित्सरि॒ष्यन् ॥
हरी॒ इति॑ , नु , ते॒ , इं॒द्र॒ , वा॒जयं॑ता , घृ॒त॒ऽश्चुतं॑ , स्वा॒रं , अ॒स्वा॒र्ष्टां॒ । वि , स॒म॒ना , भूमिः॑ , अ॒प्र॒थि॒ष्ट॒ , अरं॑स्त , पर्व॑तः , चि॒त् , स॒रि॒ष्यन् ॥
नि पर्व॑तः सा॒द्यप्र॑युच्छं॒त्सं मा॒तृभि॑र्वावशा॒नो अ॑क्रान् । दू॒रे पा॒रे वाणीं॑ व॒र्धयं॑त॒ इंद्रे॑षितां ध॒मनिं॑ पप्रथ॒न्नि ॥
नि , पर्व॑तः , सा॒दि॒ , अप्र॑ऽयुच्छन् , सं , मा॒तृऽभिः॑ , वा॒व॒शा॒नः , अ॒क्रा॒न् । दू॒रे , पा॒रे , वाणीं॑ , व॒र्धयं॑तः , इंद्र॑ऽइषितां , ध॒मनिं॑ , प॒प्र॒थ॒न् , नि ॥
इंद्रो॑ म॒हां सिंधु॑मा॒शया॑नं माया॒विनं॑ वृ॒त्रम॑स्फुर॒न्निः । अरे॑जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो॑ अस्य॒ वज्रा॑त् ॥
इंद्रः॑ , म॒हां , सिंधुं॑ , आ॒ऽशया॑नं , मा॒या॒ऽविनं॑ , वृ॒त्रं , अ॒स्फु॒र॒त् , निः । अरे॑जेतां , रोद॑सी॒ इति॑ , भि॒या॒ने इति॑ , कनि॑क्रदतः , वृष्णः॑ , अ॒स्य॒ , वज्रा॑त् ॥
अरो॑रवी॒द्वृष्णो॑ अस्य॒ वज्रोऽमा॑नुषं॒ यन्मानु॑षो नि॒जूर्वा॑त् । नि मा॒यिनो॑ दान॒वस्य॑ मा॒या अपा॑दयत्पपि॒वांत्सु॒तस्य॑ ॥
अरो॑रवीत् , वृष्णः॑ , अ॒स्य॒ , वज्रः॑ , अमा॑नुषं , यत् , मानु॑षः , नि॒ऽजूर्वा॑त् । नि , मा॒यिनः॑ , दा॒न॒वस्य॑ , मा॒याः , अपा॑दयत् , प॒पि॒ऽवान् , सु॒तस्य॑ ॥
पिबा॑पि॒बेदिं॑द्र शूर॒ सोमं॒ मंदं॑तु त्वा मं॒दिनः॑ सु॒तासः॑ । पृ॒णंत॑स्ते कु॒क्षी व॑र्धयंत्वि॒त्था सु॒तः पौ॒र इंद्र॑माव ॥
पिब॑ऽपिब , इत् , इं॒द्र॒ , शू॒र॒ , सोमं॑ , मंदं॑तु , त्वा , मं॒दिनः॑ , सु॒तासः॑ । पृ॒णंतः॑ , ते॒ , कु॒क्षी इति॑ , व॒र्ध॒यं॒तु॒ , इ॒त्था , सु॒तः , पौ॒रः , इंद्रं॑ , आ॒व॒ ॥
त्वे इं॒द्राप्य॑भूम॒ विप्रा॒ धियं॑ वनेम ऋत॒या सपं॑तः । अ॒व॒स्यवो॑ धीमहि॒ प्रश॑स्तिं स॒द्यस्ते॑ रा॒यो दा॒वने॑ स्याम ॥
त्वे इति॑ , इं॒द्र॒ , अपि॑ , अ॒भू॒म॒ , विप्राः॑ , धियं॑ , व॒ने॒म॒ , ऋ॒त॒ऽया , सपं॑तः । अ॒व॒स्यवः॑ , धी॒म॒हि॒ , प्रऽश॑स्तिं , स॒द्यः , ते॒ , रा॒यः , दा॒वने॑ , स्या॒म॒ ॥
स्याम॒ ते त॑ इंद्र॒ ये त॑ ऊ॒ती अ॑व॒स्यव॒ ऊर्जं॑ व॒र्धयं॑तः । शु॒ष्मिंत॑मं॒ यं चा॒कना॑म देवा॒स्मे र॒यिं रा॑सि वी॒रवं॑तं ॥
स्याम॑ , ते , ते॒ , इं॒द्र॒ , ये , ते॒ , ऊ॒ती , अ॒व॒स्यवः॑ , ऊर्जं॑ , व॒र्धयं॑तः । शु॒ष्मिन्ऽत॑मं , यं , चा॒कना॑म , दे॒व॒ , अ॒स्मे इति॑ , र॒यिं , रा॒सि॒ , वी॒रऽवं॑तं ॥
रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इंद्र॒ मारु॑तं नः । स॒जोष॑सो॒ ये च॑ मंदसा॒नाः प्र वा॒यवः॑ पां॒त्यग्र॑णीतिं ॥
रासि॑ , क्षयं॑ , रासि॑ , मि॒त्रं , अ॒स्मे इति॑ , रासि॑ , शर्धः॑ , इं॒द्र॒ , मारु॑तं , नः॒ । स॒ऽजोष॑सः , ये , च॒ , मं॒द॒सा॒नाः , प्र , वा॒यवः॑ , पां॒ति॒ , अग्र॑ऽनीतिं ॥
व्यंत्विन्नु येषु॑ मंदसा॒नस्तृ॒पत्सोमं॑ पाहि द्र॒ह्यदिं॑द्र । अ॒स्मांत्सु पृ॒त्स्वा त॑रु॒त्राव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः ॥
व्यंतु॑ , इत् , नु , येषु॑ , मं॒द॒सा॒नः , तृ॒पत् , सोमं॑ , पा॒हि॒ , द्र॒ह्यत् , इं॒द्र॒ । अ॒स्मान् , सु , पृ॒त्ऽसु , आ , त॒रु॒त्र॒ , अव॑र्धयः , द्यां , बृ॒हत्ऽभिः॑ , अ॒र्कैः ॥
बृ॒हंत॒ इन्नु ये ते॑ तरुत्रो॒क्थेभि॑र्वा सु॒म्नमा॒विवा॑सान् । स्तृ॒णा॒नासो॑ ब॒र्हिः प॒स्त्या॑व॒त्त्वोता॒ इदिं॑द्र॒ वाज॑मग्मन् ॥
बृ॒हंतः॑ , इत् , नु , ये , ते॒ , त॒रु॒त्र॒ , उ॒क्थेभिः॑ , वा॒ , सु॒म्नं , आ॒ऽविवा॑सान् । स्तृ॒णा॒नासः॑ , ब॒र्हिः , प॒स्त्य॑ऽवत् , त्वाऽऊ॑ताः , इत् , इं॒द्र॒ , वाजं॑ , अ॒ग्म॒न् ॥
उ॒ग्रेष्विन्नु शू॑र मंदसा॒नस्त्रिक॑द्रुकेषु पाहि॒ सोम॑मिंद्र । प्र॒दोधु॑व॒च्छ्मश्रु॑षु प्रीणा॒नो या॒हि हरि॑भ्यां सु॒तस्य॑ पी॒तिं ॥
उ॒ग्रेषु॑ , इत् , नु , शू॒र॒ , मं॒द॒सा॒नः , त्रिऽक॑द्रुकेषु , पा॒हि॒ , सोमं॑ , इं॒द्र॒ । प्र॒ऽदोधु॑वत् , श्मश्रु॑षु , प्री॒णा॒नः , या॒हि , हरि॑ऽभ्यां , सु॒तस्य॑ , पी॒तिं ॥
धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भं । अपा॑वृणो॒र्ज्योति॒रार्या॑य॒ नि स॑व्य॒तः सा॑दि॒ दस्यु॑रिंद्र ॥
धि॒ष्व , शवः॑ , शू॒र॒ , येन॑ , वृ॒त्रं , अ॒व॒ऽअभि॑नत् , दानुं॑ , औ॒र्ण॒ऽवा॒भं । अप॑ , अ॒वृ॒णोः॒ , ज्योतिः॑ , आर्या॑य , नि , स॒व्य॒तः , सा॒दि॒ , दस्युः॑ , इं॒द्र॒ ॥
सने॑म॒ ये त॑ ऊ॒तिभि॒स्तरं॑तो॒ विश्वाः॒ स्पृध॒ आर्ये॑ण॒ दस्यू॑न् । अ॒स्मभ्यं॒ तत्त्वा॒ष्ट्रं वि॒श्वरू॑प॒मरं॑धयः सा॒ख्यस्य॑ त्रि॒ताय॑ ॥
सने॑म , ये , ते॒ , ऊ॒तिऽभिः॑ , तरं॑तः , विश्वाः॑ , स्पृधः॑ , आर्ये॑ण , दस्यू॑न् । अ॒स्मभ्यं॑ , तत् , त्वा॒ष्ट्रं , वि॒श्वऽरू॑पं , अरं॑धयः , सा॒ख्यस्य॑ , त्रि॒ताय॑ ॥
अ॒स्य सु॑वा॒नस्य॑ मं॒दिन॑स्त्रि॒तस्य॒ न्यर्बु॑दं वावृधा॒नो अ॑स्तः । अव॑र्तय॒त्सूर्यो॒ न च॒क्रं भि॒नद्व॒लमिंद्रो॒ अंगि॑रस्वान् ॥
अ॒स्य , सु॒वा॒नस्य॑ , मं॒दिनः॑ , त्रि॒तस्य॑ , नि , अर्बु॑दं , व॒वृ॒धा॒नः , अ॒स्त॒रित्य॑स्तः । अव॑र्तयत् , सूर्यः॑ , न , च॒क्रं , भि॒नत् , व॒लं , इंद्रः॑ , अंगि॑रस्वान् ॥
नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ । शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
नू॒नं , सा , ते॒ , प्रति॑ , वरं॑ , ज॒रि॒त्रे , दु॒ही॒यत् , इं॒द्र॒ , दक्षि॑णा , म॒घोनी॑ । शिक्ष॑ , स्तो॒तृऽभ्यः॑ , मा , अति॑ , ध॒क् , भगः॑ , नः॒ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[१२] योजातइति पंचदशर्चस्य सूक्तस्य शौनकोगृत्समद इंद्रस्त्रिष्टुप् |
यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वांदे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत् । यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इंद्रः॑ ॥
यः , जा॒तः , ए॒व , प्र॒थ॒मः , मन॑स्वान् , दे॒वः , दे॒वान् , क्रतु॑ना , प॒रि॒ऽअभू॑षत् । यस्य॑ , शुष्मा॑त् , रोद॑सी॒ इति॑ , अभ्य॑सेतां , नृ॒म्णस्य॑ , म॒ह्ना , सः , ज॒ना॒सः॒ , इंद्रः॑ ॥
यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात् । यो अं॒तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इंद्रः॑ ॥
यः , पृ॒थि॒वीं , व्यथ॑मानां , अदृं॑हत् , यः , पर्व॑तान् , प्रऽकु॑पितान् , अर॑म्णात् । यः , अं॒तरि॑क्षं , वि॒ऽम॒मे , वरी॑यः , यः , द्यां , अस्त॑भ्नात् , सः , ज॒ना॒सः॒ , इंद्रः॑ ॥
यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिंधू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑ । यो अश्म॑नोरं॒तर॒ग्निं ज॒जान॑ सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इंद्रः॑ ॥
यः , ह॒त्वा , अहिं॑ , अरि॑णात् , स॒प्त , सिंधू॑न् , यः , गाः , उ॒त्ऽआज॑त् , अ॒प॒ऽधा , व॒लस्य॑ । यः , अश्म॑नोः , अं॒तः , अ॒ग्निं , ज॒जान॑ , सं॒ऽवृक् , स॒मत्ऽसु॑ , सः , ज॒ना॒सः॒ , इंद्रः॑ ॥
येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑ । श्व॒घ्नीव॒ यो जि॑गी॒वाँल्ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इंद्रः॑ ॥
येन॑ , इ॒मा , विश्वा॑ , च्यव॑ना , कृ॒तानि॑ , यः , दासं॑ , वर्णं॑ , अध॑रं , गुहा॑ , अक॒रित्यकः॑ । श्व॒घ्नीऽइ॑व , यः , जि॒गी॒वान् , ल॒क्षं , आद॑त् , अ॒र्यः , पु॒ष्टानि॑ , सः , ज॒ना॒सः॒ , इंद्रः॑ ॥
यं स्मा॑ पृ॒च्छंति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नं । सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इंद्रः॑ ॥
यं , स्म॒ , पृ॒च्छंति॑ , कुह॑ , सः , इति॑ , घो॒रं , उ॒त , ईं॒ , आ॒हुः॒ , न , ए॒षः , अ॒स्ति॒ , इति॑ , ए॒नं॒ । सः , अ॒र्यः , पु॒ष्टीः , विजः॑ऽइव , आ , मि॒ना॒ति॒ , श्रत् , अ॒स्मै॒ , ध॒त्त॒ , सः , ज॒ना॒सः॒ , इंद्रः॑ ॥
यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः । यु॒क्तग्रा॑व्णो॒ यो॑ऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इंद्रः॑ ॥
यः , र॒ध्रस्य॑ , चो॒दि॒ता , यः , कृ॒शस्य॑ , यः , ब्र॒ह्मणः॑ , नाध॑मानस्य , की॒रेः । यु॒क्तऽग्रा॑व्णः , यः , अ॒वि॒ता , सु॒ऽशि॒प्रः , सु॒तऽसो॑मस्य , सः , ज॒ना॒सः॒ , इंद्रः॑ ॥
यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः । यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इंद्रः॑ ॥
यस्य॑ , अश्वा॑सः , प्र॒ऽदिशि॑ , यस्य॑ , गावः॑ , यस्य॑ , ग्रामाः॑ , यस्य॑ , विश्वे॑ , रथा॑सः । यः , सूर्यं॑ , यः , उ॒षसं॑ , ज॒जान॑ , यः , अ॒पां , ने॒ता , सः , ज॒ना॒सः॒ , इंद्रः॑ ॥
यं क्रंद॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्राः॑ । स॒मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इंद्रः॑ ॥
यं , क्रंद॑सी॒ इति॑ , सं॒य॒ती इति॑ सं॒ऽय॒ती , वि॒ह्वये॑ते॒ इति॑ वि॒ऽह्वये॑ते , परे॑ , अव॑रे , उ॒भयाः॑ , अ॒मित्राः॑ । स॒मा॒नं , चि॒त् , रथं॑ , आ॒त॒स्थि॒ऽवांसा॑ , नाना॑ , ह॒वे॒ते॒ इति॑ , सः , ज॒ना॒सः॒ , इंद्रः॑ ॥
यस्मा॒न्न ऋ॒ते वि॒जयं॑ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हवं॑ते । यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इंद्रः॑ ॥
यस्मा॑त् , न , ऋ॒ते , वि॒ऽजयं॑ते , जना॑सः , यं , युध्य॑मानाः , अव॑से , हवं॑ते । यः , विश्व॑स्य , प्र॒ति॒ऽमानं॑ , ब॒भूव॑ , यः , अ॒च्यु॒त॒ऽच्युत् , सः , ज॒ना॒सः॒ , इंद्रः॑ ॥
यः शश्व॑तो॒ मह्येनो॒ दधा॑ना॒नम॑न्यमानां॒छर्वा॑ ज॒घान॑ । यः शर्ध॑ते॒ नानु॒ददा॑ति शृ॒ध्यां यो दस्यो॑र्हं॒ता स ज॑नास॒ इंद्रः॑ ॥
यः , शश्व॑तः , महि॑ , एनः॑ , दधा॑नान् , अम॑न्यमानान् , शर्वा॑ , ज॒घान॑ । यः , शर्ध॑ते , न , अ॒नु॒ऽददा॑ति , शृ॒ध्यां , यः , दस्योः॑ , हं॒ता , सः , ज॒ना॒सः॒ , इंद्रः॑ ॥
यः शंब॑रं॒ पर्व॑तेषु क्षि॒यंतं॑ चत्वारिं॒श्यां श॒रद्य॒न्वविं॑दत् । ओ॒जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इंद्रः॑ ॥
यः , शंब॑रं , पर्व॑तेषु , क्षि॒यंतं॑ , च॒त्वा॒रिं॒श्यां , श॒रदि॑ , अ॒नु॒ऽअविं॑दत् । ओ॒जा॒यमा॑नं , यः , अहिं॑ , ज॒घान॑ , दानुं॑ , शया॑नं , सः , ज॒ना॒सः॒ , इंद्रः॑ ॥
यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिंधू॑न् । यो रौ॑हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोहं॑तं॒ स ज॑नास॒ इंद्रः॑ ॥
यः , स॒प्तऽर॑श्मिः , वृ॒ष॒भः , तुवि॑ष्मान् , अ॒व॒ऽअसृ॑जत् , सर्त॑वे , स॒प्त , सिंधू॑न् । यः , रौ॒हि॒णं , अस्फु॑रत् , वज्र॑ऽबाहुः , द्यां , आ॒ऽरोहं॑तं , सः , ज॒ना॒सः॒ , इंद्रः॑ ॥
द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयंते । यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इंद्रः॑ ॥
द्यावा॑ , चि॒त् , अ॒स्मै॒ , पृ॒थि॒वी इति॑ , न॒मे॒ते॒ इति॑ , शुष्मा॑त् , चि॒त् , अ॒स्य॒ , पर्व॑ताः , भ॒यं॒ते॒ । यः , सो॒म॒ऽपाः , नि॒ऽचि॒तः , वज्र॑ऽबाहुः , यः , वज्र॑ऽहस्तः , सः , ज॒ना॒सः॒ , इंद्रः॑ ॥
यः सु॒न्वंत॒मव॑ति॒ यः पचं॑तं॒ यः शंसं॑तं॒ यः श॑शमा॒नमू॒ती । यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इंद्रः॑ ॥
यः , सु॒न्वंतं॑ , अव॑ति , यः , पचं॑तं , यः , शंसं॑तं , यः , श॒श॒मा॒नं , ऊ॒ती । यस्य॑ , ब्रह्म॑ , वर्ध॑नं , यस्य॑ , सोमः॑ , यस्य॑ , इ॒दं , राधः॑ , सः , ज॒ना॒सः॒ , इंद्रः॑ ॥
यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः । व॒यं त॑ इंद्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
यः , सु॒न्व॒ते , पच॑ते , दु॒ध्रः , आ , चि॒त् , वाजं॑ , दर्द॑र्षि , सः , किल॑ , अ॒सि॒ , स॒त्यः । व॒यं , ते॒ , इं॒द्र॒ , वि॒श्वह॑ , प्रि॒यासः॑ , सु॒ऽवीरा॑सः , वि॒दथं॑ , आ , व॒दे॒म॒ ॥
[१३] ऋतुर्जनित्रीति त्रयोदशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् |
ऋ॒तुर्जनि॑त्री॒ तस्या॑ अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द्यासु॒ वर्ध॑ते । तदा॑ह॒ना अ॑भवत्पि॒प्युषी॒ पयों॒ऽशोः पी॒यूषं॑ प्रथ॒मं तदु॒क्थ्यं॑ ॥
ऋ॒तुः , जनि॑त्री , तस्याः॑ , अ॒पः , परि॑ , म॒क्षु , जा॒तः , आ , अ॒वि॒श॒त् , यासु॑ , वर्ध॑ते । तत् , आ॒ह॒नाः , अ॒भ॒व॒त् , पि॒प्युषी॑ , पयः॑ , अं॒शोः , पी॒यूषं॑ , प्र॒थ॒मं , तत् , उ॒क्थ्यं॑ ॥
स॒ध्रीमा यं॑ति॒ परि॒ बिभ्र॑तीः॒ पयो॑ वि॒श्वप्स्न्या॑य॒ प्र भ॑रंत॒ भोज॑नं । स॒मा॒नो अध्वा॑ प्र॒वता॑मनु॒ष्यदे॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥
स॒ध्री , ईं॒ , आ , यं॒ति॒ , परि॑ , बिभ्र॑तीः , पयः॑ , वि॒श्वऽप्स्न्या॑य , प्र , भ॒रं॒त॒ , भोज॑नं । स॒मा॒नः , अध्वा॑ , प्र॒ऽवतां॑ , अ॒नु॒ऽस्यदे॑ , यः , ता , अकृ॑णोः , प्र॒थ॒मं , सः , अ॒सि॒ , उ॒क्थ्यः॑ ॥
अन्वेको॑ वदति॒ यद्ददा॑ति॒ तद्रू॒पा मि॒नंतद॑पा॒ एक॑ ईयते । विश्वा॒ एक॑स्य वि॒नुद॑स्तितिक्षते॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥
अनु॑ , एकः॑ , व॒द॒ति॒ , यत् , ददा॑ति , तत् , रू॒पा , मि॒नन् , तत्ऽअ॑पाः , एकः॑ , ई॒य॒ते॒ । विश्वाः॑ , एक॑स्य , वि॒ऽनुदः॑ , ति॒ति॒क्ष॒ते॒ , यः , ता , अकृ॑णोः , प्र॒थ॒मं , सः , अ॒सि॒ , उ॒क्थ्यः॑ ॥
प्र॒जाभ्यः॑ पु॒ष्टिं वि॒भजं॑त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भवं॑तमाय॒ते । असि॑न्वं॒दंष्ट्रैः॑ पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥
प्र॒ऽजाभ्यः॑ , पु॒ष्टिं , वि॒ऽभजं॑तः , आ॒स॒ते॒ , र॒यिंऽइ॑व , पृ॒ष्ठं , प्र॒ऽभवं॑तं , आ॒ऽय॒ते । असि॑न्वन् , दंष्ट्रैः॑ , पि॒तुः , अ॒त्ति॒ , भोज॑नं , यः , ता , अकृ॑णोः , प्र॒थ॒मं , सः , अ॒सि॒ , उ॒क्थ्यः॑ ॥
अधा॑कृणोः पृथि॒वीं सं॒दृशे॑ दि॒वे यो धौ॑ती॒नाम॑हिह॒न्नारि॑णक्प॒थः । तं त्वा॒ स्तोमे॑भिरु॒दभि॒र्न वा॒जिनं॑ दे॒वं दे॒वा अ॑जनं॒त्सास्यु॒क्थ्यः॑ ॥
अध॑ , अ॒कृ॒णोः॒ , पृ॒थि॒वीं , सं॒ऽदृशे॑ , दि॒वे , यः , धौ॒ती॒नां , अ॒हि॒ऽह॒न् , अरि॑णक् , प॒थः । तं , त्वा॒ , स्तोमे॑भिः , उ॒दऽभिः॑ , न , वा॒जिनं॑ , दे॒वं , दे॒वाः , अ॒ज॒न॒न् , सः , अ॒सि॒ , उ॒क्थ्यः॑ ॥
यो भोज॑नं च॒ दय॑से च॒ वर्ध॑नमा॒र्द्रादा शुष्कं॒ मधु॑मद्दु॒दोहि॑थ । स शे॑व॒धिं नि द॑धिषे वि॒वस्व॑ति॒ विश्व॒स्यैक॑ ईशिषे॒ सास्यु॒क्थ्यः॑ ॥
यः , भोज॑नं , च॒ , दय॑से , च॒ , वर्ध॑नं , आ॒र्द्रात् , आ , शुष्कं॑ , मधु॑ऽमत् , दु॒दोहि॑थ । सः , शे॒व॒ऽधिं , नि , द॒धि॒षे॒ , वि॒वस्व॑ति , विश्व॑स्य , एकः॑ , ई॒शि॒षे॒ , सः , अ॒सि॒ , उ॒क्थ्यः॑ ॥
यः पु॒ष्पिणी॑श्च प्र॒स्व॑श्च॒ धर्म॒णाधि॒ दाने॒ व्य१॒॑वनी॒रधा॑रयः । यश्चास॑मा॒ अज॑नो दि॒द्युतो॑ दि॒व उ॒रुरू॒र्वाँ अ॒भितः॒ सास्यु॒क्थ्यः॑ ॥
यः , पु॒ष्पिणीः॑ , च॒ , प्र॒ऽस्वः॑ , च॒ , धर्म॑णा , अधि॑ , दाने॑ , वि , अ॒वनीः॑ , अधा॑रयः । यः , च॒ , अस॑माः , अज॑नः , दि॒द्युतः॑ , दि॒वः , उ॒रुः , ऊ॒र्वान् , अ॒भितः॑ , सः , अ॒सि॒ , उ॒क्थ्यः॑ ॥
यो ना॑र्म॒रं स॒हव॑सुं॒ निहं॑तवे पृ॒क्षाय॑ च दा॒सवे॑शाय॒ चाव॑हः । ऊ॒र्जयं॑त्या॒ अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त्सास्यु॒क्थ्यः॑ ॥
यः , ना॒र्म॒रं , स॒हऽव॑सुं , निऽहं॑तवे , पृ॒क्षाय॑ , च॒ , दा॒सऽवे॑शाय , च॒ , अव॑हः । ऊ॒र्जयं॑त्याः , अप॑रिऽविष्टं , आ॒स्यं॑ , उ॒त , ए॒व , अ॒द्य , पु॒रु॒ऽकृ॒त् , सः , अ॒सि॒ , उ॒क्थ्यः॑ ॥
श॒तं वा॒ यस्य॒ दश॑ सा॒कमाद्य॒ एक॑स्य श्रु॒ष्टौ यद्ध॑ चो॒दमावि॑थ । अ॒र॒ज्जौ दस्यूं॒त्समु॑नब्द॒भीत॑ये सुप्रा॒व्यो॑ अभवः॒ सास्यु॒क्थ्यः॑ ॥
श॒तं , वा॒ , यस्य॑ , दश॑ , सा॒कं , आ , अद्यः॑ , एक॑स्य , श्रु॒ष्टौ , यत् , ह॒ , चो॒दं , आवि॑थ । अ॒र॒ज्जौ , दस्यू॑न् , सं , उ॒न॒प् , द॒भीत॑ये , सु॒प्र॒ऽअ॒व्यः॑ , अ॒भ॒वः॒ , सः , अ॒सि॒ , उ॒क्थ्यः॑ ॥
विश्वेदनु॑ रोध॒ना अ॑स्य॒ पौंस्यं॑ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धनं॑ । षळ॑स्तभ्ना वि॒ष्टिरः॒ पंच॑ सं॒दृशः॒ परि॑ प॒रो अ॑भवः॒ सास्यु॒क्थ्यः॑ ॥
विश्वा॑ , इत् , अनु॑ , रो॒ध॒नाः , अ॒स्य॒ , पौंस्यं॑ , द॒दुः , अ॒स्मै॒ , द॒धि॒रे , कृ॒त्नवे॑ , धनं॑ । षट् , अ॒स्त॒भ्नाः॒ , वि॒ऽस्तिरः॑ , पंच॑ , सं॒ऽदृशः॑ , परि॑ , प॒रः , अ॒भ॒वः॒ , सः , अ॒सि॒ , उ॒क्थ्यः॑ ॥
सु॒प्र॒वा॒च॒नं तव॑ वीर वी॒र्यं१॒॑ यदेके॑न॒ क्रतु॑ना विं॒दसे॒ वसु॑ । जा॒तूष्ठि॑रस्य॒ प्र वयः॒ सह॑स्वतो॒ या च॒कर्थ॒ सेंद्र॒ विश्वा॑स्यु॒क्थ्यः॑ ॥
सु॒ऽप्र॒वा॒च॒नं , तव॑ , वी॒र॒ , वी॒र्यं॑ , यत् , एके॑न , क्रतु॑ना , विं॒दसे॑ , वसु॑ । जा॒तूऽस्थि॑रस्य , प्र , वयः॑ , सह॑स्वतः , या , च॒कर्थ॑ , सः , इं॒द्र॒ , विश्वा॑ , अ॒सि॒ , उ॒क्थ्यः॑ ॥
अर॑मयः॒ सर॑पस॒स्तरा॑य॒ कं तु॒र्वीत॑ये च व॒य्या॑य च स्रु॒तिं । नी॒चा संत॒मुद॑नयः परा॒वृजं॒ प्रांधं श्रो॒णं श्र॒वयं॒त्सास्यु॒क्थ्यः॑ ॥
अर॑मयः , सर॑ऽअपसः , तरा॑य , कं , तु॒र्वीत॑ये , च॒ , व॒य्या॑य , च॒ , स्रु॒तिं । नी॒चा , संतं॑ , उत् , अ॒न॒यः॒ , प॒रा॒ऽवृजं॑ , प्र , अं॒धं , श्रो॒णं , श्र॒वय॑न् , सः , अ॒सि॒ , उ॒क्थ्यः॑ ॥
अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते॑ वस॒व्यं॑ । इंद्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
अ॒स्मभ्यं॑ , तत् , व॒सो॒ इति॑ , दा॒नाय॑ , राधः॑ , सं , अ॒र्थ॒य॒स्व॒ , ब॒हु , ते॒ , व॒स॒व्यं॑ । इंद्र॑ , यत् , चि॒त्रं , श्र॒व॒स्याः , अनु॑ , द्यून् , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[१४] अध्वर्यवइति द्वादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |
अध्व॑र्यवो॒ भर॒तेंद्रा॑य॒ सोम॒माम॑त्रेभिः सिंचता॒ मद्य॒मंधः॑ । का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि ॥
अध्व॑र्यवः , भर॑त , इंद्रा॑य , सोमं॑ , आ , अम॑त्रेभिः , सिं॒च॒त॒ , मद्यं॑ , अंधः॑ । का॒मी , हि , वी॒रः , सदं॑ , अ॒स्य॒ , पी॒तिं , जु॒होत॑ , वृष्णे॑ , तत् , इत् , ए॒षः , व॒ष्टि॒ ॥
अध्व॑र्यवो॒ यो अ॒पो व॑व्रि॒वांसं॑ वृ॒त्रं ज॒घाना॒शन्ये॑व वृ॒क्षं । तस्मा॑ ए॒तं भ॑रत तद्व॒शायँ॑ ए॒ष इंद्रो॑ अर्हति पी॒तिम॑स्य ॥
अध्व॑र्यवः , यः , अ॒पः , व॒व्रि॒ऽवांसं॑ , वृ॒त्रं , ज॒घान॑ , अ॒शन्या॑ऽइव , वृ॒क्षं । तस्मै॑ , ए॒तं , भ॒र॒त॒ , त॒त्ऽव॒शाय॑ , ए॒षः , इंद्रः॑ , अ॒र्ह॒ति॒ , पी॒तिं , अ॒स्य॒ ॥
अध्व॑र्यवो॒ यो दृभी॑कं ज॒घान॒ यो गा उ॒दाज॒दप॒ हि व॒लं वः । तस्मा॑ ए॒तमं॒तरि॑क्षे॒ न वात॒मिंद्रं॒ सोमै॒रोर्णु॑त॒ जूर्न वस्त्रैः॑ ॥
अध्व॑र्यवः , यः , दृभी॑कं , ज॒घान॑ , यः , गाः , उ॒त्ऽआज॑त् , अप॑ , हि , व॒लं , वरिति॒ वः । तस्मै॑ , ए॒तं , अं॒तरि॑क्षे , न , वातं॑ , इंद्रं॑ , सोमैः॒ , आ , ऊ॒र्णु॒त॒ , जूः , न , वस्त्रैः॑ ॥
अध्व॑र्यवो॒ य उर॑णं ज॒घान॒ नव॑ च॒ख्वांसं॑ नव॒तिं च॑ बा॒हून् । यो अर्बु॑द॒मव॑ नी॒चा ब॑बा॒धे तमिंद्रं॒ सोम॑स्य भृ॒थे हि॑नोत ॥
अध्व॑र्यवः , यः , उर॑णं , ज॒घान॑ , नव॑ , च॒ख्वांसं॑ , न॒व॒तिं , च॒ , बा॒हून् । यः , अर्बु॑दं , अव॑ , नी॒चा , ब॒बा॒धे , तं , इंद्रं॑ , सोम॑स्य , भृ॒थे , हि॒नो॒त॒ ॥
अध्व॑र्यवो॒ यः स्वश्नं॑ ज॒घान॒ यः शुष्ण॑म॒शुषं॒ यो व्यं॑सं । यः पिप्रुं॒ नमु॑चिं॒ यो रु॑धि॒क्रां तस्मा॒ इंद्रा॒यांध॑सो जुहोत ॥
अध्व॑र्यवः , यः , सु , अश्नं॑ , ज॒घान॑ , यः , शुष्णं॑ , अ॒शुषं॑ , यः , विऽअं॑सं । यः , पिप्रुं॑ , नमु॑चिं , यः , रु॒धि॒ऽक्रां , तस्मै॑ , इंद्रा॑य , अंध॑सः , जु॒हो॒त॒ ॥
अध्व॑र्यवो॒ यः श॒तं शंब॑रस्य॒ पुरो॑ बि॒भेदाश्म॑नेव पू॒र्वीः । यो व॒र्चिनः॑ श॒तमिंद्रः॑ स॒हस्र॑म॒पाव॑प॒द्भर॑ता॒ सोम॑मस्मै ॥
अध्व॑र्यवः , यः , श॒तं , शंब॑रस्य , पुरः॑ , बि॒भेद॑ , अश्म॑नाऽइव , पू॒र्वीः । यः , व॒र्चिनः॑ , श॒तं , इंद्रः॑ , स॒हस्रं॑ , अ॒प॒ऽअव॑पत् , भर॑त , सोमं॑ , अ॒स्मै॒ ॥
अध्व॑र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या॑ उ॒पस्थेऽव॑पज्जघ॒न्वान् । कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒ सोम॑मस्मै ॥
अध्व॑र्यवः , यः , श॒तं , आ , स॒हस्रं॑ , भूम्याः॑ , उ॒पऽस्थे॑ , अव॑पत् , ज॒घ॒न्वान् । कुत्स॑स्य , आ॒योः , अ॒ति॒थि॒ऽग्वस्य॑ , वी॒रान् , नि , अवृ॑णक् , भर॑त , सोमं॑ , अ॒स्मै॒ ॥
अध्व॑र्यवो॒ यन्न॑रः का॒मया॑ध्वे श्रु॒ष्टी वहं॑तो नशथा॒ तदिंद्रे॑ । गभ॑स्तिपूतं भरत श्रु॒तायेंद्रा॑य॒ सोमं॑ यज्यवो जुहोत ॥
अध्व॑र्यवः , यत् , न॒रः॒ , का॒मया॑ध्वे , श्रु॒ष्टी , वहं॑तः , न॒श॒थ॒ , तत् , इंद्रे॑ । गभ॑स्तिऽपूतं , भ॒र॒त॒ , श्रु॒ताय॑ , इंद्रा॑य॒ , सोमं॑ , य॒ज्य॒वः॒ , जु॒हो॒त॒ ॥
अध्व॑र्यवः॒ कर्त॑ना श्रु॒ष्टिम॑स्मै॒ वने॒ निपू॑तं॒ वन॒ उन्न॑यध्वं । जु॒षा॒णो हस्त्य॑म॒भि वा॑वशे व॒ इंद्रा॑य॒ सोमं॑ मदि॒रं जु॑होत ॥
अध्व॑र्यवः , कर्त॑न , श्रु॒ष्टिं , अ॒स्मै॒ , वने॑ , निऽपू॑तं , वने॑ , उत् , न॒य॒ध्वं॒ । जु॒षा॒णः , हस्त्यं॑ , अ॒भि , वा॒व॒शे॒ , वः॒ , इंद्रा॑य॒ , सोमं॑ , म॒दि॒रं , जु॒हो॒त॒ ॥
अध्व॑र्यवः॒ पय॒सोध॒र्यथा॒ गोः सोमे॑भिरीं पृणता भो॒जमिंद्रं॑ । वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद्दित्सं॑तं॒ भूयो॑ यज॒तश्चि॑केत ॥
अध्व॑र्यवः , पय॑सा , ऊधः॑ , यथा॑ , गोः , सोमे॑भिः , ईं॒ , पृ॒ण॒त॒ , भो॒जं , इंद्रं॑ । वेद॑ , अ॒हं , अ॒स्य॒ , निऽभृ॑तं , मे॒ , ए॒तत् , दित्सं॑तं , भूयः॑ , य॒ज॒तः , चि॒के॒त॒ ॥
अध्व॑र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि॑वस्य॒ क्षम्य॑स्य॒ राजा॑ । तमूर्द॑रं॒ न पृ॑णता॒ यवे॒नेंद्रं॒ सोमे॑भि॒स्तदपो॑ वो अस्तु ॥
अध्व॑र्यवः , यः , दि॒व्यस्य॑ , वस्वः॑ , यः , पार्थि॑वस्य , क्षम्य॑स्य , राजा॑ । तं , ऊर्द॑रं , न , पृ॒ण॒त॒ , यवे॑न , इंद्रं॑ , सोमे॑भिः , तत् , अपः॑ , वः॒ , अ॒स्तु॒ ॥
अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते॑ वस॒व्यं॑ । इंद्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
अ॒स्मभ्यं॑ , तत् , व॒सो॒ इति॑ , दा॒नाय॑ , राधः॑ , सं , अ॒र्थ॒य॒स्व॒ , ब॒हु , ते॒ , व॒स॒व्यं॑ । इंद्र॑ , यत् , चि॒त्रं , श्र॒व॒स्याः , अनु॑ , द्यून् , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[१५] प्रघान्विति दशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |
प्र घा॒ न्व॑स्य मह॒तो म॒हानि॑ स॒त्या स॒त्यस्य॒ कर॑णानि वोचं । त्रिक॑द्रुकेष्वपिबत्सु॒तस्या॒स्य मदे॒ अहि॒मिंद्रो॑ जघान ॥
प्र , घ॒ , नु , अ॒स्य॒ , म॒ह॒तः , म॒हानि॑ , स॒त्या , स॒त्यस्य॑ , कर॑णानि , वो॒चं॒ । त्रिऽक॑द्रुकेषु , अ॒पि॒ब॒त् , सु॒तस्य॑ , अ॒स्य , मदे॑ , अहिं॑ , इंद्रः॑ , ज॒घा॒न॒ ॥
अ॒वं॒शे द्याम॑स्तभायद्बृ॒हंत॒मा रोद॑सी अपृणदं॒तरि॑क्षं । स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥
अ॒वं॒शे , द्यां , अ॒स्त॒भा॒य॒त् , बृ॒हंतं॑ , आ , रोद॑सी॒ इति॑ , अ॒पृ॒ण॒त् , अं॒तरि॑क्षं । सः , धा॒र॒य॒त् , पृ॒थि॒वीं , प॒प्रथ॑त् , च॒ , सोम॑स्य , ता , मदे॑ , इंद्रः॑ , च॒का॒र॒ ॥
सद्मे॑व॒ प्राचो॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीनां॑ । वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥
सद्म॑ऽइव , प्राचः॑ , वि , मि॒मा॒य॒ , मानैः॑ , वज्रे॑ण , खानि॑ , अ॒तृ॒ण॒त् , न॒दीनां॑ । वृथा॑ , अ॒सृ॒ज॒त् , प॒थिऽभिः॑ , दी॒र्घ॒ऽया॒थैः , सोम॑स्य , ता , मदे॑ , इंद्रः॑ , च॒का॒र॒ ॥
स प्र॑वो॒ळ्हॄन्प॑रि॒गत्या॑ द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे अ॒ग्नौ । सं गोभि॒रश्वै॑रसृज॒द्रथे॑भिः॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥
सः , प्र॒ऽवो॒ळ्हॄन् , प॒रि॒ऽगत्य॑ , द॒भीतेः॑ , विश्वं॑ , अ॒धा॒क् , आयु॑धं , इ॒द्धे , अ॒ग्नौ । सं , गोभिः॑ , अश्वैः॑ , अ॒सृ॒ज॒त् , रथे॑भिः , सोम॑स्य , ता , मदे॑ , इंद्रः॑ , च॒का॒र॒ ॥
स ईं॑ म॒हीं धुनि॒मेतो॑ररम्णा॒त्सो अ॑स्ना॒तॄन॑पारयत्स्व॒स्ति । त उ॒त्स्नाय॑ र॒यिम॒भि प्र त॑स्थुः॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥
सः , ईं॒ , म॒हीं , धुनिं॑ , एतोः॑ , अ॒र॒म्णा॒त् , सः , अ॒स्ना॒तॄन् , अ॒पा॒र॒य॒त् , स्व॒स्ति । ते , उ॒त्ऽस्नाय॑ , र॒यिं , अ॒भि , प्र , त॒स्थुः॒ , सोम॑स्य , ता , मदे॑ , इंद्रः॑ , च॒का॒र॒ ॥
सोदं॑चं॒ सिंधु॑मरिणान्महि॒त्वा वज्रे॒णान॑ उ॒षसः॒ सं पि॑पेष । अ॒ज॒वसो॑ ज॒विनी॑भिर्विवृ॒श्चंत्सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥
सः , उदं॑चं , सिंधुं॑ , अ॒रि॒णा॒त् , म॒हि॒ऽत्वा , वज्रे॑ण , अनः॑ , उ॒षसः॑ , सं , पि॒पे॒ष॒ । अ॒ज॒वसः॑ , ज॒विनी॑भिः , वि॒ऽवृ॒श्चन् , सोम॑स्य , ता , मदे॑ , इंद्रः॑ , च॒का॒र॒ ॥
स वि॒द्वाँ अ॑पगो॒हं क॒नीना॑मा॒विर्भव॒न्नुद॑तिष्ठत्परा॒वृक् । प्रति॑ श्रो॒णः स्था॒द्व्य१॒॑नग॑चष्ट॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥
सः , वि॒द्वान् , अ॒प॒ऽगो॒हं , क॒नीनां॑ , आ॒विः , भव॑न् , उत् , अ॒ति॒ष्ठ॒त् , प॒रा॒ऽवृक् । प्रति॑ , श्रो॒णः , स्था॒त् , वि , अ॒नक् , अ॒च॒ष्ट॒ , सोम॑स्य , ता , मदे॑ , इंद्रः॑ , च॒का॒र॒ ॥
भि॒नद्व॒लमंगि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृंहि॒तान्यै॑रत् । रि॒णग्रोधां॑सि कृ॒त्रिमा॑ण्येषां॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥
भि॒नत् , व॒लं , अंगि॑रःऽभिः , गृ॒णा॒नः , वि , पर्व॑तस्य , दृं॒हि॒तानि॑ , ऐ॒र॒त् । रि॒णक् , रोधां॑सि , कृ॒त्रिमा॑णि , ए॒षां॒ , सोम॑स्य , ता , मदे॑ , इंद्रः॑ , च॒का॒र॒ ॥
स्वप्ने॑ना॒भ्युप्या॒ चुमु॑रिं॒ धुनिं॑ च ज॒घंथ॒ दस्युं॒ प्र द॒भीति॑मावः । रं॒भी चि॒दत्र॑ विविदे॒ हिर॑ण्यं॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥
स्वप्ने॑न , अ॒भि॒ऽउप्य॑ , चुमु॑रिं , धुनिं॑ , च॒ , ज॒घंथ॑ , दस्युं॑ , प्र , द॒भीतिं॑ , आ॒वः॒ । रं॒भी , चि॒त् , अत्र॑ , वि॒वि॒दे॒ , हिर॑ण्यं , सोम॑स्य , ता , मदे॑ , इंद्रः॑ , च॒का॒र॒ ॥
नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ । शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
नू॒नं , सा , ते॒ , प्रति॑ , वरं॑ , ज॒रि॒त्रे , दु॒ही॒यत् , इं॒द्र॒ , दक्षि॑णा , म॒घोनी॑ । शिक्ष॑ , स्तो॒तृऽभ्यः॑ , मा , अति॑ , ध॒क् , भगः॑ , नः॒ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[१६] प्रवः सतामिति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रो जगत्यंत्यात्रिष्टुप् |
प्र वः॑ स॒तां ज्येष्ठ॑तमाय सुष्टु॒तिम॒ग्नावि॑व समिधा॒ने ह॒विर्भ॑रे । इंद्र॑मजु॒र्यं ज॒रयं॑तमुक्षि॒तं स॒नाद्युवा॑न॒मव॑से हवामहे ॥
प्र , वः॒ , स॒तां , ज्येष्ठ॑ऽतमाय , सु॒ऽस्तु॒तिं , अ॒ग्नौऽइ॑व , सं॒ऽइ॒धा॒ने , ह॒विः , भ॒रे॒ । इंद्रं॑ , अ॒जु॒र्यं , ज॒रयं॑तं , उ॒क्षि॒तं , स॒नात् , युवा॑नं , अव॑से , ह॒वा॒म॒हे॒ ॥
यस्मा॒दिंद्रा॑द्बृह॒तः किं च॒नेमृ॒ते विश्वा॑न्यस्मिं॒त्संभृ॒ताधि॑ वी॒र्या॑ । ज॒ठरे॒ सोमं॑ त॒न्वी॒३॒॑ सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतुं॑ ॥
यस्मा॑त् , इंद्रा॑त् , बृ॒ह॒तः , किं , च॒न , ईं॒ , ऋ॒ते , विश्वा॑नि , अ॒स्मि॒न् , संऽभृ॑ता , अधि॑ , वी॒र्या॑ । ज॒ठरे॑ , सोमं॑ , त॒न्वि॑ , सहः॑ , महः॑ , हस्ते॑ , वज्रं॑ , भर॑ति , शी॒र्षणि॑ , क्रतुं॑ ॥
न क्षो॒णीभ्यां॑ परि॒भ्वे॑ त इंद्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिंद्र ते॒ रथः॑ । न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभिः॒ पत॑सि॒ योज॑ना पु॒रु ॥
न , क्षो॒णीभ्यां॑ , प॒रि॒ऽभ्वे॑ , ते॒ , इं॒द्रि॒यं , न , स॒मु॒द्रैः , पर्व॑तैः , इं॒द्र॒ , ते॒ , रथः॑ । न , ते॒ , वज्रं॑ , अनु॑ , अ॒श्नो॒ति॒ , कः , च॒न , यत् , आ॒शुऽभिः॑ , पत॑सि , योज॑ना , पु॒रु ॥
विश्वे॒ ह्य॑स्मै यज॒ताय॑ धृ॒ष्णवे॒ क्रतुं॒ भरं॑ति वृष॒भाय॒ सश्च॑ते । वृषा॑ यजस्व ह॒विषा॑ वि॒दुष्ट॑रः॒ पिबें॑द्र॒ सोमं॑ वृष॒भेण॑ भा॒नुना॑ ॥
विश्वे॑ , हि , अ॒स्मै॒ , य॒ज॒ताय॑ , धृ॒ष्णवे॑ , क्रतुं॑ , भरं॑ति , वृ॒ष॒भाय॑ , सश्च॑ते । वृषा॑ , य॒ज॒स्व॒ , ह॒विषा॑ , वि॒दुःऽत॑रः , पिब॑ , इं॒द्र॒ , सोमं॑ , वृ॒ष॒भेण॑ , भा॒नुना॑ ॥
वृष्णः॒ कोशः॑ पवते॒ मध्व॑ ऊ॒र्मिर्वृ॑ष॒भान्ना॑य वृष॒भाय॒ पात॑वे । वृष॑णाध्व॒र्यू वृ॑ष॒भासो॒ अद्र॑यो॒ वृष॑णं॒ सोमं॑ वृष॒भाय॑ सुष्वति ॥
वृष्णः॒ , कोशः॑ , प॒व॒ते॒ , मध्वः॑ , ऊ॒र्मिः , वृ॒ष॒भऽअ॑न्नाय , वृ॒ष॒भाय॑ , पात॑वे । वृष॑णा , अ॒ध्व॒र्यू इति॑ , वृ॒ष॒भासः॑ , अद्र॑यः , वृष॑णं , सोमं॑ , वृ॒ष॒भाय॑ , सु॒स्व॒ति॒ ॥
वृषा॑ ते॒ वज्र॑ उ॒त ते॒ वृषा॒ रथो॒ वृष॑णा॒ हरी॑ वृष॒भाण्यायु॑धा । वृष्णो॒ मद॑स्य वृषभ॒ त्वमी॑शिष॒ इंद्र॒ सोम॑स्य वृष॒भस्य॑ तृप्णुहि ॥
वृषा॑ , ते॒ , वज्रः॑ , उ॒त , ते॒ , वृषा॑ , रथः॑ , वृष॑णा , हरी॒ इति॑ , वृ॒ष॒भाणि॑ , आयु॑धा । वृष्णः॑ , मद॑स्य , वृ॒ष॒भ॒ , त्वं , ई॒शि॒षे॒ , इंद्र॑ , सोम॑स्य , वृ॒ष॒भस्य॑ , तृ॒प्णु॒हि॒ ॥
प्र ते॒ नावं॒ न सम॑ने वच॒स्युवं॒ ब्रह्म॑णा यामि॒ सव॑नेषु॒ दाधृ॑षिः । कु॒विन्नो॑ अ॒स्य वच॑सो नि॒बोधि॑ष॒दिंद्र॒मुत्सं॒ न वसु॑नः सिचामहे ॥
प्र , ते॒ , नावं॑ , न , सम॑ने , व॒च॒स्युवं॑ , ब्रह्म॑णा , या॒मि॒ , सव॑नेषु , दधृ॑षिः । कु॒वित् , नः॒ , अ॒स्य , वच॑सः , नि॒ऽबोधि॑षत् , इंद्रं॑ , उत्सं॑ , न , वसु॑नः , सि॒चा॒म॒हे॒ ॥
पु॒रा सं॑बा॒धाद॒भ्या व॑वृत्स्व नो धे॒नुर्न व॒त्सं यव॑सस्य पि॒प्युषी॑ । स॒कृत्सु ते॑ सुम॒तिभिः॑ शतक्रतो॒ सं पत्नी॑भि॒र्न वृष॑णो नसीमहि ॥
पु॒रा , सं॒ऽबा॒धात् , अ॒भि , आ , व॒वृ॒त्स्व॒ , नः॒ , धे॒नुः , न , व॒त्सं , यव॑सस्य , पि॒प्युषी॑ । स॒कृत् , सु , ते॒ , सु॒म॒तिऽभिः॑ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , सं , पत्नी॑भिः , न , वृष॑णः , न॒सी॒म॒हि॒ ॥
नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ । शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
नू॒नं , सा , ते॒ , प्रति॑ , वरं॑ , ज॒रि॒त्रे , दु॒ही॒यत् , इं॒द्र॒ , दक्षि॑णा , म॒घोनी॑ । शिक्ष॑ , स्तो॒तृऽभ्यः॑ , मा , अति॑ , ध॒क् , भगः॑ , नः॒ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[१७] तदस्माइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रोजगत्यंत्येद्वेत्रिष्टुभौ |
तद॑स्मै॒ नव्य॑मंगिर॒स्वद॑र्चत॒ शुष्मा॒ यद॑स्य प्र॒त्नथो॒दीर॑ते । विश्वा॒ यद्गो॒त्रा सह॑सा॒ परी॑वृता॒ मदे॒ सोम॑स्य दृंहि॒तान्यैर॑यत् ॥
तत् , अ॒स्मै॒ , नव्यं॑ , अं॒गि॒र॒स्वत् , अ॒र्च॒त॒ , शुष्माः॑ , यत् , अ॒स्य॒ , प्र॒त्नऽथा॑ , उ॒त्ऽईर॑ते । विश्वा॑ , यत् , गो॒त्रा , सह॑सा , परि॑ऽवृता , मदे॑ , सोम॑स्य , दृं॒हि॒तानि॑ , ऐर॑यत् ॥
स भू॑तु॒ यो ह॑ प्रथ॒माय॒ धाय॑स॒ ओजो॒ मिमा॑नो महि॒मान॒माति॑रत् । शूरो॒ यो यु॒त्सु त॒न्वं॑ परि॒व्यत॑ शी॒र्षणि॒ द्यां म॑हि॒ना प्रत्य॑मुंचत ॥
सः , भू॒तु॒ , यः , ह॒ , प्र॒थ॒माय॑ , धाय॑से , ओजः॑ , मिमा॑नः , म॒हि॒मानं॑ , आ , अति॑रत् । शूरः॑ , यः , यु॒त्ऽसु , त॒न्वं॑ , प॒रि॒ऽव्यत॑ , शी॒र्षणि॑ , द्यां , म॒हि॒ना , प्रति॑ , अ॒मुं॒च॒त॒ ॥
अधा॑कृणोः प्रथ॒मं वी॒र्यं॑ म॒हद्यद॒स्याग्रे॒ ब्रह्म॑णा॒ शुष्म॒मैर॑यः । र॒थे॒ष्ठेन॒ हर्य॑श्वेन॒ विच्यु॑ताः॒ प्र जी॒रयः॑ सिस्रते स॒ध्र्य१॒॑क्पृथ॑क् ॥
अध॑ , अ॒कृ॒णोः॒ , प्र॒थ॒मं , वी॒र्यं॑ , म॒हत् , यत् , अ॒स्य॒ , अग्रे॑ , ब्रह्म॑णा , शुष्मं॑ , ऐर॑यः । र॒थे॒ऽस्थेन॑ , हरि॑ऽअश्वेन , विऽच्यु॑ताः , प्र , जी॒रयः॑ , सि॒स्र॒ते॒ , स॒ध्र्य॑क् , पृथ॑क् ॥
अधा॒ यो विश्वा॒ भुव॑ना॒भि म॒ज्मने॑शान॒कृत्प्रव॑या अ॒भ्यव॑र्धत । आद्रोद॑सी॒ ज्योति॑षा॒ वह्नि॒रात॑नो॒त्सीव्यं॒तमां॑सि॒ दुधि॑ता॒ सम॑व्ययत् ॥
अध॑ , यः , विश्वा॑ , भुव॑ना , अ॒भि , म॒ज्मना॑ , ई॒शा॒न॒ऽकृत् , प्रऽव॑याः , अ॒भि , अव॑र्धत । आत् , रोद॑सी॒ इति॑ , ज्योति॑षा , वह्निः॑ , आ , अ॒त॒नो॒त् , सीव्य॑न् , तमां॑सि , दुधि॑ता , सं , अ॒व्य॒य॒त् ॥
स प्रा॒चीना॒न्पर्व॑तांदृंह॒दोज॑साधरा॒चीन॑मकृणोद॒पामपः॑ । अधा॑रयत्पृथि॒वीं वि॒श्वधा॑यस॒मस्त॑भ्नान्मा॒यया॒ द्याम॑व॒स्रसः॑ ॥
सः , प्रा॒चीना॑न् , पर्व॑तान् , दृं॒ह॒त् , ओज॑सा , अ॒ध॒रा॒चीनं॑ , अ॒कृ॒णो॒त् , अ॒पां , अपः॑ । अधा॑रयत् , पृ॒थि॒वीं , वि॒श्वऽधा॑यसं , अस्त॑भ्नात् , मा॒यया॑ , द्यां , अ॒व॒ऽस्रसः॑ ॥
सास्मा॒ अरं॑ बा॒हुभ्यां॒ यं पि॒ताकृ॑णो॒द्विश्व॑स्मा॒दा ज॒नुषो॒ वेद॑स॒स्परि॑ । येना॑ पृथि॒व्यां नि क्रिविं॑ श॒यध्यै॒ वज्रे॑ण ह॒त्व्यवृ॑णक्तुवि॒ष्वणिः॑ ॥
सः , अ॒स्मै॒ , अरं॑ , बा॒हुऽभ्यां॑ , यं , पि॒ता , अकृ॑णोत् , विश्व॑स्मात् , आ , ज॒नुषः॑ , वेद॑सः , परि॑ । येन॑ , पृ॒थि॒व्यां , नि , क्रिविं॑ , श॒यध्यै॑ , वज्रे॑ण , ह॒त्वी , अवृ॑णक् , तु॒वि॒ऽस्वनिः॑ ॥
अ॒मा॒जूरि॑व पि॒त्रोः सचा॑ स॒ती स॑मा॒नादा सद॑स॒स्त्वामि॑ये॒ भगं॑ । कृ॒धि प्र॑के॒तमुप॑ मा॒स्या भ॑र द॒द्धि भा॒गं त॒न्वो॒३॒॑ येन॑ मा॒महः॑ ॥
अ॒मा॒जूःऽइ॑व , पि॒त्रोः , सचा॑ , स॒ती , स॒मा॒नात् , आ , सद॑सः , त्वां , इ॒ये॒ , भगं॑ । कृ॒धि , प्र॒ऽके॒तं , उप॑ , मा॒सि॒ , आ , भ॒र॒ , द॒द्धि , भा॒गं , त॒न्वः॑ , येन॑ , म॒महः॑ ॥
भो॒जं त्वामिं॑द्र व॒यं हु॑वेम द॒दिष्ट्वमिं॒द्रापां॑सि॒ वाजा॑न् । अ॒वि॒ड्ढीं॑द्र चि॒त्रया॑ न ऊ॒ती कृ॒धि वृ॑षन्निंद्र॒ वस्य॑सो नः ॥
भो॒जं , त्वां , इं॒द्र॒ , व॒यं , हु॒वे॒म॒ , द॒दिः , त्वं , इं॒द्र॒ , अपां॑सि , वाजा॑न् । अ॒वि॒ड्ढि , इं॒द्र॒ , चि॒त्रया॑ , नः॒ , ऊ॒ती , कृ॒धि , वृ॒ष॒न् , इं॒द्र॒ , वस्य॑सः , नः॒ ॥
नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ । शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
नू॒नं , सा , ते॒ , प्रति॑ , वरं॑ , ज॒रि॒त्रे , दु॒ही॒यत् , इं॒द्र॒ , दक्षि॑णा , म॒घोनी॑ । शिक्ष॑ , स्तो॒तृऽभ्यः॑ , मा , अति॑ , ध॒क् , भगः॑ , नः॒ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[१८] प्रातारथइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |
प्रा॒ता रथो॒ नवो॑ योजि॒ सस्नि॒श्चतु॑र्युगस्त्रिक॒शः स॒प्तर॑श्मिः । दशा॑रित्रो मनु॒ष्यः॑ स्व॒र्षाः स इ॒ष्टिभि॑र्म॒तिभी॒ रंह्यो॑ भूत् ॥
प्रा॒तरिति॑ , रथः॑ , नवः॑ , यो॒जि॒ , सस्निः॑ , चतुः॑ऽयुगः , त्रि॒ऽक॒शः , स॒प्तऽर॑श्मिः । दश॑ऽअरित्रः , म॒नु॒ष्यः॑ , स्वः॒ऽसाः , सः , इ॒ष्टिऽभिः॑ , म॒तिऽभिः॑ , रंह्यः॑ , भू॒त् ॥
सास्मा॒ अरं॑ प्रथ॒मं स द्वि॒तीय॑मु॒तो तृ॒तीयं॒ मनु॑षः॒ स होता॑ । अ॒न्यस्या॒ गर्भ॑म॒न्य ऊ॑ जनंत॒ सो अ॒न्येभिः॑ सचते॒ जेन्यो॒ वृषा॑ ॥
सः , अ॒स्मै॒ , अरं॑ , प्र॒थ॒मं , सः , द्वि॒तीयं॑ , उ॒तो इति॑ , तृ॒तीयं॑ , मनु॑षः , सः , होता॑ । अ॒न्यस्याः॑ , गर्भं॑ , अ॒न्ये , ऊँ॒ इति॑ , ज॒नं॒त॒ , सः , अ॒न्येभिः॑ , स॒च॒ते॒ , जेन्यः॑ , वृषा॑ ॥
हरी॒ नु कं॒ रथ॒ इंद्र॑स्य योजमा॒यै सू॒क्तेन॒ वच॑सा॒ नवे॑न । मो षु त्वामत्र॑ ब॒हवो॒ हि विप्रा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये ॥
हरी॒ इति॑ , नु , कं॒ , रथे॑ , इंद्र॑स्य , यो॒जं॒ , आ॒ऽयै , सु॒ऽउ॒क्तेन॑ , वच॑सा , नवे॑न । मो इति॑ , सु , त्वां , अत्र॑ , ब॒हवः॑ , हि , विप्राः॑ , नि , री॒र॒म॒न् , यज॑मानासः , अ॒न्ये ॥
आ द्वाभ्यां॒ हरि॑भ्यामिंद्र या॒ह्या च॒तुर्भि॒रा ष॒ड्भिर्हू॒यमा॑नः । आष्टा॒भिर्द॒शभिः॑ सोम॒पेय॑म॒यं सु॒तः सु॑मख॒ मा मृध॑स्कः ॥
आ , द्वाभ्यां॑ , हरि॑ऽभ्यां , इं॒द्र॒ , या॒हि॒ , आ , च॒तुःऽभिः॑ , आ , ष॒ट्ऽभिः , हू॒यमा॑नः । आ , अ॒ष्टा॒भिः , द॒शऽभिः॑ , सो॒म॒ऽपेयं॑ , अ॒यं , सु॒तः , सु॒ऽम॒ख॒ , मा , मृधः॑ , क॒रिति॑ कः ॥
आ विं॑श॒त्या त्रिं॒शता॑ याह्य॒र्वाङा च॑त्वारिं॒शता॒ हरि॑भिर्युजा॒नः । आ पं॑चा॒शता॑ सु॒रथे॑भिरिं॒द्रा ष॒ष्ट्या स॑प्त॒त्या सो॑म॒पेयं॑ ॥
आ , विं॒श॒त्या , त्रिं॒शता॑ , या॒हि॒ , अ॒र्वाङ् , आ , च॒त्वा॒रिं॒शता॑ , हरि॑ऽभिः , यु॒जा॒नः । आ , पं॒चा॒शता॑ , सु॒ऽरथे॑भिः , इं॒द्र॒ , आ , ष॒ष्ट्या , स॒प्त॒त्या , सो॒म॒ऽपेयं॑ ॥
आशी॒त्या न॑व॒त्या या॑ह्य॒र्वाङा श॒तेन॒ हरि॑भिरु॒ह्यमा॑नः । अ॒यं हि ते॑ शु॒नहो॑त्रेषु॒ सोम॒ इंद्र॑ त्वा॒या परि॑षिक्तो॒ मदा॑य ॥
आ , अ॒शी॒त्या , न॒व॒त्या , या॒हि॒ , अ॒र्वाङ् , आ , श॒तेन॑ , हरि॑ऽभिः , उ॒ह्यमा॑नः । अ॒यं , हि , ते॒ , शु॒नऽहो॑त्रेषु , सोमः॑ , इंद्र॑ , त्वा॒ऽया , परि॑ऽसिक्तः , मदा॑य ॥
मम॒ ब्रह्में॑द्र या॒ह्यच्छा॒ विश्वा॒ हरी॑ धु॒रि धि॑ष्वा॒ रथ॑स्य । पु॒रु॒त्रा हि वि॒हव्यो॑ ब॒भूथा॒स्मिंछू॑र॒ सव॑ने मादयस्व ॥
मम॑ , ब्रह्म॑ , इं॒द्र॒ , या॒हि॒ , अच्छ॑ , विश्वा॑ , हरी॒ इति॑ , धु॒रि , धि॒ष्व॒ , रथ॑स्य । पु॒रु॒ऽत्रा , हि , वि॒ऽहव्यः॑ , ब॒भूथ॑ , अ॒स्मिन् , शू॒र॒ , सव॑ने , मा॒द॒य॒स्व॒ ॥
न म॒ इंद्रे॑ण स॒ख्यं वि यो॑षद॒स्मभ्य॑मस्य॒ दक्षि॑णा दुहीत । उप॒ ज्येष्ठे॒ वरू॑थे॒ गभ॑स्तौ प्रा॒येप्रा॑ये जिगी॒वांसः॑ स्याम ॥
न , मे॒ , इंद्रे॑ण , स॒ख्यं , वि , यो॒ष॒त् , अ॒स्मभ्यं॑ , अ॒स्य॒ , दक्षि॑णा , दु॒ही॒त॒ । उप॑ , ज्येष्ठे॑ , वरू॑थे , गभ॑स्तौ , प्रा॒येऽप्रा॑ये , जि॒गी॒वांसः॑ , स्या॒म॒ ॥
नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ । शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
नू॒नं , सा , ते॒ , प्रति॑ , वरं॑ , ज॒रि॒त्रे , दु॒ही॒यत् , इं॒द्र॒ , दक्षि॑णा , म॒घोनी॑ । शिक्ष॑ , स्तो॒तृऽभ्यः॑ , मा , अति॑ , ध॒क् , भगः॑ , नः॒ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[१९] अपाय्यस्येति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् |
अपा॑य्य॒स्यांध॑सो॒ मदा॑य॒ मनी॑षिणः सुवा॒नस्य॒ प्रय॑सः । यस्मि॒न्निंद्रः॑ प्र॒दिवि॑ वावृधा॒न ओको॑ द॒धे ब्र॑ह्म॒ण्यंत॑श्च॒ नरः॑ ॥
अपा॑यि , अ॒स्य , अंध॑सः , मदा॑य , मनी॑षिणः , सु॒वा॒नस्य॑ , प्रय॑सः । यस्मि॑न् , इंद्रः॑ , प्र॒ऽदिवि॑ , व॒वृ॒धा॒नः , ओकः॑ , द॒धे , ब्र॒ह्म॒ण्यंतः॑ , च॒ , नरः॑ ॥
अ॒स्य मं॑दा॒नो मध्वो॒ वज्र॑ह॒स्तोऽहि॒मिंद्रो॑ अर्णो॒वृतं॒ वि वृ॑श्चत् । प्र यद्वयो॒ न स्वस॑रा॒ण्यच्छा॒ प्रयां॑सि च न॒दीनां॒ चक्र॑मंत ॥
अ॒स्य , मं॒दा॒नः , मध्वः॑ , वज्र॑ऽहस्तः , अहिं॑ , इंद्रः॑ , अ॒र्णः॒ऽवृतं॑ , वि , वृ॒श्च॒त् । प्र , यत् , वयः॑ , न , स्वस॑राणि , अच्छ॑ , प्रयां॑सि , च॒ , न॒दीनां॑ , चक्र॑मंत ॥
स माहि॑न॒ इंद्रो॒ अर्णो॑ अ॒पां प्रैर॑यदहि॒हाच्छा॑ समु॒द्रं । अज॑नय॒त्सूर्यं॑ वि॒दद्गा अ॒क्तुनाह्नां॑ व॒युना॑नि साधत् ॥
सः , माहि॑नः , इंद्रः॑ , अर्णः॑ , अ॒पां , प्र , ऐ॒र॒य॒त् , अ॒हि॒ऽहा , अच्छ॑ , स॒मु॒द्रं । अज॑नयत् , सूर्यं॑ , वि॒दत् , गाः , अ॒क्तुना॑ , अह्नां॑ , व॒युना॑नि , सा॒ध॒त् ॥
सो अ॑प्र॒तीनि॒ मन॑वे पु॒रूणींद्रो॑ दाशद्दा॒शुषे॒ हंति॑ वृ॒त्रं । स॒द्यो यो नृभ्यो॑ अत॒साय्यो॒ भूत्प॑स्पृधा॒नेभ्यः॒ सूर्य॑स्य सा॒तौ ॥
सः , अ॒प्र॒तीनि॑ , मन॑वे , पु॒रूणि॑ , इंद्रः॑ , दा॒श॒त् , दा॒शुषे॑ , हंति॑ , वृ॒त्रं । स॒द्यः , यः , नृऽभ्यः॑ , अ॒त॒साय्यः॑ , भूत् , प॒स्पृ॒धा॒नेभ्यः॑ , सूर्य॑स्य , सा॒तौ ॥
स सु॑न्व॒त इंद्रः॒ सूर्य॒मा दे॒वो रि॑ण॒ङ्मर्त्या॑य स्त॒वान् । आ यद्र॒यिं गु॒हद॑वद्यमस्मै॒ भर॒दंशं॒ नैत॑शो दश॒स्यन् ॥
सः , सु॒न्व॒ते , इंद्रः॑ , सूर्यं॑ , आ , दे॒वः , रि॒ण॒क् , मर्त्या॑य , स्त॒वान् । आ , यत् , र॒यिं , गु॒हत्ऽअ॑वद्यं , अ॒स्मै॒ , भर॑त् , अंशं॑ , न , एत॑शः , द॒श॒स्यन् ॥
स रं॑धयत्स॒दिवः॒ सार॑थये॒ शुष्ण॑म॒शुषं॒ कुय॑वं॒ कुत्सा॑य । दिवो॑दासाय नव॒तिं च॒ नवेंद्रः॒ पुरो॒ व्यै॑र॒च्छंब॑रस्य ॥
सः , रं॒ध॒य॒त् , स॒ऽदिवः॑ , सार॑थये , शुष्णं॑ , अ॒शुषं॑ , कुय॑वं , कुत्सा॑य । दिवः॑ऽदासाय , न॒व॒तिं , च॒ , नव॑ , इंद्रः॑ , पुरः॑ , वि , ऐ॒र॒त् , शंब॑रस्य ॥
ए॒वा त॑ इंद्रो॒चथ॑महेम श्रव॒स्या न त्मना॑ वा॒जयं॑तः । अ॒श्याम॒ तत्साप्त॑माशुषा॒णा न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥
ए॒व , ते॒ , इं॒द्र॒ , उ॒चथं॑ , अ॒हे॒म॒ , श्र॒व॒स्या , न , त्मना॑ , वा॒जयं॑तः । अ॒श्याम॑ , तत् , साप्तं॑ , आ॒शु॒षा॒णाः , न॒नमः॑ , वधः॑ , अदे॑वस्य , पी॒योः ॥
ए॒वा ते॑ गृत्सम॒दाः शू॑र॒ मन्मा॑व॒स्यवो॒ न व॒युना॑नि तक्षुः । ब्र॒ह्म॒ण्यंत॑ इंद्र ते॒ नवी॑य॒ इष॒मूर्जं॑ सुक्षि॒तिं सु॒म्नम॑श्युः ॥
ए॒व , ते॒ , गृ॒त्स॒ऽम॒दाः , शू॒र॒ , मन्म॑ , अ॒व॒स्यवः॑ , न , व॒युना॑नि , त॒क्षुः॒ । ब्र॒ह्म॒ण्यंतः॑ , इं॒द्र॒ , ते॒ , नवी॑यः , इषं॑ , ऊर्जं॑ , सु॒ऽक्षि॒तिं , सु॒म्नं , अ॒श्युः॒ ॥
नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ । शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
नू॒नं , सा , ते॒ , प्रति॑ , वरं॑ , ज॒रि॒त्रे , दु॒ही॒यत् , इं॒द्र॒ , दक्षि॑णा , म॒घोनी॑ । शिक्ष॑ , स्तो॒तृऽभ्यः॑ , मा , अति॑ , ध॒क् , भगः॑ , नः॒ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[२०] वयंतइति नवर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रस्त्रिष्टुप् तृतीयाविराड्रूपा |
व॒यं ते॒ वय॑ इंद्र वि॒द्धि षु णः॒ प्र भ॑रामहे वाज॒युर्न रथं॑ । वि॒प॒न्यवो॒ दीध्य॑तो मनी॒षा सु॒म्नमिय॑क्षंत॒स्त्वाव॑तो॒ नॄन् ॥
व॒यं , ते॒ , वयः॑ , इं॒द्र॒ , वि॒द्धि , सु , नः॒ , प्र , भ॒रा॒म॒हे॒ , वा॒ज॒ऽयुः , न , रथं॑ । वि॒प॒न्यवः॑ , दीध्य॑तः , म॒नी॒षा , सु॒म्नं , इय॑क्षंतः , त्वाऽव॑तः , नॄन् ॥
त्वं न॑ इंद्र॒ त्वाभि॑रू॒ती त्वा॑य॒तो अ॑भिष्टि॒पासि॒ जना॑न् । त्वमि॒नो दा॒शुषो॑ वरू॒तेत्थाधी॑र॒भि यो नक्ष॑ति त्वा ॥
त्वं , नः॒ , इं॒द्र॒ , त्वाभिः॑ , ऊ॒ती , त्वा॒ऽय॒तः , अ॒भि॒ष्टि॒ऽपा , अ॒सि॒ , जना॑न् । त्वं , इ॒नः , दा॒शुषः॑ , व॒रू॒ता , इ॒त्थाऽधीः॑ , अ॒भि , यः , नक्ष॑ति , त्वा॒ ॥
स नो॒ युवेंद्रो॑ जो॒हूत्रः॒ सखा॑ शि॒वो न॒राम॑स्तु पा॒ता । यः शंसं॑तं॒ यः श॑शमा॒नमू॒ती पचं॑तं च स्तु॒वंतं॑ च प्र॒णेष॑त् ॥
सः , नः॒ , युवा॑ , इंद्रः॑ , जो॒हूत्रः॑ , सखा॑ , शि॒वः , न॒रां , अ॒स्तु॒ , पा॒ता । यः , शंसं॑तं , यः , श॒श॒मा॒नं , ऊ॒ती , पचं॑तं , च॒ , स्तु॒वंतं॑ , च॒ , प्र॒ऽनेष॑त् ॥
तमु॑ स्तुष॒ इंद्रं॒ तं गृ॑णीषे॒ यस्मि॑न्पु॒रा वा॑वृ॒धुः शा॑श॒दुश्च॑ । स वस्वः॒ कामं॑ पीपरदिया॒नो ब्र॑ह्मण्य॒तो नूत॑नस्या॒योः ॥
तं , ऊँ॒ इति॑ , स्तु॒षे॒ , इंद्रं॑ , तं , गृ॒णी॒षे॒ , यस्मि॑न् , पु॒रा , व॒वृ॒धुः , शा॒श॒दुः , च॒ । सः , वस्वः॑ , कामं॑ , पी॒प॒र॒त् , इ॒या॒नः , ब्र॒ह्म॒ण्य॒तः , नूत॑नस्य , आ॒योः ॥
सो अंगि॑रसामु॒चथा॑ जुजु॒ष्वान्ब्रह्मा॑ तूतो॒दिंद्रो॑ गा॒तुमि॒ष्णन् । मु॒ष्णन्नु॒षसः॒ सूर्ये॑ण स्त॒वानश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥
सः , अंगि॑रसां , उ॒चथा॑ , जु॒जु॒ष्वान् , ब्रह्म॑ , तू॒तो॒त् , इंद्रः॑ , गा॒तुं , इ॒ष्णन् । मु॒ष्णन् , उ॒षसः॑ , सूर्ये॑ण , स्त॒वान् , अश्न॑स्य , चि॒त् , शि॒श्न॒थ॒त् , पू॒र्व्याणि॑ ॥
स ह॑ श्रु॒त इंद्रो॒ नाम॑ दे॒व ऊ॒र्ध्वो भु॑व॒न्मनु॑षे द॒स्मत॑मः । अव॑ प्रि॒यम॑र्शसा॒नस्य॑ सा॒ह्वांछिरो॑ भरद्दा॒सस्य॑ स्व॒धावा॑न् ॥
सः , ह॒ , श्रु॒तः , इंद्रः॑ , नाम॑ , दे॒वः , ऊ॒र्ध्वः , भु॒व॒त् , मनु॑षे , द॒स्मऽत॑मः । अव॑ , प्रि॒यं , अ॒र्श॒सा॒नस्य॑ , स॒ह्वान् , शिरः॑ , भ॒र॒त् , दा॒सस्य॑ , स्व॒धाऽवा॑न् ॥
स वृ॑त्र॒हेंद्रः॑ कृ॒ष्णयो॑नीः पुरंद॒रो दासी॑रैरय॒द्वि । अज॑नय॒न्मन॑वे॒ क्षाम॒पश्च॑ स॒त्रा शंसं॒ यज॑मानस्य तूतोत् ॥
सः , वृ॒त्र॒ऽहा , इंद्रः॑ , कृ॒ष्णऽयो॑नीः , पु॒रं॒ऽद॒रः , दासीः॑ , ऐ॒र॒य॒त् , वि । अज॑नयत् , मन॑वे , क्षां॒ , अ॒पः , च॒ , स॒त्रा , शंसं॑ , यज॑मानस्य , तू॒तो॒त् ॥
तस्मै॑ तव॒स्य१॒॑मनु॑ दायि स॒त्रेंद्रा॑य दे॒वेभि॒रर्ण॑सातौ । प्रति॒ यद॑स्य॒ वज्रं॑ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न्पुर॒ आय॑सी॒र्नि ता॑रीत् ॥
तस्मै॑ , त॒व॒स्यं॑ , अनु॑ , दा॒यि॒ , स॒त्रा , इंद्रा॑य , दे॒वेभिः॑ , अर्ण॑ऽसातौ । प्रति॑ , यत् , अ॒स्य॒ , वज्रं॑ , बा॒ह्वोः , धुः , ह॒त्वी , दस्यू॑न् , पुरः॑ , आय॑सीः , नि , ता॒री॒त् ॥
नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ । शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
नू॒नं , सा , ते॒ , प्रति॑ , वरं॑ , ज॒रि॒त्रे , दु॒ही॒यत् , इं॒द्र॒ , दक्षि॑णा , म॒घोनी॑ । शिक्ष॑ , स्तो॒तृऽभ्यः॑ , मा , अति॑ , ध॒क् , भगः॑ , नः॒ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[२१] विश्वजित इति षडृचस्य सूक्तस्यशौनकोगृत्समदइंद्रोजगत्यंत्यात्रिष्टुप् |
वि॒श्व॒जिते॑ धन॒जिते॑ स्व॒र्जिते॑ सत्रा॒जिते॑ नृ॒जित॑ उर्वरा॒जिते॑ । अ॒श्व॒जिते॑ गो॒जिते॑ अ॒ब्जिते॑ भ॒रेंद्रा॑य॒ सोमं॑ यज॒ताय॑ हर्य॒तं ॥
वि॒श्व॒ऽजिते॑ , ध॒न॒ऽजिते॑ , स्वः॒ऽजिते॑ , स॒त्रा॒ऽजिते॑ , नृ॒ऽजिते॑ , उ॒र्व॒रा॒ऽजिते॑ । अ॒श्व॒ऽजिते॑ , गो॒ऽजिते॑ , अ॒प्ऽजिते॑ , भ॒र॒ , इंद्रा॑य , सोमं॑ , य॒ज॒ताय॑ , ह॒र्य॒तं ॥
अ॒भि॒भुवे॑ऽभिभं॒गाय॑ वन्व॒तेऽषा॑ळ्हाय॒ सह॑मानाय वे॒धसे॑ । तु॒वि॒ग्रये॒ वह्न॑ये दु॒ष्टरी॑तवे सत्रा॒साहे॒ नम॒ इंद्रा॑य वोचत ॥
अ॒भि॒ऽभुवे॑ , अ॒भि॒ऽभं॒गाय॑ , व॒न्व॒ते , अषा॑ळ्हाय , सह॑मानाय , वे॒धसे॑ । तु॒वि॒ऽग्रये॑ , वह्न॑ये , दु॒स्तरी॑तवे , स॒त्रा॒ऽसहे॑ , नमः॑ , इंद्रा॑य , वो॒च॒त॒ ॥
स॒त्रा॒सा॒हो ज॑नभ॒क्षो ज॑नंस॒हश्च्यव॑नो यु॒ध्मो अनु॒ जोष॑मुक्षि॒तः । वृ॒तं॒च॒यः सहु॑रिर्वि॒क्ष्वा॑रि॒त इंद्र॑स्य वोचं॒ प्र कृ॒तानि॑ वी॒र्या॑ ॥
स॒त्रा॒ऽस॒हः , ज॒न॒ऽभ॒क्षः , ज॒नं॒ऽस॒हः , च्यव॑नः , यु॒ध्मः , अनु॑ , जोषं॑ , उ॒क्षि॒तः । वृ॒तं॒ऽच॒यः , सहु॑रिः , वि॒क्षु , आ॒रि॒तः , इंद्र॑स्य , वोचं॑ , प्र , कृ॒तानि॑ , वी॒र्या॑ ॥
अ॒ना॒नु॒दो वृ॑ष॒भो दोध॑तो व॒धो गं॑भी॒र ऋ॒ष्वो अस॑मष्टकाव्यः । र॒ध्र॒चो॒दः श्नथ॑नो वीळि॒तस्पृ॒थुरिंद्रः॑ सुय॒ज्ञ उ॒षसः॒ स्व॑र्जनत् ॥
अ॒न॒नु॒ऽदः , वृ॒ष॒भः , दोध॑तः , व॒धः , गं॒भी॒रः , ऋ॒ष्वः , अस॑मष्टऽकाव्यः । र॒ध्र॒ऽचो॒दः , श्नथ॑नः , वी॒ळि॒तः , पृ॒थुः , इंद्रः॑ , सु॒ऽय॒ज्ञः , उ॒षसः॑ , स्वः॑ , ज॒न॒त् ॥
य॒ज्ञेन॑ गा॒तुम॒प्तुरो॑ विविद्रिरे॒ धियो॑ हिन्वा॒ना उ॒शिजो॑ मनी॒षिणः॑ । अ॒भि॒स्वरा॑ नि॒षदा॒ गा अ॑व॒स्यव॒ इंद्रे॑ हिन्वा॒ना द्रवि॑णान्याशत ॥
य॒ज्ञेन॑ , गा॒तुं , अ॒प्ऽतुरः॑ , वि॒वि॒द्रि॒रे॒ , धियः॑ , हि॒न्वा॒नाः , उ॒शिजः॑ , म॒नी॒षिणः॑ । अ॒भि॒ऽस्वरा॑ , नि॒ऽसदा॑ , गाः , अ॒व॒स्यवः॑ , इंद्रे॑ , हि॒न्वा॒नाः , द्रवि॑णानि , आ॒श॒त॒ ॥
इंद्र॒ श्रेष्ठा॑नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे । पोषं॑ रयी॒णामरि॑ष्टिं त॒नूनां॑ स्वा॒द्मानं॑ वा॒चः सु॑दिन॒त्वमह्नां॑ ॥
इंद्र॑ , श्रेष्ठा॑नि , द्रवि॑णानि , धे॒हि॒ , चित्तिं॑ , दक्ष॑स्य , सु॒भ॒ग॒ऽत्वं , अ॒स्मे इति॑ । पोषं॑ , र॒यी॒णां , अरि॑ष्टिं , त॒नूनां॑ , स्वा॒द्मानं॑ , वा॒चः , सु॒दि॒न॒ऽत्वं , अह्नां॑ ॥
[२२] त्रिकद्रुकेष्विति चतुरृचस्य सूक्तस्य शौनकोगृत्समद आद्याष्टिस्ततोद्वे अतिशक्वर्यावंत्याष्टिर्वा |
त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाव॑शत् । स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिंद्रं॑ स॒त्य इंदुः॑ ॥
त्रिऽक॑द्रुकेषु , म॒हि॒षः , यव॑ऽआशिरं , तु॒वि॒ऽशुष्मः॑ , तृ॒पत् , सोमं॑ , अ॒पि॒ब॒त् , विष्णु॑ना , सु॒तं , यथा॑ , अव॑शत् । सः , ईं॒ , म॒मा॒द॒ , महि॑ , कर्म॑ , कर्त॑वे , म॒हां , उ॒रुं , सः , ए॒नं॒ , स॒श्च॒त् , दे॒वः , दे॒वं , स॒त्यं , इंद्रं॑ , स॒त्यः , इंदुः॑ ॥
अध॒ त्विषी॑माँ अ॒भ्योज॑सा॒ क्रिविं॑ यु॒धाभ॑व॒दा रोद॑सी अपृणदस्य म॒ज्मना॒ प्र वा॑वृधे । अध॑त्ता॒न्यं ज॒ठरे॒ प्रेम॑रिच्यत॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिंद्रं॑ स॒त्य इंदुः॑ ॥
अध॑ , त्विषि॑ऽमान् , अ॒भि , ओज॑सा , क्रिविं॑ , यु॒धा , अ॒भ॒व॒त् , आ , रोद॑सी॒ इति॑ , अ॒पृ॒ण॒त् , अ॒स्य॒ , म॒ज्मना॑ , प्र , व॒वृ॒धे॒ । अध॑त्त , अ॒न्यं , ज॒ठरे॑ , प्र , ईं॒ , अ॒रि॒च्य॒त॒ , सः , ए॒नं॒ , स॒श्च॒त् , दे॒वः , दे॒वं , स॒त्यं , इंद्रं॑ , स॒त्यः , इंदुः॑ ॥
सा॒कं जा॒तः क्रतु॑ना सा॒कमोज॑सा ववक्षिथ सा॒कं वृ॒द्धो वी॒र्यैः॑ सास॒हिर्मृधो॒ विच॑र्षणिः । दाता॒ राधः॑ स्तुव॒ते काम्यं॒ वसु॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिंद्रं॑ स॒त्य इंदुः॑ ॥
सा॒कं , जा॒तः , क्रतु॑ना , सा॒कं , ओज॑सा , व॒व॒क्षि॒थ॒ , सा॒कं , वृ॒द्धः , वी॒र्यैः॑ , स॒स॒हिः , मृधः॑ , विऽच॑र्षणिः । दाता॑ , राधः॑ , स्तु॒व॒ते , काम्यं॑ , वसु॑ , सः , ए॒नं॒ , स॒श्च॒त् , दे॒वः , दे॒वं , स॒त्यं , इंद्रं॑ , स॒त्यः , इंदुः॑ ॥
तव॒ त्यन्नर्यं॑ नृ॒तोऽप॑ इंद्र प्रथ॒मं पू॒र्व्यं दि॒वि प्र॒वाच्यं॑ कृ॒तं । यद्दे॒वस्य॒ शव॑सा॒ प्रारि॑णा॒ असुं॑ रि॒णन्न॒पः । भुव॒द्विश्व॑म॒भ्यादे॑व॒मोज॑सा वि॒दादूर्जं॑ श॒तक्र॑तुर्वि॒दादिषं॑ ॥
तव॑ , त्यत् , नर्यं॑ , नृ॒तो॒ इति॑ , अपः॑ , इं॒द्र॒ , प्र॒थ॒मं , पू॒र्व्यं , दि॒वि , प्र॒ऽवाच्यं॑ , कृ॒तं । यत् , दे॒वस्य॑ , शव॑सा , प्र , अरि॑णाः , असुं॑ , रि॒णन् , अ॒पः भुव॑त् , विश्वं॑ , अ॒भि , अदे॑वं , ओज॑सा , वि॒दात् , ऊर्जं॑ , श॒तऽक्र॑तुः , वि॒दात् , इषं॑ ॥
[२३] गणानामित्येकोन विंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्यापंचमीनवम्येकादशीसप्तदश्यंत्यानां ब्रह्मणस्पतिः शिष्टानां बृहस्पतिर्जगती पंचदश्यंत्येत्रिष्टुभौ |
ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमं । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नं ॥
ग॒णानां॑ , त्वा॒ , ग॒णऽप॑तिं , ह॒वा॒म॒हे॒ , क॒विं , क॒वी॒नां , उ॒प॒मश्र॑वःऽतमं । ज्ये॒ष्ठ॒ऽराजं॑ , ब्रह्म॑णां , ब्र॒ह्म॒णः॒ , प॒ते॒ , आ , नः॒ , शृ॒ण्वन् , ऊ॒तिऽभिः॑ , सी॒द॒ , सद॑नं ॥
दे॒वाश्चि॑त्ते असुर्य॒ प्रचे॑तसो॒ बृह॑स्पते य॒ज्ञियं॑ भा॒गमा॑नशुः । उ॒स्रा इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे॑षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि ॥
दे॒वाः , चि॒त् , ते॒ , अ॒सु॒र्य॒ , प्रऽचे॑तसः , बृह॑स्पते , य॒ज्ञियं॑ , भा॒गं , आ॒न॒शुः॒ । उ॒स्राःऽइ॑व , सूर्यः॑ , ज्योति॑षा , म॒हः , विश्वे॑षां , इत् , ज॒नि॒ता , ब्रह्म॑णां , अ॒सि॒ ॥
आ वि॒बाध्या॑ परि॒राप॒स्तमां॑सि च॒ ज्योति॑ष्मंतं॒ रथ॑मृ॒तस्य॑ तिष्ठसि । बृह॑स्पते भी॒मम॑मित्र॒दंभ॑नं रक्षो॒हणं॑ गोत्र॒भिदं॑ स्व॒र्विदं॑ ॥
आ , वि॒ऽबाध्य॑ , प॒रि॒ऽरपः॑ , तमां॑सि , च॒ , ज्योति॑ष्मंतं , रथं॑ , ऋ॒तस्य॑ , ति॒ष्ठ॒सि॒ । बृह॑स्पते , भी॒मं , अ॒मि॒त्र॒ऽदंभ॑नं , र॒क्षः॒ऽहनं॑ , गो॒त्र॒ऽभिदं॑ , स्वः॒ऽविदं॑ ॥
सु॒नी॒तिभि॑र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्न तमंहो॑ अश्नवत् । ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत्ते॑ महित्व॒नं ॥
सु॒नी॒तिऽभिः॑ , न॒य॒सि॒ , त्राय॑से , जनं॑ , यः , तुभ्यं॑ , दाशा॑त् , न , तं , अंहः॑ , अ॒श्न॒व॒त् । ब्र॒ह्म॒ऽद्विषः॑ , तप॑नः , म॒न्यु॒ऽमीः , अ॒सि॒ , बृह॑स्पते , महि॑ , तत् , ते॒ , म॒हि॒ऽत्व॒नं ॥
न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा॑तयस्तितिरु॒र्न द्व॑या॒विनः॑ । विश्वा॒ इद॑स्माद्ध्व॒रसो॒ वि बा॑धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ॥
न , तं , अंहः॑ , न , दुः॒ऽइ॒तं , कुतः॑ , च॒न , न , अरा॑तयः , ति॒ति॒रुः॒ , न , द्व॒या॒विनः॑ । विश्वाः॑ , इत् , अ॒स्मा॒त् , ध्व॒रसः॑ , वि , बा॒ध॒से॒ , यं , सु॒ऽगो॒पाः , रक्ष॑सि , ब्र॒ह्म॒णः॒ , प॒ते॒ ॥
त्वं नो॑ गो॒पाः प॑थि॒कृद्वि॑चक्ष॒णस्तव॑ व्र॒ताय॑ म॒तिभि॑र्जरामहे । बृह॑स्पते॒ यो नो॑ अ॒भि ह्वरो॑ द॒धे स्वा तं म॑र्मर्तु दु॒च्छुना॒ हर॑स्वती ॥
त्वं , नः॒ , गो॒पाः , प॒थि॒ऽकृत् , वि॒ऽच॒क्ष॒णः , तव॑ , व्र॒ताय॑ , म॒तिऽभिः॑ , ज॒रा॒म॒हे॒ । बृह॑स्पते , यः , नः॒ , अ॒भि , ह्वरः॑ , द॒धे , स्वा , तं , म॒र्म॒र्तु॒ , दु॒च्छुना॑ , हर॑स्वती ॥
उ॒त वा॒ यो नो॑ म॒र्चया॒दना॑गसोऽराती॒वा मर्तः॑ सानु॒को वृकः॑ । बृह॑स्पते॒ अप॒ तं व॑र्तया प॒थः सु॒गं नो॑ अ॒स्यै दे॒ववी॑तये कृधि ॥
उ॒त , वा॒ , यः , नः॒ , म॒र्चया॑त् , अना॑गसः , अ॒रा॒ति॒ऽवा , मर्तः॑ , सा॒नु॒कः , वृकः॑ । बृह॑स्पते , अप॑ , तं , व॒र्त॒य॒ , प॒थः , सु॒ऽगं , नः॒ , अ॒स्यै , दे॒वऽवी॑तये , कृ॒धि॒ ॥
त्रा॒तारं॑ त्वा त॒नूनां॑ हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युं । बृह॑स्पते देव॒निदो॒ नि ब॑र्हय॒ मा दु॒रेवा॒ उत्त॑रं सु॒म्नमुन्न॑शन् ॥
त्रा॒तारं॑ , त्वा॒ , त॒नूनां॑ , ह॒वा॒म॒हे॒ , अव॑ऽस्पर्तः , अ॒धि॒ऽव॒क्तारं॑ , अ॒स्म॒ऽयुं । बृह॑स्पते , दे॒व॒ऽनिदः॑ , नि , ब॒र्ह॒य॒ , मा , दुः॒ऽएवाः॑ , उत्ऽत॑रं , सु॒म्नं , उत् , न॒श॒न् ॥
त्वया॑ व॒यं सु॒वृधा॑ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि । या नो॑ दू॒रे त॒ळितो॒ या अरा॑तयो॒ऽभि संति॑ जं॒भया॒ ता अ॑न॒प्नसः॑ ॥
त्वया॑ , व॒यं , सु॒ऽवृधा॑ , ब्र॒ह्म॒णः॒ , प॒ते॒ , स्पा॒र्हा , वसु॑ , म॒नु॒ष्या॑ , आ , द॒दी॒म॒हि॒ । याः , नः॒ , दू॒रे , त॒ळितः॑ , याः , अरा॑तयः , अ॒भि , संति॑ , जं॒भय॑ , ताः , अ॒न॒प्नसः॑ ॥
त्वया॑ व॒यमु॑त्त॒मं धी॑महे॒ वयो॒ बृह॑स्पते॒ पप्रि॑णा॒ सस्नि॑ना यु॒जा । मा नो॑ दुः॒शंसो॑ अभिदि॒प्सुरी॑शत॒ प्र सु॒शंसा॑ म॒तिभि॑स्तारिषीमहि ॥
त्वया॑ , व॒यं , उ॒त्ऽत॒मं , धी॒म॒हे॒ , वयः॑ , बृह॑स्पते , पप्रि॑णा , सस्नि॑ना , यु॒जा । मा , नः॒ , दुः॒ऽशंसः॑ , अ॒भि॒ऽदि॒प्सुः , ई॒श॒त॒ , प्र , सु॒ऽशंसाः॑ , म॒तिऽभिः॑ , ता॒रि॒षी॒म॒हि॒ ॥
अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः । असि॑ स॒त्य ऋ॑ण॒या ब्र॑ह्मणस्पत उ॒ग्रस्य॑ चिद्दमि॒ता वी॑ळुह॒र्षिणः॑ ॥
अ॒न॒नु॒ऽदः , वृ॒ष॒भः , जग्मिः॑ , आ॒ऽह॒वं , निःऽत॑प्ता , शत्रुं॑ , पृत॑नासु , स॒स॒हिः । असि॑ , स॒त्यः , ऋ॒ण॒ऽयाः , ब्र॒ह्म॒णः॒ , प॒ते॒ , उ॒ग्रस्य॑ , चि॒त् , द॒मि॒ता , वी॒ळु॒ऽह॒र्षिणः॑ ॥
अदे॑वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां॑सति । बृह॑स्पते॒ मा प्रण॒क्तस्य॑ नो व॒धो नि क॑र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः ॥
अदे॑वेन , मन॑सा , यः , रि॒ष॒ण्यति॑ , शा॒सां , उ॒ग्रः , मय॑मानः , जिघां॑सति । बृह॑स्पते , मा , प्रण॑क् , तस्य॑ , नः॒ , व॒धः , नि , क॒र्म॒ , म॒न्युं , दुः॒ऽएव॑स्य , शर्ध॑तः ॥
भरे॑षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गंता॒ वाजे॑षु॒ सनि॑ता॒ धनं॑धनं । विश्वा॒ इद॒र्यो अ॑भिदि॒प्स्वो॒३॒॑ मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथाँ॑ इव ॥
भरे॑षु , हव्यः॑ , नम॑सा , उ॒प॒ऽसद्यः॑ , गंता॑ , वाजे॑षु , सनि॑ता , धनं॑ऽधनं । विश्वाः॑ , इत् , अ॒र्यः , अ॒भि॒ऽदि॒प्स्वः॑ , मृधः॑ , बृह॒स्पतिः॑ , वि , व॒व॒र्ह॒ , रथा॑न्ऽइव ॥
तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा॑ नि॒दे द॑धि॒रे दृ॒ष्टवी॑र्यं । आ॒विस्तत्कृ॑ष्व॒ यदस॑त्त उ॒क्थ्यं१॒॑ बृह॑स्पते॒ वि प॑रि॒रापो॑ अर्दय ॥
तेजि॑ष्ठया , त॒प॒नी , र॒क्षसः॑ , त॒प॒ , ये , त्वा॒ , नि॒दे , द॒धि॒रे , दृ॒ष्टऽवी॑र्यं । आ॒विः , तत् , कृ॒ष्व॒ , यत् , अस॑त् , ते॒ , उ॒क्थ्यं॑ , बृह॑स्पते , वि , प॒रि॒ऽरपः॑ , अ॒र्द॒य॒ ॥
बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु । यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रं ॥
बृह॑स्पते , अति॑ , यत् , अ॒र्यः , अर्हा॑त् , द्यु॒ऽमत् , वि॒ऽभाति॑ , क्रतु॑ऽमत् , जने॑षु । यत् , दी॒दय॑त् , शव॑सा , ऋ॒त॒ऽप्र॒जा॒त॒ , तत् , अ॒स्मासु॑ , द्रवि॑णं , धे॒हि॒ , चि॒त्रं ॥
मा नः॑ स्ते॒नेभ्यो॒ ये अ॒भि द्रु॒हस्प॒दे नि॑रा॒मिणो॑ रि॒पवोऽन्ने॑षु जागृ॒धुः । आ दे॒वाना॒मोह॑ते॒ वि व्रयो॑ हृ॒दि बृह॑स्पते॒ न प॒रः साम्नो॑ विदुः ॥
मा , नः॒ , स्ते॒नेभ्यः॑ , ये , अ॒भि , द्रु॒हः , प॒दे , नि॒रा॒मिणः॑ , रि॒पवः॑ , अन्ने॑षु , ज॒गृ॒धुः । आ , दे॒वानां॑ , ओह॑ते , वि , व्रयः॑ , हृ॒दि , बृह॑स्पते , न , प॒रः , साम्नः॑ , वि॒दुः॒ ॥
विश्वे॑भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त्साम्नः॑साम्नः क॒विः । स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो हं॒ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ॥
विश्वे॑भ्यः , हि , त्वा॒ , भुव॑नेभ्यः , परि॑ , त्वष्टा॑ , अज॑नत् , साम्नः॑ऽसाम्नः , क॒विः । सः , ऋ॒ण॒ऽचित् , ऋ॒ण॒ऽयाः , ब्रह्म॑णः , पतिः॑ , द्रु॒हः , हं॒ता , म॒हः , ऋ॒तस्य॑ , ध॒र्तरि॑ ॥
तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां॑ गो॒त्रमु॒दसृ॑जो॒ यदं॑गिरः । इंद्रे॑ण यु॒जा तम॑सा॒ परी॑वृतं॒ बृह॑स्पते॒ निर॒पामौ॑ब्जो अर्ण॒वं ॥
तव॑ , श्रि॒ये , वि , अ॒जि॒ही॒त॒ , पर्व॑तः , गवां॑ , गो॒त्रं , उ॒त्ऽअसृ॑जः , यत् , अं॒गि॒रः॒ । इंद्रे॑ण , यु॒जा , तम॑सा , परि॑ऽवृतं , बृह॑स्पते , निः , अ॒पां , औ॒ब्जः॒ , अ॒र्ण॒वं ॥
ब्रह्म॑णस्पते॒ त्वम॒स्य यं॒ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व । विश्वं॒ तद्भ॒द्रं यदवं॑ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
ब्रह्म॑णः , प॒ते॒ , त्वं , अ॒स्य , यं॒ता , सु॒ऽउ॒क्तस्य॑ , बो॒धि॒ , तन॑यं , च॒ , जि॒न्व॒ । विश्वं॑ , तत् , भ॒द्रं , यत् , अवं॑ति , दे॒वाः , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[२४] सेमामिति षोळशर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिः प्रथमादशम्योबृहस्पतिर्द्वादश्यैंद्राब्रह्मणस्पती जगतीद्वादश्यंत्येत्रिष्टुभौ |
सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा । यथा॑ नो मी॒ढ्वांत्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑धः॒ सोत नो॑ म॒तिं ॥
सः , इ॒मां , अ॒वि॒ड्ढि॒ , प्रऽभृ॑तिं , यः , ईशि॑षे , अ॒या , वि॒धे॒म॒ , नव॑या , म॒हा , गि॒रा । यथा॑ , नः॒ , मी॒ढ्वान् , स्तव॑ते , सखा॑ , तव॑ , बृह॑स्पते , सीस॑धः , सः , उ॒त , नः॒ , म॒तिं ॥
यो नंत्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शंब॑राणि॒ वि । प्राच्या॑वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द्वसु॑मंतं॒ वि पर्व॑तं ॥
यः , नंत्वा॑नि , अन॑मत् , नि , ओज॑सा , उ॒त , अ॒द॒र्दः॒ , म॒न्युना॑ , शंब॑राणि , वि । प्र , अ॒च्य॒व॒य॒त् , अच्यु॑ता , ब्रह्म॑णः , पतिः॑ , आ , च॒ , अवि॑शत् , वसु॑ऽमंतं , वि , पर्व॑तं ॥
तद्दे॒वानां॑ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नंदृ॒ळ्हाव्र॑दंत वीळि॒ता । उद्गा आ॑ज॒दभि॑न॒द्ब्रह्म॑णा व॒लमगू॑ह॒त्तमो॒ व्य॑चक्षय॒त्स्वः॑ ॥
तत् , दे॒वानां॑ , दे॒वऽत॑माय , कर्त्वं॑ , अश्र॑थ्नन् , दृ॒ळ्हा , अव्र॑दंत , वी॒ळि॒ता । उत् , गाः , आ॒ज॒त् , अभि॑नत् , ब्रह्म॑णा , व॒लं , अगू॑हत् , तमः॑ , वि , अ॒च॒क्ष॒य॒त् , स्व१॒॑रिति॒ स्वः॑ ॥
अश्मा॑स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् । तमे॒व विश्वे॑ पपिरे स्व॒र्दृशो॑ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिणं॑ ॥
अश्म॑ऽआस्यं , अ॒व॒तं , ब्रह्म॑णः , पतिः॑ , मधु॑ऽधारं , अ॒भि , यं , ओज॑सा , अतृ॑णत् । तं , ए॒व , विश्वे॑ , प॒पि॒रे॒ , स्वः॒ऽदृशः॑ , ब॒हु , सा॒कं , सि॒सि॒चुः॒ , उत्सं॑ , उ॒द्रिणं॑ ॥
सना॒ ता का चि॒द्भुव॑ना॒ भवी॑त्वा मा॒द्भिः श॒रद्भि॒र्दुरो॑ वरंत वः । अय॑तंता चरतो अ॒न्यद॑न्य॒दिद्या च॒कार॑ व॒युना॒ ब्रह्म॑ण॒स्पतिः॑ ॥
सना॑ , ता , का , चि॒त् , भुव॑ना , भवी॑त्वा , मा॒त्ऽभिः , श॒रत्ऽभिः॑ , दुरः॑ , व॒रं॒त॒ , वः॒ । अय॑तंता , च॒र॒तः॒ , अ॒न्यत्ऽअ॑न्यत् , इत् , या , च॒कार॑ , व॒युना॑ , ब्रह्म॑णः , पतिः॑ ॥
अ॒भि॒नक्षं॑तो अ॒भि ये तमा॑न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा॑ हि॒तं । ते वि॒द्वांसः॑ प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आयं॒तदुदी॑युरा॒विशं॑ ॥
अ॒भि॒ऽनक्षं॑तः , अ॒भि , ये , तं , आ॒न॒शुः , नि॒ऽधिं , प॒णी॒नां , प॒र॒मं , गुहा॑ , हि॒तं । ते , वि॒द्वांसः॑ , प्र॒ति॒ऽचक्ष्य॑ , अनृ॑ता , पुनः॑ , यतः॑ , ऊँ॒ इति॑ , आय॑न् , तत् , उत् , ई॒युः , आ॒ऽविशं॑ ॥
ऋ॒तावा॑नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो॑ म॒हस्प॒थः । ते बा॒हुभ्यां॑ धमि॒तम॒ग्निमश्म॑नि॒ नकिः॒ षो अ॒स्त्यर॑णो ज॒हुर्हि तं ॥
ऋ॒तऽवा॑नः , प्र॒ति॒ऽचक्ष्य॑ , अनृ॑ता , पुनः॑ , आ , अतः॑ , आ , त॒स्थुः॒ , क॒वयः॑ , म॒हः , प॒थः । ते , बा॒हुऽभ्यां॑ , ध॒मि॒तं , अ॒ग्निं , अश्म॑नि , नकिः॑ , सः , अ॒स्ति॒ , अर॑णः , जु॒हुः , हि , तं ॥
ऋ॒तज्ये॑न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना । तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ॥
ऋ॒तऽज्ये॑न , क्षि॒प्रेण॑ , ब्रह्म॑णः , पतिः॑ , यत्र॑ , वष्टि॑ , प्र , तत् , अ॒श्नो॒ति॒ , धन्व॑ना । तस्य॑ , सा॒ध्वीः , इष॑वः , याभिः॑ , अस्य॑ति , नृ॒ऽचक्ष॑सः , दृ॒शये॑ , कर्ण॑ऽयोनयः ॥
स सं॑न॒यः स वि॑न॒यः पु॒रोहि॑तः॒ स सुष्टु॑तः॒ स यु॒धि ब्रह्म॑ण॒स्पतिः॑ । चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धनादित्सूर्य॑स्तपति तप्य॒तुर्वृथा॑ ॥
सः , सं॒ऽन॒यः , सः , वि॒ऽन॒यः , पु॒रःऽहि॑तः , सः , सुऽस्तु॑तः , सः , यु॒धि , ब्रह्म॑णः , पतिः॑ । चा॒क्ष्मः , यत् , वाजं॑ , भर॑ते , म॒ती , धना॑ , आत् , इत् , सूर्यः॑ , त॒प॒ति॒ , त॒प्य॒तुः , वृथा॑ ॥
वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना॑वतो॒ बृह॒स्पतेः॑ सुवि॒दत्रा॑णि॒ राध्या॑ । इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना॑ उ॒भये॑ भुंज॒ते विशः॑ ॥
वि॒ऽभु , प्र॒ऽभु , प्र॒थ॒मं , मे॒हना॑ऽवतः , बृह॒स्पतेः॑ , सु॒ऽवि॒दत्रा॑णि , राध्या॑ । इ॒मा , सा॒तानि॑ , वे॒न्यस्य॑ , वा॒जिनः॑ , येन॑ , जनाः॑ , उ॒भये॑ , भुं॒ज॒ते , विशः॑ ॥
योऽव॑रे वृ॒जने॑ वि॒श्वथा॑ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ । स दे॒वो दे॒वान्प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ ॥
यः , अव॑रे , वृ॒जने॑ , वि॒श्वऽथा॑ , वि॒ऽभुः , म॒हां , ऊँ॒ इति॑ , र॒ण्वः , शव॑सा , व॒वक्षि॑थ । सः , दे॒वः , दे॒वान् , प्रति॑ , प॒प्र॒थे॒ , पृ॒थु , विश्वा॑ , इत् , ऊँ॒ इति॑ , ता , प॒रि॒ऽभूः , ब्रह्म॑णः , पतिः॑ ॥
विश्वं॑ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नंति व्र॒तं वां॑ । अच्छें॑द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे॑व वा॒जिना॑ जिगातं ॥
विश्वं॑ , स॒त्यं , म॒घ॒ऽवा॒ना॒ , यु॒वोः , इत् , आपः॑ , च॒न , प्र , मि॒नं॒ति॒ , व्र॒तं , वां॒ । अच्छ॑ , इं॒द्रा॒ब्र॒ह्म॒ण॒स्प॒ती॒ इति॑ , ह॒विः , नः॒ , अन्नं॑ , युजा॑ऽइव , वा॒जिना॑ , जि॒गा॒तं॒ ॥
उ॒ताशि॑ष्ठा॒ अनु॑ शृण्वंति॒ वह्न॑यः स॒भेयो॒ विप्रो॑ भरते म॒ती धना॑ । वी॒ळु॒द्वेषा॒ अनु॒ वश॑ ऋ॒णमा॑द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पतिः॑ ॥
उ॒त , आशि॑ष्ठाः , अनु॑ , शृ॒ण्वं॒ति॒ , वह्न॑यः , स॒भेयः॑ , विप्रः॑ , भ॒र॒ते॒ , म॒ती , धना॑ । वी॒ळु॒ऽद्वेषाः॑ , अनु॑ , वशा॑ , ऋ॒णं , आ॒ऽद॒दिः , सः , ह॒ , वा॒जी , सं॒ऽइ॒थे , ब्रह्म॑णः , पतिः॑ ॥
ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः । यो गा उ॒दाज॒त्स दि॒वे वि चा॑भजन्म॒हीव॑ री॒तिः शव॑सासर॒त्पृथ॑क् ॥
ब्रह्म॑णः , पतेः॑ , अ॒भ॒व॒त् , य॒था॒ऽव॒शं , स॒त्यः , म॒न्युः , महि॑ , कर्म॑ , क॒रि॒ष्य॒तः । यः , गाः , उ॒त्ऽआज॑त् , सः , दि॒वे , वि , च॒ , अ॒भ॒ज॒त् , म॒हीऽइ॑व , री॒तिः , शव॑सा , अ॒स॒र॒त् , पृथ॑क् ॥
ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा॑ रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः । वी॒रेषु॑ वी॒राँ उप॑ पृङ्धि न॒स्त्वं यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हवं॑ ॥
ब्रह्म॑णः , प॒ते॒ , सु॒ऽयम॑स्य , वि॒श्वहा॑ , रा॒यः , स्या॒म॒ , र॒थ्यः॑ , वय॑स्वतः । वी॒रेषु॑ , वी॒रान् , उप॑ , पृ॒ङ्धि॒ , नः॒ , त्वं , यत् , ईशा॑नः , ब्रह्म॑णा , वेषि॑ , मे॒ , हवं॑ ॥
ब्रह्म॑णस्पते॒ त्वम॒स्य यं॒ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व । विश्वं॒ तद्भ॒द्रं यदवं॑ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
ब्रह्म॑णः , प॒ते॒ , त्वं , अ॒स्य , यं॒ता , सु॒ऽउ॒क्तस्य॑ , बो॒धि॒ , तन॑यं , च॒ , जि॒न्व॒ । विश्वं॑ , तत् , भ॒द्रं , यत् , अवं॑ति , दे॒वाः , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[२५] इंधानइति पंचर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती |
इंधा॑नो अ॒ग्निं व॑नवद्वनुष्य॒तः कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् । जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥
इंधा॑नः , अ॒ग्निं , व॒न॒व॒त् , व॒नु॒ष्य॒तः , कृ॒तऽब्र॑ह्मा , शू॒शु॒व॒त् , रा॒तऽह॑व्यः , इत् । जा॒तेन॑ , जा॒तं , अति॑ , सः , प्र , स॒र्सृ॒ते॒ , यंऽयं॑ , युजं॑ , कृ॒णु॒ते , ब्रह्म॑णः , पतिः॑ ॥
वी॒रेभि॑र्वी॒रान्व॑नवद्वनुष्य॒तो गोभी॑ र॒यिं प॑प्रथ॒द्बोध॑ति॒ त्मना॑ । तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥
वी॒रेभिः॑ , वी॒रान् , व॒न॒व॒त् , व॒नु॒ष्य॒तः , गोभिः॑ , र॒यिं , प॒प्र॒थ॒त् , बोध॑ति , त्मना॑ । तो॒कं , च॒ , तस्य॑ , तन॑यं , च॒ , व॒र्ध॒ते॒ , यंऽयं॑ , युजं॑ , कृ॒णु॒ते , ब्रह्म॑णः , पतिः॑ ॥
सिंधु॒र्न क्षोदः॒ शिमी॑वाँ ऋघाय॒तो वृषे॑व॒ वध्रीँ॑र॒भि व॒ष्ट्योज॑सा । अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥
सिंधुः॑ , न , क्षोदः॑ , शिमी॑ऽवान् , ऋ॒घा॒य॒तः , वृषा॑ऽइव , वध्री॑न् , अ॒भि , व॒ष्टि॒ , ओज॑सा । अ॒ग्नेःऽइ॑व , प्रऽसि॑तिः , न , अह॑ , वर्त॑वे , यंऽयं॑ , युजं॑ , कृ॒णु॒ते , ब्रह्म॑णः , पतिः॑ ॥
तस्मा॑ अर्षंति दि॒व्या अ॑स॒श्चतः॒ स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति । अनि॑भृष्टतविषिर्हं॒त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥
तस्मै॑ , अ॒र्षं॒ति॒ , दि॒व्याः , अ॒स॒श्चतः॑ , सः , सत्व॑ऽभिः , प्र॒थ॒मः , गोषु॑ , ग॒च्छ॒ति॒ । अनि॑भृष्टऽतविषिः , हं॒ति॒ , ओज॑सा , यंऽयं॑ , युजं॑ , कृ॒णु॒ते , ब्रह्म॑णः , पतिः॑ ॥
तस्मा॒ इद्विश्वे॑ धुनयंत॒ सिंध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ । दे॒वानां॑ सु॒म्ने सु॒भगः॒ स ए॑धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥
तस्मै॑ , इत् , विश्वे॑ , धु॒न॒यं॒त॒ , सिंध॑वः , अच्छि॑द्रा , शर्म॑ , द॒धि॒रे॒ , पु॒रूणि॑ । दे॒वानां॑ , सु॒म्ने , सु॒ऽभगः॑ , सः , ए॒ध॒ते॒ , यंऽयं॑ , युजं॑ , कृ॒णु॒ते , ब्रह्म॑णः , पतिः॑ ॥
[२६] ऋजुरिदिति चतुरृचस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती |
ऋ॒जुरिच्छंसो॑ वनवद्वनुष्य॒तो दे॑व॒यन्निददे॑वयंतम॒भ्य॑सत् । सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नं ॥
ऋ॒जुः , इत् , शंसः॑ , व॒न॒व॒त् , व॒नु॒ष्य॒तः , दे॒व॒ऽयन् , इत् , अदे॑वऽयंतं , अ॒भि , अ॒स॒त् । सु॒प्र॒ऽअ॒वीः , इत् , व॒न॒व॒त् , पृ॒त्ऽसु , दु॒स्तरं॑ , यज्वा॑ , इत् , अय॑ज्योः , वि , भ॒जा॒ति॒ , भोज॑नं ॥
यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॑ । ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ॥
यज॑स्व , वी॒र॒ , प्र , वि॒हि॒ , म॒ना॒य॒तः , भ॒द्रं , मनः॑ , कृ॒णु॒ष्व॒ , वृ॒त्र॒ऽतूर्ये॑ । ह॒विः , कृ॒णु॒ष्व॒ , सु॒ऽभगः॑ , यथा॑ , अस॑सि , ब्रह्म॑णः , पतेः॑ , अवः॑ , आ , वृ॒णी॒म॒हे॒ ॥
स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑ । दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पतिं॑ ॥
सः , इत् , जने॑न , सः , वि॒शा , सः , जन्म॑ना , सः , पु॒त्रैः , वाजं॑ , भ॒र॒ते॒ , धना॑ , नृऽभिः॑ । दे॒वानां॑ , यः , पि॒तरं॑ , आ॒ऽविवा॑सति , श्र॒द्धाऽम॑नाः , ह॒विषा॑ , ब्रह्म॑णः , पतिं॑ ॥
यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पतिः॑ । उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षों॒३॒॑ऽहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः ॥
यः , अ॒स्मै॒ , ह॒व्यैः , घृ॒तव॑त्ऽभिः , अवि॑धत् , प्र , तं , प्रा॒चा , न॒य॒ति॒ , ब्रह्म॑णः , पतिः॑ । उ॒रु॒ष्यति॑ , ईं॒ , अंह॑सः , रक्ष॑ति , रि॒षः , अं॒होः , चि॒त् , अ॒स्मै॒ , उ॒रु॒ऽचक्रिः॑ , अद्भु॑तः ॥
[२७] इमागिरइति सप्तदशर्चस्य सूक्तस्य गार्त्समदः कूर्म आदित्यात्रिष्टुप् |
इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नूः॑ स॒नाद्राज॑भ्यो जु॒ह्वा॑ जुहोमि । शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अंशः॑ ॥
इ॒माः , गिरः॑ , आ॒दि॒त्येभ्यः॑ , घृ॒तऽस्नूः॑ , स॒नात् , राज॑ऽभ्यः , जु॒ह्वा॑ , जु॒हो॒मि॒ । शृ॒णोतु॑ , मि॒त्रः , अ॒र्य॒मा , भगः॑ , नः॒ , तु॒वि॒ऽजा॒तः , वरु॑णः , दक्षः॑ , अंशः॑ ॥
इ॒मं स्तोमं॒ सक्र॑तवो मे अ॒द्य मि॒त्रो अ॑र्य॒मा वरु॑णो जुषंत । आ॒दि॒त्यासः॒ शुच॑यो॒ धार॑पूता॒ अवृ॑जिना अनव॒द्या अरि॑ष्टाः ॥
इ॒मं , स्तोमं॑ , सऽक्र॑तवः , मे॒ , अ॒द्य , मि॒त्रः , अ॒र्य॒मा , वरु॑णः , जु॒षं॒त॒ । आ॒दि॒त्यासः॑ , शुच॑यः , धार॑ऽपूताः , अवृ॑जिनाः , अ॒न॒व॒द्याः , अरि॑ष्टाः ॥
त आ॑दि॒त्यास॑ उ॒रवो॑ गभी॒रा अद॑ब्धासो॒ दिप्सं॑तो भूर्य॒क्षाः । अं॒तः प॑श्यंति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दंति॑ ॥
ते , आ॒दि॒त्यासः॑ , उ॒रवः॑ , ग॒भी॒राः , अद॑ब्धासः , दिप्सं॑तः , भू॒रि॒ऽअ॒क्षाः । अं॒तरिति॑ , प॒श्यं॒ति॒ , वृ॒जि॒ना , उ॒त , सा॒धु , सर्वं॑ , राज॑ऽभ्यः , प॒र॒मा , चि॒त् , अंति॑ ॥
धा॒रयं॑त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः । दी॒र्घाधि॑यो॒ रक्ष॑माणा असु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ ॥
धा॒रयं॑तः , आ॒दि॒त्यासः॑ , जग॑त् , स्थाः , दे॒वाः , विश्व॑स्य , भुव॑नस्य , गो॒पाः । दी॒र्घऽधि॑यः , रक्ष॑माणाः , अ॒सु॒र्यं॑ , ऋ॒तऽवा॑नः , चय॑मानाः , ऋ॒णानि॑ ॥
वि॒द्यामा॑दित्या॒ अव॑सो वो अ॒स्य यद॑र्यमन्भ॒य आ चि॑न्मयो॒भु । यु॒ष्माकं॑ मित्रावरुणा॒ प्रणी॑तौ॒ परि॒ श्वभ्रे॑व दुरि॒तानि॑ वृज्यां ॥
वि॒द्यां , आ॒दि॒त्याः॒ , अव॑सः , वः॒ , अ॒स्य , यत् , अ॒र्य॒म॒न् , भ॒ये , आ , चि॒त् , म॒यः॒ऽभु । यु॒ष्माकं॑ , मि॒त्रा॒व॒रुणा॒ , प्रऽनी॑तौ , परि॑ , श्वभ्रा॑ऽइव , दुः॒ऽइ॒तानि॑ , वृ॒ज्यां॒ ॥
सु॒गो हि वो॑ अर्यमन्मित्र॒ पंथा॑ अनृक्ष॒रो व॑रुण सा॒धुरस्ति॑ । तेना॑दित्या॒ अधि॑ वोचता नो॒ यच्छ॑ता नो दुष्परि॒हंतु॒ शर्म॑ ॥
सु॒ऽगः , हि , वः॒ , अ॒र्य॒म॒न् , मि॒त्र॒ , पंथाः॑ , अ॒नृ॒क्ष॒रः , व॒रु॒ण॒ , सा॒धुः , अस्ति॑ । तेन॑ , आ॒दि॒त्याः॒ , अधि॑ , वो॒च॒त॒ , नः॒ , यच्छ॑त , नः॒ , दुः॒ऽप॒रि॒हंतु॑ , शर्म॑ ॥
पिप॑र्तु नो॒ अदि॑ती॒ राज॑पु॒त्राति॒ द्वेषां॑स्यर्य॒मा सु॒गेभिः॑ । बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ शर्मोप॑ स्याम पुरु॒वीरा॒ अरि॑ष्टाः ॥
पिप॑र्तु , नः॒ , अदि॑तिः , राज॑ऽपुत्रा , अति॑ , द्वेषां॑सि , अ॒र्य॒मा , सु॒ऽगेभिः॑ । बृ॒हत् , मि॒त्रस्य॑ , वरु॑णस्य , शर्म॑ , उप॑ , स्या॒म॒ , पु॒रु॒ऽवीराः॑ , अरि॑ष्टाः ॥
ति॒स्रो भूमी॑र्धारयं॒त्रीँरु॒त द्यूंत्रीणि॑ व्र॒ता वि॒दथे॑ अं॒तरे॑षां । ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वं तद॑र्यमन्वरुण मित्र॒ चारु॑ ॥
ति॒स्रः , भूमीः॑ , धा॒र॒य॒न् , त्रीन् , उ॒त , द्यून् , त्रीणि॑ , व्र॒ता , वि॒दथे॑ , अं॒तः , ए॒षां॒ । ऋ॒तेन॑ , आ॒दि॒त्याः॒ , महि॑ , वः॒ , म॒हि॒ऽत्वं , तत् , अ॒र्य॒म॒न् , व॒रु॒ण॒ , मि॒त्र॒ , चारु॑ ॥
त्री रो॑च॒ना दि॒व्या धा॑रयंत हिर॒ण्ययाः॒ शुच॑यो॒ धार॑पूताः । अस्व॑प्नजो अनिमि॒षा अद॑ब्धा उरु॒शंसा॑ ऋ॒जवे॒ मर्त्या॑य ॥
त्री , रो॒च॒ना , दि॒व्या , धा॒र॒यं॒त॒ , हि॒र॒ण्ययाः॑ , शुच॑यः , धार॑ऽपूताः । अस्व॑प्नऽजः , अ॒नि॒ऽमि॒षाः , अद॑ब्धाः , उ॒रु॒ऽशंसाः॑ , ऋ॒जवे॑ , मर्त्या॑य ॥
त्वं विश्वे॑षां वरुणासि॒ राजा॒ ये च॑ दे॒वा अ॑सुर॒ ये च॒ मर्ताः॑ । श॒तं नो॑ रास्व श॒रदो॑ वि॒चक्षे॒ऽश्यामायूं॑षि॒ सुधि॑तानि॒ पूर्वा॑ ॥
त्वं , विश्वे॑षां , व॒रु॒ण॒ , अ॒सि॒ , राजा॑ , ये , च॒ , दे॒वाः , अ॒सु॒र॒ , ये , च॒ , मर्ताः॑ । श॒तं , नः॒ , रा॒स्व॒ , श॒रदः॑ , वि॒ऽचक्षे॑ , अ॒श्याम॑ , आयूं॑षि , सुऽधि॑तानि , पूर्वा॑ ॥
न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा । पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद्यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्यां ॥
न , द॒क्षि॒णा , वि , चि॒कि॒ते॒ , न , स॒व्या , न , प्रा॒चीनं॑ , आ॒दि॒त्याः॒ , न , उ॒त , प॒श्चा । पा॒क्या॑ , चि॒त् , व॒स॒वः॒ , धी॒र्या॑ , चि॒त् , यु॒ष्माऽनी॑तः , अभ॑यं , ज्योतिः॑ , अ॒श्यां॒ ॥
यो राज॑भ्य ऋत॒निभ्यो॑ द॒दाश॒ यं व॒र्धयं॑ति पु॒ष्टय॑श्च॒ नित्याः॑ । स रे॒वान्या॑ति प्रथ॒मो रथे॑न वसु॒दावा॑ वि॒दथे॑षु प्रश॒स्तः ॥
यः , राज॑ऽभ्यः , ऋ॒त॒निऽभ्यः॑ , द॒दाश॑ , यं , व॒र्धयं॑ति , पु॒ष्टयः॑ , च॒ , नित्याः॑ । सः , रे॒वान् , या॒ति॒ , प्र॒थ॒मः , रथे॑न , व॒सु॒ऽदावा॑ , वि॒दथे॑षु , प्र॒ऽश॒स्तः ॥
शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ । नकि॒ष्टं घ्नं॒त्यंति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ ॥
शुचिः॑ , अ॒पः , सु॒ऽयव॑साः , अद॑ब्धः , उप॑ , क्षे॒ति॒ , वृ॒द्धऽव॑याः , सु॒ऽवीरः॑ । नकिः॑ , तं , घ्नं॒ति॒ , अंति॑तः , न , दू॒रात् , यः , आ॒दि॒त्यानां॑ , भव॑ति , प्रऽनी॑तौ ॥
अदि॑ते॒ मित्र॒ वरु॑णो॒त मृ॑ळ॒ यद्वो॑ व॒यं च॑कृ॒मा कच्चि॒दागः॑ । उ॒र्व॑श्या॒मभ॑यं॒ ज्योति॑रिंद्र॒ मा नो॑ दी॒र्घा अ॒भि न॑शं॒तमि॑स्राः ॥
अदि॑ते , मित्र॑ , वरु॑ण , उ॒त , मृ॒ळ॒ , यत् , वः॒ , व॒यं , च॒कृ॒म , कत् , चि॒त् , आगः॑ । उ॒रु , अ॒श्यां॒ , अभ॑यं , ज्योतिः॑ , इं॒द्र॒ , मा , नः॒ , दी॒र्घाः , अ॒भि , न॒श॒न् , तमि॑स्राः ॥
उ॒भे अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न् । उ॒भा क्षया॑वा॒जय॑न्याति पृ॒त्सूभावर्धौ॑ भवतः सा॒धू अ॑स्मै ॥
उ॒भे इति॑ , अ॒स्मै॒ , पी॒प॒य॒तः॒ , स॒मी॒ची इति॑ सं॒ऽई॒ची , दि॒वः , वृ॒ष्टिं , सु॒ऽभगः॑ , नाम॑ , पुष्य॑न् । उ॒भा , क्षयौ॑ , आ॒ऽजय॑न् , या॒ति॒ , पृ॒त्ऽसु , उ॒भौ , अर्धौ॑ , भ॒व॒तः॒ , सा॒धू इति॑ , अ॒स्मै॒ ॥
या वो॑ मा॒या अ॑भि॒द्रुहे॑ यजत्राः॒ पाशा॑ आदित्या रि॒पवे॒ विचृ॑त्ताः । अ॒श्वीव॒ ताँ अति॑ येषं॒ रथे॒नारि॑ष्टा उ॒रावा शर्मं॑त्स्याम ॥
याः , वः॒ , मा॒याः , अ॒भि॒ऽद्रुहे॑ , य॒ज॒त्राः॒ , पाशाः॑ , आ॒दि॒त्याः॒ , रि॒पवे॑ , विऽचृ॑त्ताः । अ॒श्वीऽइ॑व , तान् , अति॑ , ये॒षं॒ , रथे॑न , अरि॑ष्टाः , उ॒रौ , आ , शर्म॑न् , स्या॒म॒ ॥
माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः । मा रा॒यो रा॑जंत्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
मा , अ॒हं , म॒घोनः॑ , व॒रु॒ण॒ , प्रि॒यस्य॑ , भू॒रि॒ऽदाव्नः॑ , आ , वि॒दं॒ , शूनं॑ , आ॒पेः । मा , रा॒यः , रा॒जन् , सु॒ऽयमा॑त् , अव॑ , स्थां॒ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[२८] इदंकवेरित्येकादशर्चस्य सूक्तस्य गार्त्समदःकूर्मोवरुणस्त्रिष्टुप् |(दशमी दुःस्वप्ननाशिनीत्रिष्वपिसूक्तेषु पाक्षिको गृत्समदोस्त्येव)|
इ॒दं क॒वेरा॑दि॒त्यस्य॑ स्व॒राजो॒ विश्वा॑नि॒ सांत्य॒भ्य॑स्तु म॒ह्ना । अति॒ यो मं॒द्रो य॒जथा॑य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरेः॑ ॥
इ॒दं , क॒वेः , आ॒दि॒त्यस्य॑ , स्व॒ऽराजः॑ , विश्वा॑नि , संति॑ , अ॒भि , अ॒स्तु॒ , म॒ह्ना । अति॑ , यः , मं॒द्रः , य॒जथा॑य , दे॒वः , सु॒ऽकी॒र्तिं , भि॒क्षे॒ , वरु॑णस्य , भूरेः॑ ॥
तव॑ व्र॒ते सु॒भगा॑सः स्याम स्वा॒ध्यो॑ वरुण तुष्टु॒वांसः॑ । उ॒पाय॑न उ॒षसां॒ गोम॑तीनाम॒ग्नयो॒ न जर॑माणा॒ अनु॒ द्यून् ॥
तव॑ , व्र॒ते , सु॒ऽभगा॑सः , स्या॒म॒ , सु॒ऽआ॒ध्यः॑ , व॒रु॒ण॒ , तु॒स्तु॒ऽवांसः॑ । उ॒प॒ऽअय॑ने , उ॒षसां॑ , गोऽम॑तीनां , अ॒ग्नयः॑ , न , जर॑माणाः , अनु॑ , द्यून् ॥
तव॑ स्याम पुरु॒वीर॑स्य॒ शर्म॑न्नुरु॒शंस॑स्य वरुण प्रणेतः । यू॒यं नः॑ पुत्रा अदितेरदब्धा अ॒भि क्ष॑मध्वं॒ युज्या॑य देवाः ॥
तव॑ , स्या॒म॒ , पु॒रु॒ऽवीर॑स्य , शर्म॑न् , उ॒रु॒ऽशंस॑स्य , व॒रु॒ण॒ , प्र॒ने॒त॒रिति॑ प्रऽनेतः । यू॒यं , नः॒ , पु॒त्राः॒ , अ॒दि॒तेः॒ , अ॒द॒ब्धाः॒ , अ॒भि , क्ष॒म॒ध्वं॒ , युज्या॑य , दे॒वाः॒ ॥
प्र सी॑मादि॒त्यो अ॑सृजद्विध॒र्ताँ ऋ॒तं सिंध॑वो॒ वरु॑णस्य यंति । न श्रा॑म्यंति॒ न वि मु॑चंत्ये॒ते वयो॒ न प॑प्तू रघु॒या परि॑ज्मन् ॥
प्र , सीं॒ , आ॒दि॒त्यः , अ॒सृ॒ज॒त् , वि॒ऽध॒र्ता , ऋ॒तं , सिंध॑वः , वरु॑णस्य , यं॒ति॒ । न , श्रा॒म्यं॒ति॒ , न , वि , मु॒चं॒ति॒ , ए॒ते , वयः॑ , न , प॒प्तुः॒ , र॒घु॒ऽया , परि॑ऽज्मन् ॥
वि मच्छ्र॑थाय रश॒नामि॒वाग॑ ऋ॒ध्याम॑ ते वरुण॒ खामृ॒तस्य॑ । मा तंतु॑श्छेदि॒ वय॑तो॒ धियं॑ मे॒ मा मात्रा॑ शार्य॒पसः॑ पु॒र ऋ॒तोः ॥
वि , मत् , श्र॒थ॒य॒ , र॒श॒नांऽइ॑व , आगः॑ , ऋ॒ध्याम॑ , ते॒ , व॒रु॒ण॒ , खां , ऋ॒तस्य॑ । मा , तंतुः॑ , छे॒दि॒ , वय॑तः , धियं॑ , मे॒ , मा , मात्रा॑ , शा॒रि॒ , अ॒पसः॑ , पु॒रा , ऋ॒तोः ॥
अपो॒ सु म्य॑क्ष वरुण भि॒यसं॒ मत्सम्रा॒ळृता॒वोऽनु॑ मा गृभाय । दामे॑व व॒त्साद्वि मु॑मु॒ग्ध्यंहो॑ न॒हि त्वदा॒रे नि॒मिष॑श्च॒नेशे॑ ॥
अपो॒ इति॑ , सु , म्य॒क्ष॒ , व॒रु॒ण॒ , भि॒यसं॑ , मत् , संऽरा॑ट् , ऋत॑ऽवः , अनु॑ , मा॒ , गृ॒भा॒य॒ । दाम॑ऽइव , व॒त्सात् , वि , मु॒मु॒ग्धि॒ , अंहः॑ , न॒हि , त्वत् , आ॒रे , नि॒ऽमिषः॑ , च॒न , ईशे॑ ॥
मा नो॑ व॒धैर्व॑रुण॒ ये त॑ इ॒ष्टावेनः॑ कृ॒ण्वंत॑मसुर भ्री॒णंति॑ । मा ज्योति॑षः प्रवस॒थानि॑ गन्म॒ वि षू मृधः॑ शिश्रथो जी॒वसे॑ नः ॥
मा , नः॒ , व॒धैः , व॒रु॒ण॒ , ये , ते॒ , इ॒ष्टौ , एनः॑ , कृ॒ण्वंतं॑ , अ॒सु॒र॒ , भ्री॒णंति॑ । मा , ज्योति॑षः , प्र॒ऽव॒स॒थानि॑ , ग॒न्म॒ , वि , सु , मृधः॑ , शि॒श्र॒थः॒ , जी॒वसे॑ , नः॒ ॥
नमः॑ पु॒रा ते॑ वरुणो॒त नू॒नमु॒ताप॒रं तु॑विजात ब्रवाम । त्वे हि कं॒ पर्व॑ते॒ न श्रि॒तान्यप्र॑च्युतानि दूळभ व्र॒तानि॑ ॥
नमः॑ , पु॒रा , ते॒ , व॒रु॒ण॒ , उ॒त , नू॒नं , उ॒त , अ॒प॒रं , तु॒वि॒ऽजा॒त॒ , ब्र॒वा॒म॒ । त्वे इति॑ , हि , कं॒ , पर्व॑ते , न , श्रि॒तानि॑ , अप्र॑ऽच्युतानि , दुः॒ऽद॒भ॒ , व्र॒तानि॑ ॥
पर॑ ऋ॒णा सा॑वी॒रध॒ मत्कृ॑तानि॒ माहं रा॑जन्न॒न्यकृ॑तेन भोजं । अव्यु॑ष्टा॒ इन्नु भूय॑सीरु॒षास॒ आ नो॑ जी॒वान्व॑रुण॒ तासु॑ शाधि ॥
परा॑ , ऋ॒णा , सा॒वीः॒ , अध॑ , मत्ऽकृ॑तानि , मा , अ॒हं , रा॒ज॒न् , अ॒न्यऽकृ॑तेन , भो॒जं॒ । अवि॑ऽउष्टाः , इत् , नु , भूय॑सीः , उ॒षसः॑ , आ , नः॒ , जी॒वान् , व॒रु॒ण॒ , तासु॑ , शा॒धि॒ ॥
यो मे॑ राज॒न्युज्यो॑ वा॒ सखा॑ वा॒ स्वप्ने॑ भ॒यं भी॒रवे॒ मह्य॒माह॑ । स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको॑ वा॒ त्वं तस्मा॑द्वरुण पाह्य॒स्मान् ॥
यः , मे॒ , रा॒ज॒न् , युज्यः॑ , वा॒ , सखा॑ , वा॒ , स्वप्ने॑ , भ॒यं , भी॒रवे॑ , मह्यं॑ , आह॑ । स्ते॒नः , वा॒ , यः , दिप्स॑ति , नः॒ , वृकः॑ , वा॒ , त्वं , तस्मा॑त् , व॒रु॒ण॒ , पा॒हि॒ , अ॒स्मान् ॥
माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः । मा रा॒यो रा॑जंत्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
मा , अ॒हं , म॒घोनः॑ , व॒रु॒ण॒ , प्रि॒यस्य॑ , भू॒रि॒ऽदाव्नः॑ , आ , वि॒दं॒ , शूनं॑ , आ॒पेः । मा , रा॒यः , रा॒जन् , सु॒ऽयमा॑त् , अव॑ , स्थां॒ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[२९] धृतव्रता इति सप्तर्चस्य सूक्तस्य गार्त्समदःकूर्मोविश्वेदेवास्त्रिष्टुप् | (भेदप्रयोगे - आद्यानांषण्णां विश्वेदेवाः अंत्यायावरुणः) |
धृत॑व्रता॒ आदि॑त्या॒ इषि॑रा आ॒रे मत्क॑र्त रह॒सूरि॒वागः॑ । शृ॒ण्व॒तो वो॒ वरु॑ण॒ मित्र॒ देवा॑ भ॒द्रस्य॑ वि॒द्वाँ अव॑से हुवे वः ॥
धृत॑ऽव्रताः , आदि॑त्याः , इषि॑राः , आ॒रे , मत् , क॒र्त॒ , र॒ह॒सूःऽइ॑व , आगः॑ । शृ॒ण्व॒तः , वः॒ , वरु॑ण , मित्र॑ , देवाः॑ , भ॒द्रस्य॑ , वि॒द्वान् , अव॑से , हु॒वे॒ , वः॒ ॥
यू॒यं दे॑वाः॒ प्रम॑तिर्यू॒यमोजो॑ यू॒यं द्वेषां॑सि सनु॒तर्यु॑योत । अ॒भि॒क्ष॒त्तारो॑ अ॒भि च॒ क्षम॑ध्वम॒द्या च॑ नो मृ॒ळय॑ताप॒रं च॑ ॥
यू॒यं , दे॒वाः॒ , प्रऽम॑तिः , यू॒यं , ओजः॑ , यू॒यं , द्वेषां॑सि , स॒नु॒तः , यु॒यो॒त॒ । अ॒भि॒ऽक्ष॒त्तारः॑ , अ॒भि , च॒ , क्षम॑ध्वं , अ॒द्य , च॒ , नः॒ , मृ॒ळय॑त , अ॒प॒रं , च॒ ॥
किमू॒ नु वः॑ कृणवा॒माप॑रेण॒ किं सने॑न वसव॒ आप्ये॑न । यू॒यं नो॑ मित्रावरुणादिते च स्व॒स्तिमिं॑द्रामरुतो दधात ॥
किं , ऊँ॒ इति॑ , नु , वः॒ , कृ॒ण॒वा॒म॒ , अप॑रेण , किं , सने॑न , व॒स॒वः॒ , आप्ये॑न । यू॒यं , नः॒ , मि॒त्रा॒व॒रु॒णा॒ , अ॒दि॒ते॒ , च॒ , स्व॒स्तिं , इं॒द्रा॒म॒रु॒तः॒ , द॒धा॒त॒ ॥
ह॒ये दे॑वा यू॒यमिदा॒पयः॑ स्थ॒ ते मृ॑ळत॒ नाध॑मानाय॒ मह्यं॑ । मा वो॒ रथो॑ मध्यम॒वाळृ॒ते भू॒न्मा यु॒ष्माव॑त्स्वा॒पिषु॑ श्रमिष्म ॥
ह॒ये , दे॒वाः॒ , यू॒यं , इत् , आ॒पयः॑ , स्थ॒ , ते , मृ॒ळ॒त॒ , नाध॑मानाय , मह्यं॑ । मा , वः॒ , रथः॑ , म॒ध्य॒म॒ऽवाट् , ऋ॒ते , भू॒त् , मा , यु॒ष्माव॑त्ऽसु , आ॒पिषु॑ , श्र॒मि॒ष्म॒ ॥
प्र व॒ एको॑ मिमय॒ भूर्यागो॒ यन्मा॑ पि॒तेव॑ कित॒वं श॑शा॒स । आ॒रे पाशा॑ आ॒रे अ॒घानि॑ देवा॒ मा माधि॑ पु॒त्रे विमि॑व ग्रभीष्ट ॥
प्र , वः॒ , एकः॑ , मि॒म॒य॒ , भूरि॑ , आगः॑ , यत् , मा॒ , पि॒ताऽइ॑व , कि॒त॒वं , श॒शा॒स । आ॒रे , पाशाः॑ , आ॒रे , अ॒घानि॑ , दे॒वाः॒ , मा , मा॒ , अधि॑ , पु॒त्रे , विंऽइ॑व , ग्र॒भी॒ष्ट॒ ॥
अ॒र्वांचो॑ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हार्दि॒ भय॑मानो व्ययेयं । त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्ताद॑व॒पदो॑ यजत्राः ॥
अ॒र्वांचः॑ , अ॒द्य , भ॒व॒त॒ , य॒ज॒त्राः॒ , आ , वः॒ , हार्दि॑ , भय॑मानः , व्य॒ये॒यं॒ । त्राध्वं॑ , नः॒ , दे॒वाः॒ , नि॒ऽजुरः॑ , वृक॑स्य , त्राध्वं॑ , क॒र्तात् , अ॒व॒ऽपदः॑ , य॒ज॒त्राः॒ ॥
माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः । मा रा॒यो रा॑जंत्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
मा , अ॒हं , म॒घोनः॑ , व॒रु॒ण॒ , प्रि॒यस्य॑ , भू॒रि॒ऽदाव्नः॑ , आ , वि॒दं॒ , शूनं॑ , आ॒पेः । मा , रा॒यः , रा॒जन् , सु॒ऽयमा॑त् , अव॑ , स्थां॒ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[३०] ऋतंदेवायेत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदइंद्रः षष्ठ्याइंद्रासोमौ अष्टम्याः सरस्वती नवम्याबृहस्पतिरेकादश्यामरुतस्त्रिष्टुबंत्याजगती |
ऋ॒तं दे॒वाय॑ कृण्व॒ते स॑वि॒त्र इंद्रा॑याहि॒घ्ने न र॑मंत॒ आपः॑ । अह॑रहर्यात्य॒क्तुर॒पां किया॒त्या प्र॑थ॒मः सर्ग॑ आसां ॥
ऋ॒तं , दे॒वाय॑ , कृ॒ण्व॒ते , स॒वि॒त्रे , इंद्रा॑य , अ॒हि॒ऽघ्ने , न , र॒मं॒ते॒ , आपः॑ । अहः॑ऽअहः , या॒ति॒ , अ॒क्तुः , अ॒पां , किय॑ति , आ , प्र॒थ॒मः , सर्गः॑ , आ॒सां॒ ॥
यो वृ॒त्राय॒ सिन॒मत्राभ॑रिष्य॒त्प्र तं जनि॑त्री वि॒दुष॑ उवाच । प॒थो रदं॑ती॒रनु॒ जोष॑मस्मै दि॒वेदि॑वे॒ धुन॑यो यं॒त्यर्थं॑ ॥
यः , वृ॒त्राय॑ , सिनं॑ , अत्र॑ , अभ॑रिष्यत् , प्र , तं , जनि॑त्री , वि॒दुषे॑ , उ॒वा॒च॒ । प॒थः , रदं॑तीः , अनु॑ , जोषं॑ , अ॒स्मै॒ , दि॒वेऽदि॑वे , धुन॑यः , यं॒ति॒ , अर्थं॑ ॥
ऊ॒र्ध्वो ह्यस्था॒दध्यं॒तरि॒क्षेऽधा॑ वृ॒त्राय॒ प्र व॒धं ज॑भार । मिहं॒ वसा॑न॒ उप॒ हीमदु॑द्रोत्ति॒ग्मायु॑धो अजय॒च्छत्रु॒मिंद्रः॑ ॥
ऊ॒र्ध्वः , हि , अस्था॑त् , अधि॑ , अं॒तरि॑क्षे , अध॑ , वृ॒त्राय॑ , प्र , व॒धं , ज॒भा॒र॒ । मिहं॑ , वसा॑नः , उप॑ , हि , ईं॒ , अदु॑द्रोत् , ति॒ग्मऽआ॑युधः , अ॒ज॒य॒त् , शत्रुं॑ , इंद्रः॑ ॥
बृह॑स्पते॒ तपु॒षाश्ने॑व विध्य॒ वृक॑द्वरसो॒ असु॑रस्य वी॒रान् । यथा॑ ज॒घंथ॑ धृष॒ता पु॒रा चि॑दे॒वा ज॑हि॒ शत्रु॑म॒स्माक॑मिंद्र ॥
बृह॑स्पते , तपु॑षा , अश्ना॑ऽइव , वि॒ध्य॒ , वृक॑ऽद्वरसः , असु॑रस्य , वी॒रान् । यथा॑ , ज॒घंथ॑ , धृ॒ष॒ता , पु॒रा , चि॒त् , ए॒व , ज॒हि॒ , शत्रुं॑ , अ॒स्माकं॑ , इं॒द्र॒ ॥
अव॑ क्षिप दि॒वो अश्मा॑नमु॒च्चा येन॒ शत्रुं॑ मंदसा॒नो नि॒जूर्वाः॑ । तो॒कस्य॑ सा॒तौ तन॑यस्य॒ भूरे॑र॒स्माँ अ॒र्धं कृ॑णुतादिंद्र॒ गोनां॑ ॥
अव॑ , क्षि॒प॒ , दि॒वः , अश्मा॑नं , उ॒च्चा , येन॑ , शत्रुं॑ , मं॒द॒सा॒नः , नि॒ऽजूर्वाः॑ । तो॒कस्य॑ , सा॒तौ , तन॑यस्य , भूरेः॑ , अ॒स्मान् , अ॒र्धं , कृ॒णु॒ता॒त् , इं॒द्र॒ , गोनां॑ ॥
प्र हि क्रतुं॑ वृ॒हथो॒ यं व॑नु॒थो र॒ध्रस्य॑ स्थो॒ यज॑मानस्य चो॒दौ । इंद्रा॑सोमा यु॒वम॒स्माँ अ॑विष्टम॒स्मिन्भ॒यस्थे॑ कृणुतमु लो॒कं ॥
प्र , हि , क्रतुं॑ , वृ॒हथः॑ , यं , व॒नु॒थः , र॒ध्रस्य॑ , स्थः॒ , यज॑मानस्य , चो॒दौ । इंद्रा॑सोमा , यु॒वं , अ॒स्मान् , अ॒वि॒ष्टं॒ , अ॒स्मिन् , भ॒यऽस्थे॑ , कृ॒णु॒तं॒ , ऊँ॒ इति॑ , लो॒कं ॥
न मा॑ तम॒न्न श्र॑म॒न्नोत तं॑द्र॒न्न वो॑चाम॒ मा सु॑नो॒तेति॒ सोमं॑ । यो मे॑ पृ॒णाद्यो दद॒द्यो नि॒बोधा॒द्यो मा॑ सु॒न्वंत॒मुप॒ गोभि॒राय॑त् ॥
न , मा॒ , त॒म॒त् , न , श्र॒म॒त् , न , उ॒त , तं॒द्र॒त् , न , वो॒चा॒म॒ , मा , सु॒नो॒त॒ , इति॑ , सोमं॑ । यः , मे॒ , पृ॒णात् , यः , दद॑त् , यः , नि॒ऽबोधा॑त् , यः , मा॒ , सु॒न्वंतं॑ , उप॑ , गोभिः॑ , आ , अय॑त् ॥
सर॑स्वति॒ त्वम॒स्माँ अ॑विड्ढि म॒रुत्व॑ती धृष॒ती जे॑षि॒ शत्रू॑न् । त्यं चि॒च्छर्धं॑तं तविषी॒यमा॑ण॒मिंद्रो॑ हंति वृष॒भं शंडि॑कानां ॥
सर॑स्वति , त्वं , अ॒स्मान् , अ॒वि॒ड्ढि॒ , म॒रुत्व॑ती , धृ॒ष॒ती , जे॒षि॒ , शत्रू॑न् । त्यं , चि॒त् , शर्धं॑तं , त॒वि॒षी॒ऽयमा॑णं , इंद्रः॑ , हं॒ति॒ , वृ॒ष॒भं , शंडि॑कानां ॥
यो नः॒ सनु॑त्य उ॒त वा॑ जिघ॒त्नुर॑भि॒ख्याय॒ तं ति॑गि॒तेन॑ विध्य । बृह॑स्पत॒ आयु॑धैर्जेषि॒ शत्रूं॑द्रु॒हे रीषं॑तं॒ परि॑ धेहि राजन् ॥
यः , नः॒ , सनु॑त्यः , उ॒त , वा॒ , जि॒घ॒त्नुः , अ॒भि॒ऽख्याय॑ , तं , ति॒गि॒तेन॑ , वि॒ध्य॒ । बृह॑स्पते , आयु॑धैः , जे॒षि॒ , शत्रू॑न् , द्रु॒हे , रिषं॑तं , परि॑ , धे॒हि॒ , रा॒ज॒न् ॥
अ॒स्माके॑भिः॒ सत्व॑भिः शूर॒ शूरै॑र्वी॒र्या॑ कृधि॒ यानि॑ ते॒ कर्त्वा॑नि । ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू॑नि ॥
अ॒स्माके॑भिः , सत्व॑ऽभिः , शू॒र॒ , शूरैः॑ , वी॒र्या॑ , कृ॒धि॒ , यानि॑ , ते॒ , कर्त्वा॑नि । ज्योक् , अ॒भू॒व॒न् , अनु॑ऽधूपितासः , ह॒त्वी , तेषां॑ , आ , भ॒र॒ , नः॒ , वसू॑नि ॥
तं वः॒ शर्धं॒ मारु॑तं सुम्न॒युर्गि॒रोप॑ ब्रुवे॒ नम॑सा॒ दैव्यं॒ जनं॑ । यथा॑ र॒यिं सर्व॑वीरं॒ नशा॑महा अपत्य॒साचं॒ श्रुत्यं॑ दि॒वेदि॑वे ॥
तं , वः॒ , शर्धं॑ , मारु॑तं , सु॒म्न॒ऽयुः , गि॒रा , उप॑ , ब्रु॒वे॒ , नम॑सा , दैव्यं॑ , जनं॑ । यथा॑ , र॒यिं , सर्व॑ऽवीरं , नशा॑महै , अ॒प॒त्य॒ऽसाचं॑ , श्रुत्यं॑ , दि॒वेऽदि॑वे ॥
[३१] अस्माकमिति सप्तर्चस्य सूक्तस्य शौनकोगृत्समदो विश्वेदेवाजगत्यंत्यात्रिष्टुप् | ( भेदपक्षे - आद्यायामित्रावरुणौ द्वितीयाचतुर्थीपंचमीनांविश्वेदेवाः तृतीयाया उषासानक्ता षष्ट्याद्यावापृथिवी सप्तम्याइंद्रः) |
अ॒स्माकं॑ मित्रावरुणावतं॒ रथ॑मादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ । प्र यद्वयो॒ न पप्त॒न्वस्म॑न॒स्परि॑ श्रव॒स्यवो॒ हृषी॑वंतो वन॒र्षदः॑ ॥
अ॒स्माकं॑ , मि॒त्रा॒व॒रु॒णा॒ , अ॒व॒तं॒ , रथं॑ , आ॒दि॒त्यैः , रु॒द्रैः , वसु॑ऽभिः , स॒चा॒ऽभुवा॑ । प्र , यत् , वयः॑ , न , पप्त॑न् , वस्म॑नः , परि॑ , श्र॒व॒स्यवः॑ , हृषी॑वंतः , व॒न॒ऽसदः॑ ॥
अध॑ स्मा न॒ उद॑वता सजोषसो॒ रथं॑ देवासो अ॒भि वि॒क्षु वा॑ज॒युं । यदा॒शवः॒ पद्या॑भि॒स्तित्र॑तो॒ रजः॑ पृथि॒व्याः सानौ॒ जंघ॑नंत पा॒णिभिः॑ ॥
अध॑ , स्म॒ , नः॒ , उत् , अ॒व॒त॒ , स॒ऽजो॒ष॒सः॒ , रथं॑ , दे॒वा॒सः॒ , अ॒भि , वि॒क्षु , वा॒ज॒ऽयुं । यत् , आ॒शवः॑ , पद्या॑भिः , तित्र॑तः , रजः॑ , पृ॒थि॒व्याः , सानौ॑ , जंघ॑नंत , पा॒णिऽभिः॑ ॥
उ॒त स्य न॒ इंद्रो॑ वि॒श्वच॑र्षणिर्दि॒वः शर्धे॑न॒ मारु॑तेन सु॒क्रतुः॑ । अनु॒ नु स्था॑त्यवृ॒काभि॑रू॒तिभी॒ रथं॑ म॒हे स॒नये॒ वाज॑सातये ॥
उ॒त , स्यः , नः॒ , इंद्रः॑ , वि॒श्वऽच॑र्षणिः , दि॒वः , शर्धे॑न , मारु॑तेन , सु॒ऽक्रतुः॑ । अनु॑ , नु , स्था॒ति॒ , अ॒वृ॒काभिः॑ , ऊ॒तिऽभिः॑ , रथं॑ , म॒हे , स॒नये॑ , वाज॑ऽसातये ॥
उ॒त स्य दे॒वो भुव॑नस्य स॒क्षणि॒स्त्वष्टा॒ ग्नाभिः॑ स॒जोषा॑ जूजुव॒द्रथं॑ । इळा॒ भगो॑ बृहद्दि॒वोत रोद॑सी पू॒षा पुरं॑धिर॒श्विना॒वधा॒ पती॑ ॥
उ॒त , स्यः , दे॒वः , भुव॑नस्य , स॒क्षणिः॑ , त्वष्टा॑ , ग्नाभिः॑ , स॒ऽजोषाः॑ , जू॒जु॒व॒त् , रथं॑ । इळा॑ , भगः॑ , बृ॒ह॒त्ऽदि॒वा , उ॒त , रोद॑सी॒ इति॑ , पू॒षा , पुरं॑ऽधिः , अ॒श्विनौ॑ , अध॑ , पती॒ इति॑ ॥
उ॒त त्ये दे॒वी सु॒भगे॑ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा॑ । स्तु॒षे यद्वां॑ पृथिवि॒ नव्य॑सा॒ वचः॑ स्था॒तुश्च॒ वय॒स्त्रिव॑या उप॒स्तिरे॑ ॥
उ॒त , त्ये इति॑ , दे॒वी इति॑ , सु॒भगे॒ इति॑ सु॒ऽभगे॑ , मि॒थु॒ऽदृशा॑ , उ॒षसा॒नक्ता॑ , जग॑तां , अ॒पि॒ऽजुवा॑ । स्तु॒षे , यत् , वां॒ , पृ॒थि॒वि॒ , नव्य॑सा , वचः॑ , स्था॒तुः , च॒ , वयः॑ , त्रिऽव॑याः , उ॒प॒ऽस्तिरे॑ ॥
उ॒त वः॒ शंस॑मु॒शिजा॑मिव श्म॒स्यहि॑र्बु॒ध्न्यो॒३॒॑ऽज एक॑पादु॒त । त्रि॒त ऋ॑भु॒क्षाः स॑वि॒ता चनो॑ दधे॒ऽपां नपा॑दाशु॒हेमा॑ धि॒या शमि॑ ॥
उ॒त , वः॒ , शंसं॑ , उ॒शिजां॑ऽइव , श्म॒सि॒ , अहिः॑ , बु॒ध्न्यः॑ , अ॒जः , एक॑ऽपात् , उ॒त । त्रि॒तः , ऋ॒भु॒क्षाः , स॒वि॒ता , चनः॑ , द॒धे॒ , अ॒पां , नपा॑त् , आ॒शु॒ऽहेमा॑ , धि॒या , शमि॑ ॥
ए॒ता वो॑ व॒श्म्युद्य॑ता यजत्रा॒ अत॑क्षन्ना॒यवो॒ नव्य॑से॒ सं । श्र॒व॒स्यवो॒ वाजं॑ चका॒नाः सप्ति॒र्न रथ्यो॒ अह॑ धी॒तिम॑श्याः ॥
ए॒ता , वः॒ , व॒श्मि॒ , उत्ऽय॑ता , य॒ज॒त्राः॒ , अत॑क्षन् , आ॒यवः॑ , नव्य॑से , सं । श्र॒व॒स्यवः॑ , वाजं॑ , च॒का॒नाः , सप्तिः॑ , न , रथ्यः॑ , अह॑ , धी॒तिं , अ॒श्याः॒ ॥
[३२] अस्यमइत्यष्टर्चस्य सूक्तस्य शौनकोगृत्समदाद्याया द्यावापृथिवी द्वितीयातृतीययोरिंद्रः (त्वष्टावा) चतुर्थीपंचम्योराका षष्ठीसप्तम्योःसिनीवाली अंत्यायागुंगूसिनीवाली राकासरस्वतींद्राणीवरुणान्योजगती अंत्यास्तिस्रोनुष्टुभः |
अ॒स्य मे॑ द्यावापृथिवी ऋताय॒तो भू॒तम॑वि॒त्री वच॑सः॒ सिषा॑सतः । ययो॒रायुः॑ प्रत॒रं ते इ॒दं पु॒र उप॑स्तुते वसू॒युर्वां॑ म॒हो द॑धे ॥
अ॒स्य , मे॒ , द्या॒वा॒पृ॒थि॒वी॒ इति॑ , ऋ॒त॒ऽय॒तः , भू॒तं , अ॒वि॒त्री इति॑ , वच॑सः , सिसा॑सतः । ययोः॑ , आयुः॑ , प्र॒ऽत॒रं , ते इति॑ , इ॒दं , पु॒रः , उप॑स्तुते॒ इत्युप॑ऽस्तुते , व॒सु॒ऽयुः , वा॒ , म॒हः , द॒धे॒ ॥
मा नो॒ गुह्या॒ रिप॑ आ॒योरहं॑दभ॒न्मा न॑ आ॒भ्यो री॑रधो दु॒च्छुना॑भ्यः । मा नो॒ वि यौः॑ स॒ख्या वि॒द्धि तस्य॑ नः सुम्नाय॒ता मन॑सा॒ तत्त्वे॑महे ॥
मा , नः॒ , गुह्याः॑ , रिपः॑ , आ॒योः , अह॑न् , द॒भ॒न् , मा , नः॒ , आ॒भ्यः , री॒र॒धः॒ , दु॒च्छुना॑भ्यः । मा , नः॒ , वि , यौः॒ , स॒ख्या , वि॒द्धि , तस्य॑ , नः॒ , सु॒म्न॒ऽय॒ता , मन॑सा , तत् , त्वा॒ , ई॒म॒हे॒ ॥
अहे॑ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा॑नां धे॒नुं पि॒प्युषी॑मस॒श्चतं॑ । पद्या॑भिरा॒शुं वच॑सा च वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा॑ ॥
अहे॑ळता , मन॑सा , श्रु॒ष्टिं , आ , व॒ह॒ , दुहा॑नां , धे॒नुं , पि॒प्युषीं॑ , अ॒स॒श्चतं॑ । पद्या॑भिः , आ॒शुं , वच॑सा , च॒ , वा॒जिनं॑ , त्वां , हि॒नो॒मि॒ , पु॒रु॒ऽहू॒त॒ , वि॒श्वहा॑ ॥
रा॒काम॒हं सु॒हवां॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना॑ । सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्यं॑ ॥
रा॒कां , अ॒हं , सु॒ऽहवां॑ , सु॒ऽस्तु॒ती , हु॒वे॒ , शृ॒णोतु॑ , नः॒ , सु॒ऽभगा॑ , बोध॑तु , त्मना॑ । सीव्य॑तु , अपः॑ , सू॒च्या , अच्छि॑द्यमानया , ददा॑तु , वी॒रं , श॒तऽदा॑यं , उ॒क्थ्यं॑ ॥
यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि । ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा॑णा ॥
याः , ते॒ , रा॒के॒ , सु॒ऽम॒तयः॑ , सु॒ऽपेश॑सः , याभिः॑ , ददा॑सि , दा॒शुषे॑ , वसू॑नि । ताभिः॑ , नः॒ , अ॒द्य , सु॒ऽमनाः॑ , उ॒प॒ऽआग॑हि , स॒ह॒स्र॒ऽपो॒षं , सु॒ऽभ॒गे॒ , ररा॑णा ॥
सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ । जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥
सिनी॑वालि , पृथु॑ऽस्तुके , या , दे॒वानां॑ , असि॑ , स्वसा॑ । जु॒षस्व॑ , ह॒व्यं , आऽहु॑तं , प्र॒ऽजां , दे॒वि॒ , दि॒दि॒ड्ढि॒ , नः॒ ॥
या सु॑बा॒हुः स्वं॑गु॒रिः सु॒षूमा॑ बहु॒सूव॑री । तस्यै॑ वि॒श्पत्न्यै॑ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥
या , सु॒ऽबा॒हुः , सु॒ऽअं॒गु॒रिः , सु॒ऽसूमा॑ , ब॒हु॒ऽसूव॑री । तस्यै॑ , वि॒श्पत्न्यै॑ , ह॒विः , सि॒नी॒वा॒ल्यै , जु॒हो॒त॒न॒ ॥
या गुं॒गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती । इं॒द्रा॒णीम॑ह्व ऊ॒तये॑ वरुणा॒नीं स्व॒स्तये॑ ॥
या , गुं॒गूः , या , सि॒नी॒वा॒ली , या , रा॒का , या , सर॑स्वती । इं॒द्रा॒णीं , अ॒ह्वे॒ , ऊ॒तये॑ , व॒रु॒णा॒नीं , स्व॒स्तये॑ ॥
[३३] आतेपितरिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोरुद्रोजगत्यंत्यात्रिष्टुप् |
आ ते॑ पितर्मरुतां सु॒म्नमे॑तु॒ मा नः॒ सूर्य॑स्य सं॒दृशो॑ युयोथाः । अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत॒ प्र जा॑येमहि रुद्र प्र॒जाभिः॑ ॥
आ , ते॒ , पि॒तः॒ , म॒रु॒तां॒ , सु॒म्नं , ए॒तु॒ , मा , नः॒ , सूर्य॑स्य , सं॒ऽदृशः॑ , यु॒यो॒थाः॒ । अ॒भि , नः॒ , वी॒रः , अर्व॑ति , क्ष॒मे॒त॒ , प्र , जा॒ये॒म॒हि॒ , रु॒द्र॒ , प्र॒ऽजाभिः॑ ॥
त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा॑ अशीय भेष॒जेभिः॑ । व्य१॒॑स्मद्द्वेषो॑ वित॒रं व्यंहो॒ व्यमी॑वाश्चातयस्वा॒ विषू॑चीः ॥
त्वाऽद॑त्तेभिः , रु॒द्र॒ , शंऽत॑मेभिः , श॒तं , हिमाः॑ , अ॒शी॒य॒ , भे॒ष॒जेभिः॑ । वि , अ॒स्मत् , द्वेषः॑ , वि॒ऽत॒रं , वि , अंहः॑ , वि , अमी॑वाः , चा॒त॒य॒स्व॒ , विषू॑चीः ॥
श्रेष्ठो॑ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां॑ वज्रबाहो । पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा॑ अ॒भी॑ती॒ रप॑सो युयोधि ॥
श्रेष्ठः॑ , जा॒तस्य॑ , रु॒द्र॒ , श्रि॒या , अ॒सि॒ , त॒वःऽत॑मः , त॒वसां॑ , व॒ज्र॒बा॒हो॒ इति॑ वज्रऽबाहो । पर्षि॑ , नः॒ , पा॒रं , अंह॑सः , स्व॒स्ति , विश्वाः॑ , अ॒भिऽइ॑तीः , रप॑सः , यु॒यो॒धि॒ ॥
मा त्वा॑ रुद्र चुक्रुधामा॒ नमो॑भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू॑ती । उन्नो॑ वी॒राँ अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां॑ शृणोमि ॥
मा , त्वा॒ , रु॒द्र॒ , चु॒क्रु॒धा॒म॒ , नमः॑ऽभिः , मा , दुःऽस्तु॑ती , वृ॒ष॒भ॒ , मा , सऽहू॑ती । उत् , नः॒ , वी॒रान् , अ॒र्प॒य॒ , भे॒ष॒जेभिः॑ , भि॒षक्ऽत॑मं , त्वा॒ , भि॒षजां॑ , शृ॒णो॒मि॒ ॥
हवी॑मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे॑भी रु॒द्रं दि॑षीय । ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो॑ अ॒स्यै ब॒भ्रुः सु॒शिप्रो॑ रीरधन्म॒नायै॑ ॥
हवी॑मऽभिः , हव॑ते , यः , ह॒विःऽभिः॑ , अव॑ , स्तोमे॑भिः , रु॒द्रं , दि॒षी॒य॒ । ऋ॒दू॒दरः॑ , सु॒ऽहवः॑ , मा , नः॒ , अ॒स्यै , ब॒भ्रुः , सु॒ऽशिप्रः॑ , री॒र॒ध॒त् , म॒नायै॑ ॥
उन्मा॑ ममंद वृष॒भो म॒रुत्वां॒त्वक्षी॑यसा॒ वय॑सा॒ नाध॑मानं । घृणी॑व च्छा॒याम॑र॒पा अ॑शी॒या वि॑वासेयं रु॒द्रस्य॑ सु॒म्नं ॥
उत् , मा॒ , म॒मं॒द॒ , वृ॒ष॒भः , म॒रुत्वा॑न् , त्वक्षी॑यसा , वय॑सा , नाध॑मानं । घृणि॑ऽइव , छा॒यां , अ॒र॒पाः , अ॒शी॒य॒ , आ , वि॒वा॒से॒यं॒ , रु॒द्रस्य॑ , सु॒म्नं ॥
क्व१॒॑ स्य ते॑ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला॑षः । अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा॑ वृषभ चक्षमीथाः ॥
क्व॑ , स्यः , ते॒ , रु॒द्र॒ , मृ॒ळ॒याकुः॑ , हस्तः॑ , यः , अस्ति॑ , भे॒ष॒जः , जला॑षः । अ॒प॒ऽभ॒र्ता , रप॑सः , दैव्य॑स्य , अ॒भि , नु , मा॒ , वृ॒ष॒भ॒ , च॒क्ष॒मी॒थाः॒ ॥
प्र ब॒भ्रवे॑ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी॑रयामि । न॒म॒स्या क॑ल्मली॒किनं॒ नमो॑भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ॥
प्र , ब॒भ्रवे॑ , वृ॒ष॒भाय॑ , श्वि॒ती॒चे , म॒हः , म॒हीं , सु॒ऽस्तु॒तिं , ई॒र॒या॒मि॒ । न॒म॒स्य , क॒ल्म॒ली॒किनं॑ , नमः॑ऽभिः , गृ॒णी॒मसि॑ , त्वे॒षं , रु॒द्रस्य॑ , नाम॑ ॥
स्थि॒रेभि॒रंगैः॑ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर॑ण्यैः । ईशा॑नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रु॒द्राद॑सु॒र्यं॑ ॥
स्थि॒रेभिः॑ , अंगैः॑ , पु॒रु॒ऽरूपः॑ , उ॒ग्रः , ब॒भ्रुः , शु॒क्रेभिः॑ , पि॒पि॒शे॒ , हिर॑ण्यैः । ईशा॑नात् , अ॒स्य , भुव॑नस्य , भूरेः॑ , न , वै , ऊँ॒ इति॑ , यो॒ष॒त् , रु॒द्रात् , अ॒सु॒र्यं॑ ॥
अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पं । अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥
अर्ह॑न् , बि॒भ॒र्षि॒ , साय॑कानि , धन्व॑ , अर्ह॑न् , नि॒ष्कं , य॒ज॒तं , वि॒श्वऽरू॑पं । अर्ह॑न् , इ॒दं , द॒य॒से॒ , विश्वं॑ , अभ्वं॑ , न , वै , ओजी॑यः , रु॒द्र॒ , त्वत् , अ॒स्ति॒ ॥
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रं । मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो॒ऽन्यं ते॑ अ॒स्मन्नि व॑पंतु॒ सेनाः॑ ॥
स्तु॒हि , श्रु॒तं , ग॒र्त॒ऽसदं॑ , युवा॑नं , मृ॒गं , न , भी॒मं , उ॒प॒ऽह॒त्नुं , उ॒ग्रं । मृ॒ळ , ज॒रि॒त्रे , रु॒द्र॒ , स्तवा॑नः , अ॒न्यं , ते॒ , अ॒स्मत् , नि , व॒पं॒तु॒ , सेनाः॑ ॥
कु॒मा॒रश्चि॑त्पि॒तरं॒ वंद॑मानं॒ प्रति॑ नानाम रुद्रोप॒यंतं॑ । भूरे॑र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे॑ष॒जा रा॑स्य॒स्मे ॥
कु॒मा॒रः , चि॒त् , पि॒तरं॑ , वंद॑मानं , प्रति॑ , न॒ना॒म॒ , रु॒द्र॒ , उ॒प॒ऽयंतं॑ । भूरेः॑ , दा॒तारं॑ , सत्ऽप॑तिं , गृ॒णी॒षे॒ , स्तु॒तः , त्वं , भे॒ष॒जा , रा॒सि॒ , अ॒स्मे इति॑ ॥
या वो॑ भेष॒जा म॑रुतः॒ शुची॑नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु । यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ॥
या , वः॒ , भे॒ष॒जा , म॒रु॒तः॒ , शुची॑नि , या , शंऽत॑मा , वृ॒ष॒णः॒ , या , म॒यः॒ऽभु । यानि॑ , मनुः॑ , अवृ॑णीत , पि॒ता , नः॒ , ता , शं , च॒ , योः , च॒ , रु॒द्रस्य॑ , व॒श्मि॒ ॥
परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा॑त् । अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ॥
परि॑ , नः॒ , हे॒तिः , रु॒द्रस्य॑ , वृ॒ज्याः॒ , परि॑ , त्वे॒षस्य॑ , दुः॒ऽम॒तिः , म॒ही , गा॒त् । अव॑ , स्थि॒रा , म॒घव॑त्ऽभ्यः , त॒नु॒ष्व॒ , मीढ्वः॑ , तो॒काय॑ , तन॑याय , मृ॒ळ॒ ॥
ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा॑ देव॒ न हृ॑णी॒षे न हंसि॑ । ह॒व॒न॒श्रुन्नो॑ रुद्रे॒ह बो॑धि बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
ए॒व , ब॒भ्रो॒ इति॑ , वृ॒ष॒भ॒ , चे॒कि॒ता॒न॒ , यथा॑ , दे॒व॒ , न , हृ॒णी॒षे , न , हंसि॑ । ह॒व॒न॒ऽश्रुत् , नः॒ , रु॒द्र॒ , इ॒ह , बो॒धि॒ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[३४] धारावराइति पंचदशर्चस्य सूक्तस्यशौनको गृत्समदोमरुतोजगत्यंत्यात्रिष्टुप् |
धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्ण्वो॑जसो मृ॒गा न भी॒मास्तवि॑षीभिर॒र्चिनः॑ । अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणो॒ भृमिं॒ धमं॑तो॒ अप॒ गा अ॑वृण्वत ॥
धा॒रा॒व॒राः , म॒रुतः॑ , धृ॒ष्णुऽओ॑जसः , मृ॒गाः , न , भी॒माः , तवि॑षीभिः , अ॒र्चिनः॑ । अ॒ग्नयः॑ , न , शु॒शु॒चा॒नाः , ऋ॒जी॒षिणः॑ , भृमिं॑ , धमं॑तः , अप॑ , गाः , अ॒वृ॒ण्व॒त॒ ॥
द्यावो॒ न स्तृभि॑श्चितयंत खा॒दिनो॒ व्य१॒॑भ्रिया॒ न द्यु॑तयंत वृ॒ष्टयः॑ । रु॒द्रो यद्वो॑ मरुतो रुक्मवक्षसो॒ वृषाज॑नि॒ पृश्न्याः॑ शु॒क्र ऊध॑नि ॥
द्यावः॑ , न , स्तृऽभिः॑ , चि॒त॒यं॒त॒ , खा॒दिनः॑ , वि , अ॒भ्रियाः॑ , न , द्यु॒त॒यं॒त॒ , वृ॒ष्टयः॑ । रु॒द्रः , यत् , वः॒ , म॒रु॒तः॒ , रु॒क्म॒ऽव॒क्ष॒सः॒ , वृषा॑ , अज॑नि , पृश्न्याः॑ , शु॒क्रे , ऊध॑नि ॥
उ॒क्षंते॒ अश्वाँ॒ अत्याँ॑ इवा॒जिषु॑ न॒दस्य॒ कर्णै॑स्तुरयंत आ॒शुभिः॑ । हिर॑ण्यशिप्रा मरुतो॒ दवि॑ध्वतः पृ॒क्षं या॑थ॒ पृष॑तीभिः समन्यवः ॥
उ॒क्षंते॑ , अश्वा॑न् , अत्या॑न्ऽइव , आ॒जिषु॑ , न॒दस्य॑ , कर्णैः॑ , तु॒र॒यं॒ते॒ , आ॒शुऽभिः॑ । हिर॑ण्यऽशिप्राः , म॒रु॒तः॒ , दवि॑ध्वतः , पृ॒क्षं , या॒थ॒ , पृष॑तीभिः , स॒ऽम॒न्य॒वः॒ ॥
पृ॒क्षे ता विश्वा॒ भुव॑ना ववक्षिरे मि॒त्राय॑ वा॒ सद॒मा जी॒रदा॑नवः । पृष॑दश्वासो अनव॒भ्ररा॑धस ऋजि॒प्यासो॒ न व॒युने॑षु धू॒र्षदः॑ ॥
पृ॒क्षे , ता , विश्वा॑ , भुव॑ना , व॒व॒क्षि॒रे॒ , मि॒त्राय॑ , वा॒ , सदं॑ , आ , जी॒रऽदा॑नवः । पृष॑त्ऽअश्वासः , अ॒न॒व॒भ्रऽरा॑धसः , ऋ॒जि॒प्यासः॑ , न , व॒युने॑षु , धूः॒ऽसदः॑ ॥
इंध॑न्वभिर्धे॒नुभी॑ र॒प्शदू॑धभिरध्व॒स्मभिः॑ प॒थिभि॑र्भ्राजदृष्टयः । आ हं॒सासो॒ न स्वस॑राणि गंतन॒ मधो॒र्मदा॑य मरुतः समन्यवः ॥
इंध॑न्वऽभिः , धे॒नुऽभिः॑ , र॒प्शदू॑धऽभिः , अ॒ध्व॒स्मऽभिः॑ , प॒थिऽभिः॑ , भ्रा॒ज॒त्ऽऋ॒ष्ट॒यः॒ । आ , हं॒सासः॑ , न , स्वस॑राणि , गं॒त॒न॒ , मधोः॑ , मदा॑य , म॒रु॒तः॒ , स॒ऽम॒न्य॒वः॒ ॥
आ नो॒ ब्रह्मा॑णि मरुतः समन्यवो न॒रां न शंसः॒ सव॑नानि गंतन । अश्वा॑मिव पिप्यत धे॒नुमूध॑नि॒ कर्ता॒ धियं॑ जरि॒त्रे वाज॑पेशसं ॥
आ , नः॒ , ब्रह्मा॑णि , म॒रु॒तः॒ , स॒ऽम॒न्य॒वः॒ , न॒रां , न , शंसः॑ , सव॑नानि , गं॒त॒न॒ । अश्वां॑ऽइव , पि॒प्य॒त॒ , धे॒नुं , ऊध॑नि , कर्त॑ , धियं॑ , ज॒रि॒त्रे , वाज॑ऽपेशसं ॥
तं नो॑ दात मरुतो वा॒जिनं॒ रथ॑ आपा॒नं ब्रह्म॑ चि॒तय॑द्दि॒वेदि॑वे । इषं॑ स्तो॒तृभ्यो॑ वृ॒जने॑षु का॒रवे॑ स॒निं मे॒धामरि॑ष्टं दु॒ष्टरं॒ सहः॑ ॥
तं , नः॒ , दा॒त॒ , म॒रु॒तः॒ , वा॒जिनं॑ , रथे॑ , आ॒पा॒नं , ब्रह्म॑ , चि॒तय॑त् , दि॒वेऽदि॑वे । इषं॑ , स्तो॒तृऽभ्यः॑ , वृ॒जने॑षु , का॒रवे॑ , स॒निं , मे॒धां , अरि॑ष्टं , दु॒स्तरं॑ , सहः॑ ॥
यद्युं॒जते॑ म॒रुतो॑ रु॒क्मव॑क्ष॒सोऽश्वा॒न्रथे॑षु॒ भग॒ आ सु॒दान॑वः । धे॒नुर्न शिश्वे॒ स्वस॑रेषु पिन्वते॒ जना॑य रा॒तह॑विषे म॒हीमिषं॑ ॥
यत् , युं॒जते॑ , म॒रुतः॑ , रु॒क्मऽव॑क्षसः , अश्वा॑न् , रथे॑षु , भगे॑ , आ , सु॒ऽदान॑वः । धे॒नुः , न , शिश्वे॑ , स्वस॑रेषु , पि॒न्व॒ते॒ , जना॑य , रा॒तऽह॑विषे , म॒हीं , इषं॑ ॥
यो नो॑ मरुतो वृ॒कता॑ति॒ मर्त्यो॑ रि॒पुर्द॒धे व॑सवो॒ रक्ष॑ता रि॒षः । व॒र्तय॑त॒ तपु॑षा च॒क्रिया॒भि तमव॑ रुद्रा अ॒शसो॑ हंतना॒ वधः॑ ॥
यः , नः॒ , म॒रु॒तः॒ , वृ॒कऽता॑ति , मर्त्यः॑ , रि॒पुः , द॒धे , व॒स॒वः॒ , रक्ष॑त , रि॒षः । व॒र्तय॑त , वपु॑षा , च॒क्रिया॑ , अ॒भि , तं , अव॑ , रु॒द्राः॒ , अ॒शसः॑ , हं॒त॒न॒ , वध॒रिति॑ ॥
चि॒त्रं तद्वो॑ मरुतो॒ याम॑ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो॑ दु॒हुः । यद्वा॑ नि॒दे नव॑मानस्य रुद्रियास्त्रि॒तं जरा॑य जुर॒ताम॑दाभ्याः ॥
चि॒त्रं , तत् , वः॒ , म॒रु॒तः॒ , याम॑ , चे॒कि॒ते॒ , पृश्न्याः॑ , यत् , ऊधः॑ , अपि॑ , आ॒पयः॑ , दु॒हुः । यत् , वा॒ , नि॒दे , नव॑मानस्य , रु॒द्रि॒याः॒ , त्रि॒तं , जरा॑य , जु॒र॒तां , अ॒दा॒भ्याः॒ ॥
तान्वो॑ म॒हो म॒रुत॑ एव॒याव्नो॒ विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॑वामहे । हिर॑ण्यवर्णान्ककु॒हान्य॒तस्रु॑चो ब्रह्म॒ण्यंतः॒ शंस्यं॒ राध॑ ईमहे ॥
तान् , वः॒ , म॒हः , म॒रुतः॑ , ए॒व॒ऽयाव्नः॑ , विष्णोः॑ , ए॒षस्य॑ , प्र॒ऽभृ॒थे , ह॒वा॒म॒हे॒ । हिर॑ण्यऽवर्णान् , क॒कु॒हान् , य॒तऽस्रु॑चः , ब्र॒ह्म॒ण्यंतः॑ , शंस्यं॑ , राधः॑ , ई॒म॒हे॒ ॥
ते दश॑ग्वाः प्रथ॒मा य॒ज्ञमू॑हिरे॒ ते नो॑ हिन्वंतू॒षसो॒ व्यु॑ष्टिषु । उ॒षा न रा॒मीर॑रु॒णैरपो॑र्णुते म॒हो ज्योति॑षा शुच॒ता गोअ॑र्णसा ॥
ते , दश॑ऽग्वाः , प्र॒थ॒माः , य॒ज्ञं , ऊ॒हि॒रे॒ , ते , नः॒ , हि॒न्वं॒तु॒ , उ॒षसः॑ , विऽउ॑ष्टिषु । उ॒षाः , न , रा॒मीः , अ॒रु॒णैः , अप॑ , ऊ॒र्णु॒ते॒ , म॒हः , ज्योति॑षा , शु॒च॒ता , गोऽअ॑र्णसा ॥
ते क्षो॒णीभि॑ररु॒णेभि॒र्नांजिभी॑ रु॒द्रा ऋ॒तस्य॒ सद॑नेषु वावृधुः । नि॒मेघ॑माना॒ अत्ये॑न॒ पाज॑सा सुश्चं॒द्रं वर्णं॑ दधिरे सु॒पेश॑सं ॥
ते , क्षो॒णीभिः॑ , अ॒रु॒णेभिः॑ , न , अं॒जिऽभिः॑ , रु॒द्राः , ऋ॒तस्य॑ , सद॑नेषु , व॒वृ॒धुः॒ । नि॒ऽमेघ॑मानाः , अत्ये॑न , पाज॑सा , सु॒ऽचं॒द्रं , वर्णं॑ , द॒धि॒रे॒ , सु॒ऽपेश॑सं ॥
ताँ इ॑या॒नो महि॒ वरू॑थमू॒तय॒ उप॒ घेदे॒ना नम॑सा गृणीमसि । त्रि॒तो न यान्पंच॒ होतॄ॑न॒भिष्ट॑य आव॒वर्त॒दव॑रांच॒क्रियाव॑से ॥
तान् , इ॒या॒नः , महि॑ , वरू॑थं , ऊ॒तये॑ , उप॑ , घ॒ , इत् , ए॒ना , नम॑सा , गृ॒णी॒म॒सि॒ । त्रि॒तः , न , यान् , पंच॑ , होतॄ॑न् , अ॒भिष्ट॑ये , आ॒ऽव॒वर्त॑त् , अव॑रान् , च॒क्रिया॑ , अव॑से ॥
यया॑ र॒ध्रं पा॒रय॒थात्यंहो॒ यया॑ नि॒दो मुं॒चथ॑ वंदि॒तारं॑ । अ॒र्वाची॒ सा म॑रुतो॒ या व॑ ऊ॒तिरो षु वा॒श्रेव॑ सुम॒तिर्जि॑गातु ॥
यया॑ , र॒ध्रं , पा॒रय॑थ , अति॑ , अंहः॑ , यया॑ , नि॒दः , मुं॒चथ॑ , वं॒दि॒तारं॑ । अ॒र्वाची॑ , सा , म॒रु॒तः॒ , या , वः॒ , ऊ॒तिः , ओ इति॑ , सु , वा॒श्राऽइ॑व , सु॒ऽम॒तिः , जि॒गा॒तु॒ ॥
[३५] उपेमिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोपांनपात्त्रिष्टुप् |
उपे॑मसृक्षि वाज॒युर्व॑च॒स्यां चनो॑ दधीत ना॒द्यो गिरो॑ मे । अ॒पां नपा॑दाशु॒हेमा॑ कु॒वित्स सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि ॥
उप॑ , ईं॒ , अ॒सृ॒क्षि॒ , वा॒ज॒ऽयुः , व॒च॒स्यां , चनः॑ , द॒धी॒त॒ , ना॒द्यः , गिरः॑ , मे॒ । अ॒पां , नपा॑त् , आ॒शु॒ऽहेमा॑ , कु॒वित् , सः , सु॒ऽपेश॑सः , क॒र॒ति॒ , जोषि॑षत् , हि ॥
इ॒मं स्व॑स्मै हृ॒द आ सुत॑ष्टं॒ मंत्रं॑ वोचेम कु॒विद॑स्य॒ वेद॑त् । अ॒पां नपा॑दसु॒र्य॑स्य म॒ह्ना विश्वा॑न्य॒र्यो भुव॑ना जजान ॥
इ॒मं , सु , अ॒स्मै॒ , हृ॒दः , आ , सुऽत॑ष्टं , मंत्रं॑ , वो॒चे॒म॒ , कु॒वित् , अ॒स्य॒ , वेद॑त् । अ॒पां , नपा॑त् , अ॒सु॒र्य॑स्य , म॒ह्ना , विश्वा॑नि , अ॒र्यः , भुव॑ना , ज॒जा॒न॒ ॥
सम॒न्या यंत्युप॑ यंत्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणंति । तमू॒ शुचिं॒ शुच॑यो दीदि॒वांस॑म॒पां नपा॑तं॒ परि॑ तस्थु॒रापः॑ ॥
सं , अ॒न्याः , यंति॑ , उप॑ , यं॒ति॒ , अ॒न्याः , स॒मा॒नं , ऊ॒र्वं , न॒द्यः॑ , पृ॒णं॒ति॒ । तं , ऊँ॒ इति॑ , शुचिं॑ , शुच॑यः , दी॒दि॒ऽवांसं॑ , अ॒पां , नपा॑तं , परि॑ , त॒स्थुः॒ , आपः॑ ॥
तमस्मे॑रा युव॒तयो॒ युवा॑नं मर्मृ॒ज्यमा॑नाः॒ परि॑ यं॒त्यापः॑ । स शु॒क्रेभिः॒ शिक्व॑भी रे॒वद॒स्मे दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒प्सु ॥
तं , अस्मे॑राः , यु॒व॒तयः॑ , युवा॑नं , म॒र्मृ॒ज्यमा॑नाः , परि॑ , यं॒ति॒ , आपः॑ । सः , शु॒क्रेभिः॑ , शिक्व॑ऽभिः , रे॒वत् , अ॒स्मे इति॑ , दी॒दाय॑ , अ॒नि॒ध्मः , घृ॒तऽनि॑र्निक् , अ॒प्ऽसु ॥
अ॒स्मै ति॒स्रो अ॑व्य॒थ्याय॒ नारी॑र्दे॒वाय॑ दे॒वीर्दि॑धिषं॒त्यन्नं॑ । कृता॑ इ॒वोप॒ हि प्र॑स॒र्स्रे अ॒प्सु स पी॒यूषं॑ धयति पूर्व॒सूनां॑ ॥
अ॒स्मै , ति॒स्रः , अ॒व्य॒थ्याय॑ , नारीः॑ , दे॒वाय॑ , दे॒वीः , दि॒धि॒षं॒ति॒ , अन्नं॑ । कृता॑ऽइव , उप॑ , हि , प्र॒ऽस॒र्स्रे , अ॒प्ऽसु , सः , पी॒यूषं॑ , ध॒य॒ति॒ , पू॒र्व॒ऽसूनां॑ ॥
अश्व॒स्यात्र॒ जनि॑मा॒स्य च॒ स्व॑र्द्रु॒हो रि॒षः सं॒पृचः॑ पाहि सू॒रीन् । आ॒मासु॑ पू॒र्षु प॒रो अ॑प्रमृ॒ष्यं नारा॑तयो॒ वि न॑श॒न्नानृ॑तानि ॥
अश्व॑स्य , अत्र॑ , जनि॑म , अ॒स्य , च॒ , स्वः॑ , द्रु॒हः , रि॒षः , सं॒ऽपृचः॑ , पा॒हि॒ , सू॒रीन् । आ॒मासु॑ , पू॒र्षु , प॒रः , अ॒प्र॒ऽमृ॒ष्यं , न , अरा॑तयः , वि , न॒श॒न् , न , अनृ॑तानि ॥
स्व आ दमे॑ सु॒दुघा॒ यस्य॑ धे॒नुः स्व॒धां पी॑पाय सु॒भ्वन्न॑मत्ति । सो अ॒पां नपा॑दू॒र्जय॑न्न॒प्स्व१॒॑न्तर्व॑सु॒देया॑य विध॒ते वि भा॑ति ॥
स्वे , आ , दमे॑ , सु॒ऽदुघा॑ , यस्य॑ , धे॒नुः , स्व॒धां , पी॒पा॒य॒ , सु॒ऽभु , अन्नं॑ , अ॒त्ति॒ । सः , अ॒पां , नपा॑त् , ऊ॒र्जय॑न् , अ॒प्ऽसु , अं॒तः , व॒सु॒ऽदेया॑य , वि॒ध॒ते , वि , भा॒ति॒ ॥
यो अ॒प्स्वा शुचि॑ना॒ दैव्ये॑न ऋ॒तावाज॑स्र उर्वि॒या वि॒भाति॑ । व॒या इद॒न्या भुव॑नान्यस्य॒ प्र जा॑यंते वी॒रुध॑श्च प्र॒जाभिः॑ ॥
यः , अ॒प्ऽसु , आ , शुचि॑ना , दैव्ये॑न , ऋ॒तऽवा॑ , अज॑स्रः , उ॒र्वि॒या , वि॒ऽभाति॑ । व॒याः , इत् , अ॒न्या , भुव॑नानि , अ॒स्य॒ , प्र , जा॒यं॒ते॒ , वी॒रुधः॑ , च॒ , प्र॒ऽजाभिः॑ ॥
अ॒पां नपा॒दा ह्यस्था॑दु॒पस्थं॑ जि॒ह्माना॑मू॒र्ध्वो वि॒द्युतं॒ वसा॑नः । तस्य॒ ज्येष्ठं॑ महि॒मानं॒ वहं॑ती॒र्हिर॑ण्यवर्णाः॒ परि॑ यंति य॒ह्वीः ॥
अ॒पां , नपा॑त् , आ , हि , अस्था॑त् , उ॒पऽस्थं॑ , जि॒ह्मानां॑ , ऊ॒र्ध्वः , वि॒ऽद्युतं॑ , वसा॑नः । तस्य॑ , ज्येष्ठं॑ , म॒हि॒मानं॑ , वहं॑तीः , हिर॑ण्यऽवर्णाः , परि॑ , यं॒ति॒ , य॒ह्वीः ॥
हिर॑ण्यरूपः॒ स हिर॑ण्यसंदृग॒पां नपा॒त्सेदु॒ हिर॑ण्यवर्णः । हि॒र॒ण्यया॒त्परि॒ योने॑र्नि॒षद्या॑ हिरण्य॒दा द॑द॒त्यन्न॑मस्मै ॥
हिर॑ण्यऽरूपः , सः , हिर॑ण्यऽसंदृक् , अ॒पां , नपा॑त् , सः , इत् , ऊँ॒ इति॑ , हिर॑ण्यऽवर्णः । हि॒र॒ण्यया॑त् , परि॑ , योनेः॑ , नि॒ऽसद्य॑ , हि॒र॒ण्य॒ऽदाः , द॒द॒ति॒ , अन्नं॑ , अ॒स्मै॒ ॥
तद॒स्यानी॑कमु॒त चारु॒ नामा॑पी॒च्यं॑ वर्धते॒ नप्तु॑र॒पां । यमिं॒धते॑ युव॒तयः॒ समि॒त्था हिर॑ण्यवर्णं घृ॒तमन्न॑मस्य ॥
तत् , अ॒स्य॒ , अनी॑कं , उ॒त , चारु॑ , नाम॑ , अ॒पी॒च्यं॑ , व॒र्ध॒ते॒ , नप्तुः॑ , अ॒पां । यं , इं॒धते॑ , यु॒व॒तयः॑ , सं , इ॒त्था , हिर॑ण्यऽवर्णं , घृ॒तं , अन्नं॑ , अ॒स्य॒ ॥
अ॒स्मै ब॑हू॒नाम॑व॒माय॒ सख्ये॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ । सं सानु॒ मार्ज्मि॒ दिधि॑षामि॒ बिल्मै॒र्दधा॒म्यन्नैः॒ परि॑ वंद ऋ॒ग्भिः ॥
अ॒स्मै , ब॒हू॒नां , अ॒व॒माय॑ , सख्ये॑ , य॒ज्ञैः , वि॒धे॒म॒ , नम॑सा , ह॒विःऽभिः॑ । सं , सानु॑ , मार्ज्मि॑ , दिधि॑षामि , बिल्मैः॑ , दधा॑मि , अन्नैः॑ , परि॑ , वं॒दे॒ , ऋ॒क्ऽभिः ॥
स ईं॒ वृषा॑जनय॒त्तासु॒ गर्भं॒ स ईं॒ शिशु॑र्धयति॒ तं रि॑हंति । सो अ॒पां नपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये॑वे॒ह त॒न्वा॑ विवेष ॥
सः , ईं॒ , वृषा॑ , अ॒ज॒न॒य॒त् , तासु॑ , गर्भं॑ , सः , ईं॒ , शिशुः॑ , ध॒य॒ति॒ , तं , रि॒हं॒ति॒ । सः , अ॒पां , नपा॑त् , अन॑भिम्लातऽवर्णः , अ॒न्यस्य॑ऽइव , इ॒ह , त॒न्वा॑ , वि॒वे॒ष॒ ॥
अ॒स्मिन्प॒दे प॑र॒मे त॑स्थि॒वांस॑मध्व॒स्मभि॑र्वि॒श्वहा॑ दीदि॒वांसं॑ । आपो॒ नप्त्रे॑ घृ॒तमन्नं॒ वहं॑तीः स्व॒यमत्कैः॒ परि॑ दीयंति य॒ह्वीः ॥
अ॒स्मिन् , प॒दे , प॒र॒मे , त॒स्थि॒ऽवांसं॑ , अ॒ध्व॒स्मऽभिः॑ , वि॒श्वहा॑ , दी॒दि॒ऽवांसं॑ । आपः॑ , नप्त्रे॑ , घृ॒तं , अन्नं॑ , वहं॑तीः , स्व॒यं , अत्कैः॑ , परि॑ , दी॒यं॒ति॒ , य॒ह्वीः ॥
अयां॑समग्ने सुक्षि॒तिं जना॒यायां॑समु म॒घव॑द्भ्यः सुवृ॒क्तिं । विश्वं॒ तद्भ॒द्रं यदवं॑ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
अयां॑सं , अ॒ग्ने॒ , सु॒ऽक्षि॒तिं , जना॑य , अयां॑सं , ऊँ॒ इति॑ , म॒घव॑त्ऽभ्यः , सु॒ऽवृ॒क्तिं । विश्वं॑ , तत् , भ॒द्रं , यत् , अवं॑ति , दे॒वाः , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[३६] तुभ्यमिति षडृचस्य सूक्तस्य शौनकोगृत्समदः इंद्रोमरुतस्त्वष्टाग्निरिंद्रोमित्रावरुणाविति क्रमेणदेवताजगती | (एताऋतुदेवताः) | १ इतः षटृतुदेवताः
तुभ्यं॑ हिन्वा॒नो व॑सिष्ट॒ गा अ॒पोऽधु॑क्षंत्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ । पिबें॑द्र॒ स्वाहा॒ प्रहु॑तं॒ वष॑ट्कृतं हो॒त्रादा सोमं॑ प्रथ॒मो य ईशि॑षे ॥
तुभ्यं॑ , हि॒न्वा॒नः , व॒सि॒ष्ट॒ , गाः , अ॒पः , अधु॑क्षन् , सीं॒ , अवि॑ऽभिः , अद्रि॑ऽभिः , नरः॑ । पिब॑ , इं॒द्र॒ , स्वाहा॑ , प्रऽहु॑तं , वष॑ट्ऽकृतं , हो॒त्रात् , आ , सोमं॑ , प्र॒थ॒मः , यः , ईशि॑षे ॥
य॒ज्ञैः संमि॑श्लाः॒ पृष॑तीभिर्ऋ॒ष्टिभि॒र्यामं॑छु॒भ्रासो॑ अं॒जिषु॑ प्रि॒या उ॒त । आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः ॥
य॒ज्ञैः , संऽमि॑श्लाः , पृष॑तीभिः , ऋ॒ष्टिऽभिः॑ , याम॑न् , शु॒भ्रासः॑ , अं॒जिषु॑ , प्रि॒याः , उ॒त । आ॒ऽसद्य॑ , ब॒र्हिः , भ॒र॒त॒स्य॒ , सू॒न॒वः॒ , पो॒त्रात् , आ , सोमं॑ , पि॒ब॒त॒ , दि॒वः॒ , न॒रः॒ ॥
अ॒मेव॑ नः सुहवा॒ आ हि गंत॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन । अथा॑ मंदस्व जुजुषा॒णो अंध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ॥
अ॒माऽइ॑व , नः॒ , सु॒ऽह॒वाः॒ , आ , हि , गंत॑न , नि , ब॒र्हिषि॑ , स॒द॒त॒न॒ , रणि॑ष्टन । अथ॑ , मं॒द॒स्व॒ , जु॒जु॒षा॒णः , अंध॑सः , त्वष्टः॑ , दे॒वेभिः॑ , जनि॑ऽभिः , सु॒मत्ऽग॑णः ॥
आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन्हो॑त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु । प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी॑ध्रा॒त्तव॑ भा॒गस्य॑ तृप्णुहि ॥
आ , व॒क्षि॒ , दे॒वान् , इ॒ह , वि॒प्र॒ , यक्षि॑ , च॒ , उ॒शन् , हो॒तः॒ , नि , स॒द॒ , योनि॑षु , त्रि॒षु । प्रति॑ , वी॒हि॒ , प्रऽस्थि॑तं , सो॒म्यं , मधु॑ , पि॒ब॒ , आग्नी॑ध्रात् , तव॑ , भा॒गस्य॑ , तृ॒प्णु॒हि॒ ॥
ए॒ष स्य ते॑ त॒न्वो॑ नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः । तुभ्यं॑ सु॒तो म॑घवं॒तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥
ए॒षः , स्यः , ते॒ , त॒न्वः॑ , नृ॒म्ण॒ऽवर्ध॑नः , सहः॑ , ओजः॑ , प्र॒ऽदिवि॑ , बा॒ह्वोः , हि॒तः । तुभ्यं॑ , सु॒तः , म॒घ॒ऽव॒न् , तुभ्यं॑ , आऽभृ॑तः , त्वं , अ॒स्य॒ , ब्राह्म॑णात् , आ , तृ॒पत् , पि॒ब॒ ॥
जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे स॒त्तो होता॑ नि॒विदः॑ पू॒र्व्या अनु॑ । अच्छा॒ राजा॑ना॒ नम॑ एत्या॒वृतं॑ प्रशा॒स्त्रादा पि॑बतं सो॒म्यं मधु॑ ॥
जु॒षेथां॑ , य॒ज्ञं , बोध॑तं , हव॑स्य , मे॒ , स॒त्तः , होता॑ , नि॒ऽविदः॑ , पू॒र्व्याः , अनु॑ । अच्छ॑ , राजा॑ना , नमः॑ , ए॒ति॒ , आ॒ऽवृतं॑ , प्र॒ऽशा॒स्त्रात् , आ , पि॒ब॒तं॒ , सो॒म्यं , मधु॑ ॥
[३७] मंदस्वेतिषडृचस्य सूक्तस्य शौनकोगृत्समदः आद्यानांचतसृणां द्रविणोदाः पंचम्याआश्विनौ षष्ठ्या अग्निर्जगती |
मंद॑स्व हो॒त्रादनु॒ जोष॒मंध॒सोऽध्व॑र्यवः॒ स पू॒र्णां व॑ष्ट्या॒सिचं॑ । तस्मा॑ ए॒तं भ॑रत तद्व॒शो द॒दिर्हो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥
मंद॑स्व , हो॒त्रात् , अनु॑ , जोषं॑ , अंध॑सः , अध्व॑र्यवः , सः , पू॒र्णां , व॒ष्टि॒ , आ॒ऽसिचं॑ । तस्मै॑ , ए॒तं , भ॒र॒त॒ , त॒त्ऽव॒शः , द॒दिः , हो॒त्रात् , सोमं॑ , द्र॒वि॒णः॒ऽदः॒ , पिब॑ , ऋ॒तुऽभिः॑ ॥
यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते । अ॒ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥
यं , ऊँ॒ इति॑ , पूर्वं॑ , अहु॑वे , तं , इ॒दं , हु॒वे॒ , सः , इत् , ऊँ॒ इति॑ , हव्यः॑ , द॒दिः , यः , नाम॑ , पत्य॑ते । अ॒ध्व॒र्युऽभिः॑ , प्रऽस्थि॑तं , सो॒म्यं , मधु॑ , पो॒त्रात् , सोमं॑ , द्र॒वि॒णः॒ऽदः॒ , पिब॑ , ऋ॒तुऽभिः॑ ॥
मेद्यं॑तु ते॒ वह्न॑यो॒ येभि॒रीय॒सेऽरि॑षण्यन्वीळयस्वा वनस्पते । आ॒यूया॑ धृष्णो अभि॒गूर्या॒ त्वं ने॒ष्ट्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥
मेद्यं॑तु , ते॒ , वह्न॑यः , येभिः॑ , ईय॑से , अरि॑षण्यन् , वी॒ळ॒य॒स्व॒ , व॒न॒स्प॒ते॒ । आ॒ऽयूय॑ , धृ॒ष्णो॒ इति॑ , अ॒भि॒ऽगूर्य॑ , त्वं , ने॒ष्ट्रात् , सोमं॑ , द्र॒वि॒णः॒ऽदः॒ , पिब॑ , ऋ॒तुऽभिः॑ ॥
अपा॑द्धो॒त्रादु॒त पो॒त्राद॑मत्तो॒त ने॒ष्ट्राद॑जुषत॒ प्रयो॑ हि॒तं । तु॒रीयं॒ पात्र॒ममृ॑क्त॒मम॑र्त्यं द्रविणो॒दाः पि॑बतु द्राविणोद॒सः ॥
अपा॑त् , हो॒त्रात् , उ॒त , पो॒त्रात् , अ॒म॒त्त॒ , उ॒त , ने॒ष्ट्रात् , अ॒जु॒ष॒त॒ , प्रयः॑ , हि॒तं । तु॒रीयं॑ , पात्रं॑ , अमृ॑क्तं , अम॑र्त्यं , द्र॒वि॒णः॒ऽदाः , पि॒ब॒तु॒ , द्रा॒वि॒णः॒ऽद॒सः ॥
अ॒र्वांच॑म॒द्य य॒य्यं॑ नृ॒वाह॑णं॒ रथं॑ युंजाथामि॒ह वां॑ वि॒मोच॑नं । पृं॒क्तं ह॒वींषि॒ मधु॒ना हि कं॑ ग॒तमथा॒ सोमं॑ पिबतं वाजिनीवसू ॥
अ॒र्वांचं॑ , अ॒द्य , य॒य्यं॑ , नृ॒ऽवाह॑नं , रथं॑ , युं॒जा॒थां॒ , इ॒ह , वां॒ , वि॒ऽमोच॑नं । पृं॒क्तं , ह॒वींषि॑ , मधु॑ना , आ , हि , कं॒ , ग॒तं , अथ॑ , सोमं॑ , पि॒ब॒तं॒ , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥
जोष्य॑ग्ने स॒मिधं॒ जोष्याहु॑तिं॒ जोषि॒ ब्रह्म॒ जन्यं॒ जोषि॑ सुष्टु॒तिं । विश्वे॑भि॒र्विश्वाँ॑ ऋ॒तुना॑ वसो म॒ह उ॒शंदे॒वाँ उ॑श॒तः पा॑यया ह॒विः ॥
जोषि॑ , अ॒ग्ने॒ , सं॒ऽइधं॑ , जोषि॑ , आऽहु॑तिं , जोषि॑ , ब्रह्म॑ , जन्यं॑ , जोषि॑ , सु॒ऽस्तु॒तिं । विश्वे॑भिः , विश्वा॑न् , ऋ॒तुना॑ , व॒सो॒ इति॑ , म॒हः , उ॒शन् , दे॒वान् , उ॒श॒तः , पा॒य॒य॒ , ह॒विः ॥
[३८] उदुष्यइत्येकादशर्चस्य सूक्तस्य शौनकोगृत्समदः सवितात्रिष्टुप् |
उदु॒ ष्य दे॒वः स॑वि॒ता स॒वाय॑ शश्वत्त॒मं तद॑पा॒ वह्नि॑रस्थात् । नू॒नं दे॒वेभ्यो॒ वि हि धाति॒ रत्न॒मथाभ॑जद्वी॒तिहो॑त्रं स्व॒स्तौ ॥
उत् , ऊँ॒ इति॑ , स्यः , दे॒वः , स॒वि॒ता , स॒वाय॑ , श॒श्व॒त्ऽत॒मं , तत्ऽअ॑पाः , वह्निः॑ , अ॒स्था॒त् । नू॒नं , दे॒वेभ्यः॑ , वि , हि , धाति॑ , रत्नं॑ , अथ॑ , आ , अ॒भ॒ज॒त् , वी॒तिऽहो॑त्रं , स्व॒स्तौ ॥
विश्व॑स्य॒ हि श्रु॒ष्टये॑ दे॒व ऊ॒र्ध्वः प्र बा॒हवा॑ पृ॒थुपा॑णिः॒ सिस॑र्ति । आप॑श्चिदस्य व्र॒त आ निमृ॑ग्रा अ॒यं चि॒द्वातो॑ रमते॒ परि॑ज्मन् ॥
विश्व॑स्य , हि , श्रु॒ष्टये॑ , दे॒वः , ऊ॒र्ध्वः , प्र , बा॒हवा॑ , पृ॒थुऽपा॑णिः , सिस॑र्ति । आपः॑ , चि॒त् , अ॒स्य॒ , व्र॒ते , आ , निऽमृ॑ग्राः , अ॒यं , चि॒त् , वातः॑ , र॒म॒ते॒ , परि॑ऽज्मन् ॥
आ॒शुभि॑श्चि॒द्यान्वि मु॑चाति नू॒नमरी॑रम॒दत॑मानं चि॒देतोः॑ । अ॒ह्यर्षू॑णां चि॒न्न्य॑याँ अवि॒ष्यामनु॑ व्र॒तं स॑वि॒तुर्मोक्यागा॑त् ॥
आ॒शुऽभिः॑ , चि॒त् , यान् , वि , मु॒चा॒ति॒ , नू॒नं , अरी॑रमत् , अत॑मानं , चि॒त् , एतोः॑ । अ॒ह्यर्षू॑णां , चि॒त् , नि , अ॒या॒न् , अ॒वि॒ष्यां , अनु॑ , व्र॒तं , स॒वि॒तुः , मोकी॑ , आ , अ॒गा॒त् ॥
पुनः॒ सम॑व्य॒द्वित॑तं॒ वयं॑ती म॒ध्या कर्तो॒र्न्य॑धा॒च्छक्म॒ धीरः॑ । उत्सं॒हाया॑स्था॒द्व्यृ१॒॑तूँर॑दर्धर॒रम॑तिः सवि॒ता दे॒व आगा॑त् ॥
पुन॒रिति॑ , सं , अ॒व्य॒त् , विऽत॑तं , वयं॑ती , म॒ध्या , कर्तोः॑ , नि , अ॒धा॒त् , शक्म॑ , धीरः॑ । उत् , सं॒ऽहाय॑ , अ॒स्था॒त् , वि , ऋ॒तून् , अ॒द॒र्धः॒ , अ॒रम॑तिः , स॒वि॒ता , दे॒वः , आ , अ॒गा॒त् ॥
नानौकां॑सि॒ दुर्यो॒ विश्व॒मायु॒र्वि ति॑ष्ठते प्रभ॒वः शोको॑ अ॒ग्नेः । ज्येष्ठं॑ मा॒ता सू॒नवे॑ भा॒गमाधा॒दन्व॑स्य॒ केत॑मिषि॒तं स॑वि॒त्रा ॥
नाना॑ , ओकां॑सि , दुर्यः॑ , विश्वं॑ , आयुः॑ , वि , ति॒ष्ठ॒ते॒ , प्र॒ऽभ॒वः , शोकः॑ , अ॒ग्नेः । ज्येष्ठं॑ , मा॒ता , सू॒नवे॑ , भा॒गं , आ , अ॒धा॒त् , अनु॑ , अ॒स्य॒ , केतं॑ , इ॒षि॒तं , स॒वि॒त्रा ॥
स॒माव॑वर्ति॒ विष्ठि॑तो जिगी॒षुर्विश्वे॑षां॒ काम॒श्चर॑ताम॒माभू॑त् । शश्वाँ॒ अपो॒ विकृ॑तं हि॒त्व्यागा॒दनु॑ व्र॒तं स॑वि॒तुर्दैव्य॑स्य ॥
सं॒ऽआव॑वर्ति , विऽस्थि॑तः , जि॒गी॒षुः , विश्वे॑षां , कामः॑ , चर॑तां , अ॒मा , अ॒भू॒त् । शश्वा॑न् , अपः॑ , विऽकृ॑तं , हि॒त्वी , आ , अ॒गा॒त् , अनु॑ , व्र॒तं , स॒वि॒तुः , दैव्य॑स्य ॥
त्वया॑ हि॒तमप्य॑म॒प्सु भा॒गं धन्वान्वा मृ॑ग॒यसो॒ वि त॑स्थुः । वना॑नि॒ विभ्यो॒ नकि॑रस्य॒ तानि॑ व्र॒ता दे॒वस्य॑ सवि॒तुर्मि॑नंति ॥
त्वया॑ , हि॒तं , अप्यं॑ , अ॒प्ऽसु , भा॒गं , धन्व॑ , अनु॑ , आ , मृ॒ग॒यसः॑ , वि , त॒स्थुः॒ । वना॑नि , विऽभ्यः॑ , नकिः॑ , अ॒स्य॒ , तानि॑ , व्र॒ता , दे॒वस्य॑ , स॒वि॒तुः , मि॒नं॒ति॒ ॥
या॒द्रा॒ध्यं१॒॑ वरु॑णो॒ योनि॒मप्य॒मनि॑शितं नि॒मिषि॒ जर्भु॑राणः । विश्वो॑ मार्तां॒डो व्र॒जमा प॒शुर्गा॑त्स्थ॒शो जन्मा॑नि सवि॒ता व्याकः॑ ॥
या॒त्ऽरा॒ध्यं॑ , वरु॑णः , योनिं॑ , अप्यं॑ , अनि॑ऽशितं , नि॒ऽमिषि॑ , जर्भु॑राणः । विश्वः॑ , मा॒र्तां॒डः , व्र॒जं , आ , प॒शुः , गा॒त् , स्थ॒ऽशः , जन्मा॑नि , स॒वि॒ता , वि , आ , अ॒क॒रित्य॑कः ॥
न यस्येंद्रो॒ वरु॑णो॒ न मि॒त्रो व्र॒तम॑र्य॒मा न मि॒नंति॑ रु॒द्रः । नारा॑तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स॑वि॒तारं॒ नमो॑भिः ॥
न , यस्य॑ , इंद्रः॑ , वरु॑णः , न , मि॒त्रः , व्र॒तं , अ॒र्य॒मा , न , मि॒नंति॑ , रु॒द्रः । न , अरा॑तयः , तं , इ॒दं , स्व॒स्ति , हु॒वे , दे॒वं , स॒वि॒तारं॑ , नमः॑ऽभिः ॥
भगं॒ धियं॑ वा॒जयं॑तः॒ पुरं॑धिं॒ नरा॒शंसो॒ ग्नास्पति॑र्नो अव्याः । आ॒ये वा॒मस्य॑ संग॒थे र॑यी॒णां प्रि॒या दे॒वस्य॑ सवि॒तुः स्या॑म ॥
भगं॑ , धियं॑ , वा॒जयं॑तः , पुरं॑ऽधिं , नरा॒शंसः॑ , ग्नाःपतिः॑ , नः॒ , अ॒व्याः॒ । आ॒ऽअ॒ये , वा॒मस्य॑ , सं॒ऽग॒थे , र॒यी॒णां , प्रि॒याः , दे॒वस्य॑ , स॒वि॒तुः , स्या॒म॒ ॥
अ॒स्मभ्यं॒ तद्दि॒वो अ॒द्भ्यः पृ॑थि॒व्यास्त्वया॑ द॒त्तं काम्यं॒ राध॒ आ गा॑त् । शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑त्युरु॒शंसा॑य सवितर्जरि॒त्रे ॥
अ॒स्मभ्यं॑ , तत् , दि॒वः , अ॒त्ऽभ्यः , पृ॒थि॒व्याः , त्वया॑ , द॒त्तं , काम्यं॑ , राधः॑ , आ , गा॒त् । शं , यत् , स्तो॒तृऽभ्यः॑ , आ॒पये॑ , भवा॑ति , उ॒रु॒ऽशंसा॑य , स॒वि॒तः॒ , ज॒रि॒त्रे ॥
[३९] ग्रावाणेवेत्यष्टर्चस्य सूक्तस्य शौनको गृत्समदोश्विनौत्रिष्टुप्
ग्रावा॑णेव॒ तदिदर्थं॑ जरेथे॒ गृध्रे॑व वृ॒क्षं नि॑धि॒मंत॒मच्छ॑ । ब्र॒ह्माणे॑व वि॒दथ॑ उक्थ॒शासा॑ दू॒तेव॒ हव्या॒ जन्या॑ पुरु॒त्रा ॥
ग्रावा॑णाऽइव , तत् , इत् , अर्थं॑ , ज॒रे॒थे॒ इति॑ , गृध्रा॑ऽइव , वृ॒क्षं , नि॒धि॒ऽमंतं॑ , अच्छ॑ । ब्र॒ह्माणा॑ऽइव , वि॒दथे॑ , उ॒क्थ॒ऽशसा॑ , दू॒ताऽइ॑व , हव्या॑ , जन्या॑ , पु॒रु॒ऽत्रा ॥
प्रा॒त॒र्यावा॑णा र॒थ्ये॑व वी॒राजेव॑ य॒मा वर॒मा स॑चेथे । मेने॑ इव त॒न्वा॒३॒॑ शुंभ॑माने॒ दंप॑तीव क्रतु॒विदा॒ जने॑षु ॥
प्रा॒तः॒ऽयावा॑ना , र॒थ्या॑ऽइव , वी॒रा , अ॒जाऽइ॑व , य॒मा , वरं॑ , आ , स॒चे॒थे॒ इति॑ । मेने॑ इ॒वेति॒ मेने॑ऽइव , त॒न्वा॑ , शुंभ॑माने॒ इति॑ , दंप॑ती इ॒वेति॒ दंप॑तीऽइव , क्र॒तु॒ऽविदा॑ , जने॑षु ॥
शृंगे॑व नः प्रथ॒मा गं॑तम॒र्वाक्छ॒फावि॑व॒ जर्भु॑राणा॒ तरो॑भिः । च॒क्र॒वा॒केव॒ प्रति॒ वस्तो॑रुस्रा॒र्वांचा॑ यातं र॒थ्ये॑व शक्रा ॥
शृंगा॑ऽइव , नः॒ , प्र॒थ॒मा , गं॒तं॒ , अ॒र्वाक् , श॒फौऽइ॑व , जर्भु॑राणा , तरः॑ऽभिः । च॒क्र॒वा॒काऽइ॑व , प्रति॑ , वस्तोः॑ , उ॒स्रा॒ , अ॒र्वांचा॑ , या॒तं॒ , र॒थ्या॑ऽइव , श॒क्रा॒ ॥
ना॒वेव॑ नः पारयतं यु॒गेव॒ नभ्ये॑व न उप॒धीव॑ प्र॒धीव॑ । श्वाने॑व नो॒ अरि॑षण्या त॒नूनां॒ खृग॑लेव वि॒स्रसः॑ पातम॒स्मान् ॥
ना॒वाऽइ॑व , नः॒ , पा॒र॒य॒तं॒ , यु॒गाऽइ॑व , नभ्या॑ऽइव , नः॒ , उ॒प॒धी इ॒वेत्यु॑प॒धीऽइ॑व , प्र॒धी इ॒वेति॑ प्र॒धीऽइ॑व । श्वाना॑ऽइव , नः॒ , अरि॑षण्या , त॒नूनां॑ , खृग॑लाऽइव , वि॒ऽस्रसः॑ , पा॒तं॒ , अ॒स्मान् ॥
वाते॑वाजु॒र्या न॒द्ये॑व री॒तिर॒क्षी इ॑व॒ चक्षु॒षा या॑तम॒र्वाक् । हस्ता॑विव त॒न्वे॒३॒॑ शंभ॑विष्ठा॒ पादे॑व नो नयतं॒ वस्यो॒ अच्छ॑ ॥
वाता॑ऽइव , अ॒जु॒र्या , न॒द्या॑ऽइव , री॒तिः , अ॒क्षी इ॒वेत्य॒क्षीऽइ॑व , चक्षु॑षा , आ , या॒तं॒ , अ॒र्वाक् । हस्तौ॑ऽइव , त॒न्वे॑ , शंऽभ॑विष्ठा , पादा॑ऽइव , नः॒ , न॒य॒तं॒ , वस्यः॑ , अच्छ॑ ॥
ओष्ठा॑विव॒ मध्वा॒स्ने वदं॑ता॒ स्तना॑विव पिप्यतं जी॒वसे॑ नः । नासे॑व नस्त॒न्वो॑ रक्षि॒तारा॒ कर्णा॑विव सु॒श्रुता॑ भूतम॒स्मे ॥
ओष्ठौ॑ऽइव , मधु॑ , आ॒स्ने , वदं॑ता , स्तनौ॑ऽइव , पि॒प्य॒तं॒ , जी॒वसे॑ , नः॒ । नासा॑ऽइव , नः॒ , त॒न्वः॑ , र॒क्षि॒तारा॑ , कर्णौ॑ऽइव , सु॒ऽश्रुता॑ , भू॒तं॒ , अ॒स्मे इति॑ ॥
हस्ते॑व श॒क्तिम॒भि सं॑द॒दी नः॒ क्षामे॑व नः॒ सम॑जतं॒ रजां॑सि । इ॒मा गिरो॑ अश्विना युष्म॒यंतीः॒ क्ष्णोत्रे॑णेव॒ स्वधि॑तिं॒ सं शि॑शीतं ॥
हस्ता॑ऽइव , श॒क्तिं , अ॒भि , सं॒द॒दी इति॑ सं॒ऽद॒दी , नः॒ , क्षाम॑ऽइव , नः॒ , सं , अ॒ज॒तं॒ , रजां॑सि । इ॒माः , गिरः॑ , अ॒श्वि॒ना॒ , यु॒ष्म॒ऽयंतीः॑ , क्ष्णोत्रे॑णऽइव , स्वऽधि॑तिं , सं , शि॒शी॒तं॒ ॥
ए॒तानि॑ वामश्विना॒ वर्ध॑नानि॒ ब्रह्म॒ स्तोमं॑ गृत्सम॒दासो॑ अक्रन् । तानि॑ नरा जुजुषा॒णोप॑ यातं बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
ए॒तानि॑ , वां॒ , अ॒श्वि॒ना॒ , वर्ध॑नानि , ब्रह्म॑ , स्तोमं॑ , गृ॒त्स॒ऽम॒दासः॑ , अ॒क्र॒न् । तानि॑ , न॒रा॒ , जु॒जु॒षा॒णा , उप॑ , या॒तं॒ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[४०] सोमापूषणेतिपडृचस्य सूक्तस्य शौनकोगृत्समदःसोमापूषणौ अंत्यायाःसोमपूषादित्यास्त्रिष्टुप् |
सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः । जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभिं॑ ॥
सोमा॑पूषणा , जन॑ना , र॒यी॒णां , जन॑ना , दि॒वः , जन॑ना , पृ॒थि॒व्याः । जा॒तौ , विश्व॑स्य , भुव॑नस्य , गो॒पौ , दे॒वाः , अ॒कृ॒ण्व॒न् , अ॒मृत॑स्य , नाभिं॑ ॥
इ॒मौ दे॒वौ जाय॑मानौ जुषंते॒मौ तमां॑सि गूहता॒मजु॑ष्टा । आ॒भ्यामिंद्रः॑ प॒क्वमा॒मास्वं॒तः सो॑मापू॒षभ्यां॑ जनदु॒स्रिया॑सु ॥
इ॒मौ , दे॒वौ , जाय॑मानौ , जु॒षं॒त॒ , इ॒मौ , तमां॑सि , गू॒ह॒तां॒ , अजु॑ष्टा । आ॒भ्यां , इंद्रः॑ , प॒क्वं , आ॒मासु॑ , अं॒तरिति॑ , सो॒मा॒पू॒षऽभ्यां॑ , ज॒न॒त् , उ॒स्रिया॑सु ॥
सोमा॑पूषणा॒ रज॑सो वि॒मानं॑ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वं । वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नं॒ तं जि॑न्वथो वृषणा॒ पंच॑रश्मिं ॥
सोमा॑पूषणा , रज॑सः , वि॒ऽमानं॑ , स॒प्तऽच॑क्रं , रथं॑ , अवि॑श्वऽमिन्वं । वि॒षु॒ऽवृतं॑ , मन॑सा , यु॒ज्यमा॑नं , तं , जि॒न्व॒थः॒ , वृ॒ष॒णा॒ , पंच॑ऽरश्मिं ॥
दि॒व्य१॒॑न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो अध्यं॒तरि॑क्षे । ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे ॥
दि॒वि , अ॒न्यः , सद॑नं , च॒क्रे , उ॒च्चा , पृ॒थि॒व्यां , अ॒न्यः , अधि॑ , अं॒तरि॑क्षे । तौ , अ॒स्मभ्यं॑ , पु॒रु॒ऽवारं॑ , पु॒रु॒ऽक्षुं , रा॒यः , पोषं॑ , वि , स्य॒तां॒ , नाभिं॑ , अ॒स्मे इति॑ ॥
विश्वा॑न्य॒न्यो भुव॑ना ज॒जान॒ विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति । सोमा॑पूषणा॒वव॑तं॒ धियं॑ मे यु॒वाभ्यां॒ विश्वाः॒ पृत॑ना जयेम ॥
विश्वा॑नि , अ॒न्यः , भु॒व॒ना , ज॒जान॑ , विश्वं॑ , अ॒न्यः , अ॒भि॒ऽचक्षा॑णः , ए॒ति॒ । सोमा॑पूषणौ , अव॑तं , धियं॑ , मे॒ , यु॒वाभ्यां॑ , विश्वाः॑ , पृत॑नाः , ज॒ये॒म॒ ॥
धियं॑ पू॒षा जि॑न्वतु विश्वमि॒न्वो र॒यिं सोमो॑ रयि॒पति॑र्दधातु । अव॑तु दे॒व्यदि॑तिरन॒र्वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
धियं॑ , पू॒षा , जि॒न्व॒तु॒ , वि॒श्वं॒ऽइ॒न्वः , र॒यिं , सोमः॑ , र॒यि॒ऽपतिः॑ , द॒धा॒तु॒ । अव॑तु , दे॒वी , अदि॑तिः , अ॒न॒र्वा , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[४१] वायोइत्येकविंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्ययोर्द्वयोर्वायुस्तृतीयाया इंद्रवायू चतुर्थ्यादितिसृणांमित्रावरुणौ सप्तम्यादितिसृणामश्विनौ दशम्यादितिसृणाइंद्रः त्रयोदश्यादितिसृणांविश्वेदेवाः षोडश्यादितिसृणांसरस्वती अंत्यानांतिसृणांद्यावापृथिवी (हविर्धानावा) गायत्री अंबितमइतिद्वेअनुष्टुभौ इमाब्रह्मेतिबृहती |
वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि । नि॒युत्वां॒त्सोम॑पीतये ॥
वायो॒ इति॑ , ये , ते॒ , स॒ह॒स्रिणः॑ , रथा॑सः , तेभिः॑ , आ , ग॒हि॒ । नि॒युत्वा॑न् , सोम॑ऽपीतये ॥
नि॒युत्वा॑न्वाय॒वा ग॑ह्य॒यं शु॒क्रो अ॑यामि ते । गंता॑सि सुन्व॒तो गृ॒हं ॥
नि॒युत्वा॑न् , वा॒यो॒ इति॑ , आ , ग॒हि॒ , अ॒यं , शु॒क्रः , अ॒या॒मि॒ , ते॒ । गंता॑ , अ॒सि॒ , सु॒न्व॒तः , गृ॒हं ॥
शु॒क्रस्या॒द्य गवा॑शिर॒ इंद्र॑वायू नि॒युत्व॑तः । आ या॑तं॒ पिब॑तं नरा ॥
शु॒क्रस्य॑ , अ॒द्य , गोऽआ॑शिरः , इंद्र॑वायू॒ इति॑ , नि॒युत्व॑तः । आ , या॒तं॒ , पिब॑तं , न॒रा॒ ॥
अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा । ममेदि॒ह श्रु॑तं॒ हवं॑ ॥
अ॒यं , वां॒ , मि॒त्रा॒व॒रु॒णा॒ , सु॒तः , सोमः॑ , ऋ॒त॒ऽवृ॒धा॒ । मम॑ , इत् , इ॒ह , श्रु॒तं॒ , हवं॑ ॥
राजा॑ना॒वन॑भिद्रुहा ध्रु॒वे सद॑स्युत्त॒मे । स॒हस्र॑स्थूण आसाते ॥
राजा॑नौ , अन॑भिऽद्रुहा , ध्रु॒वे , सद॑सि , उ॒त्ऽत॒मे । स॒हस्र॑ऽस्थूणे , आ॒सा॒ते॒ इति॑ ॥
ता स॒म्राजा॑ घृ॒तासु॑ती आदि॒त्या दानु॑न॒स्पती॑ । सचे॑ते॒ अन॑वह्वरं ॥
ता , सं॒ऽराजा॑ , घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ॑सुती , आ॒दि॒त्या , दानु॑नः , पती॒ इति॑ । सचे॑ते॒ इति॑ , अन॑वऽह्वरं ॥
गोम॑दू॒ षु ना॑स॒त्याश्वा॑वद्यातमश्विना । व॒र्ती रु॑द्रा नृ॒पाय्यं॑ ॥
गोऽम॑त् , ऊँ॒ इति॑ , सु , ना॒स॒त्या॒ , अश्व॑ऽवत् , या॒तं॒ , अ॒श्वि॒ना॒ । व॒र्तिः , रु॒द्रा॒ , नृ॒ऽपाय्यं॑ ॥
न यत्परो॒ नांत॑र आद॒धर्ष॑द्वृषण्वसू । दुः॒शंसो॒ मर्त्यो॑ रि॒पुः ॥
न , यत् , परः॑ , न , अंत॑रः , आ॒ऽद॒धर्ष॑त् , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । दुः॒ऽशंसः॑ , मर्त्यः॑ , रि॒पुः ॥
ता न॒ आ वो॑ळ्हमश्विना र॒यिं पि॒शंग॑संदृशं । धिष्ण्या॑ वरिवो॒विदं॑ ॥
ता , नः॒ , आ , वो॒ळ्हं॒ , अ॒श्वि॒ना॒ , र॒यिं , पि॒शंग॑ऽसंदृशं । धिष्ण्या॑ , व॒रि॒वः॒ऽविदं॑ ॥
इंद्रो॑ अं॒ग म॒हद्भ॒यम॒भी षदप॑ चुच्यवत् । स हि स्थि॒रो विच॑र्षणिः ॥
इंद्रः॑ , अं॒ग , म॒हत् , भ॒यं , अ॒भि , सत् , अप॑ , चु॒च्य॒व॒त् । सः , हि , स्थि॒रः , विऽच॑र्षणिः ॥
इंद्र॑श्च मृ॒ळया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत् । भ॒द्रं भ॑वाति नः पु॒रः ॥
इंद्रः॑ , च॒ , मृ॒ळया॑ति , नः॒ , न , नः॒ , प॒श्चात् , अ॒घं , न॒श॒त् । भ॒द्रं , भ॒वा॒ति॒ , नः॒ , पु॒रः ॥
इंद्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत् । जेता॒ शत्रू॒न्विच॑र्षणिः ॥
इंद्रः॑ , आशा॑भ्यः , परि॑ , सर्वा॑भ्यः , अभ॑यं , क॒र॒त् । जेता॑ , शत्रू॑न् , विऽच॑र्षणिः ॥
विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हवं॑ । एदं ब॒र्हिर्नि षी॑दत ॥
विश्वे॑ , दे॒वा॒सः॒ , आ , ग॒त॒ , शृ॒णु॒त , मे॒ , इ॒मं , हवं॑ । आ , इ॒दं , ब॒र्हिः , नि , सी॒द॒त॒ ॥
ती॒व्रो वो॒ मधु॑माँ अ॒यं शु॒नहो॑त्रेषु मत्स॒रः । ए॒तं पि॑बत॒ काम्यं॑ ॥
ती॒व्रः , वः॒ , मधु॑ऽमान् , अ॒यं , शु॒नऽहो॑त्रेषु , म॒त्स॒रः । ए॒तं , पि॒ब॒त॒ , काम्यं॑ ॥
इंद्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑सः॒ पूष॑रातयः । विश्वे॒ मम॑ श्रुता॒ हवं॑ ॥
इंद्र॑ऽज्येष्ठाः , मरु॑त्ऽगणाः , देवा॑सः , पूष॑ऽरातयः । विश्वे॑ , मम॑ , श्रु॒त॒ , हवं॑ ॥
अंबि॑तमे॒ नदी॑तमे॒ देवि॑तमे॒ सर॑स्वति । अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमंब नस्कृधि ॥
अंबि॑ऽतमे , नदी॑ऽतमे , देवि॑ऽतमे , सर॑स्वति । अ॒प्र॒श॒स्ताःऽइ॑व , स्म॒सि॒ , प्रऽश॑स्तिं , अं॒ब॒ , नः॒ , कृ॒धि॒ ॥
त्वे विश्वा॑ सरस्वति श्रि॒तायूं॑षि दे॒व्यां । शु॒नहो॑त्रेषु मत्स्व प्र॒जां दे॑वि दिदिड्ढि नः ॥
त्वे इति॑ , विश्वा॑ , स॒र॒स्व॒ति॒ , श्रि॒ता , आयूं॑षि , दे॒व्यां । शु॒नऽहो॑त्रेषु , म॒त्स्व॒ , प्र॒ऽजां , दे॒वि॒ , दि॒दि॒ड्ढि॒ , नः॒ ॥
इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति । या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ॥
इ॒मा , ब्रह्म॑ , स॒र॒स्व॒ति॒ , जु॒षस्व॑ , वा॒जि॒नी॒व॒ति॒ । या , ते॒ , मन्म॑ , गृ॒त्स॒ऽम॒दाः , ऋ॒त॒ऽव॒रि॒ , प्रि॒या , दे॒वेषु॑ , जुह्व॑ति ॥
प्रेतां॑ य॒ज्ञस्य॑ शं॒भुवा॑ यु॒वामिदा वृ॑णीमहे । अ॒ग्निं च॑ हव्य॒वाह॑नं ॥
प्र , इ॒तां॒ , य॒ज्ञस्य॑ , शं॒ऽभुवा॑ , यु॒वां , इत् , आ , वृ॒णी॒म॒हे॒ । अ॒ग्निं , च॒ , ह॒व्य॒ऽवाह॑नं ॥
द्यावा॑ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृशं॑ । य॒ज्ञं दे॒वेषु॑ यच्छतां ॥
द्यावा॑ , नः॒ , पृ॒थि॒वी इति॑ , इ॒मं , सि॒ध्रं , अ॒द्य , दि॒वि॒ऽस्पृशं॑ । य॒ज्ञं , दे॒वेषु॑ , य॒च्छ॒तां॒ ॥
आ वा॑मु॒पस्थ॑मद्रुहा दे॒वाः सी॑दंतु य॒ज्ञियाः॑ । इ॒हाद्य सोम॑पीतये ॥
आ , वां॒ , उ॒पऽस्थं॑ , अ॒द्रु॒हा॒ , दे॒वाः , सी॒दं॒तु॒ , य॒ज्ञियाः॑ । इ॒ह , अ॒द्य , सोम॑ऽपीतये ॥
[४२] कनिक्रददिति तृचस्य सूक्तस्य शौनकोगृत्समदःशकुंतस्त्रिष्टुप् |
कनि॑क्रदज्ज॒नुषं॑ प्रब्रुवा॒ण इय॑र्ति॒ वाच॑मरि॒तेव॒ नावं॑ । सु॒मं॒गल॑श्च शकुने॒ भवा॑सि॒ मा त्वा॒ का चि॑दभि॒भा विश्व्या॑ विदत् ॥
कनि॑क्रदत् , ज॒नुषं॑ , प्र॒ऽब्रु॒वा॒णः , इय॑र्ति , वाचं॑ , अ॒रि॒ताऽइ॑व , नावं॑ । सु॒ऽमं॒गलः॑ , च॒ , श॒कु॒ने॒ , भवा॑सि , मा , त्वा॒ , का , चि॒त् , अ॒भि॒ऽभा , विश्व्या॑ , वि॒द॒त् ॥
मा त्वा॑ श्ये॒न उद्व॑धी॒न्मा सु॑प॒र्णो मा त्वा॑ विद॒दिषु॑मान्वी॒रो अस्ता॑ । पित्र्या॒मनु॑ प्र॒दिशं॒ कनि॑क्रदत्सुमं॒गलो॑ भद्रवा॒दी व॑दे॒ह ॥
मा , त्वा॒ , श्ये॒नः , उत् , व॒धी॒त् , मा , सु॒ऽप॒र्णः , मा , त्वा॒ , वि॒द॒त् , इषु॑ऽमान् , वी॒रः , अस्ता॑ । पित्र्यां॑ , अनु॑ , प्र॒ऽदिशं॑ , कनि॑क्रदत् , सु॒ऽमं॒गलः॑ , भ॒द्र॒ऽवा॒दी , व॒द॒ , इ॒ह ॥
अव॑ क्रंद दक्षिण॒तो गृ॒हाणां॑ सुमं॒गलो॑ भद्रवा॒दी श॑कुंते । मा नः॑ स्ते॒न ई॑शत॒ माघशं॑सो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
अव॑ , क्रं॒द॒ , द॒क्षि॒ण॒तः , गृ॒हाणां॑ , सु॒ऽमं॒गलः॑ , भ॒द्र॒ऽवा॒दी , श॒कुं॒ते॒ । मा , नः॒ , स्ते॒नः , ई॒श॒त॒ , मा , अ॒घऽशं॑सः , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[४३] प्रदक्षिणिदिति तृचस्य सूक्तस्य शौनकोगृत्समदः शकुंतोजगती द्वितीयातिशक्वरी अष्टिर्वा |
प्र॒द॒क्षि॒णिद॒भि गृ॑णंति का॒रवो॒ वयो॒ वदं॑त ऋतु॒था श॒कुंत॑यः । उ॒भे वाचौ॑ वदति साम॒गा इ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति ॥
प्र॒ऽद॒क्षि॒णित् , अ॒भि , गृ॒णं॒ति॒ , का॒रवः॑ , वयः॑ , वदं॑तः , ऋ॒तु॒ऽथा , श॒कुंत॑यः । उ॒भे इति॑ , वाचौ॑ , व॒द॒ति॒ , सा॒म॒गाःऽइ॑व , गा॒य॒त्रं , च॒ , त्रैस्तु॑भं , च॒ , अनु॑ , रा॒ज॒ति॒ ॥
उ॒द्गा॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शंससि । वृषे॑व वा॒जी शिशु॑मतीर॒पीत्या॑ स॒र्वतो॑ नः शकुने भ॒द्रमा व॑द वि॒श्वतो॑ नः शकुने॒ पुण्य॒मा व॑द ॥
उ॒द्गा॒ताऽइ॑व , श॒कु॒ने॒ , साम॑ , गा॒य॒सि॒ , ब्र॒ह्म॒पु॒त्रःऽइ॑व , सव॑नेषु , शं॒स॒सि॒ । वृषा॑ऽइव , वा॒जी , शिशु॑ऽमतीः , अ॒पि॒ऽइत्य॑ , स॒र्वतः॑ , नः॒ , श॒कु॒ने॒ , भ॒द्रं , आ , व॒द॒ , वि॒श्वतः॑ , नः॒ , श॒कु॒ने॒ , पुण्यं॑ , आ , व॒द॒ ॥
आ॒वदँ॒स्त्वं श॑कुने भ॒द्रमा व॑द तू॒ष्णीमासी॑नः सुम॒तिं चि॑किद्धि नः । यदु॒त्पत॒न्वद॑सि कर्क॒रिर्य॑था बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
आ॒ऽवद॑न् , त्वं , स॒कु॒ने॒ , भ॒द्रं , आ , व॒द॒ , तू॒ष्णीं , आसी॑नः , सु॒ऽम॒तिं , चि॒कि॒द्धि॒ , नः॒ । यत् , उ॒त्ऽपत॑न् , वद॑सि , क॒र्क॒रिः , य॒था॒ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[१] सोमस्यमेति त्रयोविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |
सोम॑स्य मा त॒वसं॒ वक्ष्य॑ग्ने॒ वह्निं॑ चकर्थ वि॒दथे॒ यज॑ध्यै । दे॒वाँ अच्छा॒ दीद्य॑द्युं॒जे अद्रिं॑ शमा॒ये अ॑ग्ने त॒न्वं॑ जुषस्व ॥
सोम॑स्य , मा॒ , त॒वसं॑ , वक्षि॑ , अ॒ग्ने॒ , वह्निं॑ , च॒क॒र्थ॒ , वि॒दथे॑ , यज॑ध्यै । दे॒वान् , अच्छ॑ , दीद्य॑त् , युं॒जे , अद्रिं॑ , शं॒ऽआ॒ये , अ॒ग्ने॒ , त॒न्वं॑ , जु॒ष॒स्व॒ ॥
प्रांचं॑ य॒ज्ञं च॑कृम॒ वर्ध॑तां॒ गीः स॒मिद्भि॑र॒ग्निं नम॑सा दुवस्यन् । दि॒वः श॑शासुर्वि॒दथा॑ कवी॒नां गृत्सा॑य चित्त॒वसे॑ गा॒तुमी॑षुः ॥
प्रांचं॑ , य॒ज्ञं , च॒कृ॒म॒ , वर्ध॑तां , गीः , स॒मित्ऽभिः॑ , अ॒ग्निं , नम॑सा , दु॒व॒स्य॒न् । दि॒वः , श॒शा॒सुः॒ , वि॒दथा॑ , क॒वी॒नां , गृत्सा॑य , चि॒त् , त॒वसे॑ , गा॒तुं , ई॒षुः॒ ॥
मयो॑ दधे॒ मेधि॑रः पू॒तद॑क्षो दि॒वः सु॒बंधु॑र्ज॒नुषा॑ पृथि॒व्याः । अविं॑दन्नु दर्श॒तम॒प्स्व१॒॑न्तर्दे॒वासो॑ अ॒ग्निम॒पसि॒ स्वसॄ॑णां ॥
मयः॑ , द॒धे॒ , मेधि॑रः , पू॒तऽद॑क्षः , दि॒वः , सु॒ऽबंधुः॑ , ज॒नुषा॑ , पृ॒थि॒व्याः । अविं॑दन् , ऊँ॒ इति॑ , द॒र्श॒तं , अ॒प्ऽसु , अं॒तः , दे॒वासः॑ , अ॒ग्निं , अ॒पसि॑ , स्वसॄ॑णां ॥
अव॑र्धयंत्सु॒भगं॑ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा । शिशुं॒ न जा॒तम॒भ्या॑रु॒रश्वा॑ दे॒वासो॑ अ॒ग्निं जनि॑मन्वपुष्यन् ॥
अव॑र्धयन् , सु॒ऽभगं॑ , स॒प्त , य॒ह्वीः , श्वे॒तं , ज॒ज्ञा॒नं , अ॒रु॒षं , म॒हि॒ऽत्वा । शिशुं॑ , न , जा॒तं , अ॒भि , आ॒रुः॒ , अश्वाः॑ , दे॒वासः॑ , अ॒ग्निं , जनि॑मन् , व॒पु॒ष्य॒न् ॥
शु॒क्रेभि॒रंगै॒ रज॑ आतत॒न्वान्क्रतुं॑ पुना॒नः क॒विभिः॑ प॒वित्रैः॑ । शो॒चिर्वसा॑नः॒ पर्यायु॑र॒पां श्रियो॑ मिमीते बृह॒तीरनू॑नाः ॥
शु॒क्रेभिः॑ , अंगैः॑ , रजः॑ , आ॒ऽत॒त॒न्वान् , क्रतुं॑ , पु॒ना॒नः , क॒विऽभिः॑ , प॒वित्रैः॑ । शो॒चिः , वसा॑नः , परि॑ , आयुः॑ , अ॒पां , श्रियः॑ , मि॒मी॒ते॒ , बृ॒ह॒तीः , अनू॑नाः ॥
व॒व्राजा॑ सी॒मन॑दती॒रद॑ब्धा दि॒वो य॒ह्वीरव॑साना॒ अन॑ग्नाः । सना॒ अत्र॑ युव॒तयः॒ सयो॑नी॒रेकं॒ गर्भं॑ दधिरे स॒प्त वाणीः॑ ॥
व॒व्राज॑ , सीं॒ , अन॑दतीः , अद॑ब्धाः , दि॒वः , य॒ह्वीः , अव॑सानाः , अन॑ग्नाः । सनाः॑ , अत्र॑ , यु॒व॒तयः॑ , सऽयो॑नीः , एकं॑ , गर्भं॑ , द॒धि॒रे॒ , स॒प्त , वाणीः॑ ॥
स्ती॒र्णा अ॑स्य सं॒हतो॑ वि॒श्वरू॑पा घृ॒तस्य॒ योनौ॑ स्र॒वथे॒ मधू॑नां । अस्थु॒रत्र॑ धे॒नवः॒ पिन्व॑माना म॒ही द॒स्मस्य॑ मा॒तरा॑ समी॒ची ॥
स्ती॒र्णाः , अ॒स्य॒ , सं॒ऽहतः॑ , वि॒श्वऽरू॑पाः , घृ॒तस्य॑ , योनौ॑ , स्र॒वथे॑ , मधू॑नां । अस्थुः॑ , अत्र॑ , धे॒नवः॑ , पिन्व॑मानाः , म॒ही इति॑ , द॒स्मस्य॑ , मा॒तरा॑ , स॒मी॒ची इति॑ सं॒ऽई॒ची ॥
ब॒भ्रा॒णः सू॑नो सहसो॒ व्य॑द्यौ॒द्दधा॑नः शु॒क्रा र॑भ॒सा वपूं॑षि । श्चोतं॑ति॒ धारा॒ मधु॑नो घृ॒तस्य॒ वृषा॒ यत्र॑ वावृ॒धे काव्ये॑न ॥
ब॒भ्रा॒णः , सू॒नो॒ इति॑ , स॒ह॒सः॒ , वि , अ॒द्यौ॒त् , दधा॑नः , शु॒क्रा , र॒भ॒सा , वपूं॑षि । श्चोतं॑ति , धाराः॑ , मधु॑नः , घृ॒तस्य॑ , वृषा॑ , यत्र॑ , व॒वृ॒धे , काव्ये॑न ॥
पि॒तुश्चि॒दूध॑र्ज॒नुषा॑ विवेद॒ व्य॑स्य॒ धारा॑ असृज॒द्वि धेनाः॑ । गुहा॒ चरं॑तं॒ सखि॑भिः शि॒वेभि॑र्दि॒वो य॒ह्वीभि॒र्न गुहा॑ बभूव ॥
पि॒तुः , चि॒त् , ऊधः॑ , ज॒नुषा॑ , वि॒वे॒द॒ , वि , अ॒स्य॒ , धाराः॑ , अ॒सृ॒ज॒त् , वि , धेनाः॑ । गुहा॑ , चरं॑तं , सखि॑ऽभिः , शि॒वेभिः॑ , दि॒वः , य॒ह्वीभिः॑ , न , गुहा॑ , ब॒भू॒व॒ ॥
पि॒तुश्च॒ गर्भं॑ जनि॒तुश्च॑ बभ्रे पू॒र्वीरेको॑ अधय॒त्पीप्या॑नाः । वृष्णे॑ स॒पत्नी॒ शुच॑ये॒ सबं॑धू उ॒भे अ॑स्मै मनु॒ष्ये॒३॒॑ नि पा॑हि ॥
पि॒तुः , च॒ , गर्भं॑ , ज॒नि॒तुः , च॒ , ब॒भ्रे॒ , पू॒र्वीः , एकः॑ , अ॒ध॒य॒त् , पीप्या॑नाः । वृष्णे॑ , स॒पत्नी॒ इति॑ स॒ऽपत्नी॑ , शुच॑ये , सबं॑धू॒ इति॒ सऽबं॑धू , उ॒भे इति॑ , अ॒स्मै॒ , म॒नु॒ष्ये॒३॒॑ इति॑ , नि , पा॒हि॒ ॥
उ॒रौ म॒हाँ अ॑निबा॒धे व॑व॒र्धापो॑ अ॒ग्निं य॒शसः॒ सं हि पू॒र्वीः । ऋ॒तस्य॒ योना॑वशय॒द्दमू॑ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ॑णां ॥
उ॒रौ , म॒हान् , अ॒नि॒ऽबा॒धे , व॒व॒र्ध॒ , आपः॑ , अ॒ग्निं , य॒शसः॑ , सं , हि , पू॒र्वीः । ऋ॒तस्य॑ , योनौ॑ , अ॒श॒य॒त् , दमू॑नाः , जा॒मी॒नां , अ॒ग्निः , अ॒पसि॑ , स्वसॄ॑णां ॥
अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां॑ दिदृ॒क्षेयः॑ सू॒नवे॒ भाऋ॑जीकः । उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो अ॒ग्निः ॥
अ॒क्रः , न , ब॒भ्रिः , सं॒ऽइ॒थे , म॒हीनां॑ , दि॒दृ॒क्षेयः॑ , सू॒नवे॑ , भाःऽऋ॑जीकः । उत् , उ॒स्रियाः॑ , जनि॑ता , यः , ज॒जान॑ , अ॒पां , गर्भः॑ , नृऽत॑मः , य॒ह्वः , अ॒ग्निः ॥
अ॒पां गर्भं॑ दर्श॒तमोष॑धीनां॒ वना॑ जजान सु॒भगा॒ विरू॑पं । दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं॑ दुवस्यन् ॥
अ॒पां , गर्भं॑ , द॒र्श॒तं , ओष॑धीनां , वना॑ , ज॒जा॒न॒ , सु॒ऽभगा॑ , विऽरू॑पं । दे॒वासः॑ , चि॒त् , मन॑सा , सं , हि , ज॒ग्मुः , पनि॑ष्ठं , जा॒तं , त॒वसं॑ , दु॒व॒स्य॒न् ॥
बृ॒हंत॒ इद्भा॒नवो॒ भाऋ॑जीकम॒ग्निं स॑चंत वि॒द्युतो॒ न शु॒क्राः । गुहे॑व वृ॒द्धं सद॑सि॒ स्वे अं॒तर॑पा॒र ऊ॒र्वे अ॒मृतं॒ दुहा॑नाः ॥
बृ॒हंतः॑ , इत् , भा॒नवः॑ , भाःऽऋ॑जीकं , अ॒ग्निं , स॒चं॒त॒ , वि॒ऽद्युतः॑ , न , शु॒क्राः । गुहा॑ऽइव , वृ॒द्धं , सद॑सि , स्वे , अं॒तः , अ॒पा॒रे , ऊ॒र्वे , अ॒मृतं॑ , दुहा॑नाः ॥
ईळे॑ च त्वा॒ यज॑मानो ह॒विर्भि॒रीळे॑ सखि॒त्वं सु॑म॒तिं निका॑मः । दे॒वैरवो॑ मिमीहि॒ सं ज॑रि॒त्रे रक्षा॑ च नो॒ दम्ये॑भि॒रनी॑कैः ॥
ईळे॑ , च॒ , त्वा॒ , यज॑मानः , ह॒विःऽभिः॑ , ईळे॑ , स॒खि॒ऽत्वं , सु॒ऽम॒तिं , निऽका॑मः । दे॒वैः , अवः॑ , मि॒मी॒हि॒ , सं , ज॒रि॒त्रे , रक्ष॑ , च॒ , नः॒ , दम्ये॑ऽभिः , अनी॑कैः ॥
उ॒प॒क्षे॒तार॒स्तव॑ सुप्रणी॒तेऽग्ने॒ विश्वा॑नि॒ धन्या॒ दधा॑नाः । सु॒रेत॑सा॒ श्रव॑सा॒ तुंज॑माना अ॒भि ष्या॑म पृतना॒यूँरदे॑वान् ॥
उ॒प॒ऽक्षे॒तारः॑ , तव॑ , सु॒ऽप्र॒नी॒ते॒ , अग्ने॑ , विश्वा॑नि , धन्या॑ , दधा॑नाः । सु॒ऽरेत॑सा , श्रव॑सा , तुंज॑मानाः , अ॒भि , स्या॒म॒ , पृ॒त॒ना॒ऽयून् , अदे॑वान् ॥
आ दे॒वाना॑मभवः के॒तुर॑ग्ने मं॒द्रो विश्वा॑नि॒ काव्या॑नि वि॒द्वान् । प्रति॒ मर्ताँ॑ अवासयो॒ दमू॑ना॒ अनु॑ दे॒वान्र॑थि॒रो या॑सि॒ साध॑न् ॥
आ , दे॒वानां॑ , अ॒भ॒वः॒ , के॒तुः , अ॒ग्ने॒ , मं॒द्रः , विश्वा॑नि , काव्या॑नि , वि॒द्वान् । प्रति॑ , मर्ता॑न् , अ॒वा॒स॒यः॒ , दमू॑नाः , अनु॑ , दे॒वान् , र॒थि॒रः , या॒सि॒ , साध॑न् ॥
नि दु॑रो॒णे अ॒मृतो॒ मर्त्या॑नां॒ राजा॑ ससाद वि॒दथा॑नि॒ साध॑न् । घृ॒तप्र॑तीक उर्वि॒या व्य॑द्यौद॒ग्निर्विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ॥
नि , दु॒रो॒णे , अ॒मृतः॑ , मर्त्या॑नां , राजा॑ , स॒सा॒द॒ , वि॒दथा॑नि , साध॑न् । घृ॒तऽप्र॑तीकः , उ॒र्वि॒या , वि , अ॒द्यौ॒त् , अ॒ग्निः , विश्वा॑नि , काव्या॑नि , वि॒द्वान् ॥
आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् । अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं॑ भा॒गं य॒शसं॑ कृधी नः ॥
आ , नः॒ , ग॒हि॒ , स॒ख्येभिः॑ , शि॒वेभिः॑ , म॒हान् , म॒हीभिः॑ , ऊ॒तिऽभिः॑ , स॒र॒ण्यन् । अ॒स्मे इति॑ , र॒यिं , ब॒हु॒लं , संऽत॑रुत्रं , सु॒ऽवाचं॑ , भा॒गं , य॒शसं॑ , कृ॒धि॒ , नः॒ ॥
ए॒ता ते॑ अग्ने॒ जनि॑मा॒ सना॑नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचं । म॒हांति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्मं॑जन्म॒न्निहि॑तो जा॒तवे॑दाः ॥
ए॒ता , ते॒ , अ॒ग्ने॒ , जनि॑म , सना॑नि , प्र , पू॒र्व्याय॑ , नूत॑नानि , वो॒चं॒ । म॒हांति॑ , वृष्णे॑ , सव॑ना , कृ॒ता , इ॒मा , जन्म॑न्ऽजन्मन् , निऽहि॑तः , जा॒तऽवे॑दाः ॥
जन्मं॑जन्म॒न्निहि॑तो जा॒तवे॑दा वि॒श्वामि॑त्रेभिरिध्यते॒ अज॑स्रः । तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
जन्म॑न्ऽजन्मन् , निऽहि॑तः , जा॒तऽवे॑दाः , वि॒श्वामि॑त्रेभिः , इ॒ध्य॒ते॒ , अज॑स्रः । तस्य॑ , व॒यं , सु॒ऽम॒तौ , य॒ज्ञिय॑स्य , अपि॑ , भ॒द्रे , सौ॒म॒न॒से , स्या॒म॒ ॥
इ॒मं य॒ज्ञं स॑हसावं॒त्वं नो॑ देव॒त्रा धे॑हि सुक्रतो॒ ररा॑णः । प्र यं॑सि होतर्बृह॒तीरिषो॒ नोऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥
इ॒मं , य॒ज्ञं , स॒ह॒सा॒ऽव॒न् , त्वं , नः॒ , दे॒व॒ऽत्रा , धे॒हि॒ , सु॒क्र॒तो॒ इति॑ सुऽक्रतो , ररा॑णः । प्र , यं॒सि॒ , हो॒तः॒ , बृ॒ह॒तीः , इषः॑ , नः॒ , अग्ने॑ , महि॑ , द्रवि॑णं , आ , य॒ज॒स्व॒ ॥
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
इळां॑ , अ॒ग्ने॒ , पु॒रु॒ऽदंसं॑ , स॒निं , गोः , श॒श्व॒त्ऽत॒मं , हव॑मानाय , सा॒ध॒ । स्यात् , नः॒ , सू॒नुः , तन॑यः , वि॒जाऽवा॑ , अग्ने॑ , सा , ते॒ , सु॒ऽम॒तिः , भू॒तु॒ , अ॒स्मे इति॑ ॥
[२] वैश्वानरायेति पंचदशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |
वै॒श्वा॒न॒राय॑ धि॒षणा॑मृता॒वृधे॑ घृ॒तं न पू॒तम॒ग्नये॑ जनामसि । द्वि॒ता होता॑रं॒ मनु॑षश्च वा॒घतो॑ धि॒या रथं॒ न कुलि॑शः॒ समृ॑ण्वति ॥
वै॒श्वा॒न॒राय॑ , धि॒षणां॑ , ऋ॒त॒ऽवृधे॑ , घृ॒तं , न , पू॒तं , अ॒ग्नये॑ , ज॒ना॒म॒सि॒ । द्वि॒ता , होता॑रं , मनु॑षः , च॒ , वा॒घतः॑ , धि॒या , रथं॑ , न , कुलि॑शः , सं , ऋ॒ण्व॒ति॒ ॥
स रो॑चयज्ज॒नुषा॒ रोद॑सी उ॒भे स मा॒त्रोर॑भवत्पु॒त्र ईड्यः॑ । ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो॑हितो दू॒ळभो॑ वि॒शामति॑थिर्वि॒भाव॑सुः ॥
सः , रो॒च॒य॒त् , ज॒नुषा॑ , रोद॑सी॒ इति॑ , उ॒भे इति॑ , सः , मा॒त्रोः , अ॒भ॒व॒त् , पु॒त्रः , ईड्यः॑ । ह॒व्य॒ऽवाट् , अ॒ग्निः , अ॒जरः॑ , चनः॑ऽहितः , दुः॒ऽदभः॑ , वि॒शां , अति॑थिः , वि॒भाऽव॑सुः ॥
क्रत्वा॒ दक्ष॑स्य॒ तरु॑षो॒ विध॑र्मणि दे॒वासो॑ अ॒ग्निं ज॑नयंत॒ चित्ति॑भिः । रु॒रु॒चा॒नं भा॒नुना॒ ज्योति॑षा म॒हामत्यं॒ न वाजं॑ सनि॒ष्यन्नुप॑ ब्रुवे ॥
क्रत्वा॑ , दक्ष॑स्य , तरु॑षः , विऽध॑र्मणि , दे॒वासः॑ , अ॒ग्निं , ज॒न॒यं॒त॒ , चित्ति॑ऽभिः । रु॒रु॒चा॒नं , भा॒नुना॑ , ज्योति॑षा , म॒हां , अत्यं॑ , न , वाजं॑ , स॒नि॒ष्यन् , उप॑ , ब्रु॒वे॒ ॥
आ मं॒द्रस्य॑ सनि॒ष्यंतो॒ वरे॑ण्यं वृणी॒महे॒ अह्र॑यं॒ वाज॑मृ॒ग्मियं॑ । रा॒तिं भृगू॑णामु॒शिजं॑ क॒विक्र॑तुम॒ग्निं राजं॑तं दि॒व्येन॑ शो॒चिषा॑ ॥
आ , मं॒द्रस्य॑ , स॒नि॒ष्यंतः॑ , वरे॑ण्यं , वृ॒णी॒महे॑ , अह्र॑यं , वाजं॑ , ऋ॒ग्मियं॑ । रा॒तिं , भृगू॑णां , उ॒शिजं॑ , क॒विऽक्र॑तुं , अ॒ग्निं , राजं॑तं , दि॒व्येन॑ , शो॒चिषा॑ ॥
अ॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॒ वाज॑श्रवसमि॒ह वृ॒क्तब॑र्हिषः । य॒तस्रु॑चः सु॒रुचं॑ वि॒श्वदे॑व्यं रु॒द्रं य॒ज्ञानां॒ साध॑दिष्टिम॒पसां॑ ॥
अ॒ग्निं , सु॒म्नाय॑ , द॒धि॒रे॒ , पु॒रः , जनाः॑ , वाज॑ऽश्रवसं , इ॒ह , वृ॒क्तऽब॑र्हिषः । य॒तऽस्रु॑चः , सु॒ऽरुचं॑ , वि॒श्वऽदे॑व्यं , रु॒द्रं , य॒ज्ञानां॑ , साध॑त्ऽइष्टिं , अ॒पसां॑ ॥
पाव॑कशोचे॒ तव॒ हि क्षयं॒ परि॒ होत॑र्य॒ज्ञेषु॑ वृ॒क्तब॑र्हिषो॒ नरः॑ । अग्ने॒ दुव॑ इ॒च्छमा॑नास॒ आप्य॒मुपा॑सते॒ द्रवि॑णं धेहि॒ तेभ्यः॑ ॥
पाव॑कऽशोचे , तव॑ , हि , क्षयं॑ , परि॑ , होतः॑ , य॒ज्ञेषु॑ , वृ॒क्तऽब॑र्हिषः , नरः॑ । अग्ने॑ , दुवः॑ , इ॒च्छमा॑नासः , आप्यं॑ , उप॑ , आ॒स॒ते॒ , द्रवि॑णं , धे॒हि॒ , तेभ्यः॑ ॥
आ रोद॑सी अपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ अधा॑रयन् । सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः ॥
आ , रोद॑सी॒ इति॑ , अ॒पृ॒ण॒त् , आ , स्वः॑ , म॒हत् , जा॒तं , यत् , ए॒नं॒ , अ॒पसः॑ , अधा॑रयन् । सः , अ॒ध्व॒राय॑ , परि॑ , नी॒य॒ते॒ , क॒विः , अत्यः॑ , न , वाज॑ऽसातये , चनः॑ऽहितः ॥
न॒म॒स्यत॑ ह॒व्यदा॑तिं स्वध्व॒रं दु॑व॒स्यत॒ दम्यं॑ जा॒तवे॑दसं । र॒थीर्ऋ॒तस्य॑ बृह॒तो विच॑र्षणिर॒ग्निर्दे॒वाना॑मभवत्पु॒रोहि॑तः ॥
न॒म॒स्यत॑ , ह॒व्यऽदा॑तिं , सु॒ऽअ॒ध्व॒रं , दु॒व॒स्यत॑ , दम्यं॑ , जा॒तऽवे॑दसं । र॒थीः , ऋ॒तस्य॑ , बृ॒ह॒तः , विऽच॑र्षणिः , अ॒ग्निः , दे॒वानां॑ , अ॒भ॒व॒त् , पु॒रःऽहि॑तः ॥
ति॒स्रो य॒ह्वस्य॑ स॒मिधः॒ परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒ अमृ॑त्यवः । तासा॒मेका॒मद॑धु॒र्मर्त्ये॒ भुज॑मु लो॒कमु॒ द्वे उप॑ जा॒मिमी॑यतुः ॥
ति॒स्रः , य॒ह्वस्य॑ , सं॒ऽइधः॑ , परि॑ऽज्मनः , अ॒ग्नेः , अ॒पु॒न॒न् , उ॒शिजः॑ , अमृ॑त्यवः । तासां॑ , एकां॑ , अद॑धुः , मर्त्ये॑ , भुजं॑ , ऊँ॒ इति॑ , लो॒कं , ऊँ॒ इति॑ , द्वे इति॑ , उप॑ , जा॒मिं , ई॒य॒तुः॒ ॥
वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षी॒रिषः॒ सं सी॑मकृण्वं॒त्स्वधि॑तिं॒ न तेज॑से । स उ॒द्वतो॑ नि॒वतो॑ याति॒ वेवि॑ष॒त्स गर्भ॑मे॒षु भुव॑नेषु दीधरत् ॥
वि॒शां , क॒विं , वि॒श्पतिं॑ , मानु॑षीः , इषः॑ , सं , सीं॒ , अ॒कृ॒ण्व॒न् , स्वऽधि॑तिं , न , तेज॑से । सः , उ॒त्ऽवतः॑ , नि॒ऽवतः॑ , या॒ति॒ , वेवि॑षत् , सः , गर्भं॑ , ए॒षु , भुव॑नेषु , दी॒ध॒र॒त् ॥
स जि॑न्वते ज॒ठरे॑षु प्रजज्ञि॒वान्वृषा॑ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः । वै॒श्वा॒न॒रः पृ॑थु॒पाजा॒ अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे॑ ॥
सः , जि॒न्व॒ते॒ , ज॒ठरे॑षु , प्र॒ज॒ज्ञि॒ऽवान् , वृषा॑ , चि॒त्रेषु॑ , नान॑दत् , न , सिं॒हः । वै॒श्वा॒न॒रः , पृ॒थु॒ऽपाजाः॑ , अम॑र्त्यः , वसु॑ , रत्ना॑ , दय॑मानः , वि , दा॒शुषे॑ ॥
वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठं भंद॑मानः सु॒मन्म॑भिः । स पू॑र्व॒वज्ज॒नयं॑जं॒तवे॒ धनं॑ समा॒नमज्मं॒ पर्ये॑ति॒ जागृ॑विः ॥
वै॒श्वा॒न॒रः , प्र॒त्नऽथा॑ , नाकं॑ , आ , अ॒रु॒ह॒त् , दि॒वः , पृ॒ष्ठं , भंद॑मानः , सु॒मन्म॑ऽभिः । सः , पू॒र्व॒ऽवत् , ज॒नय॑न् , जं॒तवे॑ , धनं॑ , स॒मा॒नं , अज्मं॑ , परि॑ , ए॒ति॒ , जागृ॑विः ॥
ऋ॒तावा॑नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य१॒॑मा यं द॒धे मा॑त॒रिश्वा॑ दि॒वि क्षयं॑ । तं चि॒त्रया॑मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से ॥
ऋ॒तऽवा॑नं , य॒ज्ञियं॑ , विप्रं॑ , उ॒क्थ्यं॑ , आ , यं , द॒धे , मा॒त॒रिश्वा॑ , दि॒वि , क्षयं॑ । तं , चि॒त्रऽया॑मं , हरि॑ऽकेशं , ई॒म॒हे॒ , सु॒ऽदी॒तिं , अ॒ग्निं , सु॒वि॒ताय॑ , नव्य॑से ॥
शुचिं॒ न याम॑न्निषि॒रं स्व॒र्दृशं॑ के॒तुं दि॒वो रो॑चन॒स्थामु॑ष॒र्बुधं॑ । अ॒ग्निं मू॒र्धानं॑ दि॒वो अप्र॑तिष्कुतं॒ तमी॑महे॒ नम॑सा वा॒जिनं॑ बृ॒हत् ॥
शुचिं॑ , न , याम॑न् , इ॒षि॒रं , स्वः॒ऽदृशं॑ , के॒तुं , दि॒वः , रो॒च॒न॒ऽस्थां , उ॒षः॒ऽबुधं॑ । अ॒ग्निं , मू॒र्धानं॑ , दि॒वः , अप्र॑तिऽस्कुतं , तं , ई॒म॒हे॒ , नम॑सा , वा॒जिनं॑ , बृ॒हत् ॥
मं॒द्रं होता॑रं॒ शुचि॒मद्व॑याविनं॒ दमू॑नसमु॒क्थ्यं॑ वि॒श्वच॑र्षणिं । रथं॒ न चि॒त्रं वपु॑षाय दर्श॒तं मनु॑र्हितं॒ सद॒मिद्रा॒य ई॑महे ॥
मं॒द्रं , होता॑रं , शुचिं॑ , अद्व॑याविनं , दमू॑नसं , उ॒क्थ्यं॑ , वि॒श्वऽच॑र्षणिं । रथं॑ , न , चि॒त्रं , वपु॑षाय , द॒र्श॒तं , मनुः॑ऽहितं , सदं॑ , इत् , रा॒यः , ई॒म॒हे॒ ॥
[३] वैश्वानरायेत्येकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्रो वैश्वानरोग्निर्जगती |
वै॒श्वा॒न॒राय॑ पृथु॒पाज॑से॒ विपो॒ रत्ना॑ विधंत ध॒रुणे॑षु॒ गात॑वे । अ॒ग्निर्हि दे॒वाँ अ॒मृतो॑ दुव॒स्यत्यथा॒ धर्मा॑णि स॒नता॒ न दू॑दुषत् ॥
वै॒श्वा॒न॒राय॑ , पृ॒थु॒ऽपाज॑से , विपः॑ , रत्ना॑ , वि॒धं॒त॒ , ध॒रुणे॑षु , गात॑वे । अ॒ग्निः , हि , दे॒वान् , अ॒मृतः॑ , दु॒व॒स्यति॑ , अथ॑ , धर्मा॑णि , स॒नता॑ , न , दू॒दु॒ष॒त् ॥
अं॒तर्दू॒तो रोद॑सी द॒स्म ई॑यते॒ होता॒ निष॑त्तो॒ मनु॑षः पु॒रोहि॑तः । क्षयं॑ बृ॒हंतं॒ परि॑ भूषति॒ द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तो धि॒याव॑सुः ॥
अं॒तः , दू॒तः , रोद॑सी॒ इति॑ , द॒स्मः , ई॒य॒ते॒ , होता॑ , निऽस॑त्तः , मनु॑षः , पु॒रःऽहि॑तः । क्षयं॑ , बृ॒हंतं॑ , परि॑ , भू॒ष॒ति॒ , द्युऽभिः॑ , दे॒वेभिः॑ , अ॒ग्निः , इ॒षि॒तः , धि॒याऽव॑सुः ॥
के॒तुं य॒ज्ञानां॑ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा॑सो अ॒ग्निं म॑हयंत॒ चित्ति॑भिः । अपां॑सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मिं॑त्सु॒म्नानि॒ यज॑मान॒ आ च॑के ॥
के॒तुं , य॒ज्ञानां॑ , वि॒दथ॑स्य , साध॑नं , विप्रा॑सः , अ॒ग्निं , म॒ह॒यं॒त॒ , चित्ति॑ऽभिः । अपां॑सि , यस्मि॑न् , अधि॑ , सं॒ऽद॒धुः , गिरः॑ , तस्मि॑न् , सु॒म्नानि॑ , यज॑मानः , आ , च॒के॒ ॥
पि॒ता य॒ज्ञाना॒मसु॑रो विप॒श्चितां॑ वि॒मान॑म॒ग्निर्व॒युनं॑ च वा॒घतां॑ । आ वि॑वेश॒ रोद॑सी॒ भूरि॑वर्पसा पुरुप्रि॒यो भं॑दते॒ धाम॑भिः क॒विः ॥
पि॒ता , य॒ज्ञानां॑ , असु॑रः , वि॒पः॒ऽचितां॑ , वि॒ऽमानं॑ , अ॒ग्निः , व॒युनं॑ , च॒ , वा॒घतां॑ । आ , वि॒वे॒श॒ , रोद॑सी॒ इति॑ , भूरि॑ऽवर्पसा , पु॒रु॒ऽप्रि॒यः , भं॒द॒ते॒ , धाम॑ऽभिः , क॒विः ॥
चं॒द्रम॒ग्निं चं॒द्रर॑थं॒ हरि॑व्रतं वैश्वान॒रम॑प्सु॒षदं॑ स्व॒र्विदं॑ । वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं॑ दे॒वास॑ इ॒ह सु॒श्रियं॑ दधुः ॥
चं॒द्रं , अ॒ग्निं , चं॒द्रऽर॑थं , हरि॑ऽव्रतं , वै॒श्वा॒न॒रं , अ॒प्सु॒ऽसदं॑ , स्वः॒ऽविदं॑ । वि॒ऽगा॒हं , तूर्णिं॑ , तवि॑षीभिः , आऽवृ॑तं , भूर्णिं॑ , दे॒वासः॑ , इ॒ह , सु॒ऽश्रियं॑ , द॒धुः॒ ॥
अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्च जं॒तुभि॑स्तन्वा॒नो य॒ज्ञं पु॑रु॒पेश॑सं धि॒या । र॒थीरं॒तरी॑यते॒ साध॑दिष्टिभिर्जी॒रो दमू॑ना अभिशस्ति॒चात॑नः ॥
अ॒ग्निः , दे॒वेभिः॑ , मनु॑षः , च॒ , जं॒तुऽभिः॑ , त॒न्वा॒नः , य॒ज्ञं , पु॒रु॒ऽपेश॑सं , धि॒या । र॒थीः , अं॒तः , ई॒य॒ते॒ , साध॑दिष्टिऽभिः , जी॒रः , दमू॑नाः , अ॒भि॒श॒स्ति॒ऽचात॑नः ॥
अग्ने॒ जर॑स्व स्वप॒त्य आयु॑न्यू॒र्जा पि॑न्वस्व॒ समिषो॑ दिदीहि नः । वयां॑सि जिन्व बृह॒तश्च॑ जागृव उ॒शिग्दे॒वाना॒मसि॑ सु॒क्रतु॑र्वि॒पां ॥
अग्ने॑ , जर॑स्व , सु॒ऽअ॒प॒त्ये , आयु॑नि , ऊ॒र्जा , पि॒न्व॒स्व॒ , सं , इषः॑ , दि॒दी॒हि॒ , नः॒ । वयां॑सि , जि॒न्व॒ , बृ॒ह॒तः , च॒ , जा॒गृ॒वे॒ , उ॒शिक् , दे॒वानां॑ , असि॑ , सु॒ऽक्रतुः॑ , वि॒पां ॥
वि॒श्पतिं॑ य॒ह्वमति॑थिं॒ नरः॒ सदा॑ यं॒तारं॑ धी॒नामु॒शिजं॑ च वा॒घतां॑ । अ॒ध्व॒राणां॒ चेत॑नं जा॒तवे॑दसं॒ प्र शं॑संति॒ नम॑सा जू॒तिभि॑र्वृ॒धे ॥
वि॒श्पतिं॑ , य॒ह्वं , अति॑थिं , नरः॑ , सदा॑ , यं॒तारं॑ , धी॒नां , उ॒शिजं॑ , च॒ , वा॒घतां॑ । अ॒ध्व॒राणां॑ , चेत॑नं , जा॒तऽवे॑दसं , प्र , शं॒सं॒ति॒ , नम॑सा , जू॒तिऽभिः॑ , वृ॒धे ॥
वि॒भावा॑ दे॒वः सु॒रणः॒ परि॑ क्षि॒तीर॒ग्निर्ब॑भूव॒ शव॑सा सु॒मद्र॑थः । तस्य॑ व्र॒तानि॑ भूरिपो॒षिणो॑ व॒यमुप॑ भूषेम॒ दम॒ आ सु॑वृ॒क्तिभिः॑ ॥
वि॒भाऽवा॑ , दे॒वः , सु॒ऽरणः॑ , परि॑ , क्षि॒तीः , अ॒ग्निः , ब॒भू॒व॒ , शव॑सा , सु॒मत्ऽर॑थः । तस्य॑ , व्र॒तानि॑ , भू॒रि॒ऽपो॒षिणः॑ , व॒यं , उप॑ , भू॒षे॒म॒ , दमे॑ , आ , सु॒वृ॒क्तिऽभिः॑ ॥
वैश्वा॑नर॒ तव॒ धामा॒न्या च॑के॒ येभिः॑ स्व॒र्विदभ॑वो विचक्षण । जा॒त आपृ॑णो॒ भुव॑नानि॒ रोद॑सी॒ अग्ने॒ ता विश्वा॑ परि॒भूर॑सि॒ त्मना॑ ॥
वैश्वा॑नर , तव॑ , धामा॑नि , आ , च॒क्रे॒ , येभिः॑ , स्वः॒ऽवित् , अभ॑वः , वि॒ऽच॒क्ष॒ण॒ । जा॒तः , आ , अ॒पृ॒णः॒ , भुव॑नानि , रोद॑सी॒ इति॑ , अग्ने॑ , ता , विश्वा॑ , प॒रि॒ऽभूः , अ॒सि॒ , त्मना॑ ॥
वै॒श्वा॒न॒रस्य॑ दं॒सना॑भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्यया॑ क॒विः । उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर्द्यावा॑पृथि॒वी भूरि॑रेतसा ॥
वै॒श्वा॒न॒रस्य॑ , दं॒सना॑भ्यः , बृ॒हत् , अरि॑णात् , एकः॑ , सु॒ऽअ॒प॒स्यया॑ , क॒विः । उ॒भा , पि॒तरा॑ , म॒हय॑न् , अ॒जा॒य॒त॒ , अ॒ग्निः , द्यावा॑पृथि॒वी इति॑ , भूरि॑ऽरेतसा ॥
[४] समित्समिदित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रइध्मस्तनूनपादिळोबर्हिर्देवीर्द्वारउषासानक्तादैव्यौ होतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिस्वाहाकृतयइतिक्रमेणदेवतास्त्रिष्टुप् |
स॒मित्स॑मित्सु॒मना॑ बोध्य॒स्मे शु॒चाशु॑चा सुम॒तिं रा॑सि॒ वस्वः॑ । आ दे॑व दे॒वान्य॒जथा॑य वक्षि॒ सखा॒ सखीं॑त्सु॒मना॑ यक्ष्यग्ने ॥
स॒मित्ऽस॑मित् , सु॒ऽमनाः॑ , बो॒धि॒ , अ॒स्मे इति॑ , शु॒चाऽशु॑चा , सु॒ऽम॒तिं , रा॒सि॒ , वस्वः॑ । आ , दे॒व॒ , दे॒वान् , य॒जथा॑य , व॒क्षि॒ , सखा॑ , सखी॑न् , सु॒ऽमनाः॑ , य॒क्षि॒ , अ॒ग्ने॒ ॥
यं दे॒वास॒स्त्रिरह॑न्ना॒यजं॑ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो अ॒ग्निः । सेमं य॒ज्ञं मधु॑मंतं कृधी न॒स्तनू॑नपाद्घृ॒तयो॑निं वि॒धंतं॑ ॥
यं , दे॒वासः॑ , त्रिः , अह॑न् , आ॒ऽयजं॑ते , दि॒वेऽदि॑वे , वरु॑णः , मि॒त्रः , अ॒ग्निः । सः , इ॒मं , य॒ज्ञं , मधु॑ऽमंतं , कृ॒धि॒ , नः॒ , तनू॑ऽनपात् , घृ॒तऽयो॑निं , वि॒धंतं॑ ॥
प्र दीधि॑तिर्वि॒श्ववा॑रा जिगाति॒ होता॑रमि॒ळः प्र॑थ॒मं यज॑ध्यै । अच्छा॒ नमो॑भिर्वृष॒भं वं॒दध्यै॒ स दे॒वान्य॑क्षदिषि॒तो यजी॑यान् ॥
प्र , दीधि॑तिः , वि॒श्वऽवा॑रा , जि॒गा॒ति॒ , होता॑रं , इ॒ळः , प्र॒थ॒मं , यज॑ध्यै । अच्छ॑ , नमः॑ऽभिः , वृ॒ष॒भं , वं॒दध्यै॑ , सः , दे॒वान् , य॒क्ष॒त् , इ॒षि॒तः , यजी॑यान् ॥
ऊ॒र्ध्वो वां॑ गा॒तुर॑ध्व॒रे अ॑कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि॑ता॒ रजां॑सि । दि॒वो वा॒ नाभा॒ न्य॑सादि॒ होता॑ स्तृणी॒महि॑ दे॒वव्य॑चा॒ वि ब॒र्हिः ॥
ऊ॒र्ध्वः , वां॒ , गा॒तुः , अ॒ध्व॒रे , अ॒का॒रि॒ , ऊ॒र्ध्वा , शो॒चींषि॑ , प्रऽस्थि॑ता , रजां॑सि । दि॒वः , वा॒ , नाभा॑ , नि , अ॒सा॒दि॒ , होता॑ , स्तृ॒णी॒महि॑ , दे॒वऽव्य॑चाः , वि , ब॒र्हिः ॥
स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्वं॑तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ । नृ॒पेश॑सो वि॒दथे॑षु॒ प्र जा॒ता अ॒भी॒३॒॑मं य॒ज्ञं वि च॑रंत पू॒र्वीः ॥
स॒प्त , हो॒त्राणि॑ , मन॑सा , वृ॒णा॒नाः , इन्वं॑तः , विश्वं॑ , प्रति॑ , य॒न् , ऋ॒तेन॑ । नृ॒ऽपेश॑सः , वि॒दथे॑षु , प्र , जा॒ताः , अ॒भि , इ॒मं , य॒ज्ञं , वि , च॒रं॒त॒ , पू॒र्वीः ॥
आ भंद॑माने उ॒षसा॒ उपा॑के उ॒त स्म॑येते त॒न्वा॒३॒॑ विरू॑पे । यथा॑ नो मि॒त्रो वरु॑णो॒ जुजो॑ष॒दिंद्रो॑ म॒रुत्वाँ॑ उ॒त वा॒ महो॑भिः ॥
आ , भंद॑माने॒ इति॑ , उ॒षसौ॑ , उपा॑के॒ इति॑ , उ॒त , स्म॒ये॒ते॒ इति॑ , त॒न्वा॑ , विरू॑पे॒ इति॒ विऽरू॑पे । यथा॑ , नः॒ , मि॒त्रः , वरु॑णः , जुजो॑षत् , इंद्रः॑ , म॒रुत्वा॑न् , उ॒त , वा॒ , महः॑ऽभिः ॥
दैव्या॒ होता॑रा प्रथ॒मा न्यृं॑जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदंति । ऋ॒तं शंसं॑त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥
दैव्या॑ , होता॑रा , प्र॒थ॒मा , नि , ऋं॒जे॒ , स॒प्त , पृ॒क्षासः॑ , स्व॒धया॑ , म॒दं॒ति॒ । ऋ॒तं , शंसं॑तः , ऋ॒तं , इत् , ते , आ॒हुः॒ , अनु॑ , व्र॒तं , व्र॒त॒ऽपाः , दीध्या॑नाः ॥
आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः । सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दंतु ॥
आ , भार॑ती , भार॑तीभिः , स॒ऽजोषाः॑ , इळा॑ , दे॒वैः , म॒नु॒ष्ये॑भिः , अ॒ग्निः । सर॑स्वती , सा॒र॒स्व॒तेभिः॑ , अ॒र्वाक् , ति॒स्रः , दे॒वीः , ब॒र्हिः , आ , इ॒दं , स॒दं॒तु॒ ॥
तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व । यतो॑ वी॒रः क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥
तत् , नः॒ , तु॒रीपं॑ , अध॑ , पो॒ष॒यि॒त्नु , देव॑ , त्व॒ष्टः॒ , वि , र॒रा॒णः , स्य॒स्वेति॑ स्यस्व । यतः॑ , वी॒रः , क॒र्म॒ण्यः॑ , सु॒ऽदक्षः॑ , यु॒क्तऽग्रा॑वा , जाय॑ते , दे॒वऽका॑मः ॥
वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति । सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥
वन॑स्पते , अव॑ , सृ॒ज॒ , उप॑ , दे॒वान् , अ॒ग्निः , ह॒विः , श॒मि॒ता , सू॒द॒या॒ति॒ । सः , इत् , ऊँ॒ इति॑ , होता॑ , स॒त्यऽत॑रः , य॒जा॒ति॒ , यथा॑ , दे॒वानां॑ , जनि॑मानि , वेद॑ ॥
आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिंद्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभिः॑ । ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयंतां ॥
आ , या॒हि॒ , अ॒ग्ने॒ , सं॒ऽइ॒धा॒नः , अ॒र्वाङ् , इंद्रे॑ण , दे॒वैः , स॒ऽरथं॑ , तु॒रेभिः॑ । ब॒र्हिः , नः॒ , आस्तां॑ , अदि॑तिः , सु॒ऽपु॒त्रा , स्वाहा॑ , दे॒वाः , अ॒मृताः॑ , मा॒द॒यं॒तां॒ ॥
[५] प्रत्यग्निरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् (प्रत्यग्निःप्रकारवः सूक्तयोरंत्यासांद्यावापृथिव्यादीनांनिपातादृश्यंतेअतस्तयोर्लिंगोक्तादेवताः पाक्षिकाः) |
प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽबो॑धि॒ विप्रः॑ पद॒वीः क॑वी॒नां । पृ॒थु॒पाजा॑ देव॒यद्भिः॒ समि॒द्धोऽप॒ द्वारा॒ तम॑सो॒ वह्नि॑रावः ॥
प्रति॑ , अ॒ग्निः , उ॒षसः॑ , चेकि॑तानः , अबो॑धि , विप्रः॑ , प॒द॒ऽवीः , क॒वी॒नां । पृ॒थु॒ऽपाजाः॑ , दे॒व॒यत्ऽभिः॑ , संऽइ॑द्धः , अप॑ , द्वारा॑ , तम॑सः , वह्निः॑ , आ॒व॒रित्या॑वः ॥
प्रेद्व॒ग्निर्वा॑वृधे॒ स्तोमे॑भिर्गी॒र्भिः स्तो॑तॄ॒णां न॑म॒स्य॑ उ॒क्थैः । पू॒र्वीर्ऋ॒तस्य॑ सं॒दृश॑श्चका॒नः सं दू॒तो अ॑द्यौदु॒षसो॑ विरो॒के ॥
प्र , इत् , ऊँ॒ इति॑ , अ॒ग्निः , व॒वृ॒धे॒ , स्तोमे॑भिः , गीः॒ऽभिः , स्तो॒तॄ॒णां , न॒म॒स्यः॑ , उ॒क्थैः । पू॒र्वीः , ऋ॒तस्य॑ , सं॒ऽदृशः॑ , च॒का॒नः , सं , दू॒तः , अ॒द्यौ॒त् , उ॒षसः॑ , वि॒ऽरो॒के ॥
अधा॑य्य॒ग्निर्मानु॑षीषु वि॒क्ष्व१॒॑पां गर्भो॑ मि॒त्र ऋ॒तेन॒ साध॑न् । आ ह॑र्य॒तो य॑ज॒तः सान्व॑स्था॒दभू॑दु॒ विप्रो॒ हव्यो॑ मती॒नां ॥
अधा॑यि , अ॒ग्निः , मानु॑षीषु , वि॒क्षु , अ॒पां , गर्भः॑ , मि॒त्रः , ऋ॒तेन॑ , साध॑न् । आ , हि॒र्य॒तः , य॒ज॒तः , सानु॑ , अ॒स्था॒त् , अभू॑त् , ऊँ॒ इति॑ , विप्रः॑ , हव्यः॑ , म॒ती॒नां ॥
मि॒त्रो अ॒ग्निर्भ॑वति॒ यत्समि॑द्धो मि॒त्रो होता॒ वरु॑णो जा॒तवे॑दाः । मि॒त्रो अ॑ध्व॒र्युरि॑षि॒रो दमू॑ना मि॒त्रः सिंधू॑नामु॒त पर्व॑तानां ॥
मि॒त्रः , अ॒ग्निः , भ॒व॒ति॒ , यत् , संऽइ॑द्धः , मि॒त्रः , होता॑ , वरु॑णः , जा॒तऽवे॑दाः । मि॒त्रः , अ॒ध्व॒र्युः , इ॒षि॒रः , दमू॑नाः , मि॒त्रः , सिंधू॑नां , उ॒त , पर्व॑तानां ॥
पाति॑ प्रि॒यं रि॒पो अग्रं॑ प॒दं वेः पाति॑ य॒ह्वश्चर॑णं॒ सूर्य॑स्य । पाति॒ नाभा॑ स॒प्तशी॑र्षाणम॒ग्निः पाति॑ दे॒वाना॑मुप॒माद॑मृ॒ष्वः ॥
पाति॑ , प्रि॒यं , रि॒पः , अग्रं॑ , प॒दं , वेः , पाति॑ , य॒ह्वः , चर॑णं , सूर्य॑स्य । पाति॑ , नाभा॑ , स॒प्तऽशी॑र्षाणां , अ॒ग्निः , पाति॑ , दे॒वानां॑ , उ॒प॒ऽमादं॑ , ऋ॒ष्वः ॥
ऋ॒भुश्च॑क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा॑नि दे॒वो व॒युना॑नि वि॒द्वान् । स॒सस्य॒ चर्म॑ घृ॒तव॑त्प॒दं वेस्तदिद॒ग्नी र॑क्ष॒त्यप्र॑युच्छन् ॥
ऋ॒भुः , च॒क्रे॒ , ईड्यं॑ , चारु॑ , नाम॑ , विश्वा॑नि , दे॒वः , व॒युना॑नि , वि॒द्वान् । स॒सस्य॑ , चर्म॑ , घृ॒तऽव॑त् , प॒दं , वेः , तत् , इत् , अ॒ग्निः , र॒क्ष॒ति॒ , अप्र॑ऽयुच्छन् ॥
आ योनि॑म॒ग्निर्घृ॒तवं॑तमस्थात्पृ॒थुप्र॑गाणमु॒शंत॑मुशा॒नः । दीद्या॑नः॒ शुचि॑र्ऋ॒ष्वः पा॑व॒कः पुनः॑पुनर्मा॒तरा॒ नव्य॑सी कः ॥
आ , योनिं॑ , अ॒ग्निः , घृ॒तऽवं॑तं , अ॒स्था॒त् , पृ॒थुऽप्र॑गानं , उ॒शंतं॑ , उ॒शा॒नः । दीद्या॑नः , शुचिः॑ , ऋ॒ष्वः , पा॒व॒कः , पुनः॑ऽपुनः , मा॒तरा॑ , नव्य॑सी॒ इति॑ , क॒रिति॑ कः ॥
स॒द्यो जा॒त ओष॑धीभिर्ववक्षे॒ यदी॒ वर्धं॑ति प्र॒स्वो॑ घृ॒तेन॑ । आप॑ इव प्र॒वता॒ शुंभ॑माना उरु॒ष्यद॒ग्निः पि॒त्रोरु॒पस्थे॑ ॥
स॒द्यः , जा॒तः , ओष॑धीभिः , व॒व॒क्षे॒ , यदि॑ , वर्धं॑ति , प्र॒ऽस्वः॑ , घृ॒तेन॑ । आपः॑ऽइव , प्र॒ऽवता॑ , शुंभ॑मानाः , उ॒रु॒ष्यत् , अ॒ग्निः , पि॒त्रोः , उ॒पऽस्थे॑ ॥
उदु॑ ष्टु॒तः स॒मिधा॑ य॒ह्वो अ॑द्यौ॒द्वर्ष्मं॑दि॒वो अधि॒ नाभा॑ पृथि॒व्याः । मि॒त्रो अ॒ग्निरीड्यो॑ मात॒रिश्वा दू॒तो व॑क्षद्य॒जथा॑य दे॒वान् ॥
उत् , ऊँ॒ इति॑ , स्तु॒तः , सं॒ऽइधा॑ , य॒ह्वः , अ॒द्यौ॒त् , वर्ष्म॑न् , दि॒वः , अधि॑ , नाभा॑ , पृ॒थि॒व्याः । मि॒त्रः , अ॒ग्निः , ईड्यः॑ , मा॒त॒रिश्वा॑ , आ , दू॒तः , व॒क्ष॒त् , य॒जथा॑य , दे॒वान् ॥
उद॑स्तंभीत्स॒मिधा॒ नाक॑मृ॒ष्वो॒३॒॑ऽग्निर्भव॑न्नुत्त॒मो रो॑च॒नानां॑ । यदी॒ भृगु॑भ्यः॒ परि॑ मात॒रिश्वा॒ गुहा॒ संतं॑ हव्य॒वाहं॑ समी॒धे ॥
उत् , अ॒स्तं॒भी॒त् , सं॒ऽइधा॑ , नाकं॑ , ऋ॒ष्वः , अ॒ग्निः , भव॑न् , उ॒त्ऽत॒मः , रो॒च॒नानां॑ । यदि॑ , भृगु॑ऽभ्यः , परि॑ , मा॒त॒रिश्वा॑ , गुहा॑ , संतं॑ , ह॒व्य॒ऽवाहं॑ , सं॒ऽई॒धे ॥
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
इळां॑ , अ॒ग्ने॒ , पु॒रु॒ऽदंसं॑ , स॒निं , गोः , श॒श्व॒त्ऽत॒मं , हव॑मानाय , सा॒ध॒ । स्यात् , नः॒ , सू॒नुः , तन॑यः , वि॒जाऽवा॑ , अग्ने॑ , सा , ते॒ , सु॒ऽम॒तिः , भू॒तु॒ , अ॒स्मे इति॑ ॥
[६] प्रकारवइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |
प्र का॑रवो मन॒ना व॒च्यमा॑ना देव॒द्रीचीं॑ नयत देव॒यंतः॑ । द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये॑ति ह॒विर्भरं॑त्य॒ग्नये॑ घृ॒ताची॑ ॥
प्र , का॒र॒वः॒ , म॒न॒ना , व॒च्यमा॑नाः , दे॒व॒द्रीचीं॑ , न॒य॒त॒ , दे॒व॒ऽयंतः॑ । द॒क्षि॒णा॒ऽवाट् , वा॒जिनी॑ , प्राची॑ , ए॒ति॒ , ह॒विः , भरं॑ती , अ॒ग्नये॑ , घृ॒ताची॑ ॥
आ रोद॑सी अपृणा॒ जाय॑मान उ॒त प्र रि॑क्था॒ अध॒ नु प्र॑यज्यो । दि॒वश्चि॑दग्ने महि॒ना पृ॑थि॒व्या व॒च्यंतां॑ ते॒ वह्न॑यः स॒प्तजि॑ह्वाः ॥
आ , रोद॑सी॒ इति॑ , अ॒पृ॒णाः॒ , जाय॑मानः , उ॒त , प्र , रि॒क्थाः॒ , अध॑ , नु , प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो । दि॒वः , चि॒त् , अ॒ग्ने॒ , म॒हि॒ना , पृ॒थि॒व्याः , व॒च्यंतां॑ , ते॒ , वह्न॑यः , स॒प्तऽजि॑ह्वाः ॥
द्यौश्च॑ त्वा पृथि॒वी य॒ज्ञिया॑सो॒ नि होता॑रं सादयंते॒ दमा॑य । यदी॒ विशो॒ मानु॑षीर्देव॒यंतीः॒ प्रय॑स्वती॒रीळ॑ते शु॒क्रम॒र्चिः ॥
द्यौः , च॒ , त्वा॒ , पृ॒थि॒वी , य॒ज्ञिया॑सः , नि , होता॑रं , सा॒द॒यं॒ते॒ , दमा॑य । यदि॑ , विशः॑ , मानु॑षीः , दे॒व॒ऽयंतीः॑ , प्रय॑स्वतीः , ईळ॑ते , शु॒क्रं , अ॒र्चिः ॥
म॒हांत्स॒धस्थे॑ ध्रु॒व आ निष॑त्तो॒ऽन्तर्द्यावा॒ माहि॑ने॒ हर्य॑माणः । आस्क्रे॑ स॒पत्नी॑ अ॒जरे॒ अमृ॑क्ते सब॒र्दुघे॑ उरुगा॒यस्य॑ धे॒नू ॥
म॒हान् , स॒धऽस्थे॑ , ध्रु॒वः , आ , निऽस॑त्तः , अं॒तः , द्यावा॑ , माहि॑ने॒ इति॑ , हर्य॑माणः । आस्क्रे॒ इति॑ , स॒पत्नी॒ इति॑ स॒ऽपत्नी॑ , अ॒जरे॒ इति॑ , अमृ॑क्ते॒ इति॑ , स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे॑ , उ॒रु॒ऽगा॒यस्य॑ , धे॒नू इति॑ ॥
व्र॒ता ते॑ अग्ने मह॒तो म॒हानि॒ तव॒ क्रत्वा॒ रोद॑सी॒ आ त॑तंथ । त्वं दू॒तो अ॑भवो॒ जाय॑मान॒स्त्वं ने॒ता वृ॑षभ चर्षणी॒नां ॥
व्र॒ता , ते॒ , अ॒ग्ने॒ , म॒ह॒तः , म॒हानि॑ , तव॑ , क्रत्वा॑ , रोद॑सी॒ इति॑ , आ , त॒तं॒थ॒ । त्वं , दू॒तः , अ॒भ॒वः॒ , जाय॑मानः , त्वं , ने॒ता , वृ॒ष॒भ॒ , च॒र्ष॒णी॒नां ॥
ऋ॒तस्य॑ वा के॒शिना॑ यो॒ग्याभि॑र्घृत॒स्नुवा॒ रोहि॑ता धु॒रि धि॑ष्व । अथा व॑ह दे॒वांदे॑व॒ विश्वां॑त्स्वध्व॒रा कृ॑णुहि जातवेदः ॥
ऋ॒तस्य॑ , वा॒ , के॒शिना॑ , यो॒ग्याभिः॑ , घृ॒त॒ऽस्नुवा॑ , रोहि॑ता , धु॒रि , धि॒ष्व॒ । अथ॑ , आ , व॒ह , दे॒वान् , दे॒व॒ , विश्वा॑न् , सु॒ऽअ॒ध्व॒रा , कृ॒णु॒हि॒ , जा॒त॒ऽवे॒दः॒ ॥
दि॒वश्चि॒दा ते॑ रुचयंत रो॒का उ॒षो वि॑भा॒तीरनु॑ भासि पू॒र्वीः । अ॒पो यद॑ग्न उ॒शध॒ग्वने॑षु॒ होतु॑र्मं॒द्रस्य॑ प॒नयं॑त दे॒वाः ॥
दि॒वः , चि॒त् , आ , ते॒ , रु॒च॒यं॒त॒ , रो॒काः , उ॒षः , वि॒ऽभा॒तीः , अनु॑ , भा॒सि॒ , पू॒र्वीः । अ॒पः , यत् , अ॒ग्ने॒ , उ॒शध॑क् , वने॑षु , होतुः॑ , मं॒द्रस्य॑ , प॒नयं॑त , दे॒वाः ॥
उ॒रौ वा॒ ये अं॒तरि॑क्षे॒ मदं॑ति दि॒वो वा॒ ये रो॑च॒ने संति॑ दे॒वाः । ऊमा॑ वा॒ ये सु॒हवा॑सो॒ यज॑त्रा आयेमि॒रे र॒थ्यो॑ अग्ने॒ अश्वाः॑ ॥
उ॒रौ , वा॒ , ये , अं॒तरि॑क्षे , मदं॑ति , दि॒वः , वा॒ , ये , रो॒च॒ने , संति॑ , दे॒वाः । ऊमाः॑ , वा॒ , ये , सु॒ऽहवा॑सः , यज॑त्राः , आ॒ऽये॒मि॒रे , र॒थ्यः॑ , अ॒ग्ने॒ , अश्वाः॑ ॥
ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ्ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वाः॑ । पत्नी॑वतस्त्रिं॒शतं॒ त्रीँश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥
आ , ए॒भिः॒ , अ॒ग्ने॒ , स॒ऽरथं॑ , या॒हि॒ , अ॒र्वाङ् , ना॒ना॒ऽर॒थं , वा॒ , वि॒ऽभवः॑ , हि , अश्वाः॑ । पत्नी॑ऽवतः , त्रिं॒शतं॑ , त्रीन् , च॒ , दे॒वान् , अ॒नु॒ऽस्व॒धं , आ , व॒ह॒ , मा॒दय॑स्व ॥
स होता॒ यस्य॒ रोद॑सी चिदु॒र्वी य॒ज्ञंय॑ज्ञम॒भि वृ॒धे गृ॑णी॒तः । प्राची॑ अध्व॒रेव॑ तस्थतुः सु॒मेके॑ ऋ॒ताव॑री ऋ॒तजा॑तस्य स॒त्ये ॥
सः , होता॑ , यस्य॑ , रोद॑सी॒ इति॑ , चि॒त् , उ॒र्वी इति॑ , य॒ज्ञंऽय॑ज्ञं , अ॒भि , वृ॒धे , गृ॒णी॒तः । प्राची॒ इति॑ , अ॒ध्व॒राऽइ॑व , त॒स्थ॒तुः॒ , सु॒मेके॒ इति॑ सु॒ऽमेके॑ , ऋ॒तव॑री॒ इत्यृ॒तऽव॑री , ऋ॒तऽजा॑तस्य , स॒त्ये इति॑ ॥
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
इळां॑ , अ॒ग्ने॒ , पु॒रु॒ऽदंसं॑ , स॒निं , गोः , श॒श्व॒त्ऽत॒मं , हव॑मानाय , सा॒ध॒ । स्यात् , नः॒ , सू॒नुः , तन॑यः , वि॒जाऽवा॑ , अग्ने॑ , सा , ते॒ , सु॒ऽम॒तिः , भू॒तु॒ , अ॒स्मे इति॑ ॥
[७] प्रयआरुरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निस्त्रिष्टुप् |
प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा॑ विविशुः स॒प्त वाणीः॑ । प॒रि॒क्षिता॑ पि॒तरा॒ सं च॑रेते॒ प्र स॑र्स्राते दी॒र्घमायुः॑ प्र॒यक्षे॑ ॥
प्र , ये , आ॒रुः , शि॒ति॒ऽपृ॒ष्ठस्य॑ , धा॒सेः , आ , मा॒तरा॑ , वि॒वि॒शुः॒ , स॒प्त , वाणीः॑ । प॒रि॒ऽक्षिता॑ , पि॒तरा॑ , सं , च॒रे॒ते॒ इति॑ , प्र , स॒र्स्रा॒ते॒ इति॑ , दी॒र्घं , आयुः॑ , प्र॒ऽयक्षे॑ ॥
दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा॑ दे॒वीरा त॑स्थौ॒ मधु॑म॒द्वहं॑तीः । ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यंतं॒ पर्येका॑ चरति वर्त॒निं गौः ॥
दि॒वक्ष॑सः , धे॒नवः॑ , वृष्णः॑ , अश्वाः॑ , दे॒वीः , आ , त॒स्थौ॒ , मधु॑ऽमत् , वहं॑तीः । ऋ॒तस्य॑ , त्वा॒ , सद॑सि , क्षे॒म॒ऽयंतं॑ , परि॑ , एका॑ , च॒र॒ति॒ , व॒र्त॒निं , गौः ॥
आ सी॑मरोहत्सु॒यमा॒ भवं॑तीः॒ पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णां । प्र नील॑पृष्ठो अत॒सस्य॑ धा॒सेस्ता अ॑वासयत्पुरु॒धप्र॑तीकः ॥
आ , सीं॒ , अ॒रो॒ह॒त् , सु॒ऽयमाः॑ , भवं॑तीः , पतिः॑ , चि॒कि॒त्वान् , र॒यि॒ऽवित् , र॒यी॒णां । प्र , नील॑ऽपृष्ठः , अ॒त॒सस्य॑ , धा॒सेः , ताः , अ॒वा॒स॒य॒त् , पु॒रु॒धऽप्र॑तीकः ॥
महि॑ त्वा॒ष्ट्रमू॒र्जयं॑तीरजु॒र्यं स्त॑भू॒यमा॑नं व॒हतो॑ वहंति । व्यंगे॑भिर्दिद्युता॒नः स॒धस्थ॒ एका॑मिव॒ रोद॑सी॒ आ वि॑वेश ॥
महि॑ , त्वा॒ष्ट्रं , ऊ॒र्जयं॑तीः , अ॒जु॒र्यं , स्त॒भु॒ऽयमा॑नं , व॒हतः॑ , व॒हं॒ति॒ । वि , अंगे॑भिः , दि॒द्यु॒ता॒नः , स॒धऽस्थे॑ , एकां॑ऽइव , रोद॑सी॒ इति॑ , आ , वि॒वे॒श॒ ॥
जा॒नंति॒ वृष्णो॑ अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणंति । दि॒वो॒रुचः॑ सु॒रुचो॒ रोच॑माना॒ इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ॥
जा॒नंति॑ , वृष्णः॑ , अ॒रु॒षस्य॑ , शेवं॑ , उ॒त , ब्र॒ध्नस्य॑ , शास॑ने , र॒णं॒ति॒ । दि॒वः॒ऽरुचः॑ , सु॒ऽरुचः॑ , रोच॑मानाः , इळा॑ , येषां॑ , गण्या॑ , माहि॑ना , गीः ॥
उ॒तो पि॒तृभ्यां॑ प्र॒विदानु॒ घोषं॑ म॒हो म॒हद्भ्या॑मनयंत शू॒षं । उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑ ॥
उ॒तो इति॑ , पि॒तृऽभ्यां॑ , प्र॒ऽविदा॑ , अनु॑ , घोषं॑ , म॒हः , म॒हत्ऽभ्यां॑ , अ॒न॒यं॒त॒ , शू॒षं । उ॒क्षा , ह॒ , यत्र॑ , परि॑ , धानं॑ , अ॒क्तोः , अनु॑ , स्वं , धाम॑ , ज॒रि॒तुः , व॒वक्ष॑ ॥
अ॒ध्व॒र्युभिः॑ पं॒चभिः॑ स॒प्त विप्राः॑ प्रि॒यं र॑क्षंते॒ निहि॑तं प॒दं वेः । प्रांचो॑ मदंत्यु॒क्षणो॑ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ॥
अ॒ध्व॒र्युऽभिः॑ , पं॒चऽभिः॑ , स॒प्त , विप्राः॑ , प्रि॒यं , र॒क्षं॒ते॒ , निऽहि॑तं , प॒दं , वेरिति॒ वेः । प्रांचः॑ , म॒दं॒ति॒ , उ॒क्षणः॑ , अ॒जु॒र्याः , दे॒वाः , दे॒वानां॑ , अनु॑ , हि , व्र॒ता , गुरिति॒ गुः ॥
दैव्या॒ होता॑रा प्रथ॒मा न्यृं॑जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदंति । ऋ॒तं शंसं॑त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥
दैव्या॑ , होता॑रा , प्र॒थ॒मा , नि , ऋं॒जे॒ , स॒प्त , पृ॒क्षासः॑ , स्व॒धया॑ , म॒दं॒ति॒ । ऋ॒तं , शंसं॑तः , ऋ॒तं , इत् , ते , आ॒हुः॒ , अनु॑ , व्र॒तं , व्र॒त॒ऽपाः , दीध्या॑नाः ॥
वृ॒षा॒यंते॑ म॒हे अत्या॑य पू॒र्वीर्वृष्णे॑ चि॒त्राय॑ र॒श्मयः॑ सुया॒माः । देव॑ होतर्मं॒द्रत॑रश्चिकि॒त्वान्म॒हो दे॒वान्रोद॑सी॒ एह व॑क्षि ॥
वृ॒ष॒ऽयंते॑ , म॒हे , अत्या॑य , पू॒र्वीः , वृष्णे॑ , चि॒त्राय॑ , र॒श्मयः॑ , सु॒ऽया॒माः । देव॑ , हो॒तः॒ , मं॒द्रऽत॑रः , चि॒कि॒त्वान् , म॒हः , दे॒वान् , रोद॑सी॒ इति॑ , आ , इ॒ह , व॒क्षि॒ ॥
पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो॑ रे॒वदू॑षुः । उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देनः॒ सं म॒हे द॑शस्य ॥
पृ॒क्षऽप्र॑यजः , द्र॒वि॒णः॒ , सु॒ऽवाचः॑ , सु॒ऽके॒तवः॑ , उ॒षसः॑ , रे॒वत् , ऊ॒षुः॒ । उ॒तो इति॑ , चि॒त् , अ॒ग्ने॒ , म॒हि॒ना , पृ॒थि॒व्याः , कृ॒तं , चि॒त् , एनः॑ , सं , म॒हे , द॒श॒स्य॒ ॥
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
इळां॑ , अ॒ग्ने॒ , पु॒रु॒ऽदंसं॑ , स॒निं , गोः , श॒श्व॒त्ऽत॒मं , हव॑मानाय , सा॒ध॒ । स्यात् , नः॒ , सू॒नुः , तन॑यः , वि॒जाऽवा॑ , अग्ने॑ , सा , ते॒ , सु॒ऽम॒तिः , भू॒तु॒ , अ॒स्मे इति॑ ॥
[८] अंजंतीत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोयूपः षष्ठ्यादिपंचानांयूपाः (अष्टम्याविश्वेदेवावा) अंत्ययाव्रश्चन त्रिष्टुप् तृतीयासप्तम्यावनुष्टुभौ |
अं॒जंति॒ त्वाम॑ध्व॒रे दे॑व॒यंतो॒ वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न । यदू॒र्ध्वस्तिष्ठा॒ द्रवि॑णे॒ह ध॑त्ता॒द्यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे॑ ॥
अं॒जंति॑ , त्वां , अ॒ध्व॒रे , दे॒व॒ऽयंतः॑ , वन॑स्पते , मधु॑ना , दैव्ये॑न । यत् , ऊ॒र्ध्वः , तिष्ठाः॑ , द्रवि॑णा , इ॒ह , ध॒त्ता॒त् , यत् , वा॒ , क्षयः॑ , मा॒तुः , अ॒स्याः , उ॒पऽस्थे॑ ॥
समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द्ब्रह्म॑ वन्वा॒नो अ॒जरं॑ सु॒वीरं॑ । आ॒रे अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥
संऽइ॑द्धस्य , श्रय॑माणः , पु॒रस्ता॑त् , ब्रह्म॑ , व॒न्वा॒नः , अ॒जरं॑ , सु॒ऽवीरं॑ । आ॒रे , अ॒स्मत् , अम॑तिं , बाध॑मानः , उत् , श्र॒य॒स्व॒ , म॒ह॒ते , सौभ॑गाय ॥
उच्छ्र॑यस्व वनस्पते॒ वर्ष्म॑न्पृथि॒व्या अधि॑ । सुमि॑ती मी॒यमा॑नो॒ वर्चो॑ धा य॒ज्ञवा॑हसे ॥
उत् , श्र॒य॒स्व॒ , व॒न॒स्प॒ते॒ , वर्ष्म॑न् , पृ॒थि॒व्याः , अधि॑ । सुऽमि॑ती , मी॒यमा॑नः , वर्चः॑ , धाः॒ , य॒ज्ञऽवा॑हसे ॥
युवा॑ सु॒वासाः॒ परि॑वीत॒ आगा॒त्स उ॒ श्रेया॑न्भवति॒ जाय॑मानः । तं धीरा॑सः क॒वय॒ उन्न॑यंति स्वा॒ध्यो॒३॒॑ मन॑सा देव॒यंतः॑ ॥
युवा॑ , सु॒ऽवासाः॑ , परि॑ऽवीतः , आ , अ॒गा॒त् , सः , ऊँ॒ इति॑ , श्रेया॑न् , भ॒व॒ति॒ , जाय॑मानः । तं , धीरा॑सः , क॒वयः॑ , उत् , न॒यं॒ति॒ , सु॒ऽआ॒ध्यः॑ , मन॑सा , दे॒व॒ऽयंतः॑ ॥
जा॒तो जा॑यते सुदिन॒त्वे अह्नां॑ सम॒र्य आ वि॒दथे॒ वर्ध॑मानः । पु॒नंति॒ धीरा॑ अ॒पसो॑ मनी॒षा दे॑व॒या विप्र॒ उदि॑यर्ति॒ वाचं॑ ॥
जा॒तः , जा॒य॒ते॒ , सु॒दि॒न॒ऽत्वे , अह्नां॑ , स॒ऽम॒र्ये , आ , वि॒दथे॑ , वर्ध॑मानः । पु॒नंति॑ , धीराः॑ , अ॒पसः॑ , म॒नी॒षा , दे॒व॒ऽयाः , विप्रः॑ , उत् , इ॒य॒र्ति॒ , वाचं॑ ॥
यान्वो॒ नरो॑ देव॒यंतो॑ निमि॒म्युर्वन॑स्पते॒ स्वधि॑तिर्वा त॒तक्ष॑ । ते दे॒वासः॒ स्वर॑वस्तस्थि॒वांसः॑ प्र॒जाव॑द॒स्मे दि॑धिषंतु॒ रत्नं॑ ॥
यान् , वः॒ , नरः॑ , दे॒व॒ऽयंतः॑ , नि॒ऽमि॒म्युः , वन॑स्पते , स्वऽधि॑तिः , वा॒ , त॒तक्ष॑ । ते , दे॒वासः॑ , स्वर॑वः , त॒स्थि॒ऽवांसः॑ , प्र॒जाऽव॑त् , अ॒स्मे इति॑ , दि॒धि॒षं॒तु॒ , रत्नं॑ ॥
ये वृ॒क्णासो॒ अधि॒ क्षमि॒ निमि॑तासो य॒तस्रु॑चः । ते नो॑ व्यंतु॒ वार्यं॑ देव॒त्रा क्षे॑त्र॒साध॑सः ॥
ये , वृ॒क्णासः॑ , अधि॑ , क्षमि॑ , निऽमि॑तासः , य॒तऽस्रु॑चः । ते , नः॒ , व्यं॒तु॒ , वार्यं॑ , दे॒व॒ऽत्रा , क्षे॒त्र॒ऽसाध॑सः ॥
आ॒दि॒त्या रु॒द्रा वस॑वः सुनी॒था द्यावा॒क्षामा॑ पृथि॒वी अं॒तरि॑क्षं । स॒जोष॑सो य॒ज्ञम॑वंतु दे॒वा ऊ॒र्ध्वं कृ॑ण्वंत्वध्व॒रस्य॑ के॒तुं ॥
आ॒दि॒त्याः , रु॒द्राः , वस॑वः , सु॒ऽनी॒थाः , द्यावा॒क्षामा॑ , पृ॒थि॒वी , अं॒तरि॑क्षं । स॒ऽजोष॑सः , य॒ज्ञं , अ॒वं॒तु॒ , दे॒वाः , ऊ॒र्ध्वं , कृ॒ण्वं॒तु॒ , अ॒ध्व॒रस्य॑ , के॒तुं ॥
हं॒सा इ॑व श्रेणि॒शो यता॑नाः शु॒क्रा वसा॑नाः॒ स्वर॑वो न॒ आगुः॑ । उ॒न्नी॒यमा॑नाः क॒विभिः॑ पु॒रस्ता॑द्दे॒वा दे॒वाना॒मपि॑ यंति॒ पाथः॑ ॥
हं॒साःऽइ॑व , श्रे॒णि॒ऽशः , यता॑नाः , शु॒क्रा , वसा॑नाः , स्वर॑वः , नः॒ , आ , अ॒गुः॒ । उ॒त्ऽनी॒यमा॑नाः , क॒विऽभिः॑ , पु॒रस्ता॑त् , दे॒वाः , दे॒वानां॑ , अपि॑ , यं॒ति॒ , पाथः॑ ॥
शृंगा॑णी॒वेच्छृं॒गिणां॒ सं द॑दृश्रे च॒षाल॑वंतः॒ स्वर॑वः पृथि॒व्यां । वा॒घद्भि॑र्वा विह॒वे श्रोष॑माणा अ॒स्माँ अ॑वंतु पृत॒नाज्ये॑षु ॥
शृंगा॑णिऽइव , इत् , शृं॒गिणां॑ , सं , द॒दृ॒श्रे॒ , च॒षाल॑ऽवंतः , स्वर॑वः , पृ॒थि॒व्यां । वा॒घत्ऽभिः॑ , वा॒ , वि॒ऽह॒वे , श्रोष॑माणाः , अ॒स्मान् , अ॒वं॒तु॒ , पृ॒त॒नाज्ये॑षु ॥
वन॑स्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम । यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ॥
वन॑स्पते , श॒तऽव॑ल्शः , वि , रो॒ह॒ , स॒हस्र॑ऽवल्शाः , वि , व॒यं , रु॒हे॒म॒ । यं , त्वां , अ॒यं , स्वऽधि॑तिः , तेज॑मानः , प्र॒ऽनि॒नाय॑ , म॒ह॒ते , सौभ॑गाय ॥
[९] सखायइति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्बृहत्यंत्यात्रिष्टुप् |
सखा॑यस्त्वा ववृमहे दे॒वं मर्ता॑स ऊ॒तये॑ । अ॒पां नपा॑तं सु॒भगं॑ सु॒दीदि॑तिं सु॒प्रतू॑र्तिमने॒हसं॑ ॥
सखा॑यः , त्वा॒ , व॒वृ॒म॒हे॒ , दे॒वं , मर्ता॑सः , ऊ॒तये॑ । अ॒पां , नपा॑तं , सु॒ऽभगं॑ , सु॒ऽदीदि॑तिं , सु॒ऽप्रतू॑र्तिं , अ॒ने॒हसं॑ ॥
काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः । न तत्ते॑ अग्ने प्र॒मृषे॑ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ॥
काय॑मानः , व॒ना , त्वं , यत् , मा॒तॄः , अज॑गन् , अ॒पः । न , तत् , ते॒ , अ॒ग्ने॒ , प्र॒ऽमृषे॑ , नि॒ऽवर्त॑नं , यत् , दू॒रे , सन् , इ॒ह , अभ॑वः ॥
अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना॑ असि । प्रप्रा॒न्ये यंति॒ पर्य॒न्य आ॑सते॒ येषां॑ स॒ख्ये असि॑ श्रि॒तः ॥
अति॑ , तृ॒ष्टं , व॒व॒क्षि॒थ॒ , अथ॑ , ए॒व , सु॒ऽमनाः॑ , अ॒सि॒ । प्रऽप्र॑ , अ॒न्ये , यंति॑ , परि॑ , अ॒न्ये , आ॒स॒ते॒ , येषां॑ , स॒ख्ये , असि॑ , श्रि॒तः ॥
ई॒यि॒वांस॒मति॒ स्रिधः॒ शश्व॑ती॒रति॑ स॒श्चतः॑ । अन्वी॑मविंदन्निचि॒रासो॑ अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तं ॥
ई॒यि॒ऽवांसं॑ , अति॑ , स्रिधः॑ , शश्व॑तीः , अति॑ , स॒श्चतः॑ । अनु॑ , ईं॒ , अ॒विं॒द॒न् , नि॒ऽचि॒रासः॑ , अ॒द्रुहः॑ , अ॒प्ऽसु , सिं॒हंऽइ॑व , श्रि॒तं ॥
स॒सृ॒वांस॑मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि॑तं । ऐनं॑ नयन्मात॒रिश्वा॑ परा॒वतो॑ दे॒वेभ्यो॑ मथि॒तं परि॑ ॥
स॒सृ॒वांसं॑ऽइव , त्मना॑ , अ॒ग्निं , इ॒त्था , ति॒रःऽहि॑तं । आ , ए॒नं॒ , न॒य॒त् , मा॒त॒रिश्वा॑ , प॒रा॒ऽवतः॑ , दे॒वेभ्यः॑ , म॒थि॒तं , परि॑ ॥
तं त्वा॒ मर्ता॑ अगृभ्णत दे॒वेभ्यो॑ हव्यवाहन । विश्वा॒न्यद्य॒ज्ञाँ अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा॑ यविष्ठ्य ॥
तं , त्वा॒ , मर्ताः॑ , अ॒गृ॒भ्ण॒त॒ , दे॒वेभ्यः॑ , ह॒व्य॒ऽवा॒ह॒न॒ । विश्वा॑न् , यत् , य॒ज्ञान् , अ॒भि॒ऽपासि॑ , मा॒नु॒ष॒ , तव॑ , क्रत्वा॑ , य॒वि॒ष्ठ्य॒ ॥
तद्भ॒द्रं तव॑ दं॒सना॒ पाका॑य चिच्छदयति । त्वां यद॑ग्ने प॒शवः॑ स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे ॥
तत् , भ॒द्रं , तव॑ , दं॒सना॑ , पाका॑य , चि॒त् , छ॒द॒य॒ति॒ । त्वां , यत् , अ॒ग्ने॒ , प॒शवः॑ , सं॒ऽआस॑ते , संऽइ॑द्धं , अ॒पि॒ऽश॒र्व॒रे ॥
आ जु॑होता स्वध्व॒रं शी॒रं पा॑व॒कशो॑चिषं । आ॒शुं दू॒तम॑जि॒रं प्र॒त्नमीड्यं॑ श्रु॒ष्टी दे॒वं स॑पर्यत ॥
आ , जु॒हो॒त॒ , सु॒ऽअ॒ध्व॒रं , शी॒रं , पा॒व॒कऽशो॑चिषं । आ॒शुं , दू॒तं , अ॒जि॒रं , प्र॒त्नं , ईड्यं॑ , श्रु॒ष्टी , दे॒वं , स॒प॒र्य॒त॒ ॥
त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् । औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयंत ॥
त्रीणि॑ , श॒ता , त्री , स॒हस्रा॑णि , अ॒ग्निं , त्रिं॒शत् , च॒ , दे॒वाः , नव॑ , च॒ , अ॒स॒प॒र्य॒न् । औक्ष॑न् , घृ॒तैः , अस्तृ॑णन् , ब॒र्हिः , अ॒स्मै॒ , आत् , इत् , होता॑रं , नि , अ॒सा॒द॒यं॒त॒ ॥
[१०] त्वामग्नइतिनवर्चस्यसूक्तस्यगाथिनोविश्वामित्रोग्निरुष्णिक् |
त्वाम॑ग्ने मनी॒षिणः॑ स॒म्राजं॑ चर्षणी॒नां । दे॒वं मर्ता॑स इंधते॒ सम॑ध्व॒रे ॥
त्वां , अ॒ग्ने॒ , म॒नी॒षिणः॑ , सं॒ऽराजं॑ , च॒र्ष॒णी॒नां । दे॒वं , मर्ता॑सः , इं॒ध॒ते॒ , सं , अ॒ध्व॒रे ॥
त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता॑रमीळते । गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे॑ ॥
त्वां , य॒ज्ञेषु॑ , ऋ॒त्विजं॑ , अग्ने॑ , होता॑रं , ई॒ळ॒ते॒ । गो॒पाः , ऋ॒तस्य॑ , दी॒दि॒हि॒ , स्वे , दमे॑ ॥
स घा॒ यस्ते॒ ददा॑शति स॒मिधा॑ जा॒तवे॑दसे । सो अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ॥
सः , घ॒ , यः , ते॒ , ददा॑शति , सं॒ऽइधा॑ , जा॒तऽवे॑दसे । सः , अ॒ग्ने॒ , ध॒त्ते॒ , सु॒ऽवीर्यं॑ , सः , पु॒ष्य॒ति॒ ॥
स के॒तुर॑ध्व॒राणा॑म॒ग्निर्दे॒वेभि॒रा ग॑मत् । अं॒जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ॥
सः , के॒तुः , अ॒ध्व॒राणां॑ , अ॒ग्निः , दे॒वेभिः॑ , आ , ग॒म॒त् । अं॒जा॒नः , स॒प्त , होतृ॑ऽभिः , ह॒विष्म॑ते ॥
प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् । वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ॥
प्र , होत्रे॑ , पू॒र्व्यं , वचः॑ , अ॒ग्नये॑ , भ॒र॒त॒ , बृ॒हत् । वि॒पां , ज्योतीं॑षि , बिभ्र॑ते , न , वे॒धसे॑ ॥
अ॒ग्निं व॑र्धंतु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑ । म॒हे वाजा॑य॒ द्रवि॑णाय दर्श॒तः ॥
अ॒ग्निं , व॒र्धं॒तु॒ , नः॒ , गिरः॑ , यतः॑ , जाय॑ते , उ॒क्थ्यः॑ । म॒हे , वाजा॑य , द्रवि॑णाय , द॒र्श॒तः ॥
अग्ने॒ यजि॑ष्ठो अध्व॒रे दे॒वांदे॑वय॒ते य॑ज । होता॑ मं॒द्रो वि रा॑ज॒स्यति॒ स्रिधः॑ ॥
अग्ने॑ , यजि॑ष्ठः , अ॒ध्व॒रे , दे॒वान् , दे॒व॒ऽय॒ते , य॒ज॒ । होता॑ , मं॒द्रः , वि , रा॒ज॒सि॒ , अति॑ , स्रिधः॑ ॥
स नः॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्यं॑ । भवा॑ स्तो॒तृभ्यो॒ अंत॑मः स्व॒स्तये॑ ॥
सः , नः॒ , पा॒व॒क॒ , दी॒दि॒हि॒ , द्यु॒ऽमत् , अ॒स्मे इति॑ , सु॒ऽवीर्यं॑ । भव॑ , स्तो॒तृऽभ्यः॑ , अंत॑मः , स्व॒स्तये॑ ॥
तं त्वा॒ विप्रा॑ विप॒न्यवो॑ जागृ॒वांसः॒ समिं॑धते । ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृधं॑ ॥
तं , त्वा॒ , विप्राः॑ , वि॒प॒न्यवः॑ , जा॒गृ॒ऽवांसः॑ , सं , इं॒ध॒ते॒ । ह॒व्य॒ऽवाहं॑ , अम॑र्त्यं , स॒हः॒ऽवृधं॑ ॥
[११] अग्निर्होतेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री |
अ॒ग्निर्होता॑ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः । स वे॑द य॒ज्ञमा॑नु॒षक् ॥
अ॒ग्निः , होता॑ , पु॒रःऽहि॑तः , अ॒ध्व॒रस्य॑ , विऽच॑र्षणिः । सः , वे॒द॒ , य॒ज्ञं , आ॒नु॒षक् ॥
स ह॑व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः । अ॒ग्निर्धि॒या समृ॑ण्वति ॥
सः , ह॒व्य॒ऽवाट् , अम॑र्त्यः , उ॒शिक् , दू॒तः , चनः॑ऽहितः । अ॒ग्निः , धि॒या , सं , ऋ॒ण्व॒ति॒ ॥
अ॒ग्निर्धि॒या स चे॑तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः । अर्थं॒ ह्य॑स्य त॒रणि॑ ॥
अ॒ग्निः , धि॒या , सः , चे॒त॒ति॒ , के॒तुः , य॒ज्ञस्य॑ , पू॒र्व्यः । अर्थं॑ , हि , अ॒स्य॒ , त॒रणि॑ ॥
अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे॑दसं । वह्निं॑ दे॒वा अ॑कृण्वत ॥
अ॒ग्निं , सू॒नुं , सन॑ऽश्रुतं , सह॑सः , जा॒तऽवे॑दसं । वह्निं॑ , दे॒वाः , अ॒कृ॒ण्व॒त॒ ॥
अदा॑भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणां । तूर्णी॒ रथः॒ सदा॒ नवः॑ ॥
अदा॑भ्यः , पु॒रः॒ऽए॒ता , वि॒शां , अ॒ग्निः , मानु॑षीणां । तूर्णिः॑ , रथः॑ , सदा॑ , नवः॑ ॥
सा॒ह्वान्विश्वा॑ अभि॒युजः॒ क्रतु॑र्दे॒वाना॒ममृ॑क्तः । अ॒ग्निस्तु॒विश्र॑वस्तमः ॥
स॒ह्वान् , विश्वाः॑ , अ॒भि॒ऽयुजः॑ , क्रतुः॑ , दे॒वानां॑ , अमृ॑क्तः । अ॒ग्निः , तु॒विश्र॑वःऽतमः ॥
अ॒भि प्रयां॑सि॒ वाह॑सा दा॒श्वाँ अ॑श्नोति॒ मर्त्यः॑ । क्षयं॑ पाव॒कशो॑चिषः ॥
अ॒भि , प्रयां॑सि , वाह॑सा , दा॒श्वान् , अ॒श्नो॒ति॒ , मर्त्यः॑ । क्षयं॑ , पा॒व॒कऽशो॑चिषः ॥
परि॒ विश्वा॑नि॒ सुधि॑ता॒ग्नेर॑श्याम॒ मन्म॑भिः । विप्रा॑सो जा॒तवे॑दसः ॥
परि॑ , विश्वा॑नि , सुऽधि॑ता , अ॒ग्नेः , अ॒श्या॒म॒ , मन्म॑ऽभिः । विप्रा॑सः , जा॒तऽवे॑दसः ॥
अग्ने॒ विश्वा॑नि॒ वार्या॒ वाजे॑षु सनिषामहे । त्वे दे॒वास॒ एरि॑रे ॥
अग्ने॑ , विश्वा॑नि , वार्या॑ , वाजे॑षु , स॒नि॒षा॒म॒हे॒ । त्वे इति॑ , दे॒वासः॑ , आ , ई॒रि॒रे॒ ॥
[१२] इंद्राग्नीइतिनवर्चस्य सूक्तस्य गाथिनो विश्वामित्रइंद्राग्नीगायत्री |
इंद्रा॑ग्नी॒ आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यं । अ॒स्य पा॑तं धि॒येषि॒ता ॥
इंद्रा॑ग्नी॒ इति॑ , आ , ग॒तं॒ , सु॒तं , गीः॒ऽभिः , नभः॑ , वरे॑ण्यं । अ॒स्य , पा॒तं॒ , धि॒या , इ॒षि॒ता ॥
इंद्रा॑ग्नी जरि॒तुः सचा॑ य॒ज्ञो जि॑गाति॒ चेत॑नः । अ॒या पा॑तमि॒मं सु॒तं ॥
इंद्रा॑ग्नी॒ इति॑ , ज॒रि॒तुः , सचा॑ , य॒ज्ञः , जि॒गा॒ति॒ , चेत॑नः । अ॒या , पा॒तं॒ , इ॒मं , सु॒तं ॥
इंद्र॑म॒ग्निं क॑वि॒च्छदा॑ य॒ज्ञस्य॑ जू॒त्या वृ॑णे । ता सोम॑स्ये॒ह तृं॑पतां ॥
इंद्रं॑ , अ॒ग्निं , क॒वि॒ऽछदा॑ , य॒ज्ञस्य॑ , जू॒त्या , वृ॒णे॒ । ता , सोम॑स्य , इ॒ह , तृं॒प॒तां॒ ॥
तो॒शा वृ॑त्र॒हणा॑ हुवे स॒जित्वा॒नाप॑राजिता । इं॒द्रा॒ग्नी वा॑ज॒सात॑मा ॥
तो॒शा , वृ॒त्र॒ऽहना॑ , हु॒वे॒ , स॒ऽजित्वा॑ना , अप॑राऽजिता । इं॒द्रा॒ग्नी इति॑ , वा॒ज॒ऽसात॑मा ॥
प्र वा॑मर्चंत्यु॒क्थिनो॑ नीथा॒विदो॑ जरि॒तारः॑ । इंद्रा॑ग्नी॒ इष॒ आ वृ॑णे ॥
प्र , वां॒ , अ॒र्चं॒ति॒ , उ॒क्थिनः॑ , नी॒थ॒ऽविदः॑ , ज॒रि॒तारः॑ । इंद्रा॑ग्नी॒ इति॑ , इषः॑ , आ , वृ॒णे॒ ॥
इंद्रा॑ग्नी नव॒तिं पुरो॑ दा॒सप॑त्नीरधूनुतं । सा॒कमेके॑न॒ कर्म॑णा ॥
इंद्रा॑ग्नी॒ इति॑ , न॒व॒तिं , पुरः॑ , दा॒सऽप॑त्नीः , अ॒धू॒नु॒तं॒ । सा॒कं , एके॑न , कर्म॑णा ॥
इंद्रा॑ग्नी॒ अप॑स॒स्पर्युप॒ प्र यं॑ति धी॒तयः॑ । ऋ॒तस्य॑ प॒थ्या॒३॒॑ अनु॑ ॥
इंद्रा॑ग्नी॒ इति॑ , अप॑सः , परि॑ , उप॑ , प्र , यं॒ति॒ , धी॒तयः॑ । ऋ॒तस्य॑ , प॒थ्याः॑ , अनु॑ ॥
इंद्रा॑ग्नी तवि॒षाणि॑ वां स॒धस्था॑नि॒ प्रयां॑सि च । यु॒वोर॒प्तूर्यं॑ हि॒तं ॥
इंद्रा॑ग्नी॒ इति॑ , त॒वि॒षाणि॑ , वां॒ , स॒धऽस्था॑नि , प्रयां॑सि , च॒ । यु॒वोः , अ॒प्ऽतूर्यं॑ , हि॒तं ॥
इंद्रा॑ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः । तद्वां॑ चेति॒ प्र वी॒र्यं॑ ॥
इंद्रा॑ग्नी॒ इति॑ , रो॒च॒ना , दि॒वः , परि॑ , वाजे॑षु , भू॒ष॒थः॒ । तत् , वां॒ , चे॒ति॒ , प्र , वी॒र्यं॑ ॥
[१३] प्रवोदेवायेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निरनुष्टुप् |
प्र वो॑ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै । गम॑द्दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ॥
प्र , वः॒ , दे॒वाय॑ , अ॒ग्नये॑ , बर्हि॑ष्ठं , अ॒र्च॒ , अ॒स्मै॒ । गम॑त् , दे॒वेभिः॑ , आ , सः , नः॒ , यजि॑ष्ठः , ब॒र्हिः , आ , स॒द॒त् ॥
ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सचं॑त ऊ॒तयः॑ । ह॒विष्मं॑त॒स्तमी॑ळते॒ तं स॑नि॒ष्यंतोऽव॑से ॥
ऋ॒तऽवा॑ , यस्य॑ , रोद॑सी॒ इति॑ , दक्षं॑ , सचं॑ते , ऊ॒तयः॑ । ह॒विष्मं॑तः , तं , ई॒ळ॒ते॒ , तं , स॒नि॒ष्यंतः॑ , अव॑से ॥
स यं॒ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः । अ॒ग्निं तं वो॑ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घं ॥
सः , यं॒ता , विप्रः॑ , ए॒षां॒ , सः , य॒ज्ञानां॑ , अथ॑ , हि , सः । अ॒ग्निं , तं , वः॒ , दु॒व॒स्य॒त॒ , दाता॑ , यः , वनि॑ता , म॒घं ॥
स नः॒ शर्मा॑णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा । यतो॑ नः प्रु॒ष्णव॒द्वसु॑ दि॒वि क्षि॒तिभ्यो॑ अ॒प्स्वा ॥
सः , नः॒ , शर्मा॑णि , वी॒तये॑ , अ॒ग्निः , य॒च्छ॒तु॒ , शंऽत॑मा । यतः॑ , नः॒ , प्रु॒ष्णव॑त् , वसु॑ , दि॒वि , क्षि॒तिऽभ्यः॑ , अ॒प्ऽसु , आ ॥
दी॒दि॒वांस॒मपू॑र्व्यं॒ वस्वी॑भिरस्य धी॒तिभिः॑ । ऋक्वा॑णो अ॒ग्निमिं॑धते॒ होता॑रं वि॒श्पतिं॑ वि॒शां ॥
दी॒दि॒ऽवांसं॑ , अपू॑र्व्यं , वस्वी॑भिः , अ॒स्य॒ , धी॒तिऽभिः॑ । ऋक्वा॑णः , अ॒ग्निं , इं॒ध॒ते॒ , होता॑रं , वि॒श्पतिं॑ , वि॒शां ॥
उ॒त नो॒ ब्रह्म॑न्नविष उ॒क्थेषु॑ देव॒हूत॑मः । शं नः॑ शोचा म॒रुद्वृ॒धोऽग्ने॑ सहस्र॒सात॑मः ॥
उ॒त , नः॒ , ब्रह्म॑न् , अ॒वि॒षः॒ , उ॒क्थेषु॑ , दे॒व॒ऽहूत॑मः । शं , नः॒ , शो॒च॒ , म॒रुत्ऽवृ॑धः , अग्ने॑ , स॒ह॒स्र॒ऽसात॑मः ॥
नू नो॑ रास्व स॒हस्र॑वत्तो॒कव॑त्पुष्टि॒मद्वसु॑ । द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितं ॥
नु , नः॒ , रा॒स्व॒ , स॒हस्र॑ऽवत् , तो॒कऽव॑त् , पु॒ष्टि॒ऽमत् , वसु॑ । द्यु॒ऽमत् , अ॒ग्ने॒ , सु॒ऽवीर्यं॑ , वर्षि॑ष्ठं , अनु॑पऽक्षितं ॥
[१४] आहोतेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभोग्निस्त्रिष्टुप् |
आ होता॑ मं॒द्रो वि॒दथा॑न्यस्थात्स॒त्यो यज्वा॑ क॒वित॑मः॒ स वे॒धाः । वि॒द्युद्र॑थः॒ सह॑सस्पु॒त्रो अ॒ग्निः शो॒चिष्के॑शः पृथि॒व्यां पाजो॑ अश्रेत् ॥
आ , होता॑ , मं॒द्रः , व॒दथा॑नि , अ॒स्था॒त् , स॒त्यः , यज्वा॑ , क॒विऽत॑मः , सः , वे॒धाः । वि॒द्युत्ऽर॑थः , सह॑सः , पु॒त्रः , अ॒ग्निः , शो॒चिःऽके॑शः , पृ॒थि॒व्यां , पाजः॑ , अ॒श्रे॒त् ॥
अया॑मि ते॒ नम॑उक्तिं जुषस्व॒ ऋता॑व॒स्तुभ्यं॒ चेत॑ते सहस्वः । वि॒द्वाँ आ व॑क्षि वि॒दुषो॒ नि ष॑त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये॑ यजत्र ॥
अया॑मि , ते॒ , नमः॑ऽउक्तिं , जु॒ष॒स्व॒ , ऋत॑ऽवः , तुभ्यं॑ , चेत॑ते , स॒ह॒स्वः॒ । वि॒द्वान् , आ , व॒क्षि॒ , वि॒दुषः॑ , नि , स॒त्सि॒ , मध्ये॑ , आ , ब॒र्हिः , ऊ॒तये॑ , य॒ज॒त्र॒ ॥
द्रव॑तां त उ॒षसा॑ वा॒जयं॑ती॒ अग्ने॒ वात॑स्य प॒थ्या॑भि॒रच्छ॑ । यत्सी॑मं॒जंति॑ पू॒र्व्यं ह॒विर्भि॒रा वं॒धुरे॑व तस्थतुर्दुरो॒णे ॥
द्रव॑तां , ते॒ , उ॒षसा॑ , वा॒जयं॑ती॒ इति॑ , अग्ने॑ , वात॑स्य , प॒थ्या॑भिः , अच्छ॑ । यत् , सीं॒ , अं॒जंति॑ , पू॒र्व्यं , ह॒विःऽभिः॑ , आ , वं॒धुरा॑ऽइव , त॒स्थ॒तुः॒ , दु॒रो॒णे ॥
मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे॑ म॒रुतः॑ सु॒म्नम॑र्चन् । यच्छो॒चिषा॑ सहसस्पुत्र॒ तिष्ठा॑ अ॒भि क्षि॒तीः प्र॒थयं॒त्सूर्यो॒ नॄन् ॥
मि॒त्रः , च॒ , तुभ्यं॑ , वरु॑णः , स॒ह॒स्वः॒ , अग्ने॑ , विश्वे॑ , म॒रुतः॑ , सु॒म्नं , अ॒र्च॒न् । यत् , शो॒चिषा॑ , स॒ह॒सः॒ , पु॒त्र॒ , तिष्ठाः॑ , अ॒भि , क्षि॒तीः , प्र॒थय॑न् , सूर्यः॑ , नॄन् ॥
व॒यं ते॑ अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ । यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ अग्ने ॥
व॒यं , ते॒ , अ॒द्य , र॒रि॒म॒ , हि , कामं॑ , उ॒त्ता॒नऽह॑स्ताः , नम॑सा , उ॒प॒ऽसद्य॑ । यजि॑ष्ठेन , मन॑सा , य॒क्षि॒ , दे॒वान् , अस्रे॑धता , मन्म॑ना , विप्रः॑ , अ॒ग्ने॒ ॥
त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यंत्यू॒तयो॒ वि वाजाः॑ । त्वं दे॑हि सह॒स्रिणं॑ र॒यिं नो॑ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ॥
त्वत् , हि , पु॒त्र॒ , स॒ह॒सः॒ , वि , पू॒र्वीः , दे॒वस्य॑ , यंति॑ , ऊ॒तयः॑ , वि , वाजाः॑ । त्वं , दे॒हि॒ , स॒ह॒स्रिणं॑ , र॒यिं , नः॒ , अ॒द्रो॒घेण॑ , वच॑सा , स॒त्यं , अ॒ग्ने॒ ॥
तुभ्यं॑ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता॑सो अध्व॒रे अक॑र्म । त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने अमृत स्वदे॒ह ॥
तुभ्यं॑ , द॒क्ष॒ , क॒वि॒क्र॒तो॒ इति॑ कविऽक्रतो , यानि॑ , इ॒मा , देव॑ , मर्ता॑सः , अ॒ध्व॒रे , अक॑र्म । त्वं , विश्व॑स्य , सु॒ऽरथ॑स्य , बो॒धि॒ , सर्वं॑ , तत् , अ॒ग्ने॒ , अ॒मृ॒त॒ , स्व॒द॒ , इ॒ह ॥
[१५] विपाजसेतिसप्तर्चस्य सूक्तस्य कात्य उत्कीलोग्निस्त्रिष्टुप् |
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः । सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हं सु॒हव॑स्य॒ प्रणी॑तौ ॥
वि , पाज॑सा , पृ॒थुना॑ , शोशु॑चानः , बाध॑स्व , द्वि॒षः , र॒क्षसः॑ , अमी॑वाः । सु॒ऽशर्म॑णः , बृ॒ह॒तः , शर्म॑णि , स्यां॒ , अ॒ग्नेः , अ॒हं , सु॒ऽहव॑स्य , प्रऽनी॑तौ ॥
त्वं नो॑ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ॒ त्वं सूर॒ उदि॑ते बोधि गो॒पाः । जन्मे॑व॒ नित्यं॒ तन॑यं जुषस्व॒ स्तोमं॑ मे अग्ने त॒न्वा॑ सुजात ॥
त्वं , नः॒ , अ॒स्याः , उ॒षसः॑ , विऽउ॑ष्टौ , त्वं , सूरे॑ , उत्ऽइ॑ते , बो॒धि॒ , गो॒पाः । जन्म॑ऽइव , नित्यं॑ , तन॑यं , जु॒ष॒स्व॒ , स्तोमं॑ , मे॒ , अ॒ग्ने॒ , त॒न्वा॑ , सु॒ऽजा॒त॒ ॥
त्वं नृ॒चक्षा॑ वृष॒भानु॑ पू॒र्वीः कृ॒ष्णास्व॑ग्ने अरु॒षो वि भा॑हि । वसो॒ नेषि॑ च॒ पर्षि॒ चात्यंहः॑ कृ॒धी नो॑ रा॒य उ॒शिजो॑ यविष्ठ ॥
त्वं , नृ॒ऽचक्षाः॑ , वृ॒ष॒भ॒ , अनु॑ , पू॒र्वीः , कृ॒ष्णासु॑ , अ॒ग्ने॒ , अ॒रु॒षः , वि , भा॒हि॒ । वसो॒ इति॑ , नेषि॑ , च॒ , पर्षि॑ , च॒ , अति॑ , अंहः॑ , कृ॒धि , नः॒ , रा॒ये , उ॒शिजः॑ , य॒वि॒ष्ठ॒ ॥
अषा॑ळ्हो अग्ने वृष॒भो दि॑दीहि॒ पुरो॒ विश्वाः॒ सौभ॑गा संजिगी॒वान् । य॒ज्ञस्य॑ ने॒ता प्र॑थ॒मस्य॑ पा॒योर्जात॑वेदो बृह॒तः सु॑प्रणीते ॥
अषा॑ळ्हः , अ॒ग्ने॒ , वृ॒ष॒भः , दि॒दी॒हि॒ , पुरः॑ , विश्वाः॑ , सौभ॑गा , सं॒ऽजि॒गी॒वान् । य॒ज्ञस्य॑ , ने॒ता , प्र॒थ॒मस्य॑ , पा॒योः , जात॑ऽवेदः , बृ॒ह॒तः , सु॒ऽप्र॒नी॒ते॒ ॥
अच्छि॑द्रा॒ शर्म॑ जरितः पु॒रूणि॑ दे॒वाँ अच्छा॒ दीद्या॑नः सुमे॒धाः । रथो॒ न सस्नि॑र॒भि व॑क्षि॒ वाज॒मग्ने॒ त्वं रोद॑सी नः सु॒मेके॑ ॥
अच्छि॑द्रा , शर्म॑ , ज॒रि॒त॒रिति॑ , पु॒रूणि॑ , दे॒वान् , अच्छ॑ , दीद्या॑नः , सु॒ऽमे॒धाः । रथः॑ , न , सस्निः॑ , अ॒भि , व॒क्षि॒ , वाजं॑ , अग्ने॑ , त्वं , रोद॑सी॒ इति॑ , नः॒ , सु॒मेके॒ इति॑ सु॒ऽमेके॑ ॥
प्र पी॑पय वृषभ॒ जिन्व॒ वाजा॒नग्ने॒ त्वं रोद॑सी नः सु॒दोघे॑ । दे॒वेभि॑र्देव सु॒रुचा॑ रुचा॒नो मा नो॒ मर्त॑स्य दुर्म॒तिः परि॑ ष्ठात् ॥
प्र , पी॒प॒य॒ , वृ॒ष॒भ॒ , जिन्व॑ , वाजा॑न् , अग्ने॑ , त्वं , रोद॑सी॒ इति॑ , नः॒ , सु॒दोघे॒ इति॑ सु॒ऽदोघे॑ । दे॒वेभिः॑ , दे॒व॒ , सु॒ऽरुचा॑ , रु॒चा॒नः , मा , नः॒ , मर्त॑स्य , दुः॒ऽम॒तिः , परि॑ , स्था॒त् ॥
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
इळां॑ , अ॒ग्ने॒ , पु॒रु॒ऽदंसं॑ , स॒निं , गोः , श॒श्व॒त्ऽत॒मं , हव॑मानाय , सा॒ध॒ । स्यात् , नः॒ , सू॒नुः , तन॑यः , वि॒जाऽवा॑ , अग्ने॑ , सा , ते॒ , सु॒ऽम॒तिः , भू॒तु॒ , अ॒स्मे इति॑ ॥
[१६] अयमग्निरितिषडृचस्य सूक्तस्य कात्य उत्कीलोग्निः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः
अ॒यम॒ग्निः सु॒वीर्य॒स्येशे॑ म॒हः सौभ॑गस्य । रा॒य ई॑शे स्वप॒त्यस्य॒ गोम॑त॒ ईशे॑ वृत्र॒हथा॑नां ॥
अ॒यं , अ॒ग्निः , सु॒ऽवीर्य॑स्य , ईशे॑ , म॒हः , सौभ॑गस्य । रा॒यः , ई॒शे॒ , सु॒ऽअ॒प॒त्यस्य॑ , गोऽम॑तः , ईशे॑ , वृ॒त्र॒ऽहथा॑नां ॥
इ॒मं न॑रो मरुतः सश्चता॒ वृधं॒ यस्मि॒न्रायः॒ शेवृ॑धासः । अ॒भि ये संति॒ पृत॑नासु दू॒ढ्यो॑ वि॒श्वाहा॒ शत्रु॑माद॒भुः ॥
इ॒मं , न॒रः॒ , म॒रु॒तः॒ , स॒श्च॒त॒ , वृधं॑ , यस्मि॑न् , रायः॑ , शेऽवृ॑धासः । अ॒भि , ये , संति॑ , पृत॑नासु , दुः॒ऽध्यः॑ , वि॒श्वाहा॑ , शत्रुं॑ , आ॒ऽद॒भुः ॥
स त्वं नो॑ रा॒यः शि॑शीहि॒ मीढ्वो॑ अग्ने सु॒वीर्य॑स्य । तुवि॑द्युम्न॒ वर्षि॑ष्ठस्य प्र॒जाव॑तोऽनमी॒वस्य॑ शु॒ष्मिणः॑ ॥
सः , त्वं , नः॒ , रा॒यः , शि॒शी॒हि॒ , मीढ्वः॑ , अ॒ग्ने॒ , सु॒ऽवीर्य॑स्य । तुवि॑ऽद्युम्न , वर्षि॑ष्ठस्य , प्र॒जाऽव॑तः , अ॒न॒मी॒वस्य॑ , शु॒ष्मिणः॑ ॥
चक्रि॒र्यो विश्वा॒ भुव॑ना॒भि सा॑स॒हिश्चक्रि॑र्दे॒वेष्वा दुवः॑ । आ दे॒वेषु॒ यत॑त॒ आ सु॒वीर्य॒ आ शंस॑ उ॒त नृ॒णां ॥
चक्रिः॑ , यः , विश्वा॑ , भुव॑ना , अ॒भि , स॒स॒हिः , चक्रिः॑ , दे॒वेषु॑ , आ , दुवः॑ । आ , दे॒वेषु॑ , यत॑ते , आ , सु॒ऽवीर्ये॑ , आ , शंसे॑ , उ॒त , नृ॒णां ॥
मा नो॑ अ॒ग्नेऽम॑तये॒ मावीर॑तायै रीरधः । मागोता॑यै सहसस्पुत्र॒ मा नि॒देऽप॒ द्वेषां॒स्या कृ॑धि ॥
मा , नः॒ , अ॒ग्ने॒ , अम॑तये , मा , अ॒वीर॑तायै , री॒र॒धः॒ । मा , अ॒गोता॑यै , स॒ह॒सः॒ , पु॒त्र॒ , मा , नि॒दे , अप॑ , द्वेषां॑सि , आ , कृ॒धि॒ ॥
श॒ग्धि वाज॑स्य सुभग प्र॒जाव॒तोऽग्ने॑ बृह॒तो अ॑ध्व॒रे । सं रा॒या भूय॑सा सृज मयो॒भुना॒ तुवि॑द्युम्न॒ यश॑स्वता ॥
श॒ग्धि , वाज॑स्य , सु॒ऽभ॒ग॒ , प्र॒जाऽव॑तः , अग्ने॑ , बृ॒ह॒तः , अ॒ध्व॒रे । सं , रा॒या , भूय॑सा , सृ॒ज॒ , म॒यः॒ऽभुना॑ , तुवि॑ऽद्युम्न , यश॑स्वता ॥
[१७] समिध्यमानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |
स॒मि॒ध्यमा॑नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः । शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः सु॑य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् ॥
सं॒ऽइ॒ध्यमा॑नः , प्र॒थ॒मा , अनु॑ , धर्म॑ , सं , अ॒क्तुऽभिः॑ , अ॒ज्य॒ते॒ , वि॒श्वऽवा॑रः । शो॒चिःऽके॑शः , घृ॒तऽनि॑र्निक् , पा॒व॒कः , सु॒ऽय॒ज्ञः , अ॒ग्निः , य॒जथा॑य , दे॒वान् ॥
यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् । ए॒वानेन॑ ह॒विषा॑ यक्षि दे॒वान्म॑नु॒ष्वद्य॒ज्ञं प्र ति॑रे॒मम॒द्य ॥
यथा॑ , अय॑जः , हो॒त्रं , अ॒ग्ने॒ , पृ॒थि॒व्याः , यथा॑ , दि॒वः , जा॒त॒ऽवे॒दः॒ , चि॒कि॒त्वान् । ए॒व , अ॒नेन॑ , ह॒विषा॑ , य॒क्षि॒ , दे॒वान् , म॒नु॒ष्वत् , य॒ज्ञं , प्र , ति॒र॒ , इ॒मं , अ॒द्य ॥
त्रीण्यायूं॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने । ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथा॑ भव॒ यज॑मानाय॒ शं योः ॥
त्रीणि॑ , आयूं॑षि , तव॑ , जा॒त॒ऽवे॒दः॒ , ति॒स्रः , आ॒ऽजानीः॑ , उ॒षसः॑ , ते॒ , अ॒ग्ने॒ । ताभिः॑ , दे॒वानां॑ , अवः॑ , य॒क्षि॒ , वि॒द्वान् , अथ॑ , भ॒व॒ , यज॑मानाय , शं , योः ॥
अ॒ग्निं सु॑दी॒तिं सु॒दृशं॑ गृ॒णंतो॑ नम॒स्याम॒स्त्वेड्यं॑ जातवेदः । त्वां दू॒तम॑र॒तिं ह॑व्य॒वाहं॑ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभिं॑ ॥
अ॒ग्निं , सु॒ऽदी॒तिं , सु॒ऽदृशं॑ , गृ॒णंतः॑ , न॒म॒स्यामः॑ , त्वा॒ , ईड्यं॑ , जा॒त॒ऽवे॒दः॒ । त्वां , दू॒तं , अ॒र॒तिं , ह॒व्य॒ऽवाहं॑ , दे॒वाः , अ॒कृ॒ण्व॒न् , अ॒मृत॑स्य , नाभिं॑ ॥
यस्त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑यांद्वि॒ता च॒ सत्ता॑ स्व॒धया॑ च शं॒भुः । तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वोऽथा॑ नो धा अध्व॒रं दे॒ववी॑तौ ॥
यः , त्वत् , होता॑ , पूर्वः॑ , अ॒ग्ने॒ , यजी॑यान् , द्वि॒ता , च॒ , सत्ता॑ , स्व॒धया॑ , च॒ , शं॒ऽभुः । तस्य॑ , अनु॑ , धर्म॑ , प्र , य॒ज॒ , चि॒कि॒त्वः॒ , अथ॑ , नः॒ , धाः॒ , अ॒ध्व॒रं , दे॒वऽवी॑तौ ॥
[१८] भवानइतिपंचर्चस्य सूक्तस्य वैश्वामित्रः कतोग्निस्त्रिष्टुप् |
भवा॑ नो अग्ने सु॒मना॒ उपे॑तौ॒ सखे॑व॒ सख्ये॑ पि॒तरे॑व सा॒धुः । पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना॑नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा॑तीः ॥
भव॑ , नः॒ , अ॒ग्ने॒ , सु॒ऽमनाः॑ , उप॑ऽइतौ , सखा॑ऽइव , सख्ये॑ , पि॒तरा॑ऽइव , सा॒धुः । पु॒रु॒ऽद्रुहः॑ , हि , क्षि॒तयः॑ , जना॑नां , प्रति॑ , प्र॒ती॒चीः , द॒ह॒ता॒त् , अरा॑तीः ॥
तपो॒ ष्व॑ग्ने॒ अंत॑राँ अ॒मित्रां॒तपा॒ शंस॒मर॑रुषः॒ पर॑स्य । तपो॑ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते॑ तिष्ठंताम॒जरा॑ अ॒यासः॑ ॥
तपो॒ इति॑ , सु , अ॒ग्ने॒ , अंत॑रान् , अ॒मित्रा॑न् , तप॑ , शंसं॑ , अर॑रुषः , पर॑स्य । तपो॒ इति॑ , व॒सो॒ इति॑ , चि॒कि॒ता॒नः , अ॒चित्ता॑न् , वि , ते॒ , ति॒ष्ठं॒तां॒ , अ॒जराः॑ , अ॒यासः॑ ॥
इ॒ध्मेना॑ग्न इ॒च्छमा॑नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य । याव॒दीशे॒ ब्रह्म॑णा॒ वंद॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीं ॥
इ॒ध्मेन॑ , अ॒ग्ने॒ , इ॒च्छमा॑नः , घृ॒तेन॑ , जु॒होमि॑ , ह॒व्यं , तर॑से , बला॑य । याव॑त् , ईशे॑ , ब्रह्म॑णा , वंद॑मानः , इ॒मां , धियं॑ , श॒त॒ऽसेया॑य , दे॒वीं ॥
उच्छो॒चिषा॑ सहसस्पुत्र स्तु॒तो बृ॒हद्वयः॑ शशमा॒नेषु॑ धेहि । रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म॑र्मृ॒ज्मा ते॑ त॒न्वं१॒॑ भूरि॒ कृत्वः॑ ॥
उत् , शो॒चिषा॑ , स॒ह॒सः॒ , पु॒त्र॒ , स्तु॒तः , बृ॒हत् , वयः॑ , श॒श॒मा॒नेषु॑ , धे॒हि॒ । रे॒वत् , अ॒ग्ने॒ , वि॒श्वामि॑त्रेषु , शं , योः , म॒र्मृ॒ज्म , ते॒ , त॒न्वं॑ , भूरि॑ , कृत्वः॑ ॥
कृ॒धि रत्नं॑ सुसनित॒र्धना॑नां॒ स घेद॑ग्ने भवसि॒ यत्समि॑द्धः । स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत्सृ॒प्रा क॒रस्ना॑ दधिषे॒ वपूं॑षि ॥
कृ॒धि , रत्नं॑ , सु॒ऽस॒नि॒तः॒ , धना॑नां , सः , घ॒ , इत् , अ॒ग्ने॒ , भ॒व॒सि॒ , यत् , संऽइ॑द्धः । स्तो॒तुः , दु॒रो॒णे , सु॒ऽभग॑स्य , रे॒वत् , सृ॒प्रा , क॒रस्ना॑ , द॒धि॒षे॒ , वपूं॑षि ॥
[१९] अग्निंहोतारमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निस्त्रिष्टुप् |
अ॒ग्निं होता॑रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं॑ क॒विं वि॑श्व॒विद॒ममू॑रं । स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑यान्रा॒ये वाजा॑य वनते म॒घानि॑ ॥
अ॒ग्निं , होता॑रं , प्र , वृ॒णे॒ , मि॒येधे॑ , गृत्सं॑ , क॒विं , वि॒श्व॒ऽविदं॑ , अमू॑रं । सः , नः॒ , य॒क्ष॒त् , दे॒वऽता॑ता , यजी॑यान् , रा॒ये , वाजा॑य , व॒न॒ते॒ , म॒घानि॑ ॥
प्र ते॑ अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा॑ सुद्यु॒म्नां रा॒तिनीं॑ घृ॒ताचीं॑ । प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ॥
प्र , ते॒ , अ॒ग्ने॒ , ह॒विष्म॑तीं , इ॒य॒र्मि॒ , अच्छ॑ , सु॒ऽद्यु॒म्नां , रा॒तिनीं॑ , घृ॒ताचीं॑ । प्र॒ऽद॒क्षि॒णित् , दे॒वऽता॑तिं , उ॒रा॒णः , सं , रा॒तिऽभिः॑ , वसु॑ऽभिः , य॒ज्ञं , अ॒श्रे॒त् ॥
स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः । अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ॥
सः , तेजी॑यसा , मन॑सा , त्वाऽऊ॑तः , उ॒त , शि॒क्ष॒ , सु॒ऽअ॒प॒त्यस्य॑ , शि॒क्षोः । अग्ने॑ , रा॒यः , नृऽत॑मस्य , प्रऽभू॑तौ , भू॒याम॑ , ते॒ , सु॒ऽस्तु॒तयः॑ , च॒ , वस्वः॑ ॥
भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॒काग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः । स आ व॑ह दे॒वता॑तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि ॥
भूरी॑णि , हि , त्वे इति॑ , द॒धि॒रे , अनी॑का , अग्ने॑ , दे॒वस्य॑ , यज्य॑वः , जना॑सः । सः , आ , व॒ह॒ , दे॒वऽता॑तिं , य॒वि॒ष्ठ॒ , शर्धः॑ , यत् , अ॒द्य , दि॒व्यं , यजा॑सि ॥
यत्त्वा॒ होता॑रम॒नज॑न्मि॒येधे॑ निषा॒दयं॑तो य॒जथा॑य दे॒वाः । स त्वं नो॑ अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां॑सि धेहि नस्त॒नूषु॑ ॥
यत् , त्वा॒ , होता॑रं , अ॒नज॑न् , मि॒येधे॑ , नि॒ऽसा॒दयं॑तः , य॒जथा॑य , दे॒वाः । सः , त्वं , नः॒ , अ॒ग्ने॒ , अ॒वि॒ता , इ॒ह , बो॒धि॒ , अधि॑ , श्रवां॑सि , धे॒हि॒ , नः॒ , त॒नूषु॑ ॥
[२०] अग्निमुषसमिति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यांत्ययोर्विश्वेदेवास्त्रिष्टुप् |
अ॒ग्निमु॒षस॑म॒श्विना॑ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः । सु॒ज्योति॑षो नः शृण्वंतु दे॒वाः स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः ॥
अ॒ग्निं , उ॒षसं॑ , अ॒श्विना॑ , द॒धि॒ऽक्रां , विऽउ॑ष्टिषु , ह॒व॒ते॒ , वह्निः॑ , उ॒क्थैः । सु॒ऽज्योति॑षः , नः॒ , शृ॒ण्वं॒तु॒ , दे॒वाः , स॒ऽजोष॑सः , अ॒ध्व॒रं , वा॒व॒शा॒नाः ॥
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः । ति॒स्र उ॑ ते त॒न्वो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन् ॥
अग्ने॑ , त्री , ते॒ , वाजि॑ना , त्री , स॒धऽस्था॑ , ति॒स्रः , ते॒ , जि॒ह्वाः , ऋ॒त॒ऽजा॒त॒ , पू॒र्वीः । ति॒स्रः , ऊँ॒ इति॑ , ते॒ , त॒न्वः॑ , दे॒वऽवा॑ताः , ताभिः॑ , नः॒ , पा॒हि॒ , गिरः॑ , अप्र॑ऽयुच्छन् ॥
अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ नाम॑ । याश्च॑ मा॒या मा॒यिनां॑ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबंधो ॥
अग्ने॑ , भूरी॑णि , तव॑ , जा॒त॒ऽवे॒दः॒ , देव॑ , स्व॒धा॒ऽवः॒ , अ॒मृत॑स्य , नाम॑ । याः , च॒ , मा॒याः , मा॒यिनां॑ , वि॒श्वं॒ऽइ॒न्व॒ , त्वे इति॑ , पू॒र्वीः , सं॒ऽद॒धुः , पृ॒ष्ट॒बं॒धो॒ इति॑ पृष्टऽबंधो ॥
अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा॑ । स वृ॑त्र॒हा स॒नयो॑ वि॒श्ववे॑दाः॒ पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णंतं॑ ॥
अ॒ग्निः , ने॒ता , भगः॑ऽइव , क्षि॒ती॒नां , दैवी॑नां , दे॒वः , ऋ॒तु॒ऽपाः , ऋ॒तऽवा॑ । सः , वृ॒त्र॒ऽहा , स॒नयः॑ , वि॒श्वऽवे॑दाः , पर्ष॑त् , विश्वा॑ , अति॑ , दुः॒ऽइ॒ता , गृ॒णंतं॑ ॥
द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीं बृह॒स्पतिं॑ सवि॒तारं॑ च दे॒वं । अ॒श्विना॑ मि॒त्रावरु॑णा॒ भगं॑ च॒ वसू॑न्रु॒द्राँ आ॑दि॒त्याँ इ॒ह हु॑वे ॥
द॒धि॒ऽक्रां , अ॒ग्निं , उ॒षसं॑ , च॒ , दे॒वीं , बृह॒स्पतिं॑ , स॒वि॒तारं॑ , च॒ , दे॒वं । अ॒श्विना॑ , मि॒त्रावरु॑णा , भगं॑ , च॒ , वसू॑न् , रु॒द्रान् , आ॒दि॒त्यान् , इ॒ह , हु॒वे॒ ॥
[२१] इमंनइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निः आद्यात्रिष्टुप् द्वितीयातृतीयेनुष्टुभौ चतुर्थीविराड्रूपांत्यासतोबृहती |
इ॒मं नो॑ य॒ज्ञम॒मृते॑षु धेही॒मा ह॒व्या जा॑तवेदो जुषस्व । स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॒ होतः॒ प्राशा॑न प्रथ॒मो नि॒षद्य॑ ॥
इ॒मं , नः॒ , य॒ज्ञं , अ॒मृते॑षु , धे॒हि॒ , ई॒मा , ह॒व्या , जा॒त॒ऽवे॒दः॒ , जु॒ष॒स्व॒ । स्तो॒कानां॑ , अ॒ग्ने॒ , मेद॑सः , घृ॒तस्य॑ , होत॒रिति॑ , प्र , अ॒शा॒न॒ , प्र॒थ॒मः , नि॒ऽसद्य॑ ॥
घृ॒तवं॑तः पावक ते स्तो॒काः श्चो॑तंति॒ मेद॑सः । स्वध॑र्मंदे॒ववी॑तये॒ श्रेष्ठं॑ नो धेहि॒ वार्यं॑ ॥
घृ॒तऽवं॑तः , पा॒व॒क॒ , ते॒ , स्तो॒काः , श्चो॒तं॒ति॒ , मेद॑सः । स्वऽध॑र्मन् , दे॒वऽवी॑तये , श्रेष्ठं॑ , नः॒ , धे॒हि॒ , वार्यं॑ ॥
तुभ्यं॑ स्तो॒का घृ॑त॒श्चुतोऽग्ने॒ विप्रा॑य संत्य । ऋषिः॒ श्रेष्ठः॒ समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व ॥
तुभ्यं॑ , स्तो॒काः , घृ॒त॒ऽश्चुतः॑ , अग्ने॑ , विप्रा॑य , सं॒त्य॒ । ऋषिः॑ , श्रेष्ठः॑ , सं , इ॒ध्य॒से॒ , य॒ज्ञस्य॑ , प्र॒ऽअ॒वि॒ता , भ॒व॒ ॥
तुभ्यं॑ श्चोतंत्यध्रिगो शचीवः स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ । क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा॑ ह॒व्या जु॑षस्व मेधिर ॥
तुभ्यं॑ , श्चो॒तं॒ति॒ , अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो , श॒ची॒ऽवः॒ , स्तो॒कासः॑ , अ॒ग्ने॒ , मेद॑सः , घृ॒तस्य॑ । क॒वि॒ऽश॒स्तः , बृ॒ह॒ता , भा॒नुना॑ , आ , अ॒गाः॒ , ह॒व्या , जु॒ष॒स्व॒ , मे॒धि॒र॒ ॥
ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते॑ व॒यं द॑दामहे । श्चोतं॑ति ते वसो स्तो॒का अधि॑ त्व॒चि प्रति॒ तांदे॑व॒शो वि॑हि ॥
ओजि॑ष्ठं , ते॒ , म॒ध्य॒तः , मेदः॑ , उत्ऽभृ॑तं , प्र , ते॒ , व॒यं , द॒दा॒म॒हे॒ । श्चोतं॑ति , ते॒ , व॒सो॒ इति॑ , स्तो॒काः , अधि॑ , त्व॒चि , प्रति॑ , तान् , दे॒व॒ऽशः , वि॒हि॒ ॥
[२२] अयंसइति पंचर्चस्य सूक्तस्य कौशिकोगाथ्यग्निरूपांत्यायाः पुरीष्याग्नयस्त्रिष्टुप् चतुर्थ्यनुष्टुप् |
अ॒यं सो अ॒ग्निर्यस्मिं॒त्सोम॒मिंद्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः । स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वांत्संत्स्तू॑यसे जातवेदः ॥
अ॒यं , सः , अ॒ग्निः , यस्मि॑न् , सोमं॑ , इंद्रः॑ , सु॒तं , द॒धे , ज॒ठरे॑ , वा॒व॒शा॒नः । स॒ह॒स्रिणं॑ , वाजं॑ , अत्यं॑ , न , सप्तिं॑ , स॒स॒ऽवान् , सन् , स्तू॒य॒से॒ , जा॒त॒ऽवे॒दः॒ ॥
अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र । येनां॒तरि॑क्षमु॒र्वा॑त॒तंथ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ ॥
अग्ने॑ , यत् , ते॒ , दि॒वि , वर्चः॑ , पृ॒थि॒व्यां , यत् , ओष॑धीषु , अ॒प्ऽसु , आ , य॒ज॒त्र॒ । येन॑ , अं॒तरि॑क्षं , उ॒रु , आ॒ऽत॒तंथ॑ , त्वे॒षः , सः , भा॒नुः , अ॒र्ण॒वः , नृ॒ऽचक्षाः॑ ॥
अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ ऊ॑चिषे॒ धिष्ण्या॒ ये । या रो॑च॒ने प॒रस्ता॒त्सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठं॑त॒ आपः॑ ॥
अग्ने॑ , दि॒वः , अर्णं॑ , अच्छ॑ , जि॒गा॒सि॒ , अच्छ॑ , दे॒वान् , ऊ॒चि॒षे॒ , धिष्ण्याः॑ , ये । याः , रो॒च॒ने , प॒रस्ता॑त् , सूर्य॑स्य , याः , च॒ , अ॒वस्ता॑त् , उ॒प॒ऽतिष्ठं॑ते , आपः॑ ॥
पु॒री॒ष्या॑सो अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः । जु॒षंतां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वा इषो॑ म॒हीः ॥
पु॒री॒ष्या॑सः , अ॒ग्नयः॑ , प्र॒व॒णेभिः॑ , स॒ऽजोष॑सः । जु॒षंतां॑ , य॒ज्ञं , अ॒द्रुहः॑ , अ॒न॒मी॒वाः , इषः॑ , म॒हीः ॥
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
इळां॑ , अ॒ग्ने॒ , पु॒रु॒ऽदंसं॑ , स॒निं , गोः , श॒श्व॒त्ऽत॒मं , हव॑मानाय , सा॒ध॒ । स्यात् , नः॒ , सू॒नुः , तन॑यः , वि॒जाऽवा॑ , अ॒ग्ने॒ , सा , ते॒ , सु॒ऽम॒तिः , भू॒तु॒ , अ॒स्मे इति॑ ॥
[२३] निर्मथितइति पंचर्चस्य सूक्तस्य भारतौदेवश्रवोदेववातावग्निस्त्रिष्टुप् तृतीयासतोबृहती |
निर्म॑थितः॒ सुधि॑त॒ आ स॒धस्थे॒ युवा॑ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता । जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा॑ दधे अ॒मृतं॑ जा॒तवे॑दाः ॥
निःऽम॑थितः , सुऽधि॑तः , आ , स॒धऽस्थे॑ , युवा॑ , क॒विः , अ॒ध्व॒रस्य॑ , प्र॒ऽने॒ता । जूर्य॑त्ऽसु , अ॒ग्निः , अ॒जरः॑ , वने॑षु , अत्र॑ , द॒धे॒ , अ॒मृतं॑ , जा॒तऽवे॑दाः ॥
अमं॑थिष्टां॒ भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा॑तः सु॒दक्षं॑ । अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो॑ ने॒ता भ॑वता॒दनु॒ द्यून् ॥
अमं॑थिष्टां , भार॑ता , रे॒वत् , अ॒ग्निं , दे॒वऽश्र॑वाः , दे॒वऽवा॑तः , सु॒ऽदक्षं॑ । अग्ने॑ , वि , प॒श्य॒ , बृ॒ह॒ता , अ॒भि , रा॒या , इ॒षां , नः॒ , ने॒ता , भ॒व॒ता॒त् , अनु॑ , द्यून् ॥
दश॒ क्षिपः॑ पू॒र्व्यं सी॑मजीजनं॒त्सुजा॑तं मा॒तृषु॑ प्रि॒यं । अ॒ग्निं स्तु॑हि दैववा॒तं दे॑वश्रवो॒ यो जना॑ना॒मस॑द्व॒शी ॥
दश॑ , क्षिपः॑ , पू॒र्व्यं , सीं॒ , अ॒जी॒ज॒न॒न् , सुऽजा॑तं , मा॒तृषु॑ , प्रि॒यं । अ॒ग्निं , स्तु॒हि॒ , दै॒व॒ऽवा॒तं , दे॒व॒ऽश्र॒वः॒ , यः , जना॑नां , अस॑त् , व॒शी ॥
नि त्वा॑ दधे॒ वर॒ आ पृ॑थि॒व्या इळा॑यास्प॒दे सु॑दिन॒त्वे अह्नां॑ । दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ॥
नि , त्वा॒ , द॒धे॒ , वरे॑ , आ , पृ॒थि॒व्याः , इळा॑याः , प॒दे , सु॒दि॒न॒ऽत्वे , अह्नां॑ । दृ॒षत्ऽव॑त्यां , मानु॑षे , आ॒प॒यायां॑ , सर॑स्वत्यां , रे॒वत् , अ॒ग्ने॒ , दि॒दी॒हि॒ ॥
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
इळां॑ , अ॒ग्ने॒ , पु॒रु॒ऽदंसं॑ , स॒निं , गोः , श॒श्व॒त्ऽत॒मं , हव॑मानाय , सा॒ध॒ । स्यात् , नः॒ , सू॒नुः , तन॑यः , वि॒जाऽवा॑ , अग्ने॑ , सा , ते॒ , सु॒ऽम॒तिः , भू॒तु॒ , अ॒स्मे इति॑ ॥
[२४] अग्नेसहस्वेति पंचर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निर्गायत्री आद्यानुष्टुप् |
अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑ती॒रपा॑स्य । दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसे ॥
अग्ने॑ , सह॑स्व , पृत॑नाः , अ॒भिऽमा॑तीः , अप॑ , अ॒स्य॒ । दु॒स्तरः॑ , तर॑न् , अरा॑तीः , वर्चः॑ , धाः॒ , य॒ज्ञऽवा॑हसे ॥
अग्न॑ इ॒ळा समि॑ध्यसे वी॒तिहो॑त्रो॒ अम॑र्त्यः । जु॒षस्व॒ सू नो॑ अध्व॒रं ॥
अग्ने॑ , इ॒ळा , सं , इ॒ध्य॒से॒ , वी॒तिऽहो॑त्रः , अम॑र्त्यः । जु॒षस्व॑ , सु , नः॒ , अ॒ध्व॒रं ॥
अग्ने॑ द्यु॒म्नेन॑ जागृवे॒ सह॑सः सूनवाहुत । एदं ब॒र्हिः स॑दो॒ मम॑ ॥
अग्ने॑ , द्यु॒म्नेन॑ , जा॒गृ॒वे॒ , सह॑सः , सू॒नो॒ इति॑ , आ॒ऽहु॒त॒ । आ , इ॒दं , ब॒र्हिः , स॒दः॒ , मम॑ ॥
अग्ने॒ विश्वे॑भिर॒ग्निभि॑र्दे॒वेभि॑र्महया॒ गिरः॑ । य॒ज्ञेषु॒ य उ॑ चा॒यवः॑ ॥
अग्ने॑ , विश्वे॑भिः , अ॒ग्निऽभिः॑ , दे॒वेभिः॑ , म॒ह॒य॒ , गिरः॑ । य॒ज्ञेषु॑ , ये , ऊँ॒ इति॑ , चा॒यवः॑ ॥
अग्ने॒ दा दा॒शुषे॑ र॒यिं वी॒रवं॑तं॒ परी॑णसं । शि॒शी॒हि नः॑ सूनु॒मतः॑ ॥
अग्ने॑ , दाः , दा॒शुषे॑ , र॒यिं , वी॒रऽवं॑तं , परी॑णसं । शि॒शी॒हि , नः॒ , सू॒नु॒ऽमतः॑ ॥
[२५] अग्नेदिवइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निश्चतुर्थ्या इंद्राग्नीविराट् |
अग्ने॑ दि॒वः सू॒नुर॑सि॒ प्रचे॑ता॒स्तना॑ पृथि॒व्या उ॒त वि॒श्ववे॑दाः । ऋध॑ग्दे॒वाँ इ॒ह य॑जा चिकित्वः ॥
अग्ने॑ , दि॒वः , सू॒नुः , अ॒सि॒ , प्रऽचे॑ताः , तना॑ , पृ॒थि॒व्याः , उ॒त , वि॒श्वऽवे॑दाः । ऋध॑क् , दे॒वान् , इ॒ह , य॒ज॒ , चि॒कि॒त्वः॒ ॥
अ॒ग्निः स॑नोति वी॒र्या॑णि वि॒द्वांत्स॒नोति॒ वाज॑म॒मृता॑य॒ भूष॑न् । स नो॑ दे॒वाँ एह व॑हा पुरुक्षो ॥
अ॒ग्निः , स॒नो॒ति॒ , वी॒र्या॑णि , वि॒द्वान् , स॒नोति॑ , वाजं॑ , अ॒मृता॑य , भूष॑न् । सः , नः॒ , दे॒वान् , आ , इ॒ह , व॒ह॒ , पु॒रु॒क्षो॒ इति॑ पुरुऽक्षो ॥
अ॒ग्निर्द्यावा॑पृथि॒वी वि॒श्वज॑न्ये॒ आ भा॑ति दे॒वी अ॒मृते॒ अमू॑रः । क्षय॒न्वाजैः॑ पुरुश्चं॒द्रो नमो॑भिः ॥
अ॒ग्निः , द्यावा॑पृथि॒वी इति॑ , वि॒श्वज॑न्ये॒ इति॑ वि॒श्वऽज॑न्ये , आ , भा॒ति॒ , दे॒वी इति॑ , अ॒मृते॒ इति॑ , अमू॑रः । क्षय॑न् , वाजैः॑ , पु॒रु॒ऽचं॒द्रः , नमः॑ऽभिः ॥
अग्न॒ इंद्र॑श्च दा॒शुषो॑ दुरो॒णे सु॒ताव॑तो य॒ज्ञमि॒होप॑ यातं । अम॑र्धंता सोम॒पेया॑य देवा ॥
अग्ने॑ , इंद्रः॑ , च॒ , दा॒शुषः॑ , दु॒रो॒णे , सु॒तऽव॑तः , य॒ज्ञं , इ॒ह , उप॑ , या॒तं॒ । अम॑र्धंता , सो॒म॒ऽपेया॑य , दे॒वा॒ ॥
अग्ने॑ अ॒पां समि॑ध्यसे दुरो॒णे नित्यः॑ सूनो सहसो जातवेदः । स॒धस्था॑नि म॒हय॑मान ऊ॒ती ॥
अग्ने॑ , अ॒पां , सं , इ॒ध्य॒से॒ , दु॒रो॒णे , नित्यः॑ , सू॒नो॒ इति॑ , स॒ह॒सः॒ , जा॒त॒ऽवे॒दः॒ । स॒धऽस्था॑नि , म॒हय॑मानः , ऊ॒ती ॥
[२६] वैश्वानरमिति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्रः आद्यानांतिसृणां वैश्वानरोग्निश्चतुर्थ्यादितिसृणांमरुतः सप्तम्यष्टम्योरात्मा अंत्याया उपाध्यायः आध्याःषट्जगत्योंत्यास्तिस्रस्त्रिष्टुभः |
वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या॑ ह॒विष्मं॑तो अनुष॒त्यं स्व॒र्विदं॑ । सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ॥
वै॒श्वा॒न॒रं , मन॑सा , अ॒ग्निं , नि॒ऽचाय्य॑ , ह॒विष्मं॑तः , अ॒नु॒ऽस॒त्यं , स्वः॒ऽविदं॑ । सु॒ऽदानुं॑ , दे॒वं , र॒थि॒रं , व॒सु॒ऽयवः॑ , गीः॒ऽभिः , र॒ण्वं , कु॒शि॒कासः॑ , ह॒वा॒म॒हे॒ ॥
तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा॑त॒रिश्वा॑नमु॒क्थ्यं॑ । बृह॒स्पतिं॒ मनु॑षो दे॒वता॑तये॒ विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यदं॑ ॥
तं , शु॒भ्रं , अ॒ग्निं , अव॑से , ह॒वा॒म॒हे॒ , वै॒श्वा॒न॒रं , मा॒त॒रिश्वा॑नं , उ॒क्थ्यं॑ । बृह॒स्पतिं॑ , मनु॑षः , दे॒वऽता॑तये , विप्रं॑ , श्रोता॑रं , अति॑थिं , र॒घु॒ऽस्यदं॑ ॥
अश्वो॒ न क्रंदं॒जनि॑भिः॒ समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे । स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः ॥
अश्वः॑ , न , क्रंद॑न् , जनि॑ऽभिः , सं , इ॒ध्य॒ते॒ , वै॒श्वा॒न॒रः , कु॒शि॒केभिः॑ , यु॒गेऽयु॑गे । सः , नः॒ , अ॒ग्निः , सु॒ऽवीर्यं॑ , सु॒ऽअश्व्यं॑ , दधा॑तु , रत्नं॑ , अ॒मृते॑षु , जागृ॑विः ॥
प्र यं॑तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः॑ शु॒भे संमि॑श्लाः॒ पृष॑तीरयुक्षत । बृ॒ह॒दुक्षो॑ म॒रुतो॑ वि॒श्ववे॑दसः॒ प्र वे॑पयंति॒ पर्व॑ताँ॒ अदा॑भ्याः ॥
प्र , यं॒तु॒ , वाजाः॑ , तवि॑षीभिः , अ॒ग्नयः॑ , शु॒भे , संऽमि॑श्लाः , पृष॑तीः , अ॒यु॒क्ष॒त॒ । बृ॒ह॒त्ऽउक्षः॑ , म॒रुतः॑ , वि॒श्वऽवे॑दसः , प्र , वे॒प॒यं॒ति॒ , पर्व॑तान् , अदा॑भ्याः ॥
अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यं । ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ॥
अ॒ग्नि॒ऽश्रियः॑ , म॒रुतः॑ , वि॒श्वऽकृ॑ष्टयः , आ , त्वे॒षं , उ॒ग्रं , अवः॑ , ई॒म॒हे॒ , व॒यं । ते , स्वा॒निनः॑ , रु॒द्रियाः॑ , व॒र्षऽनि॑र्निजः , सिं॒हाः , न , हे॒षऽक्र॑तवः , सु॒ऽदान॑वः ॥
व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं॑ म॒रुता॒मोज॑ ईमहे । पृष॑दश्वासो अनव॒भ्ररा॑धसो॒ गंता॑रो य॒ज्ञं वि॒दथे॑षु॒ धीराः॑ ॥
व्रातं॑ऽव्रातं , ग॒णंऽग॑णं , सु॒श॒स्तिऽभिः॑ , अ॒ग्नेः , भामं॑ , म॒रुतां॑ , ओजः॑ , ई॒म॒हे॒ । पृष॑त्ऽअश्वासः , अ॒न॒व॒भ्रऽरा॑धसः , गंता॑रः , य॒ज्ञं , वि॒दथे॑षु , धीराः॑ ॥
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ म आ॒सन् । अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ॥
अ॒ग्निः , अ॒स्मि॒ , जन्म॑ना , जा॒तऽवे॑दाः , घृ॒तं , मे॒ , चक्षुः॑ , अ॒मृतं॑ , मे॒ , आ॒सन् । अ॒र्कः , त्रि॒ऽधातुः॑ , रज॑सः , वि॒ऽमानः॑ , अज॑स्रः , घ॒र्मः , ह॒विः , अ॒स्मि॒ , नाम॑ ॥
त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॒॑र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् । वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा॑पृथि॒वी पर्य॑पश्यत् ॥
त्रि॒ऽभिः , प॒वित्रैः॑ , अपु॑पोत् , हि , अ॒र्कं , हृ॒दा , म॒तिं , ज्योतिः॑ , अनु॑ , प्र॒ऽजा॒नन् । वर्षि॑ष्ठं , रत्नं॑ , अ॒कृ॒त॒ , स्व॒धाभिः॑ , आत् , इत् , द्यावा॑पृथि॒वी इति॑ , परि॑ , अ॒प॒श्य॒त् ॥
श॒तधा॑र॒मुत्स॒मक्षी॑यमाणं विप॒श्चितं॑ पि॒तरं॒ वक्त्वा॑नां । मे॒ळिं मदं॑तं पि॒त्रोरु॒पस्थे॒ तं रो॑दसी पिपृतं सत्य॒वाचं॑ ॥
श॒तऽधा॑रं , उत्सं॑ , अक्षी॑यमाणं , वि॒पः॒ऽचितं॑ , पि॒तरं॑ , वक्त्वा॑नां । मे॒ळिं , मदं॑तं , पि॒त्रोः , उ॒पऽस्थे॑ , तं , रो॒द॒सी॒ इति॑ , पि॒पृ॒तं॒ , स॒त्य॒ऽवाचं॑ ॥
[२७] प्रवोवाजाइति पंचदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रोग्निः आद्यायाऋतवोवागायत्री |
प्र वो॒ वाजा॑ अ॒भिद्य॑वो ह॒विष्मं॑तो घृ॒ताच्या॑ । दे॒वांजि॑गाति सुम्न॒युः ॥
प्र , वः॒ , वाजाः॑ , अ॒भिऽद्य॑वः , ह॒विष्मं॑तः , घृ॒ताच्या॑ । दे॒वान् , जि॒गा॒ति॒ , सु॒म्न॒युः ॥
ईळे॑ अ॒ग्निं वि॑प॒श्चितं॑ गि॒रा य॒ज्ञस्य॒ साध॑नं । श्रु॒ष्टी॒वानं॑ धि॒तावा॑नं ॥
ईळे॑ , अ॒ग्निं , वि॒पः॒ऽचितं॑ , गि॒रा , य॒ज्ञस्य॑ , साध॑नं । श्रु॒ष्टी॒ऽवानं॑ , धि॒तऽवा॑नं ॥
अग्ने॑ श॒केम॑ ते व॒यं यमं॑ दे॒वस्य॑ वा॒जिनः॑ । अति॒ द्वेषां॑सि तरेम ॥
अग्ने॑ , श॒केम॑ , ते॒ , व॒यं , यमं॑ , दे॒वस्य॑ , वा॒जिनः॑ । अति॑ , द्वेषां॑सि , त॒रे॒म॒ ॥
स॒मि॒ध्यमा॑नो अध्व॒रे॒३॒॑ऽग्निः पा॑व॒क ईड्यः॑ । शो॒चिष्के॑श॒स्तमी॑महे ॥
सं॒ऽइ॒ध्यमा॑नः , अ॒ध्व॒रे , अ॒ग्निः , पा॒व॒कः , ईड्यः॑ । शो॒चिःऽके॑शः , तं , ई॒म॒हे॒ ॥
पृ॒थु॒पाजा॒ अम॑र्त्यो घृ॒तनि॑र्णि॒क्स्वा॑हुतः । अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ॥
पृ॒थु॒ऽपाजाः॑ , अम॑र्त्यः , घृ॒तऽनि॑र्निक् , सुऽआ॑हुतः । अ॒ग्निः , य॒ज्ञस्य॑ , ह॒व्य॒ऽवाट् ॥
तं स॒बाधो॑ य॒तस्रु॑च इ॒त्था धि॒या य॒ज्ञवं॑तः । आ च॑क्रुर॒ग्निमू॒तये॑ ॥
तं , स॒ऽबाधः॑ , य॒तऽस्रु॑चः , इ॒त्था , धि॒या , य॒ज्ञऽवं॑तः । आ , च॒क्रुः॒ , अ॒ग्निं , ऊ॒तये॑ ॥
होता॑ दे॒वो अम॑र्त्यः पु॒रस्ता॑देति मा॒यया॑ । वि॒दथा॑नि प्रचो॒दय॑न् ॥
होता॑ , दे॒वः , अम॑र्त्यः , पु॒रस्ता॑त् , ए॒ति॒ , मा॒यया॑ । वि॒दथा॑नि , प्र॒ऽचो॒दय॑न् ॥
वा॒जी वाजे॑षु धीयतेऽध्व॒रेषु॒ प्र णी॑यते । विप्रो॑ य॒ज्ञस्य॒ साध॑नः ॥
वा॒जी , वाजे॑षु , धी॒य॒ते॒ , अ॒ध्व॒रेषु॑ , प्र , नी॒य॒ते॒ । विप्रः॑ , य॒ज्ञस्य॑ , साध॑नः ॥
धि॒या च॑क्रे॒ वरे॑ण्यो भू॒तानां॒ गर्भ॒मा द॑धे । दक्ष॑स्य पि॒तरं॒ तना॑ ॥
धि॒या , च॒क्रे॒ , वरे॑ण्यः , भू॒तानां॑ , गर्भं॑ , आ , द॒धे॒ । दक्ष॑स्य , पि॒तरं॑ , तना॑ ॥
नि त्वा॑ दधे॒ वरे॑ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत । अग्ने॑ सुदी॒तिमु॒शिजं॑ ॥
नि , त्वा॒ , द॒धे॒ , वरे॑ण्यं , दक्ष॑स्य , इ॒ळा , स॒हः॒ऽकृ॒त॒ । अग्ने॑ , सु॒ऽदी॒तिं , उ॒शिजं॑ ॥
अ॒ग्निं यं॒तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे॑ व॒नुषः॑ । विप्रा॒ वाजैः॒ समिं॑धते ॥
अ॒ग्निं , यं॒तुरं॑ , अ॒प्ऽतुरं॑ , ऋ॒तस्य॑ , योगे॑ , व॒नुषः॑ । विप्राः॑ , वाजैः॑ , सं , इं॒ध॒ते॒ ॥
ऊ॒र्जो नपा॑तमध्व॒रे दी॑दि॒वांस॒मुप॒ द्यवि॑ । अ॒ग्निमी॑ळे क॒विक्र॑तुं ॥
ऊ॒र्जः , नपा॑तं , अ॒ध्व॒रे , दी॒दि॒ऽवांसं॑ , उप॑ , द्यवि॑ । अ॒ग्निं , ई॒ळे॒ , क॒विऽक्र॑तुं ॥
ई॒ळेन्यो॑ नम॒स्य॑स्ति॒रस्तमां॑सि दर्श॒तः । सम॒ग्निरि॑ध्यते॒ वृषा॑ ॥
ई॒ळेन्यः॑ , न॒म॒स्यः॑ , ति॒रः , तमां॑सि , द॒र्श॒तः । सं , अ॒ग्निः , इ॒ध्य॒ते॒ , वृषा॑ ॥
वृषो॑ अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे॑व॒वाह॑नः । तं ह॒विष्मं॑त ईळते ॥
वृषो॒ इति॑ , अ॒ग्निः , सं , इ॒ध्य॒ते॒ , अश्वः॑ , न , दे॒व॒ऽवाह॑नः । तं , ह॒विष्मं॑तः , ई॒ळ॒ते॒ ॥
वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि । अग्ने॒ दीद्य॑तं बृ॒हत् ॥
वृष॑णं , त्वा॒ , व॒यं , वृ॒ष॒न् , वृष॑णः , सं , इ॒धी॒म॒हि॒ । अग्ने॑ , दीद्य॑तं , बृ॒हत् ॥
[२८] अग्नेजुषस्वेति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोग्निर्गायत्री तृतीयोष्णिक् चतुर्थीत्रिष्टुप् पंचमीजगती |
अग्ने॑ जु॒षस्व॑ नो ह॒विः पु॑रो॒ळाशं॑ जातवेदः । प्रा॒तः॒सा॒वे धि॑यावसो ॥
अग्ने॑ , जु॒षस्व॑ , नः॒ , ह॒विः , पु॒रो॒ळाशं॑ , जा॒त॒ऽवे॒दः॒ । प्रा॒तः॒ऽसा॒वे , धि॒या॒व॒सो॒ इति॑ धियाऽवसो ॥
पु॒रो॒ळा अ॑ग्ने पच॒तस्तुभ्यं॑ वा घा॒ परि॑ष्कृतः । तं जु॑षस्व यविष्ठ्य ॥
पु॒रो॒ळाः , अ॒ग्ने॒ , प॒च॒तः , तुभ्यं॑ , वा॒ , घ॒ , परि॑ऽकृतः । तं , जु॒ष॒स्व॒ , य॒वि॒ष्ठ्य॒ ॥
अग्ने॑ वी॒हि पु॑रो॒ळाश॒माहु॑तं ति॒रोअ॑ह्न्यं । सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः ॥
अग्ने॑ , वी॒हि , पु॒रो॒ळाशं॑ , आऽहु॑तं , ति॒रःऽअ॑ह्न्यं । सह॑सः , सू॒नुः , अ॒सि॒ , अ॒ध्व॒रे , हि॒तः ॥
माध्यं॑दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒ह क॑वे जुषस्व । अग्ने॑ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नंति वि॒दथे॑षु॒ धीराः॑ ॥
माध्यं॑दिने , सव॑ने , जा॒त॒ऽवे॒दः॒ , पु॒रो॒ळाशं॑ , इ॒ह , क॒वे॒ , जु॒ष॒स्व॒ । अग्ने॑ , य॒ह्वस्य॑ , तव॑ , भा॒ग॒ऽधेयं॑ , न , प्र , मि॒नं॒ति॒ , वि॒दथे॑षु , धीराः॑ ॥
अग्ने॑ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं॑ सहसः सून॒वाहु॑तं । अथा॑ दे॒वेष्व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वंतम॒मृते॑षु॒ जागृ॑विं ॥
अग्ने॑ , तृ॒तीये॑ , सव॑ने , हि , कानि॑षः , पु॒रो॒ळाशं॑ , स॒ह॒सः॒ , सू॒नो॒ इति॑ , आऽहु॑तं । अथ॑ , दे॒वेषु॑ , अ॒ध्व॒रं , वि॒प॒न्यया॑ , धाः , रत्न॑ऽवंतं , अ॒मृते॑षु , जागृ॑विं ॥
अग्ने॑ वृधा॒न आहु॑तिं पुरो॒ळाशं॑ जातवेदः । जु॒षस्व॑ ति॒रोअ॑ह्न्यं ॥
अग्ने॑ , वृ॒धा॒नः , आऽहु॑तिं , पु॒रो॒ळाशं॑ , जा॒त॒ऽवे॒दः॒ । जु॒षस्व॑ , ति॒रःऽअ॑ह्न्यं ॥
[२९] अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निस्त्रिष्टुप् ( पंचम्याऋत्विजोवा) आद्य चतुर्थीदशमीद्वादश्योनुष्टुभः षष्ठ्येकादशी पंचदश्योजगत्यः |
अस्ती॒दम॑धि॒मंथ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तं । ए॒तां वि॒श्पत्नी॒मा भ॑रा॒ग्निं मं॑थाम पू॒र्वथा॑ ॥
अस्ति॑ , इ॒दं , अ॒धि॒ऽमंथ॑नं , अस्ति॑ , प्र॒ऽजन॑नं , कृ॒तं । ए॒तां , वि॒श्पत्नीं॑ , आ , भ॒र॒ , अ॒ग्निं , मं॒था॒म॒ , पू॒र्वऽथा॑ ॥
अ॒रण्यो॒र्निहि॑तो जा॒तवे॑दा॒ गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी॑षु । दि॒वेदि॑व॒ ईड्यो॑ जागृ॒वद्भि॑र्ह॒विष्म॑द्भिर्मनु॒ष्ये॑भिर॒ग्निः ॥
अ॒रण्योः॑ , निऽहि॑तः , जा॒तऽवे॑दाः , गर्भः॑ऽइव , सुऽधि॑तः , ग॒र्भिणी॑षु । दि॒वेऽदि॑वे , ईड्यः॑ , जा॒गृ॒वत्ऽभिः॑ , ह॒विष्म॑त्ऽभिः , म॒नु॒ष्ये॑भिः , अ॒ग्निः ॥
उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वांत्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान । अ॒रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ इळा॑यास्पु॒त्रो व॒युने॑ऽजनिष्ट ॥
उ॒त्ता॒नायां॑ , अव॑ , भ॒र॒ , चि॒कि॒त्वान् , स॒द्यः , प्रऽवी॑ता , वृष॑णं , ज॒जा॒न॒ । अ॒रु॒षऽस्तू॑पः , रुश॑त् , अ॒स्य॒ , पाजः॑ , इळा॑याः , पु॒त्रः , व॒युने॑ , अ॒ज॒नि॒ष्ट॒ ॥
इळा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ । जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥
इळा॑याः , त्वा॒ , प॒दे , व॒यं , नाभा॑ , पृ॒थि॒व्याः , अधि॑ । जात॑ऽवेदः , नि , धी॒म॒हि॒ , अग्ने॑ , ह॒व्याय॑ , वोळ्ह॑वे ॥
मंथ॑ता नरः क॒विमद्व॑यंतं॒ प्रचे॑तसम॒मृतं॑ सु॒प्रती॑कं । य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रस्ता॑द॒ग्निं न॑रो जनयता सु॒शेवं॑ ॥
मंथ॑त , न॒रः॒ , क॒विं , अद्व॑यंतं , प्रऽचे॑तसं , अ॒मृतं॑ , सु॒ऽप्रती॑कं । य॒ज्ञस्य॑ , के॒तुं , प्र॒थ॒मं , पु॒रस्ता॑त् , अ॒ग्निं , न॒रः॒ , ज॒न॒य॒त॒ , सु॒ऽशेवं॑ ॥
यदी॒ मंथं॑ति बा॒हुभि॒र्वि रो॑च॒तेऽश्वो॒ न वा॒ज्य॑रु॒षो वने॒ष्वा । चि॒त्रो न याम॑न्न॒श्विनो॒रनि॑वृतः॒ परि॑ वृण॒क्त्यश्म॑न॒स्तृणा॒ दह॑न् ॥
यदि॑ , मंथं॑ति , बा॒हुऽभिः॑ , वि , रो॒च॒ते॒ , अश्वः॑ , न , वा॒जी , अ॒रु॒षः , वने॑षु , आ । चि॒त्रः , न , याम॑न् , अ॒श्विनोः॑ , अनि॑ऽवृतः , परि॑ , वृ॒ण॒क्ति॒ , अश्म॑नः , तृणा॑ , दह॑न् ॥
जा॒तो अ॒ग्नी रो॑चते॒ चेकि॑तानो वा॒जी विप्रः॑ कविश॒स्तः सु॒दानुः॑ । यं दे॒वास॒ ईड्यं॑ विश्व॒विदं॑ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ ॥
जा॒तः , अ॒ग्निः , रो॒च॒ते॒ , चेकि॑तानः , वा॒जी , विप्रः॑ , क॒वि॒ऽश॒स्तः , सु॒ऽदानुः॑ । यं , दे॒वासः॑ , ईड्यं॑ , वि॒श्व॒ऽविदं॑ , ह॒व्य॒ऽवाहं॑ , अद॑धुः , अ॒ध्व॒रेषु॑ ॥
सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वांत्सा॒दया॑ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ॑ । दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥
सीद॑ , हो॒त॒रिति॑ , स्वे , ऊँ॒ इति॑ , लो॒के , चि॒कि॒त्वान् , सा॒दय॑ , य॒ज्ञं , सु॒ऽकृ॒तस्य॑ , योनौ॑ । दे॒व॒ऽअ॒वीः , दे॒वान् , ह॒विषा॑ , य॒जा॒सि॒ , अग्ने॑ , बृ॒हत् , यज॑माने , वयः॑ , धाः॒ ॥
कृ॒णोत॑ धू॒मं वृष॑णं सखा॒योऽस्रे॑धंत इतन॒ वाज॒मच्छ॑ । अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ येन॑ दे॒वासो॒ अस॑हंत॒ दस्यू॑न् ॥
कृ॒णोत॑ , धू॒मं , वृष॑णं , स॒खा॒यः॒ , अस्रे॑धंतः , इ॒त॒न॒ , वाजं॑ , अच्छ॑ । अ॒यं , अ॒ग्निः , पृ॒त॒ना॒षाट् , सु॒ऽवीरः॑ , येन॑ , दे॒वासः॑ , अस॑हंत , दस्यू॑न् ॥
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ सी॒दाथा॑ नो वर्धया॒ गिरः॑ ॥
अ॒यं , ते॒ , योनिः॑ , ऋ॒त्वियः॑ , यतः॑ , जा॒तः , अरो॑चथाः । तं , जा॒नन् , अ॒ग्ने॒ , आ , सी॒द॒ , अथ॑ , नः॒ , व॒र्ध॒य॒ , गिरः॑ ॥
तनू॒नपा॑दुच्यते॒ गर्भ॑ आसु॒रो नरा॒शंसो॑ भवति॒ यद्वि॒जाय॑ते । मा॒त॒रिश्वा॒ यदमि॑मीत मा॒तरि॒ वात॑स्य॒ सर्गो॑ अभव॒त्सरी॑मणि ॥
तनू॒३॒॑ऽनपा॑त् , उ॒च्य॒ते॒ , गर्भः॑ , आ॒सु॒रः , नरा॒शंसः॑ , भ॒व॒ति॒ , यत् , वि॒ऽजाय॑ते । मा॒त॒रिश्वा॑ , यत् , अमि॑मीत , मा॒तरि॑ , वात॑स्य , सर्गः॑ , अ॒भ॒व॒त् , सरी॑मणि ॥
सु॒नि॒र्मथा॒ निर्म॑थितः सुनि॒धा निहि॑तः क॒विः । अग्ने॑ स्वध्व॒रा कृ॑णु दे॒वांदे॑वय॒ते य॑ज ॥
सु॒निः॒ऽमथा॑ , निःऽम॑थितः , सु॒ऽनि॒धा , निऽहि॑तः , क॒विः । अग्ने॑ , सु॒ऽअ॒ध्व॒रा , कृ॒णु॒ , दे॒वान् , दे॒व॒ऽय॒ते , य॒ज॒ ॥
अजी॑जनन्न॒मृतं॒ मर्त्या॑सोऽस्रे॒माणं॑ त॒रणिं॑ वी॒ळुजं॑भं । दश॒ स्वसा॑रो अ॒ग्रुवः॑ समी॒चीः पुमां॑सं जा॒तम॒भि सं र॑भंते ॥
अजी॑जनन् , अ॒मृतं॑ , मर्त्या॑सः , अ॒स्रे॒माणं॑ , त॒रणिं॑ , वी॒ळुऽजं॑भं । दश॑ , स्वसा॑रः , अ॒ग्रुवः॑ , सं॒ऽई॒चीः , पुमां॑सं , जा॒तं , अ॒भि , सं , र॒भं॒ते॒ ॥
प्र स॒प्तहो॑ता सन॒काद॑रोचत मा॒तुरु॒पस्थे॒ यदशो॑च॒दूध॑नि । न नि मि॑षति सु॒रणो॑ दि॒वेदि॑वे॒ यदसु॑रस्य ज॒ठरा॒दजा॑यत ॥
प्र , स॒प्तऽहो॑ता , स॒न॒कात् , अ॒रो॒च॒त॒ , मा॒तुः , उ॒पऽस्थे॑ , यत् , अशो॑चत् , ऊध॑नि । न , नि , मि॒ष॒ति॒ , सु॒ऽरणः॑ , दि॒वेऽदि॑वे , यत् , असु॑रस्य , ज॒ठरा॑त् , अजा॑यत ॥
अ॒मि॒त्रा॒युधो॑ म॒रुता॑मिव प्र॒याः प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः । द्यु॒म्नव॒द्ब्रह्म॑ कुशि॒कास॒ एरि॑र॒ एक॑एको॒ दमे॑ अ॒ग्निं समी॑धिरे ॥
अ॒मि॒त्र॒ऽयुधः॑ , म॒रुतां॑ऽइव , प्र॒ऽयाः , प्र॒थ॒म॒ऽजाः , ब्रह्म॑णः , विश्वं॑ , इत् , वि॒दुः॒ । द्यु॒म्नऽव॑त् , ब्रह्म॑ , कु॒शि॒कासः॑ , आ , ई॒रि॒रे॒ , एकः॑ऽएकः , दमे॑ , अ॒ग्निं , सं , ई॒धि॒रे॒ ॥
यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह । ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोमं॑ ॥
यत् , अ॒द्य , त्वा॒ , प्र॒ऽय॒ति , य॒ज्ञे , अ॒स्मिन् , होत॒रिति॑ , चि॒कि॒त्वः॒ , अवृ॑णीमहि , इ॒ह । ध्रु॒वं , अ॒याः॒ , ध्रु॒वं , उ॒त , अ॒श॒मि॒ष्ठाः॒ , प्र॒ऽजा॒नन् , वि॒द्वान् , उप॑ , या॒हि॒ , सोमं॑ ॥
[३०] इच्छंतित्वेति द्वाविंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इ॒च्छंति॑ त्वा सो॒म्यासः॒ सखा॑यः सु॒न्वंति॒ सोमं॒ दध॑ति॒ प्रयां॑सि । तिति॑क्षंते अ॒भिश॑स्तिं॒ जना॑ना॒मिंद्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ॥
इ॒च्छंति॑ , त्वा॒ , सो॒म्यासः॑ , सखा॑यः , सु॒न्वंति॑ , सोमं॑ , दध॑ति , प्रयां॑सि । तति॑क्षंते , अ॒भिऽश॑स्तिं , जना॑नां , इंद्र॑ , त्वत् , आ , कः , च॒न , हि , प्र॒ऽके॒तः ॥
न ते॑ दू॒रे प॑र॒मा चि॒द्रजां॒स्या तु प्र या॑हि हरिवो॒ हरि॑भ्यां । स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अ॒ग्नौ ॥
न , ते॒ , दू॒रे , प॒र॒मा , चि॒त् , रजां॑सि , आ , तु , प्र , या॒हि॒ , ह॒रि॒ऽवः॒ , हरि॑ऽभ्यां । स्थि॒राय॑ , वृष्णे॑ , सव॑ना , कृ॒ता , इ॒मा , यु॒क्ताः , ग्रावा॑णः , सं॒ऽइ॒धा॒ने , अ॒ग्नौ ॥
इंद्रः॑ सु॒शिप्रो॑ म॒घवा॒ तरु॑त्रो म॒हाव्रा॑तस्तुविकू॒र्मिर्ऋघा॑वान् । यदु॒ग्रो धा बा॑धि॒तो मर्त्ये॑षु॒ क्व१॒॑ त्या ते॑ वृषभ वी॒र्या॑णि ॥
इंद्रः॑ , सु॒ऽशिप्रः॑ , म॒घऽवा॑ , तरु॑त्रः , म॒हाऽव्रा॑तः , तु॒वि॒ऽकू॒र्मिः , ऋघा॑वान् । यत् , उ॒ग्रः , धाः , बा॒धि॒तः , मर्त्ये॑षु , क्व॑ , त्या , ते॒ , वृ॒ष॒भ॒ , वी॒र्या॑णि ॥
त्वं हि ष्मा॑ च्या॒वय॒न्नच्यु॑ता॒न्येको॑ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः । तव॒ द्यावा॑पृथि॒वी पर्व॑ता॒सोऽनु॑ व्र॒ताय॒ निमि॑तेव तस्थुः ॥
त्वं , हि , स्म॒ , च्य॒वय॑न् , अच्यु॑तानि , एकः॑ , वृ॒त्रा , चर॑सि , जिघ्न॑मानः । तव॑ , द्यावा॑पृथि॒वी इति॑ , पर्व॑तासः , अनु॑ , व्र॒ताय॑ , निमि॑ताऽइव , त॒स्थुः॒ ॥
उ॒ताभ॑ये पुरुहूत॒ श्रवो॑भि॒रेको॑ दृ॒ळ्हम॑वदो वृत्र॒हा सन् । इ॒मे चि॑दिंद्र॒ रोद॑सी अपा॒रे यत्सं॑गृ॒भ्णा म॑घवन्का॒शिरित्ते॑ ॥
उ॒त , अभ॑ये , पु॒रु॒ऽहू॒त॒ , श्रवः॑ऽभिः , एकः॑ , दृ॒ळ्हं , अ॒व॒दः॒ , वृ॒त्र॒ऽहा , सन् । इ॒मे इति॑ , चि॒त् , इं॒द्र॒ , रोद॑सी॒ इति॑ , अ॒पा॒रे इति॑ , यत् , सं॒ऽगृ॒भ्णाः , म॒घ॒ऽव॒न् , का॒शिः , इत् , ते॒ ॥
प्र सू त॑ इंद्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न् । ज॒हि प्र॑ती॒चो अ॑नू॒चः परा॑चो॒ विश्वं॑ स॒त्यं कृ॑णुहि वि॒ष्टम॑स्तु ॥
प्र , सु , ते॒ , इं॒द्र॒ , प्र॒ऽवता॑ , हरि॑ऽभ्यां , प्र , ते॒ , वज्रः॑ , प्र॒ऽमृ॒णन् , ए॒तु॒ , शत्रू॑न् । ज॒हि , प्र॒ती॒चः , अ॒नू॒चः , परा॑चः , विश्वं॑ , स॒त्यं , कृ॒णु॒हि॒ , वि॒ष्टं , अ॒स्तु॒ ॥
यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद्भजते गे॒ह्यं१॒॑ सः । भ॒द्रा त॑ इंद्र सुम॒तिर्घृ॒ताची॑ स॒हस्र॑दाना पुरुहूत रा॒तिः ॥
यस्मै॑ , धायुः॑ , अद॑धाः , मर्त्या॑य , अभ॑क्तं , चि॒त् , भ॒ज॒ते॒ , गे॒ह्यं॑ , सः । भ॒द्रा , ते॒ , इं॒द्र॒ , सु॒ऽम॒तिः , घृ॒ताची॑ , स॒हस्र॑ऽदाना , पु॒रु॒ऽहू॒त॒ , रा॒तिः ॥
स॒हदा॑नुं पुरुहूत क्षि॒यंत॑मह॒स्तमिं॑द्र॒ सं पि॑ण॒क्कुणा॑रुं । अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया॑रुम॒पाद॑मिंद्र त॒वसा॑ जघंथ ॥
स॒हऽदा॑नुं , पु॒रु॒ऽहू॒त॒ , क्षि॒यंतं॑ , अ॒ह॒स्तं , इं॒द्र॒ , सं , पि॒ण॒क् , कुणा॑रुं । अ॒भि , वृ॒त्रं , वर्ध॑मानं , पिया॑रुं , अ॒पादं॑ , इं॒द्र॒ , त॒वसा॑ , ज॒घं॒थ॒ ॥
नि सा॑म॒नामि॑षि॒रामिं॑द्र॒ भूमिं॑ म॒हीम॑पा॒रां सद॑ने ससत्थ । अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अं॒तरि॑क्ष॒मर्षं॒त्वाप॒स्त्वये॒ह प्रसू॑ताः ॥
नि , सा॒म॒नां , इ॒षि॒रां , इं॒द्र॒ , भूमिं॑ , म॒हीं , अ॒पा॒रां , सद॑ने , स॒स॒त्थ॒ । अस्त॑भ्नात् , द्यां , वृ॒ष॒भः , अं॒तरि॑क्षं , अर्षं॑तु , आपः॑ , त्वया॑ , इ॒ह , प्रऽसू॑ताः ॥
अ॒ला॒तृ॒णो व॒ल इं॑द्र व्र॒जो गोः पु॒रा हंतो॒र्भय॑मानो॒ व्या॑र । सु॒गान्प॒थो अ॑कृणोन्नि॒रजे॒ गाः प्राव॒न्वाणीः॑ पुरुहू॒तं धमं॑तीः ॥
अ॒ला॒तृ॒णः , व॒लः , इं॒द्र॒ , व्र॒जः , गोः , पु॒रा , हंतोः॑ , भय॑मानः , वि , आ॒र॒ । सु॒ऽगान् , प॒थः , अ॒कृ॒णो॒त् , निः॒ऽअजे॑ , गाः , प्र , आ॒व॒न् , वाणीः॑ , पु॒रु॒ऽहू॒तं , धमं॑तीः ॥
एको॒ द्वे वसु॑मती समी॒ची इंद्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्यां । उ॒तांतरि॑क्षाद॒भि नः॑ समी॒क इ॒षो र॒थीः स॒युजः॑ शूर॒ वाजा॑न् ॥
एकः॑ , द्वे इति॑ , वसु॑मती॒ इति॒ वसु॑ऽमती , स॒मी॒ची इति॑ सं॒ऽई॒ची , इंद्रः॑ , आ , प॒प्रौ॒ , पृ॒थि॒वीं , उ॒त , द्यां । उ॒त , अं॒तरि॑क्षात् , अ॒भि , नः॒ , सं॒ऽई॒के , इ॒षः , र॒थीः , स॒ऽयुजः॑ , शू॒र॒ , वाजा॑न् ॥
दिशः॒ सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः । सं यदान॒ळध्व॑न॒ आदिदश्वै॑र्वि॒मोच॑नं कृणुते॒ तत्त्व॑स्य ॥
दिशः॑ , सूर्यः॑ , न , मि॒ना॒ति॒ , प्रऽदि॑ष्टाः , दि॒वेऽदि॑वे , हर्य॑श्वऽप्रसूताः । सं , यत् , आन॑ट् , अध्व॑नः , आत् , इत् , अश्वैः॑ , वि॒ऽमोच॑नं , कृ॒णु॒ते॒ , तत् , तु , अ॒स्य॒ ॥
दिदृ॑क्षंत उ॒षसो॒ याम॑न्न॒क्तोर्वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी॑कं । विश्वे॑ जानंति महि॒ना यदागा॒दिंद्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ॥
दिदृ॑क्षंते , उ॒षसः॑ , याम॑न् , अ॒क्तोः , वि॒वस्व॑त्याः , महि॑ , चि॒त्रं , अनी॑कं । विश्वे॑ , जा॒नं॒ति॒ , म॒हि॒ना , यत् , आ , अगा॑त् , इंद्र॑स्य , कर्म॑ , सुऽकृ॑ता , पु॒रूणि॑ ॥
महि॒ ज्योति॒र्निहि॑तं व॒क्षणा॑स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः । विश्वं॒ स्वाद्म॒ संभृ॑तमु॒स्रिया॑यां॒ यत्सी॒मिंद्रो॒ अद॑धा॒द्भोज॑नाय ॥
महि॑ , ज्योतिः॑ , निऽहि॑तं , व॒क्षणा॑सु , आ॒मा , प॒क्वं , च॒र॒ति॒ , बिभ्र॑ती , गौः । विश्वं॑ , स्वाद्म॑ , संऽभृ॑तं , उ॒स्रिया॑यां , यत् , सीं॒ , इंद्रः॑ , अद॑धात् , भोज॑नाय ॥
इंद्र॒ दृह्य॑ यामको॒शा अ॑भूवन्य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः । दु॒र्मा॒यवो॑ दु॒रेवा॒ मर्त्या॑सो निषं॒गिणो॑ रि॒पवो॒ हंत्वा॑सः ॥
इंद्र॑ , दृह्य॑ , या॒म॒ऽको॒शाः , अ॒भू॒व॒न् , य॒ज्ञाय॑ , शि॒क्ष॒ , गृ॒ण॒ते , सखि॑ऽभ्यः । दुः॒ऽमा॒यवः॑ , दुः॒ऽएवाः॑ , मर्त्या॑सः , नि॒षं॒गिणः॑ , रि॒पवः॑ , हंत्वा॑सः ॥
सं घोषः॑ शृण्वेऽव॒मैर॒मित्रै॑र्ज॒ही न्ये॑ष्व॒शनिं॒ तपि॑ष्ठां । वृ॒श्चेम॒धस्ता॒द्वि रु॑जा॒ सह॑स्व ज॒हि रक्षो॑ मघवन्रं॒धय॑स्व ॥
सं , घोषः॑ , शृ॒ण्वे॒ , अ॒व॒मैः , अ॒मित्रैः॑ , ज॒हि , नि , ए॒षु॒ , अ॒शनिं॑ , तपि॑ष्ठां । वृ॒श्च , ईं॒ , अ॒धस्ता॑त् , वि , रु॒ज॒ , सह॑स्व , ज॒हि , रक्षः॑ , म॒घ॒ऽव॒न् , रं॒धय॑स्व ॥
उद्वृ॑ह॒ रक्षः॑ स॒हमू॑लमिंद्र वृ॒श्चा मध्यं॒ प्रत्यग्रं॑ शृणीहि । आ कीव॑तः सल॒लूकं॑ चकर्थ ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥
उत् , वृ॒ह॒ , रक्षः॑ , स॒हऽमू॑लं , इं॒द्र॒ , वृ॒श्च , मध्यं॑ , प्रति॑ , अग्रं॑ , शृ॒णी॒हि॒ । आ , कीव॑तः , स॒ल॒लूकं॑ , च॒क॒र्थ॒ , ब्र॒ह्म॒ऽद्विषे॑ , तपु॑षिं , हे॒तिं , अ॒स्य॒ ॥
स्व॒स्तये॑ वा॒जिभि॑श्च प्रणेतः॒ सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः । रा॒यो वं॒तारो॑ बृह॒तः स्या॑मा॒स्मे अ॑स्तु॒ भग॑ इंद्र प्र॒जावा॑न् ॥
स्व॒स्तये॑ , वा॒जिऽभिः॑ , च॒ , प्र॒ने॒त॒रिति॑ प्रऽनेतः , सं , यत् , म॒हीः , इषः॑ , आ॒ऽसत्सि॑ , पू॒र्वीः । रा॒यः , वं॒तारः॑ , बृ॒ह॒तः , स्या॒म॒ , अ॒स्मे इति॑ , अ॒स्तु॒ , भगः॑ , इं॒द्र॒ , प्र॒जाऽवा॑न् ॥
आ नो॑ भर॒ भग॑मिंद्र द्यु॒मंतं॒ नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के । ऊ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे तमा पृ॑ण वसुपते॒ वसू॑नां ॥
आ , नः॒ , भ॒र॒ , भगं॑ , इं॒द्र॒ , द्यु॒ऽमंतं॑ , नि , ते॒ , दे॒ष्णस्य॑ , धी॒म॒हि॒ , प्र॒ऽरे॒के । ऊ॒र्वःऽइ॑व , प॒प्र॒थे॒ , कामः॑ , अ॒स्मे इति॑ , तं , आ , पृ॒ण॒ , व॒सु॒ऽप॒ते॒ , वसू॑नां ॥
इ॒मं कामं॑ मंदया॒ गोभि॒रश्वै॑श्चं॒द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च । स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इंद्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ॥
इ॒मं , कामं॑ , मं॒द॒य॒ , गोऽभिः॑ , अश्वैः॑ , चं॒द्रऽव॑ता , राध॑सा , प॒प्रथः॑ , च॒ । स्वः॒ऽयवः॑ , म॒तिऽभिः॑ , तुभ्यं॑ , विप्राः॑ , इंद्रा॑य , वाहः॑ , कु॒शि॒कासः॑ , अ॒क्र॒न् ॥
आ नो॑ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्यं॑ स॒नयो॑ यंतु॒ वाजाः॑ । दि॒वक्षा॑ असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्यं॒ सु म॑घवन्बोधि गो॒दाः ॥
आ , नः॒ , गो॒त्रा , द॒र्दृ॒हि॒ , गो॒ऽप॒ते॒ , गाः , सं , अ॒स्मभ्यं॑ , स॒नयः॑ , यं॒तु॒ , वाजाः॑ । दि॒वक्षाः॑ , अ॒सि॒ , वृ॒ष॒भ॒ , स॒त्यऽशु॑ष्मः , अ॒स्मभ्यं॑ , सु , म॒घ॒ऽव॒न् , बो॒धि॒ , गो॒ऽदाः ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥
शु॒नं , हु॒वे॒म॒ , म॒घऽवा॑नं , इंद्रं॑ , अ॒स्मिन् , भरे॑ , नृऽत॑मं , वाज॑ऽसातौ । शृ॒ण्वंतं॑ , उ॒ग्रं , ऊ॒तये॑ , स॒मत्ऽसु॑ , घ्नंतं॑ , वृ॒त्राणि॑ , सं॒ऽजितं॑ , धना॑नां ॥
[३१] शासद्वह्निरिति द्वाविंशत्यृचस्य सूक्तस्य इषीरथिः कुशिक इंद्रत्रिष्टुप् |
शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं॑ गाद्वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् । पि॒ता यत्र॑ दुहि॒तुः सेक॑मृं॒जंत्सं श॒ग्म्ये॑न॒ मन॑सा दध॒न्वे ॥
शास॑त् , वह्निः॑ , दु॒हि॒तुः , न॒प्त्यं॑ , गा॒त् , वि॒द्वान् , ऋ॒तस्य॑ , दीधि॑तिं , स॒प॒र्यन् । पि॒ता , यत्र॑ , दु॒हि॒तुः , सेकं॑ , ऋं॒जन् , सं , श॒ग्म्ये॑न , मन॑सा , द॒ध॒न्वे ॥
न जा॒मये॒ तान्वो॑ रि॒क्थमा॑रैक्च॒कार॒ गर्भं॑ सनि॒तुर्नि॒धानं॑ । यदी॑ मा॒तरो॑ ज॒नयं॑त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो॑र॒न्य ऋं॒धन् ॥
न , जा॒मये॑ , तान्वः॑ , रि॒क्थं , अ॒रै॒क् , च॒कार॑ , गर्भं॑ , स॒नि॒तुः , नि॒ऽधानं॑ । यदि॑ , मा॒तरः॑ , ज॒नयं॑त , वह्निं॑ , अ॒न्यः , क॒र्ता , सु॒ऽकृतोः॑ , अ॒न्यः , ऋं॒धन् ॥
अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒३॒॑ रेज॑मानो म॒हस्पु॒त्राँ अ॑रु॒षस्य॑ प्र॒यक्षे॑ । म॒हान्गर्भो॒ मह्या जा॒तमे॑षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ॥
अ॒ग्निः , ज॒ज्ञे॒ , जु॒ह्वा॑ , रेज॑मानः , म॒हः , पु॒त्रान् , अ॒रु॒षस्य॑ , प्र॒ऽयक्षे॑ । म॒हान् , गर्भः॑ , महि॑ , आ , जा॒तं , ए॒षां॒ , म॒ही , प्र॒ऽवृत् , हरि॑ऽअश्वस्य , य॒ज्ञैः ॥
अ॒भि जैत्री॑रसचंत स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् । तं जा॑न॒तीः प्रत्युदा॑यन्नु॒षासः॒ पति॒र्गवा॑मभव॒देक॒ इंद्रः॑ ॥
अ॒भि , जैत्रीः॑ , अ॒स॒चं॒त॒ , स्पृ॒धा॒नं , महि॑ , ज्योतिः॑ , तम॑सः , निः , अ॒जा॒न॒न् । तं , जा॒न॒तीः , प्रति॑ , उत् , आ॒य॒न् , उ॒षसः॑ , पतिः॑ , गवां॑ , अ॒भ॒व॒त् , एकः॑ , इंद्रः॑ ॥
वी॒ळौ स॒तीर॒भि धीरा॑ अतृंदन्प्रा॒चाहि॑न्व॒न्मन॑सा स॒प्त विप्राः॑ । विश्वा॑मविंदन्प॒थ्या॑मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ॥
वी॒ळौ , स॒तीः , अ॒भि , धीराः॑ , अ॒तृं॒द॒न् , प्रा॒चा , अ॒हि॒न्व॒न् , मन॑सा , स॒प्त , विप्राः॑ । विश्वां॑ , अ॒विं॒द॒न् , प॒थ्यां॑ , ऋ॒तस्य॑ , प्र॒ऽजा॒नन् , इत् , ता , नम॑सा , आ , वि॒वे॒श॒ ॥
वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः । अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ॥
वि॒दत् , यदि॑ , स॒रमा॑ , रु॒ग्णं , अद्रेः॑ , महि॑ , पाथः॑ , पू॒र्व्यं , स॒ध्र्य॑क् , क॒रिति॑ कः । अग्रं॑ , न॒य॒त् , सु॒ऽपदी॑ , अक्ष॑राणां , अच्छ॑ , रवं॑ , प्र॒थ॒मा , जा॒न॒ती , गा॒त् ॥
अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू॑दयत्सु॒कृते॒ गर्भ॒मद्रिः॑ । स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा॑भव॒दंगि॑राः स॒द्यो अर्च॑न् ॥
अग॑च्छत् , ऊँ॒ इति॑ , विप्र॑ऽतमः , स॒खि॒ऽयन् , असू॑दयत् , सु॒ऽकृते॑ , गर्भं॑ , अद्रिः॑ । स॒सान॑ , मर्यः॑ , युव॑ऽभिः , म॒ख॒स्यन् , अथ॑ , अ॒भ॒व॒त् , अंगि॑राः , स॒द्यः , अर्च॑न् ॥
स॒तःस॑तः प्रति॒मानं॑ पुरो॒भूर्विश्वा॑ वेद॒ जनि॑मा॒ हंति॒ शुष्णं॑ । प्र णो॑ दि॒वः प॑द॒वीर्ग॒व्युरर्चं॒त्सखा॒ सखीँ॑रमुंच॒न्निर॑व॒द्यात् ॥
स॒तःऽस॑तः , प्र॒ति॒ऽमानं॑ , पु॒रः॒ऽभूः , विश्वा॑ , वे॒द॒ , जनि॑म , हंति॑ , शुष्णं॑ । प्र , नः॒ , दि॒वः , प॒द॒ऽवीः , ग॒व्युः , अर्च॑न् , सखा॑ , सखी॑न् , अ॒मुं॒च॒त् , निः , अ॒व॒द्यात् ॥
नि ग॑व्य॒ता मन॑सा सेदुर॒र्कैः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुं । इ॒दं चि॒न्नु सद॑नं॒ भूर्ये॑षां॒ येन॒ मासाँ॒ असि॑षासन्नृ॒तेन॑ ॥
नि , ग॒व्य॒ता , मन॑सा , से॒दुः॒ , अ॒र्कैः , कृ॒ण्वा॒नासः॑ , अ॒मृ॒त॒ऽत्वाय॑ , गा॒तुं । इ॒दं , चि॒त् , नु , सद॑नं , भूरि॑ , ए॒षां॒ , येन॑ , मासा॑न् , असि॑सासन् , ऋ॒तेन॑ ॥
सं॒पश्य॑माना अमदन्न॒भि स्वं पयः॑ प्र॒त्नस्य॒ रेत॑सो॒ दुघा॑नाः । वि रोद॑सी अतप॒द्घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ॥
सं॒ऽपश्य॑मानाः , अ॒म॒द॒न् , अ॒भि , स्वं , पयः॑ , प्र॒त्नस्य॑ , रेत॑सः , दुघा॑नाः । वि , रोद॑सी॒ इति॑ , अ॒त॒प॒त् , घोषः॑ , ए॒षां॒ , जा॒ते , निः॒ऽस्थां , अद॑धुः , गोषु॑ , वी॒रान् ॥
स जा॒तेभि॑र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया॑ असृज॒दिंद्रो॑ अ॒र्कैः । उ॒रू॒च्य॑स्मै घृ॒तव॒द्भरं॑ती॒ मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ॥
सः , जा॒तेभिः॑ , वृ॒त्र॒ऽहा , सः , इत् , ऊँ॒ इति॑ , ह॒व्यैः , उत् , उ॒स्रियाः॑ , अ॒सृ॒ज॒त् , इंद्रः॑ , अ॒र्कैः । उ॒रू॒ची , अ॒स्मै॒ , घृ॒तऽव॑त् , भरं॑ती , मधु॑ , स्वाद्म॑ , दु॒दु॒हे॒ , जेन्या॑ , गौः ॥
पि॒त्रे चि॑च्चक्रुः॒ सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी॑मत्सु॒कृतो॒ वि हि ख्यन् । वि॒ष्क॒भ्नंतः॒ स्कंभ॑नेना॒ जनि॑त्री॒ आसी॑ना ऊ॒र्ध्वं र॑भ॒सं वि मि॑न्वन् ॥
पि॒त्रे , चि॒त् , च॒क्रुः॒ , सद॑नं , सं , अ॒स्मै॒ , महि॑ , त्विषि॑ऽमत् , सु॒ऽकृतः॑ , वि , हि , ख्यन् । वि॒ऽस्क॒भ्नंतः॑ , स्कंभ॑नेन , जनि॑त्री॒ इति॑ , आसी॑नाः , ऊ॒र्ध्वं , र॒भ॒सं , वि , मि॒न्व॒न् ॥
म॒ही यदि॑ धि॒षणा॑ शि॒श्नथे॒ धात्स॑द्यो॒वृधं॑ वि॒भ्वं१॒॑ रोद॑स्योः । गिरो॒ यस्मि॑न्ननव॒द्याः स॑मी॒चीर्विश्वा॒ इंद्रा॑य॒ तवि॑षी॒रनु॑त्ताः ॥
म॒ही , यदि॑ , धि॒षणा॑ , शि॒श्नथे॑ , धात् , स॒द्यः॒ऽवृधं॑ , वि॒ऽभ्वं॑ , रोद॑स्योः । गिरः॑ , यस्मि॑न् , अ॒न॒व॒द्याः , सं॒ऽई॒चीः , विश्वाः॑ , इंद्रा॑य , तवि॑षीः , अनु॑त्ताः ॥
मह्या ते॑ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो॑ यंति पू॒र्वीः । महि॑ स्तो॒त्रमव॒ आग॑न्म सू॒रेर॒स्माकं॒ सु म॑घवन्बोधि गो॒पाः ॥
महि॑ , आ , ते॒ , स॒ख्यं , व॒श्मि॒ , श॒क्तीः , आ , वृ॒त्र॒ऽघ्ने , नि॒ऽयुतः॑ , यं॒ति॒ , पू॒र्वीः । महि॑ , स्तो॒त्रं , अवः॑ , आ , अ॒ग॒न्म॒ , सू॒रेः , अ॒स्माकं॑ , सु , म॒घ॒ऽव॒न् , बो॒धि॒ , गो॒पाः ॥
महि॒ क्षेत्रं॑ पु॒रु श्चं॒द्रं वि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒ समै॑रत् । इंद्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कं सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निं ॥
महि॑ , क्षेत्रं॑ , पु॒रु , चं॒द्रं , वि॒वि॒द्वान् , आत् , इत् , सखि॑ऽभ्यः , च॒रथं॑ , सं , ऐ॒रत् । इंद्रः॑ , नृऽभिः॑ , अ॒ज॒न॒त् , दीद्या॑नः , सा॒कं , सूर्यं॑ , उ॒षसं॑ , गा॒तुं , अ॒ग्निं ॥
अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॒॑ दमू॑नाः॒ प्र स॒ध्रीची॑रसृजद्वि॒श्वश्चं॑द्राः । मध्वः॑ पुना॒नाः क॒विभिः॑ प॒वित्रै॒र्द्युभि॑र्हिन्वंत्य॒क्तुभि॒र्धनु॑त्रीः ॥
अ॒पः , चि॒त् , ए॒षः , वि॒ऽभ्वः॑ , दमू॑नाः , प्र , स॒ध्रीचीः॑ , अ॒सृ॒ज॒त् , वि॒श्वऽचं॑द्राः । मध्वः॑ , पु॒ना॒नाः , क॒विऽभिः॑ , प॒वित्रैः॑ , द्युऽभिः॑ , हि॒न्वं॒ति॒ , अ॒क्तुऽभिः॑ , धनु॑त्रीः ॥
अनु॑ कृ॒ष्णे वसु॑धिती जिहाते उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे । परि॒ यत्ते॑ महि॒मानं॑ वृ॒जध्यै॒ सखा॑य इंद्र॒ काम्या॑ ऋजि॒प्याः ॥
अनु॑ , कृ॒ष्णे इति॑ , वसु॑धिती॒ इति॒ वसु॑ऽधिती , जि॒हा॒ते॒ इति॑ , उ॒भे इति॑ , सूर्य॑स्य , मं॒हना॑ , यज॑त्रे॒ इति॑ । परि॑ , यत् , ते॒ , म॒हि॒मानं॑ , वृ॒जध्यै॑ , सखा॑यः , इं॒द्र॒ , काम्याः॑ , ऋ॒जि॒प्याः ॥
पति॑र्भव वृत्रहंत्सू॒नृता॑नां गि॒रां वि॒श्वायु॑र्वृष॒भो व॑यो॒धाः । आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ॥
पतिः॑ , भ॒व॒ , वृ॒त्र॒ऽह॒न् , सू॒नृता॑नां , गि॒रां , वि॒श्वऽआ॑युः , वृ॒ष॒भः , व॒यः॒ऽधाः । आ , नः॒ , ग॒हि॒ , स॒ख्येभिः॑ , शि॒वेभिः॑ , म॒हान् , म॒हीभिः॑ , ऊ॒तिऽभिः॑ , स॒र॒ण्यन् ॥
तमं॑गिर॒स्वन्नम॑सा सप॒र्यन्नव्यं॑ कृणोमि॒ सन्य॑से पुरा॒जां । द्रुहो॒ वि या॑हि बहु॒ला अदे॑वीः॒ स्व॑श्च नो मघवंत्सा॒तये॑ धाः ॥
तं , अं॒गि॒र॒स्वत् , नम॑सा , स॒प॒र्यन् , नव्यं॑ , कृ॒णो॒मि॒ , सन्य॑से , पु॒रा॒ऽजां । द्रुहः॑ , वि , या॒हि॒ , ब॒हु॒लाः , अदे॑वीः , स्व१॒॑रिति॒ स्वः॑ , च॒ , नः॒ , म॒घ॒ऽव॒न् , सा॒तये॑ , धाः॒ ॥
मिहः॑ पाव॒काः प्रत॑ता अभूवंत्स्व॒स्ति नः॑ पिपृहि पा॒रमा॑सां । इंद्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः ॥
मिहः॑ , पा॒व॒काः , प्रऽत॑ताः , अ॒भू॒व॒न् , स्व॒स्ति , नः॒ , पि॒पृ॒हि॒ , पा॒रं , आ॒सां॒ । इंद्र॑ , त्वं , र॒थि॒रः , पा॒हि॒ , नः॒ , रि॒षः , म॒क्षुऽम॑क्षु , कृ॒णु॒हि॒ , गो॒ऽजितः॑ , नः॒ ॥
अदे॑दिष्ट वृत्र॒हा गोप॑ति॒र्गा अं॒तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात् । प्र सू॒नृता॑ दि॒शमा॑न ऋ॒तेन॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥
अदे॑दिष्ट , वृ॒त्र॒ऽहा , गोऽप॑तिः , गाः , अं॒तरिति॑ , कृ॒ष्णान् , अ॒रु॒षैः , धाम॑ऽभिः , गा॒त् । प्र , सू॒नृताः॑ , दि॒शमा॑नः , ऋ॒तेन॑ , दुरः॑ , च॒ , विश्वाः॑ , अ॒वृ॒णो॒त् , अप॑ , स्वाः ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥
शु॒नं , हु॒वे॒म॒ , म॒घऽवा॑नं , इंद्रं॑ , अ॒स्मिन् , भरे॑ , नृऽत॑मं , वाज॑ऽसातौ । शृ॒ण्वंतं॑ , उ॒ग्रं , ऊ॒तये॑ , स॒मत्ऽसु॑ , घ्नंतं॑ , वृ॒त्राणि॑ , सं॒ऽजितं॑ , धना॑नां ॥
[३२] इंद्रसोममिति सप्तदशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इंद्र॒ सोमं॑ सोमपते॒ पिबे॒मं माध्यं॑दिनं॒ सव॑नं॒ चारु॒ यत्ते॑ । प्र॒प्रुथ्या॒ शिप्रे॑ मघवन्नृजीषिन्वि॒मुच्या॒ हरी॑ इ॒ह मा॑दयस्व ॥
इंद्र॑ , सोमं॑ , सो॒म॒ऽप॒ते॒ , पिब॑ , इ॒मं , माध्यं॑दिनं , सव॑नं , चारु॑ , यत् , ते॒ । प्र॒ऽप्रुथ्य॑ , शिप्रे॒ इति॑ , म॒घ॒ऽवन् , ऋ॒जी॒षि॒न् , वि॒ऽमुच्य॑ , हरी॒ इति॑ , इ॒ह , मा॒द॒य॒स्व॒ ॥
गवा॑शिरं मं॒थिन॑मिंद्र शु॒क्रं पिबा॒ सोमं॑ ररि॒मा ते॒ मदा॑य । ब्र॒ह्म॒कृता॒ मारु॑तेना ग॒णेन॑ स॒जोषा॑ रु॒द्रैस्तृ॒पदा वृ॑षस्व ॥
गोऽआ॑शिरं , मं॒थिनं॑ , इं॒द्र॒ , शु॒क्रं , पिब॑ , सोमं॑ , र॒रि॒म , ते॒ , मदा॑य । ब्र॒ह्म॒ऽकृता॑ , मारु॑तेन , ग॒णेन॑ , स॒ऽजोषाः॑ , रु॒द्रैः , तृ॒पत् , आ , वृ॒ष॒स्व॒ ॥
ये ते॒ शुष्मं॒ ये तवि॑षी॒मव॑र्ध॒न्नर्चं॑त इंद्र म॒रुत॑स्त॒ ओजः॑ । माध्यं॑दिने॒ सव॑ने वज्रहस्त॒ पिबा॑ रु॒द्रेभिः॒ सग॑णः सुशिप्र ॥
ये , ते॒ , शुष्मं॑ , ये , तवि॑षीं , अव॑र्धन् , अर्चं॑तः , इं॒द्र॒ , म॒रुतः॑ , ते॒ , ओजः॑ । माध्यं॑दिने , सव॑ने , व॒ज्र॒ऽह॒स्त॒ , पिब॑ , रु॒द्रेभिः॑ , सऽग॑णः , सु॒ऽशि॒प्र॒ ॥
त इन्न्व॑स्य॒ मधु॑मद्विविप्र॒ इंद्र॑स्य॒ शर्धो॑ म॒रुतो॒ य आस॑न् । येभि॑र्वृ॒त्रस्ये॑षि॒तो वि॒वेदा॑म॒र्मणो॒ मन्य॑मानस्य॒ मर्म॑ ॥
ते , इत् , नु , अ॒स्य॒ , मधु॑ऽमत् , वि॒वि॒प्रे॒ , इंद्र॑स्य , शर्धः॑ , म॒रुतः॑ , ये , आस॑न् । येभिः॑ , वृ॒त्रस्य॑ , इ॒षि॒तः , वि॒वेद॑ , अ॒म॒र्मणः॑ , मन्य॑मानस्य , मर्म॑ ॥
म॒नु॒ष्वदिं॑द्र॒ सव॑नं जुषा॒णः पिबा॒ सोमं॒ शश्व॑ते वी॒र्या॑य । स आ व॑वृत्स्व हर्यश्व य॒ज्ञैः स॑र॒ण्युभि॑र॒पो अर्णा॑ सिसर्षि ॥
म॒नु॒ष्वत् , इं॒द्र॒ , सव॑नं , जु॒षा॒णः , पिब॑ , सोमं॑ , शश्व॑ते , वी॒र्या॑य । सः , आ , व॒वृ॒त्स्व॒ , ह॒रि॒ऽअ॒श्व॒ , य॒ज्ञैः , स॒र॒ण्युऽभिः॑ , अ॒पः , अर्णा॑ , सि॒स॒र्षि॒ ॥
त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ अत्याँ॑ इव॒ प्रासृ॑जः॒ सर्त॒वाजौ । शया॑नमिंद्र॒ चर॑ता व॒धेन॑ वव्रि॒वांसं॒ परि॑ दे॒वीरदे॑वं ॥
त्वं , अ॒पः , यत् , ह॒ , वृ॒त्रं , ज॒घ॒न्वान् , अत्या॑न्ऽइव , प्र , असृ॑जः , सर्त॒वै , आ॒जौ । शया॑नं , इं॒द्र॒ , चर॑ता , व॒धेन॑ , व॒व्रि॒ऽवांसं॑ , परि॑ , दे॒वीः , अदे॑वं ॥
यजा॑म॒ इन्नम॑सा वृ॒द्धमिंद्रं॑ बृ॒हंत॑मृ॒ष्वम॒जरं॒ युवा॑नं । यस्य॑ प्रि॒ये म॒मतु॑र्य॒ज्ञिय॑स्य॒ न रोद॑सी महि॒मानं॑ म॒माते॑ ॥
यजा॑मः , इत् , नम॑सा , वृ॒द्धं , इंद्रं॑ , बृ॒हंतं॑ , ऋ॒ष्वं , अ॒जरं॑ , युवा॑नं । यस्य॑ , प्रि॒ये इति॑ , म॒मतुः॑ , य॒ज्ञिय॑स्य , न , रोद॑सी॒ इति॑ , म॒हि॒मानं॑ , म॒माते॒ इति॑ ॥
इंद्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ व्र॒तानि॑ दे॒वा न मि॑नंति॒ विश्वे॑ । दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य॑मु॒षसं॑ सु॒दंसाः॑ ॥
इंद्र॑स्य , कर्म॑ , सुऽकृ॑ता , पु॒रूणि॑ , व्र॒तानि॑ , दे॒वाः , न , मि॒नं॒ति॒ , विश्वे॑ । दा॒धार॑ , यः , पृ॒थि॒वीं , द्यां , उ॒त , इ॒मां , ज॒जान॑ , सूर्यं॑ , उ॒षसं॑ , सु॒ऽदंसाः॑ ॥
अद्रो॑घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो अपि॑बो ह॒ सोमं॑ । न द्याव॑ इंद्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासाः॑ श॒रदो॑ वरंत ॥
अद्रो॑घ , स॒त्यं , तव॑ , तत् , म॒हि॒ऽत्वं , स॒द्यः , यत् , जा॒तः , अपि॑बः , ह॒ , सोमं॑ । न , द्यावः॑ , इं॒द्र॒ , त॒वसः॑ , ते॒ , ओजः॑ , न , अहा॑ , न , मासाः॑ , श॒रदः॑ , व॒रं॒त॒ ॥
त्वं स॒द्यो अ॑पिबो जा॒त इं॑द्र॒ मदा॑य॒ सोमं॑ पर॒मे व्यो॑मन् । यद्ध॒ द्यावा॑पृथि॒वी आवि॑वेशी॒रथा॑भवः पू॒र्व्यः का॒रुधा॑याः ॥
त्वं , स॒द्यः , अ॒पि॒बः॒ , जा॒तः , इं॒द्र॒ , मदा॑य , सोमं॑ , प॒र॒मे , विऽओ॑मन् । यत् , ह॒ , द्यावा॑पृथि॒वी इति॑ , आ , अवि॑वेशीः , अथ॑ , अ॒भ॒वः॒ , पू॒र्व्यः , का॒रुऽधा॑याः ॥
अह॒न्नहिं॑ परि॒शया॑न॒मर्ण॑ ओजा॒यमा॑नं तुविजात॒ तव्या॑न् । न ते॑ महि॒त्वमनु॑ भू॒दध॒ द्यौर्यद॒न्यया॑ स्फि॒ग्या॒३॒॑ क्षामव॑स्थाः ॥
अह॑न् , अहिं॑ , प॒रि॒ऽशया॑नं , अर्णः॑ , ओ॒जा॒यमा॑नं , तु॒वि॒ऽजा॒त॒ , तव्या॑न् । न , ते॒ , म॒हि॒ऽत्वं , अनु॑ , भू॒त् , अध॑ , द्यौः , यत् , अ॒न्यया॑ , स्फि॒ग्या॑ , क्षां , अव॑स्थाः ॥
य॒ज्ञो हि त॑ इंद्र॒ वर्ध॑नो॒ भूदु॒त प्रि॒यः सु॒तसो॑मो मि॒येधः॑ । य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञियः॒ सन्य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत् ॥
य॒ज्ञः , हि , ते॒ , इं॒द्र॒ , वर्ध॑नः , भूत् , उ॒त , प्रि॒यः , सु॒तऽसो॑मः , मि॒येधः॑ । य॒ज्ञेन॑ , य॒ज्ञं , अ॒व॒ , य॒ज्ञियः॑ , सन् , य॒ज्ञः , ते॒ , वज्रं॑ , अ॒हि॒ऽहत्ये॑ , आ॒व॒त् ॥
य॒ज्ञेनेंद्र॒मव॒सा च॑क्रे अ॒र्वागैनं॑ सु॒म्नाय॒ नव्य॑से ववृत्यां । यः स्तोमे॑भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ॥
य॒ज्ञेन॑ , इंद्रं॑ , अव॑सा , आ , च॒क्रे॒ , अ॒र्वाक् , आ , ए॒नं॒ , सु॒म्नाय॑ , नव्य॑से , व॒वृ॒त्यां॒ । यः , स्तोमे॑भिः , व॒वृ॒धे , पू॒र्व्येभिः॑ , यः , म॒ध्य॒मेभिः॑ , उ॒त , नूत॑नेभिः ॥
वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिंद्र॒मह्नः॑ । अंह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यांत॑मु॒भये॑ हवंते ॥
वि॒वेष॑ , यत् , मा॒ , धि॒षणा॑ , ज॒जान॑ , स्तवै॑ , पु॒रा , पार्या॑त् , इंद्रं॑ , अह्नः॑ । अंह॑सः , यत्र॑ , पी॒पर॑त् , यथा॑ , नः॒ , ना॒वाऽइ॑व , यांतं॑ , उ॒भये॑ , ह॒वं॒ते॒ ॥
आपू॑र्णो अस्य क॒लशः॒ स्वाहा॒ सेक्ते॑व॒ कोशं॑ सिसिचे॒ पिब॑ध्यै । समु॑ प्रि॒या आव॑वृत्र॒न्मदा॑य प्रदक्षि॒णिद॒भि सोमा॑स॒ इंद्रं॑ ॥
आऽपू॑र्णः , अ॒स्य॒ , क॒लशः॑ , स्वाहा॑ , सेक्ता॑ऽइव , कोशं॑ , सि॒सि॒चे॒ , पिब॑ध्यै । सं , ऊँ॒ इति॑ , प्रि॒याः , आ , अ॒व॒वृ॒त्र॒न् , मदा॑य , प्र॒ऽद॒क्षि॒णित् , अ॒भि , सोमा॑सः , इंद्रं॑ ॥
न त्वा॑ गभी॒रः पु॑रुहूत॒ सिंधु॒र्नाद्र॑यः॒ परि॒ षंतो॑ वरंत । इ॒त्था सखि॑भ्य इषि॒तो यदिं॒द्रा दृ॒ळ्हं चि॒दरु॑जो॒ गव्य॑मू॒र्वं ॥
न , त्वा॒ , ग॒भी॒रः , पु॒रु॒ऽहू॒त॒ , सिंधुः॑ , न , अद्र॑यः , परि॑ , संतः॑ , व॒रं॒त॒ । इ॒त्था , सखि॑ऽभ्यः , इ॒षि॒तः , यत् , इं॒द्र॒ , आ , दृ॒ळ्हं , चि॒त् , अरु॑जः , गव्यं॑ , ऊ॒र्वं ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥
शु॒नं , हु॒वे॒म॒ , म॒घऽवा॑नं , इंद्रं॑ , अ॒स्मिन् , भरे॑ , नृऽत॑मं , वाज॑ऽसातौ । शृ॒ण्वंतं॑ , उ॒ग्रं , ऊ॒तये॑ , स॒मत्ऽसु॑ , घ्नंतं॑ , वृ॒त्राणि॑ , सं॒ऽजितं॑ , धना॑नां ॥
[३३] प्रपर्वतानामिति त्रयोदशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः चतुर्थी षष्ठ्यष्टमीदशमीनांनदीऋषिकानद्योदेवताः एनावयमेतद्वच आतेकारोरितितिसृणांविश्वामित्रोदेवता इंद्रोअस्मानितिद्वयोरिंद्रस्त्रिष्टुबंत्यानुष्टुप् |
प्र पर्व॑तानामुश॒ती उ॒पस्था॒दश्वे॑ इव॒ विषि॑ते॒ हास॑माने । गावे॑व शु॒भ्रे मा॒तरा॑ रिहा॒णे विपा॑ट् छुतु॒द्री पय॑सा जवेते ॥
प्र , पर्व॑तानां , उ॒श॒ती इति॑ , उ॒पऽस्था॑त् , अश्वे॑ इ॒वेत्यश्वे॑ऽइव , विसि॑ते॒ इति॒ विऽसि॑ते , हास॑माने॒ इति॑ । गावा॑ऽइव , शु॒भ्रे इति॑ , मा॒तरा॑ , रि॒हा॒णे इति॑ , विऽपा॑ट् , शु॒तु॒द्री , पय॑सा , ज॒वे॒ते॒ इति॑ ॥
इंद्रे॑षिते प्रस॒वं भिक्ष॑माणे॒ अच्छा॑ समु॒द्रं र॒थ्ये॑व याथः । स॒मा॒रा॒णे ऊ॒र्मिभिः॒ पिन्व॑माने अ॒न्या वा॑म॒न्यामप्ये॑ति शुभ्रे ॥
इंद्रे॑षिते॒ इतींद्र॑ऽइषिते , प्र॒ऽस॒वं , भिक्ष॑माणे॒ इति॑ , अच्छ॑ , स॒मु॒द्रं , र॒थ्या॑ऽइव , या॒थः॒ । स॒मा॒रा॒णे इति॑ सं॒ऽआ॒रा॒णे , ऊ॒र्मिऽभिः॑ , पिन्व॑माने॒ इति॑ , अ॒न्या , वां॒ , अ॒न्यां , अपि॑ , ए॒ति॒ , शु॒भ्रे॒ इति॑ ॥
अच्छा॒ सिंधुं॑ मा॒तृत॑मामयासं॒ विपा॑शमु॒र्वीं सु॒भगा॑मगन्म । व॒त्समि॑व मा॒तरा॑ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चरं॑ती ॥
अच्छ॑ , सिंधुं॑ , मा॒तृऽत॑मां , अ॒या॒सं॒ , विऽपा॑शं , उ॒र्वीं , सु॒ऽभगां॑ , अ॒ग॒न्म॒ । व॒त्संऽइ॑व , मा॒तरा॑ , सं॒रि॒हा॒णे इति॑ सं॒ऽरि॒हा॒णे , स॒मा॒नं , योनिं॑ , अनु॑ , सं॒चरं॑ती॒ इति॑ सं॒ऽचरं॑ती ॥
ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒ अनु॒ योनिं॑ दे॒वकृ॑तं॒ चरं॑तीः । न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो॑ न॒द्यो॑ जोहवीति ॥
ए॒ना , व॒यं , पय॑सा , पिन्व॑मानाः , अनु॑ , योनिं॑ , दे॒वऽकृ॑तं , चरं॑तीः । न , वर्त॑वे , प्र॒ऽस॒वः , सर्ग॑ऽतक्तः , किं॒ऽयुः , विप्रः॑ , न॒द्यः॑ , जो॒ह॒वी॒ति॒ ॥
रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता॑वरी॒रुप॑ मुहू॒र्तमेवैः॑ । प्र सिंधु॒मच्छा॑ बृह॒ती म॑नी॒षाव॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ॥
रम॑ध्वं , मे॒ , वच॑से , सो॒म्याय॑ , ऋत॑ऽवरीः , उप॑ , मु॒हू॒र्तं , एवैः॑ । प्र , सिंधुं॑ , अच्छ॑ , बृ॒ह॒ती , म॒नी॒षा , अ॒व॒स्युः , अ॒ह्वे॒ , कु॒शि॒कस्य॑ , सू॒नुः ॥
इंद्रो॑ अ॒स्माँ अ॑रद॒द्वज्र॑बाहु॒रपा॑हन्वृ॒त्रं प॑रि॒धिं न॒दीनां॑ । दे॒वो॑ऽनयत्सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या॑म उ॒र्वीः ॥
इंद्रः॑ , अ॒स्मान् , अ॒र॒द॒त् , वज्र॑ऽबाहुः , अप॑ , अ॒ह॒न् , वृ॒त्रं , प॒रि॒ऽधिं , न॒दीनां॑ । दे॒वः , अ॒न॒य॒त् , स॒वि॒ता , सु॒ऽपा॒णिः , तस्य॑ , व॒यं , प्र॒ऽस॒वे , या॒मः॒ , उ॒र्वीः ॥
प्र॒वाच्यं॑ शश्व॒धा वी॒र्यं१॒॑ तदिंद्र॑स्य॒ कर्म॒ यदहिं॑ विवृ॒श्चत् । वि वज्रे॑ण परि॒षदो॑ जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा॑नाः ॥
प्र॒ऽवाच्यं॑ , श॒श्व॒धा , वी॒र्यं॑ , तत् , इंद्र॑स्य , कर्म॑ , यत् , अहिं॑ , वि॒ऽवृ॒श्चत् । वि , वज्रे॑ण , प॒रि॒ऽसदः॑ , ज॒घा॒न॒ , आय॑न् , आपः॑ , अय॑नं , इ॒च्छमा॑नाः ॥
ए॒तद्वचो॑ जरित॒र्मापि॑ मृष्ठा॒ आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ । उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि कः॑ पुरुष॒त्रा नम॑स्ते ॥
ए॒तत् , वचः॑ , ज॒रि॒तः॒ , मा , अपि॑ , मृ॒ष्ठाः॒ , आ , यत् , ते॒ , घोषा॑न् , उत्ऽत॑रा , यु॒गानि॑ । उ॒क्थेषु॑ , का॒रो॒ इति॑ , प्रति॑ , नः॒ , जु॒ष॒स्व॒ , मा , नः॒ , नि , क॒रिति॑ कः , पु॒रु॒ष॒ऽत्रा , नमः॑ , ते॒ ॥
ओ षु स्व॑सारः का॒रवे॑ शृणोत य॒यौ वो॑ दू॒रादन॑सा॒ रथे॑न । नि षू न॑मध्वं॒ भव॑ता सुपा॒रा अ॑धोअ॒क्षाः सिं॑धवः स्रो॒त्याभिः॑ ॥
ओ इति॑ , सु , स्व॒सा॒रः॒ , का॒रवे॑ , शृ॒णो॒त॒ , य॒यौ , वः॒ , दू॒रात् , अन॑सा , रथे॑न । नि , सु , न॒म॒ध्वं॒ , भव॑त , सु॒ऽपा॒राः , अ॒धः॒ऽअ॒क्षाः , सिं॒ध॒वः॒ , स्रो॒त्याभिः॑ ॥
आ ते॑ कारो शृणवामा॒ वचां॑सि य॒याथ॑ दू॒रादन॑सा॒ रथे॑न । नि ते॑ नंसै पीप्या॒नेव॒ योषा॒ मर्या॑येव क॒न्या॑ शश्व॒चै ते॑ ॥
आ , ते॒ , का॒रो॒ इति॑ , शृ॒ण॒वा॒म॒ , वचां॑सि , य॒याथ॑ , दू॒रात् , अन॑सा , रथे॑न । नि , ते॒ , नं॒सै॒ , पी॒प्या॒नाऽइ॑व , योषा॑ , मर्या॑यऽइव , क॒न्या॑ , श॒श्व॒चै , त॒ इति॑ ते ॥
यदं॒ग त्वा॑ भर॒ताः सं॒तरे॑युर्ग॒व्यन्ग्राम॑ इषि॒त इंद्र॑जूतः । अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो॑ वृणे सुम॒तिं य॒ज्ञिया॑नां ॥
यत् , अं॒ग , त्वा॒ , भ॒र॒ताः , सं॒ऽतरे॑युः , ग॒व्यन् , ग्रामः॑ , इ॒षि॒तः , इंद्र॑ऽजूतः । अर्षा॑त् , अह॑ , प्र॒ऽस॒वः , सर्ग॑ऽतक्तः , आ , वः॒ , वृ॒णे॒ , सु॒ऽम॒तिं , य॒ज्ञिया॑नां ॥
अता॑रिषुर्भर॒ता ग॒व्यवः॒ समभ॑क्त॒ विप्रः॑ सुम॒तिं न॒दीनां॑ । प्र पि॑न्वध्वमि॒षयं॑तीः सु॒राधा॒ आ व॒क्षणाः॑ पृ॒णध्वं॑ या॒त शीभं॑ ॥
अता॑रिषुः , भ॒र॒ताः , ग॒व्यवः॑ , सं , अभ॑क्त , विप्रः॑ , सु॒ऽम॒तिं , न॒दीनां॑ । प्र , पि॒न्व॒ध्वं॒ , इ॒षयं॑तीः , सु॒ऽराधाः॑ , आ , व॒क्षणाः॑ , पृ॒णध्वं॑ , या॒त , शीभं॑ ॥
उद्व॑ ऊ॒र्मिः शम्या॑ हं॒त्वापो॒ योक्त्रा॑णि मुंचत । मादु॑ष्कृतौ॒ व्ये॑नसा॒घ्न्यौ शून॒मार॑तां ॥
उत् , वः॒ , ऊ॒र्मिः , शम्याः॑ , हं॒तु॒ , आपः॑ , योक्त्रा॑णि , मुं॒च॒त॒ । मा , अदुः॑ऽकृतौ , विऽए॑नसा , अ॒घ्न्यौ , शूनं॑ , आ , अ॒र॒तां॒ ॥
[३४] इंद्रःपूर्भिरित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इंद्रः॑ पू॒र्भिदाति॑र॒द्दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् । ब्रह्म॑जूतस्त॒न्वा॑ वावृधा॒नो भूरि॑दात्र॒ आपृ॑ण॒द्रोद॑सी उ॒भे ॥
इंद्रः॑ , पूः॒ऽभित् , आ , अ॒ति॒र॒त् , दासं॑ , अ॒र्कैः , वि॒दत्ऽव॑सुः , दय॑मानः , वि , शत्रू॑न् । ब्रह्म॑ऽजूतः , त॒न्वा॑ , व॒वृ॒धा॒नः , भूरि॑ऽदात्रः , आ , अ॒पृ॒ण॒त् , रोद॑सी॒ इति॑ , उ॒भे इति॑ ॥
म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय॑र्मि॒ वाच॑म॒मृता॑य॒ भूष॑न् । इंद्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी॑नामु॒त पू॑र्व॒यावा॑ ॥
म॒खस्य॑ , ते॒ , त॒वि॒षस्य॑ , प्र , जू॒तिं , इय॑र्मि , वाचं॑ , अ॒मृता॑य , भूष॑न् । इंद्र॑ , क्षि॒ती॒नां , अ॒सि॒ , मानु॑षीणां , वि॒शां , दैवी॑नां , उ॒त , पू॒र्व॒ऽयावा॑ ॥
इंद्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः । अह॒न्व्यं॑समु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणां॑ ॥
इंद्रः॑ , वृ॒त्रं , अ॒वृ॒णो॒त् , शर्ध॑ऽनीतिः , प्र , मा॒यिनां॑ , अ॒मि॒ना॒त् , वर्प॑ऽनीतिः । अह॑न् , विऽअं॑सं , उ॒शध॑क् , वने॑षु , आ॒विः , धेनाः॑ , अ॒कृ॒णो॒त् , रा॒म्याणां॑ ॥
इंद्रः॑ स्व॒र्षा ज॒नय॒न्नहा॑नि जि॒गायो॒शिग्भिः॒ पृत॑ना अभि॒ष्टिः । प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॒मविं॑द॒ज्ज्योति॑र्बृह॒ते रणा॑य ॥
इंद्रः॑ , स्वः॒ऽसाः , ज॒नय॑न् , अहा॑नि , जि॒गाय॑ , उ॒शिक्ऽभिः॑ , पृत॑नाः , अ॒भि॒ष्टिः । प्र , अ॒रो॒च॒य॒त् , मन॑वे , के॒तुं , अह्नां॑ , अविं॑दत् , ज्योतिः॑ , बृ॒ह॒ते , रणा॑य ॥
इंद्र॒स्तुजो॑ ब॒र्हणा॒ आ वि॑वेश नृ॒वद्दधा॑नो॒ नर्या॑ पु॒रूणि॑ । अचे॑तय॒द्धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा॑सां ॥
इंद्रः॑ , तुजः॑ , ब॒र्हणाः॑ , आ , वि॒वे॒श॒ , नृ॒ऽवत् , दधा॑नः , नर्या॑ , पु॒रूणि॑ । अचे॑तयत् , धियः॑ , इ॒माः , ज॒रि॒त्रे , प्र , इ॒मं , वर्णं॑ , अ॒ति॒र॒त् , शु॒क्रं , आ॒सां॒ ॥
म॒हो म॒हानि॑ पनयंत्य॒स्येंद्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ । वृ॒जने॑न वृजि॒नांत्सं पि॑पेष मा॒याभि॒र्दस्यूँ॑र॒भिभू॑त्योजाः ॥
म॒हः , म॒हानि॑ , प॒न॒यं॒ति॒ , अ॒स्य॒ , इंद्र॑स्य , कर्म॑ , सुऽकृ॑ता , पु॒रूणि॑ । वृ॒जने॑न , वृ॒जि॒नान् , सं , पि॒पे॒ष॒ , मा॒याभिः॑ , दस्यू॑न् , अ॒भिभू॑तिऽओजाः ॥
यु॒धेंद्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः । वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणंति ॥
यु॒धा , इंद्रः॑ , म॒ह्ना , वरि॑वः , च॒का॒र॒ , दे॒वेभ्यः॑ , सत्ऽप॑तिः , च॒र्ष॒णि॒ऽप्राः । वि॒वस्व॑तः , सद॑ने , अ॒स्य॒ , तानि॑ , विप्राः॑ , उ॒क्थेभिः॑ , क॒वयः॑ , गृ॒णं॒ति॒ ॥
स॒त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः । स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिंद्रं॑ मदं॒त्यनु॒ धीर॑णासः ॥
स॒त्रा॒ऽसहं॑ , वरे॑ण्यं , स॒हः॒ऽदां , स॒स॒वांसं॑ , स्वः॑ , अ॒पः , च॒ , दे॒वीः । स॒सान॑ , यः , पृ॒थि॒वीं , द्यां , उ॒त , इ॒मां , इंद्रं॑ , म॒दं॒ति॒ , अनु॑ , धीऽर॑णासः ॥
स॒सानात्याँ॑ उ॒त सूर्यं॑ ससा॒नेंद्रः॑ ससान पुरु॒भोज॑सं॒ गां । हि॒र॒ण्यय॑मु॒त भोगं॑ ससान ह॒त्वी दस्यू॒न्प्रार्यं॒ वर्ण॑मावत् ॥
स॒सान॑ , अत्या॑न् , उ॒त , सूर्यं॑ , स॒सा॒न॒ , इंद्रः॑ , स॒सा॒न॒ , पु॒रु॒ऽभोज॑सं , गां । हि॒र॒ण्ययं॑ , उ॒त , भोगं॑ , स॒सा॒न॒ , ह॒त्वी , दस्यू॑न् , प्र , आर्यं॑ , वर्णं॑ , आ॒व॒त् ॥
इंद्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोदं॒तरि॑क्षं । बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चोऽथा॑भवद्दमि॒ताभिक्र॑तूनां ॥
इंद्रः॑ , ओष॑धीः , अ॒स॒नो॒त् , अहा॑नि , वन॒स्पती॑न् , अ॒स॒नो॒त् , अं॒तरि॑क्षं । बि॒भेद॑ , व॒लं , नु॒नु॒दे , विऽवा॑चः , अथ॑ , अ॒भ॒व॒त् , द॒मि॒ता , अ॒भिऽक्र॑तूनां ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥
शु॒नं , हु॒वे॒म॒ , म॒घऽवा॑नं , इंद्रं॑ , अ॒स्मिन् , भरे॑ , नृऽत॑मं , वाज॑ऽसातौ । शृ॒ण्वंतं॑ , उ॒ग्रं , ऊ॒तये॑ , स॒मत्ऽसु॑ , घ्नंतं॑ , वृ॒त्राणि॑ , सं॒ऽजितं॑ , धना॑नां ॥
[३५] तिष्ठाहरीइत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ । पिबा॒स्यंधो॑ अ॒भिसृ॑ष्टो अ॒स्मे इंद्र॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य ॥
तिष्ठ॑ , हरी॒ इति॑ , रथे॑ , आ , यु॒ज्यमा॑ना , या॒हि , वा॒युः , न , नि॒ऽयुतः॑ , नः॒ , अच्छ॑ । पिबा॑सि , अंधः॑ , अ॒भिऽसृ॑ष्टः , अ॒स्मे इति॑ , इंद्र॑ , स्वाहा॑ , र॒रि॒म , ते॒ , मदा॑य ॥
उपा॑जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि । द्र॒वद्यथा॒ संभृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इंद्रं॑ ॥
उप॑ , अ॒जि॒रा , पु॒रु॒ऽहू॒ताय॑ , सप्ती॒ इति॑ , हरी॒ इति॑ , रथ॑स्य , धूः॒ऽसु , आ , यु॒न॒ज्मि॒ । द्र॒वत् , यथा॑ , संऽभृ॑तं , वि॒श्वतः॑ , चि॒त् , उप॑ , इ॒मं , य॒ज्ञं , आ , व॒हा॒तः॒ , इंद्रं॑ ॥
उपो॑ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः । ग्रसे॑ता॒मश्वा॒ वि मु॑चे॒ह शोणा॑ दि॒वेदि॑वे स॒दृशी॑रद्धि धा॒नाः ॥
उपो॒ इति॑ , न॒य॒स्व॒ , वृष॑णा , त॒पुः॒ऽपा , उ॒त , ईं॒ , अ॒व॒ , त्वं , वृ॒ष॒भ॒ , स्व॒धा॒ऽवः॒ । ग्रसे॑तां , अश्वा॑ , वि , मु॒च॒ , इ॒ह , शोणा॑ , दि॒वेऽदि॑वे , स॒ऽदृशीः॑ , अ॒द्धि॒ , धा॒नाः ॥
ब्रह्म॑णा ते ब्रह्म॒युजा॑ युनज्मि॒ हरी॒ सखा॑या सध॒माद॑ आ॒शू । स्थि॒रं रथं॑ सु॒खमिं॑द्राधि॒तिष्ठ॑न्प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोमं॑ ॥
ब्रह्म॑णा , ते॒ , ब्र॒ह्म॒ऽयुजा॑ , यु॒न॒ज्मि॒ , हरी॒ इति॑ , सखा॑या , स॒ध॒ऽमादे॑ , आ॒शू इति॑ । स्थि॒रं , रथं॑ , सु॒ऽखं , इं॒द्र॒ , अ॒धि॒ऽतिष्ठ॑न् , प्र॒ऽजा॒नन् , वि॒द्वान् , उप॑ , या॒हि॒ , सोमं॑ ॥
मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये । अ॒त्याया॑हि॒ शश्व॑तो व॒यं तेऽरं॑ सु॒तेभिः॑ कृणवाम॒ सोमैः॑ ॥
मा , ते॒ , हरी॒ इति॑ , वृष॑णा , वी॒तऽपृ॑ष्ठा , नि , री॒र॒म॒न् , यज॑मानासः , अ॒न्ये । अ॒ति॒ऽआया॑हि , शश्व॑तः , व॒यं , ते॒ , अरं॑ , सु॒तेभिः॑ , कृ॒ण॒वा॒म॒ , सोमैः॑ ॥
तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ्छ॑श्वत्त॒मं सु॒मना॑ अ॒स्य पा॑हि । अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इंदु॑मिंद्र ॥
तव॑ , अ॒यं , सोमः॑ , त्वं , आ , इ॒हि॒ , अ॒र्वाङ् , श॒श्व॒त्ऽत॒मं , सु॒ऽमनाः॑ , अ॒स्य , पा॒हि॒ । अ॒स्मिन् , य॒ज्ञे , ब॒र्हिषि॑ , आ , नि॒ऽसद्य॑ , द॒धि॒ष्व , इ॒मं , ज॒ठरे॑ , इंदुं॑ , इं॒द्र॒ ॥
स्ती॒र्णं ते॑ ब॒र्हिः सु॒त इं॑द्र॒ सोमः॑ कृ॒ता धा॒ना अत्त॑वे ते॒ हरि॑भ्यां । तदो॑कसे पुरु॒शाका॑य॒ वृष्णे॑ म॒रुत्व॑ते॒ तुभ्यं॑ रा॒ता ह॒वींषि॑ ॥
स्ती॒र्णं , ते॒ , ब॒र्हिः , सु॒तः , इं॒द्र॒ , सोमः॑ , कृ॒ताः , धा॒नाः , अत्त॑वे , ते॒ , हरि॑ऽभ्यां । तत्ऽओ॑कसे , पु॒रु॒ऽशाका॑य , वृष्णे॑ , म॒रुत्व॑ते , तुभ्यं॑ , रा॒ता , ह॒वींषि॑ ॥
इ॒मं नरः॒ पर्व॑ता॒स्तुभ्य॒मापः॒ समिं॑द्र॒ गोभि॒र्मधु॑मंतमक्रन् । तस्या॒गत्या॑ सु॒मना॑ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॒॑ अनु॒ स्वाः ॥
इ॒मं , नरः॑ , पर्व॑ताः , तुभ्यं॑ , आपः॑ , सं , इं॒द्र॒ , गोभिः॑ , मधु॑ऽमंतं , अ॒क्र॒न् । तस्य॑ , आ॒ऽगत्य॑ , सु॒ऽमनाः॑ , ऋ॒ष्व॒ , पा॒हि॒ , प्र॒ऽजा॒नन् , वि॒द्वान् , प॒थ्याः॑ , अनु॑ , स्वाः ॥
याँ आभ॑जो म॒रुत॑ इंद्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते॑ । तेभि॑रे॒तं स॒जोषा॑ वावशा॒नो॒३॒॑ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिंद्र ॥
यान् , आ , अभ॑जः , म॒रुतः॑ , इं॒द्र॒ , सोमे॑ , ये , त्वां , अव॑र्धन् , अभ॑वन् , ग॒णः , ते॒ । तेभिः॑ , ए॒तं , स॒ऽजोषाः॑ , वा॒व॒शा॒नः , अ॒ग्नेः , पि॒ब॒ , जि॒ह्वया॑ , सोमं॑ , इं॒द्र॒ ॥
इंद्र॒ पिब॑ स्व॒धया॑ चित्सु॒तस्या॒ग्नेर्वा॑ पाहि जि॒ह्वया॑ यजत्र । अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु॑र्वा य॒ज्ञं ह॒विषो॑ जुषस्व ॥
इंद्र॑ , पिब॑ , स्व॒धया॑ , चि॒त् , सु॒तस्य॑ , अ॒ग्नेः , वा॒ , पा॒हि॒ , जि॒ह्वया॑ , य॒ज॒त्र॒ । अ॒ध्व॒र्योः , वा॒ , प्रऽय॑तं , श॒क्र॒ , हस्ता॑त् , होतुः॑ , वा॒ , य॒ज्ञं , ह॒विषः॑ , जु॒ष॒स्व॒ ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥
शु॒नं , हु॒वे॒म॒ , म॒घऽवा॑नं , इंद्रं॑ , अ॒स्मिन् , भरे॑ , नृऽत॑मं , वाज॑ऽसातौ । शृ॒ण्वंतं॑ , उ॒ग्रं , ऊ॒तये॑ , स॒मत्ऽसु॑ , घ्नंतं॑ , वृ॒त्राणि॑ , सं॒ऽजितं॑ , धना॑नां ॥
[३६] इमामूष्वित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोदशम्याआंगिरसोघोरइंद्रस्त्रिष्टुप् |
इ॒मामू॒ षु प्रभृ॑तिं सा॒तये॑ धाः॒ शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः । सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्म॒हद्भिः॒ सुश्रु॑तो॒ भूत् ॥
इ॒मां , ऊँ॒ इति॑ , सु , प्रऽभृ॑तिं , सा॒तये॑ , धाः॒ , शश्व॑त्ऽशश्वत् , ऊ॒तिऽभिः॑ , याद॑मानः । सु॒तेऽसु॑ते , व॒वृ॒धे॒ , वर्ध॑नेभिः , यः , कर्म॑ऽभिः , म॒हत्ऽभिः॑ , सुऽश्रु॑तः , भूत् ॥
इंद्रा॑य॒ सोमाः॑ प्र॒दिवो॒ विदा॑ना ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः । प्र॒य॒म्यमा॑ना॒न्प्रति॒ षू गृ॑भा॒येंद्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ॥
इंद्रा॑य , सोमाः॑ , प्र॒ऽदिवः॑ , विदा॑नाः , ऋ॒भुः , येभिः॑ , वृष॑ऽपर्वा , विऽहा॑याः । प्र॒ऽय॒म्यमा॑नान् , प्रति॑ , सु , गृ॒भा॒य॒ , इंद्र॑ , पिब॑ , वृष॑ऽधूतस्य , वृष्णः॑ ॥
पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इंद्र॒ सोमा॑सः प्रथ॒मा उ॒तेमे । यथापि॑बः पू॒र्व्याँ इं॑द्र॒ सोमाँ॑ ए॒वा पा॑हि॒ पन्यो॑ अ॒द्या नवी॑यान् ॥
पिब॑ , वर्ध॑स्व , तव॑ , घ॒ , सु॒तासः॑ , इंद्र॑ , सोमा॑सः , प्र॒थ॒माः , उ॒त , इ॒मे । यथा॑ , अपि॑बः , पू॒र्व्यान् , इं॒द्र॒ , सोमा॑न् , ए॒व , पा॒हि॒ , पन्यः॑ , अ॒द्य , नवी॑यान् ॥
म॒हाँ अम॑त्रो वृ॒जने॑ विर॒प्श्यु१॒॑ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ । नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा॑सो॒ हर्य॑श्व॒ममं॑दन् ॥
म॒हान् , अम॑त्रः , वृ॒जने॑ , वि॒ऽर॒प्शी , उ॒ग्रं , शवः॑ , प॒त्य॒ते॒ , धृ॒ष्णु , ओजः॑ । न , अह॑ , वि॒व्या॒च॒ , पृ॒थि॒वी , च॒न , ए॒नं॒ , यत् , सोमा॑सः , हरि॑ऽअश्वं , अमं॑दन् ॥
म॒हाँ उ॒ग्रो वा॑वृधे वी॒र्या॑य स॒माच॑क्रे वृष॒भः काव्ये॑न । इंद्रो॒ भगो॑ वाज॒दा अ॑स्य॒ गावः॒ प्र जा॑यंते॒ दक्षि॑णा अस्य पू॒र्वीः ॥
म॒हान् , उ॒ग्रः , व॒वृ॒धे॒ , वी॒र्या॑य , सं॒ऽआच॑क्रे , वृ॒ष॒भः , काव्ये॑न । इंद्रः॑ , भगः॑ , वा॒ज॒ऽदाः , अ॒स्य॒ , गावः॑ , प्र , जा॒यं॒ते॒ , दक्षि॑णाः , अ॒स्य॒ , पू॒र्वीः ॥
प्र यत्सिंध॑वः प्रस॒वं यथाय॒न्नापः॑ समु॒द्रं र॒थ्ये॑व जग्मुः । अत॑श्चि॒दिंद्रः॒ सद॑सो॒ वरी॑या॒न्यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो अं॒शुः ॥
प्र , यत् , सिंध॑वः , प्र॒ऽस॒वं , यथा॑ , आय॑न् , आपः॑ , स॒मु॒द्रं , र॒थ्या॑ऽइव , ज॒ग्मुः॒ । अतः॑ , चि॒त् , इंद्रः॑ , सद॑सः , वरी॑यान् , यत् , ईं॒ , सोमः॑ , पृ॒णति॑ , दु॒ग्धः , अं॒शुः ॥
स॒मु॒द्रेण॒ सिंध॑वो॒ याद॑माना॒ इंद्रा॑य॒ सोमं॒ सुषु॑तं॒ भरं॑तः । अं॒शुं दु॑हंति ह॒स्तिनो॑ भ॒रित्रै॒र्मध्वः॑ पुनंति॒ धार॑या प॒वित्रैः॑ ॥
स॒मु॒द्रेण॑ , सिंध॑वः , याद॑मानाः , इंद्रा॑य , सोमं॑ , सुऽसु॑तं , भरं॑तः । अं॒शुं , दु॒हं॒ति॒ , ह॒स्तिनः॑ , भ॒रित्रैः॑ , मध्वः॑ , पु॒नं॒ति॒ , धार॑या , प॒वित्रैः॑ ॥
ह्र॒दा इ॑व कु॒क्षयः॑ सोम॒धानाः॒ समी॑ विव्याच॒ सव॑ना पु॒रूणि॑ । अन्ना॒ यदिंद्रः॑ प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोमं॑ ॥
ह्र॒दाःऽइ॑व , कु॒क्षयः॑ , सो॒म॒ऽधानाः॑ , सं , ई॒मिति॑ , वि॒व्या॒च॒ , सव॑ना , पु॒रूणि॑ । अन्ना॑ , यत् , इंद्रः॑ , प्र॒थ॒मा , वि , आश॑ , वृ॒त्रं , ज॒घ॒न्वान् , अ॒वृ॒णी॒त॒ , सोमं॑ ॥
आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नां । इंद्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्र यं॑धि ॥
आ , तु , भ॒र॒ , माकिः॑ , ए॒तत् , परि॑ , स्था॒त् , वि॒द्म , हि , त्वा॒ , वसु॑ऽपतिं , वसू॑नां । इंद्र॑ , यत् , ते॒ , माहि॑नं , दत्रं॑ , अस्ति॑ , अ॒स्मभ्यं॑ , तत् , ह॒रि॒ऽअ॒श्व॒ , प्र , यं॒धि॒ ॥
अ॒स्मे प्र यं॑धि मघवन्नृजीषि॒न्निंद्र॑ रा॒यो वि॒श्ववा॑रस्य॒ भूरेः॑ । अ॒स्मे श॒तं श॒रदो॑ जी॒वसे॑ धा अ॒स्मे वी॒रांछश्व॑त इंद्र शिप्रिन् ॥
अ॒स्मे इति॑ , प्र , यं॒धि॒ , म॒घ॒ऽव॒न् , ऋ॒जी॒षि॒न् , इंद्र॑ , रा॒यः , वि॒श्वऽवा॑रस्य , भूरेः॑ । अ॒स्मे इति॑ , श॒तं , श॒रदः॑ , जी॒वसे॑ , धाः॒ , अ॒स्मे इति॑ , वी॒रान् , शश्व॑तः , इं॒द्र॒ , शि॒प्रि॒न् ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥
शु॒नं , हु॒वे॒म॒ , म॒घऽवा॑नं , इंद्रं॑ , अ॒स्मिन् , भरे॑ , नृऽत॑मं , वाज॑ऽसातौ । शृ॒ण्वंतं॑ , उ॒ग्रं , ऊ॒तये॑ , स॒मत्ऽसु॑ , घ्नंतं॑ , वृ॒त्राणि॑ , सं॒ऽजितं॑ , धना॑नां ॥
[३७] वार्त्रहत्यायेत्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री अंत्यानुष्टुप् |
वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च । इंद्र॒ त्वा व॑र्तयामसि ॥
वार्त्र॑ऽहत्याय , शव॑से , पृ॒त॒ना॒ऽसह्या॑य , च॒ । इंद्र॑ , त्वा॒ , आ , व॒र्त॒या॒म॒सि॒ ॥
अ॒र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो । इंद्र॑ कृ॒ण्वंतु॑ वा॒घतः॑ ॥
अ॒र्वा॒चीनं॑ , सु , ते॒ , मनः॑ , उ॒त , चक्षुः॑ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इंद्र॑ , कृ॒ण्वंतु॑ , वा॒घतः॑ ॥
नामा॑नि ते शतक्रतो॒ विश्वा॑भिर्गी॒र्भिरी॑महे । इंद्रा॑भिमाति॒षाह्ये॑ ॥
नामा॑नि , ते॒ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , विश्वा॑भिः , गीः॒ऽभिः , ई॒म॒हे॒ । इंद्र॑ , अ॒भि॒मा॒ति॒ऽसह्ये॑ ॥
पु॒रु॒ष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि । इंद्र॑स्य चर्षणी॒धृतः॑ ॥
पु॒रु॒ऽस्तु॒तस्य॑ , धाम॑ऽभिः , श॒तेन॑ , म॒ह॒या॒म॒सि॒ । इंद्र॑स्य , च॒र्ष॒णि॒ऽधृतः॑ ॥
इंद्रं॑ वृ॒त्राय॒ हंत॑वे पुरुहू॒तमुप॑ ब्रुवे । भरे॑षु॒ वाज॑सातये ॥
इंद्रं॑ , वृ॒त्राय॑ , हंत॑वे , पु॒रु॒ऽहू॒तं , उप॑ , ब्रु॒वे॒ । भरे॑षु , वाज॑ऽसातये ॥
वाजे॑षु सास॒हिर्भ॑व॒ त्वामी॑महे शतक्रतो । इंद्र॑ वृ॒त्राय॒ हंत॑वे ॥
वाजे॑षु , स॒स॒हिः , भ॒व॒ , त्वां , ई॒म॒हे॒ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इंद्र॑ , वृ॒त्राय॑ , हंत॑वे ॥
द्यु॒म्नेषु॑ पृत॒नाज्ये॑ पृत्सु॒तूर्षु॒ श्रवः॑सु च । इंद्र॒ साक्ष्वा॒भिमा॑तिषु ॥
द्यु॒म्नेषु॑ , पृ॒त॒नाज्ये॑ , पृ॒त्सु॒तूर्षु॑ , श्रवः॑ऽसु , च॒ । इंद्र॑ , साक्ष्व॑ , अ॒भिऽमा॑तिषु ॥
शु॒ष्मिंत॑मं न ऊ॒तये॑ द्यु॒म्निनं॑ पाहि॒ जागृ॑विं । इंद्र॒ सोमं॑ शतक्रतो ॥
शु॒ष्मिन्ऽत॑मं , नः॒ , ऊ॒तये॑ , द्यु॒म्निनं॑ , पा॒हि॒ , जागृ॑विं । इंद्र॑ , सोमं॑ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥
इं॒द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु पं॒चसु॑ । इंद्र॒ तानि॑ त॒ आ वृ॑णे ॥
इं॒द्रि॒याणि॑ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , या , ते॒ , जने॑षु , पं॒चऽसु॑ । इंद्र॑ , तानि॑ , ते॒ , आ , वृ॒णे॒ ॥
अग॑न्निंद्र॒ श्रवो॑ बृ॒हद्द्यु॒म्नं द॑धिष्व दु॒ष्टरं॑ । उत्ते॒ शुष्मं॑ तिरामसि ॥
अग॑न् , इं॒द्र॒ , श्रवः॑ , बृ॒हत् , द्यु॒म्नं , द॒धि॒ष्व॒ , दु॒स्तरं॑ । उत् , ते॒ , शुष्मं॑ , ति॒रा॒म॒सि॒ ॥
अ॒र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वतः॑ । उ॒ लो॒को यस्ते॑ अद्रिव॒ इंद्रे॒ह तत॒ आ ग॑हि ॥
अ॒र्वा॒ऽवतः॑ , नः॒ , आ , ग॒हि॒ , अथो॒ इति॑ , श॒क्र॒ , प॒रा॒ऽवतः॑ । ऊँ॒ इति॑ , लो॒कः , यः , ते॒ , अ॒द्रि॒ऽवः॒ , इंद्र॑ , इ॒ह , ततः॑ , आ , ग॒हि॒ ॥
[३८] अभितष्ठेवेति दशर्चस्य सूक्तस्य वैश्वामित्रः प्रजापतिरिंद्रस्त्रिष्टुप् (वाच्यः प्रजापतिर्वा विश्वामित्रोवा) |
अ॒भि तष्टे॑व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा॑नः । अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा॑णि क॒वीँरि॑च्छामि सं॒दृशे॑ सुमे॒धाः ॥
अ॒भि , तष्टा॑ऽइव , दी॒ध॒य॒ , म॒नी॒षां , अत्यः॑ , न , वा॒जी , सु॒ऽधुरः॑ , जिहा॑नः । अ॒भि , प्रि॒याणि॑ , मर्मृ॑शत् , परा॑णि , क॒वीन् , इ॒च्छा॒मि॒ , सं॒ऽदृशे॑ , सु॒ऽमे॒धाः ॥
इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्यां । इ॒मा उ॑ ते प्र॒ण्यो॒३॒॑ वर्ध॑माना॒ मनो॑वाता॒ अध॒ नु धर्म॑णि ग्मन् ॥
इ॒ना , उ॒त , पृ॒च्छ॒ , जनि॑म , क॒वी॒नां , म॒नः॒ऽधृतः॑ , सु॒ऽकृतः॑ , त॒क्ष॒त॒ , द्यां । इ॒माः , ऊँ॒ इति॑ , ते॒ , प्र॒ऽन्यः॑ , वर्ध॑मानाः , मनः॑ऽवाताः , अध॑ , नु , धर्म॑णि , ग्म॒न् ॥
नि षी॒मिदत्र॒ गुह्या॒ दधा॑ना उ॒त क्ष॒त्राय॒ रोद॑सी॒ समं॑जन् । सं मात्रा॑भिर्ममि॒रे ये॒मुरु॒र्वी अं॒तर्म॒ही समृ॑ते॒ धाय॑से धुः ॥
नि , सीं॒ , इत् , अत्र॑ , गुह्या॑ , दधा॑नाः , उ॒त , क्ष॒त्राय॑ , रोद॑सी॒ इति॑ , सं , अं॒ज॒न् । सं , मात्रा॑भिः , म॒मि॒रे , ये॒मुः , उ॒र्वी इति॑ , अं॒तः , म॒ही इति॑ , समृ॑ते॒ इति॒ संऽऋ॑ते , धाय॑से , धु॒रिति॑ धुः ॥
आ॒तिष्ठं॑तं॒ परि॒ विश्वे॑ अभूषं॒छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः । म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥
आ॒ऽतिष्ठं॑तं , परि॑ , विश्वे॑ , अ॒भू॒ष॒न् , श्रियः॑ , वसा॑नः , च॒र॒ति॒ , स्वऽरो॑चिः । म॒हत् , तत् , वृष्णः॑ , असु॑रस्य , नाम॑ , आ , वि॒श्वऽरू॑पः , अ॒मृता॑नि , त॒स्थौ॒ ॥
असू॑त॒ पूर्वो॑ वृष॒भो ज्याया॑नि॒मा अ॑स्य शु॒रुधः॑ संति पू॒र्वीः । दिवो॑ नपाता वि॒दथ॑स्य धी॒भिः क्ष॒त्रं रा॑जाना प्र॒दिवो॑ दधाथे ॥
असू॑त , पूर्वः॑ , वृ॒ष॒भः , ज्याया॑न् , इ॒माः , अ॒स्य॒ , शु॒रुधः॑ , सं॒ति॒ , पू॒र्वीः । दिवः॑ , न॒पा॒ता॒ , वि॒दथ॑स्य , धी॒भिः , क्ष॒त्रं , रा॒जा॒ना॒ , प्र॒ऽदिवः॑ , द॒धा॒थे॒ इति॑ ॥
त्रीणि॑ राजाना वि॒दथे॑ पु॒रूणि॒ परि॒ विश्वा॑नि भूषथः॒ सदां॑सि । अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्व्र॒ते गं॑ध॒र्वाँ अपि॑ वा॒युके॑शान् ॥
त्रीणि॑ , रा॒जा॒ना॒ , वि॒दथे॑ , पु॒रूणि॑ , परि॑ , विश्वा॑नि , भू॒ष॒थः॒ , सदां॑सि । अप॑श्यं , अत्र॑ , मन॑सा , ज॒ग॒न्वान् , व्र॒ते , गं॒ध॒र्वान् , अपि॑ , वा॒युऽके॑शान् ॥
तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः । अ॒न्यद॑न्यदसु॒र्यं१॒॑ वसा॑ना॒ नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन् ॥
तत् , इत् , नु , अ॒स्य॒ , वृ॒ष॒भस्य॑ , धे॒नोः , आ , नाम॑ऽभिः , म॒मि॒रे॒ , सक्म्यं॑ , गोः । अ॒न्यत्ऽअ॑न्यत् , अ॒सु॒र्यं॑ , वसा॑नाः , नि , मा॒यिनः॑ , म॒मि॒रे॒ , रू॒पं , अ॒स्मि॒न् ॥
तदिन्न्व॑स्य सवि॒तुर्नकि॑र्मे हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् । आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे अपी॑व॒ योषा॒ जनि॑मानि वव्रे ॥
तत् , इत् , नु , अ॒स्य॒ , स॒वि॒तुः , नकिः॑ , मे॒ , हि॒र॒ण्ययीं॑ , अ॒मतिं॑ , यां , अशि॑श्रेत् । आ , सु॒ऽस्तु॒ती , रोद॑सी॒ इति॑ , वि॒श्व॒मि॒न्वे इति॑ वि॒श्वं॒ऽइ॒न्वे , अपि॑ऽइव , योषा॑ , जनि॑मानि , व॒व्रे॒ ॥
यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी॑ स्व॒स्तिः परि॑ णः स्यातं । गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा॒ विश्वे॑ पश्यंति मा॒यिनः॑ कृ॒तानि॑ ॥
यु॒वं , प्र॒त्नस्य॑ , सा॒ध॒थः॒ , म॒हः , यत् , दैवी॑ , स्व॒स्तिः , परि॑ , नः॒ , स्या॒तं॒ । गो॒पाजि॑ह्वस्य , त॒स्थुषः॑ , विऽरू॑पा , विश्वे॑ , प॒श्यं॒ति॒ , मा॒यिनः॑ , कृ॒तानि॑ ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥
शु॒नं , हु॒वे॒म॒ , म॒घऽवा॑नं , इंद्रं॑ , अ॒स्मिन् , भरे॑ , नृऽत॑मं , वाज॑ऽसातौ । शृ॒ण्वंतं॑ , उ॒ग्रं , ऊ॒तये॑ , स॒मत्ऽसु॑ , घ्नंतं॑ , वृ॒त्राणि॑ , सं॒ऽजितं॑ , धना॑नां ॥
[३९] इंद्रंमतिरिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इंद्रं॑ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति । या जागृ॑विर्वि॒दथे॑ श॒स्यमा॒नेंद्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ॥
इंद्रं॑ , म॒तिः , हृ॒दः , आ , व॒च्यमा॑ना , अच्छ॑ , पतिं॑ , स्तोम॑ऽतष्टा , जि॒गा॒ति॒ । या , जागृ॑विः , वि॒दथे॑ , श॒स्यमा॑ना , इंद्र॑ , यत् , ते॒ , जाय॑ते , वि॒द्धि , तस्य॑ ॥
दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे॑ श॒स्यमा॑ना । भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा॑ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ॥
दि॒वः , चि॒त् , आ , पू॒र्व्या , जाय॑माना , वि , जागृ॑विः , वि॒दथे॑ , श॒स्यमा॑ना । भ॒द्रा , वस्त्रा॑णि , अर्जु॑ना , वसा॑ना , सा , इ॒यं , अ॒स्मे इति॑ , स॒न॒ऽजा , पित्र्या॑ , धीः ॥
य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒ अग्रं॒ पत॒दा ह्यस्था॑त् । वपूं॑षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता॑ ॥
य॒मा , चि॒त् , अत्र॑ , य॒म॒ऽसूः , अ॒सू॒त॒ , जि॒ह्वायाः॑ , अग्रं॑ , पत॑त् , आ , हि , अस्था॑त् । वपूं॑षि , जा॒ता , मि॒थु॒ना , स॒चे॒ते॒ इति॑ , त॒मः॒ऽहना॑ , तपु॑षः , बु॒ध्ने , आऽइ॑ता ॥
नकि॑रेषां निंदि॒ता मर्त्ये॑षु॒ ये अ॒स्माकं॑ पि॒तरो॒ गोषु॑ यो॒धाः । इंद्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद्गो॒त्राणि॑ ससृजे दं॒सना॑वान् ॥
नकिः॑ , ए॒षां॒ , निं॒दि॒ता , मर्त्ये॑षु , ये , अ॒स्माकं॑ , पि॒तरः॑ , गोषु॑ , यो॒धाः । इंद्रः॑ , ए॒षां॒ , दृं॒हि॒ता , माहि॑नऽवान् , उत् , गो॒त्राणि॑ , स॒सृ॒जे॒ , दं॒सना॑ऽवान् ॥
सखा॑ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा अ॑नु॒ग्मन् । स॒त्यं तदिंद्रो॑ द॒शभि॒र्दश॑ग्वैः॒ सूर्यं॑ विवेद॒ तम॑सि क्षि॒यंतं॑ ॥
सखा॑ , ह॒ , यत्र॑ , सखि॑ऽभिः , नव॑ऽग्वैः , अ॒भि॒ऽज्ञु , आ , सत्व॑ऽभिः , गाः , अ॒नु॒ऽग्मन् । स॒त्यं , तत् , इंद्रः॑ , द॒शऽभिः॑ , दश॑ऽग्वैः , सूर्यं॑ , वि॒वे॒द॒ , तम॑सि , क्षि॒यंतं॑ ॥
इंद्रो॒ मधु॒ संभृ॑तमु॒स्रिया॑यां प॒द्वद्वि॑वेद श॒फव॒न्नमे॒ गोः । गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु हस्ते॑ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ॥
इंद्रः॑ , मधु॑ , संऽभृ॑तं , उ॒स्रिया॑यां , प॒त्ऽवत् , वि॒वे॒द॒ , श॒फऽव॑त् , नमे॑ , गोः । गुहा॑ , हि॒तं , गुह्यं॑ , गू॒ळ्हं , अ॒प्ऽसु , हस्ते॑ , द॒धे॒ , दक्षि॑णे , दक्षि॑णऽवान् ॥
ज्योति॑र्वृणीत॒ तम॑सो विजा॒नन्ना॒रे स्या॑म दुरि॒ताद॒भीके॑ । इ॒मा गिरः॑ सोमपाः सोमवृद्ध जु॒षस्वें॑द्र पुरु॒तम॑स्य का॒रोः ॥
ज्योतिः॑ , वृ॒णी॒त॒ , तम॑सः , वि॒ऽजा॒नन् , आ॒रे , स्या॒म॒ , दुः॒ऽइ॒तात् , अ॒भीके॑ । इ॒माः , गिरः॑ , सो॒म॒ऽपाः॒ , सो॒म॒ऽवृ॒द्ध॒ , जु॒षस्व॑ , इं॒द्र॒ , पु॒रु॒ऽतम॑स्य , का॒रोः ॥
ज्योति॑र्य॒ज्ञाय॒ रोद॑सी॒ अनु॑ ष्यादा॒रे स्या॑म दुरि॒तस्य॒ भूरेः॑ । भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो॑ वसवो ब॒र्हणा॑वत् ॥
ज्योतिः॑ , य॒ज्ञाय॑ , रोद॑सी॒ इति॑ , अनु॑ , स्या॒त् , आ॒रे , स्या॒म॒ , दुः॒ऽइ॒तस्य॑ , भूरेः॑ । भूरि॑ , चि॒त् , हि , तु॒ज॒तः , मर्त्य॑स्य , सु॒ऽपा॒रासः॑ , व॒स॒वः॒ , ब॒र्हणा॑ऽवत् ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥
शु॒नं , हु॒वे॒म॒ , म॒घऽवा॑नं , इंद्रं॑ , अ॒स्मिन् , भरे॑ , नृऽत॑मं , वाज॑ऽसातौ । शृ॒ण्वंतं॑ , उ॒ग्रं , ऊ॒तये॑ , स॒मत्ऽसु॑ , घ्नंतं॑ , वृ॒त्राणि॑ , सं॒ऽजितं॑ , धना॑नां ॥
[४०] इंद्रत्वेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |
इंद्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे । स पा॑हि॒ मध्वो॒ अंध॑सः ॥
इंद्र॑ , त्वा॒ , वृ॒ष॒भं , व॒यं , सु॒ते , सोमे॑ , ह॒वा॒म॒हे॒ । सः , पा॒हि॒ , मध्वः॑ , अंध॑सः ॥
इंद्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत । पिबा वृ॑षस्व॒ तातृ॑पिं ॥
इंद्र॑ , क्र॒तु॒ऽविदं॑ , सु॒तं , सोमं॑ , ह॒र्य॒ , पु॒रु॒ऽस्तु॒त॒ । पिब॑ , आ , वृ॒ष॒स्व॒ , ततृ॑पिं ॥
इंद्र॒ प्र णो॑ धि॒तावा॑नं य॒ज्ञं विश्वे॑भिर्दे॒वेभिः॑ । ति॒र स्त॑वान विश्पते ॥
इंद्र॑ , प्र , नः॒ , धि॒तऽवा॑नं , य॒ज्ञं , विश्वे॑भिः , दे॒वेभिः॑ । ति॒र , स्त॒वा॒न॒ , वि॒श्प॒ते॒ ॥
इंद्र॒ सोमाः॑ सु॒ता इ॒मे तव॒ प्र यं॑ति सत्पते । क्षयं॑ चं॒द्रास॒ इंद॑वः ॥
इंद्र॑ , सोमाः॑ , सु॒ताः , इ॒मे , तव॑ , प्र , यं॒ति॒ , स॒त्ऽप॒ते॒ । क्षयं॑ , चं॒द्रासः॑ , इंद॑वः ॥
द॒धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिंद्र॒ वरे॑ण्यं । तव॑ द्यु॒क्षास॒ इंद॑वः ॥
द॒धि॒ष्व , ज॒ठरे॑ , सु॒तं , सोमं॑ , इं॒द्र॒ , वरे॑ण्यं । तव॑ , द्यु॒क्षासः॑ , इंद॑वः ॥
गिर्व॑णः पा॒हि नः॑ सु॒तं मधो॒र्धारा॑भिरज्यसे । इंद्र॒ त्वादा॑त॒मिद्यशः॑ ॥
गिर्व॑णः , पा॒हि , नः॒ , सु॒तं , मधोः॑ , धारा॑भिः , अ॒ज्य॒से॒ । इंद्र॑ , त्वाऽदा॑तं , इत् , यशः॑ ॥
अ॒भि द्यु॒म्नानि॑ व॒निन॒ इंद्रं॑ सचंते॒ अक्षि॑ता । पी॒त्वी सोम॑स्य वावृधे ॥
अ॒भि , द्यु॒म्नानि॑ , व॒निनः॑ , इंद्रं॑ , स॒चं॒ते॒ , अक्षि॑ता । पी॒त्वी , सोम॑स्य , व॒वृ॒धे॒ ॥
अ॒र्वा॒वतो॑ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् । इ॒मा जु॑षस्व नो॒ गिरः॑ ॥
अ॒र्वा॒ऽवतः॑ , नः॒ , आ , ग॒हि॒ , प॒रा॒ऽवतः॑ , च॒ , वृ॒त्र॒ऽह॒न् । इ॒माः , जु॒ष॒स्व॒ , नः॒ , गिरः॑ ॥
यदं॑त॒रा प॑रा॒वत॑मर्वा॒वतं॑ च हू॒यसे॑ । इंद्रे॒ह तत॒ आ ग॑हि ॥
यत् , अं॒त॒रा , प॒रा॒ऽवतं॑ , अ॒र्वा॒ऽवतं॑ , च॒ , हू॒यसे॑ । इंद्र॑ , इ॒ह , ततः॑ , आ , ग॒हि॒ ॥
[४१] आतूनइंद्रेति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोगायत्री |
आ तू न॑ इंद्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये । हरि॑भ्यां याह्यद्रिवः ॥
आ , तु , नः॒ , इं॒द्र॒ , म॒द्र्य॑क् , हु॒वा॒नः , सोम॑ऽपीतये । हरि॑ऽभ्यां , या॒हि॒ , अ॒द्रि॒ऽवः॒ ॥
स॒त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा॑नु॒षक् । अयु॑ज्रन्प्रा॒तरद्र॑यः ॥
स॒त्तः , होता॑ , नः॒ , ऋ॒त्वियः॑ , ति॒स्ति॒रे , ब॒र्हिः , आ॒नु॒षक् । अयु॑ज्रन् , प्रा॒तः , अद्र॑यः ॥
इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यंत॒ आ ब॒र्हिः सी॑द । वी॒हि शू॑र पुरो॒ळाशं॑ ॥
इ॒मा , ब्रह्म॑ , ब्र॒ह्म॒ऽवा॒हः॒ , क्रि॒यंते॑ , आ , ब॒र्हिः , सी॒द॒ । वी॒हि , शू॒र॒ , पु॒रो॒ळाशं॑ ॥
रा॒रं॒धि सव॑नेषु ण ए॒षु स्तोमे॑षु वृत्रहन् । उ॒क्थेष्विं॑द्र गिर्वणः ॥
र॒रं॒धि , सव॑नेषु , नः॒ , ए॒षु , स्तोमे॑षु , वृ॒त्र॒ऽह॒न् । उ॒क्थेषु॑ , इं॒द्र॒ , गि॒र्व॒णः॒ ॥
म॒तयः॑ सोम॒पामु॒रुं रि॒हंति॒ शव॑स॒स्पतिं॑ । इंद्रं॑ व॒त्सं न मा॒तरः॑ ॥
म॒तयः॑ , सो॒म॒ऽपां , उ॒रुं , रि॒हंति॑ , शव॑सः , पतिं॑ । इंद्रं॑ , व॒त्सं , न , मा॒तरः॑ ॥
स मं॑दस्वा॒ ह्यंध॑सो॒ राध॑से त॒न्वा॑ म॒हे । न स्तो॒तारं॑ नि॒दे क॑रः ॥
सः , मं॒द॒स्व॒ , हि , अंध॑सः , राध॑से , त॒न्वा॑ , म॒हे । न , स्तो॒तारं॑ , नि॒दे , क॒रः॒ ॥
व॒यमिं॑द्र त्वा॒यवो॑ ह॒विष्मं॑तो जरामहे । उ॒त त्वम॑स्म॒युर्व॑सो ॥
व॒यं , इं॒द्र॒ , त्वा॒ऽयवः॑ , ह॒विष्मं॑तः , ज॒रा॒म॒हे॒ । उ॒त , त्वं , अ॒स्म॒ऽयुः , व॒सो॒ इति॑ ॥
मारे अ॒स्मद्वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या॑हि । इंद्र॑ स्वधावो॒ मत्स्वे॒ह ॥
मा , आ॒रे , अ॒स्मत् , वि , मु॒मु॒चः॒ , हरि॑ऽप्रिय , आ॒र्वाङ् , या॒हि॒ । इंद्र॑ , स्व॒धा॒ऽवः॒ , मत्स्व॑ , इ॒ह ॥
अ॒र्वांचं॑ त्वा सु॒खे रथे॒ वह॑तामिंद्र के॒शिना॑ । घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ॥
अ॒र्वांचं॑ , त्वा॒ , सु॒ऽखे , रथे॑ , वह॑तां , इं॒द्र॒ , के॒शिना॑ । घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ , ब॒र्हिः , आ॒ऽसदे॑ ॥
[४२] उपनइति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र इंद्रोगायत्री |
उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिंद्र॒ गवा॑शिरं । हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ॥
उप॑ , नः॒ , सु॒तं , आ , ग॒हि॒ , सोमं॑ , इं॒द्र॒ , गोऽआ॑शिरं । हरि॑ऽभ्यां , यः , ते॒ , अ॒स्म॒ऽयुः ॥
तमिं॑द्र॒ मद॒मा ग॑हि बर्हिः॒ष्ठां ग्राव॑भिः सु॒तं । कु॒विन्न्व॑स्य तृ॒प्णवः॑ ॥
तं , इं॒द्र॒ , मदं॑ , आ , ग॒हि॒ , ब॒र्हिः॒ऽस्थां , ग्राव॑ऽभिः , सु॒तं । कु॒वित् , नु , अ॒स्य॒ , तृ॒ष्णवः॑ ॥
इंद्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः । आ॒वृते॒ सोम॑पीतये ॥
इंद्रं॑ , इ॒त्था , गिरः॑ , मम॑ , अच्छ॑ , अ॒गुः॒ , इ॒षि॒ताः , इ॒तः । आ॒ऽवृते॑ , सोम॑ऽपीतये ॥
इंद्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे । उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ॥
इंद्रं॑ , सोम॑स्य , पी॒तये॑ , स्तोमैः॑ , इ॒ह , ह॒वा॒म॒हे॒ । उ॒क्थेभिः॑ , कु॒वित् , आ॒ऽगम॑त् ॥
इंद्र॒ सोमाः॑ सु॒ता इ॒मे तांद॑धिष्व शतक्रतो । ज॒ठरे॑ वाजिनीवसो ॥
इंद्र॑ , सोमाः॑ , सु॒ताः , इ॒मे , तान् , द॒धि॒ष्व॒ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । ज॒ठरे॑ , वा॒जि॒नी॒व॒सो॒ इति॑ वाजिनीऽवसो ॥
वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे । अधा॑ ते सु॒म्नमी॑महे ॥
वि॒द्म , हि , त्वा॒ , ध॒नं॒ऽज॒यं , वाजे॑षु , द॒धृ॒षं , क॒वे॒ । अध॑ , ते॒ , सु॒म्नं , ई॒म॒हे॒ ॥
इ॒ममिं॑द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब । आ॒गत्या॒ वृष॑भिः सु॒तं ॥
इ॒मं , इं॒द्र॒ , गोऽआ॑शिरं , यव॑ऽआशिरं , च॒ , नः॒ , पि॒ब॒ । आ॒ऽगत्य॑ , वृष॑ऽभिः , सु॒तं ॥
तुभ्येदिं॑द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑ । ए॒ष रा॑रंतु ते हृ॒दि ॥
तुभ्य॑ , इत् , इं॒द्र॒ , स्वे , ओ॒क्ये॑ , सोमं॑ , चो॒दा॒मि॒ , पी॒तये॑ । ए॒षः , र॒रं॒तु॒ , ते॒ , हृ॒दि ॥
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमिं॑द्र हवामहे । कु॒शि॒कासो॑ अव॒स्यवः॑ ॥
त्वां , सु॒तस्य॑ , पी॒तये॑ , प्र॒त्नं , इं॒द्र॒ , ह॒वा॒म॒हे॒ । कु॒शि॒कासः॑ , अ॒व॒स्यवः॑ ॥
[४३] आयाह्यर्वाङित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
आ या॑ह्य॒र्वाङुप॑ वंधुरे॒ष्ठास्तवेदनु॑ प्र॒दिवः॑ सोम॒पेयं॑ । प्रि॒या सखा॑या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह॑व्य॒वाहो॑ हवंते ॥
आ , या॒हि॒ , अ॒र्वाङ् , उप॑ , वं॒धु॒रे॒ऽस्थाः , तव॑ , इत् , अनु॑ , प्र॒ऽदिवः॑ , सो॒म॒ऽपेयं॑ । प्रि॒या , सखा॑या , वि , मु॒च॒ , उप॑ , ब॒र्हिः , त्वां , इ॒मे , ह॒व्य॒ऽवाहः॑ , ह॒वं॒ते॒ ॥
आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्यां । इ॒मा हि त्वा॑ म॒तयः॒ स्तोम॑तष्टा॒ इंद्र॒ हवं॑ते स॒ख्यं जु॑षा॒णाः ॥
आ , या॒हि॒ , पू॒र्वीः , अति॑ , च॒र्ष॒णीः , आ , अ॒र्यः , आ॒ऽशिषः॑ , उप॑ , नः॒ , हरि॑ऽभ्यां । इ॒माः , हि , त्वा॒ , म॒तयः॑ , स्तोम॑ऽतष्टाः , इंद्र॑ , हवं॑ते , स॒ख्यं , जु॒षा॒णाः ॥
आ नो॑ य॒ज्ञं न॑मो॒वृधं॑ स॒जोषा॒ इंद्र॑ देव॒ हरि॑भिर्याहि॒ तूयं॑ । अ॒हं हि त्वा॑ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू॑नां ॥
आ , नः॒ , य॒ज्ञं , न॒मः॒ऽवृधं॑ , स॒ऽजोषाः॑ , इंद्र॑ , दे॒व॒ , हरि॑ऽभिः , या॒हि॒ , तूयं॑ । अ॒हं , हि , त्वा॒ , म॒तिऽभिः॑ , जोह॑वीमि , घृ॒तऽप्र॑याः , स॒ध॒ऽमादे॑ , मधू॑नां ॥
आ च॒ त्वामे॒ता वृष॑णा॒ वहा॑तो॒ हरी॒ सखा॑या सु॒धुरा॒ स्वंगा॑ । धा॒नाव॒दिंद्रः॒ सव॑नं जुषा॒णः सखा॒ सख्युः॑ शृणव॒द्वंद॑नानि ॥
आ , च॒ , त्वां , ए॒ता , वृष॑णा , वहा॑तः , हरी॒ इति॑ , सखा॑या , सु॒ऽधुरा॑ , सु॒ऽअंगा॑ । धा॒नाऽव॑त् , इंद्रः॑ , सव॑नं , जु॒षा॒णः , सखा॑ , सख्युः॑ , शृ॒ण॒व॒त् , वंद॑नानि ॥
कु॒विन्मा॑ गो॒पां कर॑से॒ जन॑स्य कु॒विद्राजा॑नं मघवन्नृजीषिन् । कु॒विन्म॒ ऋषिं॑ पपि॒वांसं॑ सु॒तस्य॑ कु॒विन्मे॒ वस्वो॑ अ॒मृत॑स्य॒ शिक्षाः॑ ॥
कु॒वित् , मा॒ , गो॒पां , कर॑से , जन॑स्य , कु॒वित् , राजा॑नं , म॒घ॒ऽव॒न् , ऋ॒जी॒षि॒न् । कु॒वित् , मा॒ , ऋषिं॑ , प॒पि॒ऽवांसं॑ , सु॒तस्य॑ , कु॒वित् , मे॒ , वस्वः॑ , अ॒मृत॑स्य , शिक्षाः॑ ॥
आ त्वा॑ बृ॒हंतो॒ हर॑यो युजा॒ना अ॒र्वागिं॑द्र सध॒मादो॑ वहंतु । प्र ये द्वि॒ता दि॒व ऋं॒जंत्याताः॒ सुसं॑मृष्टासो वृष॒भस्य॑ मू॒राः ॥
आ , त्वा॒ , बृ॒हंतः॑ , हर॑यः , यु॒जा॒नाः , अ॒र्वाक् , इं॒द्र॒ , स॒ध॒ऽमादः॑ , व॒हं॒तु॒ । प्र , ये , द्वि॒ता , दि॒वः , ऋं॒जंति॑ , आताः॑ , सुऽसं॑मृष्टासः , वृ॒ष॒भस्य॑ , मू॒राः ॥
इंद्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते॑ श्ये॒न उ॑श॒ते ज॒भार॑ । यस्य॒ मदे॑ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒ अप॑ गो॒त्रा व॒वर्थ॑ ॥
इंद्र॑ , पिब॑ , वृष॑ऽधूतस्य , वृष्णः॑ , आ , यं , ते॒ , श्ये॒नः , उ॒श॒ते , ज॒भार॑ । यस्य॑ , मदे॑ , च्य॒वय॑सि , प्र , कृ॒ष्टीः , यस्य॑ , मदे॑ , अप॑ , गो॒त्रा , व॒वर्थ॑ ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥
शु॒नं , हु॒वे॒म॒ , म॒घऽवा॑नं , इंद्रं॑ , अ॒स्मिन् , भरे॑ , नृऽत॑मं , वाज॑ऽसातौ । शृ॒ण्वंतं॑ , उ॒ग्रं , ऊ॒तये॑ , स॒मत्ऽसु॑ , घ्नंतं॑ , वृ॒त्राणि॑ , सं॒ऽजितं॑ , धना॑नां ॥
[४४] अयंतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |
अ॒यं ते॑ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः । जु॒षा॒ण इं॑द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथं॑ ॥
अ॒यं , ते॒ , अ॒स्तु॒ , ह॒र्य॒तः , सोमः॑ , आ , हरि॑ऽभिः , सु॒तः । जु॒षा॒णः , इं॒द्र॒ , हरि॑ऽभिः , नः॒ , आ , ग॒हि॒ , आ , ति॒ष्ठ॒ , हरि॑तं , रथं॑ ॥
ह॒र्यन्नु॒षस॑मर्चयः॒ सूर्यं॑ ह॒र्यन्न॑रोचयः । वि॒द्वाँश्चि॑कि॒त्वान्ह॑र्यश्व वर्धस॒ इंद्र॒ विश्वा॑ अ॒भि श्रियः॑ ॥
ह॒र्यन् , उ॒षसं॑ , अ॒र्च॒यः॒ , सूर्यं॑ , ह॒र्यन् , अ॒रो॒च॒यः॒ । वि॒द्वान् , चि॒कि॒त्वान् , ह॒रि॒ऽअ॒श्व॒ , व॒र्ध॒से॒ , इंद्र॑ , विश्वाः॑ , अ॒भि , श्रियः॑ ॥
द्यामिंद्रो॒ हरि॑धायसं पृथि॒वीं हरि॑वर्पसं । अधा॑रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो॑रं॒तर्हरि॒श्चर॑त् ॥
द्यां , इंद्रः॑ , हरि॑ऽधायसं , पृ॒थि॒वीं , हरि॑ऽवर्पसं । अधा॑रयत् , ह॒रितोः॑ , भूरि॑ , भोज॑नं , ययोः॑ , अं॒तः , हरिः॒ , चर॑त् ॥
ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा॑ति रोच॒नं । हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं॑ बा॒ह्वोर्हरिं॑ ॥
ज॒ज्ञा॒नः , हरि॑तः , वृषा॑ , विश्वं॑ , आ , भा॒ति॒ , रो॒च॒नं । हरि॑ऽअश्वः , हरि॑तं , ध॒त्ते॒ , आयु॑धं , आ , वज्रं॑ , बा॒ह्वोः , हरिं॑ ॥
इंद्रो॑ ह॒र्यंत॒मर्जु॑नं॒ वज्रं॑ शु॒क्रैर॒भीवृ॑तं । अपा॑वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद्गा हरि॑भिराजत ॥
इंद्रः॑ , ह॒र्यंतं॑ , अर्जु॑नं , वज्रं॑ , शु॒क्रैः , अ॒भिऽवृ॑तं । अप॑ , अ॒वृ॒णो॒त् , हरि॑ऽभिः , अद्रि॑ऽभिः , सु॒तं , उत् , गाः , हरि॑ऽभिः , आ॒ज॒त॒ ॥
[४५] आमंद्रैरिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रोबृहती |
आ मं॒द्रैरिं॑द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः । मा त्वा॒ के चि॒न्नि य॑म॒न्विं न पा॒शिनोऽति॒ धन्वे॑व॒ ताँ इ॑हि ॥
आ , मं॒द्रैः , इं॒द्र॒ , हरि॑ऽभिः , या॒हि , म॒यूर॑रोमऽभिः । मा , त्वा॒ , के , चि॒त् , नि , य॒म॒न् , विं , न , पा॒शिनः॑ , अति॑ , धन्व॑ऽइव , तान् , इ॒हि॒ ॥
वृ॒त्र॒खा॒दो व॑लंरु॒जः पु॒रां द॒र्मो अ॒पाम॒जः । स्थाता॒ रथ॑स्य॒ हर्यो॑रभिस्व॒र इंद्रो॑ दृ॒ळ्हा चि॑दारु॒जः ॥
वृ॒त्र॒ऽखा॒दः , व॒लं॒ऽरु॒जः , पु॒रां , द॒र्मः , अ॒पां , अ॒जः । स्थाता॑ , रथ॑स्य , हर्योः॑ , अ॒भि॒ऽस्व॒रे , इंद्रः॑ , दृ॒ळ्हा , चि॒त् , आ॒ऽरु॒जः ॥
गं॒भी॒राँ उ॑द॒धीँरि॑व॒ क्रतुं॑ पुष्यसि॒ गा इ॑व । प्र सु॑गो॒पा यव॑सं धे॒नवो॑ यथा ह्र॒दं कु॒ल्या इ॑वाशत ॥
गं॒भी॒रान् , उ॒द॒धीन्ऽइ॑व , क्रतुं॑ , पु॒ष्य॒सि॒ , गाःऽइ॑व । प्र , सु॒ऽगो॒पाः , यव॑सं , धे॒नवः॑ , य॒था॒ , ह्र॒दं , कु॒ल्याःऽइ॑व , आ॒श॒त॒ ॥
आ न॒स्तुजं॑ र॒यिं भ॒रांशं॒ न प्र॑तिजान॒ते । वृ॒क्षं प॒क्वं फल॑मं॒कीव॑ धूनु॒हींद्र॑ सं॒पार॑णं॒ वसु॑ ॥
आ , नः॒ , तुजं॑ , र॒यिं , भ॒र॒ , अंशं॑ , न , प्र॒ति॒ऽजा॒न॒ते । वृ॒क्षं , प॒क्वं , फलं॑ , अं॒कीऽइ॑व , धू॒नु॒हि॒ , इंद्र॑ , सं॒ऽपार॑णं , वसु॑ ॥
स्व॒युरिं॑द्र स्व॒राळ॑सि॒ स्मद्दि॑ष्टिः॒ स्वय॑शस्तरः । स वा॑वृधा॒न ओज॑सा पुरुष्टुत॒ भवा॑ नः सु॒श्रव॑स्तमः ॥
स्व॒ऽयुः , इं॒द्र॒ , स्व॒ऽराट् , अ॒सि॒ , स्मत्ऽदि॑ष्टिः , स्वय॑शःऽतरः । सः , व॒वृ॒धा॒नः , ओज॑सा , पु॒रु॒ऽस्तु॒त॒ , भव॑ , नः॒ , सु॒श्रवः॑ऽतमः ॥
[४६] युध्मस्यतइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रत्रिष्टुप् |
यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यूनः॒ स्थवि॑रस्य॒ घृष्वेः॑ । अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॒३॒॑णींद्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ॥
यु॒ध्मस्य॑ , ते॒ , वृ॒ष॒भस्य॑ , स्व॒ऽराजः॑ , उ॒ग्रस्य॑ , यूनः॑ , स्थवि॑रस्य , घृष्वेः॑ । अजू॑र्यतः , व॒ज्रिणः॑ , वी॒र्या॑णि , इंद्र॑ , श्रु॒तस्य॑ , म॒ह॒तः , म॒हानि॑ ॥
म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् । एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न् ॥
म॒हान् , अ॒सि॒ , म॒हि॒ष॒ , वृष्ण्ये॑भिः , ध॒न॒ऽस्पृत् , उ॒ग्र॒ , सह॑मानः , अ॒न्यान् । एकः॑ , विश्व॑स्य , भुव॑नस्य , राजा॑ , सः , यो॒धय॑ , च॒ , क्ष॒यय॑ , च॒ , जना॑न् ॥
प्र मात्रा॑भी रिरिचे॒ रोच॑मानः॒ प्र दे॒वेभि॑र्वि॒श्वतो॒ अप्र॑तीतः । प्र म॒ज्मना॑ दि॒व इंद्रः॑ पृथि॒व्याः प्रोरोर्म॒हो अं॒तरि॑क्षादृजी॒षी ॥
प्र , मात्रा॑भिः , रि॒रि॒चे॒ , रोच॑मानः , प्र , दे॒वेभिः॑ , वि॒श्वतः॑ , अप्र॑तिऽइतः । प्र , म॒ज्मना॑ , दि॒वः , इंद्रः॑ , पृ॒थि॒व्याः , प्र , उ॒रोः , म॒हः , अं॒तरि॑क्षात् , ऋ॒जी॒षी ॥
उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१॒॑ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नां । इंद्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तासः॑ समु॒द्रं न स्र॒वत॒ आ वि॑शंति ॥
उ॒रुं , ग॒भी॒रं , ज॒नुषा॑ , अ॒भि , उ॒ग्रं , वि॒श्वऽव्य॑चसं , अ॒व॒तं , म॒ती॒नां । इंद्रं॑ , सोमा॑सः , प्र॒ऽदिवि॑ , सु॒तासः॑ , स॒मु॒द्रं , न , स्र॒वतः॑ , आ , वि॒शं॒ति॒ ॥
यं सोम॑मिंद्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या । तं ते॑ हिन्वंति॒ तमु॑ ते मृजंत्यध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ॥
यं , सोमं॑ , इं॒द्र॒ , पृ॒थि॒वीद्यावा॑ , गर्भं॑ , न , मा॒ता , बि॒भृ॒तः , त्वा॒ऽया । तं , ते॒ , हि॒न्वं॒ति॒ , तं , ऊँ॒ इति॑ , ते॒ , मृ॒जं॒ति॒ , अ॒ध्व॒र्यवः॑ , वृ॒ष॒भ॒ , पात॒वै , ऊँ॒ इति॑ ॥
[४७] मरुत्वाँइंद्रेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
म॒रुत्वाँ॑ इंद्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य । आ सिं॑चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वं राजा॑सि प्र॒दिवः॑ सु॒तानां॑ ॥
म॒रुत्वा॑न् , इं॒द्र॒ , वृ॒ष॒भः , रणा॑य , पिब॑ , सोमं॑ , अ॒नु॒ऽस्व॒धं , मदा॑य । आ , सिं॒च॒स्व॒ , ज॒ठरे॑ , मध्वः॑ , ऊ॒र्मिं , त्वं , राजा॑ , अ॒सि॒ , प्र॒ऽदिवः॑ , सु॒तानां॑ ॥
स॒जोषा॑ इंद्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् । ज॒हि शत्रूँ॒रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥
स॒ऽजोषाः॑ , इं॒द्र॒ , सऽग॑णः , म॒रुत्ऽभिः॑ , सोमं॑ , पि॒ब॒ , वृ॒त्र॒ऽहा , शू॒र॒ , वि॒द्वान् । ज॒हि , शत्रू॑न् , अप॑ , मृधः॑ , नु॒द॒स्व॒ , अथ॑ , अभ॑यं , कृ॒णु॒हि॒ , वि॒श्वतः॑ , नः॒ ॥
उ॒त ऋ॒तुभि॑र्ऋतुपाः पाहि॒ सोम॒मिंद्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ । याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ॥
उ॒त , ऋ॒तुऽभिः॑ , ऋ॒तु॒ऽपाः , पा॒हि॒ , सोमं॑ , इंद्र॑ , दे॒वेभिः॑ , सखि॑ऽभिः , सु॒तं , नः॒ । यान् , आ , अभ॑जः , म॒रुतः॑ , ये , त्वा॒ , अनु॑ , अह॑न् , वृ॒त्रं , अद॑धुः , तुभ्यं॑ , ओजः॑ ॥
ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शां॑ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ । ये त्वा॑ नू॒नम॑नु॒मदं॑ति॒ विप्राः॒ पिबें॑द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ॥
ये , त्वा॒ , अ॒हि॒ऽहत्ये॑ , म॒घ॒ऽव॒न् , अव॑र्धन् , ये , शां॒ब॒रे , ह॒रि॒ऽवः॒ , ये , गोऽइ॑ष्टौ । ये , त्वा॒ , नू॒नं , अ॒नु॒ऽमदं॑ति , विप्राः॑ , पिब॑ , इं॒द्र॒ , सोमं॑ , सऽग॑णः , म॒रुत्ऽभिः॑ ॥
म॒रुत्वं॑तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिंद्रं॑ । वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ॥
म॒रुत्वं॑तं , वृ॒ष॒भं , व॒वृ॒धा॒नं , अक॑वऽअरिं , दि॒व्यं , शा॒सं , इंद्रं॑ । वि॒श्व॒ऽसहं॑ , अव॑से , नूत॑नाय , उ॒ग्रं , स॒हः॒ऽदां , इ॒ह , तं , हु॒वे॒म॒ ॥
[४८] सद्योहजातइति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दंध॑सः सु॒तस्य॑ । सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ॥
स॒द्यः , ह॒ , जा॒तः , वृ॒ष॒भः , क॒नीनः॑ , प्रऽभ॑र्तुं , आ॒व॒त् , अंध॑सः , सु॒तस्य॑ । सा॒धोः , पि॒ब॒ , प्र॒ति॒ऽका॒मं , यथा॑ , ते॒ , रस॑ऽआशिरः , प्र॒थ॒मं , सो॒म्यस्य॑ ॥
यज्जाय॑था॒स्तदह॑रस्य॒ कामें॒ऽशोः पी॒यूष॑मपिबो गिरि॒ष्ठां । तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसिं॑च॒दग्रे॑ ॥
यत् , जाय॑थाः , तत् , अहः॑ , अ॒स्य॒ , कामे॑ , अं॒शोः , पी॒यूषं॑ , अ॒पि॒बः॒ , गि॒रि॒ऽस्थां । तं , ते॒ , मा॒ता , परि॑ , योषा॑ , जनि॑त्री , म॒हः , पि॒तुः , दमे॑ , आ , अ॒सिं॒च॒त् , अग्रे॑ ॥
उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ । प्र॒या॒वय॑न्नचर॒द्गृत्सो॑ अ॒न्यान्म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ॥
उ॒प॒ऽस्थाय॑ , मा॒तरं॑ , अन्नं॑ , ऐ॒ट्ट॒ , ति॒ग्मं , अ॒प॒श्य॒त् , अ॒भि , सोमं॑ , ऊधः॑ । प्र॒ऽय॒वय॑न् , अ॒च॒र॒त् , गृत्सः॑ , अ॒न्यान् , म॒हानि॑ , च॒क्रे॒ , पु॒रु॒धऽप्र॑तीकः ॥
उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा यथाव॒शं त॒न्वं॑ चक्र ए॒षः । त्वष्टा॑र॒मिंद्रो॑ ज॒नुषा॑भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ॥
उ॒ग्रः , तु॒रा॒षाट् , अ॒भिभू॑तिऽओजाः , य॒था॒ऽव॒शं , त॒न्वं॑ , च॒क्रे॒ , ए॒षः । त्वष्टा॑रं , इंद्रः॑ , ज॒नुषा॑ , अ॒भि॒ऽभूय॑ , आ॒ऽमुष्य॑ , सोमं॑ , अ॒पि॒ब॒त् , च॒मूषु॑ ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥
शु॒नं , हु॒वे॒म॒ , म॒घऽवा॑नं , इंद्रं॑ , अ॒स्मिन् , भरे॑ , नृऽत॑मं , वाज॑ऽसातौ । शृ॒ण्वंतं॑ , उ॒ग्रं , ऊ॒तये॑ , स॒मत्ऽसु॑ , घ्नंतं॑ , वृ॒त्राणि॑ , सं॒ऽजितं॑ , धना॑नां ॥
[४९] शंसामद्दामिति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
शंसा॑ म॒हामिंद्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् । यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नयं॑त दे॒वाः ॥
शंस॑ , म॒हां , इंद्रं॑ , यस्मि॑न् , विश्वाः॑ , आ , कृ॒ष्टयः॑ , सो॒म॒ऽपाः , कामं॑ , अव्य॑न् । यं , सु॒ऽक्रतुं॑ , धि॒षणे॒ इति॑ , वि॒भ्व॒ऽत॒ष्टं , घ॒नं , वृ॒त्राणां॑ , ज॒नयं॑त , दे॒वाः ॥
यं नु नकिः॒ पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठां । इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्योः॑ ॥
यं , नु , नकिः॑ , पृत॑नासु , स्व॒ऽराजं॑ , द्वि॒ता , तर॑ति , नृऽत॑मं , ह॒रि॒ऽस्थां । इ॒नऽत॑मः , सत्व॑ऽभिः , यः , ह॒ , शू॒षैः , पृ॒थु॒ऽज्रयाः॑ , अ॒मि॒ना॒त् , आयुः॑ , दस्योः॑ ॥
स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा॑ व्यान॒शी रोद॑सी मे॒हना॑वान् । भगो॒ न का॒रे हव्यो॑ मती॒नां पि॒तेव॒ चारुः॑ सु॒हवो॑ वयो॒धाः ॥
स॒हऽवा॑ , पृ॒त्ऽसु , त॒रणिः॑ , न , अर्वा॑ , वि॒ऽआ॒न॒शिः , रोद॑सी॒ इति॑ , मे॒हना॑ऽवान् । भगः॑ , न , का॒रे , हव्यः॑ , म॒ती॒नां , पि॒ताऽइ॑व , चारुः॑ , सु॒ऽहवः॑ , व॒यः॒ऽधाः ॥
ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् । क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाजं॑ ॥
ध॒र्ता , दि॒वः , रज॑सः , पृ॒ष्टः , ऊ॒र्ध्वः , रथः॑ , न , वा॒युः , वसु॑ऽभिः , नि॒युत्वा॑न् । क्ष॒पां , व॒स्ता , ज॒नि॒ता , सूर्य॑स्य , विऽभ॑क्ता , भा॒गं , धि॒षणा॑ऽइव , वाजं॑ ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥
शु॒नं , हु॒वे॒म॒ , म॒घऽवा॑नं , इंद्रं॑ , अ॒स्मिन् , भरे॑ , नृऽत॑मं , वाज॑ऽसातौ । शृ॒ण्वंतं॑ , उ॒ग्रं , ऊ॒तये॑ , स॒मत्ऽसु॑ , घ्नंतं॑ , वृ॒त्राणि॑ , सं॒ऽजितं॑ , धना॑नां ॥
[५०] इंद्रः स्वाहेति पंचर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् |
इंद्रः॒ स्वाहा॑ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो॑ वृष॒भो म॒रुत्वा॑न् । ओरु॒व्यचाः॑ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्व१॒॑ः काम॑मृध्याः ॥
इंद्रः॑ , स्वाहा॑ , पि॒ब॒तु॒ , यस्य॑ , सोमः॑ , आ॒ऽगत्य॑ , तुम्रः॑ , वृ॒ष॒भः , म॒रुत्वा॑न् । आ , उ॒रु॒ऽव्यचाः॑ , पृ॒ण॒तां॒ , ए॒भिः , अन्नैः॑ , आ , अ॒स्य॒ , ह॒विः , त॒न्वः॑ , कामं॑ , ऋ॒ध्याः॒ ॥
आ ते॑ सप॒र्यू ज॒वसे॑ युनज्मि॒ ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ । इ॒ह त्वा॑ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारोः॑ ॥
आ , ते॒ , स॒प॒र्यू इति॑ , ज॒वसे॑ , यु॒न॒ज्मि॒ , ययोः॑ , अनु॑ , प्र॒ऽदिवः॑ , श्रु॒ष्टिं , आवः॑ । इ॒ह , त्वा॒ , धे॒युः॒ , हर॑यः , सु॒ऽशि॒प्र॒ , पिब॑ , तु , अ॒स्य , सुऽसु॑तस्य , चारोः॑ ॥
गोभि॑र्मिमि॒क्षुं द॑धिरे सुपा॒रमिंद्रं॒ ज्यैष्ठ्या॑य॒ धाय॑से गृणा॒नाः । मं॒दा॒नः सोमं॑ पपि॒वाँ ऋ॑जीषिं॒त्सम॒स्मभ्यं॑ पुरु॒धा गा इ॑षण्य ॥
गोभिः॑ , मि॒मि॒क्षुं , द॒धि॒रे॒ , सु॒ऽपा॒रं , इंद्रं॑ , ज्यैष्ठ्या॑य , धाय॑से , गृ॒णा॒नाः । मं॒दा॒नः , सोमं॑ , प॒पि॒ऽवान् , ऋ॒जी॒षि॒न् , सं , अ॒स्मभ्यं॑ , पु॒रु॒धा , गाः , इ॒ष॒ण्य॒ ॥
इ॒मं कामं॑ मंदया॒ गोभि॒रश्वै॑श्चं॒द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च । स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इंद्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ॥
इ॒मं , कामं॑ , मं॒द॒य॒ , गोऽभिः॑ , अश्वैः॑ , चं॒द्रऽव॑ता , राध॑सा , प॒प्रथः॑ , च॒ । स्वः॒ऽयवः॑ , म॒तिऽभिः॑ , तुभ्यं॑ , विप्राः॑ , इंद्रा॑य , वाहः॑ , कु॒शि॒कासः॑ , अ॒क्र॒न् ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥
शु॒नं , हु॒वे॒म॒ , म॒घऽवा॑नं , इंद्रं॑ , अ॒स्मिन् , भरे॑ , नृऽत॑मं , वाज॑ऽसातौ । शृ॒ण्वंतं॑ , उ॒ग्रं , ऊ॒तये॑ , स॒मत्ऽसु॑ , घ्नंतं॑ , वृ॒त्राणि॑ , सं॒ऽजितं॑ , धना॑नां ॥
[५१] चर्षणीधृतमिति द्वादशर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् आद्यास्तिस्रोजगत्यः अंत्यास्तिस्रोगायत्र्यः |
च॒र्ष॒णी॒धृतं॑ म॒घवा॑नमु॒क्थ्य१॒॑मिंद्रं॒ गिरो॑ बृह॒तीर॒भ्य॑नूषत । वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ॥
च॒र्ष॒णि॒ऽधृतं॑ , म॒घऽवा॑नं , उ॒क्थ्यं॑ , इंद्रं॑ , गिरः॑ , बृ॒ह॒तीः , अ॒भि , अ॒नू॒ष॒त॒ । व॒वृ॒धा॒नं , पु॒रु॒ऽहू॒तं , सु॒वृ॒क्तिऽभिः॑ , अम॑र्त्यं , जर॑माणं , दि॒वेऽदि॑वे ॥
श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो॑ म॒ इंद्र॒मुप॑ यंति वि॒श्वतः॑ । वा॒ज॒सनिं॑ पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं॑ धाम॒साच॑मभि॒षाचं॑ स्व॒र्विदं॑ ॥
श॒तऽक्र॑तुं , अ॒र्ण॒वं , शा॒किनं॑ , नरं॑ , गिरः॑ , मे॒ , इंद्रं॑ , उप॑ , यं॒ति॒ , वि॒श्वतः॑ । वा॒ज॒ऽसनिं॑ , पूः॒ऽभिदं॑ , तूर्णिं॑ , अ॒प्ऽतुरं॑ , धा॒म॒ऽसाचं॑ , अ॒भि॒ऽसाचं॑ , स्वः॒ऽविदं॑ ॥
आ॒क॒रे वसो॑र्जरि॒ता प॑नस्यतेऽने॒हसः॒ स्तुभ॒ इंद्रो॑ दुवस्यति । वि॒वस्व॑तः॒ सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं॑ स्तुहि ॥
आ॒ऽक॒रे , वसोः॑ , ज॒रि॒ता , प॒न॒स्य॒ते॒ , अ॒ने॒हसः॑ , स्तुभः॑ , इंद्रः॑ , दु॒व॒स्य॒ति॒ । वि॒वस्व॑तः , सद॑ने , आ , हि , पि॒प्रि॒ये , स॒त्रा॒ऽसहं॑ , अ॒भि॒मा॒ति॒ऽहनं॑ , स्तु॒हि॒ ॥
नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाधः॑ । सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो॑ अस्य प्र॒दिव॒ एक॑ ईशे ॥
नृ॒णां , ऊँ॒ इति॑ , त्वा॒ , नृऽत॑मं , गीः॒ऽभिः , उ॒क्थैः , अ॒भि , प्र , वी॒रं , अ॒र्च॒त॒ , स॒ऽबाधः॑ । सं , सह॑से , पु॒रु॒ऽमा॒यः , जि॒ही॒ते॒ , नमः॑ , अ॒स्य॒ , प्र॒ऽदिवः॑ , एकः॑ , ई॒शे॒ ॥
पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये॑षु पु॒रू वसू॑नि पृथि॒वी बि॑भर्ति । इंद्रा॑य॒ द्याव॒ ओष॑धीरु॒तापो॑ र॒यिं र॑क्षंति जी॒रयो॒ वना॑नि ॥
पू॒र्वीः , अ॒स्य॒ , निः॒ऽसिधः॑ , मर्त्ये॑षु , पु॒रु , वसू॑नि , पृ॒थि॒वी , बि॒भ॒र्ति॒ । इंद्रा॑य , द्यावः॑ , ओष॑धीः , उ॒त , आपः॑ , र॒यिं , र॒क्षं॒ति॒ , जी॒रयः॑ , वना॑नि ॥
तुभ्यं॒ ब्रह्मा॑णि॒ गिर॑ इंद्र॒ तुभ्यं॑ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ । बो॒ध्या॒३॒॑पिरव॑सो॒ नूत॑नस्य॒ सखे॑ वसो जरि॒तृभ्यो॒ वयो॑ धाः ॥
तुभ्यं॑ , ब्रह्मा॑णि , गिरः॑ , इं॒द्र॒ , तुभ्यं॑ , स॒त्रा , द॒धि॒रे॒ , ह॒रि॒ऽवः॒ , जु॒षस्व॑ । बो॒धि , आ॒पिः , अव॑सः , नूत॑नस्य , सखे॑ , व॒सो॒ इति॑ , ज॒रि॒तृऽभ्यः॑ , वयः॑ , धाः॒ ॥
इंद्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासंति क॒वयः॑ सुय॒ज्ञाः ॥
इंद्र॑ , म॒रु॒त्वः॒ , इ॒ह , पा॒हि॒ , सोमं॑ , यथा॑ , शा॒र्या॒ते , अपि॑बः , सु॒तस्य॑ । तव॑ , प्रऽनी॑ती , तव॑ , शू॒र॒ , शर्म॑न् , आ , वि॒वा॒सं॒ति॒ , क॒वयः॑ , सु॒ऽय॒ज्ञाः ॥
स वा॑वशा॒न इ॒ह पा॑हि॒ सोमं॑ म॒रुद्भि॑रिंद्र॒ सखि॑भिः सु॒तं नः॑ । जा॒तं यत्त्वा॒ परि॑ दे॒वा अभू॑षन्म॒हे भरा॑य पुरुहूत॒ विश्वे॑ ॥
सः , वा॒व॒शा॒नः , इ॒ह , पा॒हि॒ , सोमं॑ , म॒रुत्ऽभिः॑ , इं॒द्र॒ , सखि॑ऽभिः , सु॒तं , नः॒ । जा॒तं , यत् , त्वा॒ , परि॑ , दे॒वाः , अभू॑षन् , म॒हे , भरा॑य , पु॒रु॒ऽहू॒त॒ , विश्वे॑ ॥
अ॒प्तूर्ये॑ मरुत आ॒पिरे॒षोऽमं॑द॒न्निंद्र॒मनु॒ दाति॑वाराः । तेभिः॑ सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं॑ दा॒शुषः॒ स्वे स॒धस्थे॑ ॥
अ॒प्ऽतूर्ये॑ , म॒रु॒तः॒ , आ॒पिः , ए॒षः , अमं॑दन् , इंद्रं॑ , अनु॑ , दाति॑ऽवाराः । तेभिः॑ , सा॒कं , पि॒ब॒तु॒ , वृ॒त्र॒ऽखा॒दः , सु॒तं , सोमं॑ , दा॒शुषः॑ , स्वे , स॒धऽस्थे॑ ॥
इ॒दं ह्यन्वोज॑सा सु॒तं रा॑धानां पते । पिबा॒ त्व१॒॑स्य गि॑र्वणः ॥
इ॒दं , हि , अनु॑ , ओज॑सा , सु॒तं , रा॒धा॒नां॒ , प॒ते॒ । पिब॑ , तु , अ॒स्य , गि॒र्व॒णः॒ ॥
यस्ते॒ अनु॑ स्व॒धामस॑त्सु॒ते नि य॑च्छ त॒न्वं॑ । स त्वा॑ ममत्तु सो॒म्यं ॥
यः , ते॒ , अनु॑ , स्व॒धां , अस॑त् , सु॒ते , नि , य॒च्छ॒ , त॒न्वं॑ । सः , त्वा॒ , म॒म॒त्तु॒ , सो॒म्यं ॥
प्र ते॑ अश्नोतु कु॒क्ष्योः प्रेंद्र॒ ब्रह्म॑णा॒ शिरः॑ । प्र बा॒हू शू॑र॒ राध॑से ॥
प्र , ते॒ , अ॒श्नो॒तु॒ , कु॒क्ष्योः , प्र , इं॒द्र॒ , ब्रह्म॑णा , शिरः॑ । प्र , बा॒हू इति॑ , शू॒र॒ , राध॑से ॥
[५२] धानावंतमित्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्र इंद्रस्त्रिष्टुप् अध्याश्चतस्रोगायत्र्यः षष्ठीजगती |
धा॒नावं॑तं करं॒भिण॑मपू॒पवं॑तमु॒क्थिनं॑ । इंद्र॑ प्रा॒तर्जु॑षस्व नः ॥
धा॒नाऽवं॑तं , क॒रं॒भिणं॑ , अ॒पू॒पऽवं॑तं , उ॒क्थिनं॑ । इंद्र॑ , प्रा॒तः , जु॒ष॒स्व॒ , नः॒ ॥
पु॒रो॒ळाशं॑ पच॒त्यं॑ जु॒षस्वें॒द्रा गु॑रस्व च । तुभ्यं॑ ह॒व्यानि॑ सिस्रते ॥
पु॒रो॒ळाशं॑ , प॒च॒त्यं॑ , जु॒षस्व॑ , इं॒द्र॒ , आ , गु॒र॒स्व॒ , च॒ । तुभ्यं॑ , ह॒व्यानि॑ , सि॒स्र॒ते॒ ॥
पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः । व॒धू॒युरि॑व॒ योष॑णां ॥
पु॒रो॒ळाशं॑ , च॒ , नः॒ , घसः॑ , जो॒षया॑से , गिरः॑ , च॒ , नः॒ । व॒धू॒युःऽइ॑व , योष॑णां ॥
पु॒रो॒ळाशं॑ सनश्रुत प्रातःसा॒वे जु॑षस्व नः । इंद्र॒ क्रतु॒र्हि ते॑ बृ॒हन् ॥
पु॒रो॒ळाशं॑ , स॒न॒ऽश्रु॒त॒ , प्रा॒तः॒ऽसा॒वे , जु॒ष॒स्व॒ , नः॒ । इंद्र॑ , क्रतुः॑ , हि , ते॒ , बृ॒हन् ॥
माध्यं॑दिनस्य॒ सव॑नस्य धा॒नाः पु॑रो॒ळाश॑मिंद्र कृष्वे॒ह चारुं॑ । प्र यत्स्तो॒ता ज॑रि॒ता तूर्ण्य॑र्थो वृषा॒यमा॑ण॒ उप॑ गी॒र्भिरीट्टे॑ ॥
माध्यं॑दिनस्य , सव॑नस्य , धा॒नाः , पु॒रो॒ळाशं॑ , इं॒द्र॒ , कृ॒ष्व॒ , इ॒ह , चारुं॑ । प्र , यत् , स्तो॒ता , ज॒रि॒ता , तूर्णि॑ऽअर्थः , वृ॒ष॒ऽयमा॑णः , उप॑ , गीः॒ऽभिः , ईट्टे॑ ॥
तृ॒तीये॑ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तं मामहस्व नः । ऋ॒भु॒मंतं॒ वाज॑वंतं त्वा कवे॒ प्रय॑स्वंत॒ उप॑ शिक्षेम धी॒तिभिः॑ ॥
तृ॒तीये॑ , धा॒नाः , सव॑ने , पु॒रु॒ऽस्तु॒त॒ , पु॒रो॒ळाशं॑ , आऽहु॑तं , म॒म॒ह॒स्व॒ , नः॒ । ऋ॒भु॒ऽमंतं॑ , वाज॑ऽवंतं , त्वा॒ , क॒वे॒ , प्रय॑स्वंतः , उप॑ , शि॒क्षे॒म॒ , धी॒तिऽभिः॑ ॥
पू॒ष॒ण्वते॑ ते चकृमा करं॒भं हरि॑वते॒ हर्य॑श्वाय धा॒नाः । अ॒पू॒पम॑द्धि॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ॥
पू॒ष॒ण्ऽवते॑ , ते॒ , च॒कृ॒म॒ , क॒रं॒भं , हरि॑ऽवते , हरि॑ऽअश्वाय , धा॒नाः । अ॒पू॒पं , अ॒द्धि॒ , सऽग॑णः , म॒रुत्ऽभिः॑ , सोमं॑ , पि॒ब॒ , वृ॒त्र॒ऽहा , शू॒र॒ , वि॒द्वान् ॥
प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं॑ वी॒रत॑माय नृ॒णां । दि॒वेदि॑वे स॒दृशी॑रिंद्र॒ तुभ्यं॒ वर्धं॑तु त्वा सोम॒पेया॑य धृष्णो ॥
प्रति॑ , धा॒नाः , भ॒र॒त॒ , तूयं॑ , अ॒स्मै॒ , पु॒रो॒ळाशं॑ , वी॒रऽत॑माय , नृ॒णां । दि॒वेऽदि॑वे , स॒ऽदृशीः॑ , इं॒द्र॒ , तुभ्यं॑ , वर्धं॑तु , त्वा॒ , सो॒म॒ऽपेया॑य , धृ॒ष्णो॒ इति॑ ॥
[५३] इंद्रापर्वतेति चतुर्विंशत्यृचस्य सूक्तस्य गाथिनोविश्वामित्र ऋषिरिंद्रोदेवता आद्यायाइंद्रापर्वतौ पंचदश्यादिद्वयोः ससर्परीवाक् ततश्चतसृणांरथांगानित्रिष्टुप् दशमीषोळश्यौजगत्यौ द्वादशीद्वाविंश्योनुष्टुभः त्रयोदशीगायत्री अष्टादशीबृहती |
इंद्रा॑पर्वता बृह॒ता रथे॑न वा॒मीरिष॒ आ व॑हतं सु॒वीराः॑ । वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा॒ वर्धे॑थां गी॒र्भिरिळ॑या॒ मदं॑ता ॥
इंद्रा॑पर्वता , बृ॒ह॒ता , रथे॑न , वा॒मीः , इषः॑ , आ , व॒ह॒तं॒ , सु॒ऽवीराः॑ । वी॒तं , ह॒व्यानि॑ , अ॒ध्व॒रेषु॑ , दे॒वा॒ , वर्धे॑थां , गीः॒ऽभिः , इळ॑या , मदं॑ता ॥
तिष्ठा॒ सु कं॑ मघव॒न्मा परा॑ गाः॒ सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि । पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इंद्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ॥
तिष्ठ॑ , सु , कं॒ , म॒घ॒ऽव॒न् , मा , परा॑ , गाः॒ , सोम॑स्य , नु , त्वा॒ , सुऽसु॑तस्य , य॒क्षि॒ । पि॒तुः , न , पु॒त्रः , सिचं॑ , आ , र॒भे॒ , ते॒ , इंद्र॑ , स्वादि॑ष्ठया , गि॒रा , श॒ची॒ऽवः॒ ॥
शंसा॑वाध्वर्यो॒ प्रति॑ मे गृणी॒हींद्रा॑य॒ वाहः॑ कृणवाव॒ जुष्टं॑ । एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा॑ च भूदु॒क्थमिंद्रा॑य श॒स्तं ॥
शंसा॑व , अ॒ध्व॒र्यो॒ इति॑ , प्रति॑ , मे॒ , गृ॒णी॒हि॒ , इंद्रा॑य , वाहः॑ , कृ॒ण॒वा॒व॒ , जुष्टं॑ । आ , इ॒दं , ब॒र्हिः , यज॑मानस्य , सी॒द॒ , अथ॑ , च॒ , भू॒त् , उ॒क्थं , इंद्रा॑य , श॒स्तं ॥
जा॒येदस्तं॑ मघवं॒त्सेदु॒ योनि॒स्तदित्त्वा॑ यु॒क्ता हर॑यो वहंतु । य॒दा क॒दा च॑ सु॒नवा॑म॒ सोम॑म॒ग्निष्ट्वा॑ दू॒तो ध॑न्वा॒त्यच्छ॑ ॥
जा॒या , इत् , अस्तं॑ , म॒घ॒ऽव॒न् , सा , इत् , ऊँ॒ इति॑ , योनिः॑ , तत् , इत् , त्वा॒ , यु॒क्ताः , हर॑यः , व॒हं॒तु॒ । य॒दा , क॒दा , च॒ , सु॒नवा॑म , सोमं॑ , अ॒ग्निः , त्वा॒ , दू॒तः , ध॒न्वा॒ति॒ , अच्छ॑ ॥
परा॑ याहि मघव॒न्ना च॑ या॒हींद्र॑ भ्रातरुभ॒यत्रा॑ ते॒ अर्थं॑ । यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ॥
परा॑ , या॒हि॒ , म॒घ॒ऽव॒न् , आ , च॒ , या॒हि॒ , इंद्र॑ , भ्रा॒तः॒ , उ॒भ॒यत्र॑ , ते॒ , अर्थं॑ । यत्र॑ , रथ॑स्य , बृ॒ह॒तः , नि॒ऽधानं॑ , वि॒ऽमोच॑नं , वा॒जिनः॑ , रास॑भस्य ॥
अपाः॒ सोम॒मस्त॑मिंद्र॒ प्र या॑हि कल्या॒णीर्जा॒या सु॒रणं॑ गृ॒हे ते॑ । यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ॥
अपाः॑ , सोमं॑ , अस्तं॑ , इं॒द्र॒ , प्र , या॒हि॒ , क॒ल्या॒णीः , जा॒या , सु॒ऽरणं॑ , गृ॒हे , ते॒ । यत्र॑ , रथ॑स्य , बृ॒ह॒तः , नि॒ऽधानं॑ , वि॒ऽमोच॑नं , वा॒जिनः॑ , दक्षि॑णाऽवत् ॥
इ॒मे भो॒जा अंगि॑रसो॒ विरू॑पा दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः । वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रंत॒ आयुः॑ ॥
इ॒मे , भो॒जाः , अंगि॑रसः , विऽरू॑पाः , दि॒वः , पु॒त्रासः॑ , असु॑रस्य , वी॒राः । वि॒श्वामि॑त्राय , दद॑तः , म॒घानि॑ , स॒ह॒स्र॒ऽसा॒वे , प्र , ति॒रं॒ते॒ , आयुः॑ ॥
रू॒पंरू॑पं म॒घवा॑ बोभवीति मा॒याः कृ॑ण्वा॒नस्त॒न्वं१॒॑ परि॒ स्वां । त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त्स्वैर्मंत्रै॒रनृ॑तुपा ऋ॒तावा॑ ॥
रू॒पंऽरू॑पं , म॒घऽवा॑ , बो॒भ॒वी॒ति॒ , मा॒याः , कृ॒ण्वा॒नः , त॒न्वं॑ , परि॑ , स्वां । त्रिः , यत् , दि॒वः , परि॑ , मु॒हू॒र्तं , आ , अगा॑त् , स्वैः , मंत्रैः॑ , अनृ॑तुऽपाः , ऋ॒तऽवा॑ ॥
म॒हाँ ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त्सिंधु॑मर्ण॒वं नृ॒चक्षाः॑ । वि॒श्वामि॑त्रो॒ यदव॑हत्सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिंद्रः॑ ॥
म॒हान् , ऋषिः॑ , दे॒व॒ऽजाः , दे॒वऽजू॑तः , अस्त॑भ्नात् , सिंधुं॑ , अ॒र्ण॒वं , नृ॒ऽचक्षाः॑ । वि॒श्वामि॑त्रः , यत् , अव॑हत् , सु॒ऽदासं॑ , अप्रि॑यायत , कु॒शि॒केभिः॑ , इंद्रः॑ ॥
हं॒सा इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मदं॑तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा॑ । दे॒वेभि॑र्विप्रा ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यं मधु॑ ॥
हं॒साःऽइ॑व , कृ॒णु॒थ॒ , श्लोकं॑ , अद्रि॑ऽभिः , मदं॑तः , गीः॒ऽभिः , अ॒ध्व॒रे , सु॒ते , सचा॑ । दे॒वेभिः॑ , वि॒प्राः॒ , ऋ॒ष॒यः॒ , नृ॒ऽच॒क्ष॒सः॒ , वि , पि॒ब॒ध्वं॒ , कु॒शि॒काः॒ , सो॒म्यं , मधु॑ ॥
उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं॑ रा॒ये प्र मुं॑चता सु॒दासः॑ । राजा॑ वृ॒त्रं जं॑घन॒त्प्रागपा॒गुद॒गथा॑ यजाते॒ वर॒ आ पृ॑थि॒व्याः ॥
उप॑ , प्र , इ॒त॒ , कु॒शि॒काः॒ , चे॒तय॑ध्वं , अश्वं॑ , रा॒ये , प्र , मुं॒च॒त॒ , सु॒ऽदासः॑ । राजा॑ , वृ॒त्रं , जं॒घ॒न॒त् , प्राक् , अपा॑क् , उद॑क् , अथ॑ , य॒जा॒ते॒ , वरे॑ , आ , पृ॒थि॒व्याः ॥
य इ॒मे रोद॑सी उ॒भे अ॒हमिंद्र॒मतु॑ष्टवं । वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जनं॑ ॥
यः , इ॒मे इति॑ , रोद॑सी॒ इति॑ , उ॒भे इति॑ , अ॒हं , इंद्रं॑ , अतु॑स्तवं । वि॒श्वामि॑त्रस्य , र॒क्ष॒ति॒ , ब्रह्म॑ , इ॒दं , भार॑तं , जनं॑ ॥
वि॒श्वामि॑त्रा अरासत॒ ब्रह्मेंद्रा॑य व॒ज्रिणे॑ । कर॒दिन्नः॑ सु॒राध॑सः ॥
वि॒श्वामि॑त्राः , अ॒रा॒स॒त॒ , ब्रह्म॑ , इंद्रा॑य , व॒ज्रिणे॑ । कर॑त् , इत् , नः॒ , सु॒ऽराध॑सः ॥
किं ते॑ कृण्वंति॒ कीक॑टेषु॒ गावो॒ नाशिरं॑ दु॒ह्रे न त॑पंति घ॒र्मं । आ नो॑ भर॒ प्रम॑गंदस्य॒ वेदो॑ नैचाशा॒खं म॑घवन्रंधया नः ॥
किं , ते॒ , कृ॒ण्वं॒ति॒ , कीक॑टेषु , गावः॑ , न , आ॒ऽशिर॑न् , दु॒ह्रे , न , त॒पं॒ति॒ , घ॒र्मं । आ , नः॒ , भ॒र॒ , प्रऽम॑गंदस्य , वेदः॑ , नै॒चा॒ऽशा॒खं , म॒घ॒ऽव॒न् , रं॒ध॒य॒ , नः॒ ॥
स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता । आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो॑ दे॒वेष्व॒मृत॑मजु॒र्यं ॥
स॒स॒र्प॒रीः , अम॑तिं , बाध॑माना , बृ॒हत् , मि॒मा॒य॒ , ज॒मद॑ग्निऽदत्ता । आ , सूर्य॑स्य , दु॒हि॒ता , त॒ता॒न॒ , श्रवः॑ , दे॒वेषु॑ , अ॒मृतं॑ , अ॒जु॒र्यं ॥
स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्योऽधि॒ श्रवः॒ पांच॑जन्यासु कृ॒ष्टिषु॑ । सा प॒क्ष्या॒३॒॑ नव्य॒मायु॒र्दधा॑ना॒ यां मे॑ पलस्तिजमद॒ग्नयो॑ द॒दुः ॥
स॒स॒र्प॒रीः , अ॒भ॒र॒त् , तूयं॑ , ए॒भ्यः॒ , अधि॑ , श्रवः॑ , पांच॑ऽजन्यासु , कृ॒ष्टिषु॑ । सा , प॒क्ष्या॑ , नव्यं॑ , आयुः॑ , दधा॑ना , यां , मे॒ , प॒ल॒स्ति॒ऽज॒म॒द॒ग्नयः॑ , द॒दुः ॥
स्थि॒रौ गावौ॑ भवतां वी॒ळुरक्षो॒ मेषा वि व॑र्हि॒ मा यु॒गं वि शा॑रि । इंद्रः॑ पात॒ल्ये॑ ददतां॒ शरी॑तो॒ररि॑ष्टनेमे अ॒भि नः॑ सचस्व ॥
स्थि॒रौ , गावौ॑ , भ॒व॒तां॒ , वी॒ळुः , अक्षः॑ , मा , ई॒षा , वि , व॒र्हि॒ , मा , यु॒गं , वि , शा॒रि॒ । इंद्रः॑ , पा॒त॒ल्ये॒३॒॑ इति॑ , द॒द॒तां॒ , शरी॑तोः , अरि॑ष्टऽनेमे , अ॒भि , नः॒ , स॒च॒स्व॒ ॥
बलं॑ धेहि त॒नूषु॑ नो॒ बल॑मिंद्रान॒ळुत्सु॑ नः । बलं॑ तो॒काय॒ तन॑याय जी॒वसे॒ त्वं हि ब॑ल॒दा असि॑ ॥
बलं॑ , धे॒हि॒ , त॒नूषु॑ , नः॒ , बलं॑ , इं॒द्र॒ , अ॒न॒ळुत्ऽसु॑ , नः॒ । बलं॑ , तो॒काय॑ , तन॑याय , जी॒वसे॑ , त्वं , हि , ब॒ल॒ऽदाः , असि॑ ॥
अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॒मोजो॑ धेहि स्पंद॒ने शिं॒शपा॑यां । अक्ष॑ वीळो वीळित वी॒ळय॑स्व॒ मा यामा॑द॒स्मादव॑ जीहिपो नः ॥
अ॒भि , व्य॒य॒स्व॒ , ख॒दि॒रस्य॑ , सारं॑ , ओजः॑ , धे॒हि॒ , स्पं॒द॒ने , शिं॒शपा॑यां । अक्ष॑ , वी॒ळो॒ इति॑ , वी॒ळि॒त॒ , वी॒ळय॑स्व , मा , यामा॑त् , अ॒स्मात् , अव॑ , जी॒हि॒पः॒ , नः॒ ॥
अ॒यम॒स्मान्वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् । स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा आ वि॒मोच॑नात् ॥
अ॒यं , अ॒स्मान् , वन॒स्पतिः॑ , मा , च॒ , हाः , मा , च॒ , रि॒रि॒ष॒त् । स्व॒स्ति , आ , गृ॒हेभ्यः॑ , आ , अ॒व॒ऽसै , आ , वि॒ऽमोच॑नात् ॥
इंद्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑च्छ्रे॒ष्ठाभि॑र्मघवंछूर जिन्व । यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ॥
इंद्र॑ , ऊ॒तिऽभिः॑ , ब॒हु॒लाभिः॑ , नः॒ , अ॒द्य , या॒त्ऽश्रे॒ष्ठाभिः॑ , म॒घ॒ऽव॒न् , शू॒र॒ , जि॒न्व॒ । यः , नः॒ , द्वेष्टि॑ , अध॑रः , सः , प॒दी॒ष्ट॒ , यं , ऊँ॒ इति॑ , द्वि॒ष्मः , तं , ऊँ॒ इति॑ , प्रा॒णः , ज॒हा॒तु॒ ॥
प॒र॒शुं चि॒द्वि त॑पति शिंब॒लं चि॒द्वि वृ॑श्चति । उ॒खा चि॑दिंद्र॒ येषं॑ती॒ प्रय॑स्ता॒ फेन॑मस्यति ॥
प॒र॒शुं , चि॒त् , वि , त॒प॒ति॒ , शिं॒ब॒लं , चि॒त् , वि , वृ॒श्च॒ति॒ । उ॒खा , चि॒त् , इं॒द्र॒ , येषं॑ती , प्रऽय॑स्ता , फेनं॑ , अ॒स्य॒ति॒ ॥
न साय॑कस्य चिकिते जनासो लो॒धं न॑यंति॒ पशु॒ मन्य॑मानाः । नावा॑जिनं वा॒जिना॑ हासयंति॒ न ग॑र्द॒भं पु॒रो अश्वा॑न्नयंति ॥
न , साय॑कस्य , चि॒कि॒ते॒ , ज॒ना॒सः॒ , लो॒धं , न॒यं॒ति॒ , पशु॑ , मन्य॑मानाः । न , अवा॑जिनं , वा॒जिना॑ , हा॒स॒यं॒ति॒ , न , ग॒र्द॒भं , पु॒रः , अश्वा॑त् , न॒यं॒ति॒ ॥
इ॒म इं॑द्र भर॒तस्य॑ पु॒त्रा अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वं । हि॒न्वंत्यश्व॒मर॑णं॒ न नित्यं॒ ज्या॑वाजं॒ परि॑ णयंत्या॒जौ ॥
इ॒मे , इं॒द्र॒ , भ॒र॒तस्य॑ , पु॒त्राः , अ॒प॒ऽपि॒त्वं , चि॒कि॒तुः॒ , न , प्र॒ऽपि॒त्वं । हि॒न्वंति॑ , अश्वं॑ , अर॑णं , न , नित्यं॑ , ज्या॑ऽवाजं , परि॑ , न॒यं॒ति॒ , आ॒जौ ॥
[५४] इमंमहइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् (सूक्तभेदप्रयोगपक्षेदेवताः क्रमेण - अग्निः १ विश्वेदेवाः २ द्यावापृथिवी १ विश्वे। १ सूर्यद्यावापृथिव्यः १ द्यावापृथिवी २ द्यौः १ विश्वेदेवाः १ सविता १ विश्वे। २ विष्णुः १ इंद्रः १ अश्विनौ १ विश्वेदेवाः ५ अग्निः १ एवं २२ उत्तरसूक्तेअखिला अपिविश्वेदेवाः)|
इ॒मं म॒हे वि॑द॒थ्या॑य शू॒षं शश्व॒त्कृत्व॒ ईड्या॑य॒ प्र ज॑भ्रुः । शृ॒णोतु॑ नो॒ दम्ये॑भि॒रनी॑कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः ॥
इ॒मं , म॒हे , वि॒द॒थ्या॑य , शू॒षं , शश्व॑त् , कृत्वः॑ , ईड्या॑य , प्र , ज॒भ्रुः॒ । शृ॒णोतु॑ , नः॒ , दम्ये॑भिः , अनी॑कैः , शृ॒णोतु॑ , अ॒ग्निः , दि॒व्यैः , अज॑स्रः ॥
महि॑ म॒हे दि॒वे अ॑र्चा पृथि॒व्यै कामो॑ म इ॒च्छंच॑रति प्रजा॒नन् । ययो॑र्ह॒ स्तोमे॑ वि॒दथे॑षु दे॒वाः स॑प॒र्यवो॑ मा॒दयं॑ते॒ सचा॒योः ॥
महि॑ , म॒हे , दि॒वे , अ॒र्च॒ , पृ॒थि॒व्यै , कामः॑ , मे॒ , इ॒च्छन् , च॒र॒ति॒ , प्र॒ऽजा॒नन् । ययोः॑ , ह॒ , स्तोमे॑ , वि॒दथे॑षु , दे॒वाः , स॒प॒र्यवः॑ , मा॒दयं॑ते , सचा॑ , आ॒योः ॥
यु॒वोर्ऋ॒तं रो॑दसी स॒त्यम॑स्तु म॒हे षु णः॑ सुवि॒ताय॒ प्र भू॑तं । इ॒दं दि॒वे नमो॑ अग्ने पृथि॒व्यै स॑प॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्नं॑ ॥
यु॒वोः , ऋ॒तं , रो॒द॒सी॒ इति॑ , स॒त्यं , अ॒स्तु॒ , म॒हे , सु , नः॒ , सु॒ऽवि॒ताय॑ , प्र , भू॒तं॒ । इ॒दं , दि॒वे , नमः॑ , अ॒ग्ने॒ , पृ॒थि॒व्यै , स॒प॒र्यामि॑ , प्रय॑सा , यामि॑ , रत्नं॑ ॥
उ॒तो हि वां॑ पू॒र्व्या आ॑विवि॒द्र ऋता॑वरी रोदसी सत्य॒वाचः॑ । नर॑श्चिद्वां समि॒थे शूर॑सातौ ववंदि॒रे पृ॑थिवि॒ वेवि॑दानाः ॥
उ॒तो इति॑ , हि , वां॒ , पू॒र्व्याः , आ॒ऽवि॒वि॒द्रे , ऋत॑वरी॒ इत्यृत॑ऽवरी , रो॒द॒सी॒ इति॑ , स॒त्य॒ऽवाचः॑ । नरः॑ , चि॒त् , वां॒ , सं॒ऽइ॒थे , शूर॑ऽसातौ , व॒वं॒दि॒रे , पृ॒थि॒वि॒ , वेवि॑दानाः ॥
को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चद्दे॒वाँ अच्छा॑ प॒थ्या॒३॒॑ का समे॑ति । ददृ॑श्र एषामव॒मा सदां॑सि॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥
कः , अ॒द्धा , वे॒द॒ , कः , इ॒ह , प्र , वो॒च॒त् , दे॒वान् , अच्छ॑ , प॒थ्या॑ , का , सं , ए॒ति॒ । ददृ॑श्रे , ए॒षां॒ , अ॒व॒मा , सदां॑सि , परे॑षु , या , गुह्ये॑षु , व्र॒तेषु॑ ॥
क॒विर्नृ॒चक्षा॑ अ॒भि षी॑मचष्ट ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मदं॑ती । नाना॑ चक्राते॒ सद॑नं॒ यथा॒ वेः स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने ॥
क॒विः , नृ॒ऽचक्षाः॑ , अ॒भि , सीं॒ , अ॒च॒ष्ट॒ , ऋ॒तस्य॑ , योना॑ , विघृ॑ते॒ इति॒ विऽघृ॑ते , मदं॑ती॒ इति॑ । नाना॑ , च॒क्रा॒ते॒ इति॑ , सद॑नं , यथा॑ , वेः , स॒मा॒नेन॑ , क्रतु॑ना , सं॒वि॒दा॒ने इति॑ सं॒ऽवि॒दा॒ने ॥
स॒मा॒न्या वियु॑ते दू॒रेअं॑ते ध्रु॒वे प॒दे त॑स्थतुर्जाग॒रूके॑ । उ॒त स्वसा॑रा युव॒ती भवं॑ती॒ आदु॑ ब्रुवाते मिथु॒नानि॒ नाम॑ ॥
स॒मा॒न्या , वियु॑ते॒ इति॒ विऽयु॑ते , दू॒रेअं॑ते॒ इति॑ दू॒रेऽअं॑ते , ध्रु॒वे , प॒दे , त॒स्थ॒तुः॒ , जा॒ग॒रूके॒ इति॑ । उ॒त , स्वसा॑रा , यु॒व॒ती इति॑ , भवं॑ती॒ इति॑ , आत् , ऊँ॒ इति॑ , ब्रु॒वा॒ते॒ इति॑ , मि॒थु॒नानि॑ , नाम॑ ॥
विश्वेदे॒ते जनि॑मा॒ सं वि॑विक्तो म॒हो दे॒वान्बिभ्र॑ती॒ न व्य॑थेते । एज॑द्ध्रु॒वं प॑त्यते॒ विश्व॒मेकं॒ चर॑त्पत॒त्रि विषु॑णं॒ वि जा॒तं ॥
विश्वा॑ , इत् , ए॒ते इति॑ , जनि॑म , सं , वि॒वि॒क्तः॒ , म॒हः , दे॒वान् , बिभ्र॑ती॒ इति॑ , न , व्य॒थे॒ते॒ इति॑ । एज॑त् , ध्रु॒वं , प॒त्य॒ते॒ , विश्वं॑ , एकं॑ , चर॑त् , प॒त॒त्रि , विषु॑णं , वि , जा॒तं ॥
सना॑ पुरा॒णमध्ये॑म्या॒रान्म॒हः पि॒तुर्ज॑नि॒तुर्जा॒मि तन्नः॑ । दे॒वासो॒ यत्र॑ पनि॒तार॒ एवै॑रु॒रौ प॒थि व्यु॑ते त॒स्थुरं॒तः ॥
सना॑ , पु॒रा॒णं , अधि॑ , ए॒मि॒ , आ॒रात् , म॒हः , पि॒तुः , ज॒नि॒तुः , जा॒मि , तत् , नः॒ । दे॒वासः॑ , यत्र॑ , प॒नि॒तारः॑ , एवैः॑ , उ॒रौ , प॒थि , विऽउ॑ते , त॒स्थुः , अं॒तरिति॑ ॥
इ॒मं स्तोमं॑ रोदसी॒ प्र ब्र॑वीम्यृदू॒दराः॑ शृणवन्नग्निजि॒ह्वाः । मि॒त्रः स॒म्राजो॒ वरु॑णो॒ युवा॑न आदि॒त्यासः॑ क॒वयः॑ पप्रथा॒नाः ॥
इ॒मं , स्तोमं॑ , रो॒द॒सी॒ इति॑ , प्र , ब्र॒वी॒मि॒ , ऋ॒दू॒दराः॑ , शृ॒ण॒व॒न् , अ॒ग्नि॒ऽजि॒ह्वाः । मि॒त्रः , सं॒ऽराजः॑ , वरु॑णः , युवा॑नः , आ॒दि॒त्यासः॑ , क॒वयः॑ , प॒प्र॒था॒नाः ॥
हिर॑ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः । दे॒वेषु॑ च सवितः॒ श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु॑व स॒र्वता॑तिं ॥
हिर॑ण्यऽपाणिः , स॒वि॒ता , सु॒ऽजि॒ह्वः , त्रिः , आ , दि॒वः , वि॒दथे॑ , पत्य॑मानः । दे॒वेषु॑ , च॒ , स॒वि॒त॒रिति॑ , श्लोकं॑ , अश्रेः॑ , आत् , अ॒स्मभ्यं॑ , आ , सु॒व॒ , स॒र्वऽता॑तिं ॥
सु॒कृत्सु॑पा॒णिः स्ववाँ॑ ऋ॒तावा॑ दे॒वस्त्वष्टाव॑से॒ तानि॑ नो धात् । पू॒ष॒ण्वंत॑ ऋभवो मादयध्वमू॒र्ध्वग्रा॑वाणो अध्व॒रम॑तष्ट ॥
सु॒ऽकृत् , सु॒ऽपा॒णिः , स्वऽवा॑न् , ऋ॒तऽवा॑ , दे॒वः , त्वष्टा॑ , अव॑से , तानि॑ , नः॒ , धा॒त् । पू॒ष॒ण्ऽवंतः॑ , ऋ॒भ॒वः॒ , मा॒द॒य॒ध्वं॒ , ऊ॒र्ध्वऽग्रा॑वाणः , अ॒ध्व॒रं , अ॒त॒ष्ट॒ ॥
वि॒द्युद्र॑था म॒रुत॑ ऋष्टि॒मंतो॑ दि॒वो मर्या॑ ऋ॒तजा॑ता अ॒यासः॑ । सर॑स्वती शृणवन्य॒ज्ञिया॑सो॒ धाता॑ र॒यिं स॒हवी॑रं तुरासः ॥
वि॒द्युत्ऽर॑थाः , म॒रुतः॑ , ऋ॒ष्टि॒ऽमंतः॑ , दि॒वः , मर्याः॑ , ऋ॒तऽजा॑ताः , अ॒यासः॑ । सर॑स्वती , शृ॒ण॒व॒न् , य॒ज्ञिया॑सः , धात॑ , र॒यिं , स॒हऽवी॑रं , तु॒रा॒सः॒ ॥
विष्णुं॒ स्तोमा॑सः पुरुद॒स्मम॒र्का भग॑स्येव का॒रिणो॒ याम॑नि ग्मन् । उ॒रु॒क्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्न म॑र्धंति युव॒तयो॒ जनि॑त्रीः ॥
विष्णुं॑ , स्तोमा॑सः , पु॒रु॒ऽद॒स्मं , अ॒र्काः , भग॑स्यऽइव , का॒रिणः॑ , याम॑नि , ग्म॒न् । उ॒रु॒ऽक्र॒मः , क॒कु॒हः , यस्य॑ , पू॒र्वीः , न , म॒र्धं॒ति॒ , यु॒व॒तयः॑ , जनि॑त्रीः ॥
इंद्रो॒ विश्वै॑र्वी॒र्यै॒३॒॑ः पत्य॑मान उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा । पु॒रं॒द॒रो वृ॑त्र॒हा धृ॒ष्णुषे॑णः सं॒गृभ्या॑ न॒ आ भ॑रा॒ भूरि॑ प॒श्वः ॥
इंद्रः॑ , विश्वैः॑ , वी॒र्यैः॑ , पत्य॑मानः , उ॒भे इति॑ , आ , प॒प्रौ॒ , रोद॑सी॒ इति॑ , म॒हि॒ऽत्वा । पु॒रं॒ऽद॒रः , वृ॒त्र॒ऽहा , धृ॒ष्णुऽसे॑नः , सं॒ऽगृभ्य॑ , नः॒ , आ , भ॒र॒ , भूरि॑ , प॒श्वः ॥
नास॑त्या मे पि॒तरा॑ बंधु॒पृच्छा॑ सजा॒त्य॑म॒श्विनो॒श्चारु॒ नाम॑ । यु॒वं हि स्थो र॑यि॒दौ नो॑ रयी॒णां दा॒त्रं र॑क्षेथे॒ अक॑वै॒रद॑ब्धा ॥
नास॑त्या , मे॒ , पि॒तरा॑ , बं॒धु॒ऽपृच्छा॑ , स॒ऽजा॒त्यं॑ , अ॒श्विनोः॑ , चारु॑ , नाम॑ । यु॒वं , हि , स्थः , र॒यि॒ऽदौ , नः॒ , र॒यी॒णां , दा॒त्रं , र॒क्षे॒थे॒ इति॑ , अक॑वैः , अद॑ब्धा ॥
म॒हत्तद्वः॑ कवय॒श्चारु॒ नाम॒ यद्ध॑ देवा॒ भव॑थ॒ विश्व॒ इंद्रे॑ । सख॑ ऋ॒भुभिः॑ पुरुहूत प्रि॒येभि॑रि॒मां धियं॑ सा॒तये॑ तक्षता नः ॥
म॒हत् , तत् , वः॒ , क॒व॒यः॒ , चारु॑ , नाम॑ , यत् , ह॒ , दे॒वाः॒ , भव॑थ , विश्वे॑ , इंद्रे॑ । सखा॑ , ऋ॒भुऽभिः॑ , पु॒रु॒ऽहू॒त॒ , प्रि॒येभिः॑ , इ॒मां , धियं॑ , सा॒तये॑ , त॒क्ष॒त॒ , नः॒ ॥
अ॒र्य॒मा णो॒ अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ । यु॒योत॑ नो अनप॒त्यानि॒ गंतोः॑ प्र॒जावा॑न्नः पशु॒माँ अ॑स्तु गा॒तुः ॥
अ॒र्य॒मा , नः॒ , अदि॑तिः , य॒ज्ञिया॑सः , अद॑ब्धानि , वरु॑णस्य , व्र॒तानि॑ । यु॒योत॑ , नः॒ , अ॒न॒प॒त्यानि॑ , गंतोः॑ , प्र॒जाऽवा॑न् , नः॒ , प॒शु॒ऽमान् , अ॒स्तु॒ , गा॒तुः ॥
दे॒वानां॑ दू॒तः पु॑रु॒ध प्रसू॒तोऽना॑गान्नो वोचतु स॒र्वता॑ता । शृ॒णोतु॑ नः पृथि॒वी द्यौरु॒तापः॒ सूर्यो॒ नक्ष॑त्रैरु॒र्व१॒॑न्तरि॑क्षं ॥
दे॒वानां॑ , दू॒तः , पु॒रु॒ध , प्रऽसू॑तः , अना॑गान् , नः॒ , वो॒च॒तु॒ , स॒र्वऽता॑ता । शृ॒णोतु॑ , नः॒ , पृ॒थि॒वी , द्यौः , उ॒त , आपः॑ , सूर्यः॑ , नक्ष॑त्रैः , उ॒रु , अं॒तरि॑क्षं ॥
शृ॒ण्वंतु॑ नो॒ वृष॑णः॒ पर्व॑तासो ध्रु॒वक्षे॑मास॒ इळ॑या॒ मदं॑तः । आ॒दि॒त्यैर्नो॒ अदि॑तिः शृणोतु॒ यच्छं॑तु नो म॒रुतः॒ शर्म॑ भ॒द्रं ॥
शृ॒ण्वंतु॑ , नः॒ , वृष॑णः , पर्व॑तासः , ध्रु॒वऽक्षे॑मासः , इळ॑या , मदं॑तः । आ॒दि॒त्यैः , नः॒ , अदि॑तिः , शृ॒णो॒तु॒ , यच्छं॑तु , नः॒ , म॒रुतः॑ , शर्म॑ , भ॒द्रं ॥
सदा॑ सु॒गः पि॑तु॒माँ अ॑स्तु॒ पंथा॒ मध्वा॑ देवा॒ ओष॑धीः॒ सं पि॑पृक्त । भगो॑ मे अग्ने स॒ख्ये न मृ॑ध्या॒ उद्रा॒यो अ॑श्यां॒ सद॑नं पुरु॒क्षोः ॥
सदा॑ , सु॒ऽगः , पि॒तु॒ऽमान् , अ॒स्तु॒ , पंथा॑ , मध्वा॑ , दे॒वाः॒ , ओष॑धीः , सं , पि॒पृ॒क्त॒ । भगः॑ , मे॒ , अ॒ग्ने॒ , स॒ख्ये , न , मृ॒ध्याः॒ , उत् , रा॒यः , अ॒श्यां॒ , सद॑नं , पु॒रु॒ऽक्षोः ॥
स्वद॑स्व ह॒व्या समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि । विश्वाँ॑ अग्ने पृ॒त्सु तांजे॑षि॒ शत्रू॒नहा॒ विश्वा॑ सु॒मना॑ दीदिही नः ॥
स्वद॑स्व , ह॒व्या , सं , इषः॑ , दि॒दी॒हि॒ , अ॒स्म॒द्र्य॑क् , सं , मि॒मी॒हि॒ , श्रवां॑सि । विश्वा॑न् , अ॒ग्ने॒ , पृ॒त्ऽसु , तान् , जे॒षि॒ , शत्रू॑न् , अहा॑ , विश्वा॑ , सु॒ऽमनाः॑ , दी॒दि॒हि॒ , नः॒ ॥
[५५] उषसइति द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रःप्रजापतिर्विश्वेदेवास्त्रिष्टुप् |
उ॒षसः॒ पूर्वा॒ अध॒ यद्व्यू॒षुर्म॒हद्वि ज॑ज्ञे अ॒क्षरं॑ प॒दे गोः । व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष॑न्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
उ॒षसः॑ , पूर्वाः॑ , अध॑ , यत् , वि॒ऽऊ॒षुः , म॒हत् , वि , ज॒ज्ञे॒ , अ॒क्षरं॑ , प॒दे , गोः । व्र॒ता , दे॒वानां॑ , उप॑ , नु , प्र॒ऽभूष॑न् , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
मो षू णो॒ अत्र॑ जुहुरंत दे॒वा मा पूर्वे॑ अग्ने पि॒तरः॑ पद॒ज्ञाः । पु॒रा॒ण्योः सद्म॑नोः के॒तुरं॒तर्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
मो इति॑ , सु , नः॒ , अत्र॑ , जु॒हु॒रं॒त॒ , दे॒वाः , मा , पूर्वे॑ , अ॒ग्ने॒ , पि॒तरः॑ , प॒द॒ऽज्ञाः । पु॒रा॒ण्योः , सद्म॑नोः , के॒तुः , अं॒तः , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
वि मे॑ पुरु॒त्रा प॑तयंति॒ कामाः॒ शम्यच्छा॑ दीद्ये पू॒र्व्याणि॑ । समि॑द्धे अ॒ग्नावृ॒तमिद्व॑देम म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
वि , मे॒ , पु॒रु॒ऽत्रा , प॒त॒यं॒ति॒ , कामाः॑ , शमि॑ , अच्छ॑ , दी॒द्ये॒ , पू॒र्व्याणि॑ । संऽइ॑द्धे , अ॒ग्नौ , ऋ॒तं , इत् , व॒दे॒म॒ , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
स॒मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये॑ श॒यासु॒ प्रयु॑तो॒ वनानु॑ । अ॒न्या व॒त्सं भर॑ति॒ क्षेति॑ मा॒ता म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
स॒मा॒नः , राजा॑ , विऽभृ॑तः , पु॒रु॒ऽत्रा , शये॑ , श॒यासु॑ , प्रऽयु॑तः , वना॑ , अनु॑ । अ॒न्या , व॒त्सं , भर॑ति , क्षेति॑ , मा॒ता , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
आ॒क्षित्पूर्वा॒स्वप॑रा अनू॒रुत्स॒द्यो जा॒तासु॒ तरु॑णीष्वं॒तः । अं॒तर्व॑तीः सुवते॒ अप्र॑वीता म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
आ॒ऽक्षित् , पूर्वा॑सु , अप॑राः , अ॒नू॒रुत् , स॒द्यः , जा॒तासु॑ , तरु॑णीषु , अं॒तरिति॑ । अं॒तःऽव॑तीः , सु॒व॒ते॒ , अप्र॑ऽवीताः , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताबं॑ध॒नश्च॑रति व॒त्स एकः॑ । मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
श॒युः , प॒रस्ता॑त् , अध॑ , नु , द्वि॒ऽमा॒ता , अ॒बं॒ध॒नः , च॒र॒ति॒ , व॒त्सः , एकः॑ । मि॒त्रस्य॑ , ता , वरु॑णस्य , व्र॒तानि॑ , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
द्वि॒मा॒ता होता॑ वि॒दथे॑षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः । प्र रण्या॑नि रण्य॒वाचो॑ भरंते म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
द्वि॒ऽमा॒ता , होता॑ , वि॒दथे॑षु , सं॒ऽराट् , अनु॑ , अग्रं॑ , चर॑ति , क्षेति॑ , बु॒ध्नः । प्र , रण्या॑नि , र॒ण्य॒ऽवाचः॑ , भ॒रं॒ते॒ , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
शूर॑स्येव॒ युध्य॑तो अंत॒मस्य॑ प्रती॒चीनं॑ ददृशे॒ विश्व॑मा॒यत् । अं॒तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
शूर॑स्यऽइव , युध्य॑तः , अं॒त॒मस्य॑ , प्र॒ती॒चीनं॑ , द॒दृ॒शे॒ , विश्वं॑ , आ॒ऽयत् । अं॒तः , म॒तिः , च॒र॒ति॒ , निः॒ऽसिधं॑ , गोः , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
नि वे॑वेति पलि॒तो दू॒त आ॑स्वं॒तर्म॒हाँश्च॑रति रोच॒नेन॑ । वपूं॑षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
नि , वे॒वे॒ति॒ , प॒लि॒तः , दू॒तः , आ॒सु॒ , अं॒तः , म॒हान् , च॒र॒ति॒ , रो॒च॒नेन॑ । वपूं॑षि , बिभ्र॑त् , अ॒भि , नः॒ , वि , च॒ष्टे॒ , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
विष्णु॑र्गो॒पाः प॑र॒मं पा॑ति॒ पाथः॑ प्रि॒या धामा॑न्य॒मृता॒ दधा॑नः । अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
विष्णुः॑ , गो॒पाः , प॒र॒मं , पा॒ति॒ , पाथः॑ , प्रि॒या , धामा॑नि , अ॒मृता॑ , दधा॑नः । अ॒ग्निः , ता , विश्वा॑ , भुव॑नानि , वे॒द॒ , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
नाना॑ चक्राते य॒म्या॒३॒॑ वपूं॑षि॒ तयो॑र॒न्यद्रोच॑ते कृ॒ष्णम॒न्यत् । श्यावी॑ च॒ यदरु॑षी च॒ स्वसा॑रौ म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
नाना॑ , च॒क्रा॒ते॒ इति॑ , य॒म्या॑ , वपूं॑षि , तयोः॑ , अ॒न्यत् , रोच॑ते , कृ॒ष्णं , अ॒न्यत् । श्यावी॑ , च॒ , यत् , अरु॑षी , च॒ , स्वसा॑रौ , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे॑ धा॒पये॑ते समी॒ची । ऋ॒तस्य॒ ते सद॑सीळे अं॒तर्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
मा॒ता , च॒ , यत्र॑ , दु॒हि॒ता , च॒ , धे॒नू इति॑ , स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे॑ , धा॒पये॑ते॒ इति॑ , स॒मी॒ची इति॑ सं॒ऽई॒ची । ऋ॒तस्य॑ , ते॒ इति॑ , सद॑सि , ई॒ळे॒ , अं॒तः , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूधः॑ । ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
अ॒न्यस्याः॑ , व॒त्सं , रि॒ह॒ती , मि॒मा॒य॒ , कया॑ , भु॒वा , नि , द॒धे॒ , धे॒नुः , ऊधः॑ । ऋ॒तस्य॑ , सा , पय॑सा , अ॒पि॒न्व॒त॒ , इळा॑ , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
पद्या॑ वस्ते पुरु॒रूपा॒ वपूं॑ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा । ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
पद्या॑ , व॒स्ते॒ , पु॒रु॒ऽरूपा॑ , वपूं॑षि , ऊ॒र्ध्वा , त॒स्थौ॒ , त्रि॒ऽअविं॑ , रेरि॑हाणा । ऋ॒तस्य॑ , सद्म॑ , वि , च॒रा॒मि॒ , वि॒द्वान् , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
प॒दे इ॑व॒ निहि॑ते द॒स्मे अं॒तस्तयो॑र॒न्यद्गुह्य॑मा॒विर॒न्यत् । स॒ध्री॒ची॒ना प॒थ्या॒३॒॑ सा विषू॑ची म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
प॒दे इ॒वेति॑ प॒देऽइ॑व , निहि॑ते॒ इति॒ निऽहि॑ते , द॒स्मे , अं॒तरिति॑ , तयोः॑ , अ॒न्यत् , गुह्यं॑ , आ॒विः , अ॒न्यत् । स॒ध्री॒ची॒ना , प॒थ्या॑ , सा , विषू॑ची , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
आ धे॒नवो॑ धुनयंता॒मशि॑श्वीः सब॒र्दुघाः॑ शश॒या अप्र॑दुग्धाः । नव्या॑नव्या युव॒तयो॒ भवं॑तीर्म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
आ , धे॒नवः॑ , धु॒न॒यं॒तां॒ , अशि॑श्वीः , स॒बः॒ऽदुघाः॑ , श॒श॒याः , अप्र॑ऽदुग्धाः । नव्याः॑ऽनव्याः , यु॒व॒तयः॑ , भवं॑तीः , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो अ॒न्यस्मि॑न्यू॒थे नि द॑धाति॒ रेतः॑ । स हि क्षपा॑वां॒त्स भगः॒ स राजा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
यत् , अ॒न्यासु॑ , वृ॒ष॒भः , रोर॑वीति , सः , अ॒न्यस्मि॑न् , यू॒थे , नि , द॒धा॒ति॒ , रेतः॑ । सः , हि , क्षपा॑ऽवान् , सः , भगः॑ , सः , राजा॑ , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
वी॒रस्य॒ नु स्वश्व्यं॑ जनासः॒ प्र नु वो॑चाम वि॒दुर॑स्य दे॒वाः । षो॒ळ्हा यु॒क्ताः पंच॑पं॒चा व॑हंति म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
वी॒रस्य॑ , नु , सु॒ऽअश्व्यं॑ , ज॒ना॒सः॒ , प्र , नु , वो॒चा॒म॒ , वि॒दुः , अ॒स्य॒ , दे॒वाः । षो॒ळ्हा , यु॒क्ताः , पंच॑ऽपंच , आ , व॒हं॒ति॒ , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान । इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
दे॒वः , त्वष्टा॑ , स॒वि॒ता , वि॒श्वऽरू॑पः , पु॒पोष॑ , प्र॒ऽजाः , पु॒रु॒धा , ज॒जा॒न॒ । इ॒मा , च॒ , विश्वा॑ , भुव॑नानि , अ॒स्य॒ , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
म॒ही समै॑रच्च॒म्वा॑ समी॒ची उ॒भे ते अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे । शृ॒ण्वे वी॒रो विं॒दमा॑नो॒ वसू॑नि म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
म॒ही इति॑ , सं , ऐ॒र॒त् , च॒म्वा॑ , स॒मी॒ची इति॑ सं॒ऽई॒ची , उ॒भे इति॑ , ते इति॑ , अ॒स्य॒ , वसु॑ना , न्यृ॑ष्टे॒ इति॒ निऽऋ॑ष्टे । शृ॒ण्वे , वी॒रः , विं॒दमा॑नः , वसू॑नि , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा॑या॒ उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा॑ । पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
इ॒मां , च॒ , नः॒ , पृ॒थि॒वीं , वि॒श्वऽधा॑याः , उप॑ , क्षे॒ति॒ , हि॒तऽमि॑त्रः , न , राजा॑ । पु॒रः॒ऽसदः॑ , श॒र्म॒ऽसदः॑ , न , वी॒राः , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो॑ र॒यिं त॑ इंद्र पृथि॒वी बि॑भर्ति । सखा॑यस्ते वाम॒भाजः॑ स्याम म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥
निः॒ऽसिध्व॑रीः , ते॒ , ओष॑धीः , उ॒त , आपः॑ , र॒यिं , ते॒ , इं॒द्र॒ , पृ॒थि॒वी , बि॒भ॒र्ति॒ । सखा॑यः , ते॒ , वा॒म॒ऽभाजः॑ , स्या॒म॒ , म॒हत् , दे॒वानां॑ , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
[५६] नतामिनंतीत्यष्टर्चस्य सूक्तस्य गाथिनोविश्वामित्रो विश्वेदेवास्त्रिष्टुप् (भेदपक्षेविभागः क्रमेण - विश्वेदेवाः १ संवत्सरादित्याः सिंधवः १ सविता १ विश्वेदेवाः २ एवमष्टौ)|
न ता मि॑नंति मा॒यिनो॒ न धीरा॑ व्र॒ता दे॒वानां॑ प्रथ॒मा ध्रु॒वाणि॑ । न रोद॑सी अ॒द्रुहा॑ वे॒द्याभि॒र्न पर्व॑ता नि॒नमे॑ तस्थि॒वांसः॑ ॥
न , ता , मि॒नं॒ति॒ , मा॒यिनः॑ , न , धीराः॑ , व्र॒ता , दे॒वानां॑ , प्र॒थ॒मा , ध्रु॒वाणि॑ । न , रोद॑सी॒ इति॑ , अ॒द्रुहा॑ , वे॒द्याभिः॑ , न , पर्व॑ताः , नि॒ऽनमे॑ , त॒स्थि॒ऽवांसः॑ ॥
षड्भा॒राँ एको॒ अच॑रन्बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगुः॑ । ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका॑ ॥
षट् , भा॒रान् , एकः॑ , अच॑रन् , बि॒भ॒र्ति॒ , ऋ॒तं , वर्षि॑ष्ठं , उप॑ , गावः॑ , आ , अ॒गुः॒ । ति॒स्रः , म॒हीः , उप॑राः , त॒स्थुः॒ , अत्याः॑ , गुहा॑ , द्वे इति॑ , निहि॑ते॒ इति॒ निऽहि॑ते , दर्शि॑ , एका॑ ॥
त्रि॒पा॒ज॒स्यो वृ॑ष॒भो वि॒श्वरू॑प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् । त्र्य॒नी॒कः प॑त्यते॒ माहि॑नावां॒त्स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनां ॥
त्रि॒ऽपा॒ज॒स्यः , वृ॒ष॒भः , वि॒श्वऽरू॑पः , उ॒त , त्रि॒ऽउ॒धा , पु॒रु॒ध , प्र॒जाऽवा॑न् । त्रि॒ऽअ॒नी॒कः , प॒त्य॒ते॒ , माहि॑नऽवा॒न् , सः , रे॒तः॒ऽधाः , वृ॒ष॒भः , शश्व॑तीनां ॥
अ॒भीक॑ आसां पद॒वीर॑बोध्यादि॒त्याना॑मह्वे॒ चारु॒ नाम॑ । आप॑श्चिदस्मा अरमंत दे॒वीः पृथ॒ग्व्रजं॑तीः॒ परि॑ षीमवृंजन् ॥
अ॒भीके॑ , आ॒सां॒ , प॒द॒ऽवीः , अ॒बो॒धि॒ , आ॒दि॒त्यानां॑ , अ॒ह्वे॒ , चारु॑ , नाम॑ । आपः॑ , चि॒त् , अ॒स्मै॒ , अ॒र॒मं॒त॒ , दे॒वीः , पृथ॑क् , व्रजं॑तीः , परि॑ , सीं॒ , अ॒वृं॒ज॒न् ॥
त्री ष॒धस्था॑ सिंधव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे॑षु स॒म्राट् । ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ॥
त्री , स॒धऽस्था॑ , सिं॒ध॒वः॒ , त्रिः , क॒वी॒नां , उ॒त , त्रि॒ऽमा॒ता , वि॒दथे॑षु , सं॒ऽराट् । ऋ॒तऽव॑रीः , योष॑णाः , ति॒स्रः , अप्याः॑ , त्रिः , आ , दि॒वः , वि॒दथे॑ , पत्य॑मानाः ॥
त्रिरा दि॒वः स॑वित॒र्वार्या॑णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒ अह्नः॑ । त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू॑नि॒ भग॑ त्रातर्धिषणे सा॒तये॑ धाः ॥
त्रिः , आ , दि॒वः , स॒वि॒तः॒ , वार्या॑णि , दि॒वेऽदि॑वे , आ , सु॒व॒ , त्रिः , नः॒ , अह्नः॑ । त्रि॒ऽधातु॑ , रा॒यः , आ , सु॒व॒ , वसू॑नि , भग॑ , त्रा॒तः॒ , धि॒ष॒णे॒ , सा॒तये॑ , धाः॒ ॥
त्रिरा दि॒वः स॑वि॒ता सो॑षवीति॒ राजा॑ना मि॒त्रावरु॑णा सुपा॒णी । आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्नं॑ भिक्षंत सवि॒तुः स॒वाय॑ ॥
त्रिः , आ , दि॒वः , स॒वि॒ता , सो॒स॒वी॒ति॒ , राजा॑ना , मि॒त्रावरु॑णा , सु॒पा॒णी इति॑ सु॒ऽपा॒णी । आपः॑ , चि॒त् , अ॒स्य॒ , रोद॑सी॒ इति॑ , चि॒त् , उ॒र्वी इति॑ , रत्नं॑ , भि॒क्षं॒त॒ , स॒वि॒तुः , स॒वाय॑ ॥
त्रिरु॑त्त॒मा दू॒णशा॑ रोच॒नानि॒ त्रयो॑ राजं॒त्यसु॑रस्य वी॒राः । ऋ॒तावा॑न इषि॒रा दू॒ळभा॑स॒स्त्रिरा दि॒वो वि॒दथे॑ संतु दे॒वाः ॥
त्रिः , उ॒त्ऽत॒मा , दुः॒ऽनशा॑ , रो॒च॒नानि॑ , त्रयः॑ , रा॒जं॒ति॒ , असु॑रस्य , वी॒राः । ऋ॒तऽवा॑नः , इ॒षि॒राः , दुः॒ऽदभा॑सः , त्रिः , आ , दि॒वः , वि॒दथे॑ , सं॒तु॒ , दे॒वाः ॥
[५७] प्रमेविविक्वानिति षडृचस्य सूक्तस्य गाथिनोविश्वामित्रोविश्वेदेवास्त्रिष्टुप् (भेदपक्षेविश्वेदेवाः ४ अग्निः २ एवंषट्) |
प्र मे॑ विवि॒क्वाँ अ॑विदन्मनी॒षां धे॒नुं चरं॑तीं॒ प्रयु॑ता॒मगो॑पां । स॒द्यश्चि॒द्या दु॑दु॒हे भूरि॑ धा॒सेरिंद्र॒स्तद॒ग्निः प॑नि॒तारो॑ अस्याः ॥
प्र , मे॒ , वि॒वि॒क्वान् , अ॒वि॒द॒त् , म॒नी॒षां , धे॒नुं , चरं॑तीं , प्रऽयु॑तां , अगो॑पां । स॒द्यः , चि॒त् , या , दु॒दु॒हे , भूरि॑ , धा॒सेः , इंद्रः॑ , तत् , अ॒ग्निः , प॒नि॒तारः॑ , अ॒स्याः॒ ॥
इंद्रः॒ सु पू॒षा वृष॑णा सु॒हस्ता॑ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे । विश्वे॒ यद॑स्यां र॒णयं॑त दे॒वाः प्र वोऽत्र॑ वसवः सु॒म्नम॑श्यां ॥
इंद्रः॑ , सु , पू॒षा , वृष॑णा , सु॒ऽहस्ता॑ , दि॒वः , न , प्री॒ताः , श॒श॒यं , दु॒दु॒ह्रे॒ । विश्वे॑ , यत् , अ॒स्यां॒ , र॒णयं॑त , दे॒वाः , प्र , वः॒ , अत्र॑ , व॒स॒वः॒ , सु॒म्नं , अ॒श्यां॒ ॥
या जा॒मयो॒ वृष्ण॑ इ॒च्छंति॑ श॒क्तिं न॑म॒स्यंती॑र्जानते॒ गर्भ॑मस्मिन् । अच्छा॑ पु॒त्रं धे॒नवो॑ वावशा॒ना म॒हश्च॑रंति॒ बिभ्र॑तं॒ वपूं॑षि ॥
याः , जा॒मयः॑ , वृष्णे॑ , इ॒च्छंति॑ , श॒क्तिं , न॒म॒स्यंतीः॑ , जा॒न॒ते॒ , गर्भं॑ , अ॒स्मि॒न् । अच्छ॑ , पु॒त्रं , धे॒नवः॑ , वा॒व॒शा॒नाः , म॒हः , च॒रं॒ति॒ , बिभ्र॑तं , वपूं॑षि ॥
अच्छा॑ विवक्मि॒ रोद॑सी सु॒मेके॒ ग्राव्णो॑ युजा॒नो अ॑ध्व॒रे म॑नी॒षा । इ॒मा उ॑ ते॒ मन॑वे॒ भूरि॑वारा ऊ॒र्ध्वा भ॑वंति दर्श॒ता यज॑त्राः ॥
अच्छ॑ , वि॒व॒क्मि॒ , रोद॑सी॒ इति॑ , सु॒मेके॒ इति॑ सु॒ऽमेके॑ , ग्राव्णः॑ , यु॒जा॒नः , अ॒ध्व॒रे , म॒नी॒षा । इ॒माः , ऊँ॒ इति॑ , ते॒ , मन॑वे , भूरि॑ऽवाराः , ऊ॒र्ध्वाः , भ॒वं॒ति॒ , द॒र्श॒ताः , यज॑त्राः ॥
या ते॑ जि॒ह्वा मधु॑मती सुमे॒धा अग्ने॑ दे॒वेषू॒च्यत॑ उरू॒ची । तये॒ह विश्वाँ॒ अव॑से॒ यज॑त्रा॒ना सा॑दय पा॒यया॑ चा॒ मधू॑नि ॥
या , ते॒ , जि॒ह्वा , मधु॑ऽमती , सु॒ऽमे॒धाः , अग्ने॑ , दे॒वेषु॑ , उ॒च्यते॑ , उ॒रू॒ची । तया॑ , इ॒ह , विश्वा॒न् , अव॑से , यज॑त्रान् , आ , सा॒द॒य॒ , पा॒यय॑ , च॒ , मधू॑नि ॥
या ते॑ अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चंती पी॒पय॑द्देव चि॒त्रा । ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज॑न्यां ॥
या , ते॒ , अ॒ग्ने॒ , पर्व॑तस्यऽइव , धारा॑ , अस॑श्चंती , पी॒पय॑त् , दे॒व॒ , चि॒त्रा । तां , अ॒स्मभ्यं॑ , प्रऽम॑तिं , जा॒त॒ऽवे॒दः॒ , वसो॒ इति॑ , रास्व॑ , सु॒ऽम॒तिं , वि॒श्वऽज॑न्यां ॥
[५८] धेनुःप्रत्नस्येति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रोश्विनौत्रिष्टुप् |
धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा॑नां॒तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः । आ द्यो॑त॒निं व॑हति शु॒भ्रया॑मो॒षसः॒ स्तोमो॑ अ॒श्विना॑वजीगः ॥
धे॒नुः , प्र॒त्नस्य॑ , काम्यं॑ , दुहा॑ना , अं॒तरिति॑ , पु॒त्रः , च॒र॒ति॒ , दक्षि॑णायाः । आ , द्यो॒त॒निं , व॒ह॒ति॒ , शु॒भ्रऽया॑मा , उ॒षसः॑ , स्तोमः॑ , अ॒श्विनौ॑ , अ॒जी॒ग॒रिति॑ ॥
सु॒युग्व॑हंति॒ प्रति॑ वामृ॒तेनो॒र्ध्वा भ॑वंति पि॒तरे॑व॒ मेधाः॑ । जरे॑थाम॒स्मद्वि प॒णेर्म॑नी॒षां यु॒वोरव॑श्चकृ॒मा या॑तम॒र्वाक् ॥
सु॒ऽयुक् , व॒हं॒ति॒ , प्रति॑ , वां॒ , ऋ॒तेन॑ , ऊ॒र्ध्वाः , भ॒वं॒ति॒ , पि॒तरा॑ऽइव , मेधाः॑ । जरे॑थां , अ॒स्मत् , वि , प॒णेः , म॒नी॒षां , यु॒वोः , अवः॑ , च॒कृ॒म॒ , आ , या॒तं॒ , अ॒र्वाक् ॥
सु॒युग्भि॒रश्वैः॑ सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः॑ । किमं॒ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥
सु॒युक्ऽभिः॑ , अश्वैः॑ , सु॒ऽवृता॑ , रथे॑न , दस्रौ॑ , इ॒मं , शृ॒णु॒तं॒ , श्लोकं॑ , अद्रेः॑ । किं , अं॒ग , वां॒ , प्रति॑ , अव॑र्तिं , गमि॑ष्ठा , आ॒हुः , विप्रा॑सः , अ॒श्वि॒ना॒ , पु॒रा॒ऽजाः ॥
आ म॑न्येथा॒मा ग॑तं॒ कच्चि॒देवै॒र्विश्वे॒ जना॑सो अ॒श्विना॑ हवंते । इ॒मा हि वां॒ गोऋ॑जीका॒ मधू॑नि॒ प्र मि॒त्रासो॒ न द॒दुरु॒स्रो अग्रे॑ ॥
आ , म॒न्ये॒थां॒ , आ , ग॒तं॒ , कत् , चि॒त् , एवैः॑ , विश्वे॑ , जना॑सः , अ॒श्विना॑ , ह॒वं॒ते॒ । इ॒मा , हि , वां॒ , गोऽऋ॑जीका , मधू॑नि , प्र , मि॒त्रासः॑ , न , द॒दुः , उ॒स्रः , अग्रे॑ ॥
ति॒रः पु॒रू चि॑दश्विना॒ रजां॑स्यांगू॒षो वां॑ मघवाना॒ जने॑षु । एह या॑तं प॒थिभि॑र्देव॒यानै॒र्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नां ॥
ति॒रः , पु॒रु , चि॒त् , अ॒श्वि॒ना॒ , रजां॑सि , आं॒गू॒षः , वां॒ , म॒घ॒ऽवा॒ना॒ , जने॑षु । आ , इ॒ह , या॒तं॒ , प॒थिऽभिः॑ , दे॒व॒ऽयानैः॑ , दस्रौ॑ , इ॒मे , वां॒ , नि॒ऽधयः॑ , मधू॑नां ॥
पु॒रा॒णमोकः॑ स॒ख्यं शि॒वं वां॑ यु॒वोर्न॑रा॒ द्रवि॑णं ज॒ह्नाव्यां॑ । पुनः॑ कृण्वा॒नाः स॒ख्या शि॒वानि॒ मध्वा॑ मदेम स॒ह नू स॑मा॒नाः ॥
पु॒रा॒णं , ओकः॑ , स॒ख्यं , शि॒वं , वां॒ , यु॒वोः , न॒रा॒ , द्रवि॑णं , ज॒ह्नाव्यां॑ । पुन॒रिति॑ , कृ॒ण्वा॒नाः , स॒ख्या , शि॒वानि॑ , मध्वा॑ , म॒दे॒म॒ , स॒ह , नु , स॒मा॒नाः ॥
अश्वि॑ना वा॒युना॑ यु॒वं सु॑दक्षा नि॒युद्भि॑श्च स॒जोष॑सा युवाना । नास॑त्या ति॒रोअ॑ह्न्यं जुषा॒णा सोमं॑ पिबतम॒स्रिधा॑ सुदानू ॥
अश्वि॑ना , वा॒युना॑ , यु॒वं , सु॒ऽद॒क्षा॒ , नि॒युत्ऽभिः॑ , च॒ , स॒ऽजोष॑सा , यु॒वा॒ना॒ । नास॑त्या , ति॒रःऽअ॑ह्न्यं , जु॒षा॒णा , सोमं॑ , पि॒ब॒तं॒ , अ॒स्रिधा॑ , सु॒दा॒नू॒ इति॑ सुऽदानू ॥
अश्वि॑ना॒ परि॑ वा॒मिषः॑ पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒ अमृ॑ध्राः । रथो॑ ह वामृत॒जा अद्रि॑जूतः॒ परि॒ द्यावा॑पृथि॒वी या॑ति स॒द्यः ॥
अश्वि॑ना , परि॑ , वां॒ , इषः॑ , पु॒रू॒चीः , ई॒युः , गीः॒ऽभिः , यत॑मानाः , अमृ॑ध्राः । रथः॑ , ह॒ , वां॒ , ऋ॒त॒ऽजाः , अद्रि॑ऽजूतः , परि॑ , द्यावा॑पृथि॒वी इति॑ , या॒ति॒ , स॒द्यः ॥
अश्वि॑ना मधु॒षुत्त॑मो यु॒वाकुः॒ सोम॒स्तं पा॑त॒मा ग॑तं दुरो॒णे । रथो॑ ह वां॒ भूरि॒ वर्पः॒ करि॑क्रत्सु॒ताव॑तो निष्कृ॒तमाग॑मिष्ठः ॥
अश्वि॑ना , म॒धु॒सुत्ऽत॑मः , यु॒वाकुः॑ , सोमः॑ , तं , पा॒तं॒ , आ , ग॒तं॒ , दु॒रो॒णे । रथः॑ , ह॒ , वां॒ , भूरि॑ , वर्पः॑ , करि॑क्रत् , सु॒तऽव॑तः , निः॒ऽकृ॒तं , आऽग॑मिष्ठः ॥
[५९] मित्रोजनानिति नवर्चस्य सूक्तस्य गाथिनोविश्वामित्रो मित्रस्त्रिष्टुप् अंत्याश्चतस्रोगायत्र्यः
मि॒त्रो जना॑न्यातयति ब्रुवा॒णो मि॒त्रो दा॑धार पृथि॒वीमु॒त द्यां । मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ॥
मि॒त्रः , जना॑न् , या॒त॒य॒ति॒ , ब्रु॒वा॒णः , मि॒त्रः , दा॒धा॒र॒ , पृ॒थि॒वीं , उ॒त , द्यां । मि॒त्रः , कृ॒ष्टीः , अनि॑ऽमिषा , अ॒भि , च॒ष्टे॒ , मि॒त्राय॑ , ह॒व्यं , घृ॒तऽव॑त् , जु॒हो॒त॒ ॥
प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मंहो॑ अश्नो॒त्यंति॑तो॒ न दू॒रात् ॥
प्र , सः , मि॒त्र॒ , मर्तः॑ , अ॒स्तु॒ , प्रय॑स्वान् , यः , ते॒ , आ॒दि॒त्य॒ , शिक्ष॑ति , व्र॒तेन॑ । न , ह॒न्य॒ते॒ , न , जी॒य॒ते॒ , त्वाऽऊ॑तः , न , ए॒नं॒ , अंहः॑ , अ॒श्नो॒ति॒ , अंति॑तः , न , दू॒रात् ॥
अ॒न॒मी॒वास॒ इळ॑या॒ मदं॑तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः । आ॒दि॒त्यस्य॑ व्र॒तमु॑पक्षि॒यंतो॑ व॒यं मि॒त्रस्य॑ सुम॒तौ स्या॑म ॥
अ॒न॒मी॒वासः॑ , इळ॑या , मदं॑तः , मि॒तऽज्ञ॑वः , वरि॑मन् , आ , पृ॒थि॒व्याः । आ॒दि॒त्यस्य॑ , व्र॒तं , उ॒प॒ऽक्षि॒यंतः॑ , व॒यं , मि॒त्रस्य॑ , सु॒ऽम॒तौ , स्या॒म॒ ॥
अ॒यं मि॒त्रो न॑म॒स्यः॑ सु॒शेवो॒ राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः । तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
अ॒यं , मि॒त्रः , न॒म॒स्यः॑ , सु॒ऽशेवः॑ , राजा॑ , सु॒ऽक्ष॒त्रः , अ॒ज॒नि॒ष्ट॒ , वे॒धाः । तस्य॑ , व॒यं , सु॒ऽम॒तौ , य॒ज्ञिय॑स्य , अपि॑ , भ॒द्रे , सौ॒म॒न॒से , स्या॒म॒ ॥
म॒हाँ आ॑दि॒त्यो नम॑सोप॒सद्यो॑ यात॒यज्ज॑नो गृण॒ते सु॒शेवः॑ । तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ॥
म॒हान् , आ॒दि॒त्यः , नम॑सा , उ॒प॒ऽसद्यः॑ , या॒त॒यत्ऽज॑नः , गृ॒ण॒ते , सु॒ऽशेवः॑ । तस्मै॑ , ए॒तत् , पन्य॑ऽतमाय , जुष्टं॑ , अ॒ग्नौ , मि॒त्राय॑ , ह॒विः , आ , जु॒हो॒त॒ ॥
मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि । द्यु॒म्नं चि॒त्रश्र॑वस्तमं ॥
मि॒त्रस्य॑ , च॒र्ष॒णि॒ऽधृतः॑ , अवः॑ , दे॒वस्य॑ , सा॒न॒सि । द्यु॒म्नं , चि॒त्रश्र॑वःऽतमं ॥
अ॒भि यो म॑हि॒ना दिवं॑ मि॒त्रो ब॒भूव॑ स॒प्रथाः॑ । अ॒भि श्रवो॑भिः पृथि॒वीं ॥
अ॒भि , यः , म॒हि॒ना , दिवं॑ , मि॒त्रः , ब॒भूव॑ , स॒ऽप्रथाः॑ । अ॒भि , श्रवः॑ऽभिः , पृ॒थि॒वीं ॥
मि॒त्राय॒ पंच॑ येमिरे॒ जना॑ अ॒भिष्टि॑शवसे । स दे॒वान्विश्वा॑न्बिभर्ति ॥
मि॒त्राय॑ , पंच॑ , ये॒मि॒रे॒ , जनाः॑ , अ॒भिष्टि॑ऽशवसे । सः , दे॒वान् , विश्वा॑न् , बि॒भ॒र्ति॒ ॥
मि॒त्रो दे॒वेष्वा॒युषु॒ जना॑य वृ॒क्तब॑र्हिषे । इष॑ इ॒ष्टव्र॑ता अकः ॥
मि॒त्रः , दे॒वेषु॑ , आ॒युषु॑ , जना॑य , वृ॒क्तऽब॑र्हिषे । इषः॑ , इ॒ष्टऽव्र॑ताः , अ॒क॒रित्य॑कः ॥
[६०] इहेहवइति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रऋभवः अंत्यानांतिसृणामिंद्रऋभवोजगती |
इ॒हेह॑ वो॒ मन॑सा बं॒धुता॑ नर उ॒शिजो॑ जग्मुर॒भि तानि॒ वेद॑सा । याभि॑र्मा॒याभिः॒ प्रति॑जूतिवर्पसः॒ सौध॑न्वना य॒ज्ञियं॑ भा॒गमा॑न॒श ॥
इ॒हऽइ॑ह , वः॒ , मन॑सा , बं॒धुता॑ , न॒रः॒ , उ॒शिजः॑ , ज॒ग्मुः॒ , अ॒भि , तानि॑ , वेद॑सा । याभिः॑ , मा॒याभिः॑ , प्रति॑जूतिऽवर्पसः , सौध॑न्वनाः , य॒ज्ञियं॑ , भा॒गं , आ॒न॒श ॥
याभिः॒ शची॑भिश्चम॒साँ अपिं॑शत॒ यया॑ धि॒या गामरि॑णीत॒ चर्म॑णः । येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भवः॒ समा॑नश ॥
याभिः॑ , शची॑भिः , च॒म॒सान् , अपिं॑शत , यया॑ , धि॒या , गां , अरि॑णीत , चर्म॑णः । येन॑ , हरी॒ इति॑ , मन॑सा , निः॒ऽअत॑क्षत , तेन॑ , दे॒व॒ऽत्वं , ऋ॒भ॒वः॒ , सं , आ॒न॒श॒ ॥
इंद्र॑स्य स॒ख्यमृ॒भवः॒ समा॑नशु॒र्मनो॒र्नपा॑तो अ॒पसो॑ दधन्विरे । सौ॒ध॒न्व॒नासो॑ अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी॑भिः सु॒कृतः॑ सुकृ॒त्यया॑ ॥
इंद्र॑स्य , स॒ख्यं , ऋ॒भवः॑ , सं , आ॒न॒शुः॒ , मनोः॑ , नपा॑तः , अ॒पसः॑ , द॒ध॒न्वि॒रे॒ । सौ॒ध॒न्व॒नासः॑ , अ॒मृ॒त॒ऽत्वं , आ , ई॒रि॒रे॒ , वि॒ष्ट्वी , शमी॑भिः , सु॒ऽकृतः॑ , सु॒ऽकृ॒त्यया॑ ॥
इंद्रे॑ण याथ स॒रथं॑ सु॒ते सचाँ॒ अथो॒ वशा॑नां भवथा स॒ह श्रि॒या । न वः॑ प्रति॒मै सु॑कृ॒तानि॑ वाघतः॒ सौध॑न्वना ऋभवो वी॒र्या॑णि च ॥
इंद्रे॑ण , या॒थ॒ , स॒ऽरथं॑ , सु॒ते , सचा॑ , अथो॒ इति॑ , वशा॑नां , भ॒व॒थ॒ , स॒ह , श्रि॒या । न , वः॒ , प्र॒ति॒ऽमै , सु॒ऽकृ॒तानि॑ , वा॒घ॒तः॒ , सौध॑न्वनाः , ऋ॒भ॒वः॒ , वी॒र्या॑णि , च॒ ॥
इंद्र॑ ऋ॒भुभि॒र्वाज॑वद्भिः॒ समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः । धि॒येषि॒तो म॑घवंदा॒शुषो॑ गृ॒हे सौ॑धन्व॒नेभिः॑ स॒ह म॑त्स्वा॒ नृभिः॑ ॥
इंद्र॑ , ऋ॒भुऽभिः॑ , वाज॑वत्ऽभिः , संऽउ॑क्षितं , सु॒तं , सोमं॑ , आ , वृ॒ष॒स्व॒ , गभ॑स्त्योः । धि॒या , इ॒षि॒तः , म॒घ॒ऽव॒न् , दा॒शुषः॑ , गृ॒हे , सौ॒ध॒न्व॒नेभिः॑ , स॒ह , म॒त्स्व॒ , नृऽभिः॑ ॥
इंद्र॑ ऋभु॒मान्वाज॑वान्मत्स्वे॒ह नो॒ऽस्मिंत्सव॑ने॒ शच्या॑ पुरुष्टुत । इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ॥
इंद्र॑ , ऋ॒भु॒ऽमान् , वाज॑ऽवान् , म॒त्स्व॒ , इ॒ह , नः॒ , अ॒स्मिन् , सव॑ने , शच्या॑ , पु॒रु॒ऽस्तु॒त॒ । इ॒मानि॑ , तुभ्यं॑ , स्वस॑राणि , ये॒मि॒रे॒ , व्र॒ता , दे॒वानां॑ , मनु॑षः , च॒ , धर्म॑ऽभिः ॥
इंद्र॑ ऋ॒भुभि॑र्वा॒जिभि॑र्वा॒जय॑न्नि॒ह स्तोमं॑ जरि॒तुरुप॑ याहि य॒ज्ञियं॑ । श॒तं केते॑भिरिषि॒रेभि॑रा॒यवे॑ स॒हस्र॑णीथो अध्व॒रस्य॒ होम॑नि ॥
इंद्र॑ , ऋ॒भुऽभिः॑ , वा॒जिऽभिः॑ , वा॒जय॑न् , इ॒ह , स्तोमं॑ , ज॒रि॒तुः , उप॑ , या॒हि॒ , य॒ज्ञियं॑ । श॒तं , केते॑भिः , इ॒षि॒रेभिः॑ , आ॒यवे॑ , स॒हस्र॑ऽनीथः , अ॒ध्व॒रस्य॑ , होम॑नि ॥
[६१] उषोवाजेनेति सप्तर्चस्य सूक्तस्य गाथिनोविश्वामित्रउषास्त्रिष्टुप् |
उषो॒ वाजे॑न वाजिनि॒ प्रचे॑ताः॒ स्तोमं॑ जुषस्व गृण॒तो म॑घोनि । पु॒रा॒णी दे॑वि युव॒तिः पुरं॑धि॒रनु॑ व्र॒तं च॑रसि विश्ववारे ॥
उषः॑ , वाजे॑न , वा॒जि॒नि॒ , प्रऽचे॑ताः , स्तोमं॑ , जु॒ष॒स्व॒ , गृ॒ण॒तः , म॒घो॒नि॒ । पु॒रा॒णी , दे॒वि॒ , यु॒व॒तिः , पुरं॑ऽधिः , अनु॑ , व्र॒तं , च॒र॒सि॒ , वि॒श्व॒ऽवा॒रे॒ ॥
उषो॑ दे॒व्यम॑र्त्या॒ वि भा॑हि चं॒द्रर॑था सू॒नृता॑ ई॒रयं॑ती । आ त्वा॑ वहंतु सु॒यमा॑सो॒ अश्वा॒ हिर॑ण्यवर्णां पृथु॒पाज॑सो॒ ये ॥
उषः॑ , दे॒वि॒ , अम॑र्त्या , वि , भा॒हि॒ , चं॒द्रऽर॑था , सू॒नृताः॑ , ई॒रयं॑ती । आ , त्वा॒ , व॒हं॒तु॒ , सु॒ऽयमा॑सः , अश्वाः॑ , हिर॑ण्यऽवर्णां , पृ॒थु॒ऽपाज॑सः , ये ॥
उषः॑ प्रती॒ची भुव॑नानि॒ विश्वो॒र्ध्वा ति॑ष्ठस्य॒मृत॑स्य के॒तुः । स॒मा॒नमर्थं॑ चरणी॒यमा॑ना च॒क्रमि॑व नव्य॒स्या व॑वृत्स्व ॥
उषः॑ , प्र॒ती॒ची , भुव॑नानि , विश्वा॑ , ऊ॒र्ध्वा , ति॒ष्ठ॒सि॒ , अ॒मृत॑स्य , के॒तुः । स॒मा॒नं , अर्थं॑ , च॒र॒णी॒यमा॑ना , च॒क्रंऽइ॑व , न॒व्य॒सि॒ , आ , व॒वृ॒त्स्व॒ ॥
अव॒ स्यूमे॑व चिन्व॒ती म॒घोन्यु॒षा या॑ति॒ स्वस॑रस्य॒ पत्नी॑ । स्व१॒॑र्जनं॑ती सु॒भगा॑ सु॒दंसा॒ आंता॑द्दि॒वः प॑प्रथ॒ आ पृ॑थि॒व्याः ॥
अव॑ , स्यूम॑ऽइव , चि॒न्व॒ती , म॒घोनी॑ , उ॒षाः , या॒ति॒ , स्वस॑रस्य , पत्नी॑ । स्वः॑ , जनं॑ती , सु॒ऽभगा॑ , सु॒ऽदंसाः॑ , आ , अंता॑त् , दि॒वः , प॒प्र॒थे॒ , आ , पृ॒थि॒व्याः ॥
अच्छा॑ वो दे॒वीमु॒षसं॑ विभा॒तीं प्र वो॑ भरध्वं॒ नम॑सा सुवृ॒क्तिं । ऊ॒र्ध्वं म॑धु॒धा दि॒वि पाजो॑ अश्रे॒त्प्र रो॑च॒ना रु॑रुचे र॒ण्वसं॑दृक् ॥
अच्छ॑ , वः॒ , दे॒वीं , उ॒षसं॑ , वि॒ऽभा॒तीं , प्र , वः॒ , भ॒र॒ध्वं॒ , नम॑सा , सु॒ऽवृ॒क्तिं । ऊ॒र्ध्वं , म॒धु॒धा , दि॒वि , पाजः॑ , अ॒श्रे॒त् , प्र , रो॒च॒ना , रु॒रु॒चे॒ , र॒ण्वऽसं॑दृक् ॥
ऋ॒ताव॑री दि॒वो अ॒र्कैर॑बो॒ध्या रे॒वती॒ रोद॑सी चि॒त्रम॑स्थात् । आ॒य॒तीम॑ग्न उ॒षसं॑ विभा॒तीं वा॒ममे॑षि॒ द्रवि॑णं॒ भिक्ष॑माणः ॥
ऋ॒तऽव॑री , दि॒वः , अ॒र्कैः , अ॒बो॒धि॒ , आ , रे॒वती॑ , रोद॑सी॒ इति॑ , चि॒त्रं , आ॒स्था॒त् । आ॒ऽय॒तीं , अ॒ग्ने॒ , उ॒षसं॑ , वि॒ऽभा॒तीं , वा॒मं , ए॒षि॒ , द्रवि॑णं , भिक्ष॑माणः ॥
ऋ॒तस्य॑ बु॒ध्न उ॒षसा॑मिष॒ण्यन्वृषा॑ म॒ही रोद॑सी॒ आ वि॑वेश । म॒ही मि॒त्रस्य॒ वरु॑णस्य मा॒या चं॒द्रेव॑ भा॒नुं वि द॑धे पुरु॒त्रा ॥
ऋ॒तस्य॑ , बु॒ध्ने , उ॒षसां॑ , इ॒ष॒ण्यन् , वृषा॑ , म॒ही इति॑ , रोद॑सी॒ इति॑ , आ , वि॒वे॒श॒ । म॒ही , मि॒त्रस्य॑ , वरु॑णस्य , मा॒या , चं॒द्राऽइ॑व , भा॒नुं , वि , द॒धे॒ , पु॒रु॒ऽत्रा ॥
[६२] इमाउवामित्यष्टादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रः ( अंत्यतृचस्य जमदग्निर्वा) आद्यतिसृणामिंद्रावरुणौ चतुर्थ्यादितिसृणांबृहस्पतिः इयंतइत्यादितिसृणांपूषा तत्सवितुरित्यादितिसृणांसविता सोमइत्यादितिसृणांसोम आनइत्यादितिसृणांमित्रावरुणौदेवताः आद्यास्तिस्रत्रिष्टुभः शिष्टाः पंचदशगायत्र्यः |
इ॒मा उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या॑ अभूवन् । क्व१॒॑ त्यदिं॑द्रावरुणा॒ यशो॑ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थः॒ सखि॑भ्यः ॥
इ॒माः , ऊँ॒ इति॑ , वां॒ , भृ॒मयः॑ , मन्य॑मानाः , यु॒वाऽव॑ते , न , तुज्याः॑ , अ॒भू॒व॒न् । क्व॑ , त्यत् , इं॒द्रा॒व॒रु॒णा॒ , यशः॑ , वां॒ , येन॑ , स्म॒ , सिनं॑ , भर॑थः , सखि॑ऽभ्यः ॥
अ॒यमु॑ वां पुरु॒तमो॑ रयी॒यंछ॑श्वत्त॒ममव॑से जोहवीति । स॒जोषा॑विंद्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं॑ मे ॥
अ॒यं , ऊँ॒ इति॑ , वां॒ , पु॒रु॒ऽतमः॑ , र॒यि॒ऽयन् , श॒श्व॒त्ऽत॒मं , अव॑से , जो॒ह॒वी॒ति॒ । स॒ऽजोषौ॑ , इं॒द्रा॒व॒रु॒णा॒ , म॒रुत्ऽभिः॑ , दि॒वा , पृ॒थि॒व्या , शृ॒णु॒तं॒ , हवं॑ , मे॒ ॥
अ॒स्मे तदिं॑द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुतः॒ सर्व॑वीरः । अ॒स्मान्वरू॑त्रीः शर॒णैर॑वंत्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ॥
अ॒स्मे इति॑ , तत् , इं॒द्रा॒व॒रु॒णा॒ , वसु॑ , स्या॒त् , अ॒स्मे इति॑ , र॒यिः , म॒रु॒तः॒ , सर्व॑ऽवीरः । अ॒स्मान् , वरू॑त्रीः , श॒र॒णैः , अ॒वं॒तु॒ , अ॒स्मान् , होत्रा॑ , भार॑ती , दक्षि॑णाभिः ॥
बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य । रास्व॒ रत्ना॑नि दा॒शुषे॑ ॥
बृह॑स्पते , जु॒षस्व॑ , नः॒ , ह॒व्यानि॑ , वि॒श्व॒ऽदे॒व्य॒ । रास्व॑ , रत्ना॑नि , दा॒शुषे॑ ॥
शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत । अना॒म्योज॒ आ च॑के ॥
शुचिं॑ , अ॒र्कैः , बृह॒स्पतिं॑ , अ॒ध्व॒रेषु॑ , न॒म॒स्य॒त॒ । अना॑मि , ओजः॑ , आ , च॒के॒ ॥
वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू॑प॒मदा॑भ्यं । बृह॒स्पतिं॒ वरे॑ण्यं ॥
वृ॒ष॒भं , च॒र्ष॒णी॒नां , वि॒श्वऽरू॑पं , अदा॑भ्यं । बृह॒स्पतिं॑ , वरे॑ण्यं ॥
इ॒यं ते॑ पूषन्नाघृणे सुष्टु॒तिर्दे॑व॒ नव्य॑सी । अ॒स्माभि॒स्तुभ्यं॑ शस्यते ॥
इ॒यं , ते॒ , पू॒ष॒न् , आ॒घृ॒णे॒ , सु॒ऽस्तु॒तिः , दे॒व॒ , नव्य॑सी । अ॒स्माभिः॑ , तुभ्यं॑ , श॒स्य॒ते॒ ॥
तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यंती॑मवा॒ धियं॑ । व॒धू॒युरि॑व॒ योष॑णां ॥
तां , जु॒ष॒स्व॒ , गिरं॑ , मम॑ , वा॒ज॒ऽयंतीं॑ , अ॒व॒ , धियं॑ । व॒धू॒युःऽइ॑व , योष॑णां ॥
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति । स नः॑ पू॒षावि॒ता भु॑वत् ॥
यः , विश्वा॑ , अ॒भि , वि॒ऽपश्य॑ति , भुव॑ना , सं , च॒ , पश्य॑ति । सः , नः॒ , पू॒षा , अ॒वि॒ता , भु॒व॒त् ॥
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
तत् , स॒वि॒तुः , वरे॑ण्यं , भर्गः॑ , दे॒वस्य॑ , धी॒म॒हि॒ । धियः॑ , यः , नः॒ , प्र॒ऽचो॒दया॑त् ॥
दे॒वस्य॑ सवि॒तुर्व॒यं वा॑ज॒यंतः॒ पुरं॑ध्या । भग॑स्य रा॒तिमी॑महे ॥
दे॒वस्य॑ , स॒वि॒तुः , व॒यं , वा॒ज॒ऽयंतः॑ , पुरं॑ऽध्या । भग॑स्य , रा॒तिं , ई॒म॒हे॒ ॥
दे॒वं नरः॑ सवि॒तारं॒ विप्रा॑ य॒ज्ञैः सु॑वृ॒क्तिभिः॑ । न॒म॒स्यंति॑ धि॒येषि॒ताः ॥
दे॒वं , नरः॑ , स॒वि॒तारं॑ , विप्राः॑ , य॒ज्ञैः , सु॒वृ॒क्तिऽभिः॑ । न॒म॒स्यंति॑ , धि॒या , इ॒षि॒ताः ॥
सोमो॑ जिगाति गातु॒विद्दे॒वाना॑मेति निष्कृ॒तं । ऋ॒तस्य॒ योनि॑मा॒सदं॑ ॥
सोमः॑ , जि॒गा॒ति॒ , गा॒तु॒ऽवित् , दे॒वानां॑ , ए॒ति॒ , निः॒ऽकृ॒तं । ऋ॒तस्य॑ , योनिं॑ , आ॒ऽसदं॑ ॥
सोमो॑ अ॒स्मभ्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे॑ । अ॒न॒मी॒वा इष॑स्करत् ॥
सोमः॑ , अ॒स्मभ्यं॑ , द्वि॒ऽपदे॑ , चतुः॑ऽपदे , च॒ , प॒शवे॑ । अ॒न॒मी॒वाः , इषः॑ , क॒र॒त् ॥
अ॒स्माक॒मायु॑र्व॒र्धय॑न्न॒भिमा॑तीः॒ सह॑मानः । सोमः॑ स॒धस्थ॒मास॑दत् ॥
अ॒स्माकं॑ , आयुः॑ , व॒र्धय॑न् , अ॒भिऽमा॑तीः , सह॑मानः । सोमः॑ , स॒धऽस्थं॑ , आ , अ॒स॒द॒त् ॥
आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतं । मध्वा॒ रजां॑सि सुक्रतू ॥
आ , नः॒ , मि॒त्रा॒व॒रु॒णा॒ , घृ॒तैः , गव्यू॑तिं , उ॒क्ष॒तं॒ । मध्वा॑ , रजां॑सि , सु॒क्र॒तू॒ इति॑ सुऽक्रतू ॥
उ॒रु॒शंसा॑ नमो॒वृधा॑ म॒ह्ना दक्ष॑स्य राजथः । द्राघि॑ष्ठाभिः शुचिव्रता ॥
उ॒रु॒ऽशंसा॑ , न॒मः॒ऽवृधा॑ , म॒ह्ना , दक्ष॑स्य , रा॒ज॒थः॒ । द्राघि॑ष्ठाभिः , शु॒चि॒ऽव्र॒ता॒ ॥
गृ॒णा॒ना ज॒मद॑ग्निना॒ योना॑वृ॒तस्य॑ सीदतं । पा॒तं सोम॑मृतावृधा ॥
गृ॒णा॒ना , ज॒मत्ऽअ॑ग्निना , योनौ॑ , ऋ॒तस्य॑ , सी॒द॒तं॒ । पा॒तं , सोमं॑ , ऋ॒त॒ऽवृ॒धा॒ ॥
[१] त्वांह्यग्नइति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निर्द्वितीयादिचतसृणामग्निवरुणौ त्रिष्टुप् आद्यास्तिस्रः क्रमेणाष्ट्यतिजगतीधृतयः |
त्वां ह्य॑ग्ने॒ सद॒मित्स॑म॒न्यवो॑ दे॒वासो॑ दे॒वम॑र॒तिं न्ये॑रि॒र इति॒ क्रत्वा॑ न्येरि॒रे । अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे॑वं जनत॒ प्रचे॑तसं॒ विश्व॒मादे॑वं जनत॒ प्रचे॑तसं ॥
त्वां , हि , अ॒ग्ने॒ , सदं॑ , इत् , स॒ऽम॒न्यवः॑ , दे॒वासः॑ , दे॒वं , अ॒र॒तिं , नि॒ऽए॒रि॒रे , इति॑ , क्रत्वा॑ , नि॒ऽए॒रि॒रे । अम॑र्त्यं , य॒ज॒त॒ , मर्त्ये॑षु , आ , दे॒वं , आऽदे॑वं , ज॒न॒त॒ , प्रऽचे॑तसं , विश्वं॑ , आऽदे॑वं , ज॒न॒त॒ , प्रऽचे॑तसं ॥
स भ्रात॑रं॒ वरु॑णमग्न॒ आ व॑वृत्स्व दे॒वाँ अच्छा॑ सुम॒ती य॒ज्ञव॑नसं॒ ज्येष्ठं॑ य॒ज्ञव॑नसं । ऋ॒तावा॑नमादि॒त्यं च॑र्षणी॒धृतं॒ राजा॑नं चर्षणी॒धृतं॑ ॥
सः , भ्रात॑रं , वरु॑णं , अ॒ग्ने॒ , आ , व॒वृ॒त्स्व॒ , दे॒वान् , अच्छ॑ , सु॒ऽम॒ती , य॒ज्ञऽव॑नसं , ज्येष्ठं॑ , य॒ज्ञऽव॑नसं । ऋ॒तऽवा॑नं , आ॒दि॒त्यं , च॒र्ष॒णि॒ऽधृतं॑ , राजा॑नं , च॒र्ष॒णि॒ऽधृतं॑ ॥
सखे॒ सखा॑यम॒भ्या व॑वृत्स्वा॒शुं न च॒क्रं रथ्ये॑व॒ रंह्या॒स्मभ्यं॑ दस्म॒ रंह्या॑ । अग्ने॑ मृळी॒कं वरु॑णे॒ सचा॑ विदो म॒रुत्सु॑ वि॒श्वभा॑नुषु । तो॒काय॑ तु॒जे शु॑शुचान॒ शं कृ॑ध्य॒स्मभ्यं॑ दस्म॒ शं कृ॑धि ॥
सखे॑ , सखा॑यं , अ॒भि , आ , व॒वृ॒त्स्व॒ , आ॒शुं , न , च॒क्रं , रथ्या॑ऽइव , रंह्या॑ , अ॒स्मभ्यं॑ , द॒स्म॒ , रंह्या॑ । अग्ने॑ , मृ॒ळी॒कं , वरु॑णे , सचा॑ , वि॒दः॒ , म॒रुत्ऽसु॑ , वि॒श्वऽभा॑नुषु तो॒काय॑ , तु॒जे , शु॒शु॒चा॒न॒ , शं , कृ॒धि॒ , अ॒स्मभ्यं॑ , द॒स्म॒ , शं , कृ॒धि॒ ॥
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वांदे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥
त्वं , नः॒ , अ॒ग्ने॒ , वरु॑णस्य , वि॒द्वान् , दे॒वस्य॑ , हेळः॑ , अव॑ , या॒सि॒सी॒ष्ठाः॒ । यजि॑ष्ठः , वह्नि॑ऽतमः , शोशु॑चानः , विश्वा॑ , द्वेषां॑सि , प्र , मु॒मु॒ग्धि॒ , अ॒स्मत् ॥
स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा॑णो वी॒हि मृ॑ळी॒कं सु॒हवो॑ न एधि ॥
सः , त्वं , नः॒ , अ॒ग्ने॒ , अ॒व॒मः , भ॒व॒ , ऊ॒ती , नेदि॑ष्ठः , अ॒स्याः , उ॒षसः॑ , विऽउ॑ष्टौ । अव॑ , य॒क्ष्व॒ , नः॒ , वरु॑णं , ररा॑णः , वी॒हि , मृ॒ळी॒कं , सु॒ऽहवः॑ , नः॒ , ए॒धि॒ ॥
अ॒स्य श्रेष्ठा॑ सु॒भग॑स्य सं॒दृग्दे॒वस्य॑ चि॒त्रत॑मा॒ मर्त्ये॑षु । शुचि॑ घृ॒तं न त॒प्तमघ्न्या॑याः स्पा॒र्हा दे॒वस्य॑ मं॒हने॑व धे॒नोः ॥
अ॒स्य , श्रेष्ठा॑ , सु॒ऽभग॑स्य , सं॒ऽदृक् , दे॒वस्य॑ , चि॒त्रऽत॑मा , मर्त्ये॑षु । शुचि॑ , घृ॒तं , न , त॒प्तं , अघ्न्या॑याः , स्पा॒र्हा , दे॒वस्य॑ , मं॒हना॑ऽइव , धे॒नोः ॥
त्रिर॑स्य॒ ता प॑र॒मा सं॑ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि॑मान्य॒ग्नेः । अ॒नं॒ते अं॒तः परि॑वीत॒ आगा॒च्छुचिः॑ शु॒क्रो अ॒र्यो रोरु॑चानः ॥
त्रिः , अ॒स्य॒ , ता , प॒र॒मा , सं॒ति॒ , स॒त्या , स्पा॒र्हा , दे॒वस्य॑ , जनि॑मानि , अ॒ग्नेः । अ॒नं॒ते , अं॒तरिति॑ , परि॑ऽवीतः , आ , अ॒गा॒त् , शुचिः॑ , शु॒क्रः , अ॒र्यः , रोरु॑चानः ॥
स दू॒तो विश्वेद॒भि व॑ष्टि॒ सद्मा॒ होता॒ हिर॑ण्यरथो॒ रंसु॑जिह्वः । रो॒हिद॑श्वो वपु॒ष्यो॑ वि॒भावा॒ सदा॑ र॒ण्वः पि॑तु॒मती॑व सं॒सत् ॥
सः , दू॒तः , विश्वा॑ , इत् , अ॒भि , व॒ष्टि॒ , सद्म॑ , होता॑ , हिर॑ण्यऽरथः , रंऽसु॑जिह्वः । रो॒हित्ऽअ॑श्वः , व॒पु॒ष्यः॑ , वि॒भाऽवा॑ , सदा॑ , र॒ण्वः , पि॒तु॒मती॑ऽइव , सं॒ऽसत् ॥
स चे॑तय॒न्मनु॑षो य॒ज्ञबं॑धुः॒ प्र तं म॒ह्या र॑श॒नया॑ नयंति । स क्षे॑त्यस्य॒ दुर्या॑सु॒ साधं॑दे॒वो मर्त॑स्य सधनि॒त्वमा॑प ॥
सः , चे॒त॒य॒त् , मनु॑षः , य॒ज्ञऽबं॑धुः , प्र , तं , म॒ह्या , र॒श॒नया॑ , न॒यं॒ति॒ । सः , क्षे॒ति॒ , अ॒स्य॒ , दुर्या॑सु , साध॑न् , दे॒वः , मर्त॑स्य , स॒ध॒नि॒ऽत्वं , आ॒प॒ ॥
स तू नो॑ अ॒ग्निर्न॑यतु प्रजा॒नन्नच्छा॒ रत्नं॑ दे॒वभ॑क्तं॒ यद॑स्य । धि॒या यद्विश्वे॑ अ॒मृता॒ अकृ॑ण्वं॒द्यौष्पि॒ता ज॑नि॒ता स॒त्यमु॑क्षन् ॥
सः , तु , नः॒ , अ॒ग्निः , न॒य॒तु॒ , प्र॒ऽजा॒नन् , अच्छ॑ , रत्नं॑ , दे॒वऽभ॑क्तं , यत् , अ॒स्य॒ । धि॒या , यत् , विश्वे॑ , अ॒मृताः॑ , अकृ॑ण्वन् , द्यौः , पि॒ता , ज॒नि॒ता , स॒त्यं , उ॒क्ष॒न् ॥
स जा॑यत प्रथ॒मः प॒स्त्या॑सु म॒हो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ । अ॒पाद॑शी॒र्षा गु॒हमा॑नो॒ अंता॒योयु॑वानो वृष॒भस्य॑ नी॒ळे ॥
सः , जा॒य॒त॒ , प्र॒थ॒मः , प॒स्त्या॑सु , म॒हः , बु॒ध्ने , रज॑सः , अ॒स्य , योनौ॑ । अ॒पात् , अ॒शी॒र्षा , गु॒हमा॑नः , अंता॑ , आ॒ऽयोयु॑वानः , वृ॒ष॒भस्य॑ , नी॒ळे ॥
प्र शर्ध॑ आर्त प्रथ॒मं वि॑प॒न्याँ ऋ॒तस्य॒ योना॑ वृष॒भस्य॑ नी॒ळे । स्पा॒र्हो युवा॑ वपु॒ष्यो॑ वि॒भावा॑ स॒प्त प्रि॒यासो॑ऽजनयंत॒ वृष्णे॑ ॥
प्र , शर्धः॑ , आ॒र्त॒ , प्र॒थ॒मं , वि॒प॒न्या , ऋ॒तस्य॑ , योना॑ , वृ॒ष॒भस्य॑ , नी॒ळे । स्पा॒र्हः , युवा॑ , व॒पु॒ष्यः॑ , वि॒भाऽवा॑ , स॒प्त , प्रि॒यासः॑ , अ॒ज॒न॒यं॒त॒ , वृष्णे॑ ॥
अ॒स्माक॒मत्र॑ पि॒तरो॑ मनु॒ष्या॑ अ॒भि प्र से॑दुर्ऋ॒तमा॑शुषा॒णाः । अश्म॑व्रजाः सु॒दुघा॑ व॒व्रे अं॒तरुदु॒स्रा आ॑जन्नु॒षसो॑ हुवा॒नाः ॥
अ॒स्माकं॑ , अत्र॑ , पि॒तरः॑ , म॒नु॒ष्याः॑ , अ॒भि , प्र , से॒दुः॒ , ऋ॒तं , आ॒शु॒षा॒णाः । अश्म॑ऽव्रजाः , सु॒ऽदुघाः॑ , व॒व्रे , अं॒तः , उत् , उ॒स्राः , आ॒ज॒न् , उ॒षसः॑ , हु॒वा॒नाः ॥
ते म॑र्मृजत ददृ॒वांसो॒ अद्रिं॒ तदे॑षाम॒न्ये अ॒भितो॒ वि वो॑चन् । प॒श्वयं॑त्रासो अ॒भि का॒रम॑र्चन्वि॒दंत॒ ज्योति॑श्चकृ॒पंत॑ धी॒भिः ॥
ते , म॒र्मृ॒ज॒त॒ , द॒दृ॒ऽवांसः॑ , अद्रिं॑ , तत् , ए॒षां॒ , अ॒न्ये , अ॒भितः॑ , वि , वो॒च॒न् । प॒श्वऽयं॑त्रासः , अ॒भि , का॒रं , अ॒र्च॒न् , वि॒दंत॑ , ज्योतिः॑ , च॒कृ॒पंत॑ , धी॒भिः ॥
ते ग॑व्य॒ता मन॑सा दृ॒ध्रमु॒ब्धं गा ये॑मा॒नं परि॒ षंत॒मद्रिं॑ । दृ॒ळ्हं नरो॒ वच॑सा॒ दैव्ये॑न व्र॒जं गोमं॑तमु॒शिजो॒ वि व॑व्रुः ॥
ते , ग॒व्य॒ता , मन॑सा , दृ॒ध्रं , उ॒ब्धं , गाः , ये॒मा॒नं , परि॑ , संतं॑ , अद्रिं॑ । दृ॒ळ्हं , नरः॑ , वच॑सा , दैव्ये॑न , व्र॒जं , गोऽमं॑तं , उ॒शिजः॑ , वि , व॒व्रु॒रिति॑ वव्रुः ॥
ते म॑न्वत प्रथ॒मं नाम॑ धे॒नोस्त्रिः स॒प्त मा॒तुः प॑र॒माणि॑ विंदन् । तज्जा॑न॒तीर॒भ्य॑नूषत॒ व्रा आ॒विर्भु॑वदरु॒णीर्य॒शसा॒ गोः ॥
ते , म॒न्व॒त॒ , प्र॒थ॒मं , नाम॑ , धे॒नोः , त्रिः , स॒प्त , मा॒तुः , प॒र॒माणि॑ , विं॒द॒न् । तत् , जा॒न॒तीः , अ॒भि , अ॒नू॒ष॒त॒ , व्राः , आ॒विः , भु॒व॒त् , अ॒रु॒णीः , य॒शसा॑ , गोः ॥
नेश॒त्तमो॒ दुधि॑तं॒ रोच॑त॒ द्यौरुद्दे॒व्या उ॒षसो॑ भा॒नुर॑र्त । आ सूर्यो॑ बृह॒तस्ति॑ष्ठ॒दज्राँ॑ ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥
नेश॑त् , तमः॑ , दुधि॑तं , रोच॑त , द्यौः , उत् , दे॒व्याः , उ॒षसः॑ , भा॒नुः , अ॒र्त॒ । आ , सूर्यः॑ , बृ॒ह॒तः , ति॒ष्ठ॒त् , अज्रा॑न् , ऋ॒जु , मर्ते॑षु , वृ॒जि॒ना , च॒ , पश्य॑न् ॥
आदित्प॒श्चा बु॑बुधा॒ना व्य॑ख्य॒न्नादिद्रत्नं॑ धारयंत॒ द्युभ॑क्तं । विश्वे॒ विश्वा॑सु॒ दुर्या॑सु दे॒वा मित्र॑ धि॒ये व॑रुण स॒त्यम॑स्तु ॥
आत् , इत् , प॒श्चा , बु॒बु॒धा॒नाः , वि , अ॒ख्य॒न् , आत् , इत् , रत्नं॑ , धा॒र॒यं॒त॒ , द्युऽभ॑क्तं । विश्वे॑ , विश्वा॑सु , दुर्या॑सु , दे॒वाः , मित्र॑ , धि॒ये , व॒रु॒ण॒ , स॒त्यं , अ॒स्तु॒ ॥
अच्छा॑ वोचेय शुशुचा॒नम॒ग्निं होता॑रं वि॒श्वभ॑रसं॒ यजि॑ष्ठं । शुच्यूधो॑ अतृण॒न्न गवा॒मंधो॒ न पू॒तं परि॑षिक्तमं॒शोः ॥
अच्छ॑ , वो॒चे॒य॒ , शु॒शु॒चा॒नं , अ॒ग्निं , होता॑रं , वि॒श्वऽभ॑रसं , यजि॑ष्ठं । शुचि॑ , ऊधः॑ , अ॒तृ॒ण॒त् , न , गवां॑ , अंधः॑ , न , पू॒तं , परि॑ऽसिक्तं , अं॒शोः ॥
विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणां । अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृळी॒को भ॑वतु जा॒तवे॑दाः ॥
विश्वे॑षां , अदि॑तिः , य॒ज्ञिया॑नां , विश्वे॑षां , अति॑थिः , मानु॑षाणां । अ॒ग्निः , दे॒वानां॑ , अवः॑ , आ॒ऽवृ॒णा॒नः , सु॒ऽमृ॒ळी॒कः , भ॒व॒तु॒ , जा॒तऽवे॑दाः ॥
[२] योमर्त्येष्विति विंशत्यृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |
यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॑ दे॒वो दे॒वेष्व॑र॒तिर्नि॒धायि॑ । होता॒ यजि॑ष्ठो म॒ह्ना शु॒चध्यै॑ ह॒व्यैर॒ग्निर्मनु॑ष ईर॒यध्यै॑ ॥
यः , मर्त्ये॑षु , अ॒मृतः॑ , ऋ॒तऽवा॑ , दे॒वः , दे॒वेषु॑ , अ॒र॒तिः , नि॒ऽधायि॑ । होता॑ , यजि॑ष्ठः , म॒ह्ना , शु॒चध्यै॑ , ह॒व्यैः , अ॒ग्निः , मनु॑षः , ई॒र॒यध्यै॑ ॥
इ॒ह त्वं सू॑नो सहसो नो अ॒द्य जा॒तो जा॒ताँ उ॒भयाँ॑ अं॒तर॑ग्ने । दू॒त ई॑यसे युयुजा॒न ऋ॑ष्व ऋजुमु॒ष्कान्वृष॑णः शु॒क्राँश्च॑ ॥
इ॒ह , त्वं , सू॒नो॒ इति॑ , स॒ह॒सः॒ , नः॒ , अ॒द्य , जा॒तः , जा॒तान् , उ॒भया॑न् , अं॒तः , अ॒ग्ने॒ । दू॒तः , ई॒य॒से॒ , यु॒यु॒जा॒नः , ऋ॒ष्व॒ , ऋ॒जु॒ऽमु॒ष्कान् , वृष॑णः , शु॒क्रान् , च॒ ॥
अत्या॑ वृध॒स्नू रोहि॑ता घृ॒तस्नू॑ ऋ॒तस्य॑ मन्ये॒ मन॑सा॒ जवि॑ष्ठा । अं॒तरी॑यसे अरु॒षा यु॑जा॒नो यु॒ष्माँश्च॑ दे॒वान्विश॒ आ च॒ मर्ता॑न् ॥
अत्या॑ , वृ॒ध॒स्नू इति॑ वृ॒ध॒ऽस्नू , रोहि॑ता , घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ , ऋ॒तस्य॑ , म॒न्ये॒ , मन॑सा , जवि॑ष्ठा । अं॒तः , ई॒य॒से॒ , अ॒रु॒षा , यु॒जा॒नः , यु॒ष्मान् , च॒ , दे॒वान् , विशः॑ , आ , च॒ , मर्ता॑न् ॥
अ॒र्य॒मणं॒ वरु॑णं मि॒त्रमे॑षा॒मिंद्रा॒विष्णू॑ म॒रुतो॑ अ॒श्विनो॒त । स्वश्वो॑ अग्ने सु॒रथः॑ सु॒राधा॒ एदु॑ वह सुह॒विषे॒ जना॑य ॥
अ॒र्य॒मणं॑ , वरु॑णं , मि॒त्रं , ए॒षां॒ , इंद्रा॒विष्णू॒ इति॑ , म॒रुतः॑ , अ॒श्विना॑ , उ॒त । सु॒ऽअश्वः॑ , अ॒ग्ने॒ , सु॒ऽरथः॑ , सु॒ऽराधाः॑ , आ , इत् , ऊँ॒ इति॑ , व॒ह॒ , सु॒ऽह॒विषे॑ , जना॑य ॥
गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः । इळा॑वाँ ए॒षो अ॑सुर प्र॒जावां॑दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ॥
गोऽमा॑न् , अ॒ग्ने॒ , अवि॑ऽमान् , अ॒श्वी , य॒ज्ञः , नृ॒वत्ऽस॑खा , सदं॑ , इत् , अ॒प्र॒ऽमृ॒ष्यः । इळा॑ऽवान् , ए॒षः , अ॒सु॒र॒ , प्र॒जाऽवा॑न् , दी॒र्घः , र॒यिः , पृ॒थु॒ऽबु॒ध्नः , स॒भाऽवा॑न् ॥
यस्त॑ इ॒ध्मं ज॒भर॑त्सिष्विदा॒नो मू॒र्धानं॑ वा त॒तप॑ते त्वा॒या । भुव॒स्तस्य॒ स्वत॑वाँः पा॒युर॑ग्ने॒ विश्व॑स्मात्सीमघाय॒त उ॑रुष्य ॥
यः , ते॒ , इ॒ध्मं , ज॒भर॑त् , सि॒स्वि॒दा॒नः , मू॒र्धानं॑ , वा॒ , त॒तप॑ते , त्वा॒ऽया । भुवः॑ , तस्य॑ , स्वऽत॑वान् , पा॒युः , अ॒ग्ने॒ , विश्व॑स्मात् , सीं॒ , अ॒घ॒ऽय॒तः , उ॒रु॒ष्य॒ ॥
यस्ते॒ भरा॒दन्नि॑यते चि॒दन्नं॑ नि॒शिष॑न्मं॒द्रमति॑थिमु॒दीर॑त् । आ दे॑व॒युरि॒नध॑ते दुरो॒णे तस्मि॑न्र॒यिर्ध्रु॒वो अ॑स्तु॒ दास्वा॑न् ॥
यः , ते॒ , भरा॑त् , अन्नि॑ऽयते , चि॒त् , अन्नं॑ , नि॒ऽशिष॑त् , मं॒द्रं , अति॑थिं , उ॒त्ऽईर॑त् । आ , दे॒व॒ऽयुः , इ॒नध॑ते , दु॒रो॒णे , तस्मि॑न् , र॒यिः , ध्रु॒वः , अ॒स्तु॒ , दास्वा॑न् ॥
यस्त्वा॑ दो॒षा य उ॒षसि॑ प्र॒शंसा॑त्प्रि॒यं वा॑ त्वा कृ॒णव॑ते ह॒विष्मा॑न् । अश्वो॒ न स्वे दम॒ आ हे॒म्यावां॒तमंह॑सः पीपरो दा॒श्वांसं॑ ॥
यः , त्वा॒ , दो॒षा , यः , उ॒षसि॑ , प्र॒ऽशंसा॑त् , प्रि॒यं , वा॒ , त्वा॒ , कृ॒णव॑ते , ह॒विष्मा॑न् । अश्वः॑ , न , स्वे , दमे॑ , आ , हे॒म्याऽवा॑न् , तं , अंह॑सः , पी॒प॒रः॒ , दा॒श्वांसं॑ ॥
यस्तुभ्य॑मग्ने अ॒मृता॑य॒ दाश॒द्दुव॒स्त्वे कृ॒णव॑ते य॒तस्रु॑क् । न स रा॒या श॑शमा॒नो वि यो॑ष॒न्नैन॒मंहः॒ परि॑ वरदघा॒योः ॥
यः , तुभ्यं॑ , अ॒ग्ने॒ , अ॒मृता॑य , दाश॑त् , दुवः॑ , त्वे इति॑ , कृ॒णव॑ते , य॒तऽस्रु॑क् । न , सः , रा॒या , श॒श॒मा॒नः , वि , यो॒ष॒त् , न , ए॒नं॒ , अंहः॑ , परि॑ , व॒र॒त् , अ॒घ॒ऽयोः ॥
यस्य॒ त्वम॑ग्ने अध्व॒रं जुजो॑षो दे॒वो मर्त॑स्य॒ सुधि॑तं॒ ररा॑णः । प्री॒तेद॑स॒द्धोत्रा॒ सा य॑वि॒ष्ठासा॑म॒ यस्य॑ विध॒तो वृ॒धासः॑ ॥
यस्य॑ , त्वं , अ॒ग्ने॒ , अ॒ध्व॒रं , जुजो॑षः , दे॒वः , मर्त॑स्य , सुऽधि॑तं , ररा॑णः । प्री॒ता , इत् , अ॒स॒त् , होत्रा॑ , सा , य॒वि॒ष्ठ॒ , असा॑म , यस्य॑ , वि॒ध॒तः , वृ॒धासः॑ ॥
चित्ति॒मचि॑त्तिं चिनव॒द्वि वि॒द्वान्पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्ता॑न् । रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं॑ च॒ रास्वादि॑तिमुरुष्य ॥
चित्तिं॑ , अचि॑त्तिं , चि॒न॒व॒त् , वि , वि॒द्वान् , पृ॒ष्टाऽइ॑व , वी॒ता , वृ॒जि॒ना , च॒ , मर्ता॑न् । रा॒ये , च॒ , नः॒ , सु॒ऽअ॒प॒त्याय॑ , दे॒व॒ , दितिं॑ , च॒ , रास्व॑ , अदि॑तिं , उ॒रु॒ष्य॒ ॥
क॒विं श॑शासुः क॒वयोऽद॑ब्धा निधा॒रयं॑तो॒ दुर्या॑स्वा॒योः । अत॒स्त्वं दृश्याँ॑ अग्न ए॒तान्प॒ड्भिः प॑श्ये॒रद्भु॑ताँ अ॒र्य एवैः॑ ॥
क॒विं , श॒शा॒सुः॒ , क॒वयः॑ , अद॑ब्धाः , नि॒ऽधा॒रयं॑तः , दुर्या॑सु , आ॒योः । अतः॑ , त्वं , दृश्या॑न् , अ॒ग्ने॒ , ए॒तान् , प॒ट्ऽभिः , प॒श्येः॒ , अद्भु॑तान् , अ॒र्यः , एवैः॑ ॥
त्वम॑ग्ने वा॒घते॑ सु॒प्रणी॑तिः सु॒तसो॑माय विध॒ते य॑विष्ठ । रत्नं॑ भर शशमा॒नाय॑ घृष्वे पृ॒थु श्चं॒द्रमव॑से चर्षणि॒प्राः ॥
त्वं , अ॒ग्ने॒ , वा॒घते॑ , सु॒ऽप्रनी॑तिः , सु॒तऽसो॑माय , वि॒ध॒ते , य॒वि॒ष्ठ॒ । रत्नं॑ , भ॒र॒ , श॒श॒मा॒नाय॑ , घृ॒ष्वे॒ , पृ॒थु , चं॒द्रं , अव॑से , च॒र्ष॒णि॒ऽप्राः ॥
अधा॑ ह॒ यद्व॒यम॑ग्ने त्वा॒या प॒ड्भिर्हस्ते॑भिश्चकृ॒मा त॒नूभिः॑ । रथं॒ न क्रंतो॒ अप॑सा भु॒रिजो॑र्ऋ॒तं ये॑मुः सु॒ध्य॑ आशुषा॒णाः ॥
अध॑ , ह॒ , यत् , व॒यं , अ॒ग्ने॒ , त्वा॒ऽया , प॒ट्ऽभिः , हस्ते॑भिः , च॒कृ॒म , त॒नूभिः॑ । रथं॑ , न , क्रंतः॑ , अप॑सा , भु॒रिजोः॑ , ऋ॒तं , ये॒मुः॒ , सु॒ऽध्यः॑ , आ॒शु॒षा॒णाः ॥
अधा॑ मा॒तुरु॒षसः॑ स॒प्त विप्रा॒ जाये॑महि प्रथ॒मा वे॒धसो॒ नॄन् । दि॒वस्पु॒त्रा अंगि॑रसो भवे॒माद्रिं॑ रुजेम ध॒निनं॑ शु॒चंतः॑ ॥
अध॑ , मा॒तुः , उ॒षसः॑ , स॒प्त , विप्राः॑ , जाये॑महि , प्र॒थ॒माः , वे॒धसः॑ , नॄन् । दि॒वः , पु॒त्राः , अंगि॑रसः , भ॒वे॒म॒ , अद्रिं॑ , रु॒जे॒म॒ , ध॒निनं॑ , शु॒चंतः॑ ॥
अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः । शुचीद॑यं॒दीधि॑तिमुक्थ॒शासः॒ क्षामा॑ भिं॒दंतो॑ अरु॒णीरप॑ व्रन् ॥
अध॑ , यथा॑ , नः॒ , पि॒तरः॑ , परा॑सः , प्र॒त्नासः॑ , अ॒ग्ने॒ , ऋ॒तं , आ॒शु॒षा॒णाः । शुचि॑ , इत् , अ॒य॒न् , दीधि॑तिं , उ॒क्थ॒ऽशसः॑ , क्षाम॑ , भिं॒दंतः॑ , अ॒रु॒णीः , अप॑ , व्र॒न् ॥
सु॒कर्मा॑णः सु॒रुचो॑ देव॒यंतोऽयो॒ न दे॒वा जनि॑मा॒ धमं॑तः । शु॒चंतो॑ अ॒ग्निं व॑वृ॒धंत॒ इंद्र॑मू॒र्वं गव्यं॑ परि॒षदं॑तो अग्मन् ॥
सु॒ऽकर्मा॑णः , सु॒ऽरुचः॑ , दे॒व॒ऽयंतः॑ , अयः॑ , न , दे॒वाः , जनि॑म , धमं॑तः । शु॒चंतः॑ , अ॒ग्निं , व॒वृ॒धंतः॑ , इंद्रं॑ , ऊ॒र्वं , गव्यं॑ , प॒रि॒ऽसदं॑तः , अ॒ग्म॒न् ॥
आ यू॒थेव॑ क्षु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ यज्जनि॒मांत्यु॑ग्र । मर्ता॑नां चिदु॒र्वशी॑रकृप्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ॥
आ , यू॒थाऽइ॑व , क्षु॒ऽमति॑ , प॒श्वः , अ॒ख्य॒त् , दे॒वानां॑ , यत् , जनि॑म , अंति॑ , उ॒ग्र॒ । मर्ता॑नां , चि॒त् , उ॒र्वशीः॑ , अ॒कृ॒प्र॒न् , वृ॒धे , चि॒त् , अ॒र्यः , उप॑रस्य , आ॒योः ॥
अक॑र्म ते॒ स्वप॑सो अभूम ऋ॒तम॑वस्रन्नु॒षसो॑ विभा॒तीः । अनू॑नम॒ग्निं पु॑रु॒धा सु॑श्चं॒द्रं दे॒वस्य॒ मर्मृ॑जत॒श्चारु॒ चक्षुः॑ ॥
अक॑र्म , ते॒ , सु॒ऽअप॑सः , अ॒भू॒म॒ , ऋ॒तं , अ॒व॒स्र॒न् , उ॒षसः॑ , वि॒भा॒तीः । अनू॑नं , अ॒ग्निं , पु॒रु॒धा , सु॒ऽचं॒द्रं , दे॒वस्य॑ , मर्मृ॑जतः , चारु॑ , चक्षुः॑ ॥
ए॒ता ते॑ अग्न उ॒चथा॑नि वे॒धोऽवो॑चाम क॒वये॒ ता जु॑षस्व । उच्छो॑चस्व कृणु॒हि वस्य॑सो नो म॒हो रा॒यः पु॑रुवार॒ प्र यं॑धि ॥
ए॒ता , ते॒ , अ॒ग्ने॒ , उ॒चथा॑नि , वे॒धः॒ , अवो॑चाम , क॒वये॑ , ता , जु॒ष॒स्व॒ । उत् , शो॒च॒स्व॒ , कृ॒णु॒हि , वस्य॑सः , नः॒ , म॒हः , रा॒यः , पु॒रु॒ऽवा॒र॒ , प्र , यं॒धि॒ ॥
[३] आवोराजानमिति षोडशर्चस्य सूक्तस्य गौतमोवामदेव आद्यायारुद्रोद्वितीयादीनामग्निस्त्रिष्टुप् |
आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रं होता॑रं सत्य॒यजं॒ रोद॑स्योः । अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वं ॥
आ , वः॒ , राजा॑नं , अ॒ध्व॒रस्य॑ , रु॒द्रं , होता॑रं , स॒त्य॒ऽयजं॒ , रोद॑स्योः । अ॒ग्निं , पु॒रा , त॒न॒यि॒त्नोः , अ॒चित्ता॑त् , हिर॑ण्यऽरूपं , अव॑से , कृ॒णु॒ध्वं॒ ॥
अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ । अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी॑दे॒मा उ॑ ते स्वपाक प्रती॒चीः ॥
अ॒यं , योनिः॑ , च॒कृ॒म , यं , व॒यं , ते॒ , जा॒याऽइ॑व , पत्ये॑ , उ॒श॒ती , सु॒ऽवासाः॑ । अ॒र्वा॒ची॒नः , परि॑ऽवीतः , नि , सी॒द॒ , इ॒माः , ऊँ॒ इति॑ , ते॒ , सु॒ऽअ॒पा॒क॒ , प्र॒ती॒चीः ॥
आ॒शृ॒ण्व॒ते अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः । दे॒वाय॑ श॒स्तिम॒मृता॑य शंस॒ ग्रावे॑व॒ सोता॑ मधु॒षुद्यमी॒ळे ॥
आ॒ऽशृ॒ण्व॒ते , अदृ॑पिताय , मन्म॑ , नृ॒ऽचक्ष॑से , सु॒ऽमृ॒ळी॒काय॑ , वे॒धः॒ । दे॒वाय॑ , श॒स्तिं , अ॒मृता॑य , शं॒स॒ , ग्रावा॑ऽइव , सोता॑ , म॒धु॒ऽसुत् , यं , ई॒ळे ॥
त्वं चि॑न्नः॒ शम्या॑ अग्ने अ॒स्या ऋ॒तस्य॑ बोध्यृतचित्स्वा॒धीः । क॒दा त॑ उ॒क्था स॑ध॒माद्या॑नि क॒दा भ॑वंति स॒ख्या गृ॒हे ते॑ ॥
त्वं , चि॒त् , नः॒ , शम्यै॑ , अ॒ग्ने॒ , अ॒स्याः , ऋ॒तस्य॑ , बो॒धि॒ , ऋ॒त॒ऽचि॒त् , सु॒ऽआ॒धीः । क॒दा , ते॒ , उ॒क्था , स॒ध॒ऽमाद्या॑नि , क॒दा , भ॒वं॒ति॒ , स॒ख्या , गृ॒हे , ते॒ ॥
क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आगः॑ । क॒था मि॒त्राय॑ मी॒ळ्हुषे॑ पृथि॒व्यै ब्रवः॒ कद॑र्य॒म्णे कद्भगा॑य ॥
क॒था , ह॒ , तत् , वरु॑णाय , त्वं , अ॒ग्ने॒ , क॒था , दि॒वे , ग॒र्ह॒से॒ , कत् , नः॒ , आगः॑ । क॒था , मि॒त्राय॑ , मी॒ळ्हुषे॑ , पृ॒थि॒व्यै , ब्रवः॑ , कत् , अ॒र्य॒म्णे , कत् , भगा॑य ॥
कद्धिष्ण्या॑सु वृधसा॒नो अ॑ग्ने॒ कद्वाता॑य॒ प्रत॑वसे शुभं॒ये । परि॑ज्मने॒ नास॑त्याय॒ क्षे ब्रवः॒ कद॑ग्ने रु॒द्राय॑ नृ॒घ्ने ॥
कत् , धिष्ण्या॑सु , वृ॒ध॒सा॒नः , अ॒ग्ने॒ , कत् , वाता॑य , प्रऽत॑वसे , शु॒भं॒ऽये । परि॑ऽज्मने , नास॑त्याय , क्षे , ब्रवः॑ , कत् , अ॒ग्ने॒ , रु॒द्राय॑ , नृ॒ऽघ्ने ॥
क॒था म॒हे पु॑ष्टिंभ॒राय॑ पू॒ष्णे कद्रु॒द्राय॒ सुम॑खाय हवि॒र्दे । कद्विष्ण॑व उरुगा॒याय॒ रेतो॒ ब्रवः॒ कद॑ग्ने॒ शर॑वे बृह॒त्यै ॥
क॒था , म॒हे , पु॒ष्टिं॒ऽभ॒राय॑ , पू॒ष्णे , कत् , रु॒द्राय॑ , सुऽम॑खाय , ह॒विः॒ऽदे । कत् , विष्ण॑वे , उ॒रु॒ऽगा॒याय॑ , रेतः॑ , ब्रवः॑ , कत् , अ॒ग्ने॒ , शर॑वे , बृ॒ह॒त्यै ॥
क॒था शर्धा॑य म॒रुता॑मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा॑नः । प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ॥
क॒था , शर्धा॑य , म॒रुतां॑ , ऋ॒ताय॑ , क॒था , सू॒रे , बृ॒ह॒ते , पृ॒च्छ्यमा॑नः । प्रति॑ , ब्र॒वः॒ , अदि॑तये , तु॒राय॑ , साध॑ , दि॒वः , जा॒त॒ऽवे॒दः॒ , चि॒कि॒त्वान् ॥
ऋ॒तेन॑ ऋ॒तं निय॑तमीळ॒ आ गोरा॒मा सचा॒ मधु॑मत्प॒क्वम॑ग्ने । कृ॒ष्णा स॒ती रुश॑ता धा॒सिनै॒षा जाम॑र्येण॒ पय॑सा पीपाय ॥
ऋ॒तेन॑ , ऋ॒तं , निऽय॑तं , ई॒ळे॒ , आ , गोः , आ॒मा , सचा॑ , मधु॑ऽमत् , प॒क्वं , अ॒ग्ने॒ । कृ॒ष्णा , स॒ती , रुश॑ता , धा॒सिना॑ , ए॒षा , जाम॑र्येण , पय॑सा , पी॒पा॒य॒ ॥
ऋ॒तेन॒ हि ष्मा॑ वृष॒भश्चि॑द॒क्तः पुमाँ॑ अ॒ग्निः पय॑सा पृ॒ष्ठ्ये॑न । अस्पं॑दमानो अचरद्वयो॒धा वृषा॑ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥
ऋ॒तेनः॑ , हि , स्म॒ , वृ॒ष॒भः , चि॒त् , अ॒क्तः , पुमा॑न् , अ॒ग्निः , पय॑सा , पृ॒ष्ठ्ये॑न । अस्पं॑दमानः , अ॒च॒र॒त् , व॒यः॒ऽधाः , वृषा॑ , शु॒क्रं , दु॒दु॒हे॒ , पृश्निः॑ , ऊधः॑ ॥
ऋ॒तेनाद्रिं॒ व्य॑सन्भि॒दंतः॒ समंगि॑रसो नवंत॒ गोभिः॑ । शु॒नं नरः॒ परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ॥
ऋ॒तेन॑ , अद्रिं॑ , वि , अ॒स॒न् , भि॒दंतः॑ , सं , अंगि॑रसः , न॒वं॒त॒ , गोऽभिः॑ । शु॒नं , नरः॑ , परि॑ , स॒द॒न् , उ॒षसं॑ , आ॒विः , स्वः॑ , अ॒भ॒व॒त् , जा॒ते , अ॒ग्नौ ॥
ऋ॒तेन॑ दे॒वीर॒मृता॒ अमृ॑क्ता॒ अर्णो॑भि॒रापो॒ मधु॑मद्भिरग्ने । वा॒जी न सर्गे॑षु प्रस्तुभा॒नः प्र सद॒मित्स्रवि॑तवे दधन्युः ॥
ऋ॒तेन॑ , दे॒वीः , अ॒मृताः॑ , अमृ॑क्ताः , अर्णः॑ऽभिः , आपः॑ , मधु॑मत्ऽभिः , अ॒ग्ने॒ । वा॒जी , न , सर्गे॑षु , प्र॒ऽस्तु॒भा॒नः , प्र , सदं॑ , इत् , स्रवि॑तवे , द॒ध॒न्युः॒ ॥
मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः । मा भ्रातु॑रग्ने॒ अनृ॑जोर्ऋ॒णं वे॒र्मा सख्यु॒र्दक्षं॑ रि॒पोर्भु॑जेम ॥
मा , कस्य॑ , य॒क्षं , सदं॑ , इत् , हु॒रः , गाः॒ , मा , वे॒शस्य॑ , प्र॒ऽमि॒न॒तः , मा , आ॒पेः । मा , भ्रातुः॑ , अ॒ग्ने॒ , अनृ॑जोः , ऋ॒णं , वेः॒ , मा , सख्युः॑ , दक्षं॑ , रि॒पोः , भु॒जे॒म॒ ॥
रक्षा॑ णो अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः । प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो॑ ज॒हि रक्षो॒ महि॑ चिद्वावृधा॒नं ॥
रक्ष॑ , नः॒ , अ॒ग्ने॒ , तव॑ , रक्ष॑णेभिः , र॒र॒क्षा॒णः , सु॒ऽम॒ख॒ , प्री॒णा॒नः । प्रति॑ , स्फु॒र॒ , वि , रु॒ज॒ , वी॒ळु , अंहः॑ , ज॒हि , रक्षः॑ , महि॑ , चि॒त् , व॒वृ॒धा॒नं ॥
ए॒भिर्भ॑व सु॒मना॑ अग्ने अ॒र्कैरि॒मांत्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् । उ॒त ब्रह्मा॑ण्यंगिरो जुषस्व॒ सं ते॑ श॒स्तिर्दे॒ववा॑ता जरेत ॥
ए॒भिः , भ॒व॒ , सु॒ऽमनाः॑ , अ॒ग्ने॒ , अ॒र्कैः , इ॒मान् , स्पृ॒श॒ , मन्म॑ऽभिः , शू॒र॒ , वाजा॑न् । उ॒त , ब्रह्मा॑णि , अं॒गि॒रः॒ , जु॒ष॒स्व॒ , सं , ते॒ , श॒स्तिः , दे॒वऽवा॑ता , ज॒रे॒त॒ ॥
ए॒ता विश्वा॑ वि॒दुषे॒ तुभ्यं॑ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां॑सि । नि॒वच॑ना क॒वये॒ काव्या॒न्यशं॑सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ॥
ए॒ता , विश्वा॑ , वि॒दुषे॑ , तुभ्यं॑ , वे॒धः॒ , नी॒थानि॑ , अ॒ग्ने॒ , नि॒ण्या , वचां॑सि । नि॒ऽवच॑ना , क॒वये॑ , काव्या॑नि , अशं॑सिषं , म॒तिऽभिः॑ , विप्रः॑ , उ॒क्थैः ॥
[४] कृणुष्वेति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवोरक्षोहाग्निस्त्रिष्टुप् |
कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥
कृ॒णु॒ष्व , पाजः॑ , प्रऽसि॑तिं , न , पृ॒थ्वीं , या॒हि , राजा॑ऽइव , अम॑ऽवान् , इभे॑न । तृ॒ष्वीं , अनु॑ , प्रऽसि॑तिं , द्रू॒णा॒नः , अस्ता॑ , अ॒सि॒ , विध्य॑ , र॒क्षसः॑ , तपि॑ष्ठैः ॥
तव॑ भ्र॒मास॑ आशु॒या प॑तं॒त्यनु॑ स्पृश धृष॒ता शोशु॑चानः । तपूं॑ष्यग्ने जु॒ह्वा॑ पतं॒गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥
तव॑ , भ्र॒मासः॑ , आ॒शु॒ऽया , प॒तं॒ति॒ , अनु॑ , स्पृ॒श॒ , धृ॒ष॒ता , शोशु॑चानः । तपूं॑षि , अ॒ग्ने॒ , जु॒ह्वा॑ , प॒तं॒गान् , असं॑ऽदितः , वि , सृ॒ज॒ , विष्व॑क् , उ॒ल्काः ॥
प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घशं॑सो॒ यो अंत्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ॥
प्रति॑ , स्पशः॑ , वि , सृ॒ज॒ , तूर्णि॑ऽतमः , भव॑ , पा॒युः , वि॒शः , अ॒स्याः , अद॑ब्धः । यः , नः॒ , दू॒रे , अ॒घऽशं॑सः , यः , अंति॑ , अग्ने॑ , माकिः॑ , ते॒ , व्यथिः॑ , आ , द॒ध॒र्षी॒त् ॥
उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य१॒॑मित्राँ॑ ओषतात्तिग्महेते । यो नो॒ अरा॑तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्कं॑ ॥
उत् , अ॒ग्ने॒ , ति॒ष्ठ॒ , प्रति॑ , आ , त॒नु॒ष्व॒ , नि , अ॒मित्रा॑न् , ओ॒ष॒ता॒त् , ति॒ग्म॒ऽहे॒ते॒ । यः , नः॒ , अरा॑तिं , सं॒ऽइ॒धा॒न॒ , च॒क्रे , नी॒चा , तं , ध॒क्षि॒ , अ॒त॒सं , न , शुष्कं॑ ॥
ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने । अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ॥
ऊ॒र्ध्वः , भ॒व॒ , प्रति॑ , वि॒ध्य॒ , अधि॑ , अ॒स्मत् , आ॒विः , कृ॒णु॒ष्व॒ , दैव्या॑नि , अ॒ग्ने॒ । अव॑ , स्थि॒रा , त॒नु॒हि॒ , या॒तु॒ऽजूनां॑ , जा॒मिं , अजा॑मिं , प्र , मृ॒णी॒हि॒ , शत्रू॑न् ॥
स ते॑ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वा॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑त् ॥
सः , ते॒ , जा॒ना॒ति॒ , सु॒ऽम॒तिं , य॒वि॒ष्ठ॒ , यः , ईव॑ते , ब्रह्म॑णे , गा॒तुं , ऐर॑त् । विश्वा॑नि , अ॒स्मै॒ , सु॒ऽदिना॑नि , रा॒यः , द्यु॒म्नानि॑ , अ॒र्यः , वि , दुरः॑ , अ॒भि , द्यौ॒त् ॥
सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ॥
सः , इत् , अ॒ग्ने॒ , अ॒स्तु॒ , सु॒ऽभगः॑ , सु॒ऽदानुः॑ , यः , त्वा॒ , नित्ये॑न , ह॒विषा॑ , यः , उ॒क्थैः । पिप्री॑षति , स्वे , आयु॑षि , दु॒रो॒णे , विश्वा॑ , इत् , अ॒स्मै॒ , सु॒ऽदिना॑ , सा , अ॒स॒त् , इ॒ष्टिः ॥
अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक्सं ते॑ वा॒वाता॑ जरतामि॒यं गीः । स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥
अर्चा॑मि , ते॒ , सु॒ऽम॒तिं , घोषि॑ , अ॒र्वाक् , सं , ते॒ , व॒वाता॑ , ज॒र॒तां॒ , इ॒यं , गीः । सु॒ऽअश्वाः॑ , त्वा॒ , सु॒ऽरथाः॑ , म॒र्ज॒ये॒म॒ , अ॒स्मे इति॑ , क्ष॒त्राणि॑ , धा॒र॒येः॒ , अनु॑ , द्यून् ॥
इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मंदोषा॑वस्तर्दीदि॒वांस॒मनु॒ द्यून् । क्रीळं॑तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वांसो॒ जना॑नां ॥
इ॒ह , त्वा॒ , भूरि॑ , आ , च॒रे॒त् , उप॑ , त्मन् , दोषा॑ऽवस्तः , दी॒दि॒ऽवांसं॑ , अनु॑ , द्यून् । क्रीळं॑तः , त्वा॒ , सु॒ऽमन॑सः , स॒पे॒म॒ , अ॒भि , द्यु॒म्ना , त॒स्थि॒ऽवांसः॑ , जना॑नां ॥
यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ॥
यः , त्वा॒ , सु॒ऽअश्वः॑ , सु॒ऽहि॒र॒ण्यः , अ॒ग्ने॒ , उ॒प॒ऽयाति॑ , वसु॑ऽमता , रथे॑न । तस्य॑ , त्रा॒ता , भ॒व॒सि॒ , तस्य॑ , सखा॑ , यः , ते॒ , आ॒ति॒थ्यं , आ॒नु॒षक् , जुजो॑षत् ॥
म॒हो रु॑जामि बं॒धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय । त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥
म॒हः , रु॒जा॒मि॒ , बं॒धुता॑ , वचः॑ऽभिः , तत् , मा॒ , पि॒तुः , गोत॑मात् , अनु॑ , इ॒या॒य॒ । त्वं , नः॒ , अ॒स्य , वच॑सः , चि॒कि॒द्धि॒ , होतः॑ , य॒वि॒ष्ठ॒ , सु॒क्र॒तो॒ इति॑ सुऽक्रतो , दमू॑नाः ॥
अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अतं॑द्रासोऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यवः॑ स॒ध्र्यं॑चो नि॒षद्याग्ने॒ तव॑ नः पांत्वमूर ॥
अस्व॑प्नऽजः , त॒रण॑यः , सु॒ऽशेवाः॑ , अतं॑द्रासः , अ॒वृ॒काः , अश्र॑मिष्ठाः । ते , पा॒यवः॑ , स॒ध्र्यं॑चः , नि॒ऽसद्य॑ , अ॒ग्ने॒ , तव॑ , नः॒ , पां॒तु॒ , अ॒मू॒र॒ ॥
ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्यं॑तो अं॒धं दु॑रि॒तादर॑क्षन् । र॒रक्ष॒ तांत्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्सं॑त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥
ये , पा॒यवः॑ , मा॒म॒ते॒यं , ते॒ , अ॒ग्ने॒ , पश्यं॑तः , अं॒धं , दुः॒ऽइ॒तात् , अर॑क्षन् । र॒रक्ष॑ , तान् , सु॒ऽकृतः॑ , वि॒श्वऽवे॑दाः , दिप्सं॑तः , इत् , रि॒पवः॑ , न , अह॑ , दे॒भुः॒ ॥
त्वया॑ व॒यं स॑ध॒न्य१॒॑स्त्वोता॒स्तव॒ प्रणी॑त्यश्याम॒ वाजा॑न् । उ॒भा शंसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥
त्वया॑ , व॒यं , स॒ऽध॒न्यः॑ , त्वाऽऊ॑ताः , तव॑ , प्रऽनी॑ती , अ॒श्या॒म॒ , वाजा॑न् । उ॒भा , शंसा॑ , सू॒द॒य॒ , स॒त्य॒ऽता॒ते॒ , अ॒नु॒ष्ठु॒या , कृ॒णु॒हि॒ , अ॒ह्र॒या॒ण॒ ॥
अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमं॑ श॒स्यमा॑नं गृभाय । दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य१॒॑स्मांद्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥
अ॒या , ते॒ , अ॒ग्ने॒ , सं॒ऽइधा॑ , वि॒धे॒म॒ , प्रति॑ , स्तोमं॑ , श॒स्यमा॑नं , गृ॒भा॒य॒ । दह॑ , अ॒शसः॑ , र॒क्षसः॑ , पा॒हि , अ॒स्मान् , द्रु॒हः , नि॒दः , मि॒त्र॒ऽम॒हः॒ , अ॒व॒द्यात् ॥
[५] वैश्वानरायेतिपंचदशर्चस्य सूक्तस्य गौतमोवामदेवोवैश्वानरोग्निस्त्रिष्टुप् |
वै॒श्वा॒न॒राय॑ मी॒ळ्हुषे॑ स॒जोषाः॑ क॒था दा॑शेमा॒ग्नये॑ बृ॒हद्भाः । अनू॑नेन बृह॒ता व॒क्षथे॒नोप॑ स्तभायदुप॒मिन्न रोधः॑ ॥
वै॒श्वा॒न॒राय॑ , मी॒ळ्हुषे॑ , स॒ऽजोषाः॑ , क॒था , दा॒शे॒म॒ , अ॒ग्नये॑ , बृ॒हत् , भाः । अनू॑नेन , बृ॒ह॒ता , व॒क्षथे॑न , उप॑ , स्त॒भा॒य॒त् , उ॒प॒ऽमित् , न , रोधः॑ ॥
मा निं॑दत॒ य इ॒मां मह्यं॑ रा॒तिं दे॒वो द॒दौ मर्त्या॑य स्व॒धावा॑न् । पाका॑य॒ गृत्सो॑ अ॒मृतो॒ विचे॑ता वैश्वान॒रो नृत॑मो य॒ह्वो अ॒ग्निः ॥
मा , निं॒द॒त॒ , यः , इ॒मां , मह्यं॑ , रा॒तिं , दे॒वः , द॒दौ , मर्या॑य , स्व॒धाऽवा॑न् । पाका॑य , गृत्सः॑ , अ॒मृतः॑ , विऽचे॑ताः , वै॒श्वा॒न॒रः , नृऽत॑मः , य॒ह्वः , अ॒ग्निः ॥
साम॑ द्वि॒बर्हा॒ महि॑ ति॒ग्मभृ॑ष्टिः स॒हस्र॑रेता वृष॒भस्तुवि॑ष्मान् । प॒दं न गोरप॑गूळ्हं विवि॒द्वान॒ग्निर्मह्यं॒ प्रेदु॑ वोचन्मनी॒षां ॥
साम॑ , द्वि॒ऽबर्हाः॑ , महि॑ , ति॒ग्मऽभृ॑ष्टिः , स॒हस्र॑ऽरेताः , वृ॒ष॒भः , तुवि॑ष्मान् । प॒दं , न , गोः , अप॑ऽगूळ्हं , वि॒वि॒द्वान् , अ॒ग्निः , मह्यं॑ , प्र , इत् , ऊँ॒ इति॑ , वो॒च॒त् , म॒नी॒षां ॥
प्र ताँ अ॒ग्निर्ब॑भसत्ति॒ग्मजं॑भ॒स्तपि॑ष्ठेन शो॒चिषा॒ यः सु॒राधाः॑ । प्र ये मि॒नंति॒ वरु॑णस्य॒ धाम॑ प्रि॒या मि॒त्रस्य॒ चेत॑तो ध्रु॒वाणि॑ ॥
प्र , तान् , अ॒ग्निः , ब॒भ॒स॒त् , ति॒ग्मऽजं॑भः , तपि॑ष्ठेन , शो॒चिषा॑ , यः , सु॒ऽराधाः॑ । प्र , ये , मि॒नंति॑ , वरु॑णस्य , धाम॑ , प्रि॒या , मि॒त्रस्य॑ , चेत॑तः , ध्रु॒वाणि॑ ॥
अ॒भ्रा॒तरो॒ न योष॑णो॒ व्यंतः॑ पति॒रिपो॒ न जन॑यो दु॒रेवाः॑ । पा॒पासः॒ संतो॑ अनृ॒ता अ॑स॒त्या इ॒दं प॒दम॑जनता गभी॒रं ॥
अ॒भ्रा॒तरः॑ , न , योष॑णः , व्यंतः॑ , प॒ति॒ऽरिपः॑ , न , जन॑यः , दुः॒ऽएवाः॑ । पा॒पासः॑ , संतः॑ , अ॒नृ॒ताः , अ॒स॒त्याः , इ॒दं , प॒दं , अ॒ज॒न॒त॒ , ग॒भी॒रं ॥
इ॒दं मे॑ अग्ने॒ किय॑ते पाव॒कामि॑नते गु॒रुं भा॒रं न मन्म॑ । बृ॒हद्द॑धाथ धृष॒ता ग॑भी॒रं य॒ह्वं पृ॒ष्ठं प्रय॑सा स॒प्तधा॑तु ॥
इ॒दं , मे॒ , अ॒ग्ने॒ , किय॑ते , पा॒व॒क॒ , अमि॑नते , गु॒रुं , भा॒रं , न , मन्म॑ । बृ॒हत् , द॒धा॒थ॒ , धृ॒ष॒ता , ग॒भी॒रं , य॒ह्वं , पृ॒ष्ठं , प्रय॑सा , स॒प्तऽधा॑तु ॥
तमिन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नम॒भि क्रत्वा॑ पुन॒ती धी॒तिर॑श्याः । स॒सस्य॒ चर्म॒न्नधि॒ चारु॒ पृश्ने॒रग्रे॑ रु॒प आरु॑पितं॒ जबा॑रु ॥
तं , इत् , नु , ए॒व , स॒म॒ना , स॒मा॒नं , अ॒भि , क्रत्वा॑ , पु॒न॒ती , धी॒तिः , अ॒श्याः॒ । स॒सस्य॑ , चर्म॑न् , अधि॑ , चारु॑ , पृश्नेः॑ , अग्ने॑ , रु॒पः , अरु॑पितं , जबा॑रु ॥
प्र॒वाच्यं॒ वच॑सः॒ किं मे॑ अ॒स्य गुहा॑ हि॒तमुप॑ नि॒णिग्व॑दंति । यदु॒स्रिया॑णा॒मप॒ वारि॑व॒ व्रन्पाति॑ प्रि॒यं रु॒पो अग्रं॑ प॒दं वेः ॥
प्र॒ऽवाच्यं॑ , वच॑सः , किं , मे॒ , अ॒स्य , गुहा॑ , हि॒तं , उप॑ , नि॒णिक् , व॒दं॒ति॒ । यत् , उ॒स्रिया॑णां , अप॑ , वाःऽइ॑व , व्रन् , पाति॑ , प्रि॒यं , रु॒पः , अग्रं॑ , प॒दं , वेरिति॒ वेः ॥
इ॒दमु॒ त्यन्महि॑ म॒हामनी॑कं॒ यदु॒स्रिया॒ सच॑त पू॒र्व्यं गौः । ऋ॒तस्य॑ प॒दे अधि॒ दीद्या॑नं॒ गुहा॑ रघु॒ष्यद्र॑घु॒यद्वि॑वेद ॥
इ॒दं , ऊँ॒ इति॑ , त्यत् , महि॑ , म॒हां , अनी॑कं , यत् , उ॒स्रिया॑ , सच॑त , पू॒र्व्यं , गौः । ऋ॒तस्य॑ , प॒दे , अधि॑ , दीद्या॑नं , गुहा॑ , र॒घु॒ऽस्यत् , र॒घु॒ऽयत् , वि॒वे॒द॒ ॥
अध॑ द्युता॒नः पि॒त्रोः सचा॒साम॑नुत॒ गुह्यं॒ चारु॒ पृश्नेः॑ । मा॒तुष्प॒दे प॑र॒मे अंति॒ षद्गोर्वृष्णः॑ शो॒चिषः॒ प्रय॑तस्य जि॒ह्वा ॥
अध॑ , द्यु॒ता॒नः , पि॒त्रोः , सचा॑ , आ॒सा , अम॑नुत , गुह्यं॑ , चारु॑ , पृश्नेः॑ । मा॒तुः , प॒दे , प॒र॒मे , अंति॑ , सत् , गोः , वृष्णः॑ , शो॒चिषः॑ , प्रऽय॑तस्य , जि॒ह्वा ॥
ऋ॒तं वो॑चे॒ नम॑सा पृ॒च्छ्यमा॑न॒स्तवा॒शसा॑ जातवेदो॒ यदी॒दं । त्वम॒स्य क्ष॑यसि॒ यद्ध॒ विश्वं॑ दि॒वि यदु॒ द्रवि॑णं॒ यत्पृ॑थि॒व्यां ॥
ऋ॒तं , वो॒चे॒ , नम॑सा , पृ॒च्छ्यमा॑नः , तव॑ , आ॒ऽशसा॑ , जा॒त॒ऽवे॒दः॒ , यदि॑ , इ॒दं । त्वं , अ॒स्य , क्ष॒य॒सि॒ , यत् , ह॒ , विश्वं॑ , दि॒वि , यत् , ऊँ॒ इति॑ , द्रवि॑णं , यत् , पृ॒थि॒व्यां ॥
किं नो॑ अ॒स्य द्रवि॑णं॒ कद्ध॒ रत्नं॒ वि नो॑ वोचो जातवेदश्चिकि॒त्वान् । गुहाध्व॑नः पर॒मं यन्नो॑ अ॒स्य रेकु॑ प॒दं न नि॑दा॒ना अग॑न्म ॥
किं , नः॒ , अ॒स्य , द्रवि॑णं , कत् , ह॒ , रत्नं॑ , वि , नः॒ , वो॒चः॒ , जा॒त॒ऽवे॒दः॒ , चि॒कि॒त्वान् । गुहा॑ , अध्व॑नः , प॒र॒मं , यत् , नः॒ , अ॒स्य , रेकु॑ , प॒दं , न , नि॒दा॒नाः , अग॑न्म ॥
का म॒र्यादा॑ व॒युना॒ कद्ध॑ वा॒ममच्छा॑ गमेम र॒घवो॒ न वाजं॑ । क॒दा नो॑ दे॒वीर॒मृत॑स्य॒ पत्नीः॒ सूरो॒ वर्णे॑न ततनन्नु॒षासः॑ ॥
का , म॒र्यादा॑ , व॒युना॑ , कत् , ह॒ , वा॒मं , अच्छ॑ , ग॒मे॒म॒ , र॒घवः॑ , न , वाजं॑ । क॒दा , नः॒ , दे॒वीः , अ॒मृत॑स्य , पत्नीः॑ , सूरः॑ , वर्णे॑न , त॒त॒न॒न् , उ॒षसः॑ ॥
अ॒नि॒रेण॒ वच॑सा फ॒ल्ग्वे॑न प्र॒तीत्ये॑न कृ॒धुना॑तृ॒पासः॑ । अधा॒ ते अ॑ग्ने॒ किमि॒हा व॑दंत्यनायु॒धास॒ आस॑ता सचंतां ॥
अ॒नि॒रेण॑ , वच॑सा , फ॒ल्ग्वे॑न , प्र॒तीत्ये॑न , कृ॒धुना॑ , अ॒तृ॒पासः॑ । अध॑ , ते , अ॒ग्ने॒ , किं , इ॒ह , व॒दं॒ति॒ , अ॒ना॒यु॒धासः॑ , अस॑ता , स॒चं॒तां॒ ॥
अ॒स्य श्रि॒ये स॑मिधा॒नस्य॒ वृष्णो॒ वसो॒रनी॑कं॒ दम॒ आ रु॑रोच । रुश॒द्वसा॑नः सु॒दृशी॑करूपः क्षि॒तिर्न रा॒या पु॑रु॒वारो॑ अद्यौत् ॥
अ॒स्य , श्रि॒ये , सं॒ऽइ॒धा॒नस्य॑ , वृष्णः॑ , वसोः॑ , अनी॑कं , दमे॑ , आ , रु॒रो॒च॒ । रुश॑त् , वसा॑नः , सु॒दृशी॑कऽरूपः , क्षि॒तिः , न , रा॒या , पु॒रु॒ऽवारः॑ , अ॒द्यौ॒त् ॥
[६] ऊर्ध्वऊषुणइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |
ऊ॒र्ध्व ऊ॒ षु णो॑ अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता॑ता॒ यजी॑यान् । त्वं हि विश्व॑म॒भ्यसि॒ मन्म॒ प्र वे॒धस॑श्चित्तिरसि मनी॒षां ॥
ऊ॒र्ध्वः , ऊँ॒ इति॑ , सु , नः॒ , अ॒ध्व॒र॒स्य॒ , हो॒तः॒ , अग्ने॑ , तिष्ठ॑ , दे॒वऽता॑ता , यजी॑यान् । त्वं , हि , विश्वं॑ , अ॒भि , असि॑ , मन्म॑ , प्र , वे॒धसः॑ , चि॒त् , ति॒र॒सि॒ , म॒नी॒षां ॥
अमू॑रो॒ होता॒ न्य॑सादि वि॒क्ष्व१॒॑ग्निर्मं॒द्रो वि॒दथे॑षु॒ प्रचे॑ताः । ऊ॒र्ध्वं भा॒नुं स॑वि॒तेवा॑श्रे॒न्मेते॑व धू॒मं स्त॑भाय॒दुप॒ द्यां ॥
अमू॑रः , होता॑ , नि , अ॒सा॒दि॒ , वि॒क्षु , अ॒ग्निः , मं॒द्रः , वि॒दथे॑षु , प्रऽचे॑ताः । ऊ॒र्ध्वं , भा॒नुं , स॒वि॒ताऽइ॑व , अ॒श्रे॒त् , मेता॑ऽइव , धू॒मं , स्त॒भा॒य॒त् , उप॑ , द्यां ॥
य॒ता सु॑जू॒र्णी रा॒तिनी॑ घृ॒ताची॑ प्रदक्षि॒णिद्दे॒वता॑तिमुरा॒णः । उदु॒ स्वरु॑र्नव॒जा नाक्रः प॒श्वो अ॑नक्ति॒ सुधि॑तः सु॒मेकः॑ ॥
य॒ता , सु॒ऽजू॒र्णिः , रा॒तिनी॑ , घृ॒ताची॑ , प्र॒ऽद॒क्षि॒णित् , दे॒वऽता॑तिं , उ॒रा॒णः । उत् , ऊँ॒ इति॑ , स्वरुः॑ , न॒व॒ऽजाः , न , अ॒क्रः , प॒श्वः , अ॒न॒क्ति॒ , सुऽधि॑तः , सु॒ऽमेकः॑ ॥
स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्ना ऊ॒र्ध्वो अ॑ध्व॒र्युर्जु॑जुषा॒णो अ॑स्थात् । पर्य॒ग्निः प॑शु॒पा न होता॑ त्रिवि॒ष्ट्ये॑ति प्र॒दिव॑ उरा॒णः ॥
स्ती॒र्णे , ब॒र्हिषि॑ , सं॒ऽइ॒धा॒ने , अ॒ग्नौ , ऊ॒र्ध्वः , अ॒ध्व॒र्युः , जु॒जु॒षा॒णः , अ॒स्था॒त् । परि॑ , अ॒ग्निः , प॒शु॒ऽपाः , न , होता॑ , त्रि॒ऽवि॒ष्टि , ए॒ति॒ , प्र॒ऽदिवः॑ , उ॒रा॒णः ॥
परि॒ त्मना॑ मि॒तद्रु॑रेति॒ होता॒ग्निर्मं॒द्रो मधु॑वचा ऋ॒तावा॑ । द्रवं॑त्यस्य वा॒जिनो॒ न शोका॒ भयं॑ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा॑ट् ॥
परि॑ , त्मना॑ , मि॒तऽद्रुः॑ , ए॒ति॒ , होता॑ , अ॒ग्निः , मं॒द्रः , मधु॑ऽवचाः , ऋ॒तऽवा॑ । द्रवं॑ति , अ॒स्य॒ , वा॒जिनः॑ , न , शोकाः॑ , भयं॑ते , विश्वा॑ , भुव॑ना , यत् , अभ्रा॑ट् ॥
भ॒द्रा ते॑ अग्ने स्वनीक सं॒दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ । न यत्ते॑ शो॒चिस्तम॑सा॒ वरं॑त॒ न ध्व॒स्मान॑स्त॒न्वी॒३॒॑ रेप॒ आ धुः॑ ॥
भ॒द्रा , ते॒ , अ॒ग्ने॒ , सु॒ऽअ॒नी॒क॒ , सं॒ऽदृक् , घो॒रस्य॑ , स॒तः , विषु॑णस्य , चारुः॑ । न , यत् , ते॒ , शो॒चिः , तम॑सा , वरं॑त , न , ध्व॒स्मानः॑ , त॒न्वि॑ , रेपः॑ , आ , धु॒रिति॑ धुः ॥
न यस्य॒ सातु॒र्जनि॑तो॒रवा॑रि॒ न मा॒तरा॑पि॒तरा॒ नू चि॑दि॒ष्टौ । अधा॑ मि॒त्रो न सुधि॑तः पाव॒को॒३॒॑ऽग्निर्दी॑दाय॒ मानु॑षीषु वि॒क्षु ॥
न , यस्य॑ , सातुः॑ , जनि॑तोः , अवा॑रि , न , मा॒तरा॑पि॒तरा॑ , नु , चि॒त् , इ॒ष्टौ । अध॑ , मि॒त्रः , न , सुऽधि॑तः , पा॒व॒कः , अ॒ग्निः , दी॒दा॒य॒ , मानु॑षीषु , वि॒क्षु ॥
द्विर्यं पंच॒ जीज॑नंत्सं॒वसा॑नाः॒ स्वसा॑रो अ॒ग्निं मानु॑षीषु वि॒क्षु । उ॒ष॒र्बुध॑मथ॒र्यो॒३॒॑ न दंतं॑ शु॒क्रं स्वासं॑ पर॒शुं न ति॒ग्मं ॥
द्विः , यं , पंच॑ , जीज॑नन् , सं॒ऽवसा॑नाः , स्वसा॑रः , अ॒ग्निं , मानु॑षीषु , वि॒क्षु । उ॒षः॒ऽबुधं॑ , अ॒थ॒र्यः॑ , न , दंतं॑ , शु॒क्रं , सु॒ऽआसं॑ , प॒र॒शुं , न , ति॒ग्मं ॥
तव॒ त्ये अ॑ग्ने ह॒रितो॑ घृत॒स्ना रोहि॑तास ऋ॒ज्वंचः॒ स्वंचः॑ । अ॒रु॒षासो॒ वृष॑ण ऋजुमु॒ष्का आ दे॒वता॑तिमह्वंत द॒स्माः ॥
तव॑ , त्ये , अ॒ग्ने॒ , ह॒रितः॑ , घृ॒त॒ऽस्नाः , रोहि॑तासः , ऋ॒जु॒ऽअंचः॑ , सु॒ऽअंचः॑ । अ॒रु॒षासः॑ , वृष॑णः , ऋ॒जु॒ऽमु॒ष्काः , आ , दे॒वऽता॑तिं , अ॒ह्वं॒त॒ , द॒स्माः ॥
ये ह॒ त्ये ते॒ सह॑माना अ॒यास॑स्त्वे॒षासो॑ अग्ने अ॒र्चय॒श्चरं॑ति । श्ये॒नासो॒ न दु॑वस॒नासो॒ अर्थं॑ तुविष्व॒णसो॒ मारु॑तं॒ न शर्धः॑ ॥
ये , ह॒ , त्ये , ते॒ , सह॑मानाः , अ॒यासः॑ , त्वे॒षासः॑ , अ॒ग्ने॒ , अ॒र्चयः॑ , चरं॑ति । श्ये॒नासः॑ , न , दु॒व॒स॒नासः॑ , अर्थं॑ , तु॒वि॒ऽस्व॒नसः॑ , मारु॑तं , न , शर्धः॑ ॥
अका॑रि॒ ब्रह्म॑ समिधान॒ तुभ्यं॒ शंसा॑त्यु॒क्थं यज॑ते॒ व्यू॑ धाः । होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्नम॒स्यंत॑ उ॒शिजः॒ शंस॑मा॒योः ॥
अका॑रि , ब्रह्म॑ , सं॒ऽइ॒धा॒न॒ , तुभ्यं॑ , शंसा॑ति , उ॒क्थं , यज॑ते , वि , ऊँ॒ इति॑ , धाः॒ । होता॑रं , अ॒ग्निं , मनु॑षः , नि , से॒दुः॒ , न॒म॒स्यंतः॑ , उ॒शिजः॑ , शंसं॑ , आ॒योः ॥
[७] अयमिहेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् आद्याजगतीद्वितीयाद्यापंचानुष्टुभः |
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ । यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॑ वि॒शेवि॑शे ॥
अ॒यं , इ॒ह , प्र॒थ॒मः , धा॒यि॒ , धा॒तृऽभिः॑ , होता॑ , यजि॑ष्ठः , अ॒ध्व॒रेषु॑ , ईड्यः॑ । यं , अप्न॑वानः , भृग॑वः , वि॒ऽरु॒रु॒चुः , वने॑षु , चि॒त्रं , वि॒ऽभ्वं॑ , वि॒शेऽवि॑शे ॥
अग्ने॑ क॒दा त॑ आनु॒षग्भुव॑द्दे॒वस्य॒ चेत॑नं । अधा॒ हि त्वा॑ जगृभ्रि॒रे मर्ता॑सो वि॒क्ष्वीड्यं॑ ॥
अग्ने॑ , क॒दा , ते॒ , आ॒नु॒षक् , भुव॑त् , दे॒वस्य॑ , चेत॑नं । अध॑ , हि , त्वा॒ , ज॒गृ॒भ्रि॒रे , मर्ता॑सः , वि॒क्षु , ईड्यं॑ ॥
ऋ॒तावा॑नं॒ विचे॑तसं॒ पश्यं॑तो॒ द्यामि॑व॒ स्तृभिः॑ । विश्वे॑षामध्व॒राणां॑ हस्क॒र्तारं॒ दमे॑दमे ॥
ऋ॒तऽवा॑नं , विऽचे॑तसं , पश्यं॑तः , द्यांऽइ॑व , स्तृऽभिः॑ । विश्वे॑षां , अ॒ध्व॒राणां॑ , ह॒स्क॒र्तारं॑ , दमे॑ऽदमे ॥
आ॒शुं दू॒तं वि॒वस्व॑तो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि । आ ज॑भ्रुः के॒तुमा॒यवो॒ भृग॑वाणं वि॒शेवि॑शे ॥
आ॒शुं , दू॒तं , वि॒वस्व॑तः , विश्वाः॑ , यः , च॒र्ष॒णीः , अ॒भि । आ , ज॒भ्रुः॒ , के॒तुं , आ॒यवः॑ , भृग॑वाणं , वि॒शेऽवि॑शे ॥
तमीं॒ होता॑रमानु॒षक्चि॑कि॒त्वांसं॒ नि षे॑दिरे । र॒ण्वं पा॑व॒कशो॑चिषं॒ यजि॑ष्ठं स॒प्त धाम॑भिः ॥
तं , ईं॒ , होता॑रं , आ॒नु॒षक् , चि॒कि॒त्वांसं॑ , नि , से॒दि॒रे॒ । र॒ण्वं , पा॒व॒कऽशो॑चिषं , यजि॑ष्ठं , स॒प्त , धाम॑ऽभिः ॥
तं शश्व॑तीषु मा॒तृषु॒ वन॒ आ वी॒तमश्रि॑तं । चि॒त्रं संतं॒ गुहा॑ हि॒तं सु॒वेदं॑ कूचिद॒र्थिनं॑ ॥
तं , शश्व॑तीषु , मा॒तृषु॑ , वने॑ , आ , वी॒तं , अश्रि॑तं । चि॒त्रं , संतं॑ , गुहा॑ , हि॒तं , सु॒ऽवेदं॑ , कू॒चि॒त्ऽअ॒र्थिनं॑ ॥
स॒सस्य॒ यद्वियु॑ता॒ सस्मि॒न्नूध॑न्नृ॒तस्य॒ धाम॑न्र॒णयं॑त दे॒वाः । म॒हाँ अ॒ग्निर्नम॑सा रा॒तह॑व्यो॒ वेर॑ध्व॒राय॒ सद॒मिदृ॒तावा॑ ॥
स॒सस्य॑ , यत् , विऽयु॑ता , सस्मि॑न् , ऊध॑न् , ऋ॒तस्य॑ , धाम॑न् , र॒णयं॑त , दे॒वाः । म॒हान् , अ॒ग्निः , नम॑सा , रा॒तऽह॑व्यः , वेः , अ॒ध्व॒राय॑ , सदं॑ , इत् , ऋ॒तऽवा॑ ॥
वेर॑ध्व॒रस्य॑ दू॒त्या॑नि वि॒द्वानु॒भे अं॒ता रोद॑सी संचिकि॒त्वान् । दू॒त ई॑यसे प्र॒दिव॑ उरा॒णो वि॒दुष्ट॑रो दि॒व आ॒रोध॑नानि ॥
वेः , अ॒ध्व॒रस्य॑ , दू॒त्या॑नि , वि॒द्वान् , उ॒भे इति॑ , अं॒तरिति॑ , रोद॑सी॒ इति॑ , सं॒ऽचि॒कि॒त्वान् । दू॒तः , ई॒य॒से॒ , प्र॒ऽदिवः॑ , उ॒रा॒णः , वि॒दुःऽत॑रः , दि॒वः , आ॒ऽरोध॑नानि ॥
कृ॒ष्णं त॒ एम॒ रुश॑तः पु॒रो भाश्च॑रि॒ष्ण्व१॒॑र्चिर्वपु॑षा॒मिदेकं॑ । यदप्र॑वीता॒ दध॑ते ह॒ गर्भं॑ स॒द्यश्चि॑ज्जा॒तो भव॒सीदु॑ दू॒तः ॥
कृ॒ष्णं , ते॒ , एम॑ , रुश॑तः , पु॒रः , भाः , च॒रि॒ष्णु , अ॒र्चिः , वपु॑षां , इत् , एकं॑ । यत् , अप्र॑ऽवीता , दध॑ते , ह॒ , गर्भं॑ , स॒द्यः , चि॒त् , जा॒तः , भव॑सि , इत् , ऊँ॒ इति॑ , दू॒तः ॥
स॒द्यो जा॒तस्य॒ ददृ॑शान॒मोजो॒ यद॑स्य॒ वातो॑ अनु॒वाति॑ शो॒चिः । वृ॒णक्ति॑ ति॒ग्माम॑त॒सेषु॑ जि॒ह्वां स्थि॒रा चि॒दन्ना॑ दयते॒ वि जंभैः॑ ॥
स॒द्यः , जा॒तस्य॑ , ददृ॑शानं , ओजः॑ , यत् , अ॒स्य॒ , वातः॑ , अ॒नु॒ऽवाति॑ , शो॒चिः । वृ॒णक्ति॑ , ति॒ग्मां , अ॒त॒सेषु॑ , जि॒ह्वां , स्थि॒रा , चि॒त् , अन्ना॑ , द॒य॒ते॒ , वि , जंभैः॑ ॥
तृ॒षु यदन्ना॑ तृ॒षुणा॑ व॒वक्ष॑ तृ॒षुं दू॒तं कृ॑णुते य॒ह्वो अ॒ग्निः । वात॑स्य मे॒ळिं स॑चते नि॒जूर्व॑न्ना॒शुं न वा॑जयते हि॒न्वे अर्वा॑ ॥
तृ॒षु , यत् , अन्ना॑ , तृ॒षुणा॑ , व॒वक्ष॑ , तृ॒षुं , दू॒तं , कृ॒णु॒ते॒ , य॒ह्वः , अ॒ग्निः । वात॑स्य , मे॒ळिं , स॒च॒ते॒ , नि॒ऽजूर्व॑न् , आ॒शुं , न , वा॒ज॒य॒ते॒ , हि॒न्वे , अर्वा॑ ॥
[८] दूतंवइत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री |
दू॒तं वो॑ वि॒श्ववे॑दसं हव्य॒वाह॒मम॑र्त्यं । यजि॑ष्ठमृंजसे गि॒रा ॥
दू॒तं , वः॒ , वि॒श्वऽवे॑दसं , ह॒व्य॒ऽवाहं॑ , अम॑र्त्यं । यजि॑ष्ठं , ऋं॒ज॒से॒ , गि॒रा ॥
स हि वेदा॒ वसु॑धितिं म॒हाँ आ॒रोध॑नं दि॒वः । स दे॒वाँ एह व॑क्षति ॥
सः , हि , वेद॑ , वसु॑ऽधितिं , म॒हान् , आ॒ऽरोध॑नं , दि॒वः । सः , दे॒वान् , आ , इ॒ह , व॒क्ष॒ति॒ ॥
स वे॑द दे॒व आ॒नमं॑ दे॒वाँ ऋ॑ताय॒ते दमे॑ । दाति॑ प्रि॒याणि॑ चि॒द्वसु॑ ॥
सः , वे॒द॒ , दे॒वः , आ॒ऽनमं॑ , दे॒वान् , ऋ॒त॒ऽय॒ते , दमे॑ । दाति॑ , प्रि॒याणि॑ , चि॒त् , वसु॑ ॥
स होता॒ सेदु॑ दू॒त्यं॑ चिकि॒त्वाँ अं॒तरी॑यते । वि॒द्वाँ आ॒रोध॑नं दि॒वः ॥
सः , होता॑ , सः , इत् , ऊँ॒ इति॑ , दू॒त्यं॑ , चि॒कि॒त्वान् , अं॒तः , ई॒य॒ते॒ । वि॒द्वान् , आ॒ऽरोध॑नं , दि॒वः ॥
ते स्या॑म॒ ये अ॒ग्नये॑ ददा॒शुर्ह॒व्यदा॑तिभिः । य ईं॒ पुष्यं॑त इंध॒ते ॥
ते , स्या॒म॒ , ये , अ॒ग्नये॑ , द॒दा॒शुः , ह॒व्यदा॑तिऽभिः । ये , ईं॒ , पुष्यं॑तः , इं॒ध॒ते ॥
ते रा॒या ते सु॒वीर्यैः॑ सस॒वांसो॒ वि शृ॑ण्विरे । ये अ॒ग्ना द॑धि॒रे दुवः॑ ॥
ते , रा॒या , ते , सु॒ऽवीर्यैः॑ , स॒स॒ऽवांसः॑ , वि , शृ॒ण्वि॒रे॒ । ये , अ॒ग्ना , द॒धि॒रे , दुवः॑ ॥
अ॒स्मे रायो॑ दि॒वेदि॑वे॒ सं च॑रंतु पुरु॒स्पृहः॑ । अ॒स्मे वाजा॑स ईरतां ॥
अ॒स्मे इति॑ , रायः॑ , दि॒वेऽदि॑वे , सं , च॒रं॒तु॒ , पु॒रु॒ऽस्पृहः॑ । अ॒स्मे इति॑ , वाजा॑सः , ई॒र॒तां॒ ॥
स विप्र॑श्चर्षणी॒नां शव॑सा॒ मानु॑षाणां । अति॑ क्षि॒प्रेव॑ विध्यति ॥
सः , विप्रः॑ , च॒र्ष॒णी॒नां , शव॑सा , मानु॑षाणां । अति॑ , क्षि॒प्राऽइ॑व , वि॒ध्य॒ति॒ ॥
[९] अग्नेमृळेत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निर्गायत्री |
अग्ने॑ मृ॒ळ म॒हाँ अ॑सि॒ य ई॒मा दे॑व॒युं जनं॑ । इ॒येथ॑ ब॒र्हिरा॒सदं॑ ॥
अग्ने॑ , मृ॒ळ , म॒हान् , अ॒सि॒ , यः , ईं॒ , आ , दे॒व॒ऽयुं , जनं॑ । इ॒येथ॑ , ब॒र्हिः , आ॒ऽसदं॑ ॥
स मानु॑षीषु दू॒ळभो॑ वि॒क्षु प्रा॒वीरम॑र्त्यः । दू॒तो विश्वे॑षां भुवत् ॥
सः , मानु॑षीषु , दुः॒ऽदभः॑ , वि॒क्षु , प्र॒ऽअ॒वीः , अम॑र्त्यः । दू॒तः , विश्वे॑षां , भु॒व॒त् ॥
स सद्म॒ परि॑ णीयते॒ होता॑ मं॒द्रो दिवि॑ष्टिषु । उ॒त पोता॒ नि षी॑दति ॥
सः , सद्म॑ , परि॑ , नी॒य॒ते॒ , होता॑ , मं॒द्रः , दिवि॑ष्टिषु । उ॒त , पोता॑ , नि , सी॒द॒ति॒ ॥
उ॒त ग्ना अ॒ग्निर॑ध्व॒र उ॒तो गृ॒हप॑ति॒र्दमे॑ । उ॒त ब्र॒ह्मा नि षी॑दति ॥
उ॒त , ग्नाः , अ॒ग्निः , अ॒ध्व॒रे , उ॒तो इति॑ , गृ॒हऽप॑तिः , दमे॑ । उ॒त , ब्र॒ह्मा , नि , सी॒द॒ति॒ ॥
वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना॑नां । ह॒व्या च॒ मानु॑षाणां ॥
वेषि॑ , हि , अ॒ध्व॒रि॒ऽय॒तां , उ॒प॒ऽव॒क्ता , जना॑नां । ह॒व्या , च॒ , मानु॑षाणां ॥
वेषीद्व॑स्य दू॒त्यं१॒॑ यस्य॒ जुजो॑षो अध्व॒रं । ह॒व्यं मर्त॑स्य॒ वोळ्ह॑वे ॥
वेषि॑ , इत् , ऊँ॒ इति॑ , अ॒स्य॒ , दू॒त्यं॑ , यस्य॑ , जुजो॑षः , अ॒ध्व॒रं । ह॒व्यं , मर्त॑स्य , वोळ्ह॑वे ॥
अ॒स्माकं॑ जोष्यध्व॒रम॒स्माकं॑ य॒ज्ञमं॑गिरः । अ॒स्माकं॑ शृणुधी॒ हवं॑ ॥
अ॒स्माकं॑ , जो॒षि॒ , अ॒ध्व॒रं , अ॒स्माकं॑ , य॒ज्ञं , अं॒गि॒रः॒ । अ॒स्माकं॑ , शृ॒णु॒धि॒ , हवं॑ ॥
परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ अ॑श्नोतु वि॒श्वतः॑ । येन॒ रक्ष॑सि दा॒शुषः॑ ॥
परि॑ , ते॒ , दुः॒ऽदभः॑ , रथः॑ , अ॒स्मान् , अ॒श्नो॒तु॒ , वि॒श्वतः॑ । येन॑ , रक्ष॑सि , दा॒शुषः॑ ॥
[१०] अग्नेतमद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेवोग्निः पदपंक्तिः पंचमीमहापदपंक्तिः अंत्येद्वेउष्णिहौ |
अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृशं॑ । ऋ॒ध्यामा॑ त॒ ओहैः॑ ॥
अग्ने॑ , तं , अ॒द्य , अश्वं॑ , न , स्तोमैः॑ , क्रतुं॑ , न , भ॒द्रं , हृ॒दि॒ऽस्पृशं॑ । ऋ॒ध्याम॑ , ते॒ , ओहैः॑ ॥
अधा॒ ह्य॑ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः । र॒थीर्ऋ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥
अध॑ , हि , अ॒ग्ने॒ , क्रतोः॑ , भ॒द्रस्य॑ , दक्ष॑स्य , सा॒धोः । र॒थीः , ऋ॒तस्य॑ , बृ॒ह॒तः , ब॒भूथ॑ ॥
ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ्स्व१॒॑र्ण ज्योतिः॑ । अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ॥
ए॒भिः , नः॒ , अ॒र्कैः , भव॑ , नः॒ , अ॒र्वाङ् , स्वः॑ , न , ज्योतिः॑ । अग्ने॑ , विश्वे॑भिः , सु॒ऽमनाः॑ , अनी॑कैः ॥
आ॒भिष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णंतोऽग्ने॒ दाशे॑म । प्र ते॑ दि॒वो न स्त॑नयंति॒ शुष्माः॑ ॥
आ॒भिः , ते॒ , अ॒द्य , गीः॒ऽभिः , गृ॒णंतः॑ , अग्ने॑ , दाशे॑म । प्र , ते॒ , दि॒वः , न , स्त॒न॒यं॒ति॒ , शुष्माः॑ ॥
तव॒ स्वादि॒ष्ठाग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः । श्रि॒ये रु॒क्मो न रो॑चत उपा॒के ॥
तव॑ , स्वादि॑ष्ठा , अग्ने॑ , संऽदृ॑ष्टिः , इ॒दा , चि॒त् , अह्नः॑ , इ॒दा , चि॒त् , अ॒क्तोः । श्रि॒ये , रु॒क्मः , न , रो॒च॒ते॒ , उ॒पा॒के ॥
घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यं । तत्ते॑ रु॒क्मो न रो॑चत स्वधावः ॥
घृ॒तं , न , पू॒तं , त॒नूः , अ॒रे॒पाः , शुचि॑ , हिर॑ण्यं । तत् , ते॒ , रु॒क्मः , न , रो॒च॒त॒ , स्व॒धा॒ऽवः॒ ॥
कृ॒तं चि॒द्धि ष्मा॒ सने॑मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता॑त् । इ॒त्था यज॑मानादृतावः ॥
कृ॒तं , चि॒त् , हि , स्म॒ , सने॑मि , द्वेषः॑ , अग्ने॑ , इ॒नोषि॑ , मर्ता॑त् । इ॒त्था , यज॑मानात् , ऋ॒त॒ऽवः॒ ॥
शि॒वा नः॑ स॒ख्या संतु॑ भ्रा॒त्राग्ने॑ दे॒वेषु॑ यु॒ष्मे । सा नो॒ नाभिः॒ सद॑ने॒ सस्मि॒न्नूध॑न् ॥
शि॒वा , नः॒ , स॒ख्या , संतु॑ , भ्रा॒त्रा , अग्ने॑ , दे॒वेषु॑ , यु॒ष्मे इति॑ । सा , नः॒ , नाभिः॑ , सद॑ने , सस्मि॑न् , ऊधं॑ ॥
[११] भद्रंतइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |
भ॒द्रं ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य । रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू॑क्षितं दृ॒श आ रू॒पे अन्नं॑ ॥
भ॒द्रं , ते॒ , अ॒ग्ने॒ , स॒ह॒सि॒न् , अनी॑कं , उ॒पा॒के , आ , रो॒च॒ते॒ , सूर्य॑स्य । रुश॑त् , दृ॒शे , द॒दृ॒शे॒ , न॒क्त॒ऽया , चि॒त् , अरू॑क्षितं , दृ॒शे , आ , रू॒पे , अन्नं॑ ॥
वि षा॑ह्यग्ने गृण॒ते म॑नी॒षां खं वेप॑सा तुविजात॒ स्तवा॑नः । विश्वे॑भि॒र्यद्वा॒वनः॑ शुक्र दे॒वैस्तन्नो॑ रास्व सुमहो॒ भूरि॒ मन्म॑ ॥
वि , सा॒हि॒ , अ॒ग्ने॒ , गृ॒ण॒ते , म॒नी॒षां , खं , वेप॑सा , तु॒वि॒ऽजा॒त॒ , स्तवा॑नः । विश्वे॑भिः , यत् , व॒वनः॑ , शु॒क्र॒ , दे॒वैः , तत् , नः॒ , रा॒स्व॒ , सु॒ऽम॒हः॒ , भूरि॑ , मन्म॑ ॥
त्वद॑ग्ने॒ काव्या॒ त्वन्म॑नी॒षास्त्वदु॒क्था जा॑यंते॒ राध्या॑नि । त्वदे॑ति॒ द्रवि॑णं वी॒रपे॑शा इ॒त्थाधि॑ये दा॒शुषे॒ मर्त्या॑य ॥
त्वत् , अ॒ग्ने॒ , काव्या॑ , त्वत् , म॒नी॒षाः , त्वत् , उ॒क्था , जा॒यं॒ते॒ , राध्या॑नि । त्वत् , ए॒ति॒ , द्रवि॑णं , वी॒रऽपे॑शाः , इ॒त्थाऽधि॑ये , दा॒शुषे॑ , मर्त्या॑य ॥
त्वद्वा॒जी वा॑जंभ॒रो विहा॑या अभिष्टि॒कृज्जा॑यते स॒त्यशु॑ष्मः । त्वद्र॒यिर्दे॒वजू॑तो मयो॒भुस्त्वदा॒शुर्जू॑जु॒वाँ अ॑ग्ने॒ अर्वा॑ ॥
त्वत् , वा॒जी , वा॒जं॒ऽभ॒रः , विऽहा॑याः , अ॒भि॒ष्टि॒ऽकृत् , जा॒य॒ते॒ , स॒त्यऽशु॑ष्मः । त्वत् , र॒यिः , दे॒वऽजू॑तः , म॒यः॒ऽभुः , त्वत् , आ॒शुः , जू॒जु॒ऽवान् , अ॒ग्ने॒ , अर्वा॑ ॥
त्वाम॑ग्ने प्रथ॒मं दे॑व॒यंतो॑ दे॒वं मर्ता॑ अमृत मं॒द्रजि॑ह्वं । द्वे॒षो॒युत॒मा वि॑वासंति धी॒भिर्दमू॑नसं गृ॒हप॑ति॒ममू॑रं ॥
त्वां , अ॒ग्ने॒ , प्र॒थ॒मं , दे॒व॒ऽयंतः॑ , दे॒वं , मर्ताः॑ , अ॒मृ॒त॒ , मं॒द्रऽजि॑ह्वं । द्वे॒षः॒ऽयुतं॑ , आ , वि॒वा॒सं॒ति॒ , धी॒भिः , दमू॑नसं , गृ॒हऽप॑तिं , अमू॑रं ॥
आ॒रे अ॒स्मदम॑तिमा॒रे अंह॑ आ॒रे विश्वां॑ दुर्म॒तिं यन्नि॒पासि॑ । दो॒षा शि॒वः स॑हसः सूनो अग्ने॒ यं दे॒व आ चि॒त्सच॑से स्व॒स्ति ॥
आ॒रे , अ॒स्मत् , अम॑तिं , आ॒रे , अंहः॑ , आ॒रे , विश्वां॑ , दुः॒ऽम॒तिं , यत् , नि॒ऽपासि॑ । दो॒षा , शि॒वः , स॒ह॒सः॒ , सू॒नो॒ इति॑ , अ॒ग्ने॒ , यं , दे॒वः , आ , चि॒त् , सच॑से , स्व॒स्ति ॥
[१२] यस्त्वामग्नइति षडृचस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |
यस्त्वाम॑ग्न इ॒नध॑ते य॒तस्रु॒क्त्रिस्ते॒ अन्नं॑ कृ॒णव॒त्सस्मि॒न्नह॑न् । स सु द्यु॒म्नैर॒भ्य॑स्तु प्र॒सक्ष॒त्तव॒ क्रत्वा॑ जातवेदश्चिकि॒त्वान् ॥
यः , त्वां , अ॒ग्ने॒ , इ॒नध॑ते , य॒तऽस्रु॑क् , त्रिः , ते॒ , अन्नं॑ , कृ॒णव॑त् , सस्मि॑न् , अह॑न् । सः , सु , द्यु॒म्नैः , अ॒भि , अ॒स्तु॒ , प्र॒ऽसक्ष॑त् , तव॑ , क्रत्वा॑ , जा॒त॒ऽवे॒दः॒ , चि॒कि॒त्वान् ॥
इ॒ध्मं यस्ते॑ ज॒भर॑च्छश्रमा॒णो म॒हो अ॑ग्ने॒ अनी॑क॒मा स॑प॒र्यन् । स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य॑न्र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ॥
इ॒ध्मं , यः , ते॒ , ज॒भर॑त् , श॒श्र॒मा॒णः , म॒हः , अ॒ग्ने॒ , अनी॑कं , आ , स॒प॒र्यन् । सः , इ॒धा॒नः , प्रति॑ , दो॒षां , उ॒षसं॑ , पुष्य॑न् , र॒यिं , स॒च॒ते॒ , घ्नन् , अ॒मित्रा॑न् ॥
अ॒ग्निरी॑शे बृह॒तः क्ष॒त्रिय॑स्या॒ग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः । दधा॑ति॒ रत्नं॑ विध॒ते यवि॑ष्ठो॒ व्या॑नु॒षङ्मर्त्या॑य स्व॒धावा॑न् ॥
अ॒ग्निः , ई॒शे॒ , बृ॒ह॒तः , क्ष॒त्रिय॑स्य , अ॒ग्निः , वाज॑स्य , प॒र॒मस्य॑ , रा॒यः । दधा॑ति , रत्नं॑ , वि॒ध॒ते , यवि॑ष्ठः , वि , आ॒नु॒षक् , मर्त्या॑य , स्व॒धाऽवा॑न् ॥
यच्चि॒द्धि ते॑ पुरुष॒त्रा य॑वि॒ष्ठाचि॑त्तिभिश्चकृ॒मा कच्चि॒दागः॑ । कृ॒धी ष्व१॒॑स्माँ अदि॑ते॒रना॑गा॒न्व्येनां॑सि शिश्रथो॒ विष्व॑गग्ने ॥
यत् , चि॒त् , हि , ते॒ , पु॒रु॒ष॒ऽत्रा , य॒वि॒ष्ठ॒ , अचि॑त्तिऽभिः , च॒कृ॒म , कत् , चि॒त् , आगः॑ । कृ॒धि , सु , अ॒स्मान् , अदि॑तेः , अना॑गान् , वि , एनां॑सि , शि॒श्र॒थः॒ , विष्व॑क् , अ॒ग्ने॒ ॥
म॒हश्चि॑दग्न॒ एन॑सो अ॒भीक॑ ऊ॒र्वाद्दे॒वाना॑मु॒त मर्त्या॑नां । मा ते॒ सखा॑यः॒ सद॒मिद्रि॑षाम॒ यच्छा॑ तो॒काय॒ तन॑याय॒ शं योः ॥
म॒हः , चि॒त् , अ॒ग्ने॒ , एन॑सः , अ॒भीके॑ , ऊ॒र्वात् , दे॒वानां॑ , उ॒त , मर्त्या॑नां । मा , ते॒ , सखा॑यः , सदं॑ , इत् , रि॒षा॒म॒ , यच्छ॑ , तो॒काय॑ , तन॑याय , शं , योः ॥
यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममुं॑चता यजत्राः । ए॒वो ष्व१॒॑स्मन्मुं॑चता॒ व्यंहः॒ प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥
यथा॑ , ह॒ , त्यत् , व॒स॒वः॒ , गौ॒र्यं॑ , चि॒त् , प॒दि , सि॒तां , अमुं॑चत , य॒ज॒त्राः॒ । ए॒वो इति॑ , सु , अ॒स्मत् , मुं॒च॒त॒ , वि , अंहः॑ , प्र , ता॒रि॒ , अ॒ग्ने॒ , प्र॒ऽत॒रं , नः॒ , आयुः॑ ॥
[१३] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् |
प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नां सु॒मना॑ रत्न॒धेयं॑ । या॒तम॑श्विना सु॒कृतो॑ दुरो॒णमुत्सूर्यो॒ ज्योति॑षा दे॒व ए॑ति ॥
प्रति॑ , अ॒ग्निः , उ॒षसां॑ , अग्रं॑ , अ॒ख्य॒त् , वि॒ऽभा॒ती॒नां , सु॒ऽमनाः॑ , र॒त्न॒ऽधेयं॑ । या॒तं , अ॒श्वि॒ना॒ , सु॒ऽकृतः॑ , दु॒रो॒णं , उत् , सूर्यः॑ , ज्योति॑षा , दे॒वः , ए॒ति॒ ॥
ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्द्र॒प्सं दवि॑ध्वद्गवि॒षो न सत्वा॑ । अनु॑ व्र॒तं वरु॑णो यंति मि॒त्रो यत्सूर्यं॑ दि॒व्या॑रो॒हयं॑ति ॥
ऊ॒र्ध्वं , भा॒नुं , स॒वि॒ता , दे॒वः , अ॒श्रे॒त् , द्र॒प्सं , दवि॑ध्वत् , गो॒ऽइ॒षः , न , सत्वा॑ । अनु॑ , व्र॒तं , वरु॑णः , यं॒ति॒ , मि॒त्रः , यत् , सूर्यं॑ , दि॒वि , आ॒ऽरो॒हयं॑ति ॥
यं सी॒मकृ॑ण्वं॒तम॑से वि॒पृचे॑ ध्रु॒वक्षे॑मा॒ अन॑वस्यंतो॒ अर्थं॑ । तं सूर्यं॑ ह॒रितः॑ स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहंति ॥
यं , सीं॒ , अकृ॑ण्वन् , तम॑से , वि॒ऽपृचे॑ , ध्रु॒वऽक्षे॑माः , अन॑वऽस्यंतः , अर्थं॑ । तं , सूर्यं॑ , ह॒रितः॑ , स॒प्त , य॒ह्वीः , स्पशं॑ , विश्व॑स्य , जग॑तः , व॒हं॒ति॒ ॥
वहि॑ष्ठेभिर्वि॒हर॑न्यासि॒ तंतु॑मव॒व्यय॒न्नसि॑तं देव॒ वस्म॑ । दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य॒ चर्मे॒वावा॑धु॒स्तमो॑ अ॒प्स्व१॒॑न्तः ॥
वहि॑ष्ठेभिः , वि॒ऽहर॑न् , या॒सि॒ , तंतुं॑ , अ॒व॒ऽव्यय॑न् , असि॑तं , दे॒व॒ , वस्म॑ । दवि॑ध्वतः , र॒श्मयः॑ , सूर्य॑स्य , चर्म॑ऽइव , अव॑ , अ॒धुः॒ , तमः॑ , अ॒प्ऽसु , अं॒तरिति॑ ॥
अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न । कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्कं॒भः समृ॑तः पाति॒ नाकं॑ ॥
अना॑यतः , अनि॑ऽबद्धः , क॒था , अ॒यं , न्य॑ङ् , उ॒त्ता॒नः , अव॑ , प॒द्य॒ते॒ , न । कया॑ , या॒ति॒ , स्व॒धया॑ , कः , द॒द॒र्श॒ , दि॒वः , स्कं॒भः , संऽऋ॑तः , पा॒ति॒ , नाकं॑ ॥
[१४] प्रत्यग्निरिति पंचर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुप् | (अनयोः सूक्तयोः केचिदाचार्यालिंगोक्तदेवताआहुःताश्च आद्यसूक्ते आद्यानां तिसृणामग्निः चतुर्थ्याः सवितृवरुणमित्राः पंचम्याः सूर्यः | अपरसूक्तेक्रमेण अग्न्याश्विनः सूर्य उषाअश्व्युषसः सूर्य इत्येवंज्ञेयाः )|
प्रत्य॒ग्निरु॒षसो॑ जा॒तवे॑दा॒ अख्य॑द्दे॒वो रोच॑माना॒ महो॑भिः । आ ना॑सत्योरुगा॒या रथे॑ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ॥
प्रति॑ , अ॒ग्निः , उ॒षसः॑ , जा॒तऽवे॑दाः , अख्य॑त् , दे॒वः , रोच॑मानाः , महः॑ऽभिः । आ , ना॒स॒त्या॒ , उ॒रु॒ऽगा॒या , रथे॑न , इ॒मं , य॒ज्ञं , उप॑ , नः॒ , या॒तं॒ , अच्छ॑ ॥
ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन् । आप्रा॒ द्यावा॑पृथि॒वी अं॒तरि॑क्षं॒ वि सूर्यो॑ र॒श्मिभि॒श्चेकि॑तानः ॥
ऊ॒र्ध्वं , के॒तुं , स॒वि॒ता , दे॒वः , अ॒श्रे॒त् , ज्योतिः॑ , विश्व॑स्मै , भुव॑नाय , कृ॒ण्वन् । आ , अ॒प्राः॒ , द्यावा॑पृथि॒वी इति॑ , अं॒तरि॑क्षं , वि , सूर्यः॑ , र॒श्मिऽभिः॑ , चेकि॑तानः ॥
आ॒वहं॑त्यरु॒णीर्ज्योति॒षागा॑न्म॒ही चि॒त्रा र॒श्मिभि॒श्चेकि॑ताना । प्र॒बो॒धयं॑ती सुवि॒ताय॑ दे॒व्यु१॒॑षा ई॑यते सु॒युजा॒ रथे॑न ॥
आ॒ऽवहं॑ती , अ॒रु॒णीः , ज्योति॑षा , आ , अ॒गा॒त् , म॒ही , चि॒त्रा , र॒श्मिऽभिः॑ , चेकि॑ताना । प्र॒ऽबो॒धयं॑ती , सु॒वि॒ताय॑ , दे॒वी , उ॒षाः , ई॒य॒ते॒ , सु॒ऽयुजा॑ , रथे॑न ॥
आ वां॒ वहि॑ष्ठा इ॒ह ते व॑हंतु॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टौ । इ॒मे हि वां॑ मधु॒पेया॑य॒ सोमा॑ अ॒स्मिन्य॒ज्ञे वृ॑षणा मादयेथां ॥
आ , वां॒ , वहि॑ष्ठाः , इ॒ह , ते , व॒हं॒तु॒ , रथाः॑ , अश्वा॑सः , उ॒षसः॑ , विऽउ॑ष्टौ । इ॒मे , हि , वां॒ , म॒धु॒ऽपेया॑य , सोमाः॑ , अ॒स्मिन् , य॒ज्ञे , वृ॒ष॒णा॒ , मा॒द॒ये॒थां॒ ॥
अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न । कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्कं॒भः समृ॑तः पाति॒ नाकं॑ ॥
अना॑यतः , अनि॑ऽबद्धः , क॒था , अ॒यं , न्य॑ङ् , उ॒त्ता॒नः , अव॑ , प॒द्य॒ते॒ , न । कया॑ , या॒ति॒ , स्व॒धया॑ , कः , द॒द॒र्श॒ , दि॒वः , स्कं॒भः , संऽऋ॑तः , पा॒ति॒ , नाकं॑ ॥
[१५] अग्निहोतेति दशर्चस्य सूक्तस्य गौतमोवामदेवोग्निः सप्तम्यष्टम्योःसाहदेव्यःसोमकः अंत्ययोरश्विनौगायत्री |
अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन्परि॑ णीयते । दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥
अ॒ग्निः , होता॑ , नः॒ , अ॒ध्व॒रे , वा॒जी , सन् , परि॑ , नी॒य॒ते॒ । दे॒वः , दे॒वेषु॑ , य॒ज्ञियः॑ ॥
परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व । आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥
परि॑ , त्रि॒ऽवि॒ष्टि , अ॒ध्व॒रं , याति॑ , अ॒ग्निः , र॒थीःऽइ॑व । आ , दे॒वेषु॑ , प्रयः॑ , दध॑त् ॥
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् । दध॒द्रत्ना॑नि दा॒शुषे॑ ॥
परि॑ , वाज॑ऽपतिः , क॒विः , अ॒ग्निः , ह॒व्यानि॑ , अ॒क्र॒मी॒त् । दध॑त् , रत्ना॑नि , दा॒शुषे॑ ॥
अ॒यं यः सृंज॑ये पु॒रो दै॑ववा॒ते स॑मि॒ध्यते॑ । द्यु॒माँ अ॑मित्र॒दंभ॑नः ॥
अ॒यं , यः , सृंज॑ये , पु॒रः , दै॒व॒ऽवा॒ते , सं॒ऽइ॒ध्यते॑ । द्यु॒ऽमान् , अ॒मि॒त्र॒ऽदंभ॑नः ॥
अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी॑शीत॒ मर्त्यः॑ । ति॒ग्मजं॑भस्य मी॒ळ्हुषः॑ ॥
अस्य॑ , घ॒ , वी॒रः , ईव॑तः , अ॒ग्नेः , ई॒शी॒त॒ , मर्त्यः॑ । ति॒ग्मऽजं॑भस्य , मी॒ळ्हुषः॑ ॥
तमर्वं॑तं॒ न सा॑न॒सिम॑रु॒षं न दि॒वः शिशुं॑ । म॒र्मृ॒ज्यंते॑ दि॒वेदि॑वे ॥
तं , अर्वं॑तं , न , सा॒न॒सिं , अ॒रु॒षं , न , दि॒वः , शिशुं॑ । म॒र्मृ॒ज्यंते॑ , दि॒वेऽदि॑वे ॥
बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा॑हदे॒व्यः । अच्छा॒ न हू॒त उद॑रं ॥
बोध॑त् , यत् , मा॒ , हरि॑ऽभ्यां , कु॒मा॒रः , सा॒ह॒ऽदे॒व्यः । अच्छ॑ , न , हू॒तः , उत् , अ॒रं॒ ॥
उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात्सा॑हदे॒व्यात् । प्रय॑ता स॒द्य आ द॑दे ॥
उ॒त , त्या , य॒ज॒ता , हरी॒ इति॑ , कु॒मा॒रात् , सा॒ह॒ऽदे॒व्यात् । प्रऽय॑ता , स॒द्यः , आ , द॒दे॒ ॥
ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः । दी॒र्घायु॑रस्तु॒ सोम॑कः ॥
ए॒षः , वां॒ , दे॒वौ॒ , अ॒श्वि॒ना॒ , कु॒मा॒रः , सा॒ह॒ऽदे॒व्यः । दी॒र्घऽआ॑युः , अ॒स्तु॒ , सोम॑कः ॥
तं यु॒वं दे॑वावश्विना कुमा॒रं सा॑हदे॒व्यं । दी॒र्घायु॑षं कृणोतन ॥
तं , यु॒वं , दे॒वौ॒ , अ॒श्वि॒ना॒ , कु॒मा॒रं , सा॒ह॒ऽदे॒व्यं । दी॒र्घऽआ॑युषं , कृ॒णो॒त॒न॒ ॥
[१६] आसत्योयात्वित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेवइंद्रस्त्रिष्टुप् |
आ स॒त्यो या॑तु म॒घवाँ॑ ऋजी॒षी द्रवं॑त्वस्य॒ हर॑य॒ उप॑ नः । तस्मा॒ इदंधः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ॥
आ , स॒त्यः , या॒तु॒ , म॒घऽवा॑न् , ऋ॒जी॒षी , द्रवं॑तु , अ॒स्य॒ , हर॑यः , उप॑ , नः॒ । तस्मै॑ , इत् , अंधः॑ , सु॒सु॒म॒ , सु॒ऽदक्षं॑ , इ॒ह , अ॒भि॒ऽपि॒त्वं , क॒र॒ते॒ , गृ॒णा॒नः ॥
अव॑ स्य शू॒राध्व॑नो॒ नांते॒ऽस्मिन्नो॑ अ॒द्य सव॑ने मं॒दध्यै॑ । शंसा॑त्यु॒क्थमु॒शने॑व वे॒धाश्चि॑कि॒तुषे॑ असु॒र्या॑य॒ मन्म॑ ॥
अव॑ , स्य॒ , शू॒र॒ , अध्व॑नः , न , अंते॑ , अ॒स्मिन् , नः॒ , अ॒द्य , सव॑ने , मं॒दध्यै॑ । शंसा॑ति , उ॒क्थं , उ॒शना॑ऽइव , वे॒धाः , चि॒कि॒तुषे॑ , अ॒सु॒र्या॑य , मन्म॑ ॥
क॒विर्न नि॒ण्यं वि॒दथा॑नि॒ साध॒न्वृषा॒ यत्सेकं॑ विपिपा॒नो अर्चा॑त् । दि॒व इ॒त्था जी॑जनत्स॒प्त का॒रूनह्ना॑ चिच्चक्रुर्व॒युना॑ गृ॒णंतः॑ ॥
क॒विः , न , नि॒ण्यं , वि॒दथा॑नि , साध॑न् , वृषा॑ , यत् , सेकं॑ , वि॒ऽपि॒पा॒नः , अर्चा॑त् । दि॒वः , इ॒त्था , जी॒ज॒न॒त् , स॒प्त , का॒रून् , अह्ना॑ , चि॒त् , च॒क्रुः॒ , व॒युना॑ , गृ॒णंतः॑ ॥
स्व१॒॑र्यद्वेदि॑ सु॒दृशी॑कम॒र्कैर्महि॒ ज्योती॑ रुरुचु॒र्यद्ध॒ वस्तोः॑ । अं॒धा तमां॑सि॒ दुधि॑ता वि॒चक्षे॒ नृभ्य॑श्चकार॒ नृत॑मो अ॒भिष्टौ॑ ॥
स्वः॑ , यत् , वेदि॑ , सु॒ऽदृशी॑कं , अ॒र्कैः , महि॑ , ज्योतिः॑ , रु॒रु॒चुः॒ , यत् , ह॒ , वस्तोः॑ । अं॒धा , तमां॑सि , दुधि॑ता , वि॒ऽचक्षे॑ , नृऽभ्यः॑ , च॒का॒र॒ , नृऽत॑मः , अ॒भिष्टौ॑ ॥
व॒व॒क्ष इंद्रो॒ अमि॑तमृजी॒ष्यु१॒॑भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा । अत॑श्चिदस्य महि॒मा वि रे॑च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ॥
व॒व॒क्षे , इंद्रः॑ , अमि॑तं , ऋ॒जी॒षी , उ॒भे इति॑ , आ , प॒प्रौ॒ , रोद॑सी॒ इति॑ , म॒हि॒ऽत्वा । अतः॑ , चि॒त् , अ॒स्य॒ , म॒हि॒मा , वि , रे॒चि॒ , अ॒भि , यः , विश्वा॑ , भुव॑ना , ब॒भूव॑ ॥
विश्वा॑नि श॒क्रो नर्या॑णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका॑मैः । अश्मा॑नं चि॒द्ये बि॑भि॒दुर्वचो॑भिर्व्र॒जं गोमं॑तमु॒शिजो॒ वि व॑व्रुः ॥
विश्वा॑नि , श॒क्रः , नर्या॑णि , वि॒द्वान् , अ॒पः , रि॒रे॒च॒ , सखि॑ऽभिः , निऽका॑मैः । अश्मा॑नं , चि॒त् , ये , बि॒भि॒दुः , वचः॑ऽभिः , व्र॒जं , गोऽमं॑तं , उ॒शिजः॑ , वि , व॒व्रु॒रिति॑ वव्रुः ॥
अ॒पो वृ॒त्रं व॑व्रि॒वांसं॒ परा॑ह॒न्प्राव॑त्ते॒ वज्रं॑ पृथि॒वी सचे॑ताः । प्रार्णां॑सि समु॒द्रिया॑ण्यैनोः॒ पति॒र्भवं॒छव॑सा शूर धृष्णो ॥
अ॒पः , वृ॒त्रं , व॒व्रि॒ऽवांसं॑ , परा॑ , अ॒ह॒न् , प्र , आ॒व॒त् , ते॒ , वज्रं॑ , पृ॒थि॒वी , सऽचे॑ताः । प्र , अर्णां॑सि , स॒मु॒द्रिया॑णि , ऐ॒नोः॒ , पतिः॑ , भव॑न् , शव॑सा , शू॒र॒ , धृ॒ष्णो॒ इति॑ ॥
अ॒पो यदद्रिं॑ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत्स॒रमा॑ पू॒र्व्यं ते॑ । स नो॑ ने॒ता वाज॒मा द॑र्षि॒ भूरिं॑ गो॒त्रा रु॒जन्नंगि॑रोभिर्गृणा॒नः ॥
अ॒पः , यत् , अद्रिं॑ , पु॒रु॒ऽहू॒त॒ , दर्दः॑ , आ॒विः , भु॒व॒त् , स॒रमा॑ , पू॒र्व्यं , ते॒ । सः , नः॒ , ने॒ता , वाजं॑ , आ , द॒र्षि॒ , भूरिं॑ , गो॒त्रा , रु॒जन् , अंगि॑रःऽभिः , गृ॒णा॒नः ॥
अच्छा॑ क॒विं नृ॑मणो गा अ॒भिष्टौ॒ स्व॑र्षाता मघव॒न्नाध॑मानं । ऊ॒तिभि॒स्तमि॑षणो द्यु॒म्नहू॑तौ॒ नि मा॒यावा॒नब्र॑ह्मा॒ दस्यु॑रर्त ॥
अच्छ॑ , क॒विं , नृ॒ऽम॒नः॒ , गाः॒ , अ॒भिष्टौ॑ , स्वः॑ऽसाता , म॒घ॒ऽव॒न् , नाध॑मानं । ऊ॒तिऽभिः॑ , तं , इ॒ष॒णः॒ , द्यु॒म्नऽहू॑तौ , नि , मा॒याऽवा॑न् , अब्र॑ह्मा , दस्युः॑ , अ॒र्त॒ ॥
आ द॑स्यु॒घ्ना मन॑सा या॒ह्यस्तं॒ भुव॑त्ते॒ कुत्सः॑ स॒ख्ये निका॑मः । स्वे योनौ॒ नि ष॑दतं॒ सरू॑पा॒ वि वां॑ चिकित्सदृत॒चिद्ध॒ नारी॑ ॥
आ , द॒स्यु॒ऽघ्ना , मन॑सा , या॒हि॒ , अस्तं॑ , भुव॑त् , ते॒ , कुत्सः॑ , स॒ख्ये , निऽका॑मः । स्वे , योनौ॑ , नि , स॒द॒तं॒ , सऽरू॑पा , वि , वां॒ , चि॒कि॒त्स॒त् , ऋ॒त॒ऽचित् , ह॒ , नारी॑ ॥
यासि॒ कुत्से॑न स॒रथ॑मव॒स्युस्तो॒दो वात॑स्य॒ हर्यो॒रीशा॑नः । ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू॑षन्क॒विर्यदह॒न्पार्या॑य॒ भूषा॑त् ॥
यासि॑ , कुत्से॑न , स॒ऽरथं॑ , अ॒व॒स्युः , तो॒दः , वात॑स्य , हर्योः॑ , ईशा॑नः । ऋ॒ज्रा , वाजं॑ , न , गध्यं॑ , युयू॑षन् , क॒विः , यत् , अह॑न् , पार्या॑य , भूषा॑त् ॥
कुत्सा॑य॒ शुष्ण॑म॒शुषं॒ नि ब॑र्हीः प्रपि॒त्वे अह्नः॒ कुय॑वं स॒हस्रा॑ । स॒द्यो दस्यू॒न्प्र मृ॑ण कु॒त्स्येन॒ प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॑ ॥
कुत्सा॑य , शुष्णं॑ , अ॒शुषं॑ , नि , ब॒र्हीः॒ , प्र॒ऽपि॒त्वे , अह्नः॑ , कुय॑वं , स॒हस्रा॑ । स॒द्यः , दस्यू॑न् , प्र , मृ॒ण॒ , कु॒त्स्येन॑ , प्र , सूरः॑ , च॒क्रं , वृ॒ह॒ता॒त् , अ॒भीके॑ ॥
त्वं पिप्रुं॒ मृग॑यं शूशु॒वांस॑मृ॒जिश्व॑ने वैदथि॒नाय॑ रंधीः । पं॒चा॒शत्कृ॒ष्णा नि व॑पः स॒हस्रात्कं॒ न पुरो॑ जरि॒मा वि द॑र्दः ॥
त्वं , पिप्रुं॑ , मृग॑यं , शू॒शु॒ऽवांसं॑ , ऋ॒जिश्व॑ने , वै॒द॒थि॒नाय॑ , रं॒धीः॒ । पं॒चा॒शत् , कृ॒ष्णा , नि , व॒पः॒ , स॒हस्रा॑ , अत्कं॑ , न , पुरः॑ , ज॒रि॒मा , वि , द॒र्द॒रिति॑ दर्दः ॥
सूर॑ उपा॒के त॒न्वं१॒॑ दधा॑नो॒ वि यत्ते॒ चेत्य॒मृत॑स्य॒ वर्पः॑ । मृ॒गो न ह॒स्ती तवि॑षीमुषा॒णः सिं॒हो न भी॒म आयु॑धानि॒ बिभ्र॑त् ॥
सूरः॑ , उ॒पा॒के , त॒न्वं॑ , दधा॑नः , वि , यत् , ते॒ , चेति॑ , अ॒मृत॑स्य , वर्पः॑ । मृ॒गः , न , ह॒स्ती , तवि॑षीं , उ॒षा॒णः , सिं॒हः , न , भी॒मः , आयु॑धानि , बिभ्र॑त् ॥
इंद्रं॒ कामा॑ वसू॒यंतो॑ अग्मं॒त्स्व॑र्मीळ्हे॒ न सव॑ने चका॒नाः । श्र॒व॒स्यवः॑ शशमा॒नास॑ उ॒क्थैरोको॒ न र॒ण्वा सु॒दृशी॑व पु॒ष्टिः ॥
इंद्रं॑ , कामाः॑ , व॒सु॒ऽयंतः॑ , अ॒ग्म॒न् , स्वः॑ऽमीळ्हे , न , सव॑ने , च॒का॒नाः । श्र॒व॒स्यवः॑ , श॒श॒मा॒नासः॑ , उ॒क्थैः , ओकः॑ , न , र॒ण्वा , सु॒दृशी॑ऽइव , पु॒ष्टिः ॥
तमिद्व॒ इंद्रं॑ सु॒हवं॑ हुवेम॒ यस्ता च॒कार॒ नर्या॑ पु॒रूणि॑ । यो माव॑ते जरि॒त्रे गध्यं॑ चिन्म॒क्षू वाजं॒ भर॑ति स्पा॒र्हरा॑धाः ॥
तं , इत् , वः॒ , इंद्रं॑ , सु॒ऽहवं॑ , हु॒वे॒म॒ , यः , ता , च॒कार॑ , नर्या॑ , पु॒रूणि॑ । यः , माऽव॑ते , ज॒रि॒त्रे , गध्यं॑ , चि॒त् , म॒क्षु , वाजं॑ , भर॑ति , स्पा॒र्हऽरा॑धाः ॥
ति॒ग्मा यदं॒तर॒शनिः॒ पता॑ति॒ कस्मिं॑चिच्छूर मुहु॒के जना॑नां । घो॒रा यद॑र्य॒ समृ॑ति॒र्भवा॒त्यध॑ स्मा नस्त॒न्वो॑ बोधि गो॒पाः ॥
ति॒ग्मा , यत् , अं॒तः , अ॒शनिः॑ , पता॑ति , कस्मि॑न् , चि॒त् , शू॒र॒ , मु॒हु॒के , जना॑नां । घो॒रा , यत् , अ॒र्य॒ , संऽऋ॑तिः , भवा॑ति , अध॑ , स्म॒ , नः॒ , त॒न्वः॑ , बो॒धि॒ , गो॒पाः ॥
भुवो॑ऽवि॒ता वा॒मदे॑वस्य धी॒नां भुवः॒ सखा॑वृ॒को वाज॑सातौ । त्वामनु॒ प्रम॑ति॒मा ज॑गन्मोरु॒शंसो॑ जरि॒त्रे वि॒श्वध॑ स्याः ॥
भुवः॑ , अ॒वि॒ता , वा॒मऽदे॑वस्य , धी॒नां , भुवः॑ , सखा॑ , अ॒वृ॒कः , वाज॑ऽसातौ । त्वां , अनु॑ , प्रऽम॑तिं , आ , ज॒ग॒न्म॒ , उ॒रु॒ऽशंसः॑ , ज॒रि॒त्रे , वि॒श्वध॑ , स्याः॒ ॥
ए॒भिर्नृभि॑रिंद्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न्विश्व॑ आ॒जौ । द्यावो॒ न द्यु॒म्नैर॒भि संतो॑ अ॒र्यः क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ॥
ए॒भिः , नृऽभिः॑ , इं॒द्र॒ , त्वा॒युऽभिः॑ , त्वा॒ , म॒घव॑त्ऽभिः , म॒घ॒ऽव॒न् , विश्वे॑ , आ॒जौ । द्यावः॑ , न , द्यु॒म्नैः , अ॒भि , संतः॑ , अ॒र्यः , क्ष॒पः , म॒दे॒म॒ , श॒रदः॑ , च॒ , पू॒र्वीः ॥
ए॒वेदिंद्रा॑य वृष॒भाय॒ वृष्णे॒ ब्रह्मा॑कर्म॒ भृग॑वो॒ न रथं॑ । नू चि॒द्यथा॑ नः स॒ख्या वि॒योष॒दस॑न्न उ॒ग्रो॑ऽवि॒ता त॑नू॒पाः ॥
ए॒व , इत् , इंद्रा॑य , वृ॒ष॒भाय॑ , वृष्णे॑ , ब्रह्म॑ , अ॒क॒र्म॒ , भृग॑वः , न , रथं॑ । नु , चि॒त् , यथा॑ , नः॒ , स॒ख्या , वि॒ऽयोष॑त् , अस॑त् , नः॒ , उ॒ग्रः , अ॒वि॒ता , त॒नू॒ऽपाः ॥
नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः । अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
नु , स्तु॒तः , इं॒द्र॒ , नु , गृ॒णा॒नः , इषं॑ , ज॒रि॒त्रे , न॒द्यः॑ , न , पी॒पे॒रिति॑ पीपेः । अका॑रि , ते॒ , ह॒रि॒ऽवः॒ , ब्रह्म॑ , नव्यं॑ , धि॒या , स्या॒म॒ , र॒थ्यः॑ , स॒दा॒ऽसाः ॥
[१७] त्वंमहानित्येकविंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् असिक्न्यामित्येकपदाविराट् |
त्वं म॒हाँ इं॑द्र॒ तुभ्यं॑ ह॒ क्षा अनु॑ क्ष॒त्रं मं॒हना॑ मन्यत॒ द्यौः । त्वं वृ॒त्रं शव॑सा जघ॒न्वांत्सृ॒जः सिंधूँ॒रहि॑ना जग्रसा॒नान् ॥
त्वं , म॒हान् , इं॒द्र॒ , तुभ्यं॑ , ह॒ , क्षाः , अनु॑ , क्ष॒त्रं , मं॒हना॑ , म॒न्य॒त॒ , द्यौः । त्वं , वृ॒त्रं , शव॑सा , ज॒घ॒न्वान् , सृ॒जः , सिंधू॑न् , अहि॑ना , ज॒ग्र॒सा॒नान् ॥
तव॑ त्वि॒षो जनि॑मन्रेजत॒ द्यौ रेज॒द्भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः । ऋ॒घा॒यंत॑ सु॒भ्व१॒॑ः पर्व॑तास॒ आर्दं॒धन्वा॑नि स॒रयं॑त॒ आपः॑ ॥
तव॑ , त्वि॒षः , जनि॑मन् , रे॒ज॒त॒ , द्यौः , रेज॑त् , भूमिः॑ , भि॒यसा॑ , स्वस्य॑ , म॒न्योः । ऋ॒घा॒यंत॑ , सु॒ऽभ्वः॑ , पर्व॑तासः , आर्द॑न् , धन्वा॑नि , स॒रयं॑ते , आपः॑ ॥
भि॒नद्गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना॑विष्कृण्वा॒नः स॑हसा॒न ओजः॑ । वधी॑द्वृ॒त्रं वज्रे॑ण मंदसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ॥
भि॒नत् , गि॒रिं , शव॑सा , वज्रं॑ , इ॒ष्णन् , आ॒विः॒ऽकृ॒ण्वा॒नः , स॒ह॒सा॒नः , ओजः॑ । वधी॑त् , वृ॒त्रं , वज्रे॑ण , मं॒द॒सा॒नः , सर॑न् , आपः॑ , जव॑सा , ह॒तऽवृ॑ष्णीः ॥
सु॒वीर॑स्ते जनि॒ता म॑न्यत॒ द्यौरिंद्र॑स्य क॒र्ता स्वप॑स्तमो भूत् । य ईं॑ ज॒जान॑ स्व॒र्यं॑ सु॒वज्र॒मन॑पच्युतं॒ सद॑सो॒ न भूम॑ ॥
सु॒ऽवीरः॑ , ते॒ , ज॒नि॒ता , म॒न्य॒त॒ , द्यौः , इंद्र॑स्य , क॒र्ता , स्वपः॑ऽतमः , भू॒त् । यः , ईं॒ , ज॒जान॑ , स्व॒र्यं॑ , सु॒ऽवज्रं॑ , अन॑पऽच्युतं , सद॑सः , न , भूम॑ ॥
य एक॑ इच्च्या॒वय॑ति॒ प्र भूमा॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इंद्रः॑ । स॒त्यमे॑न॒मनु॒ विश्वे॑ मदंति रा॒तिं दे॒वस्य॑ गृण॒तो म॒घोनः॑ ॥
यः , एकः॑ , इत् , च्य॒वय॑ति , प्र , भूम॑ , राजा॑ , कृ॒ष्टी॒नां , पु॒रु॒ऽहू॒तः , इंद्रः॑ । स॒त्यं , ए॒नं॒ , अनु॑ , विश्वे॑ , म॒दं॒ति॒ , रा॒तिं , दे॒वस्य॑ , गृ॒ण॒तः , म॒घोनः॑ ॥
स॒त्रा सोमा॑ अभवन्नस्य॒ विश्वे॑ स॒त्रा मदा॑सो बृह॒तो मदि॑ष्ठाः । स॒त्राभ॑वो॒ वसु॑पति॒र्वसू॑नां॒ दत्रे॒ विश्वा॑ अधिथा इंद्र कृ॒ष्टीः ॥
स॒त्रा , सोमाः॑ , अ॒भ॒व॒न् , अ॒स्य॒ , विश्वे॑ , स॒त्रा , मदा॑सः , बृ॒ह॒तः , मदि॑ष्ठाः । स॒त्रा , अ॒भ॒वः॒ , वसु॑ऽपतिः , वसू॑नां , दत्रे॑ , विश्वाः॑ , अ॒धि॒थाः॒ , इं॒द्र॒ , कृ॒ष्टीः ॥
त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा॑ अधिथा इंद्र कृ॒ष्टीः । त्वं प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण मघव॒न्वि वृ॑श्चः ॥
त्वं , अध॑ , प्र॒थ॒मं , जाय॑मानः , अमे॑ , विश्वाः॑ , अ॒धि॒थाः॒ , इं॒द्र॒ , कृ॒ष्टीः । त्वं , प्रति॑ , प्र॒ऽवतः॑ , आ॒ऽशया॑नं , अहिं॑ , वज्रे॑ण , म॒घ॒ऽव॒न् , वि , वृ॒श्चः॒ ॥
स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिंद्रं॑ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्रं॑ । हंता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता॑ म॒घानि॑ म॒घवा॑ सु॒राधाः॑ ॥
स॒त्रा॒ऽहन॑न् , दधृ॑षिं , तुम्रं॑ , इंद्रं॑ , म॒हां , अ॒पा॒रं , वृ॒ष॒भं , सु॒ऽवज्रं॑ । हंता॑ , यः , वृ॒त्रं , सनि॑ता , उ॒त , वाजं॑ , दाता॑ , म॒घानि॑ , म॒घऽवा॑ , सु॒ऽराधाः॑ ॥
अ॒यं वृत॑श्चातयते समी॒चीर्य आ॒जिषु॑ म॒घवा॑ शृ॒ण्व एकः॑ । अ॒यं वाजं॑ भरति॒ यं स॒नोत्य॒स्य प्रि॒यासः॑ स॒ख्ये स्या॑म ॥
अ॒यं , वृतः॑ , चा॒त॒य॒ते॒ , सं॒ऽई॒चीः , यः , आ॒जिषु॑ , म॒घऽवा॑ , शृ॒ण्वे , एकः॑ । अ॒यं , वाजं॑ , भ॒र॒ति॒ , यं , स॒नोति॑ , अ॒स्य , प्रि॒यासः॑ , स॒ख्ये , स्या॒म॒ ॥
अ॒यं शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः । य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिंद्रो॒ विश्वं॑ दृ॒ळ्हं भ॑यत॒ एज॑दस्मात् ॥
अ॒यं , शृ॒ण्वे॒ , अध॑ , जय॑न् , उ॒त , घ्नन् , अ॒यं , उ॒त , प्र , कृ॒णु॒ते॒ , यु॒धा , गाः । य॒दा , स॒त्यं , कृ॒णु॒ते , म॒न्युं , इंद्रः॑ , विश्वं॑ , दृ॒ळ्हं , भ॒य॒ते॒ , एज॑त् , अ॒स्मा॒त् ॥
समिंद्रो॒ गा अ॑जय॒त्सं हिर॑ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः । ए॒भिर्नृभि॒र्नृत॑मो अस्य शा॒कै रा॒यो वि॑भ॒क्ता सं॑भ॒रश्च॒ वस्वः॑ ॥
सं , इंद्रः॑ , गाः , अ॒ज॒य॒त् , सं , हिर॑ण्या , सं , अ॒श्वि॒या , म॒घऽवा॑ , यः , ह॒ , पू॒र्वीः । ए॒भिः , नृऽभिः॑ , नृऽत॑मः , अ॒स्य॒ , शा॒कैः , रा॒यः , वि॒ऽभ॒क्ता , सं॒ऽभ॒रः , च॒ , वस्वः॑ ॥
किय॑त्स्वि॒दिंद्रो॒ अध्ये॑ति मा॒तुः किय॑त्पि॒तुर्ज॑नि॒तुर्यो ज॒जान॑ । यो अ॑स्य॒ शुष्मं॑ मुहु॒कैरिय॑र्ति॒ वातो॒ न जू॒तः स्त॒नय॑द्भिर॒भ्रैः ॥
किय॑त् , स्वि॒त् , इंद्रः॑ , अधि॑ , ए॒ति॒ , मा॒तुः , किय॑त् , पि॒तुः , ज॒नि॒तुः , यः , ज॒जान॑ । यः , अ॒स्य॒ , शुष्मं॑ , मु॒हु॒कैः , इय॑र्ति , वातः॑ , न , जू॒तः , स्त॒नय॑त्ऽभिः , अ॒भ्रैः ॥
क्षि॒यंतं॑ त्व॒मक्षि॑यंतं कृणो॒तीय॑र्ति रे॒णुं म॒घवा॑ स॒मोहं॑ । वि॒भं॒ज॒नुर॒शनि॑माँ इव॒ द्यौरु॒त स्तो॒तारं॑ म॒घवा॒ वसौ॑ धात् ॥
क्षि॒यंतं॑ , त्वं॒ , अक्षि॑यंतं , कृ॒णो॒ति॒ , इय॑र्ति , रे॒णुं , म॒घऽवा॑ , सं॒ऽओहं॑ । वि॒ऽभं॒ज॒नुः , अ॒शनि॑मान्ऽइव , द्यौः , उ॒त , स्तो॒तारं॑ , म॒घऽवा॑ , वसौ॑ , धा॒त् ॥
अ॒यं च॒क्रमि॑षण॒त्सूर्य॑स्य॒ न्येत॑शं रीरमत्ससृमा॒णं । आ कृ॒ष्ण ईं॑ जुहुरा॒णो जि॑घर्ति त्व॒चो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ ॥
अ॒यं , च॒क्रं , इ॒ष॒ण॒त् , सूर्य॑स्य , नि , एत॑शं , री॒र॒म॒त् , स॒सृ॒मा॒णं । आ , कृ॒ष्णः , ईं॒ , जु॒हु॒रा॒णः , जि॒घ॒र्ति॒ , त्व॒चः , बु॒ध्ने , रज॑सः , अ॒स्य , योनौ॑ ॥
असि॑क्न्यां॒ यज॑मानो॒ न होता॑ ॥
असि॑क्न्यां , यज॑मानः , न , होता॑ ॥ ।
ग॒व्यंत॒ इंद्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यंतो॒ वृष॑णं वा॒जयं॑तः । ज॒नी॒यंतो॑ जनि॒दामक्षि॑तोति॒मा च्या॑वयामोऽव॒ते न कोशं॑ ॥
ग॒व्यंतः॑ , इंद्रं॑ , स॒ख्याय॑ , विप्राः॑ , अ॒श्व॒ऽयंतः॑ , वृष॑णं , वा॒जयं॑तः । ज॒नि॒ऽयंतः॑ , ज॒नि॒ऽदां , अक्षि॑तऽऊतिं , आ , च्य॒व॒या॒मः॒ , अ॒व॒ते , न , कोशं॑ ॥
त्रा॒ता नो॑ बोधि॒ ददृ॑शान आ॒पिर॑भिख्या॒ता म॑र्डि॒ता सो॒म्यानां॑ । सखा॑ पि॒ता पि॒तृत॑मः पितॄ॒णां कर्ते॑मु लो॒कमु॑श॒ते व॑यो॒धाः ॥
त्रा॒ता , नः॒ , बो॒धि॒ , ददृ॑शानः , आ॒पिः , अ॒भि॒ऽख्या॒ता , म॒र्डि॒ता , सो॒म्यानां॑ । सखा॑ , पि॒ता , पि॒तृऽत॑मः , पि॒तॄ॒णां , कर्ता॑ , ईं॒ , ऊँ॒ इति॑ , लो॒कं , उ॒श॒ते , व॒यः॒ऽधाः ॥
स॒खी॒य॒ताम॑वि॒ता बो॑धि॒ सखा॑ गृणा॒न इं॑द्र स्तुव॒ते वयो॑ धाः । व॒यं ह्या ते॑ चकृ॒मा स॒बाध॑ आ॒भिः शमी॑भिर्म॒हयं॑त इंद्र ॥
स॒खि॒ऽय॒तां , अ॒वि॒ता , बो॒धि॒ , सखा॑ , गृ॒णा॒नः , इं॒द्र॒ , स्तु॒व॒ते , वयः॑ , धाः॒ । व॒यं , हि , आ , ते॒ , च॒कृ॒म , स॒ऽबाधः॑ , आ॒भिः , शमी॑भिः , म॒हयं॑तः , इं॒द्र॒ ॥
स्तु॒त इंद्रो॑ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको॑ अप्र॒तीनि॑ हंति । अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रयं॑ते॒ न मर्ताः॑ ॥
स्तु॒तः , इंद्रः॑ , म॒घऽवा॑ , यत् , ह॒ , वृ॒त्रा , भूरी॑णि , एकः॑ , अ॒प्र॒तीनि॑ , हं॒ति॒ । अ॒स्य , प्रि॒यः , ज॒रि॒ता , यस्य॑ , शर्म॑न् , नकिः॑ , दे॒वाः , वा॒रयं॑ते , न , मर्ताः॑ ॥
ए॒वा न॒ इंद्रो॑ म॒घवा॑ विर॒प्शी कर॑त्स॒त्या च॑र्षणी॒धृद॑न॒र्वा । त्वं राजा॑ ज॒नुषां॑ धेह्य॒स्मे अधि॒ श्रवो॒ माहि॑नं॒ यज्ज॑रि॒त्रे ॥
ए॒व , नः॒ , इंद्रः॑ , म॒घऽवा॑ , वि॒ऽर॒प्शी , कर॑त् , स॒त्या , च॒र्ष॒णि॒ऽधृत् , अ॒न॒र्वा । त्वं , राजा॑ , ज॒नुषां॑ , धे॒हि॒ , अ॒स्मे इति॑ , अधि॑ , श्रवः॑ , माहि॑नं , यत् , ज॒रि॒त्रे ॥
नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः । अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
नु , स्तु॒तः , इं॒द्र॒ , नु , गृ॒णा॒नः , इषं॑ , ज॒रि॒त्रे , न॒द्यः॑ , न , पी॒पे॒रिति॑ पीपेः । अका॑रि , ते॒ , ह॒रि॒ऽवः॒ , ब्रह्म॑ , नव्यं॑ , धि॒या , स्या॒म॒ , र॒थ्यः॑ , स॒दा॒ऽसाः ॥
[१८] अयंपंथाइति त्रयोदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः आद्यायाइंद्रऋषिः नहीन्वस्येत्यादिसार्धतिसृणमदितिरृषिका आद्यायावामदेवोदेवता नाहमतइत्यादिपंचार्धर्चानामंत्यानांषण्णामृचांचेंद्रोदेवता नहीन्वस्येतिसार्धतिसृणांवामदेवोदेवतात्रिष्टुप् |
अ॒यं पंथा॒ अनु॑वित्तः पुरा॒णो यतो॑ दे॒वा उ॒दजा॑यंत॒ विश्वे॑ । अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो॒ मा मा॒तर॑ममु॒या पत्त॑वे कः ॥
अ॒यं , पंथाः॑ , अनु॑ऽवित्तः , पु॒रा॒णः , यतः॑ , दे॒वाः , उ॒त्ऽअजा॑यंत , विश्वे॑ । अतः॑ , चि॒त् , आ , ज॒नि॒षी॒ष्ट॒ , प्रऽवृ॑द्धः , मा , मा॒तरं॑ , अ॒मु॒या , पत्त॑वे , क॒रिति॑ कः ॥
नाहमतो॒ निर॑या दु॒र्गहै॒तत्ति॑र॒श्चता॑ पा॒र्श्वान्निर्ग॑माणि । ब॒हूनि॑ मे॒ अकृ॑ता॒ कर्त्वा॑नि॒ युध्यै॑ त्वेन॒ सं त्वे॑न पृच्छै ॥
न , अ॒हं , अतः॑ , निः , अ॒य॒ , दुः॒ऽगहा॑ , ए॒तत् , ति॒र॒श्चता॑ , पा॒र्श्वात् , निः , ग॒मा॒नि॒ । ब॒हूनि॑ , मे॒ , अकृ॑ता , कर्त्वा॑नि , युध्यै॑ , त्वे॒न॒ , सं , त्वे॒न॒ , पृ॒च्छै॒ ॥
प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि । त्वष्टु॑र्गृ॒हे अ॑पिब॒त्सोम॒मिंद्रः॑ शतध॒न्यं॑ च॒म्वोः॑ सु॒तस्य॑ ॥
प॒रा॒ऽय॒तीं , मा॒तरं॑ , अनु॑ , अ॒च॒ष्ट॒ , न , न , अनु॑ , गा॒नि॒ , अनु॑ , नु , ग॒मा॒नि॒ । त्वष्टुः॑ , गृ॒हे , अ॒पि॒ब॒त् , सोमं॑ , इंद्रः॑ , श॒त॒ऽध॒न्यं॑ , च॒म्वोः॑ , सु॒तस्य॑ ॥
किं स ऋध॑क्कृणव॒द्यं स॒हस्रं॑ मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः । न॒ही न्व॑स्य प्रति॒मान॒मस्त्यं॒तर्जा॒तेषू॒त ये जनि॑त्वाः ॥
किं , सः , ऋध॑क् , कृ॒ण॒व॒त् , यं , स॒हस्रं॑ , मा॒सः , ज॒भार॑ , श॒रदः॑ , च॒ , पू॒र्वीः । न॒हि , नु , आ॒स्य॒ , प्र॒ति॒ऽमानं॑ , अस्ति॑ , अं॒तः , ज॒तेषु॑ , उ॒त , ये , जनि॑ऽत्वाः ॥
अ॒व॒द्यमि॑व॒ मन्य॑माना॒ गुहा॑क॒रिंद्रं॑ मा॒ता वी॒र्ये॑णा॒ न्यृ॑ष्टं । अथोद॑स्थात्स्व॒यमत्कं॒ वसा॑न॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ॥
अ॒व॒द्यंऽइ॑व , मन्य॑माना , गुहा॑ , अ॒कः॒ , इंद्रं॑ , मा॒ता , वी॒र्ये॑ण , निऽऋ॑ष्टं । अथ॑ , उत् , अ॒स्था॒त् , स्व॒यं , अत्कं॑ , वसा॑नः , आ , रोद॑सी॒ इति॑ , अ॒पृ॒णा॒त् , जाय॑मानः ॥
ए॒ता अ॑र्षंत्यलला॒भवं॑तीर्ऋ॒ताव॑रीरिव सं॒क्रोश॑मानाः । ए॒ता वि पृ॑च्छ॒ किमि॒दं भ॑नंति॒ कमापो॒ अद्रिं॑ परि॒धिं रु॑जंति ॥
ए॒ताः , अ॒र्षं॒ति॒ , अ॒ल॒ला॒ऽभवं॑तीः , ऋ॒तव॑रीःऽइव , सं॒ऽक्रोश॑मानाः । ए॒ताः , वि , पृ॒च्छ॒ , किं , इ॒दं , भ॒नं॒ति॒ , कं , आपः॑ , अद्रिं॑ , प॒रि॒ऽधिं , रु॒जं॒ति॒ ॥
किमु॑ ष्विदस्मै नि॒विदो॑ भनं॒तेंद्र॑स्याव॒द्यं दि॑धिषंत॒ आपः॑ । ममै॒तान्पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिंधू॑न् ॥
किं , ऊँ॒ इति॑ , स्वि॒त् , अ॒स्मै॒ , नि॒ऽविदः॑ , भ॒नं॒त॒ , इंद्र॑स्य , अ॒व॒द्यं , दि॒धि॒षं॒ते॒ , आपः॑ । मम॑ , ए॒तान् , पु॒त्रः , म॒ह॒ता , व॒धेन॑ , वृ॒त्रं , ज॒घ॒न्वान् , अ॒सृ॒ज॒त् , वि , सिंधू॑न् ॥
मम॑च्च॒न त्वा॑ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा॑ कु॒षवा॑ ज॒गार॑ । मम॑च्चि॒दापः॒ शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिंद्रः॒ सह॒सोद॑तिष्ठत् ॥
मम॑त् , च॒न , त्वा॒ , यु॒व॒तिः , प॒रा॒ऽआस॑ , मम॑त् , च॒न , त्वा॒ , कु॒षवा॑ , ज॒गार॑ । मम॑त् , चि॒त् , आपः॑ , शिश॑वे , म॒मृ॒ड्युः॒ , मम॑त् , चि॒त् , इंद्रः॑ , सह॑सा , उत् , अ॒ति॒ष्ठ॒त् ॥
मम॑च्च॒न ते॑ मघव॒न्व्यं॑सो निविवि॒ध्वाँ अप॒ हनू॑ ज॒घान॑ । अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वांछिरो॑ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ॥
मम॑त् , च॒न , ते॒ , म॒घ॒ऽव॒न् , विऽअं॑सः , नि॒ऽवि॒वि॒ध्वान् , अप॑ , हनू॒ इति॑ , ज॒घान॑ । अध॑ , निऽवि॑द्धः , उत्ऽत॑रः , ब॒भू॒वान् , शिरः॑ , दा॒सस्य॑ , सं , पि॒ण॒क् , व॒धेन॑ ॥
गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिंद्रं॑ । अरी॑ळ्हं व॒त्सं च॒रथा॑य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒च्छमा॑नं ॥
गृ॒ष्टिः , स॒सू॒व॒ , स्थवि॑रं , त॒वा॒गां , अ॒ना॒धृ॒ष्यं , वृ॒ष॒भं , तुम्रं॑ , इंद्रं॑ । अरी॑ळ्हं , व॒त्सं , च॒रथा॑य , मा॒ता , स्व॒यं , गा॒तुं , त॒न्वे॑ , इ॒च्छमा॑नं ॥
उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः । अथा॑ब्रवीद्वृ॒त्रमिंद्रो॑ हनि॒ष्यंत्सखे॑ विष्णो वित॒रं वि क्र॑मस्व ॥
उ॒त , मा॒ता , म॒हि॒षं , अनु॑ , अ॒वे॒न॒त् , अ॒मी इति॑ , त्वा॒ , ज॒ह॒ति॒ , पु॒त्र॒ , दे॒वाः । अथ॑ , अ॒ब्र॒वी॒त् , वृ॒त्रं , इंद्रः॑ , ह॒नि॒ष्यन् , सखे॑ , वि॒ष्णो॒ इति॑ , वि॒ऽत॒रं , वि , क्र॒म॒स्व॒ ॥
कस्ते॑ मा॒तरं॑ वि॒धवा॑मचक्रच्छ॒युं कस्त्वाम॑जिघांस॒च्चरं॑तं । कस्ते॑ दे॒वो अधि॑ मार्डी॒क आ॑सी॒द्यत्प्राक्षि॑णाः पि॒तरं॑ पाद॒गृह्य॑ ॥
कः , ते॒ , मा॒तरं॑ , वि॒धवां॑ , अ॒च॒क्र॒त् , श॒युं , कः , त्वां , अ॒जि॒घां॒स॒त् , चरं॑तं । कः , ते॒ , दे॒वः , अधि॑ , मा॒र्डी॒के , आ॒सी॒त् , यत् , प्र , अक्षि॑णाः , पि॒तरं॑ , पा॒द॒ऽगृह्य॑ ॥
अव॑र्त्या॒ शुन॑ आं॒त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तारं॑ । अप॑श्यं जा॒यामम॑हीयमाना॒मधा॑ मे श्ये॒नो मध्वा ज॑भार ॥
अव॑र्त्या , शुनः॑ , आं॒त्राणि॑ , पे॒चे॒ , न , दे॒वेषु॑ , वि॒वि॒दे॒ , म॒र्डि॒तारं॑ । अप॑श्यं , जा॒यां , अम॑हीयमानां , अध॑ , मे॒ , श्ये॒नः , मधु॑ , आ , ज॒भा॒र॒ ॥
[१९] एवात्वामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
ए॒वा त्वामिं॑द्र वज्रि॒न्नत्र॒ विश्वे॑ दे॒वासः॑ सु॒हवा॑स॒ ऊमाः॑ । म॒हामु॒भे रोद॑सी वृ॒द्धमृ॒ष्वं निरेक॒मिद्वृ॑णते वृत्र॒हत्ये॑ ॥
ए॒व , त्वां , इं॒द्र॒ , व॒ज्रि॒न् , अत्र॑ , विश्वे॑ , दे॒वासः॑ , सु॒ऽहवा॑सः , ऊमाः॑ । म॒हां , उ॒भे इति॑ , रोद॑सी॒ इति॑ , वृ॒द्धं , ऋ॒ष्वं , निः , एकं॑ , इत् , वृ॒ण॒ते॒ , वृ॒त्र॒ऽहत्ये॑ ॥
अवा॑सृजंत॒ जिव्र॑यो॒ न दे॒वा भुवः॑ स॒म्राळिं॑द्र स॒त्ययो॑निः । अह॒न्नहिं॑ परि॒शया॑न॒मर्णः॒ प्र व॑र्त॒नीर॑रदो वि॒श्वधे॑नाः ॥
अव॑ , अ॒सृ॒जं॒त॒ , जिव्र॑यः , न , दे॒वाः , भुवः॑ , सं॒ऽराट् , इं॒द्र॒ , स॒त्यऽयो॑निः । अह॑न् , अहिं॑ , प॒रि॒ऽशया॑नं , अर्णः॑ , प्र , व॒र्त॒नीः , अ॒र॒दः॒ , वि॒श्वऽधे॑नाः ॥
अतृ॑प्णुवंतं॒ विय॑तमबु॒ध्यमबु॑ध्यमानं सुषुपा॒णमिं॑द्र । स॒प्त प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण॒ वि रि॑णा अप॒र्वन् ॥
अतृ॑प्णुवंतं , विऽय॑तं , अ॒बु॒ध्यं , अबु॑ध्यमानं , सु॒सु॒पा॒नं , इं॒द्र॒ । स॒प्त , प्रति॑ , प्र॒ऽवतः॑ , आ॒ऽशया॑नं , अहिं॑ , वज्रे॑ण , वि , रि॒णाः॒ , अ॒प॒र्वन् ॥
अक्षो॑दय॒च्छव॑सा॒ क्षाम॑ बु॒ध्नं वार्ण वात॒स्तवि॑षीभि॒रिंद्रः॑ । दृ॒ळ्हान्यौ॑भ्नादु॒शमा॑न॒ ओजोऽवा॑भिनत्क॒कुभः॒ पर्व॑तानां ॥
अक्षो॑दयत् , शव॑सा , क्षाम॑ , बु॒ध्नं , वाः , न , वातः॑ , तवि॑षीभिः , इंद्रः॑ । दृ॒ळ्हानि॑ , औ॒भ्ना॒त् , उ॒शमा॑नः , ओजः॑ , अव॑ , अ॒भि॒न॒त् , क॒कुभः॑ , पर्व॑तानां ॥
अ॒भि प्र द॑द्रु॒र्जन॑यो॒ न गर्भं॒ रथा॑ इव॒ प्र य॑युः सा॒कमद्र॑यः । अत॑र्पयो वि॒सृत॑ उ॒ब्ज ऊ॒र्मींत्वं वृ॒ताँ अ॑रिणा इंद्र॒ सिंधू॑न् ॥
अ॒भि , प्र , द॒द्रुः॒ , जन॑यः , न , गर्भं॑ , रथाः॑ऽइव , प्र , य॒युः॒ , सा॒कं , अद्र॑यः । अत॑र्पयः , वि॒ऽसृतः॑ , उ॒ब्जः , ऊ॒र्मीन् , त्वं , वृ॒तान् , अ॒रि॒णाः॒ , इं॒द्र॒ , सिंधू॑न् ॥
त्वं म॒हीम॒वनिं॑ वि॒श्वधे॑नां तु॒र्वीत॑ये व॒य्या॑य॒ क्षरं॑तीं । अर॑मयो॒ नम॒सैज॒दर्णः॑ सुतर॒णाँ अ॑कृणोरिंद्र॒ सिंधू॑न् ॥
त्वं , म॒हीं , अ॒वनिं॑ , वि॒श्वऽधे॑नां , तु॒र्वीत॑ये , व॒य्या॑य , क्षरं॑तीं । अर॑मयः , नम॑सा , एज॑त् , अर्णः॑ , सु॒ऽत॒र॒णान् , अ॒कृ॒णोः॒ , इं॒द्र॒ , सिंधू॑न् ॥
प्राग्रुवो॑ नभ॒न्वो॒३॒॑ न वक्वा॑ ध्व॒स्रा अ॑पिन्वद्युव॒तीर्ऋ॑त॒ज्ञाः । धन्वा॒न्यज्राँ॑ अपृणक्तृषा॒णाँ अधो॒गिंद्रः॑ स्त॒र्यो॒३॒॑ दंसु॑पत्नीः ॥
प्र , अ॒ग्रुवः॑ , न॒भ॒न्वः॑ , न , वक्वाः॑ , ध्व॒स्राः , अ॒पि॒न्व॒त् , यु॒व॒तीः , ऋ॒त॒ऽज्ञाः । धन्वा॑नि , अज्रा॑न् , अ॒पृ॒ण॒क् , तृ॒षा॒णान् , अधो॑क् , इंद्रः॑ , स्त॒र्यः॑ , दंऽसु॑पत्नीः ॥
पू॒र्वीरु॒षसः॑ श॒रद॑श्च गू॒र्ता वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिंधू॑न् । परि॑ष्ठिता अतृणद्बद्बधा॒नाः सी॒रा इंद्रः॒ स्रवि॑तवे पृथि॒व्या ॥
पू॒र्वीः , उ॒षसः॑ , श॒रदः॑ , च॒ , गू॒र्ताः , वृ॒त्रं , ज॒घ॒न्वान् , अ॒सृ॒ज॒त् , वि , सिंधू॑न् । परि॑ऽस्थिताः , अ॒तृ॒ण॒त् , ब॒द्ब॒धा॒नाः , सी॒राः , इंद्रः॑ , स्रवि॑तवे , पृ॒थि॒व्या ॥
व॒म्रीभिः॑ पु॒त्रम॒ग्रुवो॑ अदा॒नं नि॒वेश॑नाद्धरिव॒ आ ज॑भर्थ । व्य१॒॑न्धो अ॑ख्य॒दहि॑माददा॒नो निर्भू॑दुख॒च्छित्सम॑रंत॒ पर्व॑ ॥
व॒म्रीभिः॑ , पु॒त्रं , अ॒ग्रुवः॑ , अ॒दा॒नं , नि॒ऽवेश॑नात् , ह॒रि॒ऽवः॒ , आ , ज॒भ॒र्थ॒ । वि , अं॒धः , अ॒ख्य॒त् , अहिं॑ , आ॒ऽद॒दा॒नः , निः , भू॒त् , उ॒ख॒ऽछित् , सं , अ॒रं॒त॒ , पर्व॑ ॥
प्र ते॒ पूर्वा॑णि॒ कर॑णानि विप्रावि॒द्वाँ आ॑ह वि॒दुषे॒ करां॑सि । यथा॑यथा॒ वृष्ण्या॑नि॒ स्वगू॒र्तापां॑सि राज॒न्नर्यावि॑वेषीः ॥
प्र , ते॒ , पूर्वा॑णि , कर॑णानि , वि॒प्र॒ , आ॒ऽवि॒द्वान् , आ॒ह॒ , वि॒दुषे॑ , करां॑सि । यथा॑ऽयथा , वृष्ण्या॑नि , स्वऽगू॑र्ता , अपां॑सि , रा॒ज॒न् , नर्या॑ , अवि॑वेषीः ॥
नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः । अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
नु , स्तु॒तः , इं॒द्र॒ , नु , गृ॒णा॒नः , इषं॑ , ज॒रि॒त्रे , न॒द्यः॑ , न , पी॒पे॒रिति॑ पीपेः । अका॑रि , ते॒ , ह॒रि॒ऽवः॒ , ब्रह्म॑ , नव्यं॑ , धि॒या , स्या॒म॒ , र॒थ्यः॑ , स॒दा॒ऽसाः ॥
[२०] आनइंद्रइत्येकादशर्चस्य सूक्तस्यगौतमोवामदेव इंद्रस्त्रिष्टुप् |
आ न॒ इंद्रो॑ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः । ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः सं॒गे स॒मत्सु॑ तु॒र्वणिः॑ पृत॒न्यून् ॥
आ , नः॒ , इंद्रः॑ , दू॒रात् , आ , नः॒ , आ॒सात् , अ॒भि॒ष्टि॒ऽकृत् , अव॑से , या॒स॒त् , उ॒ग्रः । ओजि॑ष्ठेभिः , नृ॒ऽपतिः॑ , वज्र॑ऽबाहुः , सं॒ऽगे , स॒मत्ऽसु॑ , तु॒र्वणिः॑ , पृ॒त॒न्यून् ॥
आ न॒ इंद्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च । तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ॥
आ , नः॒ , इंद्रः॑ , हरि॑ऽभिः , या॒तु॒ , अच्छ॑ , अ॒र्वा॒ची॒नः , अव॑से , राध॑से , च॒ । तिष्ठा॑ति , व॒ज्री , म॒घऽवा॑ , वि॒ऽर॒प्शी , इ॒मं , य॒ज्ञं , अनु॑ , नः॒ , वाज॑ऽसातौ ॥
इ॒मं य॒ज्ञं त्वम॒स्माक॑मिंद्र पु॒रो दध॑त्सनिष्यसि॒ क्रतुं॑ नः । श्व॒घ्नीव॑ वज्रिंत्स॒नये॒ धना॑नां॒ त्वया॑ व॒यम॒र्य आ॒जिं ज॑येम ॥
इ॒मं , य॒ज्ञं , त्वं , अ॒स्माकं॑ , इं॒द्र॒ , पु॒रः , दध॑त् , स॒नि॒ष्य॒सि॒ , क्रतुं॑ , नः॒ । श्व॒घ्नीऽइ॑व , व॒ज्रि॒न् , स॒नये॑ , धना॑नां , त्वया॑ , व॒यं , अ॒र्यः , आ॒जिं , ज॒ये॒म॒ ॥
उ॒शन्नु॒ षु णः॑ सु॒मना॑ उपा॒के सोम॑स्य॒ नु सुषु॑तस्य स्वधावः । पा इं॑द्र॒ प्रति॑भृतस्य॒ मध्वः॒ समंध॑सा ममदः पृ॒ष्ठ्ये॑न ॥
उ॒शन् , ऊँ॒ इति॑ , सु , नः॒ , सु॒ऽमनाः॑ , उ॒पा॒के , सोम॑स्य , नु , सुऽसु॑तस्य , स्व॒धा॒ऽवः॒ । पाः , इं॒द्र॒ , प्रति॑ऽभृतस्य , मध्वः॑ , सं , अंध॑सा , म॒म॒दः॒ , पृ॒ष्ठ्ये॑न ॥
वि यो र॑र॒प्श ऋषि॑भि॒र्नवे॑भिर्वृ॒क्षो न प॒क्वः सृण्यो॒ न जेता॑ । मर्यो॒ न योषा॑म॒भि मन्य॑मा॒नोऽच्छा॑ विवक्मि पुरुहू॒तमिंद्रं॑ ॥
वि , यः , र॒र॒प्शे , ऋषि॑ऽभिः , नवे॑भिः , वृ॒क्षः , न , प॒क्वः , सृण्यः॑ , न , जेता॑ । मर्यः॑ , न , योषां॑ , अ॒भि , मन्य॑मानः , अच्छ॑ , वि॒व॒क्मि॒ , पु॒रु॒ऽहू॒तं , इंद्रं॑ ॥
गि॒रिर्न यः स्वत॑वाँ ऋ॒ष्व इंद्रः॑ स॒नादे॒व सह॑से जा॒त उ॒ग्रः । आद॑र्ता॒ वज्रं॒ स्थवि॑रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु॑ना॒ न्यृ॑ष्टं ॥
गि॒रिः , न , यः , स्वऽत॑वान् , ऋ॒ष्वः , इंद्रः॑ , स॒नात् , ए॒व , सह॑से , जा॒तः , उ॒ग्रः । आऽद॑र्ता , वज्रं॑ , स्थवि॑रं , न , भी॒मः , उ॒द्नाऽइ॑व , कोशं॑ , वसु॑ना , निऽऋ॑ष्टं ॥
न यस्य॑ व॒र्ता ज॒नुषा॒ न्वस्ति॒ न राध॑स आमरी॒ता म॒घस्य॑ । उ॒द्वा॒वृ॒षा॒णस्त॑विषीव उग्रा॒स्मभ्यं॑ दद्धि पुरुहूत रा॒यः ॥
न , यस्य॑ , व॒र्ता , ज॒नुषा॑ , नु , अस्ति॑ , न , राध॑सः , आ॒ऽम॒री॒ता , म॒घस्य॑ । उ॒त्ऽव॒वृ॒षा॒णः , त॒वि॒षी॒ऽवः॒ , उ॒ग्र॒ , अ॒स्मभ्यं॑ , द॒द्धि॒ , पु॒रु॒ऽहू॒त॒ , रा॒यः ॥
ईक्षे॑ रा॒यः क्षय॑स्य चर्षणी॒नामु॒त व्र॒जम॑पव॒र्तासि॒ गोनां॑ । शि॒क्षा॒न॒रः स॑मि॒थेषु॑ प्र॒हावा॒न्वस्वो॑ रा॒शिम॑भिने॒तासि॒ भूरिं॑ ॥
ईक्षे॑ , रा॒यः , क्षय॑स्य , च॒र्ष॒णी॒नां , उ॒त , व्र॒जं , अ॒प॒ऽव॒र्ता , अ॒सि॒ , गोनां॑ । शि॒क्षा॒ऽन॒रः , सं॒ऽइ॒थेषु॑ , प्र॒हाऽवा॑न् , वस्वः॑ , रा॒शिं , अ॒भि॒ऽने॒ता , अ॒सि॒ , भूरिं॑ ॥
कया॒ तच्छृ॑ण्वे॒ शच्या॒ शचि॑ष्ठो॒ यया॑ कृ॒णोति॒ मुहु॒ का चि॑दृ॒ष्वः । पु॒रु दा॒शुषे॒ विच॑यिष्ठो॒ अंहोऽथा॑ दधाति॒ द्रवि॑णं जरि॒त्रे ॥
कया॑ , तत् , शृ॒ण्वे॒ , शच्या॑ , शचि॑ष्ठः , यया॑ , कृ॒णोति॑ , मुहु॑ , का , चि॒त् , ऋ॒ष्वः । पु॒रु , दा॒शुषे॑ , विऽच॑यिष्ठः , अंहः॑ , अथ॑ , द॒धा॒ति॒ , द्रवि॑णं , ज॒रि॒त्रे ॥
मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत्ते॑ । नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मिंत॑ उ॒क्थे प्र ब्र॑वाम व॒यमिं॑द्र स्तु॒वंतः॑ ॥
मा , नः॒ , म॒र्धीः॒ , आ , भ॒र॒ , द॒द्धि , तत् , नः॒ , प्र , दा॒शुषे॑ , दात॑वे , भूरि॑ , यत् , ते॒ । नव्ये॑ , दे॒ष्णे , श॒स्ते , अ॒स्मिन् , ते॒ , उ॒क्थे , प्र , ब्र॒वा॒म॒ , व॒यं , इं॒द्र॒ , स्तु॒वंतः॑ ॥
नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः । अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
नु , स्तु॒तः , इं॒द्र॒ , नु , गृ॒णा॒नः , इषं॑ , ज॒रि॒त्रे , न॒द्यः॑ , न , पी॒पे॒रिति॑ पीपेः । अका॑रि , ते॒ , ह॒रि॒ऽवः॒ , ब्रह्म॑ , नव्यं॑ , धि॒या , स्या॒म॒ , र॒थ्यः॑ , स॒दा॒ऽसाः ॥
[२१] आयात्विंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
आ या॒त्विंद्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑ । वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त् ॥
आ , या॒तु॒ , इंद्रः॑ , अव॑से , उप॑ , नः॒ , इ॒ह , स्तु॒तः , स॒ध॒ऽमात् , अ॒स्तु॒ , शूरः॑ । व॒वृ॒धा॒नः , तवि॑षीः , यस्य॑ , पू॒र्वीः , द्यौः , न , क्ष॒त्रं , अ॒भिऽभू॑ति , पुष्या॑त् ॥
तस्येदि॒ह स्त॑वथ॒ वृष्ण्या॑नि तुविद्यु॒म्नस्य॑ तुवि॒राध॑सो॒ नॄन् । यस्य॒ क्रतु॑र्विद॒थ्यो॒३॒॑ न स॒म्राट् सा॒ह्वांतरु॑त्रो अ॒भ्यस्ति॑ कृ॒ष्टीः ॥
तस्य॑ , इत् , इ॒ह , स्त॒व॒थ॒ , वृष्ण्या॑नि , तु॒वि॒ऽद्यु॒म्नस्य॑ , तु॒वि॒ऽराध॑सः , नॄन् । यस्य॑ , क्रतुः॑ , वि॒द॒थ्यः॑ , न , सं॒ऽराट् , स॒ह्वान् , तरु॑त्रः , अ॒भि , अस्ति॑ , कृ॒ष्टीः ॥
आ या॒त्विंद्रो॑ दि॒व आ पृ॑थि॒व्या म॒क्षू स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । स्व॑र्णरा॒दव॑से नो म॒रुत्वा॑न्परा॒वतो॑ वा॒ सद॑नादृ॒तस्य॑ ॥
आ , या॒तु॒ , इंद्रः॑ , दि॒वः , आ , पृ॒थि॒व्याः , म॒क्षु , स॒मु॒द्रात् , उ॒त , वा॒ , पुरी॑षात् । स्वः॑ऽनरात् , अव॑से , नः॒ , म॒रुत्वा॑न् , प॒रा॒ऽवतः॑ , वा॒ , सद॑नात् , ऋ॒तस्य॑ ॥
स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॒ तमु॑ ष्टवाम वि॒दथे॒ष्विंद्रं॑ । यो वा॒युना॒ जय॑ति॒ गोम॑तीषु॒ प्र धृ॑ष्णु॒या नय॑ति॒ वस्यो॒ अच्छ॑ ॥
स्थू॒रस्य॑ , रा॒यः , बृ॒ह॒तः , यः , ईशे॑ , तं , ऊँ॒ इति॑ , स्त॒वा॒म॒ , वि॒दथे॑षु , इंद्रं॑ । यः , वा॒युना॑ , जय॑ति , गोऽम॑तीषु , प्र , धृ॒ष्णु॒ऽया , नय॑ति , वस्यः॑ , अच्छ॑ ॥
उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं॑ ज॒नय॒न्यज॑ध्यै । ऋं॒ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेंद्रं॑ कृण्वीत॒ सद॑नेषु॒ होता॑ ॥
उप॑ , यः , नमः॑ , नम॑सि , स्त॒भा॒यन् , इय॑र्ति , वाचं॑ , ज॒नय॑न् , यज॑ध्यै । ऋं॒ज॒सा॒नः , पु॒रु॒ऽवारः॑ , उ॒क्थैः , आ , इंद्रं॑ , कृ॒ण्वी॒त॒ , सद॑नेषु , होता॑ ॥
धि॒षा यदि॑ धिष॒ण्यंतः॑ सर॒ण्यांत्सदं॑तो॒ अद्रि॑मौशि॒जस्य॒ गोहे॑ । आ दु॒रोषाः॑ पा॒स्त्यस्य॒ होता॒ यो नो॑ म॒हांत्सं॒वर॑णेषु॒ वह्निः॑ ॥
धि॒षा , यदि॑ , धि॒ष॒ण्यंतः॑ , स॒र॒ण्यान् , सदं॑तः , अद्रिं॑ , औ॒शि॒जस्य॑ , गोहे॑ । आ , दु॒रोषाः॑ , पा॒स्त्यस्य॑ , होता॑ , यः , नः॒ , म॒हान् , सं॒ऽवर॑णेषु , वह्निः॑ ॥
स॒त्रा यदीं॑ भार्व॒रस्य॒ वृष्णः॒ सिष॑क्ति॒ शुष्मः॑ स्तुव॒ते भरा॑य । गुहा॒ यदी॑मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय॑से॒ मदा॑य ॥
स॒त्रा , यत् , इं॒ , भा॒र्व॒रस्य॑ , वृष्णः॑ , सिस॑क्ति , शुष्मः॑ , स्तु॒व॒ते , भरा॑य । गुहा॑ , यत् , ईं॒ , औ॒शि॒जस्य॑ , गोहे॑ , प्र , यत् , धि॒ये , प्र , अय॑से , मदा॑य ॥
वि यद्वरां॑सि॒ पर्व॑तस्य वृ॒ण्वे पयो॑भिर्जि॒न्वे अ॒पां जवां॑सि । वि॒दद्गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा॑य सु॒ध्यो॒३॒॑ वहं॑ति ॥
वि , यत् , वरां॑सि , पर्व॑तस्य , वृ॒ण्वे , पयः॑ऽभिः , जि॒न्वे , अ॒पां , जवां॑सि । वि॒दत् , गौ॒रस्य॑ , ग॒व॒यस्य॑ , गोहे॑ , यदि॑ , वाजा॑य , सु॒ऽध्यः॑ , वहं॑ति ॥
भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑यं॒तारा॑ स्तुव॒ते राध॑ इंद्र । का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ ॥
भ॒द्रा , ते॒ , हस्ता॑ , सुऽकृ॑ता , उ॒त , पा॒णी इति॑ , प्र॒ऽयं॒तारा॑ , स्तु॒व॒ते , राधः॑ , इं॒द्र॒ । का , ते॒ , निऽस॑त्तिः , किं , ऊँ॒ इति॑ , नो इति॑ , म॒म॒त्सि॒ , किं , न , उत्ऽउ॑त् , ऊँ॒ इति॑ , ह॒र्ष॒से॒ , दात॒वै , ऊँ॒ इति॑ ॥
ए॒वा वस्व॒ इंद्रः॑ स॒त्यः स॒म्राड्ढंता॑ वृ॒त्रं वरि॑वः पू॒रवे॑ कः । पुरु॑ष्टुत॒ क्रत्वा॑ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य ॥
ए॒व , वस्वः॑ , इंद्रः॑ , स॒त्यः , सं॒ऽराट् , हंता॑ , वृ॒त्रं , वरि॑वः , पू॒रवे॑ , क॒रिति॑ कः । पुरु॑ऽस्तुत , क्रत्वा॑ , नः॒ , श॒ग्धि॒ , रा॒यः , भ॒क्षी॒य , ते॒ , अव॑सः , दैव्य॑स्य ॥
नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः । अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
नु , स्तु॒तः , इं॒द्र॒ , नु , गृ॒णा॒नः , इषं॑ , ज॒रि॒त्रे , न॒द्यः॑ , न , पी॒पे॒रिति॑ पीपेः । अका॑रि , ते॒ , ह॒रि॒ऽवः॒ , ब्रह्म॑ , नव्यं॑ , धि॒या , स्या॒म॒ , र॒थ्यः॑ , स॒दा॒ऽसाः ॥
[२२] यन्नइंद्र इत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
यन्न॒ इंद्रो॑ जुजु॒षे यच्च॒ वष्टि॒ तन्नो॑ म॒हान्क॑रति शु॒ष्म्या चि॑त् । ब्रह्म॒ स्तोमं॑ म॒घवा॒ सोम॑मु॒क्था यो अश्मा॑नं॒ शव॑सा॒ बिभ्र॒देति॑ ॥
यत् , नः॒ , इंद्रः॑ , जु॒जु॒षे , यत् , च॒ , व॒ष्टि॒ , तत् , नः॒ , म॒हान् , क॒र॒ति॒ , शु॒ष्मी , आ , चि॒त् । ब्रह्म॑ , स्तोमं॑ , म॒घऽवा॑ , सोमं॑ , उ॒क्था , यः , अश्मा॑नं , शव॑सा , बिभ्र॑त् , एति॑ ॥
वृषा॒ वृषं॑धिं॒ चतु॑रश्रि॒मस्य॑न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑मः॒ शची॑वान् । श्रि॒ये परु॑ष्णीमु॒षमा॑ण॒ ऊर्णां॒ यस्याः॒ पर्वा॑णि स॒ख्याय॑ वि॒व्ये ॥
वृषा॑ , वृषं॑धिं , चतुः॑ऽअश्रिं , अस्य॑न् , उ॒ग्रः , बा॒हुऽभ्यां॑ , नृऽत॑मः , शची॑ऽवान् । श्रि॒ये , परु॑ष्णीं , उ॒षमा॑णः , ऊर्णां॑ , यस्याः॑ , पर्वा॑णि , स॒ख्याय॑ , वि॒व्ये ॥
यो दे॒वो दे॒वत॑मो॒ जाय॑मानो म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मैः॑ । दधा॑नो॒ वज्रं॑ बा॒ह्वोरु॒शंतं॒ द्याममे॑न रेजय॒त्प्र भूम॑ ॥
यः , दे॒वः , दे॒वऽत॑मः , जाय॑मानः , म॒हः , वाजे॑भिः , म॒हत्ऽभिः॑ , च॒ , शुष्मैः॑ । दधा॑नः , वज्रं॑ , बा॒ह्वोः , उ॒शंतं॑ , द्यां , अमे॑न , रे॒ज॒य॒त् , प्र , भूम॑ ॥
विश्वा॒ रोधां॑सि प्र॒वत॑श्च पू॒र्वीर्द्यौर्ऋ॒ष्वाज्जनि॑मन्रेजत॒ क्षाः । आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत्परि॑ज्मन्नोनुवंत॒ वाताः॑ ॥
विश्वा॑ , रोधां॑सि , प्र॒ऽवतः॑ , च॒ , पू॒र्वीः , द्यौः , ऋ॒ष्वात् , जनि॑मन् , रे॒ज॒त॒ , क्षाः । आ , मा॒तरा॑ , भर॑ति , शु॒ष्मी , आ , गोः , नृ॒ऽवत् , परि॑ऽज्मन् , नो॒नु॒वं॒त॒ , वाताः॑ ॥
ता तू त॑ इंद्र मह॒तो म॒हानि॒ विश्वे॒ष्वित्सव॑नेषु प्र॒वाच्या॑ । यच्छू॑र धृष्णो धृष॒ता द॑धृ॒ष्वानहिं॒ वज्रे॑ण॒ शव॒सावि॑वेषीः ॥
ता , तु , ते॒ , इं॒द्र॒ , म॒ह॒तः , म॒हानि॑ , विश्वे॑षु , इत् , सव॑नेषु , प्र॒ऽवाच्या॑ । यत् , शू॒र॒ , धृ॒ष्णो॒ इति॑ , धृ॒ष॒ता , द॒धृ॒ष्वान् , अहिं॑ , वज्रे॑ण , शव॑सा , अवि॑वेषीः ॥
ता तू ते॑ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नवः॑ सिस्रते॒ वृष्ण॒ ऊध्नः॑ । अधा॑ ह॒ त्वद्वृ॑षमणो भिया॒नाः प्र सिंध॑वो॒ जव॑सा चक्रमंत ॥
ता , तु , ते॒ , स॒त्या , तु॒वि॒ऽनृ॒म्ण॒ , विश्वा॑ , प्र , धे॒नवः॑ , सि॒स्र॒ते॒ , वृष्णः॑ , ऊध्नः॑ । अध॑ , ह॒ , त्वत् , वृ॒ष॒ऽम॒नः॒ , भि॒या॒नाः , प्र , सिंध॑वः , जव॑सा , च॒क्र॒मं॒त॒ ॥
अत्राह॑ ते हरिव॒स्ता उ॑ दे॒वीरवो॑भिरिंद्र स्तवंत॒ स्वसा॑रः । यत्सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यंद॒यध्यै॑ ॥
अत्र॑ , अह॑ , ते॒ , ह॒रि॒ऽवः॒ , ताः , ऊँ॒ इति॑ , दे॒वीः , अवः॑ऽभिः , इं॒द्र॒ , स्त॒वं॒त॒ , स्वसा॑रः । यत् , सीं॒ , अनु॑ , प्र , मु॒चः , ब॒द्ब॒धा॒नाः , दी॒र्घां , अनु॑ , प्रऽसि॑तिं , स्यं॒द॒यध्यै॑ ॥
पि॒पी॒ळे अं॒शुर्मद्यो॒ न सिंधु॒रा त्वा॒ शमी॑ शशमा॒नस्य॑ श॒क्तिः । अ॒स्म॒द्र्य॑क्छुशुचा॒नस्य॑ यम्या आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः ॥
पि॒पी॒ळे , अं॒शुः , मद्यः॑ , न , सिंधुः॑ , आ , त्वा॒ , शमी॑ , श॒श॒मा॒नस्य॑ , श॒क्तिः । अ॒स्म॒द्र्य॑क् , शु॒शु॒चा॒नस्य॑ , य॒म्याः॒ , आ॒शुः , न , र॒श्मिं , तु॒वि॒ऽओज॑सं , गोः ॥
अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा॑ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां॑सि । अ॒स्मभ्यं॑ वृ॒त्रा सु॒हना॑नि रंधि ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्य ॥
अ॒स्मे इति॑ , वर्षि॑ष्ठा , कृ॒णु॒हि॒ , ज्येष्ठा॑ , नृ॒म्णानि॑ , स॒त्रा , स॒हु॒रे॒ , सहां॑सि । अ॒स्मभ्यं॑ , वृ॒त्रा , सु॒ऽहना॑नि , रं॒धि॒ , ज॒हि , वधः॑ , व॒नुषः॑ , मर्त्य॑स्य ॥
अ॒स्माक॒मित्सु शृ॑णुहि॒ त्वमिं॑द्रा॒स्मभ्यं॑ चि॒त्राँ उप॑ माहि॒ वाजा॑न् । अ॒स्मभ्यं॒ विश्वा॑ इषणः॒ पुरं॑धीर॒स्माकं॒ सु म॑घवन्बोधि गो॒दाः ॥
अ॒स्माकं॑ , इत् , सु , शृ॒णु॒हि॒ , त्वं , इं॒द्र॒ , अ॒स्मभ्यं॑ , चि॒त्रान् , उप॑ , मा॒हि॒ , वाजा॑न् । अ॒स्मभ्यं॑ , विश्वाः॑ , इ॒ष॒णः॒ , पुरं॑ऽधीः , अ॒स्माकं॑ , सु , म॒घ॒ऽव॒न् , बो॒धि॒ , गो॒ऽदाः ॥
नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः । अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
नु , स्तु॒तः , इं॒द्र॒ , नु , गृ॒णा॒नः , इषं॑ , ज॒रि॒त्रे , न॒द्यः॑ , न , पी॒पे॒रिति॑ पीपेः । अका॑रि , ते॒ , ह॒रि॒ऽवः॒ , ब्रह्म॑ , नव्यं॑ , धि॒या , स्या॒म॒ , र॒थ्यः॑ , स॒दा॒ऽसाः ॥
[२३] कथामहामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् ( अंत्यानांतिसृणांऋतंदेवतावा ) |
क॒था म॒हाम॑वृध॒त्कस्य॒ होतु॑र्य॒ज्ञं जु॑षा॒णो अ॒भि सोम॒मूधः॑ । पिब॑न्नुशा॒नो जु॒षमा॑णो॒ अंधो॑ वव॒क्ष ऋ॒ष्वः शु॑च॒ते धना॑य ॥
क॒था , म॒हां , अ॒वृ॒ध॒त् , कस्य॑ , होतुः॑ , य॒ज्ञं , जु॒षा॒णः , अ॒भि , सोमं॑ , ऊधः॑ । पिब॑न् , उ॒शा॒नः , जु॒षमा॑णः , अंधः॑ , व॒व॒क्षे , ऋ॒ष्वः , शु॒च॒ते , धना॑य ॥
को अ॑स्य वी॒रः स॑ध॒माद॑माप॒ समा॑नंश सुम॒तिभिः॒ को अ॑स्य । कद॑स्य चि॒त्रं चि॑किते॒ कदू॒ती वृ॒धे भु॑वच्छशमा॒नस्य॒ यज्योः॑ ॥
कः , अ॒स्य॒ , वी॒रः , स॒ध॒ऽमादं॑ , आ॒प॒ , सं , आ॒नं॒श॒ , सु॒म॒तिऽभिः॑ , कः , अ॒स्य॒ । कत् , अ॒स्य॒ , चि॒त्रं , चि॒कि॒ते॒ , कत् , ऊ॒ती , वृ॒धे , भु॒व॒त् , श॒श॒मा॒नस्य॑ , यज्योः॑ ॥
क॒था शृ॑णोति हू॒यमा॑न॒मिंद्रः॑ क॒था शृ॒ण्वन्नव॑सामस्य वेद । का अ॑स्य पू॒र्वीरुप॑मातयो ह क॒थैन॑माहुः॒ पपु॑रिं जरि॒त्रे ॥
क॒था , शृ॒णो॒ति॒ , हू॒यमा॑नं , इंद्रः॑ , क॒था , शृ॒ण्वन् , अव॑सां , अ॒स्य॒ , वे॒द॒ । काः , अ॒स्य॒ , पू॒र्वीः , उप॑ऽमातयः , ह॒ , क॒था , ए॒नं॒ , आ॒हुः॒ , पपु॑रिं , ज॒रि॒त्रे ॥
क॒था स॒बाधः॑ शशमा॒नो अ॑स्य॒ नश॑द॒भि द्रवि॑णं॒ दीध्या॑नः । दे॒वो भु॑व॒न्नवे॑दा म ऋ॒तानां॒ नमो॑ जगृ॒भ्वाँ अ॒भि यज्जुजो॑षत् ॥
क॒था , स॒ऽबाधः॑ , श॒श॒मा॒नः , अ॒स्य॒ , नश॑त् , अ॒भि , द्रवि॑णं , दीध्या॑नः । दे॒वः , भु॒व॒त् , नवे॑दाः , मे॒ , ऋ॒तानां॑ , नमः॑ , ज॒गृ॒भ्वान् , अ॒भि , यत् , जुजो॑षत् ॥
क॒था कद॒स्या उ॒षसो॒ व्यु॑ष्टौ दे॒वो मर्त॑स्य स॒ख्यं जु॑जोष । क॒था कद॑स्य स॒ख्यं सखि॑भ्यो॒ ये अ॑स्मि॒न्कामं॑ सु॒युजं॑ तत॒स्रे ॥
क॒था , कत् , अ॒स्याः , उ॒षसः॑ , विऽउ॑ष्टौ , दे॒वः , मर्त॑स्य , स॒ख्यं , जु॒जो॒ष॒ । क॒था , कत् , अ॒स्य॒ , स॒ख्यं , सखि॑ऽभ्यः , ये , अ॒स्मि॒न् , कामं॑ , सु॒ऽयुजं॑ , त॒त॒स्रे ॥
किमादम॑त्रं स॒ख्यं सखि॑भ्यः क॒दा नु ते॑ भ्रा॒त्रं प्र ब्र॑वाम । श्रि॒ये सु॒दृशो॒ वपु॑रस्य॒ सर्गाः॒ स्व१॒॑र्ण चि॒त्रत॑ममिष॒ आ गोः ॥
किं , आत् , अम॑त्रं , स॒ख्यं , सखि॑ऽभ्यः , क॒दा , नु , ते॒ , भ्रा॒त्रं , प्र , ब्र॒वा॒म॒ । श्रि॒ये , सु॒ऽदृशः॑ , वपुः॑ , अ॒स्य॒ , सर्गाः॑ , स्वः॑ , न , चि॒त्रऽत॑मं , इ॒षे॒ , आ , गोः ॥
द्रुहं॒ जिघां॑संध्व॒रस॑मनिं॒द्रां तेति॑क्ते ति॒ग्मा तु॒जसे॒ अनी॑का । ऋ॒णा चि॒द्यत्र॑ ऋण॒या न॑ उ॒ग्रो दू॒रे अज्ञा॑ता उ॒षसो॑ बबा॒धे ॥
द्रुहं॑ , जिघां॑सन् , ध्व॒रसं॑ , अ॒निं॒द्रां , तेति॑क्ते , ति॒ग्मा , तु॒जसे॑ , अनी॑का । ऋ॒णा , चि॒त् , यत्र॑ , ऋ॒ण॒ऽयाः , नः॒ , उ॒ग्रः , दू॒रे , अज्ञा॑ताः , उ॒षसः॑ , ब॒बा॒धे ॥
ऋ॒तस्य॒ हि शु॒रुधः॒ संति॑ पू॒र्वीर्ऋ॒तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हंति । ऋ॒तस्य॒ श्लोको॑ बधि॒रा त॑तर्द॒ कर्णा॑ बुधा॒नः शु॒चमा॑न आ॒योः ॥
ऋ॒तस्य॑ , हि , शु॒रुधः॑ , संति॑ , पू॒र्वीः , ऋ॒तस्य॑ , धी॒तिः , वृ॒जि॒नानि॑ , हं॒ति॒ । ऋ॒तस्य॑ , श्लोकः॑ , ब॒धि॒रा , त॒त॒र्द॒ , कर्णा॑ , बु॒धा॒नः , शु॒चमा॑नः , आ॒योः ॥
ऋ॒तस्य॑ दृ॒ळ्हा ध॒रुणा॑नि संति पु॒रूणि॑ चं॒द्रा वपु॑षे॒ वपूं॑षि । ऋ॒तेन॑ दी॒र्घमि॑षणंत॒ पृक्ष॑ ऋ॒तेन॒ गाव॑ ऋ॒तमा वि॑वेशुः ॥
ऋ॒तस्य॑ , दृ॒ळ्हा , ध॒रुणा॑नि , सं॒ति॒ , पु॒रूणि॑ , चं॒द्रा , वपु॑षे , वपूं॑षि । ऋ॒तेन॑ , दी॒र्घं , इ॒ष॒णं॒त॒ , पृक्षः॑ , ऋ॒तेन॑ , गावः॑ , ऋ॒तं , आ , वि॒वे॒शुः॒ ॥
ऋ॒तं ये॑मा॒न ऋ॒तमिद्व॑नोत्यृ॒तस्य॒ शुष्म॑स्तुर॒या उ॑ ग॒व्युः । ऋ॒ताय॑ पृ॒थ्वी ब॑हु॒ले ग॑भी॒रे ऋ॒ताय॑ धे॒नू प॑र॒मे दु॑हाते ॥
ऋ॒तं , ये॒मा॒नः , ऋ॒तं , इत् , व॒नो॒ति॒ , ऋ॒तस्य॑ , शुष्मः॑ , तु॒र॒ऽयाः , ऊँ॒ इति॑ , ग॒व्युः । ऋ॒ताय॑ , पृ॒थ्वी इति॑ , ब॒हु॒ले इति॑ , ग॒भी॒रे इति॑ , ऋ॒ताय॑ , धे॒नू इति॑ , प॒र॒मे इति॑ , दु॒हा॒ते॒ इति॑ ॥
नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः । अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
नु , स्तु॒तः , इं॒द्र॒ , नु , गृ॒णा॒नः , इषं॑ , ज॒रि॒त्रे , न॒द्यः॑ , न , पी॒पे॒रिति॑ पीपेः । अका॑रि , ते॒ , ह॒रि॒ऽवः॒ , ब्रह्म॑ , नव्यं॑ , धि॒या , स्या॒म॒ , र॒थ्यः॑ , स॒दा॒ऽसाः ॥
[२४] कासुष्टुतिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
का सु॑ष्टु॒तिः शव॑सः सू॒नुमिंद्र॑मर्वाची॒नं राध॑स॒ आ व॑वर्तत् । द॒दिर्हि वी॒रो गृ॑ण॒ते वसू॑नि॒ स गोप॑तिर्नि॒ष्षिधां॑ नो जनासः ॥
का , सु॒ऽस्तु॒तिः , शव॑सः , सू॒नुं , इंद्रं॑ , अ॒र्वा॒ची॒नं , राध॑से , आ , व॒व॒र्त॒त् । द॒दिः , हि , वी॒रः , गृ॒ण॒ते , वसू॑नि , सः , गोऽप॑तिः , निः॒ऽसिधां॑ , नः॒ , ज॒ना॒सः॒ ॥
स वृ॑त्र॒हत्ये॒ हव्यः॒ स ईड्यः॒ स सुष्टु॑त॒ इंद्रः॑ स॒त्यरा॑धाः । स याम॒न्ना म॒घवा॒ मर्त्या॑य ब्रह्मण्य॒ते सुष्व॑ये॒ वरि॑वो धात् ॥
सः , वृ॒त्र॒ऽहत्ये॑ , हव्यः॑ , सः , ईड्यः॑ , सः , सुऽस्तु॑तः , इंद्रः॑ , स॒त्यऽरा॑धाः । सः , याम॑न् , आ , म॒घऽवा॑ , मर्त्या॑य , ब्र॒ह्म॒ण्य॒ते , सुस्व॑ये , वरि॑वः , धा॒त् ॥
तमिन्नरो॒ वि ह्व॑यंते समी॒के रि॑रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ त्रां । मि॒थो यत्त्या॒गमु॒भया॑सो॒ अग्म॒न्नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तौ ॥
तं , इत् , नरः॑ , वि , ह्व॒यं॒ते॒ , सं॒ऽई॒के , रि॒रि॒क्वांसः॑ , त॒न्वः॑ , कृ॒ण्व॒त॒ , त्रां । मि॒थः , यत् , त्या॒गं , उ॒भया॑सः , अग्म॑न् , नरः॑ , तो॒कस्य॑ , तन॑यस्य , सा॒तौ ॥
क्र॒तू॒यंति॑ क्षि॒तयो॒ योग॑ उग्राशुषा॒णासो॑ मि॒थो अर्ण॑सातौ । सं यद्विशोऽव॑वृत्रंत यु॒ध्मा आदिन्नेम॑ इंद्रयंते अ॒भीके॑ ॥
क्र॒तु॒ऽयंति॑ , क्षि॒तयः॑ , योगे॑ , उ॒ग्र॒ , आ॒शु॒षा॒णासः॑ , मि॒थः , अर्ण॑ऽसातौ । सं , यत् , विशः॑ , अव॑वृत्रंत , यु॒ध्माः , आत् , इत् , नेमे॑ , इं॒द्र॒यं॒ते॒ , अ॒भीके॑ ॥
आदिद्ध॒ नेम॑ इंद्रि॒यं य॑जंत॒ आदित्प॒क्तिः पु॑रो॒ळाशं॑ रिरिच्यात् । आदित्सोमो॒ वि प॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोष वृष॒भं यज॑ध्यै ॥
आत् , इत् , ह॒ , नेमे॑ , इं॒द्रि॒यं , य॒जं॒ते॒ , आत् , इत् , प॒क्तिः , पु॒रो॒ळाशं॑ , रि॒रि॒च्या॒त् । आत् , इ॒त् , सोमः॑ , वि , प॒पृ॒च्या॒त् , असु॑स्वीन् , आत् , इत् , जु॒जो॒ष॒ , वृ॒ष॒भं , यज॑ध्यै ॥
कृ॒णोत्य॑स्मै॒ वरि॑वो॒ य इ॒त्थेंद्रा॑य॒ सोम॑मुश॒ते सु॒नोति॑ । स॒ध्री॒चीने॑न॒ मन॒सावि॑वेनं॒तमित्सखा॑यं कृणुते स॒मत्सु॑ ॥
कृ॒णोति॑ , अ॒स्मै॒ , वरि॑वः , यः , इ॒त्था , इंद्रा॑य , सोमं॑ , उ॒श॒ते , सु॒नोति॑ । स॒ध्री॒चीने॑न , मन॑सा , अवि॑ऽवेनन् , तं , इत् , सखा॑यं , कृ॒णु॒ते॒ , स॒मत्ऽसु॑ ॥
य इंद्रा॑य सु॒नव॒त्सोम॑म॒द्य पचा॑त्प॒क्तीरु॒त भृ॒ज्जाति॑ धा॒नाः । प्रति॑ मना॒योरु॒चथा॑नि॒ हर्यं॒तस्मिं॑दध॒द्वृष॑णं॒ शुष्म॒मिंद्रः॑ ॥
यः , इंद्रा॑य , सु॒नव॑त् , सोमं॑ , अ॒द्य , पचा॑त् , प॒क्तीः , उ॒त , भृ॒ज्जाति॑ , धा॒नाः । प्रति॑ , म॒ना॒योः , उ॒चथा॑नि , हर्य॑न् , तस्मि॑न् , द॒ध॒त् , वृष॑णं , शुष्मं॑ , इंद्रः॑ ॥
य॒दा स॑म॒र्यं व्यचे॒दृघा॑वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः । अचि॑क्रद॒द्वृष॑णं॒ पत्न्यच्छा॑ दुरो॒ण आ निशि॑तं सोम॒सुद्भिः॑ ॥
य॒दा , स॒ऽम॒र्यं , वि , अचे॑त् , ऋघा॑वा , दी॒र्घं , यत् , आ॒जिं , अ॒भि , अख्य॑त् , अ॒र्यः । अचि॑क्रदत् , वृष॑णं , पत्नी॑ , अच्छ॑ , दु॒रो॒णे , आ , निऽशि॑तं , सो॒म॒सुत्ऽभिः॑ ॥
भूय॑सा व॒स्नम॑चर॒त्कनी॒योऽवि॑क्रीतो अकानिषं॒ पुन॒र्यन् । स भूय॑सा॒ कनी॑यो॒ नारि॑रेचीद्दी॒ना दक्षा॒ वि दु॑हंति॒ प्र वा॒णं ॥
भूय॑सा , व॒स्नं , अ॒च॒र॒त् , क॒नी॒यः , अवि॑ऽक्रीतः , अ॒का॒नि॒षं॒ , पुनः॑ , यन् । सः , भूय॑सा , कनी॑यः , न , अ॒रि॒रे॒ची॒त् , दी॒नाः , दक्षाः॑ , वि , दु॒हं॒ति॒ , प्र , वा॒णं ॥
क इ॒मं द॒शभि॒र्ममेंद्रं॑ क्रीणाति धे॒नुभिः॑ । य॒दा वृ॒त्राणि॒ जंघ॑न॒दथै॑नं मे॒ पुन॑र्ददत् ॥
कः , इ॒मं , द॒शऽभिः॑ , मम॑ , इंद्रं॑ , क्री॒णा॒ति॒ , धे॒नुऽभिः॑ । य॒दा , वृ॒त्राणि॑ , जंघ॑नत् , अथ॑ , ए॒नं॒ , मे॒ , पुनः॑ , द॒द॒त् ॥
नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः । अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
नु , स्तु॒तः , इं॒द्र॒ , नु , गृ॒णा॒नः , इषं॑ , ज॒रि॒त्रे , न॒द्यः॑ , न , पी॒पे॒रिति॑ पीपेः । अका॑रि , ते॒ , ह॒रि॒ऽवः॒ , ब्रह्म॑ , नव्यं॑ , धि॒या , स्या॒म॒ , र॒थ्यः॑ , स॒दा॒ऽसाः ॥
[२५] कोअद्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
को अ॒द्य नर्यो॑ दे॒वका॑म उ॒शन्निंद्र॑स्य स॒ख्यं जु॑जोष । को वा॑ म॒हेऽव॑से॒ पार्या॑य॒ समि॑द्धे अ॒ग्नौ सु॒तसो॑म ईट्टे ॥
कः , अ॒द्य , नर्यः॑ , दे॒वऽका॑मः , उ॒शन् , इंद्र॑स्य , स॒ख्यं , जु॒जो॒ष॒ । कः , वा॒ , म॒हे , अव॑से , पार्या॑य , संऽइ॑द्धे , अ॒ग्नौ , सु॒तऽसो॑मः , ई॒ट्टे॒ ॥
को ना॑नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा॑ भवति॒ वस्त॑ उ॒स्राः । क इंद्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती ॥
कः , न॒ना॒म॒ , वच॑सा , सो॒म्याय॑ , म॒ना॒युः , वा॒ , भ॒व॒ति॒ , वस्ते॑ , उ॒स्राः । कः , इंद्र॑स्य , युज्यं॑ , कः , स॒खि॒ऽत्वं , कः , भ्रा॒त्रं , व॒ष्टि॒ , क॒वये॑ , कः , ऊ॒ती ॥
को दे॒वाना॒मवो॑ अ॒द्या वृ॑णीते॒ क आ॑दि॒त्याँ अदि॑तिं॒ ज्योति॑रीट्टे । कस्या॒श्विना॒विंद्रो॑ अ॒ग्निः सु॒तस्यां॒शोः पि॑बंति॒ मन॒सावि॑वेनं ॥
कः , दे॒वानां॑ , अवः॑ , अ॒द्य , वृ॒णी॒ते॒ , कः , आ॒दि॒त्यान् , अदि॑तिं , ज्योतिः॑ , ई॒ट्टे॒ । कस्य॑ , अ॒श्विनौ॑ , इंद्रः॑ , अ॒ग्निः , सु॒तस्य॑ , अं॒शोः , पि॒बं॒ति॒ , मन॑सा , अवि॑ऽवेनं ॥
तस्मा॑ अ॒ग्निर्भार॑तः॒ शर्म॑ यंस॒ज्ज्योक्प॑श्या॒त्सूर्य॑मु॒च्चरं॑तं । य इंद्रा॑य सु॒नवा॒मेत्याह॒ नरे॒ नर्या॑य॒ नृत॑माय नृ॒णां ॥
तस्मै॑ , अ॒ग्निः , भार॑तः , शर्म॑ , यं॒स॒त् , ज्योक् , प॒श्या॒त् , सूर्यं॑ , उ॒त्ऽचरं॑तं । यः , इंद्रा॑य , सु॒नवा॑म , इति॑ , आह॑ , नरे॑ , नर्या॑य , नृऽत॑माय , नृ॒णां ॥
न तं जि॑नंति ब॒हवो॒ न द॒भ्रा उ॒र्व॑स्मा॒ अदि॑तिः॒ शर्म॑ यंसत् । प्रि॒यः सु॒कृत्प्रि॒य इंद्रे॑ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो अ॑स्य सो॒मी ॥
न , तं , जि॒नं॒ति॒ , ब॒हवः॑ , न , द॒भ्राः , उ॒रु , अ॒स्मै॒ , अदि॑तिः , शर्म॑ , यं॒स॒त् । प्रि॒यः , सु॒ऽकृत् , प्रि॒यः , इंद्रे॑ , म॒ना॒युः , प्रि॒यः , सु॒प्र॒ऽअ॒वीः , प्रि॒यः , अ॒स्य॒ , सो॒मी ॥
सु॒प्रा॒व्यः॑ प्राशु॒षाळे॒ष वी॒रः सुष्वेः॑ प॒क्तिं कृ॑णुते॒ केव॒लेंद्रः॑ । नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो॑ऽवहं॒तेदवा॑चः ॥
सु॒प्र॒ऽअ॒व्यः॑ , प्रा॒शु॒षाट् , ए॒षः , वी॒रः , सुस्वेः॑ , प॒क्तिं , कृ॒णु॒ते॒ , केव॑ला , इंद्रः॑ । न , असु॑स्वेः , आ॒पिः , न , सखा॑ , न , जा॒मिः , दुः॒प्र॒ऽअ॒व्यः॑ , अ॒व॒ऽहं॒ता , इत् , अवा॑चः ॥
न रे॒वता॑ प॒णिना॑ स॒ख्यमिंद्रोऽसु॑न्वता सुत॒पाः सं गृ॑णीते । आस्य॒ वेदः॑ खि॒दति॒ हंति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत् ॥
न , रे॒वता॑ , प॒णिना॑ , स॒ख्यं , इंद्रः॑ , असु॑न्वता , सु॒त॒ऽपाः , सं , गृ॒णी॒ते॒ । आ , अ॒स्य॒ , वेदः॑ , खि॒दति॑ , हंति॑ , न॒ग्नं , वि , सुस्व॑ये , प॒क्तये॑ , केव॑लः , भूत् ॥
इंद्रं॒ परेऽव॑रे मध्य॒मास॒ इंद्रं॒ यांतोऽव॑सितास॒ इंद्रं॑ । इंद्रं॑ क्षि॒यंत॑ उ॒त युध्य॑माना॒ इंद्रं॒ नरो॑ वाज॒यंतो॑ हवंते ॥
इंद्रं॑ , परे॑ , अव॑रे , म॒ध्य॒मासः॑ , इंद्रं॑ , यांतः॑ , अव॑ऽसितासः , इंद्रं॑ । इंद्रं॑ , क्षि॒यंतः॑ , उ॒त , युध्य॑मानाः , इंद्रं॑ , नरः॑ , वा॒ज॒यंतः॑ , ह॒वं॒ते॒ ॥
[२६] अहंमनुरिति सप्तर्चस्य सूक्तस्य गौतमोवामदेवःआद्यानांतिसृणामात्मा देवता अंत्यानांचतसृणांश्येनस्त्रिष्टुप् (आद्यतृचेवामदेवेंद्रयोरृषित्वविकल्पमाहुः केचित्) |
अ॒हं मनु॑रभवं॒ सूर्य॑श्चा॒हं क॒क्षीवाँ॒ ऋषि॑रस्मि॒ विप्रः॑ । अ॒हं कुत्स॑मार्जुने॒यं न्यृं॑जे॒ऽहं क॒विरु॒शना॒ पश्य॑ता मा ॥
अ॒हं , मनुः॑ , अ॒भ॒वं॒ , सूर्यः॑ , च॒ , अ॒हं , क॒क्षीवा॑न् , ऋषिः॑ , अ॒स्मि॒ , विप्रः॑ । अ॒हं , कुत्सं॑ , आ॒र्जु॒ने॒यं , नि , ऋं॒जे॒ , अ॒हं , क॒विः , उ॒शना॑ , पश्य॑त , मा॒ ॥
अ॒हं भूमि॑मददा॒मार्या॑या॒हं वृ॒ष्टिं दा॒शुषे॒ मर्त्या॑य । अ॒हम॒पो अ॑नयं वावशा॒ना मम॑ दे॒वासो॒ अनु॒ केत॑मायन् ॥
अ॒हं , भूमिं॑ , अ॒द॒दां॒ , आर्या॑य , अ॒हं , वृ॒ष्टिं , दा॒शुषे॑ , मर्त्या॑य । अ॒हं , अ॒पः , अ॒न॒यं॒ , वा॒व॒शा॒नाः , मम॑ , दे॒वासः॑ , अनु॑ , केतं॑ , आ॒य॒न् ॥
अ॒हं पुरो॑ मंदसा॒नो व्यै॑रं॒ नव॑ सा॒कं न॑व॒तीः शंब॑रस्य । श॒त॒त॒मं वे॒श्यं॑ स॒र्वता॑ता॒ दिवो॑दासमतिथि॒ग्वं यदावं॑ ॥
अ॒हं , पुरः॑ , मं॒द॒सा॒नः , वि , ऐ॒रं॒ , नव॑ , सा॒कं , न॒व॒तीः , शंब॑रस्य । श॒त॒ऽत॒मं , वे॒श्यं॑ , स॒र्वऽता॑ता , दिवः॑ऽदासं , अ॒ति॒थि॒ऽग्वं , यत् , आवं॑ ॥
प्र सु ष विभ्यो॑ मरुतो॒ विर॑स्तु॒ प्र श्ये॒नः श्ये॒नेभ्य॑ आशु॒पत्वा॑ । अ॒च॒क्रया॒ यत्स्व॒धया॑ सुप॒र्णो ह॒व्यं भर॒न्मन॑वे दे॒वजु॑ष्टं ॥
प्र , सु , सः , विऽभ्यः॑ , म॒रु॒तः॒ , विः , अ॒स्तु॒ , प्र , श्ये॒नः , श्ये॒नेभ्यः॑ , आ॒शु॒ऽपत्वा॑ । अ॒च॒क्रया॑ , यत् , स्व॒धया॑ , सु॒ऽप॒र्णः , ह॒व्यं , भर॑त् , मन॑वे , दे॒वऽजु॑ष्टं ॥
भर॒द्यदि॒ विरतो॒ वेवि॑जानः प॒थोरुणा॒ मनो॑जवा असर्जि । तूयं॑ ययौ॒ मधु॑ना सो॒म्येनो॒त श्रवो॑ विविदे श्ये॒नो अत्र॑ ॥
भर॑त् , यदि॑ , विः , अतः॑ , वेवि॑जानः , प॒था , उ॒रुणा॑ , मनः॑ऽजवाः , अ॒स॒र्जि॒ । तूयं॑ , य॒यौ॒ , मधु॑ना , सो॒म्येन॑ , उ॒त , श्रवः॑ , वि॒वि॒दे॒ , श्ये॒नः , अत्र॑ ॥
ऋ॒जी॒पी श्ये॒नो दद॑मानो अं॒शुं प॑रा॒वतः॑ शकु॒नो मं॒द्रं मदं॑ । सोमं॑ भरद्दादृहा॒णो दे॒वावां॑दि॒वो अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ ॥
ऋ॒जी॒पी , श्ये॒नः , दद॑मानः , अं॒शुं , प॒रा॒ऽवतः॑ , श॒कु॒नः , मं॒द्रं , मदं॑ । सोमं॑ , भ॒र॒त् , द॒दृ॒हा॒णः , दे॒वऽवा॑न् , दि॒वः , अ॒मुष्मा॑त् , उत्ऽत॑रात् , आ॒ऽदाय॑ ॥
आ॒दाय॑ श्ये॒नो अ॑भर॒त्सोमं॑ स॒हस्रं॑ स॒वाँ अ॒युतं॑ च सा॒कं । अत्रा॒ पुरं॑धिरजहा॒दरा॑ती॒र्मदे॒ सोम॑स्य मू॒रा अमू॑रः ॥
आ॒ऽदाय॑ , श्ये॒नः , अ॒भ॒र॒त् , सोमं॑ , स॒हस्रं॑ , स॒वान् , अ॒युतं॑ , च॒ , सा॒कं । अत्र॑ , पुरं॑ऽधिः , अ॒ज॒हा॒त् , अरा॑तीः , मदे॑ , सोम॑स्य , मू॒राः , अमू॑रः ॥
[२७] गर्भेन्विति पंचर्चस्य सूक्तस्य गौतमोवामदेवः श्येनस्त्रिष्टुबंत्याशक्वरी (परानवाष्टौवेत्यनुक्रमण्या मुक्तेरधश्वेतमित्यस्यां पाक्षिकींद्रदेवता यदिश्येनदेवतायाअष्टर्चत्वंस्वीकृतंचेत्) |
गर्भे॒ नु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा॑ । श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयं ॥
गर्भे॑ , नु , सन् , अनु॑ , ए॒षां॒ , अ॒वे॒दं॒ , अ॒हं , दे॒वानां॑ , जनि॑मानि , विश्वा॑ । श॒तं , मा॒ , पुरः॑ , आय॑सीः , अ॒र॒क्ष॒न् , अध॑ , श्ये॒नः , ज॒वसा॑ , निः , अ॒दी॒यं॒ ॥
न घा॒ स मामप॒ जोषं॑ जभारा॒भीमा॑स॒ त्वक्ष॑सा वी॒र्ये॑ण । ई॒र्मा पुरं॑धिरजहा॒दरा॑तीरु॒त वाताँ॑ अतर॒च्छूशु॑वानः ॥
न , घ॒ , सः , मां , अप॑ , जोषं॑ , ज॒भा॒र॒ , अ॒भि , ईं॒ , आ॒स॒ , त्वक्ष॑सा , वी॒र्ये॑ण । ई॒र्मा , पुरं॑ऽधिः , अ॒ज॒हा॒त् , अरा॑तीः , उ॒त , वाता॑न् , अ॒त॒र॒त् , शूशु॑वानः ॥
अव॒ यच्छ्ये॒नो अस्व॑नी॒दध॒ द्योर्वि यद्यदि॒ वात॑ ऊ॒हुः पुरं॑धिं । सृ॒जद्यद॑स्मा॒ अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन् ॥
अव॑ , यत् , श्ये॒नः , अस्व॑नीत् , अध॑ , द्योः , वि , यत् , यदि॑ , वा॒ , अतः॑ , ऊ॒हुः , पुरं॑ऽधिं । सृ॒जत् , यत् , अ॒स्मै॒ , अव॑ , ह॒ , क्षि॒पत् , ज्यां , कृ॒शानुः॑ , अस्ता॑ , मन॑सा , भु॒र॒ण्यन् ॥
ऋ॒जि॒प्य ई॒मिंद्रा॑वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो अधि॒ ष्णोः । अं॒तः प॑तत्पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद्वेः ॥
ऋ॒जि॒प्यः , ईं॒ , इंद्र॑ऽवतः , न , भु॒ज्युं , श्ये॒नः , ज॒भा॒र॒ , बृ॒ह॒तः , अधि॑ , स्नोः । अं॒तरिति॑ , प॒त॒त् , प॒त॒त्रि , अ॒स्य॒ , प॒र्णं , अध॑ , याम॑नि , प्रऽसि॑तस्य , तत् , वेरिति॒ वेः ॥
अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा॑पिप्या॒नं म॒घवा॑ शु॒क्रमंधः॑ । अ॒ध्व॒र्युभिः॒ प्रय॑तं॒ मध्वो॒ अग्र॒मिंद्रो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै॒ शूरो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै ॥
अध॑ , श्वे॒तं , क॒लशं॑ , गोभिः॑ , अ॒क्तं , आ॒ऽपि॒प्या॒नं , म॒घऽवा॑ , शु॒क्रं , अंधः॑ । अ॒ध्व॒र्युऽभिः॑ , प्रऽय॑तं , मध्वः॑ , अग्रं॑ , इंद्रः॑ , मदा॑य , प्रति॑ , ध॒त् , पिब॑ध्यै , शूरः॑ , मदा॑य , प्रति॑ , ध॒त् , पिब॑ध्यै ॥
[२८] त्वायुजेति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रत्रिष्टुप् (इंद्रासोमौवा देवते) |
त्वा यु॒जा तव॒ तत्सो॑म स॒ख्य इंद्रो॑ अ॒पो मन॑वे स॒स्रुत॑स्कः । अह॒न्नहि॒मरि॑णात्स॒प्त सिंधू॒नपा॑वृणो॒दपि॑हितेव॒ खानि॑ ॥
त्वा , यु॒जा , तव॑ , तत् , सो॒म॒ , स॒ख्ये , इंद्रः॑ , अ॒पः , मन॑वे , स॒ऽस्रुतः॑ , क॒रिति॑ कः । अह॑न् , अहिं॑ , अरि॑णात् , स॒प्त , सिंधू॑न् , अप॑ , अ॒वृ॒णो॒त् , अपि॑हिताऽइव , खानि॑ ॥
त्वा यु॒जा नि खि॑द॒त्सूर्य॒स्येंद्र॑श्च॒क्रं सह॑सा स॒द्य इं॑दो । अधि॒ ष्णुना॑ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि ॥
त्वा , यु॒जा , नि , खि॒द॒त् , सूर्य॑स्य , इंद्रः॑ , च॒क्रं , सह॑सा , स॒द्यः , इं॒दो॒ इति॑ । अधि॑ , स्नुना॑ , बृ॒ह॒ता , वर्त॑मानं , म॒हः , द्रु॒हः , अप॑ , वि॒श्वऽआ॑यु , धा॒यि॒ ॥
अह॒न्निंद्रो॒ अद॑हद॒ग्निरिं॑दो पु॒रा दस्यू॑न्म॒ध्यंदि॑नाद॒भीके॑ । दु॒र्गे दु॑रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब॑र्हीत् ॥
अह॑न् , इंद्रः॑ , अद॑हत् , अ॒ग्निः , इं॒दो॒ इति॑ , पु॒रा , दस्यू॑न् , म॒ध्यंदि॑नात् , अ॒भीके॑ । दुः॒ऽगे , दु॒रो॒णे , क्रत्वा॑ , न , या॒तां , पु॒रु , स॒हस्रा॑ , शर्वा॑ , नि , ब॒र्ही॒त् ॥
विश्व॑स्मात्सीमध॒माँ इं॑द्र॒ दस्यू॒न्विशो॒ दासी॑रकृणोरप्रश॒स्ताः । अबा॑धेथा॒ममृ॑णतं॒ नि शत्रू॒नविं॑देथा॒मप॑चितिं॒ वध॑त्रैः ॥
विश्व॑स्मात् , सीं॒ , अ॒ध॒मान् , इं॒द्र॒ , दस्यू॑न् , विशः॑ , दासीः॑ , अ॒कृ॒णोः॒ , अ॒प्र॒ऽश॒स्ताः । अबा॑धेथां , अमृ॑णतं , नि , शत्रू॑न् , अविं॑देथां , अप॑ऽचितिं , वध॑त्रैः ॥
ए॒वा स॒त्यं म॑घवाना यु॒वं तदिंद्र॑श्च सोमो॒र्वमश्व्यं॒ गोः । आद॑र्दृत॒मपि॑हिता॒न्यश्ना॑ रिरि॒चथुः॒ क्षाश्चि॑त्ततृदा॒ना ॥
ए॒व , स॒त्यं , म॒घ॒ऽवा॒ना॒ , यु॒वं , तत् , इंद्रः॑ , च॒ , सो॒म॒ , ऊ॒र्वं , अश्व्यं॑ , गोः । आ , अ॒द॒र्दृ॒तं॒ , अपि॑ऽहितानि , अश्ना॑ , रि॒रि॒चथुः॑ , क्षाः , चि॒त् , त॒तृ॒दा॒ना ॥
[२९] आनःस्तुतइति पंचर्चस्य सूक्तस्य गौतमोवामदेव इंद्रस्त्रिष्टुप् |
आ नः॑ स्तु॒त उप॒ वाजे॑भिरू॒ती इंद्र॑ या॒हि हरि॑भिर्मंदसा॒नः । ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्यां॑गू॒षेभि॑र्गृणा॒नः स॒त्यरा॑धाः ॥
आ , नः॒ , स्तु॒तः , उप॑ , वाजे॑भिः , ऊ॒ती , इंद्र॑ , या॒हि , हरि॑ऽभिः , मं॒द॒सा॒नः । ति॒रः , चि॒त् , अ॒र्यः , सव॑ना , पु॒रूणि॑ , आं॒गू॒षेभिः॑ , गृ॒णा॒नः , स॒त्यऽरा॑धाः ॥
आ हि ष्मा॒ याति॒ नर्य॑श्चिकि॒त्वान्हू॒यमा॑नः सो॒तृभि॒रुप॑ य॒ज्ञं । स्वश्वो॒ यो अभी॑रु॒र्मन्य॑मानः सुष्वा॒णेभि॒र्मद॑ति॒ सं ह॑ वी॒रैः ॥
आ , हि , स्म॒ , याति॑ , नर्यः॑ , चि॒कि॒त्वान् , हू॒यमा॑नः , सो॒तृऽभिः॑ , उप॑ , य॒ज्ञं । सु॒ऽअश्वः॑ , यः , अभी॑रुः , मन्य॑मानः , सु॒स्वा॒णेभिः॑ , मद॑ति , सं , ह॒ , वी॒रैः ॥
श्रा॒वयेद॑स्य॒ कर्णा॑ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं॑ मंद॒यध्यै॑ । उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न्कर॑न्न॒ इंद्रः॑ सुती॒र्थाभ॑यं च ॥
श्र॒वय॑ , इत् , अ॒स्य॒ , कर्णा॑ , वा॒ज॒यध्यै॑ , जुष्टां॑ , अनु॑ , प्र , दिशं॑ , मं॒द॒यध्यै॑ । उ॒त्ऽव॒वृ॒षा॒णः , राध॑से , तुवि॑ष्मान् , कर॑त् , नः॒ , इंद्रः॑ , सु॒ऽती॒र्था , अभ॑यं , च॒ ॥
अच्छा॒ यो गंता॒ नाध॑मानमू॒ती इ॒त्था विप्रं॒ हव॑मानं गृ॒णंतं॑ । उप॒ त्मनि॒ दधा॑नो धु॒र्या॒३॒॑शूंत्स॒हस्रा॑णि श॒तानि॒ वज्र॑बाहुः ॥
अच्छ॑ , यः , गंता॑ , नाध॑मानं , ऊ॒ती , इ॒त्था , विप्रं॑ , हव॑मानं , गृ॒णंतं॑ । उप॑ , त्मनि॑ , दधा॑नः , धु॒रि , आ॒शून् , स॒हस्रा॑णि , श॒तानि॑ , वज्र॑ऽबाहुः ॥
त्वोता॑सो मघवन्निंद्र॒ विप्रा॑ व॒यं ते॑ स्याम सू॒रयो॑ गृ॒णंतः॑ । भे॒जा॒नासो॑ बृ॒हद्दि॑वस्य रा॒य आ॑का॒य्य॑स्य दा॒वने॑ पुरु॒क्षोः ॥
त्वाऽऊ॑तासः , म॒घ॒ऽव॒न् , इं॒द्र॒ , विप्राः॑ , व॒यं , ते॒ , स्या॒म॒ , सू॒रयः॑ , गृ॒णंतः॑ । भे॒जा॒नासः॑ , बृ॒हत्ऽदि॑वस्य , रा॒यः , आ॒ऽका॒य्य॑स्य , दा॒वने॑ , पु॒रु॒ऽक्षोः ॥
[३०] नकिरिंद्रेति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेवइंद्रः नवम्यादितिसृणामिंद्रोषसौगायत्री अष्टम्यंत्ये अनुष्टुभौ |
नकि॑रिंद्र॒ त्वदुत्त॑रो॒ न ज्यायाँ॑ अस्ति वृत्रहन् । नकि॑रे॒वा यथा॒ त्वं ॥
नकिः॑ , इं॒द्र॒ , त्वत् , उत्ऽत॑रः , न , ज्याया॑न् , अ॒स्ति॒ , वृ॒त्र॒ऽह॒न् । नकिः॑ , ए॒व , यथा॑ , त्वं ॥
स॒त्रा ते॒ अनु॑ कृ॒ष्टयो॒ विश्वा॑ च॒क्रेव॑ वावृतुः । स॒त्रा म॒हाँ अ॑सि श्रु॒तः ॥
स॒त्रा , ते॒ , अनु॑ , कृ॒ष्टयः॑ , विश्वा॑ , च॒क्राऽइ॑व , व॒वृ॒तुः॒ । स॒त्रा , म॒हान् , अ॒सि॒ , श्रु॒तः ॥
विश्वे॑ च॒नेद॒ना त्वा॑ दे॒वास॑ इंद्र युयुधुः । यदहा॒ नक्त॒माति॑रः ॥
विश्वे॑ , च॒न , इत् , अ॒ना , त्वा॒ , दे॒वासः॑ , इं॒द्र॒ , यु॒यु॒धुः॒ । यत् , अहा॑ , नक्तं॑ , आ , अति॑रः ॥
यत्रो॒त बा॑धि॒तेभ्य॑श्च॒क्रं कुत्सा॑य॒ युध्य॑ते । मु॒षा॒य इं॑द्र॒ सूर्यं॑ ॥
यत्र॑ , उ॒त , बा॒धि॒तेभ्यः॑ , च॒क्रं , कुत्सा॑य , युध्य॑ते । मु॒षा॒यः , इं॒द्र॒ , सूर्यं॑ ॥
यत्र॑ दे॒वाँ ऋ॑घाय॒तो विश्वाँ॒ अयु॑ध्य॒ एक॒ इत् । त्वमिं॑द्र व॒नूँरह॑न् ॥
यत्र॑ , दे॒वान् , ऋ॒घा॒य॒तः , विश्वा॑न् , अयु॑ध्यः , एकः॑ , इत् । त्वं , इं॒द्र॒ , व॒नून् , अह॑न् ॥
यत्रो॒त मर्त्या॑य॒ कमरि॑णा इंद्र॒ सूर्यं॑ । प्रावः॒ शची॑भि॒रेत॑शं ॥
यत्र॑ , उ॒त , मर्त्या॑य , कं , अरि॑णाः , इं॒द्र॒ , सूर्यं॑ । प्र , आ॒वः॒ , शची॑भिः , एत॑शं ॥
किमादु॒तासि॑ वृत्रह॒न्मघ॑वन्मन्यु॒मत्त॑मः । अत्राह॒ दानु॒माति॑रः ॥
किं , आत् , उ॒त , अ॒सि॒ , वृ॒त्र॒ऽह॒न् , मघ॑ऽवन् , म॒न्यु॒मत्ऽत॑मः । अत्र॑ , अह॑ , दानुं॑ , आ , अ॒ति॒रः॒ ॥
ए॒तद्घेदु॒त वी॒र्य१॒॑मिंद्र॑ च॒कर्थ॒ पौंस्यं॑ । स्त्रियं॒ यद्दु॑र्हणा॒युवं॒ वधी॑र्दुहि॒तरं॑ दि॒वः ॥
ए॒तत् , घ॒ , इत् , उ॒त , वी॒र्यं॑ , इंद्र॑ , च॒कर्थ॑ , पौंस्यं॑ । स्त्रियं॑ , यत् , दुः॒ऽह॒ना॒युवं॑ , वधीः॑ , दु॒हि॒तरं॑ , दि॒वः ॥
दि॒वश्चि॑द्घा दुहि॒तरं॑ म॒हान्म॑ही॒यमा॑नां । उ॒षास॑मिंद्र॒ सं पि॑णक् ॥
दि॒वः , चि॒त् , घ॒ , दु॒हि॒तरं॑ , म॒हान् , म॒ही॒यमा॑नां । उ॒षसं॑ , इं॒द्र॒ , सं , पि॒ण॒क् ॥
अपो॒षा अन॑सः सर॒त्संपि॑ष्टा॒दह॑ बि॒भ्युषी॑ । नि यत्सीं॑ शि॒श्नथ॒द्वृषा॑ ॥
अप॑ , उ॒षाः , अन॑सः , सर॑त् , संऽपि॑ष्टात् , अह॑ , बि॒भ्युषी॑ । नि , यत् , सीं॒ , शि॒श्नथ॑त् , वृषा॑ ॥
ए॒तद॑स्या॒ अनः॑ शये॒ सुसं॑पिष्टं॒ विपा॒श्या । स॒सार॑ सीं परा॒वतः॑ ॥
ए॒तत् , अ॒स्याः॒ , अनः॑ , श॒ये॒ , सुऽसं॑पिष्टं , विऽपा॑शि , आ । स॒सार॑ , सीं॒ , प॒रा॒ऽवतः॑ ॥
उ॒त सिंधुं॑ विबा॒ल्यं॑ वितस्था॒नामधि॒ क्षमि॑ । परि॑ ष्ठा इंद्र मा॒यया॑ ॥
उ॒त , सिंधुं॑ , वि॒ऽबा॒ल्यं॑ , वि॒ऽत॒स्था॒नां , अधि॑ , क्षमि॑ । परि॑ , स्थाः॒ , इं॒द्र॒ , मा॒यया॑ ॥
उ॒त शुष्ण॑स्य धृष्णु॒या प्र मृ॑क्षो अ॒भि वेद॑नं । पुरो॒ यद॑स्य संपि॒णक् ॥
उ॒त , शुष्ण॑स्य , धृ॒ष्णु॒ऽया , प्र , मृ॒क्षः॒ , अ॒भि , वेद॑नं । पुरः॑ , यत् , अ॒स्य॒ , सं॒ऽपि॒णक् ॥
उ॒त दा॒सं कौ॑लित॒रं बृ॑ह॒तः पर्व॑ता॒दधि॑ । अवा॑हन्निंद्र॒ शंब॑रं ॥
उ॒त , दा॒सं , कौ॒लि॒ऽत॒रं , बृ॒ह॒तः , पर्व॑तात् , अधि॑ । अव॑ , अ॒ह॒न् , इं॒द्र॒ , शंब॑रं ॥
उ॒त दा॒सस्य॑ व॒र्चिनः॑ स॒हस्रा॑णि श॒ताव॑धीः । अधि॒ पंच॑ प्र॒धीँरि॑व ॥
उ॒त , दा॒सस्य॑ , व॒र्चिनः॑ , स॒हस्रा॑णि , श॒ता , अ॒व॒धीः॒ । अधि॑ , पंच॑ , प्र॒धीन्ऽइ॑व ॥
उ॒त त्यं पु॒त्रम॒ग्रुवः॒ परा॑वृक्तं श॒तक्र॑तुः । उ॒क्थेष्विंद्र॒ आभ॑जत् ॥
उ॒त , त्यं , पु॒त्रं , अ॒ग्रुवः॑ , परा॑ऽवृक्तं , श॒तऽक्र॑तुः । उ॒क्थेषु॑ , इंद्रः॑ , आ , अ॒भ॒ज॒त् ॥
उ॒त त्या तु॒र्वशा॒यदू॑ अस्ना॒तारा॒ शची॒पतिः॑ । इंद्रो॑ वि॒द्वाँ अ॑पारयत् ॥
उ॒त , त्या , तु॒र्वशा॒यदू॒ इति॑ , अ॒स्ना॒तारा॑ , शची॒३॒॑ऽपतिः॑ । इंद्रः॑ , वि॒द्वान् , अ॒पा॒र॒य॒त् ॥
उ॒त त्या स॒द्य आर्या॑ स॒रयो॑रिंद्र पा॒रतः॑ । अर्णा॑चि॒त्रर॑थावधीः ॥
उ॒त , त्या , स॒द्यः , आर्या॑ , स॒रयोः॑ , इं॒द्र॒ , पा॒रतः॑ । अर्णा॑चि॒त्रर॑था , अ॒व॒धीः॒ ॥
अनु॒ द्वा ज॑हि॒ता न॑यो॒ऽन्धं श्रो॒णं च॑ वृत्रहन् । न तत्ते॑ सु॒म्नमष्ट॑वे ॥
अनु॑ , द्वा , ज॒हि॒ता , न॒यः॒ , अं॒धं , श्रो॒णं , च॒ , वृ॒त्र॒ऽह॒न् । न , तत् , ते॒ , सु॒म्नं , अष्ट॑वे ॥
श॒तम॑श्म॒न्मयी॑नां पु॒रामिंद्रो॒ व्या॑स्यत् । दिवो॑दासाय दा॒शुषे॑ ॥
श॒तं , अ॒श्म॒न्ऽमयी॑नां , पु॒रां , इंद्रः॑ , वि , आ॒स्य॒त् । दिवः॑ऽदासाय , दा॒शुषे॑ ॥
अस्वा॑पयद्द॒भीत॑ये स॒हस्रा॑ त्रिं॒शतं॒ हथैः॑ । दा॒साना॒मिंद्रो॑ मा॒यया॑ ॥
अस्वा॑पयत् , द॒भीत॑ये , स॒हस्रा॑ , त्रिं॒शतं॑ , हथैः॑ । दा॒सानां॑ , इंद्रः॑ , मा॒यया॑ ॥
स घेदु॒तासि॑ वृत्रहंत्समा॒न इं॑द्र॒ गोप॑तिः । यस्ता विश्वा॑नि चिच्यु॒षे ॥
सः , घ॒ , इत् , उ॒त , अ॒सि॒ , वृ॒त्र॒ऽह॒न् , स॒मा॒नः , इं॒द्र॒ , गोऽप॑तिः । यः , ता , विश्वा॑नि , चि॒च्यु॒षे ॥
उ॒त नू॒नं यदिं॑द्रि॒यं क॑रि॒ष्या इं॑द्र॒ पौंस्यं॑ । अ॒द्या नकि॒ष्टदा मि॑नत् ॥
उ॒त , नू॒नं , यत् , इं॒द्रि॒यं , क॒रि॒ष्याः , इं॒द्र॒ , पौंस्यं॑ । अ॒द्य , नकिः॑ , तत् , आ , मि॒न॒त् ॥
वा॒मंवा॑मं त आदुरे दे॒वो द॑दात्वर्य॒मा । वा॒मं पू॒षा वा॒मं भगो॑ वा॒मं दे॒वः करू॑ळती ॥
वा॒मंऽवा॑मं , ते॒ , आ॒ऽदु॒रे॒ , दे॒वः , द॒दा॒तु॒ , अ॒र्य॒मा । वा॒मं , पू॒षा , वा॒मं , भगः॑ , वा॒मं , दे॒वः , करू॑ळती ॥
[३१] कयानइति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवइंद्रोगायत्री तृतीयापादनिचृत् |
कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑ । कया॒ शचि॑ष्ठया वृ॒ता ॥
कया॑ , नः॒ , चि॒त्रः , आ , भु॒व॒त् , ऊ॒ती , स॒दाऽवृ॑धः , सखा॑ । कया॑ , शचि॑ष्ठया , वृ॒ता ॥
कस्त्वा॑ स॒त्यो मदा॑नां॒ मंहि॑ष्ठो मत्स॒दंध॑सः । दृ॒ळ्हा चि॑दा॒रुजे॒ वसु॑ ॥
कः , त्वा॒ , स॒त्यः , मदा॑नां , मंहि॑ष्ठः , म॒त्स॒त् , अंध॑सः । दृ॒ळ्हा , चि॒त् , आ॒ऽरुजे॑ , वसु॑ ॥
अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णां । श॒तं भ॑वास्यू॒तिभिः॑ ॥
अ॒भि , सु , नः॒ , सखी॑नां , अ॒वि॒ता , ज॒रि॒तॄ॒णां । श॒तं , भ॒वा॒सि॒ , ऊ॒तिऽभिः॑ ॥
अ॒भी न॒ आ व॑वृत्स्व च॒क्रं न वृ॒त्तमर्व॑तः । नि॒युद्भि॑श्चर्षणी॒नां ॥
अ॒भि , नः॒ , आ , व॒वृ॒त्स्व॒ , च॒क्रं , न , वृ॒त्तं , अर्व॑तः । नि॒युत्ऽभिः॑ , च॒र्ष॒णी॒नां ॥
प्र॒वता॒ हि क्रतू॑ना॒मा हा॑ प॒देव॒ गच्छ॑सि । अभ॑क्षि॒ सूर्ये॒ सचा॑ ॥
प्र॒ऽवता॑ , हि , क्रतू॑नां , आ , ह॒ , प॒दाऽइ॑व , गच्छ॑सि । अभ॑क्षि , सूर्ये॑ , सचा॑ ॥
सं यत्त॑ इंद्र म॒न्यवः॒ सं च॒क्राणि॑ दधन्वि॒रे । अध॒ त्वे अध॒ सूर्ये॑ ॥
सं , यत् , ते॒ , इं॒द्र॒ , म॒न्यवः॑ , सं , च॒क्राणि॑ , द॒ध॒न्वि॒रे । अध॑ , त्वे इति॑ , अध॑ , सूर्ये॑ ॥
उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा॑नं शचीपते । दाता॑र॒मवि॑दीधयुं ॥
उ॒त , स्म॒ , हि , त्वां , आ॒हुः , इत् , म॒घऽवा॑नं , श॒ची॒ऽप॒ते॒ । दाता॑रं , अवि॑ऽदीधयुं ॥
उ॒त स्मा॑ स॒द्य इत्परि॑ शशमा॒नाय॑ सुन्व॒ते । पु॒रू चि॑न्मंहसे॒ वसु॑ ॥
उ॒त , स्म॒ , स॒द्यः , इत् , परि॑ , श॒श॒मा॒नाय॑ , सु॒न्व॒ते । पु॒रु , चि॒त् , मं॒ह॒से॒ , वसु॑ ॥
न॒हि ष्मा॑ ते श॒तं च॒न राधो॒ वरं॑त आ॒मुरः॑ । न च्यौ॒त्नानि॑ करिष्य॒तः ॥
न॒हि , स्म॒ , ते॒ , श॒तं , च॒न , राधः॑ , वरं॑ते , आ॒ऽमुरः॑ । न , च्यौ॒त्नानि॑ , क॒रि॒ष्य॒तः ॥
अ॒स्माँ अ॑वंतु ते श॒तम॒स्मांत्स॒हस्र॑मू॒तयः॑ । अ॒स्मान्विश्वा॑ अ॒भिष्ट॑यः ॥
अ॒स्मान् , अ॒वं॒तु॒ , ते॒ , श॒तं , अ॒स्मान् , स॒हस्रं॑ , ऊ॒तयः॑ । अ॒स्मान् , विश्वाः॑ , अ॒भिष्ट॑यः ॥
अ॒स्माँ इ॒हा वृ॑णीष्व स॒ख्याय॑ स्व॒स्तये॑ । म॒हो रा॒ये दि॒वित्म॑ते ॥
अ॒स्मान् , इ॒ह , वृ॒णी॒ष्व॒ , स॒ख्याय॑ , स्व॒स्तये॑ । म॒हः , रा॒ये , दि॒वित्म॑ते ॥
अ॒स्माँ अ॑विड्ढि वि॒श्वहेंद्र॑ रा॒या परी॑णसा । अ॒स्मान्विश्वा॑भिरू॒तिभिः॑ ॥
अ॒स्मान् , अ॒वि॒ड्ढि॒ , वि॒श्वहा॑ , इंद्र॑ , रा॒या , परी॑णसा । अ॒स्मान् , विश्वा॑भिः , ऊ॒तिऽभिः॑ ॥
अ॒स्मभ्यं॒ ताँ अपा॑ वृधि व्र॒जाँ अस्ते॑व॒ गोम॑तः । नवा॑भिरिंद्रो॒तिभिः॑ ॥
अ॒स्मभ्यं॑ , तान् , अप॑ , वृ॒धि॒ , व्र॒जान् , अस्ता॑ऽइव , गोऽम॑तः । नवा॑भिः , इं॒द्र॒ , ऊ॒तिऽभिः॑ ॥
अ॒स्माकं॑ धृष्णु॒या रथो॑ द्यु॒माँ इं॒द्रान॑पच्युतः । ग॒व्युर॑श्व॒युरी॑यते ॥
अ॒स्माकं॑ , धृ॒ष्णु॒ऽया , रथः॑ , द्यु॒ऽमान् , इं॒द्र॒ , अन॑पऽच्युतः । ग॒व्युः , अ॒श्व॒ऽयुः , ई॒य॒ते॒ ॥
अ॒स्माक॑मुत्त॒मं कृ॑धि॒ श्रवो॑ दे॒वेषु॑ सूर्य । वर्षि॑ष्ठं॒ द्यामि॑वो॒परि॑ ॥
अ॒स्माकं॑ , उ॒त्ऽत॒मं , कृ॒धि॒ , श्रवः॑ , दे॒वेषु॑ , सू॒र्य॒ । वर्षि॑ष्ठं , द्यांऽइ॑व , उ॒परि॑ ॥
[३२] आतूनइति चतुर्विंशत्यृचस्य सूक्तस्य गौतमोवामदेव इंद्रोंत्ययोरिंद्राश्वौगायत्री |
आ तू न॑ इंद्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि । म॒हान्म॒हीभि॑रू॒तिभिः॑ ॥
आ , तु , नः॒ , इं॒द्र॒ , वृ॒त्र॒ऽह॒न् , अ॒स्माकं॑ , अ॒र्धं , आ , ग॒हि॒ । म॒हान् , म॒हीभिः॑ , ऊ॒तिऽभिः॑ ॥
भृमि॑श्चिद्घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा । चि॒त्रं कृ॑णोष्यू॒तये॑ ॥
भृमिः॑ , चि॒त् , घ॒ , अ॒सि॒ , तूतु॑जिः , आ , चि॒त्र॒ , चि॒त्रिणी॑षु , आ । चि॒त्रं , कृ॒णो॒षि॒ , ऊ॒तये॑ ॥
द॒भ्रेभि॑श्चि॒च्छशी॑यांसं॒ हंसि॒ व्राधं॑त॒मोज॑सा । सखि॑भि॒र्ये त्वे सचा॑ ॥
द॒भ्रेभिः॑ , चि॒त् , शशी॑यांसं , हंसि॑ , व्राधं॑तं , ओज॑सा । सखि॑ऽभिः , ये , त्वे इति॑ , सचा॑ ॥
व॒यमिं॑द्र॒ त्वे सचा॑ व॒यं त्वा॒भि नो॑नुमः । अ॒स्मा॑स्माँ॒ इदुद॑व ॥
व॒यं , इं॒द्र॒ , त्वे इति॑ , सचा॑ , व॒यं , त्वा॒ , अ॒भि , नो॒नु॒मः॒ । अ॒स्मान्ऽअ॑स्मान् , इत् , उत् , अ॒व॒ ॥
स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ । अना॑धृष्टाभि॒रा ग॑हि ॥
सः , नः॒ , चि॒त्राभिः॑ , अ॒द्रि॒ऽवः॒ , अ॒न॒व॒द्याभिः॑ , ऊ॒तिऽभिः॑ । अना॑धृष्टाभिः , आ , ग॒हि॒ ॥
भू॒यामो॒ षु त्वाव॑तः॒ सखा॑य इंद्र॒ गोम॑तः । युजो॒ वाजा॑य॒ घृष्व॑ये ॥
भू॒यामो॒ इति॑ , सु , त्वाऽव॑तः , सखा॑यः , इं॒द्र॒ , गोऽम॑तः । युजः॑ , वाजा॑य , घृष्व॑ये ॥
त्वं ह्येक॒ ईशि॑ष॒ इंद्र॒ वाज॑स्य॒ गोम॑तः । स नो॑ यंधि म॒हीमिषं॑ ॥
त्वं , हि , एकः॑ , ईशि॑षे , इंद्र॑ , वाज॑स्य , गोऽम॑तः । सः , नः॒ , यं॒धि॒ , म॒हीं , इषं॑ ॥
न त्वा॑ वरंते अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घं । स्तो॒तृभ्य॑ इंद्र गिर्वणः ॥
न , त्वा॒ , व॒रं॒ते॒ , अ॒न्यथा॑ , यत् , दित्स॑सि , स्तु॒तः , म॒घं । स्तो॒तृऽभ्यः॑ , इं॒द्र॒ , गि॒र्व॒णः॒ ॥
अ॒भि त्वा॒ गोत॑मा गि॒रानू॑षत॒ प्र दा॒वने॑ । इंद्र॒ वाजा॑य॒ घृष्व॑ये ॥
अ॒भि , त्वा॒ , गोत॑माः , गि॒रा , अनू॑षत , प्र , दा॒वने॑ । इंद्र॑ , वाजा॑य , घृष्व॑ये ॥
प्र ते॑ वोचाम वी॒र्या॒३॒॑ या मं॑दसा॒न आरु॑जः । पुरो॒ दासी॑र॒भीत्य॑ ॥
प्र , ते॒ , वो॒चा॒म॒ , वी॒र्या॑ , याः , मं॒द॒सा॒नः , आ , अरु॑जः । पुरः॑ , दासीः॑ , अ॒भि॒ऽइत्य॑ ॥
ता ते॑ गृणंति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या॑ । सु॒तेष्विं॑द्र गिर्वणः ॥
ता , ते॒ , गृ॒णं॒ति॒ , वे॒धसः॑ , यानि॑ , च॒कर्थ॑ , पौंस्या॑ । सु॒तेषु॑ , इं॒द्र॒ , गि॒र्व॒णः॒ ॥
अवी॑वृधंत॒ गोत॑मा॒ इंद्र॒ त्वे स्तोम॑वाहसः । ऐषु॑ धा वी॒रव॒द्यशः॑ ॥
अवी॑वृधंत , गोत॑माः , इंद्र॑ , त्वे इति॑ , स्तोम॑ऽवाहसः । आ , ए॒षु॒ , धाः॒ , वी॒रऽव॑त् , यशः॑ ॥
यच्चि॒द्धि शश्व॑ता॒मसींद्र॒ साधा॑रण॒स्त्वं । तं त्वा॑ व॒यं ह॑वामहे ॥
यत् , चि॒त् , हि , शश्व॑तां , असि॑ , इंद्र॑ , साधा॑रणः , त्वं । तं , त्वा॒ , व॒यं , ह॒वा॒म॒हे॒ ॥
अ॒र्वा॒ची॒नो व॑सो भवा॒स्मे सु म॒त्स्वांध॑सः । सोमा॑नामिंद्र सोमपाः ॥
अ॒र्वा॒ची॒नः , व॒सो॒ इति॑ , भ॒व॒ , अ॒स्मे इति॑ , सु , म॒त्स्व॒ , अंध॑सः । सोमा॑नां , इं॒द्र॒ , सो॒म॒ऽपाः॒ ॥
अ॒स्माकं॑ त्वा मती॒नामा स्तोम॑ इंद्र यच्छतु । अ॒र्वागा व॑र्तया॒ हरी॑ ॥
अ॒स्माकं॑ , त्वा॒ , म॒ती॒नां , आ , स्तोमः॑ , इं॒द्र॒ , य॒च्छ॒तु॒ । अ॒र्वाक् , आ , व॒र्त॒य॒ , हरी॒ इति॑ ॥
पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः । व॒धू॒युरि॑व॒ योष॑णां ॥
पु॒रो॒ळाशं॑ , च॒ , नः॒ , घसः॑ , जो॒षया॑से , गिरः॑ , च॒ , नः॒ । व॒धू॒युःऽइ॑व , योष॑णां ॥
स॒हस्रं॒ व्यती॑नां यु॒क्ताना॒मिंद्र॑मीमहे । श॒तं सोम॑स्य खा॒र्यः॑ ॥
स॒हस्रं॑ , व्यती॑नां , यु॒क्तानां॑ , इंद्रं॑ , ई॒म॒हे॒ । श॒तं , सोम॑स्य , खा॒र्यः॑ ॥
स॒हस्रा॑ ते श॒ता व॒यं गवा॒मा च्या॑वयामसि । अ॒स्म॒त्रा राध॑ एतु ते ॥
स॒हस्रा॑ , ते॒ , श॒ता , व॒यं , गवां॑ , आ , च्य॒व॒या॒म॒सि॒ । अ॒स्म॒ऽत्रा , राधः॑ , ए॒तु॒ , ते॒ ॥
दश॑ ते क॒लशा॑नां॒ हिर॑ण्यानामधीमहि । भू॒रि॒दा अ॑सि वृत्रहन् ॥
दश॑ , ते॒ , क॒लशा॑नां , हिर॑ण्यानां , अ॒धी॒म॒हि॒ । भू॒रि॒ऽदाः , अ॒सि॒ , वृ॒त्र॒ऽह॒न् ॥
भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र । भूरि॒ घेदिं॑द्र दित्ससि ॥
भूरि॑ऽदाः , भूरि॑ , दे॒हि॒ , नः॒ , मा , द॒भ्रं , भूरि॑ , आ , भ॒र॒ । भूरि॑ , घ॒ , इत् , इं॒द्र॒ , दि॒त्स॒सि॒ ॥
भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू॑र वृत्रहन् । आ नो॑ भजस्व॒ राध॑सि ॥
भू॒रि॒ऽदाः , हि , असि॑ , श्रु॒तः , पु॒रु॒ऽत्रा , शू॒र॒ , वृ॒त्र॒ऽह॒न् । आ , नः॒ , भ॒ज॒स्व॒ , राध॑सि ॥
प्र ते॑ ब॒भ्रू वि॑चक्षण॒ शंसा॑मि गोषणो नपात् । माभ्यां॒ गा अनु॑ शिश्रथः ॥
प्र , ते॒ , ब॒भ्रू इति॑ , वि॒ऽच॒क्ष॒ण॒ , शंसा॑मि , गो॒ऽस॒नः॒ , न॒पा॒त् । मा , आ॒भ्यां॒ , गाः , अनु॑ , शि॒श्र॒थः॒ ॥
क॒नी॒न॒केव॑ विद्र॒धे नवे॑ द्रुप॒दे अ॑र्भ॒के । ब॒भ्रू यामे॑षु शोभेते ॥
क॒नी॒न॒काऽइ॑व , वि॒द्र॒धे , नवे॑ , द्रु॒ऽप॒दे , अ॒र्भ॒के । ब॒भ्रू इति॑ , यामे॑षु , शो॒भे॒ते॒ इति॑ ॥
अरं॑ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे । ब॒भ्रू यामे॑ष्व॒स्रिधा॑ ॥
अरं॑ , मे॒ , उ॒स्रऽया॑म्ने , अरं॑ , अनु॑स्रऽयाम्ने । ब॒भ्रू इति॑ , यामे॑षु , अ॒स्रिधा॑ ॥
[३३] प्रऋभुभ्यइत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् |
प्र ऋ॒भुभ्यो॑ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी॑ळे । ये वात॑जूतास्त॒रणि॑भि॒रेवैः॒ परि॒ द्यां स॒द्यो अ॒पसो॑ बभू॒वुः ॥
प्र , ऋ॒भुऽभ्यः॑ , दू॒तंऽइ॑व , वाचं॑ , इ॒ष्ये॒ , उ॒प॒ऽस्तिरे॑ , श्वैत॑रीं , धे॒नुं , ई॒ळे॒ । ये , वात॑ऽजूताः , त॒रणि॑ऽभिः , एवैः॑ , परि॑ , द्यां , स॒द्यः , अ॒पसः॑ , ब॒भू॒वुः ॥
य॒दार॒मक्र॑न्नृ॒भवः॑ पि॒तृभ्यां॒ परि॑विष्टी वे॒षणा॑ दं॒सना॑भिः । आदिद्दे॒वाना॒मुप॑ स॒ख्यमा॑यं॒धीरा॑सः पु॒ष्टिम॑वहन्म॒नायै॑ ॥
य॒दा , अरं॑ , अक्र॑न् , ऋ॒भवः॑ , पि॒तृऽभ्यां॑ , परि॑ऽविष्टी , वे॒षणा॑ , दं॒सना॑भिः । आत् , इत् , दे॒वानां॑ , उप॑ , स॒ख्यं , आ॒य॒न् , धीरा॑सः , पु॒ष्टिं , अ॒व॒ह॒न् , म॒नायै॑ ॥
पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा॑ना॒ सना॒ यूपे॑व जर॒णा शया॑ना । ते वाजो॒ विभ्वाँ॑ ऋ॒भुरिंद्र॑वंतो॒ मधु॑प्सरसो नोऽवंतु य॒ज्ञं ॥
पुनः॑ , ये , च॒क्रुः , पि॒तरा॑ , युवा॑ना , सना॑ , यूपा॑ऽइव , ज॒र॒णा , शया॑ना । ते , वाजः॑ , विऽभ्वा॑ , ऋ॒भुः , इंद्र॑ऽवंतः , मधु॑ऽप्सरसः , नः॒ , अ॒वं॒तु॒ , य॒ज्ञं ॥
यत्सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒ मा अपिं॑शन् । यत्सं॒वत्स॒मभ॑र॒न्भासो॑ अस्या॒स्ताभिः॒ शमी॑भिरमृत॒त्वमा॑शुः ॥
यत् , सं॒ऽवत्सं॑ , ऋ॒भवः॑ , गां , अर॑क्षन् , यत् , सं॒ऽवत्सं॑ , ऋ॒भवः॑ , माः , अपिं॑शन् । यत् , सं॒ऽवत्सं॑ , अभ॑रन् , भासः॑ , अ॒स्याः॒ , ताभिः॑ , शमी॑भिः , अ॒मृ॒त॒ऽत्वं , आ॒शुः॒ ॥
ज्ये॒ष्ठ आ॑ह चम॒सा द्वा क॒रेति॒ कनी॑यां॒त्रीन्कृ॑णवा॒मेत्या॑ह । क॒नि॒ष्ठ आ॑ह च॒तुर॑स्क॒रेति॒ त्वष्ट॑ ऋभव॒स्तत्प॑नय॒द्वचो॑ वः ॥
ज्ये॒ष्ठः , आ॒ह॒ , च॒म॒सा , द्वा , क॒र॒ , इति॑ , कनी॑यान् , त्रीन् , कृ॒ण॒वा॒म॒ , इति॑ , आ॒ह॒ । क॒नि॒ष्ठः , आ॒ह॒ , च॒तुरः॑ , क॒र॒ , इति॑ , त्वष्टा॑ , ऋ॒भ॒वः॒ , तत् , प॒न॒य॒त् , वचः॑ , वः॒ ॥
स॒त्यमू॑चु॒र्नर॑ ए॒वा हि च॒क्रुरनु॑ स्व॒धामृ॒भवो॑ जग्मुरे॒तां । वि॒भ्राज॑मानाँश्चम॒साँ अहे॒वावे॑न॒त्त्वष्टा॑ च॒तुरो॑ ददृ॒श्वान् ॥
स॒त्यं , ऊ॒चुः॒ , नरः॑ , ए॒व , हि , च॒क्रुः , अनु॑ , स्व॒धां , ऋ॒भवः॑ , ज॒ग्मुः॒ , ए॒तां । वि॒ऽभ्राज॑मानान् , च॒म॒सान् , अहा॑ऽइव , अवे॑नत् , त्वष्टा॑ , च॒तुरः॑ , द॒दृ॒श्वान् ॥
द्वाद॑श॒ द्यून्यदगो॑ह्यस्याति॒थ्ये रण॑न्नृ॒भवः॑ स॒संतः॑ । सु॒क्षेत्रा॑कृण्व॒न्नन॑यंत॒ सिंधूं॒धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ ॥
द्वाद॑श , द्यून् , यत् , अगो॑ह्यस्य , आ॒ति॒थ्ये , रण॑न् , ऋ॒भवः॑ , स॒संतः॑ । सु॒ऽक्षेत्रा॑ , अ॒कृ॒ण्व॒न् , अन॑यंत , सिंधू॑न् , धन्व॑ , आ , अ॒ति॒ष्ठ॒न् , ओष॑धीः , नि॒म्नं , आपः॑ ॥
रथं॒ ये च॒क्रुः सु॒वृतं॑ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं॑ वि॒श्वरू॑पां । त आ त॑क्षंत्वृ॒भवो॑ र॒यिं नः॒ स्वव॑सः॒ स्वप॑सः सु॒हस्ताः॑ ॥
रथं॑ , ये , च॒क्रुः , सु॒ऽवृतं॑ , न॒रे॒ऽस्थां , ये , धे॒नुं , वि॒श्व॒ऽजुवं॑ , वि॒श्वऽरू॑पां । ते , आ , त॒क्षं॒तु॒ , ऋ॒भवः॑ , र॒यिं , नः॒ , सु॒ऽअव॑सः , सु॒ऽअप॑सः , सु॒ऽहस्ताः॑ ॥
अपो॒ ह्ये॑षा॒मजु॑षंत दे॒वा अ॒भि क्रत्वा॒ मन॑सा॒ दीध्या॑नाः । वाजो॑ दे॒वाना॑मभवत्सु॒कर्मेंद्र॑स्य ऋभु॒क्षा वरु॑णस्य॒ विभ्वा॑ ॥
अपः॑ , हि , ए॒षां॒ , अजु॑षंत , दे॒वाः , अ॒भि , क्रत्वा॑ , मन॑सा , दीध्या॑नाः । वाजः॑ , दे॒वानां॑ , अ॒भ॒व॒त् , सु॒ऽकर्मा॑ , इंद्र॑स्य , ऋ॒भु॒क्षाः , वरु॑णस्य , विऽभ्वा॑ ॥
ये हरी॑ मे॒धयो॒क्था मदं॑त॒ इंद्रा॑य च॒क्रुः सु॒युजा॒ ये अश्वा॑ । ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः क्षेम॒यंतो॒ न मि॒त्रं ॥
ये , हरी॒ इति॑ , मे॒धया॑ , उ॒क्था , मदं॑तः , इंद्रा॑य , च॒क्रुः , सु॒ऽयुजा॑ , ये , अश्वा॑ । ते , रा॒यः , पोषं॑ , द्रवि॑णानि , अ॒स्मे इति॑ , ध॒त्त , ऋ॒भ॒वः॒ , क्षे॒म॒ऽयंतः॑ , न , मि॒त्रं ॥
इ॒दाह्नः॑ पी॒तिमु॒त वो॒ मदं॑ धु॒र्न ऋ॒ते श्रां॒तस्य॑ स॒ख्याय॑ दे॒वाः । ते नू॒नम॒स्मे ऋ॑भवो॒ वसू॑नि तृ॒तीये॑ अ॒स्मिंत्सव॑ने दधात ॥
इ॒दा , अह्नः॑ , पी॒तिं , उ॒त , वः॒ , मदं॑ , धुः॒ , न , ऋ॒ते , श्रां॒तस्य॑ , स॒ख्याय॑ , दे॒वाः । ते , नू॒नं , अ॒स्मे इति॑ , ऋ॒भ॒वः॒ , वसू॑नि , तृ॒तीये॑ , अ॒स्मिन् , सव॑ने , द॒धा॒त॒ ॥
[३४] ऋभुर्विभ्वेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेव ऋभवस्त्रिष्टुप् |
ऋ॒भुर्विभ्वा॒ वाज॒ इंद्रो॑ नो॒ अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात । इ॒दा हि वो॑ धि॒षणा॑ दे॒व्यह्ना॒मधा॑त्पी॒तिं सं मदा॑ अग्मता वः ॥
ऋ॒भुः , विऽभ्वा॑ , वाजः॑ , इंद्रः॑ , नः॒ , अच्छ॑ , इ॒मं , य॒ज्ञं , र॒त्न॒ऽधेया॑ , उप॑ , या॒त॒ । इ॒दा , हि , वः॒ , धि॒षणा॑ , दे॒वी , अह्नां॑ , अधा॑त् , पी॒तिं , सं , मदाः॑ , अ॒ग्म॒त॒ , वः॒ ॥
वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना उ॒त ऋ॒तुभि॑र्ऋभवो मादयध्वं । सं वो॒ मदा॒ अग्म॑त॒ सं पुरं॑धिः सु॒वीरा॑म॒स्मे र॒यिमेर॑यध्वं ॥
वि॒दा॒नासः॑ , जन्म॑नः , वा॒ज॒ऽर॒त्नाः॒ , उ॒त , ऋ॒तुऽभिः॑ , ऋ॒भ॒वः॒ , मा॒द॒य॒ध्वं॒ । सं , वः॒ , मदाः॑ , अग्म॑त , सं , पुरं॑ऽधिः , सु॒ऽवीरां॑ , अ॒स्मे इति॑ , र॒यिं , आ , ई॒र॒य॒ध्वं॒ ॥
अ॒यं वो॑ य॒ज्ञ ऋ॑भवोऽकारि॒ यमा म॑नु॒ष्वत्प्र॒दिवो॑ दधि॒ध्वे । प्र वोऽच्छा॑ जुजुषा॒णासो॑ अस्थु॒रभू॑त॒ विश्वे॑ अग्रि॒योत वा॑जाः ॥
अ॒यं , वः॒ , य॒ज्ञः , ऋ॒भ॒वः॒ , अ॒का॒रि॒ , यं , आ , म॒नु॒ष्वत् , प्र॒ऽदिवः॑ , द॒धि॒ध्वे । प्र , वः॒ , अच्छ॑ , जु॒जु॒षा॒णासः॑ , अ॒स्थुः॒ , अभू॑त , विश्वे॑ , अ॒ग्रि॒या , उ॒त , वा॒जाः॒ ॥
अभू॑दु वो विध॒ते र॑त्न॒धेय॑मि॒दा न॑रो दा॒शुषे॒ मर्त्या॑य । पिब॑त वाजा ऋभवो द॒दे वो॒ महि॑ तृ॒तीयं॒ सव॑नं॒ मदा॑य ॥
अभू॑त् , ऊँ॒ इति॑ , वः॒ , वि॒ध॒ते , र॒त्न॒ऽधेयं॑ , इ॒दा , न॒रः॒ , दा॒शुषे॑ , मर्त्या॑य । पिब॑त , वा॒जाः॒ , ऋ॒भ॒वः॒ , द॒दे , वः॒ , महि॑ , तृ॒तीयं॑ , सव॑नं , मदा॑य ॥
आ वा॑जा या॒तोप॑ न ऋभुक्षा म॒हो न॑रो॒ द्रवि॑णसो गृणा॒नाः । आ वः॑ पी॒तयो॑ऽभिपि॒त्वे अह्ना॑मि॒मा अस्तं॑ नव॒स्व॑ इव ग्मन् ॥
आ , वा॒जाः॒ , या॒त॒ , उप॑ , नः॒ , ऋ॒भु॒क्षाः॒ , म॒हः , न॒रः॒ , द्रवि॑णसः , गृ॒णा॒नाः । आ , वः॒ , पी॒तयः॑ , अ॒भि॒ऽपि॒त्वे , अह्नां॑ , इ॒माः , अस्तं॑ , न॒व॒स्वः॑ऽइव , ग्म॒न् ॥
आ न॑पातः शवसो यात॒नोपे॒मं य॒ज्ञं नम॑सा हू॒यमा॑नाः । स॒जोष॑सः सूरयो॒ यस्य॑ च॒ स्थ मध्वः॑ पात रत्न॒धा इंद्र॑वंतः ॥
आ , न॒पा॒तः॒ , श॒व॒सः॒ , या॒त॒न॒ , उप॑ , इ॒मं , य॒ज्ञं , नम॑सा , हू॒यमा॑नाः । स॒ऽजोष॑सः , सू॒र॒यः॒ , यस्य॑ , च॒ , स्थ , मध्वः॑ , पा॒त॒ , र॒त्न॒ऽधाः , इंद्र॑ऽवंतः ॥
स॒जोषा॑ इंद्र॒ वरु॑णेन॒ सोमं॑ स॒जोषाः॑ पाहि गिर्वणो म॒रुद्भिः॑ । अ॒ग्रे॒पाभि॑र्ऋतु॒पाभिः॑ स॒जोषा॒ ग्नास्पत्नी॑भी रत्न॒धाभिः॑ स॒जोषाः॑ ॥
स॒ऽजोषाः॑ , इं॒द्र॒ , वरु॑णेन , सोमं॑ , स॒ऽजोषाः॑ , पा॒हि॒ , गि॒र्व॒णः॒ , म॒रुत्ऽभिः॑ । अ॒ग्रे॒ऽपाभिः॑ , ऋ॒तु॒ऽपाभिः॑ , स॒ऽजोषाः॑ , ग्नाःपत्नी॑भिः , र॒त्न॒ऽधाभिः॑ , स॒ऽजोषाः॑ ॥
स॒जोष॑स आदि॒त्यैर्मा॑दयध्वं स॒जोष॑स ऋभवः॒ पर्व॑तेभिः । स॒जोष॑सो॒ दैव्ये॑ना सवि॒त्रा स॒जोष॑सः॒ सिंधु॑भी रत्न॒धेभिः॑ ॥
स॒ऽजोष॑सः , आ॒दि॒त्यैः , मा॒द॒य॒ध्वं॒ , स॒ऽजोष॑सः , ऋ॒भ॒वः॒ , पर्व॑तेभिः । स॒ऽजोष॑सः , दैव्ये॑न , स॒वि॒त्रा , स॒ऽजोष॑सः , सिंधु॑ऽभिः , र॒त्न॒ऽधेभिः॑ ॥
ये अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त॑त॒क्षुर्ऋ॒भवो॒ ये अश्वा॑ । ये अंस॑त्रा॒ य ऋध॒ग्रोद॑सी॒ ये विभ्वो॒ नरः॑ स्वप॒त्यानि॑ च॒क्रुः ॥
ये , अ॒श्विना॑ , ये , पि॒तरा॑ , ये , ऊ॒ती , धे॒नुं , त॒त॒क्षुः , ऋ॒भवः॑ , ये , अश्वा॑ । ये , अंस॑त्रा , ये , ऋध॑क् , रोद॑सी॒ इति॑ , ये , विऽभ्वः॑ , नरः॑ , सु॒ऽअ॒प॒त्यानि॑ , च॒क्रुः ॥
ये गोमं॑तं॒ वाज॑वंतं सु॒वीरं॑ र॒यिं ध॒त्थ वसु॑मंतं पुरु॒क्षुं । ते अ॑ग्रे॒पा ऋ॑भवो मंदसा॒ना अ॒स्मे ध॑त्त॒ ये च॑ रा॒तिं गृ॒णंति॑ ॥
ये , गोऽमं॑तं , वाज॑ऽवंतं , सु॒ऽवीरं॑ , र॒यिं , ध॒त्थ , वसु॑ऽमंतं , पु॒रु॒ऽक्षुं । ते , अ॒ग्रे॒ऽपाः , ऋ॒भ॒वः॒ , मं॒द॒सा॒नाः , अ॒स्मे इति॑ , ध॒त्त॒ , ये , च॒ , रा॒तिं , गृ॒णंति॑ ॥
नापा॑भूत॒ न वो॑ऽतीतृषा॒मानिः॑शस्ता ऋभवो य॒ज्ञे अ॒स्मिन् । समिंद्रे॑ण॒ मद॑थ॒ सं म॒रुद्भिः॒ सं राज॑भी रत्न॒धेया॑य देवाः ॥
न , अप॑ , अ॒भू॒त॒ , न , वः॒ , अ॒ती॒तृ॒षा॒म॒ , अनिः॑ऽशस्ताः , ऋ॒भ॒वः॒ , य॒ज्ञे , अ॒स्मिन् । सं , इंद्रे॑ण , मद॑थ , सं , म॒रुत्ऽभिः॑ , सं , राज॑ऽभिः , र॒त्न॒ऽधेया॑य , दे॒वाः॒ ॥
[३५] इहोपेति नवर्चस्य सूक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् |
इ॒होप॑ यात शवसो नपातः॒ सौध॑न्वना ऋभवो॒ माप॑ भूत । अ॒स्मिन्हि वः॒ सव॑ने रत्न॒धेयं॒ गमं॒त्विंद्र॒मनु॑ वो॒ मदा॑सः ॥
इ॒ह , उप॑ , या॒त॒ , श॒व॒सः॒ , न॒पा॒तः॒ , सौध॑न्वनाः , ऋ॒भ॒वः॒ , मा , अप॑ , भू॒त॒ । अ॒स्मिन् , हि , वः॒ , सव॑ने , र॒त्न॒ऽधेयं॑ , गमं॑तु , इंद्रं॑ , अनु॑ , वः॒ , मदा॑सः ॥
आग॑न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त्सोम॑स्य॒ सुषु॑तस्य पी॒तिः । सु॒कृ॒त्यया॒ यत्स्व॑प॒स्यया॑ चँ॒ एकं॑ विच॒क्र च॑म॒सं च॑तु॒र्धा ॥
आ , अ॒ग॒न् , ऋ॒भू॒णां , इ॒ह , र॒त्न॒ऽधेयं॑ , अभू॑त् , सोम॑स्य , सुऽसु॑तस्य , पी॒तिः । सु॒ऽकृ॒त्यया॑ , यत् , सु॒ऽअ॒प॒स्यया॑ , च॒ , एकं॑ , वि॒ऽच॒क्र , च॒म॒सं , च॒तुः॒ऽधा ॥
व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत । अथै॑त वाजा अ॒मृत॑स्य॒ पंथां॑ ग॒णं दे॒वाना॑मृभवः सुहस्ताः ॥
वि , अ॒कृ॒णो॒त॒ , च॒म॒सं , च॒तुः॒ऽधा , सखे॑ , वि , शि॒क्ष॒ , इति॑ , अ॒ब्र॒वी॒त॒ । अथ॑ , ऐ॒त॒ , वा॒जाः॒ , अ॒मृत॑स्य , पंथां॑ , ग॒णं , दे॒वानां॑ , ऋ॒भ॒वः॒ , सु॒ऽह॒स्ताः॒ ॥
किं॒मयः॑ स्विच्चम॒स ए॒ष आ॑स॒ यं काव्ये॑न च॒तुरो॑ विच॒क्र । अथा॑ सुनुध्वं॒ सव॑नं॒ मदा॑य पा॒त ऋ॑भवो॒ मधु॑नः सो॒म्यस्य॑ ॥
किं॒ऽमयः॑ , स्वि॒त् , च॒म॒सः , ए॒षः , आ॒स॒ , यं , काव्ये॑न , च॒तुरः॑ , वि॒ऽच॒क्र । अथ॑ , सु॒नु॒ध्वं॒ , सव॑नं , मदा॑य , पा॒त , ऋ॒भ॒वः॒ , मधु॑नः , सो॒म्यस्य॑ ॥
शच्या॑कर्त पि॒तरा॒ युवा॑ना॒ शच्या॑कर्त चम॒सं दे॑व॒पानं॑ । शच्या॒ हरी॒ धनु॑तरावतष्टेंद्र॒वाहा॑वृभवो वाजरत्नाः ॥
शच्या॑ , अ॒क॒र्त॒ , पि॒तरा॑ , युवा॑ना , शच्या॑ , अ॒क॒र्त॒ , च॒म॒सं , दे॒व॒ऽपानं॑ । शच्या॑ , हरी॒ इति॑ , धनु॑ऽतरौ , अ॒त॒ष्ट॒ , इं॒द्र॒ऽवाहौ॑ , ऋ॒भ॒वः॒ , वा॒ज॒ऽर॒त्नाः॒ ॥
यो वः॑ सु॒नोत्य॑भिपि॒त्वे अह्नां॑ ती॒व्रं वा॑जासः॒ सव॑नं॒ मदा॑य । तस्मै॑ र॒यिमृ॑भवः॒ सर्व॑वीर॒मा त॑क्षत वृषणो मंदसा॒नाः ॥
यः , वः॒ , सु॒नोति॑ , अ॒भि॒ऽपि॒त्वे , अह्नां॑ , ती॒व्रं , वा॒जा॒सः॒ , सव॑नं , मदा॑य । तस्मै॑ , र॒यिं , ऋ॒भ॒वः॒ , सर्व॑ऽवीरं , आ , त॒क्ष॒त॒ , वृ॒ष॒णः॒ , मं॒द॒सा॒नाः ॥
प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं॑दिनं॒ सव॑नं॒ केव॑लं ते । समृ॒भुभिः॑ पिबस्व रत्न॒धेभिः॒ सखीँ॒र्याँ इं॑द्र चकृ॒षे सु॑कृ॒त्या ॥
प्रा॒तरिति॑ , सु॒तं , अ॒पि॒बः॒ , ह॒रि॒ऽअ॒श्व॒ , माध्यं॑दिनं , सव॑नं , केव॑लं , ते॒ । सं , ऋ॒भुऽभिः॑ , पि॒ब॒स्व॒ , र॒त्न॒ऽधेभिः॑ , सखी॑न् , यान् , इं॒द्र॒ , च॒कृ॒षे , सु॒ऽकृ॒त्या ॥
ये दे॒वासो॒ अभ॑वता सुकृ॒त्या श्ये॒ना इ॒वेदधि॑ दि॒वि नि॑षे॒द । ते रत्नं॑ धात शवसो नपातः॒ सौध॑न्वना॒ अभ॑वता॒मृता॑सः ॥
ये , दे॒वासः॑ , अभ॑वत , सु॒ऽकृ॒त्या , श्ये॒नाःऽइ॑व , इत् , अधि॑ , दि॒वि , नि॒ऽसे॒द । ते , रत्नं॑ , धा॒त॒ , श॒व॒सः॒ , न॒पा॒तः॒ , सौध॑न्वनाः , अभ॑वत , अ॒मृता॑सः ॥
यत्तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः । तदृ॑भवः॒ परि॑षिक्तं व ए॒तत्सं मदे॑भिरिंद्रि॒येभिः॑ पिबध्वं ॥
यत् , तृ॒तीयं॑ , सव॑नं , र॒त्न॒ऽधेयं॑ , अकृ॑णुध्वं , सु॒ऽअ॒प॒स्या , सु॒ऽह॒स्ताः॒ । तत् , ऋ॒भ॒वः॒ , परि॑ऽसिक्तं , वः॒ , ए॒तत् , सं , मदे॑भिः , इं॒द्रि॒येभिः॑ , पि॒ब॒ध्वं॒ ॥
[३६] अनश्वोजातइति नवर्चस्य सूक्तस्य गौतमोवामदेव ऋभवो जगत्यंत्यात्रिष्टुप् |
अ॒न॒श्वो जा॒तो अ॑नभी॒शुरु॒क्थ्यो॒३॒॑ रथ॑स्त्रिच॒क्रः परि॑ वर्तते॒ रजः॑ । म॒हत्तद्वो॑ दे॒व्य॑स्य प्र॒वाच॑नं॒ द्यामृ॑भवः पृथि॒वीं यच्च॒ पुष्य॑थ ॥
अ॒न॒श्वः , जा॒तः , अ॒न॒भी॒शुः , उ॒क्थ्यः॑ , रथः॑ , त्रि॒ऽच॒क्रः , परि॑ , व॒र्त॒ते॒ , रजः॑ । म॒हत् , तत् , वः॒ , दे॒व्य॑स्य , प्र॒ऽवाच॑नं , द्यां , ऋ॒भ॒वः॒ , पृ॒थि॒वीं , यत् , च॒ , पुष्य॑थ ॥
रथं॒ ये च॒क्रुः सु॒वृतं॑ सु॒चेत॒सोऽवि॑ह्वरंतं॒ मन॑स॒स्परि॒ ध्यया॑ । ताँ ऊ॒ न्व१॒॑स्य सव॑नस्य पी॒तय॒ आ वो॑ वाजा ऋभवो वेदयामसि ॥
रथं॑ , ये , च॒क्रुः , सु॒ऽवृतं॑ , सु॒ऽचेत॑सः , अवि॑ऽह्वरंतं , मन॑सः , परि॑ , ध्यया॑ । तान् , ऊँ॒ इति॑ , नु , अ॒स्य , सव॑नस्य , पी॒तये॑ , आ , वः॒ , वा॒जाः॒ , ऋ॒भ॒वः॒ , वे॒द॒या॒म॒सि॒ ॥
तद्वो॑ वाजा ऋभवः सुप्रवाच॒नं दे॒वेषु॑ विभ्वो अभवन्महित्व॒नं । जिव्री॒ यत्संता॑ पि॒तरा॑ सना॒जुरा॒ पुन॒र्युवा॑ना च॒रथा॑य॒ तक्ष॑थ ॥
तत् , वः॒ , वा॒जाः॒ , ऋ॒भ॒वः॒ , सु॒ऽप्र॒वा॒च॒नं , दे॒वेषु॑ , वि॒ऽभ्वः॒ , अ॒भ॒व॒त् , म॒हि॒ऽत्व॒नं । जिव्री॒ इति॑ , यत् , संता॑ , पि॒तरा॑ , स॒ना॒ऽजुरा॑ , पुनः॑ , युवा॑ना , च॒रथा॑य , तक्ष॑थ ॥
एकं॒ वि च॑क्र चम॒सं चतु॑र्वयं॒ निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभिः॑ । अथा॑ दे॒वेष्व॑मृत॒त्वमा॑नश श्रु॒ष्टी वा॑जा ऋभव॒स्तद्व॑ उ॒क्थ्यं॑ ॥
एकं॑ , वि , च॒क्र॒ , च॒म॒सं , चतुः॑ऽवयं , निः , चर्म॑णः , गां , अ॒रि॒णी॒त॒ , धी॒तिऽभिः॑ । अथ॑ , दे॒वेषु॑ , अ॒मृ॒त॒ऽत्वं , आ॒न॒श॒ , श्रु॒ष्टी , वा॒जाः॒ , ऋ॒भ॒वः॒ , तत् , वः॒ , उ॒क्थ्यं॑ ॥
ऋ॒भु॒तो र॒यिः प्र॑थ॒मश्र॑वस्तमो॒ वाज॑श्रुतासो॒ यमजी॑जन॒न्नरः॑ । वि॒भ्व॒त॒ष्टो वि॒दथे॑षु प्र॒वाच्यो॒ यं दे॑वा॒सोऽव॑था॒ स विच॑र्षणिः ॥
ऋ॒भु॒तः , र॒यिः , प्र॒थ॒मश्र॑वःऽतमः , वाज॑ऽश्रुतासः , यं , अजी॑जनन् , नरः॑ । वि॒भ्व॒ऽत॒ष्टः , वि॒दथे॑षु , प्र॒ऽवाच्यः॑ , यं , दे॒वा॒सः॒ , अव॑थ , सः , विऽच॑र्षणिः ॥
स वा॒ज्यर्वा॒ स ऋषि॑र्वच॒स्यया॒ स शूरो॒ अस्ता॒ पृत॑नासु दु॒ष्टरः॑ । स रा॒यस्पोषं॒ स सु॒वीर्यं॑ दधे॒ यं वाजो॒ विभ्वाँ॑ ऋ॒भवो॒ यमावि॑षुः ॥
सः , वा॒जी , अर्वा॑ , सः , ऋषिः॑ , व॒च॒स्यया॑ , सः , शूरः॑ , अस्ता॑ , पृत॑नासु , दु॒स्तरः॑ । सः , रा॒यः , पोषं॑ , सः , सु॒ऽवीर्यं॑ , द॒धे॒ , यं , वाजः॑ , विऽभ्वा॑ , ऋ॒भवः॑ , यं , आवि॑षुः ॥
श्रेष्ठं॑ वः॒ पेशो॒ अधि॑ धायि दर्श॒तं स्तोमो॑ वाजा ऋभव॒स्तं जु॑जुष्टन । धीरा॑सो॒ हि ष्ठा क॒वयो॑ विप॒श्चित॒स्तान्व॑ ए॒ना ब्रह्म॒णा वे॑दयामसि ॥
श्रेष्ठं॑ , वः॒ , पेशः॑ , अधि॑ , धा॒यि॒ , द॒र्श॒तं , स्तोमः॑ , वा॒जाः॒ , ऋ॒भ॒वः॒ , तं , जु॒जु॒ष्ट॒न॒ । धीरा॑सः , हि , स्थ , क॒वयः॑ , वि॒पः॒ऽचितः॑ , तान् , वः॒ , ए॒ना , ब्रह्म॑णा , आ , वे॒द॒या॒म॒सि॒ ॥
यू॒यम॒स्मभ्यं॑ धि॒षणा॑भ्य॒स्परि॑ वि॒द्वांसो॒ विश्वा॒ नर्या॑णि॒ भोज॑ना । द्यु॒मंतं॒ वाजं॒ वृष॑शुष्ममुत्त॒ममा नो॑ र॒यिमृ॑भवस्तक्ष॒ता वयः॑ ॥
यू॒यं , अ॒स्मभ्यं॑ , धि॒षणा॑भ्यः , परि॑ , वि॒द्वांसः॑ , विश्वा॑ , नर्या॑णि , भोज॑ना । द्यु॒ऽमंतं॑ , वाजं॑ , वृष॑ऽशुष्मं , उ॒त्ऽत॒मं , आ , नः॒ , र॒यिं , ऋ॒भ॒वः॒ , त॒क्ष॒त॒ , आ , वयः॑ ॥
इ॒ह प्र॒जामि॒ह र॒यिं ररा॑णा इ॒ह श्रवो॑ वी॒रव॑त्तक्षता नः । येन॑ व॒यं चि॒तये॒मात्य॒न्यांतं वाजं॑ चि॒त्रमृ॑भवो ददा नः ॥
इ॒ह , प्र॒ऽजां , इ॒ह , र॒यिं , ररा॑णाः , इ॒ह , श्रवः॑ , वी॒रऽव॑त् , त॒क्ष॒त॒ , नः॒ । येन॑ , व॒यं , चि॒तये॑म , अति॑ , अ॒न्यान् , तं , वाजं॑ , चि॒त्रं , ऋ॒भ॒वः॒ , द॒द॒ , नः॒ ॥
[३७] उपनइत्यष्टर्चस्य ऊक्तस्य गौतमोवामदेवऋभवस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः |
उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा॑ या॒त प॒थिभि॑र्देव॒यानैः॑ । यथा॑ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॒॑सु द॑धि॒ध्वे र॑ण्वाः सु॒दिने॒ष्वह्नां॑ ॥
उप॑ , नः॒ , वा॒जाः॒ , अ॒ध्व॒रं , ऋ॒भु॒क्षाः॒ , देवाः॑ , या॒त , प॒थिऽभिः॑ , दे॒व॒ऽयानैः॑ । यथा॑ , य॒ज्ञं , मनु॑षः , वि॒क्षु , आ॒सु , द॒धि॒ध्वे , र॒ण्वाः॒ , सु॒ऽदिने॑षु , अह्नां॑ ॥
ते वो॑ हृ॒दे मन॑से संतु य॒ज्ञा जुष्टा॑सो अ॒द्य घृ॒तनि॑र्णिजो गुः । प्र वः॑ सु॒तासो॑ हरयंत पू॒र्णाः क्रत्वे॒ दक्षा॑य हर्षयंत पी॒ताः ॥
ते , वः॒ , हृ॒दे , मन॑से , सं॒तु॒ , य॒ज्ञाः , जुष्टा॑सः , अ॒द्य , घृ॒तऽनि॑र्निजः , गुः॒ । प्र , वः॒ , सु॒तासः॑ , ह॒र॒यं॒त॒ , पू॒र्णाः , क्रत्वे॑ , दक्षा॑य , ह॒र्ष॒यं॒त॒ , पी॒ताः ॥
त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा॑ वः॒ स्तोमो॑ वाजा ऋभुक्षणो द॒दे वः॑ । जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा॑ बृ॒हद्दि॑वेषु॒ सोमं॑ ॥
त्रि॒ऽउ॒दा॒यं , दे॒वऽहि॑तं , यथा॑ , वः॒ , स्तोमः॑ , वा॒जाः॒ , ऋ॒भु॒क्ष॒णः॒ , द॒दे , वः॒ । जु॒ह्वे , म॒नु॒ष्वत् , उप॑रासु , वि॒क्षु , यु॒ष्मे इति॑ , सचा॑ , बृ॒हत्ऽदि॑वेषु , सोमं॑ ॥
पीवो॑अश्वाः शु॒चद्र॑था॒ हि भू॒तायः॑शिप्रा वाजिनः सुनि॒ष्काः । इंद्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा॑य ॥
पीवः॑ऽअश्वाः , शु॒चत्ऽर॑थाः , हि , भू॒त , आयः॑ऽशिप्राः , वा॒जि॒नः॒ , सु॒ऽनि॒ष्काः । इंद्र॑स्य , सू॒नो॒ इति॑ , श॒व॒सः॒ , न॒पा॒तः॒ , अनु॑ , वः॒ , चे॒ति॒ , अ॒ग्रि॒यं , मदा॑य ॥
ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे॑ वा॒जिंत॑मं॒ युजं॑ । इंद्र॑स्वंतं हवामहे सदा॒सात॑मम॒श्विनं॑ ॥
ऋ॒भुं , ऋ॒भु॒क्ष॒णः॒ , र॒यिं , वाजे॑ , वा॒जिन्ऽत॑मं , युजं॑ । इंद्र॑स्वंतं , ह॒वा॒म॒हे॒ , स॒दा॒ऽसात॑मं , अ॒श्विनं॑ ॥
सेदृ॑भवो॒ यमव॑थ यू॒यमिंद्र॑श्च॒ मर्त्यं॑ । स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा॑ता॒ सो अर्व॑ता ॥
सः , इत् , ऋ॒भ॒वः॒ , यं , अव॑थ , यू॒यं , इंद्रः॑ , च॒ , मर्त्यं॑ । सः , धी॒भिः , अ॒स्तु॒ , सनि॑ता , मे॒धऽसा॑ता , सः , अर्व॑ता ॥
वि नो॑ वाजा ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे । अ॒स्मभ्यं॑ सूरयः स्तु॒ता विश्वा॒ आशा॑स्तरी॒षणि॑ ॥
वि , नः॒ , वा॒जाः॒ , ऋ॒भु॒क्ष॒णः॒ , प॒थः , चि॒त॒न॒ , यष्ट॑वे । अ॒स्मभ्यं॑ , सू॒र॒यः॒ , स्तु॒ताः , विश्वाः॑ , आशाः॑ , त॒री॒षणि॑ ॥
तं नो॑ वाजा ऋभुक्षण॒ इंद्र॒ नास॑त्या र॒यिं । समश्वं॑ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ॥
तं , नः॒ , वा॒जाः॒ , ऋ॒भु॒क्ष॒णः॒ , इंद्र॑ , नास॑त्या , र॒यिं । सं , अश्वं॑ , च॒र्ष॒णिऽभ्यः॑ , आ , पु॒रु , श॒स्त॒ , म॒घत्त॑ये ॥
[३८] उतोहीति दशर्चस्य सूक्तस्य गौतमोवामदेवोदधिक्रावा आद्यायाद्यावापृथिवीत्रिष्टुप्
उ॒तो हि वां॑ दा॒त्रा संति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे । क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो अ॒भिभू॑तिमु॒ग्रं ॥
उ॒तो इति॑ , हि , वां॒ , दा॒त्रा , संति॑ , पूर्वा॑ , या , पू॒रुऽभ्यः॑ , त्र॒सद॑स्युः , नि॒ऽतो॒शे । क्षे॒त्र॒ऽसां , द॒द॒थुः॒ , उ॒र्व॒रा॒ऽसां , घ॒नं , दस्यु॑ऽभ्यः , अ॒भिऽभू॑तिं , उ॒ग्रं ॥
उ॒त वा॒जिनं॑ पुरुनि॒ष्षिध्वा॑नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिं । ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूरं॑ ॥
उ॒त , वा॒जिनं॑ , पु॒रु॒निः॒ऽसिध्वा॑नं , द॒धि॒ऽक्रां , ऊँ॒ इति॑ , द॒द॒थुः॒ , वि॒श्वऽकृ॑ष्टिं । ऋ॒जि॒प्यं , श्ये॒नं , प्रु॒षि॒तऽप्सुं॑ , आ॒शुं , च॒र्कृत्यं॑ , अ॒र्यः , नृ॒ऽपतिं॑ , न , शूरं॑ ॥
यं सी॒मनु॑ प्र॒वते॑व॒ द्रवं॑तं॒ विश्वः॑ पू॒रुर्मद॑ति॒ हर्ष॑माणः । प॒ड्भिर्गृध्यं॑तं मेध॒युं न शूरं॑ रथ॒तुरं॒ वात॑मिव॒ ध्रजं॑तं ॥
यं , सीं॒ , अनु॑ , प्र॒वता॑ऽइव , द्रवं॑तं , विश्वः॑ , पू॒रुः , मद॑ति , हर्ष॑माणः । प॒ट्ऽभिः , गृध्यं॑तं , मे॒ध॒ऽयुं , न , शूरं॑ , र॒थ॒ऽतुरं॑ , वातं॑ऽइव , ध्रजं॑तं ॥
यः स्मा॑रुंधा॒नो गध्या॑ स॒मत्सु॒ सनु॑तर॒श्चर॑ति॒ गोषु॒ गच्छ॑न् । आ॒विर्ऋ॑जीको वि॒दथा॑ नि॒चिक्य॑त्ति॒रो अ॑र॒तिं पर्याप॑ आ॒योः ॥
यः , स्म॒ , आ॒ऽरुं॒धा॒नः , गध्या॑ , स॒मत्ऽसु॑ , सनु॑ऽतरः , चर॑ति , गोषु॑ , गच्छ॑न् । आ॒विःऽऋ॑जीकः , वि॒दथा॑ , नि॒ऽचिक्य॑त् , ति॒रः , अ॒र॒तिं , परि॑ , आपः॑ , आ॒योः ॥
उ॒त स्मै॑नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशंति क्षि॒तयो॒ भरे॑षु । नी॒चाय॑मानं॒ जसु॑रिं॒ न श्ये॒नं श्रव॒श्चाच्छा॑ पशु॒मच्च॑ यू॒थं ॥
उ॒त , स्म॒ , ए॒नं॒ , व॒स्त्र॒ऽमथिं॑ , न , ता॒युं , अनु॑ , क्रो॒शं॒ति॒ , क्षि॒तयः॑ , भरे॑षु । नी॒चा , अय॑मानं , जसु॑रिं , न , श्ये॒नं , श्रवः॑ , च॒ , अच्छ॑ , प॒शु॒ऽमत् , च॒ , यू॒थं ॥
उ॒त स्मा॑सु प्रथ॒मः स॑रि॒ष्यन्नि वे॑वेति॒ श्रेणि॑भी॒ रथा॑नां । स्रजं॑ कृण्वा॒नो जन्यो॒ न शुभ्वा॑ रे॒णुं रेरि॑हत्कि॒रणं॑ दद॒श्वान् ॥
उ॒त , स्म॒ , आ॒सु , प्र॒थ॒मः , स॒रि॒ष्यन् , नि , वे॒वे॒ति॒ , श्रेणि॑ऽभिः , रथा॑नां । स्रजं॑ , कृ॒ण्वा॒नः , जन्यः॑ , न , शुभ्वा॑ , रे॒णुं , रेरि॑हत् , कि॒रणं॑ , द॒द॒श्वान् ॥
उ॒त स्य वा॒जी सहु॑रिर्ऋ॒तावा॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये । तुरं॑ य॒तीषु॑ तु॒रय॑न्नृजि॒प्योऽधि॑ भ्रु॒वोः कि॑रते रे॒णुमृं॒जन् ॥
उ॒त , स्यः , वा॒जी , सहु॑रिः , ऋ॒तऽवा॑ , शुश्रू॑षमाणः , त॒न्वा॑ , स॒ऽम॒र्ये । तुरं॑ , य॒तीषु॑ , तु॒रय॑न् , ऋ॒जि॒प्यः , अधि॑ , भ्रु॒वोः , कि॒र॒ते॒ , रे॒णुं , ऋं॒जन् ॥
उ॒त स्मा॑स्य तन्य॒तोरि॑व॒ द्योर्ऋ॑घाय॒तो अ॑भि॒युजो॑ भयंते । य॒दा स॒हस्र॑म॒भि षी॒मयो॑धीद्दु॒र्वर्तुः॑ स्मा भवति भी॒म ऋं॒जन् ॥
उ॒त , स्म॒ , अ॒स्य॒ , त॒न्य॒तोःऽइ॑व , द्योः , ऋ॒घा॒य॒तः , अ॒भि॒ऽयुजः॑ , भ॒यं॒ते॒ । य॒दा , स॒हस्रं॑ , अ॒भि , सीं॒ , अयो॑धीत् , दुः॒ऽवर्तुः॑ , स्म॒ , भ॒व॒ति॒ , भी॒मः , ऋं॒जन् ॥
उ॒त स्मा॑स्य पनयंति॒ जना॑ जू॒तिं कृ॑ष्टि॒प्रो अ॒भिभू॑तिमा॒शोः । उ॒तैन॑माहुः समि॒थे वि॒यंतः॒ परा॑ दधि॒क्रा अ॑सरत्स॒हस्रैः॑ ॥
उ॒त , स्म॒ , अ॒स्य॒ , प॒न॒यं॒ति॒ , जनाः॑ , जू॒तिं , कृ॒ष्टि॒ऽप्रः , अ॒भिऽभू॑तिं , आ॒शोः । उ॒त , ए॒नं॒ , आ॒हुः॒ , सं॒ऽइ॒थे , वि॒ऽयंतः॑ , परा॑ , द॒धि॒ऽक्राः , अ॒स॒र॒त् , स॒हस्रैः॑ ॥
आ द॑धि॒क्राः शव॑सा॒ पंच॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान । स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां॑सि ॥
आ , द॒धि॒ऽक्राः , शव॑सा , पंच॑ , कृ॒ष्टीः , सूर्यः॑ऽइव , ज्योति॑षा , अ॒पः , त॒ता॒न॒ । स॒ह॒स्र॒ऽसाः , श॒त॒ऽसाः , वा॒जी , अर्वा॑ , पृ॒णक्तु॑ , मध्वा॑ , सं , इ॒मा , वचां॑सि ॥
[३९] आशुमिति षडृचस्य सूक्तस्य गौतमोवामदेवोदधिक्रावात्रिष्टुबंत्यानुष्टुप् |
आ॒शुं द॑धि॒क्रां तमु॒ नु ष्ट॑वाम दि॒वस्पृ॑थि॒व्या उ॒त च॑र्किराम । उ॒च्छंती॒र्मामु॒षसः॑ सूदयं॒त्वति॒ विश्वा॑नि दुरि॒तानि॑ पर्षन् ॥
आ॒शुं , द॒धि॒ऽक्रां , तं , ऊँ॒ इति॑ , नु , स्त॒वा॒म॒ , दि॒वः , पृ॒थि॒व्याः , उ॒त , च॒र्कि॒रा॒म॒ । उ॒च्छंतीः॑ , मां , उ॒षसः॑ , सू॒द॒यं॒तु॒ , अति॑ , विश्वा॑नि , दुः॒ऽइ॒तानि॑ , प॒र्ष॒न् ॥
म॒हश्च॑र्क॒र्म्यर्व॑तः क्रतु॒प्रा द॑धि॒क्राव्णः॑ पुरु॒वार॑स्य॒ वृष्णः॑ । यं पू॒रुभ्यो॑ दीदि॒वांसं॒ नाग्निं द॒दथु॑र्मित्रावरुणा॒ ततु॑रिं ॥
म॒हः , च॒र्क॒र्मि॒ , अर्व॑तः , क्र॒तु॒ऽप्राः , द॒धि॒ऽक्राव्णः॑ , पु॒रु॒ऽवार॑स्य , वृष्णः॑ । यं , पू॒रुऽभ्यः॑ , दी॒दि॒ऽवांसं॑ , न , अ॒ग्निं , द॒दथुः॑ , मि॒त्रा॒व॒रु॒णा॒ , ततु॑रिं ॥
यो अश्व॑स्य दधि॒क्राव्णो॒ अका॑री॒त्समि॑द्धे अ॒ग्ना उ॒षसो॒ व्यु॑ष्टौ । अना॑गसं॒ तमदि॑तिः कृणोतु॒ स मि॒त्रेण॒ वरु॑णेना स॒जोषाः॑ ॥
यः , अश्व॑स्य , द॒धि॒ऽक्राव्णः॑ , अका॑रीत् , संऽइ॑द्धे , अ॒ग्नौ , उ॒षसः॑ , विऽउ॑ष्टौ । अना॑गसं , तं , अदि॑तिः , कृ॒णो॒तु॒ , सः , मि॒त्रेण॑ , वरु॑णेन , स॒ऽजोषाः॑ ॥
द॒धि॒क्राव्ण॑ इ॒ष ऊ॒र्जो म॒हो यदम॑न्महि म॒रुतां॒ नाम॑ भ॒द्रं । स्व॒स्तये॒ वरु॑णं मि॒त्रम॒ग्निं हवा॑मह॒ इंद्रं॒ वज्र॑बाहुं ॥
द॒धि॒ऽक्राव्णः॑ , इ॒षः , ऊ॒र्जः , म॒हः , यत् , अम॑न्महि , म॒रुतां॑ , नाम॑ , भ॒द्रं । स्व॒स्तये॑ , वरु॑णं , मि॒त्रं , अ॒ग्निं , हवा॑महे , इंद्रं॑ , वज्र॑ऽबाहुं ॥
इंद्र॑मि॒वेदु॒भये॒ वि ह्व॑यंत उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यंतः॑ । द॒धि॒क्रामु॒ सूद॑नं॒ मर्त्या॑य द॒दथु॑र्मित्रावरुणा नो॒ अश्वं॑ ॥
इंद्रं॑ऽइव , इत् , उ॒भये॑ , वि , ह्व॒यं॒ते॒ , उ॒त्ऽईरा॑णाः , य॒ज्ञं , उ॒प॒ऽप्र॒यंतः॑ । द॒धि॒ऽक्रां , ऊँ॒ इति॑ , सूद॑नं , मर्त्या॑य , द॒दथुः॑ , मि॒त्रा॒व॒रु॒णा॒ , नः॒ , अश्वं॑ ॥
द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूं॑षि तारिषत् ॥
द॒धि॒ऽक्राव्णः॑ , अ॒का॒रि॒षं॒ , जि॒ष्णोः , अश्व॑स्य , वा॒जिनः॑ । सु॒र॒भि , नः॒ , मुखा॑ , क॒र॒त् , प्र , नः॒ , आयूं॑षि , ता॒रि॒ष॒त् ॥
[४०] दधिक्राव्णइति पंचर्चस्य सूक्तस्य गौतमोवामदेवदधिक्रावा अंत्यायाः सूर्यस्त्रिष्टुप् अंत्याश्चतस्रोजगत्यः
द॒धि॒क्राव्ण॒ इदु॒ नु च॑र्किराम॒ विश्वा॒ इन्मामु॒षसः॑ सूदयंतु । अ॒पाम॒ग्नेरु॒षसः॒ सूर्य॑स्य॒ बृह॒स्पते॑रांगिर॒सस्य॑ जि॒ष्णोः ॥
द॒धि॒ऽक्राव्णः॑ , इत् , ऊँ॒ इति॑ , नु , चा॒र्कि॒रा॒म॒ , विश्वाः॑ , इत् , मां , उ॒षसः॑ , सू॒द॒यं॒तु॒ । अ॒पां , अ॒ग्नेः , उ॒षसः॑ , सूर्य॑स्य , बृह॒स्पतेः॑ , आं॒गि॒र॒सस्य॑ , जि॒ष्णोः ॥
सत्वा॑ भरि॒षो ग॑वि॒षो दु॑वन्य॒सच्छ्र॑व॒स्यादि॒ष उ॒षस॑स्तुरण्य॒सत् । स॒त्यो द्र॒वो द्र॑व॒रः प॑तंग॒रो द॑धि॒क्रावेष॒मूर्जं॒ स्व॑र्जनत् ॥
सत्वा॑ , भ॒रि॒षः , गो॒ऽइ॒षः , दु॒व॒न्य॒ऽसत् , श्र॒व॒स्यात् , इ॒षः , उ॒षसः॑ , तु॒र॒ण्य॒ऽसत् । स॒त्यः , द्र॒वः , द्र॒व॒रः , प॒तं॒ग॒रः , द॒धि॒ऽक्रावा॑ , इषं॑ , ऊर्जं॑ , स्वः॑ , ज॒न॒त् ॥
उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ । श्ये॒नस्ये॑व॒ ध्रज॑तो अंक॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः ॥
उ॒त , स्म॒ , अ॒स्य॒ , द्रव॑तः , तु॒र॒ण्य॒तः , प॒र्णं , न , वेः , अनु॑ , वा॒ति॒ , प्र॒ऽग॒र्धिनः॑ । श्ये॒नस्य॑ऽइव , ध्रज॑तः , अं॒क॒सं , परि॑ , द॒धि॒ऽक्राव्णः॑ , स॒ह , ऊ॒र्जा , तरि॑त्रतः ॥
उ॒त स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ । क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवी॑त्वत्प॒थामंकां॒स्यन्वा॒पनी॑फणत् ॥
उ॒त , स्यः , वा॒जी , क्षि॒प॒णिं , तु॒र॒ण्य॒ति॒ , ग्री॒वायां॑ , ब॒द्धः , अ॒पि॒ऽक॒क्षे , आ॒सनि॑ । क्रतुं॑ , द॒धि॒ऽक्राः , अनु॑ , सं॒ऽतवी॑त्वत् , प॒थां , अंकां॑सि , अनु॑ , आ॒ऽपनी॑फणत् ॥
हं॒सः शु॑चि॒षद्वसु॑रंतरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं ॥
हं॒सः , शु॒चि॒ऽसत् , वसुः॑ , अं॒त॒रि॒क्ष॒ऽसत् , होता॑ , वे॒दि॒ऽसत् , अति॑थिः , दु॒रो॒ण॒ऽसत् । नृ॒ऽसत् , व॒र॒ऽसत् , ऋ॒त॒ऽसत् , व्यो॒म॒ऽसत् , अ॒प्ऽजाः , गो॒ऽजाः , ऋ॒त॒ऽजाः , अ॒द्रि॒ऽजाः , ऋ॒तं ॥
[४१] इंद्राकोवामित्येकादशर्चस्य सूक्तस्य गौतमोवामदेव इंद्रावरुणौत्रिष्टुप्
इंद्रा॒ को वां॑ वरुणा सु॒म्नमा॑प॒ स्तोमो॑ ह॒विष्माँ॑ अ॒मृतो॒ न होता॑ । यो वां॑ हृ॒दि क्रतु॑माँ अ॒स्मदु॒क्तः प॒स्पर्श॑दिंद्रावरुणा॒ नम॑स्वान् ॥
इंद्रा॑ , कः , वां॒ , व॒रु॒णा॒ , सु॒म्नं , आ॒प॒ , स्तोमः॑ , ह॒विष्मा॑न् , अ॒मृतः॑ , न , होता॑ । यः , वां॒ , हृ॒दि , क्रतु॑ऽमान् , अ॒स्मत् , उ॒क्तः , प॒स्पर्श॑त् , इं॒द्रा॒व॒रु॒णा॒ , नम॑स्वान् ॥
इंद्रा॑ ह॒ यो वरु॑णा च॒क्र आ॒पी दे॒वौ मर्तः॑ स॒ख्याय॒ प्रय॑स्वान् । स हं॑ति वृ॒त्रा स॑मि॒थेषु॒ शत्रू॒नवो॑भिर्वा म॒हद्भिः॒ स प्र शृ॑ण्वे ॥
इंद्रा॑ , ह॒ , यः , वरु॑णा , च॒क्रे , आ॒पी इति॑ , दे॒वौ , मर्तः॑ , स॒ख्याय॑ , प्रय॑स्वान् । सः , हं॒ति॒ , वृ॒त्रा , सं॒ऽइ॒थेषु॑ , शत्रू॑न् , अवः॑ऽभिः , वा॒ , म॒हत्ऽभिः॑ , सः , प्र , शृ॒ण्वे॒ ॥
इंद्रा॑ ह॒ रत्नं॒ वरु॑णा॒ धेष्ठे॒त्था नृभ्यः॑ शशमा॒नेभ्य॒स्ता । यदी॒ सखा॑या स॒ख्याय॒ सोमैः॑ सु॒तेभिः॑ सुप्र॒यसा॑ मा॒दयै॑ते ॥
इंद्रा॑ , ह॒ , रत्नं॑ , वरु॑णा , धेष्ठा॑ , इ॒त्था , नृऽभ्यः॑ , श॒श॒मा॒नेभ्यः॑ , ता । यदि॑ , सखा॑या , स॒ख्याय॑ , सोमैः॑ , सु॒तेभिः॑ , सु॒ऽप्र॒यसा॑ , मा॒दयै॑ते॒ इति॑ ॥
इंद्रा॑ यु॒वं व॑रुणा दि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒ नि व॑धिष्टं॒ वज्रं॑ । यो नो॑ दु॒रेवो॑ वृ॒कति॑र्द॒भीति॒स्तस्मि॑न्मिमाथाम॒भिभू॒त्योजः॑ ॥
इंद्रा॑ , यु॒वं , व॒रु॒णा॒ , दि॒द्युं , अ॒स्मि॒न् , ओजि॑ष्ठं , उ॒ग्रा॒ , नि , व॒धि॒ष्टं॒ , वज्रं॑ । यः , नः॒ , दुः॒ऽएवः॑ , वृ॒कतिः॑ , द॒भीतिः॑ , तस्मि॑न् , मि॒मा॒थां॒ , अ॒भिऽभू॑ति , ओजः॑ ॥
इंद्रा॑ यु॒वं व॑रुणा भू॒तम॒स्या धि॒यः प्रे॒तारा॑ वृष॒भेव॑ धे॒नोः । सा नो॑ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥
इंद्रा॑ , यु॒वं , व॒रु॒णा॒ , भू॒तं , अ॒स्याः , धि॒यः , प्रे॒तारा॑ , वृ॒ष॒भाऽइ॑व , धे॒नोः । सा , नः॒ , दु॒ही॒य॒त् , यव॑साऽइव , ग॒त्वी , स॒हस्र॑ऽधारा , पय॑सा , म॒ही , गौः ॥
तो॒के हि॒ते तन॑य उ॒र्वरा॑सु॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ । इंद्रा॑ नो॒ अत्र॒ वरु॑णा स्याता॒मवो॑भिर्द॒स्मा परि॑तक्म्यायां ॥
तो॒के , हि॒ते , तन॑ये , उ॒र्वरा॑सु , सूरः॑ , दृशी॑के , वृष॑णः , च॒ , पौंस्ये॑ । इंद्रा॑ , नः॒ , अत्र॑ , वरु॑णा , स्या॒तां॒ , अवः॑ऽभिः , द॒स्मा , परि॑ऽतक्म्यायां ॥
यु॒वामिद्ध्यव॑से पू॒र्व्याय॒ परि॒ प्रभू॑ती ग॒विषः॑ स्वापी । वृ॒णी॒महे॑ स॒ख्याय॑ प्रि॒याय॒ शूरा॒ मंहि॑ष्ठा पि॒तरे॑व शं॒भू ॥
यु॒वां , इत् , हि , अव॑से , पू॒र्व्याय॑ , परि॑ , प्रभू॑ती॒ इति॒ प्रऽभू॑ती , गो॒ऽइषः॑ , स्वा॒पी॒ इति॑ सुऽआपी । वृ॒णी॒महे॑ , स॒ख्याय॑ , प्रि॒याय॑ , शूरा॑ , मंहि॑ष्ठा , पि॒तरा॑ऽइव , शं॒भू इति॑ शं॒ऽभू ॥
ता वां॒ धियोऽव॑से वाज॒यंती॑रा॒जिं न ज॑ग्मुर्युव॒यूः सु॑दानू । श्रि॒ये न गाव॒ उप॒ सोम॑मस्थु॒रिंद्रं॒ गिरो॒ वरु॑णं मे मनी॒षाः ॥
ताः , वां॒ , धियः॑ , अव॑से , वा॒ज॒ऽयंतीः॑ , आ॒जिं , न , ज॒ग्मुः॒ , यु॒व॒ऽयूः , सु॒दा॒नू॒ इति॑ सुऽदानू । श्रि॒ये , न , गावः॑ , उप॑ , सोमं॑ , अ॒स्थुः॒ , इंद्रं॑ , गिरः॑ , वरु॑णं , मे॒ , म॒नी॒षाः ॥
इ॒मा इंद्रं॒ वरु॑णं मे मनी॒षा अग्म॒न्नुप॒ द्रवि॑णमि॒च्छमा॑नाः । उपे॑मस्थुर्जो॒ष्टार॑ इव॒ वस्वो॑ र॒घ्वीरि॑व॒ श्रव॑सो॒ भिक्ष॑माणाः ॥
इ॒माः , इंद्रं॑ , वरु॑णं , मे॒ , म॒नी॒षाः , अग्म॑न् , उप॑ , द्रवि॑णं , इ॒च्छमा॑नाः । उप॑ , ईं॒ , अ॒स्थुः॒ , जो॒ष्टारः॑ऽइव , वस्वः॑ , र॒घ्वीःऽइ॑व , श्रव॑सः , भिक्ष॑माणाः ॥
अश्व्य॑स्य॒ त्मना॒ रथ्य॑स्य पु॒ष्टेर्नित्य॑स्य रा॒यः पत॑यः स्याम । ता च॑क्रा॒णा ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रा रायो॑ नि॒युतः॑ सचंतां ॥
अश्व्य॑स्य , त्मना॑ , रथ्य॑स्य , पु॒ष्टेः , नित्य॑स्य , रा॒यः , पत॑यः , स्या॒म॒ । ता , च॒क्रा॒णौ , ऊ॒तिऽभिः॑ , नव्य॑सीभिः , अ॒स्म॒ऽत्रा , रायः॑ , नि॒ऽयुतः॑ , स॒चं॒तां॒ ॥
आ नो॑ बृहंता बृह॒तीभि॑रू॒ती इंद्र॑ या॒तं व॑रुण॒ वाज॑सातौ । यद्दि॒द्यवः॒ पृत॑नासु प्र॒क्रीळां॒तस्य॑ वां स्याम सनि॒तार॑ आ॒जेः ॥
आ , नः॒ , बृ॒हं॒ता॒ , बृ॒ह॒तीभिः॑ , ऊ॒ती , इंद्र॑ , या॒तं , व॒रु॒ण॒ , वाज॑ऽसातौ । यत् , दि॒द्यवः॑ , पृत॑नासु , प्र॒ऽक्रीळा॑न् , तस्य॑ , वां , स्या॒म॒ , स॒नि॒तारः॑ , आ॒जेः ॥
[४२] ममद्वितेति दशर्चस्य सूक्तस्य पौरुकुत्स्यस्त्रसदस्युः आद्यानांषण्णांत्रसदस्युर्देवता अंत्यानांचतसृणामिंद्रावरुणौत्रिष्टुप्
मम॑ द्वि॒ता रा॒ष्ट्रं क्ष॒त्रिय॑स्य वि॒श्वायो॒र्विश्वे॑ अ॒मृता॒ यथा॑ नः । क्रतुं॑ सचंते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥
मम॑ , द्वि॒ता , रा॒ष्ट्रं , क्ष॒त्रिय॑स्य , वि॒श्वऽआ॑योः , विश्वे॑ , अ॒मृताः॑ , यथा॑ , नः॒ । क्रतुं॑ , स॒चं॒ते॒ , वरु॑णस्य , दे॒वाः , राजा॑मि , कृ॒ष्टेः , उ॒प॒मस्य॑ , व॒व्रेः ॥
अ॒हं राजा॒ वरु॑णो॒ मह्यं॒ तान्य॑सु॒र्या॑णि प्रथ॒मा धा॑रयंत । क्रतुं॑ सचंते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥
अ॒हं , राजा॑ , वरु॑णः , मह्यं॑ , तानि॑ , अ॒सु॒र्या॑णि , प्र॒थ॒मा , धा॒र॒यं॒त॒ । क्रतुं॑ , स॒चं॒ते॒ , वरु॑णस्य , दे॒वाः , राजा॑मि , कृ॒ष्टेः , उ॒प॒मस्य॑ , व॒व्रेः ॥
अ॒हमिंद्रो॒ वरु॑ण॒स्ते म॑हि॒त्वोर्वी ग॑भी॒रे रज॑सी सु॒मेके॑ । त्वष्टे॑व॒ विश्वा॒ भुव॑नानि वि॒द्वांत्समै॑रयं॒ रोद॑सी धा॒रयं॑ च ॥
अ॒हं , इंद्रः॑ , वरु॑णः , ते इति॑ , म॒हि॒ऽत्वा , उ॒र्वी इति॑ , ग॒भी॒रे इति॑ , रज॑सी॒ इति॑ , सु॒मेके॒ इति॑ सु॒ऽमेके॑ । त्वष्टा॑ऽइव , विश्वा॑ , भुव॑नानि , वि॒द्वान् , सं , ऐ॒र॒यं॒ , रोद॑सी॒ इति॑ , धा॒रयं॑ , च॒ ॥
अ॒हम॒पो अ॑पिन्वमु॒क्षमा॑णा धा॒रयं॒ दिवं॒ सद॑न ऋ॒तस्य॑ । ऋ॒तेन॑ पु॒त्रो अदि॑तेर्ऋ॒तावो॒त त्रि॒धातु॑ प्रथय॒द्वि भूम॑ ॥
अ॒हं , अ॒पः , अ॒पि॒न्वं॒ , उ॒क्षमा॑णाः , ध॒रयं॑ , दिवं॑ , सद॑ने , ऋ॒तस्य॑ । ऋ॒तेन॑ , पु॒त्रः , अदि॑तेः , ऋ॒तऽवा॑ , उ॒त , त्रि॒ऽधातु॑ , प्र॒थ॒य॒त् , वि , भूम॑ ॥
मां नरः॒ स्वश्वा॑ वा॒जयं॑तो॒ मां वृ॒ताः स॒मर॑णे हवंते । कृ॒णोम्या॒जिं म॒घवा॒हमिंद्र॒ इय॑र्मि रे॒णुम॒भिभू॑त्योजाः ॥
मां , नरः॑ , सु॒ऽअश्वाः॑ , वा॒जयं॑तः , मां , वृ॒ताः , सं॒ऽअर॑णे , ह॒वं॒ते॒ । कृ॒णोमि॑ , आ॒जिं , म॒घऽवा॑ , अ॒हं , इंद्रः॑ , इय॑र्मि , रे॒णुं , अ॒भिभू॑तिऽओजाः ॥
अ॒हं ता विश्वा॑ चकरं॒ नकि॑र्मा॒ दैव्यं॒ सहो॑ वरते॒ अप्र॑तीतं । यन्मा॒ सोमा॑सो म॒मद॒न्यदु॒क्थोभे भ॑येते॒ रज॑सी अपा॒रे ॥
अ॒हं , ता , विश्वा॑ , च॒क॒रं॒ , नकिः॑ , मा॒ , दैव्यं॑ , सहः॑ , व॒र॒ते॒ , अप्र॑तिऽइतं । यत् , मा॒ , सोमा॑सः , म॒मद॑न् , यत् , उ॒क्था , उ॒भे इति॑ , भ॒ये॒ते॒ इति॑ , रज॑सी॒ इति॑ , अ॒पा॒रे इति॑ ॥
वि॒दुष्टे॒ विश्वा॒ भुव॑नानि॒ तस्य॒ ता प्र ब्र॑वीषि॒ वरु॑णाय वेधः । त्वं वृ॒त्राणि॑ शृण्विषे जघ॒न्वांत्वं वृ॒ताँ अ॑रिणा इंद्र॒ सिंधू॑न् ॥
वि॒दुः , ते॒ , विश्वा॑ , भुव॑नानि , तस्य॑ , ता , प्र , ब्र॒वी॒षि॒ , वरु॑णाय , वे॒धः॒ । त्वं , वृ॒त्राणि॑ , शृ॒ण्वि॒षे॒ , ज॒घ॒न्वान् , त्वं , वृ॒तान् , अ॒रि॒णाः॒ , इं॒द्र॒ , सिंधू॑न् ॥
अ॒स्माक॒मत्र॑ पि॒तर॒स्त आ॑संत्स॒प्त ऋष॑यो दौर्ग॒हे ब॒ध्यमा॑ने । त आय॑जंत त्र॒सद॑स्युमस्या॒ इंद्रं॒ न वृ॑त्र॒तुर॑मर्धदे॒वं ॥
अ॒स्माकं॑ , अत्र॑ , पि॒तरः॑ , ते , आ॒स॒न् , स॒प्त , ऋष॑यः , दौः॒ऽग॒हे , ब॒ध्यमा॑ने । ते , आ , अ॒य॒जं॒त॒ , त्र॒सद॑स्युं , अ॒स्याः॒ , इंद्रं॑ , न , वृ॒त्र॒ऽतुरं॑ , अ॒र्ध॒ऽदे॒वं ॥
पु॒रु॒कुत्सा॑नी॒ हि वा॒मदा॑शद्ध॒व्येभि॑रिंद्रावरुणा॒ नमो॑भिः । अथा॒ राजा॑नं त्र॒सद॑स्युमस्या वृत्र॒हणं॑ ददथुरर्धदे॒वं ॥
पु॒रु॒ऽकुत्सा॑नी , हि , वां॒ , अदा॑शत् , ह॒व्येभिः॑ , इं॒द्रा॒व॒रु॒णा॒ , नमः॑ऽभिः । अथ॑ , राजा॑नं , त्र॒सद॑स्युं , अ॒स्याः॒ , वृ॒त्र॒ऽहनं॑ , द॒द॒थुः॒ , अ॒र्ध॒ऽदे॒वं ॥
रा॒या व॒यं स॑स॒वांसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ । तां धे॒नुमिं॑द्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरंतीं ॥
रा॒या , व॒यं , स॒स॒ऽवांसः॑ , म॒दे॒म॒ , ह॒व्येन॑ , दे॒वाः , यव॑सेन , गावः॑ । तां , धे॒नुं , इं॒द्रा॒व॒रु॒णा॒ , यु॒वं , नः॒ , वि॒श्वाहा॑ , ध॒त्तं॒ , अन॑पऽस्फुरंतीं ॥
[४३] कउश्रवदिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् |
क उ॑ श्रवत्कत॒मो य॒ज्ञिया॑नां वं॒दारु॑ दे॒वः क॑त॒मो जु॑षाते । कस्ये॒मां दे॒वीम॒मृते॑षु॒ प्रेष्ठां॑ हृ॒दि श्रे॑षाम सुष्टु॒तिं सु॑ह॒व्यां ॥
कः , ऊँ॒ इति॑ , श्र॒व॒त् , क॒त॒मः , य॒ज्ञिया॑नां , वं॒दारु॑ , दे॒वः , क॒त॒मः , जु॒षा॒ते॒ । कस्य॑ , इ॒मां , दे॒वीं , अ॒मृते॑षु , प्रेष्ठां॑ , हृ॒दि , श्रे॒षा॒म॒ , सु॒ऽस्तु॒तिं , सु॒ऽह॒व्यां ॥
को मृ॑ळाति कत॒म आग॑मिष्ठो दे॒वाना॑मु कत॒मः शंभ॑विष्ठः । रथं॒ कमा॑हुर्द्र॒वद॑श्वमा॒शुं यं सूर्य॑स्य दुहि॒तावृ॑णीत ॥
कः , मृ॒ळा॒ति॒ , क॒त॒मः , आऽग॑मिष्ठः , दे॒वानां॑ , ऊँ॒ इति॑ , क॒त॒मः , शंऽभ॑विष्ठः । रथं॑ , कं , आ॒हुः॒ , द्र॒वत्ऽअ॑श्वं , आ॒शुं , यं , सूर्य॑स्य , दु॒हि॒ता , अवृ॑णीत ॥
म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिंद्रो॒ न श॒क्तिं परि॑तक्म्यायां । दि॒व आजा॑ता दि॒व्या सु॑प॒र्णा कया॒ शची॑नां भवथः॒ शचि॑ष्ठा ॥
म॒क्षु , हि , स्म॒ , गच्छ॑थः , ईव॑तः , द्यून् , इंद्रः॑ , न , श॒क्तिं , परि॑ऽतक्म्यायां । दि॒वः , आऽजा॑ता , दि॒व्या , सु॒ऽप॒र्णा , कया॑ , शची॑नां , भ॒व॒थः॒ , शचि॑ष्ठा ॥
का वां॑ भू॒दुप॑मातिः॒ कया॑ न॒ आश्वि॑ना गमथो हू॒यमा॑ना । को वां॑ म॒हश्चि॒त्त्यज॑सो अ॒भीक॑ उरु॒ष्यतं॑ माध्वी दस्रा न ऊ॒ती ॥
का , वां॒ , भू॒त् , उप॑ऽमातिः , कया॑ , नः॒ , आ , अ॒श्वि॒ना॒ , ग॒म॒थः॒ , हू॒यमा॑ना । कः , वां॒ , म॒हः , चि॒त् , त्यज॑सः , अ॒भीके॑ , उ॒रु॒ष्यतं॑ , मा॒ध्वी॒ इति॑ , द॒स्रा॒ , नः॒ , ऊ॒ती ॥
उ॒रु वां॒ रथः॒ परि॑ नक्षति॒ द्यामा यत्स॑मु॒द्राद॒भि वर्त॑ते वां । मध्वा॑ माध्वी॒ मधु॑ वां प्रुषाय॒न्यत्सीं॑ वां॒ पृक्षो॑ भु॒रजं॑त प॒क्वाः ॥
उ॒रु , वां॒ , रथः॑ , परि॑ , न॒क्ष॒ति॒ , द्यां , आ , यत् , स॒मु॒द्रात् , अ॒भि , वर्त॑ते , वां॒ । मध्वा॑ , मा॒ध्वी॒ इति॑ , मधु॑ , वां॒ , प्रु॒षा॒य॒न् , यत् , सीं॒ , वां॒ , पृक्षः॑ , भु॒रजं॑त , प॒क्वाः ॥
सिंधु॑र्ह वां र॒सया॑ सिंच॒दश्वा॑न्घृ॒णा वयो॑ऽरु॒षासः॒ परि॑ ग्मन् । तदू॒ षु वा॑मजि॒रं चे॑ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्यायाः॑ ॥
सिंधुः॑ , ह॒ , वां॒ , र॒सया॑ , सिं॒च॒त् , अश्वा॑न् , घृ॒णा , वयः॑ , अ॒रु॒षासः॑ , परि॑ , ग्म॒न् । तत् , ऊँ॒ इति॑ , सु , वां॒ , अ॒जि॒रं , चे॒ति॒ , यानं॑ , येन॑ , पती॒ इति॑ , भव॑थः , सू॒र्यायाः॑ ॥
इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना । उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥
इ॒हऽइ॑ह , यत् , वां॒ , स॒म॒ना , प॒पृ॒क्षे , सा , इ॒यं , अ॒स्मे इति॑ , सु॒ऽम॒तिः , वा॒ज॒ऽर॒त्ना॒ । उ॒रु॒ष्यतं॑ , ज॒रि॒तारं॑ , यु॒वं , ह॒ , श्रि॒तः , कामः॑ , ना॒स॒त्या॒ , यु॒व॒द्रिक् ॥
[४४] तंवामिति सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमीळ्हाजमीळ्हावश्विनौत्रिष्टुप् |
तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः । यः सू॒र्यां वह॑ति वंधुरा॒युर्गिर्वा॑हसं पुरु॒तमं॑ वसू॒युं ॥
तं , वां॒ , रथं॑ , व॒यं , अ॒द्य , हु॒वे॒म॒ , पृ॒थु॒ऽज्रयं॑ , अ॒श्वि॒ना॒ , संऽग॑तिं , गोः । यः , सू॒र्यां , वह॑ति , वं॒धु॒र॒ऽयुः , गिर्वा॑हसं , पु॒रु॒ऽतमं॑ , व॒सु॒ऽयुं ॥
यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथः॒ शची॑भिः । यु॒वोर्वपु॑र॒भि पृक्षः॑ सचंते॒ वहं॑ति॒ यत्क॑कु॒हासो॒ रथे॑ वां ॥
यु॒वं , श्रियं॑ , अ॒श्वि॒ना॒ , दे॒वता॑ , तां , दिवः॑ , न॒पा॒ता॒ , व॒न॒थः॒ , शची॑भिः । यु॒वोः , वपुः॑ , अ॒भि , पृक्षः॑ , स॒चं॒ते॒ , वहं॑ति , यत् , क॒कु॒हासः॑ , रथे॑ , वां॒ ॥
को वा॑म॒द्या क॑रते रा॒तह॑व्य ऊ॒तये॑ वा सुत॒पेया॑य वा॒र्कैः । ऋ॒तस्य॑ वा व॒नुषे॑ पू॒र्व्याय॒ नमो॑ येमा॒नो अ॑श्वि॒ना व॑वर्तत् ॥
कः , वां॒ , अ॒द्य , क॒र॒ते॒ , रा॒तऽह॑व्यः , ऊ॒तये॑ , वा॒ , सु॒त॒ऽपेया॑य , वा॒ , अ॒र्कैः । ऋ॒तस्य॑ , वा॒ , व॒नुषे॑ , पू॒र्व्याय॑ , नमः॑ , ये॒मा॒नः , अ॒श्वि॒ना॒ , आ , व॒व॒र्त॒त् ॥
हि॒र॒ण्यये॑न पुरुभू॒ रथे॑ने॒मं य॒ज्ञं ना॑स॒त्योप॑ यातं । पिबा॑थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं॑ विध॒ते जना॑य ॥
हि॒र॒ण्यये॑न , पु॒रु॒भू॒ इति॑ पुरुऽभू , रथे॑न , इ॒मं , य॒ज्ञं , ना॒स॒त्या॒ , उप॑ , या॒तं॒ । पिबा॑थः , इत् , मधु॑नः , सो॒म्यस्य॑ , दध॑थः , रत्नं॑ , वि॒ध॒ते , जना॑य ॥
आ नो॑ यातं दि॒वो अच्छा॑ पृथि॒व्या हि॑र॒ण्यये॑न सु॒वृता॒ रथे॑न । मा वा॑म॒न्ये नि य॑मंदेव॒यंतः॒ सं यद्द॒दे नाभिः॑ पू॒र्व्या वां॑ ॥
आ , नः॒ , या॒तं॒ , दि॒वः , अच्छ॑ , पृ॒थि॒व्याः , हि॒र॒ण्यये॑न , सु॒ऽवृता॑ , रथे॑न । मा , वां॒ , अ॒न्ये , नि , य॒म॒न् , दे॒व॒ऽयंतः॑ , सं , यत् , द॒दे , नाभिः॑ , पू॒र्व्या , वां॒ ॥
नू नो॑ र॒यिं पु॑रु॒वीरं॑ बृ॒हंतं॒ दस्रा॒ मिमा॑थामु॒भये॑ष्व॒स्मे । नरो॒ यद्वा॑मश्विना॒ स्तोम॒मावं॑त्स॒धस्तु॑तिमाजमी॒ळ्हासो॑ अग्मन् ॥
नु , नः॒ , र॒यिं , पु॒रु॒ऽवीरं॑ , बृ॒हंतं॑ , द॒स्रा॒ , मिमा॑थां , उ॒भये॑षु , अ॒स्मे इति॑ । नरः॑ , यत् , वां॒ , अ॒श्वि॒ना॒ , स्तोमं॑ , आव॑न् , स॒धऽस्तु॑तिं , आ॒ज॒ऽमी॒ळ्हासः॑ , अ॒ग्म॒न् ॥
इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना । उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥
इ॒हऽइ॑ह , यत् , वां॒ , स॒म॒ना , प॒पृ॒क्षे , सा , इ॒यं , अ॒स्मे इति॑ , सु॒ऽम॒तिः , वा॒ज॒ऽर॒त्ना॒ । उ॒रु॒ष्यतं॑ , ज॒रि॒तारं॑ , यु॒वं , ह॒ , श्रि॒तः , कामः॑ , ना॒स॒त्या॒ , यु॒व॒द्रिक् ॥
[४५] एषस्यइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोश्विनौ जगत्यंत्यात्रिष्टुप् |
ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथः॒ परि॑ज्मा दि॒वो अ॒स्य सान॑वि । पृ॒क्षासो॑ अस्मिन्मिथु॒ना अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ॥
ए॒षः , स्यः , भा॒नुः , उत् , इ॒य॒र्ति॒ , यु॒ज्यते॑ , रथः॑ , परि॑ऽज्मा , दि॒वः , अ॒स्य , सान॑वि । पृ॒क्षासः॑ , अ॒स्मि॒न् , मि॒थु॒नाः , अधि॑ , त्रयः॑ , दृतिः॑ , तु॒रीयः॑ , मधु॑नः , वि , र॒प्श॒ते॒ ॥
उद्वां॑ पृ॒क्षासो॒ मधु॑मंत ईरते॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टिषु । अ॒पो॒र्णु॒वंत॒स्तम॒ आ परी॑वृतं॒ स्व१॒॑र्ण शु॒क्रं त॒न्वंत॒ आ रजः॑ ॥
उत् , वां॒ , पृ॒क्षासः॑ , मधु॑ऽमंतः , ई॒र॒ते॒ , रथाः॑ , अश्वा॑सः , उ॒षसः॑ , विऽउ॑ष्टिषु । अ॒प॒ऽऊ॒र्णु॒वंतः॑ , तमः॑ , आ , परि॑ऽवृतं , स्वः॑ , न , शु॒क्रं , त॒न्वंतः॑ , आ , रजः॑ ॥
मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युंजाथां॒ रथं॑ । आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं॑ वहेथे॒ मधु॑मंतमश्विना ॥
मध्वः॑ , पि॒ब॒तं॒ , म॒धु॒ऽपेभिः॑ , आ॒सऽभिः॑ , उ॒त , प्रि॒यं , मधु॑ने , युं॒जा॒थां॒ , रथं॑ । आ , व॒र्त॒निं , मधु॑ना , जि॒न्व॒थः॒ , प॒थः , दृतिं॑ , व॒हे॒थे॒ इति॑ , मधु॑ऽमंतं , अ॒श्वि॒ना॒ ॥
हं॒सासो॒ ये वां॒ मधु॑मंतो अ॒स्रिधो॒ हिर॑ण्यपर्णा उ॒हुव॑ उष॒र्बुधः॑ । उ॒द॒प्रुतो॑ मं॒दिनो॑ मंदिनि॒स्पृशो॒ मध्वो॒ न मक्षः॒ सव॑नानि गच्छथः ॥
हं॒सासः॑ , ये , वां॒ , मधु॑ऽमंतः , अ॒स्रिधः॑ , हिर॑ण्यऽपर्णाः , उ॒हुवः॑ , उ॒षः॒ऽबुधः॑ । उ॒द॒ऽप्रुतः॑ , मं॒दिनः॑ , मं॒दि॒ऽनि॒स्पृशः॑ , मध्वः॑ , न , मक्षः॑ , सव॑नानि , ग॒च्छ॒थः॒ ॥
स्व॒ध्व॒रासो॒ मधु॑मंतो अ॒ग्नय॑ उ॒स्रा ज॑रंते॒ प्रति॒ वस्तो॑र॒श्विना॑ । यन्नि॒क्तह॑स्तस्त॒रणि॑र्विचक्ष॒णः सोमं॑ सु॒षाव॒ मधु॑मंत॒मद्रि॑भिः ॥
सु॒ऽअ॒ध्च॒रासः॑ , मधु॑ऽमंतः , अ॒ग्नयः॑ , उ॒स्रा , ज॒रं॒ते॒ , प्रति॑ , वस्तोः॑ , अ॒श्विना॑ । यत् , नि॒क्तऽह॑स्तः , त॒रणिः॑ , वि॒ऽच॒क्ष॒णः , सोमं॑ , सु॒साव॑ , मधु॑ऽमंतं , अद्रि॑ऽभिः ॥
आ॒के॒नि॒पासो॒ अह॑भि॒र्दवि॑ध्वतः॒ स्व१॒॑र्ण शु॒क्रं त॒न्वंत॒ आ रजः॑ । सूर॑श्चि॒दश्वा॑न्युयुजा॒न ई॑यते॒ विश्वाँ॒ अनु॑ स्व॒धया॑ चेतथस्प॒थः ॥
आ॒के॒ऽनि॒पासः॑ , अह॑ऽभिः , दवि॑ध्वतः , स्वः॑ , न , शु॒क्रं , त॒न्वंतः॑ , आ , रजः॑ । सूरः॑ , चि॒त् , अश्वा॑न् , यु॒यु॒जा॒नः , ई॒य॒ते॒ , विश्वा॑न् , अनु॑ , स्व॒धया॑ , चे॒त॒थः॒ , प॒थः ॥
प्र वा॑मवोचमश्विना धियं॒धा रथः॒ स्वश्वो॑ अ॒जरो॒ यो अस्ति॑ । येन॑ स॒द्यः परि॒ रजां॑सि या॒थो ह॒विष्मं॑तं त॒रणिं॑ भो॒जमच्छ॑ ॥
प्र , वां॒ , अ॒वो॒चं॒ , अ॒श्वि॒ना॒ , धि॒यं॒ऽधाः , रथः॑ , सु॒ऽअश्वः॑ , अ॒जरः॑ , यः , अस्ति॑ । येन॑ , स॒द्यः , परि॑ , रजां॑सि , या॒थः , ह॒विष्मं॑तं , त॒रणिं॑ , भो॒जं , अच्छ॑ ॥
[४६] अग्रंपिबेति सप्तर्चस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुर्गायत्री |
अग्रं॑ पिबा॒ मधू॑नां सु॒तं वा॑यो॒ दिवि॑ष्टिषु । त्वं हि पू॑र्व॒पा असि॑ ॥
अग्रं॑ , पि॒ब॒ , मधू॑नां , सु॒तं , व॒यो॒ इति॑ , दिवि॑ष्टिषु । त्वं , हि , पू॒र्व॒ऽपाः , असि॑ ॥
श॒तेना॑ नो अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ इंद्र॑सारथिः । वायो॑ सु॒तस्य॑ तृंपतं ॥
श॒तेन॑ , नः॒ , अ॒भिष्टि॑ऽभिः , नि॒युत्वा॑न् , इंद्र॑ऽसारथिः । वायो॒ इति॑ , सु॒तस्य॑ , तृं॒प॒तं॒ ॥
आ वां॑ स॒हस्रं॒ हर॑य॒ इंद्र॑वायू अ॒भि प्रयः॑ । वहं॑तु॒ सोम॑पीतये ॥
आ , वां॒ , स॒हस्रं॑ , हर॑यः , इंद्र॑वायू॒ इति॑ , अ॒भि , प्रयः॑ । वहं॑तु , सोम॑ऽपीतये ॥
रथं॒ हिर॑ण्यवंधुर॒मिंद्र॑वायू स्वध्व॒रं । आ हि स्थाथो॑ दिवि॒स्पृशं॑ ॥
रथं॑ , हिर॑ण्यऽवंधुरं , इंद्र॑वायू॒ इति॑ , सु॒ऽअ॒ध्व॒रं । आ , हि , स्थाथः॑ , दि॒वि॒ऽस्पृशं॑ ॥
रथे॑न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतं । इंद्र॑वायू इ॒हा ग॑तं ॥
रथे॑न , पृ॒थु॒ऽपाज॑सा , दा॒श्वांसं॑ , उप॑ , ग॒च्छ॒तं॒ । इंद्र॑वायू॒ इति॑ , इ॒ह , आ , ग॒तं॒ ॥
इंद्र॑वायू अ॒यं सु॒तस्तं दे॒वेभिः॑ स॒जोष॑सा । पिब॑तं दा॒शुषो॑ गृ॒हे ॥
इंद्र॑वायू॒ इति॑ , अ॒यं , सु॒तः , तं , दे॒वेभिः॑ , स॒ऽजोष॑सा । पिब॑तं , दा॒शुषः॑ , गृ॒हे ॥
इ॒ह प्र॒याण॑मस्तु वा॒मिंद्र॑वायू वि॒मोच॑नं । इ॒ह वां॒ सोम॑पीतये ॥
इ॒ह , प्र॒ऽयानं॑ , अ॒स्तु॒ , वां॒ , इंद्र॑वायू॒ इति॑ , वि॒ऽमोच॑नं । इ॒ह , वां॒ , सोम॑ऽपीतये ॥
[४७] वायोशुक्रइति चतुरृचस्य सूक्तस्य गौतमोवामदेव इंद्रवायू आद्यायावायुरनुष्टुप् |
वायो॑ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु । आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता ॥
वायो॒ इति॑ , शु॒क्रः , अ॒या॒मि॒ , ते॒ , मध्वः॑ , अग्रं॑ , दिवि॑ष्टिषु । आ , या॒हि॒ , सोम॑ऽपीतये , स्पा॒र्हः , दे॒व॒ , नि॒युत्व॑ता ॥
इंद्र॑श्च वायवेषां॒ सोमा॑नां पी॒तिम॑र्हथः । यु॒वां हि यंतींद॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥
इंद्रः॑ , च॒ , वा॒यो॒ इति॑ , ए॒षां॒ , सोमा॑नां , पी॒तिं , अ॒र्ह॒थः॒ । यु॒वां , हि , यंति॑ , इंद॑वः , नि॒म्नं , आपः॑ , न , स॒ध्र्य॑क् ॥
वाय॒विंद्र॑श्च शु॒ष्मिणा॑ स॒रथं॑ शवसस्पती । नि॒युत्वं॑ता न ऊ॒तय॒ आ या॑तं॒ सोम॑पीतये ॥
वायो॒ इति॑ , इंद्रः॑ , च॒ , शु॒ष्मिणा॑ , स॒ऽरथं॑ , श॒व॒सः॒ , प॒ती॒ इति॑ । नि॒युत्वं॑ता , नः॒ , ऊ॒तये॑ , आ , या॒तं॒ , सोम॑ऽपीतये ॥
या वां॒ संति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा । अ॒स्मे ता य॑ज्ञवाह॒सेंद्र॑वायू॒ नि य॑च्छतं ॥
याः , वां॒ , संति॑ , पु॒रु॒ऽस्पृहः॑ , नि॒ऽयुतः॑ , दा॒शुषे॑ , न॒रा॒ । अ॒स्मे इति॑ , ताः , य॒ज्ञ॒ऽवा॒ह॒सा॒ , इंद्र॑वायू॒ इति॑ , नि , य॒च्छ॒तं॒ ॥
[४८] विहिहोत्राइति पंचर्चस्य सूक्तस्य गौतमोवामदेवोवायुरनुष्टुप् |
वि॒हि होत्रा॒ अवी॑ता॒ विपो॒ न रायो॑ अ॒र्यः । वाय॒वा चं॒द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥
वि॒हि , होत्रा॑ , अवी॑ताः , विपः॑ , न , रायः॑ , अ॒र्यः । वायो॒ इति॑ , आ , चं॒द्रेण॑ , रथे॑न , या॒हि , सु॒तस्य॑ , पी॒तये॑ ॥
नि॒र्यु॒वा॒णो अश॑स्तीर्नि॒युत्वाँ॒ इंद्र॑सारथिः । वाय॒वा चं॒द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥
निः॒ऽयु॒वा॒नः , अश॑स्तीः , नि॒युत्वा॑न् , इंद्र॑ऽसारथिः । वायो॒ इति॑ , आ , चं॒द्रेण॑ , रथे॑न , या॒हि , सु॒तस्य॑ , पी॒तये॑ ॥
अनु॑ कृ॒ष्णे वसु॑धिती ये॒माते॑ वि॒श्वपे॑शसा । वाय॒वा चं॒द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥
अनु॑ , कृ॒ष्णे इति॑ , वसु॑धिती॒ इति॒ वसु॑ऽधिती , ये॒माते॒ इति॑ , वि॒श्वऽपे॑शसा । वायो॒ इति॑ , आ , चं॒द्रेण॑ , रथे॑न , या॒हि , सु॒तस्य॑ , पी॒तये॑ ॥
वहं॑तु त्वा मनो॒युजो॑ यु॒क्तासो॑ नव॒तिर्नव॑ । वाय॒वा चं॒द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥
वहं॑तु , त्वा॒ , म॒नः॒ऽयुजः॑ , यु॒क्तासः॑ , न॒व॒तिः , नव॑ । वायो॒ इति॑ , आ , चं॒द्रेण॑ , रथे॑न , या॒हि , सु॒तस्य॑ , पी॒तये॑ ॥
वायो॑ श॒तं हरी॑णां यु॒वस्व॒ पोष्या॑णां । उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा ॥
वायो॒ इति॑ , श॒तं , हरी॑णां , यु॒वस्व॑ , पोष्या॑णां । उ॒त , वा॒ , ते॒ , स॒ह॒स्रिणः॑ , रथः॑ , आ , या॒तु॒ , पाज॑सा ॥
[४९] इदंवामिति षडृचस्य सूक्तस्य गौतमोवामदेव इंद्राबृहस्पतीगायत्री
इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमिं॑द्राबृहस्पती । उ॒क्थं मद॑श्च शस्यते ॥
इ॒दं , वां॒ , आ॒स्ये॑ , ह॒विः , प्रि॒यं , इं॒द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । उ॒क्थं , मदः॑ , च॒ , श॒स्य॒ते॒ ॥
अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इंद्राबृहस्पती । चारु॒र्मदा॑य पी॒तये॑ ॥
अ॒यं , वां॒ , परि॑ , सि॒च्य॒ते॒ , सोमः॑ , इं॒द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । चारुः॒ , मदा॑य , पी॒तये॑ ॥
आ न॑ इंद्राबृहस्पती गृ॒हमिंद्र॑श्च गच्छतं । सो॒म॒पा सोम॑पीतये ॥
आ , नः॒ , इं॒द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ , गृ॒हं , इंद्रः॑ , च॒ , ग॒च्छ॒तं॒ । सो॒म॒ऽपा , सोम॑ऽपीतये ॥
अ॒स्मे इं॑द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विनं॑ । अश्वा॑वंतं सह॒स्रिणं॑ ॥
अ॒स्मे इति॑ , इं॒द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ , र॒यिं , ध॒त्तं॒ , श॒त॒ऽग्विनं॑ । अश्व॑ऽवंतं , स॒ह॒स्रिणं॑ ॥
इंद्रा॒बृह॒स्पती॑ व॒यं सु॒ते गी॒र्भिर्ह॑वामहे । अ॒स्य सोम॑स्य पी॒तये॑ ॥
इंद्रा॒बृह॒स्पती॒ इति॑ , व॒यं , सु॒ते , गीः॒ऽभिः , ह॒वा॒म॒हे॒ । अ॒स्य , सोम॑स्य , पी॒तये॑ ॥
सोम॑मिंद्राबृहस्पती॒ पिब॑तं दा॒शुषो॑ गृ॒हे । मा॒दये॑थां॒ तदो॑कसा ॥
सोमं॑ , इं॒द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ , पिब॑तं , दा॒शुषः॑ , गृ॒हे । मा॒दये॑थां , तत्ऽओ॑कसा ॥
[५०] यस्तस्तंभेत्येकादशर्चस्य सूक्तस्य गौतमोवामदेवो बृहस्पतिरंत्ययोर्द्वयोरिंद्राबृहस्पतीत्रिष्टुप्दशमी जगती |
यस्त॒स्तंभ॒ सह॑सा॒ वि ज्मो अंता॒न्बृह॒स्पति॑स्त्रिषध॒स्थो रवे॑ण । तं प्र॒त्नास॒ ऋष॑यो॒ दीध्या॑नाः पु॒रो विप्रा॑ दधिरे मं॒द्रजि॑ह्वं ॥
यः , त॒स्तंभ॑ , सह॑सा , वि , ज्मः , अंता॑न् , बृह॒स्पतिः॑ , त्रि॒ऽस॒ध॒स्थः , रवे॑ण । तं , प्र॒त्नासः॑ , ऋष॑यः , दीध्या॑नाः , पु॒रः , विप्राः॑ , द॒धि॒रे॒ , मं॒द्रऽजि॑ह्वं ॥
धु॒नेत॑यः सुप्रके॒तं मदं॑तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे । पृषं॑तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनिं॑ ॥
धु॒नऽइ॑तयः , सु॒ऽप्र॒के॒तं , मदं॑तः , बृह॑स्पते , अ॒भि , ये , नः॒ , त॒त॒स्रे । पृषं॑तं , सृ॒प्रं , अद॑ब्धं , ऊ॒र्वं , बृह॑स्पते , रक्ष॑तात् , अ॒स्य॒ , योनिं॑ ॥
बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ त॑ ऋत॒स्पृशो॒ नि षे॑दुः । तुभ्यं॑ खा॒ता अ॑व॒ता अद्रि॑दुग्धा॒ मध्वः॑ श्चोतंत्य॒भितो॑ विर॒प्शं ॥
बृह॑स्पते , या , प॒र॒मा , प॒रा॒ऽवत् , अतः॑ , आ , ते॒ , ऋ॒त॒ऽस्पृशः॑ , नि , से॒दुः॒ । तुभ्यं॑ , खा॒ताः , अ॒व॒ताः , अद्रि॑ऽदुग्धाः , मध्वः॑ , श्चो॒तं॒ति॒ , अ॒भितः॑ , वि॒ऽर॒प्शं ॥
बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्यो॑मन् । स॒प्तास्य॑स्तुविजा॒तो रवे॑ण॒ वि स॒प्तर॑श्मिरधम॒त्तमां॑सि ॥
बृह॒स्पतिः॑ , प्र॒थ॒मं , जाय॑मानः , म॒हः , ज्योति॑षः , प॒र॒मे , विऽओ॑मन् । स॒प्तऽआ॑स्यः , तु॒वि॒ऽजा॒तः , रवे॑ण , वि , स॒प्तऽर॑श्मिः , अ॒ध॒म॒त् , तमां॑सि ॥
स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे॑ण । बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ॥
सः , सु॒ऽस्तुभा॑ , सः , ऋक्व॑ता , ग॒णेन॑ , व॒लं , रु॒रो॒ज॒ , फ॒लि॒ऽगं , रवे॑ण । बृह॒स्पतिः॑ , उ॒स्रियाः॑ , ह॒व्य॒ऽसूदः॑ , कनि॑क्रदत् , वाव॑शतीः , उत् , आ॒ज॒त् ॥
ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ । बृह॑स्पते सुप्र॒जा वी॒रवं॑तो व॒यं स्या॑म॒ पत॑यो रयी॒णां ॥
ए॒व , पि॒त्रे , वि॒श्वऽदे॑वाय , वृष्णे॑ , य॒ज्ञैः , वि॒धे॒म॒ , नम॑सा , ह॒विःऽभिः॑ । बृह॑स्पते , सु॒ऽप्र॒जाः , वी॒रऽवं॑तः , व॒यं , स्या॒म॒ , पत॑यः , र॒यी॒णां ॥
स इद्राजा॒ प्रति॑जन्यानि॒ विश्वा॒ शुष्मे॑ण तस्थाव॒भि वी॒र्ये॑ण । बृह॒स्पतिं॒ यः सुभृ॑तं बि॒भर्ति॑ वल्गू॒यति॒ वंद॑ते पूर्व॒भाजं॑ ॥
सः , इत् , राजा॑ , प्रति॑ऽजन्यानि , विश्वा॑ , शुष्मे॑ण , त॒स्थौ॒ , अ॒भि , वी॒र्ये॑ण । बृह॒स्पतिं॑ , यः , सुऽभृ॑तं , बि॒भर्ति॑ , व॒ल्गु॒ऽयति॑ , वंद॑ते , पू॒र्व॒ऽभाजं॑ ॥
स इत्क्षे॑ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒ इळा॑ पिन्वते विश्व॒दानीं॑ । तस्मै॒ विशः॑ स्व॒यमे॒वा न॑मंते॒ यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ॥
सः , इत् , क्षे॒ति॒ , सुऽधि॑तः , ओक॑सि , स्वे , तस्मै॑ , इळा॑ , पि॒न्व॒ते॒ , वि॒श्व॒ऽदानीं॑ । तस्मै॑ , विशः॑ , स्व॒यं , ए॒व , न॒मं॒ते॒ , यस्मि॑न् , ब्र॒ह्मा , राज॑नि , पूर्वः॑ , एति॑ ॥
अप्र॑तीतो जयति॒ सं धना॑नि॒ प्रति॑जन्यान्यु॒त या सज॑न्या । अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वंति दे॒वाः ॥
अप्र॑तिऽइतः , ज॒य॒ति॒ , सं , धना॑नि , प्रति॑ऽजन्यानि , उ॒त , या , सऽज॑न्या । अ॒व॒स्यवे॑ , यः , वरि॑वः , कृ॒णोति॑ , ब्र॒ह्मणे॑ , राजा॑ , तं , अ॒वं॒ति॒ , दे॒वाः ॥
इंद्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे मं॑दसा॒ना वृ॑षण्वसू । आ वां॑ विशं॒त्विंद॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतं ॥
इंद्रः॑ , च॒ , सोमं॑ , पि॒ब॒तं॒ , बृ॒ह॒स्प॒ते॒ , अ॒स्मिन् , य॒ज्ञे , मं॒द॒सा॒ना , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । आ , वां॒ , वि॒शं॒तु॒ , इंद॑वः , सु॒ऽआ॒भुवः॑ , अ॒स्मे इति॑ , र॒यिं , सर्व॑ऽवीरं , नि , य॒च्छ॒तं॒ ॥
बृह॑स्पत इंद्र॒ वर्ध॑तं नः॒ सचा॒ सा वां॑ सुम॒तिर्भू॑त्व॒स्मे । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥
बृह॑स्पते , इं॒द्र॒ , वर्ध॑तं , नः॒ , सचा॑ , सा , वां॒ , सु॒ऽम॒तिः , भू॒तु॒ , अ॒स्मे इति॑ । अ॒वि॒ष्टं , धियः॑ , जि॒गृ॒तं , पुरं॑ऽधीः , ज॒ज॒स्तं , अ॒र्यः , व॒नुषां॑ , अरा॑तीः ॥
[५१] इदमुत्यदित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवउषास्त्रिष्टुप् |
इ॒दमु॒ त्यत्पु॑रु॒तमं॑ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना॑वदस्थात् । नू॒नं दि॒वो दु॑हि॒तरो॑ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना॑य ॥
इ॒दं , ऊँ॒ इति॑ , त्यत् , पु॒रु॒ऽतमं॑ , पु॒रस्ता॑त् , ज्योतिः॑ , तम॑सः , व॒युन॑ऽवत् , अ॒स्था॒त् । नू॒नं , दि॒वः , दु॒हि॒तरः॑ , वि॒ऽभा॒तीः , गा॒तुं , कृ॒ण॒व॒न् , उ॒षसः॑ , जना॑य ॥
अस्थु॑रु चि॒त्रा उ॒षसः॑ पु॒रस्ता॑न्मि॒ता इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ । व्यू॑ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छंती॑रव्रं॒छुच॑यः पाव॒काः ॥
अस्थुः॑ , ऊँ॒ इति॑ , चि॒त्राः , उ॒षसः॑ , पु॒रस्ता॑त् , मि॒ताःऽइ॑व , स्वर॑वः , अ॒ध्व॒रेषु॑ । वि , ऊँ॒ इति॑ , व्र॒जस्य॑ , तम॑सः , द्वारा॑ , उ॒च्छंतीः॑ , अ॒व्र॒न् , शुच॑यः , पा॒व॒काः ॥
उ॒च्छंती॑र॒द्य चि॑तयंत भो॒जान्रा॑धो॒देया॑यो॒षसो॑ म॒घोनीः॑ । अ॒चि॒त्रे अं॒तः प॒णयः॑ ससं॒त्वबु॑ध्यमाना॒स्तम॑सो॒ विम॑ध्ये ॥
उ॒च्छंतीः॑ , अ॒द्य , चि॒त॒यं॒त॒ , भो॒जान् , रा॒धः॒ऽदेया॑य , उ॒षसः॑ , म॒घोनीः॑ । अ॒चि॒त्रे , अं॒तरिति॑ , प॒णयः॑ , स॒सं॒तु॒ , अबु॑ध्यमानाः , तम॑सः , विऽम॑ध्ये ॥
कु॒वित्स दे॑वीः स॒नयो॒ नवो॑ वा॒ यामो॑ बभू॒यादु॑षसो वो अ॒द्य । येना॒ नव॑ग्वे॒ अंगि॑रे॒ दश॑ग्वे स॒प्तास्ये॑ रेवती रे॒वदू॒ष ॥
कु॒वित् , सः , दे॒वीः॒ , स॒नयः॑ , नवः॑ , वा॒ , यामः॑ , ब॒भू॒यात् , उ॒ष॒सः॒ , वः॒ , अ॒द्य । येन॑ , नव॑ऽग्वे , अंगि॑रे , दश॑ऽग्वे , स॒प्तऽआ॑स्ये , रे॒व॒तीः॒ , रे॒वत् , ऊ॒ष ॥
यू॒यं हि दे॑वीर्ऋत॒युग्भि॒रश्वैः॑ परिप्रया॒थ भुव॑नानि स॒द्यः । प्र॒बो॒धयं॑तीरुषसः स॒संतं॑ द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य जी॒वं ॥
यू॒यं , हि , दे॒वीः॒ , ऋ॒त॒युक्ऽभिः॑ , अश्वैः॑ , प॒रि॒ऽप्र॒या॒थ , भुव॑नानि , स॒द्यः । प्र॒ऽबो॒धयं॑तीः , उ॒ष॒सः॒ , स॒संतं॑ , द्वि॒ऽपात् , चतुः॑ऽपात् , च॒रथा॑य , जी॒वं ॥
क्व॑ स्विदासां कत॒मा पु॑रा॒णी यया॑ वि॒धाना॑ विद॒धुर्ऋ॑भू॒णां । शुभं॒ यच्छु॒भ्रा उ॒षस॒श्चरं॑ति॒ न वि ज्ञा॑यंते स॒दृशी॑रजु॒र्याः ॥
क्व॑ , स्वि॒त् , आ॒सां॒ , क॒त॒मा , पु॒रा॒णी , यया॑ , वि॒ऽधाना॑ , वि॒ऽद॒धुः , ऋ॒भू॒णां । शुभं॑ , यत् , शु॒भ्राः , उ॒षसः॑ , चरं॑ति , न , वि , ज्ञा॒यं॒ते॒ , स॒ऽदृशीः॑ , अ॒जु॒र्याः ॥
ता घा॒ ता भ॒द्रा उ॒षसः॑ पु॒रासु॑रभि॒ष्टिद्यु॑म्ना ऋ॒तजा॑तसत्याः । यास्वी॑जा॒नः श॑शमा॒न उ॒क्थैः स्तु॒वंछंसं॒द्रवि॑णं स॒द्य आप॑ ॥
ताः , घ॒ , ताः , भ॒द्राः , उ॒षसः॑ , पु॒रा , आ॒सुः॒ , अ॒भि॒ष्टिऽद्यु॑म्नाः , ऋ॒तजा॑तऽसत्याः । यासु॑ , ई॒जा॒नः , श॒श॒मा॒नः , उ॒क्थैः , स्तु॒वन् , शंस॑न् , द्रवि॑णं , स॒द्यः , आप॑ ॥
ता आ च॑रंति सम॒ना पु॒रस्ता॑त्समा॒नतः॑ सम॒ना प॑प्रथा॒नाः । ऋ॒तस्य॑ दे॒वीः सद॑सो बुधा॒ना गवां॒ न सर्गा॑ उ॒षसो॑ जरंते ॥
ताः , आ , च॒रं॒ति॒ , स॒म॒ना , पु॒रस्ता॑त् , स॒मा॒नतः॑ , स॒म॒ना , प॒प्र॒था॒नाः । ऋ॒तस्य॑ , दे॒वीः , सद॑सः , बु॒धा॒नाः , गवां॑ , न , सर्गाः॑ , उ॒षसः॑ , ज॒रं॒ते॒ ॥
ता इन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नीरमी॑तवर्णा उ॒षस॑श्चरंति । गूहं॑ती॒रभ्व॒मसि॑तं॒ रुश॑द्भिः शु॒क्रास्त॒नूभिः॒ शुच॑यो रुचा॒नाः ॥
ताः , इत् , नु , ए॒व , स॒म॒ना , स॒मा॒नीः , अमी॑तऽवर्णाः , उ॒षसः॑ , च॒रं॒ति॒ । गूहं॑तीः , अभ्वं॑ , असि॑तं , रुश॑त्ऽभिः , शु॒क्राः , त॒नूभिः॑ , शुच॑यः , रु॒चा॒नाः ॥
र॒यिं दि॑वो दुहितरो विभा॒तीः प्र॒जावं॑तं यच्छता॒स्मासु॑ देवीः । स्यो॒नादा वः॑ प्रति॒बुध्य॑मानाः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
र॒यिं , दि॒वः॒ , दु॒हि॒त॒रः॒ , वि॒ऽभा॒तीः , प्र॒जाऽवं॑तं , य॒च्छ॒त॒ , अ॒स्मासु॑ , दे॒वीः॒ । स्यो॒नात् , आ , वः॒ , प्र॒ति॒ऽबुध्य॑मानाः , सु॒ऽवीर्य॑स्य , पत॑यः , स्या॒म॒ ॥
तद्वो॑ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके॑तुः । व॒यं स्या॑म य॒शसो॒ जने॑षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ॥
तत् , वः॒ , दि॒वः॒ , दु॒हि॒त॒रः॒ , वि॒ऽभा॒तीः , उप॑ , ब्रु॒वे॒ , उ॒ष॒सः॒ , य॒ज्ञऽके॑तुः । व॒यं , स्या॒म॒ , य॒शसः॑ , जने॑षु , तत् , द्यौः , च॒ , ध॒त्तां , पृ॒थि॒वी , च॒ , दे॒वी ॥
[५२] प्रतिष्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेव उषागायत्री |
प्रति॒ ष्या सू॒नरी॒ जनी॑ व्यु॒च्छंती॒ परि॒ स्वसुः॑ । दि॒वो अ॑दर्शि दुहि॒ता ॥
प्रति॑ , स्या , सू॒नरी॑ , जनी॑ , वि॒ऽउ॒च्छंती॑ , परि॑ , स्वसुः॑ । दि॒वः , अ॒द॒र्शि॒ , दु॒हि॒ता ॥
अश्वे॑व चि॒त्रारु॑षी मा॒ता गवा॑मृ॒ताव॑री । सखा॑भूद॒श्विनो॑रु॒षाः ॥
अश्वा॑ऽइव , चि॒त्रा , अरु॑षी , मा॒ता , गवां॑ , ऋ॒तऽव॑री । सखा॑ , अ॒भू॒त् , अ॒श्विनोः॑ , उ॒षाः ॥
उ॒त सखा॑स्य॒श्विनो॑रु॒त मा॒ता गवा॑मसि । उ॒तोषो॒ वस्व॑ ईशिषे ॥
उ॒त , सखा॑ , अ॒सि॒ , अ॒श्विनोः॑ , उ॒त , मा॒ता , गवां॑ , अ॒सि॒ । उ॒त , उ॒षः॒ , वस्वः॑ , ई॒शि॒षे॒ ॥
या॒व॒यद्द्वे॑षसं त्वा चिकि॒त्वित्सू॑नृतावरि । प्रति॒ स्तोमै॑रभुत्स्महि ॥
य॒व॒यत्ऽद्वे॑षसं , त्वा॒ , चि॒कि॒त्वित् , सू॒नृ॒ता॒ऽव॒रि॒ । प्रति॑ , स्तोमैः॑ , अ॒भु॒त्स्म॒हि॒ ॥
प्रति॑ भ॒द्रा अ॑दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मयः॑ । ओषा अ॑प्रा उ॒रु ज्रयः॑ ॥
प्रति॑ , भ॒द्राः , अ॒दृ॒क्ष॒त॒ , गवां॑ , सर्गाः॑ , न , र॒श्मयः॑ । आ , उ॒षाः , अ॒प्राः॒ , उ॒रु , ज्रयः॑ ॥
आ॒प॒प्रुषी॑ विभावरि॒ व्या॑व॒र्ज्योति॑षा॒ तमः॑ । उषो॒ अनु॑ स्व॒धाम॑व ॥
आ॒ऽप॒प्रुषी॑ , वि॒भा॒ऽव॒रि॒ , वि , आ॒वः॒ , ज्योति॑षा , तमः॑ । उषः॑ , अनु॑ , स्व॒धां , अ॒व॒ ॥
आ द्यां त॑नोषि र॒श्मिभि॒रांतरि॑क्षमु॒रु प्रि॒यं । उषः॑ शु॒क्रेण॑ शो॒चिषा॑ ॥
आ , द्यां , त॒नो॒षि॒ , र॒श्मिऽभिः॑ , आ , अं॒तरि॑क्षं , उ॒रु , प्रि॒यं । उषः॑ , शु॒क्रेण॑ , शो॒चिषा॑ ॥
[५३] तद्देवस्येति सप्तर्चस्य सूक्तस्य गौतमोवामदेवः सविताजगती |
तद्दे॒वस्य॑ सवि॒तुर्वार्यं॑ म॒हद्वृ॑णी॒महे॒ असु॑रस्य॒ प्रचे॑तसः । छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो॑ म॒हाँ उद॑यांदे॒वो अ॒क्तुभिः॑ ॥
तत् , दे॒वस्य॑ , स॒वि॒तुः , वार्यं॑ , म॒हत् , वृ॒णी॒महे॑ , असु॑रस्य , प्रऽचे॑तसः । छ॒र्दिः , येन॑ , दा॒शुषे॑ , यच्छ॑ति , त्मना॑ , तत् , नः॒ , म॒हान् , उत् , अ॒या॒न् , दे॒वः , अ॒क्तुऽभिः॑ ॥
दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शंगं॑ द्रा॒पिं प्रति॑ मुंचते क॒विः । वि॒च॒क्ष॒णः प्र॒थय॑न्नापृ॒णन्नु॒र्वजी॑जनत्सवि॒ता सु॒म्नमु॒क्थ्यं॑ ॥
दि॒वः , ध॒र्ता , भुव॑नस्य , प्र॒जाऽप॑तिः , पि॒शंगं॑ , द्रा॒पिं , प्रति॑ , मुं॒च॒ते॒ , क॒विः । वि॒ऽच॒क्ष॒णः , प्र॒थय॑न् , आ॒ऽपृ॒णन् , उ॒रु , अजी॑जनत् , स॒वि॒ता , सु॒म्नं , उ॒क्थ्यं॑ ॥
आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं॑ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे । प्र बा॒हू अ॑स्राक्सवि॒ता सवी॑मनि निवे॒शय॑न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ॥
आ , अ॒प्राः॒ , रजां॑सि , दि॒व्यानि॑ , पार्थि॑वा , श्लोकं॑ , दे॒वः , कृ॒णु॒ते॒ , स्वाय॑ , धर्म॑णे । प्र , बा॒हू इति॑ , अ॒स्रा॒क् , स॒वि॒ता , सवी॑मनि , नि॒ऽवे॒शय॑न् , प्र॒ऽसु॒वन् , अ॒क्तुऽभिः॑ , जग॑त् ॥
अदा॑भ्यो॒ भुव॑नानि प्र॒चाक॑शद्व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते । प्रास्रा॑ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो॑ धृ॒तव्र॑तो म॒हो अज्म॑स्य राजति ॥
अदा॑भ्यः , भुव॑नानि , प्र॒ऽचाक॑शत् , व्र॒तानि॑ , दे॒वः , स॒वि॒ता , अ॒भि , र॒क्ष॒ते॒ । प्र , अ॒स्रा॒क् , बा॒हू इति॑ , भुव॑नस्य , प्र॒ऽजाभ्यः॑ , धृ॒तऽव्र॑तः , म॒हः , अज्म॑स्य , रा॒ज॒ति॒ ॥
त्रिरं॒तरि॑क्षं सवि॒ता म॑हित्व॒ना त्री रजां॑सि परि॒भुस्त्रीणि॑ रोच॒ना । ति॒स्रो दिवः॑ पृथि॒वीस्ति॒स्र इ॑न्वति त्रि॒भिर्व्र॒तैर॒भि नो॑ रक्षति॒ त्मना॑ ॥
त्रिः , अं॒तरि॑क्षं , स॒वि॒ता , म॒हि॒ऽत्व॒ना , त्री , रजां॑सि , प॒रि॒ऽभूः , त्रीणि॑ , रो॒च॒ना । ति॒स्रः , दिवः॑ , पृ॒थि॒वीः , ति॒स्रः , इ॒न्व॒ति॒ , त्रि॒ऽभिः , व्र॒तैः , अ॒भि , नः॒ , र॒क्ष॒ति॒ , त्मना॑ ॥
बृ॒हत्सु॑म्नः प्रसवी॒ता नि॒वेश॑नो॒ जग॑तः स्था॒तुरु॒भय॑स्य॒ यो व॒शी । स नो॑ दे॒वः स॑वि॒ता शर्म॑ यच्छत्व॒स्मे क्षया॑य त्रि॒वरू॑थ॒मंह॑सः ॥
बृ॒हत्ऽसु॑म्नः , प्र॒ऽस॒वि॒ता , नि॒ऽवेश॑नः , जग॑तः , स्था॒तुः , उ॒भय॑स्य , यः , व॒शी । सः , नः॒ , दे॒वः , स॒वि॒ता , शर्म॑ , य॒च्छ॒तु॒ , अ॒स्मे इति॑ , क्षया॑य , त्रि॒ऽवरू॑थं , अंह॑सः ॥
आगं॑दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा॑तु नः सवि॒ता सु॑प्र॒जामिषं॑ । स नः॑ क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जावं॑तं र॒यिम॒स्मे समि॑न्वतु ॥
आ , अ॒ग॒न् , दे॒वः , ऋ॒तुऽभिः॑ , वर्ध॑तु , क्षयं॑ , दधा॑तु , नः॒ , स॒वि॒ता , सु॒ऽप्र॒जां , इषं॑ । सः , नः॒ , क्ष॒पाभिः॑ , अह॑ऽभिः , च॒ , जि॒न्व॒तु॒ , प्र॒जाऽवं॑तं , र॒यिं , अ॒स्मे इति॑ , सं , इ॒न्व॒तु॒ ॥
[५४] अभूद्देवइति षडृचस्य सूक्तस्य गौतमो वामदेवः सविताजगत्यंत्यात्रिष्टुप् |
अभू॑द्दे॒वः स॑वि॒ता वंद्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ । वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॒ श्रेष्ठं॑ नो॒ अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ॥
अभू॑त् , दे॒वः , स॒वि॒ता , वंद्यः॑ , नु , नः॒ , इ॒दानीं॑ , अह्नः॑ , उ॒प॒ऽवाच्यः॑ , नृऽभिः॑ । वि , यः , रत्ना॑ , भज॑ति , मा॒न॒वेभ्यः॑ , श्रेष्ठं॑ , नः॒ , अत्र॑ , द्रवि॑णं , यथा॑ , दध॑त् ॥
दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मं । आदिद्दा॒मानं॑ सवित॒र्व्यू॑र्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ॥
दे॒वेभ्यः॑ , हि , प्र॒थ॒मं , य॒ज्ञिये॑भ्यः , अ॒मृ॒त॒ऽत्वं , सु॒वसि॑ , भा॒गं , उ॒त्ऽत॒मं । आत् , इत् , दा॒मानं॑ , स॒वि॒तः॒ , वि , ऊ॒र्णु॒षे॒ , अ॒नू॒ची॒ना , जी॒वि॒ता , मानु॑षेभ्यः ॥
अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर्दक्षैः॒ प्रभू॑ती पूरुष॒त्वता॑ । दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒दना॑गसः ॥
अचि॑त्ती , यत् , च॒कृ॒म , दैव्ये॑ , जने॑ , दी॒नैः , दक्षः॑ , प्रऽभू॑ती , पु॒रु॒ष॒त्वता॑ । दे॒वेषु॑ , च॒ , स॒वि॒तः॒ , मानु॑षेषु , च॒ , त्वं , नः॒ , अत्र॑ , सु॒व॒ता॒त् , अना॑गसः ॥
न प्र॒मिये॑ सवि॒तुर्दैव्य॑स्य॒ तद्यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ । यत्पृ॑थि॒व्या वरि॑म॒न्ना स्वं॑गु॒रिर्वर्ष्मं॑दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ॥
न , प्र॒ऽमिये॑ , स॒वि॒तुः , दैव्य॑स्य , तत् , यथा॑ , विश्वं॑ , भुव॑नं , धा॒र॒यि॒ष्यति॑ । यत् , पृ॒थि॒व्याः , वरि॑मन् , आ , सु॒ऽअं॒गु॒रिः , वर्ष्म॑न् , दि॒वः , सु॒वति॑ , स॒त्यं , अ॒स्य॒ , तत् ॥
इंद्र॑ज्येष्ठान्बृ॒हद्भ्यः॒ पर्व॑तेभ्यः॒ क्षयाँ॑ एभ्यः सुवसि प॒स्त्या॑वतः । यथा॑यथा प॒तयं॑तो वियेमि॒र ए॒वैव त॑स्थुः सवितः स॒वाय॑ ते ॥
इंद्र॑ऽज्येष्ठान् , बृ॒हत्ऽभ्यः॑ , पर्व॑तेभ्यः , क्षया॑न् , ए॒भ्यः॒ , सु॒व॒सि॒ , प॒स्त्य॑ऽवतः । यथा॑ऽयथा , प॒तयं॑तः , वि॒ऽये॒मि॒रे , ए॒व , ए॒व , त॒स्थुः॒ , स॒वि॒त॒रिति॑ , स॒वाय॑ , ते॒ ॥
ये ते॒ त्रिरहं॑त्सवितः स॒वासो॑ दि॒वेदि॑वे॒ सौभ॑गमासु॒वंति॑ । इंद्रो॒ द्यावा॑पृथि॒वी सिंधु॑र॒द्भिरा॑दि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥
ये , ते॒ , त्रिः , अह॑न् , स॒वि॒त॒रिति॑ , स॒वासः॑ , दि॒वेऽदि॑वे , सौभ॑गं , आ॒ऽसु॒वंति॑ । इंद्रः॑ , द्यावा॑पृथि॒वी इति॑ , सिंधुः॑ , अ॒त्ऽभिः , आ॒दि॒त्यैः , नः॒ , अदि॑तिः , शर्म॑ , यं॒स॒त् ॥
[५५] कोवस्त्रातेति दशर्चस्य सूक्तस्य गौतमोवामदेवो विश्वेदेवास्त्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः । (भेदपक्षे - विश्वेदेवाः ७ अग्निः १ उषाः १ विश्वेदेवाः १ एवंदश) |
को व॑स्त्रा॒ता व॑सवः॒ को व॑रू॒ता द्यावा॑भूमी अदिते॒ त्रासी॑थां नः । सही॑यसो वरुण मित्र॒ मर्ता॒त्को वो॑ऽध्व॒रे वरि॑वो धाति देवाः ॥
कः , वः॒ , त्रा॒ता , व॒स॒वः॒ , कः , व॒रू॒ता , द्यावा॑भूमी॒ इति॑ , अ॒दि॒ते॒ , त्रासी॑थां , नः॒ । सही॑यसः , व॒रु॒ण॒ , मि॒त्र॒ , मर्ता॑त् , कः , वः॒ , अ॒ध्व॒रे , वरि॑वः , धा॒ति॒ , दे॒वाः॒ ॥
प्र ये धामा॑नि पू॒र्व्याण्यर्चा॒न्वि यदु॒च्छान्वि॑यो॒तारो॒ अमू॑राः । वि॒धा॒तारो॒ वि ते द॑धु॒रज॑स्रा ऋ॒तधी॑तयो रुरुचंत द॒स्माः ॥
प्र , ये , धामा॑नि , पू॒र्व्याणि॑ , अर्चा॑न् , वि , यत् , उ॒च्छान् , वि॒ऽयो॒तारः॑ , अमू॑राः । वि॒ऽधा॒तारः॑ , वि , ते , द॒धुः॒ , अज॑स्राः , ऋ॒तऽधी॑तयः , रु॒रु॒चं॒त॒ , द॒स्माः ॥
प्र प॒स्त्या॒३॒॑मदि॑तिं॒ सिंधु॑म॒र्कैः स्व॒स्तिमी॑ळे स॒ख्याय॑ दे॒वीं । उ॒भे यथा॑ नो॒ अह॑नी नि॒पात॑ उ॒षासा॒नक्ता॑ करता॒मद॑ब्धे ॥
प्र , प॒स्त्यां॑ , अदि॑तिं , सिंधुं॑ , अ॒र्कैः , स्व॒स्तिं , ई॒ळे॒ , स॒ख्याय॑ , दे॒वीं । उ॒भे इति॑ , यथा॑ , नः॒ , अह॑नी॒ इति॑ , नि॒ऽपातः॑ , उ॒षसा॒नक्ता॑ , क॒र॒तां॒ , अद॑ब्धे॒ इति॑ ॥
व्य॑र्य॒मा वरु॑णश्चेति॒ पंथा॑मि॒षस्पतिः॑ सुवि॒तं गा॒तुम॒ग्निः । इंद्रा॑विष्णू नृ॒वदु॒ षु स्तवा॑ना॒ शर्म॑ नो यंत॒मम॑व॒द्वरू॑थं ॥
वि , अ॒र्य॒मा , वरु॑णः , चे॒ति॒ , पंथां॑ , इ॒षः , पतिः॑ , सु॒वि॒तं , गा॒तुं , अ॒ग्निः । इंद्रा॑विष्णू॒ इति॑ , नृ॒ऽवत् , ऊँ॒ इति॑ , सु , स्तवा॑ना , शर्म॑ , नः॒ , यं॒तं॒ , अम॑ऽवत् , वरू॑थं ॥
आ पर्व॑तस्य म॒रुता॒मवां॑सि दे॒वस्य॑ त्रा॒तुर॑व्रि॒ भग॑स्य । पात्पति॒र्जन्या॒दंह॑सो नो मि॒त्रो मि॒त्रिया॑दु॒त न॑ उरुष्येत् ॥
आ , पर्व॑तस्य , म॒रुतां॑ , अवां॑सि , दे॒वस्य॑ , त्रा॒तुः , अ॒व्रि॒ , भग॑स्य । पात् , पतिः॑ , जन्या॑त् , अंह॑सः , नः॒ , मि॒त्रः , मि॒त्रिया॑त् , उ॒त , नः॒ , उ॒रु॒ष्ये॒त् ॥
नू रो॑दसी॒ अहि॑ना बु॒ध्न्ये॑न स्तुवी॒त दे॑वी॒ अप्ये॑भिरि॒ष्टैः । स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो॑ घ॒र्मस्व॑रसो न॒द्यो॒३॒॑ अप॑ व्रन् ॥
नु , रो॒द॒सी॒ इति॑ , अहि॑ना , बु॒ध्न्ये॑न , स्तु॒वी॒त , दे॒वी॒ इति॑ , अप्ये॑भिः , इ॒ष्टैः । स॒मु॒द्रं , न , सं॒ऽचर॑णे , स॒नि॒ष्यवः॑ , घ॒र्मऽस्व॑रसः , न॒द्यः॑ , अप॑ , व्र॒न् ॥
दे॒वैर्नो॑ दे॒व्यदि॑ति॒र्नि पा॑तु दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑युच्छन् । न॒हि मि॒त्रस्य॒ वरु॑णस्य धा॒सिमर्हा॑मसि प्र॒मियं॒ सान्व॒ग्नेः ॥
दे॒वैः , नः॒ , दे॒वी , अदि॑तिः , नि , पा॒तु॒ , दे॒वः , त्रा॒ता , त्रा॒य॒तां॒ , अप्र॑ऽयुच्छन् । न॒हि , मि॒त्रस्य॑ , वरु॑णस्य , धा॒सिं , अर्हा॑मसि , प्र॒ऽमियं॑ , सानु॑ , अ॒ग्नेः ॥
अ॒ग्निरी॑शे वस॒व्य॑स्या॒ग्निर्म॒हः सौभ॑गस्य । तान्य॒स्मभ्यं॑ रासते ॥
अ॒ग्निः , ई॒शे॒ , व॒स॒व्य॑स्य , अ॒ग्निः , म॒हः , सौभ॑गस्य । तानि॑ , अ॒स्मभ्यं॑ , रा॒स॒ते॒ ॥
उषो॑ मघो॒न्या व॑ह॒ सूनृ॑ते॒ वार्या॑ पु॒रु । अ॒स्मभ्यं॑ वाजिनीवति ॥
उषः॑ , म॒घो॒नि॒ , आ , व॒ह॒ , सूनृ॑ते , वार्या॑ , पु॒रु । अ॒स्मभ्यं॑ , वा॒जि॒नी॒ऽव॒ति॒ ॥
तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । इंद्रो॑ नो॒ राध॒सा ग॑मत् ॥
तत् , सु , नः॒ , स॒वि॒ता , भगः॑ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा । इंद्रः॑ , नः॒ , राध॑सा , आ , ग॒म॒त् ॥
[५६] महीइति सप्तर्चस्य सूक्तस्य गौतमो वामदेवोद्यावापृथिवीत्रिष्टुप् अंत्यास्तिस्रो गायत्र्यः |
म॒ही द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे॑ रु॒चा भ॑वतां शु॒चय॑द्भिर॒र्कैः । यत्सीं॒ वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन्रु॒वद्धो॒क्षा प॑प्रथा॒नेभि॒रेवैः॑ ॥
म॒ही इति॑ , द्यावा॑पृथि॒वी इति॑ , इ॒ह , ज्येष्ठे॒ इति॑ , रु॒चा , भ॒व॒तां॒ , शु॒चय॑त्ऽभिः , अ॒र्कैः । यत् , सीं॒ , वरि॑ष्ठे॒ इति॑ , बृ॒ह॒ती इति॑ , वि॒ऽमि॒न्वन् , रु॒वत् , ह॒ , उ॒क्षा , प॒प्र॒था॒नेभिः॑ , एवैः॑ ॥
दे॒वी दे॒वेभि॑र्यज॒ते यज॑त्रै॒रमि॑नती तस्थतुरु॒क्षमा॑णे । ऋ॒ताव॑री अ॒द्रुहा॑ दे॒वपु॑त्रे य॒ज्ञस्य॑ ने॒त्री शु॒चय॑द्भिर॒र्कैः ॥
दे॒वी इति॑ , दे॒वेभिः॑ , य॒ज॒ते इति॑ , यज॑त्रैः , अमि॑नती॒ इति॑ , त॒स्थ॒तुः॒ , उ॒क्षमा॑णे॒ इति॑ । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री , अ॒द्रुहा॑ , दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे , य॒ज्ञस्य॑ , ने॒त्री इति॑ , शु॒चय॑त्ऽभिः , अ॒र्कैः ॥
स इत्स्वपा॒ भुव॑नेष्वास॒ य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ । उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके॑ अवं॒शे धीरः॒ शच्या॒ समै॑रत् ॥
सः , इत् , सु॒ऽअपाः॑ , भुव॑नेषु , आ॒स॒ , यः , इ॒मे इति॑ , द्यावा॑पृथि॒वी इति॑ , ज॒जान॑ । उ॒र्वी इति॑ , ग॒भी॒रे इति॑ , रज॑सी॒ इति॑ , सु॒मेके॒ इति॑ सु॒ऽमेके॑ , अ॒वं॒शे , धीरः॑ , शच्या॑ , सं , ऐ॒र॒त् ॥
नू रो॑दसी बृ॒हद्भि॑र्नो॒ वरू॑थैः॒ पत्नी॑वद्भिरि॒षयं॑ती स॒जोषाः॑ । उ॒रू॒ची विश्वे॑ यज॒ते नि पा॑तं धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥
नु , रो॒द॒सी॒ इति॑ , बृ॒हत्ऽभिः॑ , नः॒ , वरू॑थैः , पत्नी॑वत्ऽभिः , इ॒षयं॑ती॒ इति॑ , स॒ऽजोषाः॑ । उ॒रू॒ची इति॑ , विश्वे॒ इति॑ , य॒ज॒ते इति॑ , नि , पा॒तं॒ , धि॒या , स्या॒म॒ , र॒थ्यः॑ , स॒दा॒ऽसाः ॥
प्र वां॒ महि॒ द्यवी॑ अ॒भ्युप॑स्तुतिं भरामहे । शुची॒ उप॒ प्रश॑स्तये ॥
प्र , वां॒ , महि॑ , द्यवी॒ इति॑ , अ॒भि , उप॑ऽस्तुतिं , भ॒रा॒म॒हे॒ । शुची॒ इति॑ , उप॑ , प्रऽश॑स्तये ॥
पु॒ना॒ने त॒न्वा॑ मि॒थः स्वेन॒ दक्षे॑ण राजथः । ऊ॒ह्याथे॑ स॒नादृ॒तं ॥
पु॒ना॒ने इति॑ , त॒न्वा॑ , मि॒थः , स्वेन॑ , दक्षे॑ण , रा॒ज॒थः॒ । ऊ॒ह्याथे॒ इति॑ , स॒नात् , ऋ॒तं ॥
म॒ही मि॒त्रस्य॑ साधथ॒स्तरं॑ती॒ पिप्र॑ती ऋ॒तं । परि॑ य॒ज्ञं नि षे॑दथुः ॥
म॒ही इति॑ , मि॒त्रस्य॑ , सा॒ध॒थः॒ , तरं॑ती॒ इति॑ , पिप्र॑ती॒ इति॑ , ऋ॒तं । परि॑ , य॒ज्ञं , नि , से॒द॒थुः॒ ॥
[५७] क्षेत्रस्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव आद्यानांतिसृणां क्षेत्रपतिर्देवता चतुर्थ्याःशुनः पंचम्यष्टम्योः शुनासीरौ षष्ठीसप्तम्योः सीता आद्याचतुर्थीषष्ठीसप्तम्योनुष्टुभः पंचमीपुरउष्णिक् शेषास्त्रिष्टुभः (अत्रचतुर्थ्याः शुनोऽदंतः | तथाशुनासीरावित्यत्र केचिद्वाय्वादित्या वित्युंचारयंतितन्नचतुरस्रं यतः वायुः शुनः सूर्य एवात्रसीरः शुनासीरौवायुसूर्योवदंति | शुनासीरंयास्कइंद्रतुमेने सूर्येद्रौ तौमन्यतेशाकपूर्णि रितिशुनासीरस्वरूपेशौनकेनाचार्यमतदर्शनव्याजेनवैविध्यंप्रतिपादितं तस्मात्प्रकृतिभूतशुनासीरशब्देनोच्चारणंयुक्तं) |
क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने॑व जयामसि । गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑ ॥
क्षेत्र॑स्य , पति॑ना , व॒यं , हि॒तेन॑ऽइव , ज॒या॒म॒सि॒ । गां , अश्वं॑ , पो॒ष॒यि॒त्नु , आ , सः , नः॒ , मृ॒ळा॒ति॒ , ई॒दृशे॑ ॥
क्षेत्र॑स्य पते॒ मधु॑मंतमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व । म॒धु॒श्चुतं॑ घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ नः॒ पत॑यो मृळयंतु ॥
क्षेत्र॑स्य , प॒ते॒ , मधु॑ऽमंतं , ऊ॒र्मिं , धे॒नुःऽइ॑व , पयः॑ , अ॒स्मासु॑ , धु॒क्ष्व॒ । म॒धु॒ऽश्चुतं॑ , घृ॒तंऽइ॑व , सुऽपू॑तं , ऋ॒तस्य॑ , नः॒ , पत॑यः , मृ॒ळ॒यं॒तु॒ ॥
मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्वं॒तरि॑क्षं । क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यंतो॒ अन्वे॑नं चरेम ॥
मधु॑ऽमतीः , ओष॑धीः , द्यावः॑ , आपः॑ , मधु॑ऽमत् , नः॒ , भ॒व॒तु॒ , अं॒तरि॑क्षं । क्षेत्र॑स्य , पतिः॑ , मधु॑ऽमान् , नः॒ , अ॒स्तु॒ , अरि॑ष्यंतः , अनु॑ , ए॒नं॒ , च॒रे॒म॒ ॥
शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लांग॑लं । शु॒नं व॑र॒त्रा ब॑ध्यंतां शु॒नमष्ट्रा॒मुदिं॑गय ॥
शु॒नं , वा॒हाः , शु॒नं , नरः॑ , शु॒नं , कृ॒ष॒तु॒ , लांग॑लं । शु॒नं , व॒र॒त्राः , ब॒ध्यं॒तां॒ , शु॒नं , अष्ट्रां॑ , उत् , इं॒ग॒य॒ ॥
शुना॑सीरावि॒मां वाचं॑ जुषेथां॒ यद्दि॒वि च॒क्रथुः॒ पयः॑ । तेने॒मामुप॑ सिंचतं ॥
शुना॑सीरौ , इ॒मां , वाचं॑ , जु॒षे॒थां॒ , यत् , दि॒वि , च॒क्रथुः॑ , पयः॑ । तेन॑ , इ॒मां , उप॑ , सिं॒च॒तं॒ ॥
अ॒र्वाची॑ सुभगे भव॒ सीते॒ वंदा॑महे त्वा । यथा॑ नः सु॒भगास॑सि॒ यथा॑ नः सु॒फलास॑सि ॥
अ॒र्वाची॑ , सु॒ऽभ॒गे॒ , भ॒व॒ , सीते॑ , वंदा॑महे , त्वा॒ । यथा॑ , नः॒ , सु॒ऽभगा॑ , अस॑सि , यथा॑ , नः॒ , सु॒ऽफला॑ , अस॑सि ॥
इंद्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षानु॑ यच्छतु । सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समां॑ ॥
इंद्रः॑ , सीतां॑ , नि , गृ॒ह्णा॒तु॒ , तां , पू॒षा , अनु॑ , य॒च्छ॒तु॒ । सा , नः॒ , पय॑स्वती , दु॒हां॒ , उत्त॑रांऽउत्तरां , समां॑ ॥
शु॒नं नः॒ फाला॒ वि कृ॑षंतु॒ भूमिं॑ शु॒नं की॒नाशा॑ अ॒भि यं॑तु वा॒हैः । शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तं ॥
शु॒नं , नः॒ , फालाः॑ , वि , कृ॒षं॒तु॒ , भूमिं॑ , शु॒नं , की॒नाशाः॑ , अ॒भि , यं॒तु॒ , वा॒हैः । शु॒नं , प॒र्जन्यः॑ , मधु॑ना , पयः॑ऽभिः , शुना॑सीरा , शु॒नं , अ॒स्मासु॑ , ध॒त्तं॒ ॥
[५८] समुद्रादूर्मिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुबंत्याजगती | (सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता) |
स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒ उदा॑र॒दुपां॒शुना॒ सम॑मृत॒त्वमा॑नट् । घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभिः॑ ॥
स॒मु॒द्रात् , ऊ॒र्मिः , मधु॑ऽमान् , उत् , आ॒र॒त् , उप॑ , अं॒शुना॑ , सं , अ॒मृ॒त॒ऽत्वं , आ॒न॒ट् । घृ॒तस्य॑ , नाम॑ , गुह्यं॑ , यत् , अस्ति॑ , जि॒ह्वा , दे॒वानां॑ , अ॒मृत॑स्य , नाभिः॑ ॥
व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः । उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑शृंगोऽवमीद्गौ॒र ए॒तत् ॥
व॒यं , नाम॑ , प्र , ब्र॒वा॒म॒ , घृ॒तस्य॑ , अ॒स्मिन् , य॒ज्ञे , धा॒र॒या॒म॒ , नमः॑ऽभिः । उप॑ , ब्र॒ह्मा , शृ॒ण॒व॒त् , श॒स्यमा॑नं , चतुः॑ऽशृंगः , अ॒व॒मी॒त् , गौ॒रः , ए॒तत् ॥
च॒त्वारि॒ शृंगा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य । त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ आ वि॑वेश ॥
च॒त्वारि॑ , शृंगा॑ , त्रयः॑ , अ॒स्य॒ , पादाः॑ , द्वे इति॑ , शी॒र्षे इति॑ , स॒प्त , हस्ता॑सः , अ॒स्य॒ । त्रिधा॑ , ब॒द्धः , वृ॒ष॒भः , रो॒र॒वी॒ति॒ , म॒हः , दे॒वः , मर्त्या॑न् , आ , वि॒वे॒श॒ ॥
त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विंदन् । इंद्र॒ एकं॒ सूर्य॒ एकं॑ जजान वे॒नादेकं॑ स्व॒धया॒ निष्ट॑तक्षुः ॥
त्रिधा॑ , हि॒तं , प॒णिऽभिः॑ , गु॒ह्यमा॑नं , गवि॑ , दे॒वासः॑ , घृ॒तं , अनु॑ , अ॒विं॒द॒न् । इंद्रः॑ , एकं॑ , सूर्यः॑ , एकं॑ , ज॒जा॒न॒ , वे॒नात् , एकं॑ , स्व॒धया॑ , निः , त॒त॒क्षुः॒ ॥
ए॒ता अ॑र्षंति॒ हृद्या॑त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑ । घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसां ॥
ए॒ताः , अ॒र्षं॒ति॒ , हृद्या॑त् , स॒मु॒द्रात् , श॒तऽव्र॑जाः , रि॒पुणा॑ , न , अ॒व॒ऽचक्षे॑ । घृ॒तस्य॑ , धाराः॑ , अ॒भि , चा॒क॒शी॒मि॒ , हि॒र॒ण्ययः॑ , वे॒त॒सः , मध्ये॑ , आ॒सां॒ ॥
स॒म्यक्स्र॑वंति स॒रितो॒ न धेना॑ अं॒तर्हृ॒दा मन॑सा पू॒यमा॑नाः । ए॒ते अ॑र्षंत्यू॒र्मयो॑ घृ॒तस्य॑ मृ॒गा इ॑व क्षिप॒णोरीष॑माणाः ॥
स॒म्यक् , स्र॒वं॒ति॒ , स॒रितः॑ , न , धेनाः॑ , अं॒तः , हृ॒दा , मन॑सा , पू॒यमा॑नाः । ए॒ते , अ॒र्षं॒ति॒ , ऊ॒र्मयः॑ , घृ॒तस्य॑ , मृ॒गाःऽइ॑व , क्षि॒प॒णोः , ईष॑माणाः ॥
सिंधो॑रिव प्राध्व॒ने शू॑घ॒नासो॒ वात॑प्रमियः पतयंति य॒ह्वाः । घृ॒तस्य॒ धारा॑ अरु॒षो न वा॒जी काष्ठा॑ भिं॒दन्नू॒र्मिभिः॒ पिन्व॑मानः ॥
सिंधोः॑ऽइव , प्र॒ऽअ॒ध्व॒ने , शू॒घ॒नासः॑ , वात॑ऽप्रमियः , प॒त॒यं॒ति॒ , य॒ह्वाः । घृ॒तस्य॑ , धाराः॑ , अ॒रु॒षः , न , वा॒जी , काष्ठाः॑ , भिं॒दन् , ऊ॒र्मिऽभिः॑ , पिन्व॑मानः ॥
अ॒भि प्र॑वंत॒ सम॑नेव॒ योषाः॑ कल्या॒ण्य१॒॑ः स्मय॑मानासो अ॒ग्निं । घृ॒तस्य॒ धाराः॑ स॒मिधो॑ नसंत॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ॥
अ॒भि , प्र॒वं॒त॒ , सम॑नाऽइव , योषाः॑ , क॒ल्या॒ण्यः॑ , स्मय॑मानासः , अ॒ग्निं । घृ॒तस्य॑ , धाराः॑ , सं॒ऽइधः॑ , न॒सं॒त॒ , ताः , जु॒षा॒णः , ह॒र्य॒ति॒ , जा॒तऽवे॑दाः ॥
क॒न्या॑ इव वह॒तुमेत॒वा उ॑ अं॒ज्यं॑जा॒ना अ॒भि चा॑कशीमि । यत्र॒ सोमः॑ सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ अ॒भि तत्प॑वंते ॥
क॒न्याः॑ऽइव , व॒ह॒तुं , एत॒वै , ऊँ॒ इति॑ , अं॒जि , अं॒जा॒नाः , अ॒भि , चा॒क॒शी॒मि॒ । यत्र॑ , सोमः॑ , सू॒यते॑ , यत्र॑ , य॒ज्ञः , घृ॒तस्य॑ , धाराः॑ , अ॒भि , तत् , प॒वं॒ते॒ ॥
अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त । इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवंते ॥
अ॒भि , अ॒र्ष॒त॒ , सु॒ऽस्तु॒तिं , गव्यं॑ , आ॒जिं , अ॒स्मासु॑ , भ॒द्रा , द्रवि॑णानि , ध॒त्त॒ । इ॒मं , य॒ज्ञं , न॒य॒त॒ , दे॒वता॑ , नः॒ , घृ॒तस्य॑ , धाराः॑ , मधु॑ऽमत् , प॒वं॒ते॒ ॥
धामं॑ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तमं॒तः स॑मु॒द्रे हृ॒द्य१॒॑न्तरायु॑षि । अ॒पामनी॑के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मंतं त ऊ॒र्मिं ॥
धाम॑न् , ते॒ , विश्वं॑ , भुव॑नं , अधि॑ , श्रि॒तं , अं॒तरिति॑ , स॒मु॒द्रे , हृ॒दि , अं॒तः , आयु॑षि । अ॒पां , अनी॑के , सं॒ऽइ॒थे , यः , आऽभृ॑तः , तं , अ॒श्या॒म॒ , मधु॑ऽमंतं , ते॒ , ऊ॒र्मिं ॥
[१] अबोधीति द्वादशर्चस्य सूक्तस्यात्रेयौ बुधगविष्ठिरावग्निस्त्रिष्टुप् |
अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षासं॑ । य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥
अबो॑धि , अ॒ग्निः , सं॒ऽइधा॑ , जना॑नां , प्रति॑ , धे॒नुंऽइ॑व , आ॒ऽय॒तीं , उ॒षसं॑ । य॒ह्वाःऽइ॑व , प्र , व॒यां , उ॒त्ऽजिहा॑नाः , प्र , भा॒नवः॑ , सि॒स्र॒ते॒ , नाकं॑ , अच्छ॑ ॥
अबो॑धि॒ होता॑ य॒जथा॑य दे॒वानू॒र्ध्वो अ॒ग्निः सु॒मनाः॑ प्रा॒तर॑स्थात् । समि॑द्धस्य॒ रुश॑ददर्शि॒ पाजो॑ म॒हांदे॒वस्तम॑सो॒ निर॑मोचि ॥
अबो॑धि , होता॑ , य॒जथा॑य , दे॒वान् , ऊ॒र्ध्वः , अ॒ग्निः , सु॒ऽमनाः॑ , प्रा॒तः , अ॒स्था॒त् । संऽइ॑द्धस्य , रुश॑त् , अ॒द॒र्शि॒ , पाजः॑ , म॒हान् , दे॒वः , तम॑सः , निः , अ॒मो॒चि॒ ॥
यदीं॑ ग॒णस्य॑ रश॒नामजी॑गः॒ शुचि॑रंक्ते॒ शुचि॑भि॒र्गोभि॑र॒ग्निः । आद्दक्षि॑णा युज्यते वाज॒यंत्यु॑त्ता॒नामू॒र्ध्वो अ॑धयज्जु॒हूभिः॑ ॥
यत् , ईं॒ , ग॒णस्य॑ , र॒श॒नां , अजी॑ग॒रिति॑ , शुचिः॑ , अं॒क्ते॒ , शुचि॑ऽभिः , गोभिः॑ , अ॒ग्निः । आत् , दक्षि॑णा , यु॒ज्य॒ते॒ , वा॒ज॒ऽयंती॑ , उ॒त्ता॒नां , ऊ॒र्ध्वः , अ॒ध॒य॒त् , जु॒हूभिः॑ ॥
अ॒ग्निमच्छा॑ देवय॒तां मनां॑सि॒ चक्षूं॑षीव॒ सूर्ये॒ सं च॑रंति । यदीं॒ सुवा॑ते उ॒षसा॒ विरू॑पे श्वे॒तो वा॒जी जा॑यते॒ अग्रे॒ अह्नां॑ ॥
अ॒ग्निं , अच्छ॑ , दे॒व॒ऽय॒तां , मनां॑सि , चक्षूं॑षिऽइव , सूर्ये॑ , सं , च॒रं॒ति॒ । यत् , ईं॒ , सुवा॑ते॒ इति॑ , उ॒षसा॑ , विरू॑पे॒ इति॒ विऽरू॑पे , श्वे॒तः , वा॒जी , जा॒य॒ते॒ , अग्रे॑ , अह्नां॑ ॥
जनि॑ष्ट॒ हि जेन्यो॒ अग्रे॒ अह्नां॑ हि॒तो हि॒तेष्व॑रु॒षो वने॑षु । दमे॑दमे स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर्होता॒ नि ष॑सादा॒ यजी॑यान् ॥
जनि॑ष्ट , हि , जेन्यः॑ , अग्रे॑ , अह्नां॑ , हि॒तः , हि॒तेषु॑ , अ॒रु॒षः , वने॑षु । दमे॑ऽदमे , स॒प्त , रत्ना॑ , दधा॑नः , अ॒ग्निः , होता॑ , नि , स॒सा॒द॒ , यजी॑यान् ॥
अ॒ग्निर्होता॒ न्य॑सीद॒द्यजी॑यानु॒पस्थे॑ मा॒तुः सु॑र॒भा उ॑ लो॒के । युवा॑ क॒विः पु॑रुनि॒ष्ठ ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ॥
अ॒ग्निः , होता॑ , नि , अ॒सी॒द॒त् , यजी॑यान् , उ॒पऽस्थे॑ , मा॒तुः , सु॒र॒भौ , ऊँ॒ इति॑ , लो॒के । युवा॑ , क॒विः , पु॒रु॒निः॒ऽस्थः , ऋ॒तऽवा॑ , ध॒र्ता , कृ॒ष्टी॒नां , उ॒त , मध्ये॑ , इ॒द्धः ॥
प्र णु त्यं विप्र॑मध्व॒रेषु॑ सा॒धुम॒ग्निं होता॑रमीळते॒ नमो॑भिः । आ यस्त॒तान॒ रोद॑सी ऋ॒तेन॒ नित्यं॑ मृजंति वा॒जिनं॑ घृ॒तेन॑ ॥
प्र , नु , त्यं , विप्रं॑ , अ॒ध्व॒रेषु॑ , सा॒धुं , अ॒ग्निं , होता॑रं , ई॒ळ॒ते॒ , नमः॑ऽभिः । आ , यः , त॒तान॑ , रोद॑सी॒ इति॑ , ऋ॒तेन॑ , नित्यं॑ , मृ॒जं॒ति॒ , वा॒जिनं॑ , घृ॒तेन॑ ॥
मा॒र्जा॒ल्यो॑ मृज्यते॒ स्वे दमू॑नाः कविप्रश॒स्तो अति॑थिः शि॒वो नः॑ । स॒हस्र॑शृंगो वृष॒भस्तदो॑जा॒ विश्वाँ॑ अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ॥
मा॒र्जा॒ल्यः॑ , मृ॒ज्य॒ते॒ , स्वे , दमू॑नाः , क॒वि॒ऽप्र॒श॒स्तः , अति॑थिः , शि॒वः , नः॒ । स॒हस्र॑ऽशृंगः , वृ॒ष॒भः , तत्ऽओ॑जाः , विश्वा॑न् , अ॒ग्ने॒ , सह॑सा , प्र , अ॒सि॒ , अ॒न्यान् ॥
प्र स॒द्यो अ॑ग्ने॒ अत्ये॑ष्य॒न्याना॒विर्यस्मै॒ चारु॑तमो ब॒भूथ॑ । ई॒ळेन्यो॑ वपु॒ष्यो॑ वि॒भावा॑ प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणां ॥
प्र , स॒द्यः , अ॒ग्ने॒ , अति॑ , ए॒षि॒ , अ॒न्यान् , आ॒विः , यस्मै॑ , चारु॑ऽतमः , ब॒भूथ॑ । ई॒ळेन्यः॑ , व॒पु॒ष्यः॑ , वि॒भाऽवा॑ , प्रि॒यः , वि॒शां , अति॑थिः , मानु॑षीणां ॥
तुभ्यं॑ भरंति क्षि॒तयो॑ यविष्ठ ब॒लिम॑ग्ने॒ अंति॑त॒ ओत दू॒रात् । आ भंदि॑ष्ठस्य सुम॒तिं चि॑किद्धि बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रं ॥
तुभ्यं॑ , भ॒रं॒ति॒ , क्षि॒तयः॑ , य॒वि॒ष्ठ॒ , ब॒लिं , अ॒ग्ने॒ , अंति॑तः , आ , उ॒त , दू॒रात् । आ , भंदि॑ष्ठस्य , सु॒ऽम॒तिं , चि॒कि॒द्धि॒ , बृ॒हत् , ते॒ , अ॒ग्ने॒ , महि॑ , शर्म॑ , भ॒द्रं ॥
आद्य रथं॑ भानुमो भानु॒मंत॒मग्ने॒ तिष्ठ॑ यज॒तेभिः॒ समं॑तं । वि॒द्वान्प॑थी॒नामु॒र्व१॒॑न्तरि॑क्ष॒मेह दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥
आ , अ॒द्य , रथं॑ , भा॒नु॒ऽमः॒ , भा॒नु॒ऽमंतं॑ , अग्ने॑ , तिष्ठ॑ , य॒ज॒तेभिः॑ , संऽअं॑तं । वि॒द्वान् , प॒थी॒नां , उ॒रु , अं॒तरि॑क्षं , आ , इ॒ह , दे॒वान् , ह॒विः॒ऽअद्या॑य , व॒क्षि॒ ॥
अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ वं॒दारु॑ वृष॒भाय॒ वृष्णे॑ । गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी॑व रु॒क्ममु॑रु॒व्यंच॑मश्रेत् ॥
अवो॑चाम , क॒वये॑ , मेध्या॑य , वचः॑ , वं॒दारु॑ , वृ॒ष॒भाय॑ , वृष्णे॑ । गवि॑ष्ठिरः , नम॑सा , स्तोमं॑ , अ॒ग्नौ , दि॒विऽइ॑व , रु॒क्मं , उ॒रु॒ऽव्यंचं॑ , अ॒श्रे॒त् ॥
[२] कुमारमिति द्वादशर्चस्य सूक्तस्य आत्रेयःकुमारः कमेतंविज्योतिषेत्यनयोर्जानोवृशोग्निस्त्रिष्टुप् अंत्याशक्वरी ( पाक्षिकोजरोवृशः सर्वसूक्तेपि । अत्रसर्वानुक्रमभाष्येजननाम्नऋषेः पुत्रोजानइत्येवनिर्णीतं । जरनाग्नऋषेः पुत्रोजारोवृशइतितुसायनभाष्यं । )
कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा॑ बिभर्ति॒ न द॑दाति पि॒त्रे । अनी॑कमस्य॒ न मि॒नज्जना॑सः पु॒रः प॑श्यंति॒ निहि॑तमर॒तौ ॥
कु॒मा॒रं , मा॒ता , यु॒व॒तिः , संऽउ॑ब्धं , गुहा॑ , बि॒भ॒र्ति॒ , न , द॒दा॒ति॒ , पि॒त्रे । अनी॑कं , अ॒स्य॒ , न , मि॒नत् , जना॑सः , पु॒रः , प॒श्यं॒ति॒ , निऽहि॑तं , अ॒र॒तौ ॥
कमे॒तं त्वं यु॑वते कुमा॒रं पेषी॑ बिभर्षि॒ महि॑षी जजान । पू॒र्वीर्हि गर्भः॑ श॒रदो॑ व॒वर्धाप॑श्यं जा॒तं यदसू॑त मा॒ता ॥
कं , ए॒तं , त्वं , यु॒व॒ते॒ , कु॒मा॒रं , पेषी॑ , बि॒भ॒र्षि॒ , महि॑षी , ज॒जा॒न॒ । पू॒र्वीः , हि , गर्भः॑ , श॒रदः॑ , व॒वर्ध॑ , अप॑श्यं , जा॒तं , यत् , असू॑त , मा॒ता ॥
हिर॑ण्यदंतं॒ शुचि॑वर्णमा॒रात्क्षेत्रा॑दपश्य॒मायु॑धा॒ मिमा॑नं । द॒दा॒नो अ॑स्मा अ॒मृतं॑ वि॒पृक्व॒त्किं माम॑निं॒द्राः कृ॑णवन्ननु॒क्थाः ॥
हिर॑ण्यऽदंतं , शुचि॑ऽवर्णं , आ॒रात् , क्षेत्रा॑त् , अ॒प॒श्यं॒ , आयु॑धा , मिमा॑नं । द॒दा॒नः , अ॒स्मै॒ , अ॒मृतं॑ , वि॒पृक्व॑त् , किं , मां , अ॒निं॒द्राः , कृ॒ण॒व॒न् , अ॒नु॒क्थाः ॥
क्षेत्रा॑दपश्यं सनु॒तश्चरं॑तं सु॒मद्यू॒थं न पु॒रु शोभ॑मानं । न ता अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद्यु॑व॒तयो॑ भवंति ॥
क्षेत्रा॑त् , अ॒प॒श्यं॒ , स॒नु॒तरिति॑ , चरं॑तं , सु॒ऽमत् , यू॒थं , न , पु॒रु , शोभ॑मानं । न , ताः , अ॒गृ॒भ्र॒न् , अज॑निष्ट , हि , सः , पलि॑क्नीः , इत् , यु॒व॒तयः॑ , भ॒वं॒ति॒ ॥
के मे॑ मर्य॒कं वि य॑वंत॒ गोभि॒र्न येषां॑ गो॒पा अर॑णश्चि॒दास॑ । य ईं॑ जगृ॒भुरव॒ ते सृ॑जं॒त्वाजा॑ति प॒श्व उप॑ नश्चिकि॒त्वान् ॥
के , मे॒ , म॒र्य॒कं , वि , य॒वं॒त॒ , गोभिः॑ , न , येषां॑ , गो॒पाः , अर॑णः , चि॒त् , आस॑ । ये , ईं॒ , ज॒गृ॒भुः , अव॑ , ते , सृ॒जं॒तु , आ , अ॒जा॒ति॒ , प॒श्वः , उप॑ , नः॒ , चि॒कि॒त्वान् ॥
व॒सां राजा॑नं वस॒तिं जना॑ना॒मरा॑तयो॒ नि द॑धु॒र्मर्त्ये॑षु । ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जंतु निंदि॒तारो॒ निंद्या॑सो भवंतु ॥
व॒सां , राजा॑नं , व॒स॒तिं , जना॑नां , अरा॑तयः , नि , द॒धुः॒ , मर्त्ये॑षु । ब्रह्मा॑णि , अत्रेः॑ , अव॑ , तं , सृ॒जं॒तु॒ , निं॒दि॒तारः॑ , निंद्या॑सः , भ॒वं॒तु॒ ॥
शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द्यूपा॑दमुंचो॒ अश॑मिष्ट॒ हि षः । ए॒वास्मद॑ग्ने॒ वि मु॑मुग्धि॒ पाशा॒न्होत॑श्चिकित्व इ॒ह तू नि॒षद्य॑ ॥
शुनः॒ऽशेपं॑ , चि॒त् , निऽदि॑तं , स॒हस्रा॑त् , यूपा॑त् , अ॒मुं॒चः॒ , अश॑मिष्ट , हि , सः । ए॒व , अ॒स्मत् , अ॒ग्ने॒ , वि , मु॒मु॒ग्धि॒ , पासा॑न् , होत॒रिति॑ , चि॒कि॒त्वः॒ , इ॒ह , तु , नि॒ऽसद्य॑ ॥
हृ॒णी॒यमा॑नो॒ अप॒ हि मदैयेः॒ प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच । इंद्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगां॑ ॥
हृ॒णी॒यमा॑नः , अप॑ , हि , मत् , ऐयेः॑ , प्र , मे॒ , दे॒वानां॑ , व्र॒त॒ऽपाः , उ॒वा॒च॒ । इंद्रः॑ , वि॒द्वान् , अनु॑ , हि , त्वा॒ , च॒चक्ष॑ , तेन॑ , अ॒हं , अ॒ग्ने॒ , अनु॑ऽशिष्टः , आ , अ॒गां॒ ॥
वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा । प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृंगे॒ रक्ष॑से वि॒निक्षे॑ ॥
वि , ज्योति॑षा , बृ॒ह॒ता , भा॒ति॒ , अ॒ग्निः , आ॒विः , विश्वा॑नि , कृ॒णु॒ते॒ , म॒हि॒ऽत्वा । प्र , अदे॑वीः , मा॒याः , स॒ह॒ते॒ , दुः॒ऽएवाः॑ , शिशी॑ते , शृंगे॒ इति॑ , रक्ष॑से , वि॒ऽनिक्षे॑ ॥
उ॒त स्वा॒नासो॑ दि॒वि षं॑त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हंत॒वा उ॑ । मदे॑ चिदस्य॒ प्र रु॑जंति॒ भामा॒ न व॑रंते परि॒बाधो॒ अदे॑वीः ॥
उ॒त , स्वा॒नासः॑ , दि॒वि , सं॒तु॒ , अ॒ग्नेः , ति॒ग्मऽआ॑युधाः , रक्ष॑से , हंत॒वै , ऊँ॒ इति॑ । मदे॑ , चि॒त् , अ॒स्य॒ , प्र , रु॒जं॒ति॒ , भामाः॑ , न , व॒रं॒ते॒ , प॒रि॒ऽबाधः॑ , अदे॑वीः ॥
ए॒तं ते॒ स्तोमं॑ तुविजात॒ विप्रो॒ रथं॒ न धीरः॒ स्वपा॑ अतक्षं । यदीद॑ग्ने॒ प्रति॒ त्वं दे॑व॒ हर्याः॒ स्व॑र्वतीर॒प ए॑ना जयेम ॥
ए॒तं , ते॒ , स्तोमं॑ , तु॒वि॒ऽजा॒त॒ , विप्रः॑ , रथं॑ , न , धीरः॑ , सु॒ऽअपाः॑ , अ॒त॒क्षं॒ । यदि॑ , इत् , अ॒ग्ने॒ , प्रति॑ , त्वं , दे॒व॒ , हर्याः॑ , स्वः॑ऽवतीः , अ॒पः , ए॒न॒ , ज॒ये॒म॒ ॥
तु॒वि॒ग्रीवो॑ वृष॒भो वा॑वृधा॒नो॑ऽश॒त्र्व१॒॑र्यः सम॑जाति॒ वेदः॑ । इती॒मम॒ग्निम॒मृता॑ अवोचन्ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ध॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ॥
तु॒वि॒ऽग्रीवः॑ , वृ॒ष॒भः , व॒वृ॒धा॒नः , अ॒श॒त्रु , अ॒र्यः , सं , अ॒जा॒ति॒ , वेदः॑ । इति॑ , इ॒मं , अ॒ग्निं , अ॒मृताः॑ , अ॒वो॒च॒न् , ब॒र्हिष्म॑ते , मन॑वे , शर्म॑ , यं॒स॒त् , ह॒विष्म॑ते , मन॑वे , शर्म॑ , यं॒स॒त् ॥
[३] त्वमग्नइतिद्वादशर्चस्य सूक्तस्यात्रेयोवसुश्रुतोग्निस्तृतीयायामरुद्रुद्रविष्णवस्त्रिष्टुबाद्याविराट् |
त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत्त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः । त्वे विश्वे॑ सहसस्पुत्र दे॒वास्त्वमिंद्रो॑ दा॒शुषे॒ मर्त्या॑य ॥
त्वं , अ॒ग्ने॒ , वरु॑णः , जाय॑से , यत् , त्वं , मि॒त्रः , भ॒व॒सि॒ , यत् , संऽइ॑द्धः । त्वे इति॑ , विश्वे॑ , स॒ह॒सः॒ , पु॒त्र॒ , दे॒वाः , त्वं , इंद्रः॑ , दा॒शुषे॑ , मर्त्या॑य ॥
त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीनां॒ नाम॑ स्वधाव॒न्गुह्यं॑ बिभर्षि । अं॒जंति॑ मि॒त्रं सुधि॑तं॒ न गोभि॒र्यद्दंप॑ती॒ सम॑नसा कृ॒णोषि॑ ॥
त्वं , अ॒र्य॒मा , भ॒व॒सि॒ , यत् , क॒नीनां॑ , नाम॑ , स्व॒धा॒ऽव॒न् , गुह्यं॑ , बि॒भ॒र्षि॒ । अं॒जंति॑ , मि॒त्रं , सुऽधि॑तं , न , गोभिः॑ , यत् , दंप॑ती॒ इति॒ दंऽप॑ती , सऽम॑नसा , कृ॒णोषि॑ ॥
तव॑ श्रि॒ये म॒रुतो॑ मर्जयंत॒ रुद्र॒ यत्ते॒ जनि॑म॒ चारु॑ चि॒त्रं । प॒दं यद्विष्णो॑रुप॒मं नि॒धायि॒ तेन॑ पासि॒ गुह्यं॒ नाम॒ गोनां॑ ॥
तव॑ , श्रि॒ये , म॒रुतः॑ , म॒र्ज॒यं॒त॒ , रुद्र॑ , यत् , ते॒ , जनि॑म , चारु॑ , चि॒त्रं । प॒दं , यत् , विष्णोः॑ , उ॒प॒ऽमं , नि॒ऽधायि॑ , तेन॑ , पा॒सि॒ , गुह्यं॑ , नाम॑ , गोनां॑ ॥
तव॑ श्रि॒या सु॒दृशो॑ देव दे॒वाः पु॒रू दधा॑ना अ॒मृतं॑ सपंत । होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्दश॒स्यंत॑ उ॒शिजः॒ शंस॑मा॒योः ॥
तव॑ , श्रि॒या , सु॒ऽदृशः॑ , दे॒व॒ , दे॒वाः , पु॒रु , दधा॑नाः , अ॒मृतं॑ , स॒पं॒त॒ । होता॑रं , अ॒ग्निं , मनु॑षः , नि , से॒दुः॒ , द॒श॒स्यंतः॑ , उ॒शिजः॑ , शंसं॑ , आ॒योः ॥
न त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑या॒न्न काव्यैः॑ प॒रो अ॑स्ति स्वधावः । वि॒शश्च॒ यस्या॒ अति॑थि॒र्भवा॑सि॒ स य॒ज्ञेन॑ वनवद्देव॒ मर्ता॑न् ॥
न , त्वत् , होता॑ , पूर्वः॑ , अ॒ग्ने॒ , यजी॑यान् , न , काव्यैः॑ , प॒रः , अ॒स्ति॒ , स्व॒धा॒ऽवः॒ । वि॒शः , च॒ , यस्याः॑ , अति॑थिः , भवा॑सि , सः , य॒ज्ञेन॑ , व॒न॒व॒त् , दे॒व॒ , मर्ता॑न् ॥
व॒यम॑ग्ने वनुयाम॒ त्वोता॑ वसू॒यवो॑ ह॒विषा॒ बुध्य॑मानाः । व॒यं स॑म॒र्ये वि॒दथे॒ष्वह्नां॑ व॒यं रा॒या स॑हसस्पुत्र॒ मर्ता॑न् ॥
व॒यं , अ॒ग्ने॒ , व॒नु॒या॒म॒ , त्वाऽऊ॑ताः , व॒सु॒ऽयवः॑ , ह॒विषा॑ , बुध्य॑मानाः । व॒यं , स॒ऽम॒र्ये , वि॒दथे॑षु , अह्नां॑ , व॒यं , रा॒या , स॒ह॒सः॒ , पु॒त्र॒ , मर्ता॑न् ॥
यो न॒ आगो॑ अ॒भ्येनो॒ भरा॒त्यधीद॒घम॒घशं॑से दधात । ज॒ही चि॑कित्वो अ॒भिश॑स्तिमे॒तामग्ने॒ यो नो॑ म॒र्चय॑ति द्व॒येन॑ ॥
यः , नः॒ , आगः॑ , अ॒भि , एनः॑ , भरा॑ति , अधि॑ , इत् , अ॒घं , अ॒घऽशं॑से , द॒धा॒त॒ । ज॒हि , चि॒कि॒त्वः॒ , अ॒भिऽश॑स्तिं , ए॒तां , अग्ने॑ , यः , नः॒ , म॒र्चय॑ति , द्व॒येन॑ ॥
त्वाम॒स्या व्युषि॑ देव॒ पूर्वे॑ दू॒तं कृ॑ण्वा॒ना अ॑यजंत ह॒व्यैः । सं॒स्थे यद॑ग्न॒ ईय॑से रयी॒णां दे॒वो मर्तै॒र्वसु॑भिरि॒ध्यमा॑नः ॥
त्वां , अ॒स्याः , वि॒ऽउषि॑ , दे॒व॒ , पूर्वे॑ , दू॒तं , कृ॒ण्वा॒नाः , अ॒य॒जं॒त॒ , ह॒व्यैः । सं॒ऽस्थे , यत् , अ॒ग्ने॒ , ईय॑से , र॒यी॒णां , दे॒वः , मर्तैः॑ , वसु॑ऽभिः , इ॒ध्यमा॑नः ॥
अव॑ स्पृधि पि॒तरं॒ योधि॑ वि॒द्वान्पु॒त्रो यस्ते॑ सहसः सून ऊ॒हे । क॒दा चि॑कित्वो अ॒भि च॑क्षसे॒ नोऽग्ने॑ क॒दाँ ऋ॑त॒चिद्या॑तयासे ॥
अव॑ , स्पृ॒धि॒ , पि॒तरं॑ , योधि॑ , वि॒द्वान् , पु॒त्रः , यः , ते॒ , स॒ह॒सः॒ , सू॒नो॒ इति॑ , ऊ॒हे । क॒दा , चि॒कि॒त्वः॒ , अ॒भि , च॒क्ष॒से॒ , नः॒ , अग्ने॑ , क॒दा , ऋ॒त॒ऽचित् , या॒त॒या॒से॒ ॥
भूरि॒ नाम॒ वंद॑मानो दधाति पि॒ता व॑सो॒ यदि॒ तज्जो॒षया॑से । कु॒विद्दे॒वस्य॒ सह॑सा चका॒नः सु॒म्नम॒ग्निर्व॑नते वावृधा॒नः ॥
भूरि॑ , नाम॑ , वंद॑मानः , द॒धा॒ति॒ , पि॒ता , व॒सो॒ इति॑ , यदि॑ , तत् , जो॒षया॑से । कु॒वित् , दे॒वस्य॑ , सह॑सा , च॒का॒नः , सु॒म्नं , अ॒ग्निः , व॒न॒ते॒ , व॒वृ॒धा॒नः ॥
त्वमं॒ग ज॑रि॒तारं॑ यविष्ठ॒ विश्वा॑न्यग्ने दुरि॒ताति॑ पर्षि । स्ते॒ना अ॑दृश्रन्रि॒पवो॒ जना॒सोऽज्ञा॑तकेता वृजि॒ना अ॑भूवन् ॥
त्वं , अं॒ग , ज॒रि॒तारं॑ , य॒वि॒ष्ठ॒ , विश्वा॑नि , अ॒ग्ने॒ , दुः॒ऽइ॒ता , अति॑ , प॒र्षि । स्ते॒नाः , अ॒दृ॒श्र॒न् , रि॒पवः॑ , जना॑सः , अज्ञा॑तऽकेताः , वृ॒जि॒नाः , अ॒भू॒व॒न् ॥
इ॒मे यामा॑सस्त्व॒द्रिग॑भूव॒न्वस॑वे वा॒ तदिदागो॑ अवाचि । नाहा॒यम॒ग्निर॒भिश॑स्तये नो॒ न रीष॑ते वावृधा॒नः परा॑ दात् ॥
इ॒मे , यामा॑सः , त्व॒द्रिक् , अ॒भू॒व॒न् , वस॑वे , वा॒ , तत् , इत् , आगः॑ , अ॒वा॒चि॒ । न , अह॑ , अ॒यं , अ॒ग्निः , अ॒भिऽश॑स्तये , नः॒ , न , रिष॑ते , व॒वृ॒धा॒नः , परा॑ , दा॒त् ॥
[४] त्वामग्नइत्येकादशर्चस्य सूक्तस्यात्रेयोवसुश्रुतोग्निस्त्रिष्टुप् |
त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र मं॑दे अध्व॒रेषु॑ राजन् । त्वया॒ वाजं॑ वाज॒यंतो॑ जयेमा॒भि ष्या॑म पृत्सु॒तीर्मर्त्या॑नां ॥
त्वां , अ॒ग्ने॒ , वसु॑ऽपतिं , वसू॑नां , अ॒भि , प्र , मं॒दे॒ , अ॒ध्व॒रेषु॑ , रा॒ज॒न् । त्वया॑ , वाजं॑ , वा॒ज॒ऽयंतः॑ , ज॒ये॒म॒ , अ॒भि , स्या॒म॒ , पृ॒त्सु॒तीः , मर्त्या॑नां ॥
ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे । सु॒गा॒र्ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ॥
ह॒व्य॒ऽवाट् , अ॒ग्निः , अ॒जरः॑ , पि॒ता , नः॒ , वि॒ऽभुः , वि॒भाऽवा॑ , सु॒ऽदृशी॑कः , अ॒स्मे इति॑ । सु॒ऽगा॒र्ह॒प॒त्याः , सं , इषः॑ , दि॒दी॒हि॒ , अ॒स्म॒द्र्य॑क् , सं , मि॒मी॒हि॒ , श्रवां॑सि ॥
वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं॑ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निं । नि होता॑रं विश्व॒विदं॑ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या॑णि ॥
वि॒शां , क॒विं , वि॒श्पतिं॑ , मानु॑षीणां , शुचिं॑ , पा॒व॒कं , घृ॒तऽपृ॑ष्ठं , अ॒ग्निं । नि , होता॑रं , वि॒श्व॒ऽविदं॑ , द॒धि॒ध्वे॒ , सः , दे॒वेषु॑ , व॒न॒ते॒ , वार्या॑णि ॥
जु॒षस्वा॑ग्न॒ इळ॑या स॒जोषा॒ यत॑मानो र॒श्मिभिः॒ सूर्य॑स्य । जु॒षस्व॑ नः स॒मिधं॑ जातवेद॒ आ च॑ दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥
जु॒षस्व॑ , अ॒ग्ने॒ , इळ॑या , स॒ऽजोषाः॑ , यत॑मानः , र॒श्मिऽभिः॑ , सूर्य॑स्य । जु॒षस्व॑ , नः॒ , सं॒ऽइधं॑ , जा॒त॒ऽवे॒दः॒ , आ , च॒ , दे॒वान् , ह॒विः॒ऽअद्या॑य , व॒क्षि॒ ॥
जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒ण इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् । विश्वा॑ अग्ने अभि॒युजो॑ वि॒हत्या॑ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ॥
जुष्टः॑ , दमू॑नाः , अति॑थिः , दु॒रो॒णे , इ॒मं , नः॒ , य॒ज्ञं , उप॑ , या॒हि॒ , वि॒द्वान् । विश्वाः॑ , अ॒ग्ने॒ , अ॒भि॒ऽयुजः॑ , वि॒ऽहत्य॑ , श॒त्रु॒ऽय॒तां , आ , भ॒र॒ , भोज॑नानि ॥
व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒३॒॑ स्वायै॑ । पिप॑र्षि॒ यत्स॑हसस्पुत्र दे॒वांत्सो अ॑ग्ने पाहि नृतम॒ वाजे॑ अ॒स्मान् ॥
वे॒धेन॑ , दस्युं॑ , प्र , हि , चा॒तय॑स्व , वयः॑ , कृ॒ण्वा॒नः , त॒न्वे॑ , स्वायै॑ । पिप॑र्षि , यत् , स॒ह॒सः॒ , पु॒त्र॒ , दे॒वान् , सः , अ॒ग्ने॒ , पा॒हि॒ , नृ॒ऽत॒म॒ , वाजे॑ , अ॒स्मान् ॥
व॒यं ते॑ अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा॑वक भद्रशोचे । अ॒स्मे र॒यिं वि॒श्ववा॑रं॒ समि॑न्वा॒स्मे विश्वा॑नि॒ द्रवि॑णानि धेहि ॥
व॒यं , ते॒ , अ॒ग्ने॒ , उ॒क्थैः , वि॒धे॒म॒ , व॒यं , ह॒व्यैः , पा॒व॒क॒ , भ॒द्र॒ऽशो॒चे॒ । अ॒स्मे इति॑ , र॒यिं , वि॒श्वऽवा॑रं , सं , इ॒न्व॒ , अ॒स्मे इति॑ , विश्वा॑नि , द्रवि॑णानि , धे॒हि॒ ॥
अ॒स्माक॑मग्ने अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यं । व॒यं दे॒वेषु॑ सु॒कृतः॑ स्याम॒ शर्म॑णा नस्त्रि॒वरू॑थेन पाहि ॥
अ॒स्माकं॑ , अ॒ग्ने॒ , अ॒ध्व॒रं , जु॒ष॒स्व॒ , सह॑सः , सू॒नो॒ इति॑ , त्रि॒ऽस॒ध॒स्थ॒ , ह॒व्यं । व॒यं , दे॒वेषु॑ , सु॒ऽकृतः॑ , स्या॒म॒ , शर्म॑णा , नः॒ , त्रि॒ऽवरू॑थेन , पा॒हि॒ ॥
विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिंधुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि । अग्ने॑ अत्रि॒वन्नम॑सा गृणा॒नो॒३॒॑ऽस्माकं॑ बोध्यवि॒ता त॒नूनां॑ ॥
विश्वा॑नि , नः॒ , दुः॒ऽगहा॑ , जा॒त॒ऽवे॒दः॒ , सिंधुं॑ , न , ना॒वा , दुः॒ऽइ॒ता , अति॑ , प॒र्षि॒ । अग्ने॑ , अ॒त्रि॒ऽवत् , नम॑सा , गृ॒णा॒नः , अ॒स्माकं॑ , बो॒धि॒ , अ॒वि॒ता , त॒नूनां॑ ॥
यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि । जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्यां ॥
यः , त्वा॒ , हृ॒दा , की॒रिणा॑ , मन्य॑मानः , अम॑र्त्यं , मर्त्यः॑ , जोह॑वीमि । जात॑ऽवेदः , यशः॑ , अ॒स्मासु॑ , धे॒हि॒ , प्र॒ऽजाभिः॑ , अ॒ग्ने॒ , अ॒मृ॒त॒ऽत्वं , अ॒श्यां॒ ॥
यस्मै॒ त्वं सु॒कृते॑ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नं । अ॒श्विनं॒ स पु॒त्रिणं॑ वी॒रवं॑तं॒ गोमं॑तं र॒यिं न॑शते स्व॒स्ति ॥
यस्मै॑ , त्वं , सु॒ऽकृते॑ , जा॒त॒ऽवे॒दः॒ , ऊँ॒ इति॑ , लो॒कं , अ॒ग्ने॒ , कृ॒णवः॑ , स्यो॒नं । अ॒श्विनं॑ , सः , पु॒त्रिणं॑ , वी॒रऽवं॑तं , गोऽमं॑तं , र॒यिं , न॒श॒ते॒ , स्व॒स्ति ॥
[५] सुसमिद्धायेत्येकादशर्चस्य सूक्तस्यात्रेयो वसुश्रुतः इध्मोनराशंस इळोबर्हिर्देवीर्द्वार उषासानक्तादैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पति स्वाहाकृतयो गायत्री |
सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन । अ॒ग्नये॑ जा॒तवे॑दसे ॥
सुऽस॑मिद्धाय , शो॒चिषे॑ , घृ॒तं , ती॒व्रं , जु॒हो॒त॒न॒ । अ॒ग्नये॑ , जा॒तऽवे॑दसे ॥
नरा॒शंसः॑ सुषूदती॒मं य॒ज्ञमदा॑भ्यः । क॒विर्हि मधु॑हस्त्यः ॥
नरा॒शंसः॑ , सु॒सू॒द॒ति॒ , इ॒मं , य॒ज्ञं , अदा॑भ्यः । क॒विः , हि , मधु॑ऽहस्त्यः ॥
ई॒ळि॒तो अ॑ग्न॒ आ व॒हेंद्रं॑ चि॒त्रमि॒ह प्रि॒यं । सु॒खै रथे॑भिरू॒तये॑ ॥
ई॒ळि॒तः , अ॒ग्ने॒ , आ , व॒ह॒ , इंद्रं॑ , चि॒त्रं , इ॒ह , प्रि॒यं । सु॒ऽखैः , रथे॑भिः , ऊ॒तये॑ ॥
ऊर्ण॑म्रदा॒ वि प्र॑थस्वा॒भ्य१॒॑र्का अ॑नूषत । भवा॑ नः शुभ्र सा॒तये॑ ॥
ऊर्ण॑ऽम्रदाः , वि , प्र॒थ॒स्व॒ , अ॒भि , अ॒र्काः , अ॒नू॒ष॒त॒ । भव॑ , नः॒ , शु॒भ्र॒ , सा॒तये॑ ॥
देवी॑र्द्वारो॒ वि श्र॑यध्वं सुप्राय॒णा न॑ ऊ॒तये॑ । प्रप्र॑ य॒ज्ञं पृ॑णीतन ॥
देवीः॑ , द्वा॒रः॒ , वि , श्र॒य॒ध्वं॒ , सु॒प्र॒ऽअ॒य॒नाः , नः॒ , ऊ॒तये॑ । प्रऽप्र॑ , य॒ज्ञं , पृ॒णी॒त॒न॒ ॥
सु॒प्रती॑के वयो॒वृधा॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ । दो॒षामु॒षास॑मीमहे ॥
सु॒प्रती॑के॒ इति॑ सु॒ऽप्रती॑के , व॒यः॒ऽवृधा॑ , य॒ह्वी इति॑ , ऋ॒तस्य॑ , मा॒तरा॑ । दो॒षां , उ॒षसं॑ , ई॒म॒हे॒ ॥
वात॑स्य॒ पत्म॑न्नीळि॒ता दैव्या॒ होता॑रा॒ मनु॑षः । इ॒मं नो॑ य॒ज्ञमा ग॑तं ॥
वात॑स्य , पत्म॑न् , ई॒ळि॒ता , दैव्या॑ , होता॑रा , मनु॑षः । इ॒मं , नः॒ , य॒ज्ञं , आ , ग॒तं॒ ॥
इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ । ब॒र्हिः सी॑दंत्व॒स्रिधः॑ ॥
इळा॑ , सर॑स्वती , म॒ही , ति॒स्रः , दे॒वीः , म॒यः॒ऽभुवः॑ । ब॒र्हिः , सी॒दं॒तु॒ , अ॒स्रिधः॑ ॥
शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना॑ । य॒ज्ञेय॑ज्ञे न॒ उद॑व ॥
शि॒वः , त्व॒ष्टः॒ , इ॒ह , आ॒ , ग॒हि॒ , वि॒ऽभुः , पोषे॑ , उ॒त , त्मना॑ । य॒ज्ञेऽय॑ज्ञे , नः॒ , उत् , अ॒व॒ ॥
यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा॑नि । तत्र॑ ह॒व्यानि॑ गामय ॥
यत्र॑ , वेत्थ॑ , व॒न॒स्प॒ते॒ , दे॒वानां॑ , गुह्या॑ , नामा॑नि । तत्र॑ , ह॒व्यानि॑ , ग॒म॒य॒ ॥
स्वाहा॒ग्नये॒ वरु॑णाय॒ स्वाहेंद्रा॑य म॒रुद्भ्यः॑ । स्वाहा॑ दे॒वेभ्यो॑ ह॒विः ॥
स्वाहा॑ , अ॒ग्नये॑ , वरु॑णाय , स्वाहा॑ , इंद्रा॑य , म॒रुत्ऽभ्यः॑ । स्वाहा॑ , दे॒वेभ्यः॑ , ह॒विः ॥
[६] अग्निंतमिति दशर्चर्स्य सूक्तस्यात्रेयोवसुश्रुतोग्निपंक्तिः |
अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यंति॑ धे॒नवः॑ । अस्त॒मर्वं॑त आ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
अ॒ग्निं , तं , म॒न्ये॒ , यः , वसुः॑ , अस्तं॑ , यं , यंति॑ , धे॒नवः॑ । अस्तं॑ , अर्वं॑तः , आ॒शवः॑ , अस्तं॑ , नित्या॑सः , वा॒जिनः॑ , इषं॑ , स्तो॒तृऽभ्यः॑ , आ , भ॒र॒ ॥
सो अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यंति॑ धे॒नवः॑ । समर्वं॑तो रघु॒द्रुवः॒ सं सु॑जा॒तासः॑ सू॒रय॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
सः , अ॒ग्निः , यः , वसुः॑ , गृ॒णे , सं , यं , आ॒ऽयंति॑ , धे॒नवः॑ । सं , अर्वं॑तः , र॒घु॒ऽद्रुवः॑ , सं , सु॒ऽजा॒तासः॑ , सू॒रय॑ , इषं॑ , स्तो॒तृऽभ्यः॑ , आ , भ॒र॒ ॥
अ॒ग्निर्हि वा॒जिनं॑ वि॒शे ददा॑ति वि॒श्वच॑र्षणिः । अ॒ग्नी रा॒ये स्वा॒भुवं॒ स प्री॒तो या॑ति॒ वार्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
अ॒ग्निः , हि , वा॒जिनं॑ , वि॒शे , ददा॑ति , वि॒श्वऽच॑र्षणिः । अ॒ग्निः , रा॒ये , सु॒ऽआ॒भुवं॑ , सः , प्री॒तः , या॒ति॒ , वार्यं॑ , इषं॑ , स्तो॒तृऽभ्यः॑ , आ , भ॒र॒ ॥
आ ते॑ अग्न इधीमहि द्यु॒मंतं॑ देवा॒जरं॑ । यद्ध॒ स्या ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवीषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
आ , ते॒ , अ॒ग्ने॒ , इ॒धी॒म॒हि॒ , द्यु॒ऽमंतं॑ , दे॒व॒ , अ॒जरं॑ । यत् , ह॒ , स्या , ते॒ , पनी॑यसी , सं॒ऽइत् , दी॒दय॑ति , द्यवि॑ , इषं॑ , स्तो॒तृऽभ्यः॑ , आ , भ॒र॒ ॥
आ ते॑ अग्न ऋ॒चा ह॒विः शुक्र॑स्य शोचिषस्पते । सुश्चं॑द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट् तुभ्यं॑ हूयत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
आ , ते॒ , अ॒ग्ने॒ , ऋ॒चा , ह॒विः , शुक्र॑स्य , शो॒चि॒षः॒ , प॒ते॒ । सुऽचं॑द्र , दस्म॑ , विश्प॑ते , हव्य॑ऽवाट् , तुभ्यं॑ , हू॒य॒ते॒ , इषं॑ , स्तो॒तृऽभ्यः॑ , आ , भ॒र॒ ॥
प्रो त्ये अ॒ग्नयो॒ऽग्निषु॒ विश्वं॑ पुष्यंति॒ वार्यं॑ । ते हि॑न्विरे॒ त इ॑न्विरे॒ त इ॑षण्यंत्यानु॒षगिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
प्रो इति॑ , त्ये , अ॒ग्नयः॑ , अ॒ग्निषु॑ , विश्वं॑ , पु॒ष्यं॒ति॒ , वार्यं॑ । ते , हि॒न्वि॒रे॒ , ते , इ॒न्वि॒रे॒ , ते , इ॒ष॒ण्यं॒ति॒ , आ॒नु॒षक् , इषं॑ , स्तो॒तृऽभ्यः॑ , आ , भ॒र॒ ॥
तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ महि॑ व्राधंत वा॒जिनः॑ । ये पत्व॑भिः श॒फानां॑ व्र॒जा भु॒रंत॒ गोना॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
तव॑ , त्ये , अ॒ग्ने॒ , अ॒र्चयः॑ , महि॑ , व्रा॒धं॒त॒ , वा॒जिनः॑ । ये , पत्व॑ऽभिः , श॒फानां॑ , व्र॒जा , भु॒रंत॑ , गोनां॑ , इषं॑ , स्तो॒तृऽभ्यः॑ , आ , भ॒र॒ ॥
नवा॑ नो अग्न॒ आ भ॑र स्तो॒तृभ्यः॑ सुक्षि॒तीरिषः॑ । ते स्या॑म॒ य आ॑नृ॒चुस्त्वादू॑तासो॒ दमे॑दम॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
नवाः॑ , नः॒ , अ॒ग्ने॒ , आ , भ॒र॒ , स्तो॒तृऽभ्यः॑ , सु॒ऽक्षि॒तीः , इषः॑ । ते , स्या॒म॒ , ये , आ॒नृ॒चुः , त्वाऽदू॑तासः , दमे॑ऽदमे , इषं॑ , स्तो॒तृऽभ्यः॑ , आ , भ॒र॒ ॥
उ॒भे सु॑श्चंद्र स॒र्पिषो॒ दर्वी॑ श्रीणीष आ॒सनि॑ । उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
उ॒भे इति॑ , सु॒ऽचं॒द्र॒ , स॒र्पिषः॑ , दर्वी॒ इति॑ , श्री॒णी॒षे॒ , आ॒सनि॑ । उ॒तो इति॑ , नः॒ , उत् , पु॒पू॒र्याः॒ , उ॒क्थेषु॑ , श॒व॒सः॒ , प॒ते॒ , इषं॑ , स्तो॒तृऽभ्यः॑ , आ , भ॒र॒ ॥
ए॒वाँ अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् । दध॑द॒स्मे सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
ए॒व , अ॒ग्निं , अ॒जु॒र्य॒मुः॒ , गीः॒ऽभिः , य॒ज्ञेभिः॑ , आ॒नु॒षक् । दध॑त् , अ॒स्मे इति॑ , सु॒ऽवीर्यं॑ , उ॒त , त्यत् , आ॒शु॒ऽअश्व्यं॑ , इषं॑ , स्तो॒तृऽभ्यः॑ , आ , भ॒र॒ ॥
[७] सखायःसागिति दशर्चस्य सूक्तस्यात्रेयइषोग्निरनुष्टुबंत्यापंक्तिः |
सखा॑यः॒ सं वः॑ स॒म्यंच॒मिषं॒ स्तोमं॑ चा॒ग्नये॑ । वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥
सखा॑यः , सं , वः॒ , स॒म्यंचं॑ , इषं॑ , स्तोमं॑ , च॒ , अ॒ग्नये॑ । वर्षि॑ष्ठाय , क्षि॒ती॒नां , ऊ॒र्जः , नप्त्रे॑ , सह॑स्वते ॥
कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने । अर्हं॑तश्चि॒द्यमिं॑ध॒ते सं॑ज॒नयं॑ति जं॒तवः॑ ॥
कुत्र॑ , चि॒त् , यस्य॑ , संऽऋ॑तौ , र॒ण्वाः , नरः॑ , नृ॒ऽसद॑ने । अर्हं॑तः , चि॒त् , यं , इं॒ध॒ते , सं॒ऽज॒नयं॑ति , जं॒तवः॑ ॥
सं यदि॒षो वना॑महे॒ सं ह॒व्या मानु॑षाणां । उ॒त द्यु॒म्नस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥
सं , यत् , इ॒षः , वना॑महे , सं , ह॒व्या , मानु॑षाणां । उ॒त , द्यु॒म्नस्य॑ , शव॑सा , ऋ॒तस्य॑ , र॒श्मिं , आ , द॒दे॒ ॥
स स्मा॑ कृणोति के॒तुमा नक्तं॑ चिद्दू॒र आ स॒ते । पा॒व॒को यद्वन॒स्पती॒न्प्र स्मा॑ मि॒नात्य॒जरः॑ ॥
सः , स्म॒ , कृ॒णो॒ति॒ , के॒तुं , आ , नक्तं॑ , चि॒त् , दू॒रे , आ , स॒ते । पा॒व॒कः , यत् , वन॒स्पती॑न् , प्र , स्म॒ , मि॒नाति॑ , अ॒जरः॑ ॥
अव॑ स्म॒ यस्य॒ वेष॑णे॒ स्वेदं॑ प॒थिषु॒ जुह्व॑ति । अ॒भीमह॒ स्वजे॑न्यं॒ भूमा॑ पृ॒ष्ठेव॑ रुरुहुः ॥
अव॑ , स्म॒ , यस्य॑ , वेष॑णे , स्वेदं॑ , प॒थिषु॑ , जुह्व॑ति । अ॒भि , ईं॒ , अह॑ , स्वऽजे॑न्यं , भूम॑ , पृ॒ष्ठाऽइ॑व , रु॒रु॒हुः॒ ॥
यं मर्त्यः॑ पुरु॒स्पृहं॑ वि॒दद्विश्व॑स्य॒ धाय॑से । प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे॑ ॥
यं , मर्त्यः॑ , पु॒रु॒ऽस्पृहं॑ , वि॒दत् , विश्व॑स्य , धाय॑से । प्र , स्वाद॑नं , पि॒तू॒नां , अस्त॑ऽतातिं , चि॒त् , आ॒यवे॑ ॥
स हि ष्मा॒ धन्वाक्षि॑तं॒ दाता॒ न दात्या प॒शुः । हिरि॑श्मश्रुः॒ शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः ॥
सः , हि , स्म॒ , धन्व॑ , आऽक्षि॑तं , दाता॑ , न , दाति॑ , आ , प॒शुः । हिरि॑ऽश्मश्रुः , शुचि॑ऽदन् , ऋ॒भुः , अनि॑भृष्टऽतविषिः ॥
शुचिः॑ ष्म॒ यस्मा॑ अत्रि॒वत्प्र स्वधि॑तीव॒ रीय॑ते । सु॒षूर॑सूत मा॒ता क्रा॒णा यदा॑न॒शे भगं॑ ॥
शुचिः॑ , स्म॒ , यस्मै॑ , अ॒त्रि॒ऽवत् , प्र , स्वधि॑तिःऽइव , रीय॑ते । सु॒ऽसूः , अ॒सू॒त॒ , मा॒ता , क्रा॒णा , यत् , आ॒न॒शे , भगं॑ ॥
आ यस्ते॑ सर्पिरासु॒तेऽग्ने॒ शमस्ति॒ धाय॑से । ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये॑षु धाः ॥
आ , यः , ते॒ , स॒र्पिः॒ऽआ॒सु॒ते॒ , अग्ने॑ , शं , अस्ति॑ , धाय॑से । आ , ए॒षु॒ , द्यु॒म्नं , उ॒त , श्रवः॑ , आ , चि॒त्तं , मर्त्ये॑षु , धाः॒ ॥
इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा॑त॒मा प॒शुं द॑दे । आद॑ग्ने॒ अपृ॑ण॒तोऽत्रिः॑ सासह्या॒द्दस्यू॑नि॒षः सा॑सह्या॒न्नॄन् ॥
इति॑ , चि॒त् , म॒न्युं , अ॒ध्रिजः॑ , त्वाऽदा॑तं , आ , प॒शुं , द॒दे॒ । आत् , अ॒ग्ने॒ , अपृ॑णतः , अत्रिः॑ , स॒स॒ह्या॒त् , दस्यू॑न् , इ॒षः , स॒स॒ह्या॒त् , नॄन् ॥
[८] त्वामग्नऋतायवइति सप्तर्चस्य सूक्तस्यात्रेय इषोग्निर्जगती |
त्वाम॑ग्न ऋता॒यवः॒ समी॑धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये॑ सहस्कृत । पु॒रु॒श्चं॒द्रं य॑ज॒तं वि॒श्वधा॑यसं॒ दमू॑नसं गृ॒हप॑तिं॒ वरे॑ण्यं ॥
त्वां , अ॒ग्ने॒ , ऋ॒त॒ऽयवः॑ , सं , ई॒धि॒रे॒ , प्र॒त्नं , प्र॒त्नासः॑ , ऊ॒तये॑ , स॒हः॒ऽकृ॒त॒ । पु॒रु॒ऽचं॒द्रं , य॒ज॒तं , वि॒श्वऽधा॑यसं , दमू॑नसं , गृ॒हऽप॑तिं , वरे॑ण्यं ॥
त्वाम॑ग्ने॒ अति॑थिं पू॒र्व्यं विशः॑ शो॒चिष्के॑शं गृ॒हप॑तिं॒ नि षे॑दिरे । बृ॒हत्के॑तुं पुरु॒रूपं॑ धन॒स्पृतं॑ सु॒शर्मा॑णं॒ स्वव॑सं जर॒द्विषं॑ ॥
त्वां , अ॒ग्ने॒ , अति॑थिं , पू॒र्व्यं , विशः॑ , शो॒चिःऽके॑शं , गृ॒हऽप॑तिं , नि , से॒दि॒रे॒ । बृ॒हत्ऽके॑तुं , पु॒रु॒ऽरूपं॑ , ध॒न॒ऽस्पृतं॑ , सु॒ऽशर्मा॑णं , सु॒ऽअव॑सं , ज॒र॒त्ऽविषं॑ ॥
त्वाम॑ग्ने॒ मानु॑षीरीळते॒ विशो॑ होत्रा॒विदं॒ विवि॑चिं रत्न॒धात॑मं । गुहा॒ संतं॑ सुभग वि॒श्वद॑र्शतं तुविष्व॒णसं॑ सु॒यजं॑ घृत॒श्रियं॑ ॥
त्वां , अ॒ग्ने॒ , मानु॑षीः , ई॒ळ॒ते॒ , विशः॑ , हो॒त्रा॒ऽविदं॑ , विवि॑चिं , र॒त्न॒ऽधात॑मं । गुहा॑ , संतं॑ , सु॒ऽभ॒ग॒ , वि॒श्वऽद॑र्शतं , तु॒वि॒ऽस्व॒णसं॑ , सु॒ऽयजं॑ , घृ॒त॒ऽश्रियं॑ ॥
त्वाम॑ग्ने धर्ण॒सिं वि॒श्वधा॑ व॒यं गी॒र्भिर्गृ॒णंतो॒ नम॒सोप॑ सेदिम । स नो॑ जुषस्व समिधा॒नो अं॑गिरो दे॒वो मर्त॑स्य य॒शसा॑ सुदी॒तिभिः॑ ॥
त्वां , अ॒ग्ने॒ , ध॒र्ण॒सिं , वि॒श्वधा॑ , व॒यं , गीः॒ऽभिः , गृ॒णंतः॑ , नम॑सा , उप॑ , से॒दि॒म॒ । सः , नः॒ , जु॒ष॒स्व॒ , सं॒ऽइ॒धा॒नः , अं॒गि॒रः॒ , दे॒वः , मर्त॑स्य , य॒शसा॑ , सु॒दी॒तिऽभिः॑ ॥
त्वम॑ग्ने पुरु॒रूपो॑ वि॒शेवि॑शे॒ वयो॑ दधासि प्र॒त्नथा॑ पुरुष्टुत । पु॒रूण्यन्ना॒ सह॑सा॒ वि रा॑जसि॒ त्विषिः॒ सा ते॑ तित्विषा॒णस्य॒ नाधृषे॑ ॥
त्वं , अ॒ग्ने॒ , पु॒रु॒ऽरूपः॑ , वि॒शेऽवि॑शे , वयः॑ , द॒धा॒सि॒ , प्र॒त्नऽथा॑ , पु॒रु॒ऽस्तु॒त॒ । पु॒रूणि॑ , अन्ना॑ , सह॑सा , वि , रा॒ज॒सि॒ , त्विषिः॑ , सा , ते॒ , ति॒त्वि॒षा॒णस्य॑ , न , आ॒ऽधृषे॑ ॥
त्वाम॑ग्ने समिधा॒नं य॑विष्ठ्य दे॒वा दू॒तं च॑क्रिरे हव्य॒वाह॑नं । उ॒रु॒ज्रय॑सं घृ॒तयो॑नि॒माहु॑तं त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्म॑ति ॥
त्वां , अ॒ग्ने॒ , सं॒ऽइ॒धा॒नं , य॒वि॒ष्ठ्य॒ , दे॒वाः , दू॒तं , च॒क्रि॒रे॒ , ह॒व्य॒ऽवाह॑नं । उ॒रु॒ऽज्रय॑सं , घृ॒तऽयो॑निं , आऽहु॑तं , त्वे॒षं , चक्षुः॑ , द॒धि॒रे॒ , चो॒द॒यत्ऽम॑ति ॥
त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तैः सु॑म्ना॒यवः॑ सुष॒मिधा॒ समी॑धिरे । स वा॑वृधा॒न ओष॑धीभिरुक्षि॒तो॒३॒॑ऽभि ज्रयां॑सि॒ पार्थि॑वा॒ वि ति॑ष्ठसे ॥
त्वां , अ॒ग्ने॒ , प्र॒ऽदिवः॑ , आऽहु॑तं , घृ॒तैः , सु॒म्न॒ऽयवः॑ , सु॒ऽस॒मिधा॑ , सं , ई॒धि॒रे॒ । सः , व॒वृ॒धा॒नः , ओष॑धीभिः , उ॒क्षि॒तः , अ॒भि , ज्रयां॑सि , पार्थि॑वा , वि , ति॒ष्ठ॒से॒ ॥
[९] त्वामग्नइति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप् पंचमी सप्तम्यौपंक्ती |
त्वाम॑ग्ने ह॒विष्मं॑तो दे॒वं मर्ता॑स ईळते । मन्ये॑ त्वा जा॒तवे॑दसं॒ स ह॒व्या व॑क्ष्यानु॒षक् ॥
त्वां , अ॒ग्ने॒ , ह॒विष्मं॑तः , दे॒वं , मर्ता॑सः , ई॒ळ॒ते॒ । मन्ये॑ , त्वा॒ , जा॒तऽवे॑दसं , सः , ह॒व्या , व॒क्षि॒ , आ॒नु॒षक् ॥
अ॒ग्निर्होता॒ दास्व॑तः॒ क्षय॑स्य वृ॒क्तब॑र्हिषः । सं य॒ज्ञास॒श्चरं॑ति॒ यं सं वाजा॑सः श्रव॒स्यवः॑ ॥
अ॒ग्निः , होता॑ , दास्व॑तः , क्षय॑स्य , वृ॒क्तऽब॑र्हिषः । सं , य॒ज्ञासः॑ , चरं॑ति , यं , सं , वाजा॑सः , श्र॒व॒स्यवः॑ ॥
उ॒त स्म॒ यं शिशुं॑ यथा॒ नवं॒ जनि॑ष्टा॒रणी॑ । ध॒र्तारं॒ मानु॑षीणां वि॒शाम॒ग्निं स्व॑ध्व॒रं ॥
उ॒त , स्म॒ , यं , शिशुं॑ , य॒था॒ , नवं॑ , जनि॑ष्ट , अ॒रणी॒ इति॑ । ध॒र्तारं॑ , मानु॑षीणां , वि॒शां , अ॒ग्निं , सु॒ऽअ॒ध्व॒रं ॥
उ॒त स्म॑ दुर्गृभीयसे पु॒त्रो न ह्वा॒र्याणां॑ । पु॒रू यो दग्धासि॒ वनाग्ने॑ प॒शुर्न यव॑से ॥
उ॒त , स्म॒ , दुः॒ऽगृ॒भी॒य॒से॒ , पु॒त्रः , न , ह्वा॒र्याणां॑ । पु॒रु , यः , दग्धा॑ , असि॑ , वना॑ , अग्ने॑ , प॒शुः , न , यव॑से ॥
अध॑ स्म॒ यस्या॒र्चयः॑ स॒म्यक्सं॒यंति॑ धू॒मिनः॑ । यदी॒मह॑ त्रि॒तो दि॒व्युप॒ ध्माते॑व॒ धम॑ति॒ शिशी॑ते ध्मा॒तरी॑ यथा ॥
अध॑ , स्म॒ , यस्य॑ , अ॒र्चयः॑ , स॒म्यक् , सं॒ऽयंति॑ , धू॒मिनः॑ । यत् , ईं॒ , अह॑ , त्रि॒तः , दि॒वि , उप॑ , ध्माता॑ऽइव , धम॑ति , शिशी॑ते , ध्मा॒तरि॑ , य॒था॒ ॥
तवा॒हम॑ग्न ऊ॒तिभि॑र्मि॒त्रस्य॑ च॒ प्रश॑स्तिभिः । द्वे॒षो॒युतो॒ न दु॑रि॒ता तु॒र्याम॒ मर्त्या॑नां ॥
तव॑ , अ॒हं , अ॒ग्ने॒ , ऊ॒तिऽभिः॑ , मि॒त्रस्य॑ , च॒ , प्रश॑स्तिऽभिः । द्वे॒षः॒ऽयुतः॑ , न , दुः॒ऽइ॒ता , तु॒र्याम॑ , मर्त्या॑नां ॥
तं नो॑ अग्ने अ॒भी नरो॑ र॒यिं स॑हस्व॒ आ भ॑र । स क्षे॑पय॒त्स पो॑षय॒द्भुव॒द्वाज॑स्य सा॒तय॑ उ॒तैधि॑ पृ॒त्ऽसु नो॑ वृ॒धे ॥
तं , नः॒ , अ॒ग्ने॒ , अ॒भि , नरः॑ , र॒यिं , स॒ह॒स्वः॒ , आ , भ॒र॒ । सः , क्षे॒प॒य॒त् , सः , पो॒ष॒य॒त् , भुव॑त् , वाज॑स्य , सा॒तये॑ , उ॒त , ए॒धि॒ , पृ॒त्ऽसु , नः॒ , वृ॒धे ॥
[१०] अग्नओजिष्टमिति सप्तर्चस्य सूक्तस्यात्रेयोगयोग्निरनुष्टुप् चतुर्थीसप्तम्यौपंक्ती |
अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो । प्र नो॑ रा॒या परी॑णसा॒ रत्सि॒ वाजा॑य॒ पंथां॑ ॥
अग्ने॑ , ओजि॑ष्ठं , आ , भ॒र॒ , द्यु॒म्नं , अ॒स्मभ्यं॑ , अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो । प्र , नः॒ , रा॒या , परी॑णसा , रत्सि॑ , वाजा॑य , पंथां॑ ॥
त्वं नो॑ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना॑ । त्वे अ॑सु॒र्य१॒॑मारु॑हत्क्रा॒णा मि॒त्रो न य॒ज्ञियः॑ ॥
त्वं , नः॒ , अ॒ग्ने॒ , अ॒द्भु॒त॒ , क्रत्वा॑ , दक्ष॑स्य , मं॒हना॑ । त्वे इति॑ , अ॒सु॒र्यं॑ , आ , अ॒रु॒ह॒त् , क्रा॒णा , मि॒त्रः , न , य॒ज्ञियः॑ ॥
त्वं नो॑ अग्न एषां॒ गयं॑ पु॒ष्टिं च॑ वर्धय । ये स्तोमे॑भिः॒ प्र सू॒रयो॒ नरो॑ म॒घान्या॑न॒शुः ॥
त्वं , नः॒ , अ॒ग्ने॒ , ए॒षां॒ , गयं॑ , पु॒ष्टिं , च॒ , व॒र्ध॒य॒ । ये , स्तोमे॑भिः , प्र , सू॒रयः॑ , नरः॑ , म॒घानि॑ , आ॒न॒शुः ॥
ये अ॑ग्ने चंद्र ते॒ गिरः॑ शुं॒भंत्यश्व॑राधसः । शुष्मे॑भिः शु॒ष्मिणो॒ नरो॑ दि॒वश्चि॒द्येषां॑ बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒ त्मना॑ ॥
ये , अ॒ग्ने॒ , चं॒द्र॒ , ते॒ , गिरः॑ , शुं॒भंति॑ , अश्व॑ऽराधसः । शुष्मे॑भिः , शु॒ष्मिणः॑ , नरः॑ , दि॒वः , चि॒त् , येषां॑ , बृ॒हत् , सु॒ऽकी॒र्तिः , बोध॑ति , त्मना॑ ॥
तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ भ्राजं॑तो यंति धृष्णु॒या । परि॑ज्मानो॒ न वि॒द्युतः॑ स्वा॒नो रथो॒ न वा॑ज॒युः ॥
तव॑ , त्ये , अ॒ग्ने॒ , अ॒र्चयः॑ , भ्राजं॑तः , यं॒ति॒ , धृ॒ष्णु॒ऽया । परि॑ऽज्मानः , न , वि॒ऽद्युतः॑ , स्वा॒नः , रथः॑ , न , वा॒ज॒ऽयुः ॥
नू नो॑ अग्न ऊ॒तये॑ स॒बाध॑सश्च रा॒तये॑ । अ॒स्माका॑सश्च सू॒रयो॒ विश्वा॒ आशा॑स्तरी॒षणि॑ ॥
नु , नः॒ , अ॒ग्ने॒ , ऊ॒तये॑ , स॒ऽबाध॑सः , च॒ , रा॒तये॑ । अ॒स्माका॑सः , च॒ , सू॒रयः॑ , विश्वाः॑ , आशाः॑ , त॒री॒षणि॑ ॥
त्वं नो॑ अग्ने अंगिरः स्तु॒तः स्तवा॑न॒ आ भ॑र । होत॑र्विभ्वा॒सहं॑ र॒यिं स्तो॒तृभ्यः॒ स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥
त्वं , नः॒ , अ॒ग्ने॒ , अं॒गि॒रः॒ , स्तु॒तः , स्तवा॑नः , आ , भ॒र॒ । होतः॑ , वि॒भ्व॒ऽसहं॑ , र॒यिं , स्तो॒तृऽभ्यः॑ , स्तव॑से , च॒ , नः॒ , उ॒त , ए॒धि॒ , पृ॒त्ऽसु , नः॒ , वृ॒धे ॥
[११] जनस्येति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्जगती |
जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से । घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्वि भा॑ति भर॒तेभ्यः॒ शुचिः॑ ॥
जन॑स्य , गो॒पाः , अ॒ज॒नि॒ष्ट॒ , जागृ॑विः , अ॒ग्निः , सु॒ऽदक्षः॑ , सु॒वि॒ताय॑ , नव्य॑से । घृ॒तऽप्र॑तीकः , बृ॒ह॒ता , दि॒वि॒ऽस्पृशा॑ , द्यु॒ऽमत् , वि , भा॒ति॒ , भ॒र॒तेभ्यः॑ , शुचिः॑ ॥
य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी॑धिरे । इंद्रे॑ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतुः॑ ॥
य॒ज्ञस्य॑ , के॒तुं , प्र॒थ॒मं , पु॒रःऽहि॑तं , अ॒ग्निं , नरः॑ , त्रि॒ऽस॒ध॒स्थे , सं , ई॒धि॒रे॒ । इंद्रे॑ण , दे॒वैः , स॒ऽरथं॑ , सः , ब॒र्हिषि॑ , सीद॑त् , नि , होता॑ , य॒जथा॑य , सु॒ऽक्रतुः॑ ॥
असं॑मृष्टो जायसे मा॒त्रोः शुचि॑र्मं॒द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः । घृ॒तेन॑ त्वावर्धयन्नग्न आहुत धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः ॥
असं॑ऽमृष्टः , जा॒य॒से॒ , मा॒त्रोः , शुचिः॑ , मं॒द्रः , क॒विः , उत् , अ॒ति॒ष्ठः॒ , वि॒वस्व॑तः । घृ॒तेन॑ , त्वा॒ , अ॒व॒र्ध॒य॒न् , अ॒ग्ने॒ , आ॒ऽहु॒त॒ , धू॒मः , ते॒ , के॒तुः , अ॒भ॒व॒त् , दि॒वि , श्रि॒तः ॥
अ॒ग्निर्नो॑ य॒ज्ञमुप॑ वेतु साधु॒याग्निं नरो॒ वि भ॑रंते गृ॒हेगृ॑हे । अ॒ग्निर्दू॒तो अ॑भवद्धव्य॒वाह॑नो॒ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुं ॥
अ॒ग्निः , नः॒ , य॒ज्ञं , उप॑ , वे॒तु॒ , सा॒धु॒ऽया , अ॒ग्निं , नरः॑ , वि , भ॒रं॒ते॒ , गृ॒हेऽगृ॑हे । अ॒ग्निः , दू॒तः , अ॒भ॒व॒त् , ह॒व्य॒ऽवाह॑नः , अ॒ग्निं , वृ॒णा॒नाः , वृ॒ण॒ते॒ , क॒विऽक्र॑तुं ॥
तुभ्ये॒दम॑ग्ने॒ मधु॑मत्तमं॒ वच॒स्तुभ्यं॑ मनी॒षा इ॒यम॑स्तु॒ शं हृ॒दे । त्वां गिरः॒ सिंधु॑मिवा॒वनी॑र्म॒हीरा पृ॑णंति॒ शव॑सा व॒र्धयं॑ति च ॥
तुभ्य॑ , इ॒दं , अ॒ग्ने॒ , मधु॑मत्ऽतमं , वचः॑ , तुभ्यं॑ , म॒नी॒षा , इ॒यं , अ॒स्तु॒ , शं , हृ॒दे । त्वां , गिरः॑ , सिंधुं॑ऽइव , अ॒वनीः॑ , म॒हीः , आ , पृ॒णं॒ति॒ , शव॑सा , व॒र्धयं॑ति , च॒ ॥
त्वाम॑ग्ने॒ अंगि॑रसो॒ गुहा॑ हि॒तमन्व॑विंदंछिश्रिया॒णं वने॑वने । स जा॑यसे म॒थ्यमा॑नः॒ सहो॑ म॒हत्त्वामा॑हुः॒ सह॑सस्पु॒त्रमं॑गिरः ॥
त्वां , अ॒ग्ने॒ , अंगि॑रसः , गुहा॑ , हि॒तं , अनु॑ , अ॒विं॒द॒न् , शि॒श्रि॒या॒णं , वने॑ऽवने । सः , जा॒य॒से॒ , म॒थ्यमा॑नः , सहः॑ , म॒हत् , त्वां , आ॒हुः॒ , सह॑सः , पु॒त्रं , अं॒गि॒रः॒ ॥
[१२] प्राग्नयइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निस्त्रिष्टुप् |
प्राग्नये॑ बृह॒ते य॒ज्ञिया॑य ऋ॒तस्य॒ वृष्णे॒ असु॑राय॒ मन्म॑ । घृ॒तं न य॒ज्ञ आ॒स्ये॒३॒॑ सुपू॑तं॒ गिरं॑ भरे वृष॒भाय॑ प्रती॒चीं ॥
प्र , अ॒ग्नये॑ , बृ॒ह॒ते , य॒ज्ञिया॑य , ऋ॒तस्य॑ , वृष्णे॑ , असु॑राय , मन्म॑ । घृ॒तं , न , य॒ज्ञे , आ॒स्ये॑ , सुऽपू॑तं , गिरं॑ , भ॒रे॒ , वृ॒ष॒भाय॑ , प्र॒ती॒चीं ॥
ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृंधि पू॒र्वीः । नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्णः॑ ॥
ऋ॒तं , चि॒कि॒त्वः॒ , ऋ॒तं , इत् , चि॒कि॒द्धि॒ , ऋ॒तस्य॑ , धाराः॑ , अनु॑ , तृं॒धि॒ , पू॒र्वीः । न , अ॒हं , या॒तुं , सह॑सा , न , द्व॒येन॑ , ऋ॒तं , स॒पा॒मि॒ , अ॒रु॒षस्य॑ , वृष्णः॑ ॥
कया॑ नो अग्न ऋ॒तय॑न्नृ॒तेन॒ भुवो॒ नवे॑दा उ॒चथ॑स्य॒ नव्यः॑ । वेदा॑ मे दे॒व ऋ॑तु॒पा ऋ॑तू॒नां नाहं पतिं॑ सनि॒तुर॒स्य रा॒यः ॥
कया॑ , नः॒ , अ॒ग्ने॒ , ऋ॒तय॑न् , ऋ॒तेन॑ , भुवः॑ , नवे॑दाः , उ॒चथ॑स्य , नव्यः॑ । वेद॑ , मे॒ , दे॒वः , ऋ॒तु॒ऽपाः , ऋ॒तू॒नां , न , अ॒हं , पतिं॑ , स॒नि॒तुः॒ , अ॒स्य , रा॒यः ॥
के ते॑ अग्ने रि॒पवे॒ बंध॑नासः॒ के पा॒यवः॑ सनिषंत द्यु॒मंतः॑ । के धा॒सिम॑ग्ने॒ अनृ॑तस्य पांति॒ क आस॑तो॒ वच॑सः संति गो॒पाः ॥
के , ते॒ , अ॒ग्ने॒ , रि॒पवे॑ , बंध॑नासः , के , पा॒यवः॑ , स॒नि॒षं॒त॒ , द्यु॒ऽमंतः॑ । के , धा॒सिं , अ॒ग्ने॒ , अनृ॑तस्य , पां॒ति॒ , के , अस॑तः , वच॑सः , सं॒ति॒ , गो॒पाः ॥
सखा॑यस्ते॒ विषु॑णा अग्न ए॒ते शि॒वासः॒ संतो॒ अशि॑वा अभूवन् । अधू॑र्षत स्व॒यमे॒ते वचो॑भिर्ऋजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वंतः॑ ॥
सखा॑यः , ते॒ , विषु॑णाः , अ॒ग्ने॒ , ए॒ते , शि॒वासः॑ , संतः॑ , अशि॑वाः , अ॒भू॒व॒न् । अधू॑र्षत , स्व॒यं , ए॒ते , वचः॑ऽभिः , ऋ॒जु॒ऽय॒ते , वृ॒जि॒नानि॑ , ब्रु॒वंतः॑ ॥
यस्ते॑ अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा॑त्यरु॒षस्य॒ वृष्णः॑ । तस्य॒ क्षयः॑ पृ॒थुरा सा॒धुरे॑तु प्र॒सर्स्रा॑णस्य॒ नहु॑षस्य॒ शेषः॑ ॥
यः , ते॒ , अ॒ग्ने॒ , नम॑सा , य॒ज्ञं , ईट्टे॑ , ऋ॒तं , सः , पा॒ति॒ , अ॒रु॒षस्य॑ , वृष्णः॑ । तस्य॑ , क्षयः॑ , पृ॒थुः , आ , सा॒धुः , ए॒तु॒ , प्र॒ऽसर्स्रा॑णस्य , नहु॑षस्य , शेषः॑ ॥
[१३] अर्चतइति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री |
अर्चं॑तस्त्वा हवाम॒हेऽर्चं॑तः॒ समि॑धीमहि । अग्ने॒ अर्चं॑त ऊ॒तये॑ ॥
अर्चं॑तः , त्वा॒ , ह॒वा॒म॒हे॒ , अर्चं॑तः , सं , इ॒धी॒म॒हि॒ । अग्ने॑ , अर्चं॑तः , ऊ॒तये॑ ॥
अ॒ग्नेः स्तोमं॑ मनामहे सि॒ध्रम॒द्य दि॑वि॒स्पृशः॑ । दे॒वस्य॑ द्रविण॒स्यवः॑ ॥
अ॒ग्नेः , स्तोमं॑ , म॒ना॒म॒हे॒ , सि॒ध्रं , अ॒द्य , दि॒वि॒ऽस्पृशः॑ । दे॒वस्य॑ , द्र॒वि॒ण॒स्यवः॑ ॥
अ॒ग्निर्जु॑षत नो॒ गिरो॒ होता॒ यो मानु॑षे॒ष्वा । स य॑क्ष॒द्दैव्यं॒ जनं॑ ॥
अ॒ग्निः , जु॒ष॒त॒ , नः॒ , गिरः॑ , होता॑ , यः , मानु॑षेषु , आ । सः , य॒क्ष॒त् , दैव्यं॑ , जनं॑ ॥
त्वम॑ग्ने स॒प्रथा॑ असि॒ जुष्टो॒ होता॒ वरे॑ण्यः । त्वया॑ य॒ज्ञं वि त॑न्वते ॥
त्वं , अ॒ग्ने॒ , स॒ऽप्रथाः॑ , अ॒सि॒ , जुष्टः॑ , होता॑ , वरे॑ण्यः । त्वया॑ , य॒ज्ञं , वि , त॒न्व॒ते॒ ॥
त्वाम॑ग्ने वाज॒सात॑मं॒ विप्रा॑ वर्धंति॒ सुष्टु॑तं । स नो॑ रास्व सु॒वीर्यं॑ ॥
त्वां , अ॒ग्ने॒ , वा॒ज॒ऽसात॑मं , विप्राः॑ , व॒र्धं॒ति॒ , सुऽस्तु॑तं । सः , नः॒ , रा॒स्व॒ , सु॒ऽवीर्यं॑ ॥
अग्ने॑ ने॒मिर॒राँ इ॑व दे॒वाँस्त्वं प॑रि॒भूर॑सि । आ राध॑श्चि॒त्रमृं॑जसे ॥
अग्ने॑ , ने॒मिः , अ॒रान्ऽइ॑व , दे॒वान् , त्वं , प॒रि॒ऽभूः , अ॒सि॒ । आ , राधः॑ , चि॒त्रं , ऋं॒ज॒से॒ ॥
[१४] अग्निंस्तोमेनेति षडृचस्य सूक्तस्यात्रेयः सुतंभरोग्निर्गायत्री |
अ॒ग्निं स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यं । ह॒व्या दे॒वेषु॑ नो दधत् ॥
अ॒ग्निं , स्तोमे॑न , बो॒ध॒य॒ , सं॒ऽइ॒धा॒नः , अम॑र्त्यं । ह॒व्या , दे॒वेषु॑ , नः॒ , द॒ध॒त् ॥
तम॑ध्व॒रेष्वी॑ळते दे॒वं मर्ता॒ अम॑र्त्यं । यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥
तं , अ॒ध्व॒रेषु॑ , ई॒ळ॒ते॒ , दे॒वं , मर्ताः॑ , अम॑र्त्यं । यजि॑ष्ठं , मानु॑षे , जने॑ ॥
तं हि शश्वं॑त॒ ईळ॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता॑ । अ॒ग्निं ह॒व्याय॒ वोळ्ह॑वे ॥
तं , हि , शश्वं॑तः , ईळ॑ते , स्रु॒चा , दे॒वं , घृ॒त॒ऽश्चुता॑ । अ॒ग्निं , ह॒व्याय॑ , वोळ्ह॑वे ॥
अ॒ग्निर्जा॒तो अ॑रोचत॒ घ्नंदस्यूं॒ज्योति॑षा॒ तमः॑ । अविं॑द॒द्गा अ॒पः स्वः॑ ॥
अ॒ग्निः , जा॒तः , अ॒रो॒च॒त॒ , घ्नन् , दस्यू॑न् , ज्योति॑षा , तमः॑ । अविं॑दत् , गाः , अ॒पः , स्व१॒॑रिति॒ स्वः॑ ॥
अ॒ग्निमी॒ळेन्यं॑ क॒विं घृ॒तपृ॑ष्ठं सपर्यत । वेतु॑ मे शृ॒णव॒द्धवं॑ ॥
अ॒ग्निं , ई॒ळेन्यं॑ , क॒विं , घृ॒तऽपृ॑ष्ठं , स॒प॒र्य॒त॒ । वेतु॑ , मे॒ , शृ॒णव॑त् , हवं॑ ॥
अ॒ग्निं घृ॒तेन॑ वावृधुः॒ स्तोमे॑भिर्वि॒श्वच॑र्षणिं । स्वा॒धीभि॑र्वच॒स्युभिः॑ ॥
अ॒ग्निं , घृ॒तेन॑ , व॒वृ॒धुः॒ , स्तोमे॑भिः , वि॒श्वऽच॑र्षणिं । सु॒ऽआ॒धीभिः॑ , व॒च॒स्युऽभिः॑ ॥
[१५] प्रवेधसइति पंचर्चस्य सूक्तस्यांगिरसोधरुणोऽग्निस्त्रिष्टुप् |
प्र वे॒धसे॑ क॒वये॒ वेद्या॑य॒ गिरं॑ भरे य॒शसे॑ पू॒र्व्याय॑ । घृ॒तप्र॑सत्तो॒ असु॑रः सु॒शेवो॑ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो॑ अ॒ग्निः ॥
प्र , वे॒धसे॑ , क॒वये॑ , वेद्या॑य , गिरं॑ , भ॒रे॒ , य॒शसे॑ , पू॒र्व्याय॑ । घृ॒तऽप्र॑सत्तः , असु॑रः , सु॒ऽशेवः॑ , रा॒यः , ध॒र्ता , ध॒रुणः॑ , वस्वः॑ , अ॒ग्निः ॥
ऋ॒तेन॑ ऋ॒तं ध॒रुणं॑ धारयंत य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो॑मन् । दि॒वो धर्मं॑ध॒रुणे॑ से॒दुषो॒ नॄंजा॒तैरजा॑ताँ अ॒भि ये न॑न॒क्षुः ॥
ऋ॒तेन॑ , ऋ॒तं , ध॒रुणं॑ , धा॒र॒यं॒त॒ , य॒ज्ञस्य॑ , शो॒के , प॒र॒मे , विऽओ॑मन् । दि॒वः , धर्म॑न् , ध॒रुणे॑ , से॒दुषः॑ , नॄन् , जा॒तैः , अजा॑तान् , अ॒भि , ये , न॒न॒क्षुः ॥
अ॒ङ्हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो॑ म॒हद्दु॒ष्टरं॑ पू॒र्व्याय॑ । स सं॒वतो॒ नव॑जातस्तुतुर्यात्सि॒ङ्हं न क्रु॒द्धम॒भितः॒ परि॑ ष्ठुः ॥
अं॒हः॒ऽयुवः॑ , त॒न्वः॑ , त॒न्व॒ते॒ , वि , वयः॑ , म॒हत् , दु॒स्तरं॑ , पू॒र्व्याय॑ । सः , सं॒ऽवतः॑ , नव॑ऽजातः , तु॒तु॒र्या॒त् , सिं॒हं , न , क्रु॒द्धं , अ॒भितः॑ , परि॑ , स्थुः॒ ॥
मा॒तेव॒ यद्भर॑से पप्रथा॒नो जनं॑जनं॒ धाय॑से॒ चक्ष॑से च । वयो॑वयो जरसे॒ यद्दधा॑नः॒ परि॒ त्मना॒ विषु॑रूपो जिगासि ॥
मा॒ताऽइ॑व , यत् , भर॑से , प॒प्र॒था॒नः , जनं॑ऽजनं , धाय॑से , चक्ष॑से , च॒ । वयः॑ऽवयः , ज॒र॒से॒ , यत् , दधा॑नः , परि॑ , त्मना॑ , विषु॑ऽरूपः , जि॒गा॒सि॒ ॥
वाजो॒ नु ते॒ शव॑सस्पा॒त्वंत॑मु॒रुं दोघं॑ ध॒रुणं॑ देव रा॒यः । प॒दं न ता॒युर्गुहा॒ दधा॑नो म॒हो रा॒ये चि॒तय॒न्नत्रि॑मस्पः ॥
वाजः॑ , नु , ते॒ , शव॑सः , पा॒तु॒ , अंतं॑ , उ॒रुं , दोघं॑ , ध॒रुणं॑ , दे॒व॒ , रा॒यः । प॒दं , न , ता॒युः , गुहा॑ , दधा॑नः , म॒हः , रा॒ये , चि॒तय॑न् , अत्रिं॑ , अ॒स्प॒रित्य॑स्पः ॥
[१६] बृहद्वयइति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप् अंत्या पंक्तिः |
बृ॒हद्वयो॒ हि भा॒नवेऽर्चा॑ दे॒वाया॒ग्नये॑ । यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता॑सो दधि॒रे पु॒रः ॥
बृ॒हत् , वयः॑ , हि , भा॒नवे॑ , अर्च॑ , दे॒वाय॑ , अ॒ग्नये॑ । यं , मि॒त्रं , न , प्रश॑स्तिऽभिः , मर्ता॑सः , द॒धि॒रे , पु॒रः ॥
स हि द्युभि॒र्जना॑नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः । वि ह॒व्यम॒ग्निरा॑नु॒षग्भगो॒ न वार॑मृण्वति ॥
सः , हि , द्युऽभिः॑ , जना॑नां , होता॑ , दक्ष॑स्य , बा॒ह्वोः । वि , ह॒व्यं , अ॒ग्निः , आ॒नु॒षक् , भगः॑ , न , वारं॑ , ऋ॒ण्व॒ति॒ ॥
अ॒स्य स्तोमे॑ म॒घोनः॑ स॒ख्ये वृ॒द्धशो॑चिषः । विश्वा॒ यस्मिं॑तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ॥
अ॒स्य , स्तोमे॑ , म॒घोनः॑ , स॒ख्ये , वृ॒द्धऽशो॑चिषः । विश्वा॑ , यस्मि॑न् , तु॒वि॒ऽस्वणि॑ , सं , अ॒र्ये , शुष्मं॑ , आ॒ऽद॒धुः ॥
अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना॑ । तमिद्य॒ह्वं न रोद॑सी॒ परि॒ श्रवो॑ बभूवतुः ॥
अध॑ , हि , अ॒ग्ने॒ , ए॒षां॒ , सु॒ऽवीर्य॑स्य , मं॒हना॑ । तं , इत् , य॒ह्वं , न , रोद॑सी॒ इति॑ , परि॑ , श्रवः॑ , ब॒भू॒व॒तुः॒ ॥
नू न॒ एहि॒ वार्य॒मग्ने॑ गृणा॒न आ भ॑र । ये व॒यं ये च॑ सू॒रयः॑ स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥
नु , नः॒ , आ , इ॒हि॒ , वार्यं॑ , अग्ने॑ , गृ॒णा॒नः , आ , भ॒र॒ । ये , व॒यं , ये , च॒ , सू॒रयः॑ , स्व॒स्ति , धाम॑हे , सचा॑ , उ॒त , ए॒धि॒ , पृ॒त्ऽसु , नः॒ , वृ॒धे ॥
[१७] आयज्ञैरिति पंचर्चस्य सूक्तस्यात्रेयः पूरुरग्निरनुष्टुप् अंत्या पंक्तिः |
आ य॒ज्ञैर्दे॑व॒ मर्त्य॑ इ॒त्था तव्यां॑समू॒तये॑ । अ॒ग्निं कृ॒ते स्व॑ध्व॒रे पू॒रुरी॑ळी॒ताव॑से ॥
आ , य॒ज्ञैः , दे॒व॒ , मर्त्यः॑ , इ॒त्था , तव्यां॑सं , ऊ॒तये॑ । अ॒ग्निं , कृ॒ते , सु॒ऽअ॒ध्व॒रे , पू॒रुः , ई॒ळी॒त॒ , अव॑से ॥
अस्य॒ हि स्वय॑शस्तर आ॒सा वि॑धर्म॒न्मन्य॑से । तं नाकं॑ चि॒त्रशो॑चिषं मं॒द्रं प॒रो म॑नी॒षया॑ ॥
अस्य॑ , हि , स्वय॑शःऽतरः , आ॒सा , वि॒ऽध॒र्म॒न् , मन्य॑से । तं , नाकं॑ , चि॒त्रऽशो॑चिषं , मं॒द्रं , प॒रः , म॒नी॒षया॑ ॥
अ॒स्य वासा उ॑ अ॒र्चिषा॒ य आयु॑क्त तु॒जा गि॒रा । दि॒वो न यस्य॒ रेत॑सा बृ॒हच्छोचं॑त्य॒र्चयः॑ ॥
अ॒स्य , वै , अ॒सौ , ऊँ॒ इति॑ , अ॒र्चिषा॑ , यः , अयु॑क्त , तु॒जा , गि॒रा । दि॒वः , न , यस्य॑ , रेत॑सा , बृ॒हत् , शोचं॑ति , अ॒र्चयः॑ ॥
अ॒स्य क्रत्वा॒ विचे॑तसो द॒स्मस्य॒ वसु॒ रथ॒ आ । अधा॒ विश्वा॑सु॒ हव्यो॒ऽग्निर्वि॒क्षु प्र श॑स्यते ॥
अ॒स्य , क्रत्वा॑ , विऽचे॑तसः , द॒स्मस्य॑ , वसु॑ , रथे॑ , आ । अध॑ , विश्वा॑सु , हव्यः॑ , अ॒ग्निः , वि॒क्षु , प्र , श॒स्य॒ते॒ ॥
नू न॒ इद्धि वार्य॑मा॒सा स॑चंत सू॒रयः॑ । ऊर्जो॑ नपाद॒भिष्ट॑ये पा॒हि श॒ग्धि स्व॒स्तय॑ उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥
नु , नः॒ , इत् , हि , वार्यं॑ , आ॒सा , स॒चं॒त॒ , सू॒रयः॑ । ऊर्जः॑ , न॒पा॒त् , अ॒भिष्ट॑ये , पा॒हि , श॒ग्धि , स्व॒स्तये॑ , उ॒त , ए॒धि॒ , पृ॒त्ऽसु , नः॒ , वृ॒धे ॥
[१८] प्रातरग्निरिति पंचर्चस्य सूक्तस्यात्रेयोमृक्तवाहाद्वितोग्निरनुष्टुप् अंत्या पंक्तिः |
प्रा॒तर॒ग्निः पु॑रुप्रि॒यो वि॒शः स्त॑वे॒ताति॑थिः । विश्वा॑नि॒ यो अम॑र्त्यो ह॒व्या मर्ते॑षु॒ रण्य॑ति ॥
प्रा॒तः , अ॒ग्निः , पु॒रु॒ऽप्रि॒यः , वि॒शः , स्त॒वे॒त॒ , अति॑थिः । विश्वा॑नि , यः , अम॑र्त्यः , ह॒व्या , मर्ते॑षु , रण्य॑ति ॥
द्वि॒ताय॑ मृ॒क्तवा॑हसे॒ स्वस्य॒ दक्ष॑स्य मं॒हना॑ । इंदुं॒ स ध॑त्त आनु॒षक्स्तो॒ता चि॑त्ते अमर्त्य ॥
द्वि॒ताय॑ , मृ॒क्तऽवा॑हसे , स्वस्य॑ , दक्ष॑स्य , मं॒हना॑ । इंदुं॒ , सः , ध॒त्ते॒ , आ॒नु॒षक् , स्तो॒ता , चि॒त् , ते॒ , अ॒म॒र्त्य॒ ॥
तं वो॑ दी॒र्घायु॑शोचिषं गि॒रा हु॑वे म॒घोनां॑ । अरि॑ष्टो॒ येषां॒ रथो॒ व्य॑श्वदाव॒न्नीय॑ते ॥
तं , वः॒ , दी॒र्घायु॑ऽशोचिषं , गि॒रा , हु॒वे॒ , म॒घोनां॑ । अरि॑ष्टः , येषां॑ , रथः॑ , वि , अ॒श्व॒ऽदा॒व॒न् , ईय॑ते ॥
चि॒त्रा वा॒ येषु॒ दीधि॑तिरा॒सन्नु॒क्था पांति॒ ये । स्ती॒र्णं ब॒र्हिः स्व॑र्णरे॒ श्रवां॑सि दधिरे॒ परि॑ ॥
चि॒त्रा , वा॒ , येषु॑ , दीधि॑तिः , आ॒सन् , उ॒क्था , पांति॑ , ये । स्ती॒र्णं , ब॒र्हिः , स्वः॑ऽनरे , श्रवां॑सि , द॒धि॒रे॒ , परि॑ ॥
ये मे॑ पंचा॒शतं॑ द॒दुरश्वा॑नां स॒धस्तु॑ति । द्यु॒मद॑ग्ने॒ महि॒ श्रवो॑ बृ॒हत्कृ॑धि म॒घोनां॑ नृ॒वद॑मृत नृ॒णां ॥
ये , मे॒ , पं॒चा॒शतं॑ , द॒दुः , अश्वा॑नां , स॒धऽस्तु॑ति । द्यु॒ऽमत् , अ॒ग्ने॒ , महि॑ , श्रवः॑ , बृ॒हत् , कृ॒धि॒ , म॒घोनां॑ , नृ॒ऽवत् , अ॒मृ॒त॒ , नृ॒णां ॥
[१९] अभ्यवस्थाइति पंचर्चस्य सूक्तस्यात्रेयोवव्रिरग्निः आद्येद्वेगायत्र्यौ तृतीया चतुर्थ्यां वनुष्टुभौ पंचमीविराड्रूपा |
अ॒भ्य॑व॒स्थाः प्र जा॑यंते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत । उ॒पस्थे॑ मा॒तुर्वि च॑ष्टे ॥
अ॒भि , अ॒व॒ऽस्थाः , प्र , जा॒यं॒ते॒ , प्र , व॒व्रेः , व॒व्रिः , चि॒के॒त॒ । उ॒पऽस्थे॑ , मा॒तुः , वि , च॒ष्टे॒ ॥
जु॒हु॒रे वि चि॒तयं॒तोऽनि॑मिषं नृ॒म्णं पां॑ति । आ दृ॒ळ्हां पुरं॑ विविशुः ॥
जु॒हु॒रे , वि , चि॒तयं॑तः , अनि॑ऽमिषं , नृ॒म्णं , पां॒ति॒ । आ , दृ॒ळ्हां , पुरं॑ , वि॒वि॒शुः॒ ॥
आ श्वै॑त्रे॒यस्य॑ जं॒तवो॑ द्यु॒मद्व॑र्धंत कृ॒ष्टयः॑ । नि॒ष्कग्री॑वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा॑ज॒युः ॥
आ , श्वै॒त्रे॒यस्य॑ , जं॒तवः॑ , द्यु॒ऽमत् , व॒र्धं॒त॒ , कृ॒ष्टयः॑ । नि॒ष्कऽग्री॑वः , बृ॒हत्ऽउ॑क्थः , ए॒ना , मध्वा॑ , न , वा॒ज॒ऽयुः ॥
प्रि॒यं दु॒ग्धं न काम्य॒मजा॑मि जा॒म्योः सचा॑ । घ॒र्मो न वाज॑जठ॒रोऽद॑ब्धः॒ शश्व॑तो॒ दभः॑ ॥
प्रि॒यं , दु॒ग्धं , न , काम्यं॑ , अजा॑मि , जा॒म्योः , सचा॑ । घ॒र्मः , न , वाज॑ऽजठरः , अद॑ब्धः , शश्व॑तः , दभः॑ ॥
क्रीळ॑न्नो रश्म॒ आ भु॑वः॒ सं भस्म॑ना वा॒युना॒ वेवि॑दानः । ता अ॑स्य संधृ॒षजो॒ न ति॒ग्माः सुसं॑शिता व॒क्ष्यो॑ वक्षणे॒स्थाः ॥
क्रीळ॑न् , नः॒ , र॒श्मे॒ , आ , भु॒वः॒ , सं , भस्म॑ना , वा॒युना॑ , वेवि॑दानः । ताः , अ॒स्य॒ , स॒न् , धृ॒षजः॑ , न , ति॒ग्माः , सुऽसं॑शिताः , व॒क्ष्यः॑ , व॒क्ष॒णे॒ऽस्थाः ॥
[२०] यमग्न इति चतुरृचस्य सूक्तस्यात्रेयः प्रयस्वंतोग्निरनुष्टुप् अंत्या पंक्तिः |
यम॑ग्ने वाजसातम॒ त्वं चि॒न्मन्य॑से र॒यिं । तं नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युजं॑ ॥
यं , अ॒ग्ने॒ , वा॒ज॒ऽसा॒त॒म॒ , त्वं , चि॒त् , मन्य॑से , र॒यिं । तं , नः॒ , गीः॒ऽभिः , श्र॒वाय्यं॑ , दे॒व॒ऽत्रा , प॒न॒य॒ , युजं॑ ॥
ये अ॑ग्ने॒ नेरयं॑ति ते वृ॒द्धा उ॒ग्रस्य॒ शव॑सः । अप॒ द्वेषो॒ अप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिरे ॥
ये , अ॒ग्ने॒ , न , ई॒रयं॑ति , ते॒ , वृ॒द्धाः , उ॒ग्रस्य॑ , शव॑सः । अप॑ , द्वेषः॑ , अप॑ , ह्वरः॑ , अ॒न्यऽव्र॑तस्य , स॒श्चि॒रे॒ ॥
होता॑रं त्वा वृणीम॒हेऽग्ने॒ दक्ष॑स्य॒ साध॑नं । य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वंतो हवामहे ॥
होता॑रं , त्वा॒ , वृ॒णी॒म॒हे॒ , अग्ने॑ , दक्ष॑स्य , साध॑नं । य॒ज्ञेषु॑ , पू॒र्व्यं , गि॒रा , प्रय॑स्वंतः , ह॒वा॒म॒हे॒ ॥
इ॒त्था यथा॑ त ऊ॒तये॒ सह॑सावंदि॒वेदि॑वे । रा॒य ऋ॒ताय॑ सुक्रतो॒ गोभिः॑ ष्याम सध॒मादो॑ वी॒रैः स्या॑म सध॒मादः॑ ॥
इ॒त्था , यथा॑ , ते॒ , ऊ॒तये॑ , सह॑साऽवन् , दि॒वेऽदि॑वे । रा॒ये , ऋ॒ताय॑ , सु॒क्र॒तो॒ इति॑ सुऽक्रतो , गोभिः॑ , स्या॒म॒ , स॒ध॒ऽमादः॑ , वी॒रैः , स्या॒म॒ , स॒ध॒ऽमादः॑ ॥
[२१] मनुष्वदिति चतुरृचस्य सूक्तस्यात्रेयःससोग्निरनुष्टुप् अंत्या पंक्तिः |
म॒नु॒ष्वत्त्वा॒ नि धी॑महि मनु॒ष्वत्समि॑धीमहि । अग्ने॑ मनु॒ष्वदं॑गिरो दे॒वांदे॑वय॒ते य॑ज ॥
म॒नु॒ष्वत् , त्वा॒ , नि , धी॒म॒हि॒ , म॒नु॒ष्वत् , सं , इ॒धी॒म॒हि॒ । अग्ने॑ , म॒नु॒ष्वत् , अं॒गि॒रः॒ , दे॒वान् , दे॒व॒ऽय॒ते , य॒ज॒ ॥
त्वं हि मानु॑षे॒ जनेऽग्ने॒ सुप्री॑त इ॒ध्यसे॑ । स्रुच॑स्त्वा यंत्यानु॒षक्सुजा॑त॒ सर्पि॑रासुते ॥
त्वं , हि , मानु॑षे , जने॑ , अग्ने॑ , सुऽप्री॑तः , इ॒ध्यसे॑ । स्रुचः॑ , त्वा॒ , यं॒ति॒ , आ॒नु॒षक् , सुऽजा॑त , सर्पिः॑ऽआसुते ॥
त्वां विश्वे॑ स॒जोष॑सो दे॒वासो॑ दू॒तम॑क्रत । स॒प॒र्यंत॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वमी॑ळते ॥
त्वां , विश्वे॑ , स॒ऽजोष॑सः , दे॒वासः॑ , दू॒तं , अ॒क्र॒त॒ । स॒प॒र्यंतः॑ , त्वा॒ , क॒वे॒ , य॒ज्ञेषु॑ , दे॒वं , ई॒ळ॒ते॒ ॥
दे॒वं वो॑ देवय॒ज्यया॒ग्निमी॑ळीत॒ मर्त्यः॑ । समि॑द्धः शुक्र दीदिह्यृ॒तस्य॒ योनि॒मास॑दः स॒सस्य॒ योनि॒मास॑दः ॥
दे॒वं , वः॒ , दे॒व॒ऽय॒ज्यया॑ , अ॒ग्निं , ई॒ळी॒त॒ , मर्त्यः॑ । संऽइ॑द्धः , शु॒क्र॒ , दी॒दि॒हि॒ , ऋ॒तस्य॑ , योनिं॑ , आ , अ॒स॒दः॒ , स॒सस्य॑ , योनिं॑ , आ , अ॒स॒दः॒ ॥
[२२] प्रविश्वसामन्निति चतुरृचस्य सूक्तस्यात्रेयोविश्वसामाग्निरनुष्टुप् अंत्या पंक्तिः |
प्र वि॑श्वसामन्नत्रि॒वदर्चा॑ पाव॒कशो॑चिषे । यो अ॑ध्व॒रेष्वीड्यो॒ होता॑ मं॒द्रत॑मो वि॒शि ॥
प्र , वि॒श्व॒ऽसा॒म॒न् , अ॒त्रि॒ऽवत् , अर्च॑ , पा॒व॒कऽशो॑चिषे । यः , अ॒ध्व॒रेषु॑ , ईड्यः॑ , होता॑ , मं॒द्रऽत॑मः , वि॒शि ॥
न्य१॒॑ग्निं जा॒तवे॑दसं॒ दधा॑ता दे॒वमृ॒त्विजं॑ । प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ॥
नि , अ॒ग्निं , जा॒तऽवे॑दसं , दधा॑त , दे॒वं , ऋ॒त्विजं॑ । प्र , य॒ज्ञः , ए॒तु॒ , आ॒नु॒षक् , अ॒द्य , दे॒वव्य॑चःऽतमः ॥
चि॒कि॒त्विन्म॑नसं त्वा दे॒वं मर्ता॑स ऊ॒तये॑ । वरे॑ण्यस्य॒ तेऽव॑स इया॒नासो॑ अमन्महि ॥
चि॒कि॒त्वित्ऽम॑नसं , त्वा॒ , दे॒वं , मर्ता॑सः , ऊ॒तये॑ । वरे॑ण्यस्य , ते॒ , अव॑सः , इ॒या॒नासः॑ , अ॒म॒न्म॒हि॒ ॥
अग्ने॑ चिकि॒द्ध्य१॒॑स्य न॑ इ॒दं वचः॑ सहस्य । तं त्वा॑ सुशिप्र दंपते॒ स्तोमै॑र्वर्धं॒त्यत्र॑यो गी॒र्भिः शुं॑भं॒त्यत्र॑यः ॥
अग्ने॑ , चि॒कि॒द्धि , अ॒स्य , नः॒ , इ॒दं , वचः॑ , स॒ह॒स्य॒ । तं , त्वा॒ , सु॒ऽशि॒प्र॒ , दं॒ऽप॒ते॒ , स्तोमैः॑ , व॒र्धं॒ति॒ , अत्र॑यः , गीः॒ऽभिः , शुं॒भं॒ति॒ , अत्र॑यः ॥
[२३] अग्नेसहंतमिति चतुरृचस्य सूक्तस्यात्रेयोद्युम्नोविश्वचर्षणिरग्निरनुष्टुप् अंत्या पंक्तिः |
अग्ने॒ सहं॑त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिं । विश्वा॒ यश्च॑र्ष॒णीर॒भ्या॒३॒॑सा वाजे॑षु सा॒सह॑त् ॥
अग्ने॑ , सहं॑तं , आ , भ॒र॒ , द्यु॒म्नस्य॑ , प्र॒ऽसहा॑ , र॒यिं । विश्वाः॑ , यः , च॒र्ष॒णीः , अ॒भि , आ॒सा , वाजे॑षु , स॒सह॑त् ॥
तम॑ग्ने पृतना॒षहं॑ र॒यिं स॑हस्व॒ आ भ॑र । त्वं हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥
तं , अ॒ग्ने॒ , पृ॒त॒ना॒ऽसहं॑ , र॒यिं , स॒ह॒स्वः॒ , आ , भ॒र॒ । त्वं , हि , स॒त्यः , अद्भु॑तः , दा॒ता , वाज॑स्य , गोऽम॑तः ॥
विश्वे॒ हि त्वा॑ स॒जोष॑सो॒ जना॑सो वृ॒क्तब॑र्हिषः । होता॑रं॒ सद्म॑सु प्रि॒यं व्यंति॒ वार्या॑ पु॒रु ॥
विश्वे॑ , हि , त्वा॒ , स॒ऽजोष॑सः , जना॑सः , वृ॒क्तऽब॑र्हिषः । होता॑रं , सद्म॑ऽसु , प्रि॒यं , व्यंति॑ , वार्या॑ , पु॒रु ॥
स हि ष्मा॑ वि॒श्वच॑र्षणिर॒भिमा॑ति॒ सहो॑ द॒धे । अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥
सः , हि , स्म॒ , वि॒श्वऽच॑र्षणिः , अ॒भिऽमा॑ति , सहः॑ , द॒धे । अग्ने॑ , ए॒षु , क्षये॑षु , आ , रे॒वत् , नः॒ , शु॒क्र॒ , दी॒दि॒हि॒ , द्यु॒ऽमत् , पा॒व॒क॒ , दी॒दि॒हि॒ ॥
[२४] अग्नेत्वंनइति चतुरृचस्य सूक्तस्य गौपायना लौपायनावाबंधुः सुबंधुः श्रुतबंधुर्विप्रबंधुश्चक्रमेणर्षयोऽग्निर्द्विपदा विराट् |
अग्ने॒ त्वं नो॒ अंत॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॑ ॥
अग्ने॑ , त्वं , नः॒ , अंत॑मः , उ॒त , त्रा॒ता , शि॒वः , भ॒व॒ , व॒रू॒थ्यः॑ ॥ ।
वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मं र॒यिं दाः॑ ॥
वसुः॑ , अ॒ग्निः , वसु॑ऽश्रवाः , अच्छ॑ , न॒क्षि॒ , द्यु॒मत्ऽत॑मं , र॒यिं , दाः॒ ॥ ।
स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः स॑मस्मात् ॥
सः , नः॒ , बो॒धि॒ , श्रु॒धि , हवं॑ , उ॒रु॒ष्य , नः॒ , अ॒घ॒ऽय॒तः , स॒म॒स्मा॒त् ॥ ।
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥
तं , त्वा॒ , शो॒चि॒ष्ठ॒ , दी॒दि॒ऽवः॒ , सु॒म्नाय॑ , नू॒नं , ई॒म॒हे॒ , सखि॑ऽभ्यः ॥ ।
[२५] अच्छावइति नवर्चस्य सूक्तस्यात्रेयो वसूयवोग्निरनुष्टुप् |
अच्छा॑ वो अ॒ग्निमव॑से दे॒वं गा॑सि॒ स नो॒ वसुः॑ । रास॑त्पु॒त्र ऋ॑षू॒णामृ॒तावा॑ पर्षति द्वि॒षः ॥
अच्छ॑ , वः॒ , अ॒ग्निं , अव॑से , दे॒वं , गा॒सि॒ , सः , नः॒ , वसुः॑ । रास॑त् , पु॒त्रः , ऋ॒षू॒णां , ऋ॒तऽवा॑ , प॒र्ष॒ति॒ , द्वि॒षः ॥
स हि स॒त्यो यं पूर्वे॑ चिद्दे॒वास॑श्चि॒द्यमी॑धि॒रे । होता॑रं मं॒द्रजि॑ह्व॒मित्सु॑दी॒तिभि॑र्वि॒भाव॑सुं ॥
सः , हि , स॒त्यः , यं , पूर्वे॑ , चि॒त् , दे॒वासः॑ , चि॒त् , यं , ई॒धि॒रे । होता॑रं , मं॒द्रऽजि॑ह्वं , इत् , सु॒दी॒तिऽभिः॑ , वि॒भाऽव॑सुं ॥
स नो॑ धी॒ती वरि॑ष्ठया॒ श्रेष्ठ॑या च सुम॒त्या । अग्ने॑ रा॒यो दि॑दीहि नः सुवृ॒क्तिभि॑र्वरेण्य ॥
सः , नः॒ , धी॒ती , वरि॑ष्ठया , श्रेष्ठ॑या , च॒ , सु॒ऽम॒त्या । अग्ने॑ , रा॒यः , दि॒दी॒हि॒ , नः॒ , सु॒वृ॒क्तिऽभिः॑ , व॒रे॒ण्य॒ ॥
अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते॑ष्वावि॒शन् । अ॒ग्निर्नो॑ हव्य॒वाह॑नो॒ऽग्निं धी॒भिः स॑पर्यत ॥
अ॒ग्निः , दे॒वेषु॑ , रा॒ज॒ति॒ , अ॒ग्निः , मर्ते॑षु , आ॒ऽवि॒शन् । अ॒ग्निः , नः॒ , ह॒व्य॒ऽवाह॑नः , अ॒ग्निं , धी॒भिः , स॒प॒र्य॒त॒ ॥
अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र॑ह्माणमुत्त॒मं । अ॒तूर्तं॑ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे॑ ॥
अ॒ग्निः , तु॒विश्र॑वःऽतमं , तु॒विऽब्र॑ह्माणं , उ॒त्ऽत॒मं । अ॒तूर्तं॑ , श्र॒व॒यत्ऽप॑तिं , पु॒त्रं , द॒दा॒ति॒ , दा॒शुषे॑ ॥
अ॒ग्निर्द॑दाति॒ सत्प॑तिं सा॒साह॒ यो यु॒धा नृभिः॑ । अ॒ग्निरत्यं॑ रघु॒ष्यदं॒ जेता॑र॒मप॑राजितं ॥
अ॒ग्निः , द॒दा॒ति॒ , सत्ऽप॑तिं , स॒साह॑ , यः , यु॒धा , नृऽभिः॑ । अ॒ग्निः , अत्यं॑ , र॒घु॒ऽस्यदं॑ , जेता॑रं , अप॑राऽजितं ॥
यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो । महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ॥
यत् , वाहि॑ष्ठं , तत् , अ॒ग्नये॑ , बृ॒हत् , अ॒र्च॒ , वि॒भा॒व॒सो॒ इति॑ विभाऽवसो । महि॑षीऽइव , त्वत् , र॒यिः , त्वत् , वाजाः॑ , उत् , ई॒र॒ते॒ ॥
तव॑ द्यु॒मंतो॑ अ॒र्चयो॒ ग्रावे॑वोच्यते बृ॒हत् । उ॒तो ते॑ तन्य॒तुर्य॑था स्वा॒नो अ॑र्त॒ त्मना॑ दि॒वः ॥
तव॑ , द्यु॒ऽमंतः॑ , अ॒र्चयः॑ , ग्रावा॑ऽइव , उ॒च्य॒ते॒ , बृ॒हत् । उ॒तो इति॑ , ते॒ , त॒न्य॒तुः , य॒था॒ , स्वा॒नः , अ॒र्त॒ , त्मना॑ , दि॒वः ॥
ए॒वाँ अ॒ग्निं व॑सू॒यवः॑ सहसा॒नं व॑वंदिम । स नो॒ विश्वा॒ अति॒ द्विषः॒ पर्ष॑न्ना॒वेव॑ सु॒क्रतुः॑ ॥
ए॒व , अ॒ग्निं , व॒सु॒ऽयवः॑ , स॒ह॒सा॒नं , व॒वं॒दि॒म॒ । सः , नः॒ , विश्वाः॑ , अति॑ , द्विषः॑ , पर्ष॑त् , ना॒वाऽइ॑व , सु॒ऽक्रतुः॑ ॥
[२६] अग्नेपावकेति नवर्चस्य सूक्तस्यात्रेयोवसूयवोग्निरंत्यायाविश्वेदेवागायत्री |
अग्ने॑ पावक रो॒चिषा॑ मं॒द्रया॑ देव जि॒ह्वया॑ । आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥
अग्ने॑ , पा॒व॒क॒ , रो॒चिषा॑ , मं॒द्रया॑ , दे॒व॒ , जि॒ह्वया॑ । आ , दे॒वान् , व॒क्षि॒ , यक्षि॑ , च॒ ॥
तं त्वा॑ घृतस्नवीमहे॒ चित्र॑भानो स्व॒र्दृशं॑ । दे॒वाँ आ वी॒तये॑ वह ॥
तं , त्वा॒ , घृ॒त॒स्नो॒ इति॑ घृतऽस्नो , ई॒म॒हे॒ , चित्र॑भानो॒ इति॒ चित्र॑ऽभानो , स्वः॒ऽदृशं॑ । दे॒वान् , आ , वी॒तये॑ , व॒ह॒ ॥
वी॒तिहो॑त्रं त्वा कवे द्यु॒मंतं॒ समि॑धीमहि । अग्ने॑ बृ॒हंत॑मध्व॒रे ॥
वी॒तिऽहो॑त्रं , त्वा॒ , क॒वे॒ , द्यु॒ऽमंतं॑ , सं , इ॒धी॒म॒हि॒ । अग्ने॑ , बृ॒हंतं॑ , अ॒ध्व॒रे ॥
अग्ने॒ विश्वे॑भि॒रा ग॑हि दे॒वेभि॑र्ह॒व्यदा॑तये । होता॑रं त्वा वृणीमहे ॥
अग्ने॑ , विश्वे॑ऽभिः , आ , ग॒हि॒ , दे॒वेभिः॑ , ह॒व्यऽदा॑तये । होता॑रं , त्वा॒ , वृ॒णी॒म॒हे॒ ॥
यज॑मानाय सुन्व॒त आग्ने॑ सु॒वीर्यं॑ वह । दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥
यज॑मानाय , सु॒न्व॒ते , आ , अ॒ग्ने॒ , सु॒ऽवीर्यं॑ , व॒ह॒ । दे॒वैः , आ , स॒त्सि॒ , ब॒र्हिषि॑ ॥
स॒मि॒धा॒नः स॑हस्रजि॒दग्ने॒ धर्मा॑णि पुष्यसि । दे॒वानां॑ दू॒त उ॒क्थ्यः॑ ॥
सं॒ऽइ॒धा॒नः , स॒ह॒स्र॒ऽजि॒त् , अग्ने॑ , धर्मा॑णि , पु॒ष्य॒सि॒ । दे॒वानां॑ , दू॒तः , उ॒क्थ्यः॑ ॥
न्य१॒॑ग्निं जा॒तवे॑दसं होत्र॒वाहं॒ यवि॑ष्ठ्यं । दधा॑ता दे॒वमृ॒त्विजं॑ ॥
नि , अ॒ग्निं , जा॒तऽवे॑दसं , हो॒त्र॒ऽवाहं॑ , यवि॑ष्ठ्यं । दधा॑त , दे॒वं , ऋ॒त्विजं॑ ॥
प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः । स्तृ॒णी॒त ब॒र्हिरा॒सदे॑ ॥
प्र , य॒ज्ञः , ए॒तु॒ , आ॒नु॒षक् , अ॒द्य , दे॒वव्य॑चःऽतमः । स्तृ॒णी॒त , ब॒र्हिः , आ॒ऽसदे॑ ॥
एदं म॒रुतो॑ अ॒श्विना॑ मि॒त्रः सी॑दंतु॒ वरु॑णः । दे॒वासः॒ सर्व॑या वि॒शा ॥
आ , इ॒दं , म॒रुतः॑ , अ॒श्विना॑ , मि॒त्रः , सी॒दं॒तु॒ , वरु॑णः । दे॒वासः॑ , सर्व॑या , वि॒शा ॥
[२७] अनस्वंतेति षडृचस्य सूक्तस्य त्रैवृष्णस्त्र्यरुणः पौरुकुत्स्यस्त्रसदस्युः भारतोश्वमेधश्चैतेऋषयोऽग्निरंत्यायाइंद्राग्नीत्रिष्टुप् अंत्यास्तिस्रोनुष्टुभः | ( अस्मिन्सूक्तेभौमोत्रिरेवदेवतेतिकेचित् अन्यथायोमेशताचविंशतिंचगोनामित्यादिदातृ क्रियायाअनुपपक्तेः | नैतदन्ये मन्यंतेआत्माध्यासपक्षस्वीकारेणतथाप्युपपक्तेः)
अन॑स्वंता॒ सत्प॑तिर्मामहे मे॒ गावा॒ चेति॑ष्ठो॒ असु॑रो म॒घोनः॑ । त्रै॒वृ॒ष्णो अ॑ग्ने द॒शभिः॑ स॒हस्रै॒र्वैश्वा॑नर॒ त्र्य॑रुणश्चिकेत ॥
अन॑स्वंता , सत्ऽप॑तिः , म॒म॒हे॒ , मे॒ , गावा॑ , चेति॑ष्ठः , असु॑रः , म॒घोनः॑ । त्रै॒वृ॒ष्णः , अ॒ग्ने॒ , द॒शऽभिः॑ , स॒हस्रैः॑ , वैश्वा॑नर , त्रिऽअ॑रुणः , चि॒के॒त॒ ॥
यो मे॑ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी॑ च यु॒क्ता सु॒धुरा॒ ददा॑ति । वैश्वा॑नर॒ सुष्टु॑तो वावृधा॒नोऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑ ॥
यः , मे॒ , श॒ता , च॒ , विं॒श॒तिं , च॒ , गोनां॑ , हरी॒ इति॑ , च॒ , यु॒क्ता , सु॒ऽधुरा॑ , ददा॑ति । वैश्वा॑नर , सुऽस्तु॑तः , व॒वृ॒धा॒नः , अग्ने॑ , यच्छ॑ , त्रिऽअ॑रुणाय , शर्म॑ ॥
ए॒वा ते॑ अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः । यो मे॒ गिर॑स्तुविजा॒तस्य॑ पू॒र्वीर्यु॒क्तेना॒भि त्र्य॑रुणो गृ॒णाति॑ ॥
ए॒व , ते॒ , अ॒ग्ने॒ , सु॒ऽम॒तिं , च॒का॒नः , नवि॑ष्ठाय , न॒व॒मं , त्र॒सद॑स्युः । यः , मे॒ , गिरः॑ , तु॒वि॒ऽजा॒तस्य॑ , पू॒र्वीः , यु॒क्तेन॑ , अ॒भि , त्रिऽअ॑रुणः , गृ॒णाति॑ ॥
यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये॑ । दद॑दृ॒चा स॒निं य॒ते दद॑न्मे॒धामृ॑ताय॒ते ॥
यः , मे॒ , इति॑ , प्र॒ऽवोच॑ति , अश्व॑ऽमेधाय , सू॒रये॑ । दद॑त् , ऋ॒चा , स॒निं , य॒ते , दद॑त् , मे॒धां , ऋ॒त॒ऽय॒ते ॥
यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षयं॑त्यु॒क्षणः॑ । अश्व॑मेधस्य॒ दानाः॒ सोमा॑ इव॒ त्र्या॑शिरः ॥
यस्य॑ , मा॒ , प॒रु॒षाः , श॒तं , उ॒त्ऽह॒र्षयं॑ति , उ॒क्षणः॑ । अश्व॑ऽमेधस्य , दानाः॑ , सोमाः॑ऽइव , त्रिऽआ॑शिरः ॥
इंद्रा॑ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्यं॑ । क्ष॒त्रं धा॑रयतं बृ॒हद्दि॒वि सूर्य॑मिवा॒जरं॑ ॥
इंद्रा॑ग्नी॒ इति॑ , श॒त॒ऽदाव्नि॑ , अश्व॑ऽमेधे , सु॒ऽवीर्यं॑ । क्ष॒त्रं , धा॒र॒य॒तं॒ , बृ॒हत् , दि॒वि , सूर्यं॑ऽइव , अ॒जरं॑ ॥
[२८] समिद्धइति षडृचस्य सूक्तस्यात्रेयी विश्ववाराऋषिकाग्निः आद्याःक्रमेणत्रिष्टुब्जगतीत्रिष्टुबनुष्टुभः अंत्येद्वेगायत्र्यौ |
समि॑द्धो अ॒ग्निर्दि॒वि शो॒चिर॑श्रेत्प्र॒त्यङ्ङु॒षस॑मुर्वि॒या वि भा॑ति । एति॒ प्राची॑ वि॒श्ववा॑रा॒ नमो॑भिर्दे॒वाँ ईळा॑ना ह॒विषा॑ घृ॒ताची॑ ॥
संऽइ॑द्धः , अ॒ग्निः , दि॒वि , शो॒चिः , अ॒श्रे॒त् , प्र॒त्यङ् , उ॒षसं॑ , उ॒र्वि॒या , वि , भा॒ति॒ । एति॑ , प्राची॑ , वि॒श्वऽवा॑रा , नमः॑ऽभिः , दे॒वान् , ईळा॑ना , ह॒विषा॑ , घृ॒ताची॑ ॥
स॒मि॒ध्यमा॑नो अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वंतं॑ सचसे स्व॒स्तये॑ । विश्वं॒ स ध॑त्ते॒ द्रवि॑णं॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत्पु॒रः ॥
सं॒ऽइ॒ध्यमा॑नः , अ॒मृत॑स्य , रा॒ज॒सि॒ , ह॒विः , कृ॒ण्वंतं॑ , स॒च॒से॒ , स्व॒स्तये॑ । विश्वं॑ , सः , ध॒त्ते॒ , द्रवि॑णं , यं , इन्व॑सि , आ॒ति॒थ्यं , अ॒ग्ने॒ , नि , च॒ , ध॒त्ते॒ , इत् , पु॒रः ॥
अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ संतु । सं जा॑स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां॑सि ॥
अग्ने॑ , शर्ध॑ , म॒ह॒ते , सौभ॑गाय , तव॑ , द्यु॒म्नानि॑ , उ॒त्ऽत॒मानि॑ , सं॒तु॒ । सं , जाः॒ऽप॒त्यं , सु॒ऽयमं॑ , आ , कृ॒णु॒ष्व॒ , श॒त्रु॒ऽय॒तां , अ॒भि , ति॒ष्ठ॒ , महां॑सि ॥
समि॑द्धस्य॒ प्रम॑ह॒सोऽग्ने॒ वंदे॒ तव॒ श्रियं॑ । वृ॒ष॒भो द्यु॒म्नवाँ॑ असि॒ सम॑ध्व॒रेष्वि॑ध्यसे ॥
संऽइ॑द्धस्य , प्रऽम॑हसः , अ॒ग्ने॒ , वंदे॑ , तव॑ , श्रियं॑ । वृ॒ष॒भः , द्यु॒म्नऽवा॑न् , अ॒सि॒ , सं , अ॒ध्व॒रेषु॑ , इ॒ध्य॒से॒ ॥
समि॑द्धो अग्न आहुत दे॒वान्य॑क्षि स्वध्वर । त्वं हि ह॑व्य॒वाळसि॑ ॥
संऽइ॑द्धः , अ॒ग्ने॒ , आ॒ऽहु॒त॒ , दे॒वान् , य॒क्षि॒ , सु॒ऽअ॒ध्व॒र॒ । त्वं , हि , ह॒व्य॒ऽवाट् , असि॑ ॥
आ जु॑होता दुव॒स्यता॒ग्निं प्र॑य॒त्य॑ध्व॒रे । वृ॒णी॒ध्वं ह॑व्य॒वाह॑नं ॥
आ , जु॒हो॒त॒ , दु॒व॒स्यत॑ , अ॒ग्निं , प्र॒ऽय॒ति , अ॒ध्व॒रे । वृ॒णी॒ध्वं , ह॒व्य॒ऽवाह॑नं ॥
[२९] त्र्यर्यमेति पंचदशर्चस्य सूक्तस्य शाक्त्योगौरिवीतिरिंद्रः (उशनायदितिपादस्योशनावा) त्रिष्टुप् |
त्र्य॑र्य॒मा मनु॑षो दे॒वता॑ता॒ त्री रो॑च॒ना दि॒व्या धा॑रयंत । अर्चं॑ति त्वा म॒रुतः॑ पू॒तद॑क्षा॒स्त्वमे॑षा॒मृषि॑रिंद्रासि॒ धीरः॑ ॥
त्री , अ॒र्य॒मा , मनु॑षः , दे॒वऽता॑ता , त्री , रो॒च॒ना , दि॒व्या , धा॒र॒यं॒त॒ । अर्चं॑ति , त्वा॒ , म॒रुतः॑ , पू॒तऽद॑क्षाः , त्वं , ए॒षां॒ , ऋषिः॑ , इं॒द्र॒ , अ॒सि॒ , धीरः॑ ॥
अनु॒ यदीं॑ म॒रुतो॑ मंदसा॒नमार्च॒न्निंद्रं॑ पपि॒वांसं॑ सु॒तस्य॑ । आद॑त्त॒ वज्र॑म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर॑सृज॒त्सर्त॒वा उ॑ ॥
अनु॑ , यत् , ईं॒ , म॒रुतः॑ , मं॒द॒सा॒नं , आर्च॑न् , इंद्रं॑ , प॒पि॒ऽवांसं॑ , सु॒तस्य॑ । आ , अ॒द॒त्त॒ , वज्रं॑ , अ॒भि , यत् , अहिं॑ , हन् , अ॒पः , य॒ह्वीः , अ॒सृ॒ज॒त् , सर्त॒वै , ऊँ॒ इति॑ ॥
उ॒त ब्र॑ह्माणो मरुतो मे अ॒स्येंद्रः॒ सोम॑स्य॒ सुषु॑तस्य पेयाः । तद्धि ह॒व्यं मनु॑षे॒ गा अविं॑द॒दह॒न्नहिं॑ पपि॒वाँ इंद्रो॑ अस्य ॥
उ॒त , ब्र॒ह्मा॒णः॒ , म॒रु॒तः॒ , मे॒ , अ॒स्य , इंद्रः॑ , सोम॑स्य , सुऽसु॑तस्य , पे॒याः॒ । तत् , हि , ह॒व्यं , मनु॑षे , गाः , अविं॑दत् , अह॑न् , अहिं॑ , प॒पि॒ऽवान् , इंद्रः॑ , अ॒स्य॒ ॥
आद्रोद॑सी वित॒रं वि ष्क॑भायत्संविव्या॒नश्चि॑द्भि॒यसे॑ मृ॒गं कः॑ । जिग॑र्ति॒मिंद्रो॑ अप॒जर्गु॑राणः॒ प्रति॑ श्व॒संत॒मव॑ दान॒वं ह॑न् ॥
आत् , रोद॑सी॒ इति॑ , वि॒ऽत॒रं , वि , स्क॒भा॒य॒त् , सं॒ऽवि॒व्या॒नः , चि॒त् , भि॒यसे॑ , मृ॒गं , क॒रिति॑ कः । जिग॑र्तिं , इंद्रः॑ , अ॒प॒ऽजर्गु॑राणः , प्रति॑ , श्व॒संतं॑ , अव॑ , दा॒न॒वं , ह॒न्निति॑ हन् ॥
अध॒ क्रत्वा॑ मघवं॒तुभ्यं॑ दे॒वा अनु॒ विश्वे॑ अददुः सोम॒पेयं॑ । यत्सूर्य॑स्य ह॒रितः॒ पतं॑तीः पु॒रः स॒तीरुप॑रा॒ एत॑शे॒ कः ॥
अध॑ , क्रत्वा॑ , म॒घ॒ऽव॒न् , तुभ्यं॑ , दे॒वाः , अनु॑ , विश्वे॑ , अ॒द॒दुः॒ , सो॒म॒ऽपेयं॑ । यत् , सूर्य॑स्य , ह॒रितः॑ , पतं॑तीः , पु॒रः , स॒तीः , उप॑राः , एत॑शे , करिति॒ कः ॥
नव॒ यद॑स्य नव॒तिं च॑ भो॒गांत्सा॒कं वज्रे॑ण म॒घवा॑ विऽवृ॒श्चत् । अर्चं॒तींद्रं॑ म॒रुतः॑ स॒धस्थे॒ त्रैष्टु॑भेन॒ वच॑सा बाधत॒ द्यां ॥
नव॑ , यत् , अ॒स्य॒ , न॒व॒तिं , च॒ , भो॒गान् , सा॒कं , वज्रे॑ण , म॒घऽवा॑ , वि॒वृ॒श्चत् । अर्चं॑ति , इंद्रं॑ , म॒रुतः॑ , स॒धऽस्थे॑ , त्रैस्तु॑भेन , वच॑सा , बा॒ध॒त॒ , द्यां ॥
सखा॒ सख्ये॑ अपच॒त्तूय॑म॒ग्निर॒स्य क्रत्वा॑ महि॒षा त्री श॒तानि॑ । त्री सा॒कमिंद्रो॒ मनु॑षः॒ सरां॑सि सु॒तं पि॑बद्वृत्र॒हत्या॑य॒ सोमं॑ ॥
सखा॑ , सख्ये॑ , अ॒प॒च॒त् , तूयं॑ , अ॒ग्निः , अ॒स्य , क्रत्वा॑ , म॒हि॒षा , त्री , श॒तानि॑ । त्री , सा॒कं , इंद्रः॑ , मनु॑षः , सरां॑सि , सु॒तं , पि॒ब॒त् , वृ॒त्र॒ऽहत्या॑य , सोमं॑ ॥
त्री यच्छ॒ता म॑हि॒षाणा॒मघो॒ मास्त्री सरां॑सि म॒घवा॑ सो॒म्यापाः॑ । का॒रं न विश्वे॑ अह्वंत दे॒वा भर॒मिंद्रा॑य॒ यदहिं॑ ज॒घान॑ ॥
त्री , यत् , श॒ता , म॒हि॒षाणां॑ , अघः॑ , माः , त्री , सरां॑सि , म॒घऽवा॑ , सो॒म्या , अपाः॑ । का॒रं , न , विश्वे॑ , अ॒ह्वं॒त॒ , दे॒वाः , भरं॑ , इंद्रा॑य , यत् , अहिं॑ , ज॒घान॑ ॥
उ॒शना॒ यत्स॑ह॒स्यै॒३॒॑रया॑तं गृ॒हमिं॑द्र जूजुवा॒नेभि॒रश्वैः॑ । व॒न्वा॒नो अत्र॑ स॒रथं॑ ययाथ॒ कुत्से॑न दे॒वैरव॑नोर्ह॒ शुष्णं॑ ॥
उ॒शना॑ , यत् , स॒ह॒स्यैः॑ , अया॑तं , गृ॒हं , इं॒द्र॒ , जू॒जु॒वा॒नेभिः॑ , अश्वैः॑ । व॒न्वा॒नः , अत्र॑ , स॒ऽरथं॑ , य॒या॒थ॒ , कुत्से॑न , दे॒वैः , अव॑नोः , ह॒ , शुष्णं॑ ॥
प्रान्यच्च॒क्रम॑वृहः॒ सूर्य॑स्य॒ कुत्सा॑या॒न्यद्वरि॑वो॒ यात॑वेऽकः । अ॒नासो॒ दस्यूँ॑रमृणो व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चः ॥
प्र , अ॒न्यत् , च॒क्रं , अ॒वृ॒हः॒ , सूर्य॑स्य , कुत्सा॑य , अ॒न्यत् , वरि॑वः , यात॑वे , अ॒क॒रित्य॑कः । अ॒नासः॑ , दस्यू॑न् , अ॒मृ॒णः॒ , व॒धेन॑ , नि , दु॒र्यो॒णे , अ॒वृ॒ण॒क् , मृ॒ध्रऽवा॑चः ॥
स्तोमा॑सस्त्वा॒ गौरि॑वीतेरवर्ध॒न्नरं॑धयो वैदथि॒नाय॒ पिप्रुं॑ । आ त्वामृ॒जिश्वा॑ स॒ख्याय॑ चक्रे॒ पच॑न्प॒क्तीरपि॑बः॒ सोम॑मस्य ॥
स्तोमा॑सः , त्वा॒ , गौरि॑ऽवीतेः , अ॒व॒र्ध॒न् , अरं॑धयः , वै॒द॒थि॒नाय॑ , पिप्रुं॑ । आ , त्वां , ऋ॒जिश्वा॑ , स॒ख्याय॑ , च॒क्रे॒ , पच॑न् , प॒क्तीः , अपि॑बः , सोमं॑ , अ॒स्य॒ ॥
नव॑ग्वासः सु॒तसो॑मास॒ इंद्रं॒ दश॑ग्वासो अ॒भ्य॑र्चंत्य॒र्कैः । गव्यं॑ चिदू॒र्वम॑पि॒धान॑वंतं॒ तं चि॒न्नरः॑ शशमा॒ना अप॑ व्रन् ॥
नव॑ऽग्वासः , सु॒तऽसो॑मासः , इंद्रं॑ , दश॑ऽग्वासः , अ॒भि , अ॒र्चं॒ति॒ , अ॒र्कैः । गव्यं॑ , चि॒त् , ऊ॒र्वं , अ॒पि॒धान॑ऽवंतं , तं , चि॒त् , नरः॑ , श॒श॒मा॒नाः , अप॑ , व्र॒न् ॥
क॒थो नु ते॒ परि॑ चराणि वि॒द्वान्वी॒र्या॑ मघव॒न्या च॒कर्थ॑ । या चो॒ नु नव्या॑ कृ॒णवः॑ शविष्ठ॒ प्रेदु॒ ता ते॑ वि॒दथे॑षु ब्रवाम ॥
क॒थो इति॑ , नु , ते॒ , परि॑ , च॒रा॒णि॒ , वि॒द्वान् , वी॒र्या॑ , म॒घ॒ऽव॒न् , या , च॒कर्थ॑ । या , चो॒ इति॑ , नु , नव्या॑ , कृ॒णवः॑ , श॒वि॒ष्ठ॒ , प्र , इत् , ऊँ॒ इति॑ , ता , ते॒ , वि॒दथे॑षु , ब्र॒वा॒म॒ ॥
ए॒ता विश्वा॑ चकृ॒वाँ इं॑द्र॒ भूर्यप॑रीतो ज॒नुषा॑ वी॒र्ये॑ण । या चि॒न्नु व॑ज्रिन्कृ॒णवो॑ दधृ॒ष्वान्न ते॑ व॒र्ता तवि॑ष्या अस्ति॒ तस्याः॑ ॥
ए॒ता , विश्वा॑ , च॒कृ॒ऽवान् , इं॒द्र॒ , भूरि॑ , अप॑रिऽइतः , ज॒नुषा॑ , वी॒र्ये॑ण । या , चि॒त् , नु , व॒ज्रि॒न् , कृ॒णवः॑ , द॒धृ॒ष्वान् , न , ते॒ , व॒र्ता , तवि॑ष्याः , अ॒स्ति॒ , तस्याः॑ ॥
इंद्र॒ ब्रह्म॑ क्रि॒यमा॑णा जुषस्व॒ या ते॑ शविष्ठ॒ नव्या॒ अक॑र्म । वस्त्रे॑व भ॒द्रा सुकृ॑ता वसू॒यू रथं॒ न धीरः॒ स्वपा॑ अतक्षं ॥
इंद्र॑ , ब्रह्म॑ , क्रि॒यमा॑णा , जु॒ष॒स्व॒ , या , ते॒ , श॒वि॒ष्ठ॒ , नव्याः॑ , अक॑र्म । वस्त्रा॑ऽइव , भ॒द्रा , सुऽकृ॑ता , व॒सु॒ऽयुः , रथं॑ , न , धीरः॑ , सु॒ऽअपाः॑ , अ॒त॒क्षं॒ ॥
[३०] क्वस्येति पंचदशर्चस्य सूक्तस्यात्रेयोबभ्रुरिंद्रोंत्यानांचतसृणामृणंचयेंद्रौदेवतेत्रिष्टुप् |
क्व१॒॑ स्य वी॒रः को अ॑पश्य॒दिंद्रं॑ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्यां । यो रा॒या व॒ज्री सु॒तसो॑ममि॒च्छंतदोको॒ गंता॑ पुरुहू॒त ऊ॒ती ॥
क्व॑ , स्यः , वी॒रः , कः , अ॒प॒श्य॒त् , इंद्रं॑ , सु॒खऽर॑थं , ईय॑मानं , हरि॑ऽभ्यां । यः , रा॒या , व॒ज्री , सु॒तऽसो॑मं , इ॒च्छन् , तत् , ओकः॑ , गंता॑ , पु॒रु॒ऽहू॒तः , ऊ॒ती ॥
अवा॑चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा॑यमि॒च्छन् । अपृ॑च्छम॒न्याँ उ॒त ते म॑ आहु॒रिंद्रं॒ नरो॑ बुबुधा॒ना अ॑शेम ॥
अव॑ , अ॒च॒च॒क्षं॒ , प॒दं , अ॒स्य॒ , स॒स्वः , उ॒ग्रं , नि॒ऽधा॒तुः , अनु॑ , आ॒यं॒ , इ॒च्छन् । अपृ॑च्छं , अ॒न्यान् , उ॒त , ते , मे॒ , आ॒हुः॒ , इंद्रं॑ , नरः॑ , बु॒बु॒धा॒नाः , अ॒शे॒म॒ ॥
प्र नु व॒यं सु॒ते या ते॑ कृ॒तानींद्र॒ ब्रवा॑म॒ यानि॑ नो॒ जुजो॑षः । वेद॒दवि॑द्वांछृ॒णव॑च्च वि॒द्वान्वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ॥
प्र , नु , व॒यं , सु॒ते , या , ते॒ , कृ॒तानि॑ , इंद्र॑ , ब्रवा॑म , यानि॑ , नः॒ , जुजो॑षः । वेद॑त् , अवि॑द्वान् , शृ॒णव॑त् , च॒ , वि॒द्वान् , वह॑ते , अ॒यं , म॒घऽवा॑ , सर्व॑ऽसेनः ॥
स्थि॒रं मन॑श्चकृषे जा॒त इं॑द्र॒ वेषीदेको॑ यु॒धये॒ भूय॑सश्चित् । अश्मा॑नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा॑मू॒र्वमु॒स्रिया॑णां ॥
स्थि॒रं , मनः॑ , च॒कृ॒षे॒ , जा॒तः , इं॒द्र॒ , वेषि॑ , इत् , एकः॑ , यु॒धये॑ , भूय॑सः , चि॒त् । अश्मा॑नं , चि॒त् , शव॑सा , दि॒द्यु॒तः॒ , वि , वि॒दः , गवां॑ , ऊ॒र्वं , उ॒स्रिया॑णां ॥
प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त् । अत॑श्चि॒दिंद्रा॑दभयंत दे॒वा विश्वा॑ अ॒पो अ॑जयद्दा॒सप॑त्नीः ॥
प॒रः , यत् , त्वं , प॒र॒मः , आ॒ऽजनि॑ष्ठाः , प॒रा॒ऽवति॑ , श्रुत्यं॑ , नाम॑ , बिभ्र॑त् । अतः॑ , चि॒त् , इंद्रा॑त् , अ॒भ॒यं॒त॒ , दे॒वाः , विश्वाः॑ , अ॒पः , अ॒ज॒य॒त् , दा॒सऽप॑त्नीः ॥
तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒ अर्चं॑त्य॒र्कं सु॒न्वंत्यंधः॑ । अहि॑मोहा॒नम॒प आ॒शया॑नं॒ प्र मा॒याभि॑र्मा॒यिनं॑ सक्ष॒दिंद्रः॑ ॥
तुभ्य॑ , इत् , ए॒ते , म॒रुतः॑ , सु॒ऽशेवाः॑ , अर्चं॑ति , अ॒र्कं , सु॒न्वंति॑ , अंधः॑ । अहिं॑ , ओ॒हा॒नं , अ॒पः , आ॒ऽशया॑नं , प्र , मा॒याभिः॑ , मा॒यिनं॑ , स॒क्ष॒त् , इंद्रः॑ ॥
वि षू मृधो॑ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा॑ मघवंत्संचका॒नः । अत्रा॑ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ॥
वि , सु , मृधः॑ , ज॒नुषा॑ , दानं॑ , इन्व॑न् , अह॑न् , गवा॑ , म॒घ॒ऽव॒न् , सं॒ऽच॒का॒नः । अत्र॑ , दा॒सस्य॑ , नमु॑चेः , शिरः॑ , यत् , अव॑र्तयः , मन॑वे , गा॒तुं , इ॒च्छन् ॥
युजं॒ हि मामकृ॑था॒ आदिदिं॑द्र॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् । अश्मा॑नं चित्स्व॒र्यं१॒॑ वर्त॑मानं॒ प्र च॒क्रिये॑व॒ रोद॑सी म॒रुद्भ्यः॑ ॥
युजं॑ , हि , मां , अकृ॑थाः , आत् , इत् , इं॒द्र॒ , शिरः॑ , दा॒सस्य॑ , नमु॑चेः , म॒था॒यन् । अश्मा॑नं , चि॒त् , स्व॒र्यं॑ , वर्त॑मानं , प्र , च॒क्रिया॑ऽइव , रोद॑सी॒ इति॑ , म॒रुत्ऽभ्यः॑ ॥
स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा॑ करन्नब॒ला अ॑स्य॒ सेनाः॑ । अं॒तर्ह्यख्य॑दु॒भे अ॑स्य॒ धेने॒ अथोप॒ प्रैद्यु॒धये॒ दस्यु॒मिंद्रः॑ ॥
स्त्रियः॑ , हि , दा॒सः , आयु॑धानि , च॒क्रे , किं , मा॒ , क॒र॒न् , अ॒ब॒लाः , अ॒स्य॒ , सेनाः॑ । अं॒तः , हि , अख्य॑त् , उ॒भे इति॑ , अ॒स्य॒ , धेने॒ इति॑ , अथ॑ , उप॑ , प्र , ऐ॒त् , यु॒धये॑ , दस्युं॑ , इंद्रः॑ ॥
समत्र॒ गावो॒ऽभितो॑ऽनवंते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न् । सं ता इंद्रो॑ असृजदस्य शा॒कैर्यदीं॒ सोमा॑सः॒ सुषु॑ता॒ अमं॑दन् ॥
सं , अत्र॑ , गावः॑ , अ॒भितः॑ , अ॒न॒वं॒त॒ , इ॒हऽइ॑ह , व॒त्सैः , विऽयु॑ताः , यत् , आस॑न् । सं , ताः , इंद्रः॑ , अ॒सृ॒ज॒त् , अ॒स्य॒ , शा॒कैः , यत् , ईं॒ , सोमा॑सः , सुऽसु॑ताः , अमं॑दन् ॥
यदीं॒ सोमा॑ ब॒भ्रुधू॑ता॒ अमं॑द॒न्नरो॑रवीद्वृष॒भः साद॑नेषु । पु॒रं॒द॒रः प॑पि॒वाँ इंद्रो॑ अस्य॒ पुन॒र्गवा॑मददादु॒स्रिया॑णां ॥
यत् , ईं॒ , सोमाः॑ , ब॒भ्रुऽधू॑ताः , अमं॑दन् , अरो॑रवीत् , वृ॒ष॒भः , सद॑नेषु । पु॒रं॒ऽद॒रः , प॒पि॒ऽवान् , इंद्रः॑ , अ॒स्य॒ , पुनः॑ , गवां॑ , अ॒द॒दा॒त् , उ॒स्रिया॑णां ॥
भ॒द्रमि॒दं रु॒शमा॑ अग्ने अक्र॒न्गवां॑ च॒त्वारि॒ दद॑तः स॒हस्रा॑ । ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णां ॥
भ॒द्रं , इ॒दं , रु॒शमाः॑ , अ॒ग्ने॒ , अ॒क्र॒न् , गवां॑ , च॒त्वारि॑ , दद॑तः , स॒हस्रा॑ । ऋ॒णं॒ऽच॒यस्य॑ , प्रऽय॑ता , म॒घानि॑ , प्रति॑ , अ॒ग्र॒भी॒ष्म॒ , नृऽत॑मस्य , नृ॒णां ॥
सु॒पेश॑सं॒ माव॑ सृजं॒त्यस्तं॒ गवां॑ स॒हस्रै॑ रु॒शमा॑सो अग्ने । ती॒व्रा इंद्र॑मममंदुः सु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाः ॥
सु॒ऽपेश॑सं , मा॒ , अव॑ , सृ॒जं॒ति॒ , अस्तं॑ , गवां॑ , स॒हस्रैः॑ , रु॒शमा॑सः , अ॒ग्ने॒ । ती॒व्राः , इंद्रं॑ , अ॒म॒मं॒दुः॒ , सु॒तासः॑ , अ॒क्तोः , विऽउ॑ष्टौ , परि॑ऽतक्म्यायाः ॥
औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा॑नां । अत्यो॒ न वा॒जी र॒घुर॒ज्यमा॑नो ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा॑ ॥
औच्छ॑त् , सा , रात्री॑ , परि॑ऽतक्म्या , या , ऋ॒णं॒ऽच॒ये , राज॑नि , रु॒शमा॑नां । अत्यः॑ , न , वा॒जी , र॒घुः , अ॒ज्यमा॑नः , ब॒भ्रुः , च॒त्वारि॑ , अ॒स॒न॒त् , स॒हस्रा॑ ॥
चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे॑ष्वग्ने । घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी॑दय॒स्मय॒स्तम्वादा॑म॒ विप्राः॑ ॥
चतुः॑ऽसहस्रं , गव्य॑स्य , प॒श्वः , प्रति॑ , अ॒ग्र॒भी॒ष्म॒ , रु॒शमे॑षु , अ॒ग्ने॒ । घ॒र्मः , चि॒त् , त॒प्तः , प्र॒ऽवृजे॑ , यः , आसी॑त् , अ॒य॒स्मयः॑ , तं , ऊँ॒ इति॑ , आदा॑म , विप्राः॑ ॥
[३१] इंद्रोरथायेति त्रयोदशर्चस्य सूक्तस्यात्रेयोवस्युरिंद्रः | ( उग्रमयातमित्यादि पादौ कुत्सदैवत्यौउशनोदैवत्यौवा) नवम्या इंद्रा कुत्सौत्रिष्टुप् |
इंद्रो॒ रथा॑य प्र॒वतं॑ कृणोति॒ यम॒ध्यस्था॑न्म॒घवा॑ वाज॒यंतं॑ । यू॒थेव॑ प॒श्वो व्यु॑नोति गो॒पा अरि॑ष्टो याति प्रथ॒मः सिषा॑सन् ॥
इंद्रः॑ , रथा॑य , प्र॒ऽवतं॑ , कृ॒णो॒ति॒ , यं , अ॒धि॒ऽअस्था॑त् , म॒घऽवा॑ , वा॒ज॒ऽयंतं॑ । यू॒थाऽइ॑व , प॒श्वः , वि , उ॒नो॒ति॒ , गो॒पाः , अरि॑ष्टः , या॒ति॒ , प्र॒थ॒मः , सिसा॑सन् ॥
आ प्र द्र॑व हरिवो॒ मा वि वे॑नः॒ पिशं॑गराते अ॒भि नः॑ सचस्व । न॒हि त्वदिं॑द्र॒ वस्यो॑ अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ ॥
आ , प्र , द्र॒व॒ , ह॒रि॒ऽवः॒ , मा , वि , वे॒नः॒ , पिशं॑गऽराते , अ॒भि , नः॒ , स॒च॒स्व॒ । न॒हि , त्वत् , इं॒द्र॒ , वस्यः॑ , अ॒न्यत् , अस्ति॑ , अ॒मे॒नान् , चि॒त् , जनि॑ऽवतः , च॒क॒र्थ॒ ॥
उद्यत्सहः॒ सह॑स॒ आज॑निष्ट॒ देदि॑ष्ट॒ इंद्र॑ इंद्रि॒याणि॒ विश्वा॑ । प्राचो॑दयत्सु॒दुघा॑ व॒व्रे अं॒तर्वि ज्योति॑षा संववृ॒त्वत्तमो॑ऽवः ॥
उत् , यत् , सहः॑ , सह॑सः , आ , अज॑निष्ट , देदि॑ष्टे , इंद्रः॑ , इं॒द्रि॒याणि॑ , विश्वा॑ । प्र , अ॒चो॒द॒य॒त् , सु॒ऽदुघाः॑ , व॒व्रे , अं॒तः , वि , ज्योति॑षा , सं॒ऽव॒वृ॒त्वत् , तमः॑ , अ॒व॒रित्य॑वः ॥
अन॑वस्ते॒ रथ॒मश्वा॑य तक्षं॒त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मंतं॑ । ब्र॒ह्माण॒ इंद्रं॑ म॒हयं॑तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हंत॒वा उ॑ ॥
अन॑वः , ते॒ , रथं॑ , अश्वा॑य , त॒क्ष॒न् , त्वष्टा॑ , वज्रं॑ , पु॒रु॒ऽहू॒त॒ , द्यु॒ऽमंतं॑ । ब्र॒ह्माणः॑ , इंद्रं॑ , म॒हयं॑तः , अ॒र्कैः , अव॑र्धयन् , अह॑ये , हंत॒वै , ऊँ॒ इति॑ ॥
वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒निंद्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषाः॑ । अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इंद्रे॑षिता अ॒भ्यव॑र्तंत॒ दस्यू॑न् ॥
वृष्णे॑ , यत् , ते॒ , वृष॑णः , अ॒र्कं , अर्चा॑न् , इंद्र॑ , ग्रावा॑णः , अदि॑तिः , स॒ऽजोषाः॑ । अ॒न॒श्वासः॑ , ये , प॒वयः॑ , अ॒र॒थाः , इंद्र॑ऽइषिताः , अ॒भि , अव॑र्तंत , दस्यू॑न् ॥
प्र ते॒ पूर्वा॑णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑ । शक्ती॑वो॒ यद्वि॒भरा॒ रोद॑सी उ॒भे जय॑न्न॒पो मन॑वे॒ दानु॑चित्राः ॥
प्र , ते॒ , पूर्वा॑णि , कर॑णानि , वो॒चं॒ , प्र , नूत॑ना , म॒घ॒ऽव॒न् , या , च॒कर्थ॑ । शक्ति॑ऽवः , यत् , वि॒ऽभराः॑ , रोद॑सी॒ इति॑ , उ॒भे इति॑ , जय॑न् , अ॒पः , मन॑वे , दानु॑ऽचित्राः ॥
तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद्घ्नन्नोजो॒ अत्रामि॑मीथाः । शुष्ण॑स्य चि॒त्परि॑ मा॒या अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ॑रसेधः ॥
तत् , इत् , नु , ते॒ , कर॑णं , द॒स्म॒ , वि॒प्र॒ , अहिं॑ , यत् , घ्नन् , ओजः॑ , अत्र॑ , अमि॑मीथाः । शुष्ण॑स्य , चि॒त् , परि॑ , मा॒याः , अ॒गृ॒भ्णाः॒ , प्र॒ऽपि॒त्वं , यन् , अप॑ , दस्यू॑न् , अ॒से॒धः॒ ॥
त्वम॒पो यद॑वे तु॒र्वशा॒यार॑मयः सु॒दुघाः॑ पा॒र इं॑द्र । उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद्वा॑मु॒शनारं॑त दे॒वाः ॥
त्वं , अ॒पः , यद॑वे , तु॒र्वशा॑य , अर॑मयः , सु॒ऽदुघाः॑ , पा॒रः , इं॒द्र॒ । उ॒ग्रं , अ॒या॒तं॒ , अव॑हः , ह॒ , कुत्सं॑ , सं , ह॒ , यत् , वां॒ , उ॒शना॑ , अरं॑त , दे॒वाः ॥
इंद्रा॑कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒ अपि॒ कर्णे॑ वहंतु । निः षी॑म॒द्भ्यो धम॑थो॒ निः ष॒धस्था॑न्म॒घोनो॑ हृ॒दो व॑रथ॒स्तमां॑सि ॥
इंद्रा॑कुत्सा , वह॑माना , रथे॑न , आ , वां॒ , अत्याः॑ , अपि॑ , कर्णे॑ , व॒हं॒तु॒ । निः , सीं॒ , अ॒त्ऽभ्यः , धम॑थः , निः , स॒धऽस्था॑त् , म॒घोनः॑ , हृ॒दः , व॒र॒थः॒ , तमां॑सि ॥
वात॑स्य यु॒क्तांत्सु॒युज॑श्चि॒दश्वा॑न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः । विश्वे॑ ते॒ अत्र॑ म॒रुतः॒ सखा॑य॒ इंद्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन् ॥
वात॑स्य , यु॒क्तान् , सु॒ऽयुजः॑ , चि॒त् , अश्वा॑न् , क॒विः , चि॒त् , ए॒षः , अ॒ज॒ग॒न् , अ॒व॒स्युः । विश्वे॑ , ते॒ , अत्र॑ , म॒रुतः॑ , सखा॑यः , इंद्र॑ , ब्रह्मा॑णि , तवि॑षीं , अ॒व॒र्ध॒न् ॥
सूर॑श्चि॒द्रथं॒ परि॑तक्म्यायां॒ पूर्वं॑ कर॒दुप॑रं जूजु॒वांसं॑ । भर॑च्च॒क्रमेत॑शः॒ सं रि॑णाति पु॒रो दध॑त्सनिष्यति॒ क्रतुं॑ नः ॥
सूरः॑ , चि॒त् , रथं॑ , परि॑ऽतक्म्यायां , पूर्वं॑ , क॒र॒त् , उप॑रं , जू॒जु॒ऽवांसं॑ । भर॑त् , च॒क्रं , एत॑शः , सं , रि॒णा॒ति॒ , पु॒रः , दध॑त् , स॒नि॒ष्य॒ति॒ , क्रतुं॑ , नः॒ ॥
आयं ज॑ना अभि॒चक्षे॑ जगा॒मेंद्रः॒ सखा॑यं सु॒तसो॑ममि॒च्छन् । वद॒न्ग्रावाव॒ वेदिं॑ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चरं॑ति ॥
आ , अ॒यं , ज॒नाः॒ , अ॒भि॒ऽचक्षे॑ , ज॒गा॒म॒ , इंद्रः॑ , सखा॑यं , सु॒तऽसो॑मं , इ॒च्छन् । वद॑न् , ग्रावा॑ , अव॑ , वेदिं॑ , भ्रि॒या॒ते॒ , यस्य॑ , जी॒रं , अ॒ध्व॒र्यवः॑ , चरं॑ति ॥
ये चा॒कनं॑त चा॒कनं॑त॒ नू ते मर्ता॑ अमृत॒ मो ते अंह॒ आर॑न् । वा॒वं॒धि यज्यूँ॑रु॒त तेषु॑ धे॒ह्योजो॒ जने॑षु॒ येषु॑ ते॒ स्याम॑ ॥
ये , चा॒कनं॑त , चा॒कनं॑त , नु , ते , मर्ताः॑ , अ॒मृ॒त॒ , मो इति॑ , ते , अंहः॑ , आ , अ॒र॒न् । व॒वं॒धि , यज्यू॑न् , उ॒त , तेषु॑ , धे॒हि॒ , ओजः॑ , जने॑षु , येषु॑ , ते॒ , स्याम॑ ॥
[३२] अदुर्दरुत्समिति द्वादशर्चस्य सूक्तस्यात्रेयोगातुरिंद्रस्त्रिष्टुप् |
अद॑र्द॒रुत्स॒मसृ॑जो॒ वि खानि॒ त्वम॑र्ण॒वान्ब॑द्बधा॒नाँ अ॑रम्णाः । म॒हांत॑मिंद्र॒ पर्व॑तं॒ वि यद्वः सृ॒जो वि धारा॒ अव॑ दान॒वं ह॑न् ॥
अद॑र्दः , उत्सं॑ , असृ॑जः , वि , खानि॑ , त्वं , अ॒र्ण॒वान् , ब॒द्ब॒धा॒नान् , अर॑म्णाः । म॒हांतं॑ , इं॒द्र॒ , पर्व॑तं , वि , यत् , वरिति॒ वः , सृ॒जः , वि , धाराः॑ , अव॑ , दा॒न॒वं , ह॒न्निति॑ हन् ॥
त्वमुत्साँ॑ ऋ॒तुभि॑र्बद्बधा॒नाँ अरं॑ह॒ ऊधः॒ पर्व॑तस्य वज्रिन् । अहिं॑ चिदुग्र॒ प्रयु॑तं॒ शया॑नं जघ॒न्वाँ इं॑द्र॒ तवि॑षीमधत्थाः ॥
त्वं , उत्सा॑न् , ऋ॒तुऽभिः॑ , ब॒द्ब॒धा॒नान् , अरं॑हः , ऊधः॑ , पर्व॑तस्य , व॒ज्रि॒न् । अहिं॑ , चि॒त् , उ॒ग्र॒ , प्रऽयु॑तं , शया॑नं , ज॒घ॒न्वान् , इं॒द्र॒ , तवि॑षीं , अ॒ध॒त्थाः॒ ॥
त्यस्य॑ चिन्मह॒तो निर्मृ॒गस्य॒ वध॑र्जघान॒ तवि॑षीभि॒रिंद्रः॑ । य एक॒ इद॑प्र॒तिर्मन्य॑मान॒ आद॑स्माद॒न्यो अ॑जनिष्ट॒ तव्या॑न् ॥
त्यस्य॑ , चि॒त् , म॒ह॒तः , निः , मृ॒गस्य॑ , वधः॑ , ज॒घा॒न॒ , तवि॑षीभिः , इंद्रः॑ । यः , एकः॑ , इत् , अ॒प्र॒तिः , मन्य॑मानः , आत् , अ॒स्मा॒त् , अ॒न्यः , अ॒ज॒नि॒ष्ट॒ , तव्या॑न् ॥
त्यं चि॑देषां स्व॒धया॒ मदं॑तं मि॒हो नपा॑तं सु॒वृधं॑ तमो॒गां । वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे॑ण व॒ज्री नि ज॑घान॒ शुष्णं॑ ॥
त्यं , चि॒त् , ए॒षां॒ , स्व॒धया॑ , मदं॑तं , मि॒हः , नपा॑तं , सु॒ऽवृधं॑ , त॒मः॒ऽगां । वृष॑ऽप्रभर्मा , दा॒न॒वस्य॑ , भामं॑ , वज्रे॑ण , व॒ज्री , नि , ज॒घा॒न॒ , शुष्णं॑ ॥
त्यं चि॑दस्य॒ क्रतु॑भि॒र्निष॑त्तमम॒र्मणो॑ वि॒ददिद॑स्य॒ मर्म॑ । यदीं॑ सुक्षत्र॒ प्रभृ॑ता॒ मद॑स्य॒ युयु॑त्संतं॒ तम॑सि ह॒र्म्ये धाः ॥
त्यं , चि॒त् , अ॒स्य॒ , क्रतु॑ऽभिः , निऽस॑त्तं , अ॒म॒र्मणः॑ , वि॒दत् , इत् , अ॒स्य॒ , मर्म॑ । यत् , ईं॒ , सु॒ऽक्ष॒त्र॒ , प्रऽभृ॑ता , मद॑स्य , युयु॑त्संतं , तम॑सि , ह॒र्म्ये , धाः ॥
त्यं चि॑दि॒त्था क॑त्प॒यं शया॑नमसू॒र्ये तम॑सि वावृधा॒नं । तं चि॑न्मंदा॒नो वृ॑ष॒भः सु॒तस्यो॒च्चैरिंद्रो॑ अप॒गूर्या॑ जघान ॥
त्यं , चि॒त् , इ॒त्था , क॒त्प॒यं , शया॑नं , अ॒सू॒र्ये , तम॑सि , व॒वृ॒धा॒नं । तं , चि॒त् , मं॒दा॒नः , वृ॒ष॒भः , सु॒तस्य॑ , उ॒च्चैः , इंद्रः॑ , अ॒प॒ऽगूर्य॑ , ज॒घा॒न॒ ॥
उद्यदिंद्रो॑ मह॒ते दा॑न॒वाय॒ वध॒र्यमि॑ष्ट॒ सहो॒ अप्र॑तीतं । यदीं॒ वज्र॑स्य॒ प्रभृ॑तौ द॒दाभ॒ विश्व॑स्य जं॒तोर॑ध॒मं च॑कार ॥
उत् , यत् , इंद्रः॑ , म॒ह॒ते , दा॒न॒वाय॑ , वधः॑ , यमि॑ष्ट , सहः॑ , अप्र॑तिऽइतं । यत् , ईं॒ , वज्र॑स्य , प्रऽभृ॑तौ , द॒दाभ॑ , विश्व॑स्य , जं॒तोः , अ॒ध॒मं , च॒का॒र॒ ॥
त्यं चि॒दर्णं॑ मधु॒पं शया॑नमसि॒न्वं व॒व्रं मह्याद॑दु॒ग्रः । अ॒पाद॑म॒त्रं म॑ह॒ता व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चं ॥
त्यं , चि॒त् , अर्णं॑ , म॒धु॒ऽपं , शया॑नं , अ॒सि॒न्वं , व॒व्रं , महि॑ , आद॑त् , उ॒ग्रः । अ॒पादं॑ , अ॒त्रं , म॒ह॒ता , व॒धेन॑ , नि , दु॒र्यो॒णे , अ॒वृ॒ण॒क् , मृ॒ध्रऽवा॑चं ॥
को अ॑स्य॒ शुष्मं॒ तवि॑षीं वरात॒ एको॒ धना॑ भरते॒ अप्र॑तीतः । इ॒मे चि॑दस्य॒ ज्रय॑सो॒ नु दे॒वी इंद्र॒स्यौज॑सो भि॒यसा॑ जिहाते ॥
कः , अ॒स्य॒ , शुष्मं॑ , तवि॑षीं , व॒रा॒ते॒ , एकः॑ , धना॑ , भ॒र॒ते॒ , अप्र॑तिऽइतः । इ॒मे इति॑ , चि॒त् , अ॒स्य॒ , ज्रय॑सः , नु , दे॒वी इति॑ , इंद्र॑स्य , ओज॑सः , भि॒यसा॑ , जि॒हा॒ते॒ इति॑ ॥
न्य॑स्मै दे॒वी स्वधि॑तिर्जिहीत॒ इंद्रा॑य गा॒तुरु॑श॒तीव॑ येमे । सं यदोजो॑ यु॒वते॒ विश्व॑माभि॒रनु॑ स्व॒धाव्ने॑ क्षि॒तयो॑ नमंत ॥
नि , अ॒स्मै॒ , दे॒वी , स्वऽधि॑तिः , जि॒ही॒ते॒ , इंद्रा॑य , गा॒तुः , उ॒श॒तीऽइ॑व , ये॒मे॒ । सं , यत् , ओजः॑ , यु॒वते॑ , विश्वं॑ , आ॒भिः॒ , अनु॑ , स्व॒धाऽव्ने॑ , क्षि॒तयः॑ , न॒मं॒त॒ ॥
एकं॒ नु त्वा॒ सत्प॑तिं॒ पांच॑जन्यं जा॒तं शृ॑णोमि य॒शसं॒ जने॑षु । तं मे॑ जगृभ्र आ॒शसो॒ नवि॑ष्ठं दो॒षा वस्तो॒र्हव॑मानास॒ इंद्रं॑ ॥
एकं॒ , नु , त्वा॒ , सत्ऽप॑तिं , पांच॑ऽजन्यं , जा॒तं , शृ॒णो॒मि॒ , य॒शसं॑ , जने॑षु । तं , मे॒ , ज॒गृ॒भ्रे॒ , आ॒ऽशसः॑ , नवि॑ष्ठं , दो॒षा , वस्तोः॑ , हव॑मानासः , इंद्रं॑ ॥
ए॒वा हि त्वामृ॑तु॒था या॒तयं॑तं म॒घा विप्रे॑भ्यो॒ दद॑तं शृ॒णोमि॑ । किं ते॑ ब्र॒ह्माणो॑ गृहते॒ सखा॑यो॒ ये त्वा॒या नि॑द॒धुः काम॑मिंद्र ॥
ए॒व , हि , त्वां , ऋ॒तु॒ऽथा , या॒तयं॑तं , म॒घा , विप्रे॑भ्यः , दद॑तं , शृ॒णोमि॑ । किं , ते॒ , ब्र॒ह्माणः॑ , गृ॒ह॒ते॒ , सखा॑यः , ये , त्वा॒ऽया , नि॒ऽद॒धुः , कामं॑ , इं॒द्र॒ ॥
[३३] महिमहइति दशर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रस्त्रिष्टुप् |
महि॑ म॒हे त॒वसे॑ दीध्ये॒ नॄनिंद्रा॑ये॒त्था त॒वसे॒ अत॑व्यान् । यो अ॑स्मै सुम॒तिं वाज॑सातौ स्तु॒तो जने॑ सम॒र्य॑श्चि॒केत॑ ॥
महि॑ , म॒हे , त॒वसे॑ , दी॒ध्ये॒ , नॄन् , इंद्रा॑य , इ॒त्था , त॒वसे॑ , अत॑व्यान् । यः , अ॒स्मै॒ , सु॒ऽम॒तिं , वाज॑ऽसातौ , स्तु॒तः , जने॑ , स॒ऽम॒र्यः॑ , चि॒केत॑ ॥
स त्वं न॑ इंद्र धियसा॒नो अ॒र्कैर्हरी॑णां वृष॒न्योक्त्र॑मश्रेः । या इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो॑ अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ॥
सः , त्वं , नः॒ , इं॒द्र॒ , धि॒य॒सा॒नः , अ॒र्कैः , हरी॑णां , वृ॒ष॒न् , योक्त्रं॑ , अ॒श्रेः॒ । याः , इ॒त्था , म॒घ॒ऽव॒न् , अनु॑ , जोषं॑ , वक्षः॑ , अ॒भि , प्र , अ॒र्यः , स॒क्षि॒ , जना॑न् ॥
न ते त॑ इंद्रा॒भ्य१॒॑स्मदृ॒ष्वायु॑क्तासो अब्र॒ह्मता॒ यदस॑न् । तिष्ठा॒ रथ॒मधि॒ तं व॑ज्रह॒स्ता र॒श्मिं दे॑व यमसे॒ स्वश्वः॑ ॥
न , ते , ते॒ , इं॒द्र॒ , अ॒भि , अ॒स्मत् , ऋ॒ष्व॒ , अयु॑क्तासः , अ॒ब्र॒ह्मता॑ , यत् , अस॑न् । तिष्ठ॑ , रथं॑ , अधि॑ , तं , व॒ज्र॒ऽह॒स्त॒ , आ , र॒श्मिं , दे॒व॒ , य॒म॒से॒ , सु॒ऽअश्वः॑ ॥
पु॒रू यत्त॑ इंद्र॒ संत्यु॒क्था गवे॑ च॒कर्थो॒र्वरा॑सु॒ युध्य॑न् । त॒त॒क्षे सूर्या॑य चि॒दोक॑सि॒ स्वे वृषा॑ स॒मत्सु॑ दा॒सस्य॒ नाम॑ चित् ॥
पु॒रु , यत् , ते॒ , इं॒द्र॒ , संति॑ , उ॒क्था , गवे॑ , च॒कर्थ॑ , उ॒र्वरा॑सु , युध्य॑न् । त॒त॒क्षे , सूर्या॑य , चि॒त् , ओक॑सि , स्वे , वृषा॑ , स॒मत्ऽसु॑ , दा॒सस्य॑ , नाम॑ , चि॒त् ॥
व॒यं ते त॑ इंद्र॒ ये च॒ नरः॒ शर्धो॑ जज्ञा॒ना या॒ताश्च॒ रथाः॑ । आस्मांज॑गम्यादहिशुष्म॒ सत्वा॒ भगो॒ न हव्यः॑ प्रभृ॒थेषु॒ चारुः॑ ॥
व॒यं , ते , ते॒ , इं॒द्र॒ , ये , च॒ , नरः॑ , शर्धः॑ , ज॒ज्ञा॒नाः , या॒ताः , च॒ , रथाः॑ । आ , अ॒स्मान् , ज॒ग॒म्या॒त् , अ॒हि॒ऽशु॒ष्म॒ , सत्वा॑ , भगः॑ , न , हव्यः॑ , प्र॒ऽभृ॒थेषु॑ , चारुः॑ ॥
प॒पृ॒क्षेण्य॑मिंद्र॒ त्वे ह्योजो॑ नृ॒म्णानि॑ च नृ॒तमा॑नो॒ अम॑र्तः । स न॒ एनीं॑ वसवानो र॒यिं दाः॒ प्रार्यः स्तु॑षे तुविम॒घस्य॒ दानं॑ ॥
प॒पृ॒क्षेण्यं॑ , इं॒द्र॒ , त्वे इति॑ , हि , ओजः॑ , नृ॒म्णानि॑ , च॒ , नृ॒तमा॑नः , अम॑र्तः । सः , नः॒ , एनीं॑ , व॒स॒वा॒नः॒ , र॒यिं , दाः॒ , प्र , अ॒र्यः , स्तु॒षे॒ , तु॒वि॒ऽम॒घस्य॑ , दानं॑ ॥
ए॒वा न॑ इंद्रो॒तिभि॑रव पा॒हि गृ॑ण॒तः शू॑र का॒रून् । उ॒त त्वचं॒ दद॑तो॒ वाज॑सातौ पिप्री॒हि मध्वः॒ सुषु॑तस्य॒ चारोः॑ ॥
ए॒व , नः॒ , इं॒द्र॒ , ऊ॒तिऽभिः॑ , अ॒व॒ , पा॒हि , गृ॒ण॒तः , शू॒र॒ , का॒रून् । उ॒त , त्वचं॑ , दद॑तः , वाज॑ऽसातौ , पि॒प्री॒हि , मध्वः॑ , सुऽसु॑तस्य , चारोः॑ ॥
उ॒त त्ये मा॑ पौरुकु॒त्स्यस्य॑ सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ ररा॑णाः । वहं॑तु मा॒ दश॒ श्येता॑सो अस्य गैरिक्षि॒तस्य॒ क्रतु॑भि॒र्नु स॑श्चे ॥
उ॒त , त्ये , मा॒ , पौ॒रु॒ऽकु॒त्स्यस्य॑ , सू॒रेः , त्र॒सद॑स्योः , हि॒र॒णिनः॑ , ररा॑णाः । वहं॑तु , मा॒ , दश॑ , श्येता॑सः , अ॒स्य॒ , गै॒रि॒ऽक्षि॒तस्य॑ , क्रतु॑ऽभिः , नु , स॒श्चे॒ ॥
उ॒त त्ये मा॑ मारु॒ताश्व॑स्य॒ शोणाः॒ क्रत्वा॑मघासो वि॒दथ॑स्य रा॒तौ । स॒हस्रा॑ मे॒ च्यव॑तानो॒ ददा॑न आनू॒कम॒र्यो वपु॑षे॒ नार्च॑त् ॥
उ॒त , त्ये , मा॒ , मा॒रु॒तऽअ॑श्वस्य , शोणाः॑ , क्रत्वा॑ऽमघासः , वि॒दथ॑स्य , रा॒तौ । स॒हस्रा॑ , मे॒ , च्यव॑तानः , ददा॑नः , आ॒नू॒कं , अ॒र्यः , वपु॑षे , न , आ॒र्च॒त् ॥
उ॒त त्ये मा॑ ध्व॒न्य॑स्य॒ जुष्टा॑ लक्ष्म॒ण्य॑स्य सु॒रुचो॒ यता॑नाः । म॒ह्ना रा॒यः सं॒वर॑णस्य॒ ऋषे॑र्व्र॒जं न गावः॒ प्रय॑ता॒ अपि॑ ग्मन् ॥
उ॒त , त्ये , मा॒ , ध्व॒न्य॑स्य , जुष्टाः॑ , ल॒क्ष्म॒ण्य॑स्य , सु॒ऽरुचः॑ , यता॑नाः । म॒ह्ना , रा॒यः , सं॒ऽवर॑णस्य , ऋषेः॑ , व्र॒जं , न , गावः॑ , प्रऽय॑ताः , अपि॑ , ग्म॒न् ॥
[३४] अजातशत्रुमिति नवर्चस्य सूक्तस्य प्राजापत्यः संवरणइंद्रोजगत्यंत्यात्रिष्टुप् |
अजा॑तशत्रुम॒जरा॒ स्व॑र्व॒त्यनु॑ स्व॒धामि॑ता द॒स्ममी॑यते । सु॒नोत॑न॒ पच॑त॒ ब्रह्म॑वाहसे पुरुष्टु॒ताय॑ प्रत॒रं द॑धातन ॥
अजा॑तऽशत्रुं , अ॒जरा॑ , स्वः॑ऽवती , अनु॑ , स्व॒धा , अमि॑ता , द॒स्मं , ई॒य॒ते॒ । सु॒नोत॑न , पच॑त , ब्रह्म॑ऽवाहसे , पु॒रु॒ऽस्तु॒ताय॑ , प्र॒ऽत॒रं , द॒धा॒त॒न॒ ॥
आ यः सोमे॑न ज॒ठर॒मपि॑प्र॒तामं॑दत म॒घवा॒ मध्वो॒ अंध॑सः । यदीं॑ मृ॒गाय॒ हंत॑वे म॒हाव॑धः स॒हस्र॑भृष्टिमु॒शना॑ व॒धं यम॑त् ॥
आ , यः , सोमे॑न , ज॒ठरं॑ , अपि॑प्रत , अमं॑दत , म॒घऽवा॑ , मध्वः॑ , अंध॑सः । यत् , ईं॒ , मृ॒गाय॑ , हंत॑वे , म॒हाऽव॑धः , स॒हस्र॑ऽभृष्टिं , उ॒शना॑ , व॒धं , यम॑त् ॥
यो अ॑स्मै घ्रं॒स उ॒त वा॒ य ऊध॑नि॒ सोमं॑ सु॒नोति॒ भव॑ति द्यु॒माँ अह॑ । अपा॑प श॒क्रस्त॑त॒नुष्टि॑मूहति त॒नूशु॑भ्रं म॒घवा॒ यः क॑वास॒खः ॥
यः , अ॒स्मै॒ , घ्रं॒से , उ॒त , वा॒ , यः , ऊध॑नि , सोमं॑ , सु॒नोति॑ , भव॑ति , द्यु॒ऽमान् , अह॑ । अप॑ऽअप , श॒क्रः , त॒त॒नुष्टिं॑ , ऊ॒ह॒ति॒ , त॒नूऽशु॑भ्रं , म॒घऽवा॑ , यः , क॒व॒ऽस॒खः ॥
यस्याव॑धीत्पि॒तरं॒ यस्य॑ मा॒तरं॒ यस्य॑ श॒क्रो भ्रात॑रं॒ नात॑ ईषते । वेतीद्व॑स्य॒ प्रय॑ता यतंक॒रो न किल्बि॑षादीषते॒ वस्व॑ आक॒रः ॥
यस्य॑ , अव॑धीत् , पि॒तरं॑ , यस्य॑ , मा॒तरं॑ , यस्य॑ , श॒क्रः , भ्रात॑रं , न , अतः॑ , ई॒ष॒ते॒ । वेति॑ , इत् , ऊँ॒ इति॑ , अ॒स्य॒ , प्रऽय॑ता , य॒तं॒ऽक॒रः , न , किल्बि॑षात् , ई॒ष॒ते॒ , वस्वः॑ , आ॒ऽक॒रः ॥
न पं॒चभि॑र्द॒शभि॑र्वष्ट्या॒रभं॒ नासु॑न्वता सचते॒ पुष्य॑ता च॒न । जि॒नाति॒ वेद॑मु॒या हंति॑ वा॒ धुनि॒रा दे॑व॒युं भ॑जति॒ गोम॑ति व्र॒जे ॥
न , पं॒चऽभिः॑ , द॒शऽभिः॑ , व॒ष्टि॒ , आ॒ऽरभं॑ , न , असु॑न्वता , स॒च॒ते॒ , पुष्य॑ता , च॒न । जि॒नाति॑ , वा॒ , इत् , अ॒मु॒या , हंति॑ , वा॒ , धुनिः॑ , आ , दे॒व॒ऽयुं , भ॒ज॒ति॒ , गोऽम॑ति , व्र॒जे ॥
वि॒त्वक्ष॑णः॒ समृ॑तौ चक्रमास॒जोऽसु॑न्वतो॒ विषु॑णः सुन्व॒तो वृ॒धः । इंद्रो॒ विश्व॑स्य दमि॒ता वि॒भीष॑णो यथाव॒शं न॑यति॒ दास॒मार्यः॑ ॥
वि॒ऽत्वक्ष॑णः , संऽऋ॑तौ , च॒क्रं॒ऽआ॒स॒जः , असु॑न्वतः , विषु॑णः , सु॒न्व॒तः , वृ॒धः । इंद्रः॑ , विश्व॑स्य , द॒मि॒ता , वि॒ऽभीष॑णः , य॒था॒ऽव॒शं , न॒य॒ति॒ , दासं॑ , आर्यः॑ ॥
समीं॑ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे॑ भजति सू॒नरं॒ वसु॑ । दु॒र्गे च॒न ध्रि॑यते॒ विश्व॒ आ पु॒रु जनो॒ यो अ॑स्य॒ तवि॑षी॒मचु॑क्रुधत् ॥
सं , ईं॒ , प॒णेः , अ॒ज॒ति॒ , भोज॑नं , मु॒षे , वि , दा॒शुषे॑ , भ॒ज॒ति॒ , सू॒नरं॑ , वसु॑ । दुः॒ऽगे , च॒न , ध्रि॒य॒ते॒ , विश्वः॑ , आ , पु॒रु , जनः॑ , यः , अ॒स्य॒ , तवि॑षीं , अचु॑क्रुधत् ॥
सं यज्जनौ॑ सु॒धनौ॑ वि॒श्वश॑र्धसा॒ववे॒दिंद्रो॑ म॒घवा॒ गोषु॑ शु॒भ्रिषु॑ । युजं॒ ह्य१॒॑न्यमकृ॑त प्रवेप॒न्युदीं॒ गव्यं॑ सृजते॒ सत्व॑भि॒र्धुनिः॑ ॥
सं , यत् , जनौ॑ , सु॒ऽधनौ॑ , वि॒श्वऽश॑र्धसौ , अवे॑त् , इंद्रः॑ , म॒घऽवा॑ , गोषु॑ , शु॒भ्रिषु॑ । युजं॑ , हि , अ॒न्यं , अकृ॑त , प्र॒ऽवे॒प॒नी , उत् , ईं॒ , गव्यं॑ , सृ॒ज॒ते॒ , सत्व॑ऽभिः , धुनिः॑ ॥
स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः । तस्मा॒ आपः॑ सं॒यतः॑ पीपयंत॒ तस्मि॑न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु ॥
स॒ह॒स्र॒ऽसां , आग्नि॑ऽवेशिं , गृ॒णी॒षे॒ , शत्रिं॑ , अ॒ग्ने॒ , उ॒प॒ऽमां , के॒तुं , अ॒र्यः । तस्मै॑ , आपः॑ , सं॒ऽयतः॑ , पी॒प॒यं॒त॒ , तस्मि॑न् , क्ष॒त्रं , अम॑ऽवत् , त्वे॒षं , अ॒स्तु॒ ॥
[३५] यस्तेसाधिष्टइत्यष्टर्चस्य सूक्तस्यांगिरसः प्रभूवसुरिंद्रोनुष्टुबंत्यापंक्तिः |
यस्ते॒ साधि॒ष्ठोऽव॑स॒ इंद्र॒ क्रतु॒ष्टमा भ॑र । अ॒स्मभ्यं॑ चर्षणी॒सहं॒ सस्निं॒ वाजे॑षु दु॒ष्टरं॑ ॥
यः , ते॒ , साधि॑ष्ठः , अव॑से , इंद्र॑ , क्रतुः॑ , तं , आ , भ॒र॒ । अ॒स्मभ्यं॑ , च॒र्ष॒णि॒ऽसहं॑ , सस्निं॑ , वाजे॑षु , दु॒स्तरं॑ ॥
यदिं॑द्र ते॒ चत॑स्रो॒ यच्छू॑र॒ संति॑ ति॒स्रः । यद्वा॒ पंच॑ क्षिती॒नामव॒स्तत्सु न॒ आ भ॑र ॥
यत् , इं॒द्र॒ , ते॒ , चत॑स्रः , यत् , शू॒र॒ , संति॑ , ति॒स्रः । यत् , वा॒ , पंच॑ , क्षि॒ती॒नां , अवः॑ , तत् , सु , नः॒ , आ , भ॒र॒ ॥
आ तेऽवो॒ वरे॑ण्यं॒ वृषं॑तमस्य हूमहे । वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिंद्र तु॒र्वणिः॑ ॥
आ , ते॒ , अवः॑ , वरे॑ण्यं , वृष॑न्ऽतमस्य , हू॒म॒हे॒ । वृष॑ऽजूतिः , हि , ज॒ज्ञि॒षे , आ॒ऽभूभिः॑ , इं॒द्र॒ , तु॒र्वणिः॑ ॥
वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शवः॑ । स्वक्ष॑त्रं ते धृ॒षन्मनः॑ सत्रा॒हमिं॑द्र॒ पौंस्यं॑ ॥
वृषा॑ , हि , असि॑ , राध॑से , ज॒ज्ञि॒षे , वृष्णि॑ , ते॒ , शवः॑ । स्वऽक्ष॑त्रं , ते॒ , धृ॒षत् , मनः॑ , स॒त्रा॒ऽहं , इं॒द्र॒ , पौंस्यं॑ ॥
त्वं तमिं॑द्र॒ मर्त्य॑ममित्र॒यंत॑मद्रिवः । स॒र्व॒र॒था श॑तक्रतो॒ नि या॑हि शवसस्पते ॥
त्वं , तं , इं॒द्र॒ , मर्त्यं॑ , अ॒मि॒त्र॒ऽयंतं॑ , अ॒द्रि॒ऽवः॒ । स॒र्व॒ऽर॒था , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , नि , या॒हि॒ , श॒व॒सः॒ , प॒ते॒ ॥
त्वामिद्वृ॑त्रहंतम॒ जना॑सो वृ॒क्तब॑र्हिषः । उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हवं॑ते॒ वाज॑सातये ॥
त्वां , इत् , वृ॒त्र॒ह॒न्ऽत॒म॒ , जना॑सः , वृ॒क्तऽब॑र्हिषः । उ॒ग्रं , पू॒र्वीषु॑ , पू॒र्व्यं , हवं॑ते , वाज॑ऽसातये ॥
अ॒स्माक॑मिंद्र दु॒ष्टरं॑ पुरो॒यावा॑नमा॒जिषु॑ । स॒यावा॑नं॒ धने॑धने वाज॒यंत॑मवा॒ रथं॑ ॥
अ॒स्माकं॑ , इं॒द्र॒ , दु॒स्तरं॑ , पु॒रः॒ऽयावा॑नं , आ॒जिषु॑ । स॒ऽयावा॑नं , धने॑ऽधने , वा॒ज॒ऽयंतं॑ , अ॒व॒ , रथं॑ ॥
अ॒स्माक॑मिं॒द्रेहि॑ नो॒ रथ॑मवा॒ पुरं॑ध्या । व॒यं श॑विष्ठ॒ वार्यं॑ दि॒वि श्रवो॑ दधीमहि दि॒वि स्तोमं॑ मनामहे ॥
अ॒स्माकं॑ , इं॒द्र॒ , आ , इ॒हि॒ , नः॒ , रथं॑ , अ॒व॒ , पुरं॑ऽध्या । व॒यं , श॒वि॒ष्ठ॒ , वार्यं॑ , दि॒वि , श्रवः॑ , द॒धी॒म॒हि॒ , दि॒वि , स्तोमं॑ , म॒ना॒म॒हे॒ ॥
[३६] सआगमदिति षडृचस्य सूक्तस्यांगिरसःप्रभूवसुरिंद्रस्त्रिष्टुप् तृतीयाजगती |
स आ ग॑म॒दिंद्रो॒ यो वसू॑नां॒ चिके॑त॒द्दातुं॒ दाम॑नो रयी॒णां । ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुं ॥
सः , आ , ग॒म॒त् , इंद्रः॑ , यः , वसू॑नां , चिके॑तत् , दातुं॑ , दाम॑नः , र॒यी॒णां । ध॒न्व॒ऽच॒रः , न , वंस॑गः , तृ॒षा॒णः , च॒क॒मा॒नः , पि॒ब॒तु॒ , दु॒ग्धं , अं॒शुं ॥
आ ते॒ हनू॑ हरिवः शूर॒ शिप्रे॒ रुह॒त्सोमो॒ न पर्व॑तस्य पृ॒ष्ठे । अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन्गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे॑ ॥
आ , ते॒ , हनू॒ इति॑ , ह॒रि॒ऽवः॒ , शू॒र॒ , शिप्रे॒ इति॑ , रुह॑त् , सोमः॑ , न , पर्व॑तस्य , पृ॒ष्ठे । अनु॑ , त्वा॒ , रा॒ज॒न् , अर्व॑तः , न , हि॒न्वन् , गीः॒ऽभिः , म॒दे॒म॒ , पु॒रु॒ऽहू॒त॒ , विश्वे॑ ॥
च॒क्रं न वृ॒त्तं पु॑रुहूत वेपते॒ मनो॑ भि॒या मे॒ अम॑ते॒रिद॑द्रिवः । रथा॒दधि॑ त्वा जरि॒ता स॑दावृध कु॒विन्नु स्तो॑षन्मघवन्पुरू॒वसुः॑ ॥
च॒क्रं , न , वृ॒त्तं , पु॒रु॒ऽहू॒त॒ , वे॒प॒ते॒ , मनः॑ , भि॒या , मे॒ , अम॑तेः , इत् , अ॒द्रि॒ऽवः॒ । रथा॑त् , अधि॑ , त्वा॒ , ज॒रि॒ता , स॒दा॒ऽवृ॒ध॒ , कु॒वित् , नु , स्तो॒ष॒त् , म॒घ॒ऽव॒न् , पु॒रु॒ऽवसुः॑ ॥
ए॒ष ग्रावे॑व जरि॒ता त॑ इं॒द्रेय॑र्ति॒ वाचं॑ बृ॒हदा॑शुषा॒णः । प्र स॒व्येन॑ मघव॒न्यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे॑नः ॥
ए॒षः , ग्रावा॑ऽइव , ज॒रि॒ता , ते॒ , इं॒द्र॒ , इय॑र्ति , वाचं॑ , बृ॒हत् , आ॒शु॒षा॒णः । प्र , स॒व्येन॑ , म॒घ॒ऽव॒न् , यंसि॑ , रा॒यः , प्र , द॒क्षि॒णित् , ह॒रि॒ऽवः॒ , मा , वि , वे॒नः॒ ॥
वृषा॑ त्वा॒ वृष॑णं वर्धतु॒ द्यौर्वृषा॒ वृष॑भ्यां वहसे॒ हरि॑भ्यां । स नो॒ वृषा॒ वृष॑रथः सुशिप्र॒ वृष॑क्रतो॒ वृषा॑ वज्रि॒न्भरे॑ धाः ॥
वृषा॑ , त्वा॒ , वृष॑णं , व॒र्ध॒तु॒ , द्यौः , वृषा॑ , वृष॑ऽभ्यां , व॒ह॒से॒ , हरि॑ऽभ्यां । सः , नः॒ , वृषा॑ , वृष॑ऽरथः , सु॒ऽशि॒प्र॒ , वृष॑क्रतो॒ इति॒ वृष॑ऽक्रतो , वृषा॑ , वज्रि॒न् , भरे॑ , धाः॒ ॥
यो रोहि॑तौ वा॒जिनौ॑ वा॒जिनी॑वांत्रि॒भिः श॒तैः सच॑माना॒वदि॑ष्ट । यूने॒ सम॑स्मै क्षि॒तयो॑ नमंतां श्रु॒तर॑थाय मरुतो दुवो॒या ॥
यः , रोहि॑तौ , वा॒जिनौ॑ , वा॒जिनी॑ऽवान् , त्रि॒ऽभिः , श॒तैः , सच॑मानौ , अदि॑ष्ट । यूने॑ , सं , अ॒स्मै॒ , क्षि॒तयः॑ , न॒मं॒तां॒ , श्रु॒तऽर॑थाय , म॒रु॒तः॒ , दु॒वः॒ऽया ॥
[३७] संभानुनेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रस्त्रिष्टुप् |
सं भा॒नुना॑ यतते॒ सूर्य॑स्या॒जुह्वा॑नो घृ॒तपृ॑ष्ठः॒ स्वंचाः॑ । तस्मा॒ अमृ॑ध्रा उ॒षसो॒ व्यु॑च्छा॒न्य इंद्रा॑य सु॒नवा॒मेत्याह॑ ॥
सं , भा॒नुना॑ , य॒त॒ते॒ , सूर्य॑स्य , आ॒ऽजुह्वा॑नः , घृ॒तऽपृ॑ष्ठः , सु॒ऽअंचाः॑ । तस्मै॑ , अमृ॑ध्राः , उ॒षसः॑ , वि , उ॒च्छा॒न् , यः , इंद्रा॑य , सु॒नवा॑म , इति॑ , आह॑ ॥
समि॑द्धाग्निर्वनवत्स्ती॒र्णब॑र्हिर्यु॒क्तग्रा॑वा सु॒तसो॑मो जराते । ग्रावा॑णो॒ यस्ये॑षि॒रं वदं॒त्यय॑दध्व॒र्युर्ह॒विषाव॒ सिंधुं॑ ॥
समि॑द्धऽअग्निः , व॒न॒व॒त् , स्ती॒र्णऽब॑र्हिः , यु॒क्तऽग्रा॑वा , सु॒तऽसो॑मः , ज॒रा॒ते॒ । ग्रावा॑णः , यस्य॑ , इ॒षि॒रं , वदं॑ति , अय॑त् , अ॒ध्व॒र्युः , ह॒विषा॑ , अव॑ , सिंधुं॑ ॥
व॒धूरि॒यं पति॑मि॒च्छंत्ये॑ति॒ य ईं॒ वहा॑ते॒ महि॑षीमिषि॒रां । आस्य॑ श्रवस्या॒द्रथ॒ आ च॑ घोषात्पु॒रू स॒हस्रा॒ परि॑ वर्तयाते ॥
व॒धूः , इ॒यं , पतिं॑ , इ॒च्छंती॑ , ए॒ति॒ , यः , ईं॒ , वहा॑ते , महि॑षीं , इ॒षि॒रां । आ , अ॒स्य॒ , श्र॒व॒स्या॒त् , रथः॑ , आ , च॒ , घो॒षा॒त् , पु॒रु , स॒हस्रा॑ , परि॑ , व॒र्त॒या॒ते॒ ॥
न स राजा॑ व्यथते॒ यस्मि॒न्निंद्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायं । आ स॑त्व॒नैरज॑ति॒ हंति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ॥
न , सः , राजा॑ , व्य॒थ॒ते॒ , यस्मि॑न् , इंद्रः॑ , ती॒व्रं , सोमं॑ , पिब॑ति , गोऽस॑खायं । आ , स॒त्व॒नैः , अज॑ति , हंति॑ , वृ॒त्रं , क्षेति॑ , क्षि॒तीः , सु॒ऽभगः॑ , नाम॑ , पुष्य॑न् ॥
पुष्या॒त्क्षेमे॑ अ॒भि योगे॑ भवात्यु॒भे वृतौ॑ संय॒ती सं ज॑याति । प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति॒ य इंद्रा॑य सु॒तसो॑मो॒ ददा॑शत् ॥
पुष्या॑त् , क्षेमे॑ , अ॒भि , योगे॑ , भ॒वा॒ति॒ , उ॒भे इति॑ , वृतौ॑ , सं॒य॒ती इति॑ सं॒ऽय॒ती , सं , ज॒या॒ति॒ । प्रि॒यः , सूर्ये॑ , प्रि॒यः , अ॒ग्ना , भ॒वा॒ति॒ , यः , इंद्रा॑य , सु॒तऽसो॑मः , ददा॑शत् ॥
[३८] उरोष्टइति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्टुप् |
उ॒रोष्ट॑ इंद्र॒ राध॑सो वि॒भ्वी रा॒तिः श॑तक्रतो । अधा॑ नो विश्वचर्षणे द्यु॒म्ना सु॑क्षत्र मंहय ॥
उ॒रोः , ते॒ , इं॒द्र॒ , राध॑सः , वि॒ऽभ्वी , रा॒तिः , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । अध॑ , नः॒ , वि॒श्व॒ऽच॒र्ष॒णे॒ , द्यु॒म्ना , सु॒ऽक्ष॒त्र॒ , मं॒ह॒य॒ ॥
यदी॑मिंद्र श्र॒वाय्य॒मिषं॑ शविष्ठ दधि॒षे । प॒प्र॒थे दी॑र्घ॒श्रुत्त॑मं॒ हिर॑ण्यवर्ण दु॒ष्टरं॑ ॥
यत् , ईं॒ , इं॒द्र॒ , श्र॒वाय्यं॑ , इषं॑ , श॒वि॒ष्ठ॒ , द॒धि॒षे । प॒प्र॒थे , दी॒र्घ॒श्रुत्ऽत॑मं , हिर॑ण्यऽवर्ण , दु॒स्तरं॑ ॥
शुष्मा॑सो॒ ये ते॑ अद्रिवो मे॒हना॑ केत॒सापः॑ । उ॒भा दे॒वाव॒भिष्ट॑ये दि॒वश्च॒ ग्मश्च॑ राजथः ॥
शुष्मा॑सः , ये , ते॒ , अ॒द्रि॒ऽवः॒ , मे॒हना॑ , के॒त॒ऽसापः॑ । उ॒भा , दे॒वौ , अ॒भिष्ट॑ये , दि॒वः , च॒ , ग्मः , च॒ , रा॒ज॒थः॒ ॥
उ॒तो नो॑ अ॒स्य कस्य॑ चि॒द्दक्ष॑स्य॒ तव॑ वृत्रहन् । अ॒स्मभ्यं॑ नृ॒म्णमा भ॑रा॒स्मभ्यं॑ नृमणस्यसे ॥
उ॒तो इति॑ , नः॒ , अ॒स्य , कस्य॑ , चि॒त् , दक्ष॑स्य , तव॑ , वृ॒त्र॒ऽह॒न् । अ॒स्मभ्यं॑ , नृ॒म्णं , आ , भ॒र॒ , अ॒स्मभ्यं॑ , नृ॒ऽम॒न॒स्य॒से॒ ॥
नू त॑ आ॒भिर॒भिष्टि॑भि॒स्तव॒ शर्मं॑छतक्रतो । इंद्र॒ स्याम॑ सुगो॒पाः शूर॒ स्याम॑ सुगो॒पाः ॥
नु , ते॒ , आ॒भिः , अ॒भिष्टि॑ऽभिः , तव॑ , शर्म॑न् , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इंद्र॑ , स्याम॑ , सु॒ऽगो॒पाः , शूर॑ , स्याम॑ , सु॒ऽगो॒पाः ॥
[३९] यदिंद्रेति पंचर्चस्य सूक्तस्य भौमोत्रिरिंद्रोनुष्ठुबंत्यापंक्तिः |
यदिं॑द्र चित्र मे॒हनास्ति॒ त्वादा॑तमद्रिवः । राध॒स्तन्नो॑ विदद्वस उभयाह॒स्त्या भ॑र ॥
यत् , इं॒द्र॒ , चि॒त्र॒ , मे॒हना॑ , अस्ति॑ , त्वाऽदा॑तं , अ॒द्रि॒ऽवः॒ । राधः॑ , तत् , नः॒ , वि॒द॒द्व॒सो॒ इति॑ विदत्ऽवसो , उ॒भ॒या॒ह॒स्ति , आ , भ॒र॒ ॥
यन्मन्य॑से॒ वरे॑ण्य॒मिंद्र॑ द्यु॒क्षं तदा भ॑र । वि॒द्याम॒ तस्य॑ ते व॒यमकू॑पारस्य दा॒वने॑ ॥
यत् , मन्य॑से , वरे॑ण्यं , इंद्र॑ , द्यु॒क्षं , तत् , आ , भ॒र॒ । वि॒द्याम॑ , तस्य॑ , ते॒ , व॒यं , अकू॑पारस्य , दा॒वने॑ ॥
यत्ते॑ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत् । तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं॑ दर्षि सा॒तये॑ ॥
यत् , ते॒ , दि॒त्सु , प्र॒ऽराध्यं॑ , मनः॑ , अस्ति॑ , श्रु॒तं , बृ॒हत् । तेन॑ , दृ॒ळ्हा , चि॒त् , अ॒द्रि॒ऽवः॒ , आ , वाजं॑ , द॒र्षि॒ , सा॒तये॑ ॥
मंहि॑ष्ठं वो म॒घोनां॒ राजा॑नं चर्षणी॒नां । इंद्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिरः॑ ॥
मंहि॑ष्ठं , वः॒ , म॒घोनां॑ , राजा॑नं , च॒र्ष॒णी॒नां । इंद्रं॑ , उप॑ , प्रऽश॑स्तये , पू॒र्वीभिः॑ , जु॒जु॒षे॒ , गिरः॑ ॥
अस्मा॒ इत्काव्यं॒ वच॑ उ॒क्थमिंद्रा॑य॒ शंस्यं॑ । तस्मा॑ उ॒ ब्रह्म॑वाहसे॒ गिरो॑ वर्धं॒त्यत्र॑यो॒ गिरः॑ शुंभं॒त्यत्र॑यः ॥
अस्मै॑ , इत् , काव्यं॑ , वचः॑ , उ॒क्थं , इंद्रा॑य , शंस्यं॑ । तस्मै॑ , ऊँ॒ इति॑ , ब्रह्म॑ऽवाहसे , गिरः॑ , व॒र्धं॒ति॒ , अत्र॑यः , गिरः॑ , शुं॒भं॒ति॒ , अत्र॑यः ॥
[४०] आयाहीति नवर्चस्य सूक्तस्य भौमोत्रिः आद्यानांचतसृणामिंद्रः पंचम्याःसूर्यः षष्ट्यादिचतसृणामत्रिर्देवता आद्यास्तिस्रउष्णिहः पंचम्यंत्येऽनुष्टुभौ शिष्टास्त्रिष्टुभः |
आ या॒ह्यद्रि॑भिः सु॒तं सोमं॑ सोमपते पिब । वृष॑न्निंद्र॒ वृष॑भिर्वृत्रहंतम ॥
आ , या॒हि॒ , अद्रि॑ऽभिः , सु॒तं , सोमं॑ , सो॒म॒ऽप॒ते॒ , पि॒ब॒ । वृष॑न् , इं॒द्र॒ , वृष॑ऽभिः , वृ॒त्र॒ह॒न्ऽत॒म॒ ॥
वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः । वृष॑न्निंद्र॒ वृष॑भिर्वृत्रहंतम ॥
वृषा॑ , ग्रावा॑ , वृषा॑ , मदः॑ , वृषा॑ , सोमः॑ , अ॒यं , सु॒तः । वृष॑न् , इं॒द्र॒ , वृष॑ऽभिः , वृ॒त्र॒ह॒न्ऽत॒म॒ ॥
वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रिं॑चि॒त्राभि॑रू॒तिभिः॑ । वृष॑न्निंद्र॒ वृष॑भिर्वृत्रहंतम ॥
वृषा॑ , त्वा॒ , वृष॑णं , हु॒वे॒ , वज्रि॑न् , चि॒त्राभिः॑ , ऊ॒तिऽभिः॑ । वृष॑न् , इं॒द्र॒ , वृष॑ऽभिः , वृ॒त्र॒ह॒न्ऽत॒म॒ ॥
ऋ॒जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट् छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑ । यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्यं॑दिने॒ सव॑ने मत्स॒दिंद्रः॑ ॥
ऋ॒जी॒षी , व॒ज्री , वृ॒ष॒भः , तु॒रा॒षाट् , शु॒ष्मी , राजा॑ , वृ॒त्र॒ऽहा , सो॒म॒ऽपावा॑ । यु॒क्त्वा , हरि॑ऽभ्यां , उप॑ , या॒स॒त् , अ॒र्वाङ् , माध्यं॑दिने , सव॑ने , म॒त्स॒त् , इंद्रः॑ ॥
यत्त्वा॑ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः । अक्षे॑त्रवि॒द्यथा॑ मु॒ग्धो भुव॑नान्यदीधयुः ॥
यत् , त्वा॒ , सू॒र्य॒ , स्वः॑ऽभानुः , तम॑सा , अवि॑ध्यत् , आ॒सु॒रः । अक्षे॑त्रऽवित् , यथा॑ , मु॒ग्धः , भुव॑नानि , अ॒दी॒ध॒युः॒ ॥
स्व॑र्भानो॒रध॒ यदिं॑द्र मा॒या अ॒वो दि॒वो वर्त॑माना अ॒वाह॑न् । गू॒ळ्हं सूर्यं॒ तम॒साप॑व्रतेन तु॒रीये॑ण॒ ब्रह्म॑णाविंद॒दत्रिः॑ ॥
स्वः॑ऽभानोः , अध॑ , यत् , इं॒द्र॒ , मा॒याः , अ॒वः , दि॒वः , वर्त॑मानाः , अ॒व॒ऽअह॑न् । गू॒ळ्हं , सूर्यं॑ , तम॑सा , अप॑ऽव्रतेन , तु॒रीये॑ण , ब्रह्म॑णा , अ॒विं॒द॒त् , अत्रिः॑ ॥
मा मामि॒मं तव॒ संत॑मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा॑रीत् । त्वं मि॒त्रो अ॑सि स॒त्यरा॑धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा॑ ॥
मा , मां , इ॒मं , तव॑ , संतं॑ , अ॒त्रे॒ , इ॒र॒स्या , द्रु॒ग्धः , भि॒यसा॑ , नि , गा॒री॒त् । त्वं , मि॒त्रः , अ॒सि॒ , स॒त्यऽरा॑धाः , तौ , मा॒ , इ॒ह , अ॒व॒तं॒ , वरु॑णः , च॒ , राजा॑ ॥
ग्राव्णो॑ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन्की॒रिणा॑ दे॒वान्नम॑सोप॒शिक्ष॑न् । अत्रिः॒ सूर्य॑स्य दि॒वि चक्षु॒राधा॒त्स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत् ॥
ग्राव्णः॑ , ब्र॒ह्मा , यु॒यु॒जा॒नः , स॒प॒र्यन् , की॒रिणा॑ , दे॒वान् , नम॑सा , उ॒प॒ऽशिक्ष॑न् । अत्रिः॑ , सूर्य॑स्य , दि॒वि , चक्षुः॑ , आ , अ॒धा॒त् , स्वः॑ऽभानोः , अप॑ , मा॒याः , अ॒घु॒क्ष॒त् ॥
यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः । अत्र॑य॒स्तमन्व॑विंदन्न॒ह्य१॒॑न्ये अश॑क्नुवन् ॥
यं , वै , सूर्यं॑ , स्वः॑ऽभानुः , तम॑सा , अवि॑ध्यत् , आ॒सु॒रः । अत्र॑यः , तं , अनु॑ , अ॒विं॒द॒न् , न॒हि , अ॒न्ये , अश॑क्नुवन् ॥
[४१] कोनुवामिति विंशत्यृचस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप् षोडशीसप्तदश्यावतिजगत्यावंत्यैकपदा | (भेदपक्षे - मित्रावरुणौ १ विश्वेदेवाः १ अश्विनौ १ विश्वेदेवाः १ मरुतः १ विश्वेदेवाः १ उषासानक्ते १ विश्वेदेवाः २ अग्निः १ | विश्वेदेवाः २ मरुतः १ विश्वेदेवाः १ भूमिः १ विश्वेदेवाः ३ भूमिः १ विश्वेदेवाः १ एवं २०)|
को नु वां॑ मित्रावरुणावृता॒यंदि॒वो वा॑ म॒हः पार्थि॑वस्य वा॒ दे । ऋ॒तस्य॑ वा॒ सद॑सि॒ त्रासी॑थां नो यज्ञाय॒ते वा॑ पशु॒षो न वाजा॑न् ॥
कः , नु , वां॒ , मि॒त्रा॒व॒रु॒णौ॒ , ऋ॒त॒ऽयन् , दि॒वः , वा॒ , म॒हः , पार्थि॑वस्य , वा॒ , दे । ऋ॒तस्य॑ , वा॒ , सद॑सि , त्रासी॑थां , नः॒ , य॒ज्ञ॒ऽय॒ते , वा॒ , प॒शु॒ऽसः , न , वाजा॑न् ॥
ते नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिंद्र॑ ऋभु॒क्षा म॒रुतो॑ जुषंत । नमो॑भिर्वा॒ ये दध॑ते सुवृ॒क्तिं स्तोमं॑ रु॒द्राय॑ मी॒ळ्हुषे॑ स॒जोषाः॑ ॥
ते , नः॒ , मि॒त्रः , वरु॑णः , अ॒र्य॒मा , आ॒युः , इंद्रः॑ , ऋ॒भु॒क्षाः , म॒रुतः॑ , जु॒षं॒त॒ । नमः॑ऽभिः , वा॒ , ये , दध॑ते , सु॒ऽवृ॒क्तिं , स्तोमं॑ , रु॒द्राय॑ , मी॒ळ्हुषे॑ , स॒ऽजोषाः॑ ॥
आ वां॒ येष्ठा॑श्विना हु॒वध्यै॒ वात॑स्य॒ पत्म॒न्रथ्य॑स्य पु॒ष्टौ । उ॒त वा॑ दि॒वो असु॑राय॒ मन्म॒ प्रांधां॑सीव॒ यज्य॑वे भरध्वं ॥
आ , वां॒ , येष्ठा॑ , अ॒श्वि॒ना॒ , हु॒वध्यै॑ , वात॑स्य , पत्म॑न् , रथ्य॑स्य , पु॒ष्टौ । उ॒त , वा॒ , दि॒वः , असु॑राय , मन्म॑ , प्र , अंधां॑सिऽइव , यज्य॑वे , भ॒र॒ध्वं॒ ॥
प्र स॒क्षणो॑ दि॒व्यः कण्व॑होता त्रि॒तो दि॒वः स॒जोषा॒ वातो॑ अ॒ग्निः । पू॒षा भगः॑ प्रभृ॒थे वि॒श्वभो॑जा आ॒जिं न ज॑ग्मुरा॒श्व॑श्वतमाः ॥
प्र , स॒क्षणः॑ , दि॒व्यः , कण्व॑ऽहोता , त्रि॒तः , दि॒वः , स॒ऽजोषाः॑ , वातः॑ , अ॒ग्निः । पू॒षा , भगः॑ , प्र॒ऽभृ॒थे , वि॒श्वऽभो॑जाः , आ॒जिं , न , ज॒ग्मुः॒ , आ॒श्व॑श्वऽतमाः ॥
प्र वो॑ र॒यिं यु॒क्ताश्वं॑ भरध्वं रा॒य एषेऽव॑से दधीत॒ धीः । सु॒शेव॒ एवै॑रौशि॒जस्य॒ होता॒ ये व॒ एवा॑ मरुतस्तु॒राणां॑ ॥
प्र , वः॒ , र॒यिं , यु॒क्तऽअ॑श्वं , भ॒र॒ध्वं॒ , रा॒यः , एषे॑ , अव॑से , द॒धी॒त॒ , धीः । सु॒ऽशेवः॑ , एवैः॑ , औ॒शि॒जस्य॑ , होता॑ , ये , वः॒ , एवाः॑ , म॒रु॒तः॒ , तु॒राणां॑ ॥
प्र वो॑ वा॒युं र॑थ॒युजं॑ कृणुध्वं॒ प्र दे॒वं विप्रं॑ पनि॒तार॑म॒र्कैः । इ॒षु॒ध्यव॑ ऋत॒सापः॒ पुरं॑धी॒र्वस्वी॑र्नो॒ अत्र॒ पत्नी॒रा धि॒ये धुः॑ ॥
प्र , वः॒ , वा॒युं , र॒थ॒ऽयुजं॑ , कृ॒णु॒ध्वं॒ , प्र , दे॒वं , विप्रं॑ , प॒नि॒तारं॑ , अ॒र्कैः । इ॒षु॒ध्यवः॑ , ऋ॒त॒ऽसापः॑ , पुरं॑ऽधीः , वस्वीः॑ , नः॒ , अत्र॑ , पत्नीः॑ , आ , धि॒ये , धु॒रिति॑ धुः ॥
उप॑ व॒ एषे॒ वंद्ये॑भिः शू॒षैः प्र य॒ह्वी दि॒वश्चि॒तय॑द्भिर॒र्कैः । उ॒षासा॒नक्ता॑ वि॒दुषी॑व॒ विश्व॒मा हा॑ वहतो॒ मर्त्या॑य य॒ज्ञं ॥
उप॑ , वः॒ , एषे॑ , वंद्ये॑भिः , शू॒षैः , प्र , य॒ह्वी इति॑ , दि॒वः , चि॒तय॑त्ऽभिः , अ॒र्कैः । उ॒षसा॒नक्ता॑ , वि॒दुषी॑ इ॒वेति॑ वि॒दुषी॑ऽइव , विश्वं॑ , आ , ह॒ , व॒ह॒तः॒ , मर्त्या॑य , य॒ज्ञं ॥
अ॒भि वो॑ अर्चे पो॒ष्याव॑तो॒ नॄन्वास्तो॒ष्पतिं॒ त्वष्टा॑रं॒ ररा॑णः । धन्या॑ स॒जोषा॑ धि॒षणा॒ नमो॑भि॒र्वन॒स्पतीँ॒रोष॑धी रा॒य एषे॑ ॥
अ॒भि , वः॒ , अ॒र्चे॒ , पो॒ष्याऽव॑तः , नॄन् , वास्तोः॑ , पतिं॑ , त्वष्टा॑रं , ररा॑णः । धन्या॑ , स॒ऽजोषाः॑ , धि॒षणा॑ , नमः॑ऽभिः , वन॒स्पती॑न् , ओष॑धीः , रा॒यः , एषे॑ ॥
तु॒जे न॒स्तने॒ पर्व॑ताः संतु॒ स्वैत॑वो॒ ये वस॑वो॒ न वी॒राः । प॒नि॒त आ॒प्त्यो य॑ज॒तः सदा॑ नो॒ वर्धा॑न्नः॒ शंसं॒ नर्यो॑ अ॒भिष्टौ॑ ॥
तु॒जे , नः॒ , तने॑ , पर्व॑ताः , सं॒तु॒ , स्वऽए॑तवः , ये , वस॑वः , न , वी॒राः । प॒नि॒तः , आ॒प्त्यः , य॒ज॒तः , सदा॑ , नः॒ , वर्धा॑त् , नः॒ , शंसं॑ , नर्यः॑ , अ॒भिष्टौ॑ ॥
वृष्णो॑ अस्तोषि भू॒म्यस्य॒ गर्भं॑ त्रि॒तो नपा॑तम॒पां सु॑वृ॒क्ति । गृ॒णी॒ते अ॒ग्निरे॒तरी॒ न शू॒षैः शो॒चिष्के॑शो॒ नि रि॑णाति॒ वना॑ ॥
वृष्णः॑ , अ॒स्तो॒षि॒ , भू॒म्यस्य॑ , गर्भं॑ , त्रि॒तः , नपा॑तं , अ॒पां , सु॒ऽवृ॒क्ति । गृ॒णी॒ते , अ॒ग्निः , ए॒तरि॑ , न , शू॒षैः , शो॒चिःऽके॑शः , नि , रि॒णा॒ति॒ , वना॑ ॥
क॒था म॒हे रु॒द्रिया॑य ब्रवाम॒ कद्रा॒ये चि॑कि॒तुषे॒ भगा॑य । आप॒ ओष॑धीरु॒त नो॑ऽवंतु॒ द्यौर्वना॑ गि॒रयो॑ वृ॒क्षके॑शाः ॥
क॒था , म॒हे , रु॒द्रिया॑य , ब्र॒वा॒म॒ , कत् , रा॒ये , चि॒कि॒तुषे॑ , भगा॑य । आपः॑ , ओष॑धीः , उ॒त , नः॒ , अ॒वं॒तु॒ , द्यौः , वना॑ , गि॒रयः॑ , वृ॒क्षऽके॑शाः ॥
शृ॒णोतु॑ न ऊ॒र्जां पति॒र्गिरः॒ स नभ॒स्तरी॑याँ इषि॒रः परि॑ज्मा । शृ॒ण्वंत्वापः॒ पुरो॒ न शु॒भ्राः परि॒ स्रुचो॑ बबृहा॒णस्याद्रेः॑ ॥
शृ॒णोतु॑ , नः॒ , ऊ॒र्जां , पतिः॑ , गिरः॑ , सः , नभः॑ , तरी॑यान् , इ॒षि॒रः , परि॑ऽज्मा । शृ॒ण्वंतु॑ , आपः॑ , पुरः॑ , न , शु॒भ्राः , परि॑ , स्रुचः॑ , ब॒बृ॒हा॒णस्य॑ , अद्रेः॑ ॥
वि॒दा चि॒न्नु म॑हांतो॒ ये व॒ एवा॒ ब्रवा॑म दस्मा॒ वार्यं॒ दधा॑नाः । वय॑श्च॒न सु॒भ्व१॒॑ आव॑ यंति क्षु॒भा मर्त॒मनु॑यतं वध॒स्नैः ॥
वि॒द , चि॒त् , नु , म॒हां॒तः॒ , ये , वः॒ , एवाः॑ , ब्रवा॑म , द॒स्माः॒ , वार्यं॑ , दधा॑नाः । वयः॑ , च॒न , सु॒ऽभ्वः॑ , आ , अव॑ , यं॒ति॒ , क्षु॒भा , मर्तं॑ , अनु॑ऽयतं , व॒ध॒ऽस्नैः ॥
आ दैव्या॑नि॒ पार्थि॑वानि॒ जन्मा॒पश्चाच्छा॒ सुम॑खाय वोचं । वर्धं॑तां॒ द्यावो॒ गिर॑श्चं॒द्राग्रा॑ उ॒दा व॑र्धंताम॒भिषा॑ता॒ अर्णाः॑ ॥
आ , दैव्या॑नि , पार्थि॑वानि , जन्म॑ , अ॒पः , च॒ , अच्छ॑ , सुऽम॑खाय , वो॒चं॒ । वर्धं॑तां , द्यावः॑ , गिरः॑ , चं॒द्रऽअ॑ग्राः , उ॒दा , व॒र्धं॒तां॒ , अ॒भिऽसा॑ताः , अर्णाः॑ ॥
प॒देप॑दे मे जरि॒मा नि धा॑यि॒ वरू॑त्री वा श॒क्रा या पा॒युभि॑श्च । सिष॑क्तु मा॒ता म॒ही र॒सा नः॒ स्मत्सू॒रिभि॑र्ऋजु॒हस्त॑ ऋजु॒वनिः॑ ॥
प॒देऽप॑दे , मे॒ , ज॒रि॒मा , नि , धा॒यि॒ , वरू॑त्री , वा॒ , श॒क्रा , या , पा॒युऽभिः॑ , च॒ । सिस॑क्तु , मा॒ता , म॒ही , र॒सा , नः॒ , स्मत् , सू॒रिऽभिः॑ , ऋ॒जु॒ऽहस्ता॑ , ऋ॒जु॒ऽवनिः॑ ॥
क॒था दा॑शेम॒ नम॑सा सु॒दानू॑नेव॒या म॒रुतो॒ अच्छो॑क्तौ॒ प्रश्र॑वसो म॒रुतो॒ अच्छो॑क्तौ । मा नोऽहि॑र्बु॒ध्न्यो॑ रि॒षे धा॑द॒स्माकं॑ भूदुपमाति॒वनिः॑ ॥
क॒था , दा॒शे॒म॒ , नम॑सा , सु॒ऽदानू॑न् , ए॒व॒ऽया , म॒रुतः॑ , अच्छ॑ऽउक्तौ , प्रऽश्र॑वसः , म॒रुतः॑ , अच्छ॑ऽउक्तौ । मा , नः॒ , अहिः॑ , बु॒ध्न्यः॑ , रि॒षे , धा॒त् , अ॒स्माकं॑ , भू॒त् , उ॒प॒मा॒ति॒ऽवनिः॑ ॥
इति॑ चि॒न्नु प्र॒जायै॑ पशु॒मत्यै॒ देवा॑सो॒ वन॑ते॒ मर्त्यो॑ व॒ आ दे॑वासो वनते॒ मर्त्यो॑ वः । अत्रा॑ शि॒वां त॒न्वो॑ धा॒सिम॒स्या ज॒रां चि॑न्मे॒ निर्ऋ॑तिर्जग्रसीत ॥
इति॑ , चि॒त् , नु , प्र॒ऽजायै॑ , प॒शु॒ऽमत्यै॑ , देवा॑सः , वन॑ते , मर्त्यः॑ , वः॒ , आ , दे॒वा॒सः॒ , व॒न॒ते॒ , मर्त्यः॑ , वः॒ । अत्र॑ , शि॒वां , त॒न्वः॑ , धा॒सिं , अ॒स्याः , ज॒रां , चि॒त् , मे॒ , निःऽऋ॑तिः , ज॒ग्र॒सी॒त॒ ॥
तां वो॑ देवाः सुम॒तिमू॒र्जयं॑ती॒मिष॑मश्याम वसवः॒ शसा॒ गोः । सा नः॑ सु॒दानु॑र्मृ॒ळयं॑ती दे॒वी प्रति॒ द्रवं॑ती सुवि॒ताय॑ गम्याः ॥
तां , वः॒ , दे॒वाः॒ , सु॒ऽम॒तिं , ऊ॒र्जयं॑तीं , इषं॑ , अ॒श्या॒म॒ , व॒स॒वः॒ , शसा॑ , गोः । सा , नः॒ , सु॒ऽदानुः॑ , मृ॒ळयं॑ती , दे॒वी , प्रति॑ , द्रवं॑ती , सु॒वि॒ताय॑ , ग॒म्याः॒ ॥
अ॒भि न॒ इळा॑ यू॒थस्य॑ मा॒ता स्मन्न॒दीभि॑रु॒र्वशी॑ वा गृणातु । उ॒र्वशी॑ वा बृहद्दि॒वा गृ॑णा॒नाभ्यू॑र्ण्वा॒ना प्र॑भृ॒थस्या॒योः ॥
अ॒भि , नः॒ , इळा॑ , यू॒थस्य॑ , मा॒ता , स्मत् , न॒दीभिः॑ , उ॒र्वशी॑ , वा॒ , गृ॒णा॒तु॒ । उ॒र्वशी॑ , वा॒ , बृ॒ह॒त्ऽदि॒वा , गृ॒णा॒ना , अ॒भि॒ऽऊ॒र्ण्वा॒ना , प्र॒ऽभृ॒थस्य॑ , आ॒योः ॥
सिष॑क्तु न ऊर्ज॒व्य॑स्य पु॒ष्टेः ॥
सिस॑क्तु , नः॒ , ऊ॒र्ज॒व्य॑स्य , पु॒ष्टेः ॥ ।
[४२] प्रशंतमेत्यष्टादशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवाः एकादश्यारुद्रत्रिष्टुप् सप्तदश्येकपदा | (भेदपक्षे - विश्वेदेवाः २ सविता १ इंद्रः १ विश्वेदेवाः ९ इंद्रः १ बृहस्पतिः ३ मरुतः १ रुद्रः १ विश्वेदेवाः ९ पर्जन्यः २ मरुतः १ विश्वेदेवाः २ अश्विनौ १ एवं १८) |
प्र शंत॑मा॒ वरु॑णं॒ दीधि॑ती॒ गीर्मि॒त्रं भग॒मदि॑तिं नू॒नम॑श्याः । पृष॑द्योनिः॒ पंच॑होता शृणो॒त्वतू॑र्तपंथा॒ असु॑रो मयो॒भुः ॥
प्र , शंऽत॑मा , वरु॑णं , दीधि॑ती , गीः , मि॒त्रं , भगं॑ , अदि॑तिं , नू॒नं , अ॒श्याः॒ । पृष॑त्ऽयोनिः , पंच॑ऽहोता , शृ॒णो॒तु॒ , अतू॑र्तऽपंथाः , असु॑रः , म॒यः॒ऽभुः ॥
प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुं न मा॒ता हृद्यं॑ सु॒शेवं॑ । ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु ॥
प्रति॑ , मे॒ , स्तोमं॑ , अदि॑तिः , ज॒गृ॒भ्या॒त् , सू॒नुं , न , मा॒ता , हृद्यं॑ , सु॒ऽशेवं॑ । ब्रह्म॑ , प्रि॒यं , दे॒वऽहि॑तं , यत् , अस्ति॑ , अ॒हं , मि॒त्रे , वरु॑णे , यत् , म॒यः॒ऽभुः ॥
उदी॑रय क॒वित॑मं कवी॒नामु॒नत्तै॑नम॒भि मध्वा॑ घृ॒तेन॑ । स नो॒ वसू॑नि॒ प्रय॑ता हि॒तानि॑ चं॒द्राणि॑ दे॒वः स॑वि॒ता सु॑वाति ॥
उत् , ई॒र॒य॒ , क॒विऽत॑मं , क॒वी॒नां , उ॒नत्त॑ , ए॒नं॒ , अ॒भि , मध्वा॑ , घृ॒तेन॑ । सः , नः॒ , वसू॑नि , प्रऽय॑ता , हि॒तानि॑ , चं॒द्राणि॑ , दे॒वः , स॒वि॒ता , सु॒वा॒ति॒ ॥
समिं॑द्र णो॒ मन॑सा नेषि॒ गोभिः॒ सं सू॒रिभि॑र्हरिवः॒ सं स्व॒स्ति । सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒त्या य॒ज्ञिया॑नां ॥
सं , इं॒द्र॒ , नः॒ , मन॑सा , ने॒षि॒ , गोभिः॑ , सं , सू॒रिऽभिः॑ , ह॒रि॒ऽवः॒ , सं , स्व॒स्ति । सं , ब्रह्म॑णा , दे॒वऽहि॑तं , यत् , अस्ति॑ , सं , दे॒वानां॑ , सु॒ऽम॒त्या , य॒ज्ञिया॑नां ॥
दे॒वो भगः॑ सवि॒ता रा॒यो अंश॒ इंद्रो॑ वृ॒त्रस्य॑ सं॒जितो॒ धना॑नां । ऋ॒भु॒क्षा वाज॑ उ॒त वा॒ पुरं॑धि॒रवं॑तु नो अ॒मृता॑सस्तु॒रासः॑ ॥
दे॒वः , भगः॑ , स॒वि॒ता , रा॒यः , अंशः॑ , इंद्रः॑ , वृ॒त्रस्य॑ , सं॒ऽजितः॑ , धना॑नां । ऋ॒भु॒क्षाः , वाजः॑ , उ॒त , वा॒ , पुरं॑ऽधिः , अवं॑तु , नः॒ , अ॒मृता॑सः , तु॒रासः॑ ॥
म॒रुत्व॑तो॒ अप्र॑तीतस्य जि॒ष्णोरजू॑र्यतः॒ प्र ब्र॑वामा कृ॒तानि॑ । न ते॒ पूर्वे॑ मघव॒न्नाप॑रासो॒ न वी॒र्यं१॒॑ नूत॑नः॒ कश्च॒नाप॑ ॥
म॒रुत्व॑तः , अप्र॑तिऽइतस्य , जि॒ष्णोः , अजू॑र्यतः , प्र , ब्र॒वा॒म॒ , कृ॒तानि॑ । न , ते॒ , पूर्वे॑ , म॒घ॒ऽव॒न् , न , अप॑रासः , न , वी॒र्यं॑ , नूत॑नः , कः , च॒न , आ॒प॒ ॥
उप॑ स्तुहि प्रथ॒मं र॑त्न॒धेयं॒ बृह॒स्पतिं॑ सनि॒तारं॒ धना॑नां । यः शंस॑ते स्तुव॒ते शंभ॑विष्ठः पुरू॒वसु॑रा॒गम॒ज्जोहु॑वानं ॥
उप॑ , स्तु॒हि॒ , प्र॒थ॒मं , र॒त्न॒ऽधेयं॑ , बृह॒स्पतिं॑ , स॒नि॒तारं॑ , धना॑नां । यः , शंस॑ते , स्तु॒व॒ते , शंऽभ॑विष्ठः , पु॒रु॒ऽवसुः॑ , आ॒ऽगम॑त् , जोहु॑वानं ॥
तवो॒तिभिः॒ सच॑माना॒ अरि॑ष्टा॒ बृह॑स्पते म॒घवा॑नः सु॒वीराः॑ । ये अ॑श्व॒दा उ॒त वा॒ संति॑ गो॒दा ये व॑स्त्र॒दाः सु॒भगा॒स्तेषु॒ रायः॑ ॥
तव॑ , ऊ॒तिऽभिः॑ , सच॑मानाः , अरि॑ष्टाः , बृह॑स्पते , म॒घऽवा॑नः , सु॒ऽवीराः॑ । ये , अ॒श्व॒ऽदाः , उ॒त , वा॒ , संति॑ , गो॒ऽदाः , ये , व॒स्त्र॒ऽदाः , सु॒ऽभगाः॑ , तेषु॑ , रायः॑ ॥
वि॒स॒र्माणं॑ कृणुहि वि॒त्तमे॑षां॒ ये भुं॒जते॒ अपृ॑णंतो न उ॒क्थैः । अप॑व्रतान्प्रस॒वे वा॑वृधा॒नान्ब्र॑ह्म॒द्विषः॒ सूर्या॑द्यावयस्व ॥
वि॒ऽस॒र्माणं॑ , कृ॒णु॒हि॒ , वि॒त्तं , ए॒षां॒ , ये , भुं॒जते॑ , अपृ॑णंतः , नः॒ , उ॒क्थैः । अप॑ऽव्रतान् , प्र॒ऽस॒वे , व॒वृ॒धा॒नान् , ब्र॒ह्म॒ऽद्विषः॑ , सूर्या॑त् , य॒व॒य॒स्व॒ ॥
य ओह॑ते र॒क्षसो॑ दे॒ववी॑तावच॒क्रेभि॒स्तं म॑रुतो॒ नि या॑त । यो वः॒ शमीं॑ शशमा॒नस्य॒ निंदा॑त्तु॒च्छ्यान्कामा॑न्करते सिष्विदा॒नः ॥
यः , ओह॑ते , र॒क्षसः॑ , दे॒वऽवी॑तौ , अ॒च॒क्रेभिः॑ , तं , म॒रु॒तः॒ , नि , या॒त॒ । यः , वः॒ , शमीं॑ , श॒श॒मा॒नस्य॑ , निंदा॑त् , तु॒च्छ्यान् , कामा॑न् , क॒र॒ते॒ , सि॒स्वि॒दा॒नः ॥
तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ । यक्ष्वा॑ म॒हे सौ॑मन॒साय॑ रु॒द्रं नमो॑भिर्दे॒वमसु॑रं दुवस्य ॥
तं , ऊँ॒ इति॑ , स्तु॒हि॒ , यः , सु॒ऽइ॒षुः , सु॒ऽधन्वा॑ , यः , विश्व॑स्य , क्षय॑ति , भे॒ष॒जस्य॑ । यक्ष्व॑ , म॒हे , सौ॒म॒न॒साय॑ , रु॒द्रं , नमः॑ऽभिः , दे॒वं , असु॑रं , दु॒व॒स्य॒ ॥
दमू॑नसो अ॒पसो॒ ये सु॒हस्ता॒ वृष्णः॒ पत्नी॑र्न॒द्यो॑ विभ्वत॒ष्टाः । सर॑स्वती बृहद्दि॒वोत रा॒का द॑श॒स्यंती॑र्वरिवस्यंतु शु॒भ्राः ॥
दमू॑नसः , अ॒पसः॑ , ये , सु॒ऽहस्ताः॑ , वृष्णः॑ , पत्नीः॑ , न॒द्यः॑ , वि॒भ्व॒ऽत॒ष्टाः । सर॑स्वती , बृ॒ह॒त्ऽदि॒वा , उ॒त , रा॒का , द॒श॒स्यंतीः॑ , व॒रि॒व॒स्यं॒तु॒ , शु॒भ्राः ॥
प्र सू म॒हे सु॑शर॒णाय॑ मे॒धां गिरं॑ भरे॒ नव्य॑सीं॒ जाय॑मानां । य आ॑ह॒ना दु॑हि॒तुर्व॒क्षणा॑सु रू॒पा मि॑ना॒नो अकृ॑णोदि॒दं नः॑ ॥
प्र , सु , म॒हे , सु॒ऽश॒र॒णाय॑ , मे॒धां , गिरं॑ , भ॒रे॒ , नव्य॑सीं , जाय॑मानां । यः , आ॒ह॒नाः , दु॒हि॒तुः , व॒क्षणा॑सु , रू॒पा , मि॒ना॒नः , अकृ॑णोत् , इ॒दं , नः॒ ॥
प्र सु॑ष्टु॒तिः स्त॒नयं॑तं रु॒वंत॑मि॒ळस्पतिं॑ जरितर्नू॒नम॑श्याः । यो अ॑ब्दि॒माँ उ॑दनि॒माँ इय॑र्ति॒ प्र वि॒द्युता॒ रोद॑सी उ॒क्षमा॑णः ॥
प्र , सु॒ऽस्तु॒तिः , स्त॒नयं॑तं , रु॒वंतं॑ , इ॒ळः , पतिं॑ , ज॒रि॒तः॒ , नू॒नं , अ॒श्याः॒ । यः , अ॒ब्दि॒ऽमान् , उ॒द॒नि॒ऽमान् , इय॑र्ति , प्र , वि॒ऽद्युता॑ , रोद॑सी॒ इति॑ , उ॒क्षमा॑णः ॥
ए॒ष स्तोमो॒ मारु॑तं॒ शर्धो॒ अच्छा॑ रु॒द्रस्य॑ सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः । कामो॑ रा॒ये ह॑वते मा स्व॒स्त्युप॑ स्तुहि॒ पृष॑दश्वाँ अ॒यासः॑ ॥
ए॒षः , स्तोमः॑ , मारु॑तं , शर्धः॑ , अच्छ॑ , रु॒द्रस्य॑ , सू॒नून् , यु॒व॒न्यून् , उत् , अ॒श्याः॒ । कामः॑ , रा॒ये , ह॒व॒ते॒ , मा॒ , स्व॒स्ति , उप॑ , स्तु॒हि॒ , पृष॑त्ऽअश्वान् , अ॒यासः॑ ॥
प्रैष स्तोमः॑ पृथि॒वीमं॒तरि॑क्षं॒ वन॒स्पतीँ॒रोष॑धी रा॒ये अ॑श्याः । दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥
प्र , ए॒षः , स्तोमः॑ , पृ॒थि॒वीं , अं॒तरि॑क्षं , वन॒स्पती॑न् , ओष॑धीः , रा॒ये , अ॒श्याः॒ । दे॒वःऽदे॑वः , सु॒ऽहवः॑ , भू॒तु॒ , मह्यं॑ , मा , नः॒ , मा॒ता , पृ॒थि॒वी , दुः॒ऽम॒तौ , धा॒त् ॥
उ॒रौ दे॑वा अनिबा॒धे स्या॑म ॥
उ॒रौ , दे॒वाः॒ , अ॒नि॒ऽबा॒धे , स्या॒म॒ ॥ ।
सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम । आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥
सं , अ॒श्विनोः॑ , अव॑सा , नूत॑नेन , म॒यः॒ऽभुवा॑ , सु॒ऽप्रनी॑ती , ग॒मे॒म॒ । आ , नः॒ , र॒यिं , व॒ह॒तं॒ , आ , उ॒त , वी॒रान् , आ , विश्वा॑नि , अ॒मृ॒ता॒ , सौभ॑गानि ॥
[४३] आधेनवइति सप्तदशर्चस्य सूक्तस्य भौमोत्रिर्विश्वेदेवास्त्रिष्टुप् षोडश्येकपदाविराट् (भेदपक्षे - नदी १ द्यावापृथिवी १ वायुः १ सोमः १ इंद्रः १ अग्निः १ धर्मः १ अश्विनौ १ विश्वेदेवाः २ सरस्वती १ बृहस्पतिः १ अग्निः ३ विश्वेदेवाः १ अश्विनौ १ एवं १७) |
आ धे॒नवः॒ पय॑सा॒ तूर्ण्य॑र्था॒ अम॑र्धंती॒रुप॑ नो यंतु॒ मध्वा॑ । म॒हो रा॒ये बृ॑ह॒तीः स॒प्त विप्रो॑ मयो॒भुवो॑ जरि॒ता जो॑हवीति ॥
आ , धे॒नवः॑ , पय॑सा , तूर्णि॑ऽअर्थाः , अम॑र्धंतीः , उप॑ , नः॒ , यं॒तु॒ , मध्वा॑ । म॒हः , रा॒ये , बृ॒ह॒तीः , स॒प्त , विप्रः॑ , म॒यः॒ऽभुवः॑ , ज॒रि॒ता , जो॒ह॒वी॒ति॒ ॥
आ सु॑ष्टु॒ती नम॑सा वर्त॒यध्यै॒ द्यावा॒ वाजा॑य पृथि॒वी अमृ॑ध्रे । पि॒ता मा॒ता मधु॑वचाः सु॒हस्ता॒ भरे॑भरे नो य॒शसा॑वविष्टां ॥
आ , सु॒ऽस्तु॒ती , नम॑सा , व॒र्त॒यध्यै॑ , द्यावा॑ , वाजा॑य , पृ॒थि॒वी इति॑ , अमृ॑ध्रे॒ इति॑ । पि॒ता , मा॒ता , मधु॑ऽवचाः , सु॒ऽहस्ता॑ , भरे॑ऽभरे , नः॒ , य॒शसौ॑ , अ॒वि॒ष्टां॒ ॥
अध्व॑र्यवश्चकृ॒वांसो॒ मधू॑नि॒ प्र वा॒यवे॑ भरत॒ चारु॑ शु॒क्रं । होते॑व नः प्रथ॒मः पा॑ह्य॒स्य देव॒ मध्वो॑ ररि॒मा ते॒ मदा॑य ॥
अध्व॑र्यवः , च॒कृ॒ऽवांसः॑ , मधू॑नि , प्र , वा॒यवे॑ , भ॒र॒त॒ , चारु॑ , शु॒क्रं । होता॑ऽइव , नः॒ , प्र॒थ॒मः , पा॒हि॒ , अ॒स्य , देव॑ , मध्वः॑ , र॒रि॒म , ते॒ , मदा॑य ॥
दश॒ क्षिपो॑ युंजते बा॒हू अद्रिं॒ सोम॑स्य॒ या श॑मि॒तारा॑ सु॒हस्ता॑ । मध्वो॒ रसं॑ सु॒गभ॑स्तिर्गिरि॒ष्ठां चनि॑श्चदद्दुदुहे शु॒क्रमं॒शुः ॥
दश॑ , क्षिपः॑ , युं॒ज॒ते॒ , बा॒हू इति॑ , अद्रिं॑ , सोम॑स्य , या , श॒मि॒तारा॑ , सु॒ऽहस्ता॑ । मध्वः॑ , रसं॑ , सु॒ऽगभ॑स्तिः , गि॒रि॒ऽस्थां , चनि॑श्चदत् , दु॒दु॒हे॒ , शु॒क्रं , अं॒शुः ॥
असा॑वि ते जुजुषा॒णाय॒ सोमः॒ क्रत्वे॒ दक्षा॑य बृह॒ते मदा॑य । हरी॒ रथे॑ सु॒धुरा॒ योगे॑ अ॒र्वागिंद्र॑ प्रि॒या कृ॑णुहि हू॒यमा॑नः ॥
असा॑वि , ते॒ , जु॒जु॒षा॒णाय॑ , सोमः॑ , क्रत्वे॑ , दक्षा॑य , बृ॒ह॒ते , मदा॑य । हरी॒ इति॑ , रथे॑ , सु॒ऽधुरा॑ , योगे॑ , अ॒र्वाक् , इंद्र॑ , प्रि॒या , कृ॒णु॒हि॒ , हू॒यमा॑नः ॥
आ नो॑ म॒हीम॒रम॑तिं स॒जोषा॒ ग्नां दे॒वीं नम॑सा रा॒तह॑व्यां । मधो॒र्मदा॑य बृह॒तीमृ॑त॒ज्ञामाग्ने॑ वह प॒थिभि॑र्देव॒यानैः॑ ॥
आ , नः॒ , म॒हीं , अ॒रम॑तिं , स॒ऽजोषाः॑ , ग्नां , दे॒वीं , नम॑सा , रा॒तऽह॑व्यां । मधोः॑ , मदा॑य , बृ॒ह॒तीं , ऋ॒त॒ऽज्ञां , आ , अ॒ग्ने॒ , व॒ह॒ , प॒थिऽभिः॑ , दे॒व॒ऽयानैः॑ ॥
अं॒जंति॒ यं प्र॒थयं॑तो॒ न विप्रा॑ व॒पावं॑तं॒ नाग्निना॒ तपं॑तः । पि॒तुर्न पु॒त्र उ॒पसि॒ प्रेष्ठ॒ आ घ॒र्मो अ॒ग्निमृ॒तय॑न्नसादि ॥
अं॒जंति॑ , यं , प्र॒थयं॑तः , न , विप्राः॑ , व॒पाऽवं॑तं , न , अ॒ग्निना॑ , तपं॑तः । पि॒तुः , न , पु॒त्रः , उ॒पसि॑ , प्रेष्ठः॑ , आ , घ॒र्मः , अ॒ग्निं , ऋ॒तय॑न् , अ॒सा॒दि॒ ॥
अच्छा॑ म॒ही बृ॑ह॒ती शंत॑मा॒ गीर्दू॒तो न गं॑त्व॒श्विना॑ हु॒वध्यै॑ । म॒यो॒भुवा॑ स॒रथा या॑तम॒र्वाग्गं॒तं नि॒धिं धुर॑मा॒णिर्न नाभिं॑ ॥
अच्छ॑ , म॒ही , बृ॒ह॒ती , शंऽत॑मा , गीः , दू॒तः , न , गं॒तु॒ , अ॒श्विना॑ , हु॒वध्यै॑ । म॒यः॒ऽभुवा॑ , स॒ऽरथा॑ , आ , या॒तं॒ , अ॒र्वाक् , गं॒तं , नि॒ऽधिं , धुरं॑ , आ॒णिः , न , नाभिं॑ ॥
प्र तव्य॑सो॒ नम॑उक्तिं तु॒रस्या॒हं पू॒ष्ण उ॒त वा॒योर॑दिक्षि । या राध॑सा चोदि॒तारा॑ मती॒नां या वाज॑स्य द्रविणो॒दा उ॒त त्मन् ॥
प्र , तव्य॑सः , नमः॑ऽउक्तिं , तु॒रस्य॑ , अ॒हं , पू॒ष्णः , उ॒त , वा॒योः , अ॒दि॒क्षि॒ । या , राध॑सा , चो॒दि॒तारा॑ , म॒ती॒नां , या , वाज॑स्य , द्र॒वि॒णः॒ऽदौ , उ॒त , त्मन् ॥
आ नाम॑भिर्म॒रुतो॑ वक्षि॒ विश्वा॒ना रू॒पेभि॑र्जातवेदो हुवा॒नः । य॒ज्ञं गिरो॑ जरि॒तुः सु॑ष्टु॒तिं च॒ विश्वे॑ गंत मरुतो॒ विश्व॑ ऊ॒ती ॥
आ , नाम॑ऽभिः , म॒रुतः॑ , व॒क्षि॒ , विश्वा॑न् , आ , रू॒पेभिः॑ , जा॒त॒ऽवे॒दः॒ , हु॒वा॒नः । य॒ज्ञं , गिरः॑ , ज॒रि॒तुः , सु॒ऽस्तु॒तिं , च॒ , विश्वे॑ , गं॒त॒ , म॒रु॒तः॒ , विश्वे॑ , ऊ॒ती ॥
आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता गं॑तु य॒ज्ञं । हवं॑ दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥
आ , नः॒ , दि॒वः , बृ॒ह॒तः , पर्व॑तात् , आ , सर॑स्वती , य॒ज॒ता , गं॒तु॒ , य॒ज्ञं । हवं॑ , दे॒वी , जु॒जु॒षा॒णा , घृ॒ताची॑ , श॒ग्मां , नः॒ , वाचं॑ , उ॒श॒ती , शृ॒णो॒तु॒ ॥
आ वे॒धसं॒ नील॑पृष्ठं बृ॒हंतं॒ बृह॒स्पतिं॒ सद॑ने सादयध्वं । सा॒दद्यो॑निं॒ दम॒ आ दी॑दि॒वांसं॒ हिर॑ण्यवर्णमरु॒षं स॑पेम ॥
आ , वे॒धसं॑ , नील॑ऽपृष्ठं , बृ॒हंतं॑ , बृह॒स्पतिं॑ , सद॑ने , सा॒द॒य॒ध्वं॒ । सा॒दत्ऽयो॑निं , दमे॑ , आ , दी॒दि॒ऽवांसं॑ , हिर॑ण्यऽवर्णं , अ॒रु॒षं , स॒पे॒म॒ ॥
आ ध॑र्ण॒सिर्बृ॒हद्दि॑वो॒ ररा॑णो॒ विश्वे॑भिर्गं॒त्वोम॑भिर्हुवा॒नः । ग्ना वसा॑न॒ ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृंगो वृष॒भो व॑यो॒धाः ॥
आ , ध॒र्ण॒सिः , बृ॒हत्ऽदि॑वः , ररा॑णः , विश्वे॑भिः , गं॒तु॒ , ओम॑ऽभिः , हु॒वा॒नः । ग्नाः , वसा॑नः , ओष॑धीः , अमृ॑ध्रः , त्रि॒धातु॑ऽशृंगः , वृ॒ष॒भः , व॒यः॒ऽधाः ॥
मा॒तुष्प॒दे प॑र॒मे शु॒क्र आ॒योर्वि॑प॒न्यवो॑ रास्पि॒रासो॑ अग्मन् । सु॒शेव्यं॒ नम॑सा रा॒तह॑व्याः॒ शिशुं॑ मृजंत्या॒यवो॒ न वा॒से ॥
मा॒तुः , प॒दे , प॒र॒मे , शु॒क्रे , आ॒योः , वि॒प॒न्यवः॑ , रा॒स्पि॒रासः॑ , अ॒ग्म॒न् । सु॒ऽशेव्यं॑ , नम॑सा , रा॒तऽह॑व्याः , शिशुं॑ , मृ॒जं॒ति॒ , आ॒यवः॑ , न , वा॒से ॥
बृ॒हद्वयो॑ बृह॒ते तुभ्य॑मग्ने धिया॒जुरो॑ मिथु॒नासः॑ सचंत । दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥
बृ॒हत् , वयः॑ , बृ॒ह॒ते , तुभ्यं॑ , अ॒ग्ने॒ , धि॒या॒ऽजुरः॑ , मि॒थु॒नासः॑ , स॒चं॒त॒ । दे॒वःऽदे॑वः , सु॒ऽहवः॑ , भू॒तु॒ , मह्यं॑ , मा , नः॒ , मा॒ता , पृ॒थि॒वी , दुः॒ऽम॒तौ , धा॒त् ॥
उ॒रौ दे॑वा अनिबा॒धे स्या॑म ॥
उ॒रौ , दे॒वाः॒ , अ॒नि॒ऽबा॒धे , स्या॒म॒ ॥ ।
सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम । आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥
सं , अ॒श्विनोः॑ , अव॑सा , नूत॑नेन , म॒यः॒ऽभुवा॑ , सु॒ऽप्रनी॑ती , ग॒मे॒म॒ । आ , नः॒ , र॒यिं , व॒ह॒तं॒ , आ , उ॒त , वी॒रान् , आ , विश्वा॑नि , अ॒मृ॒ता॒ , सौभ॑गानि ॥
[४४] तंप्रत्नथेति पंचदशर्चस्य सूक्तस्य काश्यपोवत्सारोविश्वेदेवाजगत्यंत्येद्वेत्रिष्टुभौ (भेदपक्षे - इंद्रः २ अग्निः १ सूर्यः १ अग्निः १ विश्वेदेवाः १ सूर्यः १ अग्निः १ सूर्यः २ विश्वेदेवाः २ सुतंभरः १ अग्निः २ एवं १५) |
तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विदं॑ । प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे गि॒राशुं जयं॑त॒मनु॒ यासु॒ वर्ध॑से ॥
तं , प्र॒त्नऽथा॑ , पू॒र्वऽथा॑ , वि॒श्वऽथा॑ , इं॒ऽअथा॑ , ज्ये॒ष्ठऽता॑तिं , ब॒र्हि॒ऽसदं॑ , स्वः॒ऽविदं॑ । प्र॒ती॒ची॒नं , वृ॒जनं॑ , दो॒ह॒से॒ , गि॒रा , आ॒शुं , जयं॑तं , अनु॑ , यासु॑ , वर्ध॑से ॥
श्रि॒ये सु॒दृशी॒रुप॑रस्य॒ याः स्व॑र्वि॒रोच॑मानः क॒कुभा॑मचो॒दते॑ । सु॒गो॒पा अ॑सि॒ न दभा॑य सुक्रतो प॒रो मा॒याभि॑र्ऋ॒त आ॑स॒ नाम॑ ते ॥
श्रि॒ये , सु॒ऽदृशीः॑ , उप॑रस्य , याः , स्वः॑ , वि॒ऽरोच॑मानः , क॒कुभां॑ , अ॒चो॒दते॑ । सु॒ऽगो॒पाः , अ॒सि॒ , न , दभा॑य , सु॒क्र॒तो॒ इति॑ सुऽक्रतो , प॒रः , मा॒याभिः॑ , ऋ॒ते , आ॒स॒ , नाम॑ , ते॒ ॥
अत्यं॑ ह॒विः स॑चते॒ सच्च॒ धातु॒ चारि॑ष्टगातुः॒ स होता॑ सहो॒भरिः॑ । प्र॒सर्स्रा॑णो॒ अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो॑ वि॒स्रुहा॑ हि॒तः ॥
अत्यं॑ , ह॒विः , स॒च॒ते॒ , सत् , च॒ , धातु॑ , च॒ , अरि॑ष्टऽगातुः , सः , होता॑ , स॒हः॒ऽभरिः॑ । प्र॒ऽसर्स्रा॑णः , अनु॑ , ब॒र्हिः , वृषा॑ , शिशुः॑ , मध्ये॑ , युवा॑ , अ॒जरः॑ , वि॒ऽस्रुहा॑ , हि॒तः ॥
प्र व॑ ए॒ते सु॒युजो॒ याम॑न्नि॒ष्टये॒ नीची॑र॒मुष्मै॑ य॒म्य॑ ऋता॒वृधः॑ । सु॒यंतु॑भिः सर्वशा॒सैर॒भीशु॑भिः॒ क्रिवि॒र्नामा॑नि प्रव॒णे मु॑षायति ॥
प्र , वः॒ , ए॒ते , सु॒ऽयुजः॑ , याम॑न् , इ॒ष्टये॑ , नीचीः॑ , अ॒मुष्मै॑ , य॒म्यः॑ , ऋ॒त॒ऽवृधः॑ । सु॒यंतु॑ऽभिः , स॒र्व॒ऽशा॒सैः , अ॒भीशु॑ऽभिः , क्रिविः॑ , नामा॑नि , प्र॒व॒णे , मु॒षा॒य॒ति॒ ॥
सं॒जर्भु॑राण॒स्तरु॑भिः सुते॒गृभं॑ वया॒किनं॑ चि॒त्तग॑र्भासु सु॒स्वरुः॑ । धा॒र॒वा॒केष्वृ॑जुगाथ शोभसे॒ वर्ध॑स्व॒ पत्नी॑र॒भि जी॒वो अ॑ध्व॒रे ॥
सं॒ऽजर्भु॑राणः , तरु॑ऽभिः , सु॒ते॒ऽगृभं॑ , व॒या॒किनं॑ , चि॒त्तऽग॑र्भासु , सु॒ऽस्वरुः॑ । धा॒र॒ऽवा॒केषु॑ , ऋ॒जु॒ऽगा॒थ॒ , शो॒भ॒से॒ , वर्ध॑स्व , पत्नीः॑ , अ॒भि , जी॒वः , अ॒ध्व॒रे ॥
या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया॑ दधिरे सि॒ध्रया॒प्स्वा । म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो॑ बृ॒हत्सु॒वीर॒मन॑पच्युतं॒ सहः॑ ॥
या॒दृक् , ए॒व , ददृ॑शे , ता॒दृक् , उ॒च्य॒ते॒ , सं , छा॒यया॑ , द॒धि॒रे॒ , सि॒ध्रया॑ , अ॒प्ऽसु , आ । म॒हीं , अ॒स्मभ्यं॑ , उ॒रु॒ऽसां , उ॒रु , ज्रयः॑ , बृ॒हत् , सु॒ऽवीरं॑ , अन॑पऽच्युतं , सहः॑ ॥
वेत्यग्रु॒र्जनि॑वा॒न्वा अति॒ स्पृधः॑ समर्य॒ता मन॑सा॒ सूर्यः॑ क॒विः । घ्रं॒सं रक्षं॑तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त्स्वाव॑सुः ॥
वेति॑ , अग्रुः॑ , जनि॑ऽवान् , वै , अति॑ , स्पृधः॑ , स॒ऽम॒र्य॒ता , मन॑सा , सूर्यः॑ , क॒विः । घ्रं॒सं , रक्षं॑तं , परि॑ , वि॒श्वतः॑ , गयं॑ , अ॒स्माकं॑ , शर्म॑ , व॒न॒व॒त् , स्वऽव॑सुः ॥
ज्यायां॑सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते । या॒दृश्मिं॒धायि॒ तम॑प॒स्यया॑ विद॒द्य उ॑ स्व॒यं वह॑ते॒ सो अरं॑ करत् ॥
ज्यायां॑सं , अ॒स्य , य॒तुन॑स्य , के॒तुना॑ , ऋ॒षि॒ऽस्व॒रं , च॒र॒ति॒ , यासु॑ , नाम॑ , ते॒ । या॒दृश्मि॑न् , धा॒यि॒ , तं , अ॒प॒स्यया॑ , वि॒द॒त् , यः , ऊँ॒ इति॑ , स्व॒यं , वह॑ते , सः , अरं॑ , क॒र॒त् ॥
स॒मु॒द्रमा॑सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता । अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा॑ म॒तिर्वि॒द्यते॑ पूत॒बंध॑नी ॥
स॒मु॒द्रं , आ॒सां॒ , अव॑ , त॒स्थे॒ , अ॒ग्रि॒मा , न , रि॒ष्य॒ति॒ , सव॑नं , यस्मि॑न् , आऽय॑ता । अत्र॑ , न , हार्दि॑ , क्र॒व॒णस्य॑ , रे॒ज॒ते॒ , यत्र॑ , म॒तिः , वि॒द्यते॑ , पू॒त॒ऽबंध॑नी ॥
स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रेः॑ । अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भिः॒ शवि॑ष्ठं॒ वाजं॑ वि॒दुषा॑ चि॒दर्ध्यं॑ ॥
सः , हि , क्ष॒त्रस्य॑ , म॒न॒सस्य॑ , चित्ति॑ऽभिः , ए॒व॒ऽव॒दस्य॑ , य॒ज॒तस्य॑ , सध्रेः॑ । अ॒व॒ऽत्सा॒रस्य॑ , स्पृ॒ण॒वा॒म॒ , रण्व॑ऽभिः , शवि॑ष्ठं , वाजं॑ , वि॒दुषा॑ , चि॒त् , अर्ध्यं॑ ॥
श्ये॒न आ॑सा॒मदि॑तिः क॒क्ष्यो॒३॒॑ मदो॑ वि॒श्ववा॑रस्य यज॒तस्य॑ मा॒यिनः॑ । सम॒न्यम॑न्यमर्थयं॒त्येत॑वे वि॒दुर्वि॒षाणं॑ परि॒पान॒मंति॒ ते ॥
श्ये॒नः , आ॒सां॒ , अदि॑तिः , क॒क्ष्यः॑ , मदः॑ , वि॒श्वऽवा॑रस्य , य॒ज॒तस्य॑ , मा॒यिनः॑ । सं , अ॒न्यंऽअ॑न्यं , अ॒र्थ॒यं॒ति॒ , एत॑वे , वि॒दुः , वि॒ऽसाणं॑ , प॒रि॒ऽपानं॑ , अंति॑ , ते॒ ॥
स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो॑ वधीद्बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो॑ वः॒ सचा॑ । उ॒भा स वरा॒ प्रत्ये॑ति॒ भाति॑ च॒ यदीं॑ ग॒णं भज॑ते सुप्र॒याव॑भिः ॥
स॒दा॒ऽपृ॒णः , य॒ज॒तः , वि , द्विषः॑ , व॒धी॒त् , बा॒हु॒ऽवृ॒क्तः , श्रु॒त॒ऽवित् , तर्यः॑ , वः॒ , सचा॑ । उ॒भा , सः , वरा॑ , प्रति॑ , ए॒ति॒ , भाति॑ , च॒ , यत् , ईं॒ , ग॒णं , भज॑ते , सु॒प्र॒याव॑ऽभिः ॥
सु॒तं॒भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा॑सा॒मूधः॒ स धि॒यामु॒दंच॑नः । भर॑द्धे॒नू रस॑वच्छिश्रिये॒ पयो॑ऽनुब्रुवा॒णो अध्ये॑ति॒ न स्व॒पन् ॥
सु॒तं॒ऽभ॒रः , यज॑मानस्य , सत्ऽप॑तिः , विश्वा॑सां , ऊधः॑ , सः , धि॒यां , उ॒त्ऽअंच॑नः । भर॑त् , धे॒नुः , रस॑ऽवत् , शि॒श्रि॒ये॒ , पयः॑ , अ॒नु॒ऽब्रु॒वा॒णः , अधि॑ , ए॒ति॒ , न , स्व॒पन् ॥
यो जा॒गार॒ तमृचः॑ कामयंते॒ यो जा॒गार॒ तमु॒ सामा॑नि यंति । यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥
यः , जा॒गार॑ , तं , ऋचः॑ , का॒म॒यं॒ते॒ , यः , जा॒गार॑ , तं , ऊँ॒ इति॑ , सामा॑नि , यं॒ति॒ । यः , जा॒गार॑ , तं , अ॒यं , सोमः॑ , आ॒ह॒ , तव॑ , अ॒हं , अ॒स्मि॒ , स॒ख्ये , निऽओ॑काः ॥
अ॒ग्निर्जा॑गार॒ तमृचः॑ कामयंते॒ऽग्निर्जा॑गार॒ तमु॒ सामा॑नि यंति । अ॒ग्निर्जा॑गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥
अ॒ग्निः , जा॒गा॒र॒ , तं , ऋचः॑ , का॒म॒यं॒ते॒ , अ॒ग्निः , जा॒गा॒र॒ , तं , ऊँ॒ इति॑ , सामा॑नि , यं॒ति॒ । अ॒ग्निः , जा॒गा॒र॒ , तं , अ॒यं , सोमः॑ , आ॒ह॒ , तव॑ , अ॒हं , अ॒स्मि॒ , स॒ख्ये , निऽओ॑काः ॥
[४५] विदादिवइत्येकादशर्चस्य सूक्तस्यात्रेयः सदापृणो विश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - इंद्रसूर्यौ १ विश्वेदेवाः २ इंद्राग्नी १ विश्वेदेवाः ६ आपः १ एवं ११ (अत्रसूक्ते सदापृणर्षेर्यजतइत्यादि लिंगोक्तऋषिभिः समुच्चयइति केचित्) |
वि॒दा दि॒वो वि॒ष्यन्नद्रि॑मु॒क्थैरा॑य॒त्या उ॒षसो॑ अ॒र्चिनो॑ गुः । अपा॑वृत व्र॒जिनी॒रुत्स्व॑र्गा॒द्वि दुरो॒ मानु॑षीर्दे॒व आ॑वः ॥
वि॒दाः , दि॒वः , वि॒ऽस्यन् , अद्रिं॑ , उ॒क्थैः , आ॒ऽय॒त्याः , उ॒षसः॑ , अ॒र्चिनः॑ , गुः॒ । अप॑ , अ॒वृ॒त॒ , व्र॒जिनीः॑ , उत् , स्वः॑ , गा॒त् , वि , दुरः॑ , मानु॑षीः , दे॒वः , आ॒व॒रित्या॑वः ॥
वि सूर्यो॑ अ॒मतिं॒ न श्रियं॑ सा॒दोर्वाद्गवां॑ मा॒ता जा॑न॒ती गा॑त् । धन्व॑र्णसो न॒द्य१॒॑ः खादो॑अर्णाः॒ स्थूणे॑व॒ सुमि॑ता दृंहत॒ द्यौः ॥
वि , सूर्यः॑ , अ॒मतिं॑ , न , श्रियं॑ , सा॒त् , आ , ऊ॒र्वात् , गवां॑ , मा॒ता , जा॒न॒ती , गा॒त् । धन्व॑ऽअर्णसः , न॒द्यः॑ , खादः॑ऽअर्णाः , स्थूणा॑ऽइव , सुऽमि॑ता , दृं॒ह॒त॒ , द्यौः ॥
अ॒स्मा उ॒क्थाय॒ पर्व॑तस्य॒ गर्भो॑ म॒हीनां॑ ज॒नुषे॑ पू॒र्व्याय॑ । वि पर्व॑तो॒ जिही॑त॒ साध॑त॒ द्यौरा॒विवा॑संतो दसयंत॒ भूम॑ ॥
अ॒स्मै , उ॒क्थाय॑ , पर्व॑तस्य , गर्भः॑ , म॒हीनां॑ , ज॒नुषे॑ , पू॒र्व्याय॑ । वि , पर्व॑तः , जिही॑त , साध॑त , द्यौः , आ॒ऽविवा॑संतः , द॒स॒यं॒त॒ , भूम॑ ॥
सू॒क्तेभि॑र्वो॒ वचो॑भिर्दे॒वजु॑ष्टै॒रिंद्रा॒ न्व१॒॑ग्नी अव॑से हु॒वध्यै॑ । उ॒क्थेभि॒र्हि ष्मा॑ क॒वयः॑ सुय॒ज्ञा आ॒विवा॑संतो म॒रुतो॒ यजं॑ति ॥
सु॒ऽउ॒क्तेभिः॑ , वः॒ , वचः॑ऽभिः , दे॒वऽजु॑ष्टैः , इंद्रा॑ , नु , अ॒ग्नी इति॑ , अव॑से , हु॒वध्यै॑ । उ॒क्थेभिः॑ , हि , स्म॒ , क॒वयः॑ , सु॒ऽय॒ज्ञाः , आ॒ऽविवा॑संतः , म॒रुतः॑ , यजं॑ति ॥
एतो॒ न्व१॒॑द्य सु॒ध्यो॒३॒॑ भवा॑म॒ प्र दु॒च्छुना॑ मिनवामा॒ वरी॑यः । आ॒रे द्वेषां॑सि सनु॒तर्द॑धा॒माया॑म॒ प्रांचो॒ यज॑मान॒मच्छ॑ ॥
एतो॒ इति॑ , नु , अ॒द्य , सु॒ऽध्यः॑ , भवा॑म , प्र , दु॒च्छुनाः॑ , मि॒न॒वा॒म॒ , वरी॑यः । आ॒रे , द्वेषां॑सि , स॒नु॒तः , द॒धा॒म॒ , अया॑म , प्रांचः॑ , यज॑मानं , अच्छ॑ ॥
एता॒ धियं॑ कृ॒णवा॑मा सखा॒योऽप॒ या मा॒ताँ ऋ॑णु॒त व्र॒जं गोः । यया॒ मनु॑र्विशिशि॒प्रं जि॒गाय॒ यया॑ व॒णिग्वं॒कुरापा॒ पुरी॑षं ॥
आ , इ॒त॒ , धियं॑ , कृ॒णवा॑म , स॒खा॒यः॒ , अप॑ , या , मा॒ता , ऋ॒णु॒त , व्र॒जं , गोः । यया॑ , मनुः॑ , वि॒शि॒ऽशि॒प्रं , जि॒गाय॑ , यया॑ , व॒णिक् , वं॒कुः , आप॑ , पुरी॑षं ॥
अनू॑नो॒दत्र॒ हस्त॑यतो॒ अद्रि॒रार्च॒न्येन॒ दश॑ मा॒सो नव॑ग्वाः । ऋ॒तं य॒ती स॒रमा॒ गा अ॑विंद॒द्विश्वा॑नि स॒त्यांगि॑राश्चकार ॥
अनू॑नोत् , अत्र॑ , हस्त॑ऽयतः , अद्रिः॑ , आर्च॑न् , येन॑ , दश॑ , मा॒सः , नव॑ऽग्वाः । ऋ॒तं , य॒ती , स॒रमा॑ , गाः , अ॒विं॒द॒त् , विश्वा॑नि , स॒त्या , अंगि॑राः , च॒का॒र॒ ॥
विश्वे॑ अ॒स्या व्युषि॒ माहि॑नायाः॒ सं यद्गोभि॒रंगि॑रसो॒ नवं॑त । उत्स॑ आसां पर॒मे स॒धस्थ॑ ऋ॒तस्य॑ प॒था स॒रमा॑ विद॒द्गाः ॥
विश्वे॑ , अ॒स्याः , वि॒ऽउषि॑ , माहि॑नायाः , सं , यत् , गोभिः॑ , अंगि॑रसः , नवं॑त । उत्सः॑ , आ॒सां॒ , प॒र॒मे , स॒धऽस्थे॑ , ऋ॒तस्य॑ , प॒था , स॒रमा॑ , वि॒द॒त् , गाः ॥
आ सूर्यो॑ यातु स॒प्ताश्वः॒ क्षेत्रं॒ यद॑स्योर्वि॒या दी॑र्घया॒थे । र॒घुः श्ये॒नः प॑तय॒दंधो॒ अच्छा॒ युवा॑ क॒विर्दी॑दय॒द्गोषु॒ गच्छ॑न् ॥
आ , सूर्यः॑ , या॒तु॒ , स॒प्तऽअ॑श्वः , क्षेत्रं॑ , यत् , अ॒स्य॒ , उ॒र्वि॒या , दी॒र्घ॒ऽया॒थे । र॒घुः , श्ये॒नः , प॒त॒य॒त् , अंधः॑ , अच्छ॑ , युवा॑ , क॒विः , दी॒द॒य॒त् , गोषु॑ , गच्छ॑न् ॥
आ सूर्यो॑ अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो॑ वी॒तपृ॑ष्ठाः । उ॒द्ना न नाव॑मनयंत॒ धीरा॑ आशृण्व॒तीरापो॑ अ॒र्वाग॑तिष्ठन् ॥
आ , सूर्यः॑ , अ॒रु॒ह॒त् , शु॒क्रं , अर्णः॑ , अयु॑क्त , यत् , ह॒रितः॑ , वी॒तऽपृ॑ष्ठाः । उ॒द्ना , न , नावं॑ , अ॒न॒यं॒त॒ , धीराः॑ , आ॒ऽशृ॒ण्व॒तीः , आपः॑ , अ॒र्वाक् , अ॒ति॒ष्ठ॒न् ॥
धियं॑ वो अ॒प्सु द॑धिषे स्व॒र्षां ययात॑रं॒दश॑ मा॒सो नव॑ग्वाः । अ॒या धि॒या स्या॑म दे॒वगो॑पा अ॒या धि॒या तु॑तुर्या॒मात्यंहः॑ ॥
धियं॑ , वः॒ , अ॒प्ऽसु , द॒धि॒षे॒ , स्वः॒ऽसां , यया॑ , अत॑रन् , दश॑ , मा॒सः , नव॑ऽग्वाः । अ॒या , धि॒या , स्या॒म॒ , दे॒वऽगो॑पाः , अ॒या , धि॒या , तु॒तु॒र्या॒म॒ , अति॑ , अंहः॑ ॥
[४६] हयोनेत्यष्टर्चस्यसूक्तस्यात्रेयःप्रतिक्षत्रोविश्वेदेवाजगती सप्तम्यष्टम्योर्देवपत्न्यः द्वितीयांत्येत्रिष्टुभौ | (भेदपक्षे-विश्वेदेवाः ६ देवपत्न्यः २ एवं ८) |
हयो॒ न वि॒द्वाँ अ॑युजि स्व॒यं धु॒रि तां व॑हामि प्र॒तर॑णीमव॒स्युवं॑ । नास्या॑ वश्मि वि॒मुचं॒ नावृतं॒ पुन॑र्वि॒द्वान्प॒थः पु॑रए॒त ऋ॒जु ने॑षति ॥
हयः॑ , न , वि॒द्वान् , अ॒यु॒जि॒ , स्व॒यं , धु॒रि , तां , व॒हा॒मि॒ , प्र॒ऽतर॑णीं , अ॒व॒स्युवं॑ । न , अ॒स्याः॒ , व॒श्मि॒ , वि॒ऽमुचं॑ , न , आ॒ऽवृतं॑ , पुनः॑ , वि॒द्वान् , प॒थः , पु॒रः॒ऽए॒ता , ऋ॒जु , ने॒ष॒ति॒ ॥
अग्न॒ इंद्र॒ वरु॑ण॒ मित्र॒ देवाः॒ शर्धः॒ प्र यं॑त॒ मारु॑तो॒त वि॑ष्णो । उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भगः॒ सर॑स्वती जुषंत ॥
अग्ने॑ , इंद्र॑ , वरु॑ण , मित्र॑ , देवाः॑ , शर्धः॑ , प्र , यं॒त॒ , मारु॑त , उ॒त , वि॒ष्णो॒ इति॑ । उ॒भा , नास॑त्या , रु॒द्रः , अध॑ , ग्नाः , पू॒षा , भगः॑ , सर॑स्वती , जु॒षं॒त॒ ॥
इं॒द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्वः॑ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ अ॒पः । हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं॑ सवि॒तार॑मू॒तये॑ ॥
इं॒द्रा॒ग्नी इति॑ , मि॒त्रावरु॑णा , अदि॑तिं , स्व१॒॑रिति॒ स्वः॑ , पृ॒थि॒वीं , द्यां , म॒रुतः॑ , पर्व॑तान् , अ॒पः । हु॒वे , विष्णुं॑ , पू॒षणं॑ , ब्रह्म॑णः , पतिं॑ , भगं॑ , नु , शंसं॑ , स॒वि॒तारं॑ , ऊ॒तये॑ ॥
उ॒त नो॒ विष्णु॑रु॒त वातो॑ अ॒स्रिधो॑ द्रविणो॒दा उ॒त सोमो॒ मय॑स्करत् । उ॒त ऋ॒भव॑ उ॒त रा॒ये नो॑ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ॥
उ॒त , नः॒ , विष्णुः॑ , उ॒त , वातः॑ , अ॒स्रिधः॑ , द्र॒वि॒णः॒ऽदाः , उ॒त , सोमः॑ , मयः॑ , क॒र॒त् । उ॒त , ऋ॒भवः॑ , उ॒त , रा॒ये , नः॒ , अ॒श्विना॑ , उ॒त , त्वष्टा॑ , उ॒त , विऽभ्वा॑ , अनु॑ , मं॒स॒ते॒ ॥
उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद्दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे॑ । बृह॒स्पतिः॒ शर्म॑ पू॒षोत नो॑ यमद्वरू॒थ्यं१॒॑ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥
उ॒त , त्यत् , नः॒ , मारु॑तं , शर्धः॑ , आ , ग॒म॒त् , दि॒वि॒ऽक्ष॒यं , य॒ज॒तं , ब॒र्हिः , आ॒ऽसदे॑ । बृह॒स्पतिः॑ , शर्म॑ , पू॒षा , उ॒त , नः॒ , य॒म॒त् , व॒रू॒थ्यं॑ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा ॥
उ॒त त्ये नः॒ पर्व॑तासः सुश॒स्तयः॑ सुदी॒तयो॑ न॒द्य१॒॑स्त्राम॑णे भुवन् । भगो॑ विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा॒ अदि॑तिः श्रोतु मे॒ हवं॑ ॥
उ॒त , त्ये , नः॒ , पर्व॑तासः , सु॒ऽश॒स्तयः॑ , सु॒ऽदी॒तयः॑ , न॒द्यः॑ , त्राम॑णे , भु॒व॒न् । भगः॑ , वि॒ऽभ॒क्ता , शव॑सा , अव॑सा , आ , ग॒म॒त् , उ॒रु॒ऽव्यचाः॑ , अदि॑तिः , श्रो॒तु॒ , मे॒ , हवं॑ ॥
दे॒वानां॒ पत्नी॑रुश॒तीर॑वंतु नः॒ प्रावं॑तु नस्तु॒जये॒ वाज॑सातये । याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सुहवाः॒ शर्म॑ यच्छत ॥
दे॒वानां॑ , पत्नीः॑ , उ॒श॒तीः , अ॒वं॒तु॒ , नः॒ , प्र , अ॒वं॒तु॒ , नः॒ , तु॒जये॑ , वाज॑ऽसातये । याः , पार्थि॑वासः , याः , अ॒पां , अपि॑ , व्र॒ते , ताः , नः॒ , दे॒वीः॒ , सु॒ऽह॒वाः॒ , शर्म॑ , य॒च्छ॒त॒ ॥
उ॒त ग्ना व्यं॑तु दे॒वप॑त्नीरिंद्रा॒ण्य१॒॑ग्नाय्य॒श्विनी॒ राट् । आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यंतु॑ दे॒वीर्य ऋ॒तुर्जनी॑नां ॥
उ॒त , ग्नाः , व्यं॒तु॒ , दे॒वऽप॑त्नीः , इं॒द्रा॒णी , अ॒ग्नायी॑ , अ॒श्विनी॑ , राट् । आ , रोद॑सी॒ इति॑ , व॒रु॒णा॒नी , शृ॒णो॒तु॒ , व्यंतु॑ , दे॒वीः , यः , ऋ॒तुः , जनी॑नां ॥
[४७] प्रयुंजतीति सप्तर्चस्य सूक्तस्यात्रेयः प्रतिरथोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - उषाः १ सूर्यरश्मयः १ सूर्यः ३ विश्वेदेवाः १ मित्रावरुणाग्नयः १ एवं ७) |
प्र॒युं॒ज॒ती दि॒व ए॑ति ब्रुवा॒णा म॒ही मा॒ता दु॑हि॒तुर्बो॒धयं॑ती । आ॒विवा॑संती युव॒तिर्म॑नी॒षा पि॒तृभ्य॒ आ सद॑ने॒ जोहु॑वाना ॥
प्र॒ऽयुं॒ज॒ती , दि॒वः , ए॒ति॒ , ब्रु॒वा॒णा , म॒ही , मा॒ता , दु॒हि॒तुः , बो॒धयं॑ती । आ॒ऽविवा॑संती , यु॒व॒तिः , म॒नी॒षा , पि॒तृऽभ्यः॑ , आ , सद॑ने , जोहु॑वाना ॥
अ॒जि॒रास॒स्तद॑प॒ ईय॑माना आतस्थि॒वांसो॑ अ॒मृत॑स्य॒ नाभिं॑ । अ॒नं॒तास॑ उ॒रवो॑ वि॒श्वतः॑ सीं॒ परि॒ द्यावा॑पृथि॒वी यं॑ति॒ पंथाः॑ ॥
अ॒जि॒रासः॑ , तत्ऽअ॑पः , ईय॑मानाः , आ॒त॒स्थि॒ऽवांसः॑ , अ॒मृत॑स्य , नाभिं॑ । अ॒नं॒तासः॑ , उ॒रवः॑ , वि॒श्वतः॑ , सीं॒ , परि॑ , द्यावा॑पृथि॒वी इति॑ , यं॒ति॒ , पंथाः॑ ॥
उ॒क्षा स॑मु॒द्रो अ॑रु॒षः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरा वि॑वेश । मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यंतौ॑ ॥
उ॒क्षा , स॒मु॒द्रः , अ॒रु॒षः , सु॒ऽप॒र्णः , पूर्व॑स्य , योनिं॑ , पि॒तुः , आ , वि॒वे॒श॒ । मध्ये॑ , दि॒वः , निऽहि॑तः , पृश्निः॑ , अश्मा॑ , वि , च॒क्र॒मे॒ , रज॑सः , पा॒ति॒ , अंतौ॑ ॥
च॒त्वार॑ ईं बिभ्रति क्षेम॒यंतो॒ दश॒ गर्भं॑ च॒रसे॑ धापयंते । त्रि॒धात॑वः पर॒मा अ॑स्य॒ गावो॑ दि॒वश्च॑रंति॒ परि॑ स॒द्यो अंता॑न् ॥
च॒त्वारः॑ , ईं॒ , बि॒भ्र॒ति॒ , क्षे॒म॒ऽयंतः॑ , दश॑ , गर्भं॑ , च॒रसे॑ , धा॒प॒यं॒ते॒ । त्रि॒ऽधात॑वः , प॒र॒माः , अ॒स्य॒ , गावः॑ , दि॒वः , च॒रं॒ति॒ , परि॑ , स॒द्यः , अंता॑न् ॥
इ॒दं वपु॑र्नि॒वच॑नं जनास॒श्चरं॑ति॒ यन्न॒द्य॑स्त॒स्थुरापः॑ । द्वे यदीं॑ बिभृ॒तो मा॒तुर॒न्ये इ॒हेह॑ जा॒ते य॒म्या॒३॒॑ सबं॑धू ॥
इ॒दं , वपुः॑ , नि॒ऽवच॑नं , ज॒ना॒सः॒ , चरं॑ति , यत् , न॒द्यः॑ , त॒स्थुः , आपः॑ । द्वे इति॑ , यत् , ईं॒ , बि॒भृ॒तः , मा॒तुः , अ॒न्ये इति॑ , इ॒हऽइ॑ह , जा॒ते इति॑ , य॒म्या॑ , सबं॑धू॒ इति॒ सऽबं॑धू ॥
वि त॑न्वते॒ धियो॑ अस्मा॒ अपां॑सि॒ वस्त्रा॑ पु॒त्राय॑ मा॒तरो॑ वयंति । उ॒प॒प्र॒क्षे वृष॑णो॒ मोद॑माना दि॒वस्प॒था व॒ध्वो॑ यं॒त्यच्छ॑ ॥
वि , त॒न्व॒ते॒ , धियः॑ , अ॒स्मै॒ , अपां॑सि , वस्त्रा॑ , पु॒त्राय॑ , मा॒तरः॑ , व॒यं॒ति॒ । उ॒प॒ऽप्र॒क्षे , वृष॑णः , मोद॑मानाः , दि॒वः , प॒था , व॒ध्वः॑ , यं॒ति॒ , अच्छ॑ ॥
तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तं । अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो॑ दि॒वे बृ॑ह॒ते साद॑नाय ॥
तत् , अ॒स्तु॒ , मि॒त्रा॒व॒रु॒णा॒ , तत् , अ॒ग्ने॒ , शं , योः , अ॒स्मभ्यं॑ , इ॒दं , अ॒स्तु॒ , श॒स्तं । अ॒शी॒महि॑ , गा॒धं , उ॒त , प्र॒ति॒ऽस्थां , नमः॑ , दि॒वे , बृ॒ह॒ते , सद॑नाय ॥
[४८] कदुप्रियायेति पंचर्चस्य सूक्तस्यात्रेयः प्रतिभानुर्विश्वेदेवाजगती | (भेदपक्षे - विद्युतोग्निः १ उषाः १ इंद्रसूर्यौ १ अग्निः २ एवं ५) |
कदु॑ प्रि॒याय॒ धाम्ने॑ मनामहे॒ स्वक्ष॑त्राय॒ स्वय॑शसे म॒हे व॒यं । आ॒मे॒न्यस्य॒ रज॑सो॒ यद॒भ्र आँ अ॒पो वृ॑णा॒ना वि॑त॒नोति॑ मा॒यिनी॑ ॥
कत् , ऊँ॒ इति॑ , प्रि॒याय॑ , धाम्ने॑ , म॒ना॒म॒हे॒ , स्वऽक्ष॑त्राय , स्वऽय॑शसे , म॒हे , व॒यं । आ॒ऽमे॒न्यस्य॑ , रज॑सः , यत् , अ॒भ्रे , आ , अ॒पः , वृ॒णा॒ना , वि॒ऽत॒नोति॑ , मा॒यिनी॑ ॥
ता अ॑त्नत व॒युनं॑ वी॒रव॑क्षणं समा॒न्या वृ॒तया॒ विश्व॒मा रजः॑ । अपो॒ अपा॑ची॒रप॑रा॒ अपे॑जते॒ प्र पूर्वा॑भिस्तिरते देव॒युर्जनः॑ ॥
ताः , अ॒त्न॒त॒ , व॒युनं॑ , वी॒रऽव॑क्षणं , स॒मा॒न्या , वृ॒तया॑ , विश्वं॑ , आ , रजः॑ । अपो॒ इति॑ , अपा॑चीः , अप॑राः , अप॑ , ई॒ज॒ते॒ , प्र , पूर्वा॑भिः , ति॒र॒ते॒ , दे॒व॒ऽयुः , जनः॑ ॥
आ ग्राव॑भिरह॒न्ये॑भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑ । श॒तं वा॒ यस्य॑ प्र॒चरं॒त्स्वे दमे॑ संव॒र्तयं॑तो॒ वि च॑ वर्तय॒न्नहा॑ ॥
आ , ग्राव॑ऽभिः , अ॒ह॒न्ये॑भिः , अ॒क्तुऽभिः॑ , वरि॑ष्ठं , वज्रं॑ , आ , जि॒घ॒र्ति॒ , मा॒यिनि॑ । श॒तं , वा॒ , यस्य॑ , प्र॒ऽचर॑न् , स्वे , दमे॑ , सं॒ऽव॒र्तयं॑तः , वि , च॒ , व॒र्त॒य॒न् , अहा॑ ॥
ताम॑स्य री॒तिं प॑र॒शोरि॑व॒ प्रत्यनी॑कमख्यं भु॒जे अ॑स्य॒ वर्प॑सः । सचा॒ यदि॑ पितु॒मंत॑मिव॒ क्षयं॒ रत्नं॒ दधा॑ति॒ भर॑हूतये वि॒शे ॥
तां , अ॒स्य॒ , री॒तिं , प॒र॒शोःऽइ॑व , प्रति॑ , अनी॑कं , अ॒ख्यं॒ , भु॒जे , अ॒स्य॒ , वर्प॑सः । सचा॑ , यदि॑ , पि॒तु॒मंतं॑ऽइव , क्षयं॑ , रत्नं॑ , दधा॑ति , भर॑ऽहूतये , वि॒शे ॥
स जि॒ह्वया॒ चतु॑रनीक ऋंजते॒ चारु॒ वसा॑नो॒ वरु॑णो॒ यत॑न्न॒रिं । न तस्य॑ विद्म पुरुष॒त्वता॑ व॒यं यतो॒ भगः॑ सवि॒ता दाति॒ वार्यं॑ ॥
सः , जि॒ह्वया॑ , चतुः॑ऽअनीकः , ऋं॒ज॒ते॒ , चारु॑ , वसा॑नः , वरु॑णः , यत॑न् , अ॒रिं । न , तस्य॑ , वि॒द्म॒ , पु॒रु॒ष॒त्वता॑ , व॒यं , यतः॑ , भगः॑ , स॒वि॒ता , दाति॑ , वार्यं॑ ॥
[४९] देवंवइति पंचर्चस्य सूक्तस्यात्रेयः प्रतिप्रभुर्विश्वेदेवास्त्रिष्टुप् अंत्यातृणपाणिः | (भेदपक्षे - विश्वेदेवाः १ सूर्यः १ विश्वेदेवाः ३ एवं ५) |
दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे॒ भगं॑ च॒ रत्नं॑ वि॒भजं॑तमा॒योः । आ वां॑ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ॥
दे॒वं , वः॒ , अ॒द्य , स॒वि॒तारं॑ , आ , ई॒षे॒ , भगं॑ , च॒ , रत्नं॑ , वि॒ऽभजं॑तं , आ॒योः । आ , वां॒ , न॒रा॒ , पु॒रु॒ऽभु॒जा॒ , व॒वृ॒त्यां॒ , दि॒वेऽदि॑वे , चि॒त् , अ॒श्वि॒ना॒ , स॒खि॒ऽयन् ॥
प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वांत्सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य । उप॑ ब्रुवीत॒ नम॑सा विजा॒नंज्येष्ठं॑ च॒ रत्नं॑ वि॒भजं॑तमा॒योः ॥
प्रति॑ , प्र॒ऽयानं॑ , असु॑रस्य , वि॒द्वान् , सु॒ऽउ॒क्तैः , दे॒वं , स॒वि॒तारं॑ , दु॒व॒स्य॒ । उप॑ , ब्रु॒वी॒त॒ , नम॑सा , वि॒ऽजा॒नन् , ज्येष्ठं॑ , च॒ , रत्नं॑ , वि॒ऽभजं॑तं , आ॒योः ॥
अ॒द॒त्र॒या द॑यते॒ वार्या॑णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः । इंद्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा॑नि भ॒द्रा ज॑नयंत द॒स्माः ॥
अ॒द॒त्र॒ऽया , द॒य॒ते॒ , वार्या॑णि , पू॒षा , भगः॑ , अदि॑तिः , वस्ते॑ , उ॒स्रः । इंद्रः॑ , विष्णुः॑ , वरु॑णः , मि॒त्रः , अ॒ग्निः , अहा॑नि , भ॒द्रा , ज॒न॒यं॒त॒ , द॒स्माः ॥
तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं॒ तत्सिंध॑व इ॒षयं॑तो॒ अनु॑ ग्मन् । उप॒ यद्वोचे॑ अध्व॒रस्य॒ होता॑ रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः ॥
तत् , नः॒ , अ॒न॒र्वा , स॒वि॒ता , वरू॑थं , तत् , सिंध॑वः , इ॒षयं॑तः , अनु॑ , ग्म॒न् । उप॑ , यत् , वोचे॑ , अ॒ध्व॒रस्य॑ , होता॑ , रा॒यः , स्या॒म॒ , पत॑यः , वाज॑ऽरत्नाः ॥
प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा॑चः । अवै॒त्वभ्वं॑ कृणु॒ता वरी॑यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ॥
प्र , ये , वसु॑ऽभ्यः , ईव॑त् , आ , नमः॑ , दुः , ये , मि॒त्रे , वरु॑णे , सू॒क्तऽवा॑चः । अव॑ , ए॒तु॒ , अभ्वं॑ , कृ॒णु॒त , वरी॑यः , दि॒वःपृ॑थि॒व्योः , अव॑सा , म॒दे॒म॒ ॥
[५०] विश्वोदेवस्येति पंचर्चस्य सूक्तस्य स्वस्त्यात्रेयोविश्वेदेवाअनुष्टुप्अंत्यापंक्तिः | (भेदपक्षे - सविता २ विश्वेदेवाः १ सविता २ एवं ५) |
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यं । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॑ ॥
विश्वः॑ , दे॒वस्य॑ , ने॒तुः , मर्तः॑ , वु॒री॒त॒ , स॒ख्यं । विश्वः॑ , रा॒ये , इ॒षु॒ध्य॒ति॒ , द्यु॒म्नं , वृ॒णी॒त॒ , पु॒ष्यसे॑ ॥
ते ते॑ देव नेत॒र्ये चे॒माँ अ॑नु॒शसे॑ । ते रा॒या ते ह्या॒३॒॑पृचे॒ सचे॑महि सच॒थ्यैः॑ ॥
ते , ते॒ , दे॒व॒ , ने॒तः॒ , ये , च॒ , इ॒मान् , अ॒नु॒ऽशसे॑ । ते , रा॒या , ते , हि , आ॒ऽपृचे॑ , सचे॑महि , स॒च॒थ्यैः॑ ॥
अतो॑ न॒ आ नॄनति॑थी॒नतः॒ पत्नी॑र्दशस्यत । आ॒रे विश्वं॑ पथे॒ष्ठां द्वि॒षो यु॑योतु॒ यूयु॑विः ॥
अतः॑ , नः॒ , आ , नॄन् , अति॑थीन् , अतः॑ , पत्नीः॑ , द॒श॒स्य॒त॒ । आ॒रे , विश्वं॑ , प॒थे॒ऽस्थां , द्वि॒षः , यु॒यो॒तु॒ , युयु॑विः ॥
यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द्द्रोण्यः॑ प॒शुः । नृ॒मणा॑ वी॒रप॒स्त्योऽर्णा॒ धीरे॑व॒ सनि॑ता ॥
यत्र॑ , वह्निः॑ , अ॒भिऽहि॑तः , दु॒द्रव॑त् , द्रोण्यः॑ , प॒शुः । नृ॒ऽमनाः॑ , वी॒रऽप॑स्त्यः , अर्णा॑ , धीरा॑ऽइव , सनि॑ता ॥
ए॒ष ते॑ देव नेता॒ रथ॒स्पतिः॒ शं र॒यिः । शं रा॒ये शं स्व॒स्तय॑ इषः॒स्तुतो॑ मनामहे देव॒स्तुतो॑ मनामहे ॥
ए॒षः , ते॒ , दे॒व॒ , ने॒त॒रिति॑ , रथः॒पतिः॑ , शं , र॒यिः । शं , रा॒ये , शं , स्व॒स्तये॑ , इ॒षः॒ऽस्तुतः॑ , म॒ना॒म॒हे॒ , दे॒व॒ऽस्तुतः॑ , म॒ना॒म॒हे॒ ॥
[५१] अग्नेसुतस्येति पंचदशर्चस्य सूक्तस्य स्वस्त्यात्रेयो विश्वेदेवाश्चतुर्थीषष्टीसप्तमीनामिंद्रवायू पंचम्यावायुः आद्याश्चतस्रो गायत्र्यः पंचम्यादिषळुष्णिहः एकादश्यादितिस्रोजगत्यः (त्रिष्टुभोवा) अंत्येद्वेअनुष्टुभौ | (भेदपक्षे - अग्निः २ विश्वेदेवाः १ इंद्रवायू १ वायुः १ इंद्रवायू २ अग्निः ३ विश्वेदेवाः ५ एवं १५) |
अग्ने॑ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे॑भि॒रा ग॑हि । दे॒वेभि॑र्ह॒व्यदा॑तये ॥
अग्ने॑ , सु॒तस्य॑ , पी॒तये॑ , विश्वैः॑ , ऊमे॑भिः , आ , ग॒हि॒ । दे॒वेभिः॑ , ह॒व्यऽदा॑तये ॥
ऋत॑धीतय॒ आ ग॑त॒ सत्य॑धर्माणो अध्व॒रं । अ॒ग्नेः पि॑बत जि॒ह्वया॑ ॥
ऋत॑ऽधीतयः , आ , ग॒त॒ , सत्य॑ऽधर्माणः , अ॒ध्व॒रं । अ॒ग्नेः , पि॒ब॒त॒ , जि॒ह्वया॑ ॥
विप्रे॑भिर्विप्र संत्य प्रात॒र्याव॑भि॒रा ग॑हि । दे॒वेभिः॒ सोम॑पीतये ॥
विप्रे॑भिः , वि॒प्र॒ , सं॒त्य॒ , प्रा॒त॒र्याव॑ऽभिः , आ , ग॒हि॒ । दे॒वेभिः॑ , सोम॑ऽपीतये ॥
अ॒यं सोम॑श्च॒मू सु॒तोऽम॑त्रे॒ परि॑ षिच्यते । प्रि॒य इंद्रा॑य वा॒यवे॑ ॥
अ॒यं , सोमः॑ , च॒मू इति॑ , सु॒तः , अम॑त्रे , परि॑ , सि॒च्य॒ते॒ । प्रि॒यः , इंद्रा॑य , वा॒यवे॑ ॥
वाय॒वा या॑हि वी॒तये॑ जुषा॒णो ह॒व्यदा॑तये । पिबा॑ सु॒तस्यांध॑सो अ॒भि प्रयः॑ ॥
वायो॒ इति॑ , आ , या॒हि॒ , वी॒तये॑ , जु॒षा॒णः , ह॒व्यऽदा॑तये । पिब॑ , सु॒तस्य॑ , अंध॑सः , अ॒भि , प्रयः॑ ॥
इंद्र॑श्च वायवेषां सु॒तानां॑ पी॒तिम॑र्हथः । तांजु॑षेथामरे॒पसा॑व॒भि प्रयः॑ ॥
इंद्रः॑ , च॒ , वा॒यो॒ इति॑ , ए॒षां॒ , सु॒तानां॑ , पी॒तिं , अ॒र्ह॒थः॒ । तान् , जु॒षे॒थां॒ , अ॒रे॒पसौ॑ , अ॒भि , प्रयः॑ ॥
सु॒ता इंद्रा॑य वा॒यवे॒ सोमा॑सो॒ दध्या॑शिरः । नि॒म्नं न यं॑ति॒ सिंध॑वो॒ऽभि प्रयः॑ ॥
सु॒ताः , इंद्रा॑य , वा॒यवे॑ , सोमा॑सः , दधि॑ऽआशिरः । नि॒म्नं , न , यं॒ति॒ , सिंध॑वः , अ॒भि , प्रयः॑ ॥
स॒जूर्विश्वे॑भिर्दे॒वेभि॑र॒श्विभ्या॑मु॒षसा॑ स॒जूः । आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥
स॒ऽजूः , विश्वे॑भिः , दे॒वेभिः॑ , अ॒श्विऽभ्यां॑ , उ॒षसा॑ , स॒ऽजूः । आ , या॒हि॒ , अ॒ग्ने॒ , अ॒त्रि॒ऽवत् , सु॒ते , रण॒ ॥
स॒जूर्मि॒त्रावरु॑णाभ्यां स॒जूः सोमे॑न॒ विष्णु॑ना । आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥
स॒ऽजूः , मि॒त्रावरु॑णाभ्यां , स॒ऽजूः , सोमे॑न , विष्णु॑ना । आ , या॒हि॒ , अ॒ग्ने॒ , अ॒त्रि॒ऽवत् , सु॒ते , रण॒ ॥
स॒जूरा॑दि॒त्यैर्वसु॑भिः स॒जूरिंद्रे॑ण वा॒युना॑ । आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥
स॒ऽजूः , आ॒दि॒त्यैः , वसु॑ऽभिः , स॒ऽजूः , इंद्रे॑ण , वा॒युना॑ । आ , या॒हि॒ , अ॒ग्ने॒ , अ॒त्रि॒ऽवत् , सु॒ते , रण॒ ॥
स्व॒स्ति नो॑ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑ । स्व॒स्ति पू॒षा असु॑रो दधातु नः स्व॒स्ति द्यावा॑पृथि॒वी सु॑चे॒तुना॑ ॥
स्व॒स्ति , नः॒ , मि॒मी॒तां॒ , अ॒श्विना॑ , भगः॑ , स्व॒स्ति , दे॒वी , अदि॑तिः , अ॒न॒र्वणः॑ । स्व॒स्ति , पू॒षा , असु॑रः , द॒धा॒तु॒ , नः॒ , स्व॒स्ति , द्यावा॑पृथि॒वी इति॑ , सु॒ऽचे॒तुना॑ ॥
स्व॒स्तये॑ वा॒युमुप॑ ब्रवामहै॒ सोमं॑ स्व॒स्ति भुव॑नस्य॒ यस्पतिः॑ । बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये॑ स्व॒स्तय॑ आदि॒त्यासो॑ भवंतु नः ॥
स्व॒स्तये॑ , वा॒युं , उप॑ , ब्र॒वा॒म॒है॒ , सोमं॑ , स्व॒स्ति , भुव॑नस्य , यः , पतिः॑ । बृह॒स्पतिं॑ , सर्व॑ऽगणं , स्व॒स्तये॑ , स्व॒स्तये॑ , आ॒दि॒त्यासः॑ , भ॒वं॒तु॒ , नः॒ ॥
विश्वे॑ दे॒वा नो॑ अ॒द्या स्व॒स्तये॑ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये॑ । दे॒वा अ॑वंत्वृ॒भवः॑ स्व॒स्तये॑ स्व॒स्ति नो॑ रु॒द्रः पा॒त्वंह॑सः ॥
विश्वे॑ , दे॒वाः , नः॒ , अ॒द्य , स्व॒स्तये॑ , वै॒श्वा॒न॒रः , वसुः॑ , अ॒ग्निः , स्व॒स्तये॑ । दे॒वाः , अ॒वं॒तु॒ , ऋ॒भवः॑ , स्व॒स्तये॑ , स्व॒स्ति , नः॒ , रु॒द्रः , पा॒तु॒ , अंह॑सः ॥
स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति । स्व॒स्ति न॒ इंद्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो॑ अदिते कृधि ॥
स्व॒स्ति , मि॒त्रा॒व॒रु॒णा॒ , स्व॒स्ति , प॒थ्ये॒ , रे॒व॒ति॒ । स्व॒स्ति , नः॒ , इंद्रः॑ , च॒ , अ॒ग्निः , च॒ , स्व॒स्ति , नः॒ , अ॒दि॒ते॒ , कृ॒धि॒ ॥
स्व॒स्ति पंथा॒मनु॑ चरेम सूर्याचंद्र॒मसा॑विव । पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि ॥
स्व॒स्ति , पंथां॑ , अनु॑ , च॒रे॒म॒ , सू॒र्या॒चं॒द्र॒मसौ॑ऽइव । पुनः॑ , दद॑ता , अघ्न॑ता , जा॒न॒ता , सं , ग॒मे॒म॒हि॒ ॥
[५२] प्रश्यावाश्वेति सप्तदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोनुष्टुप् षष्ठीषोडशीसप्तदश्यःपंक्त्यः |
प्र श्या॑वाश्व धृष्णु॒यार्चा॑ म॒रुद्भि॒र्ऋक्व॑भिः । ये अ॑द्रो॒घम॑नुष्व॒धं श्रवो॒ मदं॑ति य॒ज्ञियाः॑ ॥
प्र , श्या॒व॒ऽअ॒श्व॒ , धृ॒ष्णु॒ऽया , अर्च॑ , म॒रुत्ऽभिः॑ , ऋक्व॑ऽभिः । ये , अ॒द्रो॒घं , अ॒नु॒ऽस्व॒धं , श्रवः॑ , मदं॑ति , य॒ज्ञियाः॑ ॥
ते हि स्थि॒रस्य॒ शव॑सः॒ सखा॑यः॒ संति॑ धृष्णु॒या । ते याम॒न्ना धृ॑ष॒द्विन॒स्त्मना॑ पांति॒ शश्व॑तः ॥
ते , हि , स्थि॒रस्य॑ , शव॑सः , सखा॑यः , संति॑ , धृ॒ष्णु॒ऽया । ते , याम॑न् , आ , धृ॒ष॒त्ऽविनः॑ , त्मना॑ , पां॒ति॒ , शश्व॑तः ॥
ते स्पं॒द्रासो॒ नोक्षणोऽति॑ ष्कंदंति॒ शर्व॑रीः । म॒रुता॒मधा॒ महो॑ दि॒वि क्ष॒मा च॑ मन्महे ॥
ते , स्पं॒द्रासः॑ , न , उ॒क्षणः॑ , अति॑ , स्कं॒दं॒ति॒ , शर्व॑रीः । म॒रुतां॑ , अध॑ , महः॑ , दि॒वि , क्ष॒मा , च॒ , म॒न्म॒हे॒ ॥
म॒रुत्सु॑ वो दधीमहि॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या । विश्वे॒ ये मानु॑षा यु॒गा पांति॒ मर्त्यं॑ रि॒षः ॥
म॒रुत्ऽसु॑ , वः॒ , द॒धी॒म॒हि॒ , स्तोमं॑ , य॒ज्ञं , च॒ , धृ॒ष्णु॒ऽया । विश्वे॑ , ये , मानु॑षा , यु॒गा , पांति॑ , मर्त्यं॑ , रि॒षः ॥
अर्हं॑तो॒ ये सु॒दान॑वो॒ नरो॒ असा॑मिशवसः । प्र य॒ज्ञं य॒ज्ञिये॑भ्यो दि॒वो अ॑र्चा म॒रुद्भ्यः॑ ॥
अर्हं॑तः , ये , सु॒ऽदान॑वः , नरः॑ , असा॑मिऽशवसः । प्र , य॒ज्ञं , य॒ज्ञिये॑भ्यः , दि॒वः , अ॒र्च॒ , म॒रुत्ऽभ्यः॑ ॥
आ रु॒क्मैरा यु॒धा नर॑ ऋ॒ष्वा ऋ॒ष्टीर॑सृक्षत । अन्वे॑नाँ॒ अह॑ वि॒द्युतो॑ म॒रुतो॒ जज्झ॑तीरिव भा॒नुर॑र्त॒ त्मना॑ दि॒वः ॥
आ , रु॒क्मैः , आ , यु॒धा , नरः॑ , ऋ॒ष्वाः , ऋ॒ष्टीः , अ॒सृ॒क्ष॒त॒ । अनु॑ , ए॒ना॒न् , अह॑ , वि॒ऽद्युतः॑ , म॒रुतः॑ , जज्झ॑तीःऽइव , भा॒नुः , अ॒र्त॒ , त्मना॑ , दि॒वः ॥
ये वा॑वृ॒धंत॒ पार्थि॑वा॒ य उ॒रावं॒तरि॑क्ष॒ आ । वृ॒जने॑ वा न॒दीनां॑ स॒धस्थे॑ वा म॒हो दि॒वः ॥
ये , व॒वृ॒धंत॑ , पार्थि॑वाः , ये , उ॒रौ , अं॒तरि॑क्षे , आ । वृ॒जने॑ , वा॒ , न॒दीनां॑ , स॒धऽस्थे॑ , वा॒ , म॒हः , दि॒वः ॥
शर्धो॒ मारु॑त॒मुच्छं॑स स॒त्यश॑वस॒मृभ्व॑सं । उ॒त स्म॒ ते शु॒भे नरः॒ प्र स्पं॒द्रा यु॑जत॒ त्मना॑ ॥
शर्धः॑ , मारु॑तं , उत् , शं॒स॒ , स॒त्यऽश॑वसं , ऋभ्व॑सं । उ॒त , स्म॒ , ते , शु॒भे , नरः॑ , प्र , स्पं॒द्राः , यु॒ज॒त॒ , त्मना॑ ॥
उ॒त स्म॒ ते परु॑ष्ण्या॒मूर्णा॑ वसत शुं॒ध्यवः॑ । उ॒त प॒व्या रथा॑ना॒मद्रिं॑ भिंदं॒त्योज॑सा ॥
उ॒त , स्म॒ , ते , परु॑ष्ण्यां , ऊर्णाः॑ , व॒स॒त॒ , शुं॒ध्यवः॑ । उ॒त , प॒व्या , रथा॑नां , अद्रिं॑ , भिं॒दं॒ति॒ , ओज॑सा ॥
आप॑थयो॒ विप॑थ॒योऽन्त॑स्पथा॒ अनु॑पथाः । ए॒तेभि॒र्मह्यं॒ नाम॑भिर्य॒ज्ञं वि॑ष्टा॒र ओ॑हते ॥
आप॑थयः , विऽप॑थयः , अंतः॑ऽपथाः , अनु॑ऽपथाः । ए॒तेभिः॑ , मह्यं॑ , नाम॑ऽभिः , य॒ज्ञं , वि॒ऽस्ता॒रः , ओ॒ह॒ते॒ ॥
अधा॒ नरो॒ न्यो॑ह॒तेऽधा॑ नि॒युत॑ ओहते । अधा॒ पारा॑वता॒ इति॑ चि॒त्रा रू॒पाणि॒ दर्श्या॑ ॥
अध॑ , नरः॑ , नि , ओ॒ह॒ते॒ , अध॑ , नि॒ऽयुतः॑ , ओ॒ह॒ते॒ । अध॑ , पारा॑वताः , इति॑ , चि॒त्रा , रू॒पाणि॑ , दर्श्या॑ ॥
छं॒दः॒स्तुभः॑ कुभ॒न्यव॒ उत्स॒मा की॒रिणो॑ नृतुः । ते मे॒ के चि॒न्न ता॒यव॒ ऊमा॑ आसंदृ॒शि त्वि॒षे ॥
छं॒दः॒ऽस्तुभः॑ , कु॒भ॒न्यवः॑ , उत्सं॑ , आ , की॒रिणः॑ , नृ॒तुः॒ । ते , मे॒ , के , चि॒त् , न , ता॒यवः॑ , ऊमाः॑ , आ॒स॒न् , दृ॒शि , त्वि॒षे ॥
य ऋ॒ष्वा ऋ॒ष्टिवि॑द्युतः क॒वयः॒ संति॑ वे॒धसः॑ । तमृ॑षे॒ मारु॑तं ग॒णं न॑म॒स्या र॒मया॑ गि॒रा ॥
ये , ऋ॒ष्वाः , ऋ॒ष्टिऽवि॑द्युतः , क॒वयः॑ , संति॑ , वे॒धसः॑ । तं , ऋ॒षे॒ , मारु॑तं , ग॒णं , न॒म॒स्य , र॒मय॑ , गि॒रा ॥
अच्छ॑ ऋषे॒ मारु॑तं ग॒णं दा॒ना मि॒त्रं न यो॒षणा॑ । दि॒वो वा॑ धृष्णव॒ ओज॑सा स्तु॒ता धी॒भिरि॑षण्यत ॥
अच्छ॑ , ऋ॒षे॒ , मारु॑तं , ग॒णं , दा॒ना , मि॒त्रं , न , यो॒षणा॑ । दि॒वः , वा॒ , धृ॒ष्ण॒वः॒ , ओज॑सा , स्तु॒ताः , धी॒भिः , इ॒ष॒ण्य॒त॒ ॥
नू म॑न्वा॒न ए॑षां दे॒वाँ अच्छा॒ न व॒क्षणा॑ । दा॒ना स॑चेत सू॒रिभि॒र्याम॑श्रुतेभिरं॒जिभिः॑ ॥
नु , म॒न्वा॒नः , ए॒षां॒ , दे॒वान् , अच्छ॑ , न , व॒क्षणा॑ । दा॒ना , स॒चे॒त॒ , सू॒रिऽभिः॑ , याम॑ऽश्रुतेभिः , अं॒जिऽभिः॑ ॥
प्र ये मे॑ बंध्वे॒षे गां वोचं॑त सू॒रयः॒ पृश्निं॑ वोचंत मा॒तरं॑ । अधा॑ पि॒तर॑मि॒ष्मिणं॑ रु॒द्रं वो॑चंत॒ शिक्व॑सः ॥
प्र , ये , मे॒ , बं॒धु॒ऽए॒षे , गां , वोचं॑त , सू॒रयः॑ , पृश्निं॑ , वो॒चं॒त॒ , मा॒तरं॑ । अध॑ , पि॒तरं॑ , इ॒ष्मिणं॑ , रु॒द्रं , वो॒चं॒त॒ , शिक्व॑सः ॥
स॒प्त मे॑ स॒प्त शा॒किन॒ एक॑मेका श॒ता द॑दुः । य॒मुना॑या॒मधि॑ श्रु॒तमुद्राधो॒ गव्यं॑ मृजे॒ नि राधो॒ अश्व्यं॑ मृजे ॥
स॒प्त , मे॒ , स॒प्त , शा॒किनः॑ , एकं॑ऽएका , श॒ता , द॒दुः॒ । य॒मुना॑यां , अधि॑ , श्रु॒तं , उत् , राधः॑ , गव्यं॑ , मृ॒जे॒ , नि , राधः॑ , अश्व्यं॑ , मृ॒जे॒ ॥
[५३] कोवेदेति षोळशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतः क्रमेणककुप्बृहत्यनुष्टुप्पुरउष्णिक्ककुप् सतोबृहती सतोबृहती गायत्री सतोबृहती ककुप्ककुब्गायत्री सतोबृहती सतोबृहती ककुप् सतोबृहत्यः |
को वे॑द॒ जान॑मेषां॒ को वा॑ पु॒रा सु॒म्नेष्वा॑स म॒रुतां॑ । यद्यु॑यु॒ज्रे कि॑ला॒स्यः॑ ॥
कः , वे॒द॒ , जानं॑ , ए॒षां॒ , कः , वा॒ , पु॒रा , सु॒म्नेषु॑ , आ॒स॒ , म॒रुतां॑ । यत् , यु॒यु॒ज्रे , कि॒ला॒स्यः॑ ॥
ऐतान्रथे॑षु त॒स्थुषः॒ कः शु॑श्राव क॒था य॑युः । कस्मै॑ सस्रुः सु॒दासे॒ अन्वा॒पय॒ इळा॑भिर्वृ॒ष्टयः॑ स॒ह ॥
आ , ए॒तान् , रथे॑षु , त॒स्थुषः॑ , कः , शु॒श्रा॒व॒ , क॒था , य॒युः॒ । कस्मै॑ , स॒स्रुः॒ , सु॒ऽदासे॑ , अनु॑ , आ॒पयः॑ , इळा॑भिः , वृ॒ष्टयः॑ , स॒ह ॥
ते म॑ आहु॒र्य आ॑य॒युरुप॒ द्युभि॒र्विभि॒र्मदे॑ । नरो॒ मर्या॑ अरे॒पस॑ इ॒मान्पश्य॒न्निति॑ ष्टुहि ॥
ते , मे॒ , आ॒हुः॒ , ये , आ॒ऽय॒युः , उप॑ , द्युऽभिः॑ , विऽभिः॑ , मदे॑ । नरः॑ , मर्याः॑ , अ॒रे॒पसः॑ , इ॒मान् , पश्य॑न् , इति॑ , स्तु॒हि॒ ॥
ये अं॒जिषु॒ ये वाशी॑षु॒ स्वभा॑नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑ । श्रा॒या रथे॑षु॒ धन्व॑सु ॥
ये , अं॒जिषु॑ , ये , वाशी॑षु , स्वऽभा॑नवः , स्र॒क्षु , रु॒क्मेषु॑ , खा॒दिषु॑ । श्रा॒याः , रथे॑षु , धन्व॑ऽसु ॥
यु॒ष्माकं॑ स्मा॒ रथाँ॒ अनु॑ मु॒दे द॑धे मरुतो जीरदानवः । वृ॒ष्टी द्यावो॑ य॒तीरि॑व ॥
यु॒ष्माकं॑ , स्म॒ , रथा॑न् , अनु॑ , मु॒दे , द॒धे॒ , म॒रु॒तः॒ , जी॒र॒ऽदा॒न॒वः॒ । वृ॒ष्टी , द्यावः॑ , य॒तीःऽइ॑व ॥
आ यं नरः॑ सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः । वि प॒र्जन्यं॑ सृजंति॒ रोद॑सी॒ अनु॒ धन्व॑ना यंति वृ॒ष्टयः॑ ॥
आ , यं , नरः॑ , सु॒ऽदान॑वः , द॒दा॒शुषे॑ , दि॒वः , कोशं॑ , अचु॑च्यवुः । वि , प॒र्जन्यं॑ , सृ॒जं॒ति॒ , रोद॑सी॒ इति॑ , अनु॑ , धन्व॑ना , यं॒ति॒ , वृ॒ष्टयः॑ ॥
त॒तृ॒दा॒नाः सिंध॑वः॒ क्षोद॑सा॒ रजः॒ प्र स॑स्रुर्धे॒नवो॑ यथा । स्य॒न्ना अश्वा॑ इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद्वर्तं॑त ए॒न्यः॑ ॥
त॒तृ॒दा॒नाः , सिंध॑वः , क्षोद॑सा , रजः॑ , प्र , स॒स्रुः॒ , धे॒नवः॑ , य॒था॒ । स्य॒न्नाः , अश्वाः॑ऽइव , अध्व॑नः , वि॒ऽमोच॑ने , वि , यत् , वर्तं॑ते , ए॒न्यः॑ ॥
आ या॑त मरुतो दि॒व आंतरि॑क्षाद॒मादु॒त । माव॑ स्थात परा॒वतः॑ ॥
आ , या॒त॒ , म॒रु॒तः॒ , दि॒वः , आ , अं॒तरि॑क्षात् , अ॒मात् , उ॒त । मा , अव॑ , स्था॒त॒ , प॒रा॒ऽवतः॑ ॥
मा वो॑ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा वः॒ सिंधु॒र्नि री॑रमत् । मा वः॒ परि॑ ष्ठात्स॒रयुः॑ पुरी॒षिण्य॒स्मे इत्सु॒म्नम॑स्तु वः ॥
मा , वः॒ , र॒सा , अनि॑तभा , कुभा॑ , क्रुमुः॑ , मा , वः॒ , सिंधुः॑ , नि , री॒र॒म॒त् । मा , वः॒ , परि॑ , स्था॒त् , स॒रयुः॑ , पु॒री॒षिणी॑ , अ॒स्मे इति॑ , इत् , सु॒म्नं , अ॒स्तु॒ , वः॒ ॥
तं वः॒ शर्धं॒ रथा॑नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनां । अनु॒ प्र यं॑ति वृ॒ष्टयः॑ ॥
तं , वः॒ , शर्धं॑ , रथा॑नां , त्वे॒षं , ग॒णं , मारु॑तं , नव्य॑सीनां । अनु॑ , प्र , यं॒ति॒ , वृ॒ष्टयः॑ ॥
शर्धं॑शर्धं व एषां॒ व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभिः॑ । अनु॑ क्रामेम धी॒तिभिः॑ ॥
शर्धं॑ऽशर्धं , वः॒ , ए॒षां॒ , व्रातं॑ऽव्रातं , ग॒णंऽग॑णं , सु॒श॒स्तिऽभिः॑ । अनु॑ , क्रा॒मे॒म॒ , धी॒तिऽभिः॑ ॥
कस्मा॑ अ॒द्य सुजा॑ताय रा॒तह॑व्याय॒ प्र य॑युः । ए॒ना यामे॑न म॒रुतः॑ ॥
कस्मै॑ , अ॒द्य , सुऽजा॑ताय , रा॒तऽह॑व्याय , प्र , य॒युः॒ । ए॒ना , यामे॑न , म॒रुतः॑ ॥
येन॑ तो॒काय॒ तन॑याय धा॒न्यं१॒॑ बीजं॒ वह॑ध्वे॒ अक्षि॑तं । अ॒स्मभ्यं॒ तद्ध॑त्तन॒ यद्व॒ ईम॑हे॒ राधो॑ वि॒श्वायु॒ सौभ॑गं ॥
येन॑ , तो॒काय॑ , तन॑याय , धा॒न्यं॑ , बीजं॑ , वह॑ध्वे , अक्षि॑तं । अ॒स्मभ्यं॑ , तत् , ध॒त्त॒न॒ , यत् , वः॒ , ईम॑हे , राधः॑ , वि॒श्वऽआ॑यु , सौभ॑गं ॥
अती॑याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा॑तीः । वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे॑ष॒जं स्याम॑ मरुतः स॒ह ॥
अति॑ , इ॒या॒म॒ , नि॒दः , ति॒रः , स्व॒स्तिऽभिः॑ , हि॒त्वा , अ॒व॒द्यं , अरा॑तीः । वृ॒ष्ट्वी , सं , योः , आपः॑ , उ॒स्रि , भे॒ष॒जं , स्याम॑ , म॒रु॒तः॒ , स॒ह ॥
सु॒दे॒वः स॑महासति सु॒वीरो॑ नरो मरुतः॒ स मर्त्यः॑ । यं त्राय॑ध्वे॒ स्याम॒ ते ॥
सु॒ऽदे॒वः , स॒म॒ह॒ , अ॒स॒ति॒ , सु॒ऽवीरः॑ , न॒रः॒ , म॒रु॒तः॒ , सः , मर्त्यः॑ । यं , त्राय॑ध्वे , स्याम॑ , ते ॥
स्तु॒हि भो॒जांत्स्तु॑व॒तो अ॑स्य॒ याम॑नि॒ रण॒न्गावो॒ न यव॑से । य॒तः पूर्वाँ॑ इव॒ सखीँ॒रनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिनः॑ ॥
स्तु॒हि , भो॒जान् , स्तु॒व॒तः , अ॒स्य॒ , याम॑नि , रण॑न् , गावः॑ , न , यव॑से । य॒तः , पूर्वा॑न्ऽइव , सखी॑न् , अनु॑ , ह्व॒य॒ , गि॒रा , गृ॒णी॒हि॒ , का॒मिनः॑ ॥
[५४] प्रशर्धायेति पंचदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोजगती चतुर्दशीत्रिष्टुप् |
प्र शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नव इ॒मां वाच॑मनजा पर्वत॒च्युते॑ । घ॒र्म॒स्तुभे॑ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत ॥
प्र , शर्धा॑य , मारु॑ताय , स्वऽभा॑नवे , इ॒मां , वाचं॑ , अ॒न॒ज॒ , प॒र्व॒त॒ऽच्युते॑ । घ॒र्म॒ऽस्तुभे॑ , दि॒वः , आ , पृ॒ष्ठ॒ऽयज्व॑ने , द्यु॒म्नऽश्र॑वसे , महि॑ , नृ॒म्णं , अ॒र्च॒त॒ ॥
प्र वो॑ मरुतस्तवि॒षा उ॑द॒न्यवो॑ वयो॒वृधो॑ अश्व॒युजः॒ परि॑ज्रयः । सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वरं॒त्यापो॒ऽवना॒ परि॑ज्रयः ॥
प्र , वः॒ , म॒रु॒तः॒ , त॒वि॒षाः , उ॒द॒न्यवः॑ , व॒यः॒ऽवृधः॑ , अ॒श्व॒ऽयुजः॑ , परि॑ऽज्रयः । सं , वि॒ऽद्युता॑ , दध॑ति , वाश॑ति , त्रि॒तः , स्वरं॑ति , आपः॑ , अ॒वना॑ , परि॑ऽज्रयः ॥
वि॒द्युन्म॑हसो॒ नरो॒ अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुतः॑ पर्वत॒च्युतः॑ । अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा॑दुनी॒वृतः॑ स्त॒नय॑दमा रभ॒सा उदो॑जसः ॥
वि॒द्युत्ऽम॑हसः , नरः॑ , अश्म॑ऽदिद्यवः , वात॑ऽत्विषः , म॒रुतः॑ , प॒र्व॒त॒ऽच्युतः॑ । अ॒ब्द॒ऽया , चि॒त् , मुहुः॑ , आ , ह्रा॒दु॒नि॒ऽवृतः॑ , स्त॒नय॑त्ऽअमाः , र॒भ॒साः , उत्ऽओ॑जसः ॥
व्य१॒॑क्तून्रु॑द्रा॒ व्यहा॑नि शिक्वसो॒ व्य१॒॑न्तरि॑क्षं॒ वि रजां॑सि धूतयः । वि यदज्राँ॒ अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ ॥
वि , अ॒क्तून् , रु॒द्राः॒ , वि , अहा॑नि , शि॒क्व॒सः॒ , वि , अं॒तरि॑क्षं , वि , रजां॑सि , धू॒त॒यः॒ । वि , यत् , अज्रा॑न् , अज॑थ , नावः॑ , ईं॒ , य॒था॒ , वि , दुः॒ऽगानि॑ , म॒रु॒तः॒ , न , अह॑ , रि॒ष्य॒थ॒ ॥
तद्वी॒र्यं॑ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नं । एता॒ न यामे॒ अगृ॑भीतशोचि॒षोऽन॑श्वदां॒ यन्न्यया॑तना गि॒रिं ॥
तत् , वी॒र्यं॑ , वः॒ , म॒रु॒तः॒ , म॒हि॒ऽत्व॒नं , दी॒र्घं , त॒ता॒न॒ , सूर्यः॑ , न , योज॑नं । एताः॑ , न , यामे॑ , अगृ॑भीतऽशोचिषः , अन॑श्वऽदां , यत् , नि , अया॑तन , गि॒रिं ॥
अभ्रा॑जि॒ शर्धो॑ मरुतो॒ यद॑र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः । अध॑ स्मा नो अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यंत॒मनु॑ नेषथा सु॒गं ॥
अभ्रा॑जि , शर्धः॑ , म॒रु॒तः॒ , यत् , अ॒र्ण॒सं , मोष॑थ , वृ॒क्षं , क॒प॒नाऽइ॑व , वे॒ध॒सः॒ । अध॑ , स्म॒ , नः॒ , अ॒रम॑तिं , स॒ऽजो॒ष॒सः॒ , चक्षुः॑ऽइव , यंतं॑ , अनु॑ , ने॒ष॒थ॒ , सु॒ऽगं ॥
न स जी॑यते मरुतो॒ न ह॑न्यते॒ न स्रे॑धति॒ न व्य॑थते॒ न रि॑ष्यति । नास्य॒ राय॒ उप॑ दस्यंति॒ नोतय॒ ऋषिं॑ वा॒ यं राजा॑नं वा॒ सुषू॑दथ ॥
न , सः , जी॒य॒ते॒ , म॒रु॒तः॒ , न , ह॒न्य॒ते॒ , न , स्रे॒ध॒ति॒ , न , व्य॒थ॒ते॒ , न , रि॒ष्य॒ति॒ । न , अ॒स्य॒ , रायः॑ , उप॑ , द॒स्यं॒ति॒ , न , ऊ॒तयः॑ , ऋषिं॑ , वा॒ , यं , राजा॑नं , वा॒ , सुसू॑दथ ॥
नि॒युत्वं॑तो ग्राम॒जितो॒ यथा॒ नरो॑ऽर्य॒मणो॒ न म॒रुतः॑ कवं॒धिनः॑ । पिन्वं॒त्युत्सं॒ यदि॒नासो॒ अस्व॑र॒न्व्युं॑दंति पृथि॒वीं मध्वो॒ अंध॑सा ॥
नि॒युत्वं॑तः , ग्रा॒म॒ऽजितः॑ , यथा॑ , नरः॑ , अ॒र्य॒मणः॑ , न , म॒रुतः॑ , क॒वं॒धिनः॑ । पिन्वं॑ति , उत्सं॑ , यत् , इ॒नासः॑ , अस्व॑रन् , वि , उं॒दं॒ति॒ , पृ॒थि॒वीं , मध्वः॑ , अंध॑सा ॥
प्र॒वत्व॑ती॒यं पृ॑थि॒वी म॒रुद्भ्यः॑ प्र॒वत्व॑ती॒ द्यौर्भ॑वति प्र॒यद्भ्यः॑ । प्र॒वत्व॑तीः प॒थ्या॑ अं॒तरि॑क्ष्याः प्र॒वत्वं॑तः॒ पर्व॑ता जी॒रदा॑नवः ॥
प्र॒वत्व॑ती , इ॒यं , पृ॒थि॒वी , म॒रुत्ऽभ्यः॑ , प्र॒वत्व॑ती , द्यौः , भ॒व॒ति॒ , प्र॒यत्ऽभ्यः॑ । प्र॒वत्व॑तीः , प॒थ्याः॑ , अं॒तरि॑क्ष्याः , प्र॒वत्वं॑तः , पर्व॑ताः , जी॒रऽदा॑नवः ॥
यन्म॑रुतः सभरसः स्वर्णरः॒ सूर्य॒ उदि॑ते॒ मद॑था दिवो नरः । न वोऽश्वाः॑ श्रथयं॒ताह॒ सिस्र॑तः स॒द्यो अ॒स्याध्व॑नः पा॒रम॑श्नुथ ॥
यत् , म॒रु॒तः॒ , स॒ऽभ॒र॒सः॒ , स्वः॒ऽन॒रः॒ , सूर्ये॑ , उत्ऽइ॑ते , मद॑थ , दि॒वः॒ , न॒रः॒ । न , वः॒ , अश्वाः॑ , श्र॒थ॒यं॒त॒ , अह॑ , सिस्र॑तः , स॒द्यः , अ॒स्य , अध्व॑नः , पा॒रं , अ॒श्नु॒थ॒ ॥
अंसे॑षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयो॒ वक्षः॑सु रु॒क्मा म॑रुतो॒ रथे॒ शुभः॑ । अ॒ग्निभ्रा॑जसो वि॒द्युतो॒ गभ॑स्त्योः॒ शिप्राः॑ शी॒र्षसु॒ वित॑ता हिर॒ण्ययीः॑ ॥
अंसे॑षु , वः॒ , ऋ॒ष्टयः॑ , प॒त्ऽसु , खा॒दयः॑ , वक्षः॑ऽसु , रु॒क्माः , म॒रु॒तः॒ , रथे॑ , शुभः॑ । अ॒ग्निऽभ्रा॑जसः , वि॒ऽद्युतः॑ , गभ॑स्त्योः , शिप्राः॑ , शी॒र्षऽसु॑ , विऽत॑ताः , हि॒र॒ण्ययीः॑ ॥
तं नाक॑म॒र्यो अगृ॑भीतशोचिषं॒ रुश॒त्पिप्प॑लं मरुतो॒ वि धू॑नुथ । सम॑च्यंत वृ॒जनाति॑त्विषंत॒ यत्स्वरं॑ति॒ घोषं॒ वित॑तमृता॒यवः॑ ॥
तं , नाकं॑ , अ॒र्यः , अगृ॑भीतऽशोचिषं , रुश॑त् , पिप्प॑लं , म॒रु॒तः॒ , वि , धू॒नु॒थ॒ । सं , अ॒च्यं॒त॒ , वृ॒जना॑ , अति॑त्विषंत , यत् , स्वरं॑ति , घोषं॑ , विऽत॑तं , ऋ॒त॒ऽयवः॑ ॥
यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः । न यो युच्छ॑ति ति॒ष्यो॒३॒॑ यथा॑ दि॒वो॒३॒॑ऽस्मे रा॑रंत मरुतः सह॒स्रिणं॑ ॥
यु॒ष्माऽद॑त्तस्य , म॒रु॒तः॒ , वि॒ऽचे॒त॒सः॒ , रा॒यः , स्या॒म॒ , र॒थ्यः॑ , वय॑स्वतः । न , यः , युच्छ॑ति , ति॒ष्यः॑ , यथा॑ , दि॒वः , अ॒स्मे इति॑ , र॒रं॒त॒ , म॒रु॒तः॒ , स॒ह॒स्रिणं॑ ॥
यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी॑रं यू॒यमृषि॑मवथ॒ साम॑विप्रं । यू॒यमर्वं॑तं भर॒ताय॒ वाजं॑ यू॒यं ध॑त्थ॒ राजा॑नं श्रुष्टि॒मंतं॑ ॥
यू॒यं , र॒यिं , म॒रु॒तः॒ , स्पा॒र्हऽवी॑रं , यू॒यं , ऋषिं॑ , अ॒व॒थ॒ , साम॑ऽविप्रं । यू॒यं , अर्वं॑तं , भ॒र॒ताय॑ , वाजं॑ , यू॒यं , ध॒त्थ॒ , राजा॑नं , श्रु॒ष्टि॒ऽमंतं॑ ॥
तद्वो॑ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॒॑र्ण त॒तना॑म॒ नॄँर॒भि । इ॒दं सु मे॑ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे॑म॒ तर॑सा श॒तं हिमाः॑ ॥
तत् , वः॒ , या॒मि॒ , द्रवि॑णं , स॒द्यः॒ऽऊ॒त॒यः॒ , येन॑ , स्वः॑ , न , त॒तना॑म , नॄन् , अ॒भि । इ॒दं , सु , मे॒ , म॒रु॒तः॒ , ह॒र्य॒त॒ , वचः॑ , यस्य॑ , तरे॑म , तर॑सा , श॒तं , हिमाः॑ ॥
[५५] प्रयज्यवइति दशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्यात्रिष्टुप् |
प्रय॑ज्यवो म॒रुतो॒ भ्राज॑दृष्टयो बृ॒हद्वयो॑ दधिरे रु॒क्मव॑क्षसः । ईयं॑ते॒ अश्वैः॑ सु॒यमे॑भिरा॒शुभिः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
प्रऽय॑ज्यवः , म॒रुतः॑ , भ्राज॑त्ऽऋष्टयः , बृ॒हत् , वयः॑ , द॒धि॒रे॒ , रु॒क्मऽव॑क्षसः । ईयं॑ते , अश्वैः॑ , सु॒ऽयमे॑भिः , आ॒शुऽभिः॑ , शुभं॑ , या॒तां , अनु॑ , रथाः॑ , अ॒वृ॒त्स॒त॒ ॥
स्व॒यं द॑धिध्वे॒ तवि॑षीं॒ यथा॑ वि॒द बृ॒हन्म॑हांत उर्वि॒या वि रा॑जथ । उ॒तांतरि॑क्षं ममिरे॒ व्योज॑सा॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
स्व॒यं , द॒धि॒ध्वे॒ , तवि॑षीं , यथा॑ , वि॒द , बृ॒हत् , म॒हां॒तः॒ , उ॒र्वि॒या , वि , रा॒ज॒थ॒ । उ॒त , अं॒तरि॑क्षं , म॒मि॒रे॒ , वि , ओज॑सा , शुभं॑ , या॒तां , अनु॑ , रथाः॑ , अ॒वृ॒त्स॒त॒ ॥
सा॒कं जा॒ताः सु॒भ्वः॑ सा॒कमु॑क्षि॒ताः श्रि॒ये चि॒दा प्र॑त॒रं वा॑वृधु॒र्नरः॑ । वि॒रो॒किणः॒ सूर्य॑स्येव र॒श्मयः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
सा॒कं , जा॒ताः , सु॒ऽभ्वः॑ , सा॒कं , उ॒क्षि॒ताः , श्रि॒ये , चि॒त् , आ , प्र॒ऽत॒रं , व॒वृ॒धुः॒ , नरः॑ । वि॒ऽरो॒किणः॑ , सूर्य॑स्यऽइव , र॒श्मयः॑ , शुभं॑ , या॒तां , अनु॑ , रथाः॑ , अ॒वृ॒त्स॒त॒ ॥
आ॒भू॒षेण्यं॑ वो मरुतो महित्व॒नं दि॑दृ॒क्षेण्यं॒ सूर्य॑स्येव॒ चक्ष॑णं । उ॒तो अ॒स्माँ अ॑मृत॒त्वे द॑धातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
आ॒ऽभू॒षेण्यं॑ , वः॒ , म॒रु॒तः॒ , म॒हि॒ऽत्व॒नं , दि॒दृ॒क्षेण्यं॑ , सूर्य॑स्यऽइव , चक्ष॑णं । उ॒तो इति॑ , अ॒स्मान् , अ॒मृ॒त॒ऽत्वे , द॒धा॒त॒न॒ , शुभं॑ , या॒तां , अनु॑ , रथाः॑ , अ॒वृ॒त्स॒त॒ ॥
उदी॑रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः । न वो॑ दस्रा॒ उप॑ दस्यंति धे॒नवः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
उत् , ई॒र॒य॒थ॒ , म॒रु॒तः॒ , स॒मु॒द्र॒तः , यू॒यं , वृ॒ष्टिं , व॒र्ष॒य॒थ॒ , पु॒री॒षि॒णः॒ । न , वः॒ , द॒स्रा॒ , उप॑ , द॒स्यं॒ति॒ , धे॒नवः॑ , शुभं॑ , या॒तां , अनु॑ , रथाः॑ , अ॒वृ॒त्स॒त॒ ॥
यदश्वां॑धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न्प्रत्यत्काँ॒ अमु॑ग्ध्वं । विश्वा॒ इत्स्पृधो॑ मरुतो॒ व्य॑स्यथ॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
यत् , अश्वा॑न् , धूः॒ऽसु , पृष॑तीः , अयु॑ग्ध्वं , हि॒र॒ण्यया॑न् , प्रति॑ , अत्का॑न् , अमु॑ग्ध्वं । विश्वाः॑ , इत् , स्पृधः॑ , म॒रु॒तः॒ , वि , अ॒स्य॒थ॒ , शुभं॑ , या॒तां , अनु॑ , रथाः॑ , अ॒वृ॒त्स॒त॒ ॥
न पर्व॑ता॒ न न॒द्यो॑ वरंत वो॒ यत्राचि॑ध्वं मरुतो॒ गच्छ॒थेदु॒ तत् । उ॒त द्यावा॑पृथि॒वी या॑थना॒ परि॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
न , पर्व॑ताः , न , न॒द्यः॑ , व॒रं॒त॒ , वः॒ , यत्र॑ , अचि॑ध्वं , म॒रु॒तः॒ , गच्छ॑थ , इत् , ऊँ॒ इति॑ , तत् । उ॒त , द्यावा॑पृथि॒वी इति॑ , या॒थ॒न॒ , परि॑ , शुभं॑ , या॒तां , अनु॑ , रथाः॑ , अ॒वृ॒त्स॒त॒ ॥
यत्पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते॑ वसवो॒ यच्च॑ श॒स्यते॑ । विश्व॑स्य॒ तस्य॑ भवथा॒ नवे॑दसः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
यत् , पू॒र्व्यं , म॒रु॒तः॒ , यत् , च॒ , नूत॑नं , यत् , उ॒द्यते॑ , व॒स॒वः॒ , यत् , च॒ , श॒स्यते॑ । विश्व॑स्य , तस्य॑ , भ॒व॒थ॒ , नवे॑दसः , शुभं॑ , या॒तां , अनु॑ , रथाः॑ , अ॒वृ॒त्स॒त॒ ॥
मृ॒ळत॑ नो मरुतो॒ मा व॑धिष्टना॒स्मभ्यं॒ शर्म॑ बहु॒लं वि यं॑तन । अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
मृ॒ळत॑ , नः॒ , म॒रु॒तः॒ , मा , व॒धि॒ष्ट॒न॒ , अ॒स्मभ्यं॑ , शर्म॑ , ब॒हु॒लं , वि , यं॒त॒न॒ । अधि॑ , स्तो॒त्रस्य॑ , स॒ख्यस्य॑ , गा॒त॒न॒ , शुभं॑ , या॒तां , अनु॑ , रथाः॑ , अ॒वृ॒त्स॒त॒ ॥
यू॒यम॒स्मान्न॑यत॒ वस्यो॒ अच्छा॒ निरं॑ह॒तिभ्यो॑ मरुतो गृणा॒नाः । जु॒षध्वं॑ नो ह॒व्यदा॑तिं यजत्रा व॒यं स्या॑म॒ पत॑यो रयी॒णां ॥
यू॒यं , अ॒स्मान् , न॒य॒त॒ , वस्यः॑ , अच्छ॑ , निः , अं॒ह॒तिऽभ्यः॑ , म॒रु॒तः॒ , गृ॒णा॒नाः । जु॒षध्वं॑ , नः॒ , ह॒व्यऽदा॑तिं , य॒ज॒त्राः॒ , व॒यं , स्या॒म॒ , पत॑यः , र॒यी॒णां ॥
[५६] अग्नेशर्धंतमिति नवर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोबृहती तृतीया सप्तम्यौसतोबृहत्यौ |
अग्ने॒ शर्धं॑त॒मा ग॒णं पि॒ष्टं रु॒क्मेभि॑रं॒जिभिः॑ । विशो॑ अ॒द्य म॒रुता॒मव॑ ह्वये दि॒वश्चि॑द्रोच॒नादधि॑ ॥
अग्ने॑ , शर्धं॑तं , आ , ग॒णं , पि॒ष्टं , रु॒क्मेभिः॑ , अं॒जिऽभिः॑ । विशः॑ , अ॒द्य , म॒रुतां॑ , अव॑ , ह्व॒ये॒ , दि॒वः , चि॒त् , रो॒च॒नात् , अधि॑ ॥
यथा॑ चि॒न्मन्य॑से हृ॒दा तदिन्मे॑ जग्मुरा॒शसः॑ । ये ते॒ नेदि॑ष्ठं॒ हव॑नान्या॒गमं॒तान्व॑र्ध भी॒मसं॑दृशः ॥
यथा॑ , चि॒त् , मन्य॑से , हृ॒दा , तत् , इत् , मे॒ , ज॒ग्मुः॒ , आ॒ऽशसः॑ । ये , ते॒ , नेदि॑ष्ठं , हव॑नानि , आ॒ऽगम॑न् , तान् , व॒र्ध॒ , भी॒मऽसं॑दृशः ॥
मी॒ळ्हुष्म॑तीव पृथि॒वी परा॑हता॒ मदं॑त्येत्य॒स्मदा । ऋक्षो॒ न वो॑ मरुतः॒ शिमी॑वाँ॒ अमो॑ दु॒ध्रो गौरि॑व भीम॒युः ॥
मी॒ळ्हुष्म॑तीऽइव , पृ॒थि॒वी , परा॑ऽहता , मदं॑ती , ए॒ति॒ , अ॒स्मत् , आ । ऋक्षः॑ , न , वः॒ , म॒रु॒तः॒ , शिमी॑ऽवान् , अमः॑ , दु॒ध्रः , गौःऽइ॑व , भी॒म॒ऽयुः ॥
नि ये रि॒णंत्योज॑सा॒ वृथा॒ गावो॒ न दु॒र्धुरः॑ । अश्मा॑नं चित्स्व॒र्यं१॒॑ पर्व॑तं गि॒रिं प्र च्या॑वयंति॒ याम॑भिः ॥
नि , ये , रि॒णंति॑ , ओज॑सा , वृथा॑ , गावः॑ , न , दुः॒ऽधुरः॑ । अश्मा॑नं , चि॒त् , स्व॒र्यं॑ , पर्व॑तं , गि॒रिं , प्र , च्य॒व॒यं॒ति॒ , याम॑ऽभिः ॥
उत्ति॑ष्ठ नू॒नमे॑षां॒ स्तोमैः॒ समु॑क्षितानां । म॒रुतां॑ पुरु॒तम॒मपू॑र्व्यं॒ गवां॒ सर्ग॑मिव ह्वये ॥
उत् , ति॒ष्ठ॒ , नू॒नं , ए॒षां॒ , स्तोमैः॑ , संऽउ॑क्षितानां । म॒रुतां॑ , पु॒रु॒ऽतमं॑ , अपू॑र्व्यं , गवां॑ , सर्गं॑ऽइव , ह्व॒ये॒ ॥
युं॒ग्ध्वं ह्यरु॑षी॒ रथे॑ युं॒ग्ध्वं रथे॑षु रो॒हितः॑ । युं॒ग्ध्वं हरी॑ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ॥
युं॒ग्ध्वं , हि , अरु॑षीः , रथे॑ , युं॒ग्ध्वं , रथे॑षु , रो॒हितः॑ । युं॒ग्ध्वं , हरी॒ इति॑ , अ॒जि॒रा , धु॒रि , वोळ्ह॑वे , वहि॑ष्ठा , धु॒रि , वोळ्ह॑वे ॥
उ॒त स्य वा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒ह स्म॑ धायि दर्श॒तः । मा वो॒ यामे॑षु मरुतश्चि॒रं क॑र॒त्प्र तं रथे॑षु चोदत ॥
उ॒त , स्यः , वा॒जी , अ॒रु॒षः , तु॒वि॒ऽस्वणिः॑ , इ॒ह , स्म॒ , धा॒यि॒ , द॒र्श॒तः । मा , वः॒ , यामे॑षु , म॒रु॒तः॒ , चि॒रं , क॒र॒त् , प्र , तं , रथे॑षु , चो॒द॒त॒ ॥
रथं॒ नु मारु॑तं व॒यं श्र॑व॒स्युमा हु॑वामहे । आ यस्मिं॑त॒स्थौ सु॒रणा॑नि॒ बिभ्र॑ती॒ सचा॑ म॒रुत्सु॑ रोद॒सी ॥
रथं॑ , नु , मारु॑तं , व॒यं , श्र॒व॒स्युं , आ , हु॒वा॒म॒हे॒ । आ , यस्मि॑न् , त॒स्थौ , सु॒ऽरणा॑नि , बिभ्र॑ती , सचा॑ , म॒रुत्ऽसु॑ , रो॒द॒सी ॥
तं वः॒ शर्धं॑ रथे॒शुभं॑ त्वे॒षं प॑न॒स्युमा हु॑वे । यस्मिं॒त्सुजा॑ता सु॒भगा॑ मही॒यते॒ सचा॑ म॒रुत्सु॑ मीळ्हु॒षी ॥
तं , वः॒ , शर्धं॑ , र॒थे॒ऽशुभं॑ , त्वे॒षं , प॒न॒स्युं , आ , हु॒वे॒ । यस्मि॑न् , सुऽजा॑ता , सु॒ऽभगा॑ , म॒ही॒यते॑ , सचा॑ , म॒रुत्ऽसु॑ , मी॒ळ्हु॒षी ॥
[५७] आरुद्रासइत्यष्टर्चस्यसूक्तस्यात्रेयः श्यावाश्वोमरुतोजगत्यंत्येद्वेत्रिष्टुभौ |
आ रु॑द्रास॒ इंद्र॑वंतः स॒जोष॑सो॒ हिर॑ण्यरथाः सुवि॒ताय॑ गंतन । इ॒यं वो॑ अ॒स्मत्प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा॑ उद॒न्यवे॑ ॥
आ , रु॒द्रा॒सः॒ , इंद्र॑ऽवंतः , स॒ऽजोष॑सः , हिर॑ण्यऽरथाः , सु॒वि॒ताय॑ , गं॒त॒न॒ । इ॒यं , वः॒ , अ॒स्मत् , प्रति॑ , ह॒र्य॒ते॒ , म॒तिः , तृ॒ष्णऽजे॑ , न , दि॒वः , उत्साः॑ , उ॒द॒न्यवे॑ ॥
वाशी॑मंत ऋष्टि॒मंतो॑ मनी॒षिणः॑ सु॒धन्वा॑न॒ इषु॑मंतो निषं॒गिणः॑ । स्वश्वाः॑ स्थ सु॒रथाः॑ पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभं॑ ॥
वाशी॑ऽमंतः , ऋ॒ष्टि॒ऽमंतः॑ , म॒नी॒षिणः॑ , सु॒ऽधन्वा॑नः , इषु॑ऽमंतः , नि॒षं॒गिणः॑ । सु॒ऽअश्वाः॑ , स्थ॒ , सु॒ऽरथाः॑ , पृ॒श्नि॒ऽमा॒त॒रः॒ , सु॒ऽआ॒यु॒धाः , म॒रु॒तः॒ , या॒थ॒न॒ , शुभं॑ ॥
धू॒नु॒थ द्यां पर्व॑तांदा॒शुषे॒ वसु॒ नि वो॒ वना॑ जिहते॒ याम॑नो भि॒या । को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः शु॒भे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वं ॥
धू॒नु॒थ , द्यां , पर्व॑तान् , दा॒शुषे॑ , वसु॑ , नि , वः॒ , वना॑ , जि॒ह॒ते॒ , याम॑नः , भि॒या । को॒पय॑थ , पृ॒थि॒वीं , पृ॒श्नि॒ऽमा॒त॒रः॒ , शु॒भे , यत् , उ॒ग्राः॒ , पृष॑तीः , अयु॑ग्ध्वं ॥
वात॑त्विषो म॒रुतो॑ व॒र्षनि॑र्णिजो य॒मा इ॑व॒ सुस॑दृशः सु॒पेश॑सः । पि॒शंगा॑श्वा अरु॒णाश्वा॑ अरे॒पसः॒ प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रवः॑ ॥
वात॑ऽत्विषः , म॒रुतः॑ , व॒र्षऽनि॑र्निजः , य॒माःऽइ॑व , सुऽस॑दृशः , सु॒ऽपेश॑सः । पि॒शंग॑ऽअश्वाः , अ॒रु॒णऽअ॑श्वाः , अ॒रे॒पसः॑ , प्रऽत्व॑क्षसः , म॒हि॒ना , द्यौःऽइ॑व , उ॒रवः॑ ॥
पु॒रु॒द्र॒प्सा अं॑जि॒मंतः॑ सु॒दान॑वस्त्वे॒षसं॑दृशो अनव॒भ्ररा॑धसः । सु॒जा॒तासो॑ ज॒नुषा॑ रु॒क्मव॑क्षसो दि॒वो अ॒र्का अ॒मृतं॒ नाम॑ भेजिरे ॥
पु॒रु॒ऽद्र॒प्साः , अं॒जि॒ऽमंतः॑ , सु॒ऽदान॑वः , त्वे॒षऽसं॑दृशः , अ॒न॒व॒भ्रऽरा॑धसः । सु॒ऽजा॒तासः॑ , ज॒नुषा॑ , रु॒क्मऽव॑क्षसः , दि॒वः , अ॒र्काः , अ॒मृतं॑ , नाम॑ , भे॒जि॒रे॒ ॥
ऋ॒ष्टयो॑ वो मरुतो॒ अंस॑यो॒रधि॒ सह॒ ओजो॑ बा॒ह्वोर्वो॒ बलं॑ हि॒तं । नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे॑षु वो॒ विश्वा॑ वः॒ श्रीरधि॑ त॒नूषु॑ पिपिशे ॥
ऋ॒ष्टयः॑ , वः॒ , म॒रु॒तः॒ , अंस॑योः , अधि॑ , सहः॑ , ओजः॑ , बा॒ह्वोः , वः॒ , बलं॑ , हि॒तं । नृ॒म्णा , शी॒र्षऽसु॑ , आयु॑धा , रथे॑षु , वः॒ , विश्वा॑ , वः॒ , श्रीः , अधि॑ , त॒नूषु॑ , पि॒पि॒शे॒ ॥
गोम॒दश्वा॑व॒द्रथ॑वत्सु॒वीरं॑ चं॒द्रव॒द्राधो॑ मरुतो ददा नः । प्रश॑स्तिं नः कृणुत रुद्रियासो भक्षी॒य वोऽव॑सो॒ दैव्य॑स्य ॥
गोऽम॑त् , अश्व॑ऽवत् , रथ॑ऽवत् , सु॒ऽवीरं॑ , चं॒द्रऽव॑त् , राधः॑ , म॒रु॒तः॒ , द॒द॒ , नः॒ । प्रऽश॑स्तिं , नः॒ , कृ॒णु॒त॒ , रु॒द्रि॒या॒सः॒ , भ॒क्षी॒य , वः॒ , अव॑सः , दैव्य॑स्य ॥
ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः । सत्य॑श्रुतः॒ कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥
ह॒ये , नरः॑ , मरु॑तः , मृ॒ळत॑ , नः॒ , तुवि॑ऽमघासः , अमृ॑ताः , ऋत॑ऽज्ञाः । सत्य॑ऽश्रुतः , कव॑यः , युवा॑नः , बृह॑त्ऽगिरयः , बृ॒हत् , उ॒क्षमा॑णाः ॥
[५८] तमुनूनमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुप् |
तमु॑ नू॒नं तवि॑षीमंतमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनां । य आ॒श्व॑श्वा॒ अम॑व॒द्वहं॑त उ॒तेशि॑रे अ॒मृत॑स्य स्व॒राजः॑ ॥
तं , ऊँ॒ इति॑ , नू॒नं , तवि॑षीऽमंतं , ए॒षां॒ , स्तु॒षे , ग॒णं , मारु॑तं , नव्य॑सीनां । ये , आ॒शुऽअ॑श्वाः , अम॑ऽवत् , वहं॑ते , उ॒त , ई॒शि॒रे॒ , अ॒मृत॑स्य , स्व॒ऽराजः॑ ॥
त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि॑व्रतं मा॒यिनं॒ दाति॑वारं । म॒यो॒भुवो॒ ये अमि॑ता महि॒त्वा वंद॑स्व विप्र तुवि॒राध॑सो॒ नॄन् ॥
त्वे॒षं , ग॒णं , त॒वसं॑ , खादि॑ऽहस्तं , धुनि॑ऽव्रतं , मा॒यिनं॑ , दाति॑ऽवारं । म॒यः॒ऽभुवः॑ , ये , अमि॑ताः , म॒हि॒ऽत्वा , वंद॑स्व , वि॒प्र॒ , तु॒वि॒ऽराध॑सः , नॄन् ॥
आ वो॑ यंतूदवा॒हासो॑ अ॒द्य वृ॒ष्टिं ये विश्वे॑ म॒रुतो॑ जु॒नंति॑ । अ॒यं यो अ॒ग्निर्म॑रुतः॒ समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः ॥
आ , वः॒ , यं॒तु॒ , उ॒द॒ऽवा॒हासः॑ , अ॒द्य , वृ॒ष्टिं , ये , विश्वे॑ , म॒रुतः॑ , जु॒नंति॑ । अ॒यं , यः , अ॒ग्निः , म॒रु॒तः॒ , संऽइ॑द्धः , ए॒तं , जु॒ष॒ध्वं॒ , क॒व॒यः॒ , यु॒वा॒नः॒ ॥
यू॒यं राजा॑न॒मिर्यं॒ जना॑य विभ्वत॒ष्टं ज॑नयथा यजत्राः । यु॒ष्मदे॑ति मुष्टि॒हा बा॒हुजू॑तो यु॒ष्मत्सद॑श्वो मरुतः सु॒वीरः॑ ॥
यू॒यं , राजा॑नं , इर्यं॑ , जना॑य , वि॒भ्व॒ऽत॒ष्टं , ज॒न॒य॒थ॒ , य॒ज॒त्राः॒ । यु॒ष्मत् , ए॒ति॒ , मु॒ष्टि॒ऽहा , बा॒हुऽजू॑तः , यु॒ष्मत् , सत्ऽअ॑श्वः , म॒रु॒तः॒ , सु॒ऽवीरः॑ ॥
अ॒रा इ॒वेदच॑रमा॒ अहे॑व॒ प्रप्र॑ जायंते॒ अक॑वा॒ महो॑भिः । पृश्नेः॑ पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः॒ स्वया॑ म॒त्या म॒रुतः॒ सं मि॑मिक्षुः ॥
अ॒राःऽइ॑व , इत् , अच॑रमाः , अहा॑ऽइव , प्रऽप्र॑ , जा॒यं॒ते॒ , अक॑वाः , महः॑ऽभिः । पृश्नेः॑ , पु॒त्राः , उ॒प॒ऽमासः॑ , रभि॑ष्ठाः , स्वया॑ , म॒त्या , म॒रुतः॑ , सं , मि॒मि॒क्षुः॒ ॥
यत्प्राया॑सिष्ट॒ पृष॑तीभि॒रश्वै॑र्वीळुप॒विभि॑र्मरुतो॒ रथे॑भिः । क्षोदं॑त॒ आपो॑ रिण॒ते वना॒न्यवो॒स्रियो॑ वृष॒भः क्रं॑दतु॒ द्यौः ॥
यत् , प्र , अया॑सिष्ट , पृष॑तीभिः , अश्वैः॑ , वी॒ळु॒प॒विऽभिः॑ , म॒रु॒तः॒ , रथे॑भिः । क्षोदं॑ते , आपः॑ , रि॒ण॒ते , वना॑नि , अव॑ , उ॒स्रियः॑ , वृ॒ष॒भः , क्रं॒द॒तु॒ , द्यौः ॥
प्रथि॑ष्ट॒ याम॑न्पृथि॒वी चि॑देषां॒ भर्ते॑व॒ गर्भं॒ स्वमिच्छवो॑ धुः । वाता॒न्ह्यश्वां॑धु॒र्या॑युयु॒ज्रे व॒र्षं स्वेदं॑ चक्रिरे रु॒द्रिया॑सः ॥
प्रथि॑ष्ट , याम॑न् , पृ॒थि॒वी , चि॒त् , ए॒षां॒ , भर्ता॑ऽइव , गर्भं॑ , स्वं , इत् , शवः॑ , धुः॒ । वाता॑न् , हि , अश्वा॑न् , धु॒रि , आ॒ऽयु॒यु॒ज्रे , व॒र्षं , स्वेदं॑ , च॒क्रि॒रे॒ , रु॒द्रिया॑सः ॥
ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः । सत्य॑श्रुतः॒ कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥
ह॒ये , नरः॑ , मरु॑तः , मृ॒ळत॑ , नः॒ , तुवि॑ऽमघासः , अमृ॑ताः , ऋत॑ऽज्ञाः । सत्य॑ऽश्रुतः , कव॑यः , युवा॑नः , बृह॑त्ऽगिरयः , बृ॒हत् , उ॒क्षमा॑णाः ॥
[५९] प्रवःस्पळित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतो जगत्यंत्या त्रिष्टुप् |
प्र वः॒ स्पळ॑क्रंत्सुवि॒ताय॑ दा॒वनेऽर्चा॑ दि॒वे प्र पृ॑थि॒व्या ऋ॒तं भ॑रे । उ॒क्षंते॒ अश्वां॒तरु॑षंत॒ आ रजोऽनु॒ स्वं भा॒नुं श्र॑थयंते अर्ण॒वैः ॥
प्र , वः॒ , स्पट् , अ॒क्र॒न् , सु॒वि॒ताय॑ , दा॒वने॑ , अर्च॑ , दि॒वे , प्र , पृ॒थि॒व्यै , ऋ॒तं , भ॒रे॒ । उ॒क्षंते॑ , अश्वा॑न् , तरु॑षंते , आ , रजः॑ , अनु॑ , स्वं , भा॒नुं , श्र॒थ॒यं॒ते॒ , अ॒र्ण॒वैः ॥
अमा॑देषां भि॒यसा॒ भूमि॑रेजति॒ नौर्न पू॒र्णा क्ष॑रति॒ व्यथि॑र्य॒ती । दू॒रे॒दृशो॒ ये चि॒तयं॑त॒ एम॑भिरं॒तर्म॒हे वि॒दथे॑ येतिरे॒ नरः॑ ॥
अमा॑त् , ए॒षां॒ , भि॒यसा॑ , भूमिः॑ , ए॒ज॒ति॒ , नौः , न , पू॒र्णा , क्ष॒र॒ति॒ , व्यथिः॑ , य॒ती । दू॒रे॒ऽदृशः॑ , ये , चि॒तयं॑ते , एम॑ऽभिः , अं॒तः , म॒हे , वि॒दथे॑ , ये॒ति॒रे॒ , नरः॑ ॥
गवा॑मिव श्रि॒यसे॒ शृंग॑मुत्त॒मं सूर्यो॒ न चक्षू॒ रज॑सो वि॒सर्ज॑ने । अत्या॑ इव सु॒भ्व१॒॑श्चार॑वः स्थन॒ मर्या॑ इव श्रि॒यसे॑ चेतथा नरः ॥
गवां॑ऽइव , श्रि॒यसे॑ , शृंगं॑ , उ॒त्ऽत॒मं , सूर्यः॑ , न , चक्षुः॑ , रज॑सः , वि॒ऽसर्ज॑ने । अत्याः॑ऽइव , सु॒ऽभ्वः॑ , चार॑वः , स्थ॒न॒ , मर्याः॑ऽइव , श्रि॒यसे॑ , चे॒त॒थ॒ , न॒रः॒ ॥
को वो॑ म॒हांति॑ मह॒तामुद॑श्नव॒त्कस्काव्या॑ मरुतः॒ को ह॒ पौंस्या॑ । यू॒यं ह॒ भूमिं॑ कि॒रणं॒ न रे॑जथ॒ प्र यद्भर॑ध्वे सुवि॒ताय॑ दा॒वने॑ ॥
कः , वः॒ , म॒हांति॑ , म॒ह॒तां , उत् , अ॒श्न॒व॒त् , कः , काव्या॑ , म॒रु॒तः॒ , कः , ह॒ , पौंस्या॑ । यू॒यं , ह॒ , भूमिं॑ , कि॒रणं॑ , न , रे॒ज॒थ॒ , प्र , यत् , भर॑ध्वे , सु॒वि॒ताय॑ , दा॒वने॑ ॥
अश्वा॑ इ॒वेद॑रु॒षासः॒ सबं॑धवः॒ शूरा॑ इव प्र॒युधः॒ प्रोत यु॑युधुः । मर्या॑ इव सु॒वृधो॑ वावृधु॒र्नरः॒ सूर्य॑स्य॒ चक्षुः॒ प्र मि॑नंति वृ॒ष्टिभिः॑ ॥
अश्वाः॑ऽइव , इत् , अ॒रु॒षासः॑ , सऽबं॑धवः , शूराः॑ऽइव , प्र॒ऽयुधः॑ , प्र , उ॒त , यु॒यु॒धुः॒ । मर्याः॑ऽइव , सु॒ऽवृधः॑ , व॒वृ॒धुः॒ , नरः॑ , सूर्य॑स्य , चक्षुः॑ , प्र , मि॒नं॒ति॒ , वृ॒ष्टिऽभिः॑ ॥
ते अ॑ज्ये॒ष्ठा अक॑निष्ठास उ॒द्भिदोऽम॑ध्यमासो॒ मह॑सा॒ वि वा॑वृधुः । सु॒जा॒तासो॑ ज॒नुषा॒ पृश्नि॑मातरो दि॒वो मर्या॒ आ नो॒ अच्छा॑ जिगातन ॥
ते , अ॒ज्ये॒ष्ठाः , अक॑निष्ठासः , उ॒त्ऽभिदः॑ , अम॑ध्यमासः , मह॑सा , वि , व॒वृ॒धुः॒ । सु॒ऽजा॒तासः॑ , ज॒नुषा॑ , पृश्नि॑ऽमातरः , दि॒वः , मर्याः॑ , आ , नः॒ , अच्छ॑ , जि॒गा॒त॒न॒ ॥
वयो॒ न ये श्रेणीः॑ प॒प्तुरोज॒सांतां॑दि॒वो बृ॑ह॒तः सानु॑न॒स्परि॑ । अश्वा॑स एषामु॒भये॒ यथा॑ वि॒दुः प्र पर्व॑तस्य नभ॒नूँर॑चुच्यवुः ॥
वयः॑ , न , ये , श्रेणीः॑ , प॒प्तुः , ओज॑सा , अंता॑न् , दि॒वः , बृ॒ह॒तः , सानु॑नः , परि॑ । अश्वा॑सः , ए॒षां॒ , उ॒भये॑ , यथा॑ , वि॒दुः , प्र , पर्व॑तस्य , न॒भ॒नून् , अ॒चु॒च्य॒वुः॒ ॥
मिमा॑तु॒ द्यौरदि॑तिर्वी॒तये॑ नः॒ सं दानु॑चित्रा उ॒षसो॑ यतंतां । आचु॑च्यवुर्दि॒व्यं कोश॑मे॒त ऋषे॑ रु॒द्रस्य॑ म॒रुतो॑ गृणा॒नाः ॥
मिमा॑तु , द्यौः , अदि॑तिः , वी॒तये॑ , नः॒ , सं , दानु॑ऽचित्राः , उ॒षसः॑ , य॒तं॒तां॒ । आ , अ॒चु॒च्य॒वुः॒ , दि॒व्यं , कोशं॑ , ए॒ते , ऋषे॑ , रु॒द्रस्य॑ , म॒रुतः॑ , गृ॒णा॒नाः ॥
[६०] ईळेअग्निमित्यष्टर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतस्त्रिष्टुबंत्येद्वेजगत्यौ | (आग्नेयं च वेत्यनुक्रमण्युक्तेरग्रामरुतोवा) |
ईळे॑ अ॒ग्निं स्वव॑सं॒ नमो॑भिरि॒ह प्र॑स॒त्तो वि च॑यत्कृ॒तं नः॑ । रथै॑रिव॒ प्र भ॑रे वाज॒यद्भिः॑ प्रदक्षि॒णिन्म॒रुतां॒ स्तोम॑मृध्यां ॥
इळे॑ , अ॒ग्निं , सु॒ऽअव॑सं , नमः॑ऽभिः , इ॒ह , प्र॒ऽस॒त्तः , वि , च॒य॒त् , कृ॒तं , नः॒ । रथैः॑ऽइव , प्र , भ॒रे॒ , वा॒ज॒यत्ऽभिः॑ , प्र॒ऽद॒क्षि॒णित् , म॒रुतां॑ , स्तोमं॑ , ऋ॒ध्यां॒ ॥
आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे॑षु । वना॑ चिदुग्रा जिहते॒ नि वो॑ भि॒या पृ॑थि॒वी चि॑द्रेजते॒ पर्व॑तश्चित् ॥
आ , ये , त॒स्थुः , पृष॑तीषु , श्रु॒तासु॑ , सु॒ऽखेषु॑ , रु॒द्राः , म॒रुतः॑ , रथे॑षु । वना॑ , चि॒त् , उ॒ग्राः॒ , जि॒ह॒ते॒ , नि , वः॒ , भि॒या , पृ॒थि॒वी , चि॒त् , रे॒ज॒ते॒ , पर्व॑तः , चि॒त् ॥
पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने वः॑ । यत्क्रीळ॑थ मरुत ऋष्टि॒मंत॒ आप॑ इव स॒ध्र्यं॑चो धवध्वे ॥
पर्व॑तः , चि॒त् , महि॑ , वृ॒द्धः , बि॒भा॒य॒ , दि॒वः , चि॒त् , सानु॑ , रे॒ज॒त॒ , स्व॒ने , वः॒ । यत् , क्रीळ॑थ , म॒रु॒तः॒ , ऋ॒ष्टि॒ऽमंतः॑ , आपः॑ऽइव , स॒ध्र्यं॑चः , ध॒व॒ध्वे॒ ॥
व॒रा इ॒वेद्रै॑व॒तासो॒ हिर॑ण्यैर॒भि स्व॒धाभि॑स्त॒न्वः॑ पिपिश्रे । श्रि॒ये श्रेयां॑सस्त॒वसो॒ रथे॑षु स॒त्रा महां॑सि चक्रिरे त॒नूषु॑ ॥
व॒राःऽइ॑व , इत् , रै॒व॒तासः॑ , हिर॑ण्यैः , अ॒भि , स्व॒धाभिः॑ , त॒न्वः॑ , पि॒पि॒श्रे॒ । श्रि॒ये , श्रेयां॑सः , त॒वसः॑ , रथे॑षु , स॒त्रा , महां॑सि , च॒क्रि॒रे॒ , त॒नूषु॑ ॥
अ॒ज्ये॒ष्ठासो॒ अक॑निष्ठास ए॒ते सं भ्रात॑रो वावृधुः॒ सौभ॑गाय । युवा॑ पि॒ता स्वपा॑ रु॒द्र ए॑षां सु॒दुघा॒ पृश्निः॑ सु॒दिना॑ म॒रुद्भ्यः॑ ॥
अ॒ज्ये॒ष्ठासः॑ , अक॑निष्ठासः , ए॒ते , सं , भ्रात॑रः , व॒वृ॒धुः॒ , सौभ॑गाय । युवा॑ , पि॒ता , सु॒ऽअपा॑ , रु॒द्रः , ए॒षां॒ , सु॒ऽदुघा॑ , पृश्निः॑ , सु॒ऽदिना॑ , म॒रुत्ऽभ्यः॑ ॥
यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॒ यद्वा॑व॒मे सु॑भगासो दि॒वि ष्ठ । अतो॑ नो रुद्रा उ॒त वा॒ न्व१॒॑स्याग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑म ॥
यत् , उ॒त्ऽत॒मे , म॒रु॒तः॒ , म॒ध्य॒मे , वा॒ , यत् , वा॒ , अ॒व॒मे , सु॒ऽभ॒गा॒सः॒ , दि॒वि , स्थ । अतः॑ , नः॒ , रु॒द्राः॒ , उ॒त , वा॒ , नु , अ॒स्य॒ , अग्ने॑ , वि॒त्तात् , ह॒विषः॑ , यत् , यजा॑म ॥
अ॒ग्निश्च॒ यन्म॑रुतो विश्ववेदसो दि॒वो वह॑ध्व॒ उत्त॑रा॒दधि॒ ष्णुभिः॑ । ते मं॑दसा॒ना धुन॑यो रिशादसो वा॒मं ध॑त्त॒ यज॑मानाय सुन्व॒ते ॥
अ॒ग्निः , च॒ , यत् , म॒रु॒तः॒ , वि॒श्व॒ऽवे॒द॒सः॒ , दि॒वः , वह॑ध्वे , उत्ऽत॑रात् , अधि॑ , स्नुऽभिः॑ । ते , मं॒द॒सा॒नाः , धुन॑यः , रि॒शा॒द॒सः॒ , वा॒मं , ध॒त्त॒ , यज॑मानाय , सु॒न्व॒ते ॥
अग्ने॑ म॒रुद्भिः॑ शु॒भय॑द्भि॒र्ऋक्व॑भिः॒ सोमं॑ पिब मंदसा॒नो ग॑ण॒श्रिभिः॑ । पा॒व॒केभि॑र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा॑नर प्र॒दिवा॑ के॒तुना॑ स॒जूः ॥
अग्ने॑ , म॒रुत्ऽभिः॑ , शु॒भय॑त्ऽभिः , ऋक्व॑ऽभिः , सोमं॑ , पि॒ब॒ , मं॒द॒सा॒नः , ग॒ण॒श्रिऽभिः॑ । पा॒व॒केभिः॑ , वि॒श्वं॒ऽइ॒न्वेभिः॑ , आ॒युऽभिः॑ , वैश्वा॑नर , प्र॒ऽदिवा॑ , के॒तुना॑ , स॒ऽजूः ॥
[६१] केष्ठानरइत्येकोनविंशत्यृचस्य सूक्तस्यश्यावाश्वः आद्यानांचतसृणां यईंवहंतइत्यादिषण्णांचमरुतः पंचम्यादिचतसृणांतरंतमहिषीशशीयसी उतमेरपदित्यस्याः पुरुमीळ्होयोमेधेनूनामित्यस्यास्तरंतः एतंमेस्तोममित्यादि तिसृणांरथवीतिर्गायत्री पंचम्यनुष्टुप्नवमीसतोबृहती (अवत्यौपुरुमीळ्हतरं तौवैददश्वी रथवीतिर्दार्भ्यः) |
के ष्ठा॑ नरः॒ श्रेष्ठ॑तमा॒ य एक॑एक आय॒य । प॒र॒मस्याः॑ परा॒वतः॑ ॥
के , स्थ॒ , न॒रः॒ , श्रेष्ठ॑ऽतमाः , ये , एकः॑ऽएकः , आ॒ऽय॒य । प॒र॒मस्याः॑ , प॒रा॒ऽवतः॑ ॥
क्व१॒॑ वोऽश्वाः॒ क्वा॒३॒॑भीश॑वः क॒थं शे॑क क॒था य॑य । पृ॒ष्ठे सदो॑ न॒सोर्यमः॑ ॥
क्व॑ , वः॒ , अश्वाः॑ , क्व॑ , अ॒भीश॑वः , क॒थं , शे॒क॒ , क॒था , य॒य॒ । पृ॒ष्ठे , सदः॑ , न॒सोः , यमः॑ ॥
ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो॑ यमुः । पु॒त्र॒कृ॒थे न जन॑यः ॥
ज॒घने॑ , चोदः॑ , ए॒षां॒ , वि , स॒क्थानि॑ , नरः॑ , य॒मुः॒ । पु॒त्र॒ऽकृ॒थे , न , जन॑यः ॥
परा॑ वीरास एतन॒ मर्या॑सो॒ भद्र॑जानयः । अ॒ग्नि॒तपो॒ यथास॑थ ॥
परा॑ , वी॒रा॒सः॒ , इ॒त॒न॒ , मर्या॑सः , भद्र॑ऽजानयः । अ॒ग्नि॒ऽतपः॑ , यथा॑ , अस॑थ ॥
सन॒त्साश्व्यं॑ प॒शुमु॒त गव्यं॑ श॒ताव॑यं । श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो॑प॒बर्बृ॑हत् ॥
सन॑त् , सा , अश्व्यं॑ , प॒शुं , उ॒त , गव्यं॑ , श॒तऽअ॑वयं । श्या॒वाश्व॑ऽस्तुताय , या , दोः , वी॒राय॑ , उ॒प॒ऽबर्बृ॑हत् ॥
उ॒त त्वा॒ स्त्री शशी॑यसी पुं॒सो भ॑वति॒ वस्य॑सी । अदे॑वत्रादरा॒धसः॑ ॥
उ॒त , त्वा॒ , स्त्री , शशी॑यसी , पुं॒सः , भ॒व॒ति॒ , वस्य॑सी । अदे॑वऽत्रात् , अ॒रा॒धसः॑ ॥
वि या जा॒नाति॒ जसु॑रिं॒ वि तृष्यं॑तं॒ वि का॒मिनं॑ । दे॒व॒त्रा कृ॑णु॒ते मनः॑ ॥
वि , या , जा॒नाति॑ , जसु॑रिं , वि , तृष्यं॑तं , वि , का॒मिनं॑ । दे॒व॒ऽत्रा , कृ॒णु॒ते , मनः॑ ॥
उ॒त घा॒ नेमो॒ अस्तु॑तः॒ पुमाँ॒ इति॑ ब्रुवे प॒णिः । स वैर॑देय॒ इत्स॒मः ॥
उ॒त , घ॒ , नेमः॑ , अस्तु॑तः , पुमा॑न् , इति॑ , ब्रु॒वे॒ , प॒णिः । सः , वैर॑ऽदेये , इत् , स॒मः ॥
उ॒त मे॑ऽरपद्युव॒तिर्म॑मं॒दुषी॒ प्रति॑ श्या॒वाय॑ वर्त॒निं । वि रोहि॑ता पुरुमी॒ळ्हाय॑ येमतु॒र्विप्रा॑य दी॒र्घय॑शसे ॥
उ॒त , मे॒ , अ॒र॒प॒त् , यु॒व॒तिः , म॒मं॒दुषी॑ , प्रति॑ , श्या॒वाय॑ , व॒र्त॒निं । वि , रोहि॑ता , पु॒रु॒ऽमी॒ळ्हाय॑ , ये॒म॒तुः॒ , विप्रा॑य , दी॒र्घऽय॑शसे ॥
यो मे॑ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त् । त॒रं॒त इ॑व मं॒हना॑ ॥
यः , मे॒ , धे॒नू॒नां , श॒तं , वैद॑त्ऽअश्विः , यथा॑ , दद॑त् । त॒रं॒तःऽइ॑व , मं॒हना॑ ॥
य ईं॒ वहं॑त आ॒शुभिः॒ पिबं॑तो मदि॒रं मधु॑ । अत्र॒ श्रवां॑सि दधिरे ॥
ये , ईं॒ , वहं॑ते , आ॒शुऽभिः॑ , पिबं॑तः , म॒दि॒रं , मधु॑ । अत्र॑ , श्रवां॑सि , द॒धि॒रे॒ ॥
येषां॑ श्रि॒याधि॒ रोद॑सी वि॒भ्राजं॑ते॒ रथे॒ष्वा । दि॒वि रु॒क्म इ॑वो॒परि॑ ॥
येषां॑ , श्रि॒या , अधि॑ , रोद॑सी॒ इति॑ , वि॒ऽभ्राजं॑ते , रथे॑षु , आ । दि॒वि , रु॒क्मःऽइ॑व , उ॒परि॑ ॥
युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒ अने॑द्यः । शु॒भं॒यावाप्र॑तिष्कुतः ॥
युवा॑ , सः , मारु॑तः , ग॒णः , त्वे॒षऽर॑थः , अने॑द्यः । शु॒भं॒ऽयावा॑ , अप्र॑तिऽस्कुतः ॥
को वे॑द नू॒नमे॑षां॒ यत्रा॒ मदं॑ति॒ धूत॑यः । ऋ॒तजा॑ता अरे॒पसः॑ ॥
कः , वे॒द॒ , नू॒नं , ए॒षां॒ , यत्र॑ , मदं॑ति , धूत॑यः । ऋ॒तऽजा॑ताः , अ॒रे॒पसः॑ ॥
यू॒यं मर्तं॑ विपन्यवः प्रणे॒तार॑ इ॒त्था धि॒या । श्रोता॑रो॒ याम॑हूतिषु ॥
यू॒यं , मर्तं॑ , वि॒प॒न्य॒वः॒ , प्र॒ऽने॒तारः॑ , इ॒त्था , धि॒या । श्रोता॑रः , याम॑ऽहूतिषु ॥
ते नो॒ वसू॑नि॒ काम्या॑ पुरुश्चं॒द्रा रि॑शादसः । आ य॑ज्ञियासो ववृत्तन ॥
ते , नः॒ , वसू॑नि , काम्या॑ , पु॒रु॒ऽचं॒द्राः , रि॒शा॒द॒सः॒ । आ , य॒ज्ञि॒या॒सः॒ , व॒वृ॒त्त॒न॒ ॥
ए॒तं मे॒ स्तोम॑मूर्म्ये दा॒र्भ्याय॒ परा॑ वह । गिरो॑ देवि र॒थीरि॑व ॥
ए॒तं , मे॒ , स्तोमं॑ , ऊ॒र्म्ये , दा॒र्भ्याय॑ , परा॑ , व॒ह॒ । गिरः॑ , दे॒वि॒ , र॒थीःऽइ॑व ॥
उ॒त मे॑ वोचता॒दिति॑ सु॒तसो॑मे॒ रथ॑वीतौ । न कामो॒ अप॑ वेति मे ॥
उ॒त , मे॒ , वो॒च॒ता॒त् , इति॑ , सु॒तऽसो॑मे , रथ॑ऽवीतौ । न , कामः॑ , अप॑ , वे॒ति॒ , मे॒ ॥
ए॒ष क्षे॑ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑ । पर्व॑ते॒ष्वप॑श्रितः ॥
ए॒षः , क्षे॒ति॒ , रथ॑ऽवीतिः , म॒घऽवा॑ , गोऽम॑तीः , अनु॑ । पर्व॑तेषु , अप॑ऽश्रितः ॥
[६२] ऋतेनऋतमिति नवर्चस्य सूक्तस्यात्रेयः श्रुतविन्मित्रवारुणौत्रिष्टुप् |
ऋ॒तेन॑ ऋ॒तमपि॑हितं ध्रु॒वं वां॒ सूर्य॑स्य॒ यत्र॑ विमु॒चंत्यश्वा॑न् । दश॑ श॒ता स॒ह त॑स्थु॒स्तदेकं॑ दे॒वानां॒ श्रेष्ठं॒ वपु॑षामपश्यं ॥
ऋ॒तेन॑ , ऋ॒तं , अपि॑ऽहितं , ध्रु॒वं , वां॒ , सूर्य॑स्य , यत्र॑ , वि॒ऽमु॒चंति॑ , अश्वा॑न् । दश॑ , श॒ता , स॒ह , त॒स्थुः॒ , तत् , एकं॑ , दे॒वानां॑ , श्रेष्ठं॑ , वपु॑षां , अ॒प॒श्यं॒ ॥
तत्सु वां॑ मित्रावरुणा महि॒त्वमी॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे । विश्वाः॑ पिन्वथः॒ स्वस॑रस्य॒ धेना॒ अनु॑ वा॒मेकः॑ प॒विरा व॑वर्त ॥
तत् , सु , वां॒ , मि॒त्रा॒व॒रु॒णा॒ , म॒हि॒ऽत्वं , ई॒र्मा , त॒स्थुषीः॑ , अह॑ऽभिः , दु॒दु॒ह्रे॒ । विश्वाः॑ , पि॒न्व॒थः॒ , स्वस॑रस्य , धेनाः॑ , अनु॑ , वां॒ , एकः॑ , प॒विः , आ , व॒व॒र्त॒ ॥
अधा॑रयतं पृथि॒वीमु॒त द्यां मित्र॑राजाना वरुणा॒ महो॑भिः । व॒र्धय॑त॒मोष॑धीः॒ पिन्व॑तं॒ गा अव॑ वृ॒ष्टिं सृ॑जतं जीरदानू ॥
अधा॑रयतं , पृ॒थि॒वीं , उ॒त , द्यां , मित्र॑ऽराजाना , व॒रु॒णा॒ , महः॑ऽभिः । व॒र्धय॑तं , ओष॑धीः , पिन्व॑तं , गाः , अव॑ , वृ॒ष्टिं , सृ॒ज॒तं॒ , जी॒र॒दा॒नू॒ इति॑ जीरऽदानू ॥
आ वा॒मश्वा॑सः सु॒युजो॑ वहंतु य॒तर॑श्मय॒ उप॑ यंत्व॒र्वाक् । घृ॒तस्य॑ नि॒र्णिगनु॑ वर्तते वा॒मुप॒ सिंध॑वः प्र॒दिवि॑ क्षरंति ॥
आ , वां॒ , अश्वा॑सः , सु॒ऽयुजः॑ , व॒हं॒तु॒ , य॒तऽर॑श्मयः , उप॑ , यं॒तु॒ , अ॒र्वाक् । घृ॒तस्य॑ , निः॒ऽनिक् , अनु॑ , व॒र्त॒ते॒ , वां॒ , उप॑ , सिंध॑वः , प्र॒ऽदिवि॑ , क्ष॒रं॒ति॒ ॥
अनु॑ श्रु॒ताम॒मतिं॒ वर्ध॑दु॒र्वीं ब॒र्हिरि॑व॒ यजु॑षा॒ रक्ष॑माणा । नम॑स्वंता धृतद॒क्षाधि॒ गर्ते॒ मित्रासा॑थे वरु॒णेळा॑स्वं॒तः ॥
अनु॑ , श्रु॒तां , अ॒मतिं॑ , वर्ध॑त् , उ॒र्वीं , ब॒र्हिःऽइ॑व , यजु॑षा , रक्ष॑माणा । नम॑स्वंता , धृ॒त॒ऽद॒क्षा॒ , अधि॑ , गर्ते॑ , मित्र॑ , आसा॑थे॒ इति॑ , व॒रु॒ण॒ , इळा॑सु , अं॒तरिति॑ ॥
अक्र॑विहस्ता सु॒कृते॑ पर॒स्पा यं त्रासा॑थे वरु॒णेळा॑स्वं॒तः । राजा॑ना क्ष॒त्रमहृ॑णीयमाना स॒हस्र॑स्थूणं बिभृथः स॒ह द्वौ ॥
अक्र॑विऽहस्ता , सु॒ऽकृते॑ , प॒रः॒ऽपा , यं , त्रासा॑थे॒ इति॑ , व॒रु॒णा॒ , इळा॑सु , अं॒तरिति॑ । राजा॑ना , क्ष॒त्रं , अहृ॑णीयमाना , स॒हस्र॑ऽस्थूणं , बि॒भृ॒थः॒ , स॒ह , द्वौ ॥
हिर॑ण्यनिर्णि॒गयो॑ अस्य॒ स्थूणा॒ वि भ्रा॑जते दि॒व्य१॒॑श्वाज॑नीव । भ॒द्रे क्षेत्रे॒ निमि॑ता॒ तिल्वि॑ले वा स॒नेम॒ मध्वो॒ अधि॑गर्त्यस्य ॥
हिर॑ण्यऽनिर्निक् , अयः॑ , अ॒स्य॒ , स्थूणा॑ , वि , भ्रा॒ज॒ते॒ , दि॒वि , अ॒श्वाज॑नीऽइव । भ॒द्रे , क्षेत्रे॑ , निऽमि॑ता , तल्वि॑ले , वा॒ , स॒नेम॑ , मध्वः॑ , अधि॑ऽगर्त्यस्य ॥
हिर॑ण्यरूपमु॒षसो॒ व्यु॑ष्टा॒वयः॑स्थूण॒मुदि॑ता॒ सूर्य॑स्य । आ रो॑हथो वरुण मित्र॒ गर्त॒मत॑श्चक्षाथे॒ अदि॑तिं॒ दितिं॑ च ॥
हिर॑ण्यऽरूपं , उ॒षसः॑ , विऽउ॑ष्टौ , अयः॑ऽस्थूणं , उत्ऽइ॑ता , सूर्य॑स्य । आ , रो॒ह॒थः॒ , व॒रु॒ण॒ , मि॒त्र॒ , गर्तं॑ , अतः॑ , च॒क्षा॒थे॒ इति॑ , अदि॑तिं , दितिं॑ , च॒ ॥
यद्बंहि॑ष्ठं॒ नाति॒विधे॑ सुदानू॒ अच्छि॑द्रं॒ शर्म॑ भुवनस्य गोपा । तेन॑ नो मित्रावरुणावविष्टं॒ सिषा॑संतो जिगी॒वांसः॑ स्याम ॥
यत् , बंहि॑ष्ठं , न , अ॒ति॒ऽविधे॑ , सु॒दा॒नू॒ इति॑ सुऽदानू , अच्छि॑द्रं , शर्म॑ , भु॒व॒न॒स्य॒ , गो॒पा॒ । तेन॑ , नः॒ , मि॒त्रा॒व॒रु॒णौ॒ , अ॒वि॒ष्टं॒ , सिसा॑संतः , जि॒गी॒वांसः॑ , स्या॒म॒ ॥
[६३] ऋतस्यगोपाविति सप्तर्चस्य सूक्तस्यात्रेयोर्चनानामित्रावरुणौजगती |
ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो॑मनि । यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै॑ वृ॒ष्टिर्मधु॑मत्पिन्वते दि॒वः ॥
ऋत॑स्य , गो॒पौ॒ , अधि॑ , ति॒ष्ठ॒थः॒ , रथं॑ , सत्य॑ऽधर्माणा , प॒र॒मे , विऽओ॑मनि । यं , अत्र॑ , मि॒त्रा॒व॒रु॒णा॒ , अव॑थः , यु॒वं , तस्मै॑ , वृ॒ष्टिः , मधु॑ऽमत् , पि॒न्व॒ते॒ , दि॒वः ॥
स॒म्राजा॑व॒स्य भुव॑नस्य राजथो॒ मित्रा॑वरुणा वि॒दथे॑ स्व॒र्दृशा॑ । वृ॒ष्टिं वां॒ राधो॑ अमृत॒त्वमी॑महे॒ द्यावा॑पृथि॒वी वि च॑रंति त॒न्यवः॑ ॥
सं॒ऽराजौ॑ , अ॒स्य , भुव॑नस्य , रा॒ज॒थः॒ , मित्रा॑वरुणा , वि॒दथे॑ , स्वः॒ऽदृशा॑ । वृ॒ष्टिं , वां॒ , राधः॑ , अ॒मृ॒त॒ऽत्वं , ई॒म॒हे॒ , द्यावा॑पृथि॒वी इति॑ , वि , च॒रं॒ति॒ , त॒न्यवः॑ ॥
स॒म्राजा॑ उ॒ग्रा वृ॑ष॒भा दि॒वस्पती॑ पृथि॒व्या मि॒त्रावरु॑णा॒ विच॑र्षणी । चि॒त्रेभि॑र॒भ्रैरुप॑ तिष्ठथो॒ रवं॒ द्यां व॑र्षयथो॒ असु॑रस्य मा॒यया॑ ॥
सं॒ऽराजौ॑ , उ॒ग्रा , वृ॒ष॒भा , दि॒वः , पती॒ इति॑ , पृ॒थि॒व्याः , मि॒त्रावरु॑णा , विच॑र्षणी॒ इति॒ विऽच॑र्षणी । चि॒त्रेभिः॑ , अ॒भ्रैः , उप॑ , ति॒ष्ठ॒थः॒ , रवं॑ , द्यां , व॒र्ष॒य॒थः॒ , असु॑रस्य , मा॒यया॑ ॥
मा॒या वां॑ मित्रावरुणा दि॒वि श्रि॒ता सूर्यो॒ ज्योति॑श्चरति चि॒त्रमायु॑धं । तम॒भ्रेण॑ वृ॒ष्ट्या गू॑हथो दि॒वि पर्ज॑न्य द्र॒प्सा मधु॑मंत ईरते ॥
मा॒या , वां॒ , मि॒त्रा॒व॒रु॒णा॒ , दि॒वि , श्रि॒ता , सूर्यः॑ , ज्योतिः॑ , च॒र॒ति॒ , चि॒त्रं , आयु॑धं । तं , अ॒भ्रेण॑ , वृ॒ष्ट्या , गू॒ह॒थः॒ , दि॒वि , पर्ज॑न्य , द्र॒प्साः , मधु॑ऽमंतः , ई॒र॒ते॒ ॥
रथं॑ युंजते म॒रुतः॑ शु॒भे सु॒खं शूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु । रजां॑सि चि॒त्रा वि च॑रंति त॒न्यवो॑ दि॒वः स॑म्राजा॒ पय॑सा न उक्षतं ॥
रथं॑ , युं॒ज॒ते॒ , म॒रुतः॑ , शु॒भे , सु॒ऽखं , शूरः॑ , न , मि॒त्रा॒व॒रु॒णा॒ , गोऽइ॑ष्टिषु । रजां॑सि , चि॒त्रा , वि , च॒रं॒ति॒ , त॒न्यवः॑ , दि॒वः , सं॒ऽरा॒जा॒ , पय॑सा , नः॒ , उ॒क्ष॒तं॒ ॥
वाचं॒ सु मि॑त्रावरुणा॒विरा॑वतीं प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी॑मतीं । अ॒भ्रा व॑सत म॒रुतः॒ सु मा॒यया॒ द्यां व॑र्षयतमरु॒णाम॑रे॒पसं॑ ॥
वाचं॑ , सु , मि॒त्रा॒व॒रु॒णौ॒ , इरा॑ऽवतीं , प॒र्जन्यः॑ , चि॒त्रां , व॒द॒ति॒ , त्विषि॑ऽमतीं । अ॒भ्रा , व॒स॒त॒ , म॒रुतः॑ , सु , मा॒यया॑ , द्यां , व॒र्ष॒य॒तं॒ , अ॒रु॒णां , अ॒रे॒पसं॑ ॥
धर्म॑णा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेथे॒ असु॑रस्य मा॒यया॑ । ऋ॒तेन॒ विश्वं॒ भुव॑नं॒ वि रा॑जथः॒ सूर्य॒मा ध॑त्थो दि॒वि चित्र्यं॒ रथं॑ ॥
धर्म॑णा , मि॒त्रा॒व॒रु॒णा॒ , वि॒पः॒ऽचि॒ता॒ , व्र॒ता , र॒क्षे॒थे॒ इति॑ , असु॑रस्य , मा॒यया॑ । ऋ॒तेन॑ , विश्वं॑ , भुव॑नं , वि , रा॒ज॒थः॒ , सूर्यं॑ , आ , ध॒त्थः॒ , दि॒वि , चित्र्यं॑ , रथं॑ ॥
[६४] वरुणंवइति सप्तर्चस्य सूक्तस्यार्चनाना मित्रावरुणावनुष्टुबंत्यापंक्तिः |
वरु॑णं वो रि॒शाद॑समृ॒चा मि॒त्रं ह॑वामहे । परि॑ व्र॒जेव॑ बा॒ह्वोर्ज॑ग॒न्वांसा॒ स्व॑र्णरं ॥
वरु॑णं , वः॒ , रि॒शाद॑सं , ऋ॒चा , मि॒त्रं , ह॒वा॒म॒हे॒ । परि॑ , व्र॒जाऽइ॑व , बा॒ह्वोः , ज॒ग॒न्वांसा॑ , स्वः॑ऽनरं ॥
ता बा॒हवा॑ सुचे॒तुना॒ प्र यं॑तमस्मा॒ अर्च॑ते । शेवं॒ हि जा॒र्यं॑ वां॒ विश्वा॑सु॒ क्षासु॒ जोगु॑वे ॥
ता , बा॒हवा॑ , सु॒ऽचे॒तुना॑ , प्र , यं॒तं॒ , अ॒स्मै॒ , अर्च॑ते । शेवं॑ , हि , जा॒र्यं॑ , वां॒ , विश्वा॑सु , क्षासु॑ , जोगु॑वे ॥
यन्नू॒नम॒श्यां गतिं॑ मि॒त्रस्य॑ यायां प॒था । अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं॑सानस्य सश्चिरे ॥
यत् , नू॒नं , अ॒श्यां , गतिं॑ , मि॒त्रस्य॑ , या॒यां॒ , प॒था । अस्य॑ , प्रि॒यस्य॑ , शर्म॑णि , अहिं॑सानस्य , स॒श्चि॒रे॒ ॥
यु॒वाभ्यां॑ मित्रावरुणोप॒मं धे॑यामृ॒चा । यद्ध॒ क्षये॑ म॒घोनां॑ स्तोतॄ॒णां च॑ स्पू॒र्धसे॑ ॥
यु॒वाभ्यां॑ , मि॒त्रा॒व॒रु॒णा॒ , उ॒प॒ऽमं , धे॒यां॒ , ऋ॒चा । यत् , ह॒ , क्षये॑ , म॒घोनां॑ , स्तो॒तॄ॒णां , च॒ , स्पू॒र्धसे॑ ॥
आ नो॑ मित्र सुदी॒तिभि॒र्वरु॑णश्च स॒धस्थ॒ आ । स्वे क्षये॑ म॒घोनां॒ सखी॑नां च वृ॒धसे॑ ॥
आ , नः॒ , मि॒त्र॒ , सु॒दी॒तिऽभिः॑ , वरु॑णः , च॒ , स॒धऽस्थे॑ , आ । स्वे , क्षये॑ , म॒घोनां॑ , सखी॑नां , च॒ , वृ॒धसे॑ ॥
यु॒वं नो॒ येषु॑ वरुण क्ष॒त्रं बृ॒हच्च॑ बिभृ॒थः । उ॒रु णो॒ वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये॑ ॥
यु॒वं , नः॒ , येषु॑ , व॒रु॒णा॒ , क्ष॒त्रं , बृ॒हत् , च॒ , बि॒भृ॒थः । उ॒रु , नः॒ , वाज॑ऽसातये , कृ॒तं , रा॒ये , स्व॒स्तये॑ ॥
उ॒च्छंत्यां॑ मे यज॒ता दे॒वक्ष॑त्रे॒ रुश॑द्गवि । सु॒तं सोमं॒ न ह॒स्तिभि॒रा प॒ड्भिर्धा॑वतं नरा॒ बिभ्र॑तावर्च॒नान॑सं ॥
उ॒च्छंत्यां॑ , मे॒ , य॒ज॒ता , दे॒वऽक्ष॑त्रे , रुश॑त्ऽगवि । सु॒तं , सोमं॑ , न , ह॒स्तिऽभिः॑ , आ , प॒ट्ऽभिः , धा॒व॒तं॒ , न॒रा॒ , बिभ्र॑तौ , अ॒र्च॒नान॑सं ॥
[६५] यश्चिकेतेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुबंत्यापंक्तिः |
यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः । वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिरः॑ ॥
यः , चि॒केत॑ , सः , सु॒ऽक्रतुः॑ , दे॒व॒ऽत्रा , सः , ब्र॒वी॒तु॒ , नः॒ । वरु॑णः , यस्य॑ , द॒र्श॒तः , मि॒त्रः , वा॒ , वन॑ते , गिरः॑ ॥
ता हि श्रेष्ठ॑वर्चसा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा । ता सत्प॑ती ऋता॒वृध॑ ऋ॒तावा॑ना॒ जने॑जने ॥
ता , हि , श्रेष्ठ॑ऽवर्चसा , राजा॑ना , दी॒र्घ॒श्रुत्ऽत॑मा । ता , सत्प॑ती॒ इति॒ सत्ऽप॑ती , ऋ॒त॒ऽवृधा॑ , ऋ॒तऽवा॑ना , जने॑ऽजने ॥
ता वा॑मिया॒नोऽव॑से॒ पूर्वा॒ उप॑ ब्रुवे॒ सचा॑ । स्वश्वा॑सः॒ सु चे॒तुना॒ वाजाँ॑ अ॒भि प्र दा॒वने॑ ॥
ता , वां॒ , इ॒या॒नः , अव॑से , पूर्वौ॑ , उप॑ , ब्रु॒वे॒ , सचा॑ । सु॒ऽअश्वा॑सः , सु , चे॒तुना॑ , वाजा॑न् , अ॒भि , प्र , दा॒वने॑ ॥
मि॒त्रो अं॒होश्चि॒दादु॒रु क्षया॑य गा॒तुं व॑नते । मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्ति॑ विध॒तः ॥
मि॒त्रः , अं॒होः , चि॒त् , आत् , उ॒रु , क्षया॑य , गा॒तुं , व॒न॒ते॒ । मि॒त्रस्य॑ , हि , प्र॒ऽतूर्व॑तः , सु॒ऽम॒तिः , अस्ति॑ , वि॒ध॒तः ॥
व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे । अ॒ने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेषसः ॥
व॒यं , मि॒त्रस्य॑ , अव॑सि , स्याम॑ , स॒प्रथः॑ऽतमे । अ॒ने॒हसः॑ , त्वाऽऊ॑तयः , स॒त्रा , वरु॑णऽशेषसः ॥
यु॒वं मि॑त्रे॒मं जनं॒ यत॑थः॒ सं च॑ नयथः । मा म॒घोनः॒ परि॑ ख्यतं॒ मो अ॒स्माक॒मृषी॑णां गोपी॒थे न॑ उरुष्यतं ॥
यु॒वं , मि॒त्रा॒ , इ॒मं , जनं॑ , यत॑थः , सं , च॒ , न॒य॒थः॒ । मा , म॒घोनः॑ , परि॑ , ख्य॒तं॒ , मो इति॑ , अ॒स्माकं॑ , ऋषी॑णां , गो॒ऽपी॒थे , नः॒ , उ॒रु॒ष्य॒तं॒ ॥
[६६] आचिकितानेति षडृचस्य सूक्तस्यात्रेयोरातहव्योमित्रावरुणावनुष्टुप् |
आ चि॑कितान सु॒क्रतू॑ दे॒वौ म॑र्त रि॒शाद॑सा । वरु॑णाय ऋ॒तपे॑शसे दधी॒त प्रय॑से म॒हे ॥
आ , चि॒कि॒ता॒न॒ , सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ , दे॒वौ , म॒र्त॒ , रि॒शाद॑सा । वरु॑णाय , ऋ॒तऽपे॑शसे , द॒धी॒त , प्रय॑से , म॒हे ॥
ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१॒॑माशा॑ते । अध॑ व्र॒तेव॒ मानु॑षं॒ स्व१॒॑र्ण धा॑यि दर्श॒तं ॥
ता , हि , क्ष॒त्रं , अवि॑ऽह्रुतं , स॒म्यक् , अ॒सु॒र्यं॑ , आशा॑ते॒ इति॑ । अध॑ , व्र॒ताऽइ॑व , मानु॑षं , स्वः॑ , न , धा॒यि॒ , द॒र्श॒तं ॥
ता वा॒मेषे॒ रथा॑नामु॒र्वीं गव्यू॑तिमेषां । रा॒तह॑व्यस्य सुष्टु॒तिं द॒धृक्स्तोमै॑र्मनामहे ॥
ता , वां॒ , एषे॑ , रथा॑नां , उ॒र्वीं , गव्यू॑तिं , ए॒षां॒ । रा॒तऽह॑व्यस्य , सु॒ऽस्तु॒तिं , द॒धृक् , स्तोमैः॑ , म॒ना॒म॒हे॒ ॥
अधा॒ हि काव्या॑ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता । नि के॒तुना॒ जना॑नां चि॒केथे॑ पूतदक्षसा ॥
अध॑ , हि , काव्या॑ , यु॒वं , दक्ष॑स्य , पूः॒ऽभिः , अ॒द्भु॒ता॒ । नि , के॒तुना॑ , जना॑नां , चि॒केथे॒ इति॑ , पू॒त॒ऽद॒क्ष॒सा॒ ॥
तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी॑णां । ज्र॒य॒सा॒नावरं॑ पृ॒थ्वति॑ क्षरंति॒ याम॑भिः ॥
तत् , ऋ॒तं , पृ॒थि॒वि॒ , बृ॒हत् , श्र॒वः॒ऽए॒षे , ऋषी॑णां । ज्र॒य॒सा॒नौ , अरं॑ , पृ॒थु , अति॑ , क्ष॒रं॒ति॒ , याम॑ऽभिः ॥
आ यद्वा॑मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रयः॑ । व्यचि॑ष्ठे बहु॒पाय्ये॒ यते॑महि स्व॒राज्ये॑ ॥
आ , यत् , वां॒ , ई॒य॒ऽच॒क्ष॒सा॒ , मित्रा॑ , व॒यं , च॒ , सू॒रयः॑ । व्यचि॑ष्ठे , ब॒हु॒ऽपाय्ये॑ , यते॑महि , स्व॒ऽराज्ये॑ ॥
[६७] बळित्थादेवेति पंचर्चस्य सूक्तस्यात्रेयोयजतो मित्रावरुणावनुष्टुप् |
बळि॒त्था दे॑व निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत् । वरु॑ण॒ मित्रार्य॑म॒न्वर्षि॑ष्ठं क्ष॒त्रमा॑शाथे ॥
बट् , इ॒त्था , दे॒वा॒ , निः॒ऽकृ॒तं , आदि॑त्या , य॒ज॒तं , बृ॒हत् । वरु॑ण , मित्र॑ , अर्य॑मन् , वर्षि॑ष्ठं , क्ष॒त्रं , आ॒शा॒थे॒ इति॑ ॥
आ यद्योनिं॑ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः । ध॒र्तारा॑ चर्षणी॒नां यं॒तं सु॒म्नं रि॑शादसा ॥
आ , यत् , योनिं॑ , हि॒र॒ण्ययं॑ , वरु॑ण , मित्र॑ , सद॑थः । ध॒र्तारा॑ , च॒र्ष॒णी॒नां , यं॒तं , सु॒म्नं , रि॒शा॒द॒सा॒ ॥
विश्वे॒ हि वि॒श्ववे॑दसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । व्र॒ता प॒देव॑ सश्चिरे॒ पांति॒ मर्त्यं॑ रि॒षः ॥
विश्वे॑ , हि , वि॒श्वऽवे॑दसः , वरु॑णः , मि॒त्रः , अ॒र्य॒मा । व्र॒ता , प॒दाऽइ॑व , स॒श्चि॒रे॒ , पांति॑ , मर्त्यं॑ , रि॒षः ॥
ते हि स॒त्या ऋ॑त॒स्पृश॑ ऋ॒तावा॑नो॒ जने॑जने । सु॒नी॒थासः॑ सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः ॥
ते , हि , स॒त्याः , ऋ॒त॒ऽस्पृशः॑ , ऋ॒तऽवा॑नः , जने॑ऽजने । सु॒ऽनी॒थासः॑ , सु॒ऽदान॑वः , अं॒होः , चि॒त् , उ॒रु॒ऽचक्र॑यः ॥
को नु वां॑ मि॒त्रास्तु॑तो॒ वरु॑णो वा त॒नूनां॑ । तत्सु वा॒मेष॑ते म॒तिरत्रि॑भ्य॒ एष॑ते म॒तिः ॥
कः , नु , वां॒ , मि॒त्र॒ , अस्तु॑तः , वरु॑णः , वा॒ , त॒नूनां॑ । तत् , सु , वां॒ , आ , ई॒ष॒ते॒ , म॒तिः , अत्रि॑ऽभ्यः , आ , ई॒ष॒ते॒ , म॒तिः ॥
[६८] प्रवोमित्रायेति पंचर्चस्य सूक्तस्यात्रेयो यजतोमित्रावरुणौगायत्री |
प्र वो॑ मि॒त्राय॑ गायत॒ वरु॑णाय वि॒पा गि॒रा । महि॑क्षत्रावृ॒तं बृ॒हत् ॥
प्र , वः॒ , मि॒त्राय॑ , गा॒य॒त॒ , वरु॑णाय , वि॒पा , गि॒रा । महि॑ऽक्षत्रौ , ऋ॒तं , बृ॒हत् ॥
स॒म्राजा॒ या घृ॒तयो॑नी मि॒त्रश्चो॒भा वरु॑णश्च । दे॒वा दे॒वेषु॑ प्रश॒स्ता ॥
सं॒ऽराजा॑ , या , घृ॒तयो॑नी॒ इति॑ घृ॒तऽयो॑नी , मि॒त्रः , च॒ , उ॒भा , वरु॑णः , च॒ । दे॒वा , दे॒वेषु॑ , प्र॒ऽश॒स्ता ॥
ता नः॑ शक्तं॒ पार्थि॑वस्य म॒हो रा॒यो दि॒व्यस्य॑ । महि॑ वां क्ष॒त्रं दे॒वेषु॑ ॥
ता , नः॒ , श॒क्तं॒ , पार्थि॑वस्य , म॒हः , रा॒यः , दि॒व्यस्य॑ । महि॑ , वां॒ , क्ष॒त्रं , दे॒वेषु॑ ॥
ऋ॒तमृ॒तेन॒ सपं॑तेषि॒रं दक्ष॑माशाते । अ॒द्रुहा॑ दे॒वौ व॑र्धेते ॥
ऋ॒तं , ऋ॒तेन॑ , सपं॑ता , इ॒षि॒रं , दक्षं॑ , आ॒शा॒ते॒ इति॑ । अ॒द्रुहा॑ , दे॒वौ , व॒र्धे॒ते॒ इति॑ ॥
वृ॒ष्टिद्या॑वा री॒त्या॑पे॒षस्पती॒ दानु॑मत्याः । बृ॒हंतं॒ गर्त॑माशाते ॥
वृ॒ष्टिऽद्या॑वा , री॒तिऽआ॑पा , इ॒षः , पती॒ इति॑ , दानु॑ऽमत्याः । बृ॒हंतं॑ , गर्तं॑ , आ॒शा॒ते॒ इति॑ ॥
[६९] त्रीरोचनेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौत्रिष्टुप् |
त्री रो॑च॒ना व॑रुण॒ त्रीँरु॒त द्यूंत्रीणि॑ मित्र धारयथो॒ रजां॑सि । वा॒वृ॒धा॒नाव॒मतिं॑ क्ष॒त्रिय॒स्यानु॑ व्र॒तं रक्ष॑माणावजु॒र्यं ॥
त्री , रो॒च॒ना , व॒रु॒ण॒ , त्रीन् , उ॒त , द्यून् , त्रीणि॑ , मि॒त्र॒ , धा॒र॒य॒थः॒ , रजां॑सि । व॒वृ॒धा॒नौ , अ॒मतिं॑ , क्ष॒त्रिय॑स्य , अनु॑ , व्र॒तं , रक्ष॑माणौ , अ॒जु॒र्यं ॥
इरा॑वतीर्वरुण धे॒नवो॑ वां॒ मधु॑मद्वां॒ सिंध॑वो मित्र दुह्रे । त्रय॑स्तस्थुर्वृष॒भास॑स्तिसृ॒णां धि॒षणा॑नां रेतो॒धा वि द्यु॒मंतः॑ ॥
इरा॑ऽवतीः , व॒रु॒ण॒ , धे॒नवः॑ , वां॒ , मधु॑ऽमत् , वां॒ , सिंध॑वः , मि॒त्र॒ , दु॒ह्रे॒ । त्रयः॑ , त॒स्थुः॒ , वृ॒ष॒भासः॑ , ति॒सॄ॒णां , धि॒षणा॑नां , रे॒तः॒ऽधाः , वि , द्यु॒ऽमंतः॑ ॥
प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य । रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे॑ तो॒काय॒ तन॑याय॒ शं योः ॥
प्रा॒तः , दे॒वीं , अदि॑तिं , जो॒ह॒वी॒मि॒ , म॒ध्यंदि॑ने , उत्ऽइ॑ता , सूर्य॑स्य । रा॒ये , मि॒त्रा॒व॒रु॒णा॒ , स॒र्वऽता॑ता , ईळे॑ , तो॒काय॑ , तन॑याय , शं , योः ॥
या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य । न वां॑ दे॒वा अ॒मृता॒ आ मि॑नंति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑ ॥
या , ध॒र्तारा॑ , रज॑सः , रो॒च॒नस्य॑ , उ॒त , आ॒दि॒त्या , दि॒व्या , पार्थि॑वस्य । न , वां॒ , दे॒वाः , अ॒मृताः॑ , आ , मि॒नं॒ति॒ , व्र॒तानि॑ , मि॒त्रा॒व॒रु॒णा॒ , ध्रु॒वाणि॑ ॥
[७०] पुरुरुणेति चतुरृचस्य सूक्तस्यात्रेय उरुचक्रिर्मित्रावरुणौगायत्री |
पु॒रू॒रुणा॑ चि॒द्ध्यस्त्यवो॑ नू॒नं वां॑ वरुण । मित्र॒ वंसि॑ वां सुम॒तिं ॥
पु॒रु॒ऽउ॒रुणा॑ , चि॒त् , हि , अस्ति॑ , अवः॑ , नू॒नं , वां॒ , व॒रु॒ण॒ । मित्र॑ , वंसि॑ , वां॒ , सु॒ऽम॒तिं ॥
ता वां॑ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से । व॒यं ते रु॑द्रा स्याम ॥
ता , वां॒ , स॒म्यक् , अ॒द्रु॒ह्वा॒णा॒ , इषं॑ , अ॒श्या॒म॒ , धाय॑से । व॒यं , ते , रु॒द्रा॒ , स्या॒म॒ ॥
पा॒तं नो॑ रुद्रा पा॒युभि॑रु॒त त्रा॑येथां सुत्रा॒त्रा । तु॒र्याम॒ दस्यूं॑त॒नूभिः॑ ॥
पा॒तं , नः॒ , रु॒द्रा॒ , पा॒युऽभिः॑ , उ॒त , त्रा॒ये॒थां॒ , सु॒ऽत्रा॒त्रा । तु॒र्याम॑ , दस्यू॑न् , त॒नूभिः॑ ॥
मा कस्या॑द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभिः॑ । मा शेष॑सा॒ मा तन॑सा ॥
मा , कस्य॑ , अ॒द्भु॒त॒क्र॒तू॒ इत्य॑द्भुतऽक्रतू , य॒क्षं , भु॒जे॒म॒ , त॒नूभिः॑ । मा , शेष॑सा , मा , तन॑सा ॥
[७१] आनोगंतरिति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणौगायत्री |
आ नो॑ गंतं रिशादसा॒ वरु॑ण॒ मित्र॑ ब॒र्हणा॑ । उपे॒मं चारु॑मध्व॒रं ॥
आ , नः॒ , गं॒तं॒ , रि॒शा॒द॒सा॒ , वरु॑ण , मित्र॑ , ब॒र्हणा॑ । उप॑ , इ॒मं , चारुं॑ , अ॒ध्व॒रं ॥
विश्व॑स्य॒ हि प्र॑चेतसा॒ वरु॑ण॒ मित्र॒ राज॑थः । ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥
विश्व॑स्य , हि , प्र॒ऽचे॒त॒सा॒ , वरु॑ण , मित्र॑ , राज॑थः । ई॒शा॒ना , पि॒प्य॒तं॒ , धियः॑ ॥
उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुषः॑ । अ॒स्य सोम॑स्य पी॒तये॑ ॥
उप॑ , नः॒ , सु॒तं , आ , ग॒तं॒ , वरु॑ण , मित्र॑ , दा॒शुषः॑ । अ॒स्य , सोम॑स्य , पी॒तये॑ ॥
[७२] आमित्रइति तृचस्य सूक्तस्यात्रेयोबाहुवृक्तोमित्रावरुणावुष्णिक् |
आ मि॒त्रे वरु॑णे व॒यं गी॒र्भिर्जु॑हुमो अत्रि॒वत् । नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ॥
आ , मि॒त्रे , वरु॑णे , व॒यं , गीः॒ऽभिः , जु॒हु॒मः॒ , अ॒त्रि॒ऽवत् । नि , ब॒र्हिषि॑ , स॒द॒तं॒ , सोम॑ऽपीतये ॥
व्र॒तेन॑ स्थो ध्रु॒वक्षे॑मा॒ धर्म॑णा यात॒यज्ज॑ना । नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ॥
व्र॒तेन॑ , स्थः॒ , ध्रु॒वऽक्षे॑मा , धर्म॑णा , या॒त॒यत्ऽज॑ना । नि , ब॒र्हिषि॑ , स॒द॒तं॒ , सोम॑ऽपीतये ॥
मि॒त्रश्च॑ नो॒ वरु॑णश्च जु॒षेतां॑ य॒ज्ञमि॒ष्टये॑ । नि ब॒र्हिषि॑ सदतां॒ सोम॑पीतये ॥
मि॒त्रः , च॒ , नः॒ , वरु॑णः , च॒ , जु॒षेतां॑ , य॒ज्ञं , इ॒ष्टये॑ । नि , ब॒र्हिषि॑ , स॒द॒तं॒ , सोम॑ऽपीतये ॥
[७३] यदद्यस्थइति दशर्चस्यसूतस्यात्रेयः पौरोश्विनावनुष्टुप् |
यद॒द्य स्थः प॑रा॒वति॒ यद॑र्वा॒वत्य॑श्विना । यद्वा॑ पु॒रू पु॑रुभुजा॒ यदं॒तरि॑क्ष॒ आ ग॑तं ॥
यत् , अ॒द्य , स्थः , पा॒रा॒ऽवति॑ , यत् , आ॒र्वा॒ऽवति॑ , अ॒श्वि॒ना॒ । यत् , वा॒ , पु॒रु , पु॒रु॒ऽभु॒जा॒ , यत् , अं॒तरि॑क्षे , आ , ग॒तं॒ ॥
इ॒ह त्या पु॑रु॒भूत॑मा पु॒रू दंसां॑सि॒ बिभ्र॑ता । व॒र॒स्या या॒म्यध्रि॑गू हु॒वे तु॒विष्ट॑मा भु॒जे ॥
इ॒ह , त्या , पु॒रु॒ऽभूत॑मा , पु॒रु , दंसां॑सि , बिभ्र॑ता । व॒र॒स्या , या॒मि॒ , अध्रि॑गू॒ इत्यध्रि॑ऽगू , हु॒वे , तु॒विःऽत॑मा , भु॒जे ॥
ई॒र्मान्यद्वपु॑षे॒ वपु॑श्च॒क्रं रथ॑स्य येमथुः । पर्य॒न्या नाहु॑षा यु॒गा म॒ह्ना रजां॑सि दीयथः ॥
ई॒र्मा , अ॒न्यत् , वपु॑षे , वपुः॑ , च॒क्रं , रथ॑स्य , ये॒म॒थुः॒ । परि॑ , अ॒न्या , नाहु॑षा , यु॒गा , म॒ह्ना , रजां॑सि , दी॒य॒थः॒ ॥
तदू॒ षु वा॑मे॒ना कृ॒तं विश्वा॒ यद्वा॒मनु॒ ष्टवे॑ । नाना॑ जा॒ताव॑रे॒पसा॒ सम॒स्मे बंधु॒मेय॑थुः ॥
तत् , ऊँ॒ इति॑ , सु , वां॒ , ए॒ना , कृ॒तं , विश्वा॑ , यत् , वां॒ , अनु॑ , स्तवे॑ । नाना॑ , जा॒तौ , अ॒रे॒पसा॑ , सं , अ॒स्मे इति॑ , बंधुं॑ , आ , ई॒य॒थुः॒ ॥
आ यद्वां॑ सू॒र्या रथं॒ तिष्ठ॑द्रघु॒ष्यदं॒ सदा॑ । परि॑ वामरु॒षा वयो॑ घृ॒णा व॑रंत आ॒तपः॑ ॥
आ , यत् , वां॒ , सू॒र्या , रथं॑ , तिष्ठ॑त् , र॒घु॒ऽस्यदं॑ , सदा॑ । परि॑ , वां॒ , अ॒रु॒षाः , वयः॑ , घृ॒णा , व॒रं॒ते॒ , आ॒ऽतपः॑ ॥
यु॒वोरत्रि॑श्चिकेतति॒ नरा॑ सु॒म्नेन॒ चेत॑सा । घ॒र्मं यद्वा॑मरे॒पसं॒ नास॑त्या॒स्ना भु॑र॒ण्यति॑ ॥
यु॒वोः , अत्रिः॑ , चि॒के॒त॒ति॒ , नरा॑ , सु॒म्नेन॑ , चेत॑सा । घ॒र्मं , यत् , वां॒ , अ॒रे॒पसं॑ , नास॑त्या , आ॒स्ना , भु॒र॒ण्यति॑ ॥
उ॒ग्रो वां॑ ककु॒हो य॒यिः शृ॒ण्वे यामे॑षु संत॒निः । यद्वां॒ दंसो॑भिरश्वि॒नात्रि॑र्नराव॒वर्त॑ति ॥
उ॒ग्रः , वां॒ , क॒कु॒हः , य॒यिः , शृ॒ण्वे , यामे॑षु , सं॒ऽत॒निः । यत् , वां॒ , दंसः॑ऽभिः , अ॒श्वि॒ना॒ , अत्रिः॑ , न॒रा॒ , आ॒ऽव॒वर्त॑ति ॥
मध्व॑ ऊ॒ षु म॑धूयुवा॒ रुद्रा॒ सिष॑क्ति पि॒प्युषी॑ । यत्स॑मु॒द्राति॒ पर्ष॑थः प॒क्वाः पृक्षो॑ भरंत वां ॥
मध्वः॑ , ऊँ॒ इति॑ , सु , म॒धु॒ऽयु॒वा॒ , रुद्रा॑ , सिस॑क्ति , पि॒प्युषी॑ । यत् , स॒मु॒द्रा , अति॑ , पर्ष॑थः , प॒क्वाः , पृक्षः॑ , भ॒रं॒त॒ , वां॒ ॥
स॒त्यमिद्वा उ॑ अश्विना यु॒वामा॑हुर्मयो॒भुवा॑ । ता याम॑न्याम॒हूत॑मा॒ याम॒न्ना मृ॑ळ॒यत्त॑मा ॥
स॒त्यं , इत् , वै , ऊँ॒ इति॑ , अ॒श्वि॒ना॒ , यु॒वां , आ॒हुः॒ , म॒यः॒ऽभुवा॑ । ता , याम॑न् , या॒म॒ऽहूत॑मा , याम॑न् , आ , मृ॒ळ॒यत्ऽत॑मा ॥
इ॒मा ब्रह्मा॑णि॒ वर्ध॑ना॒श्विभ्यां॑ संतु॒ शंत॑मा । या तक्षा॑म॒ रथाँ॑ इ॒वावो॑चाम बृ॒हन्नमः॑ ॥
इ॒मा , ब्रह्मा॑णि , वर्ध॑ना , अ॒श्विऽभ्यां॑ , सं॒तु॒ , शंऽत॑मा । या , तक्षा॑म , रथा॑न्ऽइव , अवो॑चाम , बृ॒हत् , नमः॑ ॥
[७४] कूष्ठोदेवाविति दशर्चस्य सूक्तस्यात्रेयः पौरोश्विनावनुष्टुप् |
कूष्ठो॑ देवावश्विना॒द्या दि॒वो म॑नावसू । तच्छ्र॑वथो वृषण्वसू॒ अत्रि॑र्वा॒मा वि॑वासति ॥
कूऽस्थः॑ , दे॒वौ॒ , अ॒श्वि॒ना॒ , अ॒द्य , दि॒वः , म॒ना॒व॒सू॒ इति॑ । तत् , श्र॒व॒थः॒ , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू , अत्रिः॑ , वां॒ , आ , वि॒वा॒स॒ति॒ ॥
कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास॑त्या । कस्मि॒न्ना य॑तथो॒ जने॒ को वां॑ न॒दीनां॒ सचा॑ ॥
कुह॑ , त्या , कुह॑ , नु , श्रु॒ता , दि॒वि , दे॒वा , नास॑त्या । कस्मि॑न् , आ , य॒त॒थः॒ , जने॑ , कः , वां॒ , न॒दीनां॑ , सचा॑ ॥
कं या॑थः॒ कं ह॑ गच्छथः॒ कमच्छा॑ युंजाथे॒ रथं॑ । कस्य॒ ब्रह्मा॑णि रण्यथो व॒यं वा॑मुश्मसी॒ष्टये॑ ॥
कं , या॒थः॒ , कं , ह॒ , ग॒च्छ॒थः॒ , कं , अच्छ॑ , युं॒जा॒थे॒ इति॑ , रथं॑ । कस्य॑ , ब्रह्मा॑णि , र॒ण्य॒थः॒ , व॒यं , वां॒ , उ॒श्म॒सि॒ , इ॒ष्टये॑ ॥
पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः । यदीं॑ गृभी॒तता॑तये सिं॒हमि॑व द्रु॒हस्प॒दे ॥
पौ॒रं , चि॒त् , हि , उ॒द॒ऽप्रुतं॑ , पौर॑ , पौ॒राय॑ , जिन्व॑थः । यत् , ईं॒ , गृ॒भी॒तऽता॑तये , सिं॒हंऽइ॑व , द्रु॒हः , प॒दे ॥
प्र च्यवा॑नाज्जुजु॒रुषो॑ व॒व्रिमत्कं॒ न मुं॑चथः । युवा॒ यदी॑ कृ॒थः पुन॒रा काम॑मृण्वे व॒ध्वः॑ ॥
प्र , च्यवा॑नात् , जु॒जु॒रुषः॑ , व॒व्रिं , अत्कं॑ , न , मुं॒च॒थः॒ । युवा॑ , यदि॑ , कृ॒थः , पुनः॑ , आ , कामं॑ , ऋ॒ण्वे॒ , व॒ध्वः॑ ॥
अस्ति॒ हि वा॑मि॒ह स्तो॒ता स्मसि॑ वां सं॒दृशि॑ श्रि॒ये । नू श्रु॒तं म॒ आ ग॑त॒मवो॑भिर्वाजिनीवसू ॥
अस्ति॑ , हि , वां॒ , इ॒ह , स्तो॒ता , स्मसि॑ , वां॒ , सं॒ऽदृशि॑ , श्रि॒ये । नु , श्रु॒तं , मे॒ , आ , ग॒तं॒ , अवः॑ऽभिः , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥
को वा॑म॒द्य पु॑रू॒णामा व॑व्ने॒ मर्त्या॑नां । को विप्रो॑ विप्रवाहसा॒ को य॒ज्ञैर्वा॑जिनीवसू ॥
कः , वां॒ , अ॒द्य , पु॒रू॒णां , आ , व॒व्ने॒ , मर्त्या॑नां । कः , विप्रः॑ , वि॒प्र॒ऽवा॒ह॒सा॒ , कः , य॒ज्ञैः , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥
आ वां॒ रथो॒ रथा॑नां॒ येष्ठो॑ यात्वश्विना । पु॒रू चि॑दस्म॒युस्ति॒र आं॑गू॒षो मर्त्ये॒ष्वा ॥
आ , वां॒ , रथः॑ , रथा॑नां , येष्ठः॑ , या॒तु॒ , अ॒श्वि॒ना॒ । पु॒रु , चि॒त् , अ॒स्म॒ऽयुः , ति॒रः , आं॒गू॒षः , मर्त्ये॑षु , आ ॥
शमू॒ षु वां॑ मधूयुवा॒स्माक॑मस्तु चर्कृ॒तिः । अ॒र्वा॒ची॒ना वि॑चेतसा॒ विभिः॑ श्ये॒नेव॑ दीयतं ॥
शं , ऊँ॒ इति॑ , सु , वां॒ , म॒धु॒ऽयु॒वा॒ , अ॒स्माकं॑ , अ॒स्तु॒ , च॒र्कृ॒तिः । अ॒र्वा॒ची॒ना , वि॒ऽचे॒त॒सा॒ , विऽभिः॑ , श्ये॒नाऽइ॑व , दी॒य॒तं॒ ॥
अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हवं॑ । वस्वी॑रू॒ षु वां॒ भुजः॑ पृं॒चंति॒ सु वां॒ पृचः॑ ॥
अश्वि॑ना , यत् , ह॒ , कर्हि॑ , चि॒त् , शु॒श्रु॒यातं॑ , इ॒मं , हवं॑ । वस्वीः॑ , ऊँ॒ इति॑ , सु , वां॒ , भुजः॑ , पृं॒चंति॑ , सु , वां॒ , पृचः॑ ॥
[७५] प्रतिप्रियतममिति नवर्चस्य सूक्तस्यात्रेयोवस्युरश्विनौपंक्तिः |
प्रति॑ प्रि॒यत॑मं॒ रथं॒ वृष॑णं वसु॒वाह॑नं । स्तो॒ता वा॑मश्विना॒वृषिः॒ स्तोमे॑न॒ प्रति॑ भूषति॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥
प्रति॑ , प्रि॒यऽत॑मं , रथं॑ , वृष॑णं , व॒सु॒ऽवाह॑नं । स्तो॒ता , वां॒ , अ॒श्वि॒नौ॒ , ऋषिः॑ , स्तोमे॑न , प्रति॑ , भू॒ष॒ति॒ , माध्वी॒ इति॑ , मम॑ , श्रुतं॑ , हवं॑ ॥
अ॒त्याया॑तमश्विना ति॒रो विश्वा॑ अ॒हं सना॑ । दस्रा॒ हिर॑ण्यवर्तनी॒ सुषु॑म्ना॒ सिंधु॑वाहसा॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥
अ॒ति॒ऽआया॑तं , अ॒श्वि॒ना॒ , ति॒रः , विश्वाः॑ , अ॒हं , सना॑ । दस्रा॑ , हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी , सुऽसु॑म्ना , सिंधु॑ऽवाहसा , माध्वी॒ इति॑ , मम॑ , श्रुतं॑ , हवं॑ ॥
आ नो॒ रत्ना॑नि॒ बिभ्र॑ता॒वश्वि॑ना॒ गच्छ॑तं यु॒वं । रुद्रा॒ हिर॑ण्यवर्तनी जुषा॒णा वा॑जिनीवसू॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥
आ , नः॒ , रत्ना॑नि , बिभ्र॑तौ , अश्वि॑ना , गच्छ॑तं , यु॒वं । रुद्रा॑ , हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी , जु॒षा॒णा , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू , माध्वी॒ इति॑ , मम॑ , श्रुतं॑ , हवं॑ ॥
सु॒ष्टुभो॑ वां वृषण्वसू॒ रथे॒ वाणी॒च्याहि॑ता । उ॒त वां॑ ककु॒हो मृ॒गः पृक्षः॑ कृणोति वापु॒षो माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥
सु॒ऽस्तुभः॑ , वां॒ , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू , रथे॑ , वाणी॑ची , आऽहि॑ता । उ॒त , वां॒ , क॒कु॒हः , मृ॒गः , पृक्षः॑ , कृ॒णो॒ति॒ , वा॒पु॒षः , माध्वी॒ इति॑ , मम॑ , श्रु॒तं॒ , हवं॑ ॥
बो॒धिन्म॑नसा र॒थ्ये॑षि॒रा ह॑वन॒श्रुता॑ । विभि॒श्च्यवा॑नमश्विना॒ नि या॑थो॒ अद्व॑याविनं॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥
बो॒धित्ऽम॑नसा , र॒थ्या॑ , इ॒षि॒रा , ह॒व॒न॒ऽश्रुता॑ । विऽभिः॑ , च्यवा॑नं , अ॒श्वि॒ना॒ , नि , या॒थः॒ , अद्व॑याविनं , माध्वी॒ इति॑ , मम॑ , श्रु॒तं॒ , हवं॑ ॥
आ वां॑ नरा मनो॒युजोऽश्वा॑सः प्रुषि॒तप्स॑वः । वयो॑ वहंतु पी॒तये॑ स॒ह सु॒म्नेभि॑रश्विना॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥
आ , वां॒ , न॒रा॒ , म॒नः॒ऽयुजः॑ , अश्वा॑सः , प्रु॒षि॒तऽप्स॑वः । वयः॑ , व॒हं॒तु॒ , पी॒तये॑ , स॒ह , सु॒म्नेभिः॑ , अ॒श्वि॒ना॒ , माध्वी॒ इति॑ , मम॑ , श्रु॒तं॒ , हवं॑ ॥
अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतं । ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या॑तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥
अश्वि॑नौ , आ , इ॒ह , ग॒च्छ॒तं॒ , नास॑त्या , मा , वि , वे॒न॒तं॒ । ति॒रः , चि॒त् , अ॒र्य॒ऽया , परि॑ , व॒र्तिः , या॒तं॒ , अ॒दा॒भ्या॒ , माध्वी॒ इति॑ , मम॑ , श्रु॒तं॒ , हवं॑ ॥
अ॒स्मिन्य॒ज्ञे अ॑दाभ्या जरि॒तारं॑ शुभस्पती । अ॒व॒स्युम॑श्विना यु॒वं गृ॒णंत॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥
अ॒स्मिन् , य॒ज्ञे , अ॒दा॒भ्या॒ , ज॒रि॒तारं॑ , शु॒भः॒ , प॒ती॒ इति॑ । अ॒व॒स्युं , अ॒श्वि॒ना॒ , यु॒वं , गृ॒णंतं॑ , उप॑ , भू॒ष॒थः॒ , माध्वी॒ इति॑ , मम॑ , श्रु॒तं॒ , हवं॑ ॥
अभू॑दु॒षा रुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑ । अयो॑जि वां वृषण्वसू॒ रथो॑ दस्रा॒वम॑र्त्यो॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥
अभू॑त् , उ॒षाः , रुश॑त्ऽपशुः , आ , अ॒ग्निः , अ॒धा॒यि॒ , ऋ॒त्वियः॑ । अयो॑जि , वां॒ , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू , रथः॑ , द॒स्रौ॒ , अम॑र्त्यः , माध्वी॒ इति॑ , मम॑ , श्रु॒तं॒ , हवं॑ ॥
[७६] आभात्यग्निरिति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् |
आ भा॑त्य॒ग्निरु॒षसा॒मनी॑क॒मुद्विप्रा॑णां देव॒या वाचो॑ अस्थुः । अ॒र्वांचा॑ नू॒नं र॑थ्ये॒ह या॑तं पीपि॒वांस॑मश्विना घ॒र्ममच्छ॑ ॥
आ , भा॒ति॒ , अ॒ग्निः , उ॒षसां॑ , अनी॑कं , उत् , विप्रा॑णां , दे॒व॒ऽयाः , वाचः॑ , अ॒स्थुः॒ । अ॒र्वांचा॑ , नू॒नं , र॒थ्या॒ , इ॒ह , या॒तं॒ , पी॒पि॒ऽवांसं॑ , अ॒श्वि॒ना॒ , घ॒र्मं , अच्छ॑ ॥
न सं॑स्कृ॒तं प्र मि॑मीतो॒ गमि॒ष्ठांति॑ नू॒नम॒श्विनोप॑स्तुते॒ह । दिवा॑भिपि॒त्वेऽव॒साग॑मिष्ठा॒ प्रत्यव॑र्तिं दा॒शुषे॒ शंभ॑विष्ठा ॥
न , सं॒स्कृ॒तं , प्र , मि॒मी॒तः॒ , गमि॑ष्ठा , अंति॑ , नू॒नं , अ॒श्विना॑ , उप॑ऽस्तुता , इ॒ह । दिवा॑ , अ॒भि॒ऽपि॒त्वे , अव॑सा , आऽग॑मिष्ठा , प्रति॑ , अव॑र्तिं , दा॒शुषे॑ , शंऽभ॑विष्ठा ॥
उ॒ता या॑तं संग॒वे प्रा॒तरह्नो॑ म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य । दिवा॒ नक्त॒मव॑सा॒ शंत॑मेन॒ नेदानीं॑ पी॒तिर॒श्विना त॑तान ॥
उ॒त , आ , या॒तं॒ , सं॒ऽग॒वे , प्रा॒तः , अह्नः॑ , म॒ध्यंदि॑ने , उत्ऽइ॑ता , सूर्य॑स्य । दिवा॑ , नक्तं॑ , अव॑सा , शंऽत॑मेन , न , इ॒दानीं॑ , पी॒तिः , अ॒श्विना॑ , आ , त॒ता॒न॒ ॥
इ॒दं हि वां॑ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा अ॑श्विने॒दं दु॑रो॒णं । आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दाद्भ्यो या॑त॒मिष॒मूर्जं॒ वहं॑ता ॥
इ॒दं , हि , वां॒ , प्र॒ऽदिवि॑ , स्थानं॑ , ओकः॑ , इ॒मे , गृ॒हाः , अ॒श्वि॒ना॒ , इ॒दं , दु॒रो॒णं । आ , नः॒ , दि॒वः , बृ॒ह॒तः , पर्व॑तात् , आ , अ॒त्ऽभ्यः , या॒तं॒ , इषं॑ , ऊर्जं॑ , वहं॑ता ॥
सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम । आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥
सं , अ॒श्विनोः॑ , अव॑सा , नूत॑नेन , म॒यः॒ऽभुवा॑ , सु॒ऽप्रनी॑ती , ग॒मे॒म॒ । आ , नः॒ , र॒यिं , व॒ह॒तं॒ , आ , उ॒त , वी॒रान् , आ , विश्वा॑नि , अ॒मृ॒ता॒ , सौभ॑गानि ॥
[७७] प्रातर्यावाणेति पंचर्चस्य सूक्तस्य भौमोत्रिरश्विनौत्रिष्टुप् |
प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः । प्रा॒तर्हि य॒ज्ञम॒श्विना॑ द॒धाते॒ प्र शं॑संति क॒वयः॑ पूर्व॒भाजः॑ ॥
प्रा॒तः॒ऽयावा॑ना , प्र॒थ॒मा , य॒ज॒ध्वं॒ , पु॒रा , गृध्रा॑त् , अर॑रुषः , पि॒बा॒तः॒ । प्रा॒तः , हि , य॒ज्ञं , अ॒श्विना॑ , द॒धाते॒ इति॑ , प्र , शं॒सं॒ति॒ , क॒वयः॑ , पू॒र्व॒ऽभाजः॑ ॥
प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत॒ न सा॒यम॑स्ति देव॒या अजु॑ष्टं । उ॒तान्यो अ॒स्मद्य॑जते॒ वि चावः॒ पूर्वः॑पूर्वो॒ यज॑मानो॒ वनी॑यान् ॥
प्रा॒तः , य॒ज॒ध्वं॒ , अ॒श्विना॑ , हि॒नो॒त॒ , न , सा॒यं , अ॒स्ति॒ , दे॒व॒ऽयाः , अजु॑ष्टं । उ॒त , अ॒न्यः , अ॒स्मत् , य॒ज॒ते॒ , वि , च॒ , आवः॑ , पूर्वः॑ऽपूर्वः , यज॑मानः , वनी॑यान् ॥
हिर॑ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नुः॒ पृक्षो॒ वह॒न्ना रथो॑ वर्तते वां । मनो॑जवा अश्विना॒ वात॑रंहा॒ येना॑तिया॒थो दु॑रि॒तानि॒ विश्वा॑ ॥
हिर॑ण्यऽत्वक् , मधु॑ऽवर्णः , घृ॒तऽस्नुः॑ , पृक्षः॑ , वह॑न् , आ , रथः॑ , व॒र्त॒ते॒ , वां॒ । मनः॑ऽजवाः , अ॒श्वि॒ना॒ , वात॑ऽरंहाः , येन॑ , अ॒ति॒ऽया॒थः , दुः॒ऽइ॒तानि॑ , विश्वा॑ ॥
यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष॒ चनि॑ष्ठं पि॒त्वो रर॑ते विभा॒गे । स तो॒कम॑स्य पीपर॒च्छमी॑भि॒रनू॑र्ध्वभासः॒ सद॒मित्तु॑तुर्यात् ॥
यः , भूयि॑ष्ठं , नास॑त्याभ्यां , वि॒वेष॑ , चनि॑ष्ठं , पि॒त्वः , रर॑ते , वि॒ऽभा॒गे । सः , तो॒कं , अ॒स्य॒ , पी॒प॒र॒त् , शमी॑भिः , अनू॑र्ध्वऽभासः , सदं॑ , इत् , तु॒तु॒र्या॒त् ॥
सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम । आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥
सं , अ॒श्विनोः॑ , अव॑सा , नूत॑नेन , म॒यः॒ऽभुवा॑ , सु॒ऽप्रनी॑ती , ग॒मे॒म॒ । आ , नः॒ , र॒यिं , व॒ह॒तं॒ , आ , उ॒त , वी॒रान् , आ , विश्वा॑नि , अ॒मृ॒ता॒ , सौभ॑गानि ॥
[७८] अश्विनाविति नवर्चस्य सूक्तस्यात्रेयःसप्तवध्रिरश्विनावनुष्टुप् आद्यास्तिस्रउष्णिहश्चतुर्थीत्रिष्टुप् ( पंचम्यादिपंचगर्भस्राविण्यउपनिषदः ) |
अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतं । हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥
अश्वि॑नौ , आ , इ॒ह , ग॒च्छ॒तं॒ , नास॑त्या , मा , वि , वे॒न॒तं॒ । हं॒सौऽइ॑व , प॒त॒तं॒ , आ , सु॒तान् , उप॑ ॥
अश्वि॑ना हरि॒णावि॑व गौ॒रावि॒वानु॒ यव॑सं । हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥
अश्वि॑ना , ह॒रि॒णौऽइ॑व , गौ॒रौऽइ॑व , अनु॑ , यव॑सं । हं॒सौऽइ॑व , प॒त॒तं॒ , आ , सु॒तान् , उप॑ ॥
अश्वि॑ना वाजिनीवसू जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ । हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥
अश्वि॑ना , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू , जु॒षेथां॑ , य॒ज्ञं , इ॒ष्टये॑ । हं॒सौऽइ॑व , प॒त॒तं॒ , आ , सु॒तान् , उप॑ ॥
अत्रि॒र्यद्वा॑मव॒रोह॑न्नृ॒बीस॒मजो॑हवी॒न्नाध॑मानेव॒ योषा॑ । श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒नाग॑च्छतमश्विना॒ शंत॑मेन ॥
अत्रिः॑ , यत् , वां॒ , अ॒व॒ऽरोह॑न् , ऋ॒बीसं॑ , अजो॑हवीत् , नाध॑मानाऽइव , योषा॑ । श्ये॒नस्य॑ , चि॒त् , जव॑सा , नूत॑नेन , आ , अ॒ग॒च्छ॒तं॒ , अ॒श्वि॒ना॒ , शंऽत॑मेन ॥
वि जि॑हीष्व वनस्पते॒ योनिः॒ सूष्यं॑त्या इव । श्रु॒तं मे॑ अश्विना॒ हवं॑ स॒प्तव॑ध्रिं च मुंचतं ॥
वि , जि॒ही॒ष्व॒ , व॒न॒स्प॒ते॒ , योनिः॑ , सूष्यं॑त्याःऽइव । श्रु॒तं , मे॒ , अ॒श्वि॒ना॒ , हवं॑ , स॒प्तऽव॑ध्रिं , च॒ , मुं॒च॒तं॒ ॥
भी॒ताय॒ नाध॑मानाय॒ ऋष॑ये स॒प्तव॑ध्रये । मा॒याभि॑रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा॑चथः ॥
भी॒ताय॑ , नाध॑मानाय , ऋष॑ये , स॒प्तऽव॑ध्रये । मा॒याभिः॑ , अ॒श्वि॒ना॒ , यु॒वं , वृ॒क्षं , सं , च॒ , वि , च॒ , अ॒च॒थः॒ ॥
यथा॒ वातः॑ पुष्क॒रिणीं॑ समिं॒गय॑ति स॒र्वतः॑ । ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः ॥
यथा॑ , वातः॑ , पु॒ष्क॒रिणीं॑ , सं॒ऽइं॒गय॑ति , स॒र्वतः॑ । ए॒व , ते॒ , गर्भः॑ , ए॒ज॒तु॒ , निः॒ऽऐतु॑ , दश॑ऽमास्यः ॥
यथा॒ वातो॒ यथा॒ वनं॒ यथा॑ समु॒द्र एज॑ति । ए॒वा त्वं द॑शमास्य स॒हावे॑हि ज॒रायु॑णा ॥
यथा॑ , वातः॑ , यथा॑ , वनं॑ , यथा॑ , स॒मु॒द्रः , एज॑ति । ए॒व , त्वं , द॒श॒ऽमा॒स्य॒ , स॒ह , अव॑ , इ॒हि॒ , ज॒रायु॑णा ॥
दश॒ मासां॑छशया॒नः कु॑मा॒रो अधि॑ मा॒तरि॑ । नि॒रैतु॑ जी॒वो अक्ष॑तो जी॒वो जीवं॑त्या॒ अधि॑ ॥
दश॑ , मासा॑न् , श॒श॒या॒नः , कु॒मा॒रः , अधि॑ , मा॒तरि॑ । निः॒ऽऐतु॑ , जी॒वः , अक्ष॑तः , जी॒वः , जीवं॑त्याः , अधि॑ ॥
[७९] महेनइति दशर्चस्य सूक्तस्यात्रेयःसत्यश्रवाउषाःपंक्तिः |
म॒हे नो॑ अ॒द्य बो॑ध॒योषो॑ रा॒ये दि॒वित्म॑ती । यथा॑ चिन्नो॒ अबो॑धयः स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥
म॒हे , नः॒ , अ॒द्य , बो॒ध॒य॒ , उषः॑ , रा॒ये , दि॒वित्म॑ती । यथा॑ , चि॒त् , नः॒ , अबो॑धयः , स॒त्यऽश्र॑वसि , वा॒य्ये , सुऽजा॑ते , अश्व॑ऽसूनृते ॥
या सु॑नी॒थे शौ॑चद्र॒थे व्यौच्छो॑ दुहितर्दिवः । सा व्यु॑च्छ॒ सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥
या , सु॒ऽनी॒थे , शौ॒च॒त्ऽर॒थे , वि , औच्छः॑ , दु॒हि॒तः॒ , दि॒वः॒ । सा , वि , उ॒च्छ॒ , सही॑यसि , स॒त्यऽश्र॑वसि , वा॒य्ये , सुऽजा॑ते , अश्व॑ऽसूनृते ॥
सा नो॑ अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छा दुहितर्दिवः । यो व्यौच्छः॒ सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥
सा , नः॒ , अ॒द्य , आ॒भ॒रत्ऽव॑सुः , वि , उ॒च्छ॒ , दु॒हि॒तः॒ , दि॒वः॒ । यो इति॑ , वि , औच्छः॑ , सही॑यसि , स॒त्यऽश्र॑वसि , वा॒य्ये , सुऽजा॑ते , अश्व॑ऽसूनृते ॥
अ॒भि ये त्वा॑ विभावरि॒ स्तोमै॑र्गृ॒णंति॒ वह्न॑यः । म॒घैर्म॑घोनि सु॒श्रियो॒ दाम॑न्वंतः सुरा॒तयः॒ सुजा॑ते॒ अश्व॑सूनृते ॥
अ॒भि , ये , त्वा॒ , वि॒भा॒ऽव॒रि॒ , स्तोमैः॑ , गृ॒णंति॑ , वह्न॑यः । म॒घैः , म॒घो॒नि॒ , सु॒ऽश्रियः॑ , दाम॑न्ऽवंतः , सु॒ऽरा॒तयः॑ , सुऽजा॑ते , अश्व॑ऽसूनृते ॥
यच्चि॒द्धि ते॑ ग॒णा इ॒मे छ॒दयं॑ति म॒घत्त॑ये । परि॑ चि॒द्वष्ट॑यो दधु॒र्दद॑तो॒ राधो॒ अह्र॑यं॒ सुजा॑ते॒ अश्व॑सूनृते ॥
यत् , चि॒त् , हि , ते॒ , ग॒णाः , इ॒मे , छ॒दयं॑ति , म॒घत्त॑ये । परि॑ , चि॒त् , वष्ट॑यः , द॒धुः॒ , दद॑तः , राधः॑ , अह्र॑यं , सुऽजा॑ते , अश्व॑ऽसूनृते ॥
ऐषु॑ धा वी॒रव॒द्यश॒ उषो॑ मघोनि सू॒रिषु॑ । ये नो॒ राधां॒स्यह्र॑या म॒घवा॑नो॒ अरा॑सत॒ सुजा॑ते॒ अश्व॑सूनृते ॥
आ , ए॒षु॒ , धाः॒ , वी॒रऽव॑त् , यशः॑ , उषः॑ , म॒घो॒नि॒ , सू॒रिषु॑ । ये , नः॒ , राधां॑सि , अह्र॑या , म॒घऽवा॑नः , अरा॑सत , सुऽजा॑ते , अश्व॑ऽसूनृते ॥
तेभ्यो॑ द्यु॒म्नं बृ॒हद्यश॒ उषो॑ मघो॒न्या व॑ह । ये नो॒ राधां॒स्यश्व्या॑ ग॒व्या भजं॑त सू॒रयः॒ सुजा॑ते॒ अश्व॑सूनृते ॥
तेभ्यः॑ , द्यु॒म्नं , बृ॒हत् , यशः॑ , उषः॑ , म॒घो॒नि॒ , आ , व॒ह॒ । ये , नः॒ , राधां॑सि , अश्व्या॑ , ग॒व्या , भजं॑त , सू॒रयः॑ , सुऽजा॑ते , अश्व॑ऽसूनृते ॥
उ॒त नो॒ गोम॑ती॒रिष॒ आ व॑हा दुहितर्दिवः । सा॒कं सूर्य॑स्य र॒श्मिभिः॑ शु॒क्रैः शोच॑द्भिर॒र्चिभिः॒ सुजा॑ते॒ अश्व॑सूनृते ॥
उ॒त , नः॒ , गोऽम॑तीः , इषः॑ , आ , व॒ह॒ , दु॒हि॒तः॒ , दि॒वः॒ । सा॒कं , सूर्य॑स्य , र॒श्मिऽभिः॑ , शु॒क्रैः , शोच॑त्ऽभिः , अ॒र्चिऽभिः॑ , सुऽजा॑ते , अश्व॑ऽसूनृते ॥
व्यु॑च्छा दुहितर्दिवो॒ मा चि॒रं त॑नुथा॒ अपः॑ । नेत्त्वा॑ स्ते॒नं यथा॑ रि॒पुं तपा॑ति॒ सूरो॑ अ॒र्चिषा॒ सुजा॑ते॒ अश्व॑सूनृते ॥
वि , उ॒च्छ॒ , दु॒हि॒तः॒ , दि॒वः॒ , मा , चि॒रं , त॒नु॒थाः॒ , अपः॑ । न , इत् , त्वा॒ , स्ते॒नं , यथा॑ , रि॒पुं , तपा॑ति , सूरः॑ , अ॒र्चिषा॑ , सुऽजा॑ते , अश्व॑ऽसूनृते ॥
ए॒ताव॒द्वेदु॑ष॒स्त्वं भूयो॑ वा॒ दातु॑मर्हसि । या स्तो॒तृभ्यो॑ विभावर्यु॒च्छंती॒ न प्र॒मीय॑से॒ सुजा॑ते॒ अश्व॑सूनृते ॥
ए॒ताव॑त् , वा॒ , इत् , उ॒षः॒ , त्वं , भूयः॑ , वा॒ , दातुं॑ , अ॒र्ह॒सि॒ । या , स्तो॒तृऽभ्यः॑ , वि॒भा॒ऽव॒रि॒ , उ॒च्छंती॑ , न , प्र॒ऽमीय॑से , सुऽजा॑ते , अश्व॑ऽसूनृते ॥
[८०] द्युतद्यामानमिति षडृचस्य सूक्तस्यात्रेयःसत्यश्रवाउषास्त्रिष्टुप् |
द्यु॒तद्या॑मानं बृह॒तीमृ॒तेन॑ ऋ॒ताव॑रीमरु॒णप्सुं॑ विभा॒तीं । दे॒वीमु॒षसं॒ स्व॑रा॒वहं॑तीं॒ प्रति॒ विप्रा॑सो म॒तिभि॑र्जरंते ॥
द्यु॒तत्ऽया॑मानं , बृ॒ह॒तीं , ऋ॒तेन॑ , ऋ॒तऽव॑रीं , अ॒रु॒णऽप्सुं॑ , वि॒ऽभा॒तीं । दे॒वीं , उ॒षसं॑ , स्वः॑ , आ॒ऽवहं॑तीं , प्रति॑ , विप्रा॑सः , म॒तिऽभिः॑ , ज॒रं॒ते॒ ॥
ए॒षा जनं॑ दर्श॒ता बो॒धयं॑ती सु॒गान्प॒थः कृ॑ण्व॒ती या॒त्यग्रे॑ । बृ॒ह॒द्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति॑र्यच्छ॒त्यग्रे॒ अह्नां॑ ॥
ए॒षा , जनं॑ , द॒र्श॒ता , बो॒धयं॑ती , सु॒ऽमान् , प॒थः , कृ॒ण्व॒ती , या॒ति॒ , अग्रे॑ । बृ॒ह॒त्ऽर॒था , बृ॒ह॒ती , वि॒श्वं॒ऽइ॒न्वा , उ॒षाः , ज्योतिः॑ , य॒च्छ॒ति॒ , अग्रे॑ , अह्नां॑ ॥
ए॒षा गोभि॑ररु॒णेभि॑र्युजा॒नास्रे॑धंती र॒यिमप्रा॑यु चक्रे । प॒थो रदं॑ती सुवि॒ताय॑ दे॒वी पु॑रुष्टु॒ता वि॒श्ववा॑रा॒ वि भा॑ति ॥
ए॒षा , गोभिः॑ , अ॒रु॒णेभिः॑ , यु॒जा॒ना , अस्रे॑धंती , र॒यिं , अप्र॑ऽआयु , च॒क्रे॒ । प॒थः , रदं॑ती , सु॒वि॒ताय॑ , दे॒वी , पु॒रु॒ऽस्तु॒ता , वि॒श्वऽवा॑रा , वि , भा॒ति॒ ॥
ए॒षा व्ये॑नी भवति द्वि॒बर्हा॑ आविष्कृण्वा॒ना त॒न्वं॑ पु॒रस्ता॑त् । ऋ॒तस्य॒ पंथा॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥
ए॒षा , विऽए॑नी , भ॒व॒ति॒ , द्वि॒ऽबर्हाः॑ , आ॒विः॒ऽकृ॒ण्वा॒ना , त॒न्वं॑ , पु॒रस्ता॑त् । ऋ॒तस्य॑ , पंथां॑ , अनु॑ , ए॒ति॒ , सा॒धु , प्र॒जा॒न॒तीऽइ॑व , न , दिशः॑ , मि॒ना॒ति॒ ॥
ए॒षा शु॒भ्रा न त॒न्वो॑ विदा॒नोर्ध्वेव॑ स्ना॒ती दृ॒शये॑ नो अस्थात् । अप॒ द्वेषो॒ बाध॑माना॒ तमां॑स्यु॒षा दि॒वो दु॑हि॒ता ज्योति॒षागा॑त् ॥
ए॒षा , शु॒भ्रा , न , त॒न्वः॑ , वि॒दा॒ना , ऊ॒र्ध्वाऽइ॑व , स्ना॒ती , दृ॒शये॑ , नः॒ , अ॒स्था॒त् । अप॑ , द्वेषः॑ , बाध॑माना , तमां॑सि , उ॒षाः , दि॒वः , दु॒हि॒ता , ज्योति॑षा , आ , अ॒गा॒त् ॥
ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन्योषे॑व भ॒द्रा नि रि॑णीते॒ अप्सः॑ । व्यू॒र्ण्व॒ती दा॒शुषे॒ वार्या॑णि॒ पुन॒र्ज्योति॑र्युव॒तिः पू॒र्वथा॑कः ॥
ए॒षा , प्र॒ती॒ची , दु॒हि॒ता , दि॒वः , नॄन् , योषा॑ऽइव , भ॒द्रा , नि , रि॒णी॒ते॒ , अप्सः॑ । वि॒ऽऊ॒र्ण्व॒ती , दा॒शुषे॑ , वार्या॑णि , पुनः॑ , ज्योतिः॑ , यु॒व॒तिः , पू॒र्वऽथा॑ , अ॒क॒रित्य॑कः ॥
[८१] युंजतेमनइति पंचर्चस्य सूक्तस्यात्रेयः श्यावाश्वः सविताजगती |
युं॒जते॒ मन॑ उ॒त युं॑जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥
युं॒जते॑ , मनः॑ , उ॒त , युं॒जते॑ , धियः॑ , विप्राः॑ , विप्र॑स्य , बृ॒ह॒तः , वि॒पः॒ऽचितः॑ । वि , होत्राः॑ , द॒धे॒ , व॒यु॒न॒ऽवित् , एकः॑ , इत् , म॒ही , दे॒वस्य॑ , स॒वि॒तुः , परि॑ऽस्तुतिः ॥
विश्वा॑ रू॒पाणि॒ प्रति॑ मुंचते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे । वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ॥
विश्वा॑ , रू॒पाणि॑ , प्रति॑ , मुं॒च॒ते॒ , क॒विः , प्र , अ॒सा॒वी॒त् , भ॒द्रं , द्वि॒ऽपदे॑ , चतुः॑ऽपदे । वि , नाकं॑ , अ॒ख्य॒त् , स॒वि॒ता , वरे॑ण्यः , अनु॑ , प्र॒ऽयानं॑ , उ॒षसः॑ , वि , रा॒ज॒ति॒ ॥
यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा । यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजां॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥
यस्य॑ , प्र॒ऽयानं॑ , अनु॑ , अ॒न्ये , इत् , य॒युः , दे॒वाः , दे॒वस्य॑ , म॒हि॒मानं॑ , ओज॑सा । यः , पार्थि॑वानि , वि॒ऽम॒मे , सः , एत॑शः , रजां॑सि , दे॒वः , स॒वि॒ता , म॒हि॒ऽत्व॒ना ॥
उ॒त या॑सि सवित॒स्त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभिः॒ समु॑च्यसि । उ॒त रात्री॑मुभ॒यतः॒ परी॑यस उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः ॥
उ॒त , या॒सि॒ , स॒वि॒त॒रिति॑ , त्रीणि॑ , रो॒च॒ना , उ॒त , सूर्य॑स्य , र॒श्मिऽभिः॑ , सं , उ॒च्य॒सि॒ । उ॒त , रात्रीं॑ , उ॒भ॒यतः॑ , परि॑ , ई॒य॒से॒ , उ॒त , मि॒त्रः , भ॒व॒सि॒ , दे॒व॒ , धर्म॑ऽभिः ॥
उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ॑वसि देव॒ याम॑भिः । उ॒तेदं विश्वं॒ भुव॑नं॒ वि रा॑जसि श्या॒वाश्व॑स्ते सवितः॒ स्तोम॑मानशे ॥
उ॒त , ई॒शि॒षे॒ , प्र॒ऽस॒वस्य॑ , त्वं , एकः॑ , इत् , उ॒त , पू॒षा , भ॒व॒सि॒ , दे॒व॒ , याम॑ऽभिः । उ॒त , इ॒दं , विश्वं॑ , भुव॑नं , वि , रा॒ज॒सि॒ , श्या॒वऽअ॑श्वः , ते॒ , स॒वि॒त॒रिति॑ , स्तोमं॑ , आ॒न॒शे॒ ॥
[८२] तत्सवितुरिति नवर्चस्य सूक्तस्यात्रेयःश्यावाश्वः सवितागायत्री आद्यानुष्टुप् |
तत्स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नं । श्रेष्ठं॑ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि ॥
तत् , स॒वि॒तुः , वृ॒णी॒म॒हे॒ , व॒यं , दे॒वस्य॑ , भोज॑नं । श्रेष्ठं॑ , स॒र्व॒ऽधात॑मं , तुरं॑ , भग॑स्य , धी॒म॒हि॒ ॥
अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यं । न मि॒नंति॑ स्व॒राज्यं॑ ॥
अस्य॑ , हि , स्वय॑शःऽतरं , स॒वि॒तुः , कत् , च॒न , प्रि॒यं । न , मि॒नंति॑ , स्व॒ऽराज्यं॑ ॥
स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भगः॑ । तं भा॒गं चि॒त्रमी॑महे ॥
सः , हि , रत्ना॑नि , दा॒शुषे॑ , सु॒वाति॑ , स॒वि॒ता , भगः॑ । तं , भा॒गं , चि॒त्रं , ई॒म॒हे॒ ॥
अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावीः॒ सौभ॑गं । परा॑ दु॒ष्ष्वप्न्यं॑ सुव ॥
अ॒द्य , नः॒ , दे॒व॒ , स॒वि॒त॒रिति॑ , प्र॒जाऽव॑त् , सा॒वीः॒ , सौभ॑गं । परा॑ , दुः॒ऽस्वप्न्यं॑ , सु॒व॒ ॥
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव । यद्भ॒द्रं तन्न॒ आ सु॑व ॥
विश्वा॑नि , दे॒व॒ , स॒वि॒तः॒ , दुः॒ऽइ॒तानि॑ , परा॑ , सु॒व॒ । यत् , भ॒द्रं , तत् , नः॒ , आ , सु॒व॒ ॥
अना॑गसो॒ अदि॑तये दे॒वस्य॑ सवि॒तुः स॒वे । विश्वा॑ वा॒मानि॑ धीमहि ॥
अना॑गसः , अदि॑तये , दे॒वस्य॑ , स॒वि॒तुः , स॒वे । विश्वा॑ , वा॒मानि॑ , धी॒म॒हि॒ ॥
आ वि॒श्वदे॑वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे । स॒त्यस॑वं सवि॒तारं॑ ॥
आ , वि॒श्वऽदे॑वं , सत्ऽप॑तिं , सु॒ऽउ॒क्तैः , अ॒द्य , वृ॒णी॒म॒हे॒ । स॒त्यऽस॑वं , स॒वि॒तारं॑ ॥
य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन् । स्वा॒धीर्दे॒वः स॑वि॒ता ॥
यः , इ॒मे इति॑ , उ॒भे इति॑ , अह॑नी॒ इति॑ , पु॒रः , एति॑ , अप्र॑ऽयुच्छन् । सु॒ऽआ॒धीः , दे॒वः , स॒वि॒ता ॥
य इ॒मा विश्वा॑ जा॒तान्या॑श्रा॒वय॑ति॒ श्लोके॑न । प्र च॑ सु॒वाति॑ सवि॒ता ॥
यः , इ॒मा , विश्वा॑ , जा॒तानि॑ , आ॒ऽश्र॒वय॑ति , श्लोके॑न । प्र , च॒ , सु॒वाति॑ , स॒वि॒ता ॥
[८३] अच्छावदेति दशर्चस्य सूक्तस्य भौमोत्रिः पर्जन्यस्त्रिष्टुप् द्वितीयादितिस्रोजगत्यो नवम्यनुष्टुप् |
अच्छा॑ वद त॒वसं॑ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास । कनि॑क्रदद्वृष॒भो जी॒रदा॑नू॒ रेतो॑ दधा॒त्योष॑धीषु॒ गर्भं॑ ॥
अच्छ॑ , व॒द॒ , त॒वसं॑ , गीः॒ऽभिः , आ॒भिः , स्तु॒हि , प॒र्जन्यं॑ , नम॑सा , आ , वि॒वा॒स॒ । कनि॑क्रदत् , वृ॒ष॒भः , जी॒रऽदा॑नुः , रेतः॑ , द॒धा॒ति॒ , ओष॑धीषु , गर्भं॑ ॥
वि वृ॒क्षान्हं॑त्यु॒त हं॑ति र॒क्षसो॒ विश्वं॑ बिभाय॒ भुव॑नं म॒हाव॑धात् । उ॒ताना॑गा ईषते॒ वृष्ण्या॑वतो॒ यत्प॒र्जन्यः॑ स्त॒नय॒न्हंति॑ दु॒ष्कृतः॑ ॥
वि , वृ॒क्षान् , हं॒ति॒ , उ॒त , हं॒ति॒ , र॒क्षसः॑ , विश्वं॑ , बि॒भा॒य॒ , भुव॑नं , म॒हाऽव॑धात् । उ॒त , अना॑गाः , ई॒ष॒ते॒ , वृष्ण्य॑ऽवतः , यत् , प॒र्जन्यः॑ , स्त॒नय॑न् , हंति॑ , दुः॒ऽकृतः॑ ॥
र॒थीव॒ कश॒याश्वाँ॑ अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुते व॒र्ष्याँ॒३॒॑ अह॑ । दू॒रात्सिं॒हस्य॑ स्त॒नथा॒ उदी॑रते॒ यत्प॒र्जन्यः॑ कृणु॒ते व॒र्ष्यं१॒॑ नभः॑ ॥
र॒थीऽइ॑व , कश॑या , अश्वा॑न् , अ॒भि॒ऽक्षि॒पन् , आ॒विः , दू॒तान् , कृ॒णु॒ते॒ , व॒र्ष्या॑न् , अह॑ । दू॒रात् , सिं॒हस्य॑ , स्त॒नथाः॑ , उत् , ई॒र॒ते॒ , यत् , प॒र्जन्यः॑ , कृ॒णु॒ते , व॒र्ष्यं॑ , नभः॑ ॥
प्र वाता॒ वांति॑ प॒तयं॑ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑ । इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति ॥
प्र , वाताः॑ , वांति॑ , प॒तयं॑ति , वि॒ऽद्युतः॑ , उत् , ओष॑धीः , जिह॑ते , पिन्व॑ते , स्व१॒॑रिति॒ स्वः॑ । इरा॑ , विश्व॑स्मै , भुव॑नाय , जा॒य॒ते॒ , यत् , प॒र्जन्यः॑ , पृ॒थि॒वीं , रेत॑सा , अव॑ति ॥
यस्य॑ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य॑ व्र॒ते श॒फव॒ज्जर्भु॑रीति । यस्य॑ व्र॒त ओष॑धीर्वि॒श्वरू॑पाः॒ स नः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥
यस्य॑ , व्र॒ते , पृ॒थि॒वी , नन्न॑मीति , यस्य॑ , व्र॒ते , श॒फऽव॑त् , जर्भु॑रीति । यस्य॑ , व्र॒ते , ओष॑धीः , वि॒श्वऽरू॑पाः , सः , नः॒ , प॒र्ज॒न्य॒ , महि॑ , शर्म॑ , य॒च्छ॒ ॥
दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ । अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षिं॒चन्नसु॑रः पि॒ता नः॑ ॥
दि॒वः , नः॒ , वृ॒ष्टिं , म॒रु॒तः॒ , र॒री॒ध्वं॒ , प्र , पि॒न्व॒त॒ , वृष्णः॑ , अश्व॑स्य , धाराः॑ । अ॒र्वाङ् , ए॒तेन॑ , स्त॒न॒यि॒त्नुना॑ , आ , इ॒हि॒ , अ॒पः , नि॒ऽसिं॒चन् , असु॑रः , पि॒ता , नाः॒ ॥
अ॒भि क्रं॑द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न । दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्यं॑चं स॒मा भ॑वंतू॒द्वतो॑ निपा॒दाः ॥
अ॒भि , क्रं॒द॒ , स्त॒नय॑ , गर्भं॑ , आ , धाः॒ , उ॒द॒न्ऽवता॑ , परि॑ , दी॒य॒ , रथे॑न । दृतिं॑ , सु , क॒र्ष॒ , विऽसि॑तं , न्यं॑चं , स॒माः , भ॒वं॒तु॒ , उ॒त्ऽवतः॑ , नि॒ऽपा॒दाः ॥
म॒हांतं॒ कोश॒मुद॑चा॒ नि षिं॑च॒ स्यंदं॑तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् । घृ॒तेन॒ द्यावा॑पृथि॒वी व्युं॑धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्यः॑ ॥
म॒हांतं॑ , कोशं॑ , उत् , अ॒च॒ , नि , सिं॒च॒ , स्यंदं॑तां , कु॒ल्याः , विऽसि॑ताः , पु॒रस्ता॑त् । घृ॒तेन॑ , द्यावा॑पृथि॒वी इति॑ , वि , उं॒धि॒ , सु॒ऽप्र॒पा॒नं , भ॒व॒तु॒ , अ॒घ्न्याभ्यः॑ ॥
यत्प॑र्जन्य॒ कनि॑क्रदत्स्त॒नय॒न्हंसि॑ दु॒ष्कृतः॑ । प्रती॒दं विश्वं॑ मोदते॒ यत्किं च॑ पृथि॒व्यामधि॑ ॥
यत् , प॒र्ज॒न्य॒ , कनि॑क्रदत् , स्त॒नय॑न् , हंसि॑ , दुः॒ऽकृतः॑ । प्रति॑ , इ॒दं , विश्वं॑ , मो॒द॒ते॒ , यत् , किं , च॒ , पृ॒थि॒व्यां , अधि॑ ॥
अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याक॒र्धन्वा॒न्यत्ये॑त॒वा उ॑ । अजी॑जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो॑ऽविदो मनी॒षां ॥
अव॑र्षीः , व॒र्षं , उत् , ऊँ॒ इति॑ , सु , गृ॒भा॒य॒ , अकः॑ , धन्वा॑नि , अति॑ऽए॒त॒वै , ऊँ॒ इति॑ । अजी॑जनः , ओष॑धीः , भोज॑नाय , कं , उ॒त , प्र॒ऽजाभ्यः॑ , अ॒वि॒दः॒ , म॒नी॒षां ॥
[८४] बळित्थेति तृचस्य सूक्तस्य भौमोत्रिःपृथिव्यनुष्टुप् |
बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि । प्र या भूमिं॑ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि ॥
बट् , इ॒त्था , पर्व॑तानां , खि॒द्रं , बि॒भ॒र्षि॒ , पृ॒थि॒वि॒ । प्र , या , भूमिं॑ , प्र॒व॒त्व॒ति॒ , म॒ह्ना , जि॒नोषि॑ , म॒हि॒नि॒ ॥
स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ ष्टोभंत्य॒क्तुभिः॑ । प्र या वाजं॒ न हेषं॑तं पे॒रुमस्य॑स्यर्जुनि ॥
स्तोमा॑सः , त्वा॒ , वि॒ऽचा॒रि॒णि॒ , प्रति॑ , स्तो॒भं॒ति॒ , अ॒क्तुऽभिः॑ । प्र , या , वाजं॑ , न , हेषं॑तं , पे॒रुं , अस्य॑सि , अ॒र्जु॒नि॒ ॥
दृ॒ळ्हा चि॒द्या वन॒स्पती॑न्क्ष्म॒या दर्ध॒र्ष्योज॑सा । यत्ते॑ अ॒भ्रस्य॑ वि॒द्युतो॑ दि॒वो वर्षं॑ति वृ॒ष्टयः॑ ॥
दृ॒ळ्हा , चि॒त् , या , वन॒स्पती॑न् , क्ष्म॒या , दर्ध॑र्षि , ओज॑सा । यत् , ते॒ , अ॒भ्रस्य॑ , वि॒ऽद्युतः॑ , दि॒वः , वर्षं॑ति , वृ॒ष्टयः॑ ॥
[८५] प्रसम्राजइत्यष्टर्चस्य सूक्तस्य भौमोत्रिर्वरुणत्रिष्टुप् |
प्र स॒म्राजे॑ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ । वि यो ज॒घान॑ शमि॒तेव॒ चर्मो॑प॒स्तिरे॑ पृथि॒वीं सूर्या॑य ॥
प्र , सं॒ऽराजे॑ , बृ॒हत् , अ॒र्च॒ , ग॒भी॒रं , ब्रह्म॑ , प्रि॒यं , वरु॑णाय , श्रु॒ताय॑ । वि , यः , ज॒घान॑ , श॒मि॒ताऽइ॑व , चर्म॑ , उ॒प॒ऽस्तिरे॑ , पृ॒थि॒वीं , सूर्या॑य ॥
वने॑षु॒ व्य१॒॑न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु । हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व१॒॑ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥
वने॑षु , वि , अं॒तरि॑क्षं , त॒ता॒न॒ , वाजं॑ , अर्व॑त्ऽसु , पयः॑ , उ॒स्रिया॑सु । हृ॒त्ऽसु , क्रतुं॑ , वरु॑णः , अ॒प्ऽसु , अ॒ग्निं , दि॒वि , सूर्यं॑ , अ॒द॒धा॒त् , सोमं॑ , अद्रौ॑ ॥
नी॒चीन॑बारं॒ वरु॑णः॒ कवं॑धं॒ प्र स॑सर्ज॒ रोद॑सी अं॒तरि॑क्षं । तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ॥
नी॒चीन॑ऽबारं , वरु॑णः , कवं॑धं , प्र , स॒स॒र्ज॒ , रोद॑सी॒ इति॑ , अं॒तरि॑क्षं । तेन॑ , विश्व॑स्य , भुव॑नस्य , राजा॑ , यवं॑ , न , वृ॒ष्टिः , वि , उ॒न॒त्ति॒ , भूम॑ ॥
उ॒नत्ति॒ भूमिं॑ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् । सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यंतः॑ श्रथयंत वी॒राः ॥
उ॒नत्ति॑ , भूमिं॑ , पृ॒थि॒वीं , उ॒त , द्यां , य॒दा , दु॒ग्धं , वरु॑णः , वष्टि॑ , आत् , इत् । सं , अ॒भ्रेण॑ , व॒स॒त॒ , पर्व॑तासः , त॒वि॒षी॒ऽयंतः॑ , श्र॒थ॒यं॒त॒ , वी॒राः ॥
इ॒मामू॒ ष्वा॑सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो॑चं । माने॑नेव तस्थि॒वाँ अं॒तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये॑ण ॥
इ॒मां , ऊँ॒ इति॑ , सु , आ॒सु॒रस्य॑ , श्रु॒तस्य॑ , म॒हीं , मा॒यां , वरु॑णस्य , प्र , वो॒चं॒ । माने॑नऽइव , त॒स्थि॒ऽवान् , अं॒तरि॑क्षे , वि , यः , म॒मे , पृ॒थि॒वीं , सूर्ये॑ण ॥
इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष । एकं॒ यदु॒द्ना न पृ॒णंत्येनी॑रासिं॒चंती॑र॒वन॑यः समु॒द्रं ॥
इ॒मां , ऊँ॒ इति॑ , नु , क॒विऽत॑मस्य , मा॒यां , म॒हीं , दे॒वस्य॑ , नकिः॑ , आ , द॒ध॒र्ष॒ । एकं॑ , यत् , उ॒द्ना , न , पृ॒णंति॑ , एनीः॑ , आ॒ऽसिं॒चंतीः॑ , अ॒वन॑यः , स॒मु॒द्रं ॥
अ॒र्य॒म्यं॑ वरुण मि॒त्र्यं॑ वा॒ सखा॑यं वा॒ सद॒मिद्भ्रात॑रं वा । वे॒शं वा॒ नित्यं॑ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ॥
अ॒र्य॒म्यं॑ , व॒रु॒ण॒ , मि॒त्र्यं॑ , वा॒ , सखा॑यं , वा॒ , सदं॑ , इत् , भ्रात॑रं , वा॒ । वे॒शं , वा॒ , नित्यं॑ , व॒रु॒ण॒ , अर॑णं , वा॒ , यत् , सीं॒ , आगः॑ , च॒कृ॒म , शि॒श्रथः॑ , तत् ॥
कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म । सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाधा॑ ते स्याम वरुण प्रि॒यासः॑ ॥
कि॒त॒वासः॑ , यत् , रि॒रि॒पुः , न , दी॒वि , यत् , वा॒ , घ॒ , स॒त्यं , उ॒त , यत् , न , वि॒द्म । सर्वा॑ , ता , वि , स्य॒ , शि॒थि॒राऽइ॑व , दे॒व॒ , अध॑ , ते॒ , स्या॒म॒ , व॒रु॒ण॒ , प्रि॒यासः॑ ॥
[८६] इंद्राग्नीयमिति षडृचस्य सूक्तस्य भौमोत्रिरिंद्राग्न्यनुष्टुप् अंत्याविराट्पूर्वापंक्त्युत्तरावा |
इंद्रा॑ग्नी॒ यमव॑थ उ॒भा वाजे॑षु॒ मर्त्यं॑ । दृ॒ळ्हा चि॒त्स प्र भे॑दति द्यु॒म्ना वाणी॑रिव त्रि॒तः ॥
इंद्रा॑ग्नी॒ इति॑ , यं , अव॑थः , उ॒भा , वाजे॑षु , मर्त्यं॑ । दृ॒ळ्हा , चि॒त् , सः , प्र , भे॒द॒ति॒ , द्यु॒म्ना , वाणीः॑ऽइव , त्रि॒तः ॥
या पृत॑नासु दु॒ष्टरा॒ या वाजे॑षु श्र॒वाय्या॑ । या पंच॑ चर्ष॒णीर॒भीं॑द्रा॒ग्नी ता ह॑वामहे ॥
या , पृत॑नासु , दु॒स्तरा॑ , या , वाजे॑षु , श्र॒वाय्या॑ । या , पंच॑ , च॒र्ष॒णीः , अ॒भि , इं॒द्रा॒ग्नी इति॑ , ता , ह॒वा॒म॒हे॒ ॥
तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मा दि॒द्युन्म॒घोनोः॑ । प्रति॒ द्रुणा॒ गभ॑स्त्यो॒र्गवां॑ वृत्र॒घ्न एष॑ते ॥
तयोः॑ , इत् , अम॑ऽवत् , शवः॑ , ति॒ग्मा , दि॒द्युत् , म॒घोनोः॑ । प्रति॑ , द्रुणा॑ , गभ॑स्त्योः , गवां॑ , वृ॒त्र॒ऽघ्ने , आ , ई॒ष॒ते॒ ॥
ता वा॒मेषे॒ रथा॑नामिंद्रा॒ग्नी ह॑वामहे । पती॑ तु॒रस्य॒ राध॑सो वि॒द्वांसा॒ गिर्व॑णस्तमा ॥
ता , वां॒ , एषे॑ , रथा॑नां , इं॒द्रा॒ग्नी इति॑ , ह॒वा॒म॒हे॒ । पती॒ इति॑ , तु॒रस्य॑ , राध॑सः , वि॒द्वांसा॑ , गिर्व॑णःऽतमा ॥
ता वृ॒धंता॒वनु॒ द्यून्मर्ता॑य दे॒वाव॒दभा॑ । अर्हं॑ता चित्पु॒रो द॒धेंऽशे॑व दे॒वावर्व॑ते ॥
ता , वृ॒धंतौ॑ , अनु॑ , द्यून् , मर्ता॑य , दे॒वौ , अ॒दभा॑ । अर्हं॑ता , चि॒त् , पु॒रः , द॒धे॒ , अंशा॑ऽइव , दे॒वौ , अर्व॑ते ॥
ए॒वेंद्रा॒ग्निभ्या॒महा॑वि ह॒व्यं शू॒ष्यं॑ घृ॒तं न पू॒तमद्रि॑भिः । ता सू॒रिषु॒ श्रवो॑ बृ॒हद्र॒यिं गृ॒णत्सु॑ दिधृत॒मिषं॑ गृ॒णत्सु॑ दिधृतं ॥
ए॒व , इं॒द्रा॒ग्निऽभ्यां॑ , अहा॑वि , ह॒व्यं , शू॒ष्यं॑ , घृ॒तं , न , पू॒तं , अद्रि॑ऽभिः । ता , सू॒रिषु॑ , श्रवः॑ , बृ॒हत् , र॒यिं , गृ॒णत्ऽसु॑ , दि॒धृ॒तं॒ , इषं॑ , गृ॒णत्ऽसु॑ , दि॒धृ॒तं॒ ॥
[८७] प्रवोमहइति नवर्चस्य सूक्तस्यात्रेय एवयामरुन्मरुतोतिजगती |
प्र वो॑ म॒हे म॒तयो॑ यंतु॒ विष्ण॑वे म॒रुत्व॑ते गिरि॒जा ए॑व॒याम॑रुत् । प्र शर्धा॑य॒ प्रय॑ज्यवे सुखा॒दये॑ त॒वसे॑ भं॒ददि॑ष्टये॒ धुनि॑व्रताय॒ शव॑से ॥
प्र , वः॒ , म॒हे , म॒तयः॑ , यं॒तु॒ , विष्ण॑वे , म॒रुत्व॑ते , गि॒रि॒ऽजाः , ए॒व॒याम॑रुत् । प्र , शर्धा॑य , प्रऽय॑ज्यवे , सु॒ऽखा॒दये॑ , त॒वसे॑ , भं॒दत्ऽइ॑ष्टये , धुनि॑ऽव्रताय , शव॑से ॥
प्र ये जा॒ता म॑हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना॑ ब्रु॒वत॑ एव॒याम॑रुत् । क्रत्वा॒ तद्वो॑ मरुतो॒ नाधृषे॒ शवो॑ दा॒ना म॒ह्ना तदे॑षा॒मधृ॑ष्टासो॒ नाद्र॑यः ॥
प्र , ये , जा॒ताः , म॒हि॒ना , ये , च॒ , नु , स्व॒यं , प्र , वि॒द्मना॑ , ब्रु॒वते॑ , ए॒व॒याम॑रुत् । क्रत्वा॑ , तत् , वः॒ , म॒रु॒तः॒ , न , आ॒ऽधृषे॑ , शवः॑ , दा॒ना , म॒ह्ना , तत् , ए॒षां॒ , अधृ॑ष्टासः , न , अद्र॑यः ॥
प्र ये दि॒वो बृ॑ह॒तः शृ॑ण्वि॒रे गि॒रा सु॒शुक्वा॑नः सु॒भ्व॑ एव॒याम॑रुत् । न येषा॒मिरी॑ स॒धस्थ॒ ईष्ट॒ आँ अ॒ग्नयो॒ न स्ववि॑द्युतः॒ प्र स्पं॒द्रासो॒ धुनी॑नां ॥
प्र , ये , दि॒वः , बृ॒ह॒तः , शृ॒ण्वि॒रे , गि॒रा , सु॒ऽशुक्वा॑नः , सु॒ऽभ्वः॑ , ए॒व॒याम॑रुत् । न , येषां॑ , इरी॑ , स॒धऽस्थे॑ , ईष्टे॑ , आ , अ॒ग्नयः॑ , न , स्वऽवि॑द्युतः , प्र , स्पं॒द्रासः॑ , धुनी॑नां ॥
स च॑क्रमे मह॒तो निरु॑रुक्र॒मः स॑मा॒नस्मा॒त्सद॑स एव॒याम॑रुत् । य॒दायु॑क्त॒ त्मना॒ स्वादधि॒ ष्णुभि॒र्विष्प॑र्धसो॒ विम॑हसो॒ जिगा॑ति॒ शेवृ॑धो॒ नृभिः॑ ॥
सः , च॒क्र॒मे॒ , म॒ह॒तः , निः , उ॒रु॒ऽक्र॒मः , स॒मा॒नस्मा॑त् , सद॑सः , ए॒व॒याम॑रुत् । य॒दा , अयु॑क्त , त्मना॑ , स्वात् , अधि॑ , स्नुऽभिः॑ , विऽस्प॑र्धसः , विऽम॑हसः , जिगा॑ति , शेऽवृ॑धः , नृऽभिः॑ ॥
स्व॒नो न वोऽम॑वान्रेजय॒द्वृषा॑ त्वे॒षो य॒यिस्त॑वि॒ष ए॑व॒याम॑रुत् । येना॒ सहं॑त ऋं॒जत॒ स्वरो॑चिषः॒ स्थार॑श्मानो हिर॒ण्ययाः॑ स्वायु॒धास॑ इ॒ष्मिणः॑ ॥
स्व॒नः , न , वः॒ , अम॑ऽवान् , रे॒ज॒य॒त् , वृषा॑ , त्वे॒षः , य॒यिः , त॒वि॒षः , ए॒व॒याम॑रुत् । येन॑ , सहं॑तः , ऋं॒जत॑ , स्वऽरो॑चिषः , स्थाःऽर॑श्मानः , हि॒र॒ण्ययाः॑ , सु॒ऽआ॒यु॒धासः॑ , इ॒ष्मिणः॑ ॥
अ॒पा॒रो वो॑ महि॒मा वृ॑द्धशवसस्त्वे॒षं शवो॑ऽवत्वेव॒याम॑रुत् । स्थाता॑रो॒ हि प्रसि॑तौ सं॒दृशि॒ स्थन॒ ते न॑ उरुष्यता नि॒दः शु॑शु॒क्वांसो॒ नाग्नयः॑ ॥
अ॒पा॒रः , वः॒ , म॒हि॒मा , वृ॒द्ध॒ऽश॒व॒सः॒ , त्वे॒षं , शवः॑ , अ॒व॒तु॒ , ए॒व॒याम॑रुत् । स्थाता॑रः , हि , प्रऽसि॑तौ , सं॒ऽदृशि॑ , स्थन॑ , ते , नः॒ , उ॒रु॒ष्य॒त॒ , नि॒दः , शु॒शु॒क्वांसः॑ , न , अ॒ग्नयः॑ ॥
ते रु॒द्रासः॒ सुम॑खा अ॒ग्नयो॑ यथा तुविद्यु॒म्ना अ॑वंत्वेव॒याम॑रुत् । दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसां ॥
ते , रु॒द्रासः॑ , सुऽम॑खाः , अ॒ग्नयः॑ , य॒था॒ , तु॒वि॒ऽद्यु॒म्नाः , अ॒वं॒तु॒ , ए॒व॒याम॑रुत् । दी॒र्घं , पृ॒थु , प॒प्र॒थे॒ , सद्म॑ , पार्थि॑वं , येषां॑ , अज्मे॑षु , आ , म॒हः , शर्धां॑सि , अद्भु॑तऽएनसां ॥
अ॒द्वे॒षो नो॑ मरुतो गा॒तुमेत॑न॒ श्रोता॒ हवं॑ जरि॒तुरे॑व॒याम॑रुत् । विष्णो॑र्म॒हः स॑मन्यवो युयोतन॒ स्मद्र॒थ्यो॒३॒॑ न दं॒सनाप॒ द्वेषां॑सि सनु॒तः ॥
अ॒द्वे॒षः , नः॒ , म॒रु॒तः॒ , गा॒तुं , आ , इ॒त॒न॒ , श्रोत॑ , हवं॑ , ज॒रि॒तुः , ए॒व॒याम॑रुत् । विष्णोः॑ , म॒हः , स॒ऽम॒न्य॒वः॒ , यु॒यो॒त॒न॒ , स्मत् , र॒थ्यः॑ , न , दं॒सना॑ , अप॑ , द्वेषां॑सि , स॒नु॒तरिति॑ ॥
गंता॑ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए॑व॒याम॑रुत् । ज्येष्ठा॑सो॒ न पर्व॑तासो॒ व्यो॑मनि यू॒यं तस्य॑ प्रचेतसः॒ स्यात॑ दु॒र्धर्त॑वो नि॒दः ॥
गंत॑ , नः॒ , य॒ज्ञं , य॒ज्ञि॒याः॒ , सु॒ऽशमि॑ , श्रोत॑ , हवं॑ , अ॒र॒क्षः , ए॒व॒याम॑रुत् । ज्येष्ठा॑सः , न , पर्व॑तासः , विऽओ॑मनि , यू॒यं , तस्य॑ , प्र॒ऽचे॒त॒सः॒ , स्यात॑ , दुः॒ऽधर्त॑वः , नि॒दः ॥
[१] त्वंह्यग्नइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒स्या धि॒यो अभ॑वो द॒स्म॒ होता॑ । त्वं सीं॑ वृषन्नकृणोर्दु॒ष्टरी॑तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ॥
त्वं , हि , अ॒ग्ने॒ , प्र॒थ॒मः , म॒नोता॑ , अ॒स्याः , धि॒यः , अभ॑वः , दस्म॑ , होता॑ । त्वं , सीं॒ , वृ॒ष॒न् , अ॒कृत॒णोः॒ , दु॒स्तरी॑तु , सहः॑ , विश्व॑स्मै , सह॑से , सह॑ध्यै ॥
अधा॒ होता॒ न्य॑सीदो॒ यजी॑यानि॒ळस्प॒द इ॒षय॒न्नीड्यः॒ सन् । तं त्वा॒ नरः॑ प्रथ॒मं दे॑व॒यंतो॑ म॒हो रा॒ये चि॒तयं॑तो॒ अनु॑ ग्मन् ॥
अध॑ , होता॑ , नि , अ॒सी॒दः॒ , यजी॑यान् , इ॒ळः , प॒दे , इ॒षय॑न् , ईड्यः॑ , सन् । तं , त्वा॒ , नरः॑ , प्र॒थ॒मं , दे॒व॒ऽयंतः॑ , म॒हः , रा॒ये , चि॒तयं॑तः , अनु॑ , ग्म॒न् ॥
वृ॒तेव॒ यंतं॑ ब॒हुभि॑र्वस॒व्यै॒३॒॑स्त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ ग्मन् । रुशं॑तम॒ग्निं द॑र्श॒तं बृ॒हंतं॑ व॒पावं॑तं वि॒श्वहा॑ दीदि॒वांसं॑ ॥
वृ॒ताऽइ॑व , यंतं॑ , ब॒हुऽभिः॑ , व॒स॒व्यैः॑ , त्वे इति॑ , र॒यिं , जा॒गृ॒ऽवांसः॑ , अनु॑ , ग्म॒न् । रुशं॑तं , अ॒ग्निं , द॒र्श॒तं , बृ॒हंतं॑ , व॒पाऽवं॑तं , वि॒श्वहा॑ , दी॒दि॒ऽवांसं॑ ॥
प॒दं दे॒वस्य॒ नम॑सा॒ व्यंतः॑ श्रव॒स्यवः॒ श्रव॑ आप॒न्नमृ॑क्तं । नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि भ॒द्रायां॑ ते रणयंत॒ संदृ॑ष्टौ ॥
प॒दं , दे॒वस्य॑ , नम॑सा , व्यंतः॑ , श्र॒व॒स्यवः॑ , श्रवः॑ , आ॒प॒न् , अमृ॑क्तं । नामा॑नि , चि॒त् , द॒धि॒रे॒ , य॒ज्ञिया॑नि , भ॒द्रायां॑ , ते॒ , र॒ण॒यं॒त॒ , संऽदृ॑ष्टौ ॥
त्वां व॑र्धंति क्षि॒तयः॑ पृथि॒व्यां त्वां राय॑ उ॒भया॑सो॒ जना॑नां । त्वं त्रा॒ता त॑रणे॒ चेत्यो॑ भूः पि॒ता मा॒ता सद॒मिन्मानु॑षाणां ॥
त्वां , व॒र्धं॒ति॒ , क्षि॒तयः॑ , पृ॒थि॒व्यां , त्वां , रायः॑ , उ॒भया॑सः , जना॑नां । त्वं , त्रा॒ता , त॒र॒णे॒ , चेत्यः॑ , भूः॒ , पि॒ता , मा॒ता , सदं॑ , इत् , मानु॑षाणां ॥
स॒प॒र्येण्यः॒ स प्रि॒यो वि॒क्ष्व१॒॑ग्निर्होता॑ मं॒द्रो नि ष॑सादा॒ यजी॑यान् । तं त्वा॑ व॒यं दम॒ आ दी॑दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम ॥
स॒प॒र्येण्यः॑ , सः , प्रि॒यः , वि॒क्षु , अ॒ग्निः , होता॑ , मं॒द्रः , नि , सि॒सा॒द॒ , यजी॑यान् । तं , त्वा॒ , व॒यं , दमे॑ , आ , दी॒दि॒ऽवांसं॑ , उप॑ , ज्ञु॒ऽबाधः॑ , नम॑सा , स॒दे॒म॒ ॥
तं त्वा॑ व॒यं सु॒ध्यो॒३॒॑ नव्य॑मग्ने सुम्ना॒यव॑ ईमहे देव॒यंतः॑ । त्वं विशो॑ अनयो॒ दीद्या॑नो दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ ॥
त्वं , त्वा॒ , व॒यं , सु॒ऽध्यः॑ , नव्यं॑ , अ॒ग्ने॒ , सु॒म्न॒ऽयवः॑ , ई॒म॒हे॒ , दे॒व॒ऽयंतः॑ । त्वं , विशः॑ , अ॒न॒यः॒ , दीद्या॑नः , दि॒वः , अ॒ग्ने॒ , बृ॒ह॒ता , रो॒च॒नेन॑ ॥
वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नां । प्रेती॑षणिमि॒षयं॑तं पाव॒कं राजं॑तम॒ग्निं य॑ज॒तं र॑यी॒णां ॥
वि॒शां , क॒विं , वि॒श्पतिं॑ , शश्व॑तीनां , नि॒ऽतोश॑नं , वृ॒ष॒भं , च॒र्ष॒णी॒नां । प्रेति॑ऽइषणिं , इ॒षयं॑तं , पा॒व॒कं , राजं॑तं , अ॒ग्निं , य॒ज॒तं , र॒यी॒णां ॥
सो अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा॑ ह॒व्यदा॑तिं । य आहु॑तिं॒ परि॒ वेदा॒ नमो॑भि॒र्विश्वेत्स वा॒मा द॑धते॒ त्वोतः॑ ॥
सः , अ॒ग्ने॒ , ई॒जे॒ , श॒श॒मे , च॒ , मर्तः॑ , यः , ते॒ , आन॑ट् , सं॒ऽइधा॑ , ह॒व्यऽदा॑तिं । यः , आऽहु॑तिं , परि॑ , वेद॑ , नमः॑ऽभिः , विश्वा॑ , इत् , सः , वा॒मा , द॒ध॒ते॒ , त्वाऽऊ॑तः ॥
अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः । वेदी॑ सूनो सहसो गी॒र्भिरु॒क्थैरा ते॑ भ॒द्रायां॑ सुम॒तौ य॑तेम ॥
अ॒स्मै , ऊँ॒ इति॑ , ते॒ , महि॑ , म॒हे , वि॒धे॒म॒ , नमः॑ऽभिः , अ॒ग्ने॒ , सं॒ऽइधा॑ , उ॒त , ह॒व्यैः । वेदी॑ , सू॒नो॒ इति॑ , स॒ह॒सः॒ , गीः॒ऽभिः , उ॒क्थैः , आ , ते॒ , भ॒द्रायां॑ , सु॒ऽम॒तौ , य॒ते॒म॒ ॥
आ यस्त॒तंथ॒ रोद॑सी॒ वि भा॒सा श्रवो॑भिश्च श्रव॒स्य१॒॑स्तरु॑त्रः । बृ॒हद्भि॒र्वाजैः॒ स्थवि॑रेभिर॒स्मे रे॒वद्भि॑रग्ने वित॒रं वि भा॑हि ॥
आ , यः , त॒तंथ॑ , रोद॑सी॒ इति॑ , वि , भा॒सा , श्रवः॑ऽभिः , च॒ , श्र॒व॒स्यः॑ , तरु॑त्रः । बृ॒हत्ऽभिः॑ , वाजैः॑ , स्थवि॑रेभिः , अ॒स्मे इति॑ , रे॒वत्ऽभिः॑ , अ॒ग्ने॒ , वि॒ऽत॒रं , वि , भा॒हि॒ ॥
नृ॒वद्व॑सो॒ सद॒मिद्धे॑ह्य॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः । पू॒र्वीरिषो॑ बृह॒तीरा॒रेअ॑घा अ॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ संतु ॥
नृ॒ऽवत् , व॒सो॒ इति॑ , सदं॑ , इत् , धे॒हि॒ , अ॒स्मे इति॑ , भूरि॑ , तो॒काय॑ , तन॑याय , प॒श्वः । पू॒र्वीः , इषः॑ , बृ॒ह॒तीः , आ॒रेऽअ॑घाः , अ॒स्मे इति॑ , भ॒द्रा , सौ॒श्र॒व॒सानि॑ , सं॒तु॒ ॥
पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या वसू॑नि राजन्व॒सुता॑ ते अश्यां । पु॒रूणि॒ हि त्वे पु॑रुवार॒ संत्यग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे ॥
पु॒रूणि॑ , अ॒ग्ने॒ , पु॒रु॒धा , त्वा॒ऽया , वसू॑नि , रा॒ज॒न् , व॒सुता॑ , ते॒ , अ॒श्यां॒ । पु॒रूणि॑ , हि , त्वे इति॑ , पु॒रु॒ऽवा॒र॒ , संति॑ , अग्ने॑ , वसु॑ , वि॒ध॒ते , राज॑नि , त्वे इति॑ ॥
[२] त्वंहिक्षैतवदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबंत्याशक्वरी |
त्वं हि क्षैत॑व॒द्यशोऽग्ने॑ मि॒त्रो न पत्य॑से । त्वं वि॑चर्षणे॒ श्रवो॒ वसो॑ पु॒ष्टिं न पु॑ष्यसि ॥
त्वं , हि , क्षैत॑ऽवत् , यशः॑ , अग्ने॑ , मि॒त्रः , न , पत्य॑से । त्वं , वि॒ऽच॒र्ष॒णे॒ , श्रवः॑ , वसो॒ इति॑ , पु॒ष्टिं , न , पु॒ष्य॒सि॒ ॥
त्वां हि ष्मा॑ चर्ष॒णयो॑ य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते । त्वां वा॒जी या॑त्यवृ॒को र॑ज॒स्तूर्वि॒श्वच॑र्षणिः ॥
त्वां , हि , स्म॒ , च॒र्ष॒णयः॑ , य॒ज्ञेभिः॑ , गीः॒ऽभिः , ईळ॑ते । त्वां , वा॒जी , या॒ति॒ , अ॒वृ॒कः , र॒जः॒ऽतूः , वि॒श्वऽच॑र्षणिः ॥
स॒जोष॑स्त्वा दि॒वो नरो॑ य॒ज्ञस्य॑ के॒तुमिं॑धते । यद्ध॒ स्य मानु॑षो॒ जनः॑ सुम्ना॒युर्जु॒ह्वे अ॑ध्व॒रे ॥
स॒ऽजोषः॑ , त्वा॒ , दि॒वः , नरः॑ , य॒ज्ञस्य॑ , के॒तुं , इं॒ध॒ते॒ । यत् , ह॒ , स्यः , मानु॑षः , जनः॑ , सु॒म्न॒ऽयुः , जु॒ह्वे , अ॒ध्व॒रे ॥
ऋध॒द्यस्ते॑ सु॒दान॑वे धि॒या मर्तः॑ श॒शम॑ते । ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो अंहो॒ न त॑रति ॥
ऋध॑त् , यः , ते॒ , सु॒ऽदान॑वे , धि॒या , मर्तः॑ , श॒शम॑ते । ऊ॒ती , सः , बृ॒ह॒तः , दि॒वः , द्वि॒षः , अंहः॑ , न , त॒र॒ति॒ ॥
स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त् । व॒यावं॑तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षं ॥
सं॒ऽइधा॑ , यः , ते॒ , आऽहु॑तिं , निऽशि॑तिं , मर्त्यः॑ , नश॑त् । व॒याऽवं॑तं , सः , पु॒ष्य॒ति॒ , क्षयं॑ , अ॒ग्ने॒ , श॒तऽआ॑युषं ॥
त्वे॒षस्ते॑ धू॒म ऋ॑ण्वति दि॒वि षंछु॒क्र आत॑तः । सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा॑वक॒ रोच॑से ॥
त्वे॒षः , ते॒ , धू॒मः , ऋ॒ण्व॒ति॒ , दि॒वि , सन् , शु॒क्रः , आऽत॑तः । सूरः॑ , न , हि , द्यु॒ता , त्वं , कृ॒पा , पा॒व॒क॒ , रोच॑से ॥
अधा॒ हि वि॒क्ष्वीड्योऽसि॑ प्रि॒यो नो॒ अति॑थिः । र॒ण्वः पु॒री॑व॒ जूर्यः॑ सू॒नुर्न त्र॑य॒याय्यः॑ ॥
अध॑ , हि , वि॒क्षु , ईड्यः॑ , असि॑ , प्रि॒यः , नः॒ , अति॑थिः । र॒ण्वः , पु॒रिऽइ॑व , जूर्यः॑ , सू॒नुः , न , त्र॒य॒याय्यः॑ ॥
क्रत्वा॒ हि द्रोणे॑ अ॒ज्यसेऽग्ने॑ वा॒जी न कृत्व्यः॑ । परि॑ज्मेव स्व॒धा गयोऽत्यो॒ न ह्वा॒र्यः शिशुः॑ ॥
क्रत्वा॑ , हि , द्रोणे॑ , अ॒ज्यसे॑ , अग्ने॑ , वा॒जी , न , कृत्व्यः॑ । परि॑ज्माऽइव , स्व॒धा , गयः॑ , अत्यः॑ , न , ह्वा॒र्यः , शिशुः॑ ॥
त्वं त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से । धामा॑ ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चंति॒ शिक्व॑सः ॥
त्वं , त्या , चि॒त् , अच्यु॑ता , अग्ने॑ , प॒शुः , न , यव॑से । धाम॑ , ह॒ , यत् , ते॒ , अ॒ज॒र॒ , वना॑ , वृ॒श्चंति॑ , शिक्व॑सः ॥
वेषि॒ ह्य॑ध्वरीय॒तामग्ने॒ होता॒ दमे॑ वि॒शां । स॒मृधो॑ विश्पते कृणु जु॒षस्व॑ ह॒व्यमं॑गिरः ॥
वेषि॑ , हि , अ॒ध्व॒रि॒ऽय॒तां , अग्ने॑ , होता॑ , दमे॑ , वि॒शां । सं॒ऽऋधः॑ , वि॒श्प॒ते॒ , कृ॒णु॒ , जु॒षस्व॑ , ह॒व्यं , अं॒गि॒रः॒ ॥
अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः । वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄंद्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥
अच्छ॑ , नः॒ , मि॒त्र॒ऽम॒हः॒ , दे॒व॒ , दे॒वान् , अग्ने॑ , वोचः॑ , सु॒ऽम॒तिं , रोद॑स्योः । वी॒हि , स्व॒स्तिं , सु॒ऽक्षि॒तिं , दि॒वः , नॄन् , द्वि॒षः , अंहां॑सि , दुः॒ऽइ॒ता , त॒रे॒म॒ , ता , त॒रे॒म॒ , तव॑ , अव॑सा , त॒रे॒म॒ ॥
[३] अग्नेसक्षेषदित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
अग्ने॒ स क्षे॑षदृत॒पा ऋ॑ते॒जा उ॒रु ज्योति॑र्नशते देव॒युष्टे॑ । यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ॥
अग्ने॑ , सः , क्षे॒ष॒त् , ऋ॒त॒ऽपाः , ऋ॒ते॒ऽजाः , उ॒रु , ज्योतिः॑ , न॒श॒ते॒ , दे॒व॒ऽयुः , ते॒ । यं , त्वं , मि॒त्रेण॑ , वरु॑णः , स॒ऽजोषाः॑ , देव॑ , पासि॑ , त्यज॑सा , मर्तं॑ , अंहः॑ ॥
ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी॑भिर्ऋ॒धद्वा॑राया॒ग्नये॑ ददाश । ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं॑ नशते॒ न प्रदृ॑प्तिः ॥
ई॒जे , य॒ज्ञेभिः॑ , श॒श॒मे , शमी॑भिः , ऋ॒धत्ऽवा॑राय , अ॒ग्नये॑ , द॒दा॒श॒ । ए॒व , च॒न , तं , य॒शसां॑ , अजु॑ष्टिः , न , अंहः॑ , मर्तं॑ , न॒श॒ते॒ , न , प्रऽदृ॑प्तिः ॥
सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः । हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा॑ चिद्र॒ण्वो व॑स॒तिर्व॑ने॒जाः ॥
सूरः॑ , न , यस्य॑ , दृ॒श॒तिः , अ॒रे॒पाः , भी॒मा , यत् , एति॑ , शु॒च॒तः , ते॒ , आ , धीः । हेष॑स्वतः , शु॒रुधः॑ , न , अ॒यं , अ॒क्तोः , कुत्र॑ , चि॒त् , र॒ण्वः , व॒स॒तिः , व॒ने॒ऽजाः ॥
ति॒ग्मं चि॒देम॒ महि॒ वर्पो॑ अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा । वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा॑वयति॒ दारु॒ धक्ष॑त् ॥
ति॒ग्मं , चि॒त् , एम॑ , महि॑ , वर्पः॑ , अ॒स्य॒ , भस॑त् , अश्वः॑ , न , य॒म॒सा॒न , आ॒सा । वि॒ऽजेह॑मानः , प॒र॒शुः , न , जि॒ह्वां , द्र॒विः , न , द्र॒व॒य॒ति॒ , दारु॑ , धक्ष॑त् ॥
स इदस्ते॑व॒ प्रति॑ धादसि॒ष्यंछिशी॑त॒ तेजोऽय॑सो॒ न धारां॑ । चि॒त्रध्र॑जतिरर॒तिर्यो अ॒क्तोर्वेर्न द्रु॒षद्वा॑ रघु॒पत्म॑जंहाः ॥
सः , इत् , अस्ता॑ऽइव , प्रति॑ , धा॒त् , अ॒सि॒ष्यन् , शिशी॑त , तेजः॑ , अय॑सः , न , धारां॑ । चि॒त्रऽध्र॑जतिः , अ॒र॒तिः , यः , अ॒क्तोः , वेः , न , द्रु॒ऽसद्वा॑ , र॒घु॒पत्म॑ऽजंहाः ॥
स ईं॑ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा॑ रारपीति मि॒त्रम॑हाः । नक्तं॒ य ई॑मरु॒षो यो दिवा॒ नॄनम॑र्त्यो अरु॒षो यो दिवा॒ नॄन् ॥
सः , ईं॒ , रे॒भः , न , प्रति॑ , व॒स्ते॒ , उ॒स्राः , शो॒चिषा॑ , र॒र॒पी॒ति॒ , मि॒त्रऽम॑हाः । नक्तं॑ , यः , ईं॒ , अ॒रु॒षः , यः , दिवा॑ , नॄन् , अम॑र्त्यः , अ॒रु॒षः , यः , दिवा॑ , नॄन् ॥
दि॒वो न यस्य॑ विध॒तो नवी॑नो॒द्वृषा॑ रु॒क्ष ओष॑धीषु नूनोत् । घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी॑ ॥
दि॒वः , न , यस्य॑ , वि॒ध॒तः , नवी॑नोत् , वृषा॑ , रु॒क्षः , ओष॑धीषु , नू॒नो॒त् । घृणा॑ , न , यः , ध्रज॑सा , पत्म॑ना , यन् , आ , रोद॑सी॒ इति॑ , वसु॑ना , दं , सु॒पत्नी॒ इति॑ सु॒ऽपत्नी॑ ॥
धायो॑भिर्वा॒ यो युज्ये॑भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्स्वेभिः॒ शुष्मैः॑ । शर्धो॑ वा॒ यो म॒रुतां॑ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ॥
धायः॑ऽभिः , वा॒ , यः , युज्ये॑भिः , अ॒र्कैः , वि॒ऽद्युत् , न , द॒वि॒द्यो॒त् , स्वेभिः॑ , शुष्मैः॑ । शर्धः॑ , वा॒ , यः , म॒रुतां॑ , त॒तक्ष॑ , ऋ॒भुः , न , त्वे॒षः , र॒भ॒सा॒नः , अ॒द्यौ॒त् ॥
[४] यथाहोतरित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
यथा॑ होत॒र्मनु॑षो दे॒वता॑ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि । ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥
यथा॑ , हो॒तः॒ , मनु॑षः , दे॒वऽता॑ता , य॒ज्ञेभिः॑ , सू॒नो॒ इति॑ , स॒ह॒सः॒ , यजा॑सि । ए॒व , नः॒ , अ॒द्य , स॒म॒ना , स॒मा॒नान् , उ॒शन् , अ॒ग्ने॒ , उ॒श॒तः , य॒क्षि॒ , दे॒वान् ॥
स नो॑ वि॒भावा॑ च॒क्षणि॒र्न वस्तो॑र॒ग्निर्वं॒दारु॒ वेद्य॒श्चनो॑ धात् । वि॒श्वायु॒र्यो अ॒मृतो॒ मर्त्ये॑षूष॒र्भुद्भूदति॑थिर्जा॒तवे॑दाः ॥
सः , नः॒ , वि॒भाऽवा॑ , च॒क्षणिः॑ , न , वस्तोः॑ , अ॒ग्निः , वं॒दारु॑ , वेद्यः॑ , चनः॑ , धा॒त् । वि॒श्वऽआ॑युः , यः , अ॒मृतः॑ , मर्त्ये॑षु , उ॒षः॒ऽभुत् , भूत् , अति॑थिः , जा॒तऽवे॑दाः ॥
द्यावो॒ न यस्य॑ प॒नयं॒त्यभ्वं॒ भासां॑सि वस्ते॒ सूर्यो॒ न शु॒क्रः । वि य इ॒नोत्य॒जरः॑ पाव॒कोऽश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥
द्यावः॑ , न , यस्य॑ , प॒नयं॑ति , अभ्वं॑ , भासां॑सि , व॒स्ते॒ , सूर्यः॑ , न , शु॒क्रः । वि , यः , इ॒नोति॑ , अ॒जरः॑ , पा॒व॒कः , अश्न॑स्य , चि॒त् , शि॒श्न॒थ॒त् , पू॒र्व्याणि॑ ॥
व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्नं॑ । स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेरवृ॒के क्षे॑ष्यं॒तः ॥
व॒द्मा , हि , सू॒नो॒ इति॑ , असि॑ , अ॒द्म॒ऽसद्वा॑ , च॒क्रे , अ॒ग्निः , ज॒नुषा॑ , अज्म॑ , अन्नं॑ । सः , त्वं , नः॒ , ऊ॒र्ज॒ऽस॒ने॒ , ऊर्जं॑ , धाः॒ , राजा॑ऽइव , जेः॒ , अ॒वृ॒के , क्षे॒षि॒ , अं॒तरिति॑ ॥
निति॑क्ति॒ यो वा॑र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये॑त्य॒क्तून् । तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा॑ती॒रत्यो॒ न ह्रुतः॒ पत॑तः परि॒ह्रुत् ॥
निऽति॑क्ति , यः , वा॒र॒णं , अन्नं॑ , अत्ति॑ , वा॒युः , न , राष्ट्री॑ , अति॑ , ए॒ति॒ , अ॒क्तून् । तु॒र्यामः॑ , यः , ते॒ , आ॒ऽदिशां॑ , अरा॑तीः , अत्यः॑ , न , ह्रुतः॑ , पत॑तः , प॒रि॒ऽह्रुत् ॥
आ सूर्यो॒ न भा॑नु॒मद्भि॑र॒र्कैरग्ने॑ त॒तंथ॒ रोद॑सी॒ वि भा॒सा । चि॒त्रो न॑य॒त्परि॒ तमां॑स्य॒क्तः शो॒चिषा॒ पत्म॑न्नौशि॒जो न दीय॑न् ॥
आ , सूर्यः॑ , न , भा॒नु॒मत्ऽभिः॑ , अ॒र्कैः , अग्ने॑ , त॒तंथ॑ , रोद॑सी॒ इति॑ , वि , भा॒सा । चि॒त्रः , न॒य॒त् , परि॑ , तमां॑सि , अ॒क्तः , शो॒चिषा॑ , पत्म॑न् , औ॒शि॒जः , न , दीय॑न् ॥
त्वां हि मं॒द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने । इंद्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णंति॒ राध॑सा॒ नृत॑माः ॥
त्वां , हि , मं॒द्रऽत॑मं , अ॒र्क॒ऽशो॒कैः , व॒वृ॒महे॑ , महि॑ , नः॒ , श्रोषि॑ , अ॒ग्ने॒ । इंद्रं॑ , न , त्वा॒ , शव॑सा , दे॒वता॑ , वा॒युं , पृ॒णं॒ति॒ , राध॑सा , नृऽत॑माः ॥
नू नो॑ अग्नेऽवृ॒केभिः॑ स्व॒स्ति वेषि॑ रा॒यः प॒थिभिः॒ पर्ष्यंहः॑ । ता सू॒रिभ्यो॑ गृण॒ते रा॑सि सु॒म्नं मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥
नु , नः॒ , अ॒ग्ने॒ , अ॒वृ॒केभिः॑ , स्व॒स्ति , वेषि॑ , रा॒यः , प॒थिऽभिः॑ , पर्षि॑ , अंहः॑ । ता , सू॒रिऽभ्यः॑ , गृ॒ण॒ते , रा॒सि॒ , सु॒म्नं , मदे॑म , श॒तऽहि॑माः , सु॒ऽवीराः॑ ॥
[५] हुवेवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
हु॒वे वः॑ सू॒नुं सह॑सो॒ युवा॑न॒मद्रो॑घवाचं म॒तिभि॒र्यवि॑ष्ठं । य इन्व॑ति॒ द्रवि॑णानि॒ प्रचे॑ता वि॒श्ववा॑राणि पुरु॒वारो॑ अ॒ध्रुक् ॥
हु॒वे , वः॒ , सू॒नुं , सह॑सः , युवा॑नं , अद्रो॑घऽवाचं , म॒तिऽभिः॑ , यवि॑ष्ठं । यः , इन्व॑ति , द्रवि॑णानि , प्रऽचे॑ताः , वि॒श्वऽवा॑राणि , पु॒रु॒ऽवारः॑ , अ॒ध्रुक् ॥
त्वे वसू॑नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया॑सः । क्षामे॑व॒ विश्वा॒ भुव॑नानि॒ यस्मिं॒त्सं सौभ॑गानि दधि॒रे पा॑व॒के ॥
त्वे इति॑ , वसू॑नि , पु॒रु॒ऽअ॒णी॒क॒ , हो॒तः॒ , दो॒षा , वस्तोः॑ , आ , ई॒रि॒रे॒ , य॒ज्ञिया॑सः । क्षाम॑ऽइव , विश्वा॑ , भुव॑नानि , यस्मि॑न् , सं , सौभ॑गानि , द॒धि॒रे , पा॒व॒के ॥
त्वं वि॒क्षु प्र॒दिवः॑ सीद आ॒सु क्रत्वा॑ र॒थीर॑भवो॒ वार्या॑णां । अत॑ इनोषि विध॒ते चि॑कित्वो॒ व्या॑नु॒षग्जा॑तवेदो॒ वसू॑नि ॥
त्वं , वि॒क्षु , प्र॒ऽदिवः॑ , सी॒दः॒ , आ॒सु , क्रत्वा॑ , र॒थीः , अ॒भ॒वः॒ , वार्या॑णां । अतः॑ , इ॒नो॒षि॒ , वि॒ध॒ते , चि॒कि॒त्वः॒ , वि , आ॒नु॒षक् , जा॒त॒ऽवे॒दः॒ , वसू॑नि ॥
यो नः॒ सनु॑त्यो अभि॒दास॑दग्ने॒ यो अंत॑रो मित्रमहो वनु॒ष्यात् । तम॒जरे॑भि॒र्वृष॑भि॒स्तव॒ स्वैस्तपा॑ तपिष्ठ॒ तप॑सा॒ तप॑स्वान् ॥
यः , नः॒ , सनु॑त्यः , अ॒भि॒ऽदास॑त् , अ॒ग्ने॒ , यः , अंत॑रः , मि॒त्र॒ऽम॒हः॒ , व॒नु॒ष्यात् । तं , अ॒जरे॑भिः , वृष॑ऽभिः , तव॑ , स्वैः , तप॑ , त॒पि॒ष्ठ॒ , तप॑सा , तप॑स्वान् ॥
यस्ते॑ य॒ज्ञेन॑ स॒मिधा॒ य उ॒क्थैर॒र्केभिः॑ सूनो सहसो॒ ददा॑शत् । स मर्त्ये॑ष्वमृत॒ प्रचे॑ता रा॒या द्यु॒म्नेन॒ श्रव॑सा॒ वि भा॑ति ॥
यः , ते॒ , य॒ज्ञेन॑ , सं॒ऽइधा॑ , यः , उ॒क्थैः , अ॒र्केभिः॑ , सू॒नो॒ इति॑ , स॒ह॒सः॒ , ददा॑शत् । सः , मर्त्ये॑षु , अ॒मृ॒त॒ , प्रऽचे॑ताः , रा॒या , द्यु॒म्नेन॑ , श्रव॑सा , वि , भा॒ति॒ ॥
स तत्कृ॑धीषि॒तस्तूय॑मग्ने॒ स्पृधो॑ बाधस्व॒ सह॑सा॒ सह॑स्वान् । यच्छ॒स्यसे॒ द्युभि॑र॒क्तो वचो॑भि॒स्तज्जु॑षस्व जरि॒तुर्घोषि॒ मन्म॑ ॥
सः , तत् , कृ॒धि॒ , इ॒षि॒तः , तूयं॑ , अ॒ग्ने॒ , स्पृधः॑ , बा॒ध॒स्व॒ , सह॑सा , सह॑स्वान् । यत् , श॒स्यसे॑ , द्युऽभिः॑ , अ॒क्तः , वचः॑ऽभिः , तत् , जु॒ष॒स्व॒ , ज॒रि॒तुः , घोषि॑ , मन्म॑ ॥
अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती अ॒श्याम॑ र॒यिं र॑यिवः सु॒वीरं॑ । अ॒श्याम॒ वाज॑म॒भि वा॒जयं॑तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ॥
अ॒श्याम॑ , तं , कामं॑ , अ॒ग्ने॒ , तव॑ , ऊ॒ती , अ॒श्याम॑ , र॒यिं , र॒यि॒ऽवः॒ , सु॒ऽवीरं॑ । अ॒श्याम॑ , वाजं॑ , अ॒भि , वा॒जयं॑तः , अ॒श्याम॑ , द्यु॒म्नं , अ॒ज॒र॒ , अ॒जरं॑ , ते॒ ॥
[६] प्रनव्यसेति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छा॑ य॒ज्ञेन॑ गा॒तुमव॑ इ॒च्छमा॑नः । वृ॒श्चद्व॑नं कृ॒ष्णया॑मं॒ रुशं॑तं वी॒ती होता॑रं दि॒व्यं जि॑गाति ॥
प्र , नव्य॑सा , सह॑सः , सू॒नुं , अच्छ॑ , य॒ज्ञेन॑ , गा॒तुं , अवः॑ , इ॒च्छमा॑नः । वृ॒श्चत्ऽव॑नं , कृ॒ष्णऽया॑मं , रुशं॑तं , वी॒ती , होता॑रं , दि॒व्यं , जि॒गा॒ति॒ ॥
स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः । यः पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ॥
सः , श्वि॒ता॒नः , ता॒न्य॒तुः , रो॒च॒न॒ऽस्थाः , अ॒जरे॑भिः , नान॑दत्ऽभिः , यवि॑ष्ठः । यः , पा॒व॒कः , पु॒रु॒ऽतमः॑ , पु॒रूणि॑ , पृ॒थूनि॑ , अ॒ग्निः , अ॒नु॒ऽयाति॑ , भर्व॑न् ॥
वि ते॒ विष्व॒ग्वात॑जूतासो अग्ने॒ भामा॑सः शुचे॒ शुच॑यश्चरंति । तु॒वि॒म्र॒क्षासो॑ दि॒व्या नव॑ग्वा॒ वना॑ वनंति धृष॒ता रु॒जंतः॑ ॥
वि , ते॒ , विष्व॑क् , वात॑ऽजूतासः , अ॒ग्ने॒ , भामा॑सः , शु॒चे॒ , शुच॑यः , च॒रं॒ति॒ । तु॒वि॒ऽम्र॒क्षासः॑ , दि॒व्याः , नव॑ऽग्वाः , वना॑ , व॒नं॒ति॒ , धृ॒ष॒ता , रु॒जंतः॑ ॥
ये ते॑ शु॒क्रासः॒ शुच॑यः शुचिष्मः॒ क्षां वपं॑ति॒ विषि॑तासो॒ अश्वाः॑ । अध॑ भ्र॒मस्त॑ उर्वि॒या वि भा॑ति या॒तय॑मानो॒ अधि॒ सानु॒ पृश्नेः॑ ॥
ये , ते॒ , शु॒क्रासः॑ , शुच॑यः , शु॒चि॒ष्मः॒ , क्षां , वपं॑ति , विऽसि॑तासः , अश्वाः॑ । अध॑ , भ्र॒मः , ते॒ , उ॒र्वि॒या , वि , भा॒ति॒ , या॒तय॑मानः , अधि॑ , सानु॑ , पृश्नेः॑ ॥
अध॑ जि॒ह्वा पा॑पतीति॒ प्र वृष्णो॑ गोषु॒युधो॒ नाशनिः॑ सृजा॒ना । शूर॑स्येव॒ प्रसि॑तिः क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना॑नि ॥
अध॑ , जि॒ह्वा , पा॒प॒ती॒ति॒ , प्र , वृष्णः॑ , गो॒षु॒ऽयुधः॑ , न , अ॒शनिः॑ , सृ॒जा॒ना । शूर॑स्यऽइव , प्रऽसि॑तिः , क्षा॒तिः , अ॒ग्नेः , दुः॒ऽवर्तुः॑ , भी॒मः , द॒य॒ते॒ , वना॑नि ॥
आ भा॒नुना॒ पार्थि॑वानि॒ ज्रयां॑सि म॒हस्तो॒दस्य॑ धृष॒ता त॑तंथ । स बा॑ध॒स्वाप॑ भ॒या सहो॑भिः॒ स्पृधो॑ वनु॒ष्यन्व॒नुषो॒ नि जू॑र्व ॥
आ , भा॒नुना॑ , पार्थि॑वानि , ज्रयां॑सि , म॒हः , तो॒दस्य॑ , धृ॒ष॒ता , त॒तं॒थ॒ । सः , बा॒ध॒स्व॒ , अप॑ , भ॒या , सहः॑ऽभिः , स्पृधः॑ , व॒नु॒ष्यन् , व॒नुषः॑ , नि , जू॒र्व॒ ॥
स चि॑त्र चि॒त्रं चि॒तयं॑तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धां । चं॒द्रं र॒यिं पु॑रु॒वीरं॑ बृ॒हंतं॒ चंद्र॑ चं॒द्राभि॑र्गृण॒ते यु॑वस्व ॥
सः , चि॒त्र॒ , चि॒त्रं , चि॒तयं॑तं , अ॒स्मे इति॑ , चित्र॑ऽक्षत्र , चि॒त्रऽत॑मं , व॒यः॒ऽधां । चं॒द्रं , र॒यिं , पु॒रु॒ऽवीरं॑ , बृ॒हंतं॑ , चंद्र॑ , चं॒द्राभिः॑ , गृ॒ण॒ते , यु॒व॒स्व॒ ॥
[७] मूर्धाननिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरस्त्रिष्टुबंत्येद्वेजगत्यौ |
मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निं । क॒विं स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयंत दे॒वाः ॥
मू॒र्धानं॑ , दि॒वः , अ॒र॒तिं , पृ॒थि॒व्याः , वै॒श्वा॒न॒रं , ऋ॒ते , आ , जा॒तं , अ॒ग्निं । क॒विं , सं॒ऽराजं॑ , अति॑थिं , जना॑नां , आ॒सन् , आ , पात्रं॑ , ज॒न॒यं॒त॒ , दे॒वाः ॥
नाभिं॑ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा॑हा॒वम॒भि सं न॑वंत । वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां॑ य॒ज्ञस्य॑ के॒तुं ज॑नयंत दे॒वाः ॥
नाभिं॑ , य॒ज्ञानां॑ , सद॑नं , र॒यी॒णां , म॒हां , आ॒ऽहा॒वं , अ॒भि , सं , न॒वं॒त॒ । वै॒श्वा॒न॒रं , र॒थ्यं॑ , अ॒ध्व॒राणां॑ , य॒ज्ञस्य॑ , के॒तुं , ज॒न॒यं॒त॒ , दे॒वाः ॥
त्वद्विप्रो॑ जायते वा॒ज्य॑ग्ने॒ त्वद्वी॒रासो॑ अभिमाति॒षाहः॑ । वैश्वा॑नर॒ त्वम॒स्मासु॑ धेहि॒ वसू॑नि राजंत्स्पृह॒याय्या॑णि ॥
त्वत् , विप्रः॑ , जा॒य॒ते॒ , वा॒जी , अ॒ग्ने॒ , त्वत् , वी॒रासः॑ , अ॒भि॒मा॒ति॒ऽसहः॑ । वैश्वा॑नर , त्वं , अ॒स्मासु॑ , धे॒हि॒ , वसू॑नि , रा॒ज॒न् , स्पृ॒ह॒याय्या॑णि ॥
त्वां विश्वे॑ अमृत॒ जाय॑मानं॒ शिशुं॒ न दे॒वा अ॒भि सं न॑वंते । तव॒ क्रतु॑भिरमृत॒त्वमा॑य॒न्वैश्वा॑नर॒ यत्पि॒त्रोरदी॑देः ॥
त्वां , विश्वे॑ , अ॒मृ॒त॒ , जाय॑मानं , शिशुं॑ , न , दे॒वाः , अ॒भि , सं , न॒वं॒ते॒ । तव॑ , क्रतु॑ऽभिः , अ॒मृ॒त॒ऽत्वं , आ॒य॒न् , वैश्वा॑नर , यत् , पि॒त्रोः , अदी॑देः ॥
वैश्वा॑नर॒ तव॒ तानि॑ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष । यज्जाय॑मानः पि॒त्रोरु॒पस्थेऽविं॑दः के॒तुं व॒युने॒ष्वह्नां॑ ॥
वैश्वा॑नर , तव॑ , तानि॑ , व्र॒तानि॑ , म॒हानि॑ , अ॒ग्ने॒ , नकिः॑ , आ , द॒ध॒र्ष॒ । यत् , जाय॑मानः , पि॒त्रोः , उ॒पऽस्थे॑ , अविं॑दः , के॒तुं , व॒युने॑षु , अह्नां॑ ॥
वै॒श्वा॒न॒रस्य॒ विमि॑तानि॒ चक्ष॑सा॒ सानू॑नि दि॒वो अ॒मृत॑स्य के॒तुना॑ । तस्येदु॒ विश्वा॒ भुव॒नाधि॑ मू॒र्धनि॑ व॒या इ॑व रुरुहुः स॒प्त वि॒स्रुहः॑ ॥
वै॒श्वा॒न॒रस्य॑ , विऽमि॑तानि , चक्ष॑सा , सानू॑नि , दि॒वः , अ॒मृत॑स्य , के॒तुना॑ । तस्य॑ , इत् , ऊँ॒ इति॑ , विश्वा॑ , भुव॑ना , अधि॑ , मू॒र्धनि॑ , व॒याःऽइ॑व , रु॒रु॒हुः॒ , स॒प्त , वि॒ऽस्रुहः॑ ॥
वि यो रजां॒स्यमि॑मीत सु॒क्रतु॑र्वैश्वान॒रो वि दि॒वो रो॑च॒ना क॒विः । परि॒ यो विश्वा॒ भुव॑नानि पप्र॒थेऽद॑ब्धो गो॒पा अ॒मृत॑स्य रक्षि॒ता ॥
वि , यः , रजां॑सि , अमि॑मीत , सु॒ऽक्रतुः॑ , वै॒श्वा॒न॒रः , वि , दि॒वः , रो॒च॒ना , क॒विः । परि॑ , यः , विश्वा॑ , भुव॑नानि , प॒प्र॒थे , अद॑ब्धः , गो॒पाः , अ॒मृत॑स्य , र॒क्षि॒ता ॥
[८] पृक्षस्येति सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोवैश्वानरोग्निर्जगत्यंत्यात्रिष्टुप् |
पृ॒क्षस्य॒ वृष्णो॑ अरु॒षस्य॒ नू सहः॒ प्र नु वो॑चं वि॒दथा॑ जा॒तवे॑दसः । वै॒श्वा॒न॒राय॑ म॒तिर्नव्य॑सी॒ शुचिः॒ सोम॑ इव पवते॒ चारु॑र॒ग्नये॑ ॥
पृ॒क्षस्य॑ , वृष्णः॑ , अ॒रु॒षस्य॑ , नु , सहः॑ , प्र , नु , वो॒चं॒ , वि॒दथा॑ , जा॒तऽवे॑दसः । वै॒श्वा॒न॒राय॑ , म॒तिः , नव्य॑सी , शुचिः॑ , सोमः॑ऽइव , प॒व॒ते॒ , चारुः॑ , अ॒ग्नये॑ ॥
स जाय॑मानः पर॒मे व्यो॑मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा अ॑रक्षत । व्य१॒॑न्तरि॑क्षममिमीत सु॒क्रतु॑र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत् ॥
सः , जाय॑मानः , प॒र॒मे , विऽओ॑मनि , व्र॒तानि॑ , अ॒ग्निः , व्र॒त॒ऽपाः , अ॒र॒क्ष॒त॒ । वि , अं॒तरि॑क्षं , अ॒मि॒मी॒त॒ , सु॒ऽक्रतुः॑ , वै॒श्वा॒न॒रः , म॒हि॒ना , नाकं॑ , अ॒स्पृ॒श॒त् ॥
व्य॑स्तभ्ना॒द्रोद॑सी मि॒त्रो अद्भु॑तोऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒ तमः॑ । वि चर्म॑णीव धि॒षणे॑ अवर्तयद्वैश्वान॒रो विश्व॑मधत्त॒ वृष्ण्यं॑ ॥
वि , अ॒स्त॒भ्ना॒त् , रोद॑सी॒ इति॑ , मि॒त्रः , अद्भु॑तः , अं॒तः॒ऽवाव॑त् , अ॒कृ॒णो॒त् , ज्योति॑षा , तमः॑ । वि , चर्म॑णी इ॒वेति॒ चर्म॑णीऽइव , धि॒षणे॒ इति॑ , अ॒व॒र्त॒य॒त् , वै॒श्वा॒न॒रः , विश्वं॑ , अ॒ध॒त्त॒ , वृष्ण्यं॑ ॥
अ॒पामु॒पस्थे॑ महि॒षा अ॑गृभ्णत॒ विशो॒ राजा॑न॒मुप॑ तस्थुर्ऋ॒ग्मियं॑ । आ दू॒तो अ॒ग्निम॑भरद्वि॒वस्व॑तो वैश्वान॒रं मा॑त॒रिश्वा॑ परा॒वतः॑ ॥
अ॒पां , उ॒पऽस्थे॑ , म॒हि॒षाः , अ॒गृ॒भ्ण॒त॒ , विशः॑ , राजा॑नं , उप॑ , त॒स्थुः॒ , ऋ॒ग्मियं॑ । आ , दू॒तः , अ॒ग्निं , अ॒भ॒र॒त् , वि॒वस्व॑तः , वै॒श्वा॒न॒रं , मा॒त॒रिश्वा॑ , प॒रा॒ऽवतः॑ ॥
यु॒गेयु॑गे विद॒थ्यं॑ गृ॒णद्भ्योऽग्ने॑ र॒यिं य॒शसं॑ धेहि॒ नव्य॑सीं । प॒व्येव॑ राजन्न॒घशं॑समजर नी॒चा नि वृ॑श्च व॒निनं॒ न तेज॑सा ॥
यु॒गेऽयु॑गे , वि॒द॒थ्यं॑ , गृ॒णत्ऽभ्यः॑ , अग्ने॑ , र॒यिं , य॒शसं॑ , धे॒हि॒ , नव्य॑सीं । प॒व्याऽइ॑व , रा॒ज॒न् , अ॒घऽशं॑सं , अ॒ज॒र॒ , नी॒चा , नि , वृ॒श्च॒ , व॒निनं॑ , न , तेज॑सा ॥
अ॒स्माक॑मग्ने म॒घव॑त्सु धार॒याना॑मि क्ष॒त्रम॒जरं॑ सु॒वीर्यं॑ । व॒यं ज॑येम श॒तिनं॑ सह॒स्रिणं॒ वैश्वा॑नर॒ वाज॑मग्ने॒ तवो॒तिभिः॑ ॥
अ॒स्माकं॑ , अ॒ग्ने॒ , म॒घव॑त्ऽसु , धा॒र॒य॒ , अना॑मि , क्ष॒त्रं , अ॒जरं॑ , सु॒ऽवीर्यं॑ । व॒यं , ज॒ये॒म॒ , श॒तिनं॑ , स॒ह॒स्रिणं॑ , वैश्वा॑नर , वाजं॑ , अ॒ग्ने॒ , तव॑ , ऊ॒तिऽभिः॑ ॥
अद॑ब्धेभि॒स्तव॑ गो॒पाभि॑रिष्टे॒ऽस्माकं॑ पाहि त्रिषधस्थ सू॒रीन् । रक्षा॑ च नो द॒दुषां॒ शर्धो॑ अग्ने॒ वैश्वा॑नर॒ प्र च॑ तारीः॒ स्तवा॑नः ॥
अद॑ब्धेभिः , तव॑ , गो॒पाभिः॑ , इ॒ष्टे॒ , अ॒स्माकं॑ , पा॒हि॒ , त्रि॒ऽस॒ध॒स्थ॒ , सू॒रीन् । रक्ष॑ , च॒ , नः॒ , द॒दुषां॑ , शर्धः॑ , अ॒ग्ने॒ , वैश्वा॑नर , प्र , च॒ , ता॒रीः॒ , स्तवा॑नः ॥
[९] अहश्चकृष्णमिति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोवैश्वानरोग्निस्त्रिष्टुप् |
अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑ । वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥
अहः॑ , च॒ , कृ॒ष्णं , अहः॑ , अर्जु॑नं , च॒ , वि , व॒र्ते॒ते॒ इति॑ , रज॑सी॒ इति॑ , वे॒द्याभिः॑ । वै॒श्वा॒न॒रः , जाय॑मानः , न , राजा॑ , अव॑ , अ॒ति॒र॒त् , ज्योति॑षा , अ॒ग्निः , तमां॑सि ॥
नाहं तंतुं॒ न वि जा॑ना॒म्योतुं॒ न यं वयं॑ति सम॒रेऽत॑मानाः । कस्य॑ स्वित्पु॒त्र इ॒ह वक्त्वा॑नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ॥
न , अ॒हं , तंतुं॑ , न , वि , जा॒ना॒मि॒ , ओतुं॑ , न , यं , वयं॑ति , सं॒ऽअ॒रे , अत॑मानाः । कस्य॑ , स्वि॒त् , पु॒त्रः , इ॒ह , वक्त्वा॑नि , प॒रः , व॒दा॒ति॒ , अव॑रेण , पि॒त्रा ॥
स इत्तंतुं॒ स वि जा॑ना॒त्योतुं॒ स वक्त्वा॑न्यृतु॒था व॑दाति । य ईं॒ चिके॑तद॒मृत॑स्य गो॒पा अ॒वश्चर॑न्प॒रो अ॒न्येन॒ पश्य॑न् ॥
सः , इत् , तंतुं॑ , सः , वि , जा॒ना॒ति॒ , ओतुं॑ , सः , वक्त्वा॑नि , ऋ॒तु॒ऽथा , व॒दा॒ति॒ । यः , ईं॒ , चिके॑तत् , अ॒मृत॑स्य , गो॒पाः , अ॒वः , चर॑न् , प॒रः , अ॒न्येन॑ , पश्य॑न् ॥
अ॒यं होता॑ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये॑षु । अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॒॑ वर्ध॑मानः ॥
अ॒यं , होता॑ , प्र॒थ॒मः , पश्य॑त , इ॒मं , इ॒दं , ज्योतिः॑ , अ॒मृतं॑ , मर्त्ये॑षु । अ॒यं , सः , ज॒ज्ञे॒ , ध्रु॒वः , आ , नि॒ऽस॒त्तः , अम॑र्त्यः , त॒न्वा॑ , वर्ध॑मानः ॥
ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्वं॒तः । विश्वे॑ दे॒वाः सम॑नसः॒ सके॑ता॒ एकं॒ क्रतु॑म॒भि वि यं॑ति सा॒धु ॥
ध्रु॒वं , ज्योतिः॑ , निऽहि॑तं , दृ॒शये॑ , कं , मनः॑ , जवि॑ष्ठं , प॒तय॑त्ऽसु , अं॒तरिति॑ । विश्वे॑ , दे॒वाः , सऽम॑नसः , सऽके॑ताः , एकं॑ , क्रतुं॑ , अ॒भि , वि , यं॒ति॒ , सा॒धु ॥
वि मे॒ कर्णा॑ पतयतो॒ वि चक्षु॒र्वी॒३॒॑दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् । वि मे॒ मन॑श्चरति दू॒रआ॑धीः॒ किं स्वि॑द्व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ॥
वि , मे॒ , कर्णा॑ , प॒त॒य॒तः॒ , वि , चक्षुः॑ , वि , इ॒दं , ज्योतिः॑ , हृद॑ये , आऽहि॑तं , यत् । वि , मे॒ , मनः॑ , च॒र॒ति॒ , दू॒रेऽआ॑धीः , किं , स्वि॒त् , व॒क्ष्यामि॑ , किं , ऊँ॒ इति॑ , नु , म॒नि॒ष्ये॒ ॥
विश्वे॑ दे॒वा अ॑नमस्यन्भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांसं॑ । वै॒श्वा॒न॒रो॑ऽवतू॒तये॒ नोऽम॑र्त्योऽवतू॒तये॑ नः ॥
विश्वे॑ , दे॒वाः , अ॒न॒म॒स्य॒न् , भि॒या॒नाः , त्वां , अ॒ग्ने॒ , तम॑सि , त॒स्थि॒ऽवांसं॑ । वै॒श्वा॒न॒रः , अ॒व॒तु॒ , ऊ॒तये॑ , नः॒ , अम॑र्त्यः , अ॒व॒तु॒ , ऊ॒तये॑ , नः॒ ॥
[१०] पुरोवइति सप्तर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजग्निस्त्रिष्टुबंत्याद्विपदाविराट् |
पु॒रो वो॑ मं॒द्रं दि॒व्यं सु॑वृ॒क्तिं प्र॑य॒ति य॒ज्ञे अ॒ग्निम॑ध्व॒रे द॑धिध्वं । पु॒र उ॒क्थेभिः॒ स हि नो॑ वि॒भावा॑ स्वध्व॒रा क॑रति जा॒तवे॑दाः ॥
पु॒रः , वः॒ , मं॒द्रं , दि॒व्यं , सु॒ऽवृ॒क्तिं , प्र॒ऽय॒ति , य॒ज्ञे , अ॒ग्निं , अ॒ध्व॒रे , द॒धि॒ध्वं॒ । पु॒रः , उ॒क्थेभिः॑ , सः , हि , नः॒ , वि॒भाऽवा॑ , सु॒ऽअ॒ध्व॒रा , क॒र॒ति॒ , जा॒तऽवे॑दाः ॥
तमु॑ द्युमः पुर्वणीक होत॒रग्ने॑ अ॒ग्निभि॒र्मनु॑ष इधा॒नः । स्तोमं॒ यम॑स्मै म॒मते॑व शू॒षं घृ॒तं न शुचि॑ म॒तयः॑ पवंते ॥
तं , ऊँ॒ इति॑ , द्यु॒ऽमः॒ , पु॒रु॒ऽअ॒नी॒क॒ , हो॒तः॒ , अग्ने॑ , अ॒ग्निऽभिः॑ , मनु॑षः , इ॒धा॒नः । स्तोमं॑ , यं , अ॒स्मै॒ , म॒मता॑ऽइव , शू॒षं , घृ॒तं , न , शुचि॑ , म॒तयः॑ , प॒वं॒ते॒ ॥
पी॒पाय॒ स श्रव॑सा॒ मर्त्ये॑षु॒ यो अ॒ग्नये॑ द॒दाश॒ विप्र॑ उ॒क्थैः । चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो॑चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति ॥
पी॒पाय॑ , सः , श्रव॑सा , मर्त्ये॑षु , यः , अ॒ग्नये॑ , द॒दाश॑ , विप्रः॑ , उ॒क्थैः । चि॒त्राभिः॑ , तं , ऊ॒तिऽभिः॑ , चि॒त्रऽशो॑चिः , व्र॒जस्य॑ , सा॒ता , गोऽम॑तः , द॒धा॒ति॒ ॥
आ यः प॒प्रौ जाय॑मान उ॒र्वी दू॑रे॒दृशा॑ भा॒सा कृ॒ष्णाध्वा॑ । अध॑ ब॒हु चि॒त्तम॒ ऊर्म्या॑यास्ति॒रः शो॒चिषा॑ ददृशे पाव॒कः ॥
आ , यः , प॒प्रौ , जाय॑मानः , उ॒र्वी इति॑ , दू॒रे॒ऽदृशा॑ , भा॒सा , कृ॒ष्णऽअ॑ध्वा । अध॑ , ब॒हु , चि॒त् , तमः॑ , ऊर्म्या॑याः , ति॒रः , शो॒चिषा॑ , द॒दृ॒शे॒ , पा॒व॒कः ॥
नू न॑श्चि॒त्रं पु॑रु॒वाजा॑भिरू॒ती अग्ने॑ र॒यिं म॒घव॑द्भ्यश्च धेहि । ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यांत्सु॒वीर्ये॑भिश्चा॒भि संति॒ जना॑न् ॥
नु , नः॒ , चि॒त्रं , पु॒रु॒ऽवाजा॑भिः , ऊ॒ती , अग्ने॑ , र॒यिं , म॒घव॑त्ऽभ्यः , च॒ , धे॒हि॒ । ये , राध॑सा , श्रव॑सा , च॒ , अति॑ , अ॒न्यान् , सु॒ऽवीर्ये॑भिः , च॒ , अ॒भि , संति॑ , जना॑न् ॥
इ॒मं य॒ज्ञं चनो॑ धा अग्न उ॒शन्यं त॑ आसा॒नो जु॑हु॒ते ह॒विष्मा॑न् । भ॒रद्वा॑जेषु दधिषे सुवृ॒क्तिमवी॒र्वाज॑स्य॒ गध्य॑स्य सा॒तौ ॥
इ॒मं , य॒ज्ञं , चनः॑ , धाः॒ , अ॒ग्ने॒ , उ॒शन् , यं , ते॒ , आ॒सा॒नः , जु॒हु॒ते , ह॒विष्मा॑न् । भ॒रत्ऽवा॑जेषु , द॒धि॒षे॒ , सु॒ऽवृ॒क्तिं , अवीः॑ , वाज॑स्य , गध्य॑स्य , सा॒तौ ॥
वि द्वेषां॑सीनु॒हि व॒र्धयेळां॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥
वि , द्वेषां॑सि , इ॒नु॒हि , व॒र्धय॑ , इळां॑ , मदे॑म , श॒तऽहि॑माः , सु॒ऽवीराः॑ ॥ ।
[११] यजस्वहोतरिति षडृचस्य सूक्तस्यबार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
यज॑स्व होतरिषि॒तो यजी॑या॒नग्ने॒ बाधो॑ म॒रुतां॒ न प्रयु॑क्ति । आ नो॑ मि॒त्रावरु॑णा॒ नास॑त्या॒ द्यावा॑ हो॒त्राय॑ पृथि॒वी व॑वृत्याः ॥
यज॑स्व , हो॒तः॒ , इ॒षि॒तः , यजी॑यान् , अग्ने॑ , बाधः॑ , म॒रुतां॑ , न , प्रऽयु॑क्ति । आ , नः॒ , मि॒त्रावरु॑णा , नास॑त्या , द्यावा॑ , हो॒त्राय॑ , पृ॒थि॒वी इति॑ , व॒वृ॒त्याः॒ ॥
त्वं होता॑ मं॒द्रत॑मो नो अ॒ध्रुगं॒तर्दे॒वो वि॒दथा॒ मर्त्ये॑षु । पा॒व॒कया॑ जु॒ह्वा॒३॒॑ वह्नि॑रा॒साग्ने॒ यज॑स्व त॒न्वं१॒॑ तव॒ स्वां ॥
त्वं , होता॑ , मं॒द्रऽत॑मः , नः॒ , अ॒ध्रुक् , अं॒तः , दे॒वः , वि॒दथा॑ , मर्त्ये॑षु । पा॒व॒कया॑ , जु॒ह्वा॑ , वह्निः॑ , आ॒सा , अग्ने॑ , यज॑स्व , त॒न्वं॑ , तव॑ , स्वां ॥
धन्या॑ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वांजन्म॑ गृण॒ते यज॑ध्यै । वेपि॑ष्ठो॒ अंगि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ च्छं॒दो भन॑ति रे॒भ इ॒ष्टौ ॥
धन्या॑ , चि॒त् , हि , त्वे इति॑ , धि॒षणा॑ , वष्टि॑ , प्र , दे॒वान् , जन्म॑ , गृ॒ण॒ते , यज॑ध्यै । वेपि॑ष्ठः , अंगि॑रसां , यत् , ह॒ , विप्रः॑ , मधु॑ , छं॒दः , भन॑ति , रे॒भः , इ॒ष्टौ ॥
अदि॑द्युत॒त्स्वपा॑को वि॒भावाग्ने॒ यज॑स्व॒ रोद॑सी उरू॒ची । आ॒युं न यं नम॑सा रा॒तह॑व्या अं॒जंति॑ सुप्र॒यसं॒ पंच॒ जनाः॑ ॥
अदि॑द्युतत् , सु , अपा॑कः , वि॒ऽभावा॑ , अग्ने॑ , यज॑स्व , रोद॑सी॒ इति॑ , उ॒रू॒ची इति॑ । आ॒युं , न , यं , नम॑सा , रा॒तऽह॑व्याः , अं॒जंति॑ , सु॒ऽप्र॒यसं॑ , पंच॑ , जनाः॑ ॥
वृं॒जे ह॒ यन्नम॑सा ब॒र्हिर॒ग्नावया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः । अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्या अश्रा॑यि य॒ज्ञः सूर्ये॒ न चक्षुः॑ ॥
वृं॒जे , ह॒ , यत् , नम॑सा , ब॒र्हिः , अ॒ग्नौ , अया॑मि , स्रुक् , घृ॒तऽव॑ती , सु॒ऽवृ॒क्तिः । अम्य॑क्षि , सद्म॑ , सद॑ने , पृ॒थि॒व्याः , अश्रा॑यि , य॒ज्ञः , सूर्ये॑ , न , चक्षुः॑ ॥
द॒श॒स्या नः॑ पुर्वणीक होतर्दे॒वेभि॑रग्ने अ॒ग्निभि॑रिधा॒नः । रा॒यः सू॑नो सहसो वावसा॒ना अति॑ स्रसेम वृ॒जनं॒ नांहः॑ ॥
द॒श॒स्य , नः॒ , पु॒रु॒ऽअ॒णी॒क॒ , हो॒तः॒ , दे॒वेभिः॑ , अ॒ग्ने॒ , अ॒ग्निऽभिः॑ , इ॒धा॒नः । रा॒यः , सू॒नो॒ इति॑ , स॒ह॒सः॒ , व॒व॒सा॒नाः , अति॑ , स्र॒से॒म॒ , वृ॒जनं॑ , न , अंहः॑ ॥
[१२] मध्येहोतेति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजोऽग्निस्त्रिष्टुप् |
मध्ये॒ होता॑ दुरो॒णे ब॒र्हिषो॒ राळ॒ग्निस्तो॒दस्य॒ रोद॑सी॒ यज॑ध्यै । अ॒यं स सू॒नुः सह॑स ऋ॒तावा॑ दू॒रात्सूर्यो॒ न शो॒चिषा॑ ततान ॥
मध्ये॑ , होता॑ , दु॒रो॒णे , ब॒र्हिषः॑ , राट् , अ॒ग्निः , तो॒दस्य॑ , रोद॑सी॒ इति॑ , यज॑ध्यै । अ॒यं , सः , सू॒नुः , सह॑सः , ऋ॒तऽवा॑ , दू॒रात् , सूर्यः॑ , न , शो॒चिषा॑ , त॒ता॒न॒ ॥
आ यस्मिं॒त्वे स्वपा॑के यजत्र॒ यक्ष॑द्राजंत्स॒र्वता॑तेव॒ नु द्यौः । त्रि॒ष॒धस्थ॑स्तत॒रुषो॒ न जंहो॑ ह॒व्या म॒घानि॒ मानु॑षा॒ यज॑ध्यै ॥
आ , यस्मि॑न् , त्वे इति॑ , सु , अपा॑के , य॒ज॒त्र॒ , यक्ष॑त् , रा॒ज॒न् , स॒र्वता॑ताऽइव , नु , द्यौः । त्रि॒ऽस॒धस्थः॑ , त॒त॒रुषः॑ , न , जंहः॑ , ह॒व्या , म॒घानि॑ , मानु॑षा , यज॑ध्यै ॥
तेजि॑ष्ठा॒ यस्या॑र॒तिर्व॑ने॒राट् तो॒दो अध्व॒न्न वृ॑धसा॒नो अ॑द्यौत् । अ॒द्रो॒घो न द्र॑वि॒ता चे॑तति॒ त्मन्नम॑र्त्योऽव॒र्त्र ओष॑धीषु ॥
तेजि॑ष्ठा , यस्य॑ , अ॒र॒तिः , व॒ने॒ऽराट् , तो॒दः , अध्व॑न् , न , वृ॒ध॒सा॒नः , अ॒द्यौ॒त् । अ॒द्रो॒घः , न , द्र॒वि॒ता , चे॒त॒ति॒ , त्मन् , अम॑र्त्यः , अ॒व॒र्त्रः , ओष॑धीषु ॥
सास्माके॑भिरे॒तरी॒ न शू॒षैर॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः । द्र्व॑न्नो व॒न्वन्क्रत्वा॒ नार्वो॒स्रः पि॒तेव॑ जार॒यायि॑ य॒ज्ञैः ॥
सः , अ॒स्माके॑भिः , ए॒तरि॑ , न , शू॒षैः , अ॒ग्निः , स्त॒वे॒ , दमे॑ , आ , जा॒तऽवे॑दाः । द्रुऽअ॑न्नः , व॒न्वन् , क्रत्वा॑ , न , अर्वा॑ , उ॒स्रः , पि॒ताऽइ॑व , जा॒र॒यायि॑ , य॒ज्ञैः ॥
अध॑ स्मास्य पनयंति॒ भासो॒ वृथा॒ यत्तक्ष॑दनु॒याति॑ पृ॒थ्वीं । स॒द्यो यः स्पं॒द्रो विषि॑तो॒ धवी॑यानृ॒णो न ता॒युरति॒ धन्वा॑ राट् ॥
अध॑ , स्म॒ , अ॒स्य॒ , प॒न॒यं॒ति॒ , भासः॑ , वृथा॑ , यत् , तक्ष॑त् , अ॒नु॒ऽयाति॑ , पृ॒थ्वीं । स॒द्यः , यः , स्पं॒द्रः , विऽसि॑तः , धवी॑यान् , ऋ॒णः , न , ता॒युः , अति॑ , धन्व॑ , रा॒ट् ॥
स त्वं नो॑ अर्व॒न्निदा॑या॒ विश्वे॑भिरग्ने अ॒ग्निभि॑रिधा॒नः । वेषि॑ रा॒यो वि या॑सि दु॒च्छुना॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥
सः , त्वं , नः॒ , अ॒र्व॒न् , निदा॑याः , विश्वे॑भिः , अ॒ग्ने॒ , अ॒ग्निऽभिः॑ , इ॒धा॒नः । वेषि॑ , रा॒यः , वि , या॒सि॒ , दु॒च्छुनाः॑ , मदे॑म , श॒तऽहि॑माः , सु॒ऽवीराः॑ ॥
[१३] त्वद्विश्वेति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निस्त्रिष्टुप् |
त्वद्विश्वा॑ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि यं॑ति व॒निनो॒ न व॒याः । श्रु॒ष्टी र॒यिर्वाजो॑ वृत्र॒तूर्ये॑ दि॒वो वृ॒ष्टिरीड्यो॑ री॒तिर॒पां ॥
त्वत् , विश्वा॑ , सु॒ऽभ॒ग॒ , सौभ॑गानि , अग्ने॑ , वि , यं॒ति॒ , व॒निनः॑ , न , व॒याः । श्रु॒ष्टी , र॒यिः , वाजः॑ , वृ॒त्र॒ऽतूर्ये॑ , दि॒वः , वृ॒ष्टिः , ईड्यः॑ , री॒तिः , अ॒पां ॥
त्वं भगो॑ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः । अग्ने॑ मि॒त्रो न बृ॑ह॒त ऋ॒तस्यासि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरेः॑ ॥
त्वं , भगः॑ , नः॒ , आ , हि , रत्नं॑ , इ॒षे , परि॑ज्माऽइव , क्ष॒य॒सि॒ , द॒स्मऽव॑र्चाः । अग्ने॑ , मि॒त्रः , न , बृ॒ह॒तः , ऋ॒तस्य॑ , असि॑ , क्ष॒त्ता , वा॒मस्य॑ , दे॒व॒ , भूरेः॑ ॥
स सत्प॑तिः॒ शव॑सा हंति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाजं॑ । यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ॥
सः , सत्ऽप॑तिः , शव॑सा , हं॒ति॒ , वृ॒त्रं , अग्ने॑ , विप्रः॑ , वि , प॒णेः , भ॒र्ति॒ , वाजं॑ । यं , त्वं , प्र॒ऽचे॒तः॒ , ऋ॒त॒ऽजा॒त॒ , रा॒या , स॒ऽजोषाः॑ , नप्त्रा॑ , अ॒पां , हि॒नोषि॑ ॥
यस्ते॑ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट् । विश्वं॒ स दे॑व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्यं१॒॑ पत्य॑ते वस॒व्यैः॑ ॥
यः , ते॒ , सू॒नो॒ इति॑ , स॒ह॒सः॒ , गीः॒ऽभिः , उ॒क्थैः , य॒ज्ञैः , मर्तः॑ , निऽशि॑तिं , वे॒द्या , आन॑ट् । विश्वं॑ , सः , दे॒व॒ , प्रति॑ , वा॒ , अरं॑ , अ॒ग्ने॒ , ध॒त्ते , धा॒न्यं॑ , पत्य॑ते , व॒स॒व्यैः॑ ॥
ता नृभ्य॒ आ सौ॑श्रव॒सा सु॒वीराग्ने॑ सूनो सहसः पु॒ष्यसे॑ धाः । कृ॒णोषि॒ यच्छव॑सा॒ भूरि॑ प॒श्वो वयो॒ वृका॑या॒रये॒ जसु॑रये ॥
ता , नृऽभ्यः॑ , आ , सौ॒श्र॒व॒सा , सु॒ऽवीरा॑ , अग्ने॑ , सू॒नो॒ इति॑ , स॒ह॒सः॒ , पु॒ष्यसे॑ , धाः॒ । कृ॒णोषि॑ , यत् , शव॑सा , भूरि॑ , प॒श्वः , वयः॑ , वृका॑य , अ॒रये॑ , जसु॑रये ॥
व॒द्मा सू॑नो सहसो नो॒ विहा॑या॒ अग्ने॑ तो॒कं तन॑यं वा॒जि नो॑ दाः । विश्वा॑भिर्गी॒र्भिर॒भि पू॒र्तिम॑श्यां॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥
व॒द्मा , सू॒नो॒ इति॑ , स॒ह॒सः॒ , नः॒ , विऽहा॑याः , अग्ने॑ , तो॒कं , तन॑यं , वा॒जि , नः॒ , दाः॒ । विश्वा॑भिः , गीः॒ऽभिः , अ॒भि , पू॒र्तिं , अ॒श्यां॒ , मदे॑म , श॒तऽहि॑माः , सु॒ऽवीराः॑ ॥
[१४] अग्नायइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोऽग्निरनुष्टुबंत्याशक्वरी |
अ॒ग्ना यो मर्त्यो॒ दुवो॒ धियं॑ जु॒जोष॑ धी॒तिभिः॑ । भस॒न्नु ष प्र पू॒र्व्य इषं॑ वुरी॒ताव॑से ॥
अ॒ग्ना , यः , मर्त्यः॑ , दुवः॑ , धियं॑ , जु॒जोष॑ , धी॒तिऽभिः॑ । भस॑त् , नु , सः , प्र , पू॒र्व्यः , इषं॑ , वु॒री॒त॒ , अव॑से ॥
अ॒ग्निरिद्धि प्रचे॑ता अ॒ग्निर्वे॒धस्त॑म॒ ऋषिः॑ । अ॒ग्निं होता॑रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विशः॑ ॥
अ॒ग्निः , इत् , हि , प्रऽचे॑ताः , अ॒ग्निः , वे॒धःऽत॑मः , ऋषिः॑ । अ॒ग्निं , होता॑रं , ई॒ळ॒ते॒ , य॒ज्ञेषु॑ , मनु॑षः , विशः॑ ॥
नाना॒ ह्य१॒॑ग्नेऽव॑से॒ स्पर्धं॑ते॒ रायो॑ अ॒र्यः । तूर्वं॑तो॒ दस्यु॑मा॒यवो॑ व्र॒तैः सीक्षं॑तो अव्र॒तं ॥
नाना॑ , हि , अ॒ग्ने॒ , अव॑से , स्पर्धं॑ते , रायः॑ , अ॒र्यः । तूर्वं॑तः , दस्युं॑ , आ॒यवः॑ , व्र॒तैः , सीक्षं॑तः , अ॒व्र॒तं ॥
अ॒ग्निर॒प्सामृ॑ती॒षहं॑ वी॒रं द॑दाति॒ सत्प॑तिं । यस्य॒ त्रसं॑ति॒ शव॑सः सं॒चक्षि॒ शत्र॑वो भि॒या ॥
अ॒ग्निः , अ॒प्सां , ऋ॒ति॒ऽसहं॑ , वी॒रं , द॒दा॒ति॒ , सत्ऽप॑तिं । यस्य॑ , त्रसं॑ति , शव॑सः , सं॒ऽचक्षि॑ , शत्र॑वः , भि॒या ॥
अ॒ग्निर्हि वि॒द्मना॑ नि॒दो दे॒वो मर्त॑मुरु॒ष्यति॑ । स॒हावा॒ यस्यावृ॑तो र॒यिर्वाजे॒ष्ववृ॑तः ॥
अ॒ग्निः , हि , वि॒द्मना॑ , नि॒दः , दे॒वः , मर्तं॑ , उ॒रु॒ष्यति॑ । स॒हऽवा॑ , यस्य॑ , अवृ॑तः , र॒यिः , वाजे॑षु , अवृ॑तः ॥
अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः । वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄंद्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥
अच्छ॑ , नः॒ , मि॒त्र॒ऽम॒हः॒ , दे॒व॒ , दे॒वान् , अग्ने॑ , वोचः॑ , सु॒ऽम॒तिं , रोद॑स्योः । वी॒हि , स्व॒स्तिं , सु॒ऽक्षि॒तिं , दि॒वः , नॄन् , द्वि॒षः , अंहां॑सि , दुः॒ऽइ॒ता , त॒रे॒म॒ , ता , त॒रे॒म॒ , तव॑ , अव॑सा , त॒रे॒म॒ ॥
[१५] इममूष्वित्येकोनविंशत्यृचस्य सूक्तस्यांगिरसोवीतहव्यो (भरद्वाजोवा) ग्निर्जगती तृतीयापंचदृश्यौशक्वर्यौ षष्ट्यतिशक्वरी सप्तदश्यनुष्टुप् अष्टादशीबृहती दशम्याद्याः पंचषोडश्येकोनविंशीचत्रिष्टुभः |
इ॒ममू॒ षु वो॒ अति॑थिमुष॒र्बुधं॒ विश्वा॑सां वि॒शां पति॑मृंजसे गि॒रा । वेतीद्दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्चि॑दत्ति॒ गर्भो॒ यदच्यु॑तं ॥
इ॒मं , ऊँ॒ इति॑ , सु , वः॒ , अति॑थिं , उ॒षः॒ऽबुधं॑ , विश्वा॑सां , वि॒शां , पतिं॑ , ऋं॒ज॒से॒ , गि॒रा । वेति॑ , इत् , दि॒वः , ज॒नुषा॑ , कत् , चि॒त् , आ , शुचिः॑ , ज्योक् , चि॒त् , अ॒त्ति॒ , गर्भः॑ , यत् , अच्यु॑तं ॥
मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो॑चिषं । स त्वं सुप्री॑तो वी॒तह॑व्ये अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ॥
मि॒त्रं , न , यं , सुऽधि॑तं , भृग॑वः , द॒धुः , वन॒स्पतौ॑ , ईड्यं॑ , ऊ॒र्ध्वऽशो॑चिषं । सः , त्वं , सुऽप्री॑तः , वी॒तऽह॑व्ये , अ॒द्भु॒त॒ , प्रश॑स्तिऽभिः , म॒ह॒य॒से॒ , दि॒वेऽदि॑वे ॥
स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू॑र॒र्यः पर॒स्यांत॑रस्य॒ तरु॑षः । रा॒यः सू॑नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह॑व्याय स॒प्रथो॑ भ॒रद्वा॑जाय स॒प्रथः॑ ॥
सः , त्वं , दक्ष॑स्य , अ॒वृ॒कः , वृ॒धः , भूः॒ , अ॒र्यः , पर॑स्य , अंत॑रस्य , तरु॑षः । रा॒यः , सू॒नो॒ इति॑ , स॒ह॒सः॒ , मर्त्ये॑षु , आ , छ॒र्दिः , य॒च्छ॒ , वी॒तऽह॑व्याय , स॒ऽप्रथः॑ , भ॒रत्ऽवा॑जाय , स॒ऽप्रथः॑ ॥
द्यु॒ता॒नं वो॒ अति॑थिं॒ स्व॑र्णरम॒ग्निं होता॑रं॒ मनु॑षः स्वध्व॒रं । विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि॑र्हव्य॒वाह॑मर॒तिं दे॒वमृं॑जसे ॥
द्यु॒ता॒नं , वः॒ , अति॑थिं , स्वः॑ऽनरं , अ॒ग्निं , होता॑रं , मनु॑षः , सु॒ऽअ॒ध्व॒रं । विप्रं॑ , न , द्यु॒क्षऽव॑चसं , सु॒वृ॒क्तिऽभिः॑ , ह॒व्य॒ऽवाहं॑ , अ॒र॒तिं , दे॒वं , ऋं॒ज॒से॒ ॥
पा॒व॒कया॒ यश्चि॒तयं॑त्या कृ॒पा क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना॑ । तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जरः॑ ॥
पा॒व॒कया॑ , यः , चि॒तयं॑त्या , कृ॒पा , क्षाम॑न् , रु॒रु॒चे , उ॒षसः॑ , न , भा॒नुना॑ । तूर्व॑न् , न , याम॑न् , एत॑शस्य , नु , रणे॑ , आ , यः , घृ॒णे , न , त॒तृ॒षा॒णः , अ॒जरः॑ ॥
अ॒ग्निम॑ग्निं वः स॒मिधा॑ दुवस्यत प्रि॒यंप्रि॑यं वो॒ अति॑थिं गृणी॒षणि॑ । उप॑ वो गी॒र्भिर॒मृतं॑ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं॑ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुवः॑ ॥
अ॒ग्निंऽअ॑ग्निं , वः॒ , सं॒ऽइधा॑ , दु॒व॒स्य॒त॒ , प्रि॒यंऽप्रि॑यं , वः॒ , अति॑थिं , गृ॒णी॒षणि॑ । उप॑ , वः॒ , गीः॒ऽभिः , अ॒मृतं॑ , वि॒वा॒स॒त॒ , दे॒वः , दे॒वेषु॑ , वन॑ते , हि , वार्यं॑ , दे॒वः , दे॒वेषु॑ , वन॑ते , हि , नः॒ , दुवः॑ ॥
समि॑द्धम॒ग्निं स॒मिधा॑ गि॒रा गृ॑णे॒ शुचिं॑ पाव॒कं पु॒रो अ॑ध्व॒रे ध्रु॒वं । विप्रं॒ होता॑रं पुरु॒वार॑म॒द्रुहं॑ क॒विं सु॒म्नैरी॑महे जा॒तवे॑दसं ॥
संऽइ॑द्धं , अ॒ग्निं , सं॒ऽइधा॑ , गि॒रा , गृ॒णे॒ , शुचिं॑ , पा॒व॒कं , पु॒रः , अ॒ध्व॒रे , ध्रु॒वं । विप्रं॑ , होता॑रं , पु॒रु॒ऽवारं॑ , अ॒द्रुहं॑ , क॒विं , सु॒म्नैः , ई॒म॒हे॒ , जा॒तऽवे॑दसं ॥
त्वां दू॒तम॑ग्ने अ॒मृतं॑ यु॒गेयु॑गे हव्य॒वाहं॑ दधिरे पा॒युमीड्यं॑ । दे॒वास॑श्च॒ मर्ता॑सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे॑दिरे ॥
त्वां , दू॒तं , अ॒ग्ने॒ , अ॒मृतं॑ , यु॒गेऽयु॑गे , ह॒व्य॒ऽवाहं॑ , द॒धि॒रे॒ , पा॒युं , ईड्यं॑ । दे॒वासः॑ , च॒ , मर्ता॑सः , च॒ , जागृ॑विं , वि॒ऽभुं , वि॒श्पतिं॑ , नम॑सा , नि , से॒दि॒रे॒ ॥
वि॒भूष॑न्नग्न उ॒भयाँ॒ अनु॑ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी॑यसे । यत्ते॑ धी॒तिं सु॑म॒तिमा॑वृणी॒महेऽध॑ स्मा नस्त्रि॒वरू॑थः शि॒वो भ॑व ॥
वि॒ऽभूष॑न् , अ॒ग्ने॒ , उ॒भया॒न् , अनु॑ , व्र॒ता , दू॒तः , दे॒वानां॑ , रज॑सी॒ इति॑ , सं , ई॒य॒से॒ । यत् , ते॒ , धी॒तिं , सु॒ऽम॒तिं , आ॒ऽवृ॒णी॒महे॑ , अध॑ , स्म॒ , नः॒ , त्रि॒ऽवरू॑थः , शि॒वः , भ॒व॒ ॥
तं सु॒प्रती॑कं सु॒दृशं॒ स्वंच॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम । स य॑क्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥
तं , सु॒ऽप्रती॑कं , सु॒ऽदृशं॑ , सु॒ऽअंचं॑ , अवि॑द्वांसः , वि॒दुःऽत॑रं , स॒पे॒म॒ । सः , य॒क्ष॒त् , विश्वा॑ , व॒युना॑नि , वि॒द्वान् , प्र , ह॒व्यं , अ॒ग्निः , अ॒मृते॑षु , वो॒च॒त् ॥
तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट् क॒वये॑ शूर धी॒तिं । य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित्पृ॑णक्षि॒ शव॑सो॒त रा॒या ॥
तं , अ॒ग्ने॒ , पा॒सि॒ , उ॒त , तं , पि॒प॒र्षि॒ , यः , ते॒ , आन॑ट् , क॒वये॑ , शू॒र॒ , धी॒तिं । य॒ज्ञस्य॑ , वा॒ , निऽशि॑तिं , वा॒ , उत्ऽइ॑तिं , वा॒ , तं , इत् , पृ॒ण॒क्षि॒ , शव॑सा , उ॒त , रा॒या ॥
त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् । सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ॥
त्वं , अ॒ग्ने॒ , व॒नु॒ष्य॒तः , नि , पा॒हि॒ , त्वं , ऊँ॒ इति॑ , नः॒ , स॒ह॒सा॒ऽव॒न् , अ॒व॒द्यात् । सं , त्वा॒ , ध्व॒स्म॒न्ऽवत् , अ॒भि , ए॒तु॒ , पाथः॑ , सं , र॒यिः , स्पृ॒ह॒याय्यः॑ , स॒ह॒स्री ॥
अ॒ग्निर्होता॑ गृ॒हप॑तिः॒ स राजा॒ विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः । दे॒वाना॑मु॒त यो मर्त्या॑नां॒ यजि॑ष्ठः॒ स प्र य॑जतामृ॒तावा॑ ॥
अ॒ग्निः , होता॑ , गृ॒हऽप॑तिः , सः , राजा॑ , विश्वा॑ , वे॒द॒ , जनि॑म , जा॒तऽवे॑दाः । दे॒वानां॑ , उ॒त , यः , मर्त्या॑नां , यजि॑ष्ठः , सः , प्र , य॒ज॒तां॒ , ऋ॒तऽवा॑ ॥
अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः॒ पाव॑कशोचे॒ वेष्ट्वं हि यज्वा॑ । ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥
अग्ने॑ , यत् , अ॒द्य , वि॒शः , अ॒ध्व॒र॒स्य॒ , हो॒त॒रिति॑ , पाव॑कऽशोचे , वेः , त्वं , हि , यज्वा॑ । ऋ॒ता , य॒जा॒सि॒ , म॒हि॒ना , वि , यत् , भूः , ह॒व्या , व॒ह॒ , य॒वि॒ष्ठ॒ , या , ते॒ , अ॒द्य ॥
अ॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा॑ दधीत॒ रोद॑सी॒ यज॑ध्यै । अवा॑ नो मघव॒न्वाज॑साता॒वग्ने॒ विश्वा॑नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥
अ॒भि , प्रयां॑सि , सुऽधि॑तानि , हि , ख्यः , नि , त्वा॒ , द॒धी॒त॒ , रोद॑सी॒ इति॑ , यज॑ध्यै । अव॑ , नः॒ , म॒घ॒ऽव॒न् , वाज॑ऽसातौ , अग्ने॑ , विश्वा॑नि , दुः॒ऽइ॒ता , त॒रे॒म॒ , ता , त॒रे॒म॒ , तव॑ , अव॑सा , त॒रे॒म॒ ॥
अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वंतं प्रथ॒मः सी॑द॒ योनिं॑ । कु॒ला॒यिनं॑ घृ॒तवं॑तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥
अग्ने॑ , विश्वे॑भिः , सु॒ऽअ॒नी॒क॒ , दे॒वैः , ऊर्णा॑ऽवंतं , प्र॒थ॒मः , सी॒द॒ , योनिं॑ । कु॒ला॒यिनं॑ , घृ॒तऽवं॑तं , स॒वि॒त्रे , य॒ज्ञं , न॒य॒ , यज॑मानाय , सा॒धु ॥
इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं मं॑थंति वे॒धसः॑ । यमं॑कू॒यंत॒मान॑य॒न्नमू॑रं श्या॒व्या॑भ्यः ॥
इ॒मं , ऊँ॒ इति॑ , त्यं , अ॒थ॒र्व॒ऽवत् , अ॒ग्निं , मं॒थं॒ति॒ , वे॒धसः॑ । यं , अं॒कु॒ऽयंतं॑ , आ , अन॑यन् , अमू॑रं , श्या॒व्या॑भ्यः ॥
जनि॑ष्वा दे॒ववी॑तये स॒र्वता॑ता स्व॒स्तये॑ । आ दे॒वान्व॑क्ष्य॒मृताँ॑ ऋता॒वृधो॑ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ॥
जनि॑ष्व , दे॒वऽवी॑तये , स॒र्वऽता॑ता , स्व॒स्तये॑ । आ , दे॒वान् , व॒क्षि॒ , अ॒मृता॑न् , ऋ॒त॒ऽवृधः॑ , य॒ज्ञं , दे॒वेषु॑ , पि॒स्पृ॒शः॒ ॥
व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हंतं॑ । अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि संतु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ॥
व॒यं , ऊँ॒ इति॑ , त्वा॒ , गृ॒ह॒ऽप॒ते॒ , ज॒ना॒नां॒ , अग्ने॑ , अक॑र्म , सं॒ऽइधा॑ , बृ॒हंतं॑ । अ॒स्थू॒रि , नः॒ , गार्ह॑ऽपत्यानि , सं॒तु॒ , ति॒ग्मेन॑ , नः॒ , तेज॑सा , सं , शि॒शा॒धि॒ ॥
[१६] त्वमग्नेयज्ञानामित्यष्टाचत्वारिंशदृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोग्निर्गायत्री आद्याषष्ठ्यौवर्धमाने सप्तविंश्यनुष्टुप् षट्चत्वारिंशीत्रिष्टुप् अंत्येद्वेअनुष्टुभौ |
त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे॑षां हि॒तः । दे॒वेभि॒र्मानु॑षे॒ जने॑ ॥
त्वं , अ॒ग्ने॒ , य॒ज्ञानां॑ , होता॑ , विश्वे॑षां , हि॒तः । दे॒वेभिः॑ , मानु॑षे , जने॑ ॥
स नो॑ मं॒द्राभि॑रध्व॒रे जि॒ह्वाभि॑र्यजा म॒हः । आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥
सः , नः॒ , मं॒द्राभिः॑ , अ॒ध्व॒रे , जि॒ह्वाभिः॑ , य॒ज॒ , म॒हः । आ , दे॒वान् , व॒क्षि॒ , यक्षि॑ , च॒ ॥
वेत्था॒ हि वे॑धो॒ अध्व॑नः प॒थश्च॑ दे॒वांज॑सा । अग्ने॑ य॒ज्ञेषु॑ सुक्रतो ॥
वेत्थ॑ , हि , वे॒धः॒ , अध्व॑नः , प॒थः , चे॒ , दे॒व॒ , अंज॑सा । अग्ने॑ , य॒ज्ञेषु॑ , सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥
त्वामी॑ळे॒ अध॑ द्वि॒ता भ॑र॒तो वा॒जिभिः॑ शु॒नं । ई॒जे य॒ज्ञेषु॑ य॒ज्ञियं॑ ॥
त्वां , ई॒ळे॒ , अध॑ , द्वि॒ता , भ॒र॒तः , वा॒जिऽभिः॑ , शु॒नं । ई॒जे , य॒ज्ञेषु॑ , य॒ज्ञियं॑ ॥
त्वमि॒मा वार्या॑ पु॒रु दिवो॑दासाय सुन्व॒ते । भ॒रद्वा॑जाय दा॒शुषे॑ ॥
त्वं , इ॒मा , वार्या॑ , पु॒रु , दिवः॑ऽदासाय , सु॒न्व॒ते । भ॒रत्ऽवा॑जाय , दा॒शुषे॑ ॥
त्वं दू॒तो अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जनं॑ । शृ॒ण्वन्विप्र॑स्य सुष्टु॒तिं ॥
त्वं , दू॒तः , अम॑र्त्यः , आ , व॒ह॒ , दैव्यं॑ , जनं॑ । शृ॒ण्वन् , विप्र॑स्य , सु॒ऽस्तु॒तिं ॥
त्वाम॑ग्ने स्वा॒ध्यो॒३॒॑ मर्ता॑सो दे॒ववी॑तये । य॒ज्ञेषु॑ दे॒वमी॑ळते ॥
त्वां , अ॒ग्ने॒ , सु॒ऽआ॒ध्यः॑ , मर्ता॑सः , दे॒वऽवी॑तये । य॒ज्ञेषु॑ , दे॒वं , ई॒ळ॒ते॒ ॥
तव॒ प्र य॑क्षि सं॒दृश॑मु॒त क्रतुं॑ सु॒दान॑वः । विश्वे॑ जुषंत का॒मिनः॑ ॥
तव॑ , प्र , य॒क्षि॒ , सं॒ऽदृशं॑ , उ॒त , क्रतुं॑ , सु॒ऽदान॑वः । विश्वे॑ , जु॒षं॒त॒ , का॒मिनः॑ ॥
त्वं होता॒ मनु॑र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः । अग्ने॒ यक्षि॑ दि॒वो विशः॑ ॥
त्वं , होता॑ , मनुः॑ऽहितः , वह्निः॑ , आ॒सा , वि॒दुःऽत॑रः । अग्ने॑ , यक्षि॑ , दि॒वः , विशः॑ ॥
अग्न॒ आ या॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये । नि होता॑ सत्सि ब॒र्हिषि॑ ॥
अग्ने॑ , आ , या॒हि॒ , वी॒तये॑ , गृ॒णा॒नः , ह॒व्यऽदा॑तये । नि , होता॑ , स॒त्सि॒ , ब॒र्हिषि॑ ॥
तं त्वा॑ स॒मिद्भि॑रंगिरो घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य ॥
तं , त्वा॒ , स॒मित्ऽभिः॑ , अं॒गि॒रः॒ , घृ॒तेन॑ , व॒र्ध॒या॒म॒सि॒ । बृ॒हत् , शो॒च॒ , य॒वि॒ष्ठ्य॒ ॥
स नः॑ पृ॒थु श्र॒वाय्य॒मच्छा॑ देव विवाससि । बृ॒हद॑ग्ने सु॒वीर्यं॑ ॥
सः , नः॒ , पृ॒थु , श्र॒वाय्यं॑ , अच्छ॑ , दे॒व॒ , वि॒वा॒स॒सि॒ । बृ॒हत् , अ॒ग्ने॒ , सु॒ऽवीर्यं॑ ॥
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मंथत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥
त्वां , अ॒ग्ने॒ , पुष्क॑रात् , अधि॑ , अथ॑र्वा , निः , अ॒मं॒थ॒त॒ । मू॒र्ध्नः , विश्व॑स्य , वा॒घतः॑ ॥
तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॒त्र॒हणं॑ पुरंद॒रं ॥
तं , ऊँ॒ इति॑ , त्वा॒ , द॒ध्यङ् , ऋषिः॑ , पु॒त्रः , ई॒धे॒ , अथ॑र्वणः । वृ॒त्र॒ऽहनं॑ , पु॒रं॒ऽद॒रं ॥
तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हंत॑मं । ध॒नं॒ज॒यं रणे॑रणे ॥
तं , ऊँ॒ इति॑ , त्वा॒ , पा॒थ्यः , वृषा॑ , सं , ई॒धे॒ , द॒स्यु॒हन्ऽत॑मं । ध॒नं॒ऽज॒यं , रणे॑ऽरणे ॥
एह्यू॒ षु ब्रवा॑णि॒ तेऽग्न॑ इ॒त्थेत॑रा॒ गिरः॑ । ए॒भिर्व॑र्धास॒ इंदु॑भिः ॥
आ , इ॒हि॒ , ऊँ॒ इति॑ , सु , ब्रवा॑णि , ते॒ , अग्ने॑ , इ॒त्था , इत॑राः , गिरः॑ । ए॒भिः , व॒र्धा॒से॒ , इंदु॑ऽभिः ॥
यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं॑ दधस॒ उत्त॑रं । तत्रा॒ सदः॑ कृणवसे ॥
यत्र॑ , क्व॑ , च॒ , ते॒ , मनः॑ , दक्षं॑ , द॒ध॒से॒ , उत्ऽत॑रं । तत्र॑ , सदः॑ , कृ॒ण॒व॒से॒ ॥
न॒हि ते॑ पू॒र्तम॑क्षि॒पद्भुव॑न्नेमानां वसो । अथा॒ दुवो॑ वनवसे ॥
न॒हि , ते॒ , पू॒रं , अ॒क्षि॒ऽपत् , भुव॑त् , ने॒मा॒नां॒ , व॒सो॒ इति॑ । अथ॑ , दुवः॑ , व॒न॒व॒से॒ ॥
आग्निर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः । दिवो॑दासस्य॒ सत्प॑तिः ॥
आ , अ॒ग्निः , अ॒गा॒मि॒ , भार॑तः , वृ॒त्र॒ऽहा , पु॒रु॒ऽचेत॑नः । दिवः॑ऽदासस्य , सत्ऽप॑तिः ॥
स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश॑न्महित्व॒ना । व॒न्वन्नवा॑तो॒ अस्तृ॑तः ॥
सः , हि , विश्वा॑ , अति॑ , पार्थि॑वा , र॒यिं , दाश॑त् , म॒हि॒ऽत्व॒ना । व॒न्वन् , अवा॑तः , अस्तृ॑तः ॥
स प्र॑त्न॒वन्नवी॑य॒साग्ने॑ द्यु॒म्नेन॑ सं॒यता॑ । बृ॒हत्त॑तंथ भा॒नुना॑ ॥
सः , प्र॒त्न॒ऽवत् , नवी॑यसा , अग्ने॑ , द्यु॒म्नेन॑ , सं॒ऽयता॑ । बृ॒हत् , त॒तं॒थ॒ , भा॒नुना॑ ॥
प्र वः॑ सखायो अ॒ग्नये॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या । अर्च॒ गाय॑ च वे॒धसे॑ ॥
प्र , वः॒ , स॒खा॒यः॒ , अ॒ग्नये॑ , स्तोमं॑ , य॒ज्ञं , च॒ , धृ॒ष्णु॒ऽया । अर्च॑ , गाय॑ , च॒ , वे॒धसे॑ ॥
स हि यो मानु॑षा यु॒गा सीद॒द्धोता॑ क॒विक्र॑तुः । दू॒तश्च॑ हव्य॒वाह॑नः ॥
सः , हि , यः , मानु॑षा , यु॒गा , सीद॑त् , होता॑ , क॒विऽक्र॑तुः । दू॒तः , च॒ , ह॒व्य॒ऽवाह॑नः ॥
ता राजा॑ना॒ शुचि॑व्रतादि॒त्यान्मारु॑तं ग॒णं । वसो॒ यक्षी॒ह रोद॑सी ॥
ता , राजा॑ना , शुचि॑ऽव्रता , आ॒दि॒त्यान् , मारु॑तं , ग॒णं । वसो॒ इति॑ , यक्षि॑ , इ॒ह , रोद॑सी॒ इति॑ ॥
वस्वी॑ ते अग्ने॒ संदृ॑ष्टिरिषय॒ते मर्त्या॑य । ऊर्जो॑ नपाद॒मृत॑स्य ॥
वस्वी॑ , ते॒ , अ॒ग्ने॒ , संऽदृ॑ष्टिः , इ॒ष॒ऽय॒ते , मर्त्या॑य । ऊर्जः॑ , न॒पा॒त् , अ॒मृत॑स्य ॥
क्रत्वा॒ दा अ॑स्तु॒ श्रेष्ठो॒ऽद्य त्वा॑ व॒न्वंत्सु॒रेक्णाः॑ । मर्त॑ आनाश सुवृ॒क्तिं ॥
क्रत्वा॑ , दाः , अ॒स्तु॒ , श्रेष्ठः॑ , अ॒द्य , त्वा॒ , व॒न्वन् , सु॒ऽरेक्णाः॑ । मर्तः॑ , आ॒ना॒श॒ , सु॒ऽवृ॒क्तिं ॥
ते ते॑ अग्ने॒ त्वोता॑ इ॒षयं॑तो॒ विश्व॒मायुः॑ । तरं॑तो अ॒र्यो अरा॑तीर्व॒न्वंतो॑ अ॒र्यो अरा॑तीः ॥
ते , ते॒ , अ॒ग्ने॒ , त्वाऽऊ॑ताः , इ॒षयं॑तः , विश्वं॑ , आयुः॑ । तरं॑तः , अ॒र्यः , अरा॑तीः , व॒न्वंतः॑ , अ॒र्यः , अरा॑तीः ॥
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्य१॒॑त्रिणं॑ । अ॒ग्निर्नो॑ वनते र॒यिं ॥
अ॒ग्निः , ति॒ग्मेन॑ , शो॒चिषा॑ , यास॑त् , विश्वं॑ , नि , अ॒त्रिणं॑ । अ॒ग्निः , नः॒ , व॒न॒ते॒ , र॒यिं ॥
सु॒वीरं॑ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे । ज॒हि रक्षां॑सि सुक्रतो ॥
सु॒ऽवीरं॑ , र॒यिं , आ , भ॒र॒ , जात॑ऽवेदः , विऽच॑र्षणे । ज॒हि , रक्षां॑सि , सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥
त्वं नः॑ पा॒ह्यंह॑सो॒ जात॑वेदो अघाय॒तः । रक्षा॑ णो ब्रह्मणस्कवे ॥
त्वं , नः॒ , पा॒हि॒ , अंह॑सः , जात॑ऽवेदः , अ॒घ॒ऽय॒तः । रक्ष॑ , नः॒ , ब्र॒ह्म॒णः॒ , क॒वे॒ ॥
यो नो॑ अग्ने दु॒रेव॒ आ मर्तो॑ व॒धाय॒ दाश॑ति । तस्मा॑न्नः पा॒ह्यंह॑सः ॥
यः , नः॒ , अ॒ग्ने॒ , दुः॒ऽएवः॑ , आ , मर्तः॑ , व॒धाय॑ , दाश॑ति । तस्मा॑त् , नः॒ , पा॒हि॒ , अंह॑सः ॥
त्वं तं दे॑व जि॒ह्वया॒ परि॑ बाधस्व दु॒ष्कृतं॑ । मर्तो॒ यो नो॒ जिघां॑सति ॥
त्वं , तं , दे॒व॒ , जि॒ह्वया॑ , परि॑ , बा॒ध॒स्व॒ , दुः॒ऽकृतं॑ । मर्तः॑ , यः , नः॒ , जिघां॑सति ॥
भ॒रद्वा॑जाय स॒प्रथः॒ शर्म॑ यच्छ सहंत्य । अग्ने॒ वरे॑ण्यं॒ वसु॑ ॥
भ॒रत्ऽवा॑जाय , स॒ऽप्रथः॑ , शर्म॑ , य॒च्छ॒ , स॒हं॒त्य॒ । अग्ने॑ , वरे॑ण्यं , वसु॑ ॥
अ॒ग्निर्वृ॒त्राणि॑ जंघनद्द्रविण॒स्युर्वि॑प॒न्यया॑ । समि॑द्धः शु॒क्र आहु॑तः ॥
अ॒ग्निः , वृ॒त्राणि॑ , जं॒घ॒न॒त् , द्र॒वि॒ण॒स्युः , वि॒प॒न्यया॑ । संऽइ॑द्धः , शु॒क्रः , आऽहु॑तः ॥
गर्भे॑ मा॒तुः पि॒तुष्पि॒ता वि॑दिद्युता॒नो अ॒क्षरे॑ । सीद॑न्नृ॒तस्य॒ योनि॒मा ॥
गर्भे॑ , मा॒तुः , पि॒तुः , पि॒ता , वि॒ऽदि॒द्यु॒ता॒नः , अ॒क्षरे॑ । सीद॑न् , ऋ॒तस्य॑ , योनिं॑ , आ ॥
ब्रह्म॑ प्र॒जाव॒दा भ॑र॒ जात॑वेदो॒ विच॑र्षणे । अग्ने॒ यद्दी॒दय॑द्दि॒वि ॥
ब्रह्म॑ , प्र॒जाऽव॑त् , आ , भ॒र॒ , जात॑ऽवेदः , विऽच॑र्षणे । अग्ने॑ , यत् , दी॒दय॑त् , दि॒वि ॥
उप॑ त्वा र॒ण्वसं॑दृशं॒ प्रय॑स्वंतः सहस्कृत । अग्ने॑ ससृ॒ज्महे॒ गिरः॑ ॥
उप॑ , त्वा॒ , र॒ण्वऽसं॑दृशं , प्रय॑स्वंतः , स॒हः॒ऽकृ॒त॒ । अग्ने॑ , स॒सृ॒ज्महे॑ , गिरः॑ ॥
उप॑ च्छा॒यामि॑व॒ घृणे॒रग॑न्म॒ शर्म॑ ते व॒यं । अग्ने॒ हिर॑ण्यसंदृशः ॥
उप॑ , छा॒यांऽइ॑व , घृणेः॑ , अग॑न्म , शर्म॑ , ते॒ , व॒यं । अग्ने॑ , हिर॑ण्यऽसंदृशः ॥
य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृं॑गो॒ न वंस॑गः । अग्ने॒ पुरो॑ रु॒रोजि॑थ ॥
यः , उ॒ग्रःऽइ॑व , श॒र्य॒ऽहा , ति॒ग्मऽशृं॑गः , न , वंस॑गः । अग्ने॑ , पुरः॑ , रु॒रोजि॑थ ॥
आ यं हस्ते॒ न खा॒दिनं॒ शिशुं॑ जा॒तं न बिभ्र॑ति । वि॒शाम॒ग्निं स्व॑ध्व॒रं ॥
आ , यं , हस्ते॑ , न , खा॒दिनं॑ , शिशुं॑ , जा॒तं , न , बिभ्र॑ति । वि॒शां , अ॒ग्निं , सु॒ऽअ॒ध्व॒रं ॥
प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मं । आ स्वे योनौ॒ नि षी॑दतु ॥
प्र , दे॒वं , दे॒वऽवी॑तये , भर॑त , व॒सु॒वित्ऽत॑मं । आ , स्वे , योनौ॑ , नि , सी॒द॒तु॒ ॥
आ जा॒तं जा॒तवे॑दसि प्रि॒यं शि॑शी॒ताति॑थिं । स्यो॒न आ गृ॒हप॑तिं ॥
आ , जा॒तं , जा॒तऽवे॑दसि , प्रि॒यं , शि॒शी॒त॒ , अति॑थिं । स्यो॒ने , आ , गृ॒हऽप॑तिं ॥
अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑ । अरं॒ वहं॑ति म॒न्यवे॑ ॥
अग्ने॑ , यु॒क्ष्व , हि , ये , तव॑ , अश्वा॑सः , दे॒व॒ , सा॒धवः॑ । अरं॑ , वहं॑ति , म॒न्यवे॑ ॥
अच्छा॑ नो या॒ह्या व॑हा॒भि प्रयां॑सि वी॒तये॑ । आ दे॒वांत्सोम॑पीतये ॥
अच्छ॑ , नः॒ , या॒हि॒ , आ , व॒ह॒ , अ॒भि , प्रयां॑सि , वी॒तये॑ । आ , दे॒वान् , सोम॑ऽपीतये ॥
उद॑ग्ने भारत द्यु॒मदज॑स्रेण॒ दवि॑द्युतत् । शोचा॒ वि भा॑ह्यजर ॥
उत् , अ॒ग्ने॒ , भा॒र॒त॒ , द्यु॒ऽमत् , अज॑स्रेण , दवि॑द्युतत् । शोच॑ , वि , भा॒हि॒ , अ॒ज॒र॒ ॥
वी॒ती यो दे॒वं मर्तो॑ दुव॒स्येद॒ग्निमी॑ळीताध्व॒रे ह॒विष्मा॑न् । होता॑रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत् ॥
वी॒ती , यः , दे॒वं , मर्तः॑ , दु॒व॒स्येत् , अ॒ग्निं , ई॒ळी॒त॒ , अ॒ध्व॒रे , ह॒विष्मा॑न् । होता॑रं , स॒त्य॒ऽयजं॑ , रोद॑स्योः , उ॒त्ता॒नऽह॑स्तः , नम॑सा , आ , वि॒वा॒से॒त् ॥
आ ते॑ अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि । ते ते॑ भवंतू॒क्षण॑ ऋष॒भासो॑ व॒शा उ॒त ॥
आ , ते॒ , अ॒ग्ने॒ , ऋ॒चा , ह॒विः , हृ॒दा , त॒ष्टं , भ॒रा॒म॒सि॒ । ते , ते॒ , भ॒वं॒तु॒ , उ॒क्षणः॑ , ऋ॒ष॒भासः॑ , व॒शाः , उ॒त ॥
अ॒ग्निं दे॒वासो॑ अग्रि॒यमिं॒धते॑ वृत्र॒हंत॑मं । येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां॑सि वा॒जिना॑ ॥
अ॒ग्निं , दे॒वासः॑ , अ॒ग्रि॒यं , इं॒धते॑ , वृ॒त्र॒हन्ऽत॑मं । येन॑ , वसू॑नि , आऽभृ॑ता , तृ॒ळ्हा , रक्षां॑सि , वा॒जिना॑ ॥
[१७] पिबासोममिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजइंद्रत्रिष्टुंबंत्याद्विपदात्रिष्टुप् |
पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इं॑द्र । वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा॑ वृ॒त्रम॑मि॒त्रिया॒ शवो॑भिः ॥
पिब॑ , सोमं॑ , अ॒भि , यं , उ॒ग्र॒ , तर्दः॑ , ऊ॒र्वं , गव्यं॑ , महि॑ , गृ॒णा॒नः , इं॒द्र॒ । वि , यः , धृ॒ष्णो॒ इति॑ , वधि॑षः , व॒ज्र॒ऽह॒स्त॒ , विश्वा॑ , वृ॒त्रं , अ॒मि॒त्रिया॑ , शवः॑ऽभिः ॥
स ईं॑ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान्वृष॒भो यो म॑ती॒नां । यो गो॑त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः स इं॑द्र चि॒त्राँ अ॒भि तृं॑धि॒ वाजा॑न् ॥
सः , ईं॒ , पा॒हि॒ , यः , ऋ॒जी॒षी , तरु॑त्रः , यः , शिप्र॑ऽवान् , वृ॒ष॒भः , यः , म॒ती॒नां । यः , गो॒त्र॒ऽभित् , व॒ज्र॒ऽभृत् , यः , ह॒रि॒ऽस्थाः , सः , इं॒द्र॒ , चि॒त्रान् , अ॒भि , तृं॒धि॒ , वाजा॑न् ॥
ए॒वा पा॑हि प्र॒त्नथा॒ मंद॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः । आ॒विः सूर्यं॑ कृणु॒हि पी॑पि॒हीषो॑ ज॒हि शत्रूँ॑र॒भि गा इं॑द्र तृंधि ॥
ए॒व , पा॒हि॒ , प्र॒त्नऽथा॑ , मंद॑तु , त्वा॒ , श्रु॒धि , ब्रह्म॑ , व॒वृ॒धस्व॑ , उ॒त , गीः॒ऽभिः । आ॒विः , सूर्यं॑ , कृ॒णु॒हि , पी॒पि॒हि , इषः॑ , ज॒हि , शत्रू॑न् , अ॒भि , गाः , इं॒द्र॒ , तृं॒धि॒ ॥
ते त्वा॒ मदा॑ बृ॒हदिं॑द्र स्वधाव इ॒मे पी॒ता उ॑क्षयंत द्यु॒मंतं॑ । म॒हामनू॑नं त॒वसं॒ विभू॑तिं मत्स॒रासो॑ जर्हृषंत प्र॒साहं॑ ॥
ते , त्वा॒ , मदाः॑ , बृ॒हत् , इं॒द्र॒ , स्व॒धा॒ऽवः॒ , इ॒मे , पी॒ताः , उ॒क्ष॒यं॒त॒ , द्यु॒ऽमंतं॑ । म॒हां , अनू॑नं , त॒वसं॑ , विऽभू॑तिं , म॒त्स॒रासः॑ , ज॒र्हृ॒षं॒त॒ , प्र॒ऽसहं॑ ॥
येभिः॒ सूर्य॑मु॒षसं॑ मंदसा॒नोऽवा॑स॒योऽप॑ दृ॒ळ्हानि॒ दर्द्र॑त् । म॒हामद्रिं॒ परि॒ गा इं॑द्र॒ संतं॑ नु॒त्था अच्यु॑तं॒ सद॑स॒स्परि॒ स्वात् ॥
येभिः॑ , सूर्यं॑ , उ॒षसं॑ , मं॒द॒सा॒नः , अवा॑सयः , अप॑ , दृ॒ळ्हानि॑ , दर्द्र॑त् । म॒हां , अद्रिं॑ , परि॑ , गाः , इं॒द्र॒ , संतं॑ , नु॒त्थाः , अच्यु॑तं , सद॑सः , परि॑ , स्वात् ॥
तव॒ क्रत्वा॒ तव॒ तद्दं॒सना॑भिरा॒मासु॑ प॒क्वं शच्या॒ नि दी॑धः । और्णो॒र्दुर॑ उ॒स्रिया॑भ्यो॒ वि दृ॒ळ्होदू॒र्वाद्गा अ॑सृजो॒ अंगि॑रस्वान् ॥
तव॑ , क्रत्वा॑ , तव॑ , तत् , दं॒सना॑भिः , आ॒मासु॑ , प॒क्वं , शच्या॑ , नि , दी॒ध॒रिति॑ दीधः । और्णोः॑ , दुरः॑ , उ॒स्रिया॑भ्यः , वि , दृ॒ळ्हा , उत् , ऊ॒र्वात् , गाः , अ॒सृ॒जः॒ , अंगि॑रस्वान् ॥
प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॒॑र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदिं॑द्र स्तभायः । अधा॑रयो॒ रोद॑सी दे॒वपु॑त्रे प्र॒त्ने मा॒तरा॑ य॒ह्वी ऋ॒तस्य॑ ॥
प॒प्राथ॑ , क्षां , महि॑ , दंसः॑ , वि , उ॒र्वीं , उप॑ , द्यां , ऋ॒ष्वः , बृ॒हत् , इं॒द्र॒ , स्त॒भा॒यः॒ । अधा॑रयः , रोद॑सी॒ इति॑ , दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे , प्र॒त्ने इति॑ , मा॒तरा॑ , य॒ह्वी इति॑ , ऋ॒तस्य॑ ॥
अध॑ त्वा॒ विश्वे॑ पु॒र इं॑द्र दे॒वा एकं॑ त॒वसं॑ दधिरे॒ भरा॑य । अदे॑वो॒ यद॒भ्यौहि॑ष्ट दे॒वांत्स्व॑र्षाता वृणत॒ इंद्र॒मत्र॑ ॥
अध॑ , त्वा॒ , विश्वे॑ , पु॒रः , इं॒द्र॒ , दे॒वाः , एकं॑ , त॒वसं॑ , द॒धि॒रे॒ , भरा॑य । अदे॑वः , यत् , अ॒भि , औहि॑ष्ट , दे॒वान् , स्वः॑ऽसाता , वृ॒ण॒ते॒ , इंद्रं॑ , अत्र॑ ॥
अध॒ द्यौश्चि॑त्ते॒ अप॒ सा नु वज्रा॑द्द्वि॒तान॑मद्भि॒यसा॒ स्वस्य॑ म॒न्योः । अहिं॒ यदिंद्रो॑ अ॒भ्योह॑सानं॒ नि चि॑द्वि॒श्वायुः॑ श॒यथे॑ ज॒घान॑ ॥
अध॑ , द्यौः , चि॒त् , ते॒ , अप॑ , सा , नु , वज्रा॑त् , द्वि॒ता , अ॒न॒म॒त् , भि॒यसा॑ , स्वस्य॑ , म॒न्योः । अहिं॑ , यत् , इंद्रः॑ , अ॒भि , ओह॑सानं , नि , चि॒त् , वि॒श्वऽआ॑युः , श॒यथे॑ , ज॒घान॑ ॥
अध॒ त्वष्टा॑ ते म॒ह उ॑ग्र॒ वज्रं॑ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रिं॑ । निका॑मम॒रम॑णसं॒ येन॒ नवं॑त॒महिं॒ सं पि॑णगृजीषिन् ॥
अध॑ , त्वष्टा॑ , ते॒ , म॒हः , उ॒ग्र॒ , वज्रं॑ , स॒हस्र॑ऽभृष्टिं , व॒वृ॒त॒त् , श॒तऽअ॑श्रिं । निऽका॑मं , अ॒रऽम॑नसं , येन॑ , नवं॑तं , अहिं॑ , सं , पि॒ण॒क् , ऋ॒जी॒षि॒न् ॥
वर्धा॒न्यं विश्वे॑ म॒रुतः॑ स॒जोषाः॒ पच॑च्छ॒तं म॑हि॒षाँ इं॑द्र॒ तुभ्यं॑ । पू॒षा विष्णु॒स्त्रीणि॒ सरां॑सि धावन्वृत्र॒हणं॑ मदि॒रमं॒शुम॑स्मै ॥
वर्धा॑न् , यं , विश्वे॑ , म॒रुतः॑ , स॒ऽजोषाः॑ , पच॑त् , श॒तं , म॒हि॒षान् , इं॒द्र॒ , तुभ्यं॑ । पू॒षा , विष्णुः॑ , त्रीणि॑ , सरां॑सि , धा॒व॒न् , वृ॒त्र॒ऽहनं॑ , म॒दि॒रं , अं॒शुं , अ॒स्मै॒ ॥
आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पां । तासा॒मनु॑ प्र॒वत॑ इंद्र॒ पंथां॒ प्रार्द॑यो॒ नीची॑र॒पसः॑ समु॒द्रं ॥
आ , क्षोदः॑ , महि॑ , वृ॒तं , न॒दीनां॑ , परि॑ऽस्थितं , अ॒सृ॒जः॒ , ऊ॒र्मिं , अ॒पां । तासां॑ , अनु॑ , प्र॒ऽवतः॑ , इं॒द्र॒ , पंथां॑ , प्र , आ॒र्द॒यः॒ , नीचीः॑ , अ॒पसः॑ , स॒मु॒द्रं ॥
ए॒वा ता विश्वा॑ चकृ॒वांस॒मिंद्रं॑ म॒हामु॒ग्रम॑जु॒र्यं स॑हो॒दां । सु॒वीरं॑ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव॑से ववृत्यात् ॥
ए॒व , ता , विश्वा॑ , च॒कृ॒ऽवांसं॑ , इंद्रं॑ , म॒हां , उ॒ग्रं , अ॒जु॒र्यं , स॒हः॒ऽदां । सु॒ऽवीरं॑ , त्वा॒ , सु॒ऽआ॒यु॒धं , सु॒ऽवज्रं॑ , आ , ब्रह्म॑ , नव्यं॑ , अव॑से , व॒वृ॒त्या॒त् ॥
स नो॒ वाजा॑य॒ श्रव॑स इ॒षे च॑ रा॒ये धे॑हि द्यु॒मत॑ इंद्र॒ विप्रा॑न् । भ॒रद्वा॑जे नृ॒वत॑ इंद्र सू॒रींदि॒वि च॑ स्मैधि॒ पार्ये॑ न इंद्र ॥
सः , नः॒ , वाजा॑य , श्रव॑से , इ॒षे , च॒ , रा॒ये , धे॒हि॒ , द्यु॒ऽमतः॑ , इं॒द्र॒ , विप्रा॑न् । भ॒रत्ऽवा॑जे , नृ॒ऽवतः॑ , इं॒द्र॒ , सू॒रीन् , दि॒वि , च॒ , स्म॒ , ए॒धि॒ , पार्ये॑ , नः॒ , इं॒द्र॒ ॥
अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥
अ॒या , वाजं॑ , दे॒वऽहि॑तं , स॒ने॒म॒ , मदे॑म , श॒तऽहि॑माः , सु॒ऽवीराः॑ ॥ ।
[१८] तमुष्नुहीति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
तमु॑ ष्टुहि॒ यो अ॒भिभू॑त्योजा व॒न्वन्नवा॑तः पुरुहू॒त इंद्रः॑ । अषा॑ळ्हमु॒ग्रं सह॑मानमा॒भिर्गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नां ॥
तं , ऊँ॒ इति॑ , स्तु॒हि॒ , यः , अ॒भिभू॑तिऽओजाः , व॒न्वन् , अवा॑तः , पु॒रु॒ऽहू॒तः , इंद्रः॑ । अषा॑ळ्हं , उ॒ग्रं , सह॑मानं , आ॒भिः , गीः॒ऽभिः , व॒र्ध॒ , वृ॒ष॒भं , च॒र्ष॒णी॒नां ॥
स यु॒ध्मः सत्वा॑ खज॒कृत्स॒मद्वा॑ तुविम्र॒क्षो न॑दनु॒माँ ऋ॑जी॒षी । बृ॒हद्रे॑णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेकः॑ कृष्टी॒नाम॑भवत्स॒हावा॑ ॥
सः , यु॒ध्मः , सत्वा॑ , ख॒ज॒ऽकृत् , स॒मत्ऽवा॑ , तु॒वि॒ऽम्र॒क्षः , न॒द॒नु॒ऽमान् , ऋ॒जी॒षी । बृ॒हत्ऽरे॑णुः , च्यव॑नः , मानु॑षीणां , एकः॑ , कृ॒ष्टी॒नां , अ॒भ॒व॒त् , स॒हऽवा॑ ॥
त्वं ह॒ नु त्यद॑दमायो॒ दस्यूँ॒रेकः॑ कृ॒ष्टीर॑वनो॒रार्या॑य । अस्ति॑ स्वि॒न्नु वी॒र्यं१॒॑ तत्त॑ इंद्र॒ न स्वि॑दस्ति॒ तदृ॑तु॒था वि वो॑चः ॥
त्वं , ह॒ , नु , त्यत् , अ॒द॒म॒यः॒ , दस्यू॑न् , एकः॑ , कृ॒ष्टीः , अ॒व॒नोः॒ , आर्या॑य । अस्ति॑ , स्वि॒त् , नु , वी॒र्यं॑ , तत् , ते॒ , इं॒द्र॒ , न , स्वि॒त् , अ॒स्ति॒ , तत् , ऋ॒तु॒ऽथा , वि , वो॒चः॒ ॥
सदिद्धि ते॑ तुविजा॒तस्य॒ मन्ये॒ सहः॑ सहिष्ठ तुर॒तस्तु॒रस्य॑ । उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒योऽर॑ध्रस्य रध्र॒तुरो॑ बभूव ॥
सत् , इत् , हि , ते॒ , तु॒वि॒ऽजा॒तस्य॑ , मन्ये॑ , सहः॑ , स॒हि॒ष्ठ॒ , तु॒र॒तः , तु॒रस्य॑ । उ॒ग्रं , उ॒ग्रस्य॑ , त॒वसः॑ , तवी॑यः , अर॑ध्रस्य , र॒ध्र॒ऽतुरः॑ , ब॒भू॒व॒ ॥
तन्नः॑ प्र॒त्नं स॒ख्यम॑स्तु यु॒ष्मे इ॒त्था वद॑द्भिर्व॒लमंगि॑रोभिः । हन्न॑च्युतच्युद्दस्मे॒षयं॑तमृ॒णोः पुरो॒ वि दुरो॑ अस्य॒ विश्वाः॑ ॥
तत् , नः॒ , प्र॒त्नं , स॒ख्यं , अ॒स्तु॒ , यु॒ष्मे इति॑ , इ॒त्था , वद॑त्ऽभिः , व॒लं , अंगि॑रःऽभिः । हन् , अ॒च्यु॒त॒ऽच्यु॒त् , द॒स्म॒ , इ॒षयं॑तं , ऋ॒णोः , पुरः॑ , वि , दुरः॑ , अ॒स्य॒ , विश्वाः॑ ॥
स हि धी॒भिर्हव्यो॒ अस्त्यु॒ग्र ई॑शान॒कृन्म॑ह॒ति वृ॑त्र॒तूर्ये॑ । स तो॒कसा॑ता॒ तन॑ये॒ स व॒ज्री वि॑तंत॒साय्यो॑ अभवत्स॒मत्सु॑ ॥
सः , हि , धी॒भिः , हव्यः॑ , अस्ति॑ , उ॒ग्रः , ई॒शा॒न॒ऽकृत् , म॒ह॒ति , वृ॒त्र॒ऽतूर्ये॑ । सः , तो॒कऽसा॑ता , तन॑ये , सः , व॒ज्री , वि॒तं॒त॒साय्यः॑ , अ॒भ॒व॒त् , स॒मत्ऽसु॑ ॥
स म॒ज्मना॒ जनि॑म॒ मानु॑षाणा॒मम॑र्त्येन॒ नाम्नाति॒ प्र स॑र्स्रे । स द्यु॒म्नेन॒ स शव॑सो॒त रा॒या स वी॒र्ये॑ण॒ नृत॑मः॒ समो॑काः ॥
सः , म॒ज्मना॑ , जनि॑म , मानु॑षाणां , अम॑र्त्येन , नाम्ना॑ , अति॑ , प्र , स॒र्स्रे॒ । सः , द्यु॒म्नेन॑ , सः , शव॑सा , उ॒त , रा॒या , सः , वी॒र्ये॑ण , नृऽत॑मः , संऽओ॑काः ॥
स यो न मु॒हे न मिथू॒ जनो॒ भूत्सु॒मंतु॑नामा॒ चुमु॑रिं॒ धुनिं॑ च । वृ॒णक्पिप्रुं॒ शंब॑रं॒ शुष्ण॒मिंद्रः॑ पु॒रां च्यौ॒त्नाय॑ श॒यथा॑य॒ नू चि॑त् ॥
सः , यः , न , मु॒हे , न , मिथु॑ , जनः॑ , भूत् , सु॒मंतु॑ऽनामा , चुमु॑रिं , धुनिं॑ , च॒ । वृ॒णक् , पिप्रुं॑ , शंब॑रं , शुष्णं॑ , इंद्रः॑ , पु॒रां , च्यौ॒त्नाय॑ , श॒यथा॑य , नु , चि॒त् ॥
उ॒दाव॑ता॒ त्वक्ष॑सा॒ पन्य॑सा च वृत्र॒हत्या॑य॒ रथ॑मिंद्र तिष्ठ । धि॒ष्व वज्रं॒ हस्त॒ आ द॑क्षिण॒त्राभि प्र मं॑द पुरुदत्र मा॒याः ॥
उ॒त्ऽअव॑ता , त्वक्ष॑सा , पन्य॑सा , च॒ , वृ॒त्र॒ऽहत्या॑य , रथं॑ , इं॒द्र॒ , ति॒ष्ठ॒ । धि॒ष्व , वज्रं॑ , हस्ते॑ , आ , द॒क्षि॒ण॒ऽत्रा , अ॒भि , प्र , मं॒द॒ , पु॒रु॒ऽद॒त्र॒ , मा॒याः ॥
अ॒ग्निर्न शुष्कं॒ वन॑मिंद्र हे॒ती रक्षो॒ नि ध॑क्ष्य॒शनि॒र्न भी॒मा । गं॒भी॒रय॑ ऋ॒ष्वया॒ यो रु॒रोजाध्वा॑नयद्दुरि॒ता दं॒भय॑च्च ॥
अ॒ग्निः , न , शुष्कं॑ , वनं॑ , इं॒द्र॒ , हे॒ती , रक्षः॑ , नि , ध॒क्षि॒ , अ॒शनिः॑ , न , भी॒मा । गं॒भी॒रया॑ , ऋ॒ष्वया॑ , यः , रु॒रोज॑ , अध्व॑नयत् , दुः॒ऽइ॒ता , दं॒भय॑त् , च॒ ॥
आ स॒हस्रं॑ प॒थिभि॑रिंद्र रा॒या तुवि॑द्युम्न तुवि॒वाजे॑भिर॒र्वाक् । या॒हि सू॑नो सहसो॒ यस्य॒ नू चि॒ददे॑व॒ ईशे॑ पुरुहूत॒ योतोः॑ ॥
आ , स॒हस्रं॑ , प॒थिऽभिः॑ , इं॒द्र॒ , रा॒या , तुवि॑ऽद्युम्न , तु॒वि॒ऽवाजे॑भिः , अ॒र्वाक् । या॒हि , सू॒नो॒ इति॑ , स॒ह॒सः॒ , यस्य॑ , नु , चि॒त् , अदे॑वः , ईशे॑ , पु॒रु॒ऽहू॒त॒ , योतोः॑ ॥
प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे॑र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः । नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्योः॑ ॥
प्र , तु॒वि॒ऽद्यु॒म्नस्य॑ , स्थवि॑रस्य , घृष्वेः॑ , दि॒वः , र॒र॒प्शे॒ , म॒हि॒मा , पृ॒थि॒व्याः । न , अ॒स्य॒ , शत्रुः॑ , न , प्र॒ति॒ऽमानं॑ , अ॒स्ति॒ , न , प्र॒ति॒ऽस्थिः , पु॒रु॒ऽमा॒यस्य॑ , सह्योः॑ ॥
प्र तत्ते॑ अ॒द्या कर॑णं कृ॒तं भू॒त्कुत्सं॒ यदा॒युम॑तिथि॒ग्वम॑स्मै । पु॒रू स॒हस्रा॒ नि शि॑शा अ॒भि क्षामुत्तूर्व॑याणं धृष॒ता नि॑नेथ ॥
प्र , तत् , ते॒ , अ॒द्य , कर॑णं , कृ॒तं , भू॒त् , कुत्सं॑ , यत् , आ॒युं , अ॒ति॒थि॒ऽग्वं , अ॒स्मै॒ । पु॒रु , स॒हस्रा॑ , नि , शि॒शाः॒ , अ॒भि , क्षां , उत् , तूर्व॑याणं , धृ॒ष॒ता , नि॒ने॒थ॒ ॥
अनु॒ त्वाहि॑घ्ने॒ अध॑ देव दे॒वा मद॒न्विश्वे॑ क॒वित॑मं कवी॒नां । करो॒ यत्र॒ वरि॑वो बाधि॒ताय॑ दि॒वे जना॑य त॒न्वे॑ गृणा॒नः ॥
अनु॑ , त्वा॒ , अहि॑ऽघ्ने , अध॑ , दे॒व॒ , दे॒वाः , मद॑न् , विश्वे॑ , क॒विऽत॑मं , क॒वी॒नां । करः॑ , यत्र॑ , वरि॑वः , बा॒धि॒ताय॑ , दि॒वे , जना॑य , त॒न्वे॑ , गृ॒णा॒नः ॥
अनु॒ द्यावा॑पृथि॒वी तत्त॒ ओजोऽम॑र्त्या जिहत इंद्र दे॒वाः । कृ॒ष्वा कृ॑त्नो॒ अकृ॑तं॒ यत्ते॒ अस्त्यु॒क्थं नवी॑यो जनयस्व य॒ज्ञैः ॥
अनु॑ , द्यावा॑पृथि॒वी इति॑ , तत् , ते॒ , ओजः॑ , अम॑र्त्याः , जि॒ह॒ते॒ , इं॒द्र॒ , दे॒वाः । कृ॒ष्व , कृ॒त्नो॒ इति॑ , अकृ॑तं , यत् , ते॒ , अस्ति॑ , उ॒क्थं , नवी॑यः , ज॒न॒य॒स्व॒ , य॒ज्ञैः ॥
[१९] महाँइंद्रइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
म॒हाँ इंद्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः । अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥
म॒हान् , इंद्रः॑ , नृ॒ऽवत् , आ , च॒र्ष॒णि॒ऽप्राः , उ॒त , द्वि॒ऽबर्हाः॑ , अ॒मि॒नः , सहः॑ऽभिः । अ॒स्म॒द्र्य॑क् , व॒वृ॒धे॒ , वी॒र्या॑य , उ॒रुः , पृ॒थुः , सुऽकृ॑तः , क॒र्तृऽभिः॑ , भू॒त् ॥
इंद्र॑मे॒व धि॒षणा॑ सा॒तये॑ धाद्बृ॒हंत॑मृ॒ष्वम॒जरं॒ युवा॑नं । अषा॑ळ्हेन॒ शव॑सा शूशु॒वांसं॑ स॒द्यश्चि॒द्यो वा॑वृ॒धे असा॑मि ॥
इंद्रं॑ , ए॒व , धि॒षणा॑ , सा॒तये॑ , धा॒त् , बृ॒हंतं॑ , ऋ॒ष्वं , अ॒जरं॑ , युवा॑नं । अषा॑ळ्हेन , शव॑सा , शू॒शु॒ऽवांसं॑ , स॒द्यः , चि॒त् , यः , व॒वृ॒धे , असा॑मि ॥
पृ॒थू क॒रस्ना॑ बहु॒ला गभ॑स्ती अस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि । यू॒थेव॑ प॒श्वः प॑शु॒पा दमू॑ना अ॒स्माँ इं॑द्रा॒भ्या व॑वृत्स्वा॒जौ ॥
पृ॒थू इति॑ , क॒रस्ना॑ , ब॒हु॒ला , गभ॑स्ती॒ इति॑ , अ॒स्म॒द्र्य॑क् , सं , मि॒मी॒हि॒ , श्रवां॑सि । यू॒थाऽइ॑व , प॒श्वः , प॒शु॒ऽपाः , दमू॑नाः , अ॒स्मान् , इं॒द्र॒ , अ॒भि , आ , व॒वृ॒त्स्व॒ , आ॒जौ ॥
तं व॒ इंद्रं॑ च॒तिन॑मस्य शा॒कैरि॒ह नू॒नं वा॑ज॒यंतो॑ हुवेम । यथा॑ चि॒त्पूर्वे॑ जरि॒तार॑ आ॒सुरने॑द्या अनव॒द्या अरि॑ष्टाः ॥
तं , वः॒ , इंद्रं॑ , च॒तिनं॑ , अ॒स्य॒ , शा॒कैः , इ॒ह , नू॒नं , वा॒ज॒ऽयंतः॑ , हु॒वे॒म॒ । यथा॑ , चि॒त् , पूर्वे॑ , ज॒रि॒तारः॑ , आ॒सुः , अने॑द्याः , अ॒न॒व॒द्याः , अरि॑ष्टाः ॥
धृ॒तव्र॑तो धन॒दाः सोम॑वृद्धः॒ स हि वा॒मस्य॒ वसु॑नः पुरु॒क्षुः । सं ज॑ग्मिरे प॒थ्या॒३॒॑ रायो॑ अस्मिंत्समु॒द्रे न सिंध॑वो॒ याद॑मानाः ॥
धृ॒तऽव्र॑तः , ध॒न॒ऽदाः , सोम॑ऽवृद्धः , सः , हि , वा॒मस्य॑ , वसु॑नः , पु॒रु॒ऽक्षुः । सं , ज॒ग्मि॒रे॒ , प॒थ्याः॑ , रायः॑ , अ॒स्मि॒न् , स॒मु॒द्रे , न , सिंध॑वः , याद॑मानाः ॥
शवि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो॑ अभिभूत उ॒ग्रं । विश्वा॑ द्यु॒म्ना वृष्ण्या॒ मानु॑षाणाम॒स्मभ्यं॑ दा हरिवो माद॒यध्यै॑ ॥
शवि॑ष्ठं , नः॒ , आ , भ॒र॒ , शू॒र॒ , शवः॑ , ओजि॑ष्ठं , ओजः॑ , अ॒भि॒ऽभू॒ते॒ , उ॒ग्रं । विश्वा॑ , द्यु॒म्ना , वृष्ण्या॑ , मानु॑षाणां , अ॒स्मभ्यं॑ , दाः॒ , ह॒रि॒ऽवः॒ , मा॒द॒यध्यै॑ ॥
यस्ते॒ मदः॑ पृतना॒षाळमृ॑ध्र॒ इंद्र॒ तं न॒ आ भ॑र शूशु॒वांसं॑ । येन॑ तो॒कस्य॒ तन॑यस्य सा॒तौ मं॑सी॒महि॑ जिगी॒वांस॒स्त्वोताः॑ ॥
यः , ते॒ , मदः॑ , पृ॒त॒ना॒षाट् , अमृ॑ध्रः , इंद्र॑ , तं , नः॒ , आ , भ॒र॒ , शू॒शु॒ऽवांसं॑ । येन॑ , तो॒कस्य॑ , तन॑यस्य , सा॒तौ , मं॒सी॒महि॑ , जि॒गी॒वांसः॑ , त्वाऽऊ॑ताः ॥
आ नो॑ भर॒ वृष॑णं॒ शुष्म॑मिंद्र धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्षं॑ । येन॒ वंसा॑म॒ पृत॑नासु॒ शत्रूं॒तवो॒तिभि॑रु॒त जा॒मीँरजा॑मीन् ॥
आ , नः॒ , भ॒र॒ , वृष॑णं , शुष्मं॑ , इं॒द्र॒ , ध॒न॒ऽस्पृतं॑ , शू॒शु॒ऽवांसं॑ , सु॒ऽदक्षं॑ । येन॑ , वंसा॑म , पृत॑नासु , शत्रू॑न् , तव॑ , ऊ॒तिऽभिः॑ , उ॒त , जा॒मीन् , अजा॑मीन् ॥
आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता॑त् । आ वि॒श्वतो॑ अ॒भि समे॑त्व॒र्वाङिंद्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥
आ , ते॒ , शुष्मः॑ , वृ॒ष॒भः , ए॒तु॒ , प॒श्चात् , आ , उ॒त्त॒रात् , अ॒ध॒रात् , आ , पु॒रस्ता॑त् । आ , वि॒श्वतः॑ , अ॒भि , सं , ए॒तु॒ , अ॒र्वाङ् , इंद्र॑ , द्यु॒म्नं , स्वः॑ऽवत् , धे॒हि॒ , अ॒स्मे इति॑ ॥
नृ॒वत्त॑ इंद्र॒ नृत॑माभिरू॒ती वं॑सी॒महि॑ वा॒मं श्रोम॑तेभिः । ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राजं॒धा रत्नं॒ महि॑ स्थू॒रं बृ॒हंतं॑ ॥
नृ॒ऽवत् , ते॒ , इं॒द्र॒ , नृऽत॑माभिः , ऊ॒ती , वं॒सी॒महि॑ , वा॒मं , श्रोम॑तेभिः । ईक्षे॑ , हि , वस्वः॑ , उ॒भय॑स्य , रा॒ज॒न् , धाः , रत्नं॑ , महि॑ , स्थू॒रं , बृ॒हंतं॑ ॥
म॒रुत्वं॑तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिंद्रं॑ । वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ॥
म॒रुत्वं॑तं , वृ॒ष॒भं , व॒वृ॒धा॒नं , अक॑वऽअरिं , दि॒व्यं , शा॒सं , इंद्रं॑ । वि॒श्व॒ऽसहं॑ , अव॑से , नूत॑नाय , उ॒ग्रं , स॒हः॒ऽदां , इ॒ह , तं , हु॒वे॒म॒ ॥
जनं॑ वज्रि॒न्महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो॑ रंधया॒ येष्वस्मि॑ । अधा॒ हि त्वा॑ पृथि॒व्यां शूर॑सातौ॒ हवा॑महे॒ तन॑ये॒ गोष्व॒प्सु ॥
जनं॑ , व॒ज्रि॒न् , महि॑ , चि॒त् , मन्य॑मानं , ए॒भ्यः , नृऽभ्यः॑ , रं॒ध॒य॒ , येषु॑ , अस्मि॑ । अध॑ , हि , त्वा॒ , पृ॒थि॒व्यां , शूर॑ऽसातौ , हवा॑महे , तन॑ये , गोषु॑ , अ॒प्ऽसु ॥
व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रोः॑शत्रो॒रुत्त॑र॒ इत्स्या॑म । घ्नंतो॑ वृ॒त्राण्यु॒भया॑नि शूर रा॒या म॑देम बृह॒ता त्वोताः॑ ॥
व॒यं , ते॒ , ए॒भिः , पु॒रु॒ऽहू॒त॒ , स॒ख्यैः , शत्रोः॑ऽशत्रोः , उत्ऽत॑रे , इत् , स्या॒म॒ । घ्नंतः॑ , वृ॒त्राणि॑ , उ॒भया॑नि , शू॒र॒ , रा॒या , म॒दे॒म॒ , बृ॒ह॒ता , त्वाऽऊ॑ताः ॥
[२०] द्यौर्नयइति त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप्सप्तमीविराट्पंक्तिः |
द्यौर्न य इं॑द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् । तं नः॑ स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू॑नो सहसो वृत्र॒तुरं॑ ॥
द्यौः , न , यः , इं॒द्र॒ , अ॒भि , भूम॑ , अ॒र्यः , त॒स्थौ , र॒यिः , शव॑सा , पृ॒त्ऽसु , जना॑न् । तं , नः॒ , स॒हस्र॑ऽभरं , उ॒र्व॒रा॒ऽसां , द॒द्धि , सू॒नो॒ इति॑ , स॒ह॒सः॒ , वृ॒त्र॒ऽतुरं॑ ॥
दि॒वो न तुभ्य॒मन्विं॑द्र स॒त्रासु॒र्यं॑ दे॒वेभि॑र्धायि॒ विश्वं॑ । अहिं॒ यद्वृ॒त्रम॒पो व॑व्रि॒वांसं॒ हन्नृ॑जीषि॒न्विष्णु॑ना सचा॒नः ॥
दि॒वः , न , तुभ्यं॑ , अनु॑ , इं॒द्र॒ , स॒त्रा , अ॒सु॒र्यं॑ , दे॒वेभिः॑ , धा॒यि॒ , विश्वं॑ । अहिं॑ , यत् , वृ॒त्रं , अ॒पः , व॒व्रि॒ऽवांसं॑ , हन् , ऋ॒जी॒षि॒न् , विष्णु॑ना , स॒चा॒नः ॥
तूर्व॒न्नोजी॑यांत॒वस॒स्तवी॑यान्कृ॒तब्र॒ह्मेंद्रो॑ वृ॒द्धम॑हाः । राजा॑भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा॑सां॒ यत्पु॒रां द॒र्त्नुमाव॑त् ॥
तूर्व॑न् , ओजी॑यान् , त॒वसः॑ , तवी॑यान् , कृ॒तऽब्र॑ह्मा , इंद्रः॑ , वृ॒द्धऽम॑हाः । राजा॑ , अ॒भ॒व॒त् , मधु॑नः , सो॒म्यस्य॑ , विश्वा॑सां , यत् , पु॒रां , द॒र्त्नुं , आव॑त् ॥
श॒तैर॑पद्रन्प॒णय॑ इं॒द्रात्र॒ दशो॑णये क॒वये॒ऽर्कसा॑तौ । व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्किं च॒न प्र ॥
श॒तैः , अ॒प॒द्र॒न् , प॒णयः॑ , इं॒द्र॒ , अत्र॑ , दश॑ऽओणये , क॒वये॑ , अ॒र्कऽसा॑तौ । व॒धैः , शुष्ण॑स्य , अ॒शुष॑स्य , मा॒याः , पि॒त्वः , न , अ॒रि॒रे॒ची॒त् , किं , च॒न , प्र ॥
म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्णः॑ । उ॒रु ष स॒रथं॒ सार॑थये क॒रिंद्रः॒ कुत्सा॑य॒ सूर्य॑स्य सा॒तौ ॥
म॒हः , द्रु॒हः , अप॑ , वि॒श्वऽआ॑यु , धा॒यि॒ , वज्र॑स्य , यत् , पत॑ने , पादि॑ , शुष्णः॑ । उ॒रु , सः , स॒ऽरथं॑ , सार॑थये , कः॒ , इंद्रः॑ , कुत्सा॑य , सूर्य॑स्य , सा॒तौ ॥
प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् । प्राव॒न्नमीं॑ सा॒प्यं स॒संतं॑ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ॥
प्र , श्ये॒नः , न , म॒दि॒रं , अं॒शुं , अ॒स्मै॒ , शिरः॑ , दा॒सस्य॑ , नमु॑चेः , म॒था॒यन् । प्र , आ॒व॒त् , नमीं॑ , सा॒प्यं , स॒संतं॑ , पृ॒णक् , रा॒या , सं , इ॒षा , सं , स्व॒स्ति ॥
वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो॑ वज्रिं॒छव॑सा॒ न द॑र्दः । सुदा॑मं॒तद्रेक्णो॑ अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे॑ दाः ॥
वि , पिप्रोः॑ , अहि॑ऽमायस्य , दृ॒ळ्हाः , पुरः॑ , व॒ज्रि॒न् , शव॑सा , न , द॒र्द॒रिति॑ दर्दः । सुऽदा॑मन् , तत् , रेक्णः॑ , अ॒प्र॒ऽमृ॒ष्यं , ऋ॒जिश्व॑ने , दा॒त्रं , दा॒शुषे॑ , दाः॒ ॥
स वे॑त॒सुं दश॑मायं॒ दशो॑णिं॒ तूतु॑जि॒मिंद्रः॑ स्वभि॒ष्टिसु॑म्नः । आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा इ॒यध्यै॑ ॥
सः , वे॒त॒सुं , दश॑ऽमायं , दश॑ऽओणिं , तूतु॑जिं , इंद्रः॑ , स्व॒भि॒ष्टिऽसु॑म्नः । आ , तुग्रं॑ , शश्व॑त् , इभं॑ , द्योत॑नाय , मा॒तुः , न , सीं॒ , उप॑ , सृ॒ज॒ , इ॒यध्यै॑ ॥
स ईं॒ स्पृधो॑ वनते॒ अप्र॑तीतो॒ बिभ्र॒द्वज्रं॑ वृत्र॒हणं॒ गभ॑स्तौ । तिष्ठ॒द्धरी॒ अध्यस्ते॑व॒ गर्ते॑ वचो॒युजा॑ वहत॒ इंद्र॑मृ॒ष्वं ॥
सः , ईं॒ , स्पृधः॑ , व॒न॒ते॒ , अप्र॑तिऽइतः , बिभ्र॑त् , वज्रं॑ , वृ॒त्र॒ऽहनं॑ , गभ॑स्तौ । तिष्ठ॑त् , हरी॒ इति॑ , अधि॑ , अस्ता॑ऽइव , गर्ते॑ , व॒चः॒ऽयुजा॑ , व॒ह॒तः॒ , इंद्रं॑ , ऋ॒ष्वं ॥
स॒नेम॒ तेऽव॑सा॒ नव्य॑ इंद्र॒ प्र पू॒रवः॑ स्तवंत ए॒ना य॒ज्ञैः । स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्द्धंदासीः॑ पुरु॒कुत्सा॑य॒ शिक्ष॑न् ॥
स॒नेम॑ , ते॒ , अव॑सा , नव्यः॑ , इं॒द्र॒ , प्र , पू॒रवः॑ , स्त॒वं॒ते॒ , ए॒ना , य॒ज्ञैः । स॒प्त , यत् , पुरः॑ , शर्म॑ , शार॑दीः , दर्त् , हन् , दासीः॑ , पु॒रु॒ऽकुत्सा॑य , शिक्ष॑न् ॥
त्वं वृ॒ध इं॑द्र पू॒र्व्यो भू॑र्वरिव॒स्यन्नु॒शने॑ का॒व्याय॑ । परा॒ नव॑वास्त्वमनु॒देयं॑ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा॑तं ॥
त्वं , वृ॒धः , इं॒द्र॒ , पू॒र्व्यः , भूः॒ , व॒रि॒व॒स्यन् , उ॒शने॑ , का॒व्याय॑ । परा॑ , नव॑ऽवास्त्वं , अ॒नु॒ऽदेयं॑ , म॒हे , पि॒त्रे , द॒दा॒थ॒ , स्वं , नपा॑तं ॥
त्वं धुनि॑रिंद्र॒ धुनि॑मतीर्ऋ॒णोर॒पः सी॒रा न स्रवं॑तीः । प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥
त्वं , धुनिः॑ , इं॒द्र॒ , धुनि॑ऽमतीः , ऋ॒णोः , अ॒पः , सी॒राः , न , स्रवं॑तीः । प्र , यत् , स॒मु॒द्रं , अति॑ , शू॒र॒ , पर्षि॑ , पा॒रय॑ , तु॒र्वशं॑ , यदुं॑ , स्व॒स्ति ॥
तव॑ ह॒ त्यदिं॑द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प् । दी॒दय॒दित्तुभ्यं॒ सोमे॑भिः सु॒न्वंद॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॒॑र्कैः ॥
तव॑ , ह॒ , त्यत् , इं॒द्र॒ , विश्वं॑ , आ॒जौ , स॒स्तः , धुनी॒चुमु॑री॒ इति॑ , या , ह॒ , सिस्व॑प् । दी॒दय॑त् , इत् , तुभ्यं॑ , सोमे॑भिः , सु॒न्वन् , द॒भीतिः॑ , इ॒ध्मऽभृ॑तिः , प॒क्थी , अ॒र्कैः ॥
[२१] इमाउत्वेति द्वादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रो नवम्येकादश्योर्विश्वेदेवास्त्रिष्टुप् |
इ॒मा उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं॑ वीर॒ हव्या॑ हवंते । धियो॑ रथे॒ष्ठाम॒जरं॒ नवी॑यो र॒यिर्विभू॑तिरीयते वच॒स्या ॥
इ॒माः , ऊँ॒ इति॑ , त्वा॒ , पु॒रु॒ऽतम॑स्य , का॒रोः , हव्यं॑ , वी॒र॒ , हव्याः॑ , ह॒वं॒ते॒ । धियः॑ , र॒थे॒ऽस्थां , अ॒जरं॑ , नवी॑यः , र॒यिः , विऽभू॑तिः , ई॒य॒ते॒ , व॒च॒स्या ॥
तमु॑ स्तुष॒ इंद्रं॒ यो विदा॑नो॒ गिर्वा॑हसं गी॒र्भिर्य॒ज्ञवृ॑द्धं । यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वं ॥
तं , ऊँ॒ इति॑ , स्तु॒षे॒ , इंद्रं॑ , यः , विदा॑नः , गिर्वा॑हसं , गीः॒ऽभिः , य॒ज्ञऽवृ॑द्धं । यस्य॑ , दिवं॑ , अति॑ , म॒ह्ना , पृ॒थि॒व्याः , पु॒रु॒ऽमा॒यस्य॑ , रि॒रि॒चे , म॒हि॒ऽत्वं ॥
स इत्तमो॑ऽवयु॒नं त॑त॒न्वत्सूर्ये॑ण व॒युन॑वच्चकार । क॒दा ते॒ मर्ता॑ अ॒मृत॑स्य॒ धामेय॑क्षंतो॒ न मि॑नंति स्वधावः ॥
सः , इत् , तमः॑ , अ॒व॒यु॒नं , त॒त॒न्वत् , सूर्ये॑ण , व॒युन॑ऽवत् , च॒का॒र॒ । क॒दा , ते॒ , मर्ताः॑ , अ॒मृत॑स्य , धाम॑ , इय॑क्षंतः , न , मि॒नं॒ति॒ , स्व॒धा॒ऽवः॒ ॥
यस्ता च॒कार॒ स कुह॑ स्वि॒दिंद्रः॒ कमा जनं॑ चरति॒ कासु॑ वि॒क्षु । कस्ते॑ य॒ज्ञो मन॑से॒ शं वरा॑य॒ को अ॒र्क इं॑द्र कत॒मः स होता॑ ॥
यः , ता , च॒कार॑ , सः , कुह॑ , स्वि॒त् , इंद्रः॑ , कं , आ , जनं॑ , च॒र॒ति॒ , कासु॑ , वि॒क्षु । कः , ते॒ , य॒ज्ञः , मन॑से , शं , वरा॑य , कः , अ॒र्कः , इं॒द्र॒ , क॒त॒मः , सः , होता॑ ॥
इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त्सखा॑यः । ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ॥
इ॒दा , हि , ते॒ , वेवि॑षतः , पु॒रा॒ऽजाः , प्र॒त्नासः॑ , आ॒सुः , पु॒रु॒ऽकृ॒त् , सखा॑यः । ये , म॒द्य॒मासः॑ , उ॒त , नूत॑नासः , उ॒त , अ॒व॒मस्य॑ , पु॒रु॒ऽहू॒त॒ , बो॒धि॒ ॥
तं पृ॒च्छंतोऽव॑रासः॒ परा॑णि प्र॒त्ना त॑ इंद्र॒ श्रुत्यानु॑ येमुः । अर्चा॑मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात्त्वा॑ म॒हांतं॑ ॥
तं , पृ॒च्छंतः॑ , अव॑रासः , परा॑णि , प्र॒त्ना , ते॒ , इं॒द्र॒ , श्रुत्या॑ , अनु॑ , ये॒मुः॒ । अर्चा॑मसि , वी॒र॒ , ब्र॒ह्म॒ऽवाहः॑ , यात् , ए॒व , वि॒द्म , तात् , त्वा॒ , म॒हांतं॑ ॥
अ॒भि त्वा॒ पाजो॑ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ । तव॑ प्र॒त्नेन॒ युज्ये॑न॒ सख्या॒ वज्रे॑ण धृष्णो॒ अप॒ ता नु॑दस्व ॥
अ॒भि , त्वा॒ , पाजः॑ , र॒क्षसः॑ , वि , त॒स्थे॒ , महि॑ , ज॒ज्ञा॒नं , अ॒भि , तत् , सु , ति॒ष्ठ॒ । तव॑ , प्र॒त्नेन॑ , युज्ये॑न , सख्या॑ , वज्रे॑ण , धृ॒ष्णो॒ इति॑ , अप॑ , ता , नु॒द॒स्व॒ ॥
स तु श्रु॑धींद्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी॑र कारुधायः । त्वं ह्या॒३॒॑पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द्ब॒भूथ॑ सु॒हव॒ एष्टौ॑ ॥
सः , तु , श्रु॒धि॒ , इं॒द्र॒ , नूत॑नस्य , ब्र॒ह्म॒ण्य॒तः , वी॒र॒ , का॒रु॒ऽधा॒यः॒ । त्वं , हि , आ॒पिः , प्र॒ऽदिवि॑ , पि॒तॄ॒णां , शश्व॑त् , ब॒भूथ॑ , सु॒ऽहवः॑ , आऽइ॑ष्टौ ॥
प्रोतये॒ वरु॑णं मि॒त्रमिंद्रं॑ म॒रुतः॑ कृ॒ष्वाव॑से नो अ॒द्य । प्र पू॒षणं॒ विष्णु॑म॒ग्निं पुरं॑धिं सवि॒तार॒मोष॑धीः॒ पर्व॑ताँश्च ॥
प्र , ऊ॒तये॑ , वरु॑णं , मि॒त्रं , इंद्रं॑ , म॒रुतः॑ , कृ॒ष्व॒ , अव॑से , नः॒ , अ॒द्य । प्र , पू॒षणं॑ , विष्णुं॑ , अ॒ग्निं , पुरं॑ऽधिं , स॒वि॒तारं॑ , ओष॑धीः , पर्व॑तान् , च॒ ॥
इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो॑ अ॒भ्य॑र्चंत्य॒र्कैः । श्रु॒धी हव॒मा हु॑व॒तो हु॑वा॒नो न त्वावाँ॑ अ॒न्यो अ॑मृत॒ त्वद॑स्ति ॥
इ॒मे , ऊँ॒ इति॑ , त्वा॒ , पु॒रु॒ऽशा॒क॒ , प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो , ज॒रि॒तारः॑ , अ॒भि , अ॒र्चं॒ति॒ , अ॒र्कैः । श्रु॒धि , हवं॑ , आ , हु॒व॒तः , हु॒वा॒नः , न , त्वाऽवा॑न् , अ॒न्यः , अ॒मृ॒त॒ , त्वत् , अ॒स्ति॒ ॥
नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान्विश्वे॑भिः सूनो सहसो॒ यज॑त्रैः । ये अ॑ग्निजि॒ह्वा ऋ॑त॒साप॑ आ॒सुर्ये मनुं॑ च॒क्रुरुप॑रं॒ दसा॑य ॥
नु , मे॒ , आ , वाचं॑ , उप॑ , या॒हि॒ , वि॒द्वान् , विश्वे॑भिः , सू॒नो॒ इति॑ , स॒ह॒सः॒ , यज॑त्रैः । ये , अ॒ग्नि॒ऽजि॒ह्वाः , ऋ॒त॒ऽसापः॑ , आ॒सुः , ये , मनुं॑ , च॒क्रुः , उप॑रं , दसा॑य ॥
स नो॑ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद्विदा॑नः । ये अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि॑र्न इंद्रा॒भि व॑क्षि॒ वाजं॑ ॥
सः , नः॒ , बो॒धि॒ , पु॒रः॒ऽए॒ता , सु॒ऽगेषु॑ , उ॒त , दुः॒ऽगेषु॑ , प॒थि॒ऽकृत् , विदा॑नः । ये , अश्र॑मासः , उ॒रवः॑ , वहि॑ष्ठाः , तेभिः॑ , नः॒ , इं॒द्र॒ , अ॒भि , व॒क्षि॒ , वाजं॑ ॥
[२२] यएकइदित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
य एक॒ इद्धव्य॑श्चर्षणी॒नामिंद्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः । यः पत्य॑ते वृष॒भो वृष्ण्या॑वांत्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥
यः , एकः॑ , इत् , हव्यः॑ , च॒र्ष॒णी॒नां , इंद्रं॑ , तं , गीः॒ऽभिः , अ॒भि , अ॒र्चे॒ , आ॒भिः । यः , पत्य॑ते , वृ॒ष॒भः , वृष्ण्य॑ऽवान् , स॒त्यः , सत्वा॑ , पु॒रु॒ऽमा॒यः , सह॑स्वान् ॥
तमु॑ नः॒ पूर्वे॑ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा॑सो अ॒भि वा॒जयं॑तः । न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो॑घवाचं म॒तिभिः॒ शवि॑ष्ठं ॥
तं , ऊँ॒ इति॑ , नः॒ , पूर्वे॑ , पि॒तरः॑ , नव॑ऽग्वाः , स॒प्त , विप्रा॑सः , अ॒भि , वा॒जयं॑तः । न॒क्ष॒त्ऽदा॒भं , ततु॑रिं , प॒र्व॒ते॒ऽस्थां , अद्रो॑घऽवाचं , म॒तिऽभिः॑ , शवि॑ष्ठं ॥
तमी॑मह॒ इंद्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः । यो अस्कृ॑धोयुर॒जरः॒ स्व॑र्वां॒तमा भ॑र हरिवो माद॒यध्यै॑ ॥
तं , ई॒म॒हे॒ , इंद्रं॑ , अ॒स्य॒ , रा॒यः , पु॒रु॒ऽवीर॑स्य , नृ॒ऽवतः॑ , पु॒रु॒ऽक्षोः । यः , अस्कृ॑धोयुः , अ॒जरः॑ , स्वः॑ऽवान् , तं , आ , भ॒र॒ , ह॒रि॒ऽवः॒ , मा॒द॒यध्यै॑ ॥
तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमिं॑द्र । कस्ते॑ भा॒गः किं वयो॑ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ॥
तत् , नः॒ , वि , वो॒चः॒ , यदि॑ , ते॒ , पु॒रा , चि॒त् , ज॒रि॒तारः॑ , आ॒न॒शुः , सु॒म्नं , इं॒द्र॒ । कः , ते॒ , भा॒गः , किं , वयः॑ , दु॒ध्र॒ , खि॒द्वः॒ , पुरु॑ऽहूत , पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो , अ॒सु॒र॒ऽघ्नः ॥
तं पृ॒च्छंती॒ वज्र॑हस्तं रथे॒ष्ठामिंद्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः । तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥
तं , पृ॒च्छंती॑ , वज्र॑ऽहस्तं , र॒थे॒ऽस्थां , इंद्रं॑ , वेपी॑ , वक्व॑री , यस्य॑ , नु , गीः । तु॒वि॒ऽग्रा॒भं , तु॒वि॒ऽकू॒र्मिं , र॒भः॒ऽदां , गा॒तुं , इ॒षे॒ , नक्ष॑ते , तुम्रं॑ , अच्छ॑ ॥
अ॒या ह॒ त्यं मा॒यया॑ वावृधा॒नं म॑नो॒जुवा॑ स्वतवः॒ पर्व॑तेन । अच्यु॑ता चिद्वीळि॒ता स्वो॑जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन् ॥
अ॒या , ह॒ , त्यं , मा॒यया॑ , व॒वृ॒धा॒नं , म॒नः॒ऽजुवा॑ , स्व॒ऽत॒वः॒ , पर्व॑तेन । अच्यु॑ता , चि॒त् , वी॒ळि॒ता , सु॒ऽओ॒जः॒ , रु॒जः , वि , दृ॒ळ्हा , धृ॒ष॒ता , वि॒ऽर॒प्शि॒न् ॥
तं वो॑ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत्प॑रितंस॒यध्यै॑ । स नो॑ वक्षदनिमा॒नः सु॒वह्मेंद्रो॒ विश्वा॒न्यति॑ दु॒र्गहा॑णि ॥
तं , वः॒ , धि॒या , नव्य॑स्या , शवि॑ष्ठं , प्र॒त्नं , प्र॒त्न॒ऽवत् , प॒रि॒ऽतं॒स॒यध्यै॑ । सः , नः॒ , व॒क्ष॒त् , अ॒नि॒ऽमा॒नः , सु॒ऽवह्मा॑ , इंद्रः॑ , विश्वा॑नि , अति॑ , दुः॒ऽगहा॑नि ॥
आ जना॑य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा । तपा॑ वृषन्वि॒श्वतः॑ शो॒चिषा॒ तान्ब्र॑ह्म॒द्विषे॑ शोचय॒ क्षाम॒पश्च॑ ॥
आ , जना॑य , द्रुह्व॑णे , पार्थि॑वानि , दि॒व्यानि॑ , दी॒प॒यः॒ , अं॒तरि॑क्षा । तप॑ , वृ॒ष॒न् , वि॒श्वतः॑ , शो॒चिषा॑ , तान् , ब्र॒ह्म॒ऽद्विषे॑ , शो॒च॒य॒ , क्षां , अ॒पः , च॒ ॥
भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक् । धि॒ष्व वज्रं॒ दक्षि॑ण इंद्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥
भुवः॑ , जन॑स्य , दि॒व्यस्य॑ , राजा॑ , पार्थि॑वस्य , जग॑तः , त्वे॒ष॒ऽसं॒दृ॒क् । धि॒ष्व , वज्रं॑ , दक्षि॑णे , इं॒द्र॒ , हस्ते॑ , विश्वाः॑ , अ॒जु॒र्य॒ , द॒य॒से॒ , वि , मा॒याः ॥
आ सं॒यत॑मिंद्र णः स्व॒स्तिं श॑त्रु॒तूर्या॑य बृह॒तीममृ॑ध्रां । यया॒ दासा॒न्यार्या॑णि वृ॒त्रा करो॑ वज्रिंत्सु॒तुका॒ नाहु॑षाणि ॥
आ , सं॒ऽयतं॑ , इं॒द्र॒ , नः॒ , स्व॒स्तिं , श॒त्रु॒ऽतूर्या॑य , बृ॒ह॒तीं , अमृ॑ध्रां । यया॑ , दासा॑नि , आर्या॑णि , वृ॒त्रा , करः॑ , व॒ज्रि॒न् , सु॒ऽतुका॑ , नाहु॑षाणि ॥
स नो॑ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा॑राभि॒रा ग॑हि प्रयज्यो । न या अदे॑वो॒ वर॑ते॒ न दे॒व आभि॑र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ॥
सः , नः॒ , नि॒युत्ऽभिः॑ , पु॒रु॒ऽहू॒त॒ , वे॒धः॒ , वि॒श्वऽवा॑राभिः , आ , ग॒हि॒ , प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो । न , याः , अदे॑वः , वर॑ते , न , दे॒वः , आ , आ॒भिः॒ , या॒हि॒ , तूयं॑ , आ , म॒द्र्य॒द्रिक् ॥
[२३] सुतइदिति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
सु॒त इत्त्वं निमि॑श्ल इंद्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा॑न उ॒क्थे । यद्वा॑ यु॒क्ताभ्यां॑ मघव॒न्हरि॑भ्यां॒ बिभ्र॒द्वज्रं॑ बा॒ह्वोरिं॑द्र॒ यासि॑ ॥
सु॒ते , इत् , त्वं , निऽमि॑श्लः , इं॒द्र॒ , सोमे॑ , स्तोमे॑ , ब्रह्म॑णि , श॒स्यमा॑ने , उ॒क्थे । यत् , वा॒ , यु॒क्ताभ्यां॑ , म॒घ॒ऽव॒न् , हरि॑ऽभ्यां , बिभ्र॑त् , वज्रं॑ , बा॒ह्वोः , इं॒द्र॒ , यासि॑ ॥
यद्वा॑ दि॒वि पार्ये॒ सुष्वि॑मिंद्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौ । यद्वा॒ दक्ष॑स्य बि॒भ्युषो॒ अबि॑भ्य॒दरं॑धयः॒ शर्ध॑त इंद्र॒ दस्यू॑न् ॥
यत् , वा॒ , दि॒वि , पार्ये॑ , सुस्विं॑ , इं॒द्र॒ , वृ॒त्र॒ऽहत्ये॑ , अव॑सि , शूर॑ऽसातौ । यत् , वा॒ , दक्ष॑स्य , बि॒भ्युषः॑ , अबि॑भ्यत् , अरं॑धयः , शर्ध॑तः , इं॒द्र॒ , दस्यू॑न् ॥
पाता॑ सु॒तमिंद्रो॑ अस्तु॒ सोमं॑ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती । कर्ता॑ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये॑ चित् ॥
पाता॑ , सु॒तं , इंद्रः॑ , अ॒स्तु॒ , सोमं॑ , प्र॒ऽने॒नीः , उ॒ग्रः , ज॒रि॒तारं॑ , ऊ॒ती । कर्ता॑ , वी॒राय॑ , सुस्व॑ये , ऊँ॒ इति॑ , लो॒कं , दाता॑ , वसु॑ , स्तु॒व॒ते , की॒रये॑ , चि॒त् ॥
गंतेयां॑ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं॑ प॒पिः सोमं॑ द॒दिर्गाः । कर्ता॑ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं॑ गृण॒तः स्तोम॑वाहाः ॥
गंता॑ , इयं॑ति , सव॑ना , हरि॑ऽभ्यां , ब॒भ्रिः , वज्रं॑ , प॒पिः , सोमं॑ , द॒दिः , गाः । कर्ता॑ , वी॒रं , नर्यं॑ , सर्व॑ऽवीरं , श्रोता॑ , हवं॑ , गृ॒ण॒तः , स्तोम॑ऽवाहाः ॥
अस्मै॑ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इंद्रा॑य॒ यो नः॑ प्र॒दिवो॒ अप॒स्कः । सु॒ते सोमे॑ स्तु॒मसि॒ शंस॑दु॒क्थेंद्रा॑य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ॥
अस्मै॑ , व॒यं , यत् , व॒वान॑ , तत् , वि॒वि॒ष्मः॒ , इंद्रा॑य , यः , नः॒ , प्र॒ऽदिवः॑ , अपः॑ , करिति॑ कः । सु॒ते , सोमे॑ , स्तु॒मसि॑ , शंस॑त् , उ॒क्था , इंद्रा॑य , ब्रह्म॑ , वर्ध॑नं , यथा॑ , अस॑त् ॥
ब्रह्मा॑णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त्त इंद्र म॒तिभि॑र्विविष्मः । सु॒ते सोमे॑ सुतपाः॒ शंत॑मानि॒ रांड्या॑ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ॥
ब्रह्मा॑णि , हि , च॒कृ॒षे , वर्ध॑नानि , ताव॑त् , ते॒ , इं॒द्र॒ , म॒तिऽभिः॑ , वि॒वि॒ष्मः॒ । सु॒ते , सोमे॑ , सु॒त॒ऽपाः॒ , शंऽत॑मानि , रांद्र्या॑ , क्रि॒या॒स्म॒ , वक्ष॑णानि , य॒ज्ञैः ॥
स नो॑ बोधि पुरो॒ळाशं॒ ररा॑णः॒ पिबा॒ तु सोमं॒ गोऋ॑जीकमिंद्र । एदं ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑ लो॒कं ॥
सः , नः॒ , बो॒धि॒ , पु॒रो॒ळाशं॑ , ररा॑णः , पिब॑ , तु , सोमं॑ , गोऽऋ॑जीकं , इं॒द्र॒ । आ , इ॒दं , ब॒र्हिः , यज॑मानस्य , सी॒द॒ , उ॒रुं , कृ॒धि॒ , त्वा॒ऽय॒तः , ऊँ॒ इति॑ , लो॒कं ॥
स मं॑दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा॑ य॒ज्ञास॑ इ॒मे अ॑श्नुवंतु । प्रेमे हवा॑सः पुरुहू॒तम॒स्मे आ त्वे॒यं धीरव॑स इंद्र यम्याः ॥
सः , मं॒द॒स्व॒ , हि , अनु॑ , जोषं॑ , उ॒ग्र॒ , प्र , त्वा॒ , य॒ज्ञासः॑ , इ॒मे , अ॒श्नु॒वं॒तु॒ । प्र , इ॒मे , हवा॑सः , पु॒रु॒ऽहू॒तं , अ॒स्मे इति॑ , आ , त्वा॒ , इ॒यं , धीः , अव॑से , इं॒द्र॒ , य॒म्याः॒ ॥
तं वः॑ सखायः॒ सं यथा॑ सु॒तेषु॒ सोमे॑भिरीं पृणता भो॒जमिंद्रं॑ । कु॒वित्तस्मा॒ अस॑ति नो॒ भरा॑य॒ न सुष्वि॒मिंद्रोऽव॑से मृधाति ॥
तं , वः॒ , स॒खा॒यः॒ , सं , यथा॑ , सु॒तेषु॑ , सोमे॑भिः , ईं॒ , पृ॒ण॒त॒ , भो॒जं , इंद्रं॑ । कु॒वित् , तस्मै॑ , अस॑ति , नः॒ , भरा॑य , न , सुस्विं॑ , इंद्रः॑ , अव॑से , मृ॒धा॒ति॒ ॥
ए॒वेदिंद्रः॑ सु॒ते अ॑स्तावि॒ सोमे॑ भ॒रद्वा॑जेषु॒ क्षय॒दिन्म॒घोनः॑ । अस॒द्यथा॑ जरि॒त्र उ॒त सू॒रिरिंद्रो॑ रा॒यो वि॒श्ववा॑रस्य दा॒ता ॥
ए॒व , इत् , इंद्रः॑ , सु॒ते , अ॒स्ता॒वि॒ , सोमे॑ , भ॒रत्ऽवा॑जेषु , क्षय॑त् , इत् , म॒घोनः॑ । अस॑त् , यथा॑ , ज॒रि॒त्रे , उ॒त , सू॒रिः , इंद्रः॑ , रा॒यः , वि॒श्वऽवा॑रस्य , दा॒ता ॥
[२४] वृषामदइति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रत्रिष्टुप् |
वृषा॒ मद॒ इंद्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे॑षु सुत॒पा ऋ॑जी॒षी । अ॒र्च॒त्र्यो॑ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा॑ गि॒रामक्षि॑तोतिः ॥
वृषा॑ , मदः॑ , इंद्रे॑ , श्लोकः॑ , उ॒क्था , सचा॑ , सोमे॑षु , सु॒त॒ऽपाः , ऋ॒जी॒षी । अ॒र्च॒त्र्यः॑ , म॒घऽवा॑ , नृऽभ्यः॑ , उ॒क्थैः , द्यु॒क्षः , राजा॑ , गि॒रां , अक्षि॑तऽऊतिः ॥
ततु॑रिर्वी॒रो नर्यो॒ विचे॑ताः॒ श्रोता॒ हवं॑ गृण॒त उ॒र्व्यू॑तिः । वसुः॒ शंसो॑ न॒रां का॒रुधा॑या वा॒जी स्तु॒तो वि॒दथे॑ दाति॒ वाजं॑ ॥
ततु॑रिः , वी॒रः , नर्यः॑ , विऽचे॑ताः , श्रोता॑ , हवं॑ , गृ॒ण॒तः , उ॒र्विऽऊ॑तिः । वसुः॑ , शंसः॑ , न॒रां , का॒रुऽधा॑याः , वा॒जी , स्तु॒तः , वि॒दथे॑ , दा॒ति॒ , वाजं॑ ॥
अक्षो॒ न च॒क्र्योः॑ शूर बृ॒हन्प्र ते॑ म॒ह्ना रि॑रिचे॒ रोद॑स्योः । वृ॒क्षस्य॒ नु ते॑ पुरुहूत व॒या व्यू॒३॒॑तयो॑ रुरुहुरिंद्र पू॒र्वीः ॥
अक्षः॑ , न , च॒क्र्योः॑ , शू॒र॒ , बृ॒हन् , प्र , ते॒ , म॒ह्ना , रि॒रि॒चे॒ , रोद॑स्योः । वृ॒क्षस्य॑ , नु , ते॒ , पु॒रु॒ऽहू॒त॒ , व॒याः , वि , ऊ॒तयः॑ , रु॒रु॒हुः॒ , इं॒द्र॒ , पू॒र्वीः ॥
शची॑वतस्ते पुरुशाक॒ शाका॒ गवा॑मिव स्रु॒तयः॑ सं॒चर॑णीः । व॒त्सानां॒ न तं॒तय॑स्त इंद्र॒ दाम॑न्वंतो अदा॒मानः॑ सुदामन् ॥
शची॑ऽवतः , ते॒ , पु॒रु॒ऽशा॒क॒ , शाकाः॑ , गवां॑ऽइव , स्रु॒तयः॑ , सं॒ऽचर॑णीः । व॒त्सानां॑ , न , तं॒तयः॑ , ते॒ , इं॒द्र॒ , दाम॑न्ऽवंतः , अ॒दा॒मानः॑ , सु॒ऽदा॒म॒न् ॥
अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिंद्रः॑ । मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ॥
अ॒न्यत् , अ॒द्य , कर्व॑रं , अ॒न्यत् , ऊँ॒ इति॑ , श्वः , अस॑त् , च॒ , सत् , मुहुः॑ , आ॒ऽच॒क्रिः , इंद्रः॑ । मि॒त्रः , नः॒ , अत्र॑ , वरु॑णः , च॒ , पू॒षा , अ॒र्यः , वश॑स्य , प॒रि॒ऽए॒ता , अ॒स्ति॒ ॥
वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिंद्रानयंत य॒ज्ञैः । तं त्वा॒भिः सु॑ष्टु॒तिभि॑र्वा॒जयं॑त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वाः॑ ॥
वि , त्वत् , आपः॑ , न , पर्व॑तस्य , पृ॒ष्ठात् , उ॒क्थेभिः॑ , इं॒द्र॒ , अ॒न॒यं॒त॒ , य॒ज्ञैः । तं , त्वा॒ , आ॒भिः , सु॒स्तु॒तिऽभिः॑ , वा॒जयं॑तः , आ॒जिं , न , ज॒ग्मुः॒ , गि॒र्वा॒हः॒ , अश्वाः॑ ॥
न यं जरं॑ति श॒रदो॒ न मासा॒ न द्याव॒ इंद्र॑मवक॒र्शयं॑ति । वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमे॑भिरु॒क्थैश्च॑ श॒स्यमा॑ना ॥
न , यं , जरं॑ति , श॒रदः॑ , न , मासाः॑ , न , द्यावः॑ , इंद्रं॑ , अ॒व॒ऽक॒र्शयं॑ति । वृ॒द्धस्य॑ , चि॒त् , व॒र्ध॒तां॒ , अ॒स्य॒ , त॒नूः , स्तोमे॑भिः , उ॒क्थैः , च॒ , श॒स्यमा॑ना ॥
न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् । अज्रा॒ इंद्र॑स्य गि॒रय॑श्चिदृ॒ष्वा गं॑भी॒रे चि॑द्भवति गा॒धम॑स्मै ॥
न , वी॒ळवे॑ , नम॑ते , न , स्थि॒राय॑ , न , शर्ध॑ते , दस्यु॑ऽजूताय , स्त॒वान् । अज्राः॑ , इंद्र॑स्य , गि॒रयः॑ , चि॒त् , ऋ॒ष्वाः , गं॒भी॒रे , चि॒त् , भ॒व॒ति॒ , गा॒धं , अ॒स्मै॒ ॥
गं॒भी॒रेण॑ न उ॒रुणा॑मत्रि॒न्प्रेषो यं॑धि सुतपाव॒न्वाजा॑न् । स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायां ॥
गं॒भी॒रेण॑ , नः॒ , उ॒रुणा॑ , अ॒म॒त्रि॒न् , प्र , इ॒षः , यं॒धि॒ , सु॒त॒ऽपा॒व॒न् , वाजा॑न् । स्थाः , ऊँ॒ इति॑ , सु , ऊ॒र्ध्वः , ऊ॒ती , अरि॑षण्यन् , अ॒क्तोः , विऽउ॑ष्टौ , परि॑ऽतक्म्यायां ॥
सच॑स्व ना॒यमव॑से अ॒भीक॑ इ॒तो वा॒ तमिं॑द्र पाहि रि॒षः । अ॒मा चै॑न॒मर॑ण्ये पाहि रि॒षो मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥
सच॑स्व , ना॒यं , अव॑से , अ॒भीके॑ , इ॒तः , वा॒ , तं , इं॒द्र॒ , पा॒हि॒ , रि॒षः । अ॒मा , च॒ , ए॒नं॒ , अर॑ण्ये , पा॒हि॒ , रि॒षः , मदे॑म , श॒तऽहि॑माः , सु॒ऽवीराः॑ ॥
[२५] यातऊतिरिति नवर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेंद्र॑ शुष्मि॒न्नस्ति॑ । ताभि॑रू॒ षु वृ॑त्र॒हत्ये॑ऽवीर्न ए॒भिश्च॒ वाजै॑र्म॒हान्न॑ उग्र ॥
या , ते॒ , ऊ॒तिः , अ॒व॒मा , या , प॒र॒मा , या , म॒ध्य॒मा , इं॒द्र॒ , शु॒ष्मि॒न् , अस्ति॑ । ताभिः॑ , ऊँ॒ इति॑ , सु , वृ॒त्र॒ऽहत्ये॑ , अ॒वीः॒ , नः॒ , ए॒भिः , च॒ , वाजैः॑ , म॒हान् , नः॒ , उ॒ग्र॒ ॥
आभिः॒ स्पृधो॑ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमिं॑द्र । आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑ची॒रार्या॑य॒ विशोऽव॑ तारी॒र्दासीः॑ ॥
आभिः॑ , स्पृधः॑ , मि॒थ॒तीः , अरि॑षण्यन् , अ॒मित्र॑स्य , व्य॒थ॒य॒ , म॒न्युं , इं॒द्र॒ । आभिः॑ , विश्वाः॑ , अ॒भि॒ऽयुजः॑ , विषू॑चीः , आर्या॑य , विशः॑ , अव॑ , ता॒रीः॒ , दासीः॑ ॥
इंद्र॑ जा॒मय॑ उ॒त येऽजा॑मयोऽर्वाची॒नासो॑ व॒नुषो॑ युयु॒ज्रे । त्वमे॑षां विथु॒रा शवां॑सि ज॒हि वृष्ण्या॑नि कृणु॒ही परा॑चः ॥
इंद्र॑ , जा॒मयः॑ , उ॒त , ये , अजा॑मयः , अ॒र्वा॒ची॒नासः॑ , व॒नुषः॑ , यु॒यु॒ज्रे । त्वं , ए॒षां॒ , वि॒थु॒रा , शवां॑सि , ज॒हि , वृष्ण्या॑नि , कृ॒णु॒हि , परा॑चः ॥
शूरो॑ वा॒ शूरं॑ वनते॒ शरी॑रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते॑ । तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रंद॑सी उ॒र्वरा॑सु॒ ब्रवै॑ते ॥
शूरः॑ , वा॒ , शूरं॑ , व॒न॒ते॒ , शरी॑रैः , त॒नू॒ऽरुचा॑ , तरु॑षि , यत् , कृ॒ण्वैते॒ इति॑ । तो॒के , वा॒ , गोषु॑ , तन॑ये , यत् , अ॒प्ऽसु , वि , क्रंद॑सी॒ इति॑ , उ॒र्वरा॑सु , ब्रवै॑ते॒ इति॑ ॥
न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा॑ यो॒धो मन्य॑मानो यु॒योध॑ । इंद्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा॑ जा॒तान्य॒भ्य॑सि॒ तानि॑ ॥
न॒हि , त्वा॒ , शूरः॑ , न , तु॒रः , न , धृ॒ष्णुः , न , त्वा॒ , यो॒धः , मन्य॑मानः , यु॒योध॑ । इंद्र॑ , नकिः॑ , त्वा॒ , प्रति॑ , अ॒स्ति॒ , ए॒षां॒ , विश्वा॑ , जा॒तानि॑ , अ॒भि , अ॒सि॒ , तानि॑ ॥
स प॑त्यत उ॒भयो॑र्नृ॒म्णम॒योर्यदी॑ वे॒धसः॑ समि॒थे हवं॑ते । वृ॒त्रे वा॑ म॒हो नृ॒वति॒ क्षये॑ वा॒ व्यच॑स्वंता॒ यदि॑ वितंत॒सैते॑ ॥
सः , प॒त्य॒ते॒ , उ॒भयोः॑ , नृ॒म्णं , अ॒योः , यदि॑ , वे॒धसः॑ , सं॒ऽइ॒थे , हवं॑ते । वृ॒त्रे , वा॒ , म॒हः , नृ॒ऽवति॑ , क्षये॑ , वा॒ , व्यच॑स्वंता , यदि॑ , वि॒तं॒त॒सैते॒ इति॑ ॥
अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निंद्र॑ त्रा॒तोत भ॑वा वरू॒ता । अ॒स्माका॑सो॒ ये नृत॑मासो अ॒र्य इंद्र॑ सू॒रयो॑ दधि॒रे पु॒रो नः॑ ॥
अध॑ , स्म॒ , ते॒ , च॒र्ष॒णयः॑ , यत् , एजा॑न् , इंद्र॑ , त्रा॒ता , उ॒त , भ॒व॒ , व॒रू॒ता । अ॒स्माका॑सः , ये , नृऽत॑मासः , अ॒र्यः , इंद्र॑ , सू॒रयः॑ , द॒धि॒रे , पु॒रः , नः॒ ॥
अनु॑ ते दायि म॒ह इं॑द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑ । अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेंद्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑ ॥
अनु॑ , ते॒ , दा॒यि॒ , म॒हे , इं॒द्रि॒याय॑ , स॒त्रा , ते॒ , विश्वं॑ , अनु॑ , वृ॒त्र॒ऽहत्ये॑ । अनु॑ , क्ष॒त्रं , अनु॑ , सहः॑ , य॒ज॒त्र॒ , इंद्र॑ , दे॒वेभिः॑ , अनु॑ , ते॒ , नृ॒ऽसह्ये॑ ॥
ए॒वा नः॒ स्पृधः॒ सम॑जा स॒मत्स्विंद्र॑ रारं॒धि मि॑थ॒तीरदे॑वीः । वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णंतो॑ भ॒रद्वा॑जा उ॒त त॑ इंद्र नू॒नं ॥
ए॒व , नः॒ , स्पृधः॑ , सं , अ॒ज॒ , स॒मत्ऽसु॑ , इंद्र॑ , र॒रं॒धि , मि॒थ॒तीः , अदे॑वीः । वि॒द्याम॑ , वस्तोः॑ , अव॑सा , गृ॒णंतः॑ , भ॒रत्ऽवा॑जाः , उ॒त , ते॒ , इं॒द्र॒ , नू॒नं ॥
[२६] श्रुधीनइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
श्रु॒धी न॑ इंद्र॒ ह्वया॑मसि त्वा म॒हो वाज॑स्य सा॒तौ वा॑वृषा॒णाः । सं यद्विशोऽयं॑त॒ शूर॑साता उ॒ग्रं नोऽवः॒ पार्ये॒ अहं॑दाः ॥
श्रु॒धि , नः॒ , इं॒द्र॒ , ह्वया॑मसि , त्वा॒ , म॒हः , वाज॑स्य , सा॒तौ , व॒वृ॒षा॒णाः । सं , यत् , विशः॑ , अयं॑त , शूर॑ऽसातौ , उ॒ग्रं , नः॒ , अवः॑ , पार्ये॑ , अह॑न् , दाः॒ ॥
त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ । त्वां वृ॒त्रेष्विं॑द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ॥
त्वां , वा॒जी , ह॒व॒ते॒ , वा॒जि॒ने॒यः , म॒हः , वाज॑स्य , गध्य॑स्य , सा॒तौ । त्वां , वृ॒त्रेषु॑ , इं॒द्र॒ , सत्ऽप॑तिं , तरु॑त्रं , त्वां , च॒ष्टे॒ , मु॒ष्टि॒ऽहा , गोषु॑ , युध्य॑न् ॥
त्वं क॒विं चो॑दयो॒ऽर्कसा॑तौ॒ त्वं कुत्सा॑य॒ शुष्णं॑ दा॒शुषे॑ वर्क् । त्वं शिरो॑ अम॒र्मणः॒ परा॑हन्नतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥
त्वं , क॒विं , चो॒द॒यः॒ , अ॒र्कऽसा॑तौ , त्वं , कुत्सा॑य , शुष्णं॑ , दा॒शुषे॑ , व॒र्क् । त्वं , शिरः॑ , अ॒म॒र्मणः॑ , परा॑ , अ॒ह॒न् , अ॒ति॒थि॒ऽग्वाय॑ , शंस्यं॑ , क॒रि॒ष्यन् ॥
त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्यं॑तं वृष॒भं दश॑द्युं । त्वं तुग्रं॑ वेत॒सवे॒ सचा॑हं॒त्वं तुजिं॑ गृ॒णंत॑मिंद्र तूतोः ॥
त्वं , रथं॑ , प्र , भ॒रः॒ , यो॒धं , ऋ॒ष्वं , आवः॑ , युध्यं॑तं , वृ॒ष॒भं , दश॑ऽद्युं । त्वं , तुग्रं॑ , वे॒त॒सवे॑ , सचा॑ , अ॒ह॒न् , त्वं , तुजिं॑ , गृ॒णंतं॑ , इं॒द्र॒ , तू॒तो॒रिति॑ तूतोः ॥
त्वं तदु॒क्थमिं॑द्र ब॒र्हणा॑ कः॒ प्र यच्छ॒ता स॒हस्रा॑ शूर॒ दर्षि॑ । अव॑ गि॒रेर्दासं॒ शंब॑रं ह॒न्प्रावो॒ दिवो॑दासं चि॒त्राभि॑रू॒ती ॥
त्वं , तत् , उ॒क्थं , इं॒द्र॒ , ब॒र्हणा॑ , क॒रिति॑ कः , प्र , य॒त् , श॒ता , स॒हस्रा॑ , शू॒र॒ , दर्षि॑ । अव॑ , गि॒रेः , दासं॑ , शंब॑रं , ह॒न् , प्र , आ॒वः॒ , दिवः॑ऽदासं , चि॒त्राभिः॑ , ऊ॒ती ॥
त्वं श्र॒द्धाभि॑र्मंदसा॒नः सोमै॑र्द॒भीत॑ये॒ चुमु॑रिमिंद्र सिष्वप् । त्वं र॒जिं पिठी॑नसे दश॒स्यंत्श॒ष्टिं स॒हस्रा॒ शच्या॒ सचा॑हन् ॥
त्वं , श्र॒द्धाभिः॑ , मं॒द॒सा॒नः , सोमैः॑ , द॒भीत॑ये , चुमु॑रिं , इं॒द्र॒ , सि॒स्व॒प् । त्वं , र॒जिं , पिठी॑नसे , द॒श॒स्यन् , ष॒ष्टिं , स॒हस्रा॑ , शच्या॑ , सचा॑ , अ॒ह॒न् ॥
अ॒हं च॒न तत्सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इंद्र सु॒म्नमोजः॑ । त्वया॒ यत्स्तवं॑ते सधवीर वी॒रास्त्रि॒वरू॑थेन॒ नहु॑षा शविष्ठ ॥
अ॒हं , च॒न , तत् , सू॒रिऽभिः॑ , आ॒न॒श्यां॒ , तव॑ , ज्यायः॑ , इं॒द्र॒ , सु॒म्नं , ओजः॑ । त्वया॑ , यत् , स्तवं॑ते , स॒ध॒ऽवी॒र॒ , वी॒राः , त्रि॒ऽवरू॑थेन , नहु॑षा , श॒वि॒ष्ठ॒ ॥
व॒यं ते॑ अ॒स्यामिं॑द्र द्यु॒म्नहू॑तौ॒ सखा॑यः स्याम महिन॒ प्रेष्ठाः॑ । प्रात॑र्दनिः क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो॑ घ॒ने वृ॒त्राणां॑ स॒नये॒ धना॑नां ॥
व॒यं , ते॒ , अ॒स्यां , इं॒द्र॒ , द्यु॒म्नऽहू॑तौ , सखा॑यः , स्या॒म॒ , म॒हि॒न॒ , प्रेष्ठाः॑ । प्रात॑र्दनिः , क्ष॒त्र॒ऽश्रीः , अ॒स्तु॒ , श्रेष्ठः॑ , घ॒ने , वृ॒त्राणां॑ , स॒नये॑ , धना॑नां ॥
[२७] किमस्यमदइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजरंद्र अंत्यायाश्चायमानोराजात्रिष्टुप् (चायमानस्यराज्ञोदानस्तुतिः) |
किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविंद्रः॒ किम॑स्य स॒ख्ये च॑कार । रणा॑ वा॒ ये नि॒षदि॒ किं ते अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः ॥
किं , अ॒स्य॒ , मदे॑ , किं , ऊँ॒ इति॑ , अ॒स्य॒ , पी॒तौ , इंद्रः॑ , किं , अ॒स्य॒ , स॒ख्ये , च॒का॒र॒ । रणाः॑ , वा॒ , ये , नि॒ऽसदि॑ , किं , ते , अ॒स्य॒ , पु॒रा , वि॒वि॒द्रे॒ , किं , ऊँ॒ इति॑ , नूत॑नासः ॥
सद॑स्य॒ मदे॒ सद्व॑स्य पी॒ताविंद्रः॒ सद॑स्य स॒ख्ये च॑कार । रणा॑ वा॒ ये नि॒षदि॒ सत्ते अ॑स्य पु॒रा वि॑विद्रे॒ सदु॒ नूत॑नासः ॥
सत् , अ॒स्य॒ , मदे॑ , सत् , ऊँ॒ इति॑ , अ॒स्य॒ , पी॒तौ , इंद्रः॑ , सत् , अ॒स्य॒ , स॒ख्ये , च॒का॒र॒ । रणाः॑ , वा॒ , ये , नि॒ऽसदि॑ , सत् , ते , अ॒स्य॒ , पु॒रा , वि॒वि॒द्रे॒ , सत् , ऊँ॒ इति॑ , नूत॑नासः ॥
न॒हि नु ते॑ महि॒मनः॑ समस्य॒ न म॑घवन्मघव॒त्त्वस्य॑ वि॒द्म । न राध॑सोराधसो॒ नूत॑न॒स्येंद्र॒ नकि॑र्ददृश इंद्रि॒यं ते॑ ॥
न॒हि , नु , ते॒ , म॒हि॒मनः॑ , स॒म॒स्य॒ , न , म॒घ॒ऽव॒न् , म॒घ॒व॒त्ऽत्वस्य॑ , वि॒द्म । न , राध॑सःऽराधसः , नूत॑नस्य , इंद्र॑ , नकिः॑ , द॒दृ॒शे॒ , इं॒द्रि॒यं , ते॒ ॥
ए॒तत्त्यत्त॑ इंद्रि॒यम॑चेति॒ येनाव॑धीर्व॒रशि॑खस्य॒ शेषः॑ । वज्र॑स्य॒ यत्ते॒ निह॑तस्य॒ शुष्मा॑त्स्व॒नाच्चि॑दिंद्र पर॒मो द॒दार॑ ॥
ए॒तत् , त्यत् , ते॒ , इं॒द्रि॒यं , अ॒चे॒ति॒ , येन॑ , अव॑धीः , व॒रऽशि॑खस्य , शेषः॑ । वज्र॑स्य , यत् , ते॒ , निऽह॑तस्य , शुष्मा॑त् , स्व॒नात् , चि॒त् , इं॒द्र॒ , प॒र॒मः , द॒दार॑ ॥
वधी॒दिंद्रो॑ व॒रशि॑खस्य॒ शेषो॑ऽभ्याव॒र्तिने॑ चायमा॒नाय॒ शिक्ष॑न् । वृ॒चीव॑तो॒ यद्ध॑रियू॒पीया॑यां॒ हन्पूर्वे॒ अर्धे॑ भि॒यसाप॑रो॒ दर्त् ॥
वधी॑त् , इंद्रः॑ , व॒रऽशि॑खस्य , शेषः॑ , अ॒भि॒ऽआ॒व॒र्तिने॑ , चा॒य॒मा॒नाय॑ , शिक्ष॑न् । वृ॒चीव॑तः , यत् , ह॒रि॒ऽयू॒पीया॑यां , हन् , पूर्वे॑ , अर्धे॑ , भि॒यसा॑ , अप॑रः , दर्त् ॥
त्रिं॒शच्छ॑तं व॒र्मिण॑ इंद्र सा॒कं य॒व्याव॑त्यां पुरुहूत श्रव॒स्या । वृ॒चीवं॑तः॒ शर॑वे॒ पत्य॑मानाः॒ पात्रा॑ भिंदा॒ना न्य॒र्थान्या॑यन् ॥
त्रिं॒शत्ऽश॑तं , व॒र्मिणः॑ , इं॒द्र॒ , सा॒कं , य॒व्याऽव॑त्यां , पु॒रु॒ऽहू॒त॒ , श्र॒व॒स्या । वृ॒चीवं॑तः , शर॑वे , पत्य॑मानाः , पात्रा॑ , भिं॒दा॒नाः , नि॒ऽअ॒र्थानि॑ , आ॒य॒न् ॥
यस्य॒ गावा॑वरु॒षा सू॑यव॒स्यू अं॒तरू॒ षु चर॑तो॒ रेरि॑हाणा । स सृंज॑याय तु॒र्वशं॒ परा॑दाद्वृ॒चीव॑तो दैववा॒ताय॒ शिक्ष॑न् ॥
यस्य॑ , गावौ॑ , अ॒रु॒षा , सु॒य॒व॒स्यू इति॑ सु॒ऽय॒व॒स्यू , अं॒तः , ऊँ॒ इति॑ , सु , चर॑तः , रेरि॑हाणा । सः , सृंज॑याय , तु॒र्वशं॑ , परा॑ , अ॒दा॒त् , वृ॒चीव॑तः , दै॒व॒ऽवा॒ताय॑ , शिक्ष॑न् ॥
द्व॒याँ अ॑ग्ने र॒थिनो॑ विंश॒तिं गा व॒धूम॑तो म॒घवा॒ मह्यं॑ स॒म्राट् । अ॒भ्या॒व॒र्ती चा॑यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वानां॑ ॥
द्व॒यान् , अ॒ग्ने॒ , र॒थिनः॑ , विं॒श॒तिं , गाः , व॒धूऽम॑तः , म॒घऽवा॑ , मह्यं॑ , सं॒ऽराट् । अ॒भि॒ऽआ॒व॒र्ती , चा॒य॒मा॒नः , द॒दा॒ति॒ , दुः॒ऽनाशा॑ , इ॒यं , दक्षि॑णा , पा॒र्थ॒वानां॑ ॥
[२८] आगावइत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोगौस्त्रिष्टुप् (द्वितीयाया इंद्रश्चांत्यपादस्यच) द्वितीयाध्यास्तिस्रोजगत्योंत्यानुष्टुप् |
आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्रं॒त्सीदं॑तु गो॒ष्ठे र॒णयं॑त्व॒स्मे । प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिंद्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥
आ , गावः॑ , अ॒ग्म॒न् , उ॒त , भ॒द्रं , अ॒क्र॒न् , सीदं॑तु , गो॒ऽस्थे , र॒णयं॑तु , अ॒स्मे इति॑ । प्र॒जाऽव॑तीः , पु॒रु॒ऽरूपाः॑ , इ॒ह , स्युः॒ , इंद्रा॑य , पू॒र्वीः , उ॒षसः॑ , दुहा॑नाः ॥
इंद्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वं मु॑षायति । भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि॑न्ने खि॒ल्ये नि द॑धाति देव॒युं ॥
इंद्रः॑ , यज्व॑ने , पृ॒ण॒ते , च॒ , शि॒क्ष॒ति॒ , उप॑ , इत् , द॒दा॒ति॒ , न , स्वं , मु॒षा॒य॒ति॒ । भूयः॑ऽभूयः , र॒यिं , इत् , अ॒स्य॒ , व॒र्धय॑न् , अभि॑न्ने , खि॒ल्ये , नि , द॒धा॒ति॒ , दे॒व॒ऽयुं ॥
न ता न॑शंति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति । दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ॥
न , ताः , न॒शं॒ति॒ , न , द॒भा॒ति॒ , तस्क॑रः , न , आ॒सां॒ , आ॒मि॒त्रः , व्यथिः॑ , आ , द॒ध॒र्ष॒ति॒ । दे॒वान् , च॒ , याभिः॑ , यज॑ते , ददा॑ति , च॒ , ज्योक् , इत् , ताभिः॑ , स॒च॒ते॒ , गोऽप॑तिः , स॒ह ॥
न ता अर्वा॑ रे॒णुक॑काटो अश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यंति॒ ता अ॒भि । उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रंति॒ यज्व॑नः ॥
न , ताः , अर्वा॑ , रे॒णुऽक॑काटः , अ॒श्नु॒ते॒ , न , सं॒स्कृ॒त॒ऽत्रं , उप॑ , यं॒ति॒ , ताः , अ॒भि । उ॒रु॒ऽगा॒यं , अभ॑यं , तस्य॑ , ताः , अनु॑ , गावः॑ , मर्त॑स्य , वि , च॒रं॒ति॒ , यज्व॑नः ॥
गावो॒ भगो॒ गाव॒ इंद्रो॑ मे अच्छा॒न्गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः । इ॒मा या गावः॒ स ज॑नास॒ इंद्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिंद्रं॑ ॥
गावः॑ , भगः॑ , गावः॑ , इंद्रः॑ , मे॒ , अ॒च्छा॒न् , गावः॑ , सोम॑स्य , प्र॒थ॒मस्य॑ , भ॒क्षः । इ॒माः , याः , गावः॑ , सः , ज॒ना॒सः॒ , इंद्रः॑ , इ॒च्छामि॑ , इत् , हृ॒दा , मन॑सा , चि॒त् , इंद्रं॑ ॥
यू॒यं गा॑वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कं । भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥
यू॒यं , गा॒वः॒ , मे॒द॒य॒थ॒ , कृ॒शं , चि॒त् , अ॒श्री॒रं , चि॒त् , कृ॒णु॒थ॒ , सु॒ऽप्रती॑कं । भ॒द्रं , गृ॒हं , कृ॒णु॒थ॒ , भ॒द्र॒ऽवा॒चः॒ , बृ॒हत् , वः॒ , वयः॑ , उ॒च्य॒ते॒ , स॒भासु॑ ॥
प्र॒जाव॑तीः सू॒यव॑सं रि॒शंतीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिबं॑तीः । मा वः॑ स्ते॒न ई॑शत॒ माघशं॑सः॒ परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ॥
प्र॒जाऽव॑तीः , सु॒ऽयव॑सं , रि॒शंतीः॑ , शु॒द्धाः , अ॒पः , सु॒ऽप्र॒पा॒ने , पिबं॑तीः । मा , वः॒ , स्ते॒नः , ई॒श॒त॒ , मा , अ॒घऽशं॑सः , परि॑ , वः॒ , हे॒तिः , रु॒द्रस्य॑ , वृ॒ज्याः॒ ॥
उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यतां । उप॑ ऋष॒भस्य॒ रेत॒स्युपें॑द्र॒ तव॑ वी॒र्ये॑ ॥
उप॑ , इ॒दं , उ॒प॒ऽपर्च॑नं , आ॒सु , गोषु॑ , उप॑ , पृ॒च्य॒तां॒ । उप॑ , ऋ॒ष॒भस्य॑ , रेत॑सि , उप॑ , इं॒द्र॒ , तव॑ , वी॒र्ये॑ ॥
[२९] इंद्रंवइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रस्त्रिष्टुप् |
इंद्रं॑ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यंतः॑ सुम॒तये॑ चका॒नाः । म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वं ॥
इंद्रं॑ , वः॒ , नरः॑ , स॒ख्याय॑ , से॒पुः॒ , म॒हः , यंतः॑ , सु॒ऽम॒तये॑ , च॒का॒नाः । म॒हः , हि , दा॒ता , वज्र॑ऽहस्तः , अस्ति॑ , म॒हां , ऊँ॒ इति॑ , र॒ण्वं , अव॑से , य॒ज॒ध्वं॒ ॥
आ यस्मि॒न्हस्ते॒ नर्या॑ मिमि॒क्षुरा रथे॑ हिर॒ण्यये॑ रथे॒ष्ठाः । आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा॑सो॒ वृष॑णो युजा॒नाः ॥
आ , यस्मि॑न् , हस्ते॑ , नर्याः॑ , मि॒मि॒क्षुः , आ , रथे॑ , हि॒र॒ण्यये॑ , र॒थे॒ऽस्थाः । आ , र॒श्मयः॑ , गभ॑स्त्योः , स्थू॒रयोः॑ , आ , अध्व॑न् , अश्वा॑सः , वृष॑णः , यु॒जा॒नाः ॥
श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् । वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नृ॑तविषि॒रो ब॑भूथ ॥
श्रि॒ये , ते॒ , पादा॑ , दुवः॑ , आ , मि॒मि॒क्षुः॒ , धृ॒ष्णुः , व॒ज्री , शव॑सा , दक्षि॑णऽवान् । वसा॑नः , अत्कं॑ , सु॒र॒भिं , दृ॒शे , कं , स्वः॑ , न , नृ॒तो॒ इति॑ , इ॒षि॒रः , ब॒भू॒थ॒ ॥
स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि॑न्प॒क्तिः प॒च्यते॒ संति॑ धा॒नाः । इंद्रं॒ नरः॑ स्तु॒वंतो॑ ब्रह्मका॒रा उ॒क्था शंसं॑तो दे॒ववा॑ततमाः ॥
सः , सोमः॑ , आमि॑श्लऽतमः , सु॒तः , भू॒त् , यस्मि॑न् , प॒क्तिः , प॒च्यते॑ , संति॑ , धा॒नाः । इंद्रं॑ , नरः॑ , स्तु॒वंतः॑ , ब्र॒ह्म॒ऽका॒राः , उ॒क्था , शंसं॑तः , दे॒ववा॑तऽतमाः ॥
न ते॒ अंतः॒ शव॑सो धाय्य॒स्य वि तु बा॑बधे॒ रोद॑सी महि॒त्वा । आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ॥
न , ते॒ , अंतः॑ , शव॑सः , धा॒यि॒ , अ॒स्य , वि , तु , बा॒ब॒धे॒ , रोद॑सी॒ इति॑ , म॒हि॒ऽत्वा । आ , ता , सू॒रिः , पृ॒ण॒ति॒ , तूतु॑जानः , यू॒थाऽइ॑व , अ॒प्ऽसु , सं॒ऽईज॑मानः , ऊ॒ती ॥
ए॒वेदिंद्रः॑ सु॒हव॑ ऋ॒ष्वो अ॑स्तू॒ती अनू॑ती हिरिशि॒प्रः सत्वा॑ । ए॒वा हि जा॒तो अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ॥
ए॒व , इत् , इंद्रः॑ , सु॒ऽहवः॑ , ऋ॒ष्वः , अ॒स्तु॒ , ऊ॒ती , अनू॑ती , हि॒रि॒ऽशि॒प्रः , सत्वा॑ । ए॒व , हि , जा॒तः , अस॑मातिऽओजाः , पु॒रु , च॒ , वृ॒त्रा , ह॒न॒ति॒ , नि , दस्यू॑न् ॥
[३०] भूयइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
भूय॒ इद्वा॑वृधे वी॒र्या॑यँ॒ एको॑ अजु॒र्यो द॑यते॒ वसू॑नि । प्र रि॑रिचे दि॒व इंद्रः॑ पृथि॒व्या अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी उ॒भे ॥
भूयः॑ , इत् , व॒वृ॒धे॒ , वी॒र्या॑य , एकः॑ , अ॒जु॒र्यः , द॒य॒ते॒ , वसू॑नि । प्र , रि॒रि॒चे॒ , दि॒वः , इंद्रः॑ , पृ॒थि॒व्याः , अ॒र्धं , इत् , अ॒स्य॒ , प्रति॑ , रोद॑सी॒ इति॑ , उ॒भे इति॑ ॥
अधा॑ मन्ये बृ॒हद॑सु॒र्य॑मस्य॒ यानि॑ दा॒धार॒ नकि॒रा मि॑नाति । दि॒वेदि॑वे॒ सूर्यो॑ दर्श॒तो भू॒द्वि सद्मा॑न्युर्वि॒या सु॒क्रतु॑र्धात् ॥
अध॑ , म॒न्ये॒ , बृ॒हत् , अ॒सु॒र्यं॑ , अ॒स्य॒ , यानि॑ , दा॒धार॑ , नकिः॑ , आ , मि॒ना॒ति॒ । दि॒वेऽदि॑वे , सूर्यः॑ , द॒र्श॒तः , भू॒त् , वि , सद्मा॑नि , उ॒र्वि॒या , सु॒ऽक्रतुः॑ , धा॒त् ॥
अ॒द्या चि॒न्नू चि॒त्तदपो॑ न॒दीनां॒ यदा॑भ्यो॒ अर॑दो गा॒तुमिं॑द्र । नि पर्व॑ता अद्म॒सदो॒ न से॑दु॒स्त्वया॑ दृ॒ळ्हानि॑ सुक्रतो॒ रजां॑सि ॥
अ॒द्य , चि॒त् , नु , चि॒त् , तत् , अपः॑ , न॒दीनां॑ , यत् , आ॒भ्यः॒ , अर॑दः , गा॒तुं , इं॒द्र॒ । नि , पर्व॑ताः , अ॒द्म॒ऽसदः॑ , न , से॒दुः॒ , त्वया॑ , दृ॒ळ्हानि॑ , सु॒क्र॒तो॒ इति॑ सुऽक्रतो , रजां॑सि ॥
स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अ॒स्तींद्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् । अह॒न्नहिं॑ परि॒शया॑न॒मर्णोऽवा॑सृजो अ॒पो अच्छा॑ समु॒द्रं ॥
स॒त्यं , इत् , तत् , न , त्वाऽवा॑न् , अ॒न्यः , अ॒स्ति॒ , इंद्र॑ , दे॒वः , न , मर्त्यः॑ , ज्याया॑न् । अह॑न् , अहिं॑ , प॒रि॒ऽशया॑नं , अर्णः॑ , अव॑ , अ॒सृ॒जः॒ , अ॒पः , अच्छ॑ , स॒मु॒द्रं ॥
त्वम॒पो वि दुरो॒ विषू॑ची॒रिंद्र॑ दृ॒ळ्हम॑रुजः॒ पर्व॑तस्य । राजा॑भवो॒ जग॑तश्चर्षणी॒नां सा॒कं सूर्यं॑ ज॒नयं॒द्यामु॒षासं॑ ॥
त्वं , अ॒पः , वि , दुरः॑ , विषू॑चीः , इंद्र॑ , दृ॒ळ्हं , अ॒रु॒जः॒ , पर्व॑तस्य । राजा॑ , अ॒भ॒वः॒ , जग॑तः , च॒र्ष॒णी॒नां , सा॒कं , सूर्यं॑ , ज॒नय॑न् , द्यां , उ॒षसं॑ ॥
[३१] अभूरेकइति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् चतुर्थीशक्वरी (सुहोत्रः शुनहोत्रोनरो गर्गऋजिश्वाइत्येते ऋषयोबृहस्पतेः पौत्राउतदौष्षंतेर्भरतस्य पौत्रा इति विषयेइतिहासः श्रूयते) |
अभू॒रेको॑ रयिपते रयी॒णामा हस्त॑योरधिथा इंद्र कृ॒ष्टीः । वि तो॒के अ॒प्सु तन॑ये च॒ सूरेऽवो॑चंत चर्ष॒णयो॒ विवा॑चः ॥
अभूः॑ , एकः॑ , र॒यि॒ऽप॒ते॒ , र॒यी॒णां , आ , हस्त॑योः , अ॒धि॒थाः॒ , इं॒द्र॒ , कृ॒ष्टीः । वि , तो॒के , अ॒प्ऽसु , तन॑ये , च॒ , सूरे॑ , अवो॑चंत , च॒र्ष॒णयः॑ , विऽवा॑चः ॥
त्वद्भि॒येंद्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयंते॒ रजां॑सि । द्यावा॒क्षामा॒ पर्व॑तासो॒ वना॑नि॒ विश्वं॑ दृ॒ळ्हं भ॑यते॒ अज्म॒न्ना ते॑ ॥
त्वत् , भि॒या , इं॒द्र॒ , पार्थि॑वानि , विश्वा॑ , अच्यु॑ता , चि॒त् , च्य॒व॒यं॒ते॒ , रजां॑सि । द्यावा॒क्षामा॑ , पर्व॑तासः , वना॑नि , विश्वं॑ , दृ॒ळ्हं , भ॒य॒ते॒ , अज्म॑न् , आ , ते॒ ॥
त्वं कुत्से॑ना॒भि शुष्ण॑मिंद्रा॒शुषं॑ युध्य॒ कुय॑वं॒ गवि॑ष्टौ । दश॑ प्रपि॒त्वे अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां॑सि ॥
त्वं , कुत्से॑न , अ॒भि , शुष्णं॑ , इं॒द्र॒ , अ॒शुषं॑ , यु॒ध्य॒ , कुय॑वं , गोऽइ॑ष्टौ । दश॑ , प्र॒ऽपि॒त्वे , अध॑ , सूर्य॑स्य , मु॒षा॒यः , च॒क्रं , अवि॑वेः , रपां॑सि ॥
त्वं श॒तान्यव॒ शंब॑रस्य॒ पुरो॑ जघंथाप्र॒तीनि॒ दस्योः॑ । अशि॑क्षो॒ यत्र॒ शच्या॑ शचीवो॒ दिवो॑दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा॑जाय गृण॒ते वसू॑नि ॥
त्वं , श॒तानि॑ , अव॑ , शंब॑रस्य , पुरः॑ , ज॒घं॒थ॒ , अ॒प्र॒तीनि॑ , दस्योः॑ । अशि॑क्षः , यत्र॑ , शच्या॑ , श॒ची॒ऽवः॒ , दिवः॑ऽदासाय , सु॒न्व॒ते , सु॒त॒ऽक्रे॒ , भ॒रत्ऽवा॑जाय , गृ॒ण॒ते , वसू॑नि ॥
स स॑त्यसत्वन्मह॒ते रणा॑य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मं । या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्यः॑ ॥
सः , स॒त्य॒ऽस॒त्व॒न् , म॒ह॒ते , रणा॑य , रथं॑ , आ , ति॒ष्ठ॒ , तु॒वि॒ऽनृ॒म्ण॒ , भी॒मं । या॒हि , प्र॒ऽप॒थि॒न् , अव॑सा , उप॑ , म॒द्रिक् , प्र , च॒ , श्रु॒त॒ , श्र॒व॒य॒ , च॒र्ष॒णिऽभ्यः॑ ॥
[३२] अपूर्व्येति पंचर्चस्य सूक्तस्य भारद्वाजः सुहोत्रइंद्रस्त्रिष्टुप् |
अपू॑र्व्या पुरु॒तमा॑न्यस्मै म॒हे वी॒राय॑ त॒वसे॑ तु॒राय॑ । वि॒र॒प्शिने॑ व॒ज्रिणे॒ शंत॑मानि॒ वचां॑स्या॒सा स्थवि॑राय तक्षं ॥
अपू॑र्व्या , पु॒रु॒ऽतमा॑नि , अ॒स्मै॒ , म॒हे , वी॒राय॑ , त॒वसे॑ , तु॒राय॑ । वि॒ऽर॒प्शिने॑ , व॒ज्रिणे॑ , शंऽत॑मानि , वचां॑सि , आ॒सा , स्थवि॑राय , त॒क्षं॒ ॥
स मा॒तरा॒ सूर्ये॑णा कवी॒नामवा॑सयद्रु॒जदद्रिं॑ गृणा॒नः । स्वा॒धीभि॒र्ऋक्व॑भिर्वावशा॒न उदु॒स्रिया॑णामसृजन्नि॒दानं॑ ॥
सः , मा॒तरा॑ , सूर्ये॑ण , क॒वी॒नां , अवा॑सयत् , रु॒जत् , अद्रिं॑ , गृ॒णा॒नः । सु॒ऽआ॒धीभिः॑ , ऋक्व॑ऽभिः , वा॒व॒शा॒नः , उत् , उ॒स्रिया॑णां , अ॒सृ॒ज॒त् , नि॒ऽदानं॑ ॥
स वह्नि॑भि॒र्ऋक्व॑भि॒र्गोषु॒ शश्व॑न्मि॒तज्ञु॑भिः पुरु॒कृत्वा॑ जिगाय । पुरः॑ पुरो॒हा सखि॑भिः सखी॒यंदृ॒ळ्हा रु॑रोज क॒विभिः॑ क॒विः सन् ॥
सः , वह्नि॑ऽभिः , ऋक्व॑ऽभिः , गोषु॑ , शश्व॑त् , मि॒तज्ञु॑ऽभिः , पु॒रु॒ऽकृत्वा॑ , जि॒गा॒य॒ । पुरः॑ , पु॒रः॒ऽहा , सखि॑ऽभिः , स॒खि॒ऽयन् , दृ॒ळ्हाः , रु॒रो॒ज॒ , क॒विऽभिः॑ , क॒विः , सन् ॥
स नी॒व्या॑भिर्जरि॒तार॒मच्छा॑ म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मैः॑ । पु॒रु॒वीरा॑भिर्वृषभ क्षिती॒नामा गि॑र्वणः सुवि॒ताय॒ प्र या॑हि ॥
सः , नी॒व्या॑भिः , ज॒रि॒तारं॑ , अच्छ॑ , म॒हः , वाजे॑भिः , म॒हत्ऽभिः॑ , च॒ , शुष्मैः॑ । पु॒रु॒ऽवीरा॑भिः , वृ॒ष॒भ॒ , क्षि॒ती॒नां , आ , गि॒र्व॒णः॒ , सु॒वि॒ताय॑ , प्र , या॒हि॒ ॥
स सर्गे॑ण॒ शव॑सा त॒क्तो अत्यै॑र॒प इंद्रो॑ दक्षिण॒तस्तु॑रा॒षाट् । इ॒त्था सृ॑जा॒ना अन॑पावृ॒दर्थं॑ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यं ॥
सः , सर्गे॑ण , शव॑सा , त॒क्तः , अत्यैः॑ , अ॒पः , इंद्रः॑ , द॒क्षि॒ण॒तः , तु॒रा॒षाट् । इ॒त्था , सृ॒जा॒नाः , अन॑पऽवृत् , अर्थं॑ , दि॒वेऽदि॑वे , वि॒वि॒षुः॒ , अ॒प्र॒ऽमृ॒ष्यं ॥
[३३] यओजिष्ठइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र इंद्रस्त्रिष्टुप् |
य ओजि॑ष्ठ इंद्र॒ तं सु नो॑ दा॒ मदो॑ वृषंत्स्वभि॒ष्टिर्दास्वा॑न् । सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो॑ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ॥
यः , ओजि॑ष्ठः , इं॒द्र॒ , तं , सु , नः॒ , दाः॒ , मदः॑ , वृ॒ष॒न् , सु॒ऽअ॒भि॒ष्टिः , दास्वा॑न् । सौव॑श्व्यं , यः , व॒नव॑त् , सु॒ऽअश्वः॑ , वृ॒त्रा , स॒मत्ऽसु॑ , स॒सह॑त् , अ॒मित्रा॑न् ॥
त्वां ही॒३॒॑न्द्राव॑से॒ विवा॑चो॒ हवं॑ते चर्ष॒णयः॒ शूर॑सातौ । त्वं विप्रे॑भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा॑ ॥
त्वां , हि , इं॒द्र॒ , अव॑से , विऽवा॑चः , हवं॑ते , च॒र्ष॒णयः॑ , शूर॑ऽसातौ । त्वं , विप्रे॑भिः , वि , प॒णीन् , अ॒शा॒यः॒ , त्वाऽऊ॑तः , इत् , सनि॑ता , वाजं॑ , अर्वा॑ ॥
त्वं ताँ इं॑द्रो॒भयाँ॑ अ॒मित्रां॒दासा॑ वृ॒त्राण्यार्या॑ च शूर । वधी॒र्वने॑व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ॥
त्वं , तान् , इं॒द्र॒ , उ॒भया॑न् , अ॒मित्रा॑न् , दासा॑ , वृ॒त्राणि॑ , आर्या॑ , च॒ , शू॒र॒ । वधीः॑ , वना॑ऽइव , सुऽधि॑तेभिः , अत्कैः॑ , आ , पृ॒त्ऽसु , द॒र्षि॒ , नृ॒णां , नृ॒ऽत॒म॒ ॥
स त्वं न॑ इं॒द्राक॑वाभिरू॒ती सखा॑ वि॒श्वायु॑रवि॒ता वृ॒धे भूः॑ । स्व॑र्षाता॒ यद्ध्वया॑मसि त्वा॒ युध्यं॑तो ने॒मधि॑ता पृ॒त्सु शू॑र ॥
सः , त्वं , नः॒ , इं॒द्र॒ , अक॑वाभिः , ऊ॒ती , सखा॑ , वि॒श्वऽआ॑युः , अ॒वि॒ता , वृ॒धे , भूः॒ । स्वः॑ऽसाता , यत् , ह्वया॑मसि , त्वा॒ , युध्यं॑तः , ने॒मऽधि॑ता , पृ॒त्ऽसु , शू॒र॒ ॥
नू॒नं न॑ इंद्राप॒राय॑ च स्या॒ भवा॑ मृळी॒क उ॒त नो॑ अ॒भिष्टौ॑ । इ॒त्था गृ॒णंतो॑ म॒हिन॑स्य॒ शर्मं॑दि॒वि ष्या॑म॒ पार्ये॑ गो॒षत॑माः ॥
नू॒नं , नः॒ , इं॒द्र॒ , अ॒प॒राय॑ , च॒ , स्याः॒ , भव॑ , मृ॒ळी॒कः , उ॒त , नः॒ , अ॒भिष्टौ॑ । इ॒त्था , गृ॒णंतः॑ , म॒हिन॑स्य , शर्म॑न् , दि॒वि , स्या॒म॒ , पार्ये॑ , गो॒सऽत॑माः ॥
[३४] संचत्वइति पंचर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र-इंद्रस्त्रिष्टुप् |
सं च॒ त्वे ज॒ग्मुर्गिर॑ इंद्र पू॒र्वीर्वि च॒ त्वद्यं॑ति वि॒भ्वो॑ मनी॒षाः । पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी॑णां पस्पृ॒ध्र इंद्रे॒ अध्यु॑क्था॒र्का ॥
सं , च॒ , त्वे इति॑ , ज॒ग्मुः , गिरः॑ , इं॒द्र॒ , पू॒र्वीः , वि , च॒ , त्वत् , यं॒ति॒ , वि॒ऽभ्वः॑ , म॒नी॒षाः । पु॒रा , नू॒नं , च॒ , स्तु॒तयः॑ , ऋषी॑णां , प॒स्पृ॒ध्रे , इंद्रे॑ , अधि॑ , उ॒क्थ॒ऽअ॒र्का ॥
पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒ एकः॑ पुरुप्रश॒स्तो अस्ति॑ य॒ज्ञैः । रथो॒ न म॒हे शव॑से युजा॒नो॒३॒॑ऽस्माभि॒रिंद्रो॑ अनु॒माद्यो॑ भूत् ॥
पु॒रु॒ऽहू॒तः , यः , पु॒रु॒ऽगू॒र्तः , ऋभ्वा॑ , एकः॑ , पु॒रु॒ऽप्र॒श॒स्तः , अस्ति॑ , य॒ज्ञैः । रथः॑ , न , म॒हे , शव॑से , यु॒जा॒नः , अ॒स्माभिः॑ , इंद्रः॑ , अ॒नु॒ऽमाद्यः॑ , भू॒त् ॥
न यं हिंसं॑ति धी॒तयो॒ न वाणी॒रिंद्रं॒ नक्षं॒तीद॒भि व॒र्धयं॑तीः । यदि॑ स्तो॒तारः॑ श॒तं यत्स॒हस्रं॑ गृ॒णंति॒ गिर्व॑णसं॒ शं तद॑स्मै ॥
न , यं , हिंसं॑ति , धी॒तयः॑ , न , वाणीः॑ , इंद्रं॑ , नक्षं॑ति , इत् , अ॒भि , व॒र्धयं॑तीः । यदि॑ , स्तो॒तारः॑ , श॒तं , यत् , स॒हस्रं॑ , गृ॒णंति॑ , गिर्व॑णसं , शं , तत् , अ॒स्मै॒ ॥
अस्मा॑ ए॒तद्दि॒व्य१॒॑र्चेव॑ मा॒सा मि॑मि॒क्ष इंद्रे॒ न्य॑यामि॒ सोमः॑ । जनं॒ न धन्व॑न्न॒भि सं यदापः॑ स॒त्रा वा॑वृधु॒र्हव॑नानि य॒ज्ञैः ॥
अस्मै॑ , ए॒तत् , दि॒वि , अ॒र्चाऽइ॑व , मा॒सा , मि॒मि॒क्षः , इंद्रे॑ , नि , अ॒या॒मि॒ , सोमः॑ । जनं॑ , न , धन्व॑न् , अ॒भि , सं , यत् , आपः॑ , स॒त्रा , व॒वृ॒धुः॒ , हव॑नानि , य॒ज्ञैः ॥
अस्मा॑ ए॒तन्मह्यां॑गू॒षम॑स्मा॒ इंद्रा॑य स्तो॒त्रं म॒तिभि॑रवाचि । अस॒द्यथा॑ मह॒ति वृ॑त्र॒तूर्य॒ इंद्रो॑ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ॥
अस्मै॑ , ए॒तत् , महि॑ , आं॒गू॒षं , अ॒स्मै॒ , इंद्रा॑य , स्तो॒त्रं , म॒तिऽभिः॑ , अ॒वा॒चि॒ । अस॑त् , यथा॑ , म॒ह॒ति , वृ॒त्र॒ऽतूर्ये॑ , इंद्रः॑ , वि॒श्वऽआ॑युः , अ॒वि॒ता , वृ॒धः॒ , च॒ ॥
[३५] कदाभुवन्निति पंचर्चस्य सूक्तस्य भारद्वाजोनर इंद्रस्त्रिष्टुप् |
क॒दा भु॑व॒न्रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तो॒त्रे स॑हस्रपो॒ष्यं॑ दाः । क॒दा स्तोमं॑ वासयोऽस्य रा॒या क॒दा धियः॑ करसि॒ वाज॑रत्नाः ॥
क॒दा , भु॒व॒न् , रथ॑ऽक्षयाणि , ब्रह्म॑ , क॒दा , स्तो॒त्रे , स॒ह॒स्र॒ऽपो॒ष्यं॑ , दाः॒ । क॒दा , स्तोमं॑ , वा॒स॒यः॒ , अ॒स्य॒ , रा॒या , क॒दा , धियः॑ , क॒र॒सि॒ , वाज॑ऽरत्नाः ॥
कर्हि॑ स्वि॒त्तदिं॑द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया॑से॒ जया॒जीन् । त्रि॒धातु॒ गा अधि॑ जयासि॒ गोष्विंद्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥
कर्हि॑ , स्वि॒त् , तत् , इं॒द्र॒ , यत् , नृऽभिः॑ , नॄन् , वी॒रैः , वी॒रान् , नी॒ळया॑से , जय॑ , आ॒जीन् । त्रि॒ऽधातु॑ , गाः , अधि॑ , ज॒या॒सि॒ , गोषु॑ , इंद्र॑ , द्यु॒म्नं , स्वः॑ऽवत् , धे॒हि॒ , अ॒स्मे इति॑ ॥
कर्हि॑ स्वि॒त्तदिं॑द्र॒ यज्ज॑रि॒त्रे वि॒श्वप्सु॒ ब्रह्म॑ कृ॒णवः॑ शविष्ठ । क॒दा धियो॒ न नि॒युतो॑ युवासे क॒दा गोम॑घा॒ हव॑नानि गच्छाः ॥
कर्हि॑ , स्वि॒त् , तत् , इं॒द्र॒ , यत् , ज॒रि॒त्रे , वि॒श्वऽप्सु॑ , ब्रह्म॑ , कृ॒णवः॑ , श॒वि॒ष्ठ॒ । क॒दा , धियः॑ , न , नि॒ऽयुतः॑ , यु॒वा॒से॒ , क॒दा , गोऽम॑घा , हव॑नानि , ग॒च्छाः॒ ॥
स गोम॑घा जरि॒त्रे अश्व॑श्चंद्रा॒ वाज॑श्रवसो॒ अधि॑ धेहि॒ पृक्षः॑ । पी॒पि॒हीषः॑ सु॒दुघा॑मिंद्र धे॒नुं भ॒रद्वा॑जेषु सु॒रुचो॑ रुरुच्याः ॥
सः , गोऽम॑घाः , ज॒रि॒त्रे , अश्व॑ऽचंद्राः , वाज॑ऽश्रवसः , अधि॑ , धे॒हि॒ , पृक्षः॑ । पी॒पि॒हि , इषः॑ , सु॒ऽदुघां॑ , इं॒द्र॒ , धे॒नुं , भ॒रत्ऽवा॑जेषु , सु॒ऽरुचः॑ , रु॒रु॒च्याः॒ ॥
तमा नू॒नं वृ॒जन॑म॒न्यथा॑ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो॑ गृणी॒षे । मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरां॑गिर॒सान्ब्रह्म॑णा विप्र जिन्व ॥
तं , आ , नू॒नं , वृ॒जनं॑ , अ॒न्यथा॑ , चि॒त् , शूरः॑ , यत् , श॒क्र॒ , वि , दुरः॑ , गृ॒णी॒षे । मा , निः , अ॒रं॒ , शु॒क्र॒ऽदुघ॑स्य , धे॒नोः , आं॒गि॒र॒सान् , ब्रह्म॑णा , वि॒प्र॒ , जि॒न्व॒ ॥
[३६] सत्रामदासइति पंचर्चस्य सूक्तस्य भारद्वाजोनरइंद्रस्त्रिष्टुप् |
स॒त्रा मदा॑स॒स्तव॑ वि॒श्वज॑न्याः स॒त्रा रायोऽध॒ ये पार्थि॑वासः । स॒त्रा वाजा॑नामभवो विभ॒क्ता यद्दे॒वेषु॑ धा॒रय॑था असु॒र्यं॑ ॥
स॒त्रा , मदा॑सः , तव॑ , वि॒श्वऽज॑न्याः , स॒त्रा , रायः॑ , अध॑ , ये , पार्थि॑वासः । स॒त्रा , वाजा॑नां , अ॒भ॒वः॒ , वि॒ऽभ॒क्ता , यत् , दे॒वेषु॑ , धा॒रय॑थाः , अ॒सु॒र्यं॑ ॥
अनु॒ प्र ये॑जे॒ जन॒ ओजो॑ अस्य स॒त्रा द॑धिरे॒ अनु॑ वी॒र्या॑य । स्यू॒म॒गृभे॒ दुध॒येऽर्व॑ते च॒ क्रतुं॑ वृंजं॒त्यपि॑ वृत्र॒हत्ये॑ ॥
अनु॑ , प्र , ये॒जे॒ , जनः॑ , ओजः॑ , अ॒स्य॒ , स॒त्रा , द॒धि॒रे॒ , अनु॑ , वी॒र्या॑य । स्यू॒म॒ऽगृभे॑ , दुध॑ये , अर्व॑ते , च॒ , क्रतुं॑ , वृं॒जं॒ति॒ , अपि॑ , वृ॒त्र॒ऽहत्ये॑ ॥
तं स॒ध्रीची॑रू॒तयो॒ वृष्ण्या॑नि॒ पौंस्या॑नि नि॒युतः॑ सश्चु॒रिंद्रं॑ । स॒मु॒द्रं न सिंध॑व उ॒क्थशु॑ष्मा उरु॒व्यच॑सं॒ गिर॒ आ वि॑शंति ॥
तं , स॒ध्रीचीः॑ , ऊ॒तयः॑ , वृष्ण्या॑नि , पौंस्या॑नि , नि॒ऽयुतः॑ , स॒श्चुः॒ , इंद्रं॑ । स॒मु॒द्रं , न , सिंध॑वः , उ॒क्थऽशु॑ष्माः , उ॒रु॒ऽव्यच॑सं , गिरः॑ , आ , वि॒शं॒ति॒ ॥
स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्चं॒द्रस्य॒ त्वमिं॑द्र॒ वस्वः॑ । पति॑र्बभू॒थास॑मो॒ जना॑ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥
सः , रा॒यः , खां , उप॑ , सृ॒ज॒ , गृ॒णा॒नः , पु॒रु॒ऽचं॒द्रस्य॑ , त्वं , इं॒द्र॒ , वस्वः॑ । पतिः॑ , ब॒भू॒थ॒ , अस॑मः , जना॑नां , एकः॑ , विश्व॑स्य , भुव॑नस्य , राजा॑ ॥
स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो॑ अ॒र्यः । असो॒ यथा॑ नः॒ शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः ॥
सः , तु , श्रु॒धि॒ , श्रुत्या॑ , यः , दु॒वः॒ऽयुः , द्यौः , न , भूम॑ , अ॒भि , रायः॑ , अ॒र्यः । असः॑ , यथा॑ , नः॒ , शव॑सा , च॒का॒नः , यु॒गेऽयु॑गे , वय॑सा , चेकि॑तानः ॥
[३७] अर्वाग्रथमिति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः इंद्रस्त्रिष्टुप् |
अ॒र्वाग्रथं॑ वि॒श्ववा॑रं त उ॒ग्रेंद्र॑ यु॒क्तासो॒ हर॑यो वहंतु । की॒रिश्चि॒द्धि त्वा॒ हव॑ते॒ स्व॑र्वानृधी॒महि॑ सध॒माद॑स्ते अ॒द्य ॥
अ॒र्वाक् , रथं॑ , वि॒श्वऽवा॑रं , ते॒ , उ॒ग्र॒ , इंद्र॑ , यु॒क्तासः॑ , हर॑यः , व॒हं॒तु॒ । की॒रिः , चि॒त् , हि , त्वा॒ , हव॑ते , स्वः॑ऽवान् , ऋ॒धी॒महि॑ , स॒ध॒ऽमादः॑ , ते॒ , अ॒द्य ॥
प्रो द्रोणे॒ हर॑यः॒ कर्मा॑ग्मन्पुना॒नास॒ ऋज्यं॑तो अभूवन् । इंद्रो॑ नो अ॒स्य पू॒र्व्यः प॑पीयाद्द्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा॑ ॥
प्रो इति॑ , द्रोणे॑ , हर॑यः , कर्म॑ , अ॒ग्म॒न् , पु॒ना॒नासः॑ , ऋज्यं॑तः , अ॒भू॒व॒न् । इंद्रः॑ , नः॒ , अ॒स्य , पू॒र्व्यः , पा॒पी॒या॒त् , द्यु॒क्षः , मद॑स्य , सो॒म्यस्य॑ , राजा॑ ॥
आ॒स॒स्रा॒णासः॑ शवसा॒नमच्छेंद्रं॑ सुच॒क्रे र॒थ्या॑सो॒ अश्वाः॑ । अ॒भि श्रव॒ ऋज्यं॑तो वहेयु॒र्नू चि॒न्नु वा॒योर॒मृतं॒ वि द॑स्येत् ॥
आ॒ऽस॒स्रा॒णासः॑ , श॒व॒सा॒नं , अच्छ॑ , इंद्रं॑ , सु॒ऽच॒क्रे , र॒थ्या॑सः , अश्वाः॑ । अ॒भि , श्रवः॑ , ऋज्यं॑तः , व॒हे॒युः॒ , नु , चि॒त् , नु , वा॒योः , अ॒मृतं॑ , वि , द॒स्ये॒त् ॥
वरि॑ष्ठो अस्य॒ दक्षि॑णामिय॒र्तींद्रो॑ म॒घोनां॑ तुविकू॒र्मित॑मः । यया॑ वज्रिवः परि॒यास्यंहो॑ म॒घा च॑ धृष्णो॒ दय॑से॒ वि सू॒रीन् ॥
वरि॑ष्ठः , अ॒स्य॒ , दक्षि॑णां , इ॒य॒र्ति॒ , इंद्रः॑ , म॒घोनां॑ , तु॒वि॒कू॒र्मिऽत॑मः । यया॑ , व॒ज्रि॒ऽवः॒ , प॒रि॒ऽयासि॑ , अंहः॑ , म॒घा , च॒ , धृ॒ष्णो॒ इति॑ , दय॑से , वि , सू॒रीन् ॥
इंद्रो॒ वाज॑स्य॒ स्थवि॑रस्य दा॒तेंद्रो॑ गी॒र्भिर्व॑र्धतां वृ॒द्धम॑हाः । इंद्रो॑ वृ॒त्रं हनि॑ष्ठो अस्तु॒ सत्वा ता सू॒रिः पृ॑णति॒ तूतु॑जानः ॥
इंद्रः॑ , वाज॑स्य , स्थवि॑रस्य , दा॒ता , इंद्रः॑ , गीः॒ऽभिः , व॒र्ध॒तां॒ , वृ॒द्धऽम॑हाः । इंद्रः॑ , वृ॒त्रं , हनि॑ष्ठः , अ॒स्तु॒ , सत्वा॑ , आ , ता , सू॒रिः , पृ॒ण॒ति॒ , तूतु॑जानः ॥
[३८] अपादितइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
अपा॑दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिंद्र॑हूतिं । पन्य॑सीं धी॒तिं दैव्य॑स्य॒ यामं॒जन॑स्य रा॒तिं व॑नते सु॒दानुः॑ ॥
अपा॑त् , इ॒तः , उत् , ऊँ॒ इति॑ , नः॒ , चि॒त्रऽत॑मः , म॒हीं , भ॒र्ष॒त् , द्यु॒ऽमतीं॑ , इंद्र॑ऽहूतिं । पन्य॑सीं , धी॒तिं , दैव्य॑स्य , याम॑न् , जन॑स्य , रा॒तिं , व॒न॒ते॒ , सु॒ऽदानुः॑ ॥
दू॒राच्चि॒दा व॑सतो अस्य॒ कर्णा॒ घोषा॒दिंद्र॑स्य तन्यति ब्रुवा॒णः । एयमे॑नं दे॒वहू॑तिर्ववृत्यान्म॒द्र्य१॒॑गिंद्र॑मि॒यमृ॒च्यमा॑ना ॥
दू॒रात् , चि॒त् , आ , व॒स॒तः॒ , अ॒स्य॒ , कर्णा॑ , घोषा॑त् , इंद्र॑स्य , त॒न्य॒ति॒ , ब्रु॒वा॒णः । आ , इ॒यं , ए॒नं॒ , दे॒वऽहू॑तिः , व॒वृ॒त्या॒त् , म॒द्र्य॑क् , इंद्रं॑ , इ॒यं , ऋ॒च्यमा॑ना ॥
तं वो॑ धि॒या प॑र॒मया॑ पुरा॒जाम॒जर॒मिंद्र॑म॒भ्य॑नूष्य॒र्कैः । ब्रह्मा॑ च॒ गिरो॑ दधि॒रे सम॑स्मिन्म॒हाँश्च॒ स्तोमो॒ अधि॑ वर्ध॒दिंद्रे॑ ॥
तं , वः॒ , धि॒या , प॒र॒मया॑ , पु॒रा॒ऽजां , अ॒जरं॑ , इंद्रं॑ , अ॒भि , अ॒नू॒षि॒ , अ॒र्कैः । ब्रह्म॑ , च॒ , गिरः॑ , द॒धि॒रे , सं , अ॒स्मि॒न् , म॒हान् , च॒ , स्तोमः॑ , अधि॑ , व॒र्ध॒त् , इंद्रे॑ ॥
वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इंद्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ । वर्धाहै॑नमु॒षसो॒ याम॑न्न॒क्तोर्वर्धा॒न्मासाः॑ श॒रदो॒ द्याव॒ इंद्रं॑ ॥
वर्धा॑त् , यं , य॒ज्ञः , उ॒त , सोमः॑ , इंद्रं॑ , वर्धा॑त् , ब्रह्म॑ , गिरः॑ , उ॒क्था , च॒ , मन्म॑ । वर्ध॑ , अह॑ , ए॒नं॒ , उ॒षसः॑ , याम॑न् , अ॒क्तोः , वर्धा॑न् , मासाः॑ , श॒रदः॑ , द्यावः॑ , इंद्रं॑ ॥
ए॒वा ज॑ज्ञा॒नं सह॑से॒ असा॑मि वावृधा॒नं राध॑से च श्रु॒ताय॑ । म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये॑षु ॥
ए॒व , ज॒ज्ञा॒नं , सह॑से , असा॑मि , व॒वृ॒धा॒नं , राध॑से , च॒ , श्रु॒ताय॑ । म॒हां , उ॒ग्रं , अव॑से , वि॒प्र॒ , नू॒नं , आ , वि॒वा॒से॒म॒ , वृ॒त्र॒ऽतूर्ये॑षु ॥
[३९] मंद्रस्य कवेरितिपंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
मं॒द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑ । अपा॑ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो॑ युवस्व गृण॒ते गोअ॑ग्राः ॥
मं॒द्रस्य॑ , क॒वेः , दि॒व्यस्य॑ , वह्नेः॑ , विप्र॑ऽमन्मनः , व॒च॒नस्य॑ , मध्वः॑ । अपाः॑ , नः॒ , तस्य॑ , स॒च॒नस्य॑ , दे॒व॒ , इषः॑ , यु॒व॒स्व॒ , गृ॒ण॒ते , गोऽअ॑ग्राः ॥
अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा ऋ॒तधी॑तिभिर्ऋत॒युग्यु॑जा॒नः । रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं॑ प॒णीँर्वचो॑भिर॒भि यो॑ध॒दिंद्रः॑ ॥
अ॒यं , उ॒शा॒नः , परि॑ , अद्रिं॑ , उ॒स्राः , ऋ॒तधी॑तिऽभिः , ऋ॒त॒ऽयुक् , यु॒जा॒नः । रु॒जत् , अरु॑ग्णं , वि , व॒लस्य॑ , सानुं॑ , प॒णीन् , वचः॑ऽभिः , अ॒भि , यो॒ध॒त् , इंद्रः॑ ॥
अ॒यं द्यो॑तयद॒द्युतो॒ व्य१॒॑क्तूंदो॒षा वस्तोः॑ श॒रद॒ इंदु॑रिंद्र । इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ॥
अ॒यं , द्यो॒त॒य॒त् , अ॒द्युतः॑ , वि , अ॒क्तून् , दो॒षा , वस्तोः॑ , श॒रदः॑ , इंदुः॑ , इं॒द्र॒ । इ॒मं , के॒तुं , अ॒द॒धुः॒ , नु , चि॒त् , अह्नां॑ , शुचि॑ऽजन्मनः , उ॒षसः॑ , च॒का॒र॒ ॥
अ॒यं रो॑चयद॒रुचो॑ रुचा॒नो॒३॒॑ऽयं वा॑सय॒द्व्यृ१॒॑तेन॑ पू॒र्वीः । अ॒यमी॑यत ऋत॒युग्भि॒रश्वैः॑ स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ॥
अ॒यं , रो॒च॒य॒त् , अ॒रुचः॑ , रु॒चा॒नः , अ॒यं , वा॒स॒य॒त् , वि , ऋ॒तेन॑ , पू॒र्वीः । अ॒यं , ई॒य॒ते॒ , ऋ॒त॒युक्ऽभिः॑ , अश्वैः॑ , स्वः॒ऽविदा॑ , नाभि॑ना , च॒र्ष॒णि॒ऽप्राः ॥
नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निषः॑ पिन्व वसु॒देया॑य पू॒र्वीः । अ॒प ओष॑धीरवि॒षा वना॑नि॒ गा अर्व॑तो॒ नॄनृ॒चसे॑ रिरीहि ॥
नु , गृ॒णा॒नः , गृ॒ण॒ते , प्र॒त्न॒ , रा॒ज॒न् , इषः॑ , पि॒न्व॒ , व॒सु॒ऽदेया॑य , पू॒र्वीः । अ॒पः , ओष॑धीः , अ॒वि॒षा , वना॑नि , गाः , अर्व॑तः , नॄन् , ऋ॒चसे॑ , रि॒री॒हि॒ ॥
[४०] इंद्रपिबेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
इंद्र॒ पिब॒ तुभ्यं॑ सु॒तो मदा॒याव॑ स्य॒ हरी॒ वि मु॑चा॒ सखा॑या । उ॒त प्र गा॑य ग॒ण आ नि॒षद्याथा॑ य॒ज्ञाय॑ गृण॒ते वयो॑ धाः ॥
इंद्र॑ , पिब॑ , तुभ्यं॑ , सु॒तः , मदा॑य , अव॑ , स्य॒ , हरी॒ इति॑ , वि , मु॒च॒ , सखा॑या । उ॒त , प्र , गा॒य॒ , ग॒णे , आ , नि॒ऽसद्य॑ , अथ॑ , य॒ज्ञाय॑ , गृ॒ण॒ते , वयः॑ , धाः॒ ॥
अस्य॑ पिब॒ यस्य॑ जज्ञा॒न इं॑द्र॒ मदा॑य॒ क्रत्वे॒ अपि॑बो विरप्शिन् । तमु॑ ते॒ गावो॒ नर॒ आपो॒ अद्रि॒रिंदुं॒ सम॑ह्यन्पी॒तये॒ सम॑स्मै ॥
अस्य॑ , पि॒ब॒ , यस्य॑ , ज॒ज्ञा॒नः , इं॒द्र॒ , मदा॑य , क्रत्वे॑ , अपि॑बः , वि॒ऽर॒प्शि॒न् । तं , ऊँ॒ इति॑ , ते॒ , गावः॑ , नरः॑ , आपः॑ , अद्रिः॑ , इंदुं॑ , सं , अ॒ह्य॒न् , पी॒तये॑ , सं , अ॒स्मै॒ ॥
समि॑द्धे अ॒ग्नौ सु॒त इं॑द्र॒ सोम॒ आ त्वा॑ वहंतु॒ हर॑यो॒ वहि॑ष्ठाः । त्वा॒य॒ता मन॑सा जोहवी॒मींद्रा या॑हि सुवि॒ताय॑ म॒हे नः॑ ॥
संऽइ॑द्धे , अ॒ग्नौ , सु॒ते , इं॒द्र॒ , सोमे॑ , आ , त्वा॒ , व॒हं॒तु॒ , हर॑यः , वहि॑ष्ठाः । त्वा॒ऽय॒ता , मन॑सा , जो॒ह॒वी॒मि॒ , इंद्र॑ , आ , या॒हि॒ , सु॒वि॒ताय॑ , म॒हे , नः॒ ॥
आ या॑हि॒ शश्व॑दुश॒ता य॑या॒थेंद्र॑ म॒हा मन॑सा सोम॒पेयं॑ । उप॒ ब्रह्मा॑णि शृणव इ॒मा नोऽथा॑ ते य॒ज्ञस्त॒न्वे॒३॒॑ वयो॑ धात् ॥
आ , या॒हि॒ , शश्व॑त् , उ॒श॒ता , य॒या॒थ॒ , इंद्र॑ , म॒हा , मन॑सा , सो॒म॒ऽपेयं॑ । उप॑ , ब्रह्मा॑णि , शृ॒ण॒वः॒ , इ॒मा , नः॒ , अथ॑ , ते॒ , य॒ज्ञः , त॒न्वे॑ , वयः॑ , धा॒त् ॥
यदिं॑द्र दि॒वि पार्ये॒ यदृध॒ग्यद्वा॒ स्वे सद॑ने॒ यत्र॒ वासि॑ । अतो॑ नो य॒ज्ञमव॑से नि॒युत्वां॑त्स॒जोषाः॑ पाहि गिर्वणो म॒रुद्भिः॑ ॥
यत् , इं॒द्र॒ , दि॒वि , पार्ये॑ , यत् , ऋध॑क् , यत् , वा॒ , स्वे , सद॑ने , यत्र॑ , वा॒ , असि॑ । अतः॑ , नः॒ , य॒ज्ञं , अव॑से , नि॒युत्वा॑न् , स॒ऽजोषाः॑ , पा॒हि॒ , गि॒र्व॒णः॒ , म॒रुत्ऽभिः॑ ॥
[४१] अहेळमानइति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रस्त्रिष्टुप् |
अहे॑ळमान॒ उप॑ याहि य॒ज्ञं तुभ्यं॑ पवंत॒ इंद॑वः सु॒तासः॑ । गावो॒ न व॑ज्रिं॒त्स्वमोको॒ अच्छेंद्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नां ॥
अहे॑ळमानः , उप॑ , या॒हि॒ , य॒ज्ञं , तुभ्यं॑ , प॒वं॒ते॒ , इंद॑वः , सु॒तासः॑ । गावः॑ , न , वा॒ज्रि॒न् , स्वं , ओकः॑ , अच्छ॑ , इंद्र॑ , आ , ग॒हि॒ , प्र॒थ॒मः , य॒ज्ञिया॑नां ॥
या ते॑ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिं । तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्था॒त्सं ते॒ वज्रो॑ वर्ततामिंद्र ग॒व्युः ॥
या , ते॒ , का॒कुत् , सुऽकृ॑ता , या , वरि॑ष्ठा , यया॑ , शश्व॑त् , पिब॑सि , मध्वः॑ , ऊ॒र्मिं । तया॑ , पा॒हि॒ , प्र , ते॒ , अ॒ध्व॒र्युः , अ॒स्था॒त् , सं , ते॒ , वज्रः॑ , व॒र्त॒तां॒ , इं॒द्र॒ , ग॒व्युः ॥
ए॒ष द्र॒प्सो वृ॑ष॒भो वि॒श्वरू॑प॒ इंद्रा॑य॒ वृष्णे॒ सम॑कारि॒ सोमः॑ । ए॒तं पि॑ब हरिवः स्थातरुग्र॒ यस्येशि॑षे प्र॒दिवि॒ यस्ते॒ अन्नं॑ ॥
ए॒षः , द्र॒प्सः , वृ॒ष॒भः , वि॒श्वऽरू॑पः , इंद्रा॑य , वृष्णे॑ , सं , अ॒का॒रि॒ , सोमः॑ । ए॒तं , पि॒ब॒ , ह॒रि॒ऽवः॒ , स्था॒तः॒ , उ॒ग्र॒ , यस्य॑ , ईशि॑षे , प्र॒ऽदिवि॑ , यः , ते॒ , अन्नं॑ ॥
सु॒तः सोमो॒ असु॑तादिंद्र॒ वस्या॑न॒यं श्रेयां॑चिकि॒तुषे॒ रणा॑य । ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ॥
सु॒तः , सोमः॑ , असु॑तात् , इं॒द्र॒ , वस्या॑न् , अ॒यं , श्रेया॑न् , चि॒कि॒तुषे॑ , रणा॑य । ए॒तं , ति॒ति॒र्वः॒ , उप॑ , या॒हि॒ , य॒ज्ञं , तेन॑ , विश्वाः॑ , तवि॑षीः , आ , पृ॒ण॒स्व॒ ॥
ह्वया॑मसि॒ त्वेंद्र॑ याह्य॒र्वाङरं॑ ते॒ सोम॑स्त॒न्वे॑ भवाति । शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॒ प्रास्माँ अ॑व॒ पृत॑नासु॒ प्र वि॒क्षु ॥
ह्वया॑मसि , त्वा॒ , आ , इं॒द्र॒ , या॒हि॒ , अ॒र्वाङ् , अरं॑ , ते॒ , सोमः॑ , त॒न्वे॑ , भ॒वा॒ति॒ । शत॑क्रतो॒ इति॒ शत॑ऽक्रतो , मा॒दय॑स्व , सु॒तेषु॑ , प्र , अ॒स्मान् , अ॒व॒ , पृत॑नासु , प्र , वि॒क्षु ॥
[४२] प्रत्यस्मा इति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रोनुष्टुबंत्याबृहती |
प्रत्य॑स्मै॒ पिपी॑षते॒ विश्वा॑नि वि॒दुषे॑ भर । अ॒रं॒ग॒माय॒ जग्म॒येऽप॑श्चाद्दघ्वने॒ नरे॑ ॥
प्रति॑ , अ॒स्मै॒ , पिपी॑षते , विश्वा॑नि , वि॒दुषे॑ , भ॒र॒ । अ॒रं॒ऽग॒माय॑ , जग्म॑ये , अप॑श्चात्ऽदघ्वने , नरे॑ ॥
एमे॑नं प्र॒त्येत॑न॒ सोमे॑भिः सोम॒पात॑मं । अम॑त्रेभिर्ऋजी॒षिण॒मिंद्रं॑ सु॒तेभि॒रिंदु॑भिः ॥
आ , ईं॒ , ए॒नं॒ , प्र॒ति॒ऽएत॑न , सोमे॑भिः , सो॒म॒ऽपात॑मं । अम॑त्रेभिः , ऋ॒जी॒षिणं॑ , इंद्रं॑ , सु॒तेभिः॑ , इंदु॑ऽभिः ॥
यदी॑ सु॒तेभि॒रिंदु॑भिः॒ सोमे॑भिः प्रति॒भूष॑थ । वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्तंत॒मिदेष॑ते ॥
यदि॑ , सु॒तेभिः॑ , इंदु॑ऽभिः , सोमे॑भिः , प्र॒ति॒ऽभूष॑थ । वेद॑ , विश्व॑स्य , मेधि॑रः , धृ॒षत् , तंऽतं॑ , इत् , आ , ई॒ष॒ते॒ ॥
अ॒स्माअ॑स्मा॒ इदंध॒सोऽध्व॑र्यो॒ प्र भ॑रा सु॒तं । कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् ॥
अ॒स्मैऽअ॑स्मै , इत् , अंध॑सः , अध्व॑र्यो॒ इति॑ , प्र , भ॒र॒ , सु॒तं । कु॒वित् , स॒म॒स्य॒ , जेन्य॑स्य , शर्ध॑तः , अ॒भिऽश॑स्तेः , अ॒व॒ऽस्पर॑त् ॥
[४३] यस्यत्यदिति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रउष्णिक् |
यस्य॒ त्यच्छंब॑रं॒ मदे॒ दिवो॑दासाय रं॒धयः॑ । अ॒यं स सोम॑ इंद्र ते सु॒तः पिब॑ ॥
यस्य॑ , त्यत् , शंब॑रं , मदे॑ , दिवः॑ऽदासाय , रं॒धयः॑ । अ॒यं , सः , सोमः॑ , इं॒द्र॒ , ते॒ , सु॒तः , पिब॑ ॥
यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मंतं॑ च॒ रक्ष॑से । अ॒यं स सोम॑ इंद्र ते सु॒तः पिब॑ ॥
यस्य॑ , ती॒व्र॒ऽसुतं॑ , मदं॑ , मध्यं॑ , अंतं॑ , च॒ , रक्ष॑से । अ॒यं , सः , सोमः॑ , इं॒द्र॒ , ते॒ , सु॒तः , पिब॑ ॥
यस्य॒ गा अं॒तरश्म॑नो॒ मदे॑ दृ॒ळ्हा अ॒वासृ॑जः । अ॒यं स सोम॑ इंद्र ते सु॒तः पिब॑ ॥
यस्य॑ , गाः , अं॒तः , अश्म॑नः , मदे॑ , दृ॒ळ्हाः , अ॒व॒ऽअसृ॑जः । अ॒यं , सः , सोमः॑ , इं॒द्र॒ , ते॒ , सु॒तः , पिब॑ ॥
यस्य॑ मंदा॒नो अंध॑सो॒ माघो॑नं दधि॒षे शवः॑ । अ॒यं स सोम॑ इंद्र ते सु॒तः पिब॑ ॥
यस्य॑ , मं॒दा॒नः , अंध॑सः , माघो॑नं , द॒धि॒षे , शवः॑ । अ॒यं , सः , सोमः॑ , इं॒द्र॒ , ते॒ , सु॒तः , पिब॑ ॥
[४४] योरयिवइति चतुर्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रस्त्रिष्टुबाद्याः षढनुष्टुभः सप्तम्यादितिस्रो विराट्पंक्त्यः | (तिसृष्वष्टम्येवविराट् सप्तमीनवम्यौतु त्रिष्टुभाविति केचित्) |
यो र॑यिवो र॒यिंत॑मो॒ यो द्यु॒म्नैर्द्यु॒म्नव॑त्तमः । सोमः॑ सु॒तः स इं॑द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥
यः , र॒यि॒ऽवः॒ , र॒यिंऽत॑मः , यः , द्यु॒म्नैः , द्यु॒म्नव॑त्ऽतमः । सोमः॑ , सु॒तः , सः , इं॒द्र॒ , ते॒ , अस्ति॑ , स्व॒धा॒ऽप॒ते॒ , मदः॑ ॥
यः श॒ग्मस्तु॑विशग्म ते रा॒यो दा॒मा म॑ती॒नां । सोमः॑ सु॒तः स इं॑द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥
यः , श॒ग्मः , तु॒वि॒ऽश॒ग्म॒ , ते॒ , रा॒यः , दा॒मा , म॒ती॒नां । सोमः॑ , सु॒तः , सः , इं॒द्र॒ , ते॒ , अस्ति॑ , स्व॒धा॒ऽप॒ते॒ , मदः॑ ॥
येन॑ वृ॒द्धो न शव॑सा तु॒रो न स्वाभि॑रू॒तिभिः॑ । सोमः॑ सु॒तः स इं॑द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥
येन॑ , वृ॒द्धः , न , शव॑सा , तु॒रः , न , स्वाभिः॑ , ऊ॒तिऽभिः॑ । सोमः॑ , सु॒तः , सः , इं॒द्र॒ , ते॒ , अस्ति॑ , स्व॒धा॒ऽप॒ते॒ , मदः॑ ॥
त्यमु॑ वो॒ अप्र॑हणं गृणी॒षे शव॑स॒स्पतिं॑ । इंद्रं॑ विश्वा॒साहं॒ नरं॒ मंहि॑ष्ठं वि॒श्वच॑र्षणिं ॥
त्यं , ऊँ॒ इति॑ , वः॒ , अप्र॑ऽहनं , गृ॒णी॒षे , शव॑सः , पतिं॑ । इंद्रं॑ , वि॒श्व॒ऽसहं॑ , नरं॑ , मंहि॑ष्ठं , वि॒श्वऽच॑र्षणिं ॥
यं व॒र्धयं॒तीद्गिरः॒ पतिं॑ तु॒रस्य॒ राध॑सः । तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं॑ सपर्यतः ॥
यं , व॒र्धयं॑ति , इत् , गिरः॑ , पतिं॑ , तु॒रस्य॑ , राध॑सः । तं , इत् , नु , अ॒स्य॒ , रोद॑सी॒ इति॑ , दे॒वी इति॑ , शुष्मं॑ , स॒प॒र्य॒तः॒ ॥
तद्व॑ उ॒क्थस्य॑ ब॒र्हणेंद्रा॑योपस्तृणी॒षणि॑ । विपो॒ न यस्यो॒तयो॒ वि यद्रोहं॑ति स॒क्षितः॑ ॥
तत् , वः॒ , उ॒क्थस्य॑ , ब॒र्हणा॑ , इंद्रा॑य , उ॒प॒ऽस्तृ॒णी॒षणि॑ । विपः॑ , न , यस्य॑ , ऊ॒तयः॑ , वि , यत् , रोहं॑ति , स॒ऽक्षितः॑ ॥
अवि॑द॒द्दक्षं॑ मि॒त्रो नवी॑यान्पपा॒नो दे॒वेभ्यो॒ वस्यो॑ अचैत् । स॒स॒वांत्स्तौ॒लाभि॑र्धौ॒तरी॑भिरुरु॒ष्या पा॒युर॑भव॒त्सखि॑भ्यः ॥
अवि॑दत् , दक्षं॑ , मि॒त्रः , नवी॑यान् , प॒पा॒नः , दे॒वेभ्यः॑ , वस्यः॑ , अ॒चै॒त् । स॒स॒ऽवान् , स्तौ॒लाभिः॑ , धौ॒तरी॑भिः , उ॒रु॒ष्या , पा॒युः , अ॒भ॒व॒त् , सखि॑ऽभ्यः ॥
ऋ॒तस्य॑ प॒थि वे॒धा अ॑पायि श्रि॒ये मनां॑सि दे॒वासो॑ अक्रन् । दधा॑नो॒ नाम॑ म॒हो वचो॑भि॒र्वपु॑र्दृ॒शये॑ वे॒न्यो व्या॑वः ॥
ऋ॒तस्य॑ , प॒थि , वे॒धाः , अ॒पा॒यि॒ , श्रि॒ये , मनां॑सि , दे॒वासः॑ , अ॒क्र॒न् । दधा॑नः , नाम॑ , म॒हः , वचः॑ऽभिः , वपुः॑ , दृ॒शये॑ , वे॒न्यः , वि , आ॒व॒रित्या॑वः ॥
द्यु॒मत्त॑मं॒ दक्षं॑ धेह्य॒स्मे सेधा॒ जना॑नां पू॒र्वीररा॑तीः । वर्षी॑यो॒ वयः॑ कृणुहि॒ शची॑भि॒र्धन॑स्य सा॒ताव॒स्माँ अ॑विड्ढि ॥
द्यु॒मत्ऽत॑मं , दक्षं॑ , धे॒हि॒ , अ॒स्मे इति॑ , सेध॑ , जना॑नां , पू॒र्वीः , अरा॑तीः । वर्षी॑यः , वयः॑ , कृ॒णु॒हि॒ , शची॑भिः , धन॑स्य , सा॒तौ , अ॒स्मान् , अ॒वि॒ड्ढि॒ ॥
इंद्र॒ तुभ्य॒मिन्म॑घवन्नभूम व॒यं दा॒त्रे ह॑रिवो॒ मा वि वे॑नः । नकि॑रा॒पिर्द॑दृशे मर्त्य॒त्रा किमं॒ग र॑ध्र॒चोद॑नं त्वाहुः ॥
इंद्र॑ , तुभ्यं॑ , इत् , म॒घ॒ऽव॒न् , अ॒भू॒म॒ , व॒यं , दा॒त्रे , ह॒रि॒ऽवः॒ , मा , वि , वे॒नः॒ । नकिः॑ , आ॒पिः , द॒दृ॒शे॒ , म॒र्त्य॒ऽत्रा , किं , अं॒ग , र॒ध्र॒ऽचोद॑नं , त्वा॒ , आ॒हुः॒ ॥
मा जस्व॑ने वृषभ नो ररीथा॒ मा ते॑ रे॒वतः॑ स॒ख्ये रि॑षाम । पू॒र्वीष्ट॑ इंद्र नि॒ष्षिधो॒ जने॑षु ज॒ह्यसु॑ष्वी॒न्प्र वृ॒हापृ॑णतः ॥
मा , जस्व॑ने , वृ॒ष॒भ॒ , नः॒ , र॒री॒थाः॒ , मा , ते॒ , रे॒वतः॑ , स॒ख्ये , रि॒षा॒म॒ । पू॒र्वीः , ते॒ , इं॒द्र॒ , निः॒ऽसिधः॑ , जने॑षु , ज॒हि , असु॑स्वीन् , प्र , वृ॒ह॒ , अपृ॑णतः ॥
उद॒भ्राणी॑व स्त॒नय॑न्निय॒र्तींद्रो॒ राधां॒स्यश्व्या॑नि॒ गव्या॑ । त्वम॑सि प्र॒दिवः॑ का॒रुधा॑या॒ मा त्वा॑दा॒मान॒ आ द॑भन्म॒घोनः॑ ॥
उत् , अ॒भ्राणि॑ऽइव , स्त॒नय॑न् , इ॒य॒र्ति॒ , इंद्रः॑ , राधां॑सि , अश्व्या॑नि , गव्या॑ । त्वं , अ॒सि॒ , प्र॒ऽदिवः॑ , का॒रुऽधा॑याः , मा , त्वा॒ , अ॒दा॒मानः॑ , आ , द॒भ॒न् , म॒घोनः॑ ॥
अध्व॑र्यो वीर॒ प्र म॒हे सु॒ताना॒मिंद्रा॑य भर॒ स ह्य॑स्य॒ राजा॑ । यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा॑वृ॒धे गृ॑ण॒तामृषी॑णां ॥
अध्व॑र्यो॒ इति॑ , वी॒र॒ , प्र , म॒हे , सु॒तानां॑ , इंद्रा॑य , भ॒र॒ , सः , हि , अ॒स्य॒ , राजा॑ । यः , पू॒र्व्याभिः॑ , उ॒त , नूत॑नाभिः , गीः॒ऽभिः , व॒वृ॒धे , गृ॒ण॒तां , ऋषी॑णां ॥
अ॒स्य मदे॑ पु॒रु वर्पां॑सि वि॒द्वानिंद्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घान । तमु॒ प्र हो॑षि॒ मधु॑मंतमस्मै॒ सोमं॑ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै ॥
अ॒स्य , मदे॑ , पु॒रु , वर्पां॑सि , वि॒द्वान् , इंद्रः॑ , वृ॒त्राणि॑ , अ॒प्र॒ति , ज॒घा॒न॒ । तं , ऊँ॒ इति॑ , प्र , हो॒षि॒ , मधु॑ऽमंतं , अ॒स्मै॒ , सोमं॑ , वी॒राय॑ , शि॒प्रिणे॑ , पिब॑ध्यै ॥
पाता॑ सु॒तमिंद्रो॑ अस्तु॒ सोमं॒ हंता॑ वृ॒त्रं वज्रे॑ण मंदसा॒नः । गंता॑ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा॑याः ॥
पाता॑ , सु॒तं , इंद्रः॑ , अ॒स्तु॒ , सोमं॑ , हंता॑ , वृ॒त्रं , वज्रे॑ण , मं॒द॒सा॒नः । गंता॑ , य॒ज्ञं , प॒रा॒ऽवतः॑ , चि॒त् , अच्छ॑ , वसुः॑ , धी॒नां , अ॒वि॒ता , का॒रुऽधा॑याः ॥
इ॒दं त्यत्पात्र॑मिंद्र॒पान॒मिंद्र॑स्य प्रि॒यम॒मृत॑मपायि । मत्स॒द्यथा॑ सौमन॒साय॑ दे॒वं व्य१॒॑स्मद्द्वेषो॑ यु॒यव॒द्व्यंहः॑ ॥
इ॒दं , त्यत् , पात्रं॑ , इं॒द्र॒ऽपानं॑ , इंद्र॑स्य , प्रि॒यं , अ॒मृतं॑ , अ॒पा॒यि॒ । मत्स॑त् , यथा॑ , सौ॒म॒न॒साय॑ , दे॒वं , वि , अ॒स्मत् , द्वेषः॑ , यु॒यव॑त् , वि , अंहः॑ ॥
ए॒ना मं॑दा॒नो ज॒हि शू॑र॒ शत्रूं॑जा॒मिमजा॑मिं मघवन्न॒मित्रा॑न् । अ॒भि॒षे॒णाँ अ॒भ्या॒३॒॑देदि॑शाना॒न्परा॑च इंद्र॒ प्र मृ॑णा ज॒ही च॑ ॥
ए॒ना , मं॒दा॒नः , ज॒हि , शू॒र॒ , शत्रू॑न् , जा॒मिं , अजा॑मिं , म॒घ॒ऽव॒न् , अ॒मित्रा॑न् । अ॒भि॒ऽसे॒नान् , अ॒भि , आ॒ऽदेदि॑शानान् , परा॑चः , इं॒द्र॒ , प्र , मृ॒ण॒ , ज॒हि , च॒ ॥
आ॒सु ष्मा॑ णो मघवन्निंद्र पृ॒त्स्व१॒॑स्मभ्यं॒ महि॒ वरि॑वः सु॒गं कः॑ । अ॒पां तो॒कस्य॒ तन॑यस्य जे॒ष इंद्र॑ सू॒रीन्कृ॑णु॒हि स्मा॑ नो अ॒र्धं ॥
आ॒सु , स्म॒ , नः॒ , म॒घ॒ऽव॒न् , इं॒द्र॒ , पृ॒त्ऽसु , अ॒स्मभ्यं॑ , महि॑ , वरि॑वः , सु॒ऽगं , क॒रिति॑ कः । अ॒पां , तो॒कस्य॑ , तन॑यस्य , जे॒षे , इंद्र॑ , सू॒रीन् , कृ॒णु॒हि , स्म॒ , नः॒ , अ॒र्धं ॥
आ त्वा॒ हर॑यो॒ वृष॑णो युजा॒ना वृष॑रथासो॒ वृष॑रश्म॒योऽत्याः॑ । अ॒स्म॒त्रांचो॒ वृष॑णो वज्र॒वाहो॒ वृष्णे॒ मदा॑य सु॒युजो॑ वहंतु ॥
आ , त्वा॒ , हर॑यः , वृष॑णः , यु॒जा॒नाः , वृष॑ऽरथासः , वृष॑ऽरश्मयः , अत्याः॑ । अ॒स्म॒त्रांचः॑ , वृष॑णः , व॒ज्र॒ऽवाहः॑ , वृष्णे॑ , मदा॑य , सु॒ऽयुजः॑ , व॒हं॒तु॒ ॥
आ ते॑ वृष॒न्वृष॑णो॒ द्रोण॑मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मदं॑तः । इंद्र॒ प्र तुभ्यं॒ वृष॑भिः सु॒तानां॒ वृष्णे॑ भरंति वृष॒भाय॒ सोमं॑ ॥
आ , ते॒ , वृ॒ष॒न् , वृष॑णः , द्रोणं॑ , अ॒स्थुः॒ , घृ॒त॒ऽप्रुषः॑ , न , ऊ॒र्मयः॑ , मदं॑तः । इंद्र॑ , प्र , तुभ्यं॑ , वृष॑ऽभिः , सु॒तानां॑ , वृष्णे॑ , भ॒रं॒ति॒ , वृ॒ष॒भाय॑ , सोमं॑ ॥
वृषा॑सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिंधू॑नां वृष॒भः स्तिया॑नां । वृष्णे॑ त॒ इंदु॑र्वृषभ पीपाय स्वा॒दू रसो॑ मधु॒पेयो॒ वरा॑य ॥
वृषा॑ , अ॒सि॒ , दि॒वः , वृ॒ष॒भः , पृ॒थि॒व्याः , वृषा॑ , सिंधू॑नां , वृ॒ष॒भः , स्तिया॑नां । वृष्णे॑ , ते॒ , इंदुः॑ , वृ॒ष॒भ॒ , पी॒पा॒य॒ , स्वा॒दुः , रसः॑ , म॒धु॒ऽपेयः॑ , वरा॑य ॥
अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इंद्रे॑ण यु॒जा प॒णिम॑स्तभायत् । अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नींदु॑रमुष्णा॒दशि॑वस्य मा॒याः ॥
अ॒यं , दे॒वः , सह॑सा , जाय॑मानः , इंद्रे॑ण , यु॒जा , प॒णिं , अ॒स्त॒भा॒य॒त् । अ॒यं , स्वस्य॑ , पि॒तुः , आयु॑धानि , इंदुः॑ , अ॒मु॒ष्णा॒त् , अशि॑वस्य , मा॒याः ॥
अ॒यम॑कृणोदु॒षसः॑ सु॒पत्नी॑र॒यं सूर्ये॑ अदधा॒ज्ज्योति॑रं॒तः । अ॒यं त्रि॒धातु॑ दि॒वि रो॑च॒नेषु॑ त्रि॒तेषु॑ विंदद॒मृतं॒ निगू॑ळ्हं ॥
अ॒यं , अ॒कृ॒णो॒त् , उ॒षसः॑ , सु॒ऽपत्नीः॑ , अ॒यं , सूर्ये॑ , अ॒द॒धा॒त् , ज्योतिः॑ , अं॒तरिति॑ । अ॒यं , त्रि॒ऽधातु॑ , दि॒वि , रो॒च॒नेषु॑ , त्रि॒तेषु॑ , विं॒द॒त् , अ॒मृतं॑ , निऽगू॑ळ्हं ॥
अ॒यं द्यावा॑पृथि॒वी वि ष्क॑भायद॒यं रथ॑मयुनक्स॒प्तर॑श्मिं । अ॒यं गोषु॒ शच्या॑ प॒क्वमं॒तः सोमो॑ दाधार॒ दश॑यंत्र॒मुत्सं॑ ॥
अ॒यं , द्यावा॑पृथि॒वी इति॑ , वि , स्क॒भा॒य॒त् , अ॒यं , रथं॑ , अ॒यु॒न॒क् , स॒प्तऽर॑श्मिं । अ॒यं , गोषु॑ , शच्या॑ , प॒क्वं , अं॒तरिति॑ , सोमः॑ , दा॒धा॒र॒ , दश॑ऽयंत्रं , उत्सं॑ ॥
[४५] यआनयदिति त्रयस्त्रिंशदृचस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रोंत्यतृचस्यबृबुस्तक्षा गायत्री एकोनत्रिंश्यतिनिचृद् एकत्रिंशीपादनिचृदंत्यानुष्टुप् |
य आन॑यत्परा॒वतः॒ सुनी॑ती तु॒र्वशं॒ यदुं॑ । इंद्रः॒ स नो॒ युवा॒ सखा॑ ॥
यः , आ , अन॑यत् , प॒रा॒ऽवतः॑ , सुऽनी॑ती , तु॒र्वशं॑ , यदुं॑ । इंद्रः॑ , सः , नः॒ , युवा॑ , सखा॑ ॥
अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना॑ चि॒दर्व॑ता । इंद्रो॒ जेता॑ हि॒तं धनं॑ ॥
अ॒वि॒प्रे , चि॒त् , वयः॑ , दध॑त् , अ॒ना॒शुना॑ , चि॒त् , अर्व॑ता । इंद्रः॑ , जेता॑ , हि॒तं , धनं॑ ॥
म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः । नास्य॑ क्षीयंत ऊ॒तयः॑ ॥
म॒हीः , अ॒स्य॒ , प्रऽनी॑तयः , पू॒र्वीः , उ॒त , प्रऽश॑स्तयः । न , अ॒स्य॒ , क्षी॒यं॒ते॒ , ऊ॒तयः॑ ॥
सखा॑यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत । स हि नः॒ प्रम॑तिर्म॒ही ॥
सखा॑यः , ब्रह्म॑ऽवाहसे , अर्च॑त , प्र , च॒ , गा॒य॒त॒ । सः , हि , नः॒ , प्रऽम॑तिः , म॒ही ॥
त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो॑रसि । उ॒तेदृशे॒ यथा॑ व॒यं ॥
त्वं , एक॑स्य , वृ॒त्र॒ऽह॒न् , अ॒वि॒ता , द्वयोः॑ , अ॒सि॒ । उ॒त , ई॒दृशे॑ , यथा॑ , व॒यं ॥
नय॒सीद्वति॒ द्विषः॑ कृ॒णोष्यु॑क्थशं॒सिनः॑ । नृभिः॑ सु॒वीर॑ उच्यसे ॥
नय॑सि , इत् , ऊँ॒ इति॑ , अति॑ , द्विषः॑ , कृ॒णोषि॑ , उ॒क्थ॒ऽशं॒सिनः॑ । नृऽभिः॑ , सु॒ऽवीरः॑ , उ॒च्य॒से॒ ॥
ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा॑यमृ॒ग्मियं॑ । गां न दो॒हसे॑ हुवे ॥
ब्र॒ह्माणं॑ , ब्रह्म॑ऽवाहसं , गीः॒ऽभिः , सखा॑यं , ऋ॒ग्मियं॑ । गां , न , दो॒हसे॑ , हु॒वे॒ ॥
यस्य॒ विश्वा॑नि॒ हस्त॑योरू॒चुर्वसू॑नि॒ नि द्वि॒ता । वी॒रस्य॑ पृतना॒षहः॑ ॥
यस्य॑ , विश्वा॑नि , हस्त॑योः , ऊ॒चुः , वसू॑नि , नि , द्वि॒ता । वी॒रस्य॑ , पृ॒त॒ना॒ऽसहः॑ ॥
वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना॑नां शचीपते । वृ॒ह मा॒या अ॑नानत ॥
वि , दृ॒ळ्हानि॑ , चि॒त् , अ॒द्रि॒ऽवः॒ , जना॑नां , श॒ची॒ऽप॒ते॒ । वृ॒ह , मा॒याः , अ॒ना॒न॒त॒ ॥
तमु॑ त्वा सत्य सोमपा॒ इंद्र॑ वाजानां पते । अहू॑महि श्रव॒स्यवः॑ ॥
तं , ऊँ॒ इति॑ , त्वा॒ , स॒त्य॒ , सो॒म॒ऽपाः॒ , इंद्र॑ , वा॒जा॒नां॒ , प॒ते॒ । अहू॑महि , श्र॒व॒स्यवः॑ ॥
तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा॑ नू॒नं हि॒ते धने॑ । हव्यः॒ स श्रु॑धी॒ हवं॑ ॥
तं , ऊँ॒ इति॑ , त्वा॒ , यः , पु॒रा , आसि॑थ , यः , वा॒ , नू॒नं , हि॒ते , धने॑ । हव्यः॑ , सः , श्रु॒धि॒ , हवं॑ ॥
धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ॑ इंद्र श्र॒वाय्या॑न् । त्वया॑ जेष्म हि॒तं धनं॑ ॥
धी॒भिः , अर्व॑त्ऽभिः , अर्व॑तः , वाजा॑न् , इं॒द्र॒ , श्र॒वाय्या॑न् । त्वया॑ , जे॒ष्म॒ , हि॒तं , धनं॑ ॥
अभू॑रु वीर गिर्वणो म॒हाँ इं॑द्र॒ धने॑ हि॒ते । भरे॑ वितंत॒साय्यः॑ ॥
अभूः॑ , ऊँ॒ इति॑ , वी॒र॒ , गि॒र्व॒णः॒ , म॒हान् , इं॒द्र॒ , धने॑ , हि॒ते । भरे॑ , वि॒तं॒त॒साय्यः॑ ॥
या त॑ ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति । तया॑ नो हिनुही॒ रथं॑ ॥
या , ते॒ , ऊ॒तिः , अ॒मि॒त्र॒ऽह॒न् , म॒क्षुज॑वःऽतमा , अस॑ति । तया॑ , नः॒ , हि॒नु॒हि॒ , रथं॑ ॥
स रथे॑न र॒थीत॑मो॒ऽस्माके॑नाभि॒युग्व॑ना । जेषि॑ जिष्णो हि॒तं धनं॑ ॥
सः , रथे॑न , र॒थिऽत॑मः , अ॒स्माके॑न , अ॒भि॒ऽयुग्व॑ना । जेषि॑ , जि॒ष्णो॒ इति॑ , हि॒तं , धनं॑ ॥
य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः । पति॑र्ज॒ज्ञे वृष॑क्रतुः ॥
यः , एकः॑ , इत् , तं , ऊँ॒ इति॑ , स्तु॒हि॒ , कृ॒ष्टी॒नां , विऽच॑र्षणिः । पतिः॑ , ज॒ज्ञे , वृष॑ऽक्रतुः ॥
यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा॑ । स त्वं न॑ इंद्र मृळय ॥
यः , गृ॒ण॒तां , इत् , आसि॑थ , आ॒पिः , ऊ॒ती , शि॒वः , सखा॑ । सः , त्वं , नः॒ , इं॒द्र॒ , मृ॒ळ॒य॒ ॥
धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या॑य वज्रिवः । सा॒स॒ही॒ष्ठा अ॒भि स्पृधः॑ ॥
धि॒ष्व , वज्रं॑ , गभ॑स्त्योः , र॒क्षः॒ऽहत्या॑य , व॒ज्रि॒ऽवः॒ । स॒स॒ही॒ष्ठाः , अ॒भि , स्पृधः॑ ॥
प्र॒त्नं र॑यी॒णां युजं॒ सखा॑यं कीरि॒चोद॑नं । ब्रह्म॑वाहस्तमं हुवे ॥
प्र॒त्नं , र॒यी॒णां , युजं॑ , सखा॑यं , की॒रि॒ऽचोद॑नं । ब्रह्म॑वाहःऽतमं , हु॒वे॒ ॥
स हि विश्वा॑नि॒ पार्थि॑वाँ॒ एको॒ वसू॑नि॒ पत्य॑ते । गिर्व॑णस्तमो॒ अध्रि॑गुः ॥
सः , हि , विश्वा॑नि , पार्थि॑वा , एकः॑ , वसू॑नि , पत्य॑ते । गिर्व॑णःऽतमः , अध्रि॑ऽगुः ॥
स नो॑ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे॑भिर॒श्विभिः॑ । गोम॑द्भिर्गोपते धृ॒षत् ॥
सः , नः॒ , नि॒युत्ऽभिः॑ , आ , पृ॒ण॒ , कामं॑ , वाजे॑भिः , अ॒श्विऽभिः॑ । गोम॑त्ऽभिः , गो॒ऽप॒ते॒ , धृ॒षत् ॥
तद्वो॑ गाय सु॒ते सचा॑ पुरुहू॒ताय॒ सत्व॑ने । शं यद्गवे॒ न शा॒किने॑ ॥
तत् , वः॒ , गा॒य॒ , सु॒ते , सचा॑ , पु॒रु॒ऽहू॒ताय॑ , सत्व॑ने । शं , यत् , गवे॑ , न , शा॒किने॑ ॥
न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः । यत्सी॒मुप॒ श्रव॒द्गिरः॑ ॥
न , घ॒ , वसुः॑ , नि , य॒म॒ते॒ , दा॒नं , वाज॑स्य , गोऽम॑तः । यत् , सीं॒ , उप॑ , श्र॒व॒त् , गिरः॑ ॥
कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोमं॑तं दस्यु॒हा गम॑त् । शची॑भि॒रप॑ नो वरत् ॥
कु॒वित्ऽस॑स्य , प्र , हि , व्र॒जं , गोऽमं॑तं , द॒स्यु॒ऽहा , गम॑त् । शची॑भिः , अप॑ , नः॒ , व॒र॒त् ॥
इ॒मा उ॑ त्वा शतक्रतो॒ऽभि प्र णो॑नुवु॒र्गिरः॑ । इंद्र॑ व॒त्सं न मा॒तरः॑ ॥
इ॒माः , ऊँ॒ इति॑ , त्वा॒ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , अ॒भि , प्र , नो॒नु॒वुः॒ , गिरः॑ । इंद्र॑ , व॒त्सं , न , मा॒तरः॑ ॥
दू॒णाशं॑ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते । अश्वो॑ अश्वाय॒ते भ॑व ॥
दुः॒ऽनशं॑ , स॒ख्यं , तव॑ , गौः , अ॒सि॒ , वी॒र॒ , ग॒व्य॒ते । अश्वः॑ , अ॒श्व॒ऽय॒ते , भ॒व॒ ॥
स मं॑दस्वा॒ ह्यंध॑सो॒ राध॑से त॒न्वा॑ म॒हे । न स्तो॒तारं॑ नि॒दे क॑रः ॥
सः , मं॒द॒स्व॒ , हि , अंध॑सः , राध॑से , त॒न्वा॑ , म॒हे । न , स्तो॒तारं॑ , नि॒दे , क॒रः॒ ॥
इ॒मा उ॑ त्वा सु॒तेसु॑ते॒ नक्षं॑ते गिर्वणो॒ गिरः॑ । व॒त्सं गावो॒ न धे॒नवः॑ ॥
इ॒माः , ऊँ॒ इति॑ , त्वा॒ , सु॒तेऽसु॑ते , नक्षं॑ते , गि॒र्व॒णः॒ , गिरः॑ । व॒त्सं , गावः॑ , न , धे॒नवः॑ ॥
पु॒रू॒तमं॑ पुरू॒णां स्तो॑तॄ॒णां विवा॑चि । वाजे॑भिर्वाजय॒तां ॥
पु॒रु॒ऽतमं॑ , पु॒रू॒णां , स्तो॒तॄ॒णां , विऽवा॑चि । वाजे॑भिः , वा॒ज॒ऽय॒तां ॥
अ॒स्माक॑मिंद्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒ अंत॑मः । अ॒स्मान्रा॒ये म॒हे हि॑नु ॥
अ॒स्माकं॑ , इं॒द्र॒ , भू॒तु॒ , ते॒ , स्तोमः॑ , वाहि॑ष्ठः , अंत॑मः । अ॒स्मान् , रा॒ये , म॒हे , हि॒नु॒ ॥
अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् । उ॒रुः कक्षो॒ न गां॒ग्यः ॥
अधि॑ , बृ॒बुः , प॒णी॒नां , वर्षि॑ष्ठे , मू॒र्धन् , अ॒स्था॒त् । उ॒रुः , कक्षः॑ , न , गां॒ग्यः ॥
यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑ । स॒द्यो दा॒नाय॒ मंह॑ते ॥
यस्य॑ , वा॒योःऽइ॑व , द्र॒वत् , भ॒द्रा , रा॒तिः , स॒ह॒स्रिणी॑ । स॒द्यः , दा॒नाय॑ , मंह॑ते ॥
तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणंति का॒रवः॑ । बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मं ॥
तत् , सु , नः॒ , विश्वे॑ , अ॒र्यः , आ , सदा॑ , गृ॒णं॒ति॒ , का॒रवः॑ । बृ॒बुं , स॒ह॒स्र॒ऽदात॑मं , सू॒रिं , स॒ह॒स्र॒ऽसात॑मं ॥
[४६] त्वामिद्धीति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्यः शंयुरिंद्रः अयुजोबृहत्यः युजःसतोबृहत्यः |
त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ । त्वां वृ॒त्रेष्विं॑द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥
त्वां , इत् , हि , हवा॑महे , सा॒ता , वाज॑स्य , का॒रवः॑ । त्वां , वृ॒त्रेषु॑ , इं॒द्र॒ , सत्ऽप॑तिं , नरः॑ , त्वां , काष्ठा॑सु , अर्व॑तः ॥
स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो अ॑द्रिवः । गामश्वं॑ र॒थ्य॑मिंद्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ॥
सः , त्वं , नः॒ , चि॒त्र॒ , व॒ज्र॒ऽह॒स्त॒ , धृ॒ष्णु॒ऽया , म॒हः , स्त॒वा॒नः , अ॒द्रि॒ऽवः॒ । गां , अश्वं॑ , र॒थ्यं॑ , इं॒द्र॒ , सं , कि॒र॒ , स॒त्रा , वाजं॑ , न , जि॒ग्युषे॑ ॥
यः स॑त्रा॒हा विच॑र्षणि॒रिंद्रं॒ तं हू॑महे व॒यं । सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा॑ स॒मत्सु॑ नो वृ॒धे ॥
यः , स॒त्रा॒ऽहा , विऽच॑र्षणिः , इंद्रं॑ , तं , हू॒म॒हे॒ , व॒यं । सह॑स्रऽमुष्क , तुवि॑ऽनृम्ण , सत्ऽप॑ते , भव॑ , स॒मत्ऽसु॑ , नः॒ , वृ॒धे ॥
बाध॑से॒ जना॑न्वृष॒भेव॑ म॒न्युना॒ घृषौ॑ मी॒ळ्ह ऋ॑चीषम । अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये॑ ॥
बाध॑से , जना॑न् , वृ॒ष॒भाऽइ॑व , म॒न्युना॑ , घृषौ॑ , मी॒ळ्हे , ऋ॒ची॒ष॒म॒ । अ॒स्माकं॑ , बो॒धि॒ , अ॒वि॒ता , म॒हा॒ऽध॒ने , त॒नूषु॑ , अ॒प्ऽसु , सूर्ये॑ ॥
इंद्र॒ ज्येष्ठं॑ न॒ आ भ॑रँ॒ ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑ । येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒ ओभे सु॑शिप्र॒ प्राः ॥
इंद्र॑ , ज्येष्ठं॑ , नः॒ , आ , भ॒र॒ , ओजि॑ष्ठं , पपु॑रि , श्रवः॑ । येन॑ , इ॒मे इति॑ , चि॒त्र॒ , व॒ज्र॒ऽह॒स्त॒ , रोद॑सी॒ इति॑ , आ , उ॒भे इति॑ , सु॒ऽशि॒प्र॒ , प्राः ॥
त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राजं॑दे॒वेषु॑ हूमहे । विश्वा॒ सु नो॑ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रां॑त्सु॒षहा॑न्कृधि ॥
त्वां , उ॒ग्रं , अव॑से , च॒र्ष॒णि॒ऽसहं॑ , राज॑न् , दे॒वेषु॑ , हू॒म॒हे॒ । विश्वा॑ , सु , नः॒ , वि॒थु॒रा , पि॒ब्द॒ना , व॒सो॒ इति॑ , अ॒मित्रा॑न् , सु॒ऽसहा॑न् , कृ॒धि॒ ॥
यदिं॑द्र॒ नाहु॑षी॒ष्वाँ ओजो॑ नृ॒म्णं च॑ कृ॒ष्टिषु॑ । यद्वा॒ पंच॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा॑नि॒ पौंस्या॑ ॥
यत् , इं॒द्र॒ , नाहु॑षीषु , आ , ओजः॑ , नृ॒म्णं , च॒ , कृ॒ष्टिषु॑ । यत् , वा॒ , पंच॑ , क्षि॒ती॒नां , द्यु॒म्नं , आ , भ॒र॒ , स॒त्रा , विश्वा॑नि , पौंस्या॑ ॥
यद्वा॑ तृ॒क्षौ म॑घवंद्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्यं॑ । अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा॑न्पृ॒त्सु तु॒र्वणे॑ ॥
यत् , वा॒ , तृ॒क्षौ , म॒घ॒ऽव॒न् , द्रु॒ह्यौ , आ , जने॑ , यत् , पू॒रौ , कत् , च॒ , वृष्ण्यं॑ । अ॒स्मभ्यं॑ , तत् , रि॒री॒हि॒ , सं , नृ॒ऽसह्ये॑ , अ॒मित्रा॑न् , पृ॒त्ऽसु , तु॒र्वणे॑ ॥
इंद्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत् । छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ॥
इंद्र॑ , त्रि॒ऽधातु॑ , श॒र॒णं , त्रि॒ऽवरू॑थं , स्व॒स्ति॒ऽमत् । छ॒र्दिः , य॒च्छ॒ , म॒घव॑त्ऽभ्यः , च॒ , मह्यं॑ , च॒ , य॒वय॑ , दि॒द्युं , ए॒भ्यः॒ ॥
ये ग॑व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नंति॑ धृष्णु॒या । अध॑ स्मा नो मघवन्निंद्र गिर्वणस्तनू॒पा अंत॑मो भव ॥
ये , ग॒व्य॒ता , मन॑सा , शत्रुं॑ , आ॒ऽद॒भुः , अ॒भि॒ऽप्र॒घ्नंति॑ , धृ॒ष्णु॒ऽया । अध॑ , स्म॒ , नः॒ , म॒घ॒ऽव॒न् , इं॒द्र॒ , गि॒र्व॒णः॒ , त॒नू॒ऽपाः , अंत॑मः , भ॒व॒ ॥
अध॑ स्मा नो वृ॒धे भ॒वेंद्र॑ ना॒यम॑वा यु॒धि । यदं॒तरि॑क्षे प॒तयं॑ति प॒र्णिनो॑ दि॒द्यव॑स्ति॒ग्ममू॑र्धानः ॥
अध॑ , स्म॒ , नः॒ , वृ॒धे , भ॒व॒ , इंद्र॑ , ना॒यं , अ॒व॒ , यु॒धि । यत् , अं॒तरि॑क्षे , प॒तयं॑ति , प॒र्णिनः॑ , दि॒द्यवः॑ , ति॒ग्मऽमू॑र्धानः ॥
यत्र॒ शूरा॑सस्त॒न्वो॑ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णां । अध॑ स्मा यच्छ त॒न्वे॒३॒॑ तने॑ च छ॒र्दिर॒चित्तं॑ या॒वय॒ द्वेषः॑ ॥
यत्र॑ , शूरा॑सः , त॒न्वः॑ , वि॒ऽत॒न्व॒ते , प्रि॒या , शर्म॑ , पि॒तॄ॒णां । अध॑ , स्म॒ , य॒च्छ॒ , त॒न्वे॑ , तने॑ , च॒ , छ॒र्धिः , अ॒चित्तं॑ , य॒वय॑ , द्वेषः॑ ॥
यदिं॑द्र॒ सर्गे॒ अर्व॑तश्चो॒दया॑से महाध॒ने । अ॒स॒म॒ने अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँ इ॑व श्रवस्य॒तः ॥
यत् , इं॒द्र॒ , सर्गे॑ , अर्व॑तः , चो॒दया॑से , म॒हा॒ऽध॒ने । अ॒स॒म॒ने , अध्व॑नि , वृ॒जि॒ने , प॒थि , श्ये॒नान्ऽइ॑व , श्र॒व॒स्य॒तः ॥
सिंधूँ॑रिव प्रव॒ण आ॑शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑ । आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ॥
सिंधू॑न्ऽइव , प्र॒व॒णे , आ॒शु॒ऽया , य॒तः , यदि॑ , क्लोशं॑ , अनु॑ , स्वनि॑ । आ , ये , वयः॑ , न , वर्वृ॑तति , आमि॑षि , गृ॒भी॒ताः , बा॒ह्वोः , गवि॑ ॥
[४७] स्वादुष्किलायमित्येक त्रिंशदृचस्य सूक्तस्य भारद्वाजोगर्गइंद्रः आद्यानांपंचानां सोमोऽगव्यूतीत्यस्यादेवभूमींद्राः प्रस्तोकइत्यादिचतसृणां प्रस्तोकोवनस्पतइत्यादितिसृणां रथउपश्वासयेतिद्वयोर्दुंदुभिः आमूरजइत्यस्यादुंदुभींद्रौत्रिष्टुप् एकोनविंशीबृहती त्रयोविंश्यनुष्टुप् चतुर्विंशीगायत्री पंचविंशीद्विपदा सप्तविंशीजगती |
स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायं । उ॒तो न्व१॒॑स्य प॑पि॒वांस॒मिंद्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥
स्वा॒दुः , किल॑ , अ॒यं , मधु॑ऽमान् , उ॒त , अ॒यं , ती॒व्रः , किल॑ , अ॒यं , रस॑ऽवान् , उ॒त , अ॒यं । उ॒तो इति॑ , नु , अ॒स्य , प॒पि॒ऽवांसं॑ , इंद्रं॑ , न , कः , च॒न , स॒ह॒ते॒ , आ॒ऽह॒वेषु॑ ॥
अ॒यं स्वा॒दुरि॒ह मदि॑ष्ठ आस॒ यस्येंद्रो॑ वृत्र॒हत्ये॑ म॒माद॑ । पु॒रूणि॒ यश्च्यौ॒त्ना शंब॑रस्य॒ वि न॑व॒तिं नव॑ च दे॒ह्यो॒३॒॑ हन् ॥
अ॒यं , स्वा॒दुः , इ॒ह , मदि॑ष्ठः , आ॒स॒ , यस्य॑ , इंद्रः॑ , वृ॒त्र॒ऽहत्ये॑ , म॒माद॑ । पु॒रूणि॑ , यः , च्यौ॒त्ना , शंब॑रस्य , वि , न॒व॒तिं , नव॑ , च॒ , दे॒ह्यः॑ , हन् ॥
अ॒यं मे॑ पी॒त उदि॑यर्ति॒ वाच॑म॒यं म॑नी॒षामु॑श॒तीम॑जीगः । अ॒यं षळु॒र्वीर॑मिमीत॒ धीरो॒ न याभ्यो॒ भुव॑नं॒ कच्च॒नारे ॥
अ॒यं , मे॒ , पी॒तः , उत् , इ॒य॒र्ति॒ , वाचं॑ , अ॒यं , म॒नी॒षां , उ॒श॒तीं , अ॒जी॒ग॒रिति॑ । अ॒यं , षट् , उ॒र्वीः , अ॒मि॒मी॒त॒ , धीरः॑ , न , याभ्यः॑ , भुव॑नं , कत् , च॒न , आ॒रे ॥
अ॒यं स यो व॑रि॒माणं॑ पृथि॒व्या व॒र्ष्माणं॑ दि॒वो अकृ॑णोद॒यं सः । अ॒यं पी॒यूषं॑ ति॒सृषु॑ प्र॒वत्सु॒ सोमो॑ दाधारो॒र्व१॒॑न्तरि॑क्षं ॥
अ॒यं , सः , यः , व॒रि॒माणं॑ , पृ॒थि॒व्याः , व॒र्ष्माणं॑ , दि॒वः , अकृ॑णोत् , अ॒यं , सः । अ॒यं , पी॒यूषं॑ , ति॒सृषु॑ , प्र॒वत्ऽसु॑ , सोमः॑ , दा॒धा॒र॒ , उ॒रु , अं॒तरि॑क्षं ॥
अ॒यं वि॑दच्चित्र॒दृशी॑क॒मर्णः॑ शु॒क्रस॑द्मनामु॒षसा॒मनी॑के । अ॒यं म॒हान्म॑ह॒ता स्कंभ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भो म॒रुत्वा॑न् ॥
अ॒यं , वि॒द॒त् , चि॒त्र॒ऽदृशी॑कं , अर्णः॑ , शु॒क्रऽस॑द्मनां , उ॒षसां॑ , अनी॑के । अ॒यं , म॒हान् , म॒ह॒ता , स्कंभ॑नेन , उत् , द्यां , अ॒स्त॒भ्ना॒त् , वृ॒ष॒भः , म॒रुत्वा॑न् ॥
धृ॒षत्पि॑ब क॒लशे॒ सोम॑मिंद्र वृत्र॒हा शू॑र सम॒रे वसू॑नां । माध्यं॑दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒स्थानो॑ र॒यिम॒स्मासु॑ धेहि ॥
धृ॒षत् , पि॒ब॒ , क॒लशे॑ , सोमं॑ , इं॒द्र॒ , वृ॒त्र॒ऽहा , शू॒र॒ , सं॒ऽअ॒रे , वसू॑नां । माध्यं॑दिने , सव॑ने , आ , वृ॒ष॒स्व॒ , र॒यि॒ऽस्थानः॑ , र॒यिं , अ॒स्मासु॑ , धे॒हि॒ ॥
इंद्र॒ प्र णः॑ पुरए॒तेव॑ पश्य॒ प्र नो॑ नय प्रत॒रं वस्यो॒ अच्छ॑ । भवा॑ सुपा॒रो अ॑तिपार॒यो नो॒ भवा॒ सुनी॑तिरु॒त वा॒मनी॑तिः ॥
इंद्र॑ , प्र , नः॒ , पु॒र॒ए॒ताऽइ॑व , प॒श्य॒ , प्र , नः॒ , न॒य॒ , प्र॒ऽत॒रं , वस्यः॑ , अच्छ॑ । भव॑ , सु॒ऽपा॒रः , अ॒ति॒ऽपा॒र॒यः , नः॒ , भव॑ , सुऽनी॑तिः , उ॒त , वा॒मऽनी॑तिः ॥
उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वांत्स्व॑र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति । ऋ॒ष्वा त॑ इंद्र॒ स्थवि॑रस्य बा॒हू उप॑ स्थेयाम शर॒णा बृ॒हंता॑ ॥
उ॒रुं , नः॒ , लो॒कं , अनु॑ , ने॒षि॒ , वि॒द्वान् , स्वः॑ऽवत् , ज्योतिः॑ , अभ॑यं , स्व॒स्ति । ऋ॒ष्वा , ते॒ , इं॒द्र॒ , स्थवि॑रस्य , बा॒हू इति॑ , उप॑ , स्थे॒या॒म॒ , श॒र॒णा , बृ॒हंता॑ ॥
वरि॑ष्ठे न इंद्र वं॒धुरे॑ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा । इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न्रायो॑ अ॒र्यः ॥
वरि॑ष्ठे , नः॒ , इं॒द्र॒ , वं॒धुरे॑ , धाः॒ , वहि॑ष्ठयोः , श॒त॒ऽव॒न् , अश्व॑योः , आ । इषं॑ , आ , व॒क्षि॒ , इ॒षां , वर्षि॑ष्ठां , मा , नः॒ , ता॒री॒त् , म॒घ॒ऽव॒न् , रायः॑ , अ॒र्यः ॥
इंद्र॑ मृ॒ळ मह्यं॑ जी॒वातु॑मिच्छ चो॒दय॒ धिय॒मय॑सो॒ न धारां॑ । यत्किं चा॒हं त्वा॒युरि॒दं वदा॑मि॒ तज्जु॑षस्व कृ॒धि मा॑ दे॒ववं॑तं ॥
इंद्र॑ , मृ॒ळ , मह्यं॑ , जी॒वातुं॑ , इ॒च्छ॒ , चो॒दय॑ , धियं॑ , अय॑सः , न , धारां॑ । यत् , किं , च॒ , अ॒हं , त्वा॒ऽयुः , इ॒दं , वदा॑मि , तत् , जु॒ष॒स्व॒ , कृ॒धि , मा॒ , दे॒वऽवं॑तं ॥
त्रा॒तार॒मिंद्र॑मवि॒तार॒मिंद्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिंद्रं॑ । ह्वया॑मि श॒क्रं पु॑रुहू॒तमिंद्रं॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विंद्रः॑ ॥
त्रा॒तारं॑ , इंद्रं॑ , अ॒वि॒तारं॑ , इंद्रं॑ , हवे॑ऽहवे , सु॒ऽहवं॑ , शूरं॑ , इंद्रं॑ । ह्वया॑मि , श॒क्रं , पु॒रु॒ऽहू॒तं , इंद्रं॑ , स्व॒स्ति , नः॒ , म॒घऽवा॑ , धा॒तु॒ , इंद्रः॑ ॥
इंद्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
इंद्रः॑ , सु॒ऽत्रामा॑ , स्वऽवा॑न् , अवः॑ऽभिः , सु॒ऽमृ॒ळी॒कः , भ॒व॒तु॒ , वि॒श्वऽवे॑दाः । बाध॑तां , द्वेषः॑ , अभ॑यं , कृ॒णो॒तु॒ , सु॒ऽवीर्य॑स्य , पत॑यः , स्या॒म॒ ॥
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववाँ॒ इंद्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ॥
तस्य॑ , व॒यं , सु॒ऽम॒तौ , य॒ज्ञिय॑स्य , अपि॑ , भ॒द्रे , सौ॒म॒न॒से , स्या॒म॒ । सः , सु॒ऽत्रामा॑ , स्वऽवा॑न् , इंद्रः॑ , अ॒स्मे इति॑ , आ॒रात् , चि॒त् , द्वेषः॑ , स॒नु॒तः , यु॒यो॒तु॒ ॥
अव॒ त्वे इं॑द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा॑णि नि॒युतो॑ धवंते । उ॒रू न राधः॒ सव॑ना पु॒रूण्य॒पो गा व॑ज्रिन्युवसे॒ समिंदू॑न् ॥
अव॑ , त्वे इति॑ , इं॒द्र॒ , प्र॒ऽवतः॑ , न , ऊ॒र्मिः , गिरः॑ , ब्रह्मा॑णि , नि॒ऽयुतः॑ , ध॒वं॒ते॒ । उ॒रु , न , राधः॑ , सव॑ना , पु॒रूणि॑ , अ॒पः , गाः , व॒ज्रि॒न् , यु॒व॒से॒ , सं , इंदू॑न् ॥
क ईं॑ स्तव॒त्कः पृ॑णा॒त्को य॑जाते॒ यदु॒ग्रमिन्म॒घवा॑ वि॒श्वहावे॑त् । पादा॑विव प्र॒हर॑न्न॒न्यम॑न्यं कृ॒णोति॒ पूर्व॒मप॑रं॒ शची॑भिः ॥
कः , ईं॒ , स्त॒व॒त् , कः , पृ॒णा॒त् , कः , य॒जा॒ते॒ , यत् , उ॒ग्रं , इत् , म॒घऽवा॑ , वि॒श्वहा॑ , अवे॑त् । पादौ॑ऽइव , प्र॒ऽहर॑न् , अ॒न्यंऽअ॑न्यं , कृ॒णोति॑ , पूर्वं॑ , अप॑रं , शची॑भिः ॥
शृ॒ण्वे वी॒र उ॒ग्रमु॑ग्रं दमा॒यन्न॒न्यम॑न्यमतिनेनी॒यमा॑नः । ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒ राजा॑ चोष्कू॒यते॒ विश॒ इंद्रो॑ मनु॒ष्या॑न् ॥
शृ॒ण्वे , वी॒रः , उ॒ग्रंऽउ॑ग्रं , द॒म॒ऽयन् , अ॒न्यंऽअ॑न्यं , अ॒ति॒ऽने॒नी॒यमा॑नः । ए॒ध॒मा॒न॒ऽद्विट् , उ॒भय॑स्य , राजा॑ , चो॒ष्कू॒यते॑ , विशः॑ , इंद्रः॑ , म॒नु॒ष्या॑न् ॥
परा॒ पूर्वे॑षां स॒ख्या वृ॑णक्ति वि॒तर्तु॑राणो॒ अप॑रेभिरेति । अना॑नुभूतीरवधून्वा॒नः पू॒र्वीरिंद्रः॑ श॒रद॑स्तर्तरीति ॥
परा॑ , पूर्वे॑षां , स॒ख्या , वृ॒ण॒क्ति॒ , वि॒ऽतर्तु॑राणः , अप॑रेभिः , ए॒ति॒ । अन॑नुऽभूतीः , अ॒व॒ऽधू॒न्वा॒नः , पू॒र्वीः , इंद्रः॑ , श॒रदः॑ , त॒र्त॒री॒ति॒ ॥
रू॒पंरू॑पं॒ प्रति॑रूपो बभूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय । इंद्रो॑ मा॒याभिः॑ पुरु॒रूप॑ ईयते यु॒क्ता ह्य॑स्य॒ हर॑यः श॒ता दश॑ ॥
रू॒पंऽरू॑पं , प्रति॑ऽरूपः , ब॒भू॒व॒ , तत् , अ॒स्य॒ , रू॒पं , प्र॒ति॒ऽचक्ष॑णाय । इंद्रः॑ , मा॒याभिः॑ , पु॒रु॒ऽरूपः॑ , ई॒य॒ते॒ , यु॒क्ताः , हि , अ॒स्य॒ , हर॑यः , श॒ता , दश॑ ॥
यु॒जा॒नो ह॒रिता॒ रथे॒ भूरि॒ त्वष्टे॒ह रा॑जति । को वि॒श्वाहा॑ द्विष॒तः पक्ष॑ आसत उ॒तासी॑नेषु सू॒रिषु॑ ॥
यु॒जा॒नः , ह॒रिता॑ , रथे॑ , भूरि॑ , त्वष्टा॑ , इ॒ह , रा॒ज॒ति॒ । कः , वि॒श्वाहा॑ , द्वि॒ष॒तः , पक्षः॑ , आ॒स॒ते॒ , उ॒त , आसी॑नेषु , सू॒रिषु॑ ॥
अ॒ग॒व्यू॒ति क्षेत्र॒माग॑न्म देवा उ॒र्वी स॒ती भूमि॑रंहूर॒णाभू॑त् । बृह॑स्पते॒ प्र चि॑कित्सा॒ गवि॑ष्टावि॒त्था स॒ते ज॑रि॒त्र इं॑द्र॒ पंथां॑ ॥
अ॒ग॒व्यू॒ति , क्षेत्रं॑ , आ , अ॒ग॒न्म॒ , दे॒वाः॒ , उ॒र्वी , स॒ती , भूमिः॑ , अं॒हू॒र॒णा , अ॒भू॒त् । बृह॑स्पते , प्र , चि॒कि॒त्स॒ , गोऽइ॑ष्टौ , इ॒त्था , स॒ते , ज॒रि॒त्रे , इं॒द्र॒ , पंथां॑ ॥
दि॒वेदि॑वे स॒दृशी॑र॒न्यमर्धं॑ कृ॒ष्णा अ॑सेध॒दप॒ सद्म॑नो॒ जाः । अहं॑दा॒सा वृ॑ष॒भो व॑स्न॒यंतो॒दव्र॑जे व॒र्चिनं॒ शंब॑रं च ॥
दि॒वेऽदि॑वे , स॒ऽदृशीः॑ , अ॒न्यं , अर्धं॑ , कृ॒ष्णाः , अ॒से॒ध॒त् , अप॑ , सद्म॑नः , जाः । अह॑न् , दा॒सा , वृ॒ष॒भः , व॒स्न॒ऽयंता॑ , उ॒दऽव्र॑जे , व॒र्चिनं॑ , शंब॑रं , च॒ ॥
प्र॒स्तो॒क इन्नु राध॑सस्त इंद्र॒ दश॒ कोश॑यी॒र्दश॑ वा॒जिनो॑ऽदात् । दिवो॑दासादतिथि॒ग्वस्य॒ राधः॑ शांब॒रं वसु॒ प्रत्य॑ग्रभीष्म ॥
प्र॒ऽस्तो॒कः , इत् , नु , राध॑सः , ते॒ , इं॒द्र॒ , दश॑ , कोश॑यीः , दश॑ , वा॒जिनः॑ , अ॒दा॒त् । दिवः॑ऽदासात् , अ॒ति॒थि॒ऽग्वस्य॑ , राधः॑ , शां॒ब॒रं , वसु॑ , प्रति॑ , अ॒ग्र॒भी॒ष्म॒ ॥
दशाश्वां॒दश॒ कोशां॒दश॒ वस्त्राधि॑भोजना । दशो॑ हिरण्यपिं॒डांदिवो॑दासादसानिषं ॥
दश॑ , अश्वा॑न् , दश॑ , कोशा॑न् , दश॑ , वस्त्रा॑ , अधि॑ऽभोजना । दशो॒ इति॑ , हि॒र॒ण्य॒ऽपिं॒डान् , दिवः॑ऽदासात् , अ॒सा॒नि॒षं॒ ॥
दश॒ रथा॒न्प्रष्टि॑मतः श॒तं गा अथ॑र्वभ्यः । अ॒श्व॒थः पा॒यवे॑ऽदात् ॥
दश॑ , रथा॑न् , प्रष्टि॑ऽमतः , श॒तं , गाः , अथ॑र्वऽभ्यः । अ॒श्व॒थः , पा॒यवे॑ , अ॒दा॒त् ॥
महि॒ राधो॑ वि॒श्वज॑न्यं॒ दधा॑नान्भ॒रद्वा॑जांत्सार्ञ्ज॒यो अ॒भ्य॑यष्ट ॥
महि॑ , राधः॑ , वि॒श्वऽज॑न्यं , दधा॑नान् , भ॒रत्ऽवा॑जान् , स॒र्ञ्ज॒यः , अ॒भि , अ॒य॒ष्ट॒ ॥ ।
वन॑स्पते वी॒ड्वं॑गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑ । गोभिः॒ संन॑द्धो असि वी॒ळय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥
वन॑स्पते , वी॒ळुऽअं॑गः , हि , भू॒याः , अ॒स्मत्ऽस॑खा , प्र॒ऽतर॑णः , सु॒ऽवीरः॑ । गोभिः॑ , संऽन॑द्धः , अ॒सि॒ , वी॒ळय॑स्व , आ॒ऽस्था॒ता , ते॒ , ज॒य॒तु॒ , जेत्वा॑नि ॥
दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑ । अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिंद्र॑स्य॒ वज्रं॑ ह॒विषा॒ रथं॑ यज ॥
दि॒वः , पृ॒थि॒व्याः , परि॑ , ओजः॑ , उत्ऽभृ॑तं , वन॒स्पति॑ऽभ्यः , परि॑ , आऽभृ॑तं , सहः॑ । अ॒पां , ओ॒ज्मानं॑ , परि॑ , गोभिः॑ , आऽवृ॑तं , इंद्र॑स्य , वज्रं॑ , ह॒विषा॑ , रथं॑ , य॒ज॒ ॥
इंद्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ । सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥
इंद्र॑स्य , वज्रः॑ , म॒रुतां॑ , अनी॑कं , मि॒त्रस्य॑ , गर्भः॑ , वरु॑णस्य , नाभिः॑ । सः , इ॒मां , नः॒ , ह॒व्यऽदा॑तिं , जु॒षा॒णः , देव॑ , र॒थ॒ , प्रति॑ , ह॒व्या , गृ॒भा॒य॒ ॥
उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् । स दुं॑दुभे स॒जूरिंद्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ॥
उप॑ , श्वा॒स॒य॒ , पृ॒थि॒वीं , उ॒त , द्यां , पु॒रु॒ऽत्रा , ते॒ , म॒नु॒तां॒ , विऽस्थि॑तं , जग॑त् । सः , दुं॒दु॒भे॒ , स॒ऽजूः , इंद्रे॑ण , दे॒वैः , दू॒रात् , दवी॑यः , अप॑ , से॒ध॒ , शत्रू॑न् ॥
आ क्रं॑दय॒ बल॒मोजो॑ न॒ आ धा॒ निः ष्ट॑निहि दुरि॒ता बाध॑मानः । अप॑ प्रोथ दुंदुभे दु॒च्छुना॑ इ॒त इंद्र॑स्य मु॒ष्टिर॑सि वी॒ळय॑स्व ॥
आ , क्रं॒द॒य॒ , बलं॑ , ओजः॑ , नः॒ , आ , धाः॒ , निः , स्त॒नि॒हि॒ , दुः॒ऽइ॒ता , बाध॑मानः । अप॑ , प्रो॒थ॒ , दुं॒दु॒भे॒ , दु॒च्छुनाः॑ , इ॒तः , इंद्र॑स्य , मु॒ष्टिः , अ॒सि॒ , वी॒ळय॑स्व ॥
आमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒मद्दुं॑दु॒भिर्वा॑वदीति । समश्व॑पर्णा॒श्चरं॑ति नो॒ नरो॒ऽस्माक॑मिंद्र र॒थिनो॑ जयंतु ॥
आ , अ॒मूः , अ॒ज॒ , प्र॒ति॒ऽआव॑र्तय , इ॒माः , के॒तु॒ऽमत् , दुं॒दु॒भिः , वा॒व॒दी॒ति॒ । सं , अश्व॑ऽपर्णाः , चरं॑ति , नः॒ , नरः॑ , अ॒स्माकं॑ , इं॒द्र॒ , र॒थिनः॑ , ज॒यं॒तु॒ ॥
[४८] यज्ञायज्ञावइति द्वाविंशत्यृचस्य सूक्तस्य बार्हस्पत्यःशंयुस्तृणपाणिः आद्यानांदशानामग्निरेकादश्यादिपंचानांमरुतस्ततश्चतुर्णां पूषाततस्तृचस्यमरुतः (त्रयोदश्यादितिसृणां इंद्रार्यमपूषविष्ण्वाद्यालिंगोक्तदेवतावा अंत्ययोर्द्यावाभूमीवापृश्निर्वा) आद्याबृहती द्वितीयासतोबृहती तृतीयाबृहती चतुर्थीसतोबृहती पंचमी बृहती षष्ठीमहासतोबृहती सप्तमीमहाबृहती अष्टमीमहासतोबृहती नवमीबृहती दशमीसतोबृहती एकादशीककुप् द्वादशीसतोबृहती त्रयोदशीपुर उष्णिक् चतुर्दशीबृहती पंचदश्यतिजगती षोडशीककुप् सप्तदशीसतोबृहती अष्टादशीपुरउष्णिक् एकोनविंशीविंशीबृहती एकविंशीमहाबृहती यवमध्याद्वाविंश्यनुष्टुप् | (पृष्निसूक्तमिदं) |
य॒ज्ञाय॑ज्ञा वो अ॒ग्नये॑ गि॒रागि॑रा च॒ दक्ष॑से । प्रप्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न शं॑सिषं ॥
य॒ज्ञाऽय॑ज्ञा , वः॒ , अ॒ग्नये॑ , गि॒राऽगि॑रा , च॒ , दक्ष॑से । प्रऽप्र॑ , व॒यं , अ॒मृतं॑ , जा॒तऽवे॑दसं , प्रि॒यं , मि॒त्रं , न , शं॒सि॒षं॒ ॥
ऊ॒र्जो नपा॑तं॒ स हि॒नायम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये । भुव॒द्वाजे॑ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूनां॑ ॥
ऊ॒र्जः , नपा॑तं , सः , हि॒न , अ॒यं , अ॒स्म॒ऽयुः , दाशे॑म , ह॒व्यऽदा॑तये । भुव॑त् , वाजे॑षु , अ॒वि॒ता , भुव॑त् , वृ॒धः , उ॒त , त्रा॒ता , त॒नूनां॑ ॥
वृषा॒ ह्य॑ग्ने अ॒जरो॑ म॒हान्वि॒भास्य॒र्चिषा॑ । अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभिः॒ सु दी॑दिहि ॥
वृषा॑ , हि , अ॒ग्ने॒ , अ॒जरः॑ , म॒हान् , वि॒ऽभासि॑ , अ॒र्चिषा॑ । अज॑स्रेण , शो॒चिषा॑ , शोशु॑चत् , शु॒चे॒ , सु॒दी॒तिऽभिः॑ , सु , दी॒दि॒हि॒ ॥
म॒हो दे॒वान्यज॑सि॒ यक्ष्या॑नु॒षक्तव॒ क्रत्वो॒त दं॒सना॑ । अ॒र्वाचः॑ सीं कृणुह्य॒ग्नेऽव॑से॒ रास्व॒ वाजो॒त वं॑स्व ॥
म॒हः , दे॒वान् , यज॑सि , यक्षि॑ , आ॒नु॒षक् , तव॑ , क्रत्वा॑ , उ॒त , दं॒सना॑ । अ॒र्वाचः॑ , सीं॒ , कृ॒णु॒हि॒ , अ॒ग्ने॒ , अव॑से , रास्व॑ , वाजा॑ , उ॒त , वं॒स्व॒ ॥
यमापो॒ अद्र॑यो॒ वना॒ गर्भ॑मृ॒तस्य॒ पिप्र॑ति । सह॑सा॒ यो म॑थि॒तो जाय॑ते॒ नृभिः॑ पृथि॒व्या अधि॒ सान॑वि ॥
यं , आपः॑ , अद्र॑यः , वना॑ , गर्भं॑ , ऋ॒तस्य॑ , पिप्र॑ति । सह॑सा , यः , म॒थि॒तः , जाय॑ते , नृऽभिः॑ , पृ॒थि॒व्याः , अधि॑ , सान॑वि ॥
आ यः प॒प्रौ भा॒नुना॒ रोद॑सी उ॒भे धू॒मेन॑ धावते दि॒वि । ति॒रस्तमो॑ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व॑रु॒षो वृषा श्या॒वा अ॑रु॒षो वृषा॑ ॥
आ , यः , प॒प्रौ , भा॒नुना॑ , रोद॑सी॒ इति॑ , उ॒भे इति॑ , धू॒मेन॑ , धा॒व॒ते॒ , दि॒वि । ति॒रः , तमः॑ , द॒दृ॒शे॒ , ऊर्म्या॑सु , आ , श्या॒वासु॑ , अ॒रु॒षः , वृषा॑ , आ , श्या॒वाः , अ॒रु॒षः , वृषा॑ ॥
बृ॒हद्भि॑रग्ने अ॒र्चिभिः॑ शु॒क्रेण॑ देव शो॒चिषा॑ । भ॒रद्वा॑जे समिधा॒नो य॑विष्ठ्य रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥
बृ॒हत्ऽभिः॑ , अ॒ग्ने॒ , अ॒र्चिऽभिः॑ , शु॒क्रेण॑ , दे॒व॒ , शो॒चिषा॑ । भ॒रत्ऽवा॑जे , सं॒ऽइ॒धा॒नः , य॒वि॒ष्ठ्य॒ , रे॒वत् , नः॒ , शु॒क्र॒ , दी॒दि॒हि॒ , द्यु॒ऽमत् , पा॒व॒क॒ , दी॒दि॒हि॒ ॥
विश्वा॑सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणां । श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं॑ श॒तं हिमाः॑ स्तो॒तृभ्यो॒ ये च॒ दद॑ति ॥
विश्वा॑सां , गृ॒हऽप॑तिः , वि॒शां , अ॒सि॒ , त्वं , अ॒ग्ने॒ , मानु॑षीणां । श॒तं , पूः॒ऽभिः , य॒वि॒ष्ठ॒ , पा॒हि॒ , अंह॑सः , सं॒ऽए॒द्धारं॑ , श॒तं , हिमाः॑ , स्तो॒तृऽभ्यः॑ , ये , च॒ , दद॑ति ॥
त्वं न॑श्चि॒त्र ऊ॒त्या वसो॒ राधां॑सि चोदय । अ॒स्य रा॒यस्त्वम॑ग्ने र॒थीर॑सि वि॒दा गा॒धं तु॒चे तु नः॑ ॥
त्वं , नः॒ , चि॒त्रः , ऊ॒त्या , वसो॒ इति॑ , राधां॑सि , चो॒द॒य॒ । अ॒स्य , रा॒यः , त्वं , अ॒ग्ने॒ , र॒थीः , अ॒सि॒ , वि॒दाः , गा॒धं , तु॒चे , तु , नः॒ ॥
पर्षि॑ तो॒कं तन॑यं प॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः । अग्ने॒ हेळां॑सि॒ दैव्या॑ युयोधि॒ नोऽदे॑वानि॒ ह्वरां॑सि च ॥
पर्षि॑ , तो॒कं , तन॑यं , प॒र्तृऽभिः॑ , त्वं , अद॑ब्धैः , अप्र॑युत्वऽभिः । अग्ने॑ , हेळां॑सि , दैव्या॑ , यु॒यो॒धि॒ , नः॒ , अदे॑वानि , ह्वरां॑सि , च॒ ॥
आ स॑खायः सब॒र्दुघां॑ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वचः॑ । सृ॒जध्व॒मन॑पस्फुरां ॥
आ , स॒खा॒यः॒ , स॒बः॒ऽदुघां॑ , धे॒नुं , अ॒ज॒ध्वं॒ , उप॑ , नव्य॑सा , वचः॑ । सृ॒जध्वं॑ , अन॑पऽस्फुरां ॥
या शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नवे॒ श्रवोऽमृ॑त्यु॒ धुक्ष॑त । या मृ॑ळी॒के म॒रुतां॑ तु॒राणां॒ या सु॒म्नैरे॑व॒याव॑री ॥
या , शर्धा॑य , मारु॑ताय , स्वऽभा॑नवे , श्रवः॑ , अमृ॑त्यु , धुक्ष॑त । या , मृ॒ळी॒के , म॒रुतां॑ , तु॒राणां॑ , या , सु॒म्नैः , ए॒व॒ऽयाव॑री ॥
भ॒रद्वा॑जा॒याव॑ धुक्षत द्वि॒ता । धे॒नुं च॑ वि॒श्वदो॑हस॒मिषं॑ च वि॒श्वभो॑जसं ॥
भ॒रत्ऽवा॑जाय , अव॑ , धु॒क्ष॒त॒ , द्वि॒ता । धे॒नुं , च॒ , वि॒श्वऽदो॑हसं , इषं॑ , च॒ , वि॒श्वऽभो॑जसं ॥
तं व॒ इंद्रं॒ न सु॒क्रतुं॒ वरु॑णमिव मा॒यिनं॑ । अ॒र्य॒मणं॒ न मं॒द्रं सृ॒प्रभो॑जसं॒ विष्णुं॒ न स्तु॑ष आ॒दिशे॑ ॥
तं , वः॒ , इंद्रं॑ , न , सु॒ऽक्रतुं॑ , वरु॑णंऽइव , मा॒यिनं॑ । अ॒र्य॒मणं॑ , न , मं॒द्रं , सृ॒प्रऽभो॑जसं , विष्णुं॑ , न , स्तु॒षे॒ , आ॒ऽदिशे॑ ॥
त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं॑ पू॒षणं॒ सं यथा॑ श॒ता । सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ आ॒विर्गू॒ळ्हा वसू॑ करत्सु॒वेदा॑ नो॒ वसू॑ करत् ॥
त्वे॒षं , शर्धः॑ , न , मारु॑तं , तु॒वि॒ऽस्वणि॑ , अ॒न॒र्वाणं॑ , पू॒षणं॑ , सं , यथा॑ , श॒ता । सं , स॒हस्रा॑ , कारि॑षत् , च॒र्ष॒णिऽभ्यः॑ , आ , आ॒विः , गू॒ळ्हा , वसु॑ , क॒र॒त् , सु॒ऽवेदा॑ , नः॒ , वसु॑ , क॒र॒त् ॥
आ मा॑ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु ते॑ अपिक॒र्ण आ॑घृणे । अ॒घा अ॒र्यो अरा॑तयः ॥
आ , मा॒ , पू॒ष॒न् , उप॑ , द्र॒व॒ , शंसि॑षं , नु , ते॒ , अ॒पि॒ऽक॒र्णे , आ॒घृ॒णे॒ । अ॒घाः , अ॒र्यः , अरा॑तयः ॥
मा का॑कं॒बीर॒मुद्वृ॑हो॒ वन॒स्पति॒मश॑स्ती॒र्वि हि नीन॑शः । मोत सूरो॒ अह॑ ए॒वा च॒न ग्री॒वा आ॒दध॑ते॒ वेः ॥
मा , का॒कं॒बीरं॑ , उत् , वृ॒हः॒ , वन॒स्पतिं॑ , अश॑स्तीः , वि , हि , नीन॑शः । मा , उ॒त , सूरः॑ , अह॒रिति॑ , ए॒व , च॒न , ग्री॒वाः , आ॒ऽदध॑ते , वेरिति॒ वेः ॥
दृते॑रिव तेऽवृ॒कम॑स्तु स॒ख्यं । अच्छि॑द्रस्य दध॒न्वतः॒ सुपू॑र्णस्य दध॒न्वतः॑ ॥
दृतेः॑ऽइव , ते॒ , अ॒वृ॒कं , अ॒स्तु॒ , स॒ख्यं । अच्छि॑द्रस्य , द॒ध॒न्ऽवतः॑ , सुऽपू॑र्णस्य , द॒ध॒न्ऽवतः॑ ॥
प॒रो हि मर्त्यै॒रसि॑ स॒मो दे॒वैरु॒त श्रि॒या । अ॒भि ख्यः॑ पूष॒न्पृत॑नासु न॒स्त्वमवा॑ नू॒नं यथा॑ पु॒रा ॥
प॒रः , हि , मर्त्यैः॑ , असि॑ , स॒मः , दे॒वैः , उ॒त , श्रि॒या । अ॒भि , ख्यः॒ , पू॒ष॒न् , पृत॑नासु , नः॒ , त्वं , अव॑ , नू॒नं , यथा॑ , पु॒रा ॥
वा॒मी वा॒मस्य॑ धूतयः॒ प्रणी॑तिरस्तु सू॒नृता॑ । दे॒वस्य॑ वा मरुतो॒ मर्त्य॑स्य वेजा॒नस्य॑ प्रयज्यवः ॥
वा॒मी , वा॒मस्य॑ , धू॒त॒यः॒ , प्रऽनी॑तिः , अ॒स्तु॒ , सू॒नृता॑ । दे॒वस्य॑ , वा॒ , म॒रु॒तः॒ , मर्त्य॑स्य , वा॒ , ई॒जा॒नस्य॑ , प्र॒ऽय॒ज्य॒वः॒ ॥
स॒द्यश्चि॒द्यस्य॑ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्यः॑ । त्वे॒षं शवो॑ दधिरे॒ नाम॑ य॒ज्ञियं॑ म॒रुतो॑ वृत्र॒हं शवो॒ ज्येष्ठं॑ वृत्र॒हं शवः॑ ॥
स॒द्यः , चि॒त् , यस्य॑ , च॒र्कृ॒तिः , परि॑ , द्यां , दे॒वः , न , एति॑ , सूर्यः॑ । त्वे॒षं , शवः॑ , द॒धि॒रे॒ , नाम॑ , य॒ज्ञियं॑ , म॒रुतः॑ , वृ॒त्र॒ऽहं , शवः॑ , ज्येष्ठं॑ , वृ॒त्र॒ऽहं , शवः॑ ॥
स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत । पृश्न्या॑ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ॥
स॒कृत् , ह॒ , द्यौः , अ॒जा॒य॒त॒ , स॒कृत् , भूमिः॑ , अ॒जा॒य॒त॒ । पृश्न्याः॑ , दु॒ग्धं , स॒कृत् , पयः॑ , तत् , अ॒न्यः , न , अनु॑ , जा॒य॒ते॒ ॥
[४९] स्तुषेजनमिति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवास्त्रिष्टुबंत्याशक्वरी | (इतश्चत्वारिवैश्व | भेदपक्षे - विश्वेदेवाः १ | अग्निः १ अहोरात्रे १ वायुः १ अश्विनौ १ विश्वेदेवाः १ सरस्वती १ पूषा १ अग्नित्वष्टारौ १ रुद्रः १ मरुतः २ विष्णुः १ विश्वेदेवाः २ एवं १५) |
स्तु॒षे जनं॑ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यंता॑ । त आ ग॑मंतु॒ त इ॒ह श्रु॑वंतु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निः ॥
स्तु॒षे , जनं॑ , सु॒ऽव्र॒तं , नव्य॑सीभिः , गीः॒ऽभिः , मि॒त्रावरु॑णा , सु॒म्न॒ऽयंता॑ । ते , आ , ग॒मं॒तु॒ , ते , इ॒ह , श्रु॒वं॒तु॒ , सु॒ऽक्ष॒त्रासः॑ , वरु॑णः , मि॒त्रः , अ॒ग्निः ॥
वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः । दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै ॥
वि॒शःऽवि॑शः , ईड्यं॑ , अ॒ध्व॒रेषु॑ , अदृ॑प्तऽक्रतुं , अ॒र॒तिं , यु॒व॒त्योः । दि॒वः , शिशुं॑ , सह॑सः , सू॒नुं , अ॒ग्निं , य॒ज्ञस्य॑ , के॒तुं , अ॒रु॒षं , यज॑ध्यै ॥
अ॒रु॒षस्य॑ दुहि॒तरा॒ विरू॑पे॒ स्तृभि॑र॒न्या पि॑पि॒शे सूरो॑ अ॒न्या । मि॒थ॒स्तुरा॑ वि॒चरं॑ती पाव॒के मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा॑ने ॥
अ॒रु॒षस्य॑ , दु॒हि॒तरा॑ , विरू॑पे॒ इति॒ विऽरू॑पे , स्तृऽभिः॑ , अ॒न्या , पि॒पि॒शे , सूरः॑ , अ॒न्या । मि॒थः॒ऽतुरा॑ , वि॒चरं॑ती॒ इति॑ वि॒ऽचरं॑ती , पा॒व॒के इति॑ , मन्म॑ , श्रु॒तं , न॒क्ष॒तः॒ , ऋ॒च्यमा॑ने॒ इति॑ ॥
प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा॑रं रथ॒प्रां । द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥
प्र , वा॒युं , अच्छ॑ , बृ॒ह॒ती , म॒नी॒षा , बृ॒हत्ऽर॑यिं , वि॒श्वऽवा॑रं , र॒थ॒ऽप्रां । द्यु॒तत्ऽया॑मा , नि॒ऽयुतः॑ , पत्य॑मानः , क॒विः , क॒विं , इ॒य॒क्ष॒सि॒ , प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ॥
स मे॒ वपु॑श्छदयद॒श्विनो॒र्यो रथो॑ वि॒रुक्मा॒न्मन॑सा युजा॒नः । येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥
सः , मे॒ , वपुः॑ , छ॒द॒य॒त् , अ॒श्विनोः॑ , यः , रथः॑ , वि॒रुक्मा॑न् , मन॑सा , यु॒जा॒नः । येन॑ , न॒रा॒ , ना॒स॒त्या॒ , इ॒ष॒यध्यै॑ , व॒र्तिः , या॒थः , तन॑याय , त्मने॑ , च॒ ॥
पर्ज॑न्यवाता वृषभा पृथि॒व्याः पुरी॑षाणि जिन्वत॒मप्या॑नि । सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वं ॥
पर्ज॑न्यवाता , वृ॒ष॒भा॒ , पृ॒थि॒व्याः , पुरी॑षाणि , जि॒न्व॒तं॒ , अप्या॑नि । सत्य॑ऽश्रुतः , क॒व॒यः॒ , यस्य॑ , गीः॒ऽभिः , जग॑तः , स्था॒तः॒ , जग॑त् , आ , कृ॒णु॒ध्वं॒ ॥
पावी॑रवी क॒न्या॑ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् । ग्नाभि॒रच्छि॑द्रं शर॒णं स॒जोषा॑ दुरा॒धर्षं॑ गृण॒ते शर्म॑ यंसत् ॥
पावी॑रवी , क॒न्या॑ , चि॒त्रऽआ॑युः , सर॑स्वती , वी॒रऽप॑त्नी , धियं॑ , धा॒त् । ग्नाभिः॑ , अच्छि॑द्रं , श॒र॒णं , स॒ऽजोषाः॑ , दुः॒ऽआ॒धर्षं॑ , गृ॒ण॒ते , शर्म॑ , यं॒स॒त् ॥
प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नळ॒र्कं । स नो॑ रासच्छु॒रुध॑श्चं॒द्राग्रा॒ धियं॑धियं सीषधाति॒ प्र पू॒षा ॥
प॒थःऽप॑थः , परि॑ऽपतिं , व॒च॒स्या , कामे॑न , कृ॒तः , अ॒भि , आ॒न॒ट् , अ॒र्कं । सः , नः॒ , रा॒स॒त् , शु॒रुधः॑ , चं॒द्रऽअ॑ग्राः , धियं॑ऽधियं , सी॒स॒धा॒ति॒ , प्र , पू॒षा ॥
प्र॒थ॒म॒भाजं॑ य॒शसं॑ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्वं॑ । होता॑ यक्षद्यज॒तं प॒स्त्या॑नाम॒ग्निस्त्वष्टा॑रं सु॒हवं॑ वि॒भावा॑ ॥
प्र॒थ॒म॒ऽभाजं॑ , य॒शसं॑ , व॒यः॒ऽधां , सु॒ऽपा॒णिं , दे॒वं , सु॒ऽगभ॑स्तिं , ऋभ्वं॑ । होता॑ , य॒क्ष॒त् , य॒ज॒तं , प॒स्त्या॑नां , अ॒ग्निः , त्वष्टा॑रं , सु॒ऽहवं॑ , वि॒भाऽवा॑ ॥
भुव॑नस्य पि॒तरं॑ गी॒र्भिरा॒भी रु॒द्रं दिवा॑ व॒र्धया॑ रु॒द्रम॒क्तौ । बृ॒हंत॑मृ॒ष्वम॒जरं॑ सुषु॒म्नमृध॑ग्घुवेम क॒विने॑षि॒तासः॑ ॥
भुव॑नस्य , पि॒तरं॑ , गीः॒ऽभिः , आ॒भिः , रु॒द्रं , दिवा॑ , व॒र्धय॑ , रु॒द्रं , अ॒क्तौ । बृ॒हंतं॑ , ऋ॒ष्वं , अ॒जरं॑ , सु॒ऽसु॒म्नं , ऋध॑क् , हु॒वे॒म॒ , क॒विना॑ , इ॒षि॒तासः॑ ॥
आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो गं॒त गृ॑ण॒तो व॑र॒स्यां । अ॒चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धंत॑ इ॒त्था नक्षं॑तो नरो अंगिर॒स्वत् ॥
आ , यु॒वा॒नः॒ , क॒व॒यः॒ , य॒ज्ञि॒या॒सः॒ , मरु॑तः , गं॒त , गृ॒ण॒तः , व॒र॒स्यां । अ॒चि॒त्रं , चि॒त् , हि , जिन्व॑थ , वृ॒धंतः॑ , इ॒त्था , नक्षं॑तः , न॒रः॒ , अं॒गि॒र॒स्वत् ॥
प्र वी॒राय॒ प्र त॒वसे॑ तु॒रायाजा॑ यू॒थेव॑ पशु॒रक्षि॒रस्तं॑ । स पि॑स्पृशति त॒न्वि॑ श्रु॒तस्य॒ स्तृभि॒र्न नाकं॑ वच॒नस्य॒ विपः॑ ॥
प्र , वी॒राय॑ , प्र , त॒वसे॑ , तु॒राय॑ , अज॑ , यू॒थाऽइ॑व , प॒शु॒ऽरक्षिः॑ , अस्तं॑ । सः , पि॒स्पृ॒श॒ति॒ , त॒न्वि॑ , श्रु॒तस्य॑ , स्तृऽभिः॑ , न , नाकं॑ , व॒च॒नस्य॑ , विपः॑ ॥
यो रजां॑सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ । तस्य॑ ते॒ शर्म॑न्नुपद॒द्यमा॑ने रा॒या म॑देम त॒न्वा॒३॒॑ तना॑ च ॥
यः , रजां॑सि , वि॒ऽम॒मे , पार्थि॑वानि , त्रिः , चि॒त् , विष्णुः॑ , मन॑वे , बा॒धि॒ताय॑ । तस्य॑ , ते॒ , शर्म॑न् , उ॒प॒ऽद॒द्यमा॑ने , रा॒या , म॒दे॒म॒ , त॒न्वा॑ , तना॑ , च॒ ॥
तन्नोऽहि॑र्बु॒ध्न्यो॑ अ॒द्भिर॒र्कैस्तत्पर्व॑त॒स्तत्स॑वि॒ता चनो॑ धात् । तदोष॑धीभिर॒भि रा॑ति॒षाचो॒ भगः॒ पुरं॑धिर्जिन्वतु॒ प्र रा॒ये ॥
तत् , नः॒ , अहिः॑ , बु॒ध्न्यः॑ , अ॒त्ऽभिः , अ॒र्कैः , तत् , पर्व॑तः , तत् , स॒वि॒ता , चनः॑ , धा॒त् । तत् , ओष॑धीभिः , अ॒भि , रा॒ति॒ऽसाचः॑ , भगः॑ , पुरं॑ऽधिः , जि॒न्व॒तु॒ , प्र , रा॒ये ॥
नु नो॑ र॒यिं र॒थ्यं॑ चर्षणि॒प्रां पु॑रु॒वीरं॑ म॒ह ऋ॒तस्य॑ गो॒पां । क्षयं॑ दाता॒जरं॒ येन॒ जनां॒त्स्पृधो॒ अदे॑वीर॒भि च॒ क्रमा॑म॒ विश॒ आदे॑वीर॒भ्य१॒॑श्नवा॑म ॥
नु , नः॒ , र॒यिं , र॒थ्यं॑ , च॒र्ष॒णि॒ऽप्रां , पु॒रु॒ऽवीरं॑ , म॒हः , ऋ॒तस्य॑ , गो॒पां । क्षयं॑ , दा॒त॒ , अ॒जरं॑ , येन॑ , जना॑न् , स्पृधः॑ , अदे॑वीः , अ॒भि , च॒ , क्रमा॑म , विशः॑ , आऽदे॑वीः , अ॒भि , अ॒श्नवा॑म ॥
[५०] हुवेवइति पंचदशर्चस्य सूक्तस्य भारद्वाजऋजिश्वाविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे –विश्वे। १ सूर्यः १ द्यावापृथिवी १ मरुतः २ इंद्रः १ अपः १ सविता १ अग्निः १ अश्विनौ १ विश्वे० ५ एवं १५) |
हु॒वे वो॑ दे॒वीमदि॑तिं॒ नमो॑भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निं । अ॒भि॒क्ष॒दाम॑र्य॒मणं॑ सु॒शेवं॑ त्रा॒तॄंदे॒वांत्स॑वि॒तारं॒ भगं॑ च ॥
हु॒वे , वः॒ , दे॒वीं , अदि॑तिं , नमः॑ऽभिः , मृ॒ळी॒काय॑ , वरु॑णं , मि॒त्रं , अ॒ग्निं । अ॒भि॒ऽक्ष॒दां , अ॒र्य॒मणं॑ , सु॒ऽशेवं॑ , त्रा॒तॄन् , दे॒वान् , स॒वि॒तारं॑ , भगं॑ , च॒ ॥
सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान् । द्वि॒जन्मा॑नो॒ य ऋ॑त॒सापः॑ स॒त्याः स्व॑र्वंतो यज॒ता अ॑ग्निजि॒ह्वाः ॥
सु॒ऽज्योति॑षः , सू॒र्य॒ , दक्ष॑ऽपितॄन् , अ॒ना॒गाः॒ऽत्वे , सु॒ऽम॒हः॒ , वी॒हि॒ , दे॒वान् । द्वि॒ऽजन्मा॑नः , ये , ऋ॒त॒ऽसापः॑ , स॒त्याः , स्वः॑ऽवंतः , य॒ज॒ताः , अ॒ग्नि॒ऽजि॒ह्वाः ॥
उ॒त द्या॑वापृथिवी क्ष॒त्रमु॒रु बृ॒हद्रो॑दसी शर॒णं सु॑षुम्ने । म॒हस्क॑रथो॒ वरि॑वो॒ यथा॑ नो॒ऽस्मे क्षया॑य धिषणे अने॒हः ॥
उ॒त , द्या॒वा॒पृ॒थि॒वी॒ इति॑ , क्ष॒त्रं , उ॒रु , बृ॒हत् , रो॒द॒सी॒ इति॑ , श॒र॒णं , सु॒सु॒म्ने॒ इति॑ सुऽसुम्ने । म॒हः , क॒र॒थः॒ , वरि॑वः , यथा॑ , नः॒ , अ॒स्मे इति॑ , क्षया॑य , धि॒ष॒णे॒ इति॑ , अ॒ने॒हः ॥
आ नो॑ रु॒द्रस्य॑ सू॒नवो॑ नमंताम॒द्या हू॒तासो॒ वस॒वोऽधृ॑ष्टाः । यदी॒मर्भे॑ मह॒ति वा॑ हि॒तासो॑ बा॒धे म॒रुतो॒ अह्वा॑म दे॒वान् ॥
आ , नः॒ , रु॒द्रस्य॑ , सू॒नवः॑ , न॒मं॒तां॒ , अ॒द्य , हू॒तासः॑ , वस॑वः , अधृ॑ष्टाः । यत् , ईं॒ , अर्भे॑ , म॒ह॒ति , वा॒ , हि॒तासः॑ , बा॒धे , म॒रुतः॑ , अह्वा॑म , दे॒वान् ॥
मि॒म्यक्ष॒ येषु॑ रोद॒सी नु दे॒वी सिष॑क्ति पू॒षा अ॑भ्यर्ध॒यज्वा॑ । श्रु॒त्वा हवं॑ मरुतो॒ यद्ध॑ या॒थ भूमा॑ रेजंते॒ अध्व॑नि॒ प्रवि॑क्ते ॥
मि॒म्यक्ष॑ , येषु॑ , रो॒द॒सी , नु , दे॒वी , सिस॑क्ति , पू॒षा , अ॒भ्य॒र्ध॒ऽयज्वा॑ । श्रु॒त्वा , हवं॑ , म॒रु॒तः॒ , यत् , ह॒ , या॒थ , भूम॑ , रे॒जं॒ते॒ , अध्व॑नि , प्रऽवि॑क्ते ॥
अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेंद्रं॒ ब्रह्म॑णा जरित॒र्नवे॑न । श्रव॒दिद्धव॒मुप॑ च॒ स्तवा॑नो॒ रास॒द्वाजाँ॒ उप॑ म॒हो गृ॑णा॒नः ॥
अ॒भि , त्यं , वी॒रं , गिर्व॑णसं , अ॒र्च॒ , इंद्रं॑ , ब्रह्म॑णा , ज॒रि॒तः॒ , नवे॑न । श्रव॑त् , इत् , हवं॑ , उप॑ , च॒ , स्तवा॑नः , रास॑त् , वाजा॑न् , उप॑ , म॒हः , गृ॒णा॒नः ॥
ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः । यू॒यं हि ष्ठा भि॒षजो॑ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः ॥
ओ॒मानं॑ , आ॒पः॒ , मा॒नु॒षीः॒ , अमृ॑क्तं , धात॑ , तो॒काय॑ , तन॑याय , शं , योः । यू॒यं , हि , स्थ , भि॒षजः॑ , मा॒तृऽत॑माः , विश्व॑स्य , स्था॒तुः , जग॑तः , जनि॑त्रीः ॥
आ नो॑ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर॑ण्यपाणिर्यज॒तो ज॑गम्यात् । यो दत्र॑वाँ उ॒षसो॒ न प्रती॑कं व्यूर्णु॒ते दा॒शुषे॒ वार्या॑णि ॥
आ , नः॒ , दे॒वः , स॒वि॒ता , त्राय॑माणः , हिर॑ण्यऽपाणिः , य॒ज॒तः , ज॒ग॒म्या॒त् । यः , दत्र॑ऽवान् , उ॒षसः॑ , न , प्रती॑कं , वि॒ऽऊ॒र्णु॒ते , दा॒शुषे॑ , वार्या॑णि ॥
उ॒त त्वं सू॑नो सहसो नो अ॒द्या दे॒वाँ अ॒स्मिन्न॑ध्व॒रे व॑वृत्याः । स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीरः॑ ॥
उ॒त , त्वं , सू॒नो॒ इति॑ , स॒ह॒सः॒ , नः॒ , अ॒द्य , आ , दे॒वान् , अ॒स्मिन् , अ॒ध्व॒रे , व॒वृ॒त्याः॒ । स्यां , अ॒हं , ते॒ , सदं॑ , इ॒त् , रा॒तौ , तव॑ , स्यां॒ , अ॒ग्ने॒ , अव॑सा , सु॒ऽवीरः॑ ॥
उ॒त त्या मे॒ हव॒मा ज॑ग्म्यातं॒ नास॑त्या धी॒भिर्यु॒वमं॒ग वि॑प्रा । अत्रिं॒ न म॒हस्तम॑सोऽमुमुक्तं॒ तूर्व॑तं नरा दुरि॒ताद॒भीके॑ ॥
उ॒त , त्या , मे॒ , हवं॑ , आ , ज॒ग्म्या॒तं॒ , नास॑त्या , धी॒भिः , यु॒वं , अं॒ग , वि॒प्रा॒ । अत्रिं॑ , न , म॒हः , तम॑सः , अ॒मु॒मु॒क्तं॒ , तूर्व॑तं , न॒रा॒ , दुः॒ऽइ॒तात् , अ॒भीके॑ ॥
ते नो॑ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो॑ भूत नृ॒वतः॑ पुरु॒क्षोः । द॒श॒स्यंतो॑ दि॒व्याः पार्थि॑वासो॒ गोजा॑ता॒ अप्या॑ मृ॒ळता॑ च देवाः ॥
ते , नः॒ , रा॒यः , द्यु॒ऽमतः॑ , वाज॑ऽवतः , दा॒तारः॑ , भू॒त॒ , नृ॒ऽवतः॑ , पु॒रु॒ऽक्षोः । द॒श॒स्यंतः॑ , दि॒व्याः , पार्थि॑वासः , गोऽजा॑ताः , अप्याः॑ , मृ॒ळत॑ , च॒ , दे॒वाः॒ ॥
ते नो॑ रु॒द्रः सर॑स्वती स॒जोषा॑ मी॒ळ्हुष्मं॑तो॒ विष्णु॑र्मृळंतु वा॒युः । ऋ॒भु॒क्षा वाजो॒ दैव्यो॑ विधा॒ता प॒र्जन्या॒वाता॑ पिप्यता॒मिषं॑ नः ॥
ते , नः॒ , रु॒द्रः , सर॑स्वती , स॒ऽजोषाः॑ , मी॒ळ्हुष्मं॑तः , विष्णुः॑ , मृ॒ळं॒तु॒ , वा॒युः । ऋ॒भु॒क्षाः , वाजः॑ , दैव्यः॑ , वि॒ऽधा॒ता , प॒र्जन्या॒वाता॑ , पि॒प्य॒तां॒ , इषं॑ , नः॒ ॥
उ॒त स्य दे॒वः स॑वि॒ता भगो॑ नो॒ऽपां नपा॑दवतु॒ दानु॒ पप्रिः॑ । त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभिः॑ पृथि॒वी स॑मु॒द्रैः ॥
उ॒त , स्यः , दे॒वः , स॒वि॒ता , भगः॑ , नः॒ , अ॒पां , नपा॑त् , अ॒व॒तु॒ , दानु॑ , पप्रिः॑ । त्वष्टा॑ , दे॒वेभिः॑ , जनि॑ऽभिः , स॒ऽजोषाः॑ , द्यौः , दे॒वेभिः॑ , पृ॒थि॒वी , स॒मु॒द्रैः ॥
उ॒त नोऽहि॑र्बु॒ध्न्यः॑ शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः । विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒नाः स्तु॒ता मंत्राः॑ कविश॒स्ता अ॑वंतु ॥
उ॒त , नः॒ , अहिः॑ , बु॒ध्न्यः॑ , शृ॒णो॒तु॒ , अ॒जः , एक॑ऽपात् , पृ॒थि॒वी , स॒मु॒द्रः । विश्वे॑ , दे॒वाः , ऋ॒त॒ऽवृधः॑ , हु॒वा॒नाः , स्तु॒ताः , मंत्राः॑ , क॒वि॒ऽश॒स्ताः , अ॒वं॒तु॒ ॥
ए॒वा नपा॑तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा॑जा अ॒भ्य॑र्चंत्य॒र्कैः । ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे॑ स्तु॒तासो॑ भूता यजत्राः ॥
ए॒व , नपा॑तः , मम॑ , तस्य॑ , धी॒भिः , भ॒रत्ऽवा॑जाः , अ॒भि , अ॒र्चं॒ति॒ , अ॒र्कैः । ग्नाः , हु॒तासः॑ , वस॑वः , अधृ॑ष्टाः , विश्वे॑ , स्तु॒तासः॑ , भू॒त॒ , य॒ज॒त्राः॒ ॥
[५१] उदुत्यदिति षोळशर्चस्य सूक्तस्य भारद्वाजऋजिश्वा विश्वेदेवातिष्टुप् त्रयोदश्याद्यास्तिस्राउष्णिहोंत्यानुष्टुप् | (भेदपक्षे- सूर्य : २ विश्वेदेवाः १० अग्निः १ सोमः १ विश्वेदेवाः २ एवं १६) |
उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धं । ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी॑कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत् ॥
उत् , ऊँ॒ इति॑ , त्यत् , चक्षुः॑ , महि॑ , मि॒त्रयोः॑ , आ , एति॑ , प्रि॒यं , वरु॑णयोः , अद॑ब्धं । ऋ॒तस्य॑ , शुचि॑ , द॒र्श॒तं , अनी॑कं , रु॒क्मः , न , दि॒वः , उत्ऽइ॑ता , वि , अ॒द्यौ॒त् ॥
वेद॒ यस्त्रीणि॑ वि॒दथा॑न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्रः॑ । ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न्न॒भि च॑ष्टे॒ सूरो॑ अ॒र्य एवा॑न् ॥
वेद॑ , यः , त्रीणि॑ , वि॒दथा॑नि , ए॒षां॒ , दे॒वानां॑ , जन्म॑ , स॒नु॒तः , आ , च॒ , विप्रः॑ । ऋ॒जु , मर्ते॑षु , वृ॒जि॒ना , च॒ , पश्य॑न् , अ॒भि , च॒ष्टे॒ , सूरः॑ , अ॒र्यः , एवा॑न् ॥
स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् । अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा॑ वोचे सध॒न्यः॑ पाव॒कान् ॥
स्तु॒षे , ऊँ॒ इति॑ , वः॒ , म॒हः , ऋ॒तस्य॑ , गो॒पान् , अदि॑तिं , मि॒त्रं , वरु॑णं , सु॒ऽजा॒तान् । अ॒र्य॒मणं॑ , भगं॑ , अद॑ब्धऽधीतीन् , अच्छ॑ , वो॒चे॒ , स॒ऽध॒न्यः॑ , पा॒व॒कान् ॥
रि॒शाद॑सः॒ सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञः॑ सुवस॒नस्य॑ दा॒तॄन् । यूनः॑ सुक्ष॒त्रान्क्षय॑तो दि॒वो नॄना॑दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ॥
रि॒शाद॑सः , सत्ऽप॑तीन् , अद॑ब्धान् , म॒हः , राज्ञः॑ , सु॒ऽव॒स॒नस्य॑ , दा॒तॄन् । यूनः॑ , सु॒ऽक्ष॒त्रान् , क्षय॑तः , दि॒वः , नॄन् , आ॒दि॒त्यान् , या॒मि॒ , अदि॑तिं , दु॒वः॒ऽयु ॥
द्यौ॒३॒॑ष्पितः॒ पृथि॑वि॒ मात॒रध्रु॒गग्ने॑ भ्रातर्वसवो मृ॒ळता॑ नः । विश्व॑ आदित्या अदिते स॒जोषा॑ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि यं॑त ॥
द्यौः॑ , पित॒रिति॑ , पृ\थि॑वि , मातः॑ , अध्रु॑क् , अग्ने॑ , भ्रा॒तः॒ , व॒स॒वः॒ , मृ॒ळत॑ , नः॒ । विश्वे॑ , आ॒दि॒त्याः॒ , अ॒दि॒ते॒ , स॒ऽजोषाः॑ , अ॒स्मभ्यं॑ , शर्म॑ , ब॒हु॒लं , वि , यं॒त॒ ॥
मा नो॒ वृका॑य वृ॒क्ये॑ समस्मा अघाय॒ते री॑रधता यजत्राः । यू॒यं हि ष्ठा र॒थ्यो॑ नस्त॒नूनां॑ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व ॥
मा , नः॒ , वृका॑य , वृ॒क्ये॑ , स॒म॒स्मै॒ , अ॒घ॒ऽय॒ते , री॒र॒ध॒त॒ , य॒ज॒त्राः॒ । यू॒यं , हि , स्थ , र॒थ्यः॑ , नः॒ , त॒नूनां॑ , यू॒यं , दक्ष॑स्य , वच॑सः , ब॒भू॒व ॥
मा व॒ एनो॑ अ॒न्यकृ॑तं भुजेम॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे । विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं॑ रीरिषीष्ट ॥
मा , वः॒ , एनः॑ , अ॒न्यऽकृ॑तं , भु॒जे॒म॒ , मा , तत् , क॒र्म॒ , व॒स॒वः॒ , यत् , चय॑ध्वे । विश्व॑स्य , हि , क्षय॑थ , वि॒श्व॒ऽदे॒वाः॒ , स्व॒यं , रि॒पुः , त॒न्वं॑ , रि॒रि॒षी॒ष्ट॒ ॥
नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो॑ दाधार पृथि॒वीमु॒त द्यां । नमो॑ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ॥
नमः॑ , इत् , उ॒ग्रं , नमः॑ , आ , वि॒वा॒से॒ , नमः॑ , दा॒धा॒र॒ , पृ॒थि॒वीं , उ॒त , द्यां । नमः॑ , दे॒वेभ्यः॑ , नमः॑ , ई॒शे॒ , ए॒षां॒ , कृ॒तं , चि॒त् , एनः॑ , नम॑सा , आ , वि॒वा॒से॒ ॥
ऋ॒तस्य॑ वो र॒थ्यः॑ पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒ अद॑ब्धान् । ताँ आ नमो॑भिरुरु॒चक्ष॑सो॒ नॄन्विश्वा॑न्व॒ आ न॑मे म॒हो य॑जत्राः ॥
ऋ॒तस्य॑ , वः॒ , र॒थ्यः॑ , पू॒तऽद॑क्षान् , ऋ॒तस्य॑ , प॒स्त्य॒ऽसदः॑ , अद॑ब्धान् । तान् , आ , नमः॑ऽभिः , उ॒रु॒ऽचक्ष॑सः , नॄन् , विश्वा॑न् , वः॒ , आ , न॒मे॒ , म॒हः , य॒ज॒त्राः॒ ॥
ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा॑नि दुरि॒ता नयं॑ति । सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निर्ऋ॒तधी॑तयो वक्म॒राज॑सत्याः ॥
ते , हि , श्रेष्ठ॑ऽवर्चसः , ते , ऊँ॒ इति॑ , नः॒ , ति॒रः , विश्वा॑नि , दुः॒ऽइ॒ता , नयं॑ति । सु॒ऽक्ष॒त्रासः॑ , वरु॑णः , मि॒त्रः , अ॒ग्निः , ऋ॒तऽधी॑तयः , व॒क्म॒राज॑ऽसत्याः ॥
ते न॒ इंद्रः॑ पृथि॒वी क्षाम॑ वर्धन्पू॒षा भगो॒ अदि॑तिः॒ पंच॒ जनाः॑ । सु॒शर्मा॑णः॒ स्वव॑सः सुनी॒था भवं॑तु नः सुत्रा॒त्रासः॑ सुगो॒पाः ॥
ते , नः॒ , इंद्रः॑ , पृ॒थि॒वी , क्षाम॑ , व॒र्ध॒न् , पू॒षा , भगः॑ , अदि॑तिः , पंच॑ , जनाः॑ । सु॒ऽशर्मा॑णः , सु॒ऽअव॑सः , सु॒ऽनी॒थाः , भवं॑तु , नः॒ , सु॒ऽत्रा॒त्रासः॑ , सु॒ऽगो॒पाः ॥
नू स॒द्मानं॑ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या॑ति॒ होता॑ । आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै॑र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वंद ॥
नु , स॒द्मानं॑ , दि॒व्यं , नंशि॑ , दे॒वाः॒ , भार॑त्ऽवाजः , सु॒ऽम॒तिं , या॒ति॒ , होता॑ । आ॒सा॒नेभिः॑ , यज॑मानः , मि॒येधैः॑ , दे॒वानां॑ , जन्म॑ , व॒सु॒ऽयुः , व॒वं॒द॒ ॥
अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्यं॑ । द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गं ॥
अप॑ , त्यं , वृ॒जि॒नं , रि॒पुं , स्ते॒नं , अ॒ग्ने॒ , दुः॒ऽआ॒ध्यं॑ । द॒वि॒ष्ठं , अ॒स्य॒ , स॒त्ऽप॒ते॒ , कृ॒धि , सु॒ऽगं ॥
ग्रावा॑णः सोम नो॒ हि कं॑ सखित्व॒नाय॑ वाव॒शुः । ज॒ही न्य१॒॑त्रिणं॑ प॒णिं वृको॒ हि षः ॥
ग्रावा॑णः , सो॒म॒ , नः॒ , हि , कं॒ , स॒खि॒ऽत्व॒नाय॑ , वा॒व॒शुः । ज॒हि , नि , अ॒त्रिणं॑ , प॒णिं , वृकः॑ , हि , सः ॥
यू॒यं हि ष्ठा सु॑दानव॒ इंद्र॑ज्येष्ठा अ॒भिद्य॑वः । कर्ता॑ नो॒ अध्व॒न्ना सु॒गं गो॒पा अ॒मा ॥
यू॒यं , हि , स्थ , सु॒ऽदा॒न॒वः॒ , इंद्र॑ऽज्येष्ठाः , अ॒भिऽद्य॑वः । कर्त॑ , नः॒ , अध्व॑न् , आ , सु॒ऽगं , गो॒पाः , अ॒मा ॥
अपि॒ पंथा॑मगन्महि स्वस्ति॒गाम॑ने॒हसं॑ । येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ विं॒दते॒ वसु॑ ॥
अपि॑ , पंथां॑ , अ॒ग॒न्म॒हि॒ , स्व॒स्ति॒ऽगां , अ॒ने॒हसं॑ । येन॑ , विश्वाः॑ , परि॑ , द्विषः॑ , वृ॒णक्ति॑ , विं॒दते॑ , वसु॑ ॥
[५२] नतद्दिवेति सप्तदशर्चस्य सूक्तस्य भारद्वाजऋजिश्व विश्वेदेवास्त्रिष्टुप्सप्तम्याद्याःषट्गायत्र्यश्चतुर्दशी जगती | (भेदपक्षे-विश्वेदेवाः २ सोमः १ विश्वे ८ अग्निः १ विश्वे ३ अग्निपर्जन्यौ १ विश्वे १ एवं १७) |
न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी॑भिरा॒भिः । उ॒ब्जंतु॒ तं सु॒भ्व१॒॑ः पर्व॑तासो॒ नि ही॑यतामतिया॒जस्य॑ य॒ष्टा ॥
न , तत् , दि॒वा , न , पृ॒थि॒व्या , अनु॑ , म॒न्ये॒ , न , य॒ज्ञेन॑ , न , उ॒त , शमी॑भिः , आ॒भिः । उ॒ब्जंतु॑ , तं , सु॒ऽभ्वः॑ , पर्व॑तासः , नि , ही॒य॒तां॒ , अ॒ति॒ऽया॒जस्य॑ , य॒ष्टा ॥
अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा॑णं॒ निनि॑त्सात् । तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ संतु ब्रह्म॒द्विष॑म॒भि तं शो॑चतु॒ द्यौः ॥
अति॑ , वा॒ , यः , म॒रु॒तः॒ , मन्य॑ते , नः॒ , ब्रह्म॑ , वा॒ , यः , क्रि॒यमा॑णं , निनि॑त्सात् । तपूं॑षि , तस्मै॑ , वृ॒जि॒नानि॑ , सं॒तु॒ , ब्र॒ह्म॒ऽद्विषं॑ , अ॒भि , तं , शो॒च॒तु॒ , द्यौः ॥
किमं॒ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किमं॒ग त्वा॑हुरभिशस्ति॒पां नः॑ । किमं॒ग नः॑ पश्यसि नि॒द्यमा॑नान्ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥
किं , अं॒ग , त्वा॒ , ब्रह्म॑णः , सो॒म॒ , गो॒पां , किं , अं॒ग , त्वा॒ , आ॒हुः॒ , अ॒भि॒श॒स्ति॒ऽपां , नः॒ । किं , अं॒ग , नः॒ , प॒श्य॒सि॒ , नि॒द्यमा॑नान् , ब्र॒ह्म॒ऽद्विषे॑ , तपु॑षिं , हे॒तिं , अ॒स्य॒ ॥
अवं॑तु॒ मामु॒षसो॒ जाय॑माना॒ अवं॑तु मा॒ सिंध॑वः॒ पिन्व॑मानाः । अवं॑तु मा॒ पर्व॑तासो ध्रु॒वासोऽवं॑तु मा पि॒तरो॑ दे॒वहू॑तौ ॥
अवं॑तु , मां , उ॒षसः॑ , जाय॑मानाः , अवं॑तु , मा॒ , सिंध॑वः , पिन्व॑मानाः । अवं॑तु , मा॒ , पर्व॑तासः , ध्रु॒वासः॑ , अवं॑तु , मा॒ , पि॒तरः॑ , दे॒वऽहू॑तौ ॥
वि॒श्व॒दानीं॑ सु॒मन॑सः स्याम॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चरं॑तं । तथा॑ कर॒द्वसु॑पति॒र्वसू॑नां दे॒वाँ ओहा॒नोऽव॒साग॑मिष्ठः ॥
वि॒श्व॒ऽदानीं॑ , सु॒ऽमन॑सः , स्या॒म॒ , पश्ये॑म , नु , सूर्यं॑ , उ॒त्ऽचरं॑तं । तथा॑ , क॒र॒त् , वसु॑ऽपतिः , वसू॑नां , दे॒वान् , ओहा॑नः , अव॑सा , आऽग॑मिष्ठः ॥
इंद्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒ सर॑स्वती॒ सिंधु॑भिः॒ पिन्व॑माना । प॒र्जन्यो॑ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंसः॑ सु॒हवः॑ पि॒तेव॑ ॥
इंद्रः॑ , नेदि॑ष्ठं , अव॑सा , आऽग॑मिष्ठः , सर॑स्वती , सिंधु॑ऽभिः , पिन्व॑माना । प॒र्जन्यः॑ , नः॒ , ओष॑धीभिः , म॒यः॒ऽभुः , अ॒ग्निः , सु॒ऽशंसः॑ , सु॒ऽहवः॑ , पि॒ताऽइ॑व ॥
विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हवं॑ । एदं ब॒र्हिर्नि षी॑दत ॥
विश्वे॑ , दे॒वा॒सः॒ , आ , ग॒त॒ , शृ॒णु॒त , मे॒ , इ॒मं , हवं॑ । आ , इ॒दं , ब॒र्हिः , नि , सी॒द॒त॒ ॥
यो वो॑ देवा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूष॑ति । तं विश्व॒ उप॑ गच्छथ ॥
यः , वः॒ , दे॒वाः॒ , घृ॒तऽस्नु॑ना , ह॒व्येन॑ , प्र॒ति॒ऽभूष॑ति । तं , विश्वे॑ , उप॑ , ग॒च्छ॒थ॒ ॥
उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वंत्व॒मृत॑स्य॒ ये । सु॒मृ॒ळी॒का भ॑वंतु नः ॥
उप॑ , नः॒ , सू॒नवः॑ , गिरः॑ , शृ॒ण्वंतु॑ , अ॒मृत॑स्य , ये । सु॒ऽमृ॒ळी॒काः , भ॒वं॒तु॒ , नः॒ ॥
विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ । जु॒षंतां॒ युज्यं॒ पयः॑ ॥
विश्वे॑ , दे॒वाः , ऋ॒त॒ऽवृधः॑ , ऋ॒तुऽभिः॑ , ह॒व॒न॒ऽश्रुतः॑ । जु॒षंतां॑ , युज्यं॑ , पयः॑ ॥
स्तो॒त्रमिंद्रो॑ म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो अ॑र्य॒मा । इ॒मा ह॒व्या जु॑षंत नः ॥
स्तो॒त्रं , इंद्रः॑ , म॒रुत्ऽग॑णः , त्वष्टृ॑ऽमान् , मि॒त्रः , अ॒र्य॒मा । इ॒मा , ह॒व्या , जु॒षं॒त॒ , नः॒ ॥
इ॒मं नो॑ अग्ने अध्व॒रं होत॑र्वयुन॒शो य॑ज । चि॒कि॒त्वांदैव्यं॒ जनं॑ ॥
इ॒मं , नः॒ , अ॒ग्ने॒ , अ॒ध्व॒रं , होतः॑ , व॒यु॒न॒ऽशः , य॒ज॒ । चि॒कि॒त्वान् , दैव्यं॑ , जनं॑ ॥
विश्वे॑ देवाः शृणु॒तेमं हवं॑ मे॒ ये अं॒तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वं ॥
विश्वे॑ , दे॒वाः॒ , शृ॒णु॒त , इ॒मं , हवं॑ , मे॒ , ये , अं॒तरि॑क्षे , ये , उप॑ , द्यवि॑ , स्थ । ये , अ॒ग्नि॒ऽजि॒ह्वाः , उ॒त , वा॒ , यज॑त्राः , आ॒ऽसद्य॑ , अ॒स्मिन् , ब॒र्हिषि॑ , मा॒द॒य॒ध्वं॒ ॥
विश्वे॑ दे॒वा मम॑ शृण्वंतु य॒ज्ञिया॑ उ॒भे रोद॑सी अ॒पां नपा॑च्च॒ मन्म॑ । मा वो॒ वचां॑सि परि॒चक्ष्या॑णि वोचं सु॒म्नेष्विद्वो॒ अंत॑मा मदेम ॥
विश्वे॑ , दे॒वाः , मम॑ , शृ॒ण्वं॒तु॒ , य॒ज्ञियाः॑ , उ॒भे इति॑ , रोद॑सी॒ इति॑ , अ॒पां , नपा॑त् , च॒ , मन्म॑ । मा , वः॒ , वचां॑सि , प॒रि॒ऽचक्ष्या॑णि , वो॒चं॒ , सु॒म्नेषु॑ , इत् , वः॒ , अंत॑माः , म॒दे॒म॒ ॥
ये के च॒ ज्मा म॒हिनो॒ अहि॑माया दि॒वो ज॑ज्ञि॒रे अ॒पां स॒धस्थे॑ । ते अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायुः॒ क्षप॑ उ॒स्रा व॑रिवस्यंतु दे॒वाः ॥
ये , के , च॒ , ज्मा , म॒हिनः॑ , अहि॑ऽमायाः , दि॒वः , ज॒ज्ञि॒रे , अ॒पां , स॒धऽस्थे॑ । ते , अ॒स्मभ्यं॑ , इ॒षये॑ , विश्वं॑ , आयुः॑ , क्षपः॑ , उ॒स्राः , व॒रि॒व॒स्यं॒तु॒ , दे॒वाः ॥
अग्नी॑पर्जन्या॒वव॑तं॒ धियं॑ मे॒ऽस्मिन्हवे॑ सुहवा सुष्टु॒तिं नः॑ । इळा॑म॒न्यो ज॒नय॒द्गर्भ॑म॒न्यः प्र॒जाव॑ती॒रिष॒ आ ध॑त्तम॒स्मे ॥
अग्नी॑पर्जन्यौ , अव॑तं , धियं॑ , मे॒ , अ॒स्मिन् , हवे॑ , सु॒ऽह॒वा॒ , सु॒ऽस्तु॒तिं , नः॒ । इळां॑ , अ॒न्यः , ज॒नय॑त् , गर्भं॑ , अ॒न्यः , प्र॒जाऽव॑तीः , इषः॑ , आ , ध॒त्तं॒ , अ॒स्मे इति॑ ॥
स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्नौ सू॒क्तेन॑ म॒हा नम॒सा वि॑वासे । अ॒स्मिन्नो॑ अ॒द्य वि॒दथे॑ यजत्रा॒ विश्वे॑ देवा ह॒विषि॑ मादयध्वं ॥
स्ती॒र्णे , ब॒र्हिषि॑ , सं॒ऽइ॒धा॒ने , अ॒ग्नौ , सु॒ऽउ॒क्तेन॑ , म॒हा , नम॑सा , आ , वि॒वा॒से॒ । अ॒स्मिन् , नः॒ , अ॒द्य , वि॒दथे॑ , य॒ज॒त्राः॒ , विश्वे॑ , दे॒वाः॒ , ह॒विषि॑ , मा॒द॒य॒ध्वं॒ ॥
[५३] वयमुत्वेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषा गायत्री अष्टम्यनुष्टुप् |
व॒यमु॑ त्वा पथस्पते॒ रथं॒ न वाज॑सातये । धि॒ये पू॑षन्नयुज्महि ॥
व॒यं , ऊँ॒ इति॑ , त्वा॒ , प॒थः॒ , प॒ते॒ , रथं॑ , न , वाज॑ऽसातये । धि॒ये , पू॒ष॒न् , अ॒यु॒ज्म॒हि॒ ॥
अ॒भि नो॒ नर्यं॒ वसु॑ वी॒रं प्रय॑तदक्षिणं । वा॒मं गृ॒हप॑तिं नय ॥
अ॒भि , नः॒ , नर्यं॑ , वसु॑ , वी॒रं , प्रय॑तऽदक्षिणं । वा॒मं , गृ॒हऽप॑तिं , न॒य॒ ॥
अदि॑त्संतं चिदाघृणे॒ पूषं॒दाना॑य चोदय । प॒णेश्चि॒द्वि म्र॑दा॒ मनः॑ ॥
अदि॑त्संतं , चि॒त् , आ॒घृ॒णे॒ , पूष॑न् , दाना॑य , चो॒द॒य॒ । प॒णेः , चि॒त् , वि , म्र॒द॒ , मनः॑ ॥
वि प॒थो वाज॑सातये चिनु॒हि वि मृधो॑ जहि । साधं॑तामुग्र नो॒ धियः॑ ॥
वि , प॒थः , वाज॑ऽसातये , चि॒नु॒हि , वि , मृधः॑ , ज॒हि॒ । साधं॑तां , उ॒ग्र॒ , नः॒ , धियः॑ ॥
परि॑ तृंधि पणी॒नामार॑या॒ हृद॑या कवे । अथे॑म॒स्मभ्यं॑ रंधय ॥
परि॑ , तृं॒धि॒ , प॒णी॒नां , आर॑या , हृद॑या , क॒वे॒ । अथ॑ , ईं॒ , अ॒स्मभ्यं॑ , रं॒ध॒य॒ ॥
वि पू॑ष॒न्नार॑या तुद प॒णेरि॑च्छ हृ॒दि प्रि॒यं । अथे॑म॒स्मभ्यं॑ रंधय ॥
वि , पू॒ष॒न् , आर॑या , तु॒द॒ , प॒णेः , इ॒च्छ॒ , हृ॒दि , प्रि॒यं । अथ॑ , ईं॒ , अ॒स्मभ्यं॑ , रं॒ध॒य॒ ॥
आ रि॑ख किकि॒रा कृ॑णु पणी॒नां हृद॑या कवे । अथे॑म॒स्मभ्यं॑ रंधय ॥
आ , रि॒ख॒ , कि॒कि॒रा , कृ॒णु॒ , प॒णी॒नां , हृद॑या , क॒वे॒ । अथ॑ , ईं॒ , अ॒स्मभ्यं॑ , रं॒ध॒य॒ ॥
यां पू॑षन्ब्रह्म॒चोद॑नी॒मारां॒ बिभ॑र्ष्याघृणे । तया॑ समस्य॒ हृद॑य॒मा रि॑ख किकि॒रा कृ॑णु ॥
यां , पू॒ष॒न् , ब्र॒ह्म॒ऽचोद॑नीं , आरां॑ , बिभ॑र्षि , आ॒घृ॒णे॒ । तया॑ , स॒म॒स्य॒ , हृद॑यं , आ , रि॒ख॒ , कि॒कि॒रा , कृ॒णु॒ ॥
या ते॒ अष्ट्रा॒ गोओ॑प॒शाघृ॑णे पशु॒साध॑नी । तस्या॑स्ते सु॒म्नमी॑महे ॥
या , ते॒ , अष्ट्रा॑ , गोऽओ॑पशा , आघृ॑णे , प॒शु॒ऽसाध॑नी । तस्याः॑ , ते॒ , सु॒म्नं , ई॒म॒हे॒ ॥
उ॒त नो॑ गो॒षणिं॒ धिय॑मश्व॒सां वा॑ज॒सामु॒त । नृ॒वत्कृ॑णुहि वी॒तये॑ ॥
उ॒त , नः॒ , गो॒ऽसनिं॑ , धियं॑ , अ॒श्व॒सां , वा॒ज॒ऽसां , उ॒त । नृ॒ऽवत् , कृ॒णु॒हि॒ , वी॒तये॑ ॥
[५४] संपूषन्निति दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री |
सं पू॑षन्वि॒दुषा॑ नय॒ यो अंज॑सानु॒शास॑ति । य ए॒वेदमिति॒ ब्रव॑त् ॥
सं , पू॒ष॒न् , वि॒दुषा॑ , न॒य॒ , यः , अंज॑सा , अ॒नु॒ऽशास॑ति । यः , ए॒व , इ॒दं , इति॑ , ब्रव॑त् ॥
समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ अ॑भि॒शास॑ति । इ॒म ए॒वेति॑ च॒ ब्रव॑त् ॥
सं , ऊँ॒ इति॑ , पू॒ष्णा , ग॒मे॒म॒हि॒ , यः , गृ॒हान् , अ॒भि॒ऽशास॑ति । इ॒मे , ए॒व , इति॑ , च॒ , ब्रव॑त् ॥
पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते । नो अ॑स्य व्यथते प॒विः ॥
पू॒ष्णः , च॒क्रं , न , रि॒ष्य॒ति॒ , न , कोशः॑ , अव॑ , प॒द्य॒ते॒ । नो इति॑ , अ॒स्य॒ , व्य॒थ॒ते॒ , प॒विः ॥
यो अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते । प्र॒थ॒मो विं॑दते॒ वसु॑ ॥
यः , अ॒स्मै॒ , ह॒विषा॑ , अवि॑धत् , न , तं , पू॒षा , अपि॑ , मृ॒ष्य॒ते॒ । प्र॒थ॒मः , विं॒द॒ते॒ , वसु॑ ॥
पू॒षा गा अन्वे॑तु नः पू॒षा र॑क्ष॒त्वर्व॑तः । पू॒षा वाजं॑ सनोतु नः ॥
पू॒षा , गाः , अनु॑ , ए॒तु॒ , नः॒ , पू॒षा , र॒क्ष॒तु॒ , अर्व॑तः । पू॒षा , वाजं॑ , स॒नो॒तु॒ , नः॒ ॥
पूष॒न्ननु॒ प्र गा इ॑हि॒ यज॑मानस्य सुन्व॒तः । अ॒स्माकं॑ स्तुव॒तामु॒त ॥
पूष॑न् , अनु॑ , प्र , गाः , इ॒हि॒ , यज॑मानस्य , सु॒न्व॒तः । अ॒स्माकं॑ , स्तु॒व॒तां , उ॒त ॥
माकि॑र्नेश॒न्माकीं॑ रिष॒न्माकीं॒ सं शा॑रि॒ केव॑टे । अथारि॑ष्टाभि॒रा ग॑हि ॥
माकिः॑ , नेश॑त् , माकीं॑ , रिष॑त् , माकीं॑ , सं , शा॒रि॒ , केव॑टे । अथ॑ , अरि॑ष्टाभिः , आ , गा॒हि॒ ॥
शृ॒ण्वंतं॑ पू॒षणं॑ व॒यमिर्य॒मन॑ष्टवेदसं । ईशा॑नं रा॒य ई॑महे ॥
शृ॒ण्वंतं॑ , पू॒षणं॑ , व॒यं , इर्यं॑ , अन॑ष्टऽवेदसं । ईशा॑नं , रा॒यः , ई॒म॒हे॒ ॥
पूषं॒तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न । स्तो॒तार॑स्त इ॒ह स्म॑सि ॥
पूष॑न् , तव॑ , व्र॒ते , व॒यं , न , रि॒ष्ये॒म॒ , कदा॑ , च॒न । स्तो॒तारः॑ , ते॒ , इ॒ह , स्म॒सि॒ ॥
परि॑ पू॒षा प॒रस्ता॒द्धस्तं॑ दधातु॒ दक्षि॑णं । पुन॑र्नो न॒ष्टमाज॑तु ॥
परि॑ , पू॒षा , प॒रस्ता॑त् , हस्तं॑ , द॒धा॒तु॒ , दक्षि॑णं । पुनः॑ , नः॒ , न॒ष्टं , आ , अ॒ज॒तु॒ ॥
[५५] एहिवामिति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषागायत्री |
एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै । र॒थीर्ऋ॒तस्य॑ नो भव ॥
आ , इ॒हि॒ , वां , वि॒ऽमु॒चः॒ , न॒पा॒त् , आघृ॑णे , सं , स॒चा॒व॒है॒ । र॒थीः , ऋ॒तस्य॑ , नः॒ , भ॒व॒ ॥
र॒थीत॑मं कप॒र्दिन॒मीशा॑नं॒ राध॑सो म॒हः । रा॒यः सखा॑यमीमहे ॥
र॒थिऽत॑मं , क॒प॒र्दिनं॑ , ईशा॑नं , राध॑सः , म॒हः । रा॒यः , सखा॑यं , ई॒म॒हे॒ ॥
रा॒यो धारा॑स्याघृणे॒ वसो॑ रा॒शिर॑जाश्व । धीव॑तोधीवतः॒ सखा॑ ॥
रा॒यः , धारा॑ , अ॒सि॒ , आ॒घृ॒णे॒ , वसोः॑ , रा॒शिः , अ॒ज॒ऽअ॒श्व॒ । धीव॑तःऽधीवतः , सखा॑ ॥
पू॒षणं॒ न्व१॒॑जाश्व॒मुप॑ स्तोषाम वा॒जिनं॑ । स्वसु॒र्यो जा॒र उ॒च्यते॑ ॥
पू॒षणं॑ , नु , अ॒जऽअ॑श्वं , उप॑ , स्तो॒षा॒म॒ , वा॒जिनं॑ । स्वसुः॑ , यः , जा॒रः , उ॒च्यते॑ ॥
मा॒तुर्दि॑धि॒षुम॑ब्रवं॒ स्वसु॑र्जा॒रः शृ॑णोतु नः । भ्रातेंद्र॑स्य॒ सखा॒ मम॑ ॥
मा॒तुः , दि॒धि॒षुं , अ॒ब्र॒वं॒ , स्वसुः॑ , जा॒रः , शृ॒णो॒तु॒ , नः॒ । भ्राता॑ , इंद्र॑स्य , सखा॑ , मम॑ ॥
आजासः॑ पू॒षणं॒ रथे॑ निशृं॒भास्ते ज॑न॒श्रियं॑ । दे॒वं व॑हंतु॒ बिभ्र॑तः ॥
आ , अ॒जासः॑ , पू॒षणं॑ , रथे॑ , नि॒ऽशृं॒भाः , ते , ज॒न॒ऽश्रियं॑ । दे॒वं , व॒हं॒तु॒ , बिभ्र॑तः ॥
[५६] यएनमिति षडृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजः पूषागायत्री अंत्यानुष्टुप् |
य ए॑नमा॒दिदे॑शति करं॒भादिति॑ पू॒षणं॑ । न तेन॑ दे॒व आ॒दिशे॑ ॥
यः , ए॒नं॒ , आ॒ऽदिदे॑शति , क॒रं॒भ॒ऽअत् , इति॑ , पू॒षणं॑ । न , तेन॑ , दे॒वः , आ॒ऽदिशे॑ ॥
उ॒त घा॒ स र॒थीत॑मः॒ सख्या॒ सत्प॑तिर्यु॒जा । इंद्रो॑ वृ॒त्राणि॑ जिघ्नते ॥
उ॒त , घ॒ , सः , र॒थिऽत॑मः , सख्या॑ , सत्ऽप॑तिः , यु॒जा । इंद्रः॑ , वृ॒त्राणि॑ , जि॒घ्न॒ते॒ ॥
उ॒तादः प॑रु॒षे गवि॒ सूर॑श्च॒क्रं हि॑र॒ण्ययं॑ । न्यै॑रयद्र॒थीत॑मः ॥
उ॒त , अ॒दः , प॒रु॒षे , गवि॑ , सूरः॑ , च॒क्रं , हि॒र॒ण्ययं॑ । नि , ऐ॒र॒य॒त् , र॒थिऽत॑मः ॥
यद॒द्य त्वा॑ पुरुष्टुत॒ ब्रवा॑म दस्र मंतुमः । तत्सु नो॒ मन्म॑ साधय ॥
यत् , अ॒द्य , त्वा॒ , पु॒रु॒ऽस्तु॒त॒ , ब्रवा॑म , द॒स्र॒ , मं॒तु॒ऽमः॒ । तत् , सु , नः॒ , मन्म॑ , सा॒ध॒य॒ ॥
इ॒मं च॑ नो ग॒वेष॑णं सा॒तये॑ सीषधो ग॒णं । आ॒रात्पू॑षन्नसि श्रु॒तः ॥
इ॒मं , च॒ , नः॒ , गो॒ऽएष॑णं , सा॒तये॑ , सी॒स॒धः॒ , ग॒णं । आ॒रात् , पू॒ष॒न् , अ॒सि॒ , श्रु॒तः ॥
आ ते॑ स्व॒स्तिमी॑मह आ॒रेअ॑घा॒मुपा॑वसुं । अ॒द्या च॑ स॒र्वता॑तये॒ श्वश्च॑ स॒र्वता॑तये ॥
आ , ते॒ , स्व॒स्तिं , ई॒म॒हे॒ , आ॒रेऽअ॑घां , उप॑ऽवसुं । अ॒द्य , च॒ , स॒र्वऽता॑तये , श्वः , च॒ , स॒र्वऽता॑तये ॥
[५७] इंद्रान्विति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रापूषणौगायत्री |
इंद्रा॒ नु पू॒षणा॑ व॒यं स॒ख्याय॑ स्व॒स्तये॑ । हु॒वेम॒ वाज॑सातये ॥
इंद्रा॑ , नु , पू॒षणा॑ , व॒यं , स॒ख्याय॑ , स्व॒स्तये॑ । हु॒वेम॑ , वाज॑ऽसातये ॥
सोम॑म॒न्य उपा॑सद॒त्पात॑वे च॒म्वोः॑ सु॒तं । क॒रं॒भम॒न्य इ॑च्छति ॥
सोमं॑ , अ॒न्यः , उप॑ , अ॒स॒द॒त् , पात॑वे , च॒म्वोः॑ , सु॒तं । क॒रं॒भं , अ॒न्यः , इ॒च्छ॒ति॒ ॥
अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी॑ अ॒न्यस्य॒ संभृ॑ता । ताभ्यां॑ वृ॒त्राणि॑ जिघ्नते ॥
अ॒जाः , अ॒न्यस्य॑ , वह्न॑यः , हरी॒ इति॑ , अ॒न्यस्य॑ , संऽभृ॑ता । ताभ्यां॑ , वृ॒त्राणि॑ , जि॒घ्न॒ते॒ ॥
यदिंद्रो॒ अन॑य॒द्रितो॑ म॒हीर॒पो वृषं॑तमः । तत्र॑ पू॒षाभ॑व॒त्सचा॑ ॥
यत् , इंद्रः॑ , अन॑यत् , रितः॑ , म॒हीः , अ॒पः , वृष॑न्ऽतमः । तत्र॑ , पू॒षा , अ॒भ॒व॒त् , सचा॑ ॥
तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व । इंद्र॑स्य॒ चा र॑भामहे ॥
तां , पू॒ष्णः , सु॒ऽम॒तिं , व॒यं , वृ॒क्षस्य॑ , प्र , व॒यांऽइ॑व । इंद्र॑स्य , च॒ , आ , र॒भा॒म॒हे॒ ॥
उत्पू॒षणं॑ युवामहे॒ऽभीशूँ॑रिव॒ सार॑थिः । म॒ह्या इंद्रं॑ स्व॒स्तये॑ ॥
उत् , पू॒षणं॑ , यु॒वा॒म॒हे॒ , अ॒भीशू॑न्ऽइव , सार॑थिः । म॒ह्यै , इंद्रं॑ , स्व॒स्तये॑ ॥
[५८] शुक्रंतइति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः पूषात्रिष्टुप् द्वितीयाजगती |
शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यद्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥
शु॒क्रं , ते॒ , अ॒न्यत् , य॒ज॒तं , ते॒ , अ॒न्यत् , विषु॑रूपे॒ इति॒ विषु॑ऽरूपे , अह॑नी॒ इति॑ , द्यौःऽइ॑व , अ॒सि॒ । विश्वाः॑ , हि , मा॒याः , अव॑सि , स्व॒धा॒ऽवः॒ , भ॒द्रा , ते॒ , पू॒ष॒न् , इ॒ह , रा॒तिः , अ॒स्तु॒ ॥
अ॒जाश्वः॑ पशु॒पा वाज॑पस्त्यो धियंजि॒न्वो भुव॑ने॒ विश्वे॒ अर्पि॑तः । अष्ट्रां॑ पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत्सं॒चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते ॥
अ॒जऽअ॑श्वः , प॒शु॒ऽपाः , वाज॑ऽपस्त्यः , धि॒यं॒ऽजि॒न्वः , भुव॑ने , विश्वे॑ , अर्पि॑तः । अष्ट्रां॑ , पू॒षा , शि॒थि॒रां , उ॒त्ऽवरी॑वृजत् , सं॒ऽचक्षा॑णः , भुव॑ना , दे॒वः , ई॒य॒ते॒ ॥
यास्ते॑ पूष॒न्नावो॑ अं॒तः स॑मु॒द्रे हि॑र॒ण्ययी॑रं॒तरि॑क्षे॒ चरं॑ति । ताभि॑र्यासि दू॒त्यां सूर्य॑स्य॒ कामे॑न कृत॒ श्रव॑ इ॒च्छमा॑नः ॥
याः , ते॒ , पू॒ष॒न् , नावः॑ , अं॒तरिति॑ , स॒मु॒द्रे , हि॒र॒ण्ययीः॑ , अं॒तरि॑क्षे , चरं॑ति । ताभिः॑ , या॒सि॒ , दू॒त्यां , सूर्य॑स्य , कामे॑न , कृ॒त॒ , श्रवः॑ , इ॒च्छमा॑नः ॥
पू॒षा सु॒बंधु॑र्दि॒व आ पृ॑थि॒व्या इ॒ळस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः । यं दे॒वासो॒ अद॑दुः सू॒र्यायै॒ कामे॑न कृ॒तं त॒वसं॒ स्वंचं॑ ॥
पू॒षा , सु॒ऽबंधुः॑ , दि॒वः , आ , पृ॒थि॒व्याः , इ॒ळः , पतिः॑ , म॒घऽवा॑ , द॒स्मऽव॑र्चाः । यं , दे॒वासः॑ , अद॑दुः , सू॒र्यायै॑ , कामे॑न , कृ॒तं , त॒वसं॑ , सु॒ऽअंचं॑ ॥
[५९] प्रनुवोचेति दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज इंद्राग्नी बृहती अंत्याश्चतस्रोनुष्टुभः |
प्र नु वो॑चा सु॒तेषु॑ वां वी॒र्या॒३॒॑ यानि॑ च॒क्रथुः॑ । ह॒तासो॑ वां पि॒तरो॑ दे॒वश॑त्रव॒ इंद्रा॑ग्नी॒ जीव॑थो यु॒वं ॥
प्र , नु , वो॒च॒ , सु॒तेषु॑ , वां॒ , वी॒र्या॑ , यानि॑ , च॒क्रथुः॑ । ह॒तासः॑ , वां॒ , पि॒तरः॑ , दे॒वऽश॑त्रवः , इंद्रा॑ग्नी॒ इति॑ , जीव॑थः , यु॒वं ॥
बळि॒त्था म॑हि॒मा वा॒मिंद्रा॑ग्नी॒ पनि॑ष्ठ॒ आ । स॒मा॒नो वां॑ जनि॒ता भ्रात॑रा यु॒वं य॒मावि॒हेह॑मातरा ॥
बट् , इ॒त्था , म॒हि॒मा , वां॒ , इंद्रा॑ग्नी॒ इति॑ , पनि॑ष्ठः , आ । स॒मा॒नः , वां॒ , ज॒नि॒ता , भ्रात॑रा , यु॒वं , य॒मौ , इ॒हेह॑ऽमातरा ॥
ओ॒कि॒वांसा॑ सु॒ते सचाँ॒ अश्वा॒ सप्ती॑ इ॒वाद॑ने । इंद्रा॒ न्व१॒॑ग्नी अव॑से॒ह व॒ज्रिणा॑ व॒यं दे॒वा ह॑वामहे ॥
ओ॒कि॒ऽवांसा॑ , सु॒ते , सचा॑ , अश्वा॑ , सप्ती॑ इ॒वेति॒ सप्ती॑ऽइव , आद॑ने । इंद्रा॑ , नु , अ॒ग्नी इति॑ , अव॑सा , इ॒ह , व॒ज्रिणा॑ , व॒यं , दे॒वा , ह॒वा॒म॒हे॒ ॥
य इं॑द्राग्नी सु॒तेषु॑ वां॒ स्तव॒त्तेष्वृ॑तावृधा । जो॒ष॒वा॒कं वद॑तः पज्रहोषिणा॒ न दे॑वा भ॒सथ॑श्च॒न ॥
यः , इं॒द्रा॒ग्नी॒ इति॑ , सु॒तेषु॑ , वां॒ , स्तव॑त् , तेषु॑ , ऋ॒त॒ऽवृ॒धा॒ । जो॒ष॒ऽवा॒कं , वद॑तः , प॒ज्र॒ऽहो॒षि॒णा॒ , न , दे॒वा॒ , भ॒सथः॑ , च॒न ॥
इंद्रा॑ग्नी॒ को अ॒स्य वां॒ देवौ॒ मर्त॑श्चिकेतति । विषू॑चो॒ अश्वा॑न्युयुजा॒न ई॑यत॒ एकः॑ समा॒न आ रथे॑ ॥
इंद्रा॑ग्नी॒ इति॑ , कः , अ॒स्य , वां॒ , देवौ॑ , मर्तः॑ , चि॒के॒त॒ति॒ । विषू॑चः , अश्वा॑न् , यु॒यु॒जा॒नः , ई॒य॒ते॒ , एकः॑ , स॒मा॒ने , आ , रथे॑ ॥
इंद्रा॑ग्नी अ॒पादि॒यं पूर्वागा॑त्प॒द्वती॑भ्यः । हि॒त्वी शिरो॑ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दा न्य॑क्रमीत् ॥
इंद्रा॑ग्नी॒ इति॑ , अ॒पात् , इ॒यं , पूर्वा॑ , आ , अ॒गा॒त् , प॒त्ऽवती॑भ्यः । हि॒त्वी , शिरः॑ , जि॒ह्वया॑ , वाव॑दत् , चर॑त् , त्रिं॒शत् , प॒दा , नि , अ॒क्र॒मी॒त् ॥
इंद्रा॑ग्नी॒ आ हि त॑न्व॒ते नरो॒ धन्वा॑नि बा॒ह्वोः । मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्क्तं॒ गवि॑ष्टिषु ॥
इंद्रा॑ग्नी॒ इति॑ , आ , हि , त॒न्व॒ते , नरः॑ , धन्वा॑नि , बा॒ह्वोः । मा , नः॒ , अ॒स्मिन् , म॒हा॒ऽध॒ने , परा॑ , व॒र्क्तं॒ , गोऽइ॑ष्टिषु ॥
इंद्रा॑ग्नी॒ तपं॑ति मा॒घा अ॒र्यो अरा॑तयः । अप॒ द्वेषां॒स्या कृ॑तं युयु॒तं सूर्या॒दधि॑ ॥
इंद्रा॑ग्नी॒ इति॑ , तपं॑ति , मा॒ , अ॒घाः , अ॒र्यः , अरा॑तयः । अप॑ , द्वेषां॑सि , आ , कृ॒तं॒ , यु॒यु॒तं , सूर्या॑त् , अधि॑ ॥
इंद्रा॑ग्नी यु॒वोरपि॒ वसु॑ दि॒व्यानि॒ पार्थि॑वा । आ न॑ इ॒ह प्र य॑च्छतं र॒यिं वि॒श्वायु॑पोषसं ॥
इंद्रा॑ग्नी॒ इति॑ , यु॒वोः , अपि॑ , वसु॑ , दि॒व्यानि॑ , पार्थि॑वा । आ , नः॒ , इ॒ह , प्र , य॒च्छ॒तं॒ , र॒यिं , वि॒श्वायु॑ऽपोषसं ॥
इंद्रा॑ग्नी उक्थवाहसा॒ स्तोमे॑भिर्हवनश्रुता । विश्वा॑भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये॑ ॥
इंद्रा॑ग्नी॒ इति॑ , उ॒क्थ॒ऽवा॒ह॒सा॒ , स्तोमे॑भिः , ह॒व॒न॒ऽश्रु॒ता॒ । विश्वा॑भिः , गीः॒ऽभिः , आ , ग॒तं॒ , अ॒स्य , सोम॑स्य , पी॒तये॑ ॥
[६०] श्नथद्वृत्रमिति पंचदशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राग्नीगायत्री आद्यास्तिस्रस्त्रयोदशीचत्रिष्टुभः चतुर्दशीबृहत्यंत्यानुष्टुप् |
श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिंद्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यंता॑ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यंता॑ ॥
श्नथ॑त् , वृ॒त्रं , उ॒त , स॒नो॒ति॒ , वाजं॑ , इंद्रा॑ , यः , अ॒ग्नी इति॑ , सहु॑री॒ इति॑ , स॒प॒र्यात् । इ॒र॒ज्यंता॑ , व॒स॒व्य॑स्य , भूरेः॑ , सहः॑ऽतमा॑ , सह॑सा , वा॒ज॒ऽयंता॑ ॥
ता यो॑धिष्टम॒भि गा इं॑द्र नू॒नम॒पः स्व॑रु॒षसो॑ अग्न ऊ॒ळ्हाः । दिशः॒ स्व॑रु॒षस॑ इंद्र चि॒त्रा अ॒पो गा अ॑ग्ने युवसे नि॒युत्वा॑न् ॥
ता , यो॒धि॒ष्टं॒ , अ॒भि , गाः , इं॒द्र॒ , नू॒नं , अ॒पः , स्वः॑ , उ॒षसः॑ , अ॒ग्ने॒ , ऊ॒ळ्हाः । दिशः॑ , स्वः॑ , उ॒षसः॑ , इं॒द्र॒ , चि॒त्राः , अ॒पः , गाः , अ॒ग्ने॒ , यु॒व॒से॒ , नि॒युत्वा॑न् ॥
आ वृ॑त्रहणा वृत्र॒हभिः॒ शुष्मै॒रिंद्र॑ या॒तं नमो॑भिरग्ने अ॒र्वाक् । यु॒वं राधो॑भि॒रक॑वेभिरिं॒द्राग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ॥
आ , वृ॒त्र॒ऽह॒ना॒ , वृ॒त्र॒हऽभिः॑ , शुष्मैः॑ , इंद्र॑ , या॒तं , नमः॑ऽभिः , अ॒ग्ने॒ , अ॒र्वाक् । यु॒वं , राधः॑ऽभिः , अक॑वेभिः , इं॒द्र॒ , अग्ने॑ , अ॒स्मे इति॑ , भ॒व॒तं॒ , उ॒त्ऽत॒मेभिः॑ ॥
ता हु॑वे॒ ययो॑रि॒दं प॒प्ने विश्वं॑ पु॒रा कृ॒तं । इं॒द्रा॒ग्नी न म॑र्धतः ॥
ता , हु॒वे॒ , ययोः॑ , इ॒दं , प॒प्ने , विश्वं॑ , पु॒रा , कृ॒तं । इं॒द्रा॒ग्नी इति॑ , न , म॒र्ध॒तः॒ ॥
उ॒ग्रा वि॑घ॒निना॒ मृध॑ इंद्रा॒ग्नी ह॑वामहे । ता नो॑ मृळात ई॒दृशे॑ ॥
उ॒ग्रा , वि॒ऽघ॒निना॑ , मृधः॑ , इं॒द्रा॒ग्नी इति॑ , ह॒वा॒म॒हे॒ । ता , नः॒ , मृ॒ळा॒तः॒ , ई॒दृशे॑ ॥
ह॒तो वृ॒त्राण्यार्या॑ ह॒तो दासा॑नि॒ सत्प॑ती । ह॒तो विश्वा॒ अप॒ द्विषः॑ ॥
ह॒तः , वृ॒त्राणि॑ , आर्या॑ , ह॒तः , दासा॑नि , सत्प॑ती॒ इति॒ सत्ऽप॑ती । ह॒तः , विश्वाः॑ , अप॑ , द्विषः॑ ॥
इंद्रा॑ग्नी यु॒वामि॒मे॒३॒॑ऽभि स्तोमा॑ अनूषत । पिब॑तं शंभुवा सु॒तं ॥
इंद्रा॑ग्नी॒ इति॑ , यु॒वां , इ॒मे , अ॒भि , स्तोमाः॑ , अ॒नू॒ष॒त॒ । पिब॑तं , शं॒ऽभु॒वा॒ , सु॒तं ॥
या वां॒ संति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा । इंद्रा॑ग्नी॒ ताभि॒रा ग॑तं ॥
याः , वां॒ , संति॑ , पु॒रु॒ऽस्पृहः॑ , नि॒ऽयुतः॑ , दा॒शुषे॑ , न॒रा॒ । इंद्रा॑ग्नी॒ इति॑ , ताभिः॑ , आ , ग॒तं॒ ॥
ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तं । इंद्रा॑ग्नी॒ सोम॑पीतये ॥
ताभिः॑ , आ , ग॒च्छ॒तं॒ , न॒रा॒ , उप॑ , इ॒दं , सव॑नं , सु॒तं । इंद्रा॑ग्नी॒ इति॑ , सोम॑ऽपीतये ॥
तमी॑ळिष्व॒ यो अ॒र्चिषा॒ वना॒ विश्वा॑ परि॒ष्वज॑त् । कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया॑ ॥
तं , ई॒ळि॒ष्व॒ , यः , अ॒र्चिषा॑ , वना॑ , विश्वा॑ , प॒रि॒ऽस्वज॑त् । कृ॒ष्णा , कृ॒णोति॑ , जि॒ह्वया॑ ॥
य इ॒द्ध आ॒विवा॑सति सु॒म्नमिंद्र॑स्य॒ मर्त्यः॑ । द्यु॒म्नाय॑ सु॒तरा॑ अ॒पः ॥
यः , इ॒द्धे , आ॒ऽविवा॑सति , सु॒म्नं , इंद्र॑स्य , मर्त्यः॑ । द्यु॒म्नाय॑ , सु॒ऽतराः॑ , अ॒पः ॥
ता नो॒ वाज॑वती॒रिष॑ आ॒शून्पि॑पृत॒मर्व॑तः । इंद्र॑म॒ग्निं च॒ वोळ्ह॑वे ॥
ता , नः॒ , वाज॑ऽवतीः , इषः॑ , आ॒शून् , पि॒पृ॒तं॒ , अर्व॑तः । इंद्रं॑ , अ॒ग्निं , च॒ , वोळ्ह॑वे ॥
उ॒भा वा॑मिंद्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ । उ॒भा दा॒तारा॑वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वां ॥
उ॒भा , वां॒ , इं॒द्रा॒ग्नी॒ इति॑ , आ॒ऽहु॒वध्यै॑ , उ॒भा , राध॑सः , स॒ह , मा॒द॒यध्यै॑ । उ॒भा , दा॒तारौ॑ , इ॒षां , र॒यी॒णां , उ॒भा , वाज॑स्य , सा॒तये॑ , हु॒वे॒ , वां॒ ॥
आ नो॒ गव्ये॑भि॒रश्व्यै॑र्वस॒व्यै॒३॒॑रुप॑ गच्छतं । सखा॑यौ दे॒वौ स॒ख्याय॑ शं॒भुवें॑द्रा॒ग्नी ता ह॑वामहे ॥
आ , नः॒ , गव्ये॑भिः , अश्व्यैः॑ , व॒स॒व्यैः॑ , उप॑ , ग॒च्छ॒तं॒ । सखा॑यौ , दे॒वौ , स॒ख्याय॑ , शं॒ऽभुवा॑ , इं॒द्रा॒ग्नी इति॑ , ता , ह॒वा॒म॒हे॒ ॥
इंद्रा॑ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः । वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ॥
इंद्रा॑ग्नी॒ इति॑ , शृ॒णु॒तं , हवं॑ , यज॑मानस्य , सु॒न्व॒तः । वी॒तं , ह॒व्यानि॑ , आ , ग॒तं॒ , पिब॑तं , सो॒म्यं , मधु॑ ॥
[६१] इयमददादिति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सरस्वतीगायत्री आद्यास्तिस्रत्रयोदशीचजगत्योंत्यात्रिष्टुप् |
इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो॑दासं वध्र्य॒श्वाय॑ दा॒शुषे॑ । या शश्वं॑तमाच॒खादा॑व॒सं प॒णिं ता ते॑ दा॒त्राणि॑ तवि॒षा स॑रस्वति ॥
इ॒यं , अ॒द॒दा॒त् , र॒भ॒सं , ऋ॒ण॒ऽच्युतं॑ , दिवः॑ऽदासं , व॒ध्रि॒ऽअ॒श्वाय॑ , दा॒शुषे॑ । या , शश्वं॑तं , आ॒ऽच॒खाद॑ , अ॒व॒सं , प॒णिं , ता , ते॒ , दा॒त्राणि॑ , त॒वि॒षा , स॒र॒स्व॒ति॒ ॥
इ॒यं शुष्मे॑भिर्बिस॒खा इ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ । पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभिः॒ सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ॥
इ॒यं , शुष्मे॑भिः , बि॒स॒खाःऽइ॑व , अ॒रु॒ज॒त् , सानु॑ , गि॒री॒णां , त॒वि॒षेभिः॑ , ऊ॒र्मिऽभिः॑ । पा॒रा॒व॒त॒ऽघ्नीं , अव॑से , सु॒वृ॒क्तिऽभिः॑ , सर॑स्वतीं , आ , वि॒वा॒से॒म॒ , धी॒तिऽभिः॑ ॥
सर॑स्वति देव॒निदो॒ नि ब॑र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ । उ॒त क्षि॒तिभ्यो॒ऽवनी॑रविंदो वि॒षमे॑भ्यो अस्रवो वाजिनीवति ॥
सर॑स्वति , दे॒व॒ऽनिदः॑ , नि , ब॒र्ह॒य॒ , प्र॒ऽजां , विश्व॑स्य , बृस॑यस्य , मा॒यिनः॑ । उ॒त , क्षि॒तिऽभ्यः॑ , अ॒वनीः॑ , अ॒विं॒दः॒ , वि॒षं , ए॒भ्यः॒ , अ॒स्र॒वः॒ , वा॒जि॒नी॒ऽव॒ति॒ ॥
प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । धी॒नाम॑वि॒त्र्य॑वतु ॥
प्र , नः॒ , दे॒वी , सर॑स्वती , वाजे॑भिः , वा॒जिनी॑ऽवती । धी॒नां , अ॒वि॒त्री , अ॒व॒तु॒ ॥
यस्त्वा॑ देवि सरस्वत्युपब्रू॒ते धने॑ हि॒ते । इंद्रं॒ न वृ॑त्र॒तूर्ये॑ ॥
यः , त्वा॒ , दे॒वि॒ , स॒र॒स्व॒ति॒ , उ॒प॒ऽब्रू॒ते , धने॑ , हि॒ते । इंद्रं॑ , न , वृ॒त्र॒ऽतूर्ये॑ ॥
त्वं दे॑वि सरस्व॒त्यवा॒ वाजे॑षु वाजिनि । रदा॑ पू॒षेव॑ नः स॒निं ॥
त्वं , दे॒वि॒ , स॒र॒स्व॒ति॒ , अव॑ , वाजे॑षु , वा॒जि॒नि॒ । रद॑ , पू॒षाऽइ॑व , नः॒ , स॒निं ॥
उ॒त स्या नः॒ सर॑स्वती घो॒रा हिर॑ण्यवर्तनिः । वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिं ॥
उ॒त , स्या , नः॒ , सर॑स्वती , घो॒रा , हिर॑ण्यऽवर्तनिः । वृ॒त्र॒ऽघ्नी , व॒ष्टि॒ , सु॒ऽस्तु॒तिं ॥
यस्या॑ अनं॒तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर॑र्ण॒वः । अम॒श्चर॑ति॒ रोरु॑वत् ॥
यस्याः॑ , अ॒नं॒तः , अह्रु॑तः , त्वे॒षः , च॒रि॒ष्णुः , अ॒र्ण॒वः । अमः॑ , चर॑ति , रोरु॑वत् ॥
सा नो॒ विश्वा॒ अति॒ द्विषः॒ स्वसॄ॑र॒न्या ऋ॒ताव॑री । अत॒न्नहे॑व॒ सूर्यः॑ ॥
सा , नः॒ , विश्वाः॑ , अति॑ , द्विषः॑ , स्वसॄः॑ , अ॒न्याः , ऋ॒तऽव॑री । अत॑न् , अहा॑ऽइव , सूर्यः॑ ॥
उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा । सर॑स्वती॒ स्तोम्या॑ भूत् ॥
उ॒त , नः॒ , प्रि॒या , प्रि॒यासु॑ , स॒प्तऽस्व॑सा , सुऽजु॑ष्टा । सर॑स्वती , स्तोम्या॑ , भू॒त् ॥
आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो॑ अं॒तरि॑क्षं । सर॑स्वती नि॒दस्पा॑तु ॥
आ॒ऽप॒प्रुषी॑ , पार्थि॑वानि , उ॒रु , रजः॑ , अं॒तरि॑क्षं । सर॑स्वती , नि॒दः , पा॒तु॒ ॥
त्रि॒ष॒धस्था॑ स॒प्तधा॑तुः॒ पंच॑ जा॒ता व॒र्धयं॑ती । वाजे॑वाजे॒ हव्या॑ भूत् ॥
त्रि॒ऽस॒धस्था॑ , स॒प्तऽधा॑तुः , पंच॑ , जा॒ता , व॒र्धयं॑ती । वाजे॑ऽवाजे , हव्या॑ , भू॒त् ॥
प्र या म॑हि॒म्ना म॒हिना॑सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसा॑म॒पस्त॑मा । रथ॑ इव बृह॒ती वि॒भ्वने॑ कृ॒तोप॒स्तुत्या॑ चिकि॒तुषा॒ सर॑स्वती ॥
प्र , या , म॒हि॒म्ना , म॒हिना॑ , आ॒सु॒ , चेकि॑ते , द्यु॒म्नेभिः॑ , अ॒न्याः , अ॒पसां॑ , अ॒पःऽत॑मा । रथः॑ऽइव , बृ॒ह॒ती , वि॒ऽभ्वने॑ , कृ॒ता , उ॒प॒ऽस्तुत्या॑ , चि॒कि॒तुषा॑ , सर॑स्वती ॥
सर॑स्वत्य॒भि नो॑ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् । जु॒षस्व॑ नः स॒ख्या वे॒श्या॑ च॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि गन्म ॥
सर॑स्वति , अ॒भि , नः॒ , ने॒षि॒ , वस्यः॑ , मा , अप॑ , स्फ॒रीः॒ , पय॑सा , मा , नः॒ , आ , ध॒क् । जु॒षस्व॑ , नः॒ , स॒ख्या , वे॒श्या॑ , च॒ , मा , त्वत् , क्षेत्रा॑णि , अर॑णानि , ग॒न्म॒ ॥
[६२] स्तुषेनरेत्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोश्विनौत्रिष्टुप् |
स्तु॒षे नरा॑ दि॒वो अ॒स्य प्र॒संता॒श्विना॑ हुवे॒ जर॑माणो अ॒र्कैः । या स॒द्य उ॒स्रा व्युषि॒ ज्मो अंता॒न्युयू॑षतः॒ पर्यु॒रू वरां॑सि ॥
स्तु॒षे , नरा॑ , दि॒वः , अ॒स्य , प्र॒ऽसंता॑ , अ॒श्विना॑ , हु॒वे॒ , जर॑माणः , अ॒र्कैः । या , स॒द्यः , उ॒स्रा , वि॒ऽउषि॑ , ज्मः , अंता॑न् , युयू॑षतः , परि॑ , उ॒रु , वरां॑सि ॥
ता य॒ज्ञमा शुचि॑भिश्चक्रमा॒णा रथ॑स्य भा॒नुं रु॑रुचू॒ रजो॑भिः । पु॒रू वरां॒स्यमि॑ता॒ मिमा॑ना॒पो धन्वा॒न्यति॑ याथो॒ अज्रा॑न् ॥
ता , य॒ज्ञं , आ , शुचि॑ऽभिः , च॒क्र॒मा॒णा , रथ॑स्य , भा॒नुं , रु॒रु॒चुः॒ , रजः॑ऽभिः । पु॒रु , वरां॑सि , अमि॑ता , मिमा॑ना , अ॒पः , धन्वा॑नि , अति॑ , या॒थः॒ , अज्रा॑न् ॥
ता ह॒ त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्था धिय॑ ऊहथुः॒ शश्व॒दश्वैः॑ । मनो॑जवेभिरिषि॒रैः श॒यध्यै॒ परि॒ व्यथि॑र्दा॒शुषो॒ मर्त्य॑स्य ॥
ता , ह॒ , त्यत् , व॒र्तिः , यत् , अर॑ध्रं , उ॒ग्रा॒ , इ॒त्था , धियः॑ , ऊ॒ह॒थुः॒ , शश्व॑त् , अश्वैः॑ । मनः॑ऽजवेभिः , इ॒षि॒रैः , श॒यध्यै॑ , परि॑ , व्यथिः॑ , दा॒शुषः॑ , मर्त्य॑स्य ॥
ता नव्य॑सो॒ जर॑माणस्य॒ मन्मोप॑ भूषतो युयुजा॒नस॑प्ती । शुभं॒ पृक्ष॒मिष॒मूर्जं॒ वहं॑ता॒ होता॑ यक्षत्प्र॒त्नो अ॒ध्रुग्युवा॑ना ॥
ता , नव्य॑सः , जर॑माणस्य , मन्म॑ , उप॑ , भू॒ष॒तः॒ , यु॒यु॒जा॒नस॑प्ती॒ इति॑ यु॒यु॒जा॒नऽस॑प्ती । शुभं॑ , पृक्षं॑ , इषं॑ , ऊर्जं॑ , वहं॑ता , होता॑ , य॒क्ष॒त् , प्र॒त्नः , अ॒ध्रुक् , युवा॑ना ॥
ता व॒ल्गू द॒स्रा पु॑रु॒शाक॑तमा प्र॒त्ना नव्य॑सा॒ वच॒सा वि॑वासे । या शंस॑ते स्तुव॒ते शंभ॑विष्ठा बभू॒वतु॑र्गृण॒ते चि॒त्ररा॑ती ॥
ता , व॒ल्गू इति॑ , द॒स्रा , पु॒रु॒शाक॑ऽतमा , प्र॒त्ना , नव्य॑सा , वच॑सा , आ , वि॒वा॒से॒ । या , शंस॑ते , स्तु॒व॒ते , शंऽभ॑विष्ठा , ब॒भू॒वतुः॑ , गृ॒ण॒ते , चि॒त्ररा॑ती॒ इति॑ चि॒त्रऽरा॑ती ॥
ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू॑हथू॒ रजो॑भिः । अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जंता॑ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था॑त् ॥
ता , भु॒ज्युं , विऽभिः॑ , अ॒त्ऽभ्यः , स॒मु॒द्रात् , तुग्र॑स्य , सू॒नुं , ऊ॒ह॒थुः॒ , रजः॑ऽभिः । अ॒रे॒णुऽभिः॑ , योज॑नेभिः , भु॒जंता॑ , प॒त॒त्रिऽभिः॑ , अर्ण॑सः , निः , उ॒पऽस्था॑त् ॥
वि ज॒युषा॑ रथ्या यात॒मद्रिं॑ श्रु॒तं हवं॑ वृषणा वध्रिम॒त्याः । द॒श॒स्यंता॑ श॒यवे॑ पिप्यथु॒र्गामिति॑ च्यवाना सुम॒तिं भु॑रण्यू ॥
वि , ज॒युषा॑ , र॒थ्या॒ , या॒तं॒ , अद्रिं॑ , श्रु॒तं , हवं॑ , वृ॒ष॒णा॒ , व॒ध्रि॒ऽम॒त्याः । द॒श॒स्यंता॑ , श॒यवे॑ , पि॒प्य॒थुः॒ , गां , इति॑ , च्य॒वा॒ना॒ , सु॒ऽम॒तिं , भु॒र॒ण्यू॒ इति॑ ॥
यद्रो॑दसी प्र॒दिवो॒ अस्ति॒ भूमा॒ हेळो॑ दे॒वाना॑मु॒त म॑र्त्य॒त्रा । तदा॑दित्या वसवो रुद्रियासो रक्षो॒युजे॒ तपु॑र॒घं द॑धात ॥
यत् , रो॒द॒सी॒ इति॑ , प्र॒ऽदिवः॑ , अस्ति॑ , भूम॑ , हेळः॑ , दे॒वानां॑ , उ॒त , म॒र्त्य॒ऽत्रा । तत् , आ॒दि॒त्याः॒ , व॒स॒वः॒ , रु॒द्रि॒या॒सः॒ , र॒क्षः॒ऽयुजे॑ , तपुः॑ , अ॒घं , द॒धा॒त॒ ॥
य ईं॒ राजा॑नावृतु॒था वि॒दध॒द्रज॑सो मि॒त्रो वरु॑ण॒श्चिके॑तत् । गं॒भी॒राय॒ रक्ष॑से हे॒तिम॑स्य॒ द्रोघा॑य चि॒द्वच॑स॒ आन॑वाय ॥
यः , ईं॒ , राजा॑नौ , ऋ॒तु॒ऽथा , वि॒ऽदध॑त् , रज॑सः , मि॒त्रः , वरु॑णः , चिके॑तत् । गं॒भी॒राय॑ , रक्ष॑से , हे॒तिं , अ॒स्य॒ , द्रोघा॑य , चि॒त् , वच॑से , आन॑वाय ॥
अंत॑रैश्च॒क्रैस्तन॑याय व॒र्तिर्द्यु॒मता या॑तं नृ॒वता॒ रथे॑न । सनु॑त्येन॒ त्यज॑सा॒ मर्त्य॑स्य वनुष्य॒तामपि॑ शी॒र्षा व॑वृक्तं ॥
अंत॑रैः , च॒क्रैः , तन॑याय , व॒र्तिः , द्यु॒ऽमता॑ , आ , या॒तं॒ , नृ॒ऽवता॑ , रथे॑न । सनु॑त्येन , त्यज॑सा , मर्त्य॑स्य , व॒नु॒ष्य॒तां , अपि॑ , शी॒र्षा , व॒वृ॒क्तं॒ ॥
आ प॑र॒माभि॑रु॒त म॑ध्य॒माभि॑र्नि॒युद्भि॑र्यातमव॒माभि॑र॒र्वाक् । दृ॒ळ्हस्य॑ चि॒द्गोम॑तो॒ वि व्र॒जस्य॒ दुरो॑ वर्तं गृण॒ते चि॑त्रराती ॥
आ , प॒र॒माभिः॑ , उ॒त , म॒ध्य॒माभिः॑ , नि॒युत्ऽभिः॑ , या॒तं॒ , अ॒व॒माभिः॑ , अ॒र्वाक् । दृ॒ळ्हस्य॑ , चि॒त् , गोऽम॑तः , वि , व्र॒जस्य॑ , दुरः॑ , व॒र्तं॒ , गृ॒ण॒ते , चि॒त्र॒रा॒ती॒ इति॑ चित्रऽराती ॥
[६३] कत्येत्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोश्विनौस्त्रिष्टुबंत्याविराळैकपदा |
क्व१॒॑ त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो॑ऽविद॒न्नम॑स्वान् । आ यो अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो अस्य॒ मन्म॑न् ॥
क्व॑ , त्या , व॒ल्गू इति॑ , पु॒रु॒ऽहू॒ता , अ॒द्य , दू॒तः , न , स्तोमः॑ , अ॒वि॒द॒त् , नम॑स्वान् । आ , यः , अ॒र्वाक् , नास॑त्या , व॒वर्त॑ , प्रेष्ठा॑ , हि , अस॑थः , अ॒स्य॒ , मन्म॑न् ॥
अरं॑ मे गंतं॒ हव॑नाया॒स्मै गृ॑णा॒ना यथा॒ पिबा॑थो॒ अंधः॑ । परि॑ ह॒ त्यद्व॒र्तिर्या॑थो रि॒षो न यत्परो॒ नांत॑रस्तुतु॒र्यात् ॥
अरं॑ , मे॒ , गं॒तं॒ , हव॑नाय , अ॒स्मै , गृ॒णा॒ना , यथा॑ , पिबा॑थः , अंधः॑ । परि॑ , ह॒ , त्यत् , व॒र्तिः , या॒थः॒ , रि॒षः , न , यत् , परः॑ , न , अंत॑रः , तु॒तु॒र्यात् ॥
अका॑रि वा॒मंध॑सो॒ वरी॑म॒न्नस्ता॑रि ब॒र्हिः सु॑प्राय॒णत॑मं । उ॒त्ता॒नह॑स्तो युव॒युर्व॑वं॒दा वां॒ नक्षं॑तो॒ अद्र॑य आंजन् ॥
अका॑रि , वां॒ , अंध॑सः , वरी॑मन् , अस्ता॑रि , ब॒र्हिः , सु॒प्र॒ऽअ॒य॒नत॑मं । उ॒त्ता॒नऽह॑स्तः , यु॒व॒युः , व॒वं॒द॒ , आ , वां॒ , नक्षं॑तः , अद्र॑यः , आं॒ज॒न् ॥
ऊ॒र्ध्वो वा॑म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्र रा॒तिरे॑ति जू॒र्णिनी॑ घृ॒ताची॑ । प्र होता॑ गू॒र्तम॑ना उरा॒णोऽयु॑क्त॒ यो नास॑त्या॒ हवी॑मन् ॥
ऊ॒र्ध्वः , वां॒ , अ॒ग्निः , अ॒ध्व॒रेषु॑ , अ॒स्था॒त् , प्र , रा॒तिः , ए॒ति॒ , जू॒र्णिनी॑ , घृ॒ताची॑ । प्र , होता॑ , गू॒र्तऽम॑नाः , उ॒रा॒णः , अयु॑क्त , यः , नास॑त्या , हवी॑मन् ॥
अधि॑ श्रि॒ये दु॑हि॒ता सूर्य॑स्य॒ रथं॑ तस्थौ पुरुभुजा श॒तोतिं॑ । प्र मा॒याभि॑र्मायिना भूत॒मत्र॒ नरा॑ नृतू॒ जनि॑मन्य॒ज्ञिया॑नां ॥
अधि॑ , श्रि॒ये , दु॒हि॒ता , सूर्य॑स्य , रथं॑ , त॒स्थौ॒ , पु॒रु॒ऽभु॒जा॒ , श॒तऽऊ॑तिं । प्र , मा॒याभिः॑ , मा॒यि॒ना॒ , भू॒तं॒ , अत्र॑ , नरा॑ , नृ॒तू॒ इति॑ , जनि॑मन् , य॒ज्ञिया॑नां ॥
यु॒वं श्री॒भिर्द॑र्श॒ताभि॑रा॒भिः शु॒भे पु॒ष्टिमू॑हथुः सू॒र्यायाः॑ । प्र वां॒ वयो॒ वपु॒षेऽनु॑ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु॑ता धिष्ण्या वां ॥
यु॒वं , श्री॒भिः , द॒र्श॒ताभिः॑ , आ॒भिः , शु॒भे , पु॒ष्टिं , ऊ॒ह॒थुः॒ , सू॒र्यायाः॑ । प्र , वां॒ , वयः॑ , वपु॑षे , अनु॑ , प॒प्त॒न् , नक्ष॑त् , वाणी॑ , सुऽस्तु॑ता , धि॒ष्ण्या॒ , वां॒ ॥
आ वां॒ वयोऽश्वा॑सो॒ वहि॑ष्ठा अ॒भि प्रयो॑ नासत्या वहंतु । प्र वां॒ रथो॒ मनो॑जवा असर्जी॒षः पृ॒क्ष इ॒षिधो॒ अनु॑ पू॒र्वीः ॥
आ , वां॒ , वयः॑ , अश्वा॑सः , वहि॑ष्ठाः , अ॒भि , प्रयः॑ , ना॒स॒त्या॒ , व॒हं॒तु॒ । प्र , वां॒ , रथः॑ , मनः॑ऽजवाः , अ॒स॒र्जि॒ , इ॒षः , पृ॒क्षः , इ॒षिधः॑ , अनु॑ , पू॒र्वीः ॥
पु॒रु हि वां॑ पुरुभुजा दे॒ष्णं धे॒नुं न॒ इषं॑ पिन्वत॒मस॑क्रां । स्तुत॑श्च वां माध्वी सुष्टु॒तिश्च॒ रसा॑श्च॒ ये वा॒मनु॑ रा॒तिमग्म॑न् ॥
पु॒रु , हि , वां॒ , पु॒रु॒ऽभु॒जा॒ , दे॒ष्णं , धे॒नुं , नः॒ , इषं॑ , पि॒न्व॒तं॒ , अस॑क्रां । स्तुतः॑ , च॒ , वां॒ , मा॒ध्वी॒ इति॑ , सु॒ऽस्तु॒तिः , च॒ , रसाः॑ , च॒ , ये , वां॒ , अनु॑ , रा॒तिं , अग्म॑न् ॥
उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे॑रु॒के च॑ प॒क्वा । शां॒डो दा॑द्धिर॒णिनः॒ स्मद्दि॑ष्टीं॒दश॑ व॒शासो॑ अभि॒षाच॑ ऋ॒ष्वान् ॥
उ॒त , मे॒ , ऋ॒ज्रे इति॑ , पुर॑यस्य , र॒घ्वी इति॑ , सु॒ऽमी॒ळ्हे , श॒तं , पे॒रु॒के , च॒ , प॒क्वा । शां॒डः , दा॒त् , हि॒र॒णिनः॑ , स्मत्ऽदि॑ष्टीन् , दश॑ , व॒शासः॑ , अ॒भि॒ऽसाचः॑ , ऋ॒ष्वान् ॥
सं वां॑ श॒ता ना॑सत्या स॒हस्राश्वा॑नां पुरु॒पंथा॑ गि॒रे दा॑त् । भ॒रद्वा॑जाय वीर॒ नू गि॒रे दा॑द्ध॒ता रक्षां॑सि पुरुदंससा स्युः ॥
सं , वां॒ , श॒ता , ना॒स॒त्या॒ , स॒हस्रा॑ , अश्वा॑नां , पु॒रु॒ऽपंथाः॑ , गि॒रे , दा॒त् । भ॒रत्ऽवा॑जाय , वी॒र॒ , नु , गि॒रे , दा॒त् , ह॒ता , रक्षां॑सि , पु॒रु॒ऽदं॒स॒सा॒ , स्यु॒रिति॑ स्युः ॥
आ वां॑ सु॒म्ने वरि॑मंत्सू॒रिभिः॑ ष्यां ॥
आ , वां॒ , सु॒म्ने , वरि॑मन् , सू॒रिऽभिः॑ , स्यां॒ ॥ ।
[६४] उदुश्रियइतिषडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजउषास्त्रिष्टुप् |
उदु॑ श्रि॒य उ॒षसो॒ रोच॑माना॒ अस्थु॑र॒पां नोर्मयो॒ रुशं॑तः । कृ॒णोति॒ विश्वा॑ सु॒पथा॑ सु॒गान्यभू॑दु॒ वस्वी॒ दक्षि॑णा म॒घोनी॑ ॥
उत् , ऊँ॒ इति॑ , श्रि॒ये , उ॒षसः॑ , रोच॑मानाः , अस्थुः॑ , अ॒पां , न , ऊ॒र्मयः॑ , रुशं॑तः । कृ॒णोति॑ , विश्वा॑ , सु॒ऽपथा॑ , सु॒ऽगानि॑ , अभू॑त् , ऊँ॒ इति॑ , वस्वी॑ , दक्षि॑णा , म॒घोनी॑ ॥
भ॒द्रा द॑दृक्ष उर्वि॒या वि भा॒स्युत्ते॑ शो॒चिर्भा॒नवो॒ द्याम॑पप्तन् । आ॒विर्वक्षः॑ कृणुषे शुं॒भमा॒नोषो॑ देवि॒ रोच॑माना॒ महो॑भिः ॥
भ॒द्रा , द॒दृ॒क्षे॒ , उ॒र्वि॒या , वि , भा॒सि॒ , उत् , ते॒ , शो॒चिः , भा॒नवः॑ , द्यां , अ॒प॒प्त॒न् । आ॒विः , वक्षः॑ , कृ॒णु॒षे॒ , शुं॒भमा॑ना , उषः॑ , दे॒वि॒ , रोच॑माना , महः॑ऽभिः ॥
वहं॑ति सीमरु॒णासो॒ रुशं॑तो॒ गावः॑ सु॒भगा॑मुर्वि॒या प्र॑था॒नां । अपे॑जते॒ शूरो॒ अस्ते॑व॒ शत्रू॒न्बाध॑ते॒ तमो॑ अजि॒रो न वोळ्हा॑ ॥
वहं॑ति , सीं॒ , अ॒रु॒णासः॑ , रुशं॑तः , गावः॑ , सु॒ऽभगां॑ , उ॒र्वि॒या , प्र॒था॒नां । अप॑ , ई॒ज॒ते॒ , शूरः॑ , अस्ता॑ऽइव , शत्रू॑न् , बाध॑ते , तमः॑ , अ॒जि॒रः , न , वोळ्हा॑ ॥
सु॒गोत ते॑ सु॒पथा॒ पर्व॑तेष्ववा॒ते अ॒पस्त॑रसि स्वभानो । सा न॒ आ व॑ह पृथुयामन्नृष्वे र॒यिं दि॑वो दुहितरिष॒यध्यै॑ ॥
सु॒ऽगा , उ॒त , ते॒ , सु॒ऽपथा॑ , पर्व॑तेषु , अ॒वा॒ते , अ॒पः , त॒र॒सि॒ , स्व॒भा॒नो॒ इति॑ स्वऽभानो । सा , नः॒ , आ , व॒ह॒ , पृ॒थु॒ऽया॒म॒न् , ऋ॒ष्वे॒ , र॒यिं , दि॒वः॒ , दु॒हि॒तः॒ , इ॒ष॒यध्यै॑ ॥
सा व॑ह॒ योक्षभि॒रवा॒तोषो॒ वरं॒ वह॑सि॒ जोष॒मनु॑ । त्वं दि॑वो दुहित॒र्या ह॑ दे॒वी पू॒र्वहू॑तौ मं॒हना॑ दर्श॒ता भूः॑ ॥
सा , आ , व॒ह॒ , या , उ॒क्षऽभिः॑ , अवा॑ता , उषः॑ , वरं॑ , वह॑सि , जोषं॑ , अनु॑ । त्वं , दि॒वः॒ , दु॒हि॒तः॒ , या , ह॒ , दे॒वी , पू॒र्वऽहू॑तौ , मं॒हना॑ , द॒र्श॒ता , भूः॒ ॥
उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ । अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥
उत् , ते॒ , वयः॑ , चि॒त् , व॒स॒तेः , अ॒प॒प्त॒न् , नरः॑ , च॒ , ये , पि॒तु॒ऽभाजः॑ , विऽउ॑ष्टौ । अ॒मा , स॒ते , व॒ह॒सि॒ , भूरि॑ , वा॒मं , उषः॑ , दे॒वि॒ , दा॒शुषे॑ , मर्त्या॑य ॥
[६५] एषास्येति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजउषास्त्रिष्टुप् |
ए॒षा स्या नो॑ दुहि॒ता दि॑वो॒जाः क्षि॒तीरु॒च्छंती॒ मानु॑षीरजीगः । या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा॑यि ति॒रस्तम॑सश्चिद॒क्तून् ॥
ए॒षा , स्या , नः॒ , दु॒हि॒ता , दि॒वः॒ऽजाः , क्षि॒तीः , उ॒च्छंती॑ , मानु॑षीः , अ॒जी॒ग॒रिति॑ । या , भा॒नुना॑ , रुश॑ता , रा॒म्यासु॑ , अज्ञा॑यि , ति॒रः , तम॑सः , चि॒त् , अ॒क्तून् ॥
वि तद्य॑युररुण॒युग्भि॒रश्वै॑श्चि॒त्रं भां॑त्यु॒षस॑श्चं॒द्रर॑थाः । अग्रं॑ य॒ज्ञस्य॑ बृह॒तो नयं॑ती॒र्वि ता बा॑धंते॒ तम॒ ऊर्म्या॑याः ॥
वि , तत् , य॒युः॒ , अ॒रु॒ण॒युक्ऽभिः॑ , अश्वैः॑ , चि॒त्रं , भां॒ति॒ , उ॒षसः॑ , चं॒द्रऽर॑थाः । अग्रं॑ , य॒ज्ञस्य॑ , बृ॒ह॒तः , नयं॑तीः , वि , ताः , बा॒धं॒ते॒ , तमः॑ , ऊर्म्या॑याः ॥
श्रवो॒ वाज॒मिष॒मूर्जं॒ वहं॑ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या॑य । म॒घोनी॑र्वी॒रव॒त्पत्य॑माना॒ अवो॑ धात विध॒ते रत्न॑म॒द्य ॥
श्रवः॑ , वाजं॑ , इषं॑ , ऊर्जं॑ , वहं॑तीः , नि , दा॒शुषे॑ , उ॒ष॒सः॒ , मर्त्या॑य । म॒घोनीः॑ , वी॒रऽव॑त् , पत्य॑मानाः , अवः॑ , धा॒त॒ , वि॒ध॒ते , रत्नं॑ , अ॒द्य ॥
इ॒दा हि वो॑ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः । इ॒दा विप्रा॑य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ॥
इ॒दा , हि , वः॒ , वि॒ध॒ते , रत्नं॑ , अस्ति॑ , इ॒दा , वी॒राय॑ , दा॒शुषे॑ , उ॒ष॒सः॒ । इ॒दा , विप्रा॑य , जर॑ते , यत् , उ॒क्था , नि , स्म॒ , माऽव॑ते , व॒ह॒थ॒ , पु॒रा , चि॒त् ॥
इ॒दा हि त॑ उषो अद्रिसानो गो॒त्रा गवा॒मंगि॑रसो गृ॒णंति॑ । व्य१॒॑र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू॑तिः ॥
इ॒दा , हि , ते॒ , उ॒षः॒ , अ॒द्रि॒सा॒नो॒ इत्य॑द्रिऽसानो , गो॒त्रा , गवां॑ , अंगि॑रसः , गृ॒णंति॑ । वि , अ॒र्केण॑ , बि॒भि॒दुः॒ , ब्रह्म॑णा , च॒ , स॒त्या , नृ॒णां , अ॒भ॒व॒त् , दे॒वऽहू॑तिः ॥
उ॒च्छा दि॑वो दुहितः प्रत्न॒वन्नो॑ भरद्वाज॒वद्वि॑ध॒ते म॑घोनि । सु॒वीरं॑ र॒यिं गृ॑ण॒ते रि॑रीह्युरुगा॒यमधि॑ धेहि॒ श्रवो॑ नः ॥
उ॒च्छ , दि॒वः॒ , दु॒हि॒त॒रिति॑ , प्र॒त्न॒ऽवत् , नः॒ , भ॒र॒द्वा॒ज॒ऽवत् , वि॒ध॒ते , म॒घो॒नि॒ । सु॒ऽवीरं॑ , र॒यिं , गृ॒ण॒ते , रि॒री॒हि॒ , उ॒रु॒ऽगा॒यं , अधि॑ , धे॒हि॒ , श्रवः॑ , नः॒ ॥
[६६] वपुर्न्वित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजो मरुतस्त्रिष्टुप् |
वपु॒र्नु तच्चि॑कि॒तुषे॑ चिदस्तु समा॒नं नाम॑ धे॒नु पत्य॑मानं । मर्ते॑ष्व॒न्यद्दो॒हसे॑ पी॒पाय॑ स॒कृच्छु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥
वपुः॑ , नु , तत् , चि॒कि॒तुषे॑ , चि॒त् , अ॒स्तु॒ , स॒मा॒नं , नाम॑ , धे॒नु , पत्य॑मानं । मर्ते॑षु , अ॒न्यत् , दो॒हसे॑ , पी॒पाय॑ , स॒कृत् , शु॒क्रं , दु॒दु॒हे॒ , पृश्निः॑ , ऊधः॑ ॥
ये अ॒ग्नयो॒ न शोशु॑चन्निधा॒ना द्विर्यत्त्रिर्म॒रुतो॑ वावृ॒धंत॑ । अ॒रे॒णवो॑ हिर॒ण्यया॑स एषां सा॒कं नृ॒म्णैः पौंस्ये॑भिश्च भूवन् ॥
ये , अ॒ग्नयः॑ , न , शोशु॑चन् , इ॒धा॒नाः , द्विः , यत् , त्रिः , म॒रुतः॑ , व॒वृ॒धंत॑ । अ॒रे॒णवः॑ , हि॒र॒ण्यया॑सः , ए॒षां॒ , सा॒कं , नृ॒म्णैः , पौंस्ये॑भिः , च॒ , भू॒व॒न् ॥
रु॒द्रस्य॒ ये मी॒ळ्हुषः॒ संति॑ पु॒त्रा याँश्चो॒ नु दाधृ॑वि॒र्भर॑ध्यै । वि॒दे हि मा॒ता म॒हो म॒ही षा सेत्पृश्निः॑ सु॒भ्वे॒३॒॑ गर्भ॒माधा॑त् ॥
रु॒द्रस्य॑ , ये , मी॒ळ्हुषः॑ , संति॑ , पु॒त्राः , यान् , चो॒ इति॑ , नु , दाधृ॑विः , भर॑ध्यै । वि॒दे , हि , मा॒ता , म॒हः , म॒ही , सा , सा , इत् , पृश्निः॑ , सु॒ऽभ्वे॑ , गर्भं॑ , आ , अ॒धा॒त् ॥
न य ईषं॑ते ज॒नुषोऽया॒ न्व१॒॑न्तः संतो॑ऽव॒द्यानि॑ पुना॒नाः । निर्यद्दु॒ह्रे शुच॒योऽनु॒ जोष॒मनु॑ श्रि॒या त॒न्व॑मु॒क्षमा॑णाः ॥
न , ये , ईषं॑ते , ज॒नुषः॑ , अया॑ , नु , अं॒तरिति॑ , संतः॑ , अ॒व॒द्यानि॑ , पु॒ना॒नाः । निः , यत् , दु॒ह्रे , शुच॑यः , अनु॑ , जोषं॑ , अनु॑ , श्रि॒या , त॒न्वं॑ , उ॒क्षमा॑णाः ॥
म॒क्षू न येषु॑ दो॒हसे॑ चिद॒या आ नाम॑ धृ॒ष्णु मारु॑तं॒ दधा॑नाः । न ये स्तौ॒ना अ॒यासो॑ म॒ह्ना नू चि॑त्सु॒दानु॒रव॑ यासदु॒ग्रान् ॥
म॒क्षु , न , येषु॑ , दो॒हसे॑ , चि॒त् , अ॒याः , आ , नाम॑ , धृ॒ष्णु , मारु॑तं , दधा॑नाः । न , ये , स्तौ॒नाः , अ॒यासः॑ , म॒ह्ना , नु , चि॒त् , सु॒ऽदानुः॑ , अव॑ , या॒स॒त् , उ॒ग्रान् ॥
त इदु॒ग्राः शव॑सा धृ॒ष्णुषे॑णा उ॒भे यु॑जंत॒ रोद॑सी सु॒मेके॑ । अध॑ स्मैषु रोद॒सी स्वशो॑चि॒राम॑वत्सु तस्थौ॒ न रोकः॑ ॥
ते , इत् , उ॒ग्राः , शव॑सा , धृ॒ष्णुऽसे॑नाः , उ॒भे इति॑ , यु॒जं॒त॒ , रोद॑सी॒ इति॑ , सु॒मेके॒ इति॑ सु॒ऽमेके॑ । अध॑ , स्म॒ , ए॒षु॒ , रो॒द॒सी , स्वऽशो॑चिः , आ , अम॑वत्ऽसु , त॒स्थौ॒ , न , रोकः॑ ॥
अ॒ने॒नो वो॑ मरुतो॒ यामो॑ अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः । अ॒न॒व॒सो अ॑नभी॒शू र॑ज॒स्तूर्वि रोद॑सी प॒थ्या॑ याति॒ साध॑न् ॥
अ॒ने॒नः , वः॒ , म॒रु॒तः॒ , यामः॑ , अ॒स्तु॒ , अ॒न॒श्वः , चि॒त् , यं , अज॑ति , अर॑थीः । अ॒न॒व॒सः , अ॒न॒भी॒शुः , र॒जः॒ऽतूः , वि , रोद॑सी॒ इति॑ , प॒थ्याः॑ , या॒ति॒ , साध॑न् ॥
नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ । तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒ अध॒ द्योः ॥
न , अ॒स्य॒ , व॒र्ता , न , त॒रु॒ता , नु , अ॒स्ति॒ , मरु॑तः , यं , अव॑थ , वाज॑ऽसातौ । तो॒के , वा॒ , गोषु॑ , तन॑ये , यं , अ॒प्ऽसु , सः , व्र॒जं , दर्ता॑ , पार्ये॑ , अध॑ , द्योः ॥
प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वं । ये सहां॑सि॒ सह॑सा॒ सहं॑ते॒ रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ॥
प्र , चि॒त्रं , अ॒र्कं , गृ॒ण॒ते , तु॒राय॑ , मारु॑ताय , स्वऽत॑वसे , भ॒र॒ध्वं॒ । ये , सहां॑सि , सह॑सा , सहं॑ते , रेज॑ते , अ॒ग्ने॒ , पृ॒थि॒वी , म॒खेभ्यः॑ ॥
त्विषी॑मंतो अध्व॒रस्ये॑व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॒॑ नाग्नेः । अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒ अधृ॑ष्टाः ॥
त्विषि॑ऽमंतः , अ॒ध्व॒रस्य॑ऽइव , दि॒द्युत् , तृ॒षु॒ऽच्यव॑सः , जु॒ह्वः॑ , न , अ॒ग्नेः । अ॒र्चत्र॑यः , धुन॑यः , न , वी॒राः , भ्राज॑त्ऽजन्मानः , म॒रुतः॑ , अधृ॑ष्टाः ॥
तं वृ॒धंतं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे । दि॒वः शर्धा॑य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा अ॑स्पृध्रन् ॥
तं , वृ॒धंतं॑ , मारु॑तं , भ्राज॑त्ऽऋष्टिं , रु॒द्रस्य॑ , सू॒नुं , ह॒वसा॑ , आ , वि॒वा॒से॒ । दि॒वः , शर्धा॑य , शुच॑यः , म॒नी॒षाः , गि॒रयः॑ , न , आपः॑ , उ॒ग्राः , अ॒स्पृ॒ध्र॒न् ॥
[६७] विश्वेषामित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजो मित्रावरुणौत्रिष्टुप् |
विश्वे॑षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै॑ । सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जनाँ॒ अस॑मा बा॒हुभिः॒ स्वैः ॥
विश्वे॑षां , वः॒ , स॒तां , ज्येष्ठ॑ऽतमा , गीः॒ऽभिः , मि॒त्रावरु॑णा , व॒वृ॒धध्यै॑ । सं , या , र॒श्माऽइ॑व , य॒मतुः॑ , यमि॑ष्ठा , द्वा , जना॑न् , अस॑मा , बा॒हुऽभिः॑ , स्वैः ॥
इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑ । यं॒तं नो॑ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां॑ वरू॒थ्यं॑ सुदानू ॥
इ॒यं , मत् , वां॒ , प्र , स्तृ॒णी॒ते॒ , म॒नी॒षा , उप॑ , प्रि॒या , नम॑सा , ब॒र्हिः , अच्छ॑ । यं॒तं , नः॒ , मि॒त्रा॒व॒रु॒णौ॒ , अधृ॑ष्टं , छ॒र्दिः , यत् , वां॒ , व॒रू॒थ्यं॑ , सु॒दा॒नू॒ इति॑ सुऽदानू ॥
आ या॑तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा हू॒यमा॑ना । सं याव॑प्नः॒स्थो अ॒पसे॑व॒ जनां॑छ्रुधीय॒तश्चि॑द्यतथो महि॒त्वा ॥
आ , या॒तं॒ , मि॒त्रा॒व॒रु॒णा॒ , सु॒ऽश॒स्ति , उप॑ , प्रि॒या , नम॑सा , हू॒यमा॑ना । सं , यौ , अ॒प्नः॒ऽस्थः , अ॒पसा॑ऽइव , जना॑न् , श्रु॒धि॒ऽय॒तः , चि॒त् , य॒त॒थः॒ , म॒हि॒ऽत्वा ॥
अश्वा॒ न या वा॒जिना॑ पू॒तबं॑धू ऋ॒ता यद्गर्भ॒मदि॑ति॒र्भर॑ध्यै । प्र या महि॑ म॒हांता॒ जाय॑माना घो॒रा मर्ता॑य रि॒पवे॒ नि दी॑धः ॥
अश्वा॑ , न , या , वा॒जिना॑ , पू॒तबं॑धू॒ इति॑ पू॒तऽबं॑धू , ऋ॒ता , यत् , गर्भं॑ , अदि॑तिः , भर॑ध्यै । प्र , या , महि॑ , म॒हांता॑ , जाय॑माना , घो॒रा , मर्ता॑य , रि॒पवे॑ , नि , दी॒ध॒रिति॑ दीधः ॥
विश्वे॒ यद्वां॑ मं॒हना॒ मंद॑मानाः क्ष॒त्रं दे॒वासो॒ अद॑धुः स॒जोषाः॑ । परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी संति॒ स्पशो॒ अद॑ब्धासो॒ अमू॑राः ॥
विश्वे॑ , यत् , वां॒ , मं॒हना॑ , मंद॑मानाः , क्ष॒त्रं , दे॒वासः॑ , अद॑धुः , स॒ऽजोषाः॑ । परि॑ , यत् , भू॒थः , रोद॑सी॒ इति॑ , चि॒त् , उ॒र्वी इति॑ , संति॑ , स्पशः॑ , अद॑ब्धासः , अमू॑राः ॥
ता हि क्ष॒त्रं धा॒रये॑थे॒ अनु॒ द्यूंदृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः । दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे॑वो॒ भूमि॒मातां॒द्यां धा॒सिना॒योः ॥
ता , हि , क्ष॒त्रं , धा॒रये॑थे॒ इति॑ , अनु॑ , द्यून् , दृं॒हेथे॒ इति॑ , सानुं॑ , उ॒प॒मात्ऽइ॑व , द्योः । दृ॒ळ्हः , नक्ष॑त्रः , उ॒त , वि॒श्वऽदे॑वः , भूमिं॑ , आ , अ॒ता॒न् , द्यां , धा॒सिना॑ , आ॒योः ॥
ता वि॒ग्रं धै॑थे ज॒ठरं॑ पृ॒णध्या॒ आ यत्सद्म॒ सभृ॑तयः पृ॒णंति॑ । न मृ॑ष्यंते युव॒तयोऽवा॑ता॒ वि यत्पयो॑ विश्वजिन्वा॒ भरं॑ते ॥
ता , वि॒ग्रं , धै॒थे॒ इति॑ , ज॒ठरं॑ , पृ॒णध्यै॑ , आ , यत् , सद्म॑ , सऽभृ॑तयः , पृ॒णंति॑ । न , मृ॒ष्यं॒ते॒ , यु॒व॒तयः॑ , अवा॑ताः , वि , यत् , पयः॑ , वि॒श्व॒ऽजि॒न्वा॒ , भरं॑ते ॥
ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा आ यद्वां॑ स॒त्यो अ॑र॒तिर्ऋ॒ते भूत् । तद्वां॑ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंहः॑ ॥
ता , जि॒ह्वया॑ , सदं॑ , आ , इ॒दं , सु॒ऽमे॒धाः , आ , यत् , वां॒ , स॒त्यः , अ॒र॒तिः , ऋ॒ते , भूत् । तत् , वां॒ , म॒हि॒ऽत्वं , घृ॒त॒ऽअ॒न्नौ॒ , अ॒स्तु॒ , यु॒वं , दा॒शुषे॑ , वि , च॒यि॒ष्टं॒ , अंहः॑ ॥
प्र यद्वां॑ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम॑ यु॒वधि॑ता मि॒नंति॑ । न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒ अय॑ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ॥
प्र , यत् , वां॒ , मि॒त्रा॒व॒रु॒णा॒ , स्पू॒र्धन् , प्रि॒या , धाम॑ , यु॒वऽधि॑ता , मि॒नंति॑ । न , ये , दे॒वासः॑ , ओह॑सा , न , मर्ताः॑ , अय॑ज्ञऽसाचः , अप्यः॑ , न , पु॒त्राः ॥
वि यद्वाचं॑ की॒स्तासो॒ भरं॑ते॒ शंसं॑ति॒ के चि॑न्नि॒विदो॑ मना॒नाः । आद्वां॑ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि॑र्यतथो महि॒त्वा ॥
वि , यत् , वाचं॑ , की॒स्तासः॑ , भरं॑ते , शंसं॑ति , के , चि॒त् , नि॒ऽविदः॑ , म॒ना॒नाः । आत् , वां॒ , ब्र॒वा॒म॒ , स॒त्यानि॑ , उ॒क्था , नकिः॑ , दे॒वेभिः॑ , य॒त॒थः॒ , म॒हि॒ऽत्वा ॥
अ॒वोरि॒त्था वां॑ छ॒र्दिषो॑ अ॒भिष्टौ॑ यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु । अनु॒ यद्गावः॑ स्फु॒रानृ॑जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष॑णं यु॒नज॑न् ॥
अ॒वोः , इ॒त्था , वां॒ , छ॒र्दिषः॑ , अ॒भिष्टौ॑ , यु॒वोः , मि॒त्रा॒व॒रु॒णौ , अस्कृ॑धोयु । अनु॑ , यत् , गावः॑ , स्फु॒रान् , ऋ॒जि॒प्यं , धृ॒ष्णुं , यत् , रणे॑ , वृष॑णं , यु॒नज॑न् ॥
[६८] श्रुष्ठीवामित्येकादशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाज इंद्रावरुणौत्रिष्टुप् नवमीदशम्यौजगत्यौ |
श्रु॒ष्टी वां॑ य॒ज्ञ उद्य॑तः स॒जोषा॑ मनु॒ष्वद्वृ॒क्तब॑र्हिषो॒ यज॑ध्यै । आ य इंद्रा॒वरु॑णावि॒षे अ॒द्य म॒हे सु॒म्नाय॑ म॒ह आ॑व॒वर्त॑त् ॥
श्रु॒ष्टी , वां॒ , य॒ज्ञः , उत्ऽय॑तः , स॒ऽजोषाः॑ , म॒नु॒ष्वत् , वृ॒क्तऽब॑र्हिषः , यज॑ध्यै । आ , यः , इंद्रा॒वरु॑णौ , इ॒षे , अ॒द्य , म॒हे , सु॒म्नाय॑ , म॒हे , आ॒ऽव॒वर्त॑त् ॥
ता हि श्रेष्ठा॑ दे॒वता॑ता तु॒जा शूरा॑णां॒ शवि॑ष्ठा॒ ता हि भू॒तं । म॒घोनां॒ मंहि॑ष्ठा तुवि॒शुष्म॑ ऋ॒तेन॑ वृत्र॒तुरा॒ सर्व॑सेना ॥
ता , हि , श्रेष्ठा॑ , दे॒वऽता॑ता , तु॒जा , शूरा॑णां , शवि॑ष्ठा , ता , हि , भू॒तं । म॒घोनां॑ , मंहि॑ष्ठा , तु॒वि॒ऽशुष्मा॑ , ऋ॒तेन॑ , वृ॒त्र॒ऽतुरा॑ , सर्व॑ऽसेना ॥
ता गृ॑णीहि नम॒स्ये॑भिः शू॒षैः सु॒म्नेभि॒रिंद्रा॒वरु॑णा चका॒ना । वज्रे॑णा॒न्यः शव॑सा॒ हंति॑ वृ॒त्रं सिष॑क्त्य॒न्यो वृ॒जने॑षु॒ विप्रः॑ ॥
ता , गृ॒णी॒हि॒ , न॒म॒स्ये॑भिः , शू॒षैः , सु॒म्नेभिः॑ , इंद्रा॒वरु॑णा , च॒का॒ना । वज्रे॑ण , अ॒न्यः , शव॑सा , हंति॑ , वृ॒त्रं , सिस॑क्ति , अ॒न्यः , वृ॒जने॑षु , विप्रः॑ ॥
ग्नाश्च॒ यन्नर॑श्च वावृ॒धंत॒ विश्वे॑ दे॒वासो॑ न॒रां स्वगू॑र्ताः । प्रैभ्य॑ इंद्रावरुणा महि॒त्वा द्यौश्च॑ पृथिवि भूतमु॒र्वी ॥
ग्नाः , च॒ , यत् , नरः॑ , च॒ , व॒वृ॒धंत॑ , विश्वे॑ , दे॒वासः॑ , न॒रां , स्वऽगू॑र्ताः । प्र , ए॒भ्यः॒ , इं॒द्रा॒व॒रु॒णा॒ , म॒हि॒ऽत्वा , द्यौः , च॒ , पृ॒थि॒वि॒ , भू॒तं॒ , उ॒र्वी इति॑ ॥
स इत्सु॒दानुः॒ स्ववाँ॑ ऋ॒तावेंद्रा॒ यो वां॑ वरुण॒ दाश॑ति॒ त्मन् । इ॒षा स द्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिं र॑यि॒वत॑श्च॒ जना॑न् ॥
सः , इत् , सु॒ऽदानुः॑ , स्वऽवा॑न् , ऋ॒तऽवा॑ , इंद्रा॑ , यः , वां॒ , व॒रु॒णा॒ , दाश॑ति , त्मन् । इ॒षा , सः , द्वि॒षः , त॒रे॒त् , दास्वा॑न् , वंस॑त् , र॒यिं , र॒यि॒ऽवतः॑ , च॒ , जना॑न् ॥
यं यु॒वं दा॒श्व॑ध्वराय देवा र॒यिं ध॒त्थो वसु॑मंतं पुरु॒क्षुं । अ॒स्मे स इं॑द्रावरुणा॒वपि॑ ष्या॒त्प्र यो भ॒नक्ति॑ व॒नुषा॒मश॑स्तीः ॥
यं , यु॒वं , दा॒शुऽअ॑ध्वराय , दे॒वा॒ , र॒यिं , ध॒त्थः , वसु॑ऽमंतं , पु॒रु॒ऽक्षुं । अ॒स्मे इति॑ , सः , इं॒द्रा॒व॒रुणौ॒ , अपि॑ , स्या॒त् , प्र , यः , भ॒नक्ति॑ , व॒नुषां॑ , अश॑स्तीः ॥
उ॒त नः॑ सुत्रा॒त्रो दे॒वगो॑पाः सू॒रिभ्य॑ इंद्रावरुणा र॒यिः ष्या॑त् । येषां॒ शुष्मः॒ पृत॑नासु सा॒ह्वान्प्र स॒द्यो द्यु॒म्ना ति॒रते॒ ततु॑रिः ॥
उ॒त , नः॒ , सु॒ऽत्रा॒त्रः , दे॒वऽगो॑पाः , सू॒रिऽभ्यः॑ , इं॒द्रा॒व॒रु॒णा॒ , र॒यिः , स्या॒त् । येषां॑ , शुष्मः॑ , पृत॑नासु , स॒ह्वान् , प्र , स॒द्यः , द्यु॒म्ना , ति॒रते॑ , ततु॑रिः ॥
नू न॑ इंद्रावरुणा गृणा॒ना पृं॒क्तं र॒यिं सौ॑श्रव॒साय॑ देवा । इ॒त्था गृ॒णंतो॑ म॒हिन॑स्य॒ शर्धो॒ऽपो न ना॒वा दु॑रि॒ता त॑रेम ॥
नु , नः॒ , इं॒द्रा॒व॒रु॒णा॒ , गृ॒णा॒ना , पृं॒क्तं , र॒यिं , सौ॒श्र॒व॒साय॑ , दे॒वा॒ । इ॒त्था , गृ॒णंतः॑ , म॒हिन॑स्य , शर्धः॑ , अ॒पः , न , ना॒वा , दुः॒ऽइ॒ता , त॒रे॒म॒ ॥
प्र स॒म्राजे॑ बृह॒ते मन्म॒ नु प्रि॒यमर्च॑ दे॒वाय॒ वरु॑णाय स॒प्रथः॑ । अ॒यं य उ॒र्वी म॑हि॒ना महि॑व्रतः॒ क्रत्वा॑ वि॒भात्य॒जरो॒ न शो॒चिषा॑ ॥
प्र , सं॒ऽराजे॑ , बृ॒ह॒ते , मन्म॑ , नु , प्रि॒यं , अर्च॑ , दे॒वाय॑ , वरु॑णाय , स॒ऽप्रथः॑ । अ॒यं , यः , उ॒र्वी इति॑ , म॒हि॒ना , महि॑ऽव्रतः , क्रत्वा॑ , वि॒ऽभाति॑ , अ॒जरः॑ , न , शो॒चिषा॑ ॥
इंद्रा॑वरुणा सुतपावि॒मं सु॒तं सोमं॑ पिबतं॒ मद्यं॑ धृतव्रता । यु॒वो रथो॑ अध्व॒रं दे॒ववी॑तये॒ प्रति॒ स्वस॑र॒मुप॑ याति पी॒तये॑ ॥
इंद्रा॑वरुणा , सु॒त॒ऽपौ॒ , इ॒मं , सु॒तं , सोमं॑ , पि॒ब॒तं॒ , मद्यं॑ , धृ॒त॒ऽव्र॒ता॒ । यु॒वोः , रथः॑ , अ॒ध्व॒रं , दे॒वऽवी॑तये , प्रति॑ , स्वस॑रं , उप॑ , या॒ति॒ , पी॒तये॑ ॥
इंद्रा॑वरुणा॒ मधु॑मत्तमस्य॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथां । इ॒दं वा॒मंधः॒ परि॑षिक्तम॒स्मे आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयेथां ॥
इंद्रा॑वरुणा , मधु॑मत्ऽतमस्य , वृष्णः॑ , सोम॑स्य , वृ॒ष॒णा॒ , आ , वृ॒षे॒थां॒ । इ॒दं , वां॒ , अंधः॑ , परि॑ऽसिक्तं , अ॒स्मे इति॑ , आ॒ऽसद्य॑ , अ॒स्मिन् , ब॒र्हिषि॑ , मा॒द॒ये॒थां॒ ॥
[६९] संवामित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्राविष्णूत्रिष्टुप् |
सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मींद्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य । जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रयं॑ता ॥
सं , वां॒ , कर्म॑णा , सं , इ॒षा , हि॒नो॒मि॒ , इंद्रा॑विष्णू॒ इति॑ , अप॑सः , पा॒रे , अ॒स्य । जु॒षेथां॑ , य॒ज्ञं , द्रवि॑णं , च॒ , ध॒त्तं॒ , अरि॑ष्टैः , नः॒ , प॒थिऽभिः॑ , पा॒रयं॑ता ॥
या विश्वा॑सां जनि॒तारा॑ मती॒नामिंद्रा॒विष्णू॑ क॒लशा॑ सोम॒धाना॑ । प्र वां॒ गिरः॑ श॒स्यमा॑ना अवंतु॒ प्र स्तोमा॑सो गी॒यमा॑नासो अ॒र्कैः ॥
या , विश्वा॑सां , ज॒नि॒तारा॑ , म॒ती॒नां , इंद्रा॒विष्णू॒ इति॑ , क॒लशा॑ , सो॒म॒ऽधाना॑ । प्र , वां॒ , गिरः॑ , श॒स्यमा॑नाः , अ॒वं॒तु॒ , प्र , स्तोमा॑सः , गी॒यमा॑नासः , अ॒र्कैः ॥
इंद्रा॑विष्णू मदपती मदाना॒मा सोमं॑ यातं॒ द्रवि॑णो॒ दधा॑ना । सं वा॑मंजंत्व॒क्तुभि॑र्मती॒नां सं स्तोमा॑सः श॒स्यमा॑नास उ॒क्थैः ॥
इंद्रा॑विष्णू॒ इति॑ , म॒द॒प॒ती॒ इति॑ मदऽपती , म॒दा॒नां॒ , आ , सोमं॑ , या॒तं॒ , द्रवि॑णो॒ इति॑ , दधा॑ना । सं , वां॒ , अं॒जं॒तु॒ , अ॒क्तुऽभिः॑ , म॒ती॒नां , सं , स्तोमा॑सः , श॒स्यमा॑नासः , उ॒क्थैः ॥
आ वा॒मश्वा॑सो अभिमाति॒षाह॒ इंद्रा॑विष्णू सध॒मादो॑ वहंतु । जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा॑णि शृणुतं॒ गिरो॑ मे ॥
आ , वां॒ , अश्वा॑सः , अ॒भि॒मा॒ति॒ऽसहः॑ , इंद्रा॑विष्णू॒ इति॑ , स॒ध॒ऽमादः॑ , व॒हं॒तु॒ । जु॒षेथां॑ , विश्वा॑ , हव॑ना , म॒ती॒नां , उप॑ , ब्रह्मा॑णि , शृ॒णु॒तं॒ , गिरः॑ , मे॒ ॥
इंद्रा॑विष्णू॒ तत्प॑न॒याय्यं॑ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे । अकृ॑णुतमं॒तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे॑ नो॒ रजां॑सि ॥
इंद्रा॑विष्णू॒ इति॑ , तत् , प॒न॒याय्यं॑ , वां॒ , सोम॑स्य , मदे॑ , उ॒रु , च॒क्र॒मा॒थे॒ इति॑ । अकृ॑णुतं , अं॒तरि॑क्षं , वरी॑यः , अप्र॑थतं , जी॒वसे॑ , नः॒ , रजां॑सि ॥
इंद्रा॑विष्णू ह॒विषा॑ वावृधा॒नाग्रा॑द्वाना॒ नम॑सा रातहव्या । घृता॑सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थः॑ क॒लशः॑ सोम॒धानः॑ ॥
इंद्रा॑विष्णू॒ इति॑ , ह॒विषा॑ , व॒वृ॒धा॒ना , अग्र॑ऽअद्वाना , नम॑सा , रा॒त॒ऽह॒व्या॒ । घृता॑सुती॒ इति॒ घृत॑ऽआसुती , द्रवि॑णं , ध॒त्तं॒ , अ॒स्मे इति॑ , स॒मु॒द्रः , स्थः॒ , क॒लशः॑ , सो॒म॒ऽधानः॑ ॥
इंद्रा॑विष्णू॒ पिब॑तं॒ मध्वो॑ अ॒स्य सोम॑स्य दस्रा ज॒ठरं॑ पृणेथां । आ वा॒मंधां॑सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा॑णि शृणुतं॒ हवं॑ मे ॥
इंद्रा॑विष्णू॒ इति॑ , पिब॑तं , मध्वः॑ , अ॒स्य , सोम॑स्य , द॒स्रा॒ , ज॒ठरं॑ , पृ॒णे॒थां॒ । आ , वां॒ , अंधां॑सि , म॒दि॒राणि॑ , अ॒ग्म॒न् , उप॑ , ब्रह्मा॑णि , शृ॒णु॒तं॒ , हवं॑ , मे॒ ॥
उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः॑ । इंद्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथां ॥
उ॒भा , जि॒ग्य॒थुः॒ , न , परा॑ , ज॒ये॒थे॒ इति॑ , न , परा॑ , जि॒ग्ये॒ , क॒त॒रः , च॒न , ए॒नोः॒ । इंद्रः॑ , च॒ , वि॒ष्णो॒ इति॑ , यत् , अप॑स्पृधेथां , त्रे॒धा , स॒हस्रं॑ , वि , तत् , ऐ॒र॒ये॒थां॒ ॥
[७०] घृतवतीइति षडृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोद्यावापृथिव्यौजगती |
घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा । द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ॥
घृ॒तव॑ती॒ इति॑ घृ॒तऽव॑ती , भुव॑नानां , अ॒भि॒ऽश्रिया॑ , उ॒र्वी इति॑ , पृ॒थ्वी इति॑ , म॒धु॒दुघे॒ इति॑ म॒धु॒ऽदुघे॑ , सु॒ऽपेश॑सा । द्यावा॑पृथि॒वी इति॑ , वरु॑णस्य , धर्म॑णा , विस्क॑भिते॒ इति॒ विऽस्क॑भिते , अ॒जरे॒ इति॑ , भूरि॑ऽरेतसा ॥
अस॑श्चंती॒ भूरि॑धारे॒ पय॑स्वती घृ॒तं दु॑हाते सु॒कृते॒ शुचि॑व्रते । राजं॑ती अ॒स्य भुव॑नस्य रोदसी अ॒स्मे रेतः॑ सिंचतं॒ यन्मनु॑र्हितं ॥
अस॑श्चंती॒ इति॑ , भूरि॑धारे॒ इति॒ भूरि॑ऽधारे , पय॑स्वती॒ इति॑ , घृ॒तं , दु॒हा॒ते॒ इति॑ , सु॒ऽकृते॑ , शुचि॑व्रते॒ इति॒ शुचि॑ऽव्रते । राजं॑ती॒ इति॑ , अ॒स्य , भुव॑नस्य , रो॒द॒सी॒ इति॑ , अ॒स्मे इति॑ , रेतः॑ , सिं॒च॒तं॒ , यत् , मनुः॑ऽहितं ॥
यो वा॑मृ॒जवे॒ क्रम॑णाय रोदसी॒ मर्तो॑ द॒दाश॑ धिषणे॒ स सा॑धति । प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ यु॒वोः सि॒क्ता विषु॑रूपाणि॒ सव्र॑ता ॥
यः , वां॒ , ऋ॒जवे॑ , क्रम॑णाय , रो॒द॒सी॒ इति॑ , मर्तः॑ , द॒दाश॑ , धि॒ष॒णे॒ इति॑ , सः , सा॒ध॒ति॒ । प्र , प्र॒ऽजाभिः॑ , जा॒य॒ते॒ , धर्म॑णः , परि॑ , यु॒वोः , सि॒क्ता , विषु॑ऽरूपाणि , सऽव्र॑ता ॥
घृ॒तेन॒ द्यावा॑पृथि॒वी अ॒भीवृ॑ते घृत॒श्रिया॑ घृत॒पृचा॑ घृता॒वृधा॑ । उ॒र्वी पृ॒थ्वी हो॑तृ॒वूर्ये॑ पु॒रोहि॑ते॒ ते इद्विप्रा॑ ईळते सु॒म्नमि॒ष्टये॑ ॥
घृ॒तेन॑ , द्यावा॑पृथि॒वी इति॑ , अ॒भिवृ॑ते॒ इत्य॒भिऽवृ॑ते , घृ॒त॒ऽश्रिया॑ , घृ॒त॒ऽपृचा॑ , घृ॒त॒ऽवृधा॑ । उ॒र्वी इति॑ , पृ॒थ्वी इति॑ , हो॒तृ॒ऽवूर्ये॑ , पु॒रोहि॑ते॒ इति॑ पु॒रःऽहि॑ते , ते इति॑ , इत् , विप्राः॑ , ई॒ळ॒ते॒ , सु॒म्नं , इ॒ष्टये॑ ॥
मधु॑ नो॒ द्यावा॑पृथि॒वी मि॑मिक्षतां मधु॒श्चुता॑ मधु॒दुघे॒ मधु॑व्रते । दधा॑ने य॒ज्ञं द्रवि॑णं च दे॒वता॒ महि॒ श्रवो॒ वाज॑म॒स्मे सु॒वीर्यं॑ ॥
मधु॑ , नः॒ , द्यावा॑पृथि॒वी इति॑ , मि॒मि॒क्ष॒तां॒ , म॒धु॒ऽश्चुता॑ , म॒धु॒दुघे॒ इति॑ म॒धु॒ऽदुघे॑ , मधु॑व्रते॒ इति॒ मधु॑ऽव्रते । दधा॑ने॒ इति॑ , य॒ज्ञं , द्रवि॑णं , च॒ , दे॒वता॑ , महि॑ , श्रवः॑ , वाजं॑ , अ॒स्मे इति॑ , सु॒ऽवीर्यं॑ ॥
ऊर्जं॑ नो॒ द्यौश्च॑ पृथि॒वी च॑ पिन्वतां पि॒ता मा॒ता वि॑श्व॒विदा॑ सु॒दंस॑सा । सं॒र॒रा॒णे रोद॑सी वि॒श्वशं॑भुवा स॒निं वाजं॑ र॒यिम॒स्मे समि॑न्वतां ॥
ऊर्जं॑ , नः॒ , द्यौः , च॒ , पृ॒थि॒वी , च॒ , पि॒न्व॒तां॒ , पि॒ता , मा॒ता , वि॒श्व॒ऽविदा॑ , सु॒ऽदंस॑सा । सं॒र॒रा॒णे इति॑ सं॒ऽर॒रा॒णे , रोद॑सी॒ इति॑ , वि॒श्वऽशं॑भुवा , स॒निं , वाजं॑ , र॒यिं , अ॒स्मे इति॑ , सं , इ॒न्व॒तां॒ ॥
[७१] उदुष्येति षडृचस्य सूक्तस्त्य बार्हस्पत्यो भरद्वाजःसविताजगती अंत्यास्तिस्रस्त्रिष्टुभः |
उदु॒ ष्य दे॒वः स॑वि॒ता हि॑र॒ण्यया॑ बा॒हू अ॑यंस्त॒ सव॑नाय सु॒क्रतुः॑ । घृ॒तेन॑ पा॒णी अ॒भि प्रु॑ष्णुते म॒खो युवा॑ सु॒दक्षो॒ रज॑सो॒ विध॑र्मणि ॥
उत् , ऊँ॒ इति॑ , स्यः , दे॒वः , स॒वि॒ता , हि॒र॒ण्यया॑ , बा॒हू इति॑ , अ॒यं॒स्त॒ , सव॑नाय , सु॒ऽक्रतुः॑ । घृ॒तेन॑ , पा॒णी इति॑ , अ॒भि , प्रु॒ष्णु॒ते॒ , म॒खः , युवा॑ , सु॒ऽदक्षः॑ , रज॑सः , विऽध॑र्मणि ॥
दे॒वस्य॑ व॒यं स॑वि॒तुः सवी॑मनि॒ श्रेष्ठे॑ स्याम॒ वसु॑नश्च दा॒वने॑ । यो विश्व॑स्य द्वि॒पदो॒ यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ॥
दे॒वस्य॑ , व॒यं , स॒वि॒तुः , सवी॑मनि , श्रेष्ठे॑ , स्या॒म॒ , वसु॑नः , च॒ , दा॒वने॑ । यः , विश्व॑स्य , द्वि॒ऽपदः॑ , यः , चतुः॑ऽपदः , नि॒ऽवेश॑ने , प्र॒ऽस॒वे , च॒ , असि॑ , भूम॑नः ॥
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वं शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गयं॑ । हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥
अद॑ब्धेभिः , स॒वि॒त॒रिति॑ , पा॒युऽभिः॑ , त्वं , शि॒वेभिः॑ , अ॒द्य , परि॑ , पा॒हि॒ , नः॒ , गयं॑ । हिर॑ण्यऽजिह्वः , सु॒वि॒ताय॑ , नव्य॑से , रक्ष॑ , माकिः॑ , नः॒ , अ॒घऽशं॑सः , ई॒श॒त॒ ॥
उदु॒ ष्य दे॒वः स॑वि॒ता दमू॑ना॒ हिर॑ण्यपाणिः प्रतिदो॒षम॑स्थात् । अयो॑हनुर्यज॒तो मं॒द्रजि॑ह्व॒ आ दा॒शुषे॑ सुवति॒ भूरि॑ वा॒मं ॥
उत् , ऊँ॒ इति॑ , स्यः , दे॒वः , स॒वि॒ता , दमू॑नाः , हिर॑ण्यऽपाणिः , प्र॒ति॒ऽदो॒षं , अ॒स्था॒त् । अयः॑ऽहनुः , य॒ज॒तः , मं॒द्रऽजि॑ह्वः , आ , दा॒शुषे॑ , सु॒व॒ति॒ , भूरि॑ , वा॒मं ॥
उदू॑ अयाँ उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया॑ सवि॒ता सु॒प्रती॑का । दि॒वो रोहां॑स्यरुहत्पृथि॒व्या अरी॑रमत्प॒तय॒त्कच्चि॒दभ्वं॑ ॥
उत् , ऊँ॒ इति॑ , अ॒या॒न् , उ॒प॒व॒क्ताऽइ॑व , बा॒हू इति॑ , हि॒र॒न्यया॑ , स॒वि॒ता , सु॒ऽप्रती॑का । दि॒वः , रोहां॑सि , अ॒रु॒ह॒त् , पृ॒थि॒व्याः , अरी॑रमत् , प॒तय॑त् , कत् , चि॒त् , अभ्वं॑ ॥
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यं॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥
वा॒मं , अ॒द्य , स॒वि॒तः॒ , वा॒मं , ऊँ॒ इति॑ , श्वः , दि॒वेऽदि॑वे , वा॒मं , अ॒स्मभ्यं॑ , सा॒वीः॒ । वा॒मस्य॑ , हि , क्षय॑स्य , दे॒व॒ , भूरेः॑ , अ॒या , धि॒या , वा॒म॒ऽभाजः॑ , स्या॒म॒ ॥
[७२] इंद्रासोमेति पंचर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजइंद्रासोमौत्रिष्टुप् |
इंद्रा॑सोमा॒ महि॒ तद्वां॑ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः । यु॒वं सूर्यं॑ विवि॒दथु॑र्यु॒वं स्व१॒॑र्विश्वा॒ तमां॑स्यहतं नि॒दश्च॑ ॥
इंद्रा॑सोमा , महि॑ , तत् , वां॒ , म॒हि॒ऽत्वं , यु॒वं , म॒हानि॑ , प्र॒थ॒मानि॑ , च॒क्र॒थुः॒ । यु॒वं , सूर्यं॑ , वि॒वि॒दथुः॑ , यु॒वं , स्वः॑ , विश्वा॑ , तमां॑सि , अ॒ह॒तं॒ , नि॒दः , च॒ ॥
इंद्रा॑सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं॑ नयथो॒ ज्योति॑षा स॒ह । उप॒ द्यां स्कं॒भथुः॒ स्कंभ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ॥
इंद्रा॑सोमा , वा॒सय॑थः , उ॒षसं॑ , उत् , सूर्यं॑ , न॒य॒थः॒ , ज्योति॑षा , स॒ह । उप॑ , द्यां , स्कं॒भथुः॑ , स्कंभ॑नेन , अप्र॑थतं , पृ॒थि॒वीं , मा॒तरं॑ , वि ॥
इंद्रा॑सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत । प्रार्णां॑स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ॥
इंद्रा॑सोमौ , अहिं॑ , अ॒पः , प॒रि॒ऽस्थां , ह॒थः , वृ॒त्रं , अनु॑ , वां॒ , द्यौः , अ॒म॒न्य॒त॒ । प्र , अर्णां॑सि , ऐ॒र॒य॒तं॒ , न॒दीनां॑ , आ , स॒मु॒द्राणि॑ , प॒प्र॒थुः॒ , पु॒रूणि॑ ॥
इंद्रा॑सोमा प॒क्वमा॒मास्वं॒तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा॑सु । ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्वं॒तः ॥
इंद्रा॑सोमा , प॒क्वं , आ॒मासु॑ , अं॒तः , नि , गवां॑ , इत् , द॒ध॒थुः॒ , व॒क्षणा॑सु । ज॒गृ॒भथुः॑ , अन॑पिऽनद्धं , आ॒सु॒ , रुश॑त् , चि॒त्रासु॑ , जग॑तीषु , अं॒तरिति॑ ॥
इंद्रा॑सोमा यु॒वमं॒ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं॑ रराथे । यु॒वं शुष्मं॒ नर्यं॑ चर्ष॒णिभ्यः॒ सं वि॑व्यथुः पृतना॒षाह॑मुग्रा ॥
इंद्रा॑सोमा , यु॒वं , अं॒ग , तरु॑त्रं , अ॒प॒त्य॒ऽसाचं॑ , श्रुत्यं॑ , र॒रा॒थे॒ इति॑ । यु॒वं , शुष्मं॑ , नर्यं॑ , च॒र्ष॒णिऽभ्यः॑ , सं , वि॒व्य॒थुः॒ , पृ॒त॒ना॒ऽसहं॑ , उ॒ग्रा॒ ॥
[७३] योअद्रिभिदिति तृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजोबृहस्पतिस्त्रिष्टुप् |
यो अ॑द्रि॒भित्प्र॑थम॒जा ऋ॒तावा॒ बृह॒स्पति॑रांगिर॒सो ह॒विष्मा॑न् । द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो॑रवीति ॥
यः , अ॒द्रि॒ऽभित् , प्र॒थ॒म॒ऽजाः , ऋ॒तऽवा॑ , बृह॒स्पतिः॑ , आं॒गि॒र॒सः , ह॒विष्मा॑न् । द्वि॒बर्ह॑ऽज्मा , प्रा॒घ॒र्म॒ऽसत् , पि॒ता , नः॒ , आ , रोद॑सी॒ इति॑ , वृ॒ष॒भः , रो॒र॒वी॒ति॒ ॥
जना॑य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑ । घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जयं॒छत्रूँ॑र॒मित्रा॑न्पृ॒त्सु साह॑न् ॥
जना॑य , चि॒त् , यः , ईव॑ते , ऊँ॒ इति॑ , लो॒कं , बृह॒स्पतिः॑ , दे॒वऽहू॑तौ , च॒कार॑ । घ्नन् , वृ॒त्राणि॑ , वि , पुरः॑ , द॒र्द॒री॒ति॒ , जय॑न् , शत्रू॑न् , अ॒मित्रा॑न् , पृ॒त्ऽसु , सह॑न् ॥
बृह॒स्पतिः॒ सम॑जय॒द्वसू॑नि म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः । अ॒पः सिषा॑सं॒त्स्व१॒॑रप्र॑तीतो॒ बृह॒स्पति॒र्हंत्य॒मित्र॑म॒र्कैः ॥
बृह॒स्पतिः॑ , सं , अ॒ज॒य॒त् , वसू॑नि , म॒हः , व्र॒जान् , गोऽम॑तः , दे॒वः , ए॒षः । अ॒पः , सिसा॑सन् , स्वः॑ , अप्र॑तिऽइतः , बृह॒स्पतिः॑ , हंति॑ , अ॒मित्रं॑ , अ॒र्कैः ॥
[७४] सोमारुद्रेति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सोमारुद्रौत्रिष्टुप् |
सोमा॑रुद्रा धा॒रये॑थामसु॒र्यं१॒॑ प्र वा॑मि॒ष्टयोऽर॑मश्नुवंतु । दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ शं नो॑ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ॥
सोमा॑रुद्रा , धा॒रये॑थां , अ॒सु॒र्यं॑ , प्र , वां॒ , इ॒ष्टयः॑ , अरं॑ , अ॒श्नु॒वं॒तु॒ । दमे॑ऽदमे , स॒प्त , रत्ना॑ , दधा॑ना , शं , नः॒ , भू॒तं॒ , द्वि॒ऽपदे॑ , शं , चतुः॑ऽपदे ॥
सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ । आ॒रे बा॑धेथां॒ निर्ऋ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ संतु ॥
सोमा॑रुद्रा , वि , वृ॒ह॒तं॒ , विषू॑चीं , अमी॑वा , या , नः॒ , गयं॑ , आ॒ऽवि॒वेश॑ । आ॒रे , बा॒धे॒थां॒ , निःऽऋ॑तिं , प॒रा॒चैः , अ॒स्मे इति॑ , भ॒द्रा , सौ॒श्र॒व॒सानि॑ , सं॒तु॒ ॥
सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तं । अव॑ स्यतं मुं॒चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥
सोमा॑रुद्रा , यु॒वं , ए॒तानि॑ , अ॒स्मे इति॑ , विश्वा॑ , त॒नूषु॑ , भे॒ष॒जानि॑ , ध॒त्तं॒ । अव॑ , स्य॒तं॒ , मुं॒चतं॑ , यत् , नः॒ , अस्ति॑ , त॒नूषु॑ , ब॒द्धं , कृ॒तं , एनः॑ , अ॒स्मत् ॥
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒शेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑ळतं नः । प्र नो॑ मुंचतं॒ वरु॑णस्य॒ पाशा॑द्गोपा॒यतं॑ नः सुमन॒स्यमा॑ना ॥
ति॒ग्मऽआ॑युधौ , ति॒ग्महे॑ती॒ इति॑ ति॒ग्मऽहे॑ती , सु॒ऽशेवौ॑ , सोमा॑रुद्रा , इ॒ह , सु , मृ॒ळ॒तं॒ , नः॒ । प्र , नः॒ , मुं॒च॒तं॒ , वरु॑णस्य , पाशा॑त् , गो॒पा॒यतं॑ , नः॒ , सु॒ऽम॒न॒स्यमा॑ना ॥
[७५] जीमूतस्येवेत्येकोनविंशत्यृचस्य सूक्तस्य भारद्वाजः पायुः आद्यानांनवानांक्रमेण वर्मधनुर्ज्या धनुष्कोटीषुधिः सारथी रश्मयोऽश्वारथोरथगोपाः दशम्याब्राह्मणपितृसोमपृथिवीपूषाणः एकादश्यादिद्वयोरिषवः त्रयोदश्याः प्रतोदः चतुर्दश्याहस्तत्राणं पंचदशीषोडश्योरिषवः सप्तदश्यायुद्धभूमिकवच ब्रह्मणस्पत्यदित्यः अष्टादश्यावर्मसोमवरुणाः अंत्यायादेवब्रह्माणित्रिष्टुप् | षष्ठीदशम्यौजगत्यौ द्वादशीत्रयोदशीपंचदशीषोळश्यंत्यानुष्टुभः सप्तदशीपंक्तिः |(त्रयोदश्याः प्रतोदइत्यत्राश्वोदेवतेतिकेचित् | चतुर्दश्याहस्तघ्नमित्यत्रहस्तत्राणं चतुर्दश्यामितिशौनकोक्तेर्हस्तत्राणमेवयुक्तं | पराः पंक्त्यादयोलिंगोक्तदेवता इत्येवमनुक्रमण्यांसत्यामंत्ययोर्द्वयोर्विश्वेदेवा इति केचिन्मन्यंतेबहुदैवतत्वात् | पंचदश्यादिद्वयोर्विषाक्तमुखबाण इतिशौनकः)|
जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ । अना॑विद्धया त॒न्वा॑ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥
जी॒मूत॑स्यऽइव , भ॒व॒ति॒ , प्रती॑कं , यत् , व॒र्मी , याति॑ , स॒ऽमदां॑ , उ॒पऽस्थे॑ । अना॑विद्धया , त॒न्वा॑ , ज॒य॒ , त्वं , सः , त्वा॒ , वर्म॑णः , म॒हि॒मा , पि॒प॒र्तु॒ ॥
धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम । धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम ॥
धन्व॑ना , गाः , धन्व॑ना , आ॒जिं , ज॒ये॒म॒ , धन्व॑ना , ती॒व्राः , स॒ऽमदः॑ , ज॒ये॒म॒ । धनुः॑ , शत्रोः॑ , अ॒प॒ऽका॒मं , कृ॒णो॒ति॒ , धन्व॑ना , सर्वाः॑ , प्र॒ऽदिशः॑ , ज॒ये॒म॒ ॥
व॒क्ष्यंती॒वेदा ग॑नीगंति॒ कर्णं॑ प्रि॒यं सखा॑यं परिषस्वजा॒ना । योषे॑व शिंक्ते॒ वित॒ताधि॒ धन्वं॒ज्या इ॒यं सम॑ने पा॒रयं॑ती ॥
व॒क्ष्यंती॑ऽइव , इत् , आ , ग॒नी॒गं॒ति॒ , कर्णं॑ , प्रि॒यं , सखा॑यं , प॒रि॒ऽस॒स्व॒जा॒ना । योषा॑ऽइव , शिं॒क्ते॒ , विऽत॑ता , अधि॑ , धन्व॑न् , ज्या , इ॒यं , सम॑ने , पा॒रयं॑ती ॥
ते आ॒चरं॑ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑ । अप॒ शत्रू॑न्विध्यतां संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रंती॑ अ॒मित्रा॑न् ॥
ते इति॑ , आ॒चरं॑ती॒ इत्या॒ऽचरं॑ती , सम॑नाऽइव , योषा॑ , मा॒ताऽइ॑व , पु॒त्रं , बि॒भृ॒तां॒ , उ॒पऽस्थे॑ । अप॑ , शत्रू॑न् , वि॒ध्य॒तां॒ , सं॒वि॒दा॒ने इति॑ सं॒ऽवि॒दा॒ने , आर्त्नी॒ इति॑ , इ॒मे इति॑ , वि॒स्फु॒रंती॒ इति॑ वि॒ऽस्फु॒रंती॑ , अ॒मित्रा॑न् ॥
ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ । इ॒षु॒धिः संकाः॒ पृत॑नाश्च॒ सर्वाः॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥
ब॒ह्वी॒नां , पि॒ता , ब॒हुः , अ॒स्य॒ , पु॒त्रः , चि॒श्चा , कृ॒णो॒ति॒ , सम॑ना , अ॒व॒ऽगत्य॑ । इ॒षु॒ऽधिः , संकाः॑ , पृत॑नाः , च॒ , सर्वाः॑ , पृ॒ष्ठे , निऽन॑द्धः , ज॒य॒ति॒ , प्रऽसू॑तः ॥
रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छंति र॒श्मयः॑ ॥
रथे॑ , तिष्ठ॑न् , न॒य॒ति॒ , वा॒जिनः॑ , पु॒रः , यत्र॑ऽयत्र , का॒मय॑ते , सु॒ऽसा॒र॒थिः । अ॒भीशू॑नां , म॒हि॒मानं॑ , प॒ना॒य॒त॒ , मनः॑ , प॒श्चात् , अनु॑ , य॒च्छं॒ति॒ , र॒श्मयः॑ ॥
ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जयं॑तः । अ॒व॒क्रामं॑तः॒ प्रप॑दैर॒मित्रा॑न्क्षि॒णंति॒ शत्रूँ॒रन॑पव्ययंतः ॥
ती॒व्रान् , घोषा॑न् , कृ॒ण्व॒ते॒ , वृष॑ऽपाणयः , अश्वाः॑ , रथे॑भिः , स॒ह , वा॒जयं॑तः । अ॒व॒ऽक्रामं॑तः , प्रऽप॑दैः , अ॒मित्रा॑न् , क्षि॒णंति॑ , शत्रू॑न् , अन॑पऽव्ययंतः ॥
र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा॑ व॒यं सु॑मन॒स्यमा॑नाः ॥
र॒थ॒ऽवाह॑नं , ह॒विः , अ॒स्य॒ , नाम॑ , यत्र॑ , आयु॑धं , निऽहि॑तं , अ॒स्य॒ , वर्म॑ । तत्र॑ , रथं॑ , उप॑ , श॒ग्मं , स॒दे॒म॒ , वि॒श्वाहा॑ , व॒यं , सु॒ऽम॒न॒स्यमा॑नाः ॥
स्वा॒दु॒षं॒सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती॑वंतो गभी॒राः । चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ॥
स्वा॒दु॒ऽसं॒सदः॑ , पि॒तरः॑ , व॒यः॒ऽधाः , कृ॒च्छ्र॒ऽश्रितः॑ , शक्ति॑ऽवंतः , ग॒भी॒राः । चि॒त्रऽसे॑नाः , इषु॑ऽबलाः , अमृ॑ध्राः , स॒तःऽवी॑राः , उ॒रवः॑ , व्रा॒त॒ऽस॒हाः ॥
ब्राह्म॑णासः॒ पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ । पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥
ब्राह्म॑णासः , पित॑रः , सोम्या॑सः , शि॒वे इति॑ , नः॒ , द्यावा॑पृथि॒वी इति॑ , अ॒ने॒हसा॑ । पू॒षा , नः॒ , पा॒तु॒ , दुः॒ऽइ॒तात् , ऋ॒त॒ऽवृ॒धः॒ , रक्ष॑ , माकिः॑ , नः॒ , अ॒घऽशं॑सः , ई॒श॒त॒ ॥
सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दंतो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नरः॒ सं च॒ वि च॒ द्रवं॑ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यंसन् ॥
सु॒ऽप॒र्णं , व॒स्ते॒ , मृ॒गः , अ॒स्याः॒ , दंतः॑ , गोभिः॑ , संऽन॑द्धा , प॒त॒ति॒ , प्रऽसू॑ता । यत्र॑ , नरः॑ , सं , च॒ , वि , च॒ , द्रवं॑ति , तत्र॑ , अ॒स्मभ्यं॑ , इष॑वः , शर्म॑ , यं॒स॒न् ॥
ऋजी॑ते॒ परि॑ वृङ्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः । सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑तिः॒ शर्म॑ यच्छतु ॥
ऋजी॑ते , परि॑ , वृ॒ङ्धि॒ , नः॒ , अश्मा॑ , भ॒व॒तु॒ , नः॒ , त॒नूः । सोमः॑ , अधि॑ , ब्र॒वी॒तु॒ , नः॒ , अदि॑तिः , शर्म॑ , य॒च्छ॒तु॒ ॥
आ जं॑घंति॒ सान्वे॑षां ज॒घनाँ॒ उप॑ जिघ्नते । अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वां॑त्स॒मत्सु॑ चोदय ॥
आ , जं॒घं॒ति॒ , सानु॑ , ए॒षां॒ , ज॒घना॑न् , उप॑ , जि॒घ्न॒ते॒ । अश्व॑ऽअजनि , प्रऽचे॑तसः , अश्वा॑न् , स॒मत्ऽसु॑ , चो॒द॒य॒ ॥
अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमां॑सं॒ परि॑ पातु वि॒श्वतः॑ ॥
अहिः॑ऽइव , भो॒गैः , परि॑ , ए॒ति॒ , बा॒हुं , ज्यायाः॑ , हे॒तिं , प॒रि॒ऽबाध॑मानः । ह॒स्त॒ऽघ्नः , विश्वा॑ , व॒युना॑नि , वि॒द्वान् , पुमा॑न् , पुमां॑सं , परि॑ , पा॒तु॒ , वि॒श्वतः॑ ॥
आला॑क्ता॒ या रुरु॑शी॒र्ष्ण्यथो॒ यस्या॒ अयो॒ मुखं॑ । इ॒दं प॒र्जन्य॑रेतस॒ इष्वै॑ दे॒व्यै बृ॒हन्नमः॑ ॥
आल॑ऽअक्ता , या , रुरु॑ऽशीर्ष्णी , अथो॒ इति॑ , यस्याः॑ , अयः॑ , मुखं॑ । इ॒दं , प॒र्जन्य॑ऽरेतसे , इष्वै॑ , दे॒व्यै , बृ॒हत् , नमः॑ ॥
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते । गच्छा॒मित्रा॒न्प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ॥
अव॑ऽसृष्टा , परा॑ , प॒त॒ , शर॑व्ये , ब्रह्म॑ऽसंशिते । गच्छ॑ , अ॒मित्रा॑न् , प्र , प॒द्य॒स्व॒ , मा , अ॒मीषां॑ , कं , च॒न , उत् , शि॒षः॒ ॥
यत्र॑ बा॒णाः सं॒पतं॑ति कुमा॒रा वि॑शि॒खा इ॑व । तत्रा॑ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥
यत्र॑ , बा॒णाः , सं॒ऽपतं॑ति , कु॒मा॒राः , वि॒शि॒खाःऽइ॑व । तत्र॑ , नः॒ , ब्रह्म॑णः , पतिः॑ , अदि॑तिः , शर्म॑ , य॒च्छ॒तु॒ , वि॒श्वाहा॑ , शर्म॑ , य॒च्छ॒तु॒ ॥
मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्तां । उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जयं॑तं॒ त्वानु॑ दे॒वा म॑दंतु ॥
मर्मा॑णि , ते॒ , वर्म॑णा , छा॒द॒या॒मि॒ , सोमः॑ , त्वा॒ , राजा॑ , अ॒मृते॑न , अनु॑ , व॒स्तां॒ । उ॒रोः , वरी॑यः , वरु॑णः , ते॒ , कृ॒णो॒तु॒ , जयं॑तं , त्वा॒ , अनु॑ , दे॒वाः , म॒दं॒तु॒ ॥
यो नः॒ स्वो अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां॑सति । दे॒वास्तं सर्वे॑ धूर्वंतु॒ ब्रह्म॒ वर्म॒ ममांत॑रं ॥
यः , नः॒ , स्वः , अर॑णः , यः , च॒ , निष्ट्यः॑ , जिघां॑सति । दे॒वाः , तं , सर्वे॑ , धू॒र्वं॒तु॒ , ब्रह्म॑ , वर्म॑ , मम॑ , अंत॑रं ॥
[१] अग्निंनरइति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निर्विराट् अंत्याःसप्तत्रिष्टुभः |
अ॒ग्निं नरो॒ दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युती जनयंत प्रश॒स्तं । दू॒रे॒दृशं॑ गृ॒हप॑तिमथ॒र्युं ॥
अ॒ग्निं , नरः॑ , दीधि॑तिऽभिः , अ॒रण्योः॑ , हस्त॑ऽच्युती , ज॒न॒यं॒त॒ , प्र॒ऽश॒स्तं । दू॒रे॒ऽदृशं॑ , गृ॒हऽप॑तिं , अ॒थ॒र्युं ॥
तम॒ग्निमस्ते॒ वस॑वो॒ न्यृ॑ण्वंत्सुप्रति॒चक्ष॒मव॑से॒ कुत॑श्चित् । द॒क्षाय्यो॒ यो दम॒ आस॒ नित्यः॑ ॥
तं , अ॒ग्निं , अस्ते॑ , वस॑वः , नि , ऋ॒ण्व॒न् , सु॒ऽप्र॒ति॒चक्षं॑ , अव॑से , कुतः॑ , चि॒त् । द॒क्षाय्यः॑ , यः , दमे॑ , आस॑ , नित्यः॑ ॥
प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ । त्वां शश्वं॑त॒ उप॑ यंति॒ वाजाः॑ ॥
प्रऽइ॑द्धः , अ॒ग्ने॒ , दी॒दि॒हि॒ , पु॒रः , नः॒ , अज॑स्रया , सू॒र्म्या॑ , य॒वि॒ष्ठ॒ । त्वां , शश्वं॑तः , उप॑ , यं॒ति॒ , वाजाः॑ ॥
प्र ते अ॒ग्नयो॒ऽग्निभ्यो॒ वरं॒ निः सु॒वीरा॑सः शोशुचंत द्यु॒मंतः॑ । यत्रा॒ नरः॑ स॒मास॑ते सुजा॒ताः ॥
प्र , ते , अ॒ग्नयः॑ , अ॒ग्निऽभ्यः॑ , वरं॑ , निः , सु॒ऽवीरा॑सः , शो॒शु॒चं॒त॒ , द्यु॒ऽमंतः॑ । यत्र॑ , नरः॑ , सं॒ऽआस॑ते , सु॒ऽजा॒ताः ॥
दा नो॑ अग्ने धि॒या र॒यिं सु॒वीरं॑ स्वप॒त्यं स॑हस्य प्रश॒स्तं । न यं यावा॒ तर॑ति यातु॒मावा॑न् ॥
दाः , नः॒ , अ॒ग्ने॒ , धि॒या , र॒यिं , सु॒ऽवीरं॑ , सु॒ऽअ॒प॒त्यं , स॒ह॒स्य॒ , प्र॒ऽश॒स्तं । न , यं , यावा॑ , तर॑ति , या॒तु॒ऽमावा॑न् ॥
उप॒ यमेति॑ युव॒तिः सु॒दक्षं॑ दो॒षा वस्तो॑र्ह॒विष्म॑ती घृ॒ताची॑ । उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ॥
उप॑ , यं , एति॑ , यु॒व॒तिः , सु॒ऽदक्षं॑ , दो॒षा , वस्तोः॑ , ह॒विष्म॑ती , घृ॒ताची॑ । उप॑ , स्वा , ए॒नं॒ , अ॒रम॑तिः , व॒सु॒ऽयुः ॥
विश्वा॑ अ॒ग्नेऽप॑ द॒हारा॑ती॒र्येभि॒स्तपो॑भि॒रद॑हो॒ जरू॑थं । प्र नि॑स्व॒रं चा॑तय॒स्वामी॑वां ॥
विश्वाः॑ , अ॒ग्ने॒ , अप॑ , द॒ह॒ , अरा॑तीः , येभिः॑ , तपः॑ऽभिः , अद॑हः , जरू॑थं । प्र , नि॒ऽस्व॒रं , चा॒त॒य॒स्व॒ , अमी॑वां ॥
आ यस्ते॑ अग्न इध॒ते अनी॑कं॒ वसि॑ष्ठ॒ शुक्र॒ दीदि॑वः॒ पाव॑क । उ॒तो न॑ ए॒भिः स्त॒वथै॑रि॒ह स्याः॑ ॥
आ , यः , ते॒ , अ॒ग्ने॒ , इ॒ध॒ते , अनी॑कं , वसि॑ष्ठ , शुक्र॑ , दीदि॑ऽवः , पाव॑क । उ॒तो इति॑ , नः॒ , ए॒भिः , स्त॒वथैः॑ , इ॒ह , स्याः॒ ॥
वि ये ते॑ अग्ने भेजि॒रे अनी॑कं॒ मर्ता॒ नरः॒ पित्र्या॑सः पुरु॒त्रा । उ॒तो न॑ ए॒भिः सु॒मना॑ इ॒ह स्याः॑ ॥
वि , ये , ते॒ , अ॒ग्ने॒ , भे॒जि॒रे , अनी॑कं , मर्ताः॑ , नरः॑ , पित्र्या॑सः , पु॒रु॒ऽत्रा । उ॒तो इति॑ , नः॒ , ए॒भिः , सु॒ऽमनाः॑ , इ॒ह , स्याः॒ ॥
इ॒मे नरो॑ वृत्र॒हत्ये॑षु॒ शूरा॒ विश्वा॒ अदे॑वीर॒भि सं॑तु मा॒याः । ये मे॒ धियं॑ प॒नयं॑त प्रश॒स्तां ॥
इ॒मे , नरः॑ , वृ॒त्र॒ऽहत्ये॑षु , शूराः॑ , विश्वाः॑ , अदे॑वीः , अ॒भि , सं॒तु॒ , मा॒याः । ये , मे॒ , धियं॑ , प॒नयं॑त , प्र॒ऽश॒स्तां ॥
मा शूने॑ अग्ने॒ नि ष॑दाम नृ॒णां माशेष॑सो॒ऽवीर॑ता॒ परि॑ त्वा । प्र॒जाव॑तीषु॒ दुर्या॑सु दुर्य ॥
मा , शूने॑ , अ॒ग्ने॒ , नि , स॒दा॒म॒ , नृ॒णां , मा , अ॒शेष॑सः , अ॒वीर॑ता , परि॑ , त्वा॒ । प्र॒जाऽव॑तीषु , दुर्या॑सु , दु॒र्य॒ ॥
यम॒श्वी नित्य॑मुप॒याति॑ य॒ज्ञं प्र॒जावं॑तं स्वप॒त्यं क्षयं॑ नः । स्वज॑न्मना॒ शेष॑सा वावृधा॒नं ॥
यं , अ॒श्वी , नित्यं॑ , उ॒प॒ऽयाति॑ , य॒ज्ञं , प्र॒जाऽवं॑तं , सु॒ऽअ॒प॒त्यं , क्षयं॑ , नः॒ । स्वऽज॑न्मना , शेष॑सा , व॒वृ॒धा॒नं ॥
पा॒हि नो॑ अग्ने र॒क्षसो॒ अजु॑ष्टात्पा॒हि धू॒र्तेरर॑रुषो अघा॒योः । त्वा यु॒जा पृ॑तना॒यूँर॒भि ष्यां॑ ॥
पा॒हि , नः॒ , अ॒ग्ने॒ , र॒क्षसः॑ , अजु॑ष्टात् , पा॒हि , धू॒र्तेः , अर॑रुषः , अ॒घ॒ऽयोः । त्वा , यु॒जा , पृ॒त॒ना॒ऽयून् , अ॒भि , स्यां॒ ॥
सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑ वा॒जी तन॑यो वी॒ळुपा॑णिः । स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ॥
सः , इत् , अ॒ग्निः , अ॒ग्नीन् , अति॑ , अ॒स्तु॒ , अ॒न्यान् , यत्र॑ , वा॒जी , तन॑यः , वी॒ळुऽपा॑णिः । स॒हस्र॑ऽपाथाः , अ॒क्षरा॑ , सं॒ऽएति॑ ॥
सेद॒ग्निर्यो व॑नुष्य॒तो नि॒पाति॑ समे॒द्धार॒मंह॑स उरु॒ष्यात् । सु॒जा॒तासः॒ परि॑ चरंति वी॒राः ॥
सः , इत् , अ॒ग्निः , यः , व॒नु॒ष्य॒तः , नि॒ऽपाति॑ , सं॒ऽए॒द्धारं॑ , अंह॑सः , उ॒रु॒ष्यात् । सु॒ऽजा॒तासः॑ , परि॑ , च॒रं॒ति॒ , वी॒राः ॥
अ॒यं सो अ॒ग्निराहु॑तः पुरु॒त्रा यमीशा॑नः॒ समिदिं॒धे ह॒विष्मा॑न् । परि॒ यमेत्य॑ध्व॒रेषु॒ होता॑ ॥
अ॒यं , सः , अ॒ग्निः , आऽहु॑तः , पु॒रु॒ऽत्रा , यं , ईशा॑नः , सं , इत् , इं॒धे , ह॒विष्मा॑न् । परि॑ , यं , एति॑ , अ॒ध्व॒रेषु॑ , होता॑ ॥
त्वे अ॑ग्न आ॒हव॑नानि॒ भूरी॑शा॒नास॒ आ जु॑हुयाम॒ नित्या॑ । उ॒भा कृ॒ण्वंतो॑ वह॒तू मि॒येधे॑ ॥
त्वे इति॑ , अ॒ग्ने॒ , आ॒ऽहव॑नानि , भूरि॑ , ई॒शा॒नासः॑ , आ , जु॒हु॒या॒म॒ , नित्या॑ । उ॒भा , कृ॒ण्वंतः॑ , व॒ह॒तू इति॑ , मि॒येधे॑ ॥
इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ । प्रति॑ न ईं सुर॒भीणि॑ व्यंतु ॥
इ॒मो इति॑ , अ॒ग्ने॒ , वी॒तऽत॑मानि , ह॒व्या , अज॑स्रः , व॒क्षि॒ , दे॒वऽता॑तिं , इच्छ॑ । प्रति॑ , नः॒ , ईं॒ , सु॒र॒भीणि॑ , व्यं॒तु॒ ॥
मा नो॑ अग्ने॒ऽवीर॑ते॒ परा॑ दा दु॒र्वास॒सेऽम॑तये॒ मा नो॑ अ॒स्यै । मा नः॑ क्षु॒धे मा र॒क्षस॑ ऋतावो॒ मा नो॒ दमे॒ मा वन॒ आ जु॑हूर्थाः ॥
मा , नः॒ , अ॒ग्ने॒ , अ॒वीर॑ते , परा॑ , दाः , दुः॒ऽवास॑से , अम॑तये , मा , नः॒ , अ॒स्यै । मा , नः॒ , क्षु॒धे , मा , र॒क्षसे॑ , ऋ॒त॒ऽवः॒ , मा , नः॒ , दमे॑ , मा , वने॑ , आ , जु॒हू॒र्थाः॒ ॥
नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः । रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नु , मे॒ , ब्रह्मा॑णि , अ॒ग्ने॒ , उत् , श॒शा॒धि॒ , त्वं , दे॒व॒ , म॒घव॑त्ऽभ्यः , सु॒सू॒दः॒ । रा॒तौ , स्या॒म॒ , उ॒भया॑सः , आ , ते॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
त्वम॑ग्ने सु॒हवो॑ र॒ण्वसं॑दृक्सुदी॒ती सू॑नो सहसो दिदीहि । मा त्वे सचा॒ तन॑ये॒ नित्य॒ आ ध॒ङ्मा वी॒रो अ॒स्मन्नर्यो॒ वि दा॑सीत् ॥
त्वं , अ॒ग्ने॒ , सु॒ऽहवः॑ , र॒ण्वऽसं॑दृक् , सु॒ऽदी॒ती , सू॒नो॒ इति॑ , स॒ह॒सः॒ , दि॒दी॒हि॒ । मा , त्वे इति॑ , सचा॑ , तन॑ये , नित्ये॑ , आ , ध॒क् , मा , वी॒रः , अ॒स्मत् , नर्यः॑ , वि , दा॒सी॒त् ॥
मा नो॑ अग्ने दुर्भृ॒तये॒ सचै॒षु दे॒वेद्धे॑ष्व॒ग्निषु॒ प्र वो॑चः । मा ते॑ अ॒स्मांदु॑र्म॒तयो॑ भृ॒माच्चि॑द्दे॒वस्य॑ सूनो सहसो नशंत ॥
मा , नः॒ , अ॒ग्ने॒ , दुः॒ऽभृ॒तये॑ , सचा॑ , ए॒षु , दे॒वऽइ॑द्धेषु , अ॒ग्निषु॑ , प्र , वो॒चः॒ । मा , ते॒ , अ॒स्मान् , दुः॒ऽम॒तयः॑ , भृ॒मात् , चि॒त् , दे॒वस्य॑ , सू॒नो॒ इति॑ , स॒ह॒सः॒ , न॒शं॒त॒ ॥
स मर्तो॑ अग्ने स्वनीक रे॒वानम॑र्त्ये॒ य आ॑जु॒होति॑ ह॒व्यं । स दे॒वता॑ वसु॒वनिं॑ दधाति॒ यं सू॒रिर॒र्थी पृ॒च्छमा॑न॒ एति॑ ॥
सः , मर्तः॑ , अ॒ग्ने॒ , सु॒ऽअ॒नी॒क॒ , रे॒वान् , अम॑र्त्ये , यः , आ॒ऽजु॒होति॑ , ह॒व्यं । सः , दे॒वता॑ , व॒सु॒ऽवनिं॑ , द॒धा॒ति॒ , यं , सू॒रिः , अ॒र्थी , पृ॒च्छमा॑नः , एति॑ ॥
म॒हो नो॑ अग्ने सुवि॒तस्य॑ वि॒द्वान्र॒यिं सू॒रिभ्य॒ आ व॑हा बृ॒हंतं॑ । येन॑ व॒यं स॑हसाव॒न्मदे॒मावि॑क्षितास॒ आयु॑षा सु॒वीराः॑ ॥
म॒हः , नः॒ , अ॒ग्ने॒ , सु॒वि॒तस्य॑ , वि॒द्वान् , र॒यिं , सू॒रिऽभ्यः॑ , आ , व॒ह॒ , बृ॒हंतं॑ । येन॑ , व॒यं , स॒ह॒सा॒ऽव॒न् , मदे॑म , अवि॑ऽक्षितासः , आयु॑षा , सु॒ऽवीराः॑ ॥
नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः । रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नु , मे॒ , ब्रह्मा॑णि , अ॒ग्ने॒ , उत् , श॒शा॒धि॒ , त्वं , दे॒व॒ , म॒घव॑त्ऽभ्यः , सु॒सू॒दः॒ । रा॒तौ , स्या॒म॒ , उ॒भया॑सः , आ , ते॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[२] जुषस्वेत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः इध्मोनराशंसइळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्य स्त्वष्टावनस्पतिः स्वाहाकृतयस्त्रिष्टुप् |
जु॒षस्व॑ नः स॒मिध॑मग्ने अ॒द्य शोचा॑ बृ॒हद्य॑ज॒तं धू॒ममृ॒ण्वन् । उप॑ स्पृश दि॒व्यं सानु॒ स्तूपैः॒ सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ॥
जु॒षस्व॑ , नः॒ , सं॒ऽइधं॑ , अ॒ग्ने॒ , अ॒द्य , शोच॑ , बृ॒हत् , य॒ज॒तं , धू॒मं , ऋ॒ण्वन् । उप॑ , स्पृ॒श॒ , दि॒व्यं , सानु॑ , स्तूपैः॑ , सं , र॒श्मिऽभिः॑ , त॒त॒नः॒ , सूर्य॑स्य ॥
नरा॒शंस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः । ये सु॒क्रत॑वः॒ शुच॑यो धियं॒धाः स्वदं॑ति दे॒वा उ॒भया॑नि ह॒व्या ॥
नरा॒शंस॑स्य , म॒हि॒मानं॑ , ए॒षां॒ , उप॑ , स्तो॒षा॒म॒ , य॒ज॒तस्य॑ , य॒ज्ञैः । ये , सु॒ऽक्रत॑वः , शुच॑यः , धि॒यं॒ऽधाः , स्वदं॑ति , दे॒वाः , उ॒भया॑नि , ह॒व्या ॥
ई॒ळेन्यं॑ वो॒ असु॑रं सु॒दक्ष॑मं॒तर्दू॒तं रोद॑सी सत्य॒वाचं॑ । म॒नु॒ष्वद॒ग्निं मनु॑ना॒ समि॑द्धं॒ सम॑ध्व॒राय॒ सद॒मिन्म॑हेम ॥
ई॒ळेन्यं॑ , वः॒ , असु॑रं , सु॒ऽदक्षं॑ , अं॒तः , दू॒तं , रोद॑सी॒ इति॑ , स॒त्य॒ऽवाचं॑ । म॒नु॒ष्वत् , अ॒ग्निं , मनु॑ना , संऽइ॑द्धं , सं , अ॒ध्व॒राय॑ , सदं॑ , इत् , म॒हे॒म॒ ॥
स॒प॒र्यवो॒ भर॑माणा अभि॒ज्ञु प्र वृं॑जते॒ नम॑सा ब॒र्हिर॒ग्नौ । आ॒जुह्वा॑ना घृ॒तपृ॑ष्ठं॒ पृष॑द्व॒दध्व॑र्यवो ह॒विषा॑ मर्जयध्वं ॥
स॒प॒र्यवः॑ , भर॑माणाः , अ॒भि॒ऽज्ञु , प्र , वृं॒ज॒ते॒ , नम॑सा , ब॒र्हिः , अ॒ग्नौ । आ॒ऽजुह्वा॑नाः , घृ॒तऽपृ॑ष्ठं , पृष॑त्ऽवत् , अध्व॑र्यवः , ह॒विषा॑ , म॒र्ज॒य॒ध्वं॒ ॥
स्वा॒ध्यो॒३॒॑ वि दुरो॑ देव॒यंतोऽशि॑श्रयू रथ॒युर्दे॒वता॑ता । पू॒र्वी शिशुं॒ न मा॒तरा॑ रिहा॒णे सम॒ग्रुवो॒ न सम॑नेष्वंजन् ॥
सु॒ऽआ॒ध्यः॑ , वि , दुरः॑ , दे॒व॒ऽयंतः॑ , अशि॑श्रयुः , र॒थ॒ऽयुः , दे॒वऽता॑ता । पू॒र्वी इति॑ , शिशुं॑ , न , मा॒तरा॑ , रि॒हा॒णे इति॑ , सं , अ॒ग्रुवः॑ , न , सम॑नेषु , अं॒ज॒न् ॥
उ॒त योष॑णे दि॒व्ये म॒ही न॑ उ॒षासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः । ब॒र्हि॒षदा॑ पुरुहू॒ते म॒घोनी॒ आ य॒ज्ञिये॑ सुवि॒ताय॑ श्रयेतां ॥
उ॒त , योष॑णे॒ इति॑ , दि॒व्ये इति॑ , म॒ही इति॑ , नः॒ , उ॒षसा॒नक्ता॑ , सु॒दुघा॑ऽइव , धे॒नुः । ब॒र्हि॒ऽसदा॑ , पु॒रु॒हू॒ते इति॑ पु॒रु॒ऽहू॒ते , म॒घोनी॒ इति॑ , आ , य॒ज्ञिये॒ इति॑ , सु॒वि॒ताय॑ , श्र॒ये॒तां॒ ॥
विप्रा॑ य॒ज्ञेषु॒ मानु॑षेषु का॒रू मन्ये॑ वां जा॒तवे॑दसा॒ यज॑ध्यै । ऊ॒र्ध्वं नो॑ अध्व॒रं कृ॑तं॒ हवे॑षु॒ ता दे॒वेषु॑ वनथो॒ वार्या॑णि ॥
विप्रा॑ , य॒ज्ञेषु॑ , मानु॑षेषु , का॒रू इति॑ , मन्ये॑ , वां॒ , जा॒तऽवे॑दसा , यज॑ध्यै । ऊ॒र्ध्वं , नः॒ , अ॒ध्व॒रं , कृ॒तं॒ , हवे॑षु , ता , दे॒वेषु॑ , व॒न॒थः॒ , वार्या॑णि ॥
आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः । सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दंतु ॥
आ , भार॑ती , भार॑तीभिः , स॒ऽजोषाः॑ , इळा॑ , दे॒वैः , म॒नु॒ष्ये॑भिः , अ॒ग्निः । सर॑स्वती , सा॒र॒स्व॒तेभिः॑ , अ॒र्वाक् , ति॒स्रः , दे॒वीः , ब॒र्हिः , आ , इ॒दं , स॒दं॒तु॒ ॥
तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व । यतो॑ वी॒रः क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥
तत् , नः॒ , तु॒रीपं॑ , अध॑ , पो॒ष॒यि॒त्नु , देव॑ , त्व॒ष्टः॒ , वि , र॒रा॒णः , स्य॒स्वेति॑ स्यस्व । यतः॑ , वी॒रः , क॒र्म॒ण्यः॑ , सु॒ऽदक्षः॑ , यु॒क्तऽग्रा॑वा , जाय॑ते , दे॒वऽका॑मः ॥
वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति । सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥
वन॑स्पते , अव॑ , सृ॒ज॒ , उप॑ , दे॒वान् , अ॒ग्निः , ह॒विः , श॒मि॒ता , सू॒द॒या॒ति॒ । सः , इत् , ऊँ॒ इति॑ , होता॑ , स॒त्यऽत॑रः , य॒जा॒ति॒ , यथा॑ , दे॒वानां॑ , जनि॑मानि , वेद॑ ॥
आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिंद्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभिः॑ । ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयंतां ॥
आ , या॒हि॒ , अ॒ग्ने॒ , सं॒ऽइ॒धा॒नः , अ॒र्वाङ् , इंद्रे॑ण , दे॒वैः , स॒ऽरथं॑ , तु॒रेभिः॑ । ब॒र्हिः , नः॒ , आस्तां॑ , अदि॑तिः , सु॒ऽपु॒त्रा , स्वाहा॑ , दे॒वाः , अ॒मृताः॑ , मा॒द॒यं॒तां॒ ॥
[३] अग्निंवइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
अ॒ग्निं वो॑ दे॒वम॒ग्निभिः॑ स॒जोषा॒ यजि॑ष्ठं दू॒तम॑ध्व॒रे कृ॑णुध्वं । यो मर्त्ये॑षु॒ निध्रु॑विर्ऋ॒तावा॒ तपु॑र्मूर्धा घृ॒तान्नः॑ पाव॒कः ॥
अ॒ग्निं , वः॒ , दे॒वं , अ॒ग्निऽभिः॑ , स॒ऽजोषाः॑ , यजि॑ष्ठं , दू॒तं , अ॒ध्व॒रे , कृ॒णु॒ध्वं॒ । यः , मर्त्ये॑षु , निऽध्रु॑विः , ऋ॒तऽवा॑ , तपुः॑ऽमूर्धा , घृ॒तऽअ॑न्नः , पा॒व॒कः ॥
प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था॑त् । आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ॥
प्रोथ॑त् , अश्वः॑ , न , यव॑से , अ॒वि॒ष्यन् , य॒दा , म॒हः , सं॒ऽवर॑णात् , वि , अस्था॑त् । आत् , अ॒स्य॒ , वातः॑ , अनु॑ , वा॒ति॒ , शो॒चिः , अध॑ , स्म॒ , ते॒ , व्रज॑नं , कृ॒ष्णं , अ॒स्ति॒ ॥
उद्यस्य॑ ते॒ नव॑जातस्य॒ वृष्णोऽग्ने॒ चरं॑त्य॒जरा॑ इधा॒नाः । अच्छा॒ द्याम॑रु॒षो धू॒म ए॑ति॒ सं दू॒तो अ॑ग्न॒ ईय॑से॒ हि दे॒वान् ॥
उत् , यस्य॑ , ते॒ , नव॑ऽजातस्य , वृष्णः॑ , अग्ने॑ , चरं॑ति , अ॒जराः॑ , इ॒धा॒नाः । अच्छ॑ , द्यां , अ॒रु॒षः , धू॒मः , ए॒ति॒ , सं , दू॒तः , अ॒ग्ने॒ , ईय॑से , हि , दे॒वान् ॥
वि यस्य॑ ते पृथि॒व्यां पाजो॒ अश्रे॑त्तृ॒षु यदन्ना॑ स॒मवृ॑क्त॒ जंभैः॑ । सेने॑व सृ॒ष्टा प्रसि॑तिष्ट एति॒ यवं॒ न द॑स्म जु॒ह्वा॑ विवेक्षि ॥
वि , यस्य॑ , ते॒ , पृ॒थि॒व्यां , पाजः॑ , अश्रे॑त् , तृ॒षु , यत् , अन्ना॑ , सं॒ऽअवृ॑क्त , जंभैः॑ । सेना॑ऽइव , सृ॒ष्टा , प्रऽसि॑तिः , ते॒ , ए॒ति॒ , यवं॑ , न , द॒स्म॒ , जु॒ह्वा॑ , वि॒वे॒क्षि॒ ॥
तमिद्दो॒षा तमु॒षसि॒ यवि॑ष्ठम॒ग्निमत्यं॒ न म॑र्जयंत॒ नरः॑ । नि॒शिशा॑ना॒ अति॑थिमस्य॒ योनौ॑ दी॒दाय॑ शो॒चिराहु॑तस्य॒ वृष्णः॑ ॥
तं , इत् , दो॒षा , तं , उ॒षसि॑ , यवि॑ष्ठं , अ॒ग्निं , अत्यं॑ , न , म॒र्ज॒यं॒त॒ , नरः॑ । नि॒ऽशिशा॑नाः , अति॑थिं , अ॒स्य॒ , योनौ॑ , दी॒दाय॑ , शो॒चिः , आऽहु॑तस्य , वृष्णः॑ ॥
सु॒सं॒दृक्ते॑ स्वनीक॒ प्रती॑कं॒ वि यद्रु॒क्मो न रोच॑स उपा॒के । दि॒वो न ते॑ तन्य॒तुरे॑ति॒ शुष्म॑श्चि॒त्रो न सूरः॒ प्रति॑ चक्षि भा॒नुं ॥
सु॒ऽसं॒दृक् , ते॒ , सु॒ऽअ॒नी॒क॒ , प्रती॑कं , वि , यत् , रु॒क्मः , न , रोच॑से , उ॒पा॒के । दि॒वः , न , ते॒ , त॒न्य॒तुः , ए॒ति॒ , शुष्मः॑ , चि॒त्रः , न , सूरः॑ , प्रति॑ , च॒क्षि॒ , भा॒नुं ॥
यथा॑ वः॒ स्वाहा॒ग्नये॒ दाशे॑म॒ परीळा॑भिर्घृ॒तव॑द्भिश्च ह॒व्यैः । तेभि॑र्नो अग्ने॒ अमि॑तै॒र्महो॑भिः श॒तं पू॒र्भिराय॑सीभि॒र्नि पा॑हि ॥
यथा॑ , वः॒ , स्वाहा॑ , अ॒ग्नये॑ , दाशे॑म , परि॑ , इळा॑भिः , घृ॒तव॑त्ऽभिः , च॒ , ह॒व्यैः । तेभिः॑ , नः॒ , अ॒ग्ने॒ , अमि॑तैः , महः॑ऽभिः , श॒तं , पूः॒ऽभिः , आय॑सीभिः , नि , पा॒हि॒ ॥
या वा॑ ते॒ संति॑ दा॒शुषे॒ अधृ॑ष्टा॒ गिरो॑ वा॒ याभि॑र्नृ॒वती॑रुरु॒ष्याः । ताभि॑र्नः सूनो सहसो॒ नि पा॑हि॒ स्मत्सू॒रींज॑रि॒तॄंजा॑तवेदः ॥
याः , वा॒ , ते॒ , संति॑ , दा॒शुषे॑ , अधृ॑ष्टाः , गिरः॑ , वा॒ , याभिः॑ , नृ॒ऽवतीः॑ , उ॒रु॒ष्याः । ताभिः॑ , नः॒ , सू॒नो॒ इति॑ , स॒ह॒सः॒ , नि , पा॒हि॒ , स्मत् , सू॒रीन् , ज॒रि॒तॄन् , जा॒त॒ऽवे॒दः॒ ॥
निर्यत्पू॒तेव॒ स्वधि॑तिः॒ शुचि॒र्गात्स्वया॑ कृ॒पा त॒न्वा॒३॒॑ रोच॑मानः । आ यो मा॒त्रोरु॒शेन्यो॒ जनि॑ष्ट देव॒यज्या॑य सु॒क्रतुः॑ पाव॒कः ॥
निः , यत् , पू॒ताऽइ॑व , स्वऽधि॑तिः , शुचिः॑ , गात् , स्वया॑ , कृ॒पा , त॒न्वा॑ , रोच॑मानः । आ , यः , मा॒त्रोः , उ॒शेन्यः॑ , जनि॑ष्ट , दे॒व॒ऽयज्या॑य , सु॒ऽक्रतुः॑ , पा॒व॒कः ॥
ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम । विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ए॒ता , नः॒ , अ॒ग्ने॒ , सौभ॑गा , दि॒दी॒हि॒ , अपि॑ , क्रतुं॑ , सु॒ऽचेत॑सं , व॒ते॒म॒ । विश्वा॑ , स्तो॒तृऽभ्यः॑ , गृ॒ण॒ते , च॒ , सं॒तु॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[४] प्रवः शुक्रायेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
प्र वः॑ शु॒क्राय॑ भा॒नवे॑ भरध्वं ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू॑तं । यो दैव्या॑नि॒ मानु॑षा ज॒नूंष्यं॒तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥
प्र , वः॒ , शु॒क्राय॑ , भा॒नवे॑ , भ॒र॒ध्वं॒ , ह॒व्यं , म॒तिं , च॒ , अ॒ग्नये॑ , सुऽपू॑तं । यः , दैव्या॑नि , मानु॑षा , ज॒नूंषि॑ , अं॒तः , विश्वा॑नि , वि॒द्मना॑ , जिगा॑ति ॥
स गृत्सो॑ अ॒ग्निस्तरु॑णश्चिदस्तु॒ यतो॒ यवि॑ष्ठो॒ अज॑निष्ट मा॒तुः । सं यो वना॑ यु॒वते॒ शुचि॑द॒न्भूरि॑ चि॒दन्ना॒ समिद॑त्ति स॒द्यः ॥
सः , गृत्सः॑ , अ॒ग्निः , तरु॑णः , चि॒त् , अ॒स्तु॒ , यतः॑ , यवि॑ष्ठः , अज॑निष्ट , मा॒तुः । सं , यः , वना॑ , यु॒वते॑ , शुचि॑ऽदन् , भूरि॑ , चि॒त् , अन्ना॑ , सं , इत् , अ॒त्ति॒ , स॒द्यः ॥
अ॒स्य दे॒वस्य॑ सं॒सद्यनी॑के॒ यं मर्ता॑सः श्ये॒तं ज॑गृ॒भ्रे । नि यो गृभं॒ पौरु॑षेयीमु॒वोच॑ दु॒रोक॑म॒ग्निरा॒यवे॑ शुशोच ॥
अ॒स्य , दे॒वस्य॑ , सं॒ऽसदि॑ , अनी॑के , यं , मर्ता॑सः , श्ये॒तं , ज॒गृ॒भ्रे । नि , यः , गृभं॑ , पौरु॑षेयीं , उ॒वोच॑ , दुः॒ऽओकं॑ , अ॒ग्निः , आ॒यवे॑ , शु॒शो॒च॒ ॥
अ॒यं क॒विरक॑विषु॒ प्रचे॑ता॒ मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि । स मा नो॒ अत्र॑ जुहुरः सहस्वः॒ सदा॒ त्वे सु॒मन॑सः स्याम ॥
अ॒यं , क॒विः , अक॑विषु , प्रऽचे॑ताः , मर्ते॑षु , अ॒ग्निः , अ॒मृतः॑ , नि , धा॒यि॒ । सः , मा , नः॒ , अत्र॑ , जु॒हु॒रः॒ , स॒ह॒स्वः॒ , सदा॑ , त्वे इति॑ , सु॒ऽमन॑सः , स्या॒म॒ ॥
आ यो योनिं॑ दे॒वकृ॑तं स॒साद॒ क्रत्वा॒ ह्य१॒॑ग्निर॒मृताँ॒ अता॑रीत् । तमोष॑धीश्च व॒निन॑श्च॒ गर्भं॒ भूमि॑श्च वि॒श्वधा॑यसं बिभर्ति ॥
आ , यः , योनिं॑ , दे॒वऽकृ॑तं , स॒साद॑ , क्रत्वा॑ , हि , अ॒ग्निः , अ॒मृता॑न् , अता॑रीत् । तं , ओष॑धीः , च॒ , व॒निनः॑ , च॒ , गर्भं॑ , भूमिः॑ , च॒ , वि॒श्वऽधा॑यसं , बि॒भ॒र्ति॒ ॥
ईशे॒ ह्य१॒॑ग्निर॒मृत॑स्य॒ भूरे॒रीशे॑ रा॒यः सु॒वीर्य॑स्य॒ दातोः॑ । मा त्वा॑ व॒यं स॑हसावन्न॒वीरा॒ माप्स॑वः॒ परि॑ षदाम॒ मादु॑वः ॥
ईशे॑ , हि , अ॒ग्निः , अ॒मृत॑स्य , भूरेः॑ , ईशे॑ , रा॒यः , सु॒ऽवीर्य॑स्य , दातोः॑ । मा , त्वा॒ , व॒यं , स॒ह॒सा॒ऽव॒न् , अ॒वीराः॑ , मा , अप्स॑वः , परि॑ , स॒दा॒म॒ , मा , अदु॑वः ॥
प॒रि॒षद्यं॒ ह्यर॑णस्य॒ रेक्णो॒ नित्य॑स्य रा॒यः पत॑यः स्याम । न शेषो॑ अग्ने अ॒न्यजा॑तम॒स्त्यचे॑तानस्य॒ मा प॒थो वि दु॑क्षः ॥
प॒रि॒ऽसद्यं॑ , हि , अर॑णस्य , रेक्णः॑ , नित्य॑स्य , रा॒यः , पत॑यः , स्या॒म॒ । न , शेषः॑ , अ॒ग्ने॒ , अ॒न्यऽजा॑तं , अ॒स्ति॒ , अचे॑तानस्य , मा , प॒थः , वि , दु॒क्षः॒ ॥
न॒हि ग्रभा॒यार॑णः सु॒शेवो॒ऽन्योद॑र्यो॒ मन॑सा॒ मंत॒वा उ॑ । अधा॑ चि॒दोकः॒ पुन॒रित्स ए॒त्या नो॑ वा॒ज्य॑भी॒षाळे॑तु॒ नव्यः॑ ॥
न॒हि , ग्रभा॑य , अर॑णः , सु॒ऽशेवः॑ , अ॒न्यऽउ॑दर्यः , मन॑सा , मंत॒वै , ऊँ॒ इति॑ । अध॑ , चि॒त् , ओकः॑ , पुनः॑ , इत् , सः , ए॒ति॒ , आ , नः॒ , वा॒जी , अ॒भी॒षाट् , ए॒तु॒ , नव्यः॑ ॥
त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् । सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ॥
त्वं , अ॒ग्ने॒ , व॒नु॒ष्य॒तः , नि , पा॒हि॒ , त्वं , ऊँ॒ इति॑ , नः॒ , स॒ह॒सा॒ऽव॒न् , अ॒व॒द्यात् । सं , त्वा॒ , ध्व॒स्म॒न्ऽवत् , अ॒भि , ए॒तु॒ , पाथः॑ , सं , र॒यिः , स्पृ॒ह॒याय्यः॑ , स॒ह॒स्री ॥
ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम । विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ए॒ता , नः॒ , अ॒ग्ने॒ , सौभ॑गा , दि॒दी॒हि॒ , अपि॑ , क्रतुं॑ , सु॒ऽचेत॑सं , व॒ते॒म॒ । विश्वा॑ , स्तो॒तृऽभ्यः॑ , गृ॒ण॒ते , च॒ , सं॒तु॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[५] प्राग्नयइति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
प्राग्नये॑ त॒वसे॑ भरध्वं॒ गिरं॑ दि॒वो अ॑र॒तये॑ पृथि॒व्याः । यो विश्वे॑षाम॒मृता॑नामु॒पस्थे॑ वैश्वान॒रो वा॑वृ॒धे जा॑गृ॒वद्भिः॑ ॥
प्र , अ॒ग्नये॑ , त॒वसे॑ , भ॒र॒ध्वं॒ , गिरं॑ , दि॒वः , अ॒र॒तये॑ , पृ॒थि॒व्याः । यः , विश्वे॑षां , अ॒मृता॑नां , उ॒पऽस्थे॑ , वै॒श्वा॒न॒रः , व॒वृ॒धे , जा॒गृ॒वत्ऽभिः॑ ॥
पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ॑थि॒व्यां ने॒ता सिंधू॑नां वृष॒भः स्तिया॑नां । स मानु॑षीर॒भि विशो॒ वि भा॑ति वैश्वान॒रो वा॑वृधा॒नो वरे॑ण ॥
पृ॒ष्टः , दि॒वि , धायि॑ , अ॒ग्निः , पृ॒थि॒व्यां , ने॒ता , सिंधू॑नां , वृ॒ष॒भः , स्तिया॑नां । सः , मानु॑षीः , अ॒भि , विशः॑ , वि , भा॒ति॒ , वै॒श्वा॒न॒रः , व॒वृ॒धा॒नः , वरे॑ण ॥
त्वद्भि॒या विश॑ आय॒न्नसि॑क्नीरसम॒ना जह॑ती॒र्भोज॑नानि । वैश्वा॑नर पू॒रवे॒ शोशु॑चानः॒ पुरो॒ यद॑ग्ने द॒रय॒न्नदी॑देः ॥
त्वत् , भि॒या , विशः॑ , आ॒य॒न् , असि॑क्नीः , अ॒स॒म॒नाः , जह॑तीः , भोज॑नानि । वैश्वा॑नर , पू॒रवे॑ , शोशु॑चानः , पुरः॑ , यत् , अ॒ग्ने॒ , द॒रय॑न् , अदी॑देः ॥
तव॑ त्रि॒धातु॑ पृथि॒वी उ॒त द्यौर्वैश्वा॑नर व्र॒तम॑ग्ने सचंत । त्वं भा॒सा रोद॑सी॒ आ त॑तं॒थाज॑स्रेण शो॒चिषा॒ शोशु॑चानः ॥
तव॑ , त्रि॒ऽधातु॑ , पृ॒थि॒वी , उ॒त , द्यौः , वैश्वा॑नर , व्र॒तं , अ॒ग्ने॒ , स॒चं॒त॒ । त्वं , भा॒सा , रोद॑सी॒ इति॑ , आ , त॒तं॒थ॒ , अज॑स्रेण , शो॒चिषा॑ , शोशु॑चानः ॥
त्वाम॑ग्ने ह॒रितो॑ वावशा॒ना गिरः॑ सचंते॒ धुन॑यो घृ॒ताचीः॑ । पतिं॑ कृष्टी॒नां र॒थ्यं॑ रयी॒णां वै॑श्वान॒रमु॒षसां॑ के॒तुमह्नां॑ ॥
त्वां , अ॒ग्ने॒ , ह॒रितः॑ , वा॒व॒शा॒नाः , गिरः॑ , स॒चं॒ते॒ , धुन॑यः , घृ॒ताचीः॑ । पतिं॑ , कृ॒ष्टी॒नां , र॒थ्यं॑ , र॒यी॒णां , वै॒श्वा॒न॒रं , उ॒षसां॑ , के॒तुं , अह्नां॑ ॥
त्वे अ॑सु॒र्यं१॒॑ वस॑वो॒ न्यृ॑ण्व॒न्क्रतुं॒ हि ते॑ मित्रमहो जु॒षंत॑ । त्वं दस्यूँ॒रोक॑सो अग्न आज उ॒रु ज्योति॑र्ज॒नय॒न्नार्या॑य ॥
त्वे इति॑ , अ॒सु॒र्यं॑ , वस॑वः , नि , ऋ॒ण्व॒न् , क्रतुं॑ , हि , ते॒ , मि॒त्र॒ऽम॒हः॒ , जु॒षंत॑ । त्वं , दस्यू॑न् , ओक॑सः , अ॒ग्ने॒ , आ॒जः॒ , उ॒रु , ज्योतिः॑ , ज॒नय॑न् , आर्या॑य ॥
स जाय॑मानः पर॒मे व्यो॑मन्वा॒युर्न पाथः॒ परि॑ पासि स॒द्यः । त्वं भुव॑ना ज॒नय॑न्न॒भि क्र॒न्नप॑त्याय जातवेदो दश॒स्यन् ॥
सः , जाय॑मानः , प॒र॒मे , विऽओ॑मन् , वा॒युः , न , पाथः॑ , परि॑ , पा॒सि॒ , स॒द्यः । त्वं , भुव॑ना , ज॒नय॑न् , अ॒भि , क्र॒न् , अप॑त्याय , जा॒त॒ऽवे॒दः॒ , द॒श॒स्यन् ॥
ताम॑ग्ने अ॒स्मे इष॒मेर॑यस्व॒ वैश्वा॑नर द्यु॒मतीं॑ जातवेदः । यया॒ राधः॒ पिन्व॑सि विश्ववार पृ॒थु श्रवो॑ दा॒शुषे॒ मर्त्या॑य ॥
तां , अ॒ग्ने॒ , अ॒स्मे इति॑ , इषं॑ , आ , ई॒र॒य॒स्व॒ , वैश्वा॑नर , द्यु॒ऽमतीं॑ , जा॒त॒ऽवे॒दः॒ । यया॑ , राधः॑ , पिन्व॑सि , वि॒श्व॒ऽवा॒र॒ , पृ॒थु , श्रवः॑ , दा॒शुषे॑ , मर्त्या॑य ॥
तं नो॑ अग्ने म॒घव॑द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं॑ युवस्व । वैश्वा॑नर॒ महि॑ नः॒ शर्म॑ यच्छ रु॒द्रेभि॑रग्ने॒ वसु॑भिः स॒जोषाः॑ ॥
तं , नः॒ , अ॒ग्ने॒ , म॒घव॑त्ऽभ्यः , पु॒रु॒ऽक्षुं , र॒यिं , नि , वाजं॑ , श्रुत्यं॑ , यु॒व॒स्व॒ । वैश्वा॑नर , महि॑ , नः॒ , शर्म॑ , य॒च्छ॒ , रु॒द्रेभिः॑ , अ॒ग्ने॒ , वसु॑ऽभिः , स॒ऽजोषाः॑ ॥
[६] प्रसम्राजइति सप्तर्चस्यसूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
प्र स॒म्राजो॒ असु॑रस्य॒ प्रश॑स्तिं पुं॒सः कृ॑ष्टी॒नाम॑नु॒माद्य॑स्य । इंद्र॑स्येव॒ प्र त॒वस॑स्कृ॒तानि॒ वंदे॑ दा॒रुं वंद॑मानो विवक्मि ॥
प्र , सं॒ऽराजः॑ , असु॑रस्य , प्रऽश॑स्तिं , पुं॒सः , कृ॒ष्टी॒नां , अ॒नु॒ऽमाद्य॑स्य । इंद्र॑स्यऽइव , प्र , त॒वसः॑ , कृ॒तानि॑ , वंदे॑ , दा॒रुं , वंद॑मानः , वि॒व॒क्मि॒ ॥
क॒विं के॒तुं धा॒सिं भा॒नुमद्रे॑र्हि॒न्वंति॒ शं रा॒ज्यं रोद॑स्योः । पु॒रं॒द॒रस्य॑ गी॒र्भिरा वि॑वासे॒ऽग्नेर्व्र॒तानि॑ पू॒र्व्या म॒हानि॑ ॥
क॒विं , के॒तुं , धा॒सिं , भा॒नुं , अद्रेः॑ , हि॒न्वंति॑ , शं , रा॒ज्यं , रोद॑स्योः । पु॒रं॒ऽद॒रस्य॑ , गीः॒ऽभिः , आ , वि॒वा॒से॒ , अ॒ग्नेः , व्र॒तानि॑ , पू॒र्व्या , म॒हानि॑ ॥
न्य॑क्र॒तून्ग्र॒थिनो॑ मृ॒ध्रवा॑चः प॒णीँर॑श्र॒द्धाँ अ॑वृ॒धाँ अ॑य॒ज्ञान् । प्रप्र॒ तांदस्यूँ॑र॒ग्निर्वि॑वाय॒ पूर्व॑श्चका॒राप॑राँ॒ अय॑ज्यून् ॥
नि , अ॒क्र॒तून् , ग्र॒थिनः॑ , मृ॒ध्रऽवा॑चः , प॒णीन् , अ॒श्र॒द्धान् , अ॒वृ॒धान् , अ॒य॒ज्ञान् । प्रऽप्र॑ , तान् , दस्यू॑न् , अ॒ग्निः , वि॒वा॒य॒ , पूर्वः॑ , च॒का॒र॒ , अप॑रान् , अय॑ज्यून् ॥
यो अ॑पा॒चीने॒ तम॑सि॒ मदं॑तीः॒ प्राची॑श्च॒कार॒ नृत॑मः॒ शची॑भिः । तमीशा॑नं॒ वस्वो॑ अ॒ग्निं गृ॑णी॒षेऽना॑नतं द॒मयं॑तं पृत॒न्यून् ॥
यः , अ॒पा॒चीने॑ , तम॑सि , मदं॑तीः , प्राचीः॑ , च॒कार॑ , नृऽत॑मः , शची॑भिः । तं , ईशा॑नं , वस्वः॑ , अ॒ग्निं , गृ॒णी॒षे॒ , अना॑नतं , द॒मयं॑तं , पृ॒त॒न्यून् ॥
यो दे॒ह्यो॒३॒॑ अन॑मयद्वध॒स्नैर्यो अ॒र्यप॑त्नीरु॒षस॑श्च॒कार॑ । स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निर्विश॑श्चक्रे बलि॒हृतः॒ सहो॑भिः ॥
यः , दे॒ह्यः॑ , अन॑मयत् , व॒ध॒ऽस्नैः , यः , अ॒र्यऽप॑त्नीः , उ॒षसः॑ , च॒कार॑ । सः , नि॒ऽरुध्य॑ , नहु॑षः , य॒ह्वः , अ॒ग्निः , विशः॑ , च॒क्रे॒ , ब॒लि॒ऽहृतः॑ , सहः॑ऽभिः ॥
यस्य॒ शर्म॒न्नुप॒ विश्वे॒ जना॑स॒ एवै॑स्त॒स्थुः सु॑म॒तिं भिक्ष॑माणाः । वै॒श्वा॒न॒रो वर॒मा रोद॑स्यो॒राग्निः स॑साद पि॒त्रोरु॒पस्थं॑ ॥
यस्य॑ , श॒र्म॒न् , उप॑ , विश्वे॑ , जना॑सः , एवैः॑ , त॒स्थुः , सु॒ऽम॒तिं , भिक्ष॑माणाः । वै॒श्वा॒न॒रः , वरं॑ , आ , रोद॑स्योः , आ , अ॒ग्निः , स॒सा॒द॒ , पि॒त्रोः , उ॒पऽस्थं॑ ॥
आ दे॒वो द॑दे बु॒ध्न्या॒३॒॑ वसू॑नि वैश्वान॒र उदि॑ता॒ सूर्य॑स्य । आ स॑मु॒द्रादव॑रा॒दा पर॑स्मा॒दाग्निर्द॑दे दि॒व आ पृ॑थि॒व्याः ॥
आ , दे॒वः , द॒दे॒ , बु॒ध्न्या॑ , वसू॑नि , वै॒श्वा॒न॒रः , उत्ऽइ॑ता , सूर्य॑स्य । आ , स॒मु॒द्रात् , अव॑रात् , आ , पर॑स्मात् , आ , अ॒ग्निः , द॒दे॒ , दि॒वः , आ , पृ॒थि॒व्याः ॥
[७] प्रवोदेवमिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
प्र वो॑ दे॒वं चि॑त्सहसा॒नम॒ग्निमश्वं॒ न वा॒जिनं॑ हिषे॒ नमो॑भिः । भवा॑ नो दू॒तो अ॑ध्व॒रस्य॑ वि॒द्वांत्मना॑ दे॒वेषु॑ विविदे मि॒तद्रुः॑ ॥
प्र , वः॒ , दे॒वं , चि॒त् , स॒ह॒सा॒नं , अ॒ग्निं , अश्वं॑ , न , वा॒जिनं॑ , हि॒षे॒ , नमः॑ऽभिः । भव॑ , नः॒ , दू॒तः , अ॒ध्व॒रस्य॑ , वि॒द्वान् , त्मना॑ , दे॒वेषु॑ , वि॒वि॒दे॒ , मि॒तऽद्रुः॑ ॥
आ या॑ह्यग्ने प॒थ्या॒३॒॑ अनु॒ स्वा मं॒द्रो दे॒वानां॑ स॒ख्यं जु॑षा॒णः । आ सानु॒ शुष्मै॑र्न॒दय॑न्पृथि॒व्या जंभे॑भि॒र्विश्व॑मु॒शध॒ग्वना॑नि ॥
आ , या॒हि॒ , अ॒ग्ने॒ , प॒थ्याः॑ , अनु॑ , स्वाः , मं॒द्रः , दे॒वानां॑ , स॒ख्यं , जु॒षा॒णः । आ , सानु॑ , शुष्मैः॑ , न॒दय॑न् , पृ॒थि॒व्याः , जंभे॑भिः , विश्वं॑ , उ॒शध॑क् , वना॑नि ॥
प्रा॒चीनो॑ य॒ज्ञः सुधि॑तं॒ हि ब॒र्हिः प्री॑णी॒ते अ॒ग्निरी॑ळि॒तो न होता॑ । आ मा॒तरा॑ वि॒श्ववा॑रे हुवा॒नो यतो॑ यविष्ठ जज्ञि॒षे सु॒शेवः॑ ॥
प्रा॒चीनः॑ , य॒ज्ञः , सुऽधि॑तं , हि , ब॒र्हिः , प्री॒णी॒ते , अ॒ग्निः , ई॒ळि॒तः , न , होता॑ । आ , मा॒तरा॑ , वि॒श्ववा॑रे॒ इति॑ वि॒श्वऽवा॑रे , हु॒वा॒नः , यतः॑ , य॒वि॒ष्ठ॒ , ज॒ज्ञि॒षे , सु॒ऽशेवः॑ ॥
स॒द्यो अ॑ध्व॒रे र॑थि॒रं ज॑नंत॒ मानु॑षासो॒ विचे॑तसो॒ य ए॑षां । वि॒शाम॑धायि वि॒श्पति॑र्दुरो॒णे॒३॒॑ऽग्निर्मं॒द्रो मधु॑वचा ऋ॒तावा॑ ॥
स॒द्यः , अ॒ध्व॒रे , र॒थि॒रं , ज॒नं॒त॒ , मानु॑षासः , विऽचे॑तसः , यः , ए॒षां॒ । वि॒शां , अ॒धा॒यि॒ , वि॒श्पतिः॑ , दु॒रो॒णे , अ॒ग्निः , मं॒द्रः , मधु॑ऽवचाः , ऋ॒तऽवा॑ ॥
असा॑दि वृ॒तो वह्नि॑राजग॒न्वान॒ग्निर्ब्र॒ह्मा नृ॒षद॑ने विध॒र्ता । द्यौश्च॒ यं पृ॑थि॒वी वा॑वृ॒धाते॒ आ यं होता॒ यज॑ति वि॒श्ववा॑रं ॥
असा॑दि , वृ॒तः , वह्निः॑ , आ॒ऽज॒ग॒न्वान् , अ॒ग्निः , ब्र॒ह्मा , नृ॒ऽसद॑ने , वि॒ऽध॒र्ता । द्यौः , च॒ , यं , पृ॒थि॒वी , व॒वृ॒धाते॒ इति॑ , आ , यं , होता॑ , यज॑ति , वि॒श्वऽवा॑रं ॥
ए॒ते द्यु॒म्नेभि॒र्विश्व॒माति॑रंत॒ मंत्रं॒ ये वारं॒ नर्या॒ अत॑क्षन् । प्र ये विश॑स्ति॒रंत॒ श्रोष॑माणा॒ आ ये मे॑ अ॒स्य दीध॑यन्नृ॒तस्य॑ ॥
ए॒ते , द्यु॒म्नेभिः॑ , विश्वं॑ , आ , अ॒ति॒रं॒त॒ , मंत्रं॑ , ये , वा॒ , अरं॑ , नर्याः॑ , अत॑क्षन् । प्र , ये , विशः॑ , ति॒रंत॑ , श्रोष॑माणाः , आ , ये , मे॒ , अ॒स्य , दीध॑यन् , ऋ॒तस्य॑ ॥
नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नां । इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नु , त्वां , अ॒ग्ने॒ , ई॒म॒हे॒ , वसि॑ष्ठाः , ई॒शा॒नं , सू॒नो॒ इति॑ , स॒ह॒सः॒ , वसू॑नां । इषं॑ , स्तो॒तृऽभ्यः॑ , म॒घव॑त्ऽभ्यः , आ॒न॒ट् , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[८] इंधेराजेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
इं॒धे राजा॒ सम॒र्यो नमो॑भि॒र्यस्य॒ प्रती॑क॒माहु॑तं घृ॒तेन॑ । नरो॑ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा॑मशोचि ॥
इं॒धे , राजा॑ , सं , अ॒र्यः , नमः॑ऽभिः , यस्य॑ , प्रती॑कं , आऽहु॑तं , घृ॒तेन॑ । नरः॑ , ह॒व्येभिः॑ , ई॒ळ॒ते॒ , स॒ऽबाधः॑ , आ , अ॒ग्निः , अग्रे॑ , उ॒षसां॑ , अ॒शो॒चि॒ ॥
अ॒यमु॒ ष्य सुम॑हाँ अवेदि॒ होता॑ मं॒द्रो मनु॑षो य॒ह्वो अ॒ग्निः । वि भा अ॑कः ससृजा॒नः पृ॑थि॒व्यां कृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे ॥
अ॒यं , ऊँ॒ इति॑ , स्यः , सुऽम॑हान् , अ॒वे॒दि॒ , होता॑ , मं॒द्रः , मनु॑षः , य॒ह्वः , अ॒ग्निः । वि , भाः , अ॒क॒रित्य॑कः , स॒सृ॒जा॒नः , पृ॒थि॒व्यां , कृ॒ष्णऽप॑विः , ओष॑धीभिः , व॒व॒क्षे॒ ॥
कया॑ नो अग्ने॒ वि व॑सः सुवृ॒क्तिं कामु॑ स्व॒धामृ॑णवः श॒स्यमा॑नः । क॒दा भ॑वेम॒ पत॑यः सुदत्र रा॒यो वं॒तारो॑ दु॒ष्टर॑स्य सा॒धोः ॥
कया॑ , नः॒ , अ॒ग्ने॒ , वि , व॒सः॒ , सु॒ऽवृ॒क्तिं , कां , ऊँ॒ इति॑ , स्व॒धां , ऋ॒ण॒वः॒ , श॒स्यमा॑नः । क॒दा , भ॒वे॒म॒ , पत॑यः , सु॒ऽद॒त्र॒ , रा॒यः , वं॒तारः॑ , दु॒स्तर॑स्य , सा॒धोः ॥
प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ द्यु॑ता॒नो दैव्यो॒ अति॑थिः शुशोच ॥
प्रऽप्र॑ , अ॒यं , अ॒ग्निः , भ॒र॒तस्य॑ , शृ॒ण्वे॒ , वि , यत् , सूर्यः॑ , न , रोच॑ते , बृ॒हत् , भाः । अ॒भि , यः , पू॒रुं , पृत॑नासु , त॒स्थौ , द्यु॒ता॒नः , दैव्यः॑ , अति॑थिः , शु॒शो॒च॒ ॥
अस॒न्नित्त्वे आ॒हव॑नानि॒ भूरि॒ भुवो॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः । स्तु॒तश्चि॑दग्ने शृण्विषे गृणा॒नः स्व॒यं व॑र्धस्व त॒न्वं॑ सुजात ॥
अस॑न् , इत् , त्वे इति॑ , आ॒ऽहव॑नानि , भूरि॑ , भुवः॑ , विश्वे॑भिः , सु॒ऽमनाः॑ , अनी॑कैः । स्तु॒तः , चि॒त् , अ॒ग्ने॒ , शृ॒ण्वि॒षे॒ , गृ॒णा॒नः , स्व॒यं , व॒र्ध॒स्व॒ , त॒न्वं॑ , सु॒ऽजा॒त॒ ॥
इ॒दं वचः॑ शत॒साः संस॑हस्र॒मुद॒ग्नये॑ जनिषीष्ट द्वि॒बर्हाः॑ । शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑ति द्यु॒मद॑मीव॒चात॑नं रक्षो॒हा ॥
इ॒दं , वचः॑ , श॒त॒ऽसाः , संऽस॑हस्रं , उत् , अ॒ग्नये॑ , ज॒नि॒षी॒ष्ट॒ , द्वि॒ऽबर्हाः॑ । शं , यत् , स्तो॒तृऽभ्यः॑ , आ॒पये॑ , भवा॑ति , द्यु॒ऽमत् , अ॒मी॒व॒ऽचात॑नं , र॒क्षः॒ऽहा ॥
नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नां । इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नु , त्वां , अ॒ग्ने॒ , ई॒म॒हे॒ , वसि॑ष्ठाः , ई॒शा॒नं , सू॒नो॒ इति॑ , स॒ह॒सः॒ , वसू॑नां । इषं॑ , स्तो॒तृऽभ्यः॑ , म॒घव॑त्ऽभ्यः , आ॒न॒ट् , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[९] अबोधिजारइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
अबो॑धि जा॒र उ॒षसा॑मु॒पस्था॒द्धोता॑ मं॒द्रः क॒वित॑मः पाव॒कः । दधा॑ति के॒तुमु॒भय॑स्य जं॒तोर्ह॒व्या दे॒वेषु॒ द्रवि॑णं सु॒कृत्सु॑ ॥
अबो॑धि , जा॒रः , उ॒षसां॑ , उ॒पऽस्था॑त् , होता॑ , मं॒द्रः , क॒विऽत॑मः , पा॒व॒कः । दधा॑ति , के॒तुं , उ॒भय॑स्य , जं॒तोः , ह॒व्या , दे॒वेषु॑ , द्रवि॑णं , सु॒कृत्ऽसु॑ ॥
स सु॒क्रतु॒र्यो वि दुरः॑ पणी॒नां पु॑ना॒नो अ॒र्कं पु॑रु॒भोज॑सं नः । होता॑ मं॒द्रो वि॒शां दमू॑नास्ति॒रस्तमो॑ ददृशे रा॒म्याणां॑ ॥
सः , सु॒ऽक्रतुः॑ , यः , वि , दुरः॑ , प॒णी॒नां , पु॒ना॒नः , अ॒र्कं , पु॒रु॒ऽभोज॑सं , नः॒ । होता॑ , मं॒द्रः , वि॒शां , दमू॑नाः , ति॒रः , तमः॑ , द॒दृ॒शे॒ , रा॒म्याणां॑ ॥
अमू॑रः क॒विरदि॑तिर्वि॒वस्वां॑त्सुसं॒सन्मि॒त्रो अति॑थिः शि॒वो नः॑ । चि॒त्रभा॑नुरु॒षसां॑ भा॒त्यग्रे॒ऽपां गर्भः॑ प्र॒स्व१॒॑ आ वि॑वेश ॥
अमू॑रः , क॒विः , अदि॑तिः , वि॒वस्वा॑न् , सु॒ऽसं॒सत् , मि॒त्रः , अति॑थिः , शि॒वः , नः॒ । चि॒त्रऽभा॑नुः , उ॒षसां॑ , भा॒ति॒ , अग्रे॑ , अ॒पां , गर्भः॑ , प्र॒ऽस्वः॑ , आ , वि॒वे॒श॒ ॥
ई॒ळेन्यो॑ वो॒ मनु॑षो यु॒गेषु॑ समन॒गा अ॑शुचज्जा॒तवे॑दाः । सु॒सं॒दृशा॑ भा॒नुना॒ यो वि॒भाति॒ प्रति॒ गावः॑ समिधा॒नं बु॑धंत ॥
ई॒ळेन्यः॑ , वः॒ , मनु॑षः , यु॒गेषु॑ , स॒म॒न॒ऽगाः , अ॒शु॒च॒त् , जा॒तऽवे॑दाः । सु॒ऽसं॒दृशा॑ , भा॒नुना॑ , यः , वि॒ऽभाति॑ , प्रति॑ , गावः॑ , सं॒ऽइ॒धा॒नं , बु॒धं॒त॒ ॥
अग्ने॑ या॒हि दू॒त्यं१॒॑ मा रि॑षण्यो दे॒वाँ अच्छा॑ ब्रह्म॒कृता॑ ग॒णेन॑ । सर॑स्वतीं म॒रुतो॑ अ॒श्विना॒पो यक्षि॑ दे॒वान्र॑त्न॒धेया॑य॒ विश्वा॑न् ॥
अग्ने॑ , या॒हि , दू॒त्यं॑ , मा , रि॒ष॒ण्यः॒ , दे॒वान् , अच्छ॑ , ब्र॒ह्म॒ऽकृता॑ , ग॒णेन॑ । सर॑स्वतीं , म॒रुतः॑ , अ॒श्विना॑ , अ॒पः , यक्षि॑ , दे॒वान् , र॒त्न॒ऽधेया॑य , विश्वा॑न् ॥
त्वाम॑ग्ने समिधा॒नो वसि॑ष्ठो॒ जरू॑थं ह॒न्यक्षि॑ रा॒ये पुरं॑धिं । पु॒रु॒णी॒था जा॑तवेदो जरस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
त्वां , अ॒ग्ने॒ , सं॒ऽइ॒धा॒नः , वसि॑ष्ठः , जरू॑थं , ह॒न् , यक्षि॑ , रा॒ये , पुरं॑ऽधिं । पु॒रु॒ऽनी॒था , जा॒त॒ऽवे॒दः॒ , ज॒र॒स्व॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[१०] उषोनजारइतिपंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
उ॒षो न जा॒रः पृ॒थु पाजो॑ अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः । वृषा॒ हरिः॒ शुचि॒रा भा॑ति भा॒सा धियो॑ हिन्वा॒न उ॑श॒तीर॑जीगः ॥
उ॒षः , न , जा॒रः , पृ॒थु , पाजः॑ , अ॒श्रे॒त् , दवि॑द्युतत् , दीद्य॑त् , शोशु॑चानः । वृषा॑ , हरिः॑ , शुचिः॑ , आ , भा॒ति॒ , भा॒सा , धियः॑ , हि॒न्वा॒नः , उ॒श॒तीः , अ॒जी॒ग॒रिति॑ ॥
स्व१॒॑र्ण वस्तो॑रु॒षसा॑मरोचि य॒ज्ञं त॑न्वा॒ना उ॒शिजो॒ न मन्म॑ । अ॒ग्निर्जन्मा॑नि दे॒व आ वि वि॒द्वांद्र॒वद्दू॒तो दे॑व॒यावा॒ वनि॑ष्ठः ॥
स्वः॑ , न , वस्तोः॑ , उ॒षसां॑ , अ॒रो॒चि॒ , य॒ज्ञं , त॒न्वा॒नाः , उ॒शिजः॑ , न , मन्म॑ । अ॒ग्निः , जन्मा॑नि , दे॒वः , आ , वि , वि॒द्वान् , द्र॒वत् , दू॒तः , दे॒व॒ऽयावा॑ , वनि॑ष्ठः ॥
अच्छा॒ गिरो॑ म॒तयो॑ देव॒यंती॑र॒ग्निं यं॑ति॒ द्रवि॑णं॒ भिक्ष॑माणाः । सु॒सं॒दृशं॑ सु॒प्रती॑कं॒ स्वंचं॑ हव्य॒वाह॑मर॒तिं मानु॑षाणां ॥
अच्छ॑ , गिरः॑ , म॒तयः॑ , दे॒व॒ऽयंतीः॑ , अ॒ग्निं , यं॒ति॒ , द्रवि॑णं , भिक्ष॑माणाः । सु॒ऽसं॒दृशं॑ , सु॒ऽप्रती॑कं , सु॒ऽअंचं॑ , ह॒व्य॒ऽवाहं॑ , अ॒र॒तिं , मानु॑षाणां ॥
इंद्रं॑ नो अग्ने॒ वसु॑भिः स॒जोषा॑ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हंतं॑ । आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज॑न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा॑रं ॥
इंद्रं॑ , नः॒ , अ॒ग्ने॒ , वसु॑ऽभिः , स॒ऽजोषाः॑ , रु॒द्रं , रु॒द्रेभिः॑ , आ , व॒ह॒ , बृ॒हंतं॑ । आ॒दि॒त्येभिः॑ , अदि॑तिं , वि॒श्वऽज॑न्यां , बृह॒स्पतिं॑ , ऋक्व॑ऽभिः , वि॒श्वऽवा॑रं ॥
मं॒द्रं होता॑रमु॒शिजो॒ यवि॑ष्ठम॒ग्निं विश॑ ईळते अध्व॒रेषु॑ । स हि क्षपा॑वाँ॒ अभ॑वद्रयी॒णामतं॑द्रो दू॒तो य॒जथा॑य दे॒वान् ॥
मं॒द्रं , होता॑रं , उ॒शिजः॑ , यवि॑ष्ठं , अ॒ग्निं , विशः॑ , ई॒ळ॒ते॒ , अ॒ध्व॒रेषु॑ । सः , हि , क्षपा॑ऽवान् , अभ॑वत् , र॒यी॒णां , अतं॑द्रः , दू॒तः , य॒जथा॑य , दे॒वान् ॥
[११] महाँअसीति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
म॒हाँ अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता॑ मादयंते । आ विश्वे॑भिः स॒रथं॑ याहि दे॒वैर्न्य॑ग्ने॒ होता॑ प्रथ॒मः स॑दे॒ह ॥
म॒हान् , अ॒सि॒ , अ॒ध्व॒रस्य॑ , प्र॒ऽके॒तः , न , ऋ॒ते , त्वत् , अ॒मृताः॑ , मा॒द॒यं॒ते॒ । आ , विश्वे॑भिः , स॒ऽरथं॑ , या॒हि॒ , दे॒वैः , नि , अ॒ग्ने॒ , होता॑ , प्र॒थ॒मः , स॒द॒ , इ॒ह ॥
त्वामी॑ळते अजि॒रं दू॒त्या॑य ह॒विष्मं॑तः॒ सद॒मिन्मानु॑षासः । यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा॑न्यस्मै सु॒दिना॑ भवंति ॥
त्वां , ई॒ळ॒ते॒ , अ॒जि॒रं , दू॒त्या॑य , ह॒विष्मं॑तः , सदं॑ , इत् , मानु॑षासः । यस्य॑ , दे॒वैः , आ , अस॑दः , ब॒र्हिः , अ॒ग्ने॒ , अहा॑नि , अ॒स्मै॒ , सु॒ऽदिना॑ , भ॒वं॒ति॒ ॥
त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू॑नि॒ त्वे अं॒तर्दा॒शुषे॒ मर्त्या॑य । म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान्भवा॑ नो दू॒तो अ॑भिशस्ति॒पावा॑ ॥
त्रिः , चि॒त् , अ॒क्तोः , प्र , चि॒कि॒तुः॒ , वसू॑नि , त्वे इति॑ , अं॒तः , दा॒शुषे॑ , मर्त्या॑य । म॒नु॒ष्वत् , अ॒ग्ने॒ , इ॒ह , य॒क्षि॒ , दे॒वान् , भव॑ , नः॒ , दू॒तः , अ॒भि॒श॒स्ति॒ऽपावा॑ ॥
अ॒ग्निरी॑शे बृह॒तो अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्य ह॒विषः॑ कृ॒तस्य॑ । क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षंताथा॑ दे॒वा द॑धिरे हव्य॒वाहं॑ ॥
अ॒ग्निः , ई॒शे॒ , बृ॒ह॒तः , अ॒ध्व॒रस्य॑ , अ॒ग्निः , विश्व॑स्य , ह॒विषः॑ , कृ॒तस्य॑ । क्रतुं॑ , हि , अ॒स्य॒ , वस॑वः , जु॒षंत॑ , अथ॑ , दे॒वाः , द॒धि॒रे॒ , ह॒व्य॒ऽवाहं॑ ॥
आग्ने॑ वह हवि॒रद्या॑य दे॒वानिंद्र॑ज्येष्ठास इ॒ह मा॑दयंतां । इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
आ , अ॒ग्ने॒ , व॒ह॒ , ह॒विः॒ऽअद्या॑य , दे॒वान् , इंद्र॑ऽज्येष्ठासः , इ॒ह , मा॒द॒यं॒तां॒ । इ॒मं , य॒ज्ञं , दि॒वि , दे॒वेषु॑ , धे॒हि॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[१२] अगन्मेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
अग॑न्म म॒हा नम॑सा॒ यवि॑ष्ठं॒ यो दी॒दाय॒ समि॑द्धः॒ स्वे दु॑रो॒णे । चि॒त्रभा॑नुं॒ रोद॑सी अं॒तरु॒र्वी स्वा॑हुतं वि॒श्वतः॑ प्र॒त्यंचं॑ ॥
अग॑न्म , म॒हा , नम॑सा , यवि॑ष्ठं , यः , दी॒दाय॑ , संऽइ॑द्धः , स्वे , दु॒रो॒णे । चि॒त्रऽभा॑नुं , रोद॑सी॒ इति॑ , अं॒तः , उ॒र्वी इति॑ , सुऽआ॑हुतं , वि॒श्वतः॑ , प्र॒त्यंचं॑ ॥
स म॒ह्ना विश्वा॑ दुरि॒तानि॑ सा॒ह्वान॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः । स नो॑ रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्गृ॑ण॒त उ॒त नो॑ म॒घोनः॑ ॥
सः , म॒ह्ना , विश्वा॑ , दुः॒ऽइ॒तानि॑ , सा॒ह्वान् , अ॒ग्निः , स्त॒वे॒ , दमे॑ , आ , जा॒तऽवे॑दाः । सः , नः॒ , र॒क्षि॒ष॒त् , दुः॒ऽइ॒तात् , अ॒व॒द्या॒त् , अ॒स्मान् , गृ॒ण॒तः , उ॒त , नः॒ , म॒घोनः॑ ॥
त्वं वरु॑ण उ॒त मि॒त्रो अ॑ग्ने॒ त्वां व॑र्धंति म॒तिभि॒र्वसि॑ष्ठाः । त्वे वसु॑ सुषण॒नानि॑ संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
त्वं , वरु॑णः , उ॒त , मि॒त्रः , अ॒ग्ने॒ , त्वां , व॒र्धं॒ति॒ , म॒तिऽभिः॑ , वसि॑ष्ठाः । त्वे इति॑ , वसु॑ , सु॒ऽस॒न॒नानि॑ , सं॒तु॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[१३] प्राग्नयइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुप् |
प्राग्नये॑ विश्व॒शुचे॑ धियं॒धे॑ऽसुर॒घ्ने मन्म॑ धी॒तिं भ॑रध्वं । भरे॑ ह॒विर्न ब॒र्हिषि॑ प्रीणा॒नो वै॑श्वान॒राय॒ यत॑ये मती॒नां ॥
प्र , अ॒ग्नये॑ , वि॒श्व॒ऽशुचे॑ , धि॒यं॒ऽधे , अ॒सु॒र॒ऽघ्ने , मन्म॑ , धी॒तिं , भ॒र॒ध्वं॒ । भरे॑ , ह॒विः , न , ब॒र्हिषि॑ , प्री॒णा॒नः , वै॒श्वा॒न॒राय॑ , यत॑ये , म॒ती॒नां ॥
त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः । त्वं दे॒वाँ अ॒भिश॑स्तेरमुंचो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥
त्वं , अ॒ग्ने॒ , शो॒चिषा॑ , शोशु॑चानः , आ , रोद॑सी॒ इति॑ , अ॒पृ॒णाः॒ , जाय॑मानः । त्वं , दे॒वान् , अ॒भिऽश॑स्तेः , अ॒मुं॒चः॒ , वैश्वा॑नर , जा॒त॒ऽवे॒दः॒ , म॒हि॒ऽत्वा ॥
जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शून्न गो॒पा इर्यः॒ परि॑ज्मा । वैश्वा॑नर॒ ब्रह्म॑णे विंद गा॒तुं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
जा॒तः , यत् , अ॒ग्ने॒ , भुव॑ना , वि , अख्यः॑ , प॒शून् , न , गो॒पाः , इर्यः॑ , परि॑ऽज्मा । वैश्वा॑नर , ब्रह्म॑णे , विं॒द॒ , गा॒तुं , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[१४] समिधेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निस्त्रिष्टुबाद्याबृहती |
स॒मिधा॑ जा॒तवे॑दसे दे॒वाय॑ दे॒वहू॑तिभिः । ह॒विर्भिः॑ शु॒क्रशो॑चिषे नम॒स्विनो॑ व॒यं दा॑शेमा॒ग्नये॑ ॥
सं॒ऽइधा॑ , जा॒तऽवे॑दसे , दे॒वाय॑ , दे॒वहू॑तिऽभिः । ह॒विःऽभिः॑ , शु॒क्रऽशो॑चिषे , न॒म॒स्विनः॑ , व॒यं , दा॒शे॒म॒ , अ॒ग्नये॑ ॥
व॒यं ते॑ अग्ने स॒मिधा॑ विधेम व॒यं दा॑शेम सुष्टु॒ती य॑जत्र । व॒यं घृ॒तेना॑ध्वरस्य होतर्व॒यं दे॑व ह॒विषा॑ भद्रशोचे ॥
व॒यं , ते॒ , अ॒ग्ने॒ , सं॒ऽइधा॑ , वि॒धे॒म॒ , व॒यं , दा॒शे॒म॒ , सु॒ऽस्तु॒ती , य॒ज॒त्र॒ । व॒यं , घृ॒तेन॑ , अ॒ध्व॒र॒स्य॒ , हो॒तः॒ , व॒यं , दे॒व॒ , ह॒विषा॑ , भ॒द्र॒ऽशो॒चे॒ ॥
आ नो॑ दे॒वेभि॒रुप॑ दे॒वहू॑ति॒मग्ने॑ या॒हि वष॑ट्कृतिं जुषा॒णः । तुभ्यं॑ दे॒वाय॒ दाश॑तः स्याम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
आ , नः॒ , दे॒वेभिः॑ , उप॑ , दे॒वऽहू॑तिं , अग्ने॑ , या॒हि , वष॑ट्ऽकृतिं , जु॒षा॒णः । तुभ्यं॑ , दे॒वाय॑ , दाश॑तः , स्या॒म॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[१५] उपसद्यायेति पंचदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निर्गायत्री |
उ॒प॒सद्या॑य मी॒ळ्हुष॑ आ॒स्ये॑ जुहुता ह॒विः । यो नो॒ नेदि॑ष्ठ॒माप्यं॑ ॥
उ॒प॒ऽसद्या॑य , मी॒ळ्हुषे॑ , आ॒स्ये॑ , जु॒हु॒त॒ , ह॒विः । यः , नः॒ , नेदि॑ष्ठं , आप्यं॑ ॥
यः पंच॑ चर्ष॒णीर॒भि नि॑ष॒साद॒ दमे॑दमे । क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥
यः , पंच॑ , च॒र्ष॒णीः , अ॒भि , नि॒ऽस॒साद॑ , दमे॑ऽदमे । क॒विः , गृ॒हऽप॑तिः , युवा॑ ॥
स नो॒ वेदो॑ अ॒मात्य॑म॒ग्नी र॑क्षतु वि॒श्वतः॑ । उ॒तास्मान्पा॒त्वंह॑सः ॥
सः , नः॒ , वेदः॑ , अ॒मात्यं॑ , अ॒ग्निः , र॒क्ष॒तु॒ , वि॒श्वतः॑ । उ॒त , अ॒स्मान् , पा॒तु॒ , अंह॑सः ॥
नवं॒ नु स्तोम॑म॒ग्नये॑ दि॒वः श्ये॒नाय॑ जीजनं । वस्वः॑ कु॒विद्व॒नाति॑ नः ॥
नवं॑ , नु , स्तोमं॑ , अ॒ग्नये॑ , दि॒वः , श्ये॒नाय॑ , जी॒ज॒नं॒ । वस्वः॑ , कु॒वित् , व॒नाति॑ , नः॒ ॥
स्पा॒र्हा यस्य॒ श्रियो॑ दृ॒शे र॒यिर्वी॒रव॑तो यथा । अग्रे॑ य॒ज्ञस्य॒ शोच॑तः ॥
स्पा॒र्हाः , यस्य॑ , श्रियः॑ , दृ॒शे , र॒यिः , वी॒रऽव॑तः , य॒था॒ । अग्रे॑ , य॒ज्ञस्य॑ , शोच॑तः ॥
सेमां वे॑तु॒ वष॑ट्कृतिम॒ग्निर्जु॑षत नो॒ गिरः॑ । यजि॑ष्ठो हव्य॒वाह॑नः ॥
सः , इ॒मां , वे॒तु॒ , वष॑ट्ऽकृतिं , अ॒ग्निः , जु॒ष॒त॒ , नः॒ , गिरः॑ । यजि॑ष्ठः , ह॒व्य॒ऽवाह॑नः ॥
नि त्वा॑ नक्ष्य विश्पते द्यु॒मंतं॑ देव धीमहि । सु॒वीर॑मग्न आहुत ॥
नि , त्वा॒ , न॒क्ष्य॒ , वि॒श्प॒ते॒ , द्यु॒ऽमंतं॑ , दे॒व॒ , धी॒म॒हि॒ । सु॒ऽवीरं॑ , अ॒ग्ने॒ , आ॒ऽहु॒त॒ ॥
क्षप॑ उ॒स्रश्च॑ दीदिहि स्व॒ग्नय॒स्त्वया॑ व॒यं । सु॒वीर॒स्त्वम॑स्म॒युः ॥
क्षपः॑ , उ॒स्रः , च॒ , दी॒दि॒हि॒ , सु॒ऽअ॒ग्नयः॑ , त्वया॑ , व॒यं । सु॒ऽवीरः॑ , त्वं , अ॒स्म॒ऽयुः ॥
उप॑ त्वा सा॒तये॒ नरो॒ विप्रा॑सो यंति धी॒तिभिः॑ । उपाक्ष॑रा सह॒स्रिणी॑ ॥
उप॑ , त्वा॒ , सा॒तये॑ , नरः॑ , विप्रा॑सः , यं॒ति॒ , धी॒तिऽभिः॑ । उप॑ , अक्ष॑रा , स॒ह॒स्रिणी॑ ॥
अ॒ग्नी रक्षां॑सि सेधति शु॒क्रशो॑चि॒रम॑र्त्यः । शुचिः॑ पाव॒क ईड्यः॑ ॥
अ॒ग्निः , रक्षां॑सि , से॒ध॒ति॒ , शु॒क्रऽशो॑चिः , अम॑र्त्यः । शुचिः॑ , पा॒व॒कः , ईड्यः॑ ॥
स नो॒ राधां॒स्या भ॒रेशा॑नः सहसो यहो । भग॑श्च दातु॒ वार्यं॑ ॥
सः , नः॒ , राधां॑सि , आ , भ॒र॒ , ईशा॑नः , स॒ह॒सः॒ , य॒हो॒ इति॑ । भगः॑ , च॒ , दा॒तु॒ , वार्यं॑ ॥
त्वम॑ग्ने वी॒रव॒द्यशो॑ दे॒वश्च॑ सवि॒ता भगः॑ । दिति॑श्च दाति॒ वार्यं॑ ॥
त्वं , अ॒ग्ने॒ , वी॒रऽव॑त् , यशः॑ , दे॒वः , च॒ , स॒वि॒ता , भगः॑ । दितिः॑ , च॒ , दा॒ति॒ , वार्यं॑ ॥
अग्ने॒ रक्षा॑ णो॒ अंह॑सः॒ प्रति॑ ष्म देव॒ रीष॑तः । तपि॑ष्ठैर॒जरो॑ दह ॥
अग्ने॑ , रक्ष॑ , नः॒ , अंह॑सः , प्रति॑ , स्म॒ , दे॒व॒ , रिष॑तः । तपि॑ष्ठैः , अ॒जरः॑ , द॒ह॒ ॥
अधा॑ म॒ही न॒ आय॒स्यना॑धृष्टो॒ नृपी॑तये । पूर्भ॑वा श॒तभु॑जिः ॥
अध॑ , म॒ही , नः॒ , आय॑सी , अना॑धृष्टः , नृऽपी॑तये । पूः , भ॒व॒ , श॒तऽभु॑जिः ॥
त्वं नः॑ पा॒ह्यंह॑सो॒ दोषा॑वस्तरघाय॒तः । दिवा॒ नक्त॑मदाभ्य ॥
त्वं , नः॒ , पा॒हि॒ , अंह॑सः , दोषा॑ऽवस्तः , अ॒घ॒ऽय॒तः । दिवा॑ , नक्तं॑ , अ॒दा॒भ्य॒ ॥
[१६] एनावोअग्निमिति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोग्निः प्रथमाद्ययुजोबृहत्यः द्वितीयादियुजः सतोबृहत्यः |
ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒मा हु॑वे । प्रि॒यं चेति॑ष्ठमर॒तिं स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृतं॑ ॥
ए॒ना , वः॒ , अ॒ग्निं , नम॑सा , ऊ॒र्जः , नपा॑तं , आ , हु॒वे॒ । प्रि॒यं , चेति॑ष्ठं , अ॒र॒तिं , सु॒ऽअ॒ध्व॒रं , विश्व॑स्य , दू॒तं , अ॒मृतं॑ ॥
स यो॑जते अरु॒षा वि॒श्वभो॑जसा॒ स दु॑द्रव॒त्स्वा॑हुतः । सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॒ वसू॑नां दे॒वं राधो॒ जना॑नां ॥
सः , यो॒ज॒ते॒ , अ॒रु॒षा , वि॒श्वऽभो॑जसा , सः , दु॒द्र॒व॒त् , सुऽआ॑हुतः । सु॒ऽब्रह्मा॑ , य॒ज्ञः , सु॒ऽशमी॑ , वसू॑नां , दे॒वं , राधः॑ , जना॑नां ॥
उद॑स्य शो॒चिर॑स्थादा॒जुह्वा॑नस्य मी॒ळ्हुषः॑ । उद्धू॒मासो॑ अरु॒षासो॑ दिवि॒स्पृशः॒ सम॒ग्निमिं॑धते॒ नरः॑ ॥
उत् , अ॒स्य॒ , शो॒चिः , अ॒स्था॒त् , आ॒ऽजुह्वा॑नस्य , मी॒ळ्हुषः॑ । उत् , धू॒मासः॑ , अ॒रु॒षासः॑ , दि॒वि॒ऽस्पृशः॑ , सं , अ॒ग्निं , इं॒ध॒ते॒ , नरः॑ ॥
तं त्वा॑ दू॒तं कृ॑ण्महे य॒शस्त॑मं दे॒वाँ आ वी॒तये॑ वह । विश्वा॑ सूनो सहसो मर्त॒भोज॑ना॒ रास्व॒ तद्यत्त्वेम॑हे ॥
तं , त्वा॒ , दू॒तं , कृ॒ण्म॒हे॒ , य॒शःऽत॑मं , दे॒वान् , आ , वी॒तये॑ , व॒ह॒ । विश्वा॑ , सू॒नो॒ इति॑ , स॒ह॒सः॒ , म॒र्त॒ऽभोज॑ना , रास्व॑ , तत् , यत् , त्वा॒ , ईम॑हे ॥
त्वम॑ग्ने गृ॒हप॑ति॒स्त्वं होता॑ नो अध्व॒रे । त्वं पोता॑ विश्ववार॒ प्रचे॑ता॒ यक्षि॒ वेषि॑ च॒ वार्यं॑ ॥
त्वं , अ॒ग्ने॒ , गृ॒हऽप॑तिः , त्वं , होता॑ , नः॒ , अ॒ध्व॒रे । त्वं , पोता॑ , वि॒श्व॒ऽवा॒र॒ , प्रऽचे॑ताः , यक्षि॑ , वेषि॑ , च॒ , वार्यं॑ ॥
कृ॒धि रत्नं॒ यज॑मानाय सुक्रतो॒ त्वं हि र॑त्न॒धा असि॑ । आ न॑ ऋ॒ते शि॑शीहि॒ विश्व॑मृ॒त्विजं॑ सु॒शंसो॒ यश्च॒ दक्ष॑ते ॥
कृ॒धि , रत्नं॑ , यज॑मानाय , सु॒क्र॒तो॒ इति॑ सुऽक्रतो , त्वं , हि , र॒त्न॒ऽधाः , असि॑ । आ , नः॒ , ऋ॒ते , शि॒शी॒हि॒ , विश्वं॑ , ऋ॒त्विजं॑ , सु॒ऽशंसः॑ , यः , च॒ , दक्ष॑ते ॥
त्वे अ॑ग्ने स्वाहुत प्रि॒यासः॑ संतु सू॒रयः॑ । यं॒तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वांदयं॑त॒ गोनां॑ ॥
त्वे इति॑ , अ॒ग्ने॒ , सु॒ऽआ॒हु॒त॒ , प्रि॒यासः॑ , सं॒तु॒ , सू॒रयः॑ । यं॒तारः॑ , ये , म॒घऽवा॑नः , जना॑नां , ऊ॒र्वान् , दयं॑त , गोनां॑ ॥
येषा॒मिळा॑ घृ॒तह॑स्ता दुरो॒ण आँ अपि॑ प्रा॒ता नि॒षीद॑ति । ताँस्त्रा॑यस्व सहस्य द्रु॒हो नि॒दो यच्छा॑ नः॒ शर्म॑ दीर्घ॒श्रुत् ॥
येषां॑ , इळा॑ , घृ॒तऽह॑स्ता , दु॒रो॒णे , आ , अपि॑ , प्रा॒ता , नि॒ऽसीद॑ति । तान् , त्रा॒य॒स्व॒ , स॒ह॒स्य॒ , द्रु॒हः , नि॒दः , यच्छ॑ , नः॒ , शर्म॑ , दी॒र्घ॒ऽश्रुत् ॥
स मं॒द्रया॑ च जि॒ह्वया॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः । अग्ने॑ र॒यिं म॒घव॑द्भ्यो न॒ आ व॑ह ह॒व्यदा॑तिं च सूदय ॥
सः , मं॒द्रया॑ , च॒ , जि॒ह्वया॑ , वह्निः॑ , आ॒सा , वि॒दुःऽत॑रः । अग्ने॑ , र॒यिं , म॒घव॑त्ऽभ्यः , नः॒ , आ , व॒ह॒ , ह॒व्यऽदा॑तिं , च॒ , सू॒द॒य॒ ॥
ये राधां॑सि॒ दद॒त्यश्व्या॑ म॒घा कामे॑न॒ श्रव॑सो म॒हः । ताँ अंह॑सः पिपृहि प॒र्तृभि॒ष्ट्वं श॒तं पू॒र्भिर्य॑विष्ठ्य ॥
ये , राधां॑सि , दद॑ति , अश्व्या॑ , म॒घा , कामे॑न , श्रव॑सः , म॒हः । तान् , अंह॑सः , पि॒पृ॒हि॒ , प॒र्तृऽभिः॑ , त्वं , श॒तं , पूः॒ऽभिः , य॒वि॒ष्ठ्य॒ ॥
दे॒वो वो॑ द्रविणो॒दाः पू॒र्णां वि॑वष्ट्या॒सिचं॑ । उद्वा॑ सिं॒चध्व॒मुप॑ वा पृणध्व॒मादिद्वो॑ दे॒व ओ॑हते ॥
दे॒वः , वः॒ , द्र॒वि॒णः॒ऽदाः , पू॒र्णां , वि॒व॒ष्टि॒ , आ॒ऽसिचं॑ । उत् , वा॒ , सिं॒चध्वं॑ , उप॑ , वा॒ , पृ॒ण॒ध्वं॒ , आत् , इत् , वः॒ , दे॒वः , ओ॒ह॒ते॒ ॥
तं होता॑रमध्व॒रस्य॒ प्रचे॑तसं॒ वह्निं॑ दे॒वा अ॑कृण्वत । दधा॑ति॒ रत्नं॑ विध॒ते सु॒वीर्य॑म॒ग्निर्जना॑य दा॒शुषे॑ ॥
तं , होता॑रं , अ॒ध्व॒रस्य॑ , प्रऽचे॑तसं , वह्निं॑ , दे॒वाः , अ॒कृ॒ण्व॒त॒ । दधा॑ति , रत्नं॑ , वि॒ध॒ते , सु॒ऽवीर्यं॑ , अ॒ग्निः , जना॑य , दा॒शुषे॑ ॥
[१७] अग्नेभवेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्टोग्निर्द्विपदात्रिष्टुप् |
अग्ने॒ भव॑ सुष॒मिधा॒ समि॑द्ध उ॒त ब॒र्हिरु॑र्वि॒या वि स्तृ॑णीतां ॥
अग्ने॑ , भव॑ , सु॒ऽस॒मिधा॑ , संऽइ॑द्धः , उ॒त , ब॒र्हिः , उ॒र्वि॒या , वि , स्तृ॒णी॒तां॒ ॥ ।
उ॒त द्वार॑ उश॒तीर्वि श्र॑यंतामु॒त दे॒वाँ उ॑श॒त आ व॑हे॒ह ॥
उ॒त , द्वारः॑ , उ॒श॒तीः , वि , श्र॒यं॒तां॒ , उ॒त , दे॒वान् , उ॒श॒तः , आ , व॒ह॒ , इ॒ह ॥ ।
अग्ने॑ वी॒हि ह॒विषा॒ यक्षि॑ दे॒वांत्स्व॑ध्व॒रा कृ॑णुहि जातवेदः ॥
अग्ने॑ , वी॒हि , ह॒विषा॑ , यक्षि॑ , दे॒वान् , सु॒ऽअ॒ध्व॒रा , कृ॒णु॒हि॒ , जा॒त॒ऽवे॒दः॒ ॥ ।
स्व॒ध्व॒रा क॑रति जा॒तवे॑दा॒ यक्ष॑द्दे॒वाँ अ॒मृता॑न्पि॒प्रय॑च्च ॥
सु॒ऽअ॒ध्व॒रा , क॒र॒ति॒ , जा॒तऽवे॑दाः , यक्ष॑त् , दे॒वान् , अ॒मृता॑न् , पि॒प्रय॑त् , च॒ ॥ ।
वंस्व॒ विश्वा॒ वार्या॑णि प्रचेतः स॒त्या भ॑वंत्वा॒शिषो॑ नो अ॒द्य ॥
वंस्व॑ , विश्वा॑ , वार्या॑णि , प्र॒चे॒त॒ इति॑ प्रऽचेतः , स॒त्याः , भ॒वं॒तु॒ , आ॒ऽशिषः॑ , नः॒ , अ॒द्य ॥ ।
त्वामु॒ ते द॑धिरे हव्य॒वाहं॑ दे॒वासो॑ अग्न ऊ॒र्ज आ नपा॑तं ॥
त्वां , ऊँ॒ इति॑ , ते , द॒धि॒रे॒ , ह॒व्य॒ऽवाहं॑ , दे॒वासः॑ , अ॒ग्ने॒ , ऊ॒र्जः , आ , नपा॑तं ॥ ।
ते ते॑ दे॒वाय॒ दाश॑तः स्याम म॒हो नो॒ रत्ना॒ वि द॑ध इया॒नः ॥
ते , ते॒ , दे॒वाय॑ , दाश॑तः , स्या॒म॒ , म॒हः , नः॒ , रत्ना॑ , वि , द॒धः॒ , इ॒या॒नः ॥ ।
[१८] त्वेहयदिति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोत्यानांचतसृणां सुदासस्त्रिष्टुप् |
त्वे ह॒ यत्पि॒तर॑श्चिन्न इंद्र॒ विश्वा॑ वा॒मा ज॑रि॒तारो॒ अस॑न्वन् । त्वे गावः॑ सु॒दुघा॒स्त्वे ह्यश्वा॒स्त्वं वसु॑ देवय॒ते वनि॑ष्ठः ॥
त्वे इति॑ , ह॒ , यत् , पि॒तरः॑ , चि॒त् , नः॒ , इं॒द्र॒ , विश्वा॑ , वा॒मा , ज॒रि॒तारः॑ , अस॑न्वन् । त्वे इति॑ , गावः॑ , सु॒ऽदुघाः॑ , त्वे इति॑ , हि , अश्वाः॑ , त्वं , वसु॑ , दे॒व॒ऽय॒ते , वनि॑ष्ठः ॥
राजे॑व॒ हि जनि॑भिः॒ क्षेष्ये॒वाव॒ द्युभि॑र॒भि वि॒दुष्क॒विः सन् । पि॒शा गिरो॑ मघव॒न्गोभि॒रश्वै॑स्त्वाय॒तः शि॑शीहि रा॒ये अ॒स्मान् ॥
राजा॑ऽइव , हि , जनि॑ऽभिः , क्षेषि॑ , ए॒व , अव॑ , द्युऽभिः॑ , अ॒भि , वि॒दुः , क॒विः , सन् । पि॒शा , गिरः॑ , म॒घ॒ऽव॒न् , गोभिः॑ , अश्वैः॑ , त्वा॒ऽय॒तः , शि॒शी॒हि॒ , रा॒ये , अ॒स्मान् ॥
इ॒मा उ॑ त्वा पस्पृधा॒नासो॒ अत्र॑ मं॒द्रा गिरो॑ देव॒यंती॒रुप॑ स्थुः । अ॒र्वाची॑ ते प॒थ्या॑ रा॒य ए॑तु॒ स्याम॑ ते सुम॒ताविं॑द्र॒ शर्म॑न् ॥
इ॒माः , ऊँ॒ इति॑ , त्वा॒ , प॒स्पृ॒धा॒नासः॑ , अत्र॑ , मं॒द्राः , गिरः॑ , दे॒व॒ऽयंतीः॑ , उप॑ , स्थुः॒ । अ॒र्वाची॑ , ते॒ , प॒थ्या॑ , रा॒यः , ए॒तु॒ , स्याम॑ , ते॒ , सु॒ऽम॒तौ , इं॒द्र॒ , शर्म॑न् ॥
धे॒नुं न त्वा॑ सू॒यव॑से॒ दुदु॑क्ष॒न्नुप॒ ब्रह्मा॑णि ससृजे॒ वसि॑ष्ठः । त्वामिन्मे॒ गोप॑तिं॒ विश्व॑ आ॒हा न॒ इंद्रः॑ सुम॒तिं गं॒त्वच्छ॑ ॥
धे॒नुं , न , त्वा॒ , सु॒ऽयव॑से , दुधु॑क्षन् , उप॑ , ब्रह्मा॑णि , स॒सृ॒जे॒ , वसि॑ष्ठः । त्वां , इत् , मे॒ , गोऽप॑तिं , विश्वः॑ , आ॒ह॒ , आ , नः॒ , इंद्रः॑ , सु॒ऽम॒तिं , गं॒तु॒ , अच्छ॑ ॥
अर्णां॑सि चित्पप्रथा॒ना सु॒दास॒ इंद्रो॑ गा॒धान्य॑कृणोत्सुपा॒रा । शर्धं॑तं शि॒म्युमु॒चथ॑स्य॒ नव्यः॒ शापं॒ सिंधू॑नामकृणो॒दश॑स्तीः ॥
अर्णां॑सि , चि॒त् , प॒प्र॒था॒ना , सु॒ऽदासे॑ , इंद्रः॑ , गा॒धानि॑ , अ॒कृ॒णो॒त् , सु॒ऽपा॒रा । शर्धं॑तं , शि॒म्युं , उ॒चथ॑स्य , नव्यः॑ , शापं॑ , सिंधू॑नां , अ॒कृ॒णो॒त् , अश॑स्तीः ॥
पु॒रो॒ळा इत्तु॒र्वशो॒ यक्षु॑रासीद्रा॒ये मत्स्या॑सो॒ निशि॑ता॒ अपी॑व । श्रु॒ष्टिं च॑क्रु॒र्भृग॑वो द्रु॒ह्यव॑श्च॒ सखा॒ सखा॑यमतर॒द्विषू॑चोः ॥
पु॒रो॒ळाः , इत् , तु॒र्वशः॑ , यक्षुः॑ , आ॒सी॒त् , रा॒ये , मत्स्या॑सः , निऽशि॑ताः , अपि॑ऽइव । श्रु॒ष्टिं , च॒क्रुः॒ , भृग॑वः , द्रु॒ह्यवः॑ , च॒ , सखा॑ , सखा॑यं , अ॒त॒र॒त् , विषू॑चोः ॥
आ प॒क्थासो॑ भला॒नसो॑ भनं॒तालि॑नासो विषा॒णिनः॑ शि॒वासः॑ । आ योऽन॑यत्सध॒मा आर्य॑स्य ग॒व्या तृत्सु॑भ्यो अजगन्यु॒धा नॄन् ॥
आ , प॒क्थासः॑ , भ॒ला॒नसः॑ , भ॒नं॒त॒ , आ , अलि॑नासः , वि॒षा॒णिनः॑ , शि॒वासः॑ । आ , यः , अन॑यत् , स॒ध॒ऽमाः , आर्य॑स्य , ग॒व्या , तृत्सु॑ऽभ्यः , अ॒ज॒ग॒न् , यु॒धा , नॄन् ॥
दु॒रा॒ध्यो॒३॒॑ अदि॑तिं स्रे॒वयं॑तोऽचे॒तसो॒ वि ज॑गृभ्रे॒ परु॑ष्णीं । म॒ह्नावि॑व्यक्पृथि॒वीं पत्य॑मानः प॒शुष्क॒विर॑शय॒च्चाय॑मानः ॥
दुः॒ऽआ॒ध्यः॑ , अदि॑तिं , स्रे॒वयं॑तः , अ॒चे॒तसः॑ , वि , ज॒गृ॒भ्रे॒ , परू॑ष्णीं । म॒ह्ना , अ॒वि॒व्य॒क् , पृ॒थि॒वीं , पत्य॑मानः , प॒शुः , क॒विः , अ॒श॒य॒त् , चाय॑मानः ॥
ई॒युरर्थं॒ न न्य॒र्थं परु॑ष्णीमा॒शुश्च॒नेद॑भिपि॒त्वं ज॑गाम । सु॒दास॒ इंद्रः॑ सु॒तुकाँ॑ अ॒मित्रा॒नरं॑धय॒न्मानु॑षे॒ वध्रि॑वाचः ॥
ई॒युः , अर्थं॑ , न , नि॒ऽअ॒र्थं , परु॑ष्णीं , आ॒शुः , च॒न , इत् , आ॒भि॒ऽपि॒त्वं , ज॒गा॒म॒ । सु॒ऽदासे॑ , इंद्रः॑ , सु॒ऽतुका॑न् , अ॒मित्रा॑न् , अरं॑धयत् , मानु॑षे , वध्रि॑ऽवाचः ॥
ई॒युर्गावो॒ न यव॑सा॒दगो॑पा यथाकृ॒तम॒भि मि॒त्रं चि॒तासः॑ । पृश्नि॑गावः॒ पृश्नि॑निप्रेषितासः श्रु॒ष्टिं च॑क्रुर्नि॒युतो॒ रंत॑यश्च ॥
ई॒युः , गावः॑ , न , यव॑सात् , अगो॑पाः , य॒था॒ऽकृ॒तं , अ॒भि , मि॒त्रं , चि॒तासः॑ । पृश्नि॑ऽगावः , पृश्नि॑ऽनिप्रेषितासः , श्रु॒ष्टिं , च॒क्रुः॒ , नि॒ऽयुतः॑ , रंत॑यः , च॒ ॥
एकं॑ च॒ यो विं॑श॒तिं च॑ श्रव॒स्या वै॑क॒र्णयो॒र्जना॒न्राजा॒ न्यस्तः॑ । द॒स्मो न सद्म॒न्नि शि॑शाति ब॒र्हिः शूरः॒ सर्ग॑मकृणो॒दिंद्र॑ एषां ॥
एकं॑ , च॒ , यः , विं॒श॒तिं , च॒ , श्र॒व॒स्या , वै॒क॒र्णयोः॑ , जना॑न् , राजा॑ , नि , अस्त॒रित्यस्तः॑ । द॒स्मः , न , सद्म॑न् , नि , शि॒शा॒ति॒ , ब॒र्हिः , शूरः॑ , सर्गं॑ , अ॒कृ॒णो॒त् , इंद्रः॑ , ए॒षां॒ ॥
अध॑ श्रु॒तं क॒वषं॑ वृ॒द्धम॒प्स्वनु॑ द्रु॒ह्युं नि वृ॑ण॒ग्वज्र॑बाहुः । वृ॒णा॒ना अत्र॑ स॒ख्याय॑ स॒ख्यं त्वा॒यंतो॒ ये अम॑द॒न्ननु॑ त्वा ॥
अध॑ , श्रु॒तं , क॒वषं॑ , वृ॒द्धं , अ॒प्ऽसु , अनु॑ , द्रु॒ह्युं , नि , वृ॒ण॒क् , वज्र॑ऽबाहुः । वृ॒णा॒नाः , अत्र॑ , स॒ख्याय॑ , स॒ख्यं , त्वा॒ऽयंतः॑ , ये , अम॑दन् , अनु॑ , त्वा॒ ॥
वि स॒द्यो विश्वा॑ दृंहि॒तान्ये॑षा॒मिंद्रः॒ पुरः॒ सह॑सा स॒प्त द॑र्दः । व्यान॑वस्य॒ तृत्स॑वे॒ गयं॑ भा॒ग्जेष्म॑ पू॒रुं वि॒दथे॑ मृ॒ध्रवा॑चं ॥
वि , स॒द्यः , विश्वा॑ , दृं॒हि॒तानि॑ , ए॒षां॒ , इंद्रः॑ , पुरः॑ , सह॑सा , स॒प्त , द॒र्द॒रिति॑ दर्दः । वि , आन॑वस्य , तृत्स॑वे , गयं॑ , भा॒क् , जेष्म॑ , पू॒रुं , वि॒दथे॑ , मृ॒ध्रऽवा॑चं ॥
नि ग॒व्यवोऽन॑वो द्रु॒ह्यव॑श्च ष॒ष्टिः श॒ता सु॑षुपुः॒ षट् स॒हस्रा॑ । ष॒ष्टिर्वी॒रासो॒ अधि॒ षड्दु॑वो॒यु विश्वेदिंद्र॑स्य वी॒र्या॑ कृ॒तानि॑ ॥
नि , ग॒व्यवः॑ , अन॑वः , दु॒ह्यवः॑ , च॒ , ष॒ष्टिः , श॒ता , सु॒सु॒पुः॒ , षट् , स॒हस्रा॑ । ष॒ष्टिः , वी॒रासः॑ , अधि॑ , षट् , दु॒वः॒ऽयु , विश्वा॑ , इत् , इंद्र॑स्य , वी॒र्या॑ , कृ॒तानि॑ ॥
इंद्रे॑णै॒ते तृत्स॑वो॒ वेवि॑षाणा॒ आपो॒ न सृ॒ष्टा अ॑धवंत॒ नीचीः॑ । दु॒र्मि॒त्रासः॑ प्रकल॒विन्मिमा॑ना ज॒हुर्विश्वा॑नि॒ भोज॑ना सु॒दासे॑ ॥
इंद्रे॑ण , ए॒ते , तृत्स॑वः , वेवि॑षाणाः , आपः॑ , न , सृ॒ष्टाः , अ॒ध॒वं॒त॒ , नीचीः॑ । दुः॒ऽमि॒त्रासः॑ , प्र॒क॒ल॒ऽवित् , मिमा॑नाः , ज॒हुः , विश्वा॑नि , भोज॑ना , सु॒ऽदासे॑ ॥
अ॒र्धं वी॒रस्य॑ शृत॒पाम॑निं॒द्रं परा॒ शर्धं॑तं नुनुदे अ॒भि क्षां । इंद्रो॑ म॒न्युं म॑न्यु॒म्यो॑ मिमाय भे॒जे प॒थो व॑र्त॒निं पत्य॑मानः ॥
अ॒र्धं , वी॒रस्य॑ , शृ॒त॒ऽपां , अ॒निं॒द्रं , परा॑ , शर्धं॑तं , नु॒नु॒दे॒ , अ॒भि , क्षां । इंद्रः॑ , म॒न्युं , म॒न्यु॒ऽम्यः॑ , मि॒मा॒य॒ , भे॒जे , प॒थः , व॒र्त॒निं , पत्य॑मानः ॥
आ॒ध्रेण॑ चि॒त्तद्वेकं॑ चकार सिं॒ह्यं॑ चि॒त्पेत्वे॑ना जघान । अव॑ स्र॒क्तीर्वे॒श्या॑वृश्च॒दिंद्रः॒ प्राय॑च्छ॒द्विश्वा॒ भोज॑ना सु॒दासे॑ ॥
आ॒ध्रेण॑ , चि॒त् , तत् , ऊँ॒ इति॑ , एकं॑ , च॒का॒र॒ , सिं॒ह्यं॑ , चि॒त् , पेत्वे॑न , ज॒घा॒न॒ । अव॑ , स्र॒क्तीः , वे॒श्या॑ , अ॒वृ॒श्च॒त् , इंद्रः॑ , प्र , अ॒य॒च्छ॒त् , विश्वा॑ , भोज॑ना , सु॒ऽदासे॑ ॥
शश्वं॑तो॒ हि शत्र॑वो रार॒धुष्टे॑ भे॒दस्य॑ चि॒च्छर्ध॑तो विंद॒ रंधिं॑ । मर्ताँ॒ एनः॑ स्तुव॒तो यः कृ॒णोति॑ ति॒ग्मं तस्मि॒न्नि ज॑हि॒ वज्र॑मिंद्र ॥
शश्वं॑तः , हि , शत्र॑वः , र॒र॒धुः , ते॒ , भे॒दस्य॑ , चि॒त् , शर्ध॑तः , विं॒द॒ , रंधिं॑ । मर्ता॑न् , एनः॑ , स्तु॒व॒तः , यः , कृ॒णोति॑ , ति॒ग्मं , तस्मि॑न् , नि , ज॒हि॒ , वज्रं॑ , इं॒द्र॒ ॥
आव॒दिंद्रं॑ य॒मुना॒ तृत्स॑वश्च॒ प्रात्र॑ भे॒दं स॒र्वता॑ता मुषायत् । अ॒जास॑श्च॒ शिग्र॑वो॒ यक्ष॑वश्च ब॒लिं शी॒र्षाणि॑ जभ्रु॒रश्व्या॑नि ॥
आव॑त् , इंद्रं॑ , य॒मुना॑ , तृत्स॑वः , च॒ , प्र , अत्र॑ , भे॒दं , स॒र्वऽता॑ता , मु॒षा॒य॒त् । अ॒जासः॑ , च॒ , शिग्र॑वः , यक्ष॑वः , च॒ , ब॒लिं , शी॒र्षाणि॑ , ज॒भ्रुः॒ , अश्व्या॑नि ॥
न त॑ इंद्र सुम॒तयो॒ न रायः॑ सं॒चक्षे॒ पूर्वा॑ उ॒षसो॒ न नूत्नाः॑ । देव॑कं चिन्मान्यमा॒नं ज॑घं॒थाव॒ त्मना॑ बृह॒तः शंब॑रं भेत् ॥
न , ते॒ , इं॒द्र॒ , सु॒ऽम॒तयः॑ , न , रायः॑ , सं॒ऽचक्षे॑ , पूर्वाः॑ , उ॒षसः॑ , न , नूत्नाः॑ । देव॑कं , चि॒त् , मा॒न्य॒मा॒नं , ज॒घं॒थ॒ , अव॑ , त्मना॑ , बृ॒ह॒तः , शंब॑रं , भे॒त् ॥
प्र ये गृ॒हादम॑मदुस्त्वा॒या प॑राश॒रः श॒तया॑तु॒र्वसि॑ष्ठः । न ते॑ भो॒जस्य॑ स॒ख्यं मृ॑षं॒ताधा॑ सू॒रिभ्यः॑ सु॒दिना॒ व्यु॑च्छान् ॥
प्र , ये , गृ॒हात् , अम॑मदुः , त्वा॒ऽया , प॒रा॒ऽश॒रः , श॒तऽया॑तुः , वसि॑ष्ठः । न , ते॒ , भो॒जस्य॑ , स॒ख्यं , मृ॒षं॒त॒ , अध॑ , सू॒रिऽभ्यः॑ , सु॒ऽदिना॑ , वि , उ॒च्छा॒न् ॥
द्वे नप्तु॑र्दे॒वव॑तः श॒ते गोर्द्वा रथा॑ व॒धूमं॑ता सु॒दासः॑ । अर्ह॑न्नग्ने पैजव॒नस्य॒ दानं॒ होते॑व॒ सद्म॒ पर्ये॑मि॒ रेभ॑न् ॥
द्वे इति॑ , नप्तुः॑ , दे॒वऽव॑तः , श॒ते इति॑ , गोः , द्वा , रथा॑ , व॒धूऽमं॑ता , सु॒ऽदासः॑ । अर्ह॑न् , अ॒ग्ने॒ , पै॒ज॒ऽव॒नस्य॑ , दानं॑ , होता॑ऽइव , सद्म॑ , परि॑ , ए॒मि॒ , रेभ॑न् ॥
च॒त्वारो॑ मा पैजव॒नस्य॒ दानाः॒ स्मद्दि॑ष्टयः कृश॒निनो॑ निरे॒के । ऋ॒ज्रासो॑ मा पृथिवि॒ष्ठाः सु॒दास॑स्तो॒कं तो॒काय॒ श्रव॑से वहंति ॥
च॒त्वारः॑ , मा॒ , पै॒ज॒ऽव॒नस्य॑ , दानाः॑ , स्मत्ऽदि॑ष्टयः , कृ॒श॒निनः॑ , नि॒रे॒के । ऋ॒ज्रासः॑ , मा॒ , पृ॒थि॒वि॒ऽस्थाः , सु॒ऽदासः॑ , तो॒कं , तो॒काय॑ , श्रव॑से , व॒हं॒ति॒ ॥
यस्य॒ श्रवो॒ रोद॑सी अं॒तरु॒र्वी शी॒र्ष्णेशी॑र्ष्णे विब॒भाजा॑ विभ॒क्ता । स॒प्तेदिंद्रं॒ न स्र॒वतो॑ गृणंति॒ नि यु॑ध्याम॒धिम॑शिशाद॒भीके॑ ॥
यस्य॑ , श्रवः॑ , रोद॑सी॒ इति॑ , अं॒तः , उ॒र्वी इति॑ , शी॒र्ष्णेऽशी॑र्ष्णे , वि॒ऽब॒भाज॑ , वि॒ऽभ॒क्ता । स॒प्त , इत् , इंद्रं॑ , न , स्र॒वतः॑ , गृ॒णं॒ति॒ , नि , यु॒ध्या॒म॒धिं , आ॒शि॒शा॒त् , अ॒भीके॑ ॥
इ॒मं न॑रो मरुतः सश्च॒तानु॒ दिवो॑दासं॒ न पि॒तरं॑ सु॒दासः॑ । अ॒वि॒ष्टना॑ पैजव॒नस्य॒ केतं॑ दू॒णाशं॑ क्ष॒त्रम॒जरं॑ दुवो॒यु ॥
इ॒मं , न॒रः॒ , म॒रु॒तः॒ , स॒श्च॒त॒ , अनु॑ , दिवः॑ऽदासं , न , पि॒तरं॑ , सु॒ऽदासः॑ । अ॒वि॒ष्टन॑ , पै॒ज॒ऽव॒नस्य॑ , केतं॑ , दुः॒ऽनशं॑ , क्ष॒त्रं , अ॒जरं॑ , दु॒वः॒ऽयु ॥
[१९] यस्तिग्मशृंगइत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
यस्ति॒ग्मशृं॑गो वृष॒भो न भी॒म एकः॑ कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वाः॑ । यः शश्व॑तो॒ अदा॑शुषो॒ गय॑स्य प्रयं॒तासि॒ सुष्वि॑तराय॒ वेदः॑ ॥
यः , ति॒ग्मऽशृं॑गः , वृ॒ष॒भः , न , भी॒मः , एकः॑ , कृ॒ष्टीः , च्य॒वय॑ति , प्र , विश्वाः॑ । यः , शश्व॑तः , अदा॑शुषः , गय॑स्य , प्र॒ऽयं॒ता , अ॒सि॒ , सुस्वि॑ऽतराय , वेदः॑ ॥
त्वं ह॒ त्यदिं॑द्र॒ कुत्स॑मावः॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये । दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्य॑स्मा॒ अरं॑धय आर्जुने॒याय॒ शिक्ष॑न् ॥
त्वं , ह॒ , त्यत् , इं॒द्र॒ , कुत्सं॑ , आ॒वः॒ , शुश्रू॑षमाणः , त॒न्वा॑ , स॒ऽम॒र्ये । दासं॑ , यत् , शुष्णं॑ , कुय॑वं , नि , अ॒स्मै॒ , अरं॑धयः , आ॒र्जु॒ने॒याय॑ , शिक्ष॑न् ॥
त्वं धृ॑ष्णो धृष॒ता वी॒तह॑व्यं॒ प्रावो॒ विश्वा॑भिरू॒तिभिः॑ सु॒दासं॑ । प्र पौरु॑कुत्सिं त्र॒सद॑स्युमावः॒ क्षेत्र॑साता वृत्र॒हत्ये॑षु पू॒रुं ॥
त्वं , धृ॒ष्णो॒ इति॑ , धृ॒ष॒ता , वी॒तऽह॑व्यं , प्र , आ॒वः॒ , विश्वा॑भिः , ऊ॒तिऽभिः॑ , सु॒ऽदासं॑ । प्र , पौरु॑ऽकुत्सिं , त्र॒सद॑स्युं , आ॒वः॒ , क्षेत्र॑ऽसाता , वृ॒त्र॒ऽहत्ये॑षु , पू॒रुं ॥
त्वं नृभि॑र्नृमणो दे॒ववी॑तौ॒ भूरी॑णि वृ॒त्रा ह॑र्यश्व हंसि । त्वं नि दस्युं॒ चुमु॑रिं॒ धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हंतु॑ ॥
त्वं , नृऽभिः॑ , नृ॒ऽम॒नः॒ , दे॒वऽवी॑तौ , भूरी॑णि , वृ॒त्रा , ह॒रि॒ऽअ॒श्व॒ , हं॒सि॒ । त्वं , नि , दस्युं॑ , चुमु॑रिं , धुनिं॑ , च॒ , अस्वा॑पयः , द॒भीत॑ये , सु॒ऽहंतु॑ ॥
तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो॑ नव॒तिं च॑ स॒द्यः । नि॒वेश॑ने शतत॒मावि॑वेषी॒रहं॑च वृ॒त्रं नमु॑चिमु॒ताह॑न् ॥
तव॑ , च्यौ॒त्नानि॑ , व॒ज्र॒ऽह॒स्त॒ , तानि॑ , नव॑ , यत् , पुरः॑ , न॒व॒तिं , च॒ , स॒द्यः । नि॒ऽवेश॑ने , श॒त॒ऽत॒मा , अ॒वि॒वे॒षीः॒ , अह॑न् , च॒ , वृ॒त्रं , नमु॑चिं , उ॒त , अ॒ह॒न् ॥
सना॒ ता त॑ इंद्र॒ भोज॑नानि रा॒तह॑व्याय दा॒शुषे॑ सु॒दासे॑ । वृष्णे॑ ते॒ हरी॒ वृष॑णा युनज्मि॒ व्यंतु॒ ब्रह्मा॑णि पुरुशाक॒ वाजं॑ ॥
सना॑ , ता , ते॒ , इं॒द्र॒ , भोज॑नानि , रा॒तऽह॑व्याय , दा॒शुषे॑ , सु॒ऽदासे॑ । वृष्णे॑ , ते॒ , हरी॒ इति॑ , वृष॑णा , यु॒न॒ज्मि॒ , व्यंतु॑ , ब्रह्मा॑णि , पु॒रु॒ऽशा॒क॒ , वाजं॑ ॥
मा ते॑ अ॒स्यां स॑हसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै । त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ॥
मा , ते॒ , अ॒स्यां , स॒ह॒सा॒ऽव॒न् , परि॑ष्टौ , अ॒घाय॑ , भू॒म॒ , ह॒रि॒ऽवः॒ , प॒रा॒ऽदै । त्राय॑स्व , नः॒ , अ॒वृ॒केभिः॑ , वरू॑थैः , तव॑ , प्रि॒यासः॑ , सू॒रिषु॑ , स्या॒म॒ ॥
प्रि॒यास॒ इत्ते॑ मघवन्न॒भिष्टौ॒ नरो॑ मदेम शर॒णे सखा॑यः । नि तु॒र्वशं॒ नि याद्वं॑ शिशीह्यतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥
प्रि॒यासः॑ , इत् , ते॒ , म॒घ॒ऽव॒न् , अ॒भिष्टौ॑ , नरः॑ , म॒दे॒म॒ , श॒र॒णे , सखा॑यः । नि , तु॒र्वशं॑ , नि , याद्वं॑ , शि॒शी॒हि॒ , अ॒ति॒थि॒ऽग्वाय॑ , शंस्यं॑ , क॒रि॒ष्यन् ॥
स॒द्यश्चि॒न्नु ते म॑घवन्न॒भिष्टौ॒ नरः॑ शंसंत्युक्थ॒शास॑ उ॒क्था । ये ते॒ हवे॑भि॒र्वि प॒णीँरदा॑शन्न॒स्मान्वृ॑णीष्व॒ युज्या॑य॒ तस्मै॑ ॥
स॒द्यः , चि॒त् , नु , ते॒ , म॒घ॒ऽव॒न् , अ॒भिष्टौ॑ , नरः॑ , शं॒सं॒ति॒ , उ॒क्थ॒ऽशसः॑ , उ॒क्था । ये , ते॒ , हवे॑भिः , वि , प॒णीन् , अदा॑शन् , अ॒स्मान् , वृ॒णी॒ष्व॒ , युज्या॑य , तस्मै॑ ॥
ए॒ते स्तोमा॑ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्यं॑चो॒ दद॑तो म॒घानि॑ । तेषा॑मिंद्र वृत्र॒हत्ये॑ शि॒वो भूः॒ सखा॑ च॒ शूरो॑ऽवि॒ता च॑ नृ॒णां ॥
ए॒ते , स्तोमाः॑ , न॒रां , नृ॒ऽत॒म॒ , तुभ्यं॑ , अ॒स्म॒द्र्यं॑चः , दद॑तः , म॒घानि॑ । तेषां॑ , इं॒द्र॒ , वृ॒त्र॒ऽहत्ये॑ , शि॒वः , भूः॒ , सखा॑ , च॒ , शूरः॑ , अ॒वि॒ता , च॒ , नृ॒णां ॥
नू इं॑द्र शूर॒ स्तव॑मान ऊ॒ती ब्रह्म॑जूतस्त॒न्वा॑ वावृधस्व । उप॑ नो॒ वाजा॑न्मिमी॒ह्युप॒ स्तीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नु , इं॒द्र॒ , शू॒र॒ , स्तव॑मानः , ऊ॒ती , ब्रह्म॑ऽजूतः , त॒न्वा॑ , व॒वृ॒ध॒स्व॒ । उप॑ , नः॒ , वाजा॑न् , मि॒मी॒हि॒ , उप॑ , स्तीन् , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[२०] उग्रोजज्ञइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
उ॒ग्रो ज॑ज्ञे वी॒र्या॑य स्व॒धावां॒चक्रि॒रपो॒ नर्यो॒ यत्क॑रि॒ष्यन् । जग्मि॒र्युवा॑ नृ॒षद॑न॒मवो॑भिस्त्रा॒ता न॒ इंद्र॒ एन॑सो म॒हश्चि॑त् ॥
उ॒ग्रः , ज॒ज्ञे॒ , वी॒र्या॑य , स्व॒धाऽवा॑न् , चक्रिः॑ , अपः॑ , नर्यः॑ , यत् , क॒रि॒ष्यन् । जग्मिः॑ , युवा॑ , नृ॒ऽसद॑नं , अवः॑ऽभिः , त्रा॒ता , नः॒ , इंद्रः॑ , एन॑सः , म॒हः , चि॒त् ॥
हंता॑ वृ॒त्रमिंद्रः॒ शूशु॑वानः॒ प्रावी॒न्नु वी॒रो ज॑रि॒तार॑मू॒ती । कर्ता॑ सु॒दासे॒ अह॒ वा उ॑ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे॑ भूत् ॥
हंता॑ , वृ॒त्रं , इंद्रः॑ , शूशु॑वानः , प्र , आ॒वी॒त् , नु , वी॒रः , ज॒रि॒तारं॑ , ऊ॒ती । कर्ता॑ , सु॒ऽदासे॑ , अह॑ , वै , ऊँ॒ इति॑ , लो॒कं , दाता॑ , वसु॑ , मुहुः॑ , आ , दा॒शुषे॑ , भू॒त् ॥
यु॒ध्मो अ॑न॒र्वा ख॑ज॒कृत्स॒मद्वा॒ शूरः॑ सत्रा॒षाड्ज॒नुषे॒मषा॑ळ्हः । व्या॑स॒ इंद्रः॒ पृत॑नाः॒ स्वोजा॒ अधा॒ विश्वं॑ शत्रू॒यंतं॑ जघान ॥
यु॒ध्मः , अ॒न॒र्वा , ख॒ज॒ऽकृत् , स॒मत्ऽवा॑ , शूरः॑ , स॒त्रा॒षाट् , ज॒नुषा॑ , ईं॒ , अषा॑ळ्हः । वि , आ॒से॒ , इंद्रः॑ , पृत॑नाः , सु॒ऽओजाः॑ , अध॑ , विश्वं॑ , श॒त्रु॒ऽयंतं॑ , ज॒घा॒न॒ ॥
उ॒भे चि॑दिंद्र॒ रोद॑सी महि॒त्वा प॑प्राथ॒ तवि॑षीभिस्तुविष्मः । नि वज्र॒मिंद्रो॒ हरि॑वा॒न्मिमि॑क्षं॒त्समंध॑सा॒ मदे॑षु॒ वा उ॑वोच ॥
उ॒भे इति॑ , चि॒त् , इं॒द्र॒ , रोद॑सी॒ इति॑ , म॒हि॒ऽत्वा , आ , प॒प्रा॒थ॒ , तवि॑षीभिः , तु॒वि॒ष्मः॒ । नि , वज्रं॑ , इंद्रः॑ , हरि॑ऽवान् , मिमि॑क्षन् , सं , अंध॑सा , मदे॑षु , वै , उ॒वो॒च॒ ॥
वृषा॑ जजान॒ वृष॑णं॒ रणा॑य॒ तमु॑ चि॒न्नारी॒ नर्यं॑ ससूव । प्र यः से॑ना॒नीरध॒ नृभ्यो॒ अस्ती॒नः सत्वा॑ ग॒वेष॑णः॒ स धृ॒ष्णुः ॥
वृषा॑ , ज॒जा॒न॒ , वृष॑णं , रणा॑य , तं , ऊँ॒ इति॑ , चि॒त् , नारी॑ , नर्यं॑ , स॒सू॒व॒ । प्र , यः , से॒ना॒ऽनीः , अध॑ , नृऽभ्यः॑ , अस्ति॑ , इ॒नः , सत्वा॑ , गो॒ऽएष॑णः , सः , धृ॒ष्णुः ॥
नू चि॒त्स भ्रे॑षते॒ जनो॒ न रे॑ष॒न्मनो॒ यो अ॑स्य घो॒रमा॒विवा॑सात् । य॒ज्ञैर्य इंद्रे॒ दध॑ते॒ दुवां॑सि॒ क्षय॒त्स रा॒य ऋ॑त॒पा ऋ॑ते॒जाः ॥
नु , चि॒त् , सः , भ्रे॒ष॒ते॒ , जनः॑ , न , रे॒ष॒त् , मनः॑ , यः , अ॒स्य॒ , घो॒रं , आ॒ऽविवा॑सात् । य॒ज्ञैः , यः , इंद्रे॑ , दध॑ते , दुवां॑सि , क्षय॑त् , सः , रा॒ये , ऋ॒त॒ऽपाः , ऋ॒ते॒ऽजाः ॥
यदिं॑द्र॒ पूर्वो॒ अप॑राय॒ शिक्ष॒न्नय॒ज्ज्याया॒न्कनी॑यसो दे॒ष्णं । अ॒मृत॒ इत्पर्या॑सीत दू॒रमा चि॑त्र॒ चित्र्यं॑ भरा र॒यिं नः॑ ॥
यत् , इं॒द्र॒ , पूर्वः॑ , अप॑राय , शि॒क्ष॒न् , अय॑त् , ज्याया॑न् , कनी॑यसः , दे॒ष्णं । अ॒मृतः॑ , इत् , परि॑ , आ॒सी॒त॒ , दू॒रं , आ , चि॒त्र॒ , चित्र्यं॑ , भ॒र॒ , र॒यिं , नः॒ ॥
यस्त॑ इंद्र प्रि॒यो जनो॒ ददा॑श॒दस॑न्निरे॒के अ॑द्रिवः॒ सखा॑ ते । व॒यं ते॑ अ॒स्यां सु॑म॒तौ चनि॑ष्ठाः॒ स्याम॒ वरू॑थे॒ अघ्न॑तो॒ नृपी॑तौ ॥
यः , ते॒ , इं॒द्र॒ , प्रि॒यः , जनः॑ , ददा॑शत् , अस॑त् , नि॒रे॒के , अ॒द्रि॒ऽवः॒ , सखा॑ , ते॒ । व॒यं , ते॒ , अ॒स्यां , सु॒ऽम॒तौ , चनि॑ष्ठाः , स्या॒म॒ , वरू॑थे , अघ्न॑तः , नृऽपी॑तौ ॥
ए॒ष स्तोमो॑ अचिक्रद॒द्वृषा॑ त उ॒त स्ता॒मुर्म॑घवन्नक्रपिष्ट । रा॒यस्कामो॑ जरि॒तारं॑ त॒ आगं॒त्वमं॒ग श॑क्र॒ वस्व॒ आ श॑को नः ॥
ए॒षः , स्तोमः॑ , अ॒चि॒क्र॒द॒त् , वृषा॑ , ते॒ , उ॒त , स्ता॒मुः , म॒घ॒ऽव॒न् , अ॒क्र॒पि॒ष्ट॒ । रा॒यः , कामः॑ , ज॒रि॒तारं॑ , ते॒ , आ , अ॒ग॒न् , त्वं , अं॒ग , श॒क्र॒ , वस्वः॑ , आ , श॒कः॒ , नः॒ ॥
स न॑ इंद्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नंति॑ । वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
सः , नः॒ , इं॒द्र॒ , त्वऽय॑तायै , इ॒षे , धाः॒ , त्मना॑ , च॒ , ये , म॒घऽवा॑नः , जु॒नंति॑ । वस्वी॑ , सु , ते॒ , ज॒रि॒त्रे , अ॒स्तु॒ , श॒क्तिः , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[२१] असाविदेवमिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
असा॑वि दे॒वं गोऋ॑जीक॒मंधो॒ न्य॑स्मि॒न्निंद्रो॑ ज॒नुषे॑मुवोच । बोधा॑मसि त्वा हर्यश्व य॒ज्ञैर्बोधा॑ नः॒ स्तोम॒मंध॑सो॒ मदे॑षु ॥
असा॑वि , दे॒वं , गोऽऋ॑जीकं , अंधः॑ , नि , अ॒स्मि॒न् , इंद्रः॑ , ज॒नुषा॑ , ईं॒ , उ॒वो॒च॒ । बोधा॑मसि , त्वा॒ , ह॒रि॒ऽअ॒श्व॒ , य॒ज्ञैः , बोध॑ , नः॒ , स्तोमं॑ , अंध॑सः , मदे॑षु ॥
प्र यं॑ति य॒ज्ञं वि॒पयं॑ति ब॒र्हिः सो॑म॒मादो॑ वि॒दथे॑ दु॒ध्रवा॑चः । न्यु॑ भ्रियंते य॒शसो॑ गृ॒भादा दू॒रउ॑पब्दो॒ वृष॑णो नृ॒षाचः॑ ॥
प्र , यं॒ति॒ , य॒ज्ञं , वि॒पयं॑ति , ब॒र्हिः , सो॒म॒ऽमादः॑ , वि॒दथे॑ , दु॒ध्रऽवा॑चः । नि , ऊँ॒ इति॑ , भ्रि॒यं॒ते॒ , य॒शसः॑ , गृ॒भात् , आ , दू॒रेऽउ॑पब्दः , वृष॑णः , नृ॒ऽसाचः॑ ॥
त्वमिं॑द्र॒ स्रवि॑त॒वा अ॒पस्कः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः । त्वद्वा॑वक्रे र॒थ्यो॒३॒॑ न धेना॒ रेजं॑ते॒ विश्वा॑ कृ॒त्रिमा॑णि भी॒षा ॥
त्वं , इं॒द्र॒ , स्रवि॑त॒वै , अ॒पः , क॒रिति॑ कः , परि॑ऽस्थिताः , अहि॑ना , शू॒र॒ , पू॒र्वीः । त्वत् , वा॒व॒क्रे॒ , र॒थ्यः॑ , न , धेनाः॑ , रेजं॑ते , विश्वा॑ , कृ॒त्रिमा॑णि , भी॒षा ॥
भी॒मो वि॑वे॒षायु॑धेभिरेषा॒मपां॑सि॒ विश्वा॒ नर्या॑णि वि॒द्वान् । इंद्रः॒ पुरो॒ जर्हृ॑षाणो॒ वि दू॑धो॒द्वि वज्र॑हस्तो महि॒ना ज॑घान ॥
भी॒मः , वि॒वे॒ष॒ , आयु॑धेभिः , ए॒षां॒ , अपां॑सि , विश्वा॑ , नर्या॑णि , वि॒द्वान् । इंद्रः॑ , पुरः॑ , जर्हृ॑षाणः , वि , दू॒धो॒त् , वि , वज्र॑ऽहस्तः , म॒हि॒ना , ज॒घा॒न॒ ॥
न या॒तव॑ इंद्र जूजुवुर्नो॒ न वंद॑ना शविष्ठ वे॒द्याभिः॑ । स श॑र्धद॒र्यो विषु॑णस्य जं॒तोर्मा शि॒श्नदे॑वा॒ अपि॑ गुर्ऋ॒तं नः॑ ॥
न , या॒तवः॑ , इं॒द्र॒ , जू॒जु॒वुः॒ , नः॒ , न , वंद॑ना , श॒वि॒ष्ठ॒ , वे॒द्याभिः॑ । सः , श॒र्ध॒त् , अ॒र्यः , विषु॑णस्य , जं॒तोः , मा , शि॒श्नऽदे॑वाः , अपि॑ , गुः॒ , ऋ॒तं , नः॒ ॥
अ॒भि क्रत्वें॑द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानं॒ रजां॑सि । स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घंथ॒ न शत्रु॒रंतं॑ विविदद्यु॒धा ते॑ ॥
अ॒भि , क्रत्वा॑ , इं॒द्र॒ , भूः॒ , अध॑ , ज्मन् , न , ते॒ , वि॒व्य॒क् , म॒हि॒मानं॑ , रजां॑सि । स्वेन॑ , हि , वृ॒त्रं , शव॑सा , ज॒घंथ॑ , न , शत्रुः॑ , अंतं॑ , वि॒वि॒द॒त् , यु॒धा , ते॒ ॥
दे॒वाश्चि॑त्ते असु॒र्या॑य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममिरे॒ सहां॑सि । इंद्रो॑ म॒घानि॑ दयते वि॒षह्येंद्रं॒ वाज॑स्य जोहुवंत सा॒तौ ॥
दे॒वाः , चि॒त् , ते॒ , अ॒सु॒र्या॑य , पूर्वे॑ , अनु॑ , क्ष॒त्राय॑ , म॒मि॒रे॒ , सहां॑सि । इंद्रः॑ , म॒घानि॑ , द॒य॒ते॒ , वि॒ऽसह्य॑ , इंद्रं॑ , वाज॑स्य , जो॒हु॒वं॒त॒ , सा॒तौ ॥
की॒रिश्चि॒द्धि त्वामव॑से जु॒हावेशा॑नमिंद्र॒ सौभ॑गस्य॒ भूरेः॑ । अवो॑ बभूथ शतमूते अ॒स्मे अ॑भिक्ष॒त्तुस्त्वाव॑तो वरू॒ता ॥
की॒रिः , चि॒त् , हि , त्वां , अव॑से , जु॒हाव॑ , ईशा॑नं , इं॒द्र॒ , सौभ॑गस्य , भूरेः॑ । अवः॑ , ब॒भू॒थ॒ , श॒तं॒ऽऊ॒ते॒ , अ॒स्मे इति॑ , अ॒भि॒ऽक्ष॒त्तुः , त्वाऽव॑तः , व॒रू॒ता ॥
सखा॑यस्त इंद्र वि॒श्वह॑ स्याम नमोवृ॒धासो॑ महि॒ना त॑रुत्र । व॒न्वंतु॑ स्मा॒ तेऽव॑सा समी॒के॒३॒॑ऽभी॑तिम॒र्यो व॒नुषां॒ शवां॑सि ॥
सखा॑यः , ते॒ , इं॒द्र॒ , वि॒श्वह॑ , स्या॒म॒ , न॒मः॒ऽवृ॒धासः॑ , म॒हि॒ना , त॒रु॒त्र॒ । व॒न्वंतु॑ , स्म॒ , ते॒ , अव॑सा , सं॒ऽई॒के , अ॒भिऽइ॑तिं , अ॒र्यः , व॒नुषां॑ , शवां॑सि ॥
स न॑ इंद्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नंति॑ । वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
सः , नः॒ , इं॒द्र॒ , त्वऽय॑तायै , इ॒षे , धाः॒ , त्मना॑ , च॒ , ये , म॒घऽवा॑नः , जु॒नंति॑ । वस्वी॑ , सु , ते॒ , ज॒रि॒त्रे , अ॒स्तु॒ , श॒क्तिः , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[२२] पिबासोममिति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोविराळंत्यात्रिष्टुप् |
पिबा॒ सोम॑मिंद्र॒ मंद॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ । सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा॑ ॥
पिब॑ , सोमं॑ , इं॒द्र॒ , मंद॑तु , त्वा॒ , यं , ते॒ , सु॒साव॑ , ह॒रि॒ऽअ॒श्व॒ , अद्रिः॑ । सो॒तुः , बा॒हुऽभ्यां॑ , सुऽय॑तः , न , अर्वा॑ ॥
यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑ । स त्वामिं॑द्र प्रभूवसो ममत्तु ॥
यः , ते॒ , मदः॑ , युज्यः॑ , चारुः॑ , अस्ति॑ , येन॑ , वृ॒त्राणि॑ , ह॒रि॒ऽअ॒श्व॒ , हंसि॑ । सः , त्वां , इं॒द्र॒ , प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो , म॒म॒त्तु॒ ॥
बोधा॒ सु मे॑ मघव॒न्वाच॒मेमां यां ते॒ वसि॑ष्ठो॒ अर्च॑ति॒ प्रश॑स्तिं । इ॒मा ब्रह्म॑ सध॒मादे॑ जुषस्व ॥
बोध॑ , सु , मे॒ , म॒घ॒ऽव॒न् , वाचं॑ , आ , इ॒मां , यां , ते॒ , वसि॑ष्ठः , अर्च॑ति , प्रऽश॑स्तिं । इ॒मा , ब्रह्म॑ , स॒ध॒ऽमादे॑ , जु॒ष॒स्व॒ ॥
श्रु॒धी हवं॑ विपिपा॒नस्याद्रे॒र्बोधा॒ विप्र॒स्यार्च॑तो मनी॒षां । कृ॒ष्वा दुवां॒स्यंत॑मा॒ सचे॒मा ॥
श्रु॒धि , हवं॑ , वि॒ऽपि॒पा॒नस्य॑ , अद्रेः॑ , बोध॑ , विप्र॑स्य , अर्च॑तः , म॒नी॒षां । कृ॒ष्व , दुवां॑सि , अंत॑मा , सचा॑ , इ॒मा ॥
न ते॒ गिरो॒ अपि॑ मृष्ये तु॒रस्य॒ न सु॑ष्टु॒तिम॑सु॒र्य॑स्य वि॒द्वान् । सदा॑ ते॒ नाम॑ स्वयशो विवक्मि ॥
न , ते॒ , गिरः॑ , अपि॑ , मृ॒ष्ये॒ , तु॒रस्य॑ , न , सु॒ऽस्तु॒तिं , अ॒सु॒र्य॑स्य , वि॒द्वान् । सदा॑ , ते॒ , नाम॑ , स्व॒ऽय॒शः॒ , वि॒व॒क्मि॒ ॥
भूरि॒ हि ते॒ सव॑ना॒ मानु॑षेषु॒ भूरि॑ मनी॒षी ह॑वते॒ त्वामित् । मारे अ॒स्मन्म॑घवं॒ज्योक्कः॑ ॥
भूरि॑ , हि , ते॒ , सव॑ना , मानु॑षेषु , भूरि॑ , म॒नी॒षी , ह॒व॒ते॒ , त्वां , इत् । मा , आ॒रे , अ॒स्मत् , म॒घ॒ऽव॒न् , ज्योक् , क॒रिति॑ कः ॥
तुभ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा॑णि॒ वर्ध॑ना कृणोमि । त्वं नृभि॒र्हव्यो॑ वि॒श्वधा॑सि ॥
तुभ्य॑ , इत् , इ॒मा , सव॑ना , शू॒र॒ , विश्वा॑ , तुभ्यं॑ , ब्रह्मा॑णि , वर्ध॑ना , कृ॒णो॒मि॒ । त्वं , नृऽभिः॑ , हव्यः॑ , वि॒श्वधा॑ , अ॒सि॒ ॥
नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवंति महि॒मान॑मुग्र । न वी॒र्य॑मिंद्र ते॒ न राधः॑ ॥
नु , चि॒त् , नु , ते॒ , मन्य॑मानस्य , द॒स्म॒ , उत् , अ॒श्नु॒वं॒ति॒ , म॒हि॒मानं॑ , उ॒ग्र॒ । न , वी॒र्यं॑ , इं॒द्र॒ , ते॒ , न , राधः॑ ॥
ये च॒ पूर्व॒ ऋष॑यो॒ ये च॒ नूत्ना॒ इंद्र॒ ब्रह्मा॑णि ज॒नयं॑त॒ विप्राः॑ । अ॒स्मे ते॑ संतु स॒ख्या शि॒वानि॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ये , च॒ , पूर्वे॑ , ऋष॑यः , ये , च॒ , नूत्नाः॑ , इंद्र॑ , ब्रह्मा॑णि , ज॒नयं॑त , विप्राः॑ । अ॒स्मे इति॑ , ते॒ , सं॒तु॒ , स॒ख्या , शि॒वानि॑ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[२३] उदुब्रह्माणीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
उदु॒ ब्रह्मा॑ण्यैरत श्रव॒स्येंद्रं॑ सम॒र्ये म॑हया वसिष्ठ । आ यो विश्वा॑नि॒ शव॑सा त॒तानो॑पश्रो॒ता म॒ ईव॑तो॒ वचां॑सि ॥
उत् , ऊँ॒ इति॑ , ब्रह्मा॑णि , ऐ॒र॒त॒ , श्र॒व॒स्या , इंद्रं॑ , स॒ऽम॒र्ये , म॒ह॒य॒ , व॒सि॒ष्ठ॒ । आ , यः , विश्वा॑नि , शव॑सा , त॒तान॑ , उ॒प॒ऽश्रो॒ता , मे॒ , ईव॑तः , वचां॑सि ॥
अया॑मि॒ घोष॑ इंद्र दे॒वजा॑मिरिर॒ज्यंत॒ यच्छु॒रुधो॒ विवा॑चि । न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥
अया॑मि , घोषः॑ , इं॒द्र॒ , दे॒वऽजा॑मिः , इ॒र॒ज्यंत॑ , यत् , शु॒रुधः॑ , विऽवा॑चि । न॒हि , स्वं , आयुः॑ , चि॒कि॒ते , जने॑षु , तानि॑ , इत् , अंहां॑सि , अति॑ , प॒र्षि॒ , अ॒स्मान् ॥
यु॒जे रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः । वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेंद्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥
यु॒जे , रथं॑ , गो॒ऽएष॑णं , हरि॑ऽभ्यां , उप॑ , ब्रह्मा॑णि , जु॒जु॒षा॒णं , अ॒स्थुः॒ । वि , बा॒धि॒ष्ट॒ , स्यः , रोद॑सी॒ इति॑ , म॒हि॒ऽत्वा , इंद्रः॑ , वृ॒त्राणि॑ , अ॒प्र॒ति , ज॒घ॒न्वान् ॥
आप॑श्चित्पिप्युः स्त॒र्यो॒३॒॑ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इंद्र । या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥
आपः॑ , चि॒त् , पि॒प्युः॒ , स्त॒र्यः॑ , न , गावः॑ , नक्ष॑न् , ऋ॒तं , ज॒रि॒तारः॑ , ते॒ , इं॒द्र॒ । या॒हि , वा॒युः , न , नि॒ऽयुतः॑ , नः॒ , अच्छ॑ , त्वं , हि , धी॒भिः , दय॑से , वि , वाजा॑न् ॥
ते त्वा॒ मदा॑ इंद्र मादयंतु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे । एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिंछू॑र॒ सव॑ने मादयस्व ॥
ते , त्वा॒ , मदाः॑ , इं॒द्र॒ , मा॒द॒यं॒तु॒ , शु॒ष्मिणं॑ , तु॒वि॒ऽराध॑सं , ज॒रि॒त्रे । एकः॑ , दे॒व॒ऽत्रा , दय॑से , हि , मर्ता॑न् , अ॒स्मिन् , शू॒र॒ , सव॑ने , मा॒द॒य॒स्व॒ ॥
ए॒वेदिंद्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॑र्चंत्य॒र्कैः । स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ए॒व , इत् , इंद्रं॑ , वृष॑णं , वज्र॑ऽबाहुं , वसि॑ष्ठासः , अ॒भि , अ॒र्चं॒ति॒ , अ॒र्कैः । सः , नः॒ , स्तु॒तः , वी॒रऽव॑त् , धातु॑ , गोऽम॑त् , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[२४] योनिष्टइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
योनि॑ष्ट इंद्र॒ सद॑ने अकारि॒ तमा नृभिः॑ पुरुहूत॒ प्र या॑हि । असो॒ यथा॑ नोऽवि॒ता वृ॒धे च॒ ददो॒ वसू॑नि म॒मद॑श्च॒ सोमैः॑ ॥
योनिः॑ , ते॒ , इं॒द्र॒ , सद॑ने , अ॒का॒रि॒ , तं , आ , नृऽभिः॑ , पु॒रु॒ऽहू॒त॒ , प्र , या॒हि॒ । असः॑ , यथा॑ , नः॒ , अ॒वि॒ता , वृ॒धे , च॒ , ददः॑ , वसू॑नि , म॒मदः॑ , च॒ , सोमैः॑ ॥
गृ॒भी॒तं ते॒ मन॑ इंद्र द्वि॒बर्हाः॑ सु॒तः सोमः॒ परि॑षिक्ता॒ मधू॑नि । विसृ॑ष्टधेना भरते सुवृ॒क्तिरि॒यमिंद्रं॒ जोहु॑वती मनी॒षा ॥
गृ॒भी॒तं , ते॒ , मनः॑ , इं॒द्र॒ , द्वि॒ऽबर्हाः॑ , सु॒तः , सोमः॑ , परि॑ऽसिक्ता , मधू॑नि । विसृ॑ष्टऽधेना , भ॒र॒ते॒ , सु॒ऽवृ॒क्तिः , इ॒यं , इंद्रं॑ , जोहु॑वती , म॒नी॒षा ॥
आ नो॑ दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन्नि॒दं ब॒र्हिः सो॑म॒पेया॑य याहि । वहं॑तु त्वा॒ हर॑यो म॒द्र्यं॑चमांगू॒षमच्छा॑ त॒वसं॒ मदा॑य ॥
आ , नः॒ , दि॒वः , आ , पृ॒थि॒व्याः , ऋ॒जी॒षि॒न् , इ॒दं , ब॒र्हिः , सो॒म॒ऽपेया॑य , या॒हि॒ । वहं॑तु , त्वा॒ , हर॑यः , म॒द्र्यं॑चं , आं॒गू॒षं , अच्छ॑ , त॒वसं॑ , मदा॑य ॥
आ नो॒ विश्वा॑भिरू॒तिभिः॑ स॒जोषा॒ ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि । वरी॑वृज॒त्स्थवि॑रेभिः सुशिप्रा॒स्मे दध॒द्वृष॑णं॒ शुष्म॑मिंद्र ॥
आ , नः॒ , विश्वा॑भिः , ऊ॒तिऽभिः॑ , स॒ऽजोषाः॑ , ब्रह्म॑ , जु॒षा॒णः , ह॒रि॒ऽअ॒श्व॒ , या॒हि॒ । वरी॑वृजत् , स्थवि॑रेभिः , सु॒ऽशि॒प्र॒ , अ॒स्मे इति॑ , दध॑त् , वृष॑णं , शुष्मं॑ , इं॒द्र॒ ॥
ए॒ष स्तोमो॑ म॒ह उ॒ग्राय॒ वाहे॑ धु॒री॒३॒॑वात्यो॒ न वा॒जय॑न्नधायि । इंद्र॑ त्वा॒यम॒र्क ई॑ट्टे॒ वसू॑नां दि॒वी॑व॒ द्यामधि॑ नः॒ श्रोम॑तं धाः ॥
ए॒षः , स्तोमः॑ , म॒हे , उ॒ग्राय॑ , वाहे॑ , धु॒रिऽइ॑व , अत्यः॑ , न , वा॒जय॑न् , अ॒धा॒यि॒ । इंद्र॑ , त्वा॒ , अ॒यं , अ॒र्कः , ई॒ट्टे॒ , वसू॑नां , दि॒विऽइ॑व , द्यां , अधि॑ , नः॒ , श्रोम॑तं , धाः ॥
ए॒वा न॑ इंद्र॒ वार्य॑स्य पूर्धि॒ प्र ते॑ म॒हीं सु॑म॒तिं वे॑विदाम । इषं॑ पिन्व म॒घव॑द्भ्यः सु॒वीरां॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ए॒व , नः॒ , इं॒द्र॒ , वार्य॑स्य , पू॒र्धि॒ , प्र , ते॒ , म॒हीं , सु॒ऽम॒तिं , वे॒वि॒दा॒म॒ । इषं॑ , पि॒न्व॒ , म॒घव॑त्ऽभ्यः , सु॒ऽवीरां॑ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[२५] आतेमहइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
आ ते॑ म॒ह इं॑द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ यत्स॒मरं॑त॒ सेनाः॑ । पता॑ति दि॒द्युन्नर्य॑स्य बा॒ह्वोर्मा ते॒ मनो॑ विष्व॒द्र्य१॒॑ग्वि चा॑रीत् ॥
आ , ते॒ , म॒हः , इं॒द्र॒ , ऊ॒ती , उ॒ग्र॒ , सऽम॑न्यवः , यत् , सं॒ऽअरं॑त , सेनाः॑ । पता॑ति , दि॒द्युत् , नर्य॑स्य , बा॒ह्वोः , मा , ते॒ , मनः॑ , वि॒ष्व॒द्र्य॑क् , वि , चा॒री॒त् ॥
नि दु॒र्ग इं॑द्र श्नथिह्य॒मित्रा॑न॒भि ये नो॒ मर्ता॑सो अ॒मंति॑ । आ॒रे तं शंसं॑ कृणुहि निनि॒त्सोरा नो॑ भर सं॒भर॑णं॒ वसू॑नां ॥
नि , दुः॒ऽगे , इं॒द्र॒ , श्न॒थि॒हि॒ , अ॒मित्रा॑न् , अ॒भि , ये , नः॒ , मर्ता॑सः , अ॒मंति॑ । आ॒रे , तं , शंसं॑ , कृ॒णु॒हि॒ , नि॒नि॒त्सोः , आ , नः॒ , भ॒र॒ , सं॒ऽभर॑णं , वसू॑नां ॥
श॒तं ते॑ शिप्रिन्नू॒तयः॑ सु॒दासे॑ स॒हस्रं॒ शंसा॑ उ॒त रा॒तिर॑स्तु । ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्या॒स्मे द्यु॒म्नमधि॒ रत्नं॑ च धेहि ॥
श॒तं , ते॒ , शि॒प्रि॒न् , ऊ॒तयः॑ , सु॒ऽदासे॑ , स॒हस्रं॑ , शंसाः॑ , उ॒त , रा॒तिः , अ॒स्तु॒ । ज॒हि , वधः॑ , व॒नुषः॑ , मर्त्य॑स्य , अ॒स्मे इति॑ , द्यु॒म्नं , अधि॑ , रत्नं॑ , च॒ , धे॒हि॒ ॥
त्वाव॑तो॒ हीं॑द्र॒ क्रत्वे॒ अस्मि॒ त्वाव॑तोऽवि॒तुः शू॑र रा॒तौ । विश्वेदहा॑नि तविषीव उग्रँ॒ ओकः॑ कृणुष्व हरिवो॒ न म॑र्धीः ॥
त्वाऽव॑तः , हि , इं॒द्र॒ , क्रत्वे॑ , अस्मि॑ , त्वाऽव॑तः , अ॒वि॒तुः , शू॒र॒ , रा॒तौ । विश्वा॑ , इत् , अहा॑नि , त॒वि॒षी॒ऽवः॒ , उ॒ग्र॒ , ओकः॑ , कृ॒णु॒ष्व॒ , ह॒रि॒ऽवः॒ , न , म॒र्धीः॒ ॥
कुत्सा॑ ए॒ते हर्य॑श्वाय शू॒षमिंद्रे॒ सहो॑ दे॒वजू॑तमिया॒नाः । स॒त्रा कृ॑धि सु॒हना॑ शूर वृ॒त्रा व॒यं तरु॑त्राः सनुयाम॒ वाजं॑ ॥
कुत्साः॑ , ए॒ते , हर्यि॑ऽअश्वाय , शू॒षं , इंद्रे॑ , सहः॑ , दे॒वऽजू॑तं , इ॒या॒नाः । स॒त्रा , कृ॒धि॒ , सु॒ऽहना॑ , शू॒र॒ , वृ॒त्रा , व॒यं , तरु॑त्राः , स॒नु॒या॒म॒ , वाजं॑ ॥
ए॒वा न॑ इंद्र॒ वार्य॑स्य पूर्धि॒ प्र ते॑ म॒हीं सु॑म॒तिं वे॑विदाम । इषं॑ पिन्व म॒घव॑द्भ्यः सु॒वीरां॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ए॒व , नः॒ , इं॒द्र॒ , वार्य॑स्य , पू॒र्धि॒ , प्र , ते॒ , म॒हीं , सु॒ऽम॒तिं , वे॒वि॒दा॒म॒ । इषं॑ , पि॒न्व॒ , म॒घव॑त्ऽभ्यः , सु॒ऽवीरां॑ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[२६] नसोमइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
न सोम॒ इंद्र॒मसु॑तो ममाद॒ नाब्र॑ह्माणो म॒घवा॑नं सु॒तासः॑ । तस्मा॑ उ॒क्थं ज॑नये॒ यज्जुजो॑षन्नृ॒वन्नवी॑यः शृ॒णव॒द्यथा॑ नः ॥
न , सोमः॑ , इंद्रं॑ , असु॑तः , म॒मा॒द॒ , न , अब्र॑ह्माणः , म॒घऽवा॑नं , सु॒तासः॑ । तस्मै॑ , उ॒क्थं , ज॒न॒ये॒ , यत् , जुजो॑षत् , नृ॒ऽवत् , नवी॑यः , शृ॒णव॑त् , यथा॑ , नः॒ ॥
उ॒क्थउ॑क्थे॒ सोम॒ इंद्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑नं सु॒तासः॑ । यदीं॑ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हवं॑ते ॥
उ॒क्थेऽउ॑क्थे , सोमः॑ , इंद्रं॑ , म॒मा॒द॒ , नी॒थेऽनी॑थे , म॒घऽवा॑नं , सु॒तासः॑ । यत् , ईं॒ , स॒ऽबाधः॑ , पि॒तरं॑ , न , पु॒त्राः , स॒मा॒नऽद॑क्षाः , अव॑से , हवं॑ते ॥
च॒कार॒ ता कृ॒णव॑न्नू॒नम॒न्या यानि॑ ब्रु॒वंति॑ वे॒धसः॑ सु॒तेषु॑ । जनी॑रिव॒ पति॒रेकः॑ समा॒नो नि मा॑मृजे॒ पुर॒ इंद्रः॒ सु सर्वाः॑ ॥
च॒कार॑ , ता , कृ॒णव॑त् , नू॒नं , अ॒न्या , यानि॑ , ब्रु॒वंति॑ , वे॒धसः॑ , सु॒तेषु॑ । जनीः॑ऽइव , पतिः॑ , एकः॑ , स॒मा॒नः , नि , म॒मृ॒जे॒ , पुरः॑ , इंद्रः॑ , सु , सर्वाः॑ ॥
ए॒वा तमा॑हुरु॒त शृ॑ण्व॒ इंद्र॒ एको॑ विभ॒क्ता त॒रणि॑र्म॒घानां॑ । मि॒थ॒स्तुर॑ ऊ॒तयो॒ यस्य॑ पू॒र्वीर॒स्मे भ॒द्राणि॑ सश्चत प्रि॒याणि॑ ॥
ए॒व , तं , आ॒हुः॒ , उ॒त , शृ॒ण्वे॒ , इंद्रः॑ , एकः॑ , वि॒ऽभ॒क्ता , त॒रणिः॑ , म॒घानां॑ । मि॒थः॒ऽतुरः॑ , ऊ॒तयः॑ , यस्य॑ , पू॒र्वीः , अ॒स्मे इति॑ , भ॒द्राणि॑ , स॒श्च॒त॒ , प्रि॒याणि॑ ॥
ए॒वा वसि॑ष्ठ॒ इंद्र॑मू॒तये॒ नॄन्कृ॑ष्टी॒नां वृ॑ष॒भं सु॒ते गृ॑णाति । स॒ह॒स्रिण॒ उप॑ नो माहि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ए॒व , वसि॑ष्ठः , इंद्रं॑ , ऊ॒तये॑ , नॄन् , कृ॒ष्टी॒नां , वृ॒ष॒भं , सु॒ते , गृ॒णा॒ति॒ । स॒ह॒स्रिणः॑ , उप॑ , नः॒ , मा॒हि॒ , वाजा॑न् , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[२७] इंद्रंनरइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
इंद्रं॒ नरो॑ ने॒मधि॑ता हवंते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः । शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ॥
इंद्रं॑ , नरः॑ , ने॒मऽधि॑ता , ह॒वं॒ते॒ , यत् , पार्याः॑ , यु॒नज॑ते , धियः॑ , ताः । शूरः॑ , नृऽसा॑ता , शव॑सः , च॒का॒नः , आ , गोऽम॑ति , व्र॒जे , भ॒ज॒ , त्वं , नः॒ ॥
य इं॑द्र॒ शुष्मो॑ मघवंते॒ अस्ति॒ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्यः॑ । त्वं हि दृ॒ळ्हा म॑घव॒न्विचे॑ता॒ अपा॑ वृधि॒ परि॑वृतं॒ न राधः॑ ॥
यः , इं॒द्र॒ , शुष्मः॑ , म॒घ॒ऽव॒न् , ते॒ , अस्ति॑ , शिक्ष॑ , सखि॑ऽभ्यः , पु॒रु॒ऽहू॒त॒ , नृऽभ्यः॑ । त्वं , हि , दृ॒ळ्हा , म॒घ॒ऽव॒न् , विऽचे॑ताः , अप॑ , वृ॒धि॒ , परि॑ऽवृतं , न , राधः॑ ॥
इंद्रो॒ राजा॒ जग॑तश्चर्षणी॒नामधि॒ क्षमि॒ विषु॑रूपं॒ यदस्ति॑ । ततो॑ ददाति दा॒शुषे॒ वसू॑नि॒ चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ॥
इंद्रः॑ , राजा॑ , जग॑तः , च॒र्ष॒णी॒नां , अधि॑ , क्षमि॑ , विषु॑ऽरूपं , यत् , अस्ति॑ । ततः॑ , द॒दा॒ति॒ , दा॒शुषे॑ , वसू॑नि , चोद॑त् , राधः॑ , उप॑ऽस्तुतः , चि॒त् , अ॒र्वाक् ॥
नू चि॑न्न॒ इंद्रो॑ म॒घवा॒ सहू॑ती दा॒नो वाजं॒ नि य॑मते न ऊ॒ती । अनू॑ना॒ यस्य॒ दक्षि॑णा पी॒पाय॑ वा॒मं नृभ्यो॑ अ॒भिवी॑ता॒ सखि॑भ्यः ॥
नु , चि॒त् , नः॒ , इंद्रः॑ , म॒घऽवा॑ , सऽहू॑ती , दा॒नः , वाजं॑ , नि , य॒म॒ते॒ , नः॒ , ऊ॒ती । अनू॑ना , यस्य॑ , दक्षि॑णा , पी॒पाय॑ , वा॒मं , नृऽभ्यः॑ , अ॒भिऽवी॑ता , सखि॑ऽभ्यः ॥
नू इं॑द्र रा॒ये वरि॑वस्कृधी न॒ आ ते॒ मनो॑ ववृत्याम म॒घाय॑ । गोम॒दश्वा॑व॒द्रथ॑व॒द्व्यंतो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नु , इं॒द्र॒ , रा॒ये , वरि॑वः , कृ॒धि॒ , नः॒ , आ , ते॒ , मनः॑ , व॒वृ॒त्या॒म॒ , म॒घाय॑ । गोऽम॑त् , अश्व॑ऽवत् , रथ॑ऽवत् , व्यंतः॑ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[२८] ब्रह्माणइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
ब्रह्मा॑ ण इं॒द्रोप॑ याहि वि॒द्वान॒र्वांच॑स्ते॒ हर॑यः संतु यु॒क्ताः । विश्वे॑ चि॒द्धि त्वा॑ वि॒हवं॑त॒ मर्ता॑ अ॒स्माक॒मिच्छृ॑णुहि विश्वमिन्व ॥
ब्रह्म॑ , नः॒ , इं॒द्र॒ , उप॑ , या॒हि॒ , वि॒द्वान् , अ॒र्वांचः॑ , ते॒ , हर॑यः , सं॒तु॒ , यु॒क्ताः । विश्वे॑ , चि॒त् , हि , त्वा॒ , वि॒ऽहवं॑त , मर्ताः॑ , अ॒स्माकं॑ , इत् , शृ॒णु॒हि॒ , वि॒श्वं॒ऽइ॒न्व॒ ॥
हवं॑ त इंद्र महि॒मा व्या॑न॒ड्ब्रह्म॒ यत्पासि॑ शवसि॒न्नृषी॑णां । आ यद्वज्रं॑ दधि॒षे हस्त॑ उग्र घो॒रः सन्क्रत्वा॑ जनिष्ठा॒ अषा॑ळ्हः ॥
हवं॑ , ते॒ , इं॒द्र॒ , म॒हि॒मा , वि , आ॒न॒ट् , ब्रह्म॑ , यत् , पासि॑ , श॒व॒सि॒न् , ऋषी॑णां । आ , यत् , वज्रं॑ , द॒धि॒षे , हस्ते॑ , उ॒ग्र॒ , घो॒रः , सन् , क्रत्वा॑ , ज॒नि॒ष्ठाः॒ , अषा॑ळ्हः ॥
तव॒ प्रणी॑तींद्र॒ जोहु॑वानां॒त्सं यन्नॄन्न रोद॑सी नि॒नेथ॑ । म॒हे क्ष॒त्राय॒ शव॑से॒ हि ज॒ज्ञेऽतू॑तुजिं चि॒त्तूतु॑जिरशिश्नत् ॥
तव॑ , प्रऽनी॑ती , इं॒द्र॒ , जोहु॑वानान् , सं , यत् , नॄन् , न , रोद॑सी॒ इति॑ , नि॒नेथ॑ । म॒हे , क्ष॒त्राय॑ , शव॑से , हि , ज॒ज्ञे , अतू॑तुजिं , चि॒त् , तूतु॑जिः , अ॒शि॒श्न॒त् ॥
ए॒भिर्न॑ इं॒द्राह॑भिर्दशस्य दुर्मि॒त्रासो॒ हि क्षि॒तयः॒ पवं॑ते । प्रति॒ यच्चष्टे॒ अनृ॑तमने॒ना अव॑ द्वि॒ता वरु॑णो मा॒यी नः॑ सात् ॥
ए॒भिः , नः॒ , इं॒द्र॒ , अह॑ऽभिः , द॒श॒स्य॒ , दुः॒ऽमि॒त्रासः॑ , हि , क्षि॒तयः॑ , पवं॑ते । प्रति॑ , यत् , चष्टे॑ , अनृ॑तं , अ॒ने॒नाः , अव॑ , द्वि॒ता , वरु॑णः , मा॒यी , नः॒ , सा॒त् ॥
वो॒चेमेदिंद्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः । यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
वो॒चेम॑ , इत् , इंद्रं॑ , म॒घऽवा॑नं , ए॒नं॒ , म॒हः , रा॒यः , राध॑सः , यत् , दद॑त् , नः॒ । यः , अर्च॑तः , ब्रह्म॑ऽकृतिं , अवि॑ष्ठः , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[२९] अयंसोमइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
अ॒यं सोम॑ इंद्र॒ तुभ्यं॑ सुन्व॒ आ तु प्र या॑हि हरिव॒स्तदो॑काः । पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारो॒र्ददो॑ म॒घानि॑ मघवन्निया॒नः ॥
अ॒यं , सोमः॑ , इं॒द्र॒ , तुभ्यं॑ , सु॒न्वे॒ , आ , तु , प्र , या॒हि॒ , ह॒रि॒ऽवः॒ , तत्ऽओ॑काः । पिब॑ , तु , अ॒स्य , सुऽसु॑तस्य , चारोः॑ , ददः॑ , म॒घानि॑ , म॒घ॒ऽव॒न् , इ॒या॒नः ॥
ब्रह्म॑न्वीर॒ ब्रह्म॑कृतिं जुषा॒णो॑ऽर्वाची॒नो हरि॑भिर्याहि॒ तूयं॑ । अ॒स्मिन्नू॒ षु सव॑ने मादय॒स्वोप॒ ब्रह्मा॑णि शृणव इ॒मा नः॑ ॥
ब्रह्म॑न् , वी॒र॒ , ब्रह्म॑ऽकृतिं , जु॒षा॒णः , अ॒र्वा॒ची॒नः , हरि॑ऽभिः , या॒हि॒ , तूयं॑ । अ॒स्मिन् , ऊँ॒ इति॑ , सु , सव॑ने , मा॒द॒य॒स्व॒ , उप॑ , ब्रह्मा॑णि , शृ॒ण॒वः॒ , इ॒मा , नः॒ ॥
का ते॑ अ॒स्त्यरं॑कृतिः सू॒क्तैः क॒दा नू॒नं ते॑ मघवंदाशेम । विश्वा॑ म॒तीरा त॑तने त्वा॒याधा॑ म इंद्र शृणवो॒ हवे॒मा ॥
का , ते॒ , अ॒स्ति॒ , अरं॑ऽकृतिः , सु॒ऽउ॒क्तैः , क॒दा , नू॒नं , ते॒ , म॒घ॒ऽव॒न् , दा॒शे॒म॒ । विश्वाः॑ , म॒तीः , आ , त॒त॒ने॒ , त्वा॒ऽया , अध॑ , मे॒ , इं॒द्र॒ , शृ॒ण॒वः॒ , हवा॑ , इ॒मा ॥
उ॒तो घा॒ ते पु॑रु॒ष्या॒३॒॑ इदा॑स॒न्येषां॒ पूर्वे॑षा॒मशृ॑णो॒र्ऋषी॑णां । अधा॒हं त्वा॑ मघवंजोहवीमि॒ त्वं न॑ इंद्रासि॒ प्रम॑तिः पि॒तेव॑ ॥
उ॒तो इति॑ , घ॒ , ते , पु॒रु॒ष्याः॑ , इत् , आ॒स॒न् , येषां॑ , पूर्वे॑षां , अ॒शृ॒णोः॒ , ऋषी॑णां । अध॑ , अ॒हं , त्वा॒ , म॒घ॒ऽव॒न् , जो॒ह॒वी॒मि॒ , त्वं , नः॒ , इं॒द्र॒ , अ॒सि॒ , प्रऽम॑तिः , पि॒ताऽइ॑व ॥
वो॒चेमेदिंद्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः । यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
वो॒चेम॑ , इत् , इंद्रं॑ , म॒घऽवा॑नं , ए॒नं॒ , म॒हः , र॒यः , राध॑सः , यत् , दद॑त् , नः॒ । यः , अर्च॑तः , ब्रह्म॑ऽकृतिं , अवि॑ष्ठः , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[३०] आनोदेवइति पंचर्चस्य मैत्रावरुणिर्वसिष्ठइंद्रस्त्रिष्टुप् |
आ नो॑ देव॒ शव॑सा याहि शुष्मि॒न्भवा॑ वृ॒ध इं॑द्र रा॒यो अ॒स्य । म॒हे नृ॒म्णाय॑ नृपते सुवज्र॒ महि॑ क्ष॒त्राय॒ पौंस्या॑य शूर ॥
आ , नः॒ , दे॒व॒ , शव॑सा , या॒हि॒ , शु॒ष्मि॒न् , भव॑ , वृ॒धः , इं॒द्र॒ , रा॒यः , अ॒स्य । म॒हे , नृ॒म्णाय॑ , नृ॒ऽप॒ते॒ , सु॒ऽव॒ज्र॒ , महि॑ , क्ष॒त्राय॑ , पौंस्या॑य , शू॒र॒ ॥
हवं॑त उ त्वा॒ हव्यं॒ विवा॑चि त॒नूषु॒ शूराः॒ सूर्य॑स्य सा॒तौ । त्वं विश्वे॑षु॒ सेन्यो॒ जने॑षु॒ त्वं वृ॒त्राणि॑ रंधया सु॒हंतु॑ ॥
हवं॑ते , ऊँ॒ इति॑ , त्वा॒ , हव्यं॑ , विऽवा॑चि , त॒नूषु॑ , शूराः॑ , सूर्य॑स्य , सा॒तौ । त्वं , विश्वे॑षु , सेन्यः॑ , जने॑षु , त्वं , वृ॒त्राणि॑ , रं॒ध॒य॒ , सु॒ऽहंतु॑ ॥
अहा॒ यदिं॑द्र सु॒दिना॑ व्यु॒च्छांदधो॒ यत्के॒तुमु॑प॒मं स॒मत्सु॑ । न्य१॒॑ग्निः सी॑द॒दसु॑रो॒ न होता॑ हुवा॒नो अत्र॑ सु॒भगा॑य दे॒वान् ॥
अहा॑ , यत् , इं॒द्र॒ , सु॒ऽदिना॑ , वि॒ऽउ॒च्छान् , दधः॑ , यत् , के॒तुं , उ॒प॒ऽमं , स॒मत्ऽसु॑ । नि , अ॒ग्निः , सी॒द॒त् , असु॑रः , न , होता॑ , हु॒वा॒नः , अत्र॑ , सु॒ऽभगा॑य , दे॒वान् ॥
व॒यं ते त॑ इंद्र॒ ये च॑ देव॒ स्तवं॑त शूर॒ दद॑तो म॒घानि॑ । यच्छा॑ सू॒रिभ्य॑ उप॒मं वरू॑थं स्वा॒भुवो॑ जर॒णाम॑श्नवंत ॥
व॒यं , ते , ते॒ , इं॒द्र॒ , ये , च॒ , दे॒व॒ , स्तवं॑त , शू॒र॒ , दद॑तः , म॒घानि॑ । यच्छ॑ , सू॒रिऽभ्यः॑ , उ॒प॒ऽमं , वरू॑थं , सु॒ऽआ॒भुवः॑ , ज॒र॒णां , अ॒श्न॒वं॒त॒ ॥
वो॒चेमेदिंद्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः । यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
वो॒चेम॑ , इत् , इंद्रं॑ , म॒घऽवा॑नं , ए॒नं॒ , म॒हः , रा॒यः , राध॑सः , यत् , दद॑त् , नः॒ । यः , अर्च॑तः , ब्रह्म॑ऽकृतिं , अवि॑ष्ठः , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[३१] प्रवइंद्रायेति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोगायत्र्यंत्यास्तिस्रोविराट् |
प्र व॒ इंद्रा॑य॒ माद॑नं॒ हर्य॑श्वाय गायत । सखा॑यः सोम॒पाव्ने॑ ॥
प्र , वः॒ , इंद्रा॑य , माद॑नं , हरि॑ऽअश्वाय , गा॒य॒त॒ । सखा॑यः , सो॒म॒ऽपाव्ने॑ ॥
शंसेदु॒क्थं सु॒दान॑व उ॒त द्यु॒क्षं यथा॒ नरः॑ । च॒कृ॒मा स॒त्यरा॑धसे ॥
शंस॑ , इत् , उ॒क्थं , सु॒ऽदान॑वे , उ॒त , द्यु॒क्षं , यथा॑ , नरः॑ । च॒कृ॒म , स॒त्यऽरा॑धसे ॥
त्वं न॑ इंद्र वाज॒युस्त्वं ग॒व्युः श॑तक्रतो । त्वं हि॑रण्य॒युर्व॑सो ॥
त्वं , नः॒ , इं॒द्र॒ , वा॒ज॒ऽयुः , त्वं , ग॒व्युः , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । त्वं , हि॒र॒ण्य॒ऽयुः , व॒सो॒ इति॑ ॥
व॒यमिं॑द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन् । वि॒द्धी त्व१॒॑स्य नो॑ वसो ॥
व॒यं , इं॒द्र॒ , त्वा॒ऽयवः॑ , अ॒भि , प्र , नो॒नु॒मः॒ , वृ॒ष॒न् । वि॒द्धि , तु , अ॒स्य , नः॒ , व॒सो॒ इति॑ ॥
मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो रं॑धी॒ररा॑व्णे । त्वे अपि॒ क्रतु॒र्मम॑ ॥
मा , नः॒ , नि॒दे , च॒ , वक्त॑वे , अ॒र्यः , रं॒धीः॒ , अरा॑व्णे । त्वे इति॑ , अपि॑ , क्रतुः॑ , मम॑ ॥
त्वं वर्मा॑सि स॒प्रथः॑ पुरोयो॒धश्च॑ वृत्रहन् । त्वया॒ प्रति॑ ब्रुवे यु॒जा ॥
त्वं , वर्म॑ , अ॒सि॒ , स॒ऽप्रथः॑ , पु॒रः॒ऽयो॒धः , च॒ , वृ॒त्र॒ऽह॒न् । त्वया॑ , प्रति॑ , ब्रु॒वे॒ , यु॒जा ॥
म॒हाँ उ॒तासि॒ यस्य॒ तेऽनु॑ स्व॒धाव॑री॒ सहः॑ । म॒म्नाते॑ इंद्र॒ रोद॑सी ॥
म॒हान् , उ॒त , अ॒सि॒ , यस्य॑ , ते॒ , अनु॑ , स्व॒धाव॑री॒ इति॑ स्व॒धाऽव॑री , सहः॑ । म॒म्नाते॒ इति॑ , इं॒द्र॒ , रोद॑सी॒ इति॑ ॥
तं त्वा॑ म॒रुत्व॑ती॒ परि॒ भुव॒द्वाणी॑ स॒याव॑री । नक्ष॑माणा स॒ह द्युभिः॑ ॥
तं , त्वा॒ , म॒रुत्व॑ती , परि॑ , भुव॑त् , वाणी॑ , स॒ऽयाव॑री । नक्ष॑माणा , स॒ह , द्युऽभिः॑ ॥
ऊ॒र्ध्वास॒स्त्वान्विंद॑वो॒ भुवं॑द॒स्ममुप॒ द्यवि॑ । सं ते॑ नमंत कृ॒ष्टयः॑ ॥
ऊ॒र्ध्वासः॑ , त्वा॒ , अनु॑ , इंद॑वः , भुव॑न् , द॒स्मं , उप॑ , द्यवि॑ । सं , ते॒ , न॒मं॒त॒ , कृ॒ष्टयः॑ ॥
प्र वो॑ म॒हे म॑हि॒वृधे॑ भरध्वं॒ प्रचे॑तसे॒ प्र सु॑म॒तिं कृ॑णुध्वं । विशः॑ पू॒र्वीः प्र च॑रा चर्षणि॒प्राः ॥
प्र , वः॒ , म॒हे , म॒हि॒ऽवृधे॑ , भ॒र॒ध्वं॒ , प्रऽचे॑तसे , प्र , सु॒ऽम॒तिं , कृ॒णु॒ध्वं॒ । विशः॑ , पू॒र्वीः , प्र , च॒र॒ , च॒र्ष॒णि॒ऽप्राः ॥
उ॒रु॒व्यच॑से म॒हिने॑ सुवृ॒क्तिमिंद्रा॑य॒ ब्रह्म॑ जनयंत॒ विप्राः॑ । तस्य॑ व्र॒तानि॒ न मि॑नंति॒ धीराः॑ ॥
उ॒रु॒ऽव्यच॑से , म॒हिने॑ , सु॒ऽवृ॒क्तिं , इंद्रा॑य , ब्रह्म॑ , ज॒न॒यं॒त॒ , विप्राः॑ । तस्य॑ , व्र॒तानि॑ , न , मि॒नं॒ति॒ , धीराः॑ ॥
इंद्रं॒ वाणी॒रनु॑त्तमन्युमे॒व स॒त्रा राजा॑नं दधिरे॒ सह॑ध्यै । हर्य॑श्वाय बर्हया॒ समा॒पीन् ॥
इंद्रं॑ , वाणीः॑ , अनु॑त्तऽमन्युं , ए॒व , स॒त्रा , राजा॑नं , द॒धि॒रे॒ , सह॑ध्यै । हरि॑ऽअश्वाय , ब॒र्ह॒य॒ , सं , आ॒पीन् ॥
[३२] मोषुत्वेति सप्तविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रः प्रथमाचतुर्थीषष्ठ्यादियुगृचश्चबृहत्यः द्वितीयापंचम्याद्ययुगृचश्चसतोबृहत्यः रायस्कामइतितृतीयाद्विपदाविराट् (इंद्रऋतुंनइत्यर्धचोवासिष्ठः शक्तिऋषिरितिशाट्यायनब्राह्मणं, इंद्रक्रतुंनइत्रृयग्द्वयात्मकस्यशक्तिऋषिरितितांडकब्राह्मणं) |
मो षु त्वा॑ वा॒घत॑श्च॒नारे अ॒स्मन्नि री॑रमन् । आ॒रात्ता॑च्चित्सध॒मादं॑ न॒ आ ग॑ही॒ह वा॒ सन्नुप॑ श्रुधि ॥
मो इति॑ , सु , त्वा॒ , वा॒घतः॑ , च॒न , आ॒रे , अ॒स्मत् , नि , री॒र॒म॒न् । आ॒रात्ता॑त् , चि॒त् , स॒ध॒ऽमादं॑ , नः॒ , आ , ग॒हि॒ , इ॒ह , वा॒ , सन् , उप॑ , श्रु॒धि॒ ॥
इ॒मे हि ते॑ ब्रह्म॒कृतः॑ सु॒ते सचा॒ मधौ॒ न मक्ष॒ आस॑ते । इंद्रे॒ कामं॑ जरि॒तारो॑ वसू॒यवो॒ रथे॒ न पाद॒मा द॑धुः ॥
इ॒मे , हि , ते॒ , ब्र॒ह्म॒ऽकृतः॑ , सु॒ते , सचा॑ , मधौ॑ , न , मक्षः॑ , आस॑ते । इंद्रे॑ , कामं॑ , ज॒रि॒तारः॑ , व॒सु॒ऽयवः॑ , रथे॑ , न , पादं॑ , आ , द॒धुः॒ ॥
रा॒यस्का॑मो॒ वज्र॑हस्तं सु॒दक्षि॑णं पु॒त्रो न पि॒तरं॑ हुवे ॥
रा॒यःऽका॑मः , वज्र॑ऽहस्तं , सु॒ऽदक्षि॑णं , पु॒त्रः , न , पि॒तरं॑ , हु॒वे॒ ॥ ।
इ॒म इंद्रा॑य सुन्विरे॒ सोमा॑सो॒ दध्या॑शिरः । ताँ आ मदा॑य वज्रहस्त पी॒तये॒ हरि॑भ्यां या॒ह्योक॒ आ ॥
इ॒मे , इंद्रा॑य , सु॒न्वि॒रे॒ , सोमा॑सः , दधि॑ऽआशिरः । तान् , आ , मदा॑य , व॒ज्र॒ऽह॒स्त॒ , पी॒तये॑ , हरि॑ऽभ्यां , या॒हि॒ , ओकः॑ , आ ॥
श्रव॒च्छ्रुत्क॑र्ण ईयते॒ वसू॑नां॒ नू चि॑न्नो मर्धिष॒द्गिरः॑ । स॒द्यश्चि॒द्यः स॒हस्रा॑णि श॒ता दद॒न्नकि॒र्दित्सं॑त॒मा मि॑नत् ॥
श्रव॑त् , श्रुत्ऽक॑र्णः , ई॒य॒ते॒ , वसू॑नां , नु , चि॒त् , नः॒ , म॒र्धि॒ष॒त् , गिरः॑ । स॒द्यः , चि॒त् , यः , स॒हस्रा॑णि , श॒ता , दद॑त् , नकिः॑ , दित्सं॑तं , आ , मि॒न॒त् ॥
स वी॒रो अप्र॑तिष्कुत॒ इंद्रे॑ण शूशुवे॒ नृभिः॑ । यस्ते॑ गभी॒रा सव॑नानि वृत्रहंत्सु॒नोत्या च॒ धाव॑ति ॥
सः , वी॒रः , अप्र॑तिऽस्कुतः , इंद्रे॑ण , शू॒शु॒वे॒ , नृऽभिः॑ । यः , ते॒ , ग॒भी॒रा , सव॑नानि , वृ॒त्र॒ऽह॒न् , सु॒नोति॑ , आ , च॒ , धाव॑ति ॥
भवा॒ वरू॑थं मघवन्म॒घोनां॒ यत्स॒मजा॑सि॒ शर्ध॑तः । वि त्वाह॑तस्य॒ वेद॑नं भजेम॒ह्या दू॒णाशो॑ भरा॒ गयं॑ ॥
भव॑ , वरू॑थं , म॒घ॒ऽव॒न् , म॒घोनां॑ , यत् , सं॒ऽअजा॑सि , शर्ध॑तः । वि , त्वाऽह॑तस्य , वेद॑नं , भ॒जे॒म॒हि॒ , आ , दुः॒ऽनशः॑ , भ॒र॒ , गयं॑ ॥
सु॒नोता॑ सोम॒पाव्ने॒ सोम॒मिंद्रा॑य व॒ज्रिणे॑ । पच॑ता प॒क्तीरव॑से कृणु॒ध्वमित्पृ॒णन्नित्पृ॑ण॒ते मयः॑ ॥
सु॒नोत॑ , सो॒म॒ऽपाव्ने॑ , सोमं॑ , इंद्रा॑य , व॒ज्रिणे॑ । पच॑त , प॒क्तीः , अव॑से , कृ॒णु॒ध्वं , इत् , पृ॒णन् , इत् , पृ॒ण॒ते , मयः॑ ॥
मा स्रे॑धत सोमिनो॒ दक्ष॑ता म॒हे कृ॑णु॒ध्वं रा॒य आ॒तुजे॑ । त॒रणि॒रिज्ज॑यति॒ क्षेति॒ पुष्य॑ति॒ न दे॒वासः॑ कव॒त्नवे॑ ॥
मा , स्रे॒ध॒त॒ , सो॒मि॒नः॒ , दक्ष॑त , म॒हे , कृ॒णु॒ध्वं , रा॒ये , आ॒ऽतुजे॑ । त॒रणिः॑ , इत् , ज॒य॒ति॒ , क्षेति॑ , पुष्य॑ति , न , दे॒वासः॑ , क॒व॒त्नवे॑ ॥
नकिः॑ सु॒दासो॒ रथं॒ पर्या॑स॒ न री॑रमत् । इंद्रो॒ यस्या॑वि॒ता यस्य॑ म॒रुतो॒ गम॒त्स गोम॑ति व्र॒जे ॥
नकिः॑ , सु॒ऽदासः॑ , रथं॑ , परि॑ , आ॒स॒ , न , री॒र॒म॒त् । इंद्रः॑ , यस्य॑ , अ॒वि॒ता , यस्य॑ , म॒रुतः॑ , गम॑त् , सः , गोऽम॑ति , व्र॒जे ॥
गम॒द्वाजं॑ वा॒जय॑न्निंद्र॒ मर्त्यो॒ यस्य॒ त्वम॑वि॒ता भुवः॑ । अ॒स्माकं॑ बोध्यवि॒ता रथा॑नाम॒स्माकं॑ शूर नृ॒णां ॥
गम॑त् , वाजं॑ , वा॒जय॑न् , इं॒द्र॒ , मर्त्यः॑ , यस्य॑ , त्वं , अ॒वि॒ता , भुवः॑ । अ॒स्माकं॑ , बो॒धि॒ , अ॒वि॒ता , रथा॑नां , अ॒स्माकं॑ , शू॒र॒ , नृ॒णां ॥
उदिन्न्व॑स्य रिच्य॒तेंऽशो॒ धनं॒ न जि॒ग्युषः॑ । य इंद्रो॒ हरि॑वा॒न्न द॑भंति॒ तं रिपो॒ दक्षं॑ दधाति सो॒मिनि॑ ॥
उत् , इत् , नु , अ॒स्य॒ , रि॒च्य॒ते॒ , अंशः॑ , धनं॑ , न , जि॒ग्युषः॑ । यः , इंद्रः॑ , हरि॑ऽवान् , न , द॒भं॒ति॒ , तं , रिपः॑ , दक्षं॑ , द॒धा॒ति॒ , सो॒मिनि॑ ॥
मंत्र॒मख॑र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा॑त य॒ज्ञिये॒ष्वा । पू॒र्वीश्च॒न प्रसि॑तयस्तरंति॒ तं य इंद्रे॒ कर्म॑णा॒ भुव॑त् ॥
मंत्रं॑ , अख॑र्वं , सुऽधि॑तं , सु॒ऽपेश॑सं , दधा॑त , य॒ज्ञिये॑षु , आ । पू॒र्वीः , च॒न , प्रऽसि॑तयः , त॒रं॒ति॒ , तं , यः , इंद्रे॑ , कर्म॑णा , भुव॑त् ॥
कस्तमिं॑द्र॒ त्वाव॑सु॒मा मर्त्यो॑ दधर्षति । श्र॒द्धा इत्ते॑ मघव॒न्पार्ये॑ दि॒वि वा॒जी वाजं॑ सिषासति ॥
कः , तं , इं॒द्र॒ , त्वाऽव॑सुं , आ , मर्त्यः॑ , द॒ध॒र्ष॒ति॒ । श्र॒द्धा , इत् , ते॒ , म॒घ॒ऽव॒न् , पार्ये॑ , दि॒वि , वा॒जी , वाजं॑ , सि॒सा॒स॒ति॒ ॥
म॒घोनः॑ स्म वृत्र॒हत्ये॑षु चोदय॒ ये दद॑ति प्रि॒या वसु॑ । तव॒ प्रणी॑ती हर्यश्व सू॒रिभि॒र्विश्वा॑ तरेम दुरि॒ता ॥
म॒घोनः॑ , स्म॒ , वृ॒त्र॒ऽहत्ये॑षु , चो॒द॒य॒ , ये , दद॑ति , प्रि॒या , वसु॑ । तव॑ , प्रऽनी॑ती , ह॒रि॒ऽअ॒श्व॒ , सू॒रिऽभिः॑ , विश्वा॑ , त॒रे॒म॒ , दुः॒ऽइ॒ता ॥
तवेदिं॑द्राव॒मं वसु॒ त्वं पु॑ष्यसि मध्य॒मं । स॒त्रा विश्व॑स्य पर॒मस्य॑ राजसि॒ नकि॑ष्ट्वा॒ गोषु॑ वृण्वते ॥
तव॑ , इत् , इं॒द्र॒ , अ॒व॒मं , वसु॑ , त्वं , पु॒ष्य॒सि॒ , म॒ध्य॒मं । स॒त्रा , विश्व॑स्य , प॒र॒मस्य॑ , रा॒ज॒सि॒ , नकिः॑ , त्वा॒ , गोषु॑ , वृ॒ण्व॒ते॒ ॥
त्वं विश्व॑स्य धन॒दा अ॑सि श्रु॒तो य ईं॒ भवं॑त्या॒जयः॑ । तवा॒यं विश्वः॑ पुरुहूत॒ पार्थि॑वोऽव॒स्युर्नाम॑ भिक्षते ॥
त्वं , विश्व॑स्य , ध॒न॒ऽदाः , अ॒सि॒ , श्रु॒तः , ये , ईं॒ , भवं॑ति , आ॒जयः॑ । तव॑ , अ॒यं , विश्वः॑ , पु॒रु॒ऽहू॒त॒ , पार्थि॑वः , अ॒व॒स्युः , नाम॑ , भि॒क्ष॒ते॒ ॥
यदिं॑द्र॒ याव॑त॒स्त्वमे॒ताव॑द॒हमीशी॑य । स्तो॒तार॒मिद्दि॑धिषेय रदावसो॒ न पा॑प॒त्वाय॑ रासीय ॥
यत् , इं॒द्र॒ , याव॑तः , त्वं , ए॒ताव॑त् , अ॒हं , ईशी॑य । स्तो॒तारं॑ , इत् , दि॒धि॒षे॒य॒ , र॒द॒व॒सो॒ इति॑ रदऽवसो , न , पा॒प॒ऽत्वाय॑ , रा॒सी॒य॒ ॥
शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑ । न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ॥
शिक्षे॑यं , इत् , म॒ह॒ऽय॒ते , दि॒वेऽदि॑वे , रा॒यः , आ , कु॒ह॒चि॒त्ऽविदे॑ । न॒हि , त्वत् , अ॒न्यत् , म॒घ॒ऽव॒न् , नः॒ , आप्यं॑ , वस्यः॑ , अस्ति॑ , पि॒ता , च॒न ॥
त॒रणि॒रित्सि॑षासति॒ वाजं॒ पुरं॑ध्या यु॒जा । आ व॒ इंद्रं॑ पुरुहू॒तं न॑मे गि॒रा ने॒मिं तष्टे॑व सु॒द्र्वं॑ ॥
त॒रणिः॑ , इत् , सि॒सा॒स॒ति॒ , वाजं॑ , पुरं॑ऽध्या , यु॒जा । आ , वः॒ , इंद्रं॑ , पु॒रु॒ऽहू॒तं , न॒मे॒ , गि॒रा , ने॒मिं , तष्टा॑ऽइव , सु॒ऽद्र्वं॑ ॥
न दु॑ष्टु॒ती मर्त्यो॑ विंदते॒ वसु॒ न स्रेधं॑तं र॒यिर्न॑शत् । सु॒शक्ति॒रिन्म॑घवं॒तुभ्यं॒ माव॑ते दे॒ष्णं यत्पार्ये॑ दि॒वि ॥
न , दुः॒ऽस्तु॒ती , मर्त्यः॑ , विं॒द॒ते॒ , वसु॑ , न , स्रेधं॑तं , र॒यिः , न॒श॒त् । सु॒ऽशक्तिः॑ , इत् , म॒घ॒ऽव॒न् , तुभ्यं॑ , माऽव॑ते , दे॒ष्णं , यत् , पार्ये॑ , दि॒वि ॥
अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑ । ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिंद्र त॒स्थुषः॑ ॥
अ॒भि , त्वा॒ , शू॒र॒ , नो॒नु॒मः॒ , अदु॑ग्धाःऽइव , धे॒नवः॑ । ईशा॑नं , अ॒स्य , जग॑तः , स्वः॒ऽदृशं॑ , ईशा॑नं , इं॒द्र॒ , त॒स्थुषः॑ ॥
न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते । अ॒श्वा॒यंतो॑ मघवन्निंद्र वा॒जिनो॑ ग॒व्यंत॑स्त्वा हवामहे ॥
न , त्वाऽवा॑न् , अ॒न्यः , दि॒व्यः , न , पार्थि॑वः , न , जा॒तः , न , ज॒नि॒ष्य॒ते॒ । अ॒श्व॒ऽयंतः॑ , म॒घ॒ऽव॒न् , इं॒द्र॒ , वा॒जिनः॑ , ग॒व्यंतः॑ , त्वा॒ , ह॒वा॒म॒हे॒ ॥
अ॒भी ष॒तस्तदा भ॒रेंद्र॒ ज्यायः॒ कनी॑यसः । पु॒रू॒वसु॒र्हि म॑घवंत्स॒नादसि॒ भरे॑भरे च॒ हव्यः॑ ॥
अ॒भि , स॒तः , तत् , आ , भ॒र॒ , इंद्र॑ , ज्यायः॑ , कनी॑यसः । पु॒रु॒ऽवसुः॑ , हि , म॒घ॒ऽव॒न् , स॒नात् , असि॑ , भरे॑ऽभरे , च॒ , हव्यः॑ ॥
परा॑ णुदस्व मघवन्न॒मित्रां॑त्सु॒वेदा॑ नो॒ वसू॑ कृधि । अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने भवा॑ वृ॒धः सखी॑नां ॥
परा॑ , नु॒द॒स्व॒ , म॒घ॒ऽव॒न् , अ॒मित्रा॑न् , सु॒ऽवेदा॑ , नः॒ , वसु॑ , कृ॒धि॒ । अ॒स्माकं॑ , बो॒धि॒ , अ॒वि॒ता , म॒हा॒ऽध॒ने , भव॑ , वृ॒धः , सखी॑नां ॥
इंद्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ । शिक्षा॑ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ॥
इंद्र॑ , क्रतुं॑ , नः॒ , आ , भ॒र॒ , पि॒ता , पु॒त्रेभ्यः॑ , यथा॑ । शिक्ष॑ , नः॒ , अ॒स्मिन् , पु॒रु॒ऽहू॒त॒ , याम॑नि , जी॒वाः , ज्योतिः॑ , अ॒शी॒म॒हि॒ ॥
मा नो॒ अज्ञा॑ता वृ॒जना॑ दुरा॒ध्यो॒३॒॑ माशि॑वासो॒ अव॑ क्रमुः । त्वया॑ व॒यं प्र॒वतः॒ शश्व॑तीर॒पोऽति॑ शूर तरामसि ॥
मा , नः॒ , अज्ञा॑ताः , वृ॒जनाः॑ , दुः॒ऽआ॒ध्यः॑ , मा , अशि॑वासः , अव॑ , क्र॒मुः॒ । त्वया॑ , व॒यं , प्र॒ऽवतः॑ , शश्व॑तीः , अ॒पः , अति॑ , शू॒र॒ , त॒रा॒म॒सि॒ ॥
[३३] श्वित्यंचइति चतुर्दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः आद्यानांपंचानां वसिष्ठपुत्राऋषयः आद्यानांनवानां वसिष्ठपुत्रादेवताः अंत्यानांपंचानांवसिष्टोदेवतात्रिष्टुप् (आद्यानांनवानामिंद्रोदेवता अंत्यानांपंचानां वसिष्ठोदेवता व्यत्यासेनमिथस्तौवाऋषी) |
श्वि॒त्यंचो॑ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो॑ अ॒भि हि प्र॑मं॒दुः । उ॒त्तिष्ठ॑न्वोचे॒ परि॑ ब॒र्हिषो॒ नॄन्न मे॑ दू॒रादवि॑तवे॒ वसि॑ष्ठाः ॥
श्वि॒त्यंचः॑ , मा , द॒क्षि॒ण॒तःऽक॑पर्दाः , धि॒यं॒ऽजि॒न्वासः॑ , अ॒भि , हि , प्र॒ऽमं॒दुः । उ॒त्ऽतिष्ठ॑न् , वो॒चे॒ , परि॑ , ब॒र्हिषः॑ , नॄन् , न , मे॒ , दू॒रात् , अवि॑तवे , वसि॑ष्ठाः ॥
दू॒रादिंद्र॑मनय॒न्ना सु॒तेन॑ ति॒रो वै॑शं॒तमति॒ पांत॑मु॒ग्रं । पाश॑द्युम्नस्य वाय॒तस्य॒ सोमा॑त्सु॒तादिंद्रो॑ऽवृणीता॒ वसि॑ष्ठान् ॥
दू॒रात् , इंद्रं॑ , अ॒न॒य॒न् , आ , सु॒तेन॑ , ति॒रः , वै॒शं॒तं , अति॑ , पांतं॑ , उ॒ग्रं । पाश॑ऽद्युम्नस्य , वा॒य॒तस्य॑ , सोमा॑त् , सु॒तात् , इंद्रः॑ , अ॒वृ॒णी॒त॒ , वसि॑ष्ठान् ॥
ए॒वेन्नु कं॒ सिंधु॑मेभिस्ततारे॒वेन्नु कं॑ भे॒दमे॑भिर्जघान । ए॒वेन्नु कं॑ दाशरा॒ज्ञे सु॒दासं॒ प्राव॒दिंद्रो॒ ब्रह्म॑णा वो वसिष्ठाः ॥
ए॒व , इत् , नु , कं॒ , सिंधुं॑ , ए॒भिः॒ , त॒ता॒र॒ , ए॒व , इत् , नु , कं॒ , भे॒दं , ए॒भिः॒ , ज॒घा॒न॒ । ए॒व , इत् , नु , कं॒ , दा॒श॒ऽरा॒ज्ञे , सु॒ऽदासं॑ , प्र , आ॒व॒त् , इंद्रः॑ , ब्रह्म॑णा , वः॒ , व॒सि॒ष्ठाः॒ ॥
जुष्टी॑ नरो॒ ब्रह्म॑णा वः पितॄ॒णामक्ष॑मव्ययं॒ न किला॑ रिषाथ । यच्छक्व॑रीषु बृह॒ता रवे॒णेंद्रे॒ शुष्म॒मद॑धाता वसिष्ठाः ॥
जुष्टी॑ , न॒रः॒ , ब्रह्म॑णा , वः॒ , पि॒तॄ॒णां , अक्षं॑ , अ॒व्य॒यं॒ , न , किल॑ , रि॒षा॒थ॒ । यत् , शक्व॑रीषु , बृ॒ह॒ता , रवे॑ण , इंद्रे॑ , शुष्मं॑ , अद॑धात , व॒सि॒ष्ठाः॒ ॥
उद्द्यामि॒वेत्तृ॒ष्णजो॑ नाथि॒तासोऽदी॑धयुर्दाशरा॒ज्ञे वृ॒तासः॑ । वसि॑ष्ठस्य स्तुव॒त इंद्रो॑ अश्रोदु॒रुं तृत्सु॑भ्यो अकृणोदु लो॒कं ॥
उत् , द्यांऽइ॑व , इत् , तृ॒ष्णऽजः॑ , ना॒थि॒तासः॑ , अदी॑धयुः , दा॒श॒ऽरा॒ज्ञे , वृ॒तासः॑ । वसि॑ष्ठस्य , स्तु॒व॒तः , इंद्रः॑ , अ॒श्रो॒त् , उ॒रुं , तृत्सु॑ऽभ्यः , अ॒कृ॒णो॒त् , ऊँ॒ इति॑ , लो॒कं ॥
दं॒डा इ॒वेद्गो॒अज॑नास आस॒न्परि॑च्छिन्ना भर॒ता अ॑र्भ॒कासः॑ । अभ॑वच्च पुरए॒ता वसि॑ष्ठ॒ आदित्तृत्सू॑नां॒ विशो॑ अप्रथंत ॥
दं॒डाःऽइ॑व , इत् , गो॒ऽअज॑नासः , आ॒स॒न् , परि॑ऽछिन्नाः , भ॒र॒ताः , अ॒र्भ॒कासः॑ । अभ॑वत् , च॒ , पु॒रः॒ऽए॒ता , वसि॑ष्ठः , आत् , इत् , तृत्सू॑नां , विशः॑ , अ॒प्र॒थं॒त॒ ॥
त्रयः॑ कृण्वंति॒ भुव॑नेषु॒ रेत॑स्ति॒स्रः प्र॒जा आर्या॒ ज्योति॑रग्राः । त्रयो॑ घ॒र्मास॑ उ॒षसं॑ सचंते॒ सर्वाँ॒ इत्ताँ अनु॑ विदु॒र्वसि॑ष्ठाः ॥
त्रयः॑ , कृ॒ण्वं॒ति॒ , भुव॑नेषु , रेतः॑ , ति॒स्रः , प्र॒ऽजाः , आर्याः॑ , ज्योतिः॑ऽअग्राः । त्रयः॑ , घ॒र्मासः॑ , उ॒षसं॑ , स॒चं॒ते॒ , सर्वा॑न् , इत् , तान् , अनु॑ , वि॒दुः॒ , वसि॑ष्ठाः ॥
सूर्य॑स्येव व॒क्षथो॒ ज्योति॑रेषां समु॒द्रस्ये॑व महि॒मा ग॑भी॒रः । वात॑स्येव प्रज॒वो नान्येन॒ स्तोमो॑ वसिष्ठा॒ अन्वे॑तवे वः ॥
सूर्य॑स्यऽइव , व॒क्षथः॑ , ज्योतिः॑ , ए॒षां॒ , स॒मु॒द्रस्य॑ऽइव , म॒हि॒मा , ग॒भी॒रः । वात॑स्यऽइव , प्र॒ऽज॒वः , न , अ॒न्येन॑ , स्तोमः॑ , व॒सि॒ष्ठाः॒ , अनु॑ऽएतवे , वः॒ ॥
त इन्नि॒ण्यं हृद॑यस्य प्रके॒तैः स॒हस्र॑वल्शम॒भि सं च॑रंति । य॒मेन॑ त॒तं प॑रि॒धिं वयं॑तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ॥
ते , इत् , नि॒ण्यं , हृद॑यस्य , प्र॒ऽके॒तैः , स॒हस्र॑ऽवल्शं , अ॒भि , सं , च॒रं॒ति॒ । य॒मेन॑ , त॒तं , प॒रि॒ऽधिं , वयं॑तः , अ॒प्स॒रसः॑ , उप॑ , से॒दुः॒ , वसि॑ष्ठाः ॥
वि॒द्युतो॒ ज्योतिः॒ परि॑ सं॒जिहा॑नं मि॒त्रावरु॑णा॒ यदप॑श्यतां त्वा । तत्ते॒ जन्मो॒तैकं॑ वसिष्ठा॒गस्त्यो॒ यत्त्वा॑ वि॒श आ॑ज॒भार॑ ॥
वि॒ऽद्युतः॑ , ज्योतिः॑ , परि॑ , सं॒ऽजिहा॑नं , मि॒त्रावरु॑णा , यत् , अप॑श्यतां , त्वा॒ । तत् , ते॒ , जन्म॑ , उ॒त , एकं॑ , व॒सि॒ष्ठ॒ , अ॒गस्त्यः॑ , यत् , त्वा॒ , वि॒शः , आ॒ऽज॒भार॑ ॥
उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठो॒र्वश्या॑ ब्रह्म॒न्मन॒सोऽधि॑ जा॒तः । द्र॒प्सं स्क॒न्नं ब्रह्म॑णा॒ दैव्ये॑न॒ विश्वे॑ दे॒वाः पुष्क॑रे त्वाददंत ॥
उ॒त , अ॒सि॒ , मै॒त्रा॒व॒रु॒णः , व॒सि॒ष्ठ॒ , उ॒र्वश्याः॑ , ब्र॒ह्म॒न् , मन॑सः , अधि॑ , जा॒तः । द्र॒प्सं , स्क॒न्नं , ब्रह्म॑णा , दैव्ये॑न , विश्वे॑ , दे॒वाः , पुष्क॑रे , त्वा॒ , अ॒द॒दं॒त॒ ॥
स प्र॑के॒त उ॒भय॑स्य प्रवि॒द्वांत्स॒हस्र॑दान उ॒त वा॒ सदा॑नः । य॒मेन॑ त॒तं प॑रि॒धिं व॑यि॒ष्यन्न॑प्स॒रसः॒ परि॑ जज्ञे॒ वसि॑ष्ठः ॥
सः , प्र॒ऽके॒तः , उ॒भय॑स्य , प्र॒ऽवि॒द्वान् , स॒हस्र॑ऽदानः , उ॒त , वा॒ , सऽदा॑नः । य॒मेन॑ , त॒तं , प॒रि॒ऽधिं , व॒यि॒ष्यन् , अ॒प्स॒रसः॑ , परि॑ , ज॒ज्ञे॒ , वसि॑ष्ठः ॥
स॒त्रे ह॑ जा॒तावि॑षि॒ता नमो॑भिः कुं॒भे रेतः॑ सिषिचतुः समा॒नं । ततो॑ ह॒ मान॒ उदि॑याय॒ मध्या॒त्ततो॑ जा॒तमृषि॑माहु॒र्वसि॑ष्ठं ॥
स॒त्रे , ह॒ , जा॒तौ , इ॒षि॒ता , नमः॑ऽभिः , कुं॒भे , रेतः॑ , सि॒सि॒च॒तुः॒ , स॒मा॒नं । ततः॑ , ह॒ , मानः॑ , उत् , इ॒या॒य॒ , मध्या॑त् , ततः॑ , जा॒तं , ऋषिं॑ , आ॒हुः॒ , वसि॑ष्ठं ॥
उ॒क्थ॒भृतं॑ साम॒भृतं॑ बिभर्ति॒ ग्रावा॑णं॒ बिभ्र॒त्प्र व॑दा॒त्यग्रे॑ । उपै॑नमाध्वं सुमन॒स्यमा॑ना॒ आ वो॑ गच्छाति प्रतृदो॒ वसि॑ष्ठः ॥
उ॒क्थ॒ऽभृतं॑ , सा॒म॒ऽभृतं॑ , बि॒भ॒र्ति॒ , ग्रावा॑णं , बिभ्र॑त् , प्र , व॒दा॒ति॒ , अग्रे॑ । उप॑ , ए॒नं॒ , आ॒ध्वं॒ , सु॒ऽम॒न॒स्यमा॑नाः , आ , वः॒ , ग॒च्छा॒ति॒ , प्र॒ऽतृ॒दः॒ , वसि॑ष्ठः ॥
[३४] प्रशुक्रैत्विति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवाद्विपदाविराट् अंत्याश्चतस्रस्त्रिष्टुभः अब्जामुक्थैरितिद्विपदायाअहिर्देवता मानोहिर्बुध्न्योरित्यस्याअहिर्बुध्न्यः (इतश्चत्वारिवैश्वदेवसूक्तानि | भेदपक्षे - देवाः १ आपः १ इंद्रः २ यज्ञः ३ देवाः २ वरुणः १ देवाः ३ अग्निः १ अपांनपात् १ अहिः १ अहिर्बुध्यः १ देवाः २ देवपत्नीत्वष्टारः १ त्वष्टा १ विश्वे। ४ एवं २५) |
प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा अ॒स्मत्सुत॑ष्टो॒ रथो॒ न वा॒जी ॥
प्र , शु॒क्रा , ए॒तु॒ , दे॒वी , म॒नी॒षा , अ॒स्मत् , सुऽत॑ष्टः , रथः॑ , न , वा॒जी ॥ ।
वि॒दुः पृ॑थि॒व्या दि॒वो ज॒नित्रं॑ शृ॒ण्वंत्यापो॒ अध॒ क्षरं॑तीः ॥
वि॒दुः , पृ॒थि॒व्याः , दि॒वः , ज॒नित्रं॑ , शृ॒ण्वंति॑ , आपः॑ , अध॑ , क्षरं॑तीः ॥ ।
आप॑श्चिदस्मै॒ पिन्वं॑त पृ॒थ्वीर्वृ॒त्रेषु॒ शूरा॒ मंसं॑त उ॒ग्राः ॥
आपः॑ , चि॒त् , अ॒स्मै॒ , पिन्वं॑त , पृ॒थ्वीः , वृ॒त्रेषु॑ , शूराः॑ , मंसं॑ते , उ॒ग्राः ॥ ।
आ धू॒र्ष्व॑स्मै॒ दधा॒ताश्वा॒निंद्रो॒ न व॒ज्री हिर॑ण्यबाहुः ॥
आ , धूः॒ऽसु , अ॒स्मै॒ , दधा॑त , अश्वा॑न् , इंद्रः॑ , न , व॒ज्री , हिर॑ण्यऽबाहुः ॥ ।
अ॒भि प्र स्था॒ताहे॑व य॒ज्ञं याते॑व॒ पत्मं॒त्मना॑ हिनोत ॥
अ॒भि , प्र , स्था॒त॒ , अह॑ऽइव , य॒ज्ञं , याता॑ऽइव , पत्म॑न् , त्मना॑ , हि॒नो॒त॒ ॥ ।
त्मना॑ स॒मत्सु॑ हि॒नोत॑ य॒ज्ञं दधा॑त के॒तुं जना॑य वी॒रं ॥
त्मना॑ , स॒मत्ऽसु॑ , हि॒नोत॑ , य॒ज्ञं , दधा॑त , के॒तुं , जना॑य , वी॒रं ॥ ।
उद॑स्य॒ शुष्मा॑द्भा॒नुर्नार्त॒ बिभ॑र्ति भा॒रं पृ॑थि॒वी न भूम॑ ॥
उत् , अ॒स्य॒ , शुष्मा॑त् , भा॒नुः , न , आ॒र्त॒ , बिभ॑र्ति , भा॒रं , पृ॒थि॒वी , न , भूम॑ ॥ ।
ह्वया॑मि दे॒वाँ अया॑तुरग्ने॒ साध॑न्नृ॒तेन॒ धियं॑ दधामि ॥
ह्वया॑मि , दे॒वान् , अया॑तुः , अ॒ग्ने॒ , साध॑न् , ऋ॒तेन॑ , धियं॑ , द॒धा॒मि॒ ॥ ।
अ॒भि वो॑ दे॒वीं धियं॑ दधिध्वं॒ प्र वो॑ देव॒त्रा वाचं॑ कृणुध्वं ॥
अ॒भि , वः॒ , दे॒वीं , धियं॑ , द॒धि॒ध्वं॒ , प्र , वः॒ , दे॒व॒ऽत्रा , वाचं॑ , कृ॒णु॒ध्वं॒ ॥ ।
आ च॑ष्ट आसां॒ पाथो॑ न॒दीनां॒ वरु॑ण उ॒ग्रः स॒हस्र॑चक्षाः ॥
आ , च॒ष्टे॒ , आ॒सां॒ , पाथः॑ , न॒दीनां॑ , वरु॑णः , उ॒ग्रः , स॒हस्र॑ऽचक्षाः ॥ ।
राजा॑ रा॒ष्ट्रानां॒ पेशो॑ न॒दीना॒मनु॑त्तमस्मै क्ष॒त्रं वि॒श्वायु॑ ॥
राजा॑ , रा॒ष्ट्रानां॑ , पेशः॑ , न॒दीनां॑ , अनु॑त्तं , अ॒स्मै॒ , क्ष॒त्रं , वि॒श्वऽआ॑यु ॥ ।
अवि॑ष्टो अ॒स्मान्विश्वा॑सु वि॒क्ष्वद्युं॑ कृणोत॒ शंसं॑ निनि॒त्सोः ॥
अवि॑ष्टो॒ इति॑ , अ॒स्मान् , विश्वा॑सु , वि॒क्षु , अद्युं॑ , कृ॒णो॒त॒ , शंसं॑ , नि॒नि॒त्सोः ॥ ।
व्ये॑तु दि॒द्युद्द्वि॒षामशे॑वा यु॒योत॒ विष्व॒ग्रप॑स्त॒नूनां॑ ॥
वि , ए॒तु॒ , दि॒द्युत् , द्वि॒षां , अशे॑वा , यु॒योत॑ , विष्व॑क् , रपः॑ , त॒नूनां॑ ॥ ।
अवी॑न्नो अ॒ग्निर्ह॒व्यान्नमो॑भिः॒ प्रेष्ठो॑ अस्मा अधायि॒ स्तोमः॑ ॥
अवी॑त् , नः॒ , अ॒ग्निः , ह॒व्य॒ऽअत् , नमः॑ऽभिः , प्रेष्ठः॑ , अ॒स्मै॒ , अ॒धा॒यि॒ , स्तोमः॑ ॥ ।
स॒जूर्दे॒वेभि॑र॒पां नपा॑तं॒ सखा॑यं कृध्वं शि॒वो नो॑ अस्तु ॥
स॒ऽजूः , दे॒वेभिः॑ , अ॒पां , नपा॑तं , सखा॑यं , कृ॒ध्वं॒ , शि॒वः , नः॒ , अ॒स्तु॒ ॥ ।
अ॒ब्जामु॒क्थैरहिं॑ गृणीषे बु॒ध्ने न॒दीनां॒ रजः॑सु॒ षीद॑न् ॥
अ॒प्ऽजां , उ॒क्थैः , अहिं॑ , गृ॒णी॒षे॒ , बु॒ध्ने , न॒दीनां॑ , रजः॑ऽसु , सीद॑न् ॥ ।
मा नोऽहि॑र्बु॒ध्न्यो॑ रि॒षे धा॒न्मा य॒ज्ञो अ॑स्य स्रिधदृता॒योः ॥
मा , नः॒ , अहिः॑ , बु॒ध्न्यः॑ , रि॒षे , धा॒त् , मा , य॒ज्ञः , अ॒स्य॒ , स्रि॒ध॒त् , ऋ॒त॒ऽयोः ॥ ।
उ॒त न॑ ए॒षु नृषु॒ श्रवो॑ धुः॒ प्र रा॒ये यं॑तु॒ शर्धं॑तो अ॒र्यः ॥
उ॒त , नः॒ , ए॒षु , नृषु॑ , श्रवः॑ , धुः॒ , प्र , रा॒ये , यं॒तु॒ , शर्धं॑तः , अ॒र्यः ॥ ।
तपं॑ति॒ शत्रुं॒ स्व१॒॑र्ण भूमा॑ म॒हासे॑नासो॒ अमे॑भिरेषां ॥
तपं॑ति , शत्रुं॑ , स्वः॑ , न , भूम॑ , म॒हाऽसे॑नासः , अमे॑भिः , ए॒षां॒ ॥ ।
आ यन्नः॒ पत्नी॒र्गमं॒त्यच्छा॒ त्वष्टा॑ सुपा॒णिर्दधा॑तु वी॒रान् ॥
आ , यत् , नः॒ , पत्नीः॑ , गमं॑ति , अच्छ॑ , त्वष्टा॑ , सु॒ऽपा॒णिः , दधा॑तु , वी॒रान् ॥ ।
प्रति॑ नः॒ स्तोमं॒ त्वष्टा॑ जुषेत॒ स्याद॒स्मे अ॒रम॑तिर्वसू॒युः ॥
प्रति॑ , नः॒ , स्तोमं॑ , त्वष्टा॑ , जु॒षे॒त॒ , स्यात् , अ॒स्मे इति॑ , अ॒रम॑तिः , व॒सु॒ऽयुः ॥ ।
ता नो॑ रासन्राति॒षाचो॒ वसू॒न्या रोद॑सी वरुणा॒नी शृ॑णोतु । वरू॑त्रीभिः सुशर॒णो नो॑ अस्तु॒ त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायः॑ ॥
ता , नः॒ , रा॒स॒न् , रा॒ति॒ऽसाचः॑ , वसू॑नि , आ , रोद॑सी॒ इति॑ , व॒रु॒णा॒नी , शृ॒णो॒तु॒ । वरू॑त्रीभिः , सु॒ऽश॒र॒णः , नः॒ , अ॒स्तु॒ , त्वष्टा॑ , सु॒ऽदत्रः॑ , वि , द॒धा॒तु॒ , रायः॑ ॥
तन्नो॒ रायः॒ पर्व॑ता॒स्तन्न॒ आप॒स्तद्रा॑ति॒षाच॒ ओष॑धीरु॒त द्यौः । वन॒स्पति॑भिः पृथि॒वी स॒जोषा॑ उ॒भे रोद॑सी॒ परि॑ पासतो नः ॥
तत् , नः॒ , रायः॑ , पर्व॑ताः , तत् , नः॒ , आपः॑ , तत् , रा॒ति॒ऽसाचः॑ , ओष॑धीः , उ॒त , द्यौः । वन॒स्पति॑ऽभिः , पृ॒थि॒वी , स॒ऽजोषाः॑ , उ॒भे इति॑ , रोद॑सी॒ इति॑ , परि॑ , पा॒स॒तः॒ , नः॒ ॥
अनु॒ तदु॒र्वी रोद॑सी जिहाता॒मनु॑ द्यु॒क्षो वरु॑ण॒ इंद्र॑सखा । अनु॒ विश्वे॑ म॒रुतो॒ ये स॒हासो॑ रा॒यः स्या॑म ध॒रुणं॑ धि॒यध्यै॑ ॥
अनु॑ , तत् , उ॒र्वी इति॑ , रोद॑सी॒ इति॑ , जि॒हा॒तां॒ , अनु॑ , द्यु॒क्षः , वरु॑णः , इंद्र॑ऽसखा । अनु॑ , विश्वे॑ , म॒रुतः॑ , ये , स॒हासः॑ , रा॒यः , स्या॒म॒ , ध॒रुणं॑ , धि॒यध्यै॑ ॥
तन्न॒ इंद्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषंत । शर्मं॑त्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
तत् , नः॒ , इंद्रः॑ , वरु॑णः , मि॒त्रः , अ॒ग्निः , आपः॑ , ओष॑धीः , व॒निनः॑ , जु॒षं॒त॒ । शर्म॑न् , स्या॒म॒ , म॒रुतां॑ , उ॒पऽस्थे॑ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[३५] शंनइंद्राग्नीइति पंचदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (अत्रसूक्तेसर्वेपिविश्वेदेवाः)|
शं न॑ इंद्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॒ इंद्रा॒वरु॑णा रा॒तह॑व्या । शमिंद्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इंद्रा॑पू॒षणा॒ वाज॑सातौ ॥
शं , नः॒ , इं॒द्रा॒ग्नी इति॑ , भ॒व॒तां॒ , अवः॑ऽभिः , शं , नः॒ , इंद्रा॒वरु॑णा , रा॒तऽह॑व्या । शं , इंद्रा॒सोमा॑ , सु॒वि॒ताय॑ , शं , योः , शं , नः॒ , इंद्रा॑पू॒षणा॑ , वाज॑ऽसातौ ॥
शं नो॒ भगः॒ शमु॑ नः॒ शंसो॑ अस्तु॒ शं नः॒ पुरं॑धिः॒ शमु॑ संतु॒ रायः॑ । शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ॥
शं , नः॒ , भगः॑ , शं , ऊँ॒ इति॑ , नः॒ , शंसः॑ , अ॒स्तु॒ , शं , नः॒ , पुरं॑ऽधिः , शं , ऊँ॒ इति॑ , सं॒तु॒ , रायः॑ । शं , नः॒ , स॒त्यस्य॑ , सु॒ऽयम॑स्य , शंसः॑ , शं , नः॒ , अ॒र्य॒मा , पु॒रु॒ऽजा॒तः , अ॒स्तु॒ ॥
शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑ । शं रोद॑सी बृह॒ती शं नो॒ अद्रिः॒ शं नो॑ दे॒वानां॑ सु॒हवा॑नि संतु ॥
शं , नः॒ , धा॒ता , शं , ऊँ॒ इति॑ , ध॒र्ता , नः॒ , अ॒स्तु॒ , शं , नः॒ , उ॒रू॒ची , भ॒व॒तु॒ , स्व॒धाभिः॑ । शं , रोद॑सी॒ इति॑ , बृ॒ह॒ती इति॑ , शं , नः॒ , अद्रिः॑ , शं , नः॒ , दे॒वानां॑ , सु॒ऽहवा॑नि , सं॒तु॒ ॥
शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शं । शं नः॑ सु॒कृतां॑ सुकृ॒तानि॑ संतु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वातः॑ ॥
शं , नः॒ , अ॒ग्निः , ज्योतिः॑ऽअनीकः , अ॒स्तु॒ , शं , नः॒ , मि॒त्रावरु॑णौ , अ॒श्विना॑ , शं । शं , नः॒ , सु॒ऽकृतां॑ , सु॒ऽकृ॒तानि॑ , सं॒तु॒ , शं , नः॒ , इ॒षि॒रः , अ॒भि , वा॒तु॒ , वातः॑ ॥
शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शमं॒तरि॑क्षं दृ॒शये॑ नो अस्तु । शं न॒ ओष॑धीर्व॒निनो॑ भवंतु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ॥
शं , नः॒ , द्यावा॑पृथि॒वी इति॑ , पू॒र्वऽहू॑तौ , शं , अं॒तरि॑क्षं , दृ॒शये॑ , नः॒ , अ॒स्तु॒ । शं , नः॒ , ओष॑धीः , व॒निनः॑ , भ॒वं॒तु॒ , शं , नः॒ , रज॑सः , पतिः॑ , अ॒स्तु॒ , जि॒ष्णुः ॥
शं न॒ इंद्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑ । शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑षः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ॥
शं , नः॒ , इंद्रः॑ , वसु॑ऽभिः , दे॒वः , अ॒स्तु॒ , शं , आ॒दि॒त्येभिः॑ , वरु॑णः , सु॒ऽशंसः॑ । शं , नः॒ , रु॒द्रः , रु॒द्रेभिः॑ , जला॑षः , शं , नः॒ , त्वष्टा॑ , ग्नाभिः॑ , इ॒ह , शृ॒णो॒तु॒ ॥
शं नः॒ सोमो॑ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावा॑णः॒ शमु॑ संतु य॒ज्ञाः । शं नः॒ स्वरू॑णां मि॒तयो॑ भवंतु॒ शं नः॑ प्र॒स्व१॒॑ः शम्व॑स्तु॒ वेदिः॑ ॥
शं , नः॒ , सोमः॑ , भ॒व॒तु॒ , ब्रह्म॑ , शं , नः॒ , शं , नः॒ , ग्रावा॑णः , शं , ऊँ॒ इति॑ , सं॒तु॒ , य॒ज्ञाः । शं , नः॒ , स्वरू॑णां , मि॒तयः॑ , भ॒वं॒तु॒ , शं , नः॒ , प्र॒ऽस्वः॑ , शं , ऊँ॒ इति॑ , अ॒स्तु॒ , वेदिः॑ ॥
शं नः॒ सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं न॒श्चत॑स्रः प्र॒दिशो॑ भवंतु । शं नः॒ पर्व॑ता ध्रु॒वयो॑ भवंतु॒ शं नः॒ सिंध॑वः॒ शमु॑ सं॒त्वापः॑ ॥
शं , नः॒ , सूर्यः॑ , उ॒रु॒ऽचक्षाः॑ , उत् , ए॒तु॒ , शं , नः॒ , चत॑स्रः , प्र॒ऽदिशः॑ , भ॒वं॒तु॒ । शं , नः॒ , पर्व॑ताः , ध्रु॒वयः॑ , भ॒वं॒तु॒ , शं , नः॒ , सिंध॑वः , शं , ऊँ॒ इति॑ , सं॒तु॒ , आपः॑ ॥
शं नो॒ अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो॑ भवंतु म॒रुतः॑ स्व॒र्काः । शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ॥
शं , नः॒ , अदि॑तिः , भ॒व॒तु॒ , व्र॒तेभिः॑ , शं , नः॒ , भ॒वं॒तु॒ , म॒रुतः॑ , सु॒ऽअ॒र्काः । शं , नः॒ , विष्णुः॑ , शं , ऊँ॒ इति॑ , पू॒षा , नः॒ , अ॒स्तु॒ , शं , नः॒ , भ॒वित्रं॑ , शं , ऊँ॒ इति॑ , अ॒स्तु॒ , वा॒युः ॥
शं नो॑ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो॑ भवंतू॒षसो॑ विभा॒तीः । शं नः॑ प॒र्जन्यो॑ भवतु प्र॒जाभ्यः॒ शं नः॒ क्षेत्र॑स्य॒ पति॑रस्तु शं॒भुः ॥
शं , नः॒ , दे॒वः , स॒वि॒ता , त्राय॑माणः , शं , नः॒ , भ॒वं॒तु॒ , उ॒षसः॑ , वि॒ऽभा॒तीः । शं , नः॒ , प॒र्जन्यः॑ , भ॒व॒तु॒ , प्र॒ऽजाभ्यः॑ , शं , नः॒ , क्षेत्र॑स्य , पतिः॑ , अ॒स्तु॒ , शं॒ऽभुः ॥
शं नो॑ दे॒वा वि॒श्वदे॑वा भवंतु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु । शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॒ शं नो॑ दि॒व्याः पार्थि॑वाः॒ शं नो॒ अप्याः॑ ॥
शं , नः॒ , दे॒वाः , वि॒श्वऽदे॑वाः , भ॒वं॒तु॒ , शं , सर॑स्वती , स॒ह , धी॒भिः , अ॒स्तु॒ । शं , अ॒भि॒ऽसाचः॑ , शं , ऊँ॒ इति॑ , रा॒ति॒ऽसाचः॑ , शं , नः॒ , दि॒व्याः , पार्थि॑वाः , शं , नः॒ , अप्याः॑ ॥
शं नः॑ स॒त्यस्य॒ पत॑यो भवंतु॒ शं नो॒ अर्वं॑तः॒ शमु॑ संतु॒ गावः॑ । शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो॑ भवंतु पि॒तरो॒ हवे॑षु ॥
शं , नः॒ , स॒त्यस्य॑ , पत॑यः , भ॒वं॒तु॒ , शं , नः॒ , अर्वं॑तः , शं , ऊँ॒ इति॑ , सं॒तु॒ , गावः॑ । शं , नः॒ , ऋ॒भवः॑ , सु॒ऽकृतः॑ , सु॒ऽहस्ताः॑ , शं , नः॒ , भ॒वं॒तु॒ , पि॒तरः॑ , हवे॑षु ॥
शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्य१॒॑ः शं स॑मु॒द्रः । शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं नः॒ पृश्नि॑र्भवतु दे॒वगो॑पा ॥
शं , नः॒ , अ॒जः , एक॑ऽपात् , दे॒वः , अ॒स्तु॒ , शं , नः॒ , अहिः॑ , बु॒ध्न्यः॑ , शं , स॒मु॒द्रः । शं , नः॒ , अ॒पां , नपा॑त् , पे॒रुः , अ॒स्तु॒ , शं , नः॒ , पृश्निः॑ , भ॒व॒तु॒ , दे॒वऽगो॑पा ॥
आ॒दि॒त्या रु॒द्रा वस॑वो जुषंते॒दं ब्रह्म॑ क्रि॒यमा॑णं॒ नवी॑यः । शृ॒ण्वंतु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ॥
आ॒दि॒त्याः , रु॒द्राः , वस॑वः , जु॒षं॒त॒ , इ॒दं , ब्रह्म॑ , क्रि॒यमा॑णं , नवी॑यः । शृ॒ण्वंतु॑ , नः॒ , दि॒व्याः , पार्थि॑वासः , गोऽजा॑ताः , उ॒त , ये , य॒ज्ञिया॑सः ॥
ये दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नां॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः । ते नो॑ रासंतामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ये , दे॒वानां॑ , य॒ज्ञियाः॑ , य॒ज्ञिया॑नां , मनोः॑ , यज॑त्राः , अ॒मृताः॑ , ऋ॒त॒ऽज्ञाः । ते , नः॒ , रा॒सं॒तां॒ , उ॒रु॒ऽगा॒यं , अ॒द्य , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[३६] प्रब्रह्मेति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः ३ इंद्रार्यमणौ १ रुद्रः १ नद्यः १ मरुतः १ विश्वेदेवाः १ विष्णु मरुतः १ एवं ९) |
प्र ब्रह्मै॑तु॒ सद॑नादृ॒तस्य॒ वि र॒श्मिभिः॑ ससृजे॒ सूर्यो॒ गाः । वि सानु॑ना पृथि॒वी स॑स्र उ॒र्वी पृ॒थु प्रती॑क॒मध्येधे॑ अ॒ग्निः ॥
प्र , ब्रह्म॑ , ए॒तु॒ , सद॑नात् , ऋ॒तस्य॑ , वि , र॒श्मिऽभिः॑ , स॒सृ॒जे॒ , सूर्यः॑ , गाः । वि , सानु॑ना , पृ॒थि॒वी , स॒स्रे॒ , उ॒र्वी , पृ॒थु , प्रती॑कं , अधि॑ , आ , ई॒धे॒ , अ॒ग्निः ॥
इ॒मां वां॑ मित्रावरुणा सुवृ॒क्तिमिषं॒ न कृ॑ण्वे असुरा॒ नवी॑यः । इ॒नो वा॑म॒न्यः प॑द॒वीरद॑ब्धो॒ जनं॑ च मि॒त्रो य॑तति ब्रुवा॒णः ॥
इ॒मां , वां॒ , मि॒त्रा॒व॒रु॒णा॒ , सु॒ऽवृ॒क्तिं , इषं॑ , न , कृ॒ण्वे॒ , अ॒सु॒रा॒ , नवी॑यः । इ॒नः , वां॒ , अ॒न्यः , प॒द॒ऽवीः , अद॑ब्धः , जनं॑ , च॒ , मि॒त्रः , य॒त॒ति॒ , ब्रु॒वा॒णः ॥
आ वात॑स्य॒ ध्रज॑तो रंत इ॒त्या अपी॑पयंत धे॒नवो॒ न सूदाः॑ । म॒हो दि॒वः सद॑ने॒ जाय॑मा॒नोऽचि॑क्रदद्वृष॒भः सस्मि॒न्नूध॑न् ॥
आ , वात॑स्य , ध्रज॑तः , रं॒ते॒ , इ॒त्याः , अपी॑पयंत , धे॒नवः॑ , न , सूदाः॑ । म॒हः , दि॒वः , सद॑ने , जाय॑मानः , अचि॑क्रदत् , वृ॒ष॒भः , सस्मि॑न् , ऊध॑न् ॥
गि॒रा य ए॒ता यु॒नज॒द्धरी॑ त॒ इंद्र॑ प्रि॒या सु॒रथा॑ शूर धा॒यू । प्र यो म॒न्युं रिरि॑क्षतो मि॒नात्या सु॒क्रतु॑मर्य॒मणं॑ ववृत्यां ॥
गि॒रा , यः , ए॒ता , यु॒नज॑त् , हरी॒ इति॑ , ते॒ , इंद्र॑ , प्रि॒या , सु॒ऽरथा॑ , शू॒र॒ , धा॒यू इति॑ । प्र , यः , म॒न्युं , रिरि॑क्षतः , मि॒नाति॑ , आ , सु॒ऽक्रतुं॑ , अ॒र्य॒मणं॑ , व॒वृ॒त्यां॒ ॥
यजं॑ते अस्य स॒ख्यं वय॑श्च नम॒स्विनः॒ स्व ऋ॒तस्य॒ धाम॑न् । वि पृक्षो॑ बाबधे॒ नृभिः॒ स्तवा॑न इ॒दं नमो॑ रु॒द्राय॒ प्रेष्ठं॑ ॥
यजं॑ते , अ॒स्य॒ , स॒ख्यं , वयः॑ , च॒ , न॒म॒स्विनः॑ , स्वे , ऋ॒तस्य॑ , धाम॑न् । वि , पृक्षः॑ , बा॒ब॒धे॒ , नृऽभिः॑ , स्तवा॑नः , इ॒दं , नमः॑ , रु॒द्राय॑ , प्रेष्ठं॑ ॥
आ यत्सा॒कं य॒शसो॑ वावशा॒नाः सर॑स्वती स॒प्तथी॒ सिंधु॑माता । याः सु॒ष्वयं॑त सु॒दुघाः॑ सुधा॒रा अ॒भि स्वेन॒ पय॑सा॒ पीप्या॑नाः ॥
आ , यत् , सा॒कं , य॒शसः॑ , वा॒व॒शा॒नाः , सर॑स्वती , स॒प्तथी॑ , सिंधु॑ऽमाता । याः , सु॒स्वयं॑त , सु॒ऽदुघाः॑ , सु॒ऽधा॒राः , अ॒भि , स्वेन॑ , पय॑सा , पीप्या॑नाः ॥
उ॒त त्ये नो॑ म॒रुतो॑ मंदसा॒ना धियं॑ तो॒कं च॑ वा॒जिनो॑ऽवंतु । मा नः॒ परि॑ ख्य॒दक्ष॑रा॒ चरं॒त्यवी॑वृध॒न्युज्यं॒ ते र॒यिं नः॑ ॥
उ॒त , त्ये , नः॒ , म॒रुतः॑ , मं॒द॒सा॒नाः , धियं॑ , तो॒कं , च॒ , वा॒जिनः॑ , अ॒वं॒तु॒ । मा , नः॒ , परि॑ , ख्य॒त् , अक्ष॑रा , चरं॑ती , अवी॑वृधन् , युज्यं॑ , ते , र॒यिं , नः॒ ॥
प्र वो॑ म॒हीम॒रम॑तिं कृणुध्वं॒ प्र पू॒षणं॑ विद॒थ्यं१॒॑ न वी॒रं । भगं॑ धि॒यो॑ऽवि॒तारं॑ नो अ॒स्याः सा॒तौ वाजं॑ राति॒षाचं॒ पुरं॑धिं ॥
प्र , वः॒ , म॒हीं , अ॒रम॑तिं , कृ॒णु॒ध्वं॒ , प्र , पू॒षणं॑ , वि॒द॒थ्यं॑ , न , वी॒रं । भगं॑ , धि॒यः , अ॒वि॒तारं॑ , नः॒ , अ॒स्याः , शा॒तौ , वाजं॑ , रा॒ति॒ऽसाचं॑ , पुरं॑ऽधिं ॥
अच्छा॒यं वो॑ मरुतः॒ श्लोक॑ ए॒त्वच्छा॒ विष्णुं॑ निषिक्त॒पामवो॑भिः । उ॒त प्र॒जायै॑ गृण॒ते वयो॑ धुर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
अच्छ॑ , अ॒यं , वः॒ , म॒रु॒तः॒ , श्लोकः॑ , ए॒तु॒ , अच्छ॑ , विष्णुं॑ , नि॒सि॒क्त॒ऽपां , अवः॑ऽभिः । उ॒त , प्र॒ऽजायै॑ , गृ॒ण॒ते , वयः॑ , धुः॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[३७] आवोवाहिष्टइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - ऋभवः २ इंद्रः ६ एवमष्टौ) |
आ वो॒ वाहि॑ष्ठो वहतु स्त॒वध्यै॒ रथो॑ वाजा ऋभुक्षणो॒ अमृ॑क्तः । अ॒भि त्रि॑पृ॒ष्ठैः सव॑नेषु॒ सोमै॒र्मदे॑ सुशिप्रा म॒हभिः॑ पृणध्वं ॥
आ , वः॒ , वाहि॑ष्ठः , व॒ह॒तु॒ , स्त॒वध्यै॑ , रथः॑ , वा॒जाः॒ , ऋ॒भु॒क्ष॒णः॒ , अमृ॑क्तः । अ॒भि , त्रि॒ऽपृ॒ष्ठैः , सव॑नेषु , सोमैः॑ , मदे॑ , सु॒ऽशि॒प्राः॒ , म॒हऽभिः॑ , पृ॒ण॒ध्वं॒ ॥
यू॒यं ह॒ रत्नं॑ म॒घव॑त्सु धत्थ स्व॒र्दृश॑ ऋभुक्षणो॒ अमृ॑क्तं । सं य॒ज्ञेषु॑ स्वधावंतः पिबध्वं॒ वि नो॒ राधां॑सि म॒तिभि॑र्दयध्वं ॥
यू॒यं , ह॒ , रत्नं॑ , म॒घव॑त्ऽसु , ध॒त्थ॒ , स्वः॒ऽदृशः॑ , ऋ॒भु॒क्ष॒णः॒ , अमृ॑क्तं । सं , य॒ज्ञेषु॑ , स्व॒धा॒ऽवं॒तः॒ , पि॒ब॒ध्वं॒ , वि , नः॒ , राधां॑सि , म॒तिऽभिः॑ , द॒य॒ध्वं॒ ॥
उ॒वोचि॑थ॒ हि म॑घवंदे॒ष्णं म॒हो अर्भ॑स्य॒ वसु॑नो विभा॒गे । उ॒भा ते॑ पू॒र्णा वसु॑ना॒ गभ॑स्ती॒ न सू॒नृता॒ नि य॑मते वस॒व्या॑ ॥
उ॒वोचि॑थ , हि , म॒घ॒ऽव॒न् , दे॒ष्णं , म॒हः , अर्भ॑स्य , वसु॑नः , वि॒ऽभा॒गे । उ॒भा , ते॒ , पू॒र्णा , वसु॑ना , गभ॑स्ती॒ इति॑ , न , सू॒नृता॑ , नि , य॒म॒ते॒ , व॒स॒व्या॑ ॥
त्वमिं॑द्र॒ स्वय॑शा ऋभु॒क्षा वाजो॒ न सा॒धुरस्त॑मे॒ष्यृक्वा॑ । व॒यं नु ते॑ दा॒श्वांसः॑ स्याम॒ ब्रह्म॑ कृ॒ण्वंतो॑ हरिवो॒ वसि॑ष्ठाः ॥
त्वं , इं॒द्र॒ , स्वऽय॑शाः , ऋ॒भु॒क्षाः , वाजः॑ , न , सा॒धुः , अस्तं॑ , ए॒षि॒ , ऋक्वा॑ । व॒यं , नु , ते॒ , दा॒श्वांसः॑ , स्या॒म॒ , ब्रह्म॑ , कृ॒ण्वंतः॑ , ह॒रि॒ऽवः॒ , वसि॑ष्ठाः ॥
सनि॑तासि प्र॒वतो॑ दा॒शुषे॑ चि॒द्याभि॒र्विवे॑षो हर्यश्व धी॒भिः । व॒व॒न्मा नु ते॒ युज्या॑भिरू॒ती क॒दा न॑ इंद्र रा॒य आ द॑शस्येः ॥
सनि॑ता , अ॒सि॒ , प्र॒ऽवतः॑ , दा॒शुषे॑ , चि॒त् , याभिः॑ , विवे॑षः , ह॒रि॒ऽअ॒श्व॒ , धी॒भिः । व॒व॒न्म , नु , ते॒ , युज्या॑भिः , ऊ॒ती , क॒दा , नः॒ , इं॒द्र॒ , रा॒यः , आ , द॒श॒स्येः॒ ॥
वा॒सय॑सीव वे॒धस॒स्त्वं नः॑ क॒दा न॑ इंद्र॒ वच॑सो बुबोधः । अस्तं॑ ता॒त्या धि॒या र॒यिं सु॒वीरं॑ पृ॒क्षो नो॒ अर्वा॒ न्यु॑हीत वा॒जी ॥
वा॒सय॑सिऽइव , वे॒धसः॑ , त्वं , नः॒ , क॒दा , नः॒ , इं॒द्र॒ , वच॑सः , बु॒बो॒धः॒ । अस्तं॑ , ता॒त्या , धि॒या , र॒यिं , सु॒ऽवीरं॑ , पृ॒क्षः , नः॒ , अर्वा॑ , नि , उ॒ही॒त॒ , वा॒जी ॥
अ॒भि यं दे॒वी निर्ऋ॑तिश्चि॒दीशे॒ नक्षं॑त॒ इंद्रं॑ श॒रदः॑ सु॒पृक्षः॑ । उप॑ त्रिबं॒धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒ यं कृ॒णवं॑त॒ मर्ताः॑ ॥
अ॒भि , यं , दे॒वी , निःऽऋ॑तिः , चि॒त् , ईशे॑ , नक्षं॑ते , इंद्रं॑ , श॒रदः॑ , सु॒ऽपृक्षः॑ । उप॑ , त्रि॒ऽबं॒धुः॒ , ज॒रत्ऽअ॑ष्टिं , ए॒ति॒ , अस्व॑ऽवेशं , यं , कृ॒णवं॑त , मर्ताः॑ ॥
आ नो॒ राधां॑सि सवितः स्त॒वध्या॒ आ रायो॑ यंतु॒ पर्व॑तस्य रा॒तौ । सदा॑ नो दि॒व्यः पा॒युः सि॑षक्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
आ , नः॒ , राधां॑सि , स॒वि॒त॒रिति॑ , स्त॒वध्यै॑ , आ , रायः॑ , यं॒तु॒ , पर्व॑तस्य , रा॒तौ । सदा॑ , नः॒ , दि॒व्यः , पा॒युः , सि॒स॒क्तु॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[३८] उद्दुष्यदेवइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांषण्णांसविता अंत्ययोर्द्वयोर्वाजिनस्त्रिष्टुप् | (भगमित्यर्धर्चस्यभगोवा) |
उदु॒ ष्य दे॒वः स॑वि॒ता य॑याम हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् । नू॒नं भगो॒ हव्यो॒ मानु॑षेभि॒र्वि यो रत्ना॑ पुरू॒वसु॒र्दधा॑ति ॥
उत् , ऊँ॒ इति॑ , स्यः , दे॒वः , स॒वि॒ता , य॒या॒म॒ , हि॒र॒ण्ययीं॑ , अ॒मतिं॑ , यां , अशि॑श्रेत् । नू॒नं , भगः॑ , हव्यः॑ , मानु॑षेभिः , वि , यः , रत्ना॑ , पु॒रु॒ऽवसुः॑ , दधा॑ति ॥
उदु॑ तिष्ठ सवितः श्रु॒ध्य१॒॑स्य हिर॑ण्यपाणे॒ प्रभृ॑तावृ॒तस्य॑ । व्यु१॒॑र्वीं पृ॒थ्वीम॒मतिं॑ सृजा॒न आ नृभ्यो॑ मर्त॒भोज॑नं सुवा॒नः ॥
उत् , ऊँ॒ इति॑ , ति॒ष्ठ॒ , स॒वि॒त॒रिति॑ , श्रु॒धि॒ , अ॒स्य , हिर॑ण्यऽपाणे , प्रऽभृ॑तौ , ऋ॒तस्य॑ । वि , उ॒र्वीं , पृ॒थ्वीं , अ॒मतिं॑ , सृ॒जा॒नः , आ , नृऽभ्यः॑ , म॒र्त॒ऽभोज॑नं , सु॒वा॒नः ॥
अपि॑ ष्टु॒तः स॑वि॒ता दे॒वो अ॑स्तु॒ यमा चि॒द्विश्वे॒ वस॑वो गृ॒णंति॑ । स नः॒ स्तोमा॑न्नम॒स्य१॒॑श्चनो॑ धा॒द्विश्वे॑भिः पातु पा॒युभि॒र्नि सू॒रीन् ॥
अपि॑ , स्तु॒तः , स॒वि॒ता , दे॒वः , अ॒स्तु॒ , यं , आ , चि॒त् , विश्वे॑ , वस॑वः , गृ॒णंति॑ । सः , नः॒ , स्तोमा॑न् , न॒म॒स्यः॑ , चनः॑ , धा॒त् , विश्वे॑भिः , पा॒तु॒ , पा॒युऽभिः॑ , नि , सू॒रीन् ॥
अ॒भि यं दे॒व्यदि॑तिर्गृ॒णाति॑ स॒वं दे॒वस्य॑ सवि॒तुर्जु॑षा॒णा । अ॒भि स॒म्राजो॒ वरु॑णो गृणंत्य॒भि मि॒त्रासो॑ अर्य॒मा स॒जोषाः॑ ॥
अ॒भि , यं , दे॒वी , अदि॑तिः , गृ॒णाति॑ , स॒वं , दे॒वस्य॑ , स॒वि॒तुः , जु॒षा॒णा । अ॒भि , सं॒ऽराजः॑ , वरु॑णः , गृ॒णं॒ति॒ , अ॒भि , मि॒त्रासः॑ , अ॒र्य॒मा , स॒ऽजोषाः॑ ॥
अ॒भि ये मि॒थो व॒नुषः॒ सपं॑ते रा॒तिं दि॒वो रा॑ति॒षाचः॑ पृथि॒व्याः । अहि॑र्बु॒ध्न्य॑ उ॒त नः॑ शृणोतु॒ वरू॒त्र्येक॑धेनुभि॒र्नि पा॑तु ॥
अ॒भि , ये , मि॒थः , व॒नुषः॑ , सपं॑ते , रा॒तिं , दि॒वः , रा॒ति॒ऽसाचः॑ , पृ॒थि॒व्याः । अहिः॑ , बु॒ध्न्यः॑ , उ॒त , नः॒ , शृ॒णो॒तु॒ , वरू॑त्री , एक॑धेनुऽभिः , नि , पा॒तु॒ ॥
अनु॒ तन्नो॒ जास्पति॑र्मंसीष्ट॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नः । भग॑मु॒ग्रोऽव॑से॒ जोह॑वीति॒ भग॒मनु॑ग्रो॒ अध॑ याति॒ रत्नं॑ ॥
अनु॑ , तत् , नः॒ , जाःपतिः॑ , मं॒सी॒ष्ट॒ , रत्नं॑ , दे॒वस्य॑ , स॒वि॒तुः , इ॒या॒नः । भगं॑ , उ॒ग्रः , अव॑से , जोह॑वीति , भगं॑ , अनु॑ग्रः , अध॑ , या॒ति॒ , रत्नं॑ ॥
शं नो॑ भवंतु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः । जं॒भयं॒तोऽहिं॒ वृकं॒ रक्षां॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥
शं , नः॒ , भ॒वं॒तु॒ , वा॒जिनः॑ , हवे॑षु , दे॒वऽता॑ता , मि॒तऽद्र॑वः , सु॒ऽअ॒र्काः । जं॒भयं॑तः , अहिं॑ , वृकं॑ , रक्षां॑सि , सने॑मि , अ॒स्मत् , यु॒य॒व॒न् , अमी॑वाः ॥
वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः । अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥
वाजे॑ऽवाजे , अ॒व॒त॒ , वा॒जि॒नः॒ , नः॒ , धने॑षु , वि॒प्राः॒ , अ॒मृ॒ताः॒ , ऋ॒त॒ऽज्ञाः॒ । अ॒स्य , मध्वः॑ , पि॒ब॒त॒ , मा॒दय॑ध्वं , तृ॒प्ताः , या॒त॒ , प॒थिऽभिः॑ , दे॒व॒ऽयानैः॑ ॥
[३९] ऊर्ध्वोअग्निरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ वायुपूषणौ १ विश्वेदेवाः ५ एवं ७) |
ऊ॒र्ध्वो अ॒ग्निः सु॑म॒तिं वस्वो॑ अश्रेत्प्रती॒ची जू॒र्णिर्दे॒वता॑तिमेति । भे॒जाते॒ अद्री॑ र॒थ्ये॑व॒ पंथा॑मृ॒तं होता॑ न इषि॒तो य॑जाति ॥
ऊ॒र्ध्वः , अ॒ग्निः , सु॒ऽम॒तिं , वस्वः॑ , अ॒श्रे॒त् , प्र॒ती॒ची , जू॒र्णिः , दे॒वऽता॑तिं , ए॒ति॒ । भे॒जाते॒ इति॑ , अद्री॒ इति॑ , र॒थ्या॑ऽइव , पंथां॑ , ऋ॒तं , होता॑ , नः॒ , इ॒षि॒तः , य॒जा॒ति॒ ॥
प्र वा॑वृजे सुप्र॒या ब॒र्हिरे॑षा॒मा वि॒श्पती॑व॒ बीरि॑ट इयाते । वि॒शाम॒क्तोरु॒षसः॑ पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न् ॥
प्र , व॒वृजे॒ , सु॒ऽप्र॒याः , ब॒र्हिः , ए॒षां॒ , आ , वि॒श्पती॑ इ॒वेति॑ वि॒श्पती॑ऽइव , बीरि॑टे , इ॒या॒ते॒ इति॑ । वि॒शां , अ॒क्तोः , उ॒षसः॑ , पू॒र्वऽहू॑तौ , वा॒युः , पू॒षा , स्व॒स्तये॑ , नि॒युत्वा॑न् ॥
ज्म॒या अत्र॒ वस॑वो रंत दे॒वा उ॒रावं॒तरि॑क्षे मर्जयंत शु॒भ्राः । अ॒र्वाक्प॒थ उ॑रुज्रयः कृणुध्वं॒ श्रोता॑ दू॒तस्य॑ ज॒ग्मुषो॑ नो अ॒स्य ॥
ज्म॒याः , अत्र॑ , वस॑वः , रं॒त॒ , दे॒वाः , उ॒रौ , अं॒तरि॑क्षे , म॒र्ज॒यं॒त॒ , शु॒भ्राः । अ॒र्वाक् , प॒थः , उ॒रु॒ऽज्र॒यः॒ , कृ॒णु॒ध्वं॒ , श्रोत॑ , दू॒तस्य॑ , ज॒ग्मुषः॑ , नः॒ , अ॒स्य ॥
ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमाः॑ स॒धस्थं॒ विश्वे॑ अ॒भि संति॑ दे॒वाः । ताँ अ॑ध्व॒र उ॑श॒तो य॑क्ष्यग्ने श्रु॒ष्टी भगं॒ नास॑त्या॒ पुरं॑धिं ॥
ते , हि , य॒ज्ञेषु॑ , य॒ज्ञिया॑सः , ऊमाः॑ , स॒धऽस्थं॑ , विश्वे॑ , अ॒भि , संति॑ , दे॒वाः । तान् , अ॒ध्व॒रे , उ॒श॒तः , य॒क्षि॒ , अ॒ग्ने॒ , श्रु॒ष्टी , भगं॑ , नास॑त्या , पुरं॑ऽधिं ॥
आग्ने॒ गिरो॑ दि॒व आ पृ॑थि॒व्या मि॒त्रं व॑ह॒ वरु॑ण॒मिंद्र॑म॒ग्निं । आर्य॒मण॒मदि॑तिं॒ विष्णु॑मेषां॒ सर॑स्वती म॒रुतो॑ मादयंतां ॥
आ , अ॒ग्ने॒ , गिरः॑ , दि॒वः , आ , पृ॒थि॒व्याः , मि॒त्रं , व॒ह॒ , वरु॑णं , इंद्रं॑ , अ॒ग्निं । आ , अ॒र्य॒मणं॑ , अदि॑तिं , विष्णुं॑ , ए॒षां॒ , सर॑स्वती , म॒रुतः॑ , मा॒द॒यं॒तां॒ ॥
र॒रे ह॒व्यं म॒तिभि॑र्य॒ज्ञिया॑नां॒ नक्ष॒त्कामं॒ मर्त्या॑ना॒मसि॑न्वन् । धाता॑ र॒यिम॑विद॒स्यं स॑दा॒सां स॑क्षी॒महि॒ युज्ये॑भि॒र्नु दे॒वैः ॥
र॒रे , ह॒व्यं , म॒तिऽभिः॑ , य॒ज्ञिया॑नां , नक्ष॑त् , कामं॑ , मर्त्या॑नां , असि॑न्वन् । धात॑ , र॒यिं , अ॒वि॒ऽद॒स्यं , स॒दा॒ऽसां , स॒क्षी॒महि॑ , युज्ये॑भिः , नु , दे॒वैः ॥
नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैर्ऋ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः । यच्छं॑तु चं॒द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नु , रोद॑सी॒ इति॑ , अ॒भिस्तु॑ते॒ इत्य॒भिऽस्तु॑ते , वसि॑ष्ठैः , ऋ॒तऽवा॑नः , वरु॑णः , मि॒त्रः , अ॒ग्निः । यच्छं॑तु , चं॒द्राः , उ॒प॒ऽमं , नः॒ , अ॒र्कं , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[४०] ओश्रुष्टिरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (अत्राखिलाविश्वेदेवाः) |
ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॒॑ समे॑तु॒ प्रति॒ स्तोमं॑ दधीमहि तु॒राणां॑ । यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा॑स्य र॒त्निनो॑ विभा॒गे ॥
ओ इति॑ , श्रु॒ष्टिः , वि॒द॒थ्या॑ , सं , ए॒तु॒ , प्रति॑ , स्तोमं॑ , द॒धी॒म॒हि॒ , तु॒राणां॑ । यत् , अ॒द्य , दे॒वः , स॒वि॒ता , सु॒वाति॑ , स्याम॑ , अ॒स्य॒ , र॒त्निनः॑ , वि॒ऽभा॒गे ॥
मि॒त्रस्तन्नो॒ वरु॑णो॒ रोद॑सी च॒ द्युभ॑क्त॒मिंद्रो॑ अर्य॒मा द॑दातु । दिदे॑ष्टु दे॒व्यदि॑ती॒ रेक्णो॑ वा॒युश्च॒ यन्नि॑यु॒वैते॒ भग॑श्च ॥
मि॒त्रः , तत् , नः॒ , वरु॑णः , रोद॑सी॒ इति॑ , च॒ , द्युऽभ॑क्तं , इंद्रः॑ , अ॒र्य॒मा , द॒दा॒तु॒ । दिदे॑ष्टु , दे॒वी , अदि॑तिः , रेक्णः॑ , वा॒युः , च॒ , यत् , नि॒यु॒वैते॒ इति॑ नि॒ऽयु॒वैते॑ , भगः॑ , च॒ ॥
सेदु॒ग्रो अ॑स्तु मरुतः॒ स शु॒ष्मी यं मर्त्यं॑ पृषदश्वा॒ अवा॑थ । उ॒तेम॒ग्निः सर॑स्वती जु॒नंति॒ न तस्य॑ रा॒यः प॑र्ये॒तास्ति॑ ॥
सः , इत् , उ॒ग्रः , अ॒स्तु॒ , म॒रु॒तः॒ , सः , शु॒ष्मी , यं , मर्त्यं॑ , पृ॒ष॒त्ऽअ॒श्वाः॒ , अवा॑थ । उ॒त , ईं॒ , अ॒ग्निः , सर॑स्वती , जु॒नंति॑ , न , तस्य॑ , रा॒यः , प॒रि॒ऽए॒ता , अ॒स्ति॒ ॥
अ॒यं हि ने॒ता वरु॑ण ऋ॒तस्य॑ मि॒त्रो राजा॑नो अर्य॒मापो॒ धुः । सु॒हवा॑ दे॒व्यदि॑तिरन॒र्वा ते नो॒ अंहो॒ अति॑ पर्ष॒न्नरि॑ष्टान् ॥
अ॒यं , हि , ने॒ता , वरु॑णः , ऋ॒तस्य॑ , मि॒त्रः , राजा॑नः , अ॒र्य॒मा , अपः॑ , धुरिति॒ धुः । सु॒ऽहवा॑ , दे॒वी , अदि॑तिः , अ॒न॒र्वा , ते , नः॒ , अंहः॑ , अति॑ , प॒र्ष॒न् , अरि॑ष्टान् ॥
अ॒स्य दे॒वस्य॑ मी॒ळ्हुषो॑ व॒या विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॒विर्भिः॑ । वि॒दे हि रु॒द्रो रु॒द्रियं॑ महि॒त्वं या॑सि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ॥
अ॒स्य , दे॒वस्य॑ , मी॒ळ्हुषः॑ , व॒याः , विष्णोः॑ , ए॒षस्य॑ , प्र॒ऽभृ॒थे , ह॒विःऽभिः॑ । वि॒दे , हि , रु॒द्रः , रु॒द्रियं॑ , म॒हि॒ऽत्वं , या॒सि॒ष्टं , व॒र्तिः , अ॒श्वि॒नौ॒ , इरा॑ऽवत् ॥
मात्र॑ पूषन्नाघृण इरस्यो॒ वरू॑त्री॒ यद्रा॑ति॒षाच॑श्च॒ रास॑न् । म॒यो॒भुवो॑ नो॒ अर्वं॑तो॒ नि पां॑तु वृ॒ष्टिं परि॑ज्मा॒ वातो॑ ददातु ॥
मा , अत्र॑ , पू॒ष॒न् , आ॒घृ॒णे॒ , इ॒र॒स्यः॒ , वरू॑त्री , यत् , रा॒ति॒ऽसाचः॑ , च॒ , रास॑न् । म॒यः॒ऽभुवः॑ , नः॒ , अर्वं॑तः , नि , पां॒तु॒ , वृ॒ष्टिं , परि॑ऽज्मा , वातः॑ , द॒दा॒तु॒ ॥
नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैर्ऋ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः । यच्छं॑तु चं॒द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नु , रोद॑सी॒ इति॑ , अ॒भिस्तु॑ते॒ इत्य॒भिऽस्तु॑ते , वसि॑ष्ठैः , ऋ॒तऽवा॑नः , वरु॑णः , मि॒त्रः , अ॒ग्निः । यच्छं॑तु , चं॒द्राः , उ॒प॒ऽमं , नः॒ , अ॒र्कं , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[४१] प्रातरग्निमिति सप्तर्चस्य सूकस्य मैत्रावरुणिर्वसिष्ठोभगः आद्यायाअग्नींद्र मित्रावरुणाश्विभगपूषब्रह्मणस्पतिसोमरुद्रादेवताः अंत्यायाउषा आद्याजगती शेषास्त्रिष्टुभः |
प्रा॒तर॒ग्निं प्रा॒तरिंद्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥
प्रा॒तः , अ॒ग्निं , प्रा॒तः , इंद्रं॑ , ह॒वा॒म॒हे॒ , प्रा॒तः , मि॒त्रावरु॑णा , प्रा॒तः , अ॒श्विना॑ । प्रा॒तः , भगं॑ , पू॒षणं॑ , ब्रह्म॑णः , पतिं॑ , प्रा॒तरिति॑ , सोमं॑ , उ॒त , रु॒द्रं , हु॒वे॒म॒ ॥
प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥
प्रा॒तः॒ऽजितं॑ , भगं॑ , उ॒ग्रं , हु॒वे॒म॒ , व॒यं , पु॒त्रं , अदि॑तेः , यः , वि॒ऽध॒र्ता । आ॒ध्रः , चि॒त् , यं , मन्य॑मानः , तु॒रः , चि॒त् , राजा॑ , चि॒त् , यं , भगं॑ , भ॒क्षि॒ , इति॑ , आह॑ ॥
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वंतः॑ स्याम ॥
भग॑ , प्रने॑त॒रिति॒ प्रऽने॑तः , भग॑ , सत्य॑ऽराधः , भग॑ , इ॒मां , धियं॑ , उत् , अ॒व॒ , दद॑त् , नः॒ । भग॑ , प्र , नः॒ , ज॒न॒य॒ , गोभिः॑ , अश्वैः॑ , भग॑ , प्र , नृऽभिः॑ , नृ॒ऽवंतः॑ , स्या॒म॒ ॥
उ॒तेदानीं॒ भग॑वंतः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्नां॑ । उ॒तोदि॑ता मघवं॒त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥
उत॑ , इ॒दानीं॑ , भग॑ऽवंतः , स्या॒म॒ , उ॒त , प्र॒ऽपि॒त्वे , उ॒त , मध्ये॑ , अह्नां॑ । उ॒त , उत्ऽइ॑ता , म॒घ॒ऽव॒न् , सूर्य॑स्य , व॒यं , दे॒वानां॑ , सु॒ऽम॒तौ , स्या॒म॒ ॥
भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वंतः स्याम । तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीति॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥
भगः॑ , ए॒व , भग॑ऽवान् , अ॒स्तु॒ , दे॒वाः॒ , तेन॑ , व॒यं , भग॑ऽवंतः , स्या॒म॒ । तं , त्वा॒ , भ॒ग॒ , सर्वः॑ , इत् , जो॒ह॒वी॒ति॒ , सः , नः॒ , भ॒ग॒ , पु॒रः॒ऽए॒ता , भ॒व॒ , इ॒ह ॥
सम॑ध्व॒रायो॒षसो॑ नमंत दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हंतु ॥
सं , अ॒ध्व॒राय॑ , उ॒षसः॑ , न॒मं॒त॒ , द॒धि॒क्रावा॑ऽइव , शुच॑ये , प॒दाय॑ । अ॒र्वा॒ची॒नं , व॒सु॒ऽविदं॑ , भगं॑ , नः॒ , रथं॑ऽइव , अश्वाः॑ , वा॒जिनः॑ , आ , व॒हं॒तु॒ ॥
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छंतु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
अश्व॑ऽवतीः , गोऽम॑तीः , नः॒ , उ॒षसः॑ , वी॒रऽव॑तीः , सदं॑ , उ॒च्छं॒तु॒ , भ॒द्राः । घृ॒तं , दुहा॑नाः , वि॒श्वतः॑ , प्रऽपी॑ताः , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[४२] प्रब्रह्माणइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ अग्निः १ देवाः १ अग्निः ३ एवं ६) |
प्र ब्र॒ह्माणो॒ अंगि॑रसो नक्षंत॒ प्र क्रं॑द॒नुर्न॑भ॒न्य॑स्य वेतु । प्र धे॒नव॑ उद॒प्रुतो॑ नवंत यु॒ज्याता॒मद्री॑ अध्व॒रस्य॒ पेशः॑ ॥
प्र , ब्र॒ह्माणः॑ , अंगि॑रसः , न॒क्षं॒त॒ , प्र , क्रं॒द॒नुः , न॒भ॒न्य॑स्य , वे॒तु॒ । प्र , धे॒नवः॑ , उ॒द॒ऽप्रुतः॑ , न॒वं॒त॒ , यु॒ज्यातां॑ , अद्री॒ इति॑ , अ॒ध्व॒रस्य॑ , पेशः॑ ॥
सु॒गस्ते॑ अग्ने॒ सन॑वित्तो॒ अध्वा॑ यु॒क्ष्वा सु॒ते ह॒रितो॑ रो॒हित॑श्च । ये वा॒ सद्म॑न्नरु॒षा वी॑र॒वाहो॑ हु॒वे दे॒वानां॒ जनि॑मानि स॒त्तः ॥
सु॒ऽगः , ते॒ , अ॒ग्ने॒ , सन॑ऽवित्तः , अध्वा॑ , यु॒क्ष्व , सु॒ते , ह॒रितः॑ , रो॒हितः॑ , च॒ । ये , वा॒ , सद्म॑न् , अ॒रु॒षाः , वी॒र॒ऽवाहः॑ , हु॒वे , दे॒वानां॑ , जनि॑मानि , स॒त्तः ॥
समु॑ वो य॒ज्ञं म॑हय॒न्नमो॑भिः॒ प्र होता॑ मं॒द्रो रि॑रिच उपा॒के । यज॑स्व॒ सु पु॑र्वणीक दे॒वाना य॒ज्ञिया॑म॒रम॑तिं ववृत्याः ॥
सं , ऊँ॒ इति॑ , वः॒ , य॒ज्ञं , म॒ह॒य॒न् , नमः॑ऽभिः , प्र , होता॑ , मं॒द्रः , रि॒रि॒चे॒ , उ॒पा॒के । यज॑स्व , सु , पु॒रु॒ऽअ॒नी॒क॒ , दे॒वान् , आ , य॒ज्ञियां॑ , अ॒रम॑तिं , व॒वृ॒त्याः॒ ॥
य॒दा वी॒रस्य॑ रे॒वतो॑ दुरो॒णे स्यो॑न॒शीरति॑थिरा॒चिके॑तत् । सुप्री॑तो अ॒ग्निः सुधि॑तो॒ दम॒ आ स वि॒शे दा॑ति॒ वार्य॒मिय॑त्यै ॥
य॒दा , वी॒रस्य॑ , रे॒वतः॑ , दु॒रो॒णे , स्यो॒न॒ऽशीः , अति॑थिः , आ॒ऽचिके॑तत् । सुऽप्री॑तः , अ॒ग्निः , सुऽधि॑तः , दमे॑ , आ , सः , वि॒शे , दा॒ति॒ , वार्यं॑ , इय॑त्यै ॥
इ॒मं नो॑ अग्ने अध्व॒रं जु॑षस्व म॒रुत्स्विंद्रे॑ य॒शसं॑ कृधी नः । आ नक्ता॑ ब॒र्हिः स॑दतामु॒षासो॒शंता॑ मि॒त्रावरु॑णा यजे॒ह ॥
इ॒मं , नः॒ , अ॒ग्ने॒ , अ॒ध्व॒रं , जु॒ष॒स्व॒ , म॒रुत्ऽसु॑ , इंद्रे॑ , य॒शसं॑ , कृ॒धि॒ , नः॒ । आ , नक्ता॑ , ब॒र्हिः , स॒द॒तां॒ , उ॒षसा॑ , उ॒शंता॑ , मि॒त्रावरु॑णा , य॒ज॒ , इ॒ह ॥
ए॒वाग्निं स॑ह॒स्यं१॒॑ वसि॑ष्ठो रा॒यस्का॑मो वि॒श्वप्स्न्य॑स्य स्तौत् । इषं॑ र॒यिं प॑प्रथ॒द्वाज॑म॒स्मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ए॒व , अ॒ग्निं , स॒ह॒स्यं॑ , वसि॑ष्ठः , रा॒यःऽका॑मः , वि॒श्वऽप्स्न्य॑स्य , स्तौ॒त् । इषं॑ , र॒यिं , प॒प्र॒थ॒त् , वाजं॑ , अ॒स्मे इति॑ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[४३] प्रवोयज्ञेष्विति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो विश्वेदेवात्रिष्टुप् | (भेदपक्षे - विश्वेदेवाः १ यज्ञः १ विश्वेदेवाः २ अग्निः १ एवं ५) |
प्र वो॑ य॒ज्ञेषु॑ देव॒यंतो॑ अर्चं॒द्यावा॒ नमो॑भिः पृथि॒वी इ॒षध्यै॑ । येषां॒ ब्रह्मा॒ण्यस॑मानि॒ विप्रा॒ विष्व॑ग्वि॒यंति॑ व॒निनो॒ न शाखाः॑ ॥
प्र , वः॒ , य॒ज्ञेषु॑ , दे॒व॒ऽयंतः॑ , अ॒र्च॒न् , द्यावा॑ , नमः॑ऽभिः , पृ॒थि॒वी इति॑ , इ॒षध्यै॑ । येषां॑ , ब्रह्मा॑णि , अस॑मानि , विप्राः॑ , विष्व॑क् , वि॒ऽयंति॑ , व॒निनः॑ , न , शाखाः॑ ॥
प्र य॒ज्ञ ए॑तु॒ हेत्वो॒ न सप्ति॒रुद्य॑च्छध्वं॒ सम॑नसो घृ॒ताचीः॑ । स्तृ॒णी॒त ब॒र्हिर॑ध्व॒राय॑ सा॒धूर्ध्वा शो॒चींषि॑ देव॒यून्य॑स्थुः ॥
प्र , य॒ज्ञः , ए॒तु॒ , हेत्वः॑ , न , सप्तिः॑ , उत् , य॒च्छ॒ध्वं॒ , सऽम॑नसः , घृ॒ताचीः॑ । स्तृ॒णी॒त , ब॒र्हिः , अ॒ध्व॒राय॑ , सा॒धु , ऊ॒र्ध्वा , शो॒चींषि॑ , दे॒व॒ऽयूनि॑ , अ॒स्थुः॒ ॥
आ पु॒त्रासो॒ न मा॒तरं॒ विभृ॑त्राः॒ सानौ॑ दे॒वासो॑ ब॒र्हिषः॑ सदंतु । आ वि॒श्वाची॑ विद॒थ्या॑मन॒क्त्वग्ने॒ मा नो॑ दे॒वता॑ता॒ मृध॑स्कः ॥
आ , पु॒त्रासः॑ , न , मा॒तरं॑ , विऽभृ॑त्राः , सानौ॑ , दे॒वासः॑ , ब॒र्हिषः॑ , स॒दं॒तु॒ । आ , वि॒श्वाची॑ , वि॒द॒थ्यां॑ , अ॒न॒क्तु॒ , अग्ने॑ , मा , नः॒ , दे॒वऽता॑ता , मृधः॑ , क॒रिति॑ कः ॥
ते सी॑षपंत॒ जोष॒मा यज॑त्रा ऋ॒तस्य॒ धाराः॑ सु॒दुघा॒ दुहा॑नाः । ज्येष्ठं॑ वो अ॒द्य मह॒ आ वसू॑ना॒मा गं॑तन॒ सम॑नसो॒ यति॒ ष्ठ ॥
ते , सी॒ष॒पं॒त॒ , जोषं॑ , आ , यज॑त्राः , ऋ॒तस्य॑ , धाराः॑ , सु॒ऽदुघाः॑ , दुहा॑नाः । ज्येष्ठं॑ , वः॒ , अ॒द्य , महः॑ , आ , वसू॑नां , आ , गं॒त॒न॒ , सऽम॑नसः , यति॑ , स्थ ॥
ए॒वा नो॑ अग्ने वि॒क्ष्वा द॑शस्य॒ त्वया॑ व॒यं स॑हसाव॒न्नास्क्राः॑ । रा॒या यु॒जा स॑ध॒मादो॒ अरि॑ष्टा यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ए॒व , नः॒ , अ॒ग्ने॒ , वि॒क्षु , आ , द॒श॒स्य॒ , त्वया॑ , व॒यं , स॒ह॒सा॒ऽव॒न् , आस्क्राः॑ । रा॒या , यु॒जा , स॒ध॒ऽमादः॑ , अरि॑ष्टाः , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[४४] दधिक्रांवइति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोदधिक्रा आद्यायादधिक्राव्युषोग्निभगेंद्र विष्णुपूषब्रह्मणस्पत्यादित्यद्यावापृथिव्यापस्त्रिष्टुबाद्याजगती |
द॒धि॒क्रां वः॑ प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये॑ हुवे । इंद्रं॒ विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यांद्यावा॑पृथि॒वी अ॒पः स्वः॑ ॥
द॒धि॒ऽक्रां , वः॒ , प्र॒थ॒मं , अ॒श्विना॑ , उ॒षसं॑ , अ॒ग्निं , संऽइ॑द्धं , भगं॑ , ऊ॒तये॑ , हु॒वे॒ । इंद्रं॑ , विष्णुं॑ , पू॒षणं॑ , ब्रह्म॑णः , पतिं॑ , आ॒दि॒त्यान् , द्यावा॑पृथि॒वी इति॑ , अ॒पः , स्व१॒॑रिति॒ स्वः॑ ॥
द॒धि॒क्रामु॒ नम॑सा बो॒धयं॑त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यंतः॑ । इळां॑ दे॒वीं ब॒र्हिषि॑ सा॒दयं॑तो॒ऽश्विना॒ विप्रा॑ सु॒हवा॑ हुवेम ॥
द॒धि॒ऽक्रां , ऊँ॒ इति॑ , नम॑सा , बो॒धयं॑तः , उ॒त्ऽईरा॑णाः , य॒ज्ञं , उ॒प॒ऽप्र॒यंतः॑ । इळां॑ , दे॒वीं , ब॒र्हिषि॑ , सा॒दयं॑तः , अ॒श्विना॑ , विप्रा॑ , सु॒ऽहवा॑ , हु॒वे॒म॒ ॥
द॒धि॒क्रावा॑णं बुबुधा॒नो अ॒ग्निमुप॑ ब्रुव उ॒षसं॒ सूर्यं॒ गां । ब्र॒ध्नं मँ॑श्च॒तोर्वरु॑णस्य ब॒भ्रुं ते विश्वा॒स्मद्दु॑रि॒ता या॑वयंतु ॥
द॒धि॒ऽक्रावा॑णं , बु॒बु॒धा॒नः , अ॒ग्निं , उप॑ , ब्रु॒वे॒ , उ॒षसं॑ , सूर्यं॑ , गां । ब्र॒ध्नं , मँ॒श्च॒तोः , वरु॑णस्य , ब॒भ्रुं , ते , विश्वा॑ , अ॒स्मत् , दुः॒ऽइ॒ता , य॒व॒यं॒तु॒ ॥
द॒धि॒क्रावा॑ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा॑नां भवति प्रजा॒नन् । सं॒वि॒दा॒न उ॒षसा॒ सूर्ये॑णादि॒त्येभि॒र्वसु॑भि॒रंगि॑रोभिः ॥
द॒धि॒ऽक्रावा॑ , प्र॒थ॒मः , वा॒जी , अर्वा॑ , अग्रे॑ , रथा॑नां , भ॒व॒ति॒ , प्र॒ऽजा॒नन् । सं॒ऽवि॒दा॒नः , उ॒षसा॑ , सूर्ये॑ण , आ॒दि॒त्येभिः॑ , वसु॑ऽभिः , अंगि॑रःऽभिः ॥
आ नो॑ दधि॒क्राः प॒थ्या॑मनक्त्वृ॒तस्य॒ पंथा॒मन्वे॑त॒वा उ॑ । शृ॒णोतु॑ नो॒ दैव्यं॒ शर्धो॑ अ॒ग्निः शृ॒ण्वंतु॒ विश्वे॑ महि॒षा अमू॑राः ॥
आ , नः॒ , द॒धि॒ऽक्राः , प॒थ्यां॑ , अ॒न॒क्तु॒ , ऋ॒तस्य॑ , पंथां॑ , अनु॑ऽए॒त॒वै , ऊँ॒ इति॑ । शृ॒णोतु॑ , नः॒ , दैव्यं॑ , शर्धः॑ , अ॒ग्निः , शृ॒ण्वंतु॑ , विश्वे॑ , म॒हि॒षाः , अमू॑राः ॥
[४५] आदेवइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सवितात्रिष्टुप् |
आ दे॒वो या॑तु सवि॒ता सु॒रत्नो॑ऽन्तरिक्ष॒प्रा वह॑मानो॒ अश्वैः॑ । हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ निवे॒शयं॑च प्रसु॒वंच॒ भूम॑ ॥
आ , दे॒वः , या॒तु॒ , स॒वि॒ता , सु॒ऽरत्नः॑ , अं॒त॒रि॒क्ष॒ऽप्राः , वह॑मानः , अश्वैः॑ । हस्ते॑ , दधा॑नः , नर्या॑ , पु॒रूणि॑ , नि॒ऽवे॒शय॑न् , च॒ , प्र॒ऽसु॒वन् , च॒ , भूम॑ ॥
उद॑स्य बा॒हू शि॑थि॒रा बृ॒हंता॑ हिर॒ण्यया॑ दि॒वो अंताँ॑ अनष्टां । नू॒नं सो अ॑स्य महि॒मा प॑निष्ट॒ सूर॑श्चिदस्मा॒ अनु॑ दादप॒स्यां ॥
उत् , अ॒स्य॒ , बा॒हू इति॑ , शि॒थि॒रा , बृ॒हंता॑ , हि॒र॒ण्यया॑ , दि॒वः , अंता॑न् , अ॒न॒ष्टां॒ । नू॒नं , सः , अ॒स्य॒ , म॒हि॒मा , प॒नि॒ष्ट॒ , सूरः॑ , चि॒त् , अ॒स्मै॒ , अनु॑ , दा॒त् , अ॒प॒स्यां ॥
स घा॑ नो दे॒वः स॑वि॒ता स॒हावा सा॑विष॒द्वसु॑पति॒र्वसू॑नि । वि॒श्रय॑माणो अ॒मति॑मुरू॒चीं म॑र्त॒भोज॑न॒मध॑ रासते नः ॥
सः , घ॒ , नः॒ , दे॒वः , स॒वि॒ता , स॒हऽवा॑ , आ , सा॒वि॒ष॒त् , वसु॑ऽपतिः , वसू॑नि । वि॒ऽश्रय॑माणः , अ॒मतिं॑ , उ॒रू॒चीं , म॒र्त॒ऽभोज॑नं , अध॑ , रा॒स॒ते॒ , नः॒ ॥
इ॒मा गिरः॑ सवि॒तारं॑ सुजि॒ह्वं पू॒र्णग॑भस्तिमीळते सुपा॒णिं । चि॒त्रं वयो॑ बृ॒हद॒स्मे द॑धातु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
इ॒माः , गिरः॑ , स॒वि॒तारं॑ , सु॒ऽजि॒ह्वं , पू॒र्णऽग॑भस्तिं , ई॒ळ॒ते॒ , सु॒ऽपा॒णिं । चि॒त्रं , वयः॑ , बृ॒हत् , अ॒स्मे इति॑ , द॒धा॒तु॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[४६] इमारुद्रायेति चतुरृचस्यसूक्तस्य मैत्रावरुणिर्वसिष्ठो रुद्रोजगत्यंत्यात्रिष्टुप् |
इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः॑ क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने॑ । अषा॑ळ्हाय॒ सह॑मानाय वे॒धसे॑ ति॒ग्मायु॑धाय भरता शृ॒णोतु॑ नः ॥
इ॒माः , रु॒द्राय॑ , स्थि॒रऽध॑न्वने , गिरः॑ , क्षि॒प्रऽइ॑षवे , दे॒वाय॑ , स्व॒धाऽव्ने॑ । अषा॑ळ्हाय , सह॑मानाय , वे॒धसे॑ , ति॒ग्मऽआ॑युधाय , भ॒र॒त॒ , शृ॒णोतु॑ , नः॒ ॥
स हि क्षये॑ण॒ क्षम्य॑स्य॒ जन्म॑नः॒ साम्रा॑ज्येन दि॒व्यस्य॒ चेत॑ति । अव॒न्नवं॑ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ॥
सः , हि , क्षये॑ण , क्षम्य॑स्य , जन्म॑नः , सांऽरा॑ज्येन , दि॒व्यस्य॑ , चेत॑ति । अव॑न् , अवं॑तीः , उप॑ , नः॒ , दुरः॑ , च॒र॒ , अ॒न॒मी॒वः , रु॒द्र॒ , जासु॑ , नः॒ , भ॒व॒ ॥
या ते॑ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः । स॒हस्रं॑ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥
या , ते॒ , दि॒द्युत् , अव॑ऽसृष्टा , दि॒वः , परि॑ , क्ष्म॒या , चर॑ति , परि॑ , सा , वृ॒ण॒क्तु॒ , नः॒ । स॒हस्रं॑ , ते॒ , सु॒ऽअ॒पि॒वा॒त॒ , भे॒ष॒जा , मा , नः॒ , तो॒केषु॑ , तन॑येषु , रि॒रि॒षः॒ ॥
मा नो॑ वधी रुद्र॒ मा परा॑ दा॒ मा ते॑ भूम॒ प्रसि॑तौ हीळि॒तस्य॑ । आ नो॑ भज ब॒र्हिषि॑ जीवशं॒से यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
मा , नः॒ , व॒धीः॒ , रु॒द्र॒ , मा , परा॑ , दाः॒ , मा , ते॒ , भू॒म॒ , प्रऽसि॑तौ , ही॒ळि॒तस्य॑ । आ , नः॒ , भ॒ज॒ , ब॒र्हिषि॑ , जी॒व॒ऽशं॒से , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[४७] आपोयंवइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआपस्त्रिष्टुप् |
आपो॒ यं वः॑ प्रथ॒मं दे॑व॒यंत॑ इंद्र॒पान॑मू॒र्मिमकृ॑ण्वते॒ळः । तं वो॑ व॒यं शुचि॑मरि॒प्रम॒द्य घृ॑त॒प्रुषं॒ मधु॑मंतं वनेम ॥
आपः॑ , यं , वः॒ , प्र॒थ॒मं , द॒व॒ऽयंतः॑ , इं॒द्र॒ऽपानं॑ , ऊ॒र्मिं , अकृ॑ण्वत , इ॒ळः । तं , वः॒ , व॒यं , शुचिं॑ , अ॒रि॒प्रं , अ॒द्य , घृ॒त॒ऽप्रुषं॑ , मधु॑ऽमंतं , व॒ने॒म॒ ॥
तमू॒र्मिमा॑पो॒ मधु॑मत्तमं वो॒ऽपां नपा॑दवत्वाशु॒हेमा॑ । यस्मि॒न्निंद्रो॒ वसु॑भिर्मा॒दया॑ते॒ तम॑श्याम देव॒यंतो॑ वो अ॒द्य ॥
तं , ऊ॒र्मिं , आ॒पः॒ , मधु॑मत्ऽतमं , वः॒ , अ॒पां , नपा॑त् , अ॒व॒तु॒ , आ॒शु॒ऽहेमा॑ । यस्मि॑न् , इंद्रः॑ , वसु॑ऽभिः , मा॒दया॑ते , तं , अ॒श्या॒म॒ , दे॒व॒ऽयंतः॑ , वः॒ , अ॒द्य ॥
श॒तप॑वित्राः स्व॒धया॒ मदं॑तीर्दे॒वीर्दे॒वाना॒मपि॑ यंति॒ पाथः॑ । ता इंद्र॑स्य॒ न मि॑नंति व्र॒तानि॒ सिंधु॑भ्यो ह॒व्यं घृ॒तव॑ज्जुहोत ॥
श॒तऽप॑वित्राः , स्व॒धया॑ , मदं॑तीः , दे॒वीः , दे॒वानां॑ , अपि॑ , यं॒ति॒ , पाथः॑ । ताः , इंद्र॑स्य , न , मि॒नं॒ति॒ , व्र॒तानि॑ , सिंधु॑ऽभ्यः , ह॒व्यं , घृ॒तऽव॑त् , जु॒हो॒त॒ ॥
याः सूर्यो॑ र॒श्मिभि॑रात॒तान॒ याभ्य॒ इंद्रो॒ अर॑दद्गा॒तुमू॒र्मिं । ते सिं॑धवो॒ वरि॑वो धातना नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
याः , सूर्यः॑ , र॒श्मिऽभिः॑ , आ॒ऽत॒तान॑ , याभ्यः॑ , इंद्रः॑ , अर॑दत् , गा॒तुं , ऊ॒र्मिं । ते , सिं॒ध॒वः॒ , वरि॑वः , धा॒त॒न॒ , नः॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[४८] ऋभुक्षणइति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठऋभवस्त्रिष्टुप्अंत्यायाविश्वेदेवावा |
ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑ । आ वो॒ऽर्वाचः॒ क्रत॑वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं॑ वर्तयंतु ॥
ऋभु॑क्षणः , वा॒जाः॒ , मा॒दय॑ध्वं , अ॒स्मे इति॑ , न॒रः॒ , म॒घ॒ऽवा॒नः॒ , सु॒तस्य॑ । आ , वः॒ , अ॒र्वाचः॑ , क्रत॑वः , न , या॒तां , विऽभ्वः॑ , रथं॑ , नर्यं॑ , व॒र्त॒यं॒तु॒ ॥
ऋ॒भुर्ऋ॒भुभि॑र॒भि वः॑ स्याम॒ विभ्वो॑ वि॒भुभिः॒ शव॑सा॒ शवां॑सि । वाजो॑ अ॒स्माँ अ॑वतु॒ वाज॑साता॒विंद्रे॑ण यु॒जा त॑रुषेम वृ॒त्रं ॥
ऋ॒भुः , ऋ॒भुऽभिः॑ , अ॒भि , वः॒ , स्या॒म॒ , विऽभ्वः॑ , वि॒भुऽभिः॑ , शव॑सा , शवां॑सि । वाजः॑ , अ॒स्मान् , अ॒व॒तु॒ , वाज॑ऽसातौ , इंद्रे॑ण , यु॒जा , त॒रु॒षे॒म॒ , वृ॒त्रं ॥
ते चि॒द्धि पू॒र्वीर॒भि संति॑ शा॒सा विश्वाँ॑ अ॒र्य उ॑प॒रता॑ति वन्वन् । इंद्रो॒ विभ्वाँ॑ ऋभु॒क्षा वाजो॑ अ॒र्यः शत्रो॑र्मिथ॒त्या कृ॑णव॒न्वि नृ॒म्णं ॥
ते , चि॒त् , हि , पू॒र्वीः , अ॒भि , संति॑ , शा॒सा , विश्वा॑न् , अ॒र्यः , उ॒प॒रऽता॑ति , व॒न्व॒न् । इंद्रः॑ , विऽभ्वा॑ , ऋ॒भु॒क्षाः , वाजः॑ , अ॒र्यः , शत्रोः॑ , मि॒थ॒त्या , कृ॒ण॒व॒न् , वि , नृ॒म्णं ॥
नू दे॑वासो॒ वरि॑वः कर्तना नो भू॒त नो॒ विश्वेऽव॑से स॒जोषाः॑ । सम॒स्मे इषं॒ वस॑वो ददीरन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नु , दे॒वा॒सः॒ , वरि॑वः , क॒र्त॒न॒ , नः॒ , भू॒त , नः॒ , विश्वे॑ , अव॑से , स॒ऽजोषाः॑ । सं , अ॒स्मे इति॑ , इषं॑ , वस॑वः , द॒दी॒र॒न् , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[४९] समुद्रज्येष्ठ इति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआपस्त्रिष्टुप् |
स॒मु॒द्रज्ये॑ष्ठाः सलि॒लस्य॒ मध्या॑त्पुना॒ना यं॒त्यनि॑विशमानाः । इंद्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता आपो॑ दे॒वीरि॒ह माम॑वंतु ॥
स॒मु॒द्रऽज्ये॑ष्ठाः , स॒लि॒लस्य॑ , मध्या॑त् , पु॒ना॒नाः , यं॒ति॒ , अनि॑ऽविशमानाः । इंद्रः॑ , याः , व॒ज्री , वृ॒ष॒भः , र॒राद॑ , ताः , आपः॑ , दे॒वीः , इ॒ह , मां , अ॒वं॒तु॒ ॥
या आपो॑ दि॒व्या उ॒त वा॒ स्रवं॑ति ख॒नित्रि॑मा उ॒त वा॒ याः स्व॑यं॒जाः । स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वंतु ॥
याः , आपः॑ , दि॒व्याः , उ॒त , वा॒ , स्रवं॑ति , ख॒नित्रि॑माः , उ॒त , वा॒ , याः , स्व॒यं॒ऽजाः । स॒मु॒द्रऽअ॑र्थाः , याः , शुच॑यः , पा॒व॒काः , ताः , आपः॑ , दे॒वीः , इ॒ह , मां , अ॒वं॒तु॒ ॥
यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्यं॒जना॑नां । म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वंतु ॥
यासां॑ , राजा॑ , वरु॑णः , याति॑ , मध्ये॑ , स॒त्या॒नृ॒ते इति॑ , अ॒व॒ऽपश्य॑न् , जना॑नां । म॒धु॒ऽश्चुतः॑ , शुच॑यः , याः , पा॒व॒काः , ताः , आपः॑ , दे॒वीः , इ॒ह , मां , अ॒वं॒तु॒ ॥
यासु॒ राजा॒ वरु॑णो॒ यासु॒ सोमो॒ विश्वे॑ दे॒वा यासूर्जं॒ मदं॑ति । वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता आपो॑ दे॒वीरि॒ह माम॑वंतु ॥
यासु॑ , राजा॑ , वरु॑णः , यासु॑ , सोमः॑ , विश्वे॑ , दे॒वाः , यासु॑ , ऊर्जं॑ , मदं॑ति । वै॒श्वा॒न॒रः , यासु॑ , अ॒ग्निः , प्रऽवि॑ष्टः , ताः , आपः॑ , दे॒वीः , इ॒ह , मां , अ॒वं॒तु॒ ॥
[५०] आमामिति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ मित्रावरुणापग्निर्विश्वेदेवानद्यइति क्रमेणदेवताजगत्यंत्यातिजगतीशक्वरीवा |
आ मां मि॑त्रावरुणे॒ह र॑क्षतं कुला॒यय॑द्वि॒श्वय॒न्मा न॒ आ ग॑न् । अ॒ज॒का॒वं दु॒र्दृशी॑कं ति॒रो द॑धे॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥
आ , मां , मि॒त्रा॒व॒रु॒णा॒ , इ॒ह , र॒क्ष॒तं॒ , कु॒ला॒यय॑त् , वि॒ऽश्वय॑त् , मा , नः॒ , आ , ग॒न् । अ॒ज॒का॒ऽवं , दुः॒ऽदृशी॑कं , ति॒रः , द॒धे॒ , मा , मां , पद्ये॑न , रप॑सा , वि॒द॒त् , त्सरुः॑ ॥
यद्वि॒जाम॒न्परु॑षि॒ वंद॑नं॒ भुव॑दष्ठी॒वंतौ॒ परि॑ कु॒ल्फौ च॒ देह॑त् । अ॒ग्निष्टच्छोच॒न्नप॑ बाधतामि॒तो मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥
यत् , वि॒ऽजाम॑न् , परु॑षि , वंद॑नं , भुव॑त् , अ॒ष्ठी॒वंतौ॑ , परि॑ , कु॒ल्फौ , च॒ , देह॑त् । अ॒ग्निः , तत् , शोच॑न् , अप॑ , बा॒ध॒तां॒ , इ॒तः , मा , मां , पद्ये॑न , रप॑सा , वि॒द॒त् , त्सरुः॑ ॥
यच्छ॑ल्म॒लौ भव॑ति॒ यन्न॒दीषु॒ यदोष॑धीभ्यः॒ परि॒ जाय॑ते वि॒षं । विश्वे॑ दे॒वा निरि॒तस्तत्सु॑वंतु॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥
यत् , श॒ल्म॒लौ , भव॑ति , यत् , न॒दीषु॑ , यत् , ओष॑धीभ्यः , परि॑ , जाय॑ते , वि॒षं । विश्वे॑ , दे॒वाः , निः , इ॒तः , तत् , सु॒वं॒तु॒ , मा , मां , पद्ये॑न , रप॑सा , वि॒द॒त् , त्सरुः॑ ॥
याः प्र॒वतो॑ नि॒वत॑ उ॒द्वत॑ उद॒न्वती॑रनुद॒काश्च॒ याः । ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः शि॒वा दे॒वीर॑शिप॒दा भ॑वंतु॒ सर्वा॑ न॒द्यो॑ अशिमि॒दा भ॑वंतु ॥
याः , प्र॒ऽवतः॑ , नि॒ऽवतः॑ , उ॒त्ऽवतः॑ , उ॒द॒न्ऽवतीः॑ , अ॒नु॒द॒काः , च॒ , याः । ताः , अ॒स्मभ्यं॑ , पय॑सा , पिन्व॑मानाः , शि॒वाः , दे॒वीः , अ॒शि॒प॒दाः , भ॒वं॒तु॒ , सर्वाः॑ , न॒द्यः॑ , अ॒शि॒मि॒दाः , भ॒वं॒तु॒ ॥
[५१] आदित्यानामिति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआदित्यास्त्रिष्टुप् |
आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ॥
आ॒दि॒त्यानां॑ , अव॑सा , नूत॑नेन , स॒क्षी॒महि॑ , शर्म॑णा , शंऽत॑मेन । अ॒ना॒गाः॒ऽत्वे , अ॒दि॒ति॒ऽत्वे , तु॒रासः॑ , इ॒मं , य॒ज्ञं , द॒ध॒तु॒ , श्रोष॑माणाः ॥
आ॒दि॒त्यासो॒ अदि॑तिर्मादयंतां मि॒त्रो अ॑र्य॒मा वरु॑णो॒ रजि॑ष्ठाः । अ॒स्माकं॑ संतु॒ भुव॑नस्य गो॒पाः पिबं॑तु॒ सोम॒मव॑से नो अ॒द्य ॥
आ॒दि॒त्यासः॑ , अदि॑तिः , मा॒द॒यं॒तां॒ , मि॒त्रः , अ॒र्य॒मा , वरु॑णः , रजि॑ष्ठाः । अ॒स्माकं॑ , सं॒तु॒ , भुव॑नस्य , गो॒पाः , पिबं॑तु , सोमं॑ , अव॑से , नः॒ , अ॒द्य ॥
आ॒दि॒त्या विश्वे॑ म॒रुत॑श्च॒ विश्वे॑ दे॒वाश्च॒ विश्व॑ ऋ॒भव॑श्च॒ विश्वे॑ । इंद्रो॑ अ॒ग्निर॒श्विना॑ तुष्टुवा॒ना यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
आ॒दि॒त्याः , विश्वे॑ , म॒रुतः॑ , च॒ , विश्वे॑ , दे॒वाः , च॒ , विश्वे॑ , ऋ॒भवः॑ , च॒ , विश्वे॑ । इंद्रः॑ , अ॒ग्निः , अ॒श्विना॑ , तु॒स्तु॒वा॒नाः , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[५२] आदित्यासइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआदित्यास्त्रिष्टुप् |
आ॒दि॒त्यासो॒ अदि॑तयः स्याम॒ पूर्दे॑व॒त्रा व॑सवो मर्त्य॒त्रा । सने॑म मित्रावरुणा॒ सनं॑तो॒ भवे॑म द्यावापृथिवी॒ भवं॑तः ॥
आ॒दि॒त्यासः॑ , अदि॑तयः , स्या॒म॒ , पूः , दे॒व॒ऽत्रा , व॒स॒वः॒ , म॒र्त्य॒ऽत्रा । सने॑म , मि॒त्रा॒व॒रु॒णा॒ , सनं॑तः , भवे॑म , द्या॒वा॒पृ॒थि॒वी॒ इति॑ , भवं॑तः ॥
मि॒त्रस्तन्नो॒ वरु॑णो मामहंत॒ शर्म॑ तो॒काय॒ तन॑याय गो॒पाः । मा वो॑ भुजेमा॒न्यजा॑त॒मेनो॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे ॥
मि॒त्रः , तत् , नः॒ , वरु॑णः , म॒म॒हं॒त॒ , शर्म॑ , तो॒काय॑ , तन॑याय , गो॒पाः । मा , वः॒ , भु॒जे॒म॒ , अ॒न्यऽजा॑तं , एनः॑ , मा , तत् , क॒र्म॒ , व॒स॒वः॒ , यत् , चय॑ध्वे ॥
तु॒र॒ण्यवोऽङ्गि॑रसो नक्षंत॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नाः । पि॒ता च॒ तन्नो॑ म॒हान्यज॑त्रो॒ विश्वे॑ दे॒वाः सम॑नसो जुषंत ॥
तु॒र॒ण्यवः॑ , अंगि॑रसः , न॒क्षं॒त॒ , रत्नं॑ , दे॒वस्य॑ , स॒वि॒तुः , इ॒या॒नाः । पि॒ता , च॒ , तत् , नः॒ , म॒हान् , यज॑त्रः , विश्वे॑ , दे॒वाः , सऽम॑नसः , जु॒षं॒त॒ ॥
[५३] प्रद्यावेति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोद्यावापृथिव्यौत्रिष्टुप् |
प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी नमो॑भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे । ते चि॒द्धि पूर्वे॑ क॒वयो॑ गृ॒णंतः॑ पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ॥
प्र , द्यावा॑ , य॒ज्ञैः , पृ॒थि॒वी इति॑ , नमः॑ऽभिः , स॒ऽबाधः॑ , ई॒ळे॒ , बृ॒ह॒ती इति॑ , यज॑त्रे॒ इति॑ । ते इति॑ , चि॒त् , हि , पूर्वे॑ , क॒वयः॑ , गृ॒णंतः॑ , पु॒रः , म॒ही इति॑ , द॒धि॒रे , दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे ॥
प्र पू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्वं॒ सद॑ने ऋ॒तस्य॑ । आ नो॑ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यातं॒ महि॑ वां॒ वरू॑थं ॥
प्र , पू॒र्व॒जे इति॑ पू॒र्व॒ऽजे , पि॒तरा॑ , नव्य॑सीभिः , गीः॒ऽभिः , कृ॒णु॒ध्वं॒ , सद॑ने॒ इति॑ , ऋ॒तस्य॑ । आ , नः॒ , द्या॒वा॒पृ॒थि॒वी॒ इति॑ , दैव्ये॑न , जने॑न , या॒तं॒ , महि॑ , वां॒ , वरू॑थं ॥
उ॒तो हि वां॑ रत्न॒धेया॑नि॒ संति॑ पु॒रूणि॑ द्यावापृथिवी सु॒दासे॑ । अ॒स्मे ध॑त्तं॒ यदस॒दस्कृ॑धोयु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
उ॒तो इति॑ , हि , वां॒ , र॒त्न॒ऽधेया॑नि , संति॑ , पु॒रूणि॑ , द्या॒वा॒पृ॒थि॒वी॒ इति॑ , सु॒ऽदासे॑ । अ॒स्मे इति॑ , ध॒त्तं॒ , यत् , अस॑त् , अस्कृ॑धोयु , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[५४] वास्तोष्पतइति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवास्तोष्पतिस्त्रिष्टुप् |
वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मांत्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः । यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥
वास्तोः॑ , प॒ते॒ , प्रति॑ , जा॒नी॒हि॒ , अ॒स्मान् , सु॒ऽआ॒वे॒शः , अ॒न॒मी॒वः , भ॒व॒ , नः॒ । यत् , त्वा॒ , ईम॑हे , प्रति॑ , तत् , नः॒ , जु॒ष॒स्व॒ , शं , नः॒ , भ॒व॒ , द्वि॒ऽपदे॑ , शं , चतुः॑ऽपदे ॥
वास्तो॑ष्पते प्र॒तर॑णो न एधि गय॒स्फानो॒ गोभि॒रश्वे॑भिरिंदो । अ॒जरा॑सस्ते स॒ख्ये स्या॑म पि॒तेव॑ पु॒त्रान्प्रति॑ नो जुषस्व ॥
वास्तोः॑ , प॒ते॒ , प्र॒ऽतर॑णः , नः॒ , ए॒धि॒ , ग॒य॒ऽस्फानः॑ , गोभिः॑ , अश्वे॑भिः , इं॒दो॒ इति॑ । अ॒जरा॑सः , ते॒ , स॒ख्ये , स्या॒म॒ , पि॒ताऽइ॑व , पु॒त्रान् , प्रति॑ , नः॒ , जु॒ष॒स्व॒ ॥
वास्तो॑ष्पते श॒ग्मया॑ सं॒सदा॑ ते सक्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या॑ । पा॒हि क्षेम॑ उ॒त योगे॒ वरं॑ नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
वास्तोः॑ , प॒ते॒ , श॒ग्मया॑ , सं॒ऽसदा॑ , ते॒ , स॒क्षी॒महि॑ , र॒ण्वया॑ , गा॒तु॒ऽमत्या॑ । पा॒हि , क्षेमे॑ , उ॒त , योगे॑ , वरं॑ , नः॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[५५] अमीवहेत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यायावास्तोष्पतिः द्वितीयादिसप्तानांप्रस्वापिनी आद्यागायत्रीततस्तिस्रउपरिष्टाद्धृहत्यः अंत्याश्चतस्रोनुष्टुभः |
अ॒मी॒व॒हा वा॑स्तोष्पते॒ विश्वा॑ रू॒पाण्या॑वि॒शन् । सखा॑ सु॒शेव॑ एधि नः ॥
अ॒मी॒व॒ऽहा , वा॒स्तोः॒ , प॒ते॒ , विश्वा॑ , रू॒पाणि॑ , आ॒ऽवि॒शन् । सखा॑ , सु॒ऽशेवः॑ , ए॒धि॒ , नः॒ ॥
यद॑र्जुन सारमेय द॒तः पि॑शंग॒ यच्छ॑से । वी॑व भ्राजंत ऋ॒ष्टय॒ उप॒ स्रक्वे॑षु॒ बप्स॑तो॒ नि षु स्व॑प ॥
यत् , अ॒र्जु॒न॒ , सा॒र॒मे॒य॒ , द॒तः , पि॒शं॒ग॒ , यच्छ॑से । विऽइ॑व , भ्रा॒जं॒ते॒ , ऋ॒ष्टयः॑ , उप॑ , स्रक्वे॑षु , बप्स॑तः , नि , सु , स्व॒प॒ ॥
स्ते॒नं रा॑य सारमेय॒ तस्क॑रं वा पुनःसर । स्तो॒तॄनिंद्र॑स्य रायसि॒ किम॒स्मांदु॑च्छुनायसे॒ नि षु स्व॑प ॥
स्ते॒नं , रा॒य॒ , सा॒र॒मे॒य॒ , तस्क॑रं , वा॒ , पु॒नः॒ऽस॒र॒ । स्तो॒तॄन् , इंद्र॑स्य , रा॒य॒सि॒ , किं , अ॒स्मान् , दु॒च्छु॒न॒ऽय॒से॒ , नि , सु , स्व॒प॒ ॥
त्वं सू॑क॒रस्य॑ दर्दृहि॒ तव॑ दर्दर्तु सूक॒रः । स्तो॒तॄनिंद्र॑स्य रायसि॒ किम॒स्मांदु॑च्छुनायसे॒ नि षु स्व॑प ॥
त्वं , सू॒क॒रस्य॑ , द॒र्दृ॒हि॒ , तव॑ , द॒र्द॒र्तु॒ , सू॒क॒रः । स्तो॒तॄन् , इंद्र॑स्य , रा॒य॒सि॒ , किं , अ॒स्मान् , दु॒च्छु॒न॒ऽय॒से॒ , नि , सु , स्व॒प॒ ॥
सस्तु॑ मा॒ता सस्तु॑ पि॒ता सस्तु॒ श्वा सस्तु॑ वि॒श्पतिः॑ । स॒संतु॒ सर्वे॑ ज्ञा॒तयः॒ सस्त्व॒यम॒भितो॒ जनः॑ ॥
सस्तु॑ , मा॒ता , सस्तु॑ , पि॒ता , सस्तु॑ , श्वा , सस्तु॑ , वि॒श्पतिः॑ । स॒संतु॑ , सर्वे॑ , ज्ञा॒तयः॑ , सस्तु॑ , अ॒यं , अ॒भितः॑ , जनः॑ ॥
य आस्ते॒ यश्च॒ चर॑ति॒ यश्च॒ पश्य॑ति नो॒ जनः॑ । तेषां॒ सं ह॑न्मो अ॒क्षाणि॒ यथे॒दं ह॒र्म्यं तथा॑ ॥
यः , आस्ते॑ , यः , च॒ , चर॑ति , यः , च॒ , पश्य॑ति , नः॒ , जनः॑ । तेषां॑ , सं , ह॒न्मः॒ , अ॒क्षाणि॑ , यथा॑ , इ॒दं , ह॒र्म्यं , तथा॑ ॥
स॒हस्र॑शृंगो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत् । तेना॑ सह॒स्ये॑ना व॒यं नि जनां॑त्स्वापयामसि ॥
स॒हस्र॑ऽशृंगः , वृ॒ष॒भः , यः , स॒मु॒द्रात् , उ॒त्ऽआच॑रत् । तेन॑ , स॒ह॒स्ये॑न , व॒यं , नि , जना॑न् , स्वा॒प॒या॒म॒सि॒ ॥
प्रो॒ष्ठे॒श॒या व॑ह्येश॒या नारी॒र्यास्त॑ल्प॒शीव॑रीः । स्त्रियो॒ याः पुण्य॑गंधा॒स्ताः सर्वाः॑ स्वापयामसि ॥
प्रो॒ष्ठे॒ऽश॒याः , व॒ह्ये॒ऽश॒याः , नारीः॑ , याः , त॒ल्प॒ऽशीव॑रीः । स्त्रियः॑ , याः , पुण्य॑ऽगंधाः , ताः , सर्वाः॑ , स्वा॒प॒या॒म॒सि॒ ॥
[५६] कई व्यक्ता इति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् आद्याएकादशद्विपदाविराट् | (अत्रांत्यायावैश्वदेवत्वंकश्चिन्मन्यते तन्मानाभावादुपेक्ष्यं) |
क ईं॒ व्य॑क्ता॒ नरः॒ सनी॑ळा रु॒द्रस्य॒ मर्या॒ अध॒ स्वश्वाः॑ ॥
के , ईं॒ , विऽअ॑क्ताः , नरः॑ , सऽनी॑ळाः , रु॒द्रस्य॑ , मर्याः॑ , अध॑ , सु॒ऽअश्वाः॑ ॥ ।
नकि॒र्ह्ये॑षां ज॒नूंषि॒ वेद॒ ते अं॒ग वि॑द्रे मि॒थो ज॒नित्रं॑ ॥
नकिः॑ , हि , ए॒षां॒ , ज॒नूंषि॑ , वेदे॑ , ते , अं॒ग , वि॒द्रे॒ , मि॒थः , ज॒नित्रं॑ ॥ ।
अ॒भि स्व॒पूभि॑र्मि॒थो व॑पंत॒ वात॑स्वनसः श्ये॒ना अ॑स्पृध्रन् ॥
अ॒भि , स्व॒ऽपूभिः॑ , मि॒थः , व॒पं॒त॒ , वात॑ऽस्वनसः , श्ये॒नाः , अ॒स्पृ॒ध्र॒न् ॥ ।
ए॒तानि॒ धीरो॑ नि॒ण्या चि॑केत॒ पृश्नि॒र्यदूधो॑ म॒ही ज॒भार॑ ॥
ए॒तानि॑ , धीरः॑ , नि॒ण्या , चि॒के॒त॒ , पृश्निः॑ , यत् , ऊधः॑ , म॒ही , ज॒भार॑ ॥ ।
सा विट् सु॒वीरा॑ म॒रुद्भि॑रस्तु स॒नात्सहं॑ती॒ पुष्यं॑ती नृ॒म्णं ॥
सा , विट् , सु॒ऽवीरा॑ , म॒रुत्ऽभिः॑ , अ॒स्तु॒ , स॒नात् , सहं॑ती , पुष्यं॑ती , नृ॒म्णं ॥ ।
यामं॒ येष्ठाः॑ शु॒भा शोभि॑ष्ठाः श्रि॒या संमि॑श्ला॒ ओजो॑भिरु॒ग्राः ॥
यामं॑ , येष्ठाः॑ , शु॒भा , शोभि॑ष्ठाः , श्रि॒या , संऽमि॑श्लाः , ओजः॑ऽभिः , उ॒ग्राः ॥ ।
उ॒ग्रं व॒ ओजः॑ स्थि॒रा शवां॒स्यधा॑ म॒रुद्भि॑र्ग॒णस्तुवि॑ष्मान् ॥
उ॒ग्रं , वः॒ , ओजः॑ , स्थि॒रा , शवां॑सि , अध॑ , म॒रुत्ऽभिः॑ , ग॒णः , तुवि॑ष्मान् ॥ ।
शु॒भ्रो वः॒ शुष्मः॒ क्रुध्मी॒ मनां॑सि॒ धुनि॒र्मुनि॑रिव॒ शर्ध॑स्य धृ॒ष्णोः ॥
शु॒भ्रः , वः॒ , शुष्मः॑ , क्रुध्मी॑ , मनां॑सि , धुनिः॑ , मुनिः॑ऽइव , शर्ध॑स्य , धृ॒ष्णोः ॥ ।
सने॑म्य॒स्मद्यु॒योत॑ दि॒द्युं मा वो॑ दुर्म॒तिरि॒ह प्रण॑ङ्नः ॥
सने॑मि , अ॒स्मत् , यु॒योत॑ , दि॒द्युं , मा , वः॒ , दुः॒ऽम॒तिः , इ॒ह , प्रण॑क् , नः॒ ॥ ।
प्रि॒या वो॒ नाम॑ हुवे तु॒राणा॒मा यत्तृ॒पन्म॑रुतो वावशा॒नाः ॥
प्रि॒या , वः॒ , नाम॑ , हु॒वे॒ , तु॒राणां॑ , आ , यत् , तृ॒पत् , म॒रु॒तः॒ , वा॒व॒शा॒नाः ॥ ।
स्वा॒यु॒धास॑ इ॒ष्मिणः॑ सुनि॒ष्का उ॒त स्व॒यं त॒न्व१॒॑ः शुंभ॑मानाः ॥
सु॒ऽआ॒यु॒धासः॑ , इ॒ष्मिणः॑ , सु॒ऽनि॒ष्काः , उ॒त , स्व॒यं , त॒न्वः॑ , शुंभ॑मानाः ॥ ।
शुची॑ वो ह॒व्या म॑रुतः॒ शुची॑नां॒ शुचिं॑ हिनोम्यध्व॒रं शुचि॑भ्यः । ऋ॒तेन॑ स॒त्यमृ॑त॒साप॑ आयं॒छुचि॑जन्मानः॒ शुच॑यः पाव॒काः ॥
शुची॑ , वः॒ , ह॒व्या , म॒रु॒तः॒ , शुची॑नां , शुचिं॑ , हि॒नो॒मि॒ , अ॒ध्व॒रं , शुचि॑ऽभ्यः । ऋ॒तेन॑ , स॒त्यं , ऋ॒त॒ऽसापः॑ , आ॒य॒न् , शुचि॑ऽजन्मानः , शुच॑यः , पा॒व॒काः ॥
अंसे॒ष्वा म॑रुतः खा॒दयो॑ वो॒ वक्षः॑सु रु॒क्मा उ॑पशिश्रिया॒णाः । वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒ना अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः ॥
अंसे॑षु , आ , म॒रु॒तः॒ , खा॒दयः॑ , वः॒ , वक्षः॑ऽसु , रु॒क्माः , उ॒प॒ऽशि॒श्रि॒या॒णाः । वि , वि॒ऽद्युतः॑ , न , वृ॒ष्टिऽभिः॑ , रु॒चा॒नाः , अनु॑ , स्व॒धां , आयु॑धैः , यच्छ॑मानाः ॥
प्र बु॒ध्न्या॑ व ईरते॒ महां॑सि॒ प्र नामा॑नि प्रयज्यवस्तिरध्वं । स॒ह॒स्रियं॒ दम्यं॑ भा॒गमे॒तं गृ॑हमे॒धीयं॑ मरुतो जुषध्वं ॥
प्र , बु॒ध्न्या॑ , वः॒ , ई॒र॒ते॒ , महां॑सि , प्र , नामा॑नि , प्र॒ऽय॒ज्य॒वः॒ , ति॒र॒ध्वं॒ । स॒ह॒स्रियं॑ , दम्यं॑ , भा॒गं , ए॒तं , गृ॒ह॒ऽमे॒धीयं॑ , म॒रु॒तः॒ , जु॒ष॒ध्वं॒ ॥
यदि॑ स्तु॒तस्य॑ मरुतो अधी॒थेत्था विप्र॑स्य वा॒जिनो॒ हवी॑मन् । म॒क्षू रा॒यः सु॒वीर्य॑स्य दात॒ नू चि॒द्यम॒न्य आ॒दभ॒दरा॑वा ॥
यदि॑ , स्तु॒तस्य॑ , म॒रु॒तः॒ , अ॒धि॒ऽइ॒थ , इ॒त्था , विप्र॑स्य , वा॒जिनः॑ , हवी॑मन् । म॒क्षु , रा॒यः , सु॒ऽवीर्य॑स्य , दा॒त॒ , नु , चि॒त् , यं , अ॒न्यः , आ॒ऽदभ॑त् , अरा॑वा ॥
अत्या॑सो॒ न ये म॒रुतः॒ स्वंचो॑ यक्ष॒दृशो॒ न शु॒भयं॑त॒ मर्याः॑ । ते ह॑र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒ळिनः॑ पयो॒धाः ॥
अत्या॑सः , न , ये , म॒रुतः॑ , सु॒ऽअंचः॑ , य॒क्ष॒ऽदृशः॑ , न , शु॒भयं॑त , मर्याः॑ । ते , ह॒र्म्ये॒ऽस्थाः , शिश॑वः , न , शु॒भ्राः , व॒त्सासः॑ , न , प्र॒ऽकी॒ळिनः॑ , प॒यः॒ऽधाः ॥
द॒श॒स्यंतो॑ नो म॒रुतो॑ मृळंतु वरिव॒स्यंतो॒ रोद॑सी सु॒मेके॑ । आ॒रे गो॒हा नृ॒हा व॒धो वो॑ अस्तु सु॒म्नेभि॑र॒स्मे व॑सवो नमध्वं ॥
द॒श॒स्यंतः॑ , नः॒ , म॒रुतः॑ , मृ॒ळं॒तु॒ , व॒रि॒व॒स्यंतः॑ , रोद॑सी॒ इति॑ , सु॒मेके॒ इति॑ सु॒ऽमेके॑ । आ॒रे , गो॒ऽहा , नृ॒ऽहा , व॒धः , वः॒ , अ॒स्तु॒ , सु॒म्रेभिः॑ , अ॒स्मे इति॑ , व॒स॒वः॒ , न॒म॒ध्वं॒ ॥
आ वो॒ होता॑ जोहवीति स॒त्तः स॒त्राचीं॑ रा॒तिं म॑रुतो गृणा॒नः । य ईव॑तो वृषणो॒ अस्ति॑ गो॒पाः सो अद्व॑यावी हवते व उ॒क्थैः ॥
आ , वः॒ , होता॑ , जो॒ह॒वी॒ति॒ , स॒त्तः , स॒त्राचीं॑ , रा॒तिं , म॒रु॒तः॒ , गृ॒णा॒नः । यः , ईव॑तः , वृ॒ष॒णः॒ , अस्ति॑ , गो॒पाः , सः , अद्व॑यावी , ह॒व॒ते॒ , वः॒ , उ॒क्थैः ॥
इ॒मे तु॒रं म॒रुतो॑ रामयंती॒मे सहः॒ सह॑स॒ आ न॑मंति । इ॒मे शंसं॑ वनुष्य॒तो नि पां॑ति गु॒रु द्वेषो॒ अर॑रुषे दधंति ॥
इ॒मे , तु॒रं , म॒रुतः॑ , र॒म॒यं॒ति॒ , इ॒मे , सहः॑ , सह॑सः , आ , न॒मं॒ति॒ । इ॒मे , शंसं॑ , व॒नु॒ष्य॒तः , नि , पां॒ति॒ , गु॒रु , द्वेषः॑ , अर॑रुषे , द॒धं॒ति॒ ॥
इ॒मे र॒ध्रं चि॑न्म॒रुतो॑ जुनंति॒ भृमिं॑ चि॒द्यथा॒ वस॑वो जु॒षंत॑ । अप॑ बाधध्वं वृषण॒स्तमां॑सि ध॒त्त विश्वं॒ तन॑यं तो॒कम॒स्मे ॥
इ॒मे , र॒ध्रं , चि॒त् , म॒रुतः॑ , जु॒नं॒ति॒ , भृमिं॑ , चि॒त् , यथा॑ , वस॑वः , जु॒षंत॑ । अप॑ , बा॒ध॒ध्वं॒ , वृ॒ष॒णः॒ , तमां॑सि , ध॒त्त , विश्वं॑ , तन॑यं , तो॒कं , अ॒स्मे इति॑ ॥
मा वो॑ दा॒त्रान्म॑रुतो॒ निर॑राम॒ मा प॒श्चाद्द॑घ्म रथ्यो विभा॒गे । आ नः॑ स्पा॒र्हे भ॑जतना वस॒व्ये॒३॒॑ यदीं॑ सुजा॒तं वृ॑षणो वो॒ अस्ति॑ ॥
मा , वः॒ , दा॒त्रात् , म॒रु॒तः॒ , निः , अ॒रा॒म॒ , मा , प॒श्चात् , द॒ध्म॒ , र॒थ्यः॒ , वि॒ऽभा॒गे । आ , नः॒ , स्पा॒र्हे , भ॒ज॒त॒न॒ , व॒स॒व्ये॑ , यत् , ईं॒ , सु॒ऽजा॒तं , वृ॒ष॒णः॒ , वः॒ , अस्ति॑ ॥
सं यद्धनं॑त म॒न्युभि॒र्जना॑सः॒ शूरा॑ य॒ह्वीष्वोष॑धीषु वि॒क्षु । अध॑ स्मा नो मरुतो रुद्रियासस्त्रा॒तारो॑ भूत॒ पृत॑नास्व॒र्यः ॥
सं , यत् , हनं॑त , म॒न्युऽभिः॑ , जना॑सः , शूराः॑ , य॒ह्वीषु॑ , ओष॑धीषु , वि॒क्षु । अध॑ , स्म॒ , नः॒ , म॒रु॒तः॒ , रु॒द्रि॒या॒सः॒ , त्रा॒तारः॑ , भू॒त॒ , पृत॑नासु , अ॒र्यः ॥
भूरि॑ चक्र मरुतः॒ पित्र्या॑ण्यु॒क्थानि॒ या वः॑ श॒स्यंते॑ पु॒रा चि॑त् । म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साळ्हा॑ म॒रुद्भि॒रित्सनि॑ता॒ वाज॒मर्वा॑ ॥
भूरि॑ , च॒क्र॒ , म॒रु॒तः॒ , पित्र्या॑णि , उ॒क्थानि॑ , या , वः॒ , श॒स्यंते॑ , पु॒रा , चि॒त् । म॒रुत्ऽभिः॑ , उ॒ग्रः , पृत॑नासु , साळ्हा॑ , म॒रुत्ऽभिः॑ , इत् , सनि॑ता , वाजं॑ , अर्वा॑ ॥
अ॒स्मे वी॒रो म॑रुतः शु॒ष्म्य॑स्तु॒ जना॑नां॒ यो असु॑रो विध॒र्ता । अ॒पो येन॑ सुक्षि॒तये॒ तरे॒माध॒ स्वमोको॑ अ॒भि वः॑ स्याम ॥
अ॒स्मे इति॑ , वी॒रः , म॒रु॒तः॒ , शु॒ष्मी , अ॒स्तु॒ , जना॑नां , यः , असु॑रः , वि॒ऽध॒र्ता । अ॒पः , येन॑ , सु॒ऽक्षि॒तये॑ , तरे॑म , अध॑ , स्वं , ओकः॑ , अ॒भि , वः॒ , स्या॒म॒ ॥
तन्न॒ इंद्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषंत । शर्मं॑त्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
तत् , नः॒ , इंद्रः॑ , वरु॑णः , मि॒त्रः , अ॒ग्निः , आपः॑ , ओष॑धीः , व॒निनः॑ , जु॒षं॒त॒ । शर्म॑न् , स्या॒म॒ , म॒रुतां॑ , उ॒पऽस्थे॑ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[५७] मध्वोवइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् |
मध्वो॑ वो॒ नाम॒ मारु॑तं यजत्राः॒ प्र य॒ज्ञेषु॒ शव॑सा मदंति । ये रे॒जयं॑ति॒ रोद॑सी चिदु॒र्वी पिन्वं॒त्युत्सं॒ यदया॑सुरु॒ग्राः ॥
मध्वः॑ , वः॒ , नाम॑ , मारु॑तं , य॒ज॒त्राः॒ , प्र , य॒ज्ञेषु॑ , शव॑सा , म॒दं॒ति॒ । ये , रे॒जयं॑ति , रोद॑सी॒ इति॑ , चि॒त् , उ॒र्वी इति॑ , पिन्वं॑ति , उत्सं॑ , यत् , अया॑सुः , उ॒ग्राः ॥
नि॒चे॒तारो॒ हि म॒रुतो॑ गृ॒णंतं॑ प्रणे॒तारो॒ यज॑मानस्य॒ मन्म॑ । अ॒स्माक॑म॒द्य वि॒दथे॑षु ब॒र्हिरा वी॒तये॑ सदत पिप्रिया॒णाः ॥
नि॒ऽचे॒तारः॑ , हि , म॒रुतः॑ , गृ॒णंतं॑ , प्र॒ऽने॒तारः॑ , यज॑मानस्य , मन्म॑ । अ॒स्माकं॑ , अ॒द्य , वि॒दथे॑षु , ब॒र्हिः , आ , वी॒तये॑ , स॒द॒त॒ , पि॒प्रि॒या॒णाः ॥
नैताव॑द॒न्ये म॒रुतो॒ यथे॒मे भ्राजं॑ते रु॒क्मैरायु॑धैस्त॒नूभिः॑ । आ रोद॑सी विश्व॒पिशः॑ पिशा॒नाः स॑मा॒नमं॒ज्यं॑जते शु॒भे कं ॥
न , ए॒ताव॑त् , अ॒न्ये , म॒रुतः॑ , यथा॑ , इ॒मे , भ्राजं॑ते , रु॒क्मैः , आयु॑धैः , त॒नूभिः॑ । आ , रोद॑सी॒ इति॑ , वि॒श्व॒ऽपिशः॑ , पि॒शा॒नाः , स॒मा॒नं , अं॒जि , अं॒ज॒ते॒ , शु॒भे , कं ॥
ऋध॒क्सा वो॑ मरुतो दि॒द्युद॑स्तु॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म । मा व॒स्तस्या॒मपि॑ भूमा यजत्रा अ॒स्मे वो॑ अस्तु सुम॒तिश्चनि॑ष्ठा ॥
ऋध॑क् , सा , वः॒ , म॒रु॒तः॒ , दि॒द्युत् , अ॒स्तु॒ , यत् , वः॒ , आगः॑ , पु॒रु॒षता॑ , करा॑म । मा , वः॒ , तस्यां॑ , अपि॑ , भू॒म॒ , य॒ज॒त्राः॒ , अ॒स्मे इति॑ , वः॒ , अ॒स्तु॒ , सु॒ऽम॒तिः , चनि॑ष्ठा ॥
कृ॒ते चि॒दत्र॑ म॒रुतो॑ रणंतानव॒द्यासः॒ शुच॑यः पाव॒काः । प्र णो॑ऽवत सुम॒तिभि॑र्यजत्राः॒ प्र वाजे॑भिस्तिरत पु॒ष्यसे॑ नः ॥
कृ॒ते , चि॒त् , अत्र॑ , म॒रुतः॑ , र॒णं॒त॒ , अ॒न॒व॒द्यासः॑ , शुच॑यः , पा॒व॒काः । प्र , नः॒ , अ॒व॒त॒ , सु॒म॒तिऽभिः॑ , य॒ज॒त्राः॒ , प्र , वाजे॑भिः , ति॒र॒त॒ , पु॒ष्यसे॑ , नः॒ ॥
उ॒त स्तु॒तासो॑ म॒रुतो॑ व्यंतु॒ विश्वे॑भि॒र्नाम॑भि॒र्नरो॑ ह॒वींषि॑ । ददा॑त नो अ॒मृत॑स्य प्र॒जायै॑ जिगृ॒त रा॒यः सू॒नृता॑ म॒घानि॑ ॥
उ॒त , स्तु॒तासः॑ , म॒रुतः॑ , व्यं॒तु॒ , विश्वे॑भिः , नाम॑ऽभिः , नरः॑ , ह॒वींषि॑ । ददा॑त , नः॒ , अ॒मृत॑स्य , प्र॒ऽजायै॑ , जि॒गृ॒त , रा॒यः , सू॒नृता॑ , म॒घानि॑ ॥
आ स्तु॒तासो॑ मरुतो॒ विश्व॑ ऊ॒ती अच्छा॑ सू॒रींत्स॒र्वता॑ता जिगात । ये न॒स्त्मना॑ श॒तिनो॑ व॒र्धयं॑ति यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
आ , स्तु॒तासः॑ , म॒रु॒तः॒ , विश्वे॑ , ऊ॒ती , अच्छ॑ , सू॒रीन् , स॒र्वऽता॑ता , जि॒गा॒त॒ । ये , नः॒ , त्मना॑ , श॒तिनः॑ , व॒र्धयं॑ति , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[५८] प्रसाकमुक्षइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतस्त्रिष्टुप् |
प्र सा॑क॒मुक्षे॑ अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ धाम्न॒स्तुवि॑ष्मान् । उ॒त क्षो॑दंति॒ रोद॑सी महि॒त्वा नक्षं॑ते॒ नाकं॒ निर्ऋ॑तेरवं॒शात् ॥
प्र , सा॒कं॒ऽउक्षे॑ , अ॒र्च॒त॒ , ग॒णाय॑ , यः , दैव्य॑स्य , धाम्नः॑ , तुवि॑ष्मान् । उ॒त , क्षो॒दं॒ति॒ , रोद॑सी॒ इति॑ , म॒हि॒ऽत्वा , नक्षं॑ते , नाकं॑ , निःऽऋ॑तेः , अ॒वं॒शात् ॥
ज॒नूश्चि॑द्वो मरुतस्त्वे॒ष्ये॑ण॒ भीमा॑स॒स्तुवि॑मन्य॒वोऽया॑सः । प्र ये महो॑भि॒रोज॑सो॒त संति॒ विश्वो॑ वो॒ याम॑न्भयते स्व॒र्दृक् ॥
ज॒नूः , चि॒त् , वः॒ , म॒रु॒तः॒ , त्वे॒ष्ये॑ण , भीमा॑सः , तुवि॑ऽमन्यवः , अया॑सः । प्र , ये , महः॑ऽभिः , ओज॑सा , उ॒त , संति॑ , विश्वः॑ , वः॒ , याम॑न् , भ॒य॒ते॒ , स्वः॒ऽदृक् ॥
बृ॒हद्वयो॑ म॒घव॑द्भ्यो दधात॒ जुजो॑ष॒न्निन्म॒रुतः॑ सुष्टु॒तिं नः॑ । ग॒तो नाध्वा॒ वि ति॑राति जं॒तुं प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत ॥
बृ॒हत् , वयः॑ , म॒घव॑त्ऽभ्यः , द॒धा॒त॒ , जुजो॑षन् , इत् , म॒रुतः॑ , सु॒ऽस्तु॒तिं , नः॒ । ग॒तः , न , अध्वा॑ , वि , ति॒रा॒ति॒ , जं॒तुं , प्र , नः॒ , स्पा॒र्हाभिः॑ , ऊ॒तिऽभिः॑ , ति॒रे॒त॒ ॥
यु॒ष्मोतो॒ विप्रो॑ मरुतः शत॒स्वी यु॒ष्मोतो॒ अर्वा॒ सहु॑रिः सह॒स्री । यु॒ष्मोतः॑ स॒म्राळु॒त हं॑ति वृ॒त्रं प्र तद्वो॑ अस्तु धूतयो दे॒ष्णं ॥
यु॒ष्माऽऊ॑तः , विप्रः॑ , म॒रु॒तः॒ , श॒त॒स्वी , यु॒ष्माऽऊ॑तः , अर्वा॑ , सहु॑रिः , स॒ह॒स्री । यु॒ष्माऽऊ॑तः , सं॒ऽराट् , उ॒त , हं॒ति॒ , वृ॒त्रं , प्र , तत् , वः॒ , अ॒स्तु॒ , धू॒त॒यः॒ , दे॒ष्णं ॥
ताँ आ रु॒द्रस्य॑ मी॒ळ्हुषो॑ विवासे कु॒विन्नंसं॑ते म॒रुतः॒ पुन॑र्नः । यत्स॒स्वर्ता॑ जिहीळि॒रे यदा॒विरव॒ तदेन॑ ईमहे तु॒राणां॑ ॥
तान् , आ , रु॒द्रस्य॑ , मी॒ळ्हुषः॑ , वि॒वा॒से॒ , कु॒वित् , नंसं॑ते , म॒रुतः॑ , पुनः॑ , नः॒ । यत् , स॒स्वर्ता॑ , जि॒ही॒ळि॒रे , यत् , आ॒विः , अव॑ , तत् , एनः॑ , ई॒म॒हे॒ , तु॒राणां॑ ॥
प्र सा वा॑चि सुष्टु॒तिर्म॒घोना॑मि॒दं सू॒क्तं म॒रुतो॑ जुषंत । आ॒राच्चि॒द्द्वेषो॑ वृषणो युयोत यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
प्र , सा , वा॒चि॒ , सु॒ऽस्तु॒तिः , म॒घोनां॑ , इ॒दं , सु॒ऽउ॒क्तं , म॒रुतः॑ , जु॒षं॒त॒ । आ॒रात् , चि॒त् , द्वेषः॑ , वृ॒ष॒णः॒ , यु॒यो॒त॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[५९] यंत्रायध्वइति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमरुतोंत्यायारुद्रः आद्यातृतीयापंचम्योबृहत्यः द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः सप्तम्यष्टम्यौत्रिष्टुभौ नवम्याद्यास्तिस्रोगायत्र्योंत्यानुष्टुप् |
यं त्राय॑ध्व इ॒दमि॑दं॒ देवा॑सो॒ यं च॒ नय॑थ । तस्मा॑ अग्ने॒ वरु॑ण॒ मित्रार्य॑म॒न्मरु॑तः॒ शर्म॑ यच्छत ॥
यं , त्राय॑ध्वे , इ॒दंऽइ॑दं , देवा॑सः , यं , च॒ , नय॑थ । तस्मै॑ , अ॒ग्ने॒ , वरु॑ण , मित्र॑ , अर्य॑मन् , मरु॑तः , शर्म॑ , य॒च्छ॒त॒ ॥
यु॒ष्माकं॑ देवा॒ अव॒साह॑नि प्रि॒य ई॑जा॒नस्त॑रति॒ द्विषः॑ । प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति ॥
यु॒ष्माकं॑ , दे॒वाः॒ , अव॑सा , अह॑नि , प्रि॒ये , ई॒जा॒नः , त॒र॒ति॒ , द्विषः॑ । प्र , सः , क्षयं॑ , ति॒र॒ते॒ , वि , म॒हीः , इषः॑ , यः , वः॒ , वरा॑य , दाश॑ति ॥
न॒हि व॑श्चर॒मं च॒न वसि॑ष्ठः परि॒मंस॑ते । अ॒स्माक॑म॒द्य म॑रुतः सु॒ते सचा॒ विश्वे॑ पिबत का॒मिनः॑ ॥
न॒हि , वः॒ , च॒र॒मं , च॒न , वसि॑ष्ठः , प॒रि॒ऽमंस॑ते । अ॒स्माकं॑ , अ॒द्य , म॒रु॒तः॒ , सु॒ते , सचा॑ , विश्वे॑ , पि॒ब॒त॒ , का॒मिनः॑ ॥
न॒हि व॑ ऊ॒तिः पृत॑नासु॒ मर्ध॑ति॒ यस्मा॒ अरा॑ध्वं नरः । अ॒भि व॒ आव॑र्त्सुम॒तिर्नवी॑यसी॒ तूयं॑ यात पिपीषवः ॥
न॒हि , वः॒ , ऊ॒तिः , पृत॑नासु , मर्ध॑ति , यस्मै॑ , अरा॑ध्वं , न॒रः॒ । अ॒भि , वः॒ , आ , अ॒व॒र्त् , सु॒ऽम॒तिः , नवी॑यसी , तूयं॑ , या॒त॒ , पि॒पी॒ष॒वः॒ ॥
ओ षु घृ॑ष्विराधसो या॒तनांधां॑सि पी॒तये॑ । इ॒मा वो॑ ह॒व्या म॑रुतो र॒रे हि कं॒ मो ष्व१॒॑न्यत्र॑ गंतन ॥
ओ इति॑ , सु , घृ॒ष्वि॒ऽरा॒ध॒सः॒ , या॒तन॑ , अंधां॑सि , पी॒तये॑ । इ॒मा , वः॒ , ह॒व्या , म॒रु॒तः॒ , र॒रे , हि , कं॒ , मो इति॑ , सु , अ॒न्यत्र॑ , गं॒त॒न॒ ॥
आ च॑ नो ब॒र्हिः सद॑तावि॒ता च॑ नः स्पा॒र्हाणि॒ दात॑वे॒ वसु॑ । अस्रे॑धंतो मरुतः सो॒म्ये मधौ॒ स्वाहे॒ह मा॑दयाध्वै ॥
आ , चः॒ , नः॒ , ब॒र्हिः , सद॑त , अ॒वि॒त , च॒ , नः॒ , स्पा॒र्हाणि॑ , दात॑वे , वसु॑ । अस्रे॑धंतः , म॒रु॒तः॒ , सो॒म्ये , मधौ॑ , स्वाहा॑ , इ॒ह , मा॒द॒या॒ध्वै॒ ॥
स॒स्वश्चि॒द्धि त॒न्व१॒॑ः शुंभ॑माना॒ आ हं॒सासो॒ नील॑पृष्ठा अपप्तन् । विश्वं॒ शर्धो॑ अ॒भितो॑ मा॒ नि षे॑द॒ नरो॒ न र॒ण्वाः सव॑ने॒ मदं॑तः ॥
स॒स्वरिति॑ , चि॒त् , हि , त॒न्वः॑ , शुंभ॑मानाः , आ , हं॒सासः॑ , नील॑ऽपृष्ठाः , अ॒प॒प्त॒न् । विश्वं॑ , शर्धः॑ , अ॒भितः॑ , मा॒ , नि , से॒द॒ , नरः॑ , न , र॒ण्वाः , सव॑ने , मदं॑तः ॥
यो नो॑ मरुतो अ॒भि दु॑र्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति । द्रु॒हः पाशा॒न्प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ हन्म॑ना हंतना॒ तं ॥
यः , नः॒ , म॒रु॒तः॒ , अ॒भि , दुः॒ऽहृ॒णा॒युः , ति॒रः , चि॒त्तानि॑ , व॒स॒वः॒ , जिघां॑सति । द्रु॒हः , पाशा॑न् , प्रति॑ , सः , मु॒ची॒ष्ट॒ , तपि॑ष्ठेन , हन्म॑ना , हं॒त॒न॒ , तं ॥
सांत॑पना इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन । यु॒ष्माको॒ती रि॑शादसः ॥
सान्ऽत॑पनाः , इ॒दं , ह॒विः , मरु॑तः , तत् , जु॒जु॒ष्ट॒न॒ । यु॒ष्माक॑ , ऊ॒ती , रि॒शा॒द॒सः॒ ॥
गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन । यु॒ष्माको॒ती सु॑दानवः ॥
गृह॑ऽमेधासः , आ , ग॒त॒ , मरु॑तः , मा , अप॑ , भू॒त॒न॒ । यु॒ष्माक॑ , ऊ॒ती , सु॒ऽदा॒न॒वः॒ ॥
इ॒हेह॑ वः स्वतवसः॒ कव॑यः॒ सूर्य॑त्वचः । य॒ज्ञं म॑रुत॒ आ वृ॑णे ॥
इ॒हऽइ॑ह , वः॒ , स्व॒ऽत॒व॒सः॒ , कव॑यः , सूर्य॑ऽत्वचः । य॒ज्ञं , म॒रु॒तः॒ , आ , वृ॒णे॒ ॥
त्र्यं॑बकं यजामहे सु॒गंधिं॑ पुष्टि॒वर्ध॑नं । उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ॥
त्रिऽअं॑बकं , य॒जा॒म॒हे॒ , सु॒ऽगंधिं॑ , पु॒ष्टि॒ऽवर्ध॑नं । उ॒र्वा॒रु॒कंऽइ॑व , बंध॑नात् , मृ॒त्योः , मु॒क्षी॒य॒ , मा , अ॒मृता॑त् ॥
[६०] यदद्द्येति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमित्रावरुणावाद्यायाः सूर्यस्त्रिष्टुप् |
यद॒द्य सू॑र्य॒ ब्रवोऽना॑गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यं । व॒यं दे॑व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो॑ अर्यमन्गृ॒णंतः॑ ॥
यत् , अ॒द्य , सू॒र्य॒ , ब्रवः॑ , अना॑गाः , उ॒त्ऽयन् , मि॒त्राय॑ , वरु॑णाय , स॒त्यं । व॒यं , दे॒व॒ऽत्रा , अ॒दि॒ते॒ , स्या॒म॒ , तव॑ , प्रि॒यासः॑ , अ॒र्य॒म॒न् , गृ॒णंतः॑ ॥
ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा॑ उ॒भे उदे॑ति॒ सूर्यो॑ अ॒भि ज्मन् । विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥
ए॒षः , स्यः , मि॒त्रा॒व॒रु॒णा॒ , नृ॒ऽचक्षाः॑ , उ॒भे इति॑ , उत् , ए॒ति॒ , सूर्यः॑ , अ॒भि , ज्मन् । विश्व॑स्य , स्था॒तुः , जग॑तः , च॒ , गो॒पाः , ऋ॒जु , मर्ते॑षु , वृ॒जि॒ना , च॒ , पश्य॑न् ॥
अयु॑क्त स॒प्त ह॒रितः॑ स॒धस्था॒द्या ईं॒ वहं॑ति॒ सूर्यं॑ घृ॒ताचीः॑ । धामा॑नि मित्रावरुणा यु॒वाकुः॒ सं यो यू॒थेव॒ जनि॑मानि॒ चष्टे॑ ॥
अयु॑क्त , स॒प्त , ह॒रितः॑ , स॒धऽस्था॑त् , याः , ईं॒ , वहं॑ति , सूर्यं॑ , घृ॒ताचीः॑ । धामा॑नि , मि॒त्रा॒व॒रु॒णा॒ , यु॒वाकुः॑ , सं , यः , यू॒थाऽइ॑व , जनि॑मानि , चष्टे॑ ॥
उद्वां॑ पृ॒क्षासो॒ मधु॑मंतो अस्थु॒रा सूर्यो॑ अरुहच्छु॒क्रमर्णः॑ । यस्मा॑ आदि॒त्या अध्व॑नो॒ रदं॑ति मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषाः॑ ॥
उत् , वां॒ , पृ॒क्षासः॑ , मधु॑ऽमंतः , अ॒स्थुः॒ , आ , सूर्यः॑ , अ॒रु॒ह॒त् , शु॒क्रं , अर्णः॑ । यस्मै॑ , आ॒दि॒त्याः , अध्व॑नः , रदं॑ति , मि॒त्रः , अ॒र्य॒मा , वरु॑णः , स॒ऽजोषाः॑ ॥
इ॒मे चे॒तारो॒ अनृ॑तस्य॒ भूरे॑र्मि॒त्रो अ॑र्य॒मा वरु॑णो॒ हि संति॑ । इ॒म ऋ॒तस्य॑ वावृधुर्दुरो॒णे श॒ग्मासः॑ पु॒त्रा अदि॑ते॒रद॑ब्धाः ॥
इ॒मे , चे॒तारः॑ , अनृ॑तस्य , भूरेः॑ , मि॒त्रः , अ॒र्य॒मा , वरु॑णः , हि , संति॑ । इ॒मे , ऋ॒तस्य॑ , व॒वृ॒धुः॒ , दु॒रो॒णे , श॒ग्मासः॑ , पु॒त्राः , अदि॑तेः , अद॑ब्धाः ॥
इ॒मे मि॒त्रो वरु॑णो दू॒ळभा॑सोऽचे॒तसं॑ चिच्चितयंति॒ दक्षैः॑ । अपि॒ क्रतुं॑ सु॒चेत॑सं॒ वतं॑तस्ति॒रश्चि॒दंहः॑ सु॒पथा॑ नयंति ॥
इ॒मे , मि॒त्रः , वरु॑णः , दुः॒ऽदभा॑सः , अ॒चे॒तसं॑ , चि॒त् , चि॒त॒यं॒ति॒ , दक्षैः॑ । अपि॑ , क्रतुं॑ , सु॒ऽचेत॑सं , वतं॑तः , ति॒रः , चि॒त् , अंहः॑ , सु॒ऽपथा॑ , न॒यं॒ति॒ ॥
इ॒मे दि॒वो अनि॑मिषा पृथि॒व्याश्चि॑कि॒त्वांसो॑ अचे॒तसं॑ नयंति । प्र॒व्रा॒जे चि॑न्न॒द्यो॑ गा॒धम॑स्ति पा॒रं नो॑ अ॒स्य वि॑ष्पि॒तस्य॑ पर्षन् ॥
इ॒मे , दि॒वः , अनि॑ऽमिषा , पृ॒थि॒व्याः , चि॒कि॒त्वांसः॑ , अ॒चे॒तसं॑ , न॒यं॒ति॒ । प्र॒ऽव्रा॒जे , चि॒त् , न॒द्यः॑ , गा॒धं , अ॒स्ति॒ , पा॒रं , नः॒ , अ॒स्य , वि॒ष्पि॒तस्य॑ , प॒र्ष॒न् ॥
यद्गो॒पाव॒ददि॑तिः॒ शर्म॑ भ॒द्रं मि॒त्रो यच्छं॑ति॒ वरु॑णः सु॒दासे॑ । तस्मि॒न्ना तो॒कं तन॑यं॒ दधा॑ना॒ मा क॑र्म देव॒हेळ॑नं तुरासः ॥
यत् , गो॒पाव॑त् , अदि॑तिः , शर्म॑ , भ॒द्रं , मि॒त्रः , यच्छं॑ति , वरु॑णः , सु॒ऽदासे॑ । तस्मि॑न् , आ , तो॒कं , तन॑यं , दधा॑नाः , मा , क॒र्म॒ , दे॒व॒ऽहेळ॑नं , तु॒रा॒सः॒ ॥
अव॒ वेदिं॒ होत्रा॑भिर्यजेत॒ रिपः॒ काश्चि॑द्वरुण॒ध्रुतः॒ सः । परि॒ द्वेषो॑भिरर्य॒मा वृ॑णक्तू॒रुं सु॒दासे॑ वृषणा उ लो॒कं ॥
अव॑ , वेदिं॑ , होत्रा॑भिः , य॒जे॒त॒ , रिपः॑ , काः , चि॒त् , व॒रु॒ण॒ऽध्रुतः॑ , सः । परि॑ , द्वेषः॑ऽभिः , अ॒र्य॒मा , वृ॒ण॒क्तु॒ , उ॒रुं , सु॒ऽदासे॑ , वृ॒ष॒णौ॒ , ऊँ॒ इति॑ , लो॒कं ॥
स॒स्वश्चि॒द्धि समृ॑तिस्त्वे॒ष्ये॑षामपी॒च्ये॑न॒ सह॑सा॒ सहं॑ते । यु॒ष्मद्भि॒या वृ॑षणो॒ रेज॑माना॒ दक्ष॑स्य चिन्महि॒ना मृ॒ळता॑ नः ॥
स॒स्वरिति॑ , चि॒त् , हि , संऽऋ॑तिः , त्वे॒षी , ए॒षां॒ , अ॒पी॒च्ये॑न , सह॑सा , सहं॑ते । यु॒ष्मत् , भि॒या , वृ॒ष॒णः॒ , रेज॑मानाः , दक्ष॑स्य , चि॒त् , म॒हि॒ना , मृ॒ळत॑ , नः॒ ॥
यो ब्रह्म॑णे सुम॒तिमा॒यजा॑ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः । सीक्षं॑त म॒न्युं म॒घवा॑नो अ॒र्य उ॒रु क्षया॑य चक्रिरे सु॒धातु॑ ॥
यः , ब्रह्म॑णे , सु॒ऽम॒तिं , आ॒ऽयजा॑ते , वाज॑स्य , सा॒तौ , प॒र॒मस्य॑ , रा॒यः । सीक्षं॑त , म॒न्युं , म॒घऽवा॑नः , अ॒र्यः , उ॒रु , क्षया॑य , च॒क्रि॒रे॒ , सु॒ऽधातु॑ ॥
इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि । विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
इ॒यं , दे॒वा॒ , पु॒रःऽहि॑तिः , यु॒वऽभ्यां॑ , य॒ज्ञेषु॑ , मि॒त्रा॒व॒रु॒णौ॒ , अ॒का॒रि॒ । विश्वा॑नि , दुः॒ऽगा , पि॒पृ॒तं॒ , ति॒रः , नः॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[६१] उद्वांचक्षुरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोमित्रावरुणौत्रिष्टुप् |
उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् । अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि॑केत ॥
उत् , वां॒ , चक्षुः॑ , व॒रु॒णा॒ , सु॒ऽप्रती॑कं , दे॒वयोः॑ , ए॒ति॒ , सूर्यः॑ , त॒त॒न्वान् । अ॒भि , यः , विश्वा॑ , भुव॑नानि , चष्टे॑ , सः , म॒न्युं , मर्त्ये॑षु , आ , चि॒के॒त॒ ॥
प्र वां॒ स मि॑त्रावरुणावृ॒तावा॒ विप्रो॒ मन्मा॑नि दीर्घ॒श्रुदि॑यर्ति । यस्य॒ ब्रह्मा॑णि सुक्रतू॒ अवा॑थ॒ आ यत्क्रत्वा॒ न श॒रदः॑ पृ॒णैथे॑ ॥
प्र , वां॒ , सः , मि॒त्रा॒व॒रु॒णौ॒ , ऋ॒तऽवा॑ , विप्रः॑ , मन्मा॑नि , दी॒र्घ॒ऽश्रुत् , इ॒य॒र्ति॒ । यस्य॑ , ब्रह्मा॑णि , सु॒क्र॒तू॒ इति॑ सुऽक्रतू , अवा॑थः , आ , यत् , क्रत्वा॑ , न , श॒रदः॑ , पृ॒णैथे॒ इति॑ ॥
प्रोरोर्मि॑त्रावरुणा पृथि॒व्याः प्र दि॒व ऋ॒ष्वाद्बृ॑ह॒तः सु॑दानू । स्पशो॑ दधाथे॒ ओष॑धीषु वि॒क्ष्वृध॑ग्य॒तो अनि॑मिषं॒ रक्ष॑माणा ॥
प्र , उ॒रोः , मि॒त्रा॒व॒रु॒णा॒ , पृ॒थि॒व्याः , प्र , दि॒वः , ऋ॒ष्वात् , बृ॒ह॒तः , सु॒दा॒नू॒ इति॑ सुऽदानू । स्पशः॑ , द॒धा॒थे॒ इति॑ , ओष॑धीषु , वि॒क्षु , ऋध॑क् , य॒तः , अनि॑ऽमिषं , रक्ष॑माणा ॥
शंसा॑ मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ शुष्मो॒ रोद॑सी बद्बधे महि॒त्वा । अय॒न्मासा॒ अय॑ज्वनाम॒वीराः॒ प्र य॒ज्ञम॑न्मा वृ॒जनं॑ तिराते ॥
शंस॑ , मि॒त्रस्य॑ , वरु॑णस्य , धाम॑ , शुष्मः॑ , रोद॑सी॒ इति॑ , ब॒द्ब॒धे॒ , म॒हि॒ऽत्वा । अय॑न् , मासाः॑ , अय॑ज्वनां , अ॒वीराः॑ , प्र , य॒ज्ञऽम॑न्मा , वृ॒जनं॑ , ति॒रा॒ते॒ ॥
अमू॑रा॒ विश्वा॑ वृषणावि॒मा वां॒ न यासु॑ चि॒त्रं ददृ॑शे॒ न य॒क्षं । द्रुहः॑ सचंते॒ अनृ॑ता॒ जना॑नां॒ न वां॑ नि॒ण्यान्य॒चिते॑ अभूवन् ॥
अमू॑रा , विश्वा॑ , वृ॒ष॒णौ॒ , इ॒माः , वां॒ , न , यासु॑ , चि॒त्रं , ददृ॑शे , न , य॒क्षं । द्रुहः॑ , स॒चं॒ते॒ , अनृ॑ता , जना॑नां , न , वां॒ , नि॒ण्यानि॑ , अ॒चिते॑ , अ॒भू॒व॒न् ॥
समु॑ वां य॒ज्ञं म॑हयं॒ नमो॑भिर्हु॒वे वां॑ मित्रावरुणा स॒बाधः॑ । प्र वां॒ मन्मा॑न्यृ॒चसे॒ नवा॑नि कृ॒तानि॒ ब्रह्म॑ जुजुषन्नि॒मानि॑ ॥
सं , ऊँ॒ इति॑ , वां॒ , य॒ज्ञं , म॒ह॒यं॒ , नमः॑ऽभिः , हु॒वे , वां॒ , मि॒त्रा॒व॒रु॒णा॒ , स॒ऽबाधः॑ । प्र , वां॒ , मन्मा॑नि , ऋ॒चसे॑ , नवा॑नि , कृ॒तानि॑ , ब्रह्म॑ , जु॒जु॒ष॒न् , इ॒मानि॑ ॥
इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि । विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
इ॒यं , दे॒वा॒ , पु॒रःऽहि॑तिः , यु॒वऽभ्यां॑ , य॒ज्ञेषु॑ , मि॒त्रा॒व॒रु॒णौ॒ , अ॒का॒रि॒ । विश्वा॑नि , दुः॒ऽगा , पि॒पृ॒तं॒ , ति॒रः , नः॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[६२] उत्सूर्यइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ आद्यानांतिसृणांसूर्यस्ततस्तिसृणांमित्रावरुणौत्रिष्टुप् |
उत्सूर्यो॑ बृ॒हद॒र्चींष्य॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणां । स॒मो दि॒वा द॑दृशे॒ रोच॑मानः॒ क्रत्वा॑ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥
उत् , सूर्यः॑ , बृ॒हत् , अ॒र्चींषि॑ , अ॒श्रे॒त् , पु॒रु , विश्वा॑ , जनि॑म , मानु॑षाणां । स॒मः , दि॒वा , द॒दृ॒शे॒ , रोच॑मानः , क्रत्वा॑ , कृ॒तः , सुऽकृ॑तः , क॒र्तृऽभिः॑ , भू॒त् ॥
स सू॑र्य॒ प्रति॑ पु॒रो न॒ उद्गा॑ ए॒भिः स्तोमे॑भिरेत॒शेभि॒रेवैः॑ । प्र नो॑ मि॒त्राय॒ वरु॑णाय वो॒चोऽना॑गसो अर्य॒म्णे अ॒ग्नये॑ च ॥
सः , सू॒र्य॒ , प्रति॑ , पु॒रः , नः॒ , उत् , गाः॒ , ए॒भिः , स्तोमे॑भिः , ए॒त॒शेभिः॑ , एवैः॑ । प्र , नः॒ , मि॒त्राय॑ , वरु॑णाय , वो॒चः॒ , अना॑गसः , अ॒र्य॒म्णे , अ॒ग्नये॑ , च॒ ॥
वि नः॑ स॒हस्रं॑ शु॒रुधो॑ रदंत्वृ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः । यच्छं॑तु चं॒द्रा उ॑प॒मं नो॑ अ॒र्कमा नः॒ कामं॑ पूपुरंतु॒ स्तवा॑नाः ॥
वि , नः॒ , स॒हस्रं॑ , शु॒रुधः॑ , र॒दं॒तु॒ , ऋ॒तऽवा॑नः , वरु॑णः , मि॒त्रः , अ॒ग्निः । यच्छं॑तु , चं॒द्राः , उ॒प॒ऽमं , नः॒ , अ॒र्कं , आ , नः॒ , कामं॑ , पू॒पु॒रं॒तु॒ , स्तवा॑नाः ॥
द्यावा॑भूमी अदिते॒ त्रासी॑थां नो॒ ये वां॑ ज॒ज्ञुः सु॒जनि॑मान ऋष्वे । मा हेळे॑ भूम॒ वरु॑णस्य वा॒योर्मा मि॒त्रस्य॑ प्रि॒यत॑मस्य नृ॒णां ॥
द्यावा॑भूमी॒ इति॑ , अ॒दि॒ते॒ , त्रासी॑थां , नः॒ , ये , वां॒ , ज॒ज्ञुः , सु॒ऽजनि॑मानः , ऋ॒ष्वे॒ इति॑ । मा , हेळे॑ , भू॒म॒ , वरु॑णस्य , वा॒योः , मा , मि॒त्रस्य॑ , प्रि॒यऽत॑मस्य , नृ॒णां ॥
प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ । आ नो॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥
प्र , बा॒हवा॑ , सि॒सृ॒तं॒ , जी॒वसे॑ , नः॒ , आ , नः॒ , गव्यू॑तिं , उ॒क्ष॒तं॒ , घृ॒तेन॑ । आ , नः॒ , जने॑ , श्र॒व॒य॒तं॒ , यु॒वा॒ना॒ , श्रु॒तं , मे॒ , मि॒त्रा॒व॒रु॒णा॒ , हवा॑ , इ॒मा ॥
नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने॑ तो॒काय॒ वरि॑वो दधंतु । सु॒गा नो॒ विश्वा॑ सु॒पथा॑नि संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नु , मि॒त्रः , वरु॑णः , अ॒र्य॒मा , नः॒ , त्मने॑ , तो॒काय॑ , वरि॑वः , द॒धं॒तु॒ । सु॒ऽगा , नः॒ , विश्वा॑ , सु॒ऽपथा॑नि , सं॒तु॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[६३] उद्वेतीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांसार्धंचतसृणां सूर्यस्ततोमित्रावरुणौत्रिष्टुप् |
उद्वे॑ति सु॒भगो॑ वि॒श्वच॑क्षाः॒ साधा॑रणः॒ सूर्यो॒ मानु॑षाणां । चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे॑व॒ यः स॒मवि॑व्य॒क्तमां॑सि ॥
उत् , ऊँ॒ इति॑ , ए॒ति॒ , सु॒ऽभगः॑ , वि॒श्वऽच॑क्षाः , साधा॑रणः , सूर्यः॑ , मानु॑षाणां । चक्षुः॑ , मि॒त्रस्य॑ , वरु॑णस्य , दे॒वः , चर्म॑ऽइव , यः , सं॒ऽअवि॑व्यक् , तमां॑सि ॥
उद्वे॑ति प्रसवी॒ता जना॑नां म॒हान्के॒तुर॑र्ण॒वः सूर्य॑स्य । स॒मा॒नं च॒क्रं प॑र्या॒विवृ॑त्स॒न्यदे॑त॒शो वह॑ति धू॒र्षु यु॒क्तः ॥
उत् , ऊँ॒ इति॑ , ए॒ति॒ , प्र॒ऽस॒वि॒ता , जना॑नां , म॒हान् , के॒तुः , अ॒र्ण॒वः , सूर्य॑स्य । स॒मा॒नं , च॒क्रं , प॒रि॒ऽआ॒विवृ॑त्सन् , यत् , ए॒त॒शः , वह॑ति , धूः॒ऽसु , यु॒क्तः ॥
वि॒भ्राज॑मान उ॒षसा॑मु॒पस्था॑द्रे॒भैरुदे॑त्यनुम॒द्यमा॑नः । ए॒ष मे॑ दे॒वः स॑वि॒ता च॑च्छंद॒ यः स॑मा॒नं न प्र॑मि॒नाति॒ धाम॑ ॥
वि॒ऽभ्राज॑मानः , उ॒षसां॑ , उ॒पऽस्था॑त् , रे॒भैः , उत् , ए॒ति॒ , अ॒नु॒ऽम॒द्यमा॑नः । ए॒षः , मे॒ , दे॒वः , स॒वि॒ता , च॒च्छं॒द॒ , यः , स॒मा॒नं , न , प्र॒ऽमि॒नाति॑ , धाम॑ ॥
दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति दू॒रेअ॑र्थस्त॒रणि॒र्भ्राज॑मानः । नू॒नं जनाः॒ सूर्ये॑ण॒ प्रसू॑ता॒ अय॒न्नर्था॑नि कृ॒णव॒न्नपां॑सि ॥
दि॒वः , रु॒क्मः , उ॒रु॒ऽचक्षाः॑ , उत् , ए॒ति॒ , दू॒रेऽअ॑र्थः , त॒रणिः॑ , भ्राज॑मानः । नू॒नं , जनाः॑ , सूर्ये॑ण , प्रऽसू॑ताः , अय॑न् , अर्था॑नि , कृ॒णव॑न् , अपां॑सि ॥
यत्रा॑ च॒क्रुर॒मृता॑ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे॑ति॒ पाथः॑ । प्रति॑ वां॒ सूर॒ उदि॑ते विधेम॒ नमो॑भिर्मित्रावरुणो॒त ह॒व्यैः ॥
यत्र॑ , च॒क्रुः , अ॒मृताः॑ , गा॒तुं , अ॒स्मै॒ , श्ये॒नः , न , दीय॑न् , अनु॑ , ए॒ति॒ , पाथः॑ । प्रति॑ , वां॒ , सूरे॑ , उत्ऽइ॑ते , वि॒धे॒म॒ , नमः॑ऽभिः , मि॒त्रा॒व॒रु॒णा॒ , उ॒त , ह॒व्यैः ॥
नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने॑ तो॒काय॒ वरि॑वो दधंतु । सु॒गा नो॒ विश्वा॑ सु॒पथा॑नि संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नु , मि॒त्रः , वरु॑णः , अ॒र्य॒मा , नः॒ , त्मने॑ , तो॒काय॑ , वरि॑वः , द॒धं॒तु॒ । सु॒ऽगा , नः॒ , विश्वा॑ , सु॒ऽपथा॑नि , सं॒तु॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[६४] दिविक्षयंतेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौत्रिष्टुप् |
दि॒वि क्षयं॑ता॒ रज॑सः पृथि॒व्यां प्र वां॑ घृ॒तस्य॑ नि॒र्णिजो॑ ददीरन् । ह॒व्यं नो॑ मि॒त्रो अ॑र्य॒मा सुजा॑तो॒ राजा॑ सुक्ष॒त्रो वरु॑णो जुषंत ॥
दि॒वि , क्षयं॑ता , रज॑सः , पृ॒थि॒व्यां , प्र , वां॒ , घृ॒तस्य॑ , निः॒ऽनिजः॑ , द॒दी॒र॒न् । ह॒व्यं , नः॒ , मि॒त्रः , अ॒र्य॒मा , सुऽजा॑तः , राजा॑ , सु॒ऽक्ष॒त्रः , वरु॑णः , जु॒षं॒त॒ ॥
आ रा॑जाना मह ऋतस्य गोपा॒ सिंधु॑पती क्षत्रिया यातम॒र्वाक् । इळां॑ नो मित्रावरुणो॒त वृ॒ष्टिमव॑ दि॒व इ॑न्वतं जीरदानू ॥
आ , रा॒जा॒ना॒ , म॒हः॒ , ऋ॒त॒स्य॒ , गो॒पा॒ , सिंधु॑पती॒ इति॒ सिंधु॑ऽपती , क्ष॒त्रि॒या॒ , या॒तं॒ , अ॒र्वाक् । इळां॑ , नः॒ , मि॒त्रा॒व॒रु॒णा॒ , उ॒त , वृ॒ष्टिं , अव॑ , दि॒वः , इ॒न्व॒तं॒ , जी॒र॒दा॒नू॒ इति॑ जीरऽदानू ॥
मि॒त्रस्तन्नो॒ वरु॑णो दे॒वो अ॒र्यः प्र साधि॑ष्ठेभिः प॒थिभि॑र्नयंतु । ब्रव॒द्यथा॑ न॒ आद॒रिः सु॒दास॑ इ॒षा म॑देम स॒ह दे॒वगो॑पाः ॥
मि॒त्रः , तत् , नः॒ , वरु॑णः , दे॒वः , अ॒र्यः , प्र , साधि॑ष्ठेभिः , प॒थिऽभिः॑ , न॒यं॒तु॒ । ब्रव॑त् , यथा॑ , नः॒ , आत् , अ॒रिः , सु॒ऽदासे॑ , इ॒षा , म॒दे॒म॒ , स॒ह , दे॒वऽगो॑पाः ॥
यो वां॒ गर्तं॒ मन॑सा॒ तक्ष॑दे॒तमू॒र्ध्वां धी॒तिं कृ॒णव॑द्धा॒रय॑च्च । उ॒क्षेथां॑ मित्रावरुणा घृ॒तेन॒ ता रा॑जाना सुक्षि॒तीस्त॑र्पयेथां ॥
यः , वां॒ , गर्तं॑ , मन॑सा , तक्ष॑त् , ए॒तं , ऊ॒र्ध्वां , धी॒तिं , कृ॒णव॑त् , धा॒रय॑त् , च॒ । उ॒क्षेथां॑ , मि॒त्रा॒व॒रु॒णा॒ , घृ॒तेन॑ , ता , रा॒जा॒ना॒ , सु॒ऽक्षि॒तीः , त॒र्प॒ये॒थां॒ ॥
ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे॑ऽयामि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ए॒षः , स्तोमः॑ , व॒रु॒ण॒ , मि॒त्र॒ , तुभ्यं॑ , सोमः॑ , शु॒क्रः , न , वा॒यवे॑ , अ॒या॒मि॒ । अ॒वि॒ष्टं , धियः॑ , जि॒गृ॒तं , पुरं॑ऽधीः , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[६५] प्रतिवामिति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौत्रिष्टुप् |
प्रति॑ वां॒ सूर॒ उदि॑ते सू॒क्तैर्मि॒त्रं हु॑वे॒ वरु॑णं पू॒तद॑क्षं । ययो॑रसु॒र्य१॒॑मक्षि॑तं॒ ज्येष्ठं॒ विश्व॑स्य॒ याम॑न्ना॒चिता॑ जिग॒त्नु ॥
प्रति॑ , वां॒ , सूरे॑ , उत्ऽइ॑ते , सु॒ऽउ॒क्तैः , मि॒त्रं , हु॒वे॒ , वरु॑णं , पू॒तऽद॑क्षं । ययोः॑ , अ॒सु॒र्यं॑ , अक्षि॑तं , ज्येष्ठं॑ , विश्व॑स्य , याम॑न् , आ॒ऽचिता॑ , जि॒ग॒त्नु ॥
ता हि दे॒वाना॒मसु॑रा॒ ताव॒र्या ता नः॑ क्षि॒तीः क॑रतमू॒र्जयं॑तीः । अ॒श्याम॑ मित्रावरुणा व॒यं वां॒ द्यावा॑ च॒ यत्र॑ पी॒पय॒न्नहा॑ च ॥
ता , हि , दे॒वानां॑ , असु॑रा , तौ , अ॒र्या , ता , नः॒ , क्षि॒तीः , क॒र॒तं॒ , ऊ॒र्जयं॑तीः । अ॒श्याम॑ , मि॒त्रा॒व॒रु॒णा॒ , व॒यं , वां॒ , द्यावा॑ , च॒ , यत्र॑ , पी॒पय॑न् , अहा॑ , च॒ ॥
ता भूरि॑पाशा॒वनृ॑तस्य॒ सेतू॑ दुर॒त्येतू॑ रि॒पवे॒ मर्त्या॑य । ऋ॒तस्य॑ मित्रावरुणा प॒था वा॑म॒पो न ना॒वा दु॑रि॒ता त॑रेम ॥
ता , भूरि॑ऽपाशौ , अनृ॑तस्य , सेतू॒ इति॑ , दु॒र॒त्येतू॒ इति॑ दुः॒ऽअ॒त्येतू॑ , रि॒पवे॑ , मर्त्या॑य । ऋ॒तस्य॑ , मि॒त्रा॒व॒रु॒णा॒ , प॒था , वां॒ , अ॒पः , न , ना॒वा , दुः॒ऽइ॒ता , त॒रे॒म॒ ॥
आ नो॑ मित्रावरुणा ह॒व्यजु॑ष्टिं घृ॒तैर्गव्यू॑तिमुक्षत॒मिळा॑भिः । प्रति॑ वा॒मत्र॒ वर॒मा जना॑य पृणी॒तमु॒द्नो दि॒व्यस्य॒ चारोः॑ ॥
आ , नः॒ , मि॒त्रा॒व॒रु॒णा॒ , ह॒व्यऽजु॑ष्टिं , घृ॒तैः , गव्यू॑तिं , उ॒क्ष॒तं॒ , इळा॑भिः । प्रति॑ , वां॒ , अत्र॑ , वरं॑ , आ , जना॑य , पृ॒णी॒तं , उ॒द्नः , दि॒व्यस्य॑ , चारोः॑ ॥
ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे॑ऽयामि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ए॒षः , स्तोमः॑ , व॒रु॒ण॒ , मि॒त्र॒ , तुभ्यं॑ , सोमः॑ , शु॒क्रः , न , वा॒यवे॑ , अ॒या॒मि॒ । अ॒वि॒ष्टं , धियः॑ , जि॒गृ॒तं , पुरं॑ऽधीः , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[६६] प्रमित्रयोरित्येकोनविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठो मित्रावरुणौ चतुर्थ्यादिदशानामादित्यः चतुर्दश्यादितिसृणां सूर्योगायत्री दशमीद्वादशी चतुर्दश्यो बृहत्यः एकादशी त्रयोदशीपंचदश्यः सतोबृहत्यः षोडशीपुरउष्णिक् |
प्र मि॒त्रयो॒र्वरु॑णयोः॒ स्तोमो॑ न एतु शू॒ष्यः॑ । नम॑स्वांतुविजा॒तयोः॑ ॥
प्र , मि॒त्रयोः॑ , वरु॑णयोः , स्तोमः॑ , नः॒ , ए॒तु॒ , शू॒ष्यः॑ । नम॑स्वान् , तु॒वि॒ऽजा॒तयोः॑ ॥
या धा॒रयं॑त दे॒वाः सु॒दक्षा॒ दक्ष॑पितरा । अ॒सु॒र्या॑य॒ प्रम॑हसा ॥
या , धा॒रयं॑त , दे॒वाः , सु॒ऽदक्षा॑ , दक्ष॑ऽपितरा । अ॒सु॒र्या॑य , प्रऽम॑हसा ॥
ता नः॑ स्ति॒पा त॑नू॒पा वरु॑ण जरितॄ॒णां । मित्र॑ सा॒धय॑तं॒ धियः॑ ॥
ता , नः॒ , स्ति॒ऽपा , त॒नू॒ऽपा , वरु॑ण , ज॒रि॒तॄ॒णां । मित्र॑ , सा॒धय॑तं , धियः॑ ॥
यद॒द्य सूर॒ उदि॒तेऽना॑गा मि॒त्रो अ॑र्य॒मा । सु॒वाति॑ सवि॒ता भगः॑ ॥
यत् , अ॒द्य , सूरे॑ , उत्ऽइ॑ते , अना॑गाः , मि॒त्रः , अ॒र्य॒मा । सु॒वाति॑ , स॒वि॒ता , भगः॑ ॥
सु॒प्रा॒वीर॑स्तु॒ स क्षयः॒ प्र नु यामं॑त्सुदानवः । ये नो॒ अंहो॑ऽति॒पिप्र॑ति ॥
सु॒प्र॒ऽअ॒वीः , अ॒स्तु॒ , सः , क्षयः॑ , प्र , नु , याम॑न् , सु॒ऽदा॒न॒वः॒ । ये , नः॒ , अंहः॑ , अ॒ति॒ऽपिप्र॑ति ॥
उ॒त स्व॒राजो॒ अदि॑ति॒रद॑ब्धस्य व्र॒तस्य॒ ये । म॒हो राजा॑न ईशते ॥
उ॒त , स्व॒ऽराजः॑ , अदि॑तिः , अद॑ब्धस्य , व्र॒तस्य॑ , ये । म॒हः , राजा॑नः , ई॒श॒ते॒ ॥
प्रति॑ वां॒ सूर॒ उदि॑ते मि॒त्रं गृ॑णीषे॒ वरु॑णं । अ॒र्य॒मणं॑ रि॒शाद॑सं ॥
प्रति॑ , वां॒ , सूरे॑ , उत्ऽइ॑ते , मि॒त्रं , गृ॒णी॒षे॒ , वरु॑णं । अ॒र्य॒मणं॑ , रि॒शाद॑सं ॥
रा॒या हि॑रण्य॒या म॒तिरि॒यम॑वृ॒काय॒ शव॑से । इ॒यं विप्रा॑ मे॒धसा॑तये ॥
रा॒या , हि॒र॒ण्य॒ऽया , म॒तिः , इ॒यं , अ॒वृ॒काय॑ , शव॑से । इ॒यं , विप्रा॑ , मे॒धऽसा॑तये ॥
ते स्या॑म देव वरुण॒ ते मि॑त्र सू॒रिभिः॑ स॒ह । इषं॒ स्व॑श्च धीमहि ॥
ते , स्या॒म॒ , दे॒व॒ , व॒रु॒ण॒ , ते , मि॒त्र॒ , सू॒रिऽभिः॑ , स॒ह । इषं॑ , स्व१॒॑रिति॒ स्वः॑ , च॒ , धी॒म॒हि॒ ॥
ब॒हवः॒ सूर॑चक्षसोऽग्निजि॒ह्वा ऋ॑ता॒वृधः॑ । त्रीणि॒ ये ये॒मुर्वि॒दथा॑नि धी॒तिभि॒र्विश्वा॑नि॒ परि॑भूतिभिः ॥
ब॒हवः॑ , सूर॑ऽचक्षसः , अ॒ग्नि॒ऽजि॒ह्वाः , ऋ॒त॒ऽवृधः॑ । त्रीणि॑ , ये , ये॒मुः , वि॒दथा॑नि , धी॒तिऽभिः॑ , विश्वा॑नि , परि॑भूतिऽभिः ॥
वि ये द॒धुः श॒रदं॒ मास॒मादह॑र्य॒ज्ञम॒क्तुं चादृचं॑ । अ॒ना॒प्यं वरु॑णो मि॒त्रो अ॑र्य॒मा क्ष॒त्रं राजा॑न आशत ॥
वि , ये , द॒धुः , श॒रदं॑ , मासं॑ , आत् , अहः॑ , य॒ज्ञं , अ॒क्तुं , च॒ , आत् , ऋचं॑ । अ॒ना॒प्यं , वरु॑णः , मि॒त्रः , अ॒र्य॒मा , क्ष॒त्रं , राजा॑नः , आ॒श॒त॒ ॥
तद्वो॑ अ॒द्य म॑नामहे सू॒क्तैः सूर॒ उदि॑ते । यदोह॑ते॒ वरु॑णो मि॒त्रो अ॑र्य॒मा यू॒यमृ॒तस्य॑ रथ्यः ॥
तत् , वः॒ , अ॒द्य , म॒ना॒म॒हे॒ , सु॒ऽउ॒क्तैः , सूरे॑ , उत्ऽइ॑ते । यत् , ओह॑ते , वरु॑णः , मि॒त्रः , अ॒र्य॒मा , यू॒यं , ऋ॒तस्य॑ , र॒थ्यः॒ ॥
ऋ॒तावा॑न ऋ॒तजा॑ता ऋता॒वृधो॑ घो॒रासो॑ अनृत॒द्विषः॑ । तेषां॑ वः सु॒म्ने सु॑च्छ॒र्दिष्ट॑मे नरः॒ स्याम॒ ये च॑ सू॒रयः॑ ॥
ऋ॒तऽवा॑नः , ऋ॒तऽजा॑ताः , ऋ॒त॒ऽवृधः॑ , घो॒रासः॑ , अ॒नृ॒त॒ऽद्विषः॑ । तेषां॑ , वः॒ , सु॒म्ने , सु॒च्छ॒र्दिःऽत॑मे , न॒रः॒ , स्याम॑ , ये , च॒ , सू॒रयः॑ ॥
उदु॒ त्यद्द॑र्श॒तं वपु॑र्दि॒व ए॑ति प्रतिह्व॒रे । यदी॑मा॒शुर्वह॑ति दे॒व एत॑शो॒ विश्व॑स्मै॒ चक्ष॑से॒ अरं॑ ॥
उत् , ऊँ॒ इति॑ , त्यत् , द॒र्श॒तं , वपुः॑ , दि॒वः , ए॒ति॒ , प्र॒ति॒ऽह्व॒रे । यत् , ईं॒ , आ॒शुः , वह॑ति , दे॒वः , एत॑शः , विश्व॑स्मै , चक्ष॑से , अरं॑ ॥
शी॒र्ष्णःशी॑र्ष्णो॒ जग॑तस्त॒स्थुष॒स्पतिं॑ स॒मया॒ विश्व॒मा रजः॑ । स॒प्त स्वसा॑रः सुवि॒ताय॒ सूर्यं॒ वहं॑ति ह॒रितो॒ रथे॑ ॥
शी॒र्ष्णःऽशी॑र्ष्णः , जग॑तः , त॒स्थुषः॑ , पतिं॑ , स॒मया॑ , विश्वं॑ , आ , रजः॑ । स॒प्त , स्वसा॑रः , सु॒वि॒ताय॑ , सूर्यं॑ , वहं॑ति , ह॒रितः॑ , रथे॑ ॥
तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् । पश्ये॑म श॒रदः॑ श॒तं जीवे॑म श॒रदः॑ श॒तं ॥
तत् , चक्षुः॑ , दे॒वऽहि॑तं , शु॒क्रं , उ॒त्ऽचर॑त् । पश्ये॑म , श॒रदः॑ , श॒तं , जीवे॑म , श॒रदः॑ , श॒तं ॥
काव्ये॑भिरदा॒भ्या या॑तं वरुण द्यु॒मत् । मि॒त्रश्च॒ सोम॑पीतये ॥
काव्ये॑भिः , अ॒दा॒भ्या॒ , आ , या॒तं॒ , व॒रु॒ण॒ , द्यु॒ऽमत् । मि॒त्रः , च॒ , सोम॑ऽपीतये ॥
दि॒वो धाम॑भिर्वरुण मि॒त्रश्चा या॑तम॒द्रुहा॑ । पिब॑तं॒ सोम॑मातु॒जी ॥
दि॒वः , धाम॑ऽभिः , व॒रु॒ण॒ , मि॒त्रः , च॒ , आ , या॒तं॒ , अ॒द्रुहा॑ । पिब॑तं , सोमं॑ , आ॒तु॒जी इत्या॑ऽतु॒जी ॥
आ या॑तं मित्रावरुणा जुषा॒णावाहु॑तिं नरा । पा॒तं सोम॑मृतावृधा ॥
आ , या॒तं॒ , मि॒त्रा॒व॒रु॒णा॒ , जु॒षा॒णौ , आऽहु॑तिं , न॒रा॒ । पा॒तं , सोमं॑ , ऋ॒त॒ऽवृ॒धा॒ ॥
[६७] प्रतिवामिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |
प्रति॑ वां॒ रथं॑ नृपती ज॒रध्यै॑ ह॒विष्म॑ता॒ मन॑सा य॒ज्ञिये॑न । यो वां॑ दू॒तो न धि॑ष्ण्या॒वजी॑ग॒रच्छा॑ सू॒नुर्न पि॒तरा॑ विवक्मि ॥
प्रति॑ , वां॒ , रथं॑ , नृ॒प॒ती॒ इति॑ नृऽपती , ज॒रध्यै॑ , ह॒विष्म॑ता , मन॑सा , य॒ज्ञिये॑न । यः , वां॒ , दू॒तः , न , धि॒ष्ण्यौ॒ , अजी॑गः , अच्छ॑ , सू॒नुः , न , पि॒तरा॑ , वि॒व॒क्मि॒ ॥
अशो॑च्य॒ग्निः स॑मिधा॒नो अ॒स्मे उपो॑ अदृश्रं॒तम॑सश्चि॒दंताः॑ । अचे॑ति के॒तुरु॒षसः॑ पु॒रस्ता॑च्छ्रि॒ये दि॒वो दु॑हि॒तुर्जाय॑मानः ॥
अशो॑चि , अ॒ग्निः , सं॒ऽइ॒धा॒नः , अ॒स्मे इति॑ , उपो॒ इति॑ , अ॒दृ॒श्र॒न् , तम॑सः , चि॒त् , अंताः॑ । अचे॑ति , के॒तुः , उ॒षसः॑ , पु॒रस्ता॑त् , श्रि॒ये , दि॒वः , दु॒हि॒तुः , जाय॑मानः ॥
अ॒भि वां॑ नू॒नम॑श्विना॒ सुहो॑ता॒ स्तोमैः॑ सिषक्ति नासत्या विव॒क्वान् । पू॒र्वीभि॑र्यातं प॒थ्या॑भिर॒र्वाक्स्व॒र्विदा॒ वसु॑मता॒ रथे॑न ॥
अ॒भि , वां॒ , नू॒नं , अ॒श्वि॒ना॒ , सुऽहो॑ता , स्तोमैः॑ , सि॒स॒क्ति॒ , ना॒स॒त्या॒ , वि॒व॒क्वान् । पू॒र्वीभिः॑ , या॒तं॒ , प॒थ्या॑भिः , अ॒र्वाक् , स्वः॒ऽविदा॑ , वसु॑ऽमता , रथे॑न ॥
अ॒वोर्वां॑ नू॒नम॑श्विना यु॒वाकु॑र्हु॒वे यद्वां॑ सु॒ते मा॑ध्वी वसू॒युः । आ वां॑ वहंतु॒ स्थवि॑रासो॒ अश्वाः॒ पिबा॑थो अ॒स्मे सुषु॑ता॒ मधू॑नि ॥
अ॒वोः , वां॒ , नू॒नं , अ॒श्वि॒ना॒ , यु॒वाकुः॑ , हु॒वे , यत् , वां॒ , सु॒ते , मा॒ध्वी॒ इति॑ , व॒सु॒ऽयुः । आ , वां॒ , व॒हं॒तु॒ , स्थवि॑रासः , अश्वाः॑ , पिबा॑थः , अ॒स्मे इति॑ , सुऽसु॑ता , मधू॑नि ॥
प्राची॑मु देवाश्विना॒ धियं॒ मेऽमृ॑ध्रां सा॒तये॑ कृतं वसू॒युं । विश्वा॑ अविष्टं॒ वाज॒ आ पुरं॑धी॒स्ता नः॑ शक्तं शचीपती॒ शची॑भिः ॥
प्राचीं॑ , ऊँ॒ इति॑ , दे॒वा॒ , अ॒श्वि॒ना॒ , धियं॑ , मे॒ , अमृ॑ध्रां , सा॒तये॑ , कृ॒तं॒ , व॒सु॒ऽयुं । विश्वाः॑ , अ॒वि॒ष्टं॒ , वाजे॑ , आ , पुरं॑ऽधीः , ता , नः॒ , श॒क्तं॒ , श॒ची॒प॒ती॒ इति॑ शचीऽपती , शची॑भिः ॥
अ॒वि॒ष्टं धी॒ष्व॑श्विना न आ॒सु प्र॒जाव॒द्रेतो॒ अह्र॑यं नो अस्तु । आ वां॑ तो॒के तन॑ये॒ तूतु॑जानाः सु॒रत्ना॑सो दे॒ववी॑तिं गमेम ॥
अ॒वि॒ष्टं , धी॒षु , अ॒श्वि॒ना॒ , नः॒ , आ॒सु , प्र॒जाऽव॑त् , रेतः॑ , अह्र॑यं , नः॒ , अ॒स्तु॒ । आ , वां॒ , तो॒के , तन॑ये , तूतु॑जानाः , सु॒ऽरत्ना॑सः , दे॒वऽवी॑तिं , ग॒मे॒म॒ ॥
ए॒ष स्य वां॑ पूर्व॒गत्वे॑व॒ सख्ये॑ नि॒धिर्हि॒तो मा॑ध्वी रा॒तो अ॒स्मे । अहे॑ळता॒ मन॒सा या॑तम॒र्वाग॒श्नंता॑ ह॒व्यं मानु॑षीषु वि॒क्षु ॥
ए॒षः , स्यः , वां॒ , पू॒र्व॒गत्वा॑ऽइव , सख्ये॑ , नि॒ऽधिः , हि॒तः , मा॒ध्वी॒ इति॑ , रा॒तः , अ॒स्मे इति॑ । अहे॑ळता , मन॑सा , आ , या॒तं॒ , अ॒र्वाक् , अ॒श्नंता॑ , ह॒व्यं , मानु॑षीषु , वि॒क्षु ॥
एक॑स्मि॒न्योगे॑ भुरणा समा॒ने परि॑ वां स॒प्त स्र॒वतो॒ रथो॑ गात् । न वा॑यंति सु॒भ्वो॑ दे॒वयु॑क्ता॒ ये वां॑ धू॒र्षु त॒रण॑यो॒ वहं॑ति ॥
एक॑स्मिन् , योगे॑ , भु॒र॒णा॒ , स॒मा॒ने , परि॑ , वां , स॒प्त , स्र॒वतः॑ , रथः॑ , गा॒त् । न , वा॒यं॒ति॒ , सु॒ऽभ्वः॑ , दे॒वऽयु॑क्ताः , ये , वां॒ , धूः॒ऽसु , त॒रण॑यः , वहं॑ति ॥
अ॒स॒श्चता॑ म॒घव॑द्भ्यो॒ हि भू॒तं ये रा॒या म॑घ॒देयं॑ जु॒नंति॑ । प्र ये बंधुं॑ सू॒नृता॑भिस्ति॒रंते॒ गव्या॑ पृं॒चंतो॒ अश्व्या॑ म॒घानि॑ ॥
अ॒स॒श्चता॑ , म॒घव॑त्ऽभ्यः , हि , भू॒तं , ये , रा॒या , म॒घ॒ऽदेयं॑ , जु॒नंति॑ । प्र , ये , बंधुं॑ , सू॒नृता॑भिः , ति॒रंते॑ , गव्या॑ , पृं॒चंतः॑ , अश्व्या॑ , म॒घानि॑ ॥
नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् । ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नु , मे॒ , हवं॑ , आ , शृ॒णु॒तं॒ , यु॒वा॒ना॒ , या॒सि॒ष्टं , व॒र्तिः , अ॒श्वि॒नौ॒ , इरा॑ऽवत् । ध॒त्तं , रत्ना॑नि , जर॑तं , च॒ , सू॒रीन् , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[६८] आशुभ्रेति नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् आद्याःसप्तविराजः |
आ शु॑भ्रा यातमश्विना॒ स्वश्वा॒ गिरो॑ दस्रा जुजुषा॒णा यु॒वाकोः॑ । ह॒व्यानि॑ च॒ प्रति॑भृता वी॒तं नः॑ ॥
आ , शु॒भ्रा॒ , या॒तं॒ , अ॒श्वि॒ना॒ , सु॒ऽअश्वा॑ , गिरः॑ , द॒स्रा॒ , जु॒जु॒षा॒णा , यु॒वाकोः॑ । ह॒व्यानि॑ , च॒ , प्रति॑ऽभृता , वी॒तं , नाः॒ ॥
प्र वा॒मंधां॑सि॒ मद्या॑न्यस्थु॒ररं॑ गंतं ह॒विषो॑ वी॒तये॑ मे । ति॒रो अ॒र्यो हव॑नानि श्रु॒तं नः॑ ॥
प्र , वां॒ , अंधां॑सि , मद्या॑नि , अ॒स्थुः॒ , अरं॑ , गं॒तं॒ , ह॒विषः॑ , वी॒तये॑ , मे॒ । ति॒रः , अ॒र्यः , हव॑नानि , श्रु॒तं , नः॒ ॥
प्र वां॒ रथो॒ मनो॑जवा इयर्ति ति॒रो रजां॑स्यश्विना श॒तोतिः॑ । अ॒स्मभ्यं॑ सूर्यावसू इया॒नः ॥
प्र , वां॒ , रथः॑ , मनः॑ऽजवाः , इ॒य॒र्ति॒ , ति॒रः , रजां॑सि , अ॒श्वि॒ना॒ , श॒तऽऊ॑तिः । अ॒स्मभ्यं॑ , सू॒र्या॒व॒सू॒ इति॑ , इ॒या॒नः ॥
अ॒यं ह॒ यद्वां॑ देव॒या उ॒ अद्रि॑रू॒र्ध्वो विव॑क्ति सोम॒सुद्यु॒वभ्यां॑ । आ व॒ल्गू विप्रो॑ ववृतीत ह॒व्यैः ॥
अ॒यं , ह॒ , यत् , वां॒ , दे॒व॒ऽयाः , ऊँ॒ इति॑ , अद्रिः॑ , ऊ॒र्ध्वः , विव॑क्ति , सो॒म॒ऽसुत् , यु॒वऽभ्यां॑ । आ , व॒ल्गू इति॑ , विप्रः॑ , व॒वृ॒ती॒त॒ , ह॒व्यैः ॥
चि॒त्रं ह॒ यद्वां॒ भोज॑नं॒ न्वस्ति॒ न्यत्र॑ये॒ महि॑ष्वंतं युयोतं । यो वा॑मो॒मानं॒ दध॑ते प्रि॒यः सन् ॥
चि॒त्रं , ह॒ , यत् , वां॒ , भोज॑नं , नु , अस्ति॑ , नि , अत्र॑ये , महि॑ष्वंतं , यु॒यो॒तं॒ । यः , वां॒ , ओ॒मानं॑ , दध॑ते , प्रि॒यः , सन् ॥
उ॒त त्यद्वां॑ जुर॒ते अ॑श्विना भू॒च्च्यवा॑नाय प्र॒तीत्यं॑ हवि॒र्दे । अधि॒ यद्वर्प॑ इ॒तऊ॑ति ध॒त्थः ॥
उ॒त , त्यत् , वां॒ , जु॒र॒ते , अ॒श्वि॒ना॒ , भू॒त् , च्यवा॑नाय , प्र॒तीत्यं॑ , ह॒विः॒ऽदे । अधि॑ , यत् , वर्पः॑ , इ॒तःऽऊ॑ति , ध॒त्थः ॥
उ॒त त्यं भु॒ज्युम॑श्विना॒ सखा॑यो॒ मध्ये॑ जहुर्दु॒रेवा॑सः समु॒द्रे । निरीं॑ पर्ष॒दरा॑वा॒ यो यु॒वाकुः॑ ॥
उ॒त , त्यं , भु॒ज्युं , अ॒श्वि॒ना॒ , सखा॑यः , मध्ये॑ , जु॒हुः॒ , दुः॒ऽएवा॑सः , स॒मु॒द्रे । निः , ईं॒ , प॒र्ष॒त् , अरा॑वा , यः , यु॒वाकुः॑ ॥
वृका॑य चि॒ज्जस॑मानाय शक्तमु॒त श्रु॑तं श॒यवे॑ हू॒यमा॑ना । याव॒घ्न्यामपि॑न्वतम॒पो न स्त॒र्यं॑ चिच्छ॒क्त्य॑श्विना॒ शची॑भिः ॥
वृका॑य , चि॒त् , जस॑मानाय , श॒क्तं॒ , उ॒त , श्रु॒तं॒ , श॒यवे॑ , हू॒यमा॑ना । यौ , अ॒घ्न्यां , अपि॑न्वतं , अ॒पः , न , स्त॒र्यं॑ , चि॒त् , श॒क्ती , अ॒श्वि॒ना॒ , शची॑भिः ॥
ए॒ष स्य का॒रुर्ज॑रते सू॒क्तैरग्रे॑ बुधा॒न उ॒षसां॑ सु॒मन्मा॑ । इ॒षा तं व॑र्धद॒घ्न्या पयो॑भिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ए॒षः , स्यः , का॒रुः , ज॒र॒ते॒ , सु॒ऽउ॒क्तैः , अग्रे॑ , बु॒धा॒नः , उ॒षसां॑ , सु॒ऽमन्मा॑ । इ॒षा , तं , व॒र्ध॒त् , अ॒घ्न्या , पयः॑ऽभिः , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[६९] आवांरथइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |
आ वां॒ रथो॒ रोद॑सी बद्बधा॒नो हि॑र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः॑ । घृ॒तव॑र्तनिः प॒विभी॑ रुचा॒न इ॒षां वो॒ळ्हा नृ॒पति॑र्वा॒जिनी॑वान् ॥
आ , वां॒ , रथः॑ , रोद॑सी॒ इति॑ , ब॒द्ब॒धा॒नः , हि॒र॒ण्ययः॑ , वृष॑ऽभिः , या॒तु॒ , अश्वैः॑ । घृ॒तऽव॑र्तनिः , प॒विऽभिः॑ , रु॒चा॒नः , इ॒षां , वो॒ळ्हा , नृ॒ऽपतिः॑ , वा॒जिनी॑ऽवान् ॥
स प॑प्रथा॒नो अ॒भि पंच॒ भूमा॑ त्रिवंधु॒रो मन॒सा या॑तु यु॒क्तः । विशो॒ येन॒ गच्छ॑थो देव॒यंतीः॒ कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना ॥
सः , प॒प्र॒था॒नः , अ॒भि , पंच॑ , भूम॑ , त्रि॒ऽवं॒धु॒रः , म॒न॒सा , आ , या॒तु॒ , यु॒क्तः । विशः॑ , येन॑ , गच्छ॑थः , दे॒व॒ऽयंतीः॑ , कुत्र॑ , चि॒त् , यामं॑ , अ॒श्वि॒ना॒ , दधा॑ना ॥
स्वश्वा॑ य॒शसा या॑तम॒र्वाग्दस्रा॑ नि॒धिं मधु॑मंतं पिबाथः । वि वां॒ रथो॑ व॒ध्वा॒३॒॑ याद॑मा॒नोऽन्तां॑दि॒वो बा॑धते वर्त॒निभ्यां॑ ॥
सु॒ऽअश्वा॑ , य॒शसा॑ , आ , या॒तं॒ , अ॒र्वाक् , दस्रा॑ , नि॒ऽधिं , मधु॑ऽमंतं , पि॒बा॒थः॒ । वि , वां॒ , रथः॑ , व॒ध्वा॑ , याद॑मानः , अंता॑न् , दि॒वः , बा॒ध॒ते॒ , व॒र्त॒निऽभ्यां॑ ॥
यु॒वोः श्रियं॒ परि॒ योषा॑वृणीत॒ सूरो॑ दुहि॒ता परि॑तक्म्यायां । यद्दे॑व॒यंत॒मव॑थः॒ शची॑भिः॒ परि॑ घ्रं॒समो॒मना॑ वां॒ वयो॑ गात् ॥
यु॒वोः , श्रियं॑ , परि॑ , योषा॑ , अ॒वृ॒णी॒त॒ , सूरः॑ , दु॒हि॒ता , परि॑ऽतक्म्यायां । यत् , दे॒व॒ऽयंतं॑ , अव॑थः , शची॑भिः , परि॑ , घ्रं॒सं , ओ॒मना॑ , वां॒ , वयः॑ , गा॒त् ॥
यो ह॒ स्य वां॑ रथिरा॒ वस्त॑ उ॒स्रा रथो॑ युजा॒नः प॑रि॒याति॑ व॒र्तिः । तेन॑ नः॒ शं योरु॒षसो॒ व्यु॑ष्टौ॒ न्य॑श्विना वहतं य॒ज्ञे अ॒स्मिन् ॥
यः , ह॒ , स्यः , वां॒ , र॒थि॒रा॒ , वस्ते॑ , उ॒स्राः , रथः॑ , यु॒जा॒नः , प॒रि॒ऽयाति॑ , व॒र्तिः । तेन॑ , नः॒ , शं , योः , उ॒षसः॑ , विऽउ॑ष्टौ , नि , अ॒श्वि॒ना॒ , व॒ह॒तं॒ , य॒ज्ञे , अ॒स्मिन् ॥
नरा॑ गौ॒रेव॑ वि॒द्युतं॑ तृषा॒णास्माक॑म॒द्य सव॒नोप॑ यातं । पु॒रु॒त्रा हि वां॑ म॒तिभि॒र्हवं॑ते॒ मा वा॑म॒न्ये नि य॑मंदेव॒यंतः॑ ॥
नरा॑ , गौ॒राऽइ॑व , वि॒ऽद्युतं॑ , तृ॒षा॒णा , अ॒स्माकं॑ , अ॒द्य , सव॑ना , उप॑ , या॒तं॒ । पु॒रु॒ऽत्रा , हि , वां॒ , म॒तिऽभिः॑ , हवं॑ते , मा , वां॒ , अ॒न्ये , नि , य॒म॒न् , दे॒व॒ऽयंतः॑ ॥
यु॒वं भु॒ज्युमव॑विद्धं समु॒द्र उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः । प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभि॑र्दं॒सना॑भिरश्विना पा॒रयं॑ता ॥
यु॒वं , भु॒ज्युं , अव॑ऽविद्धं , स॒मु॒द्रे , उत् , ऊ॒ह॒थुः॒ , अर्ण॑सः , अस्रि॑धानैः । प॒त॒त्रिऽभिः॑ , अ॒श्र॒मैः , अ॒व्य॒थिऽभिः॑ , दं॒सना॑भिः , अ॒श्वि॒ना॒ , पा॒रयं॑ता ॥
नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् । ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नु , मे॒ , हवं॑ , आ , शृ॒णु॒तं॒ , यु॒वा॒ना॒ , या॒सि॒ष्टं , व॒र्तिः , अ॒श्वि॒नौ॒ , इरा॑ऽवत् । ध॒त्तं , रत्ना॑नि , जर॑तं , च॒ , सू॒रीन् , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[७०] आविश्ववारेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |
आ वि॑श्ववाराश्विना गतं नः॒ प्र तत्स्थान॑मवाचि वां पृथि॒व्यां । अश्वो॒ न वा॒जी शु॒नपृ॑ष्ठो अस्था॒दा यत्से॒दथु॑र्ध्रु॒वसे॒ न योनिं॑ ॥
आ , वि॒श्व॒ऽवा॒रा॒ , अ॒श्वि॒ना॒ , ग॒तं॒ , नः॒ , प्र , तत् , स्थानं॑ , अ॒वा॒चि॒ , वां॒ , पृ॒थि॒व्यां । अश्वः॑ , न , वा॒जी , शु॒नऽपृ॑ष्ठः , अ॒स्था॒त् , आ , यत् , से॒दथुः॑ , ध्रु॒वसे॑ , न , योनिं॑ ॥
सिष॑क्ति॒ सा वां॑ सुम॒तिश्चनि॒ष्ठाता॑पि घ॒र्मो मनु॑षो दुरो॒णे । यो वां॑ समु॒द्रांत्स॒रितः॒ पिप॒र्त्येत॑ग्वा चि॒न्न सु॒युजा॑ युजा॒नः ॥
सिस॑क्ति , सा , वां॒ , सु॒ऽम॒तिः , चनि॑ष्ठा , अता॑पि , घ॒र्मः , मनु॑षः , दु॒रो॒णे । यः , वां॒ , स॒मु॒द्रान् , स॒रितः॑ , पिप॑र्ति , एत॑ऽग्वा , चि॒त् , न , सु॒ऽयुजा॑ , यु॒जा॒नः ॥
यानि॒ स्थाना॑न्यश्विना द॒धाथे॑ दि॒वो य॒ह्वीष्वोष॑धीषु वि॒क्षु । नि पर्व॑तस्य मू॒र्धनि॒ सदं॒तेषं॒ जना॑य दा॒शुषे॒ वहं॑ता ॥
यानि॑ , स्थाना॑नि , अ॒श्वि॒ना॒ , द॒धाथे॒ इति॑ , दि॒वः , य॒ह्वीषु॑ , ओष॑धीषु , वि॒क्षु । नि , पर्व॑तस्य , मू॒र्धनि॑ , सदं॑ता , इषं॑ , जना॑य , दा॒शुषे॑ , वहं॑ता ॥
च॒नि॒ष्टं दे॑वा॒ ओष॑धीष्व॒प्सु यद्यो॒ग्या अ॒श्नवै॑थे॒ ऋषी॑णां । पु॒रूणि॒ रत्ना॒ दध॑तौ॒ न्य१॒॑स्मे अनु॒ पूर्वा॑णि चख्यथुर्यु॒गानि॑ ॥
च॒नि॒ष्टं , दे॒वौ॒ , ओष॑धीषु , अ॒प्ऽसु , यत् , यो॒ग्याः , अ॒श्नवै॑थे॒ इति॑ , ऋषी॑णां । पु॒रूणि॑ , रत्ना॑ , दध॑तौ , नि , अ॒स्मे इति॑ , अनु॑ , पूर्वा॑णि , च॒ख्य॒थुः॒ , यु॒गानि॑ ॥
शु॒श्रु॒वांसा॑ चिदश्विना पु॒रूण्य॒भि ब्रह्मा॑णि चक्षाथे॒ ऋषी॑णां । प्रति॒ प्र या॑तं॒ वर॒मा जना॑या॒स्मे वा॑मस्तु सुम॒तिश्चनि॑ष्ठा ॥
शु॒श्रु॒ऽवांसा॑ , चि॒त् , अ॒श्वि॒ना॒ , पु॒रूणि॑ , अ॒भि , ब्रह्मा॑णि , च॒क्षा॒थे॒ इति॑ , ऋषी॑णां । प्रति॑ , प्र , या॒तं॒ , वरं॑ , आ , जना॑य , अ॒स्मे इति॑ , वां॒ , अ॒स्तु॒ , सु॒ऽम॒तिः , चनि॑ष्ठा ॥
यो वां॑ य॒ज्ञो ना॑सत्या ह॒विष्मा॑न्कृ॒तब्र॑ह्मा सम॒र्यो॒३॒॑ भवा॑ति । उप॒ प्र या॑तं॒ वर॒मा वसि॑ष्ठमि॒मा ब्रह्मा॑ण्यृच्यंते यु॒वभ्यां॑ ॥
यः , वां॒ , य॒ज्ञः , ना॒स॒त्या॒ , ह॒विष्मा॑न् , कृ॒तऽब्र॑ह्मा , स॒ऽम॒र्यः॑ , भवा॑ति । उप॑ , प्र , या॒तं॒ , वरं॑ , आ , वसि॑ष्ठं , इ॒मा , ब्रह्मा॑णि , ऋ॒च्यं॒ते॒ , यु॒वऽभ्यां॑ ॥
इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथां । इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
इ॒यं , म॒नी॒षा , इ॒यं , अ॒श्वि॒ना॒ , गीः , इ॒मां , सु॒ऽवृ॒क्तिं , वृ॒ष॒णा॒ , जु॒षे॒थां॒ । इ॒मा , ब्रह्मा॑णि , यु॒व॒ऽयूनि॑ , अ॒ग्म॒न् , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[७१] अपस्वसुरिति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |
अप॒ स्वसु॑रु॒षसो॒ नग्जि॑हीते रि॒णक्ति॑ कृ॒ष्णीर॑रु॒षाय॒ पंथां॑ । अश्वा॑मघा॒ गोम॑घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु॑म॒स्मद्यु॑योतं ॥
अप॑ , स्वसुः॑ , उ॒षसः॑ , नक् , जि॒ही॒ते॒ , रि॒णक्ति॑ , कृ॒ष्णीः , अ॒रु॒षाय॑ , पंथां॑ । अश्व॑ऽमघा , गोऽम॑घा , वां॒ , हु॒वे॒म॒ , दिवा॑ , नक्तं॑ , शरुं॑ , अ॒स्मत् , यु॒यो॒तं॒ ॥
उ॒पाया॑तं दा॒शुषे॒ मर्त्या॑य॒ रथे॑न वा॒मम॑श्विना॒ वहं॑ता । यु॒यु॒तम॒स्मदनि॑रा॒ममी॑वां॒ दिवा॒ नक्तं॑ माध्वी॒ त्रासी॑थां नः ॥
उ॒प॒ऽआया॑तं , दा॒शुषे॑ , मर्त्या॑य , रथे॑न , वा॒मं , अ॒श्वि॒ना॒ , वहं॑ता । यु॒यु॒तं , अ॒स्मत् , अनि॑रां , अमी॑वां , दिवा॑ , नक्तं॑ , मा॒ध्वी॒ इति॑ , त्रासी॑थां , नः॒ ॥
आ वां॒ रथ॑मव॒मस्यां॒ व्यु॑ष्टौ सुम्ना॒यवो॒ वृष॑णो वर्तयंतु । स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒ वसु॑मंतं वहेथां ॥
आ , वां॒ , रथं॑ , अ॒व॒मस्यां॑ , विऽउ॑ष्टौ , सु॒म्न॒ऽयवः॑ , वृष॑णः , व॒र्त॒यं॒तु॒ । स्यूम॑ऽगभस्तिं , ऋ॒त॒युक्ऽभिः॑ , अश्वैः॑ , आ , अ॒श्वि॒ना॒ , वसु॑ऽमंतं , व॒हे॒थां॒ ॥
यो वां॒ रथो॑ नृपती॒ अस्ति॑ वो॒ळ्हा त्रि॑वंधु॒रो वसु॑माँ उ॒स्रया॑मा । आ न॑ ए॒ना ना॑स॒त्योप॑ यातम॒भि यद्वां॑ वि॒श्वप्स्न्यो॒ जिगा॑ति ॥
यः , वां॒ , रथः॑ , नृ॒प॒ती॒ इति॑ नृऽपती , अस्ति॑ , वो॒ळ्हा , त्रि॒ऽवं॒धु॒रः , वसु॑ऽमान् , उ॒स्रऽया॑मा । आ , नः॒ , ए॒ना , ना॒स॒त्या॒ , उप॑ , या॒तं॒ , अ॒भि , यत् , वां॒ , वि॒श्वऽप्स्न्यः॑ , जिगा॑ति ॥
यु॒वं च्यवा॑नं ज॒रसो॑ऽमुमुक्तं॒ नि पे॒दव॑ ऊहथुरा॒शुमश्वं॑ । निरंह॑स॒स्तम॑सः स्पर्त॒मत्रिं॒ नि जा॑हु॒षं शि॑थि॒रे धा॑तमं॒तः ॥
यु॒वं , च्यवा॑नं , ज॒रसः॑ , अ॒मु॒मु॒क्तं॒ , नि , पे॒दवे॑ , ऊ॒ह॒थुः॒ , आ॒शुं , अश्वं॑ । निः , अंह॑सः , तम॑सः , स्पर्तं॑ , अत्रिं॑ , नि , जा॒हु॒षं , शि॒थि॒रे , धा॒तं , अं॒तरिति॑ ॥
इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथां । इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
इ॒यं , म॒नी॒षा , इ॒यं , अ॒श्वि॒ना॒ , गीः , इ॒मां , सु॒ऽवृ॒क्तिं , वृ॒ष॒णा॒ , जु॒षे॒थां॒ । इ॒मा , ब्रह्मा॑णि , यु॒व॒ऽयूनि॑ , अ॒ग्म॒न् , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[७२] आगोमतेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |
आ गोम॑ता नासत्या॒ रथे॒नाश्वा॑वता पुरुश्चं॒द्रेण॑ यातं । अ॒भि वां॒ विश्वा॑ नि॒युतः॑ सचंते स्पा॒र्हया॑ श्रि॒या त॒न्वा॑ शुभा॒ना ॥
आ , गोऽम॑ता , ना॒स॒त्या॒ , रथे॑न , अश्व॑ऽवता , पु॒रु॒ऽचं॒द्रेण॑ , या॒तं॒ । अ॒भि , वां॒ , विश्वाः॑ , नि॒ऽयुतः॑ , स॒चं॒ते॒ , स्पा॒र्हया॑ , श्रि॒या , त॒न्वा॑ , शु॒भा॒ना ॥
आ नो॑ दे॒वेभि॒रुप॑ यातम॒र्वाक्स॒जोष॑सा नासत्या॒ रथे॑न । यु॒वोर्हि नः॑ स॒ख्या पित्र्या॑णि समा॒नो बंधु॑रु॒त तस्य॑ वित्तं ॥
आ , नः॒ , दे॒वेभिः॑ , उप॑ , या॒तं॒ , अ॒र्वाक् , स॒ऽजोष॑सा , ना॒स॒त्या॒ , रथे॑न । यु॒वोः , हि , नः॒ , स॒ख्या , पित्र्या॑णि , स॒मा॒नः , बंधुः॑ , उ॒त , तस्य॑ , वि॒त्तं॒ ॥
उदु॒ स्तोमा॑सो अ॒श्विनो॑रबुध्रंजा॒मि ब्रह्मा॑ण्यु॒षस॑श्च दे॒वीः । आ॒विवा॑स॒न्रोद॑सी॒ धिष्ण्ये॒मे अच्छा॒ विप्रो॒ नास॑त्या विवक्ति ॥
उत् , ऊँ॒ इति॑ , स्तोमा॑सः , अ॒श्विनोः॑ , अ॒बु॒ध्र॒न् , जा॒मि , ब्रह्मा॑णि , उ॒षसः॑ , च॒ , दे॒वीः । आ॒ऽविवा॑सन् , रोद॑सी॒ इति॑ , धिष्ण्ये॒ इति॑ , इ॒मे इति॑ , अच्छ॑ , विप्रः॑ , नास॑त्या , वि॒व॒क्ति॒ ॥
वि चेदु॒च्छंत्य॑श्विना उ॒षासः॒ प्र वां॒ ब्रह्मा॑णि का॒रवो॑ भरंते । ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्बृ॒हद॒ग्नयः॑ स॒मिधा॑ जरंते ॥
वि , च॒ , इत् , उ॒च्छंति॑ , अ॒श्वि॒नौ॒ , उ॒षसः॑ , प्र , वां॒ , ब्रह्मा॑णि , का॒रवः॑ , भ॒रं॒ते॒ । ऊ॒र्ध्वं , भा॒नुं , स॒वि॒ता , दे॒वः , अ॒श्रे॒त् , बृ॒हत् , अ॒ग्नयः॑ , सं॒ऽइधा॑ , ज॒रं॒ते॒ ॥
आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् । आ वि॒श्वतः॒ पांच॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
आ , प॒श्चाता॑त् , ना॒स॒त्या॒ , आ , पु॒रस्ता॑त् , आ , अ॒श्वि॒ना॒ , या॒तं॒ , अ॒ध॒रात् , उद॑क्तात् । आ , वि॒श्वतः॑ , पांच॑ऽजन्येन , रा॒या , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[७३] अतारिष्मेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोश्विनौत्रिष्टुप् |
अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॒ स्तोमं॑ देव॒यंतो॒ दधा॑नाः । पु॒रु॒दंसा॑ पुरु॒तमा॑ पुरा॒जाम॑र्त्या हवते अ॒श्विना॒ गीः ॥
अता॑रिष्म , तम॑सः , पा॒रं , अ॒स्य , प्रति॑ , स्तोमं॑ , दे॒व॒ऽयंतः॑ , दधा॑नाः । पु॒रु॒ऽदंसा॑ , पु॒रु॒ऽतमा॑ , पु॒रा॒ऽजा , अम॑र्त्या , ह॒व॒ते॒ , अ॒श्विना॑ , गीः ॥
न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वंद॑ते च । अ॒श्नी॒तं मध्वो॑ अश्विना उपा॒क आ वां॑ वोचे वि॒दथे॑षु॒ प्रय॑स्वान् ॥
नि , ऊँ॒ इति॑ , प्रि॒यः , मनु॑षः , सा॒दि॒ , होता॑ , नास॑त्या , यः , यज॑ते , वंद॑ते , च॒ । अ॒श्नी॒तं , मध्वः॑ , अ॒श्वि॒नौ॒ , उ॒पा॒के , आ , वां॒ , वो॒चे॒ , वि॒दथे॑षु , प्रय॑स्वान् ॥
अहे॑म य॒ज्ञं प॒थामु॑रा॒णा इ॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथां । श्रु॒ष्टी॒वेव॒ प्रेषि॑तो वामबोधि॒ प्रति॒ स्तोमै॒र्जर॑माणो॒ वसि॑ष्ठः ॥
अहे॑म , य॒ज्ञं , प॒थां , उ॒रा॒णाः , इ॒मां , सु॒ऽवृ॒क्तिं , वृ॒ष॒णा॒ , जु॒षे॒थां॒ । श्रु॒ष्टी॒वाऽइ॑व , प्रऽइ॑षितः , वां॒ , अ॒बो॒धि॒ , प्रति॑ , स्तोमैः॑ , जर॑माणः , वसि॑ष्ठः ॥
उप॒ त्या वह्नी॑ गमतो॒ विशं॑ नो रक्षो॒हणा॒ संभृ॑ता वी॒ळुपा॑णी । समंधां॑स्यग्मत मत्स॒राणि॒ मा नो॑ मर्धिष्ट॒मा ग॑तं शि॒वेन॑ ॥
उप॑ , त्या , वह्नी॒ इति॑ , ग॒म॒तः॒ , विशं॑ , नः॒ , र॒क्षः॒ऽहना॑ , संऽभृ॑ता , वी॒ळुपा॑णी॒ इति॑ वी॒ळुऽपा॑णी । सं , अंधां॑सि , अ॒ग्म॒त॒ , म॒त्स॒राणि॑ , मा , नः॒ , म॒र्धि॒ष्टं॒ , आ , ग॒तं॒ , शि॒वेन॑ ॥
आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् । आ वि॒श्वतः॒ पांच॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
आ , प॒श्चाता॑त् , ना॒स॒त्या॒ , आ , पु॒रस्ता॑त् , आ , अ॒श्वि॒ना॒ , या॒तं॒ , अ॒ध॒रात् , उद॑क्तात् । आ , वि॒श्वतः॑ , पांच॑ऽजन्येन , रा॒या , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[७४] इमाउवामिति षडृचस्य सूक्तस्यमैत्रावरुणिर्वसिष्ठोश्विनौबृहती द्वितीयाचतुर्थी षष्ठयः सतो बृहत्यः |
इ॒मा उ॑ वां॒ दिवि॑ष्टय उ॒स्रा ह॑वंते अश्विना । अ॒यं वा॑म॒ह्वेऽव॑से शचीवसू॒ विशं॑विशं॒ हि गच्छ॑थः ॥
इ॒माः , ऊँ॒ इति॑ , वां॒ , दिवि॑ष्टयः , उ॒स्रा , ह॒वं॒ते॒ , अ॒श्वि॒ना॒ । अ॒यं , वां॒ , अ॒ह्वे॒ , अव॑से , श॒ची॒व॒सू॒ इति॑ शचीऽवसू , विशं॑ऽविशं , हि , गच्छ॑थः ॥
यु॒वं चि॒त्रं द॑दथु॒र्भोज॑नं नरा॒ चोदे॑थां सू॒नृता॑वते । अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ॥
यु॒वं , चि॒त्रं , द॒द॒थुः॒ , भोज॑नं , न॒रा॒ , चोदे॑थां , सू॒नृता॑ऽवते । अ॒र्वाक् , रथं॑ , सऽम॑नसा , नि , य॒च्छ॒तं॒ , पिब॑तं , सो॒म्यं , मधु॑ ॥
आ या॑त॒मुप॑ भूषतं॒ मध्वः॑ पिबतमश्विना । दु॒ग्धं पयो॑ वृषणा जेन्यावसू॒ मा नो॑ मर्धिष्ट॒मा ग॑तं ॥
आ , या॒तं॒ , उप॑ , भू॒ष॒तं॒ , मध्वः॑ , पि॒ब॒तं॒ , अ॒श्वि॒ना॒ । दु॒ग्धं , पयः॑ , वृ॒ष॒णा॒ , जे॒न्या॒व॒सू॒ इति॑ , मा , नः॒ , म॒र्धि॒ष्टं॒ , आ , ग॒तं॒ ॥
अश्वा॑सो॒ ये वा॒मुप॑ दा॒शुषो॑ गृ॒हं यु॒वां दीयं॑ति॒ बिभ्र॑तः । म॒क्षू॒युभि॑र्नरा॒ हये॑भिरश्वि॒ना दे॑वा यातमस्म॒यू ॥
अश्वा॑सः , ये , वां॒ , उप॑ , दा॒शुषः॑ , गृ॒हं , यु॒वां , दीयं॑ति , बिभ्र॑तः । म॒क्षु॒युऽभिः॑ , न॒रा॒ , हये॑भिः , अ॒श्वि॒ना॒ , आ , दे॒वा॒ , या॒तं॒ , अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥
अधा॑ ह॒ यंतो॑ अ॒श्विना॒ पृक्षः॑ सचंत सू॒रयः॑ । ता यं॑सतो म॒घव॑द्भ्यो ध्रु॒वं यश॑श्छ॒र्दिर॒स्मभ्यं॒ नास॑त्या ॥
अध॑ , ह॒ , यंतः॑ , अ॒श्विना॑ , पृक्षः॑ , स॒चं॒त॒ , सू॒रयः॑ । ता , यं॒स॒तः॒ , म॒घव॑त्ऽभ्यः , ध्रु॒वं , यशः॑ , छ॒र्दिः , अ॒स्मभ्यं॑ , नास॑त्या ॥
प्र ये य॒युर॑वृ॒कासो॒ रथा॑ इव नृपा॒तारो॒ जना॑नां । उ॒त स्वेन॒ शव॑सा शूशुवु॒र्नर॑ उ॒त क्षि॑यंति सुक्षि॒तिं ॥
प्र , ये , य॒युः , अ॒वृ॒कासः॑ , रथाः॑ऽइव , नृ॒ऽपा॒तारः॑ , जना॑नां । उ॒त , स्वेन॑ , शव॑सा , शू॒शु॒वुः॒ , नरः॑ , उ॒त , क्षि॒यं॒ति॒ , सु॒ऽक्षि॒तिं ॥
[७५] व्युषा आवइत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |
व्यु१॒॑षा आ॑वो दिवि॒जा ऋ॒तेना॑विष्कृण्वा॒ना म॑हि॒मान॒मागा॑त् । अप॒ द्रुह॒स्तम॑ आव॒रजु॑ष्ट॒मंगि॑रस्तमा प॒थ्या॑ अजीगः ॥
वि , उ॒षाः , आ॒वः॒ , दि॒वि॒ऽजाः , ऋ॒तेन॑ , आ॒विः॒ऽकृ॒ण्वा॒ना , म॒हि॒मानं॑ , आ , अ॒गा॒त् । अप॑ , द्रुहः॑ , तमः॑ , आ॒वः॒ , अजु॑ष्टं , अंगि॑रःऽतमा , प॒थ्याः॑ , अ॒जी॒ग॒रिति॑ ॥
म॒हे नो॑ अ॒द्य सु॑वि॒ताय॑ बो॒ध्युषो॑ म॒हे सौभ॑गाय॒ प्र यं॑धि । चि॒त्रं र॒यिं य॒शसं॑ धेह्य॒स्मे देवि॒ मर्ते॑षु मानुषि श्रव॒स्युं ॥
म॒हे , नः॒ , अ॒द्य , सु॒वि॒ताय॑ , बो॒धि॒ , उषः॑ , म॒हे , सौभ॑गाय , प्र , यं॒धि॒ । चि॒त्रं , र॒यिं , य॒शसं॑ , धे॒हि॒ , अ॒स्मे इति॑ , देवि॑ , मर्ते॑षु , मा॒नु॒षि॒ , श्र॒व॒स्युं ॥
ए॒ते त्ये भा॒नवो॑ दर्श॒ताया॑श्चि॒त्रा उ॒षसो॑ अ॒मृता॑स॒ आगुः॑ । ज॒नयं॑तो॒ दैव्या॑नि व्र॒तान्या॑पृ॒णंतो॑ अं॒तरि॑क्षा॒ व्य॑स्थुः ॥
ए॒ते , त्ये , भा॒नवः॑ , द॒र्श॒तायाः॑ , चि॒त्राः , उ॒षसः॑ , अ॒मृता॑सः , आ , अ॒गुः॒ । ज॒नयं॑तः , दैव्या॑नि , व्र॒तानि॑ , आ॒ऽपृ॒णंतः॑ , अं॒तरि॑क्षा , वि , अ॒स्थुः॒ ॥
ए॒षा स्या यु॑जा॒ना प॑रा॒कात्पंच॑ क्षि॒तीः परि॑ स॒द्यो जि॑गाति । अ॒भि॒पश्यं॑ती व॒युना॒ जना॑नां दि॒वो दु॑हि॒ता भुव॑नस्य॒ पत्नी॑ ॥
ए॒षा , स्या , यु॒जा॒ना , प॒रा॒कात् , पंच॑ , क्षि॒तीः , परि॑ , स॒द्यः , जि॒गा॒ति॒ । अ॒भि॒ऽपश्यं॑ती , व॒युना॑ , जना॑नां , दि॒वः , दु॒हि॒ता , भुव॑नस्य , पत्नी॑ ॥
वा॒जिनी॑वती॒ सूर्य॑स्य॒ योषा॑ चि॒त्राम॑घा रा॒य ई॑शे॒ वसू॑नां । ऋषि॑ष्टुता ज॒रयं॑ती म॒घोन्यु॒षा उ॑च्छति॒ वह्नि॑भिर्गृणा॒ना ॥
वा॒जिनी॑ऽवती , सूर्य॑स्य , योषा॑ , चि॒त्रऽम॑घा , रा॒यः , ई॒शे॒ , वसू॑नां । ऋषि॑ऽस्तुता , ज॒रयं॑ती , म॒घोनी॑ , उ॒षाः , उ॒च्छ॒ति॒ , वह्नि॑ऽभिः , गृ॒णा॒ना ॥
प्रति॑ द्युता॒नाम॑रु॒षासो॒ अश्वा॑श्चि॒त्रा अ॑दृश्रन्नु॒षसं॒ वहं॑तः । याति॑ शु॒भ्रा वि॑श्व॒पिशा॒ रथे॑न॒ दधा॑ति॒ रत्नं॑ विध॒ते जना॑य ॥
प्रति॑ , द्यु॒ता॒नां , अ॒रु॒षासः॑ , अश्वाः॑ , चि॒त्राः , अ॒दृ॒श्र॒न् , उ॒षसं॑ , वहं॑तः । याति॑ , शु॒भ्रा , वि॒श्व॒ऽपिशा॑ , रथे॑न , दधा॑ति , रत्नं॑ , वि॒ध॒ते , जना॑य ॥
स॒त्या स॒त्येभि॑र्मह॒ती म॒हद्भि॑र्दे॒वी दे॒वेभि॑र्यज॒ता यज॑त्रैः । रु॒जद्दृ॒ळ्हानि॒ दद॑दु॒स्रिया॑णां॒ प्रति॒ गाव॑ उ॒षसं॑ वावशंत ॥
स॒त्या , स॒त्येभिः॑ , म॒ह॒ती , म॒हत्ऽभिः॑ , दे॒वी , दे॒वेभिः॑ , य॒ज॒ता , यज॑त्रैः । रु॒जत् , दृ॒ळ्हानि॑ , दद॑त् , उ॒स्रिया॑णां , प्रति॑ , गावः॑ , उ॒षसं॑ , वा॒व॒शं॒त॒ ॥
नू नो॒ गोम॑द्वी॒रव॑द्धेहि॒ रत्न॒मुषो॒ अश्वा॑वत्पुरु॒भोजो॑ अ॒स्मे । मा नो॑ ब॒र्हिः पु॑रु॒षता॑ नि॒दे क॑र्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नु , नः॒ , गोऽम॑त् , वी॒रऽव॑त् , धे॒हि॒ , रत्नं॑ , उषः॑ , अश्व॑ऽवत् , पु॒रु॒ऽभोजः॑ , अ॒स्मे इति॑ । मा , नः॒ , ब॒र्हिः , पु॒रु॒षता॑ , नि॒दे , कः॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[७६] उदुज्योतिरिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |
उदु॒ ज्योति॑र॒मृतं॑ वि॒श्वज॑न्यं वि॒श्वान॑रः सवि॒ता दे॒वो अ॑श्रेत् । क्रत्वा॑ दे॒वाना॑मजनिष्ट॒ चक्षु॑रा॒विर॑क॒र्भुव॑नं॒ विश्व॑मु॒षाः ॥
उत् , ऊँ॒ इति॑ , ज्योतिः॑ , अ॒मृतं॑ , वि॒श्वऽज॑न्यं , वि॒श्वान॑रः , स॒वि॒ता , दे॒वः , अ॒श्रे॒त् । क्रत्वा॑ , दे॒वानां॑ , अ॒ज॒नि॒ष्ट॒ , चक्षुः॑ , आ॒विः , अ॒कः॒ , भुव॑नं , विश्वं॑ , उ॒षाः ॥
प्र मे॒ पंथा॑ देव॒याना॑ अदृश्र॒न्नम॑र्धंतो॒ वसु॑भि॒रिष्कृ॑तासः । अभू॑दु के॒तुरु॒षसः॑ पु॒रस्ता॑त्प्रती॒च्यागा॒दधि॑ ह॒र्म्येभ्यः॑ ॥
प्र , मे॒ , पंथाः॑ , दे॒व॒ऽयानाः॑ , अ॒दृ॒श्र॒न् , अम॑र्धंतः , वसु॑ऽभिः , इष्कृ॑तासः । अभू॑त् , ऊँ॒ इति॑ , के॒तुः , उ॒षसः॑ , पु॒रस्ता॑त् , प्र॒ती॒ची , आ , अ॒गा॒त् , अधि॑ , ह॒र्म्येभ्यः॑ ॥
तानीदहा॑नि बहु॒लान्या॑स॒न्या प्रा॒चीन॒मुदि॑ता॒ सूर्य॑स्य । यतः॒ परि॑ जा॒र इ॑वा॒चरं॒त्युषो॑ ददृ॒क्षे न पुन॑र्य॒तीव॑ ॥
तानि॑ , इत् , अहा॑नि , ब॒हु॒लानि॑ , आ॒स॒न् , या , प्रा॒चीनं॑ , उत्ऽइ॑ता , सूर्य॑स्य । यतः॑ , परि॑ , जा॒रःऽइ॑व , आ॒ऽचरं॑ती , उषः॑ , द॒दृ॒क्षे , न , पुनः॑ , य॒तीऽइ॑व ॥
त इद्दे॒वानां॑ सध॒माद॑ आसन्नृ॒तावा॑नः क॒वयः॑ पू॒र्व्यासः॑ । गू॒ळ्हं ज्योतिः॑ पि॒तरो॒ अन्व॑विंदंत्स॒त्यमं॑त्रा अजनयन्नु॒षासं॑ ॥
ते , इत् , दे॒वानां॑ , स॒ध॒ऽमादः॑ , आ॒स॒न् , ऋ॒तऽवा॑नः , क॒वयः॑ , पू॒र्व्यासः॑ । गू॒ळ्हं , ज्योतिः॑ , पि॒तरः॑ , अनु॑ , अ॒विं॒द॒न् , स॒त्यऽमं॑त्राः , अ॒ज॒न॒य॒न् , उ॒षसं॑ ॥
स॒मा॒न ऊ॒र्वे अधि॒ संग॑तासः॒ सं जा॑नते॒ न य॑तंते मि॒थस्ते । ते दे॒वानां॒ न मि॑नंति व्र॒तान्यम॑र्धंतो॒ वसु॑भि॒र्याद॑मानाः ॥
स॒मा॒ने , ऊ॒र्वे , अधि॑ , संऽग॑तासः , सं , जा॒न॒ते॒ , न , य॒तं॒ते॒ , मि॒थः , ते । ते , दे॒वानां॑ , न , मि॒नं॒ति॒ , व्र॒तानि॑ , अम॑र्धंतः , वसु॑ऽभिः , याद॑मानाः ॥
प्रति॑ त्वा॒ स्तोमै॑रीळते॒ वसि॑ष्ठा उष॒र्बुधः॑ सुभगे तुष्टु॒वांसः॑ । गवां॑ ने॒त्री वाज॑पत्नी न उ॒च्छोषः॑ सुजाते प्रथ॒मा ज॑रस्व ॥
प्रति॑ , त्वा॒ , स्तोमैः॑ , ई॒ळ॒ते॒ , वसि॑ष्ठाः , उ॒षः॒ऽबुधः॑ , सु॒ऽभ॒गे॒ , तु॒स्तु॒ऽवांसः॑ । गवां॑ , ने॒त्री , वाज॑ऽपत्नी , नः॒ , उ॒च्छ॒ , उषः॑ , सु॒ऽजा॒ते॒ , प्र॒थ॒मा , ज॒र॒स्व॒ ॥
ए॒षा ने॒त्री राध॑सः सू॒नृता॑नामु॒षा उ॒च्छंती॑ रिभ्यते॒ वसि॑ष्ठैः । दी॒र्घ॒श्रुतं॑ र॒यिम॒स्मे दधा॑ना यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ए॒षा , ने॒त्री , राध॑सः , सू॒नृता॑नां , उ॒षाः , उ॒च्छंती॑ , रि॒भ्य॒ते॒ , वसि॑ष्ठैः । दी॒र्घ॒ऽश्रुतं॑ , र॒यिं , अ॒स्मे इति॑ , दधा॑ना , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[७७] उपोरुरुचइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |
उपो॑ रुरुचे युव॒तिर्न योषा॒ विश्वं॑ जी॒वं प्र॑सु॒वंती॑ च॒रायै॑ । अभू॑द॒ग्निः स॒मिधे॒ मानु॑षाणा॒मक॒र्ज्योति॒र्बाध॑माना॒ तमां॑सि ॥
उपो॒ इति॑ , रु॒रु॒चे॒ , यु॒व॒तिः , न , योषा॑ , विश्वं॑ , जी॒वं , प्र॒ऽसु॒वंती॑ , च॒रायै॑ । अभू॑त् , अ॒ग्निः , सं॒ऽइधे॑ , मानु॑षाणां , अकः॑ , ज्योतिः॑ , बाध॑माना , तमां॑सि ॥
विश्वं॑ प्रती॒ची स॒प्रथा॒ उद॑स्था॒द्रुश॒द्वासो॒ बिभ्र॑ती शु॒क्रम॑श्वैत् । हिर॑ण्यवर्णा सु॒दृशी॑कसंदृ॒ग्गवां॑ मा॒ता ने॒त्र्यह्ना॑मरोचि ॥
विश्वं॑ , प्र॒ती॒ची , स॒ऽप्रथाः॑ , उत् , अ॒स्था॒त् , रुश॑त् , वासः॑ , बिभ्र॑ती , शु॒क्रं , अ॒श्वै॒त् । हिर॑ण्यऽवर्णा , सु॒दृशी॑कऽसंदृक् , गवां॑ , मा॒ता , ने॒त्री , अह्नां॑ , अ॒रो॒चि॒ ॥
दे॒वानां॒ चक्षुः॑ सु॒भगा॒ वहं॑ती श्वे॒तं नयं॑ती सु॒दृशी॑क॒मश्वं॑ । उ॒षा अ॑दर्शि र॒श्मिभि॒र्व्य॑क्ता चि॒त्राम॑घा॒ विश्व॒मनु॒ प्रभू॑ता ॥
दे॒वानां॑ , चक्षुः॑ , सु॒ऽभगा॑ , वहं॑ती , श्वे॒तं , नयं॑ती , सु॒ऽदृशी॑कं , अश्वं॑ । उ॒षाः , अ॒द॒र्शि॒ , र॒श्मिऽभिः॑ , विऽअ॑क्ता , चि॒त्रऽम॑घा , विश्वं॑ , अनु॑ , प्रऽभू॑ता ॥
अंति॑वामा दू॒रे अ॒मित्र॑मुच्छो॒र्वीं गव्यू॑ति॒मभ॑यं कृधी नः । या॒वय॒ द्वेष॒ आ भ॑रा॒ वसू॑नि चो॒दय॒ राधो॑ गृण॒ते म॑घोनि ॥
अंति॑ऽवामा , दू॒रे , अ॒मित्रं॑ , उ॒च्छ॒ , उ॒र्वीं , गव्यू॑तिं , अभ॑यं , कृ॒धि॒ , नः॒ । य॒वय॑ , द्वेषः॑ , आ , भ॒र॒ , वसू॑नि , चो॒दय॑ , राधः॑ , गृ॒ण॒ते , म॒घो॒नि॒ ॥
अ॒स्मे श्रेष्ठे॑भिर्भा॒नुभि॒र्वि भा॒ह्युषो॑ देवि प्रति॒रंती॑ न॒ आयुः॑ । इषं॑ च नो॒ दध॑ती विश्ववारे॒ गोम॒दश्वा॑व॒द्रथ॑वच्च॒ राधः॑ ॥
अ॒स्मे इति॑ , श्रेष्ठे॑भिः , भा॒नुऽभिः॑ , वि , भा॒हि॒ , उषः॑ , दे॒वि॒ , प्र॒ऽति॒रंती॑ , नः॒ , आयुः॑ । इषं॑ , च॒ , नः॒ , दध॑ती , वि॒श्व॒ऽवा॒रे॒ , गोऽम॑त् , अश्व॑ऽवत् , रथ॑ऽवत् , च॒ , राधः॑ ॥
यां त्वा॑ दिवो दुहितर्व॒र्धयं॒त्युषः॑ सुजाते म॒तिभि॒र्वसि॑ष्ठाः । सास्मासु॑ धा र॒यिमृ॒ष्वं बृ॒हंतं॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
यां , त्वा॒ , दि॒वः॒ , दु॒हि॒तः॒ , व॒र्धयं॑ति , उषः॑ , सु॒ऽजा॒ते॒ , म॒तिऽभिः॑ , वसि॑ष्ठाः । सा , अ॒स्मासु॑ , धाः॒ , र॒यिं , ऋ॒ष्वं , बृ॒हंतं॑ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[७८] प्रतिकेतवइति पंचर्चस्य सूक्तस्यमैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |
प्रति॑ के॒तवः॑ प्रथ॒मा अ॑दृश्रन्नू॒र्ध्वा अ॑स्या अं॒जयो॒ वि श्र॑यंते । उषो॑ अ॒र्वाचा॑ बृह॒ता रथे॑न॒ ज्योति॑ष्मता वा॒मम॒स्मभ्यं॑ वक्षि ॥
प्रति॑ , के॒तवः॑ , प्र॒थ॒माः , अ॒दृ॒श्र॒न् , ऊ॒र्ध्वाः , अ॒स्याः॒ , अं॒जयः॑ , वि , श्र॒यं॒ते॒ । उषः॑ , अ॒र्वाचा॑ , बृ॒ह॒ता , रथे॑न , ज्योति॑ष्मता , वा॒मं , अ॒स्मभ्यं॑ , व॒क्षि॒ ॥
प्रति॑ षीम॒ग्निर्ज॑रते॒ समि॑द्धः॒ प्रति॒ विप्रा॑सो म॒तिभि॑र्गृ॒णंतः॑ । उ॒षा या॑ति॒ ज्योति॑षा॒ बाध॑माना॒ विश्वा॒ तमां॑सि दुरि॒ताप॑ दे॒वी ॥
प्रति॑ , सीं॒ , अ॒ग्निः , ज॒र॒ते॒ , संऽइ॑द्धः , प्रति॑ , विप्रा॑सः , म॒तिऽभिः॑ , गृ॒णंतः॑ । उ॒षाः , या॒ति॒ , ज्योति॑षा , बाध॑माना , विश्वा॑ , तमां॑सि , दुः॒ऽइ॒ता , अप॑ , दे॒वी ॥
ए॒ता उ॒ त्याः प्रत्य॑दृश्रन्पु॒रस्ता॒ज्ज्योति॒र्यच्छं॑तीरु॒षसो॑ विभा॒तीः । अजी॑जनं॒त्सूर्यं॑ य॒ज्ञम॒ग्निम॑पा॒चीनं॒ तमो॑ अगा॒दजु॑ष्टं ॥
ए॒ताः , ऊँ॒ इति॑ , त्याः , प्रति॑ , अ॒दृ॒श्र॒न् , पु॒रस्ता॑त् , ज्योतिः॑ , यच्छं॑तीः , उ॒षसः॑ , वि॒ऽभा॒तीः । अजी॑जनन् , सूर्यं॑ , य॒ज्ञं , अ॒ग्निं , अ॒पा॒चीनं॑ , तमः॑ , अ॒गा॒त् , अजु॑ष्टं ॥
अचे॑ति दि॒वो दु॑हि॒ता म॒घोनी॒ विश्वे॑ पश्यंत्यु॒षसं॑ विभा॒तीं । आस्था॒द्रथं॑ स्व॒धया॑ यु॒ज्यमा॑न॒मा यमश्वा॑सः सु॒युजो॒ वहं॑ति ॥
अचे॑ति , दि॒वः , दु॒हि॒ता , म॒घोनी॑ , विश्वे॑ , प॒श्यं॒ति॒ , उ॒षसं॑ , वि॒ऽभा॒तीं । आ , अ॒स्था॒त् , रथं॑ , स्व॒धया॑ , यु॒ज्यमा॑नं , आ , यं , अश्वा॑सः , सु॒ऽयुजः॑ , वहं॑ति ॥
प्रति॑ त्वा॒द्य सु॒मन॑सो बुधंता॒स्माका॑सो म॒घवा॑नो व॒यं च॑ । ति॒ल्वि॒ला॒यध्व॑मुषसो विभा॒तीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
प्रति॑ , त्वा॒ , अ॒द्य , सु॒ऽमन॑सः , बु॒धं॒त॒ , अ॒स्माका॑सः , म॒घऽवा॑नः , व॒यं , च॒ । ति॒ल्वि॒ला॒यध्वं॑ , उ॒ष॒सः॒ , वि॒ऽभा॒तीः , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[७९] व्युषाआवइति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठउषास्त्रिष्टुप् |
व्यु१॒॑षा आ॑वः प॒थ्या॒३॒॑ जना॑नां॒ पंच॑ क्षि॒तीर्मानु॑षीर्बो॒धयं॑ती । सु॒सं॒दृग्भि॑रु॒क्षभि॑र्भा॒नुम॑श्रे॒द्वि सूर्यो॒ रोद॑सी॒ चक्ष॑सावः ॥
वि , उ॒षाः , आ॒वः॒ , प॒थ्या॑ , जना॑नां , पंच॑ , क्षि॒तीः , मानु॑षीः , बो॒धयं॑ती । सु॒सं॒दृक्ऽभिः॑ , उ॒क्षऽभिः॑ , भा॒नुं , अ॒श्रे॒त् , वि , सूर्यः॑ , रोद॑सी॒ इति॑ , चक्ष॑सा , आ॒व॒रित्या॑वः ॥
व्यं॑जते दि॒वो अंते॑ष्व॒क्तून्विशो॒ न यु॒क्ता उ॒षसो॑ यतंते । सं ते॒ गाव॒स्तम॒ आ व॑र्तयंति॒ ज्योति॑र्यच्छंति सवि॒तेव॑ बा॒हू ॥
वि , अं॒ज॒ते॒ , दि॒वः , अंते॑षु , अ॒क्तून् , विशः॑ , न , युक्ताः॑ , उ॒षसः॑ , य॒तं॒ते॒ । सं , ते॒ , गावः॑ , तमः॑ , आ , व॒र्त॒यं॒ति॒ , ज्योतिः॑ , य॒च्छं॒ति॒ , स॒वि॒ताऽइ॑व , बा॒हू इति॑ ॥
अभू॑दु॒षा इंद्र॑तमा म॒घोन्यजी॑जनत्सुवि॒ताय॒ श्रवां॑सि । वि दि॒वो दे॒वी दु॑हि॒ता द॑धा॒त्यंगि॑रस्तमा सु॒कृते॒ वसू॑नि ॥
अभू॑त् , उ॒षाः , इंद्र॑ऽतमा , म॒घोनी॑ , अजी॑जनत् , सु॒वि॒ताय॑ , श्रवां॑सि । वि , दि॒वः , दे॒वी , दु॒हि॒ता , द॒धा॒ति॒ , अंगि॑रःऽतमा , सु॒ऽकृते॑ , वसू॑नि ॥
ताव॑दुषो॒ राधो॑ अ॒स्मभ्यं॑ रास्व॒ याव॑त्स्तो॒तृभ्यो॒ अर॑दो गृणा॒ना । यां त्वा॑ ज॒ज्ञुर्वृ॑ष॒भस्या॒ रवे॑ण॒ वि दृ॒ळ्हस्य॒ दुरो॒ अद्रे॑रौर्णोः ॥
ताव॑त् , उ॒षः॒ , राधः॑ , अ॒स्मभ्यं॑ , रा॒स्व॒ , याव॑त् , स्तो॒तृऽभ्यः॑ , अर॑दः , गृ॒णा॒ना । यां , त्वा॒ , ज॒ज्ञुः , वृ॒ष॒भस्य॑ , रवे॑ण , वि , दृ॒ळ्हस्य॑ , दुरः॑ , अद्रेः॑ , औ॒र्णोः॒ ॥
दे॒वंदे॑वं॒ राध॑से चो॒दयं॑त्यस्म॒द्र्य॑क्सू॒नृता॑ ई॒रयं॑ती । व्यु॒च्छंती॑ नः स॒नये॒ धियो॑ धा यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
दे॒वंऽदे॑वं , राध॑से , चो॒दयं॑ती , अ॒स्म॒द्र्य॑क् , सू॒नृताः॑ , ई॒रयं॑ती । वि॒ऽउ॒च्छंती॑ , नः॒ , स॒नये॑ , धियः॑ , धाः॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[८०] प्रतिस्तोमेभिरिति तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ उषास्त्रिष्टुप् |
प्रति॒ स्तोमे॑भिरु॒षसं॒ वसि॑ष्ठा गी॒र्भिर्विप्रा॑सः प्रथ॒मा अ॑बुध्रन् । वि॒व॒र्तयं॑तीं॒ रज॑सी॒ समं॑ते आविष्कृण्व॒तीं भुव॑नानि॒ विश्वा॑ ॥
प्रति॑ , स्तोमे॑भिः , उ॒षसं॑ , वसि॑ष्ठाः , गीः॒ऽभिः , विप्रा॑सः , प्र॒थ॒माः , अ॒बु॒ध्र॒न् । वि॒ऽव॒र्तयं॑तीं , रज॑सी॒ इति॑ , समं॑ते॒ इति॒ संऽअं॑ते , आ॒विः॒ऽकृ॒ण्व॒तीं , भुव॑नानि , विश्वा॑ ॥
ए॒षा स्या नव्य॒मायु॒र्दधा॑ना गू॒ढ्वी तमो॒ ज्योति॑षो॒षा अ॑बोधि । अग्र॑ एति युव॒तिरह्र॑याणा॒ प्राचि॑कित॒त्सूर्यं॑ य॒ज्ञम॒ग्निं ॥
ए॒षा , स्या , नव्यं॑ , आयुः॑ , दधा॑ना , गू॒ढ्वी , तमः॑ , ज्योति॑षा , उ॒षाः , अ॒बो॒धि॒ । अग्रे॑ , ए॒ति॒ , यु॒व॒तिः , अह्र॑याणा , प्र , अ॒चि॒कि॒त॒त् , सूर्यं॑ , य॒ज्ञं , अ॒ग्निं ॥
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छंतु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
अश्व॑ऽवतीः , गोऽम॑तीः , नः॒ , उ॒षसः॑ , वी॒रऽव॑तीः , सदं॑ , उ॒च्छं॒तु॒ , भ॒द्राः । घृ॒तं , दुहा॑नाः , वि॒श्वतः॑ , प्रऽपी॑ताः , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[८१] प्रत्युअदर्शीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ उषाबृहती द्वितीयाचतुर्थीषष्ठ्यः सतो बृहत्यः |
प्रत्यु॑ अदर्श्याय॒त्यु१॒॑च्छंती॑ दुहि॒ता दि॒वः । अपो॒ महि॑ व्ययति॒ चक्ष॑से॒ तमो॒ ज्योति॑ष्कृणोति सू॒नरी॑ ॥
प्रति॑ , ऊँ॒ इति॑ , अ॒द॒र्शि॒ , आ॒ऽय॒ती , उ॒च्छंती॑ , दु॒हि॒ता , दि॒वः । अपो॒ इति॑ , महि॑ , व्य॒य॒ति॒ , चक्ष॑से , तमः॑ , ज्योतिः॑ , कृ॒णो॒ति॒ , सू॒नरी॑ ॥
उदु॒स्रियाः॑ सृजते॒ सूर्यः॒ सचाँ॑ उ॒द्यन्नक्ष॑त्रमर्चि॒वत् । तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च॒ सं भ॒क्तेन॑ गमेमहि ॥
उत् , उ॒स्रियाः॑ , सृ॒ज॒ते॒ , सूर्यः॑ , सचा॑ , उ॒त्ऽयत् , नक्ष॑त्रं , अ॒र्चि॒ऽवत् । तव॑ , इत् , उ॒षः॒ , वि॒ऽउषि॑ , सूर्य॑स्य , च॒ , सं , भ॒क्तेन॑ , ग॒मे॒म॒हि॒ ॥
प्रति॑ त्वा दुहितर्दिव॒ उषो॑ जी॒रा अ॑भुत्स्महि । या वह॑सि पु॒रु स्पा॒र्हं व॑नन्वति॒ रत्नं॒ न दा॒शुषे॒ मयः॑ ॥
प्रति॑ , त्वा॒ , दु॒हि॒तः॒ , दि॒वः॒ , उषः॑ , जी॒राः , अ॒भु॒त्स्म॒हि॒ । या , वह॑सि , पु॒रु , स्पा॒र्हं , व॒न॒न्ऽव॒ति॒ , रत्नं॑ , न , दा॒शुषे॑ , मयः॑ ॥
उ॒च्छंती॒ या कृ॒णोषि॑ मं॒हना॑ महि प्र॒ख्यै दे॑वि॒ स्व॑र्दृ॒शे । तस्या॑स्ते रत्न॒भाज॑ ईमहे व॒यं स्याम॑ मा॒तुर्न सू॒नवः॑ ॥
उ॒च्छंती॑ , या , कृ॒णोषि॑ , मं॒हना॑ , म॒हि॒ , प्र॒ऽख्यै , दे॒वि॒ , स्वः॑ , दृ॒शे । तस्याः॑ , ते॒ , र॒त्न॒ऽभाजः॑ , ई॒म॒हे॒ , व॒यं , स्याम॑ , मा॒तुः , न , सू॒नवः॑ ॥
तच्चि॒त्रं राध॒ आ भ॒रोषो॒ यद्दी॑र्घ॒श्रुत्त॑मं । यत्ते॑ दिवो दुहितर्मर्त॒भोज॑नं॒ तद्रा॑स्व भु॒नजा॑महै ॥
तत् , चि॒त्रं , राधः॑ , आ , भ॒र॒ , उषः॑ , यत् , दी॒र्घ॒श्रुत्ऽत॑मं । यत् , ते॒ , दि॒वः॒ , दु॒हि॒तः॒ , म॒र्त॒ऽभोज॑नं , तत् , रा॒स्व॒ , भु॒नजा॑महै ॥
श्रवः॑ सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नं वाजाँ॑ अ॒स्मभ्यं॒ गोम॑तः । चो॒द॒यि॒त्री म॒घोनः॑ सू॒नृता॑वत्यु॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥
श्रवः॑ , सू॒रिऽभ्यः॑ , अ॒मृतं॑ , व॒सु॒ऽत्व॒नं , वाजा॑न् , अ॒स्मभ्यं॑ , गोऽम॑तः । चो॒द॒यि॒त्री , म॒घोनः॑ , सू॒नृता॑ऽवती , उ॒षाः , उ॒च्छ॒त् , अप॑ , स्रिधः॑ ॥
[८२] इंद्रावरुणेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौजगती |
इंद्रा॑वरुणा यु॒वम॑ध्व॒राय॑ नो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतं । दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ ॥
इंद्रा॑वरुणा , यु॒वं , अ॒ध्व॒राय॑ , नः॒ , वि॒शे , जना॑य , महि॑ , शर्म॑ , य॒च्छ॒तं॒ । दी॒र्घऽप्र॑यज्युं , अति॑ , यः , व॒नु॒ष्यति॑ , व॒यं , ज॒ये॒म॒ , पृत॑नासु , दुः॒ऽध्यः॑ ॥
स॒म्राळ॒न्यः स्व॒राळ॒न्य उ॑च्यते वां म॒हांता॒विंद्रा॒वरु॑णा म॒हाव॑सू । विश्वे॑ दे॒वासः॑ पर॒मे व्यो॑मनि॒ सं वा॒मोजो॑ वृषणा॒ सं बलं॑ दधुः ॥
सं॒ऽराट् , अ॒न्यः , स्व॒ऽराट् , अ॒न्यः , उ॒च्य॒ते॒ , वां॒ , म॒हांतौ॑ , इंद्रा॒वरु॑णा , म॒हाव॑सू॒ इति॑ म॒हाऽव॑सू । विश्वे॑ , दे॒वासः॑ , प॒र॒मे , विऽओ॑मनि , सं , वां॒ , ओजः॑ , वृ॒ष॒णा॒ , सं , बलं॑ , द॒धुः॒ ॥
अन्व॒पां खान्य॑तृंत॒मोज॒सा सूर्य॑मैरयतं दि॒वि प्र॒भुं । इंद्रा॑वरुणा॒ मदे॑ अस्य मा॒यिनोऽपि॑न्वतम॒पितः॒ पिन्व॑तं॒ धियः॑ ॥
अनु॑ , अ॒पां , खानि॑ , अ॒तृं॒तं॒ , ओ॒ज॒सा , आ , सूर्यं॑ , ऐ॒र॒य॒तं॒ , दि॒वि , प्र॒ऽभुं । इंद्रा॑वरुणा , मदे॑ , अ॒स्य॒ , मा॒यिनः॑ , अपि॑न्वतं , अ॒पितः॑ , पिन्व॑तं , धियः॑ ॥
यु॒वामिद्यु॒त्सु पृत॑नासु॒ वह्न॑यो यु॒वां क्षेम॑स्य प्रस॒वे मि॒तज्ञ॑वः । ई॒शा॒ना वस्व॑ उ॒भय॑स्य का॒रव॒ इंद्रा॑वरुणा सु॒हवा॑ हवामहे ॥
यु॒वां , इत् , यु॒त्ऽसु , पृत॑नासु , वह्न॑यः , यु॒वां , क्षेम॑स्य , प्र॒ऽस॒वे , मि॒तऽज्ञ॑वः । ई॒शा॒ना , वस्वः॑ , उ॒भय॑स्य , का॒रवः॑ , इंद्रा॑वरुणा , सु॒ऽहवा॑ , ह॒वा॒म॒हे॒ ॥
इंद्रा॑वरुणा॒ यदि॒मानि॑ च॒क्रथु॒र्विश्वा॑ जा॒तानि॒ भुव॑नस्य म॒ज्मना॑ । क्षेमे॑ण मि॒त्रो वरु॑णं दुव॒स्यति॑ म॒रुद्भि॑रु॒ग्रः शुभ॑म॒न्य ई॑यते ॥
इंद्रा॑वरुणा , यत् , इ॒मानि॑ , च॒क्रथुः॑ , विश्वा॑ , जा॒तानि॑ , भुव॑नस्य , म॒ज्मना॑ । क्षेमे॑ण , मि॒त्रः , वरु॑णं , दु॒व॒स्यति॑ , म॒रुत्ऽभिः॑ , उ॒ग्रः , शुभं॑ , अ॒न्यः , ई॒य॒ते॒ ॥
म॒हे शु॒ल्काय॒ वरु॑णस्य॒ नु त्वि॒ष ओजो॑ मिमाते ध्रु॒वम॑स्य॒ यत्स्वं । अजा॑मिम॒न्यः श्न॒थयं॑त॒माति॑रद्द॒भ्रेभि॑र॒न्यः प्र वृ॑णोति॒ भूय॑सः ॥
म॒हे , शु॒ल्काय॑ , वरु॑णस्य , नु , त्वि॒षे , ओजः॑ , मि॒मा॒ते॒ इति॑ , ध्रु॒वं , अ॒स्य॒ , यत् , स्वं । अजा॑मिं , अ॒न्यः , श्न॒थयं॑तं , आ , अति॑रत् , द॒भ्रेभिः॑ , अ॒न्यः , प्र , वृ॒णो॒ति॒ , भूय॑सः ॥
न तमंहो॒ न दु॑रि॒तानि॒ मर्त्य॒मिंद्रा॑वरुणा॒ न तपः॒ कुत॑श्च॒न । यस्य॑ देवा॒ गच्छ॑थो वी॒थो अ॑ध्व॒रं न तं मर्त॑स्य नशते॒ परि॑ह्वृतिः ॥
न , तं , अंहः॑ , न , दुः॒ऽइ॒तानि॑ , मर्त्यं॑ , इंद्रा॑वरुणा , न , तपः॑ , कुतः॑ , च॒न । यस्य॑ , दे॒वा॒ , गच्छ॑थः , वी॒थः , अ॒ध्व॒रं , न , तं , मर्त॑स्य , न॒श॒ते॒ , परि॑ऽह्वृतिः ॥
अ॒र्वाङ्न॑रा॒ दैव्ये॒नाव॒सा ग॑तं शृणु॒तं हवं॒ यदि॑ मे॒ जुजो॑षथः । यु॒वोर्हि स॒ख्यमु॒त वा॒ यदाप्यं॑ मार्डी॒कमिं॑द्रावरुणा॒ नि य॑च्छतं ॥
अ॒र्वाक् , न॒रा॒ , दैव्ये॑न , अव॑सा , आ , ग॒तं॒ , शृ॒णु॒तं , हवं॑ , यदि॑ , मे॒ , जुजो॑षथः । यु॒वोः , हि , स॒ख्यं , उ॒त , वा॒ , यत् , आप्यं॑ , मा॒र्डी॒कं , इं॒द्रा॒व॒रु॒णा॒ , नि , य॒च्छ॒तं॒ ॥
अ॒स्माक॑मिंद्रावरुणा॒ भरे॑भरे पुरोयो॒धा भ॑वतं कृष्ट्योजसा । यद्वां॒ हवं॑त उ॒भये॒ अध॑ स्पृ॒धि नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तिषु॑ ॥
अ॒स्माकं॑ , इं॒द्रा॒व॒रु॒णा॒ , भरे॑ऽभरे , पु॒रः॒ऽयो॒धा , भ॒व॒तं॒ , कृ॒ष्टि॒ऽओ॒ज॒सा॒ । यत् , वां॒ , हवं॑ते , उ॒भये॑ , अध॑ , स्पृ॒धि , नरः॑ , तो॒कस्य॑ , तन॑यस्य , सा॒तिषु॑ ॥
अ॒स्मे इंद्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा द्यु॒म्नं य॑च्छंतु॒ महि॒ शर्म॑ स॒प्रथः॑ । अ॒व॒ध्रं ज्योति॒रदि॑तेर्ऋता॒वृधो॑ दे॒वस्य॒ श्लोकं॑ सवि॒तुर्म॑नामहे ॥
अ॒स्मे इति॑ , इंद्रः॑ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा , द्यु॒म्नं , य॒च्छं॒तु॒ , महि॑ , शर्म॑ , स॒ऽप्रथः॑ । अ॒व॒ध्रं , ज्योतिः॑ , अदि॑तेः , ऋ॒त॒ऽवृधः॑ , दे॒वस्य॑ , श्लोकं॑ , स॒वि॒तुः , म॒ना॒म॒हे॒ ॥
[८३] युवांनरेति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौजगती |
यु॒वां न॑रा॒ पश्य॑मानास॒ आप्यं॑ प्रा॒चा ग॒व्यंतः॑ पृथु॒पर्श॑वो ययुः । दासा॑ च वृ॒त्रा ह॒तमार्या॑णि च सु॒दास॑मिंद्रावरु॒णाव॑सावतं ॥
यु॒वां , न॒रा॒ , पश्य॑मानासः , आप्यं॑ , प्रा॒चा , ग॒व्यंतः॑ , पृ॒थु॒ऽपर्श॑वः , य॒युः॒ । दासा॑ , च॒ , वृ॒त्रा , ह॒तं , आर्या॑णि , च॒ , सु॒ऽदासं॑ , इं॒द्रा॒व॒रु॒णा॒ , अव॑सा , अ॒व॒तं॒ ॥
यत्रा॒ नरः॑ स॒मयं॑ते कृ॒तध्व॑जो॒ यस्मि॑न्ना॒जा भव॑ति॒ किं च॒न प्रि॒यं । यत्रा॒ भयं॑ते॒ भुव॑ना स्व॒र्दृश॒स्तत्रा॑ न इंद्रावरु॒णाधि॑ वोचतं ॥
यत्र॑ , नरः॑ , सं॒ऽअयं॑ते , कृ॒तऽध्व॑जः , यस्मि॑न् , आ॒जा , भव॑ति , किं , च॒न , प्रि॒यं । यत्र॑ , भयं॑ते , भुव॑ना , स्वः॒ऽदृशः॑ , तत्र॑ , नः॒ , इं॒द्रा॒व॒रु॒णा॒ , अधि॑ , वो॒च॒तं॒ ॥
सं भूम्या॒ अंता॑ ध्वसि॒रा अ॑दृक्ष॒तेंद्रा॑वरुणा दि॒वि घोष॒ आरु॑हत् । अस्थु॒र्जना॑ना॒मुप॒ मामरा॑तयो॒ऽर्वागव॑सा हवनश्रु॒ता ग॑तं ॥
सं , भूम्याः॑ , अंताः॑ , ध्व॒सि॒राः , अ॒दृ॒क्ष॒त॒ , इंद्रा॑वरुणा , दि॒वि , घोषः॑ , आ , अ॒रु॒ह॒त् । अस्थुः॑ , जना॑नां , उप॑ , मां , अरा॑तयः , अ॒र्वाक् , अव॑सा , ह॒व॒न॒ऽश्रु॒ता॒ , आ , ग॒तं॒ ॥
इंद्रा॑वरुणा व॒धना॑भिरप्र॒ति भे॒दं व॒न्वंता॒ प्र सु॒दास॑मावतं । ब्रह्मा॑ण्येषां शृणुतं॒ हवी॑मनि स॒त्या तृत्सू॑नामभवत्पु॒रोहि॑तिः ॥
इंद्रा॑वरुणा , व॒धना॑भिः , अ॒प्र॒ति , भे॒दं , व॒न्वंता॑ , प्र , सु॒ऽदासं॑ , आ॒व॒तं॒ । ब्रह्मा॑णि , ए॒षां॒ , शृ॒णु॒तं॒ , हवी॑मनि , स॒त्या , तृत्सू॑नां , अ॒भ॒व॒त् , पु॒रःऽहि॑तिः ॥
इंद्रा॑वरुणाव॒भ्या त॑पंति मा॒घान्य॒र्यो व॒नुषा॒मरा॑तयः । यु॒वं हि वस्व॑ उ॒भय॑स्य॒ राज॒थोऽध॑ स्मा नोऽवतं॒ पार्ये॑ दि॒वि ॥
इंद्रा॑वरुणौ , अ॒भि , आ , त॒पं॒ति॒ , मा , अ॒घानि॑ , अ॒र्यः , व॒नुषां॑ , अरा॑तयः । यु॒वं , हि , वस्वः॑ , उ॒भय॑स्य , राज॑थः , अध॑ , स्म॒ , नः॒ , अ॒व॒तं॒ , पार्ये॑ , दि॒वि ॥
यु॒वां ह॑वंत उ॒भया॑स आ॒जिष्विंद्रं॑ च॒ वस्वो॒ वरु॑णं च सा॒तये॑ । यत्र॒ राज॑भिर्द॒शभि॒र्निबा॑धितं॒ प्र सु॒दास॒माव॑तं॒ तृत्सु॑भिः स॒ह ॥
यु॒वां , ह॒वं॒ते॒ , उ॒भया॑सः , आ॒जिषु॑ , इंद्रं॑ , च॒ , वस्वः॑ , वरु॑णं , च॒ , सा॒तये॑ । यत्र॑ , राज॑ऽभिः , द॒शऽभिः॑ , निऽबा॑धितं , प्र , सु॒ऽदासं॑ , आव॑तं , तृत्सु॑ऽभिः , स॒ह ॥
दश॒ राजा॑नः॒ समि॑ता॒ अय॑ज्यवः सु॒दास॑मिंद्रावरुणा॒ न यु॑युधुः । स॒त्या नृ॒णाम॑द्म॒सदा॒मुप॑स्तुतिर्दे॒वा ए॑षामभवंदे॒वहू॑तिषु ॥
दश॑ , राजा॑नः , संऽइ॑ताः , अय॑ज्यवः , सु॒ऽदासं॑ , इं॒द्रा॒व॒रु॒णा॒ , न , यु॒यु॒धुः॒ । स॒त्या , नृ॒णां , अ॒द्म॒ऽसदां॑ , उप॑ऽस्तुतिः , दे॒वाः , ए॒षां॒ , अ॒भ॒व॒न् , दे॒वऽहू॑तिषु ॥
दा॒श॒रा॒ज्ञे परि॑यत्ताय वि॒श्वतः॑ सु॒दास॑ इंद्रावरुणावशिक्षतं । श्वि॒त्यंचो॒ यत्र॒ नम॑सा कप॒र्दिनो॑ धि॒या धीवं॑तो॒ अस॑पंत॒ तृत्स॑वः ॥
दा॒श॒ऽरा॒ज्ञे , परि॑ऽयत्ताय , वि॒श्वतः॑ , सु॒ऽदासे॑ , इं॒द्रा॒व॒रु॒णौ॒ , अ॒शि॒क्ष॒तं॒ । श्वि॒त्यंचः॑ , यत्र॑ , नम॑सा , क॒प॒र्दिनः॑ , धि॒या , धीऽवं॑तः , अस॑पंत , तृत्स॑वः ॥
वृ॒त्राण्य॒न्यः स॑मि॒थेषु॒ जिघ्न॑ते व्र॒तान्य॒न्यो अ॒भि र॑क्षते॒ सदा॑ । हवा॑महे वां वृषणा सुवृ॒क्तिभि॑र॒स्मे इं॑द्रावरुणा॒ शर्म॑ यच्छतं ॥
वृ॒त्राणि॑ , अ॒न्यः , सं॒ऽइ॒थेषु॑ , जिघ्न॑ते , व्र॒तानि॑ , अ॒न्यः , अ॒भि , र॒क्ष॒ते॒ , सदा॑ । हवा॑महे , वां॒ , वृ॒ष॒णा॒ , सु॒वृ॒क्तिऽभिः॑ , अ॒स्मे इति॑ , इं॒द्रा॒व॒रु॒णा॒ , शर्म॑ , य॒च्छ॒तं॒ ॥
अ॒स्मे इंद्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा द्यु॒म्नं य॑च्छंतु॒ महि॒ शर्म॑ स॒प्रथः॑ । अ॒व॒ध्रं ज्योति॒रदि॑तेर्ऋता॒वृधो॑ दे॒वस्य॒ श्लोकं॑ सवि॒तुर्म॑नामहे ॥
अ॒स्मे इति॑ , इंद्रः॑ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा , द्यु॒म्नं , य॒च्छं॒तु॒ , महि॑ , शर्म॑ , स॒ऽप्रथः॑ । अ॒व॒ध्रं , ज्योतिः॑ , अदि॑तेः , ऋ॒त॒ऽवृधः॑ , दे॒वस्य॑ , श्लोकं॑ , स॒वि॒तुः , म॒ना॒म॒हे॒ ॥
[८४] आवांराजानावितिपंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौत्रिष्टुप् |
आ वां॑ राजानावध्व॒रे व॑वृत्यां ह॒व्येभि॑रिंद्रावरुणा॒ नमो॑भिः । प्र वां॑ घृ॒ताची॑ बा॒ह्वोर्दधा॑ना॒ परि॒ त्मना॒ विषु॑रूपा जिगाति ॥
आ , वां॒ , रा॒जा॒नौ॒ , अ॒ध्व॒रे , व॒वृ॒त्यां॒ , ह॒व्येभिः॑ , इं॒द्रा॒व॒रु॒णा॒ , नमः॑ऽभिः । प्र , वां॒ , घृ॒ताची॑ , बा॒ह्वोः , दधा॑ना , परि॑ , त्मना॑ , विषु॑ऽरूपा , जि॒गा॒ति॒ ॥
यु॒वो रा॒ष्ट्रं बृ॒हदि॑न्वति॒ द्यौर्यौ से॒तृभि॑रर॒ज्जुभिः॑ सिनी॒थः । परि॑ नो॒ हेळो॒ वरु॑णस्य वृज्या उ॒रुं न॒ इंद्रः॑ कृणवदु लो॒कं ॥
यु॒वोः , रा॒ष्ट्रं , बृ॒हत् , इ॒न्व॒ति॒ , द्यौः , यौ , से॒तृऽभिः॑ , अ॒र॒ज्जुऽभिः॑ , सि॒नी॒थः । परि॑ , नः॒ , हेळः॑ , वरु॑णस्य , वृ॒ज्याः॒ , उ॒रुं , नः॒ , इंद्रः॑ , कृ॒ण॒व॒त् , ऊँ॒ इति॑ , लो॒कं ॥
कृ॒तं नो॑ य॒ज्ञं वि॒दथे॑षु॒ चारुं॑ कृ॒तं ब्रह्मा॑णि सू॒रिषु॑ प्रश॒स्ता । उपो॑ र॒यिर्दे॒वजू॑तो न एतु॒ प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेतं ॥
कृ॒तं , नः॒ , य॒ज्ञं , वि॒दथे॑षु , चारुं॑ , कृ॒तं , ब्रह्मा॑णि , सू॒रिषु॑ , प्र॒ऽश॒स्ता । उपो॒ इति॑ , र॒यिः , दे॒वऽजू॑तः , नः॒ , ए॒तु॒ , प्र , नः॒ , स्पा॒र्हाभिः॑ , ऊ॒तिऽभिः॑ , ति॒रे॒तं॒ ॥
अ॒स्मे इं॑द्रावरुणा वि॒श्ववा॑रं र॒यिं ध॑त्तं॒ वसु॑मंतं पुरु॒क्षुं । प्र य आ॑दि॒त्यो अनृ॑ता मि॒नात्यमि॑ता॒ शूरो॑ दयते॒ वसू॑नि ॥
अ॒स्मे इति॑ , इं॒द्रा॒व॒रु॒णा॒ , वि॒श्वऽवा॑रं , र॒यिं , ध॒त्तं॒ , वसु॑ऽमंतं , पु॒रु॒ऽक्षुं । प्र , यः , आ॒दि॒त्यः , अनृ॑ता , मि॒नाति॑ , अमि॑ता , शूरः॑ , द॒य॒ते॒ , वसू॑नि ॥
इ॒यमिंद्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना । सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
इ॒यं , इंद्रं॑ , वरु॑णं , अ॒ष्ट॒ , मे॒ , गीः , प्र , आ॒व॒त् , तो॒के , तन॑ये , तूतु॑जाना । सु॒ऽरत्ना॑सः , दे॒वऽवी॑तिं , ग॒मे॒म॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[८५] पुनीषेवामिति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रावरुणौत्रिष्टुप् |
पु॒नी॒षे वा॑मर॒क्षसं॑ मनी॒षां सोम॒मिंद्रा॑य॒ वरु॑णाय॒ जुह्व॑त् । घृ॒तप्र॑तीकामु॒षसं॒ न दे॒वीं ता नो॒ याम॑न्नुरुष्यताम॒भीके॑ ॥
पु॒नी॒षे , वां॒ , अ॒र॒क्षसं॑ , म॒नी॒षां , सोमं॑ , इंद्रा॑य , वरु॑णाय , जुह्व॑त् । घृ॒तऽप्र॑तीकां , उ॒षसं॑ , न , दे॒वीं , ता , नः॒ , याम॑न् , उ॒रु॒ष्य॒तां॒ , अ॒भीके॑ ॥
स्पर्धं॑ते॒ वा उ॑ देव॒हूये॒ अत्र॒ येषु॑ ध्व॒जेषु॑ दि॒द्यवः॒ पतं॑ति । यु॒वं ताँ इं॑द्रावरुणाव॒मित्रा॑न्ह॒तं परा॑चः॒ शर्वा॒ विषू॑चः ॥
स्पर्धं॑ते , वै , ऊँ॒ इति॑ , दे॒व॒ऽहूये॑ , अत्र॑ , येषु॑ , ध्व॒जेषु॑ , दि॒द्यवः॑ , पतं॑ति । यु॒वं , तान् , इं॒द्रा॒व॒रु॒णौ॒ , अ॒मित्रा॑न् , ह॒तं , परा॑चः , शर्वा॑ , विषू॑चः ॥
आप॑श्चि॒द्धि स्वय॑शसः॒ सदः॑सु दे॒वीरिंद्रं॒ वरु॑णं दे॒वता॒ धुः । कृ॒ष्टीर॒न्यो धा॒रय॑ति॒ प्रवि॑क्ता वृ॒त्राण्य॒न्यो अ॑प्र॒तीनि॑ हंति ॥
आपः॑ , चि॒त् , हि , स्वऽय॑शसः , सदः॑ऽसु , दे॒वीः , इंद्रं॑ , वरु॑णं , दे॒वता॑ , धुरिति॒ धुः । कृ॒ष्टीः , अ॒न्यः , धा॒रय॑ति , प्रऽवि॑क्ताः , वृ॒त्राणि॑ , अ॒न्यः , अ॒प्र॒तीनि॑ , हं॒ति॒ ॥
स सु॒क्रतु॑र्ऋत॒चिद॑स्तु॒ होता॒ य आ॑दित्य॒ शव॑सा वां॒ नम॑स्वान् । आ॒व॒वर्त॒दव॑से वां ह॒विष्मा॒नस॒दित्स सु॑वि॒ताय॒ प्रय॑स्वान् ॥
सः , सु॒ऽक्रतुः॑ , ऋ॒त॒ऽचित् , अ॒स्तु॒ , होता॑ , यः , आ॒दि॒त्या॒ , शव॑सा , वां॒ , नम॑स्वान् । आ॒ऽव॒वर्त॑त् , अव॑से , वां॒ , ह॒विष्मा॑न् , अस॑त् , इत् , सः , सु॒वि॒ताय॑ , प्रय॑स्वान् ॥
इ॒यमिंद्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना । सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
इ॒यं , इंद्रं॑ , वरु॑णं , अ॒ष्ट॒ , मे॒ , गीः , प्र , आ॒व॒त् , तो॒के , तन॑ये , तूतु॑जाना । सु॒ऽरत्ना॑सः , दे॒वऽवी॑तिं , ग॒मे॒म॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[८६] धीरात्वित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुप् |
धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तंभ॒ रोद॑सी चिदु॒र्वी । प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हंतं॑ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ॥
धीरा॑ , तु , अ॒स्य॒ , म॒हि॒ना , ज॒नूंषि॑ , वि , यः , त॒स्तंभ॑ , रोद॑सी॒ इति॑ , चि॒त् , उ॒र्वी इति॑ । प्र , नाकं॑ , ऋ॒ष्वं , नु॒नु॒दे॒ , बृ॒हंतं॑ , द्वि॒ता , नक्ष॑त्रं , प॒प्रथ॑त् , च॒ , भूम॑ ॥
उ॒त स्वया॑ त॒न्वा॒३॒॑ सं व॑दे॒ तत्क॒दा न्व१॒॑न्तर्वरु॑णे भुवानि । किं मे॑ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना॑ अ॒भि ख्यं॑ ॥
उ॒त , स्वया॑ , त॒न्वा॑ , सं , व॒दे॒ , तत् , क॒दा , नु , अं॒तः , वरु॑णे , भु॒वा॒नि॒ । किं , मे॒ , ह॒व्यं , अहृ॑णानः , जु॒षे॒त॒ , क॒दा , मृ॒ळी॒कं , सु॒ऽमनाः॑ , अ॒भि , ख्यं॒ ॥
पृ॒च्छे तदेनो॑ वरुण दि॒दृक्षूपो॑ एमि चिकि॒तुषो॑ वि॒पृच्छं॑ । स॒मा॒नमिन्मे॑ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ॥
पृ॒च्छे , तत् , एनः॑ , व॒रु॒ण॒ , दि॒दृक्षु॑ , उपो॒ इति॑ , ए॒मि॒ , चि॒कि॒तुषः॑ , वि॒ऽपृच्छं॑ । स॒मा॒नं , इत् , मे॒ , क॒वयः॑ , चि॒त् , आ॒हुः॒ , अ॒यं , ह॒ , तुभ्यं॑ , वरु॑णः , हृ॒णी॒ते॒ ॥
किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत्स्तो॒तारं॒ जिघां॑ससि॒ सखा॑यं । प्र तन्मे॑ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑यां ॥
किं , आगः॑ , आ॒स॒ , व॒रु॒ण॒ , ज्येष्ठं॑ , यत् , स्तो॒तारं॑ , जिघां॑ससि , सखा॑यं । प्र , तत् , मे॒ , वो॒चः॒ , दुः॒ऽद॒भ॒ , स्व॒धा॒ऽवः॒ , अव॑ , त्वा॒ , अ॒ने॒नाः , नम॑सा , तु॒रः , इ॒यां॒ ॥
अव॑ द्रु॒ग्धानि॒ पित्र्या॑ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभिः॑ । अव॑ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठं ॥
अव॑ , द्रु॒ग्धानि॑ , पित्र्या॑ , सृ॒ज॒ , नः॒ , अव॑ , या , व॒यं , च॒कृ॒म , त॒नूभिः॑ । अव॑ , रा॒ज॒न् , प॒शु॒ऽतृपं॑ , न , ता॒युं , सृ॒ज , व॒त्सं , न , दाम्नः॑ , वसि॑ष्ठं ॥
न स स्वो दक्षो॑ वरुण॒ ध्रुतिः॒ सा सुरा॑ म॒न्युर्वि॒भीद॑को॒ अचि॑त्तिः । अस्ति॒ ज्याया॒न्कनी॑यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ॥
न , सः , स्वः , दक्षः॑ , व॒रु॒ण॒ , ध्रुतिः॑ , सा , सुरा॑ , म॒न्युः , वि॒ऽभीद॑कः , अचि॑त्तिः । अस्ति॑ , ज्याया॑न् , कनी॑यसः , उ॒प॒ऽअ॒रे , स्वप्नः॑ , च॒न , इत् , अनृ॑तस्य , प्र॒ऽयो॒ता ॥
अरं॑ दा॒सो न मी॒ळ्हुषे॑ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना॑गाः । अचे॑तयद॒चितो॑ दे॒वो अ॒र्यो गृत्सं॑ रा॒ये क॒वित॑रो जुनाति ॥
अरं॑ , दा॒सः , न , मी॒ळ्हुषे॑ , क॒रा॒णि॒ , अ॒हं , दे॒वाय॑ , भूर्ण॑ये , अना॑गाः । अचे॑तयत् , अ॒चितः॑ , दे॒वः , अ॒र्यः , गृत्सं॑ , रा॒ये , क॒विऽत॑रः , जु॒ना॒ति॒ ॥
अ॒यं सु तुभ्यं॑ वरुण स्वधावो हृ॒दि स्तोम॒ उप॑श्रितश्चिदस्तु । शं नः॒ क्षेमे॒ शमु॒ योगे॑ नो अस्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
अ॒यं , सु , तुभ्यं॑ , व॒रु॒ण॒ , स्व॒धा॒ऽवः॒ , हृ॒दि , स्तोमः॑ , उप॑ऽसृइतः , चि॒त् , अ॒स्तु॒ । शं , नः॒ , क्षेमे॑ , शं , ऊँ॒ इति॑ , योगे॑ , नः॒ , अ॒स्तु॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[८७] रदत्पथइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुप् |
रद॑त्प॒थो वरु॑णः॒ सूर्या॑य॒ प्रार्णां॑सि समु॒द्रिया॑ न॒दीनां॑ । सर्गो॒ न सृ॒ष्टो अर्व॑तीर्ऋता॒यंच॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ॥
रद॑त् , प॒थः , वरु॑णः , सूर्या॑य , प्र , अर्णां॑सि , स॒मु॒द्रिया॑ , न॒दीनां॑ । सर्गः॑ , न , सृ॒ष्टः , अर्व॑तीः , ऋ॒त॒ऽयन् , च॒कार॑ , म॒हीः , अ॒वनीः॑ , अह॑ऽभ्यः ॥
आ॒त्मा ते॒ वातो॒ रज॒ आ न॑वीनोत्प॒शुर्न भूर्णि॒र्यव॑से सस॒वान् । अं॒तर्म॒ही बृ॑ह॒ती रोद॑सी॒मे विश्वा॑ ते॒ धाम॑ वरुण प्रि॒याणि॑ ॥
आ॒त्मा , ते॒ , वातः॑ , रजः॑ , आ , न॒वी॒नो॒त् , प॒शुः , न , भूर्णिः॑ , यव॑से , स॒स॒ऽवान् । अं॒तः , म॒ही इति॑ , बृ॒ह॒ती इति॑ , रोद॑सी॒ इति॑ , इ॒मे इति॑ , विश्वा॑ , ते॒ , धाम॑ , व॒रु॒ण॒ , प्रि॒याणि॑ ॥
परि॒ स्पशो॒ वरु॑णस्य॒ स्मदि॑ष्टा उ॒भे प॑श्यंति॒ रोद॑सी सु॒मेके॑ । ऋ॒तावा॑नः क॒वयो॑ य॒ज्ञधी॑राः॒ प्रचे॑तसो॒ य इ॒षयं॑त॒ मन्म॑ ॥
परि॑ , स्पशः॑ , वरु॑णस्य , स्मत्ऽइ॑ष्टाः , उ॒भे इति॑ , प॒श्यं॒ति॒ , रोद॑सी॒ इति॑ , सु॒मेके॒ इति॑ सु॒ऽमेके॑ । ऋ॒तऽवा॑नः , क॒वयः॑ , य॒ज्ञऽधी॑राः , प्रऽचे॑तसः , ये , इ॒षयं॑त , मन्म॑ ॥
उ॒वाच॑ मे॒ वरु॑णो॒ मेधि॑राय॒ त्रिः स॒प्त नामाघ्न्या॑ बिभर्ति । वि॒द्वान्प॒दस्य॒ गुह्या॒ न वो॑चद्यु॒गाय॒ विप्र॒ उप॑राय॒ शिक्ष॑न् ॥
उ॒वाच॑ , मे॒ , वरु॑णः , मेधि॑राय , त्रिः , स॒प्त , नाम॑ , अघ्न्या॑ , बि॒भ॒र्ति॒ । वि॒द्वान् , प॒दस्य॑ , गुह्या॑ , न , वो॒च॒त् , यु॒गाय॑ , विप्रः॑ , उप॑राय , शिक्ष॑न् ॥
ति॒स्रो द्यावो॒ निहि॑ता अं॒तर॑स्मिंति॒स्रो भूमी॒रुप॑राः॒ षड्वि॑धानाः । गृत्सो॒ राजा॒ वरु॑णश्चक्र ए॒तं दि॒वि प्रें॒खं हि॑र॒ण्ययं॑ शु॒भे कं ॥
ति॒स्रः , द्यावः॑ , निऽहि॑ताः , अं॒तः , अ॒स्मि॒न् , ति॒स्रः , भूमीः॑ , उप॑राः , षट्ऽवि॑धानाः । गृत्सः॑ , राजा॑ , वरु॑णः , च॒क्रे॒ , ए॒तं , दि॒वि , प्र॒ऽईं॒खं , हि॒र॒ण्ययं॑ , शु॒भे , कं ॥
अव॒ सिंधुं॒ वरु॑णो॒ द्यौरि॑व स्थाद्द्र॒प्सो न श्वे॒तो मृ॒गस्तुवि॑ष्मान् । गं॒भी॒रशं॑सो॒ रज॑सो वि॒मानः॑ सुपा॒रक्ष॑त्रः स॒तो अ॒स्य राजा॑ ॥
अव॑ , सिंधुं॑ , वरु॑णः , द्यौःऽइ॑व , स्था॒त् , द्र॒प्सः , न , श्वे॒तः , मृ॒गः , तुवि॑ष्मान् । गं॒भी॒रऽशं॑सः , रज॑सः , वि॒ऽमानः॑ , सु॒पा॒रऽक्ष॑त्रः , स॒तः , अ॒स्य , राजा॑ ॥
यो मृ॒ळया॑ति च॒क्रुषे॑ चि॒दागो॑ व॒यं स्या॑म॒ वरु॑णे॒ अना॑गाः । अनु॑ व्र॒तान्यदि॑तेर्ऋ॒धंतो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
यः , मृ॒ळया॑ति , च॒क्रुषे॑ , चि॒त् , आगः॑ , व॒यं , स्या॒म॒ , वरु॑णे , अना॑गाः । अनु॑ , व्र॒तानि॑ , अदि॑तेः , ऋ॒धंतः॑ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[८८] प्रशुंध्युवमिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुबंत्याजगती | (अंत्यापाशविमोचनीतिगुणः) |
प्र शुं॒ध्युवं॒ वरु॑णाय॒ प्रेष्ठां॑ म॒तिं व॑सिष्ठ मी॒ळ्हुषे॑ भरस्व । य ई॑म॒र्वांचं॒ कर॑ते॒ यज॑त्रं स॒हस्रा॑मघं॒ वृष॑णं बृ॒हंतं॑ ॥
प्र , शुं॒ध्युवं॑ , वरु॑णाय , प्रेष्ठां॑ , म॒तिं , व॒सि॒ष्ठ॒ , मी॒ळ्हुषे॑ , भ॒र॒स्व॒ । यः , ईं॒ , अ॒र्वांचं॑ , कर॑ते , यज॑त्रं , स॒हस्र॑ऽमघं , वृष॑णं , बृ॒हंतं॑ ॥
अधा॒ न्व॑स्य सं॒दृशं॑ जग॒न्वान॒ग्नेरनी॑कं॒ वरु॑णस्य मंसि । स्व१॒॑र्यदश्म॑न्नधि॒पा उ॒ अंधो॒ऽभि मा॒ वपु॑र्दृ॒शये॑ निनीयात् ॥
अध॑ , नु , अ॒स्य॒ , सं॒ऽदृशं॑ , ज॒ग॒न्वान् , अ॒ग्नेः , अनी॑कं , वरु॑णस्य , मं॒सि॒ । स्वः॑ , यत् , अश्म॑न् , अ॒धि॒ऽपाः , ऊँ॒ इति॑ , अंधः॑ , अ॒भि , मा॒ , वपुः॑ , दृ॒शये॑ , नि॒नी॒या॒त् ॥
आ यद्रु॒हाव॒ वरु॑णश्च॒ नावं॒ प्र यत्स॑मु॒द्रमी॒रया॑व॒ मध्यं॑ । अधि॒ यद॒पां स्नुभि॒श्चरा॑व॒ प्र प्रें॒ख ईं॑खयावहै शु॒भे कं ॥
आ , यत् , रु॒हाव॑ , वरु॑णः , च॒ , नावं॑ , प्र , यत् , स॒मु॒द्रं , ई॒रया॑व , मध्यं॑ । अधि॑ , यत् , अ॒पां , स्नुऽभिः॑ , चरा॑व , प्र , प्र॒ऽईं॒खे , ईं॒ख॒या॒व॒है॒ , शु॒भे , कं ॥
वसि॑ष्ठं ह॒ वरु॑णो ना॒व्याधा॒दृषिं॑ चकार॒ स्वपा॒ महो॑भिः । स्तो॒तारं॒ विप्रः॑ सुदिन॒त्वे अह्नां॒ यान्नु द्याव॑स्त॒तन॒न्यादु॒षासः॑ ॥
वसि॑ष्ठं , ह॒ , वरु॑णः , ना॒वि , आ , अ॒धा॒त् , ऋषिं॑ , च॒का॒र॒ , सु॒ऽअपाः॑ , महः॑ऽभिः । स्तो॒तारं॑ , विप्रः॑ , सु॒दि॒न॒ऽत्वे , अह्नां॑ , यात् , नु , द्यावः॑ , त॒तन॑न् , यात् , उ॒षसः॑ ॥
क्व१॒॑ त्यानि॑ नौ स॒ख्या ब॑भूवुः॒ सचा॑वहे॒ यद॑वृ॒कं पु॒रा चि॑त् । बृ॒हंतं॒ मानं॑ वरुण स्वधावः स॒हस्र॑द्वारं जगमा गृ॒हं ते॑ ॥
क्व॑ , त्यानि॑ , नौ॒ , स॒ख्या , ब॒भू॒वुः॒ , सचा॑वहे॒ इति॑ , यत् , अ॒वृ॒कं , पु॒रा , चि॒त् । बृ॒हंतं॑ , मानं॑ , व॒रु॒ण॒ , स्व॒धा॒ऽवः॒ , स॒हस्र॑ऽद्वारं , ज॒ग॒म॒ , गृ॒हं , ते॒ ॥
य आ॒पिर्नित्यो॑ वरुण प्रि॒यः संत्वामागां॑सि कृ॒णव॒त्सखा॑ ते । मा त॒ एन॑स्वंतो यक्षिन्भुजेम यं॒धि ष्मा॒ विप्रः॑ स्तुव॒ते वरू॑थं ॥
यः , आ॒पिः , नित्यः॑ , व॒रु॒ण॒ , प्रि॒यः , सन् , त्वां , आगां॑सि , कृ॒णव॑त् , सखा॑ , ते॒ । मा , ते॒ , एन॑स्वंतः , य॒क्षि॒न् , भु॒जे॒म॒ , यं॒धि , स्म॒ , विप्रः॑ , स्तु॒व॒ते , वरू॑थं ॥
ध्रु॒वासु॑ त्वा॒सु क्षि॒तिषु॑ क्षि॒यंतो॒ व्य१॒॑स्मत्पाशं॒ वरु॑णो मुमोचत् । अवो॑ वन्वा॒ना अदि॑तेरु॒पस्था॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ध्रु॒वासु॑ , त्वा॒ , आ॒सु , क्षि॒तिषु॑ , क्षि॒यंतः॑ , वि , अ॒स्मत् , पाशं॑ , वरु॑णः , मु॒मो॒च॒त् । अवः॑ , व॒न्वा॒नाः , अदि॑तेः , उ॒पऽस्था॑त् , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[८९] मोषुवरुणेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणोगायत्र्यंत्याजगती |
मो षु व॑रुण मृ॒न्मयं॑ गृ॒हं रा॑जन्न॒हं ग॑मं । मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥
मो इति॑ , सु , व॒रु॒ण॒ , मृ॒त्ऽमयं॑ , गृ॒हं , रा॒ज॒न् , अ॒हं , ग॒मं॒ । मृ॒ळ , सु॒ऽक्ष॒त्र॒ , मृ॒ळय॑ ॥
यदेमि॑ प्रस्फु॒रन्नि॑व॒ दृति॒र्न ध्मा॒तो अ॑द्रिवः । मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥
यत् , एमि॑ , प्र॒स्फु॒रन्ऽइ॑व , दृतिः॑ , न , ध्मा॒तः , अ॒द्रि॒ऽवः॒ । मृ॒ळ , सु॒ऽक्ष॒त्र॒ , मृ॒ळय॑ ॥
क्रत्वः॑ समह दी॒नता॑ प्रती॒पं ज॑गमा शुचे । मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥
क्रत्वः॑ , स॒म॒ह॒ , दी॒नता॑ , प्र॒ति॒ऽई॒पं , ज॒ग॒म॒ , शु॒चे॒ । मृ॒ळ , सु॒ऽक्ष॒त्र॒ , मृ॒ळय॑ ॥
अ॒पां मध्ये॑ तस्थि॒वांसं॒ तृष्णा॑विदज्जरि॒तारं॑ । मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥
अ॒पां , मध्ये॑ , त॒स्थि॒ऽवांसं॑ , तृष्णा॑ , अ॒वि॒द॒त् , ज॒रि॒तारं॑ । मृ॒ळ , सु॒ऽक्ष॒त्र॒ , मृ॒ळय॑ ॥
यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒३॒॑श्चरा॑मसि । अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥
यत् , किं , च॒ , इ॒दं , व॒रु॒ण॒ , दैव्ये॑ , जने॑ , अ॒भि॒ऽद्रो॒हं , म॒नु॒ष्याः॑ , चरा॑मसि । अचि॑त्ती , यत् , तव॑ , धर्म॑ , यु॒यो॒पि॒म , मा , नः॒ , तस्मा॑त् , एन॑सः , दे॒व॒ , रि॒रि॒षः॒ ॥
[९०] प्रवीरयेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांचतसृणांवायुरंत्यानांतिसृणामिंद्रवायूत्रिष्टुप् |
प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मंतः सु॒तासः॑ । वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यांध॑सो॒ मदा॑य ॥
प्र , वी॒र॒ऽया , शुच॑यः , द॒द्रि॒रे॒ , वां॒ , अ॒ध्व॒र्युऽभिः॑ , मधु॑ऽमंतः , सु॒तासः॑ । वह॑ , वा॒यो॒ इति॑ , नि॒ऽयुतः॑ , या॒हि॒ , अच्छ॑ , पिब॑ , सु॒तस्य॑ , अंध॑सः , मदा॑य ॥
ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं॑ शुचिपा॒स्तुभ्यं॑ वायो । कृ॒णोषि॒ तं मर्त्ये॑षु प्रश॒स्तं जा॒तोजा॑तो जायते वा॒ज्य॑स्य ॥
ई॒शा॒नाय॑ , प्रऽहु॑तिं , यः , ते॒ , आन॑ट् , शुचिं॑ , सोमं॑ , शु॒चि॒ऽपाः॒ , तुभ्यं॑ , वा॒यो॒ इति॑ । कृ॒णोषि॑ , तं , मर्त्ये॑षु , प्र॒ऽश॒स्तं , जा॒तःऽजा॑तः , जा॒य॒ते॒ , वा॒जी , अ॒स्य॒ ॥
रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वं । अध॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के ॥
रा॒ये , नु , यं , ज॒ज्ञतुः॑ , रोद॑सी॒ इति॑ , इ॒मे इति॑ , रा॒ये , दे॒वी , धि॒षणा॑ , धा॒ति॒ , दे॒वं । अध॑ , वा॒युं , नि॒ऽयुतः॑ , स॒श्च॒त॒ , स्वाः , उ॒त , श्वे॒तं , वसु॑ऽधितिं , नि॒रे॒के ॥
उ॒च्छन्नु॒षसः॑ सु॒दिना॑ अरि॒प्रा उ॒रु ज्योति॑र्विविदु॒र्दीध्या॑नाः । गव्यं॑ चिदू॒र्वमु॒शिजो॒ वि व॑व्रु॒स्तेषा॒मनु॑ प्र॒दिवः॑ सस्रु॒रापः॑ ॥
उ॒च्छन् , उ॒षसः॑ , सु॒ऽदिनाः॑ , अ॒रि॒प्राः , उ॒रु , ज्योतिः॑ , वि॒वि॒दुः॒ , दीध्या॑नाः । गव्यं॑ , चि॒त् , ऊ॒र्वं , उ॒शिजः॑ , वि , व॒व्रुः॒ , तेषां॑ , अनु॑ , प्र॒ऽदिवः॑ , सस्रुः॑ , आपः॑ ॥
ते स॒त्येन॒ मन॑सा॒ दीध्या॑नाः॒ स्वेन॑ यु॒क्तासः॒ क्रतु॑ना वहंति । इंद्र॑वायू वीर॒वाहं॒ रथं॑ वामीशा॒नयो॑र॒भि पृक्षः॑ सचंते ॥
ते , स॒त्येन॑ , मन॑सा , दीध्या॑नाः , स्वेन॑ , यु॒क्तासः॑ , क्रतु॑ना , व॒हं॒ति॒ । इंद्र॑वायू॒ इति॑ , वी॒र॒ऽवाहं॑ , रथं॑ , वां॒ , ई॒शा॒नयोः॑ , अ॒भि , पृक्षः॑ , स॒चं॒ते॒ ॥
ई॒शा॒नासो॒ ये दध॑ते॒ स्व॑र्णो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्हिर॑ण्यैः । इंद्र॑वायू सू॒रयो॒ विश्व॒मायु॒रर्व॑द्भिर्वी॒रैः पृत॑नासु सह्युः ॥
ई॒शा॒नासः॑ , ये , दध॑ते , स्वः॑ , नः॒ , गोभिः॑ , अश्वे॑भिः , वसु॑ऽभिः , हिर॑ण्यैः । इंद्र॑वायू॒ इति॑ , सू॒रयः॑ , विश्वं॑ , आयुः॑ , अर्व॑त्ऽभिः , वी॒रैः , पृत॑नासु , स॒ह्युः॒ ॥
अर्वं॑तो॒ न श्रव॑सो॒ भिक्ष॑माणा इंद्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः । वा॒ज॒यंतः॒ स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
अर्वं॑तः , न , श्रव॑सः , भिक्ष॑माणाः , इं॒द्र॒वा॒यू इति॑ , सु॒स्तु॒तिऽभिः॑ , वसि॑ष्ठाः । वा॒ज॒ऽयंतः॑ , सु , अव॑से , हु॒वे॒म॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[९१] कुविदंगेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ट इंद्रवायू आद्यातृतीययोर्वायुस्त्रिष्टुप् |
कु॒विदं॒ग नम॑सा॒ ये वृ॒धासः॑ पु॒रा दे॒वा अ॑नव॒द्यास॒ आस॑न् । ते वा॒यवे॒ मन॑वे बाधि॒तायावा॑सयन्नु॒षसं॒ सूर्ये॑ण ॥
कु॒वित् , अं॒ग , नम॑सा , ये , वृ॒धासः॑ , पु॒रा , दे॒वाः , अ॒न॒व॒द्यासः॑ , आस॑न् । ते , वा॒यवे॑ , मन॑वे , बा॒धि॒ताय॑ , अवा॑सयन् , उ॒षसं॑ , सूर्ये॑ण ॥
उ॒शंता॑ दू॒ता न दभा॑य गो॒पा मा॒सश्च॑ पा॒थः श॒रद॑श्च पू॒र्वीः । इंद्र॑वायू सुष्टु॒तिर्वा॑मिया॒ना मा॑र्डी॒कमी॑ट्टे सुवि॒तं च॒ नव्यं॑ ॥
उ॒शंता॑ , दू॒ता , न , दभा॑य , गो॒पा , मा॒सः , च॒ , पा॒थः , श॒रदः॑ , च॒ , पू॒र्वीः । इंद्र॑वायू॒ इति॑ , सु॒ऽस्तु॒तिः , वां॒ , इ॒या॒ना , मा॒र्डी॒कं , ई॒ट्टे॒ , सु॒वि॒तं , च॒ , नव्यं॑ ॥
पीवो॑अन्नाँ रयि॒वृधः॑ सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः । ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः ॥
पीवः॑ऽअन्नान् , र॒यि॒ऽवृधः॑ , सु॒ऽमे॒धाः , श्वे॒तः , सि॒स॒क्ति॒ , नि॒ऽयुतां॑ , अ॒भि॒ऽश्रीः । ते , वा॒यवे॑ , सऽम॑नसः , वि , त॒स्थुः॒ , विश्वा॑ , इत् , नरः॑ , सु॒ऽअ॒प॒त्यानि॑ , च॒क्रुः॒ ॥
याव॒त्तर॑स्त॒न्वो॒३॒॑ याव॒दोजो॒ याव॒न्नर॒श्चक्ष॑सा॒ दीध्या॑नाः । शुचिं॒ सोमं॑ शुचिपा पातम॒स्मे इंद्र॑वायू॒ सद॑तं ब॒र्हिरेदं ॥
याव॑त् , तरः॑ , त॒न्वः॑ , याव॑त् , ओजः॑ , याव॑त् , नरः॑ , चक्ष॑सा , दीध्या॑नाः । शुचिं॑ , सोमं॑ , शु॒चि॒ऽपा॒ , पा॒तं॒ , अ॒स्मे इति॑ , इंद्र॑वायू॒ इति॑ , सद॑तं , ब॒र्हिः , आ , इ॒दं ॥
नि॒यु॒वा॒ना नि॒युतः॑ स्पा॒र्हवी॑रा॒ इंद्र॑वायू स॒रथं॑ यातम॒र्वाक् । इ॒दं हि वां॒ प्रभृ॑तं॒ मध्वो॒ अग्र॒मध॑ प्रीणा॒ना वि मु॑मुक्तम॒स्मे ॥
नि॒ऽयु॒वा॒ना , नि॒ऽयुतः॑ , स्पा॒र्हऽवी॑राः , इंद्र॑वायू॒ इति॑ , स॒ऽरथं॑ , या॒तं॒ , अ॒र्वाक् । इ॒दं , हि , वां॒ , प्रऽभृ॑तं , मध्वः॑ , अग्रं॑ , अध॑ , प्री॒णा॒ना , वि , मु॒मु॒क्तं॒ , अ॒स्मे इति॑ ॥
या वां॑ श॒तं नि॒युतो॒ याः स॒हस्र॒मिंद्र॑वायू वि॒श्ववा॑राः॒ सचं॑ते । आभि॑र्यातं सुवि॒दत्रा॑भिर॒र्वाक्पा॒तं न॑रा॒ प्रति॑भृतस्य॒ मध्वः॑ ॥
याः , वां॒ , श॒तं , नि॒ऽयुतः॑ , याः , स॒हस्रं॑ , इंद्र॑वायू॒ इति॑ , वि॒श्वऽवा॑राः , सचं॑ते । आ , आ॒भिः॒ , या॒तं॒ , सु॒ऽवि॒दत्रा॑भिः , अ॒र्वाक् , पा॒तं , न॒रा॒ , प्रति॑ऽभृतस्य , मध्वः॑ ॥
अर्वं॑तो॒ न श्रव॑सो॒ भिक्ष॑माणा इंद्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः । वा॒ज॒यंतः॒ स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
अर्वं॑तः , न , श्रव॑सः , भिक्ष॑माणाः , इं॒द्र॒वा॒यू इति॑ , सु॒स्तु॒तिऽभिः॑ , वसि॑ष्ठाः । वा॒ज॒ऽयंतः॑ , सु , अव॑से , हु॒वे॒म॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[९२] आवायविति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवायुर्द्वितीया चतुर्थ्योरिंद्रवायूत्रिष्टुप् |
आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अंधो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेयं॑ ॥
आ , वा॒यो॒ इति॑ , भू॒ष॒ , शु॒चि॒ऽपाः॒ , उप॑ , नः॒ , स॒हस्रं॑ , ते॒ , नि॒ऽयुतः॑ , वि॒श्व॒ऽवा॒र॒ । उपो॒ इति॑ , ते॒ , अंधः॑ , मद्यं॑ , अ॒या॒मि॒ , यस्य॑ , दे॒व॒ , द॒धि॒षे , पू॒र्व॒ऽपेयं॑ ॥
प्र सोता॑ जी॒रो अ॑ध्व॒रेष्व॑स्था॒त्सोम॒मिंद्रा॑य वा॒यवे॒ पिब॑ध्यै । प्र यद्वां॒ मध्वो॑ अग्रि॒यं भरं॑त्यध्व॒र्यवो॑ देव॒यंतः॒ शची॑भिः ॥
प्र , सोता॑ , जी॒रः , अ॒ध्व॒रेषु॑ , अ॒स्था॒त् , सोमं॑ , इंद्रा॑य , वा॒यवे॑ , पिब॑ध्यै । प्र , यत् , वां॒ , मध्वः॑ , अ॒ग्रि॒यं , भरं॑ति , अ॒ध्व॒र्यवः॑ , दे॒व॒ऽयंतः॑ , शची॑भिः ॥
प्र याभि॒र्यासि॑ दा॒श्वांस॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे । नि नो॑ र॒यिं सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं॑ च॒ राधः॑ ॥
प्र , याभिः॑ , यासि॑ , दा॒श्वांसं॑ , अच्छ॑ , नि॒युत्ऽभिः॑ , वा॒यो॒ इति॑ , इ॒ष्टये॑ , दु॒रो॒णे । नि , नः॒ , र॒यिं , सु॒ऽभोज॑सं , यु॒व॒स्व॒ , नि , वी॒रं , गव्यं॑ , अश्व्यं॑ , च॒ , राधः॑ ॥
ये वा॒यव॑ इंद्र॒माद॑नास॒ आदे॑वासो नि॒तोश॑नासो अ॒र्यः । घ्नंतो॑ वृ॒त्राणि॑ सू॒रिभिः॑ ष्याम सास॒ह्वांसो॑ यु॒धा नृभि॑र॒मित्रा॑न् ॥
ये , वा॒यवे॑ , इं॒द्र॒ऽमाद॑नासः , आऽदे॑वासः , नि॒ऽतोश॑नासः , अ॒र्यः । घ्नंतः॑ , वृ॒त्राणि॑ , सू॒रिऽभिः॑ , स्या॒म॒ , स॒स॒ह्वांसः॑ , यु॒धा , नृऽभिः॑ , अ॒मित्रा॑न् ॥
आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञं । वायो॑ अ॒स्मिंत्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
आ , नः॒ , नि॒युत्ऽभिः॑ , श॒तिनी॑भिः , अ॒ध्व॒रं , स॒ह॒स्रिणी॑भिः , उप॑ , या॒हि॒ , य॒ज्ञं । वायो॒ इति॑ , अ॒स्मिन् , सव॑ने , मा॒द॒य॒स्व॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[९३] शुचिंन्वित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्राग्नीत्रिष्टुप् |
शुचिं॒ नु स्तोमं॒ नव॑जातम॒द्येंद्रा॑ग्नी वृत्रहणा जु॒षेथां॑ । उ॒भा हि वां॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजं॑ स॒द्य उ॑श॒ते धेष्ठा॑ ॥
शुचिं॑ , नु , स्तोमं॑ , नव॑ऽजातं , अ॒द्य , इंद्रा॑ग्नी॒ इति॑ , वृ॒त्र॒ऽह॒ना॒ , जु॒षेथां॑ । उ॒भा , हि , वां॒ , सु॒ऽहवा॑ , जोह॑वीमि , ता , वाजं॑ , स॒द्यः , उ॒श॒ते , धेष्ठा॑ ॥
ता सा॑न॒सी श॑वसाना॒ हि भू॒तं सा॑कं॒वृधा॒ शव॑सा शूशु॒वांसा॑ । क्षयं॑तौ रा॒यो यव॑सस्य॒ भूरेः॑ पृं॒क्तं वाज॑स्य॒ स्थवि॑रस्य॒ घृष्वेः॑ ॥
ता , सा॒न॒सी इति॑ , श॒व॒सा॒ना॒ , हि , भू॒तं , सा॒कं॒ऽवृधा॑ , शव॑सा , शू॒शु॒ऽवांसा॑ । क्षयं॑तौ , रा॒यः , यव॑सस्य , भूरेः॑ , पृं॒क्तं , वाज॑स्य , स्थवि॑रस्य , घृष्वेः॑ ॥
उपो॑ ह॒ यद्वि॒दथं॑ वा॒जिनो॒ गुर्धी॒भिर्विप्राः॒ प्रम॑तिमि॒च्छमा॑नाः । अर्वं॑तो॒ न काष्ठां॒ नक्ष॑माणा इंद्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ॥
उपो॒ इति॑ , ह॒ , यत् , वि॒दथं॑ , वा॒जिनः॑ , गुः , धी॒भिः , विप्राः॑ , प्रऽम॑तिं , इ॒च्छमा॑नाः । अर्वं॑तः , न , काष्ठां॑ , नक्ष॑माणाः , इं॒द्रा॒ग्नी इति॑ , जोहु॑वतः , नरः॑ , ते ॥
गी॒र्भिर्विप्रः॒ प्रम॑तिमि॒च्छमा॑न॒ ईट्टे॑ र॒यिं य॒शसं॑ पूर्व॒भाजं॑ । इंद्रा॑ग्नी वृत्रहणा सुवज्रा॒ प्र नो॒ नव्ये॑भिस्तिरतं दे॒ष्णैः ॥
गीः॒ऽभिः , विप्रः॑ , प्रऽम॑तिं , इ॒च्छमा॑नः , ईट्टे॑ , र॒यिं , य॒शसं॑ , पू॒र्व॒ऽभाजं॑ । इंद्रा॑ग्नी॒ इति॑ , वृ॒त्र॒ऽह॒ना॒ , सु॒ऽव॒ज्रा॒ , प्र , नः॒ , नव्ये॑भिः , ति॒र॒तं॒ , दे॒ष्णैः ॥
सं यन्म॒ही मि॑थ॒ती स्पर्ध॑माने तनू॒रुचा॒ शूर॑साता॒ यतै॑ते । अदे॑वयुं वि॒दथे॑ देव॒युभिः॑ स॒त्रा ह॑तं सोम॒सुता॒ जने॑न ॥
सं , यत् , म॒ही इति॑ , मि॒थ॒ती इति॑ , स्पर्ध॑माने॒ इति॑ , त॒नू॒ऽरुचा॑ , शूर॑ऽसाता , यतै॑ते॒ इति॑ । अदे॑वऽयुं , वि॒दथे॑ , दे॒व॒युऽभिः॑ , स॒त्रा , ह॒तं॒ , सो॒म॒ऽसुता॑ , जने॑न ॥
इ॒मामु॒ षु सोम॑सुति॒मुप॑ न॒ एंद्रा॑ग्नी सौमन॒साय॑ यातं । नू चि॒द्धि प॑रिम॒म्नाथे॑ अ॒स्माना वां॒ शश्व॑द्भिर्ववृतीय॒ वाजैः॑ ॥
इ॒मां , ऊँ॒ इति॑ , सु , सोम॑ऽसुतिं , उप॑ , नः॒ , आ , इं॒द्रा॒ग्नी॒ इति॑ , सौ॒म॒न॒साय॑ , या॒तं॒ । नु , चि॒त् , हि , प॒रि॒म॒म्नाथे॒ इति॑ प॒रि॒ऽम॒म्नाथे॑ , अ॒स्मान् , आ , वां॒ , शश्व॑त्ऽभिः , व॒वृ॒ती॒य॒ , वाजैः॑ ॥
सो अ॑ग्न ए॒ना नम॑सा॒ समि॒द्धोऽच्छा॑ मि॒त्रं वरु॑ण॒मिंद्रं॑ वोचेः । यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळ॒ तद॑र्य॒मादि॑तिः शिश्रथंतु ॥
सः , अ॒ग्ने॒ , ए॒ना , नम॑सा , संऽइ॑द्धः , अच्छ॑ , मि॒त्रं , वरु॑णं , इंद्रं॑ , वो॒चेः॒ । यत् , सीं॒ , आगः॑ , च॒कृ॒म , तत् , सु , मृ॒ळ॒ , तत् , अ॒र्य॒मा , अदि॑तिः , शि॒श्र॒थं॒तु॒ ॥
ए॒ता अ॑ग्न आशुषा॒णास॑ इ॒ष्टीर्यु॒वोः सचा॒भ्य॑श्याम॒ वाजा॑न् । मेंद्रो॑ नो॒ विष्णु॑र्म॒रुतः॒ परि॑ ख्यन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ए॒ताः , अ॒ग्ने॒ , आ॒शु॒षा॒णासः॑ , इ॒ष्टीः , यु॒वोः , सचा॑ , अ॒भि , अ॒श्या॒म॒ , वाजा॑न् । मा , इंद्रः॑ , नः॒ , विष्णुः॑ , म॒रुतः॑ , परि॑ , ख्य॒न् , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[९४] इयंवामिति द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्राग्नीगायत्र्यंत्यानुष्टुप् |
इ॒यं वा॑म॒स्य मन्म॑न॒ इंद्रा॑ग्नी पू॒र्व्यस्तु॑तिः । अ॒भ्राद्वृ॒ष्टिरि॑वाजनि ॥
इ॒यं , वां॒ , अ॒स्य , मन्म॑नः , इंद्रा॑ग्नी॒ इति॑ , पू॒र्व्यऽस्तु॑तिः । अ॒भ्रात् , वृ॒ष्टिःऽइ॑व , अ॒ज॒नि॒ ॥
शृ॒णु॒तं ज॑रि॒तुर्हव॒मिंद्रा॑ग्नी॒ वन॑तं॒ गिरः॑ । ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥
शृ॒णु॒तं , ज॒रि॒तुः , हवं॑ , इंद्रा॑ग्नी॒ इति॑ , वन॑तं , गिरः॑ । ई॒शा॒ना , पि॒प्य॒तं॒ , धियः॑ ॥
मा पा॑प॒त्वाय॑ नो न॒रेंद्रा॑ग्नी॒ माभिश॑स्तये । मा नो॑ रीरधतं नि॒दे ॥
मा , पा॒प॒ऽत्वाय॑ , नः॒ , न॒रा॒ , इंद्रा॑ग्नी॒ इति॑ , मा , अ॒भिऽश॑स्तये । मा , नः॒ , री॒र॒ध॒तं॒ , नि॒दे ॥
इंद्रे॑ अ॒ग्ना नमो॑ बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे । धि॒या धेना॑ अव॒स्यवः॑ ॥
इंद्रे॑ , अ॒ग्ना , नमः॑ , बृ॒हत् , सु॒ऽवृ॒क्तिं , आ , ई॒र॒या॒म॒हे॒ । धि॒या , धेनाः॑ , अ॒व॒स्यवः॑ ॥
ता हि शश्वं॑त॒ ईळ॑त इ॒त्था विप्रा॑स ऊ॒तये॑ । स॒बाधो॒ वाज॑सातये ॥
ता , हि , शश्वं॑तः , ईळ॑ते , इ॒त्था , विप्रा॑सः , ऊ॒तये॑ । स॒ऽबाधः॑ , वाज॑ऽसातये ॥
ता वां॑ गी॒र्भिर्वि॑प॒न्यवः॒ प्रय॑स्वंतो हवामहे । मे॒धसा॑ता सनि॒ष्यवः॑ ॥
ता , वां॒ , गीः॒ऽभिः , वि॒प॒न्यवः॑ , प्रय॑स्वंतः , ह॒वा॒म॒हे॒ । मे॒धऽसा॑ता , स॒नि॒ष्यवः॑ ॥
इंद्रा॑ग्नी॒ अव॒सा ग॑तम॒स्मभ्यं॑ चर्षणीसहा । मा नो॑ दुः॒शंस॑ ईशत ॥
इंद्रा॑ग्नी॒ इति॑ , अव॑सा , आ , ग॒तं॒ , अ॒स्मभ्यं॑ , च॒र्ष॒णि॒ऽस॒हा॒ । मा , नः॒ , दुः॒ऽशंसः॑ , ई॒श॒त॒ ॥
मा कस्य॑ नो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य । इंद्रा॑ग्नी॒ शर्म॑ यच्छतं ॥
मा , कस्य॑ , नः॒ , अर॑रुषः , धू॒र्तिः , प्रण॑क् , मर्त्य॑स्य । इंद्रा॑ग्नी॒ इति॑ , शर्म॑ , य॒च्छ॒तं॒ ॥
गोम॒द्धिर॑ण्यव॒द्वसु॒ यद्वा॒मश्वा॑व॒दीम॑हे । इंद्रा॑ग्नी॒ तद्व॑नेमहि ॥
गोऽम॑त् , हिर॑ण्यऽवत् , वसु॑ , यत् , वां॒ , अश्व॑ऽवत् , ईम॑हे । इंद्रा॑ग्नी॒ इति॑ , तत् , व॒ने॒म॒हि॒ ॥
यत्सोम॒ आ सु॒ते नर॑ इंद्रा॒ग्नी अजो॑हवुः । सप्ती॑वंता सप॒र्यवः॑ ॥
यत् , सोमे॑ , आ , सु॒ते , नरः॑ , इं॒द्रा॒ग्नी इति॑ , अजो॑हवुः । सप्ति॑ऽवंता , स॒प॒र्यवः॑ ॥
उ॒क्थेभि॑र्वृत्र॒हंत॑मा॒ या मं॑दा॒ना चि॒दा गि॒रा । आं॒गू॒षैरा॒विवा॑सतः ॥
उ॒क्थेभिः॑ , वृ॒त्र॒हन्ऽत॑मा , या , मं॒दा॒ना , चि॒त् , आ , गि॒रा । आं॒गू॒षैः , आ॒ऽविवा॑सतः ॥
ताविद्दुः॒शंसं॒ मर्त्यं॒ दुर्वि॑द्वांसं रक्ष॒स्विनं॑ । आ॒भो॒गं हन्म॑ना हतमुद॒धिं हन्म॑ना हतं ॥
तौ , इत् , दुः॒ऽशंसं॑ , मर्त्यं॑ , दुःऽवि॑द्वांसं , र॒क्ष॒स्विनं॑ । आ॒ऽभो॒गं , हन्म॑ना , ह॒तं॒ , उ॒द॒ऽधिं , हन्म॑ना , ह॒तं॒ ॥
[९५] प्रक्षोदसेति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सरस्वतीतृतीयायाः सरस्वांस्त्रिष्टुप् |
प्र क्षोद॑सा॒ धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी॒ पूः । प्र॒बाब॑धाना र॒थ्ये॑व याति॒ विश्वा॑ अ॒पो म॑हि॒ना सिंधु॑र॒न्याः ॥
प्र , क्षोद॑सा , धाय॑सा , स॒स्रे॒ , ए॒षा , सर॑स्वती , ध॒रुणं॑ , आय॑सी , पूः । प्र॒ऽबाब॑धाना , र॒थ्या॑ऽइव , या॒ति॒ , विश्वाः॑ , अ॒पः , म॒हि॒ना , सिंधुः॑ , अ॒न्याः ॥
एका॑चेत॒त्सर॑स्वती न॒दीनां॒ शुचि॑र्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् । रा॒यश्चेतं॑ती॒ भुव॑नस्य॒ भूरे॑र्घृ॒तं पयो॑ दुदुहे॒ नाहु॑षाय ॥
एका॑ , अ॒चे॒त॒त् , सर॑स्वती , न॒दीनां॑ , शुचिः॑ , य॒ती , गि॒रिऽभ्यः॑ , आ , स॒मु॒द्रात् । रा॒यः , चेतं॑ती , भुव॑नस्य , भूरेः॑ , घृ॒तं , पयः॑ , दु॒दु॒हे॒ , नाहु॑षाय ॥
स वा॑वृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु॑र्वृष॒भो य॒ज्ञिया॑सु । स वा॒जिनं॑ म॒घव॑द्भ्यो दधाति॒ वि सा॒तये॑ त॒न्वं॑ मामृजीत ॥
सः , व॒वृ॒धे॒ , नर्यः॑ , योष॑णासु , वृषा॑ , शिशुः॑ , वृ॒ष॒भः , य॒ज्ञिया॑सु । सः , वा॒जिनं॑ , म॒घव॑त्ऽभ्यः , द॒धा॒ति॒ , वि , सा॒तये॑ , त॒न्वं॑ , म॒मृ॒जी॒त॒ ॥
उ॒त स्या नः॒ सर॑स्वती जुषा॒णोप॑ श्रवत्सु॒भगा॑ य॒ज्ञे अ॒स्मिन् । मि॒तज्ञु॑भिर्नम॒स्यै॑रिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ॥
उ॒त , स्या , नः॒ , सर॑स्वती , जु॒षा॒णा , उप॑ , श्र॒व॒त् , सु॒ऽभगा॑ , य॒ज्ञे , अ॒स्मिन् । मि॒तज्ञु॑ऽभिः , न॒म॒स्यैः॑ , इ॒या॒ना , रा॒या , यु॒जा , चि॒त् , उत्ऽत॑रा , सखि॑ऽभ्यः ॥
इ॒मा जुह्वा॑ना यु॒ष्मदा नमो॑भिः॒ प्रति॒ स्तोमं॑ सरस्वति जुषस्व । तव॒ शर्म॑न्प्रि॒यत॑मे॒ दधा॑ना॒ उप॑ स्थेयाम शर॒णं न वृ॒क्षं ॥
इ॒मा , जुह्वा॑नाः , यु॒ष्मत् , आ , नमः॑ऽभिः , प्रति॑ , स्तोमं॑ , स॒र॒स्व॒ति॒ , जु॒ष॒स्व॒ । तव॑ , शर्म॑न् , प्रि॒यऽत॑मे , दधा॑नाः , उप॑ , स्थे॒या॒म॒ , श॒र॒णं , न , वृ॒क्षं ॥
अ॒यमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारा॑वृ॒तस्य॑ सुभगे॒ व्या॑वः । वर्ध॑ शुभ्रे स्तुव॒ते रा॑सि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
अ॒यं , ऊँ॒ इति॑ , ते॒ , स॒र॒स्व॒ति॒ , वसि॑ष्ठः , द्वारौ॑ , ऋ॒तस्य॑ , सु॒ऽभ॒गे॒ , वि , आ॒व॒रित्या॑वः । वर्ध॑ , शु॒भ्रे॒ , स्तु॒व॒ते , रा॒सि॒ , वाजा॑न् , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[९६] बृहदुगायिषइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सरस्वती अंत्यानांतिसृणांसरस्वान् आद्याबृहती द्वितीयासतो बृहती तृतीयाप्रस्तारपंक्तिः अंत्यास्तिस्रोगायत्र्यः |
बृ॒हदु॑ गायिषे॒ वचो॑ऽसु॒र्या॑ न॒दीनां॑ । सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभिः॒ स्तोमै॑र्वसिष्ठ॒ रोद॑सी ॥
बृ॒हत् , ऊँ॒ इति॑ , गा॒यि॒षे॒ , वचः॑ , अ॒सु॒र्या॑ , न॒दीनां॑ । सर॑स्वतीं , इत् , म॒ह॒य॒ , सु॒वृ॒क्तिऽभिः॑ , स्तोमैः॑ , व॒सि॒ष्ठ॒ , रोद॑सी॒ इति॑ ॥
उ॒भे यत्ते॑ महि॒ना शु॑भ्रे॒ अंध॑सी अधिक्षि॒यंति॑ पू॒रवः॑ । सा नो॑ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो॑ म॒घोनां॑ ॥
उ॒भे इति॑ , यत् , ते॒ , म॒हि॒ना , शु॒भ्रे॒ , अंध॑सी॒ इति॑ , अ॒धि॒ऽक्षि॒यंति॑ , पू॒रवः॑ । सा , नः॒ , बो॒धि॒ , अ॒वि॒त्री , म॒रुत्ऽस॑खा , चोद॑ , राधः॑ , म॒घोनां॑ ॥
भ॒द्रमिद्भ॒द्रा कृ॑णव॒त्सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी॑वती । गृ॒णा॒ना ज॑मदग्नि॒वत्स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ॥
भ॒द्रं , इत् , भ॒द्रा , कृ॒ण॒व॒त् , सर॑स्वती , अक॑वऽअरी , चे॒त॒ति॒ , वा॒जिनी॑ऽवती । गृ॒णा॒ना , ज॒म॒द॒ग्नि॒ऽवत् , स्तु॒वा॒ना , च॒ , व॒सि॒ष्ठ॒ऽवत् ॥
ज॒नी॒यंतो॒ न्वग्र॑वः पुत्री॒यंतः॑ सु॒दान॑वः । सर॑स्वंतं हवामहे ॥
ज॒नि॒ऽयंतः॑ , नु , अग्र॑वः , पु॒त्रि॒ऽयंतः॑ , सु॒ऽदान॑वः । सर॑स्वंतं , ह॒वा॒म॒हे॒ ॥
ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मंतो घृत॒श्चुतः॑ । तेभि॑र्नोऽवि॒ता भ॑व ॥
ये , ते॒ , स॒र॒स्वः॒ , ऊ॒र्मयः॑ , मधु॑ऽमंतः , घृ॒त॒ऽश्चुतः॑ । तेभिः॑ , नः॒ , अ॒वि॒ता , भ॒व॒ ॥
पी॒पि॒वांसं॒ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः । भ॒क्षी॒महि॑ प्र॒जामिषं॑ ॥
पी॒पि॒ऽवांसं॑ , सर॑स्वतः , स्तनं॑ , यः , वि॒श्वऽद॑र्शतः । भ॒क्षी॒महि॑ , प्र॒ऽजां , इषं॑ ॥
[९७] यज्ञेदिवइति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोबृहस्पतिः आद्यायाइंद्रः तृतीयानवम्योरिंद्राब्रह्मणस्पती अंत्यायाइंद्राबृहस्पतीत्रिष्टुप् |
य॒ज्ञे दि॒वो नृ॒षद॑ने पृथि॒व्या नरो॒ यत्र॑ देव॒यवो॒ मदं॑ति । इंद्रा॑य॒ यत्र॒ सव॑नानि सु॒न्वे गम॒न्मदा॑य प्रथ॒मं वय॑श्च ॥
य॒ज्ञे , दि॒वः , नृ॒ऽसद॑ने , पृ॒थि॒व्याः , नरः॑ , यत्र॑ , दे॒व॒ऽयवः॑ , मदं॑ति । इंद्रा॑य , यत्र॑ , सव॑नानि , सु॒न्वे , गम॑त् , मदा॑य , प्र॒थ॒मं , वयः॑ , च॒ ॥
आ दैव्या॑ वृणीम॒हेऽवां॑सि॒ बृह॒स्पति॑र्नो मह॒ आ स॑खायः । यथा॒ भवे॑म मी॒ळ्हुषे॒ अना॑गा॒ यो नो॑ दा॒ता प॑रा॒वतः॑ पि॒तेव॑ ॥
आ , दैव्या॑ , वृ॒णी॒म॒हे॒ , अवां॑सि , बृह॒स्पतिः॑ , नः॒ , म॒हे॒ , आ , स॒खा॒यः॒ । यथा॑ , भवे॑म , मी॒ळ्हुषे॑ , अना॑गाः , यः , नः॒ , दा॒ता , प॒रा॒ऽवतः॑ , पि॒ताऽइ॑व ॥
तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भिः॑ सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं॑ गृणीषे । इंद्रं॒ श्लोको॒ महि॒ दैव्यः॑ सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा॑ ॥
तं , ऊँ॒ इति॑ , ज्येष्ठं॑ , नम॑सा , ह॒विःऽभिः॑ , सु॒ऽशेवं॑ , ब्रह्म॑णः , पतिं॑ , गृ॒णी॒षे॒ । इंद्रं॑ , श्लोकः॑ , महि॑ , दैव्यः॑ , सि॒स॒क्तु॒ , यः , ब्रह्म॑णः , दे॒वऽकृ॑तस्य , राजा॑ ॥
स आ नो॒ योनिं॑ सदतु॒ प्रेष्ठो॒ बृह॒स्पति॑र्वि॒श्ववा॑रो॒ यो अस्ति॑ । कामो॑ रा॒यः सु॒वीर्य॑स्य॒ तं दा॒त्पर्ष॑न्नो॒ अति॑ स॒श्चतो॒ अरि॑ष्टान् ॥
सः , आ , नः॒ , योनिं॑ , स॒द॒तु॒ , प्रेष्ठः॑ , बृह॒स्पतिः॑ , वि॒श्वऽवा॑रः , यः , अस्ति॑ । कामः॑ , रा॒यः , सु॒ऽवीर्य॑स्य , तं , दा॒त् , पर्ष॑त् , नः॒ , अति॑ , स॒श्चतः॑ , अरि॑ष्टान् ॥
तमा नो॑ अ॒र्कम॒मृता॑य॒ जुष्ट॑मि॒मे धा॑सुर॒मृता॑सः पुरा॒जाः । शुचि॑क्रंदं यज॒तं प॒स्त्या॑नां॒ बृह॒स्पति॑मन॒र्वाणं॑ हुवेम ॥
तं , आ , नः॒ , अ॒र्कं , अ॒मृता॑य , जुष्टं॑ , इ॒मे , धा॒सुः॒ , अ॒मृता॑सः , पु॒रा॒ऽजाः । शुचि॑ऽक्रंदं , य॒ज॒तं , प॒स्त्या॑नां , बृह॒स्पतिं॑ , अ॒न॒र्वाणं॑ , हु॒वे॒म॒ ॥
तं श॒ग्मासो॑ अरु॒षासो॒ अश्वा॒ बृह॒स्पतिं॑ सह॒वाहो॑ वहंति । सह॑श्चि॒द्यस्य॒ नील॑वत्स॒धस्थं॒ नभो॒ न रू॒पम॑रु॒षं वसा॑नाः ॥
तं , श॒ग्मासः॑ , अ॒रु॒षासः॑ , अश्वाः॑ , बृह॒स्पतिं॑ , स॒ह॒ऽवाहः॑ , व॒हं॒ति॒ । सहः॑ , चि॒त् , यस्य॑ , नील॑ऽवत् , स॒धऽस्थं॑ , नभः॑ , न , रू॒पं , अ॒रु॒षं , वसा॑नाः ॥
स हि शुचिः॑ श॒तप॑त्रः॒ स शुं॒ध्युर्हिर॑ण्यवाशीरिषि॒रः स्व॒र्षाः । बृह॒स्पतिः॒ स स्वा॑वे॒श ऋ॒ष्वः पु॒रू सखि॑भ्य आसु॒तिं करि॑ष्ठः ॥
सः , हि , शुचिः॑ , श॒तऽप॑त्रः , सः , शुं॒ध्युः , हिर॑ण्यऽवाशीः , इ॒षि॒रः , स्वः॒ऽसाः । बृह॒स्पतिः॑ , सः , सु॒ऽआ॒वे॒शः , ऋ॒ष्वः , पु॒रु , सखि॑ऽभ्यः , आ॒ऽसु॒तिं , करि॑ष्ठः ॥
दे॒वी दे॒वस्य॒ रोद॑सी॒ जनि॑त्री॒ बृह॒स्पतिं॑ वावृधतुर्महि॒त्वा । द॒क्षाय्या॑य दक्षता सखायः॒ कर॒द्ब्रह्म॑णे सु॒तरा॑ सुगा॒धा ॥
दे॒वी इति॑ , दे॒वस्य॑ , रोद॑सी॒ इति॑ , जनि॑त्री॒ इति॑ , बृह॒स्पतिं॑ , व॒वृ॒ध॒तुः॒ , म॒हि॒ऽत्वा । द॒क्षाय्या॑य , द॒क्ष॒त॒ , स॒खा॒यः॒ , कर॑त् , ब्रह्म॑णे , सु॒ऽतरा॑ , सु॒ऽगा॒धा ॥
इ॒यं वां॑ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेंद्रा॑य व॒ज्रिणे॑ अकारि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥
इ॒यं , वां॒ , ब्र॒ह्म॒णः॒ , प॒ते॒ , सु॒ऽवृ॒क्तिः , ब्रह्म॑ , इंद्रा॑य , व॒ज्रिणे॑ , अ॒का॒रि॒ । अ॒वि॒ष्टं , धियः॑ , जि॒गृ॒तं , पुरं॑ऽधीः , ज॒ज॒स्तं , अ॒र्यः , व॒नुषां॑ , अरा॑तीः ॥
बृह॑स्पते यु॒वमिंद्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
बृह॑स्पते , यु॒वं , इंद्रः॑ , च॒ , वस्वः॑ , दि॒व्यस्य॑ , ई॒शा॒थे॒ इति॑ , उ॒त , पार्थि॑वस्य । ध॒त्तं , र॒यिं , स्तु॒व॒ते , की॒रये॑ , चि॒त् , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[९८] अध्वर्यवइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रोंत्याया इंद्राबृहस्पतीत्रिष्टुप् |
अध्व॑र्यवोऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वृष॒भाय॑ क्षिती॒नां । गौ॒राद्वेदी॑याँ अव॒पान॒मिंद्रो॑ वि॒श्वाहेद्या॑ति सु॒तसो॑ममि॒च्छन् ॥
अध्व॑र्यवः , अ॒रु॒णं , दु॒ग्धं , अं॒शुं , जु॒होत॑न , वृ॒ष॒भाय॑ , क्षि॒ती॒नां । गौ॒रात् , वेदी॑यान् , अ॒व॒ऽपानं॑ , इंद्रः॑ , वि॒श्वाहा॑ , इत् , या॒ति॒ , सु॒तऽसो॑मं , इ॒च्छन् ॥
यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं॑ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि । उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्निं॑द्र॒ प्रस्थि॑तान्पाहि॒ सोमा॑न् ॥
यत् , द॒धि॒षे , प्र॒ऽदिवि॑ , चारु॑ , अन्नं॑ , दि॒वेऽदि॑वे , पी॒तिं , इत् , अ॒स्य॒ , व॒क्षि॒ । उ॒त , हृ॒दा , उ॒त , मन॑सा , जु॒षा॒णः , उ॒शन् , इं॒द्र॒ , प्रऽस्थि॑तान् , पा॒हि॒ , सोमा॑न् ॥
ज॒ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते॑ मा॒ता म॑हि॒मान॑मुवाच । एंद्र॑ पप्राथो॒र्व१॒॑न्तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥
ज॒ज्ञा॒नः , सोमं॑ , सह॑से , प॒पा॒थ॒ , प्र , ते॒ , मा॒ता , म॒हि॒मानं॑ , उ॒वा॒च॒ । आ , इं॒द्र॒ , प॒प्रा॒थ॒ , उ॒रु , अं॒तरि॑क्षं , यु॒धा , दे॒वेभ्यः॑ , वरि॑वः , च॒क॒र्थ॒ ॥
यद्यो॒धया॑ मह॒तो मन्य॑मानां॒त्साक्षा॑म॒ तान्बा॒हुभिः॒ शाश॑दानान् । यद्वा॒ नृभि॒र्वृत॑ इंद्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥
यत् , यो॒धयाः॑ , म॒ह॒तः , मन्य॑मानान् , साक्षा॑म , तान् , बा॒हुऽभिः॑ , शाश॑दानान् । यत् , वा॒ , नृऽभिः॑ , वृतः॑ , इं॒द्र॒ , अ॒भि॒ऽयुध्याः॑ , तं , त्वया॑ , आ॒जिं , सौ॒श्र॒व॒सं , ज॒ये॒म॒ ॥
प्रेंद्र॑स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत॑ना म॒घवा॒ या च॒कार॑ । य॒देददे॑वी॒रस॑हिष्ट मा॒या अथा॑भव॒त्केव॑लः॒ सोमो॑ अस्य ॥
प्र , इंद्र॑स्य , वो॒चं॒ , प्र॒थ॒मा , कृ॒तानि॑ , प्र , नूत॑ना , म॒घऽवा॑ , या , च॒कार॑ । य॒दा , इत् , अदे॑वीः , अस॑हिष्ट , मा॒याः , अथ॑ , अ॒भ॒व॒त् , केव॑लः , सोमः॑ , अ॒स्य॒ ॥
तवे॒दं विश्व॑म॒भितः॑ पश॒व्यं१॒॑ यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य । गवा॑मसि॒ गोप॑ति॒रेक॑ इंद्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ॥
तव॑ , इ॒दं , विश्वं॑ , अ॒भितः॑ , प॒श॒व्यं॑ , यत् , पश्य॑सि , चक्ष॑सा , सूर्य॑स्य । गवां॑ , अ॒सि॒ , गोऽप॑तिः , एकः॑ , इं॒द्र॒ , भ॒क्षी॒महि॑ , ते॒ , प्रऽय॑तस्य , वस्वः॑ ॥
बृह॑स्पते यु॒वमिंद्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
बृह॑स्पते , यु॒वं , इंद्रः॑ , च॒ , वस्वः॑ , दि॒व्यस्य॑ , ई॒शा॒थे॒ इति॑ , उ॒त , पार्थि॑वस्य । ध॒त्तं , र॒यिं , स्तु॒व॒ते , की॒रये॑ , चि॒त् , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[९९] परोमात्रयेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्टोविष्णुः उरुंयज्ञायेतितिसृणामिंद्राविष्णूत्रिष्टुप् |
प॒रो मात्र॑या त॒न्वा॑ वृधान॒ न ते॑ महि॒त्वमन्व॑श्नुवंति । उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वं प॑र॒मस्य॑ वित्से ॥
प॒रः , मात्र॑या , त॒न्वा॑ , वृ॒धा॒न॒ , न , ते॒ , म॒हि॒ऽत्वं , अनु॑ , अ॒श्नु॒वं॒ति॒ । उ॒भे इति॑ , ते॒ , वि॒द्म॒ , रज॑सी॒ इति॑ , पृ॒थि॒व्याः , विष्णो॒ इति॑ , दे॒व॒ , त्वं , प॒र॒मस्य॑ , वि॒त्से॒ ॥
न ते॑ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मंत॑माप । उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हंतं॑ दा॒धर्थ॒ प्राचीं॑ क॒कुभं॑ पृथि॒व्याः ॥
न , ते॒ , वि॒ष्णो॒ इति॑ , जाय॑मानः , न , जा॒तः , देव॑ , म॒हि॒म्नः , परं॑ , अंतं॑ , आ॒प॒ । उत् , अ॒स्त॒भ्नाः॒ , नाकं॑ , ऋ॒ष्वं , बृ॒हंतं॑ , दा॒धर्थ॑ , प्राचीं॑ , क॒कुभं॑ , पृ॒थि॒व्याः ॥
इरा॑वती धेनु॒मती॒ हि भू॒तं सू॑यव॒सिनी॒ मनु॑षे दश॒स्या । व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॑ ॥
इरा॑वती॒ इतीरा॑ऽवती , धे॒नु॒मती॒ इति॑ धे॒नु॒ऽमती॑ , हि , भू॒तं , सु॒य॒व॒सिनी॒ इति॑ सु॒ऽय॒व॒सिनी॑ , मनु॑षे , द॒श॒स्या । वि , अ॒स्त॒भ्नाः॒ , रोद॑सी॒ इति॑ , वि॒ष्णो॒ इति॑ , ए॒ते इति॑ , दा॒धर्थ॑ , पृ॒थि॒वीं , अ॒भितः॑ , म॒यूखैः॑ ॥
उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नयं॑ता॒ सूर्य॑मु॒षास॑म॒ग्निं । दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु॑र्नरा पृत॒नाज्ये॑षु ॥
उ॒रुं , य॒ज्ञाय॑ , च॒क्र॒थुः॒ , ऊँ॒ इति॑ , लो॒कं , ज॒नयं॑ता , सूर्यं॑ , उ॒षसं॑ , अ॒ग्निं । दास॑स्य , चि॒त् , वृ॒ष॒ऽशि॒प्रस्य॑ , मा॒याः , ज॒घ्नथुः॑ , न॒रा॒ , पृ॒त॒नाज्ये॑षु ॥
इंद्रा॑विष्णू दृंहि॒ताः शंब॑रस्य॒ नव॒ पुरो॑ नव॒तिं च॑ श्नथिष्टं । श॒तं व॒र्चिनः॑ स॒हस्रं॑ च सा॒कं ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ॥
इंद्रा॑विष्णू॒ इति॑ , दृं॒हि॒ताः , शंब॑रस्य , नव॑ , पुरः॑ , न॒व॒तिं , च॒ , श्न॒थि॒ष्टं॒ । श॒तं , व॒र्चिनः॑ , स॒हस्रं॑ , च॒ , सा॒कं , ह॒थः , अ॒प्र॒ति , असु॑रस्य , वी॒रान् ॥
इ॒यं म॑नी॒षा बृ॑ह॒ती बृ॒हंतो॑रुक्र॒मा त॒वसा॑ व॒र्धयं॑ती । र॒रे वां॒ स्तोमं॑ वि॒दथे॑षु विष्णो॒ पिन्व॑त॒मिषो॑ वृ॒जने॑ष्विंद्र ॥
इ॒यं , म॒नी॒षा , बृ॒ह॒ती , बृ॒हंता॑ , उ॒रु॒ऽक्र॒मा , त॒वसा॑ , व॒र्धयं॑ती । र॒रे , वां॒ , स्तोमं॑ , वि॒दथे॑षु , वि॒ष्णो॒ इति॑ , पिन्व॑तं , इषः॑ , वृ॒जने॑षु , इं॒द्र॒ ॥
वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यं । वर्धं॑तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
वष॑ट् , ते॒ , वि॒ष्णो॒ इति॑ , आ॒सः , आ , कृ॒णो॒मि॒ , तत् , मे॒ , जु॒ष॒स्व॒ , शि॒पि॒ऽवि॒ष्ट॒ , ह॒व्यं । वर्धं॑तु , त्वा॒ , सु॒ऽस्तु॒तयः॑ , गिरः॑ , मे॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[१००] नूमर्तइति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविष्णुस्त्रिष्टुप् |
नू मर्तो॑ दयते सनि॒ष्यन्यो विष्ण॑व उरुगा॒याय॒ दाश॑त् । प्र यः स॒त्राचा॒ मन॑सा॒ यजा॑त ए॒तावं॑तं॒ नर्य॑मा॒विवा॑सात् ॥
नु , मर्तः॑ , द॒य॒ते॒ , स॒नि॒ष्यन् , यः , विष्ण॑वे , उ॒रु॒ऽगा॒याय॑ , दाश॑त् । प्र , यः , स॒त्राचा॑ , मन॑सा , यजा॑ते , ए॒तावं॑तं , नर्यं॑ , आ॒ऽविवा॑सात् ॥
त्वं वि॑ष्णो सुम॒तिं वि॒श्वज॑न्या॒मप्र॑युतामेवयावो म॒तिं दाः॑ । पर्चो॒ यथा॑ नः सुवि॒तस्य॒ भूरे॒रश्वा॑वतः पुरुश्चं॒द्रस्य॑ रा॒यः ॥
त्वं , वि॒ष्णो॒ इति॑ , सु॒ऽम॒तिं , वि॒श्वऽज॑न्यां , अप्र॑ऽयुतां , ए॒व॒ऽया॒वः॒ , म॒तिं , दाः॒ । पर्चः॑ , यथा॑ , नः॒ , सु॒वि॒तस्य॑ , भूरेः॑ , अश्व॑ऽवतः , पु॒रु॒ऽचं॒द्रस्य॑ , रा॒यः ॥
त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा । प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यांत्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥
त्रिः , दे॒वः , पृ॒थि॒वीं , ए॒षः , ए॒तां , वि , च॒क्र॒मे॒ , श॒तऽअ॑र्चसं , म॒हि॒ऽत्वा । प्र , विष्णुः॑ , अ॒स्तु॒ , त॒वसः॑ , तवी॑यान् , त्वे॒षं , हि , अ॒स्य॒ , स्थवि॑रस्य , नाम॑ ॥
वि च॑क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑स उरुक्षि॒तिं सु॒जनि॑मा चकार ॥
वि , च॒क्र॒मे॒ , पृ॒थि॒वीं , ए॒षः , ए॒तां , क्षेत्रा॑य , विष्णुः॑ , मनु॑षे , द॒श॒स्यन् । ध्रु॒वासः॑ , अ॒स्य॒ , की॒रयः॑ , जना॑सः , उ॒रु॒ऽक्षि॒तिं , सु॒ऽजनि॑मा , च॒का॒र॒ ॥
प्र तत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं॑सामि व॒युना॑नि वि॒द्वान् । तं त्वा॑ गृणामि त॒वस॒मत॑व्या॒न्क्षयं॑तम॒स्य रज॑सः परा॒के ॥
प्र , तत् , ते॒ , अ॒द्य , शि॒पि॒ऽवि॒ष्ट॒ , नाम॑ , अ॒र्यः , शं॒सा॒मि॒ , व॒युना॑नि , वि॒द्वान् । तं , त्वा॒ , गृ॒णा॒मि॒ , त॒वसं॑ , अत॑व्यान् , क्षयं॑तं , अ॒स्य , रज॑सः , प॒रा॒के ॥
किमित्ते॑ विष्णो परि॒चक्ष्यं॑ भू॒त्प्र यद्व॑व॒क्षे शि॑पिवि॒ष्टो अ॑स्मि । मा वर्पो॑ अ॒स्मदप॑ गूह ए॒तद्यद॒न्यरू॑पः समि॒थे ब॒भूथ॑ ॥
किं , इत् , ते॒ , वि॒ष्णो॒ इति॑ , प॒रि॒ऽचक्ष्यं॑ , भू॒त् , प्र , यत् , व॒व॒क्षे , शि॒पि॒ऽवि॒ष्टः , अ॒स्मि॒ । मा , वर्पः॑ , अ॒स्मत् , अप॑ , गू॒हः॒ , ए॒तत् , यत् , अ॒न्यऽरू॑पः , सं॒ऽइ॒थे , ब॒भूथ॑ ॥
वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यं । वर्धं॑तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
वष॑ट् , ते॒ , वि॒ष्णो॒ इति॑ , आ॒सः , आ , कृ॒णो॒मि॒ , तत् , मे॒ , जु॒ष॒स्व॒ , शि॒पि॒ऽवि॒ष्ट॒ , ह॒व्यं । वर्धं॑तु , त्वा॒ , सु॒ऽस्तु॒तयः॑ , गिरः॑ , मे॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[१०१] तिस्रोवाचइति षडृचस्य सूक्तस्याग्नेयः कुमारः पर्जन्यस्त्रिष्टुप् |( तिस्रोवाचः पर्जन्यायेतिसूक्तयोर्वृष्टिकामोवसिष्ठः पाक्षिकः) |
ति॒स्रो वाचः॒ प्र व॑द॒ ज्योति॑रग्रा॒ या ए॒तद्दु॒ह्रे म॑धुदो॒घमूधः॑ । स व॒त्सं कृ॒ण्वन्गर्भ॒मोष॑धीनां स॒द्यो जा॒तो वृ॑ष॒भो रो॑रवीति ॥
ति॒स्रः , वाचः॑ , प्र , व॒द॒ , ज्योतिः॑ऽअग्राः , याः , ए॒तत् , दु॒ह्रे , म॒धु॒ऽदो॒घं , ऊधः॑ । सः , व॒त्सं , कृ॒ण्वन् , गर्भं॑ , ओष॑धीनां , स॒द्यः , जा॒तः , वृ॒ष॒भः , रो॒र॒वी॒ति॒ ॥
यो वर्ध॑न॒ ओष॑धीनां॒ यो अ॒पां यो विश्व॑स्य॒ जग॑तो दे॒व ईशे॑ । स त्रि॒धातु॑ शर॒णं शर्म॑ यंसत्त्रि॒वर्तु॒ ज्योतिः॑ स्वभि॒ष्ट्य१॒॑स्मे ॥
यः , वर्ध॑नः , ओष॑धीनां , यः , अ॒पां , यः , विश्व॑स्य , जग॑तः , दे॒वः , ईशे॑ । सः , त्रि॒ऽधातु॑ , श॒र॒णं , शर्म॑ , यं॒स॒त् , त्रि॒ऽवर्तु॑ , ज्योतिः॑ , सु॒ऽअ॒भि॒ष्टि , अ॒स्मे इति॑ ॥
स्त॒रीरु॑ त्व॒द्भव॑ति॒ सूत॑ उ त्वद्यथाव॒शं त॒न्वं॑ चक्र ए॒षः । पि॒तुः पयः॒ प्रति॑ गृभ्णाति मा॒ता तेन॑ पि॒ता व॑र्धते॒ तेन॑ पु॒त्रः ॥
स्त॒रीः , ऊँ॒ इति॑ , त्व॒त् , भव॑ति , सूते॑ , ऊँ॒ इति॑ , त्व॒त् , य॒था॒ऽव॒शं , त॒न्वं॑ , च॒क्रे॒ , ए॒षः । पि॒तुः , पयः॑ , प्रति॑ , गृ॒भ्णा॒ति॒ , मा॒ता , तेन॑ , पि॒ता , व॒र्ध॒ते॒ , तेन॑ , पु॒त्रः ॥
यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुरापः॑ । त्रयः॒ कोशा॑स उप॒सेच॑नासो॒ मध्वः॑ श्चोतंत्य॒भितो॑ विर॒प्शं ॥
यस्मि॑न् , विश्वा॑नि , भुव॑नानि , त॒स्थुः , ति॒स्रः , द्यावः॑ , त्रे॒धा , स॒स्रुः , आपः॑ । त्रयः॑ , कोशा॑सः , उ॒प॒ऽसेच॑नासः , मध्वः॑ , श्चो॒तं॒ति॒ , अ॒भितः॑ , वि॒ऽर॒प्शं ॥
इ॒दं वचः॑ प॒र्जन्या॑य स्व॒राजे॑ हृ॒दो अ॒स्त्वंत॑रं॒ तज्जु॑जोषत् । म॒यो॒भुवो॑ वृ॒ष्टयः॑ संत्व॒स्मे सु॑पिप्प॒ला ओष॑धीर्दे॒वगो॑पाः ॥
इ॒दं , वचः॑ , प॒र्जन्या॑य , स्व॒ऽराजे॑ , हृ॒दः , अ॒स्तु॒ , अंत॑रं , तत् , जु॒जो॒ष॒त् । म॒यः॒ऽभुवः॑ , वृ॒ष्टयः॑ , सं॒तु॒ , अ॒स्मे इति॑ , सु॒ऽपि॒प्प॒लाः , ओष॑धीः , दे॒वऽगो॑पाः ॥
स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनां॒ तस्मि॑न्ना॒त्मा जग॑तस्त॒स्थुष॑श्च । तन्म॑ ऋ॒तं पा॑तु श॒तशा॑रदाय यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
सः , रे॒तः॒ऽधाः , वृ॒ष॒भः , शश्व॑तीनां , तस्मि॑न् , आ॒त्मा , जग॑तः , तु॒स्थुषः॑ , च॒ । तत् , मा॒ , ऋ॒तं , पा॒तु॒ , श॒तऽशा॑रदाय , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[१०२] पर्जन्यायेति तृचस्य सूक्तस्याग्नेयःकुमारः पर्जन्यो गायत्री |
प॒र्जन्या॑य॒ प्र गा॑यत दि॒वस्पु॒त्राय॑ मी॒ळ्हुषे॑ । स नो॒ यव॑समिच्छतु ॥
प॒र्जन्या॑य , प्र , गा॒य॒त॒ , दि॒वः , पु॒त्राय॑ , मी॒ळ्हुषे॑ । सः , नः॒ , यव॑सं , इ॒च्छ॒तु॒ ॥
यो गर्भ॒मोष॑धीनां॒ गवां॑ कृ॒णोत्यर्व॑तां । प॒र्जन्यः॑ पुरु॒षीणां॑ ॥
यः , गर्भं॑ , ओष॑धीनां , गवां॑ , कृ॒णोति॑ , अर्व॑तां । प॒र्जन्यः॑ , पु॒रु॒षीणां॑ ॥
तस्मा॒ इदा॒स्ये॑ ह॒विर्जु॒होता॒ मधु॑मत्तमं । इळां॑ नः सं॒यतं॑ करत् ॥
तस्मै॑ , इत् , आ॒स्ये॑ , ह॒विः , जु॒होत॑ , मधु॑मत्ऽतमं । इळां॑ , नः॒ , सं॒ऽयतं॑ , क॒र॒त् ॥
[१०३] संवत्सरमिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः पर्जन्यस्तुतिमंडूकस्त्रिष्टुबाद्यानुष्टुप् |
सं॒व॒त्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिणः॑ । वाचं॑ प॒र्जन्य॑जिन्वितां॒ प्र मं॒डूका॑ अवादिषुः ॥
सं॒व॒त्स॒रं , श॒श॒या॒नाः , ब्रा॒ह्म॒णाः , व्र॒त॒ऽचा॒रिणः॑ । वाचं॑ , प॒र्जन्य॑ऽजिन्वितां , प्र , मं॒डूकाः॑ , अ॒वा॒दि॒षुः ॥
दि॒व्या आपो॑ अ॒भि यदे॑न॒मायं॒दृतिं॒ न शुष्कं॑ सर॒सी शया॑नं । गवा॒मह॒ न मा॒युर्व॒त्सिनी॑नां मं॒डूका॑नां व॒ग्नुरत्रा॒ समे॑ति ॥
दि॒व्याः , आपः॑ , अ॒भि , यत् , ए॒नं॒ , आय॑न् , दृतिं॑ , न , शुष्कं॑ , स॒र॒सी इति॑ , शया॑नं । गवां॑ , अह॑ , न , मा॒युः , व॒त्सिनी॑नां , मं॒डूका॑नां , व॒ग्नुः , अत्र॑ , सं , ए॒ति॒ ॥
यदी॑मेनाँ उश॒तो अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तः प्रा॒वृष्याग॑तायां । अ॒ख्ख॒ली॒कृत्या॑ पि॒तरं॒ न पु॒त्रो अ॒न्यो अ॒न्यमुप॒ वदं॑तमेति ॥
यत् , ईं॒ , ए॒ना॒न् , उ॒श॒तः , अ॒भि , अव॑र्षीत् , तृ॒ष्याऽव॑तः , प्रा॒वृषि॑ , आऽग॑तायां । अ॒ख्ख॒ली॒कृत्य॑ , पि॒तरं॑ , न , पु॒त्रः , अ॒न्यः , अ॒न्यं , उप॑ , वदं॑तं , ए॒ति॒ ॥
अ॒न्यो अ॒न्यमनु॑ गृभ्णात्येनोर॒पां प्र॑स॒र्गे यदमं॑दिषातां । मं॒डूको॒ यद॒भिवृ॑ष्टः॒ कनि॑ष्क॒न्पृश्निः॑ संपृं॒क्ते हरि॑तेन॒ वाचं॑ ॥
अ॒न्यः , अ॒न्यं , अनु॑ , गृ॒भ्णा॒ति॒ , ए॒नोः॒ , अ॒पां , प्र॒ऽस॒र्गे , यत् , अमं॑दिषातां । मं॒डूकः॑ , यत् , अ॒भिऽवृ॑ष्टः , कनि॑स्कन् , पृश्निः॑ , सं॒ऽपृं॒क्ते , हरि॑तेन , वाचं॑ ॥
यदे॑षाम॒न्यो अ॒न्यस्य॒ वाचं॑ शा॒क्तस्ये॑व॒ वद॑ति॒ शिक्ष॑माणः । सर्वं॒ तदे॑षां स॒मृधे॑व॒ पर्व॒ यत्सु॒वाचो॒ वद॑थ॒नाध्य॒प्सु ॥
यत् , ए॒षां॒ , अ॒न्यः , अ॒न्यस्य॑ , वाचं॑ , शा॒क्तस्य॑ऽइव , वद॑ति , शिक्ष॑माणः । सर्वं॑ , तत् , ए॒षां॒ , स॒मृधा॑ऽइव , पर्व॑ , यत् , सु॒ऽवाचः॑ , वद॑थन , अधि॑ , अ॒प्ऽसु ॥
गोमा॑यु॒रेको॑ अ॒जमा॑यु॒रेकः॒ पृश्नि॒रेको॒ हरि॑त॒ एक॑ एषां । स॒मा॒नं नाम॒ बिभ्र॑तो॒ विरू॑पाः पुरु॒त्रा वाचं॑ पिपिशु॒र्वदं॑तः ॥
गोऽमा॑युः , एकः॑ , अ॒जऽमा॑युः , एकः॑ , पृश्निः॑ , एकः॑ , हरि॑तः , एकः॑ , ए॒षां॒ । स॒मा॒नं , नाम॑ , बिभ्र॑तः , विऽरू॑पाः , पु॒रु॒ऽत्रा , वाचं॑ , पि॒पि॒शुः॒ , वदं॑तः ॥
ब्रा॒ह्म॒णासो॑ अतिरा॒त्रे न सोमे॒ सरो॒ न पू॒र्णम॒भितो॒ वदं॑तः । सं॒व॒त्स॒रस्य॒ तदहः॒ परि॑ ष्ठ॒ यन्मं॑डूकाः प्रावृ॒षीणं॑ ब॒भूव॑ ॥
ब्रा॒ह्म॒णासः॑ , अ॒ति॒ऽरा॒त्रे , न , सोमे॑ , सरः॑ , न , पू॒र्णं , अ॒भितः॑ , वदं॑तः । सं॒व॒त्स॒रस्य॑ , तत् , अह॒रिति॑ , परि॑ , स्थ॒ , यत् , मं॒डू॒काः॒ , प्रा॒वृ॒षीणं॑ , ब॒भूव॑ ॥
ब्रा॒ह्म॒णासः॑ सो॒मिनो॒ वाच॑मक्रत॒ ब्रह्म॑ कृ॒ण्वंतः॑ परिवत्स॒रीणं॑ । अ॒ध्व॒र्यवो॑ घ॒र्मिणः॑ सिष्विदा॒ना आ॒विर्भ॑वंति॒ गुह्या॒ न के चि॑त् ॥
ब्रा॒ह्म॒णासः॑ , सो॒मिनः॑ , वाचं॑ , अ॒क्र॒त॒ , ब्रह्म॑ , कृ॒ण्वंतः॑ , प॒रि॒व॒त्स॒रीणं॑ । अ॒ध्व॒र्यवः॑ , घ॒र्मिणः॑ , सि॒स्वि॒दा॒नाः , आ॒विः , भ॒वं॒ति॒ , गुह्याः॑ , न , के , चि॒त् ॥
दे॒वहि॑तिं जुगुपुर्द्वाद॒शस्य॑ ऋ॒तुं नरो॒ न प्र मि॑नंत्ये॒ते । सं॒व॒त्स॒रे प्रा॒वृष्याग॑तायां त॒प्ता घ॒र्मा अ॑श्नुवते विस॒र्गं ॥
दे॒वऽहि॑तिं , जु॒गु॒पुः॒ , द्वा॒द॒शस्य॑ , ऋ॒तुं , नरः॑ , न , प्र , मि॒नं॒ति॒ , ए॒ते । सं॒व॒त्स॒रे , प्रा॒वृषि॑ , आऽग॑तायां , त॒प्ताः , घ॒र्माः , अ॒श्नु॒व॒ते॒ , वि॒ऽस॒र्गं ॥
गोमा॑युरदाद॒जमा॑युरदा॒त्पृश्नि॑रदा॒द्धरि॑तो नो॒ वसू॑नि । गवां॑ मं॒डूका॒ दद॑तः श॒तानि॑ सहस्रसा॒वे प्र ति॑रंत॒ आयुः॑ ॥
गोऽमा॑युः , अ॒दा॒त् , अ॒जऽमा॑युः , अ॒दा॒त् , पृश्निः॑ , अ॒दा॒त् , हरि॑तः , नः॒ , वसू॑नि । गवां॑ , मं॒डूकाः॑ , दद॑तः , श॒तानि॑ , स॒ह॒स्र॒ऽसा॒वे , प्र , ति॒रं॒ते॒ , आयुः॑ ॥
[१०४] इंद्रासोमेति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठइंद्रासोमौ अष्टमीषोडश्येकोनविंशी विंश्येकविंशी द्वाविंशी चतुर्विंशीनामिंद्रः नवमी द्वादशी त्रयोदशीनांसोमः दशमीचतुर्दश्योरग्निः एकादश्या विश्वेदेवाः सप्तदश्याग्रावाणः अष्टादश्यामरुतः त्रयोविंश्यावसिष्ठाशीः पृथिव्यंतरिक्षाणि आद्याः षडष्टादशी द्वाविंशी त्रयोविंश्योजगत्योंत्यानुष्टुप् शिष्टास्त्रिष्टुभः। (अस्मिन्सूक्ते रक्षोघ्नत्वंगुणः सर्वासांदेवतानांवक्तव्यः) |
इंद्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृधः॑ । परा॑ शृणीतम॒चितो॒ न्यो॑षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्रिणः॑ ॥
इंद्रा॑सोमा , तप॑तं , रक्षः॑ , उ॒ब्जतं॑ , नि , अ॒र्प॒य॒तं॒ , वृ॒ष॒णा॒ , त॒मः॒ऽवृधः॑ । परा॑ , शृ॒णी॒तं॒ , अ॒चितः॑ , नि , ओ॒ष॒तं॒ , ह॒तं , नु॒देथां॑ , नि , शि॒शी॒तं॒ , अ॒त्रिणः॑ ॥
इंद्रा॑सोमा॒ सम॒घशं॑सम॒भ्य१॒॑घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒वाँ इ॑व । ब्र॒ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मी॒दिने॑ ॥
इंद्रा॑सोमा , सं , अ॒घऽशं॑सं , अ॒भि , अ॒घं , तपुः॑ , य॒य॒स्तु॒ , च॒रुः , अ॒ग्नि॒वान्ऽइ॑व । ब्र॒ह्म॒ऽद्विषे॑ , क्र॒व्य॒ऽअदे॑ , घो॒रऽच॑क्षसे , द्वेषः॑ , ध॒त्तं॒ , अ॒न॒वा॒यं , कि॒मी॒दिने॑ ॥
इंद्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अं॒तर॑नारंभ॒णे तम॑सि॒ प्र वि॑ध्यतं । यथा॒ नातः॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥
इंद्रा॑सोमा , दुः॒ऽकृतः॑ , व॒व्रे , अं॒तः , अ॒ना॒रं॒भ॒णे , तम॑सि , प्र , वि॒ध्य॒तं॒ । यथा॑ , न , अतः॑ , पुनः॑ , एकः॑ , च॒न , उ॒त्ऽअय॑त् , तत् , वां॒ , अ॒स्तु॒ , सह॑से , म॒न्यु॒ऽमत् , शवः॑ ॥
इंद्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णं । उत्त॑क्षतं स्व॒र्यं१॒॑ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥
इंद्रा॑सोमा , व॒र्तय॑तं , दि॒वः , व॒धं , सं , पृ॒थि॒व्याः , अ॒घऽशं॑साय , तर्ह॑णं । उत् , त॒क्ष॒तं॒ , स्व॒र्यं॑ , पर्व॑तेभ्यः , येन॑ , रक्षः॑ , व॒वृ॒धा॒नं , नि॒ऽजूर्व॑थः ॥
इंद्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः । तपु॑र्वधेभिर॒जरे॑भिर॒त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यंतु॑ निस्व॒रं ॥
इंद्रा॑सोमा , व॒र्तय॑तं , दि॒वः , परि॑ , अ॒ग्नि॒ऽत॒प्तेभिः॑ , यु॒वं , अश्म॑हन्मऽभिः । तपुः॑ऽवधेभिः , अ॒जरे॑भिः , अ॒त्रिणः॑ , नि , पर्शा॑ने , वि॒ध्य॒तं॒ , यंतु॑ , नि॒ऽस्व॒रं ॥
इंद्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वा॒जिना॑ । यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑व जिन्वतं ॥
इंद्रा॑सोमा , परि॑ , वां॒ , भू॒तु॒ , वि॒श्वतः॑ , इ॒यं , म॒तिः , क॒क्ष्या॑ , अश्वा॑ऽइव , वा॒जिना॑ । यां , वां॒ , होत्रां॑ , प॒रि॒ऽहि॒नोमि॑ , मे॒धया॑ , इ॒मा , ब्रह्मा॑णि , नृ॒पती॑ इ॒वेति॑ नृ॒पती॑ऽइव , जि॒न्व॒तं॒ ॥
प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भंगु॒राव॑तः । इंद्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो नः॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हा ॥
प्रति॑ , स्म॒रे॒थां॒ , तु॒जय॑त्ऽभिः , एवैः॑ , ह॒तं , द्रु॒हः , र॒क्षसः॑ , भं॒गु॒रऽव॑तः । इंद्रा॑सोमा , दुः॒ऽकृते॑ , मा , सु॒ऽगं , भू॒त् , यः , नः॒ , क॒दा , चि॒त् , अ॒भि॒ऽदास॑ति , द्रु॒हा ॥
यो मा॒ पाके॑न॒ मन॑सा॒ चरं॑तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो॑भिः । आप॑ इव का॒शिना॒ संगृ॑भीता॒ अस॑न्न॒स्त्वास॑त इंद्र व॒क्ता ॥
यः , मा॒ , पाके॑न , मन॑सा , चरं॑तं , अ॒भि॒ऽचष्टे॑ , अनृ॑तेभिः , वचः॑ऽभिः । आपः॑ऽइव , का॒शिना॑ , संऽगृ॑भीताः , अस॑न् , अ॒स्तु॒ , अस॑तः , इं॒द्र॒ , व॒क्ता ॥
ये पा॑कशं॒सं वि॒हरं॑त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षयं॑ति स्व॒धाभिः॑ । अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निर्ऋ॑तेरु॒पस्थे॑ ॥
ये , पा॒क॒ऽशं॒सं , वि॒ऽहरं॑ते , एवैः॑ , ये , वा॒ , भ॒द्रं , दू॒षयं॑ति , स्व॒धाभिः॑ । अह॑ये , वा॒ , तान् , प्र॒ऽददा॑तु , सोमः॑ , आ , वा॒ , द॒धा॒तु॒ , निःऽऋ॑तेः , उ॒पऽस्थे॑ ॥
यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ यो अश्वा॑नां॒ यो गवां॒ यस्त॒नूनां॑ । रि॒पुः स्ते॒नः स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒३॒॑ तना॑ च ॥
यः , नः॒ , रसं॑ , दिप्स॑ति , पि॒त्वः , अ॒ग्ने॒ , यः , अश्वा॑नां , यः , गवां॑ , यः , त॒नूनां॑ । रि॒पुः , स्ते॒नः , स्ते॒य॒ऽकृत् , द॒भ्रं , ए॒तु॒ , नि , सः , ही॒य॒तां॒ , त॒न्वा॑ , तना॑ , च॒ ॥
प॒रः सो अ॑स्तु त॒न्वा॒३॒॑ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑ । प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो नो॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्तं॑ ॥
प॒रः , सः , अ॒स्तु॒ , त॒न्वा॑ , तना॑ , च॒ , ति॒स्रः , पृ॒थि॒वीः , अ॒धः , अ॒स्तु॒ , विश्वाः॑ । प्रति॑ , शु॒ष्य॒तु॒ , यशः॑ , अ॒स्य॒ , दे॒वाः॒ , यः , नः॒ , दिवा॑ , दिप्स॑ति , यः , च॒ , नक्तं॑ ॥
सु॒वि॒ज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते । तयो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ऽवति॒ हंत्यास॑त् ॥
सु॒ऽवि॒ज्ञा॒नं , चि॒कि॒तुषे॑ , जना॑य , सत् , च॒ , अस॑त् , च॒ , वच॑सी॒ इति॑ , प॒स्पृ॒धा॒ते॒ इति॑ । तयोः॑ , यत् , स॒त्यं , य॒त॒रत् , ऋजी॑यः , तत् , इत् , सोमः॑ , अ॒व॒ति॒ , हंति॑ , अस॑त् ॥
न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं॑ मिथु॒या धा॒रयं॑तं । हंति॒ रक्षो॒ हंत्यास॒द्वदं॑तमु॒भाविंद्र॑स्य॒ प्रसि॑तौ शयाते ॥
न , वै , ऊँ॒ इति॑ , सोमः॑ , वृ॒जि॒नं , हि॒नो॒ति॒ , न , क्ष॒त्रियं॑ , मि॒थु॒या , धा॒रयं॑तं । हंति॑ , रक्षः॑ , हंति॑ , अस॑त् , वदं॑तं , उ॒भौ , इंद्र॑स्य , प्रऽसि॑तौ , श॒या॒ते॒ इति॑ ॥
यदि॑ वा॒हमनृ॑तदेव॒ आस॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने । किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निर्ऋ॒थं स॑चंतां ॥
यदि॑ , वा॒ , अ॒हं , अनृ॑तऽदेवः , आस॑ , मोघं॑ , वा॒ , दे॒वान् , अ॒पि॒ऽऊ॒हे , अ॒ग्ने॒ । किं , अ॒स्मभ्यं॑ , जा॒त॒ऽवे॒दः॒ , हृ॒णी॒षे॒ , द्रो॒घ॒ऽवाचः॑ , ते॒ , निः॒ऽऋ॒थं , स॒चं॒तां॒ ॥
अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य । अधा॒ स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥
अ॒द्य , मु॒री॒य॒ , यदि॑ , या॒तु॒ऽधानः॑ , अस्मि॑ , यदि॑ , वा॒ , आयुः॑ , त॒तप॑ , पुरु॑षस्य । अध॑ , सः , वी॒रैः , द॒शऽभिः॑ , वि , यू॒याः॒ , यः , मा॒ , मोघं॑ , यातु॑ऽधान , इति॑ , आह॑ ॥
यो माया॑तुं॒ यातु॑धा॒नेत्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑ । इंद्र॒स्तं हं॑तु मह॒ता व॒धेन॒ विश्व॑स्य जं॒तोर॑ध॒मस्प॑दीष्ट ॥
यः , मा॒ , अया॑तुं , यातु॑ऽधान , इति॑ , आह॑ , यः , वा॒ , र॒क्षाः , शुचिः॑ , अ॒स्मि॒ , इति॑ , आह॑ । इंद्रः॑ , तं , हं॒तु॒ , म॒ह॒ता , व॒धेन॑ , विश्व॑स्य , जं॒तोः , अ॒ध॒मः , प॒दी॒ष्ट॒ ॥
प्र या जिगा॑ति ख॒र्गले॑व॒ नक्त॒मप॑ द्रु॒हा त॒न्वं१॒॑ गूह॑माना । व॒व्राँ अ॑नं॒ताँ अव॒ सा प॑दीष्ट॒ ग्रावा॑णो घ्नंतु र॒क्षस॑ उप॒ब्दैः ॥
प्र , या , जिगा॑ति , ख॒र्गला॑ऽइव , नक्तं॑ , अप॑ , द्रु॒हा , त॒न्वं॑ , गूह॑माना । व॒व्रान् , अ॒नं॒तान् , अव॑ , सा , प॒दी॒ष्ट॒ , ग्रावा॑णः , घ्नं॒तु॒ , र॒क्षसः॑ , उ॒प॒ब्दैः ॥
वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि१॒॑च्छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन । वयो॒ ये भू॒त्वी प॒तयं॑ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥
वि , ति॒ष्ठ॒ध्वं॒ , म॒रु॒तः॒ , वि॒क्षु , इ॒च्छत॑ , गृ॒भा॒यत॑ , र॒क्षसः॑ , सं , पि॒न॒ष्ट॒न॒ । वयः॑ , ये , भू॒त्वी , प॒तयं॑ति , न॒क्तऽभिः॑ , ये , वा॒ , रिपः॑ , द॒धि॒रे , दे॒वे , अ॒ध्व॒रे ॥
प्र व॑र्तय दि॒वो अश्मा॑नमिंद्र॒ सोम॑शितं मघवं॒त्सं शि॑शाधि । प्राक्ता॒दपा॑क्तादध॒रादुद॑क्ताद॒भि ज॑हि र॒क्षसः॒ पर्व॑तेन ॥
प्र , व॒र्त॒य॒ , दि॒वः , अश्मा॑नं , इं॒द्र॒ , सोम॑ऽशितं , म॒घ॒ऽव॒न् , सं , शि॒शा॒धि॒ । प्राक्ता॑त् , अपा॑क्तात् , अ॒ध॒रात् , उद॑क्तात् , अ॒भि , ज॒हि॒ , र॒क्षसः॑ , पर्व॑तेन ॥
ए॒त उ॒ त्ये प॑तयंति॒ श्वया॑तव॒ इंद्रं॑ दिप्संति दि॒प्सवोऽदा॑भ्यं । शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ॥
ए॒ते , ऊँ॒ इति॑ , त्ये , प॒त॒यं॒ति॒ , श्वऽया॑तवः , इंद्रं॑ , दि॒प्सं॒ति॒ , दि॒प्सवः॑ , अदा॑भ्यं । शिशी॑ते , श॒क्रः , पिशु॑नेभ्यः , व॒धं , नू॒नं , सृ॒ज॒त् , अ॒शनिं॑ , या॒तु॒मत्ऽभ्यः॑ ॥
इंद्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒३॒॑विवा॑सतां । अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भिं॒दंत्स॒त ए॑ति र॒क्षसः॑ ॥
इंद्रः॑ , या॒तू॒नां , अ॒भ॒व॒त् , प॒रा॒ऽश॒रः , ह॒विः॒ऽमथी॑नां , अ॒भि , आ॒ऽविवा॑सतां । अ॒भि , इत् , ऊँ॒ इति॑ , श॒क्रः , प॒र॒शुः , यथा॑ , वनं॑ , पात्रा॑ऽइव , भिं॒दन् , स॒तः , ए॒ति॒ , र॒क्षसः॑ ॥
उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुं । सु॒प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इंद्र ॥
उलू॑कऽयातुं , शु॒शु॒लूक॑ऽयातुं , ज॒हि , श्वऽया॑तुं , उ॒त , कोक॑ऽयातुं । सु॒प॒र्णऽया॑तुं , उ॒त , गृध्र॑ऽयातुं , दृ॒षदा॑ऽइव , प्र , मृ॒ण॒ , रक्षः॑ , इं॒द्र॒ ॥
मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॑ता॒मपो॑च्छतु मिथु॒ना या कि॑मी॒दिना॑ । पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥
मा , नः॒ , रक्षः॑ , अ॒भि , न॒ट् , या॒तु॒ऽमाव॑तां , अप॑ , उ॒च्छ॒तु॒ , मि॒थु॒ना , या , कि॒मी॒दिना॑ । पृ॒थि॒वी , नः॒ , पार्थि॑वात् , पा॒तु॒ , अंह॑सः , अं॒तरि॑क्षं , दि॒व्यात् , पा॒तु॒ , अ॒स्मान् ॥
इंद्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानां । विग्री॑वासो॒ मूर॑देवा ऋदंतु॒ मा ते दृ॑शं॒त्सूर्य॑मु॒च्चरं॑तं ॥
इंद्र॑ , ज॒हि , पुमां॑सं , या॒तु॒ऽधानं॑ , उ॒त , स्त्रियं॑ , मा॒यया॑ , शाश॑दानां । विऽग्री॑वासः , मूर॑ऽदेवाः , ऋ॒दं॒तु॒ , मा , ते , दृ॒श॒न् , सूर्यं॑ , उ॒त्ऽचरं॑तं ॥
प्रति॑ चक्ष्व॒ वि च॒क्ष्वेंद्र॑श्च सोम जागृतं । रक्षो॑भ्यो व॒धम॑स्यतम॒शनिं॑ यातु॒मद्भ्यः॑ ॥
प्रति॑ , च॒क्ष्व॒ , वि , च॒क्ष्व॒ , इंद्रः॑ , च॒ , सो॒म॒ , जा॒गृ॒तं॒ । रक्षः॑ऽभ्यः , व॒धं , अ॒स्य॒तं॒ , अ॒शनिं॑ , या॒तु॒मत्ऽभ्यः॑ ॥
[१] माचिदन्यदिति चतुस्त्रिंशदृचस्यसूक्तस्यआद्ययोर्द्वयोः काण्वः प्रगाथऋषिः शिष्टानांकाण्वौमेधातिथिमेध्यातिथीऋषी स्तुहिस्तुहीत्यादि चतसृणांप्लायोंगिरा संगऋषिः अंत्यायाआंगिरसीशश्वतीऋषिका इंद्रोदेवतास्तुहिस्तुहीत्यादिपंचानामासंगोदेवताबृहती द्वितीयासतोबृहती अंत्येद्वेत्रिष्टुभौ | (काण्वः प्रगाथइत्यत्रत्यः प्रगाथोवस्तुतोघौरः सन भ्रातुःकण्वस्यपुत्रतांगतइतीतिहासः श्रूयते) |
मा चि॑द॒न्यद्वि शं॑सत॒ सखा॑यो॒ मा रि॑षण्यत । इंद्र॒मित्स्तो॑ता॒ वृष॑णं॒ सचा॑ सु॒ते मुहु॑रु॒क्था च॑ शंसत ॥
मा , चि॒त् , अ॒न्यत् , वि , शं॒स॒त॒ , सखा॑यः , मा , रि॒ष॒ण्य॒त॒ । इंद्रं॑ , इत् , स्तो॒त॒ , वृष॑णं , सचा॑ , सु॒ते , मुहुः॑ , उ॒क्था , च॒ , शं॒स॒त॒ ॥
अ॒व॒क्र॒क्षिणं॑ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सहं॑ । वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विनं॑ ॥
अ॒व॒ऽक्र॒क्षिणं॑ , वृ॒ष॒भं , य॒था॒ , अ॒जुरं॑ , गां , न , च॒र्ष॒णि॒ऽसहं॑ । वि॒ऽद्वेष॑णं , सं॒ऽवन॑ना , उ॒भ॒यं॒ऽक॒रं , मंहि॑ष्ठं , उ॒भ॒या॒विनं॑ ॥
यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हवं॑त ऊ॒तये॑ । अ॒स्माकं॒ ब्रह्मे॒दमिं॑द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नं ॥
यत् , चि॒त् , हि , त्वा॒ , जनाः॑ , इ॒मे , नाना॑ , हवं॑ते , ऊ॒तये॑ । अ॒स्माकं॑ , ब्रह्म॑ , इ॒दं , इं॒द्र॒ , भू॒तु॒ , ते॒ , अहा॑ , विश्वा॑ , च॒ , वर्ध॑नं ॥
वि त॑र्तूर्यंते मघवन्विप॒श्चितो॒ऽर्यो विपो॒ जना॑नां । उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥
वि , त॒र्तू॒र्यं॒ते॒ , म॒घ॒ऽव॒न् , वि॒पः॒ऽचितः॑ , अ॒र्यः , विपः॑ , जना॑नां । उप॑ , क्र॒म॒स्व॒ , पु॒रु॒ऽरूपं॑ , आ , भ॒र॒ , वाजं॑ , नेदि॑ष्ठं , ऊ॒तये॑ ॥
म॒हे च॒न त्वाम॑द्रिवः॒ परा॑ शु॒ल्काय॑ देयां । न स॒हस्रा॑य॒ नायुता॑य वज्रिवो॒ न श॒ताय॑ शतामघ ॥
म॒हे , च॒न , त्वां , अ॒द्रि॒ऽवः॒ , परा॑ , शु॒ल्काय॑ , दे॒यां॒ । न , स॒हस्रा॑य , न , अ॒युता॑य , व॒ज्रि॒ऽवः॒ , न , श॒ताय॑ , श॒त॒ऽम॒घ॒ ॥
वस्याँ॑ इंद्रासि मे पि॒तुरु॒त भ्रातु॒रभुं॑जतः । मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से ॥
वस्या॑न् , इं॒द्र॒ , अ॒सि॒ , मे॒ , पि॒तुः , उ॒त , भ्रातुः॑ , अभुं॑जतः । मा॒ता , च॒ , मे॒ , छ॒द॒य॒थः॒ , स॒मा , व॒सो॒ इति॑ , व॒सु॒ऽत्व॒नाय॑ , राध॑से ॥
क्वे॑यथ॒ क्वेद॑सि पुरु॒त्रा चि॒द्धि ते॒ मनः॑ । अल॑र्षि युध्म खजकृत्पुरंदर॒ प्र गा॑य॒त्रा अ॑गासिषुः ॥
क्व॑ , इ॒य॒थ॒ , क्व॑ , इत् , अ॒सि॒ , पु॒रु॒ऽत्रा , चि॒त् , हि , ते॒ , मनः॑ । अल॑र्षि , यु॒ध्म॒ , ख॒ज॒ऽकृ॒त् , पु॒रं॒ऽद॒र॒ , प्र , गा॒य॒त्राः , अ॒गा॒सि॒षुः॒ ॥
प्रास्मै॑ गाय॒त्रम॑र्चत वा॒वातु॒र्यः पु॑रंद॒रः । याभिः॑ का॒ण्वस्योप॑ ब॒र्हिरा॒सदं॒ यास॑द्व॒ज्री भि॒नत्पुरः॑ ॥
प्र , अ॒स्मै॒ , गा॒य॒त्रं , अ॒र्च॒त॒ , व॒वातुः॑ , यः , पु॒रं॒ऽद॒रः । याभिः॑ , का॒ण्वस्य॑ , उप॑ , ब॒र्हिः , आ॒ऽसदं॑ , यास॑त् , व॒ज्री , भि॒नत् , पुरः॑ ॥
ये ते॒ संति॑ दश॒ग्विनः॑ श॒तिनो॒ ये स॑ह॒स्रिणः॑ । अश्वा॑सो॒ ये ते॒ वृष॑णो रघु॒द्रुव॒स्तेभि॑र्न॒स्तूय॒मा ग॑हि ॥
ये , ते॒ , संति॑ , द॒श॒ऽग्विनः॑ , श॒तिनः॑ , ये , स॒ह॒स्रिणः॑ । अश्वा॑सः , ये , ते॒ , वृष॑णः , र॒घु॒ऽद्रुवः॑ , तेभिः॑ , नः॒ , तूयं॑ , आ , ग॒हि॒ ॥
आ त्व१॒॑द्य स॑ब॒र्दुघां॑ हु॒वे गा॑य॒त्रवे॑पसं । इंद्रं॑ धे॒नुं सु॒दुघा॒मन्या॒मिष॑मु॒रुधा॑रामरं॒कृतं॑ ॥
आ , तु , अ॒द्य , स॒बः॒ऽदुघां॑ , हु॒वे , गा॒य॒त्रऽवे॑पसं । इंद्रं॑ , धे॒नुं , सु॒ऽदुघां॑ , अन्यां॑ , इषं॑ , उ॒रुऽधा॑रां , अ॒रं॒ऽकृतं॑ ॥
यत्तु॒दत्सूर॒ एत॑शं वं॒कू वात॑स्य प॒र्णिना॑ । वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तुः॒ त्सर॑द्गंध॒र्वमस्तृ॑तं ॥
यत् , तु॒दत् , सूरः॑ , एत॑शं , वं॒कू इति॑ , वात॑स्य , प॒र्णिना॑ । वह॑त् , कुत्सं॑ , आ॒र्जु॒ने॒यं , श॒तऽक्र॑तुः , त्सर॑त् , गं॒ध॒र्वं , अस्तृ॑तं ॥
य ऋ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ । संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ॥
यः , ऋ॒ते , चि॒त् , अ॒भि॒ऽश्रिषः॑ , पु॒रा , ज॒त्रुऽभ्यः॑ , आ॒ऽतृदः॑ । संऽधा॑ता , सं॒ऽधिं , म॒घऽवा॑ , पु॒रु॒ऽवसुः॑ , इष्क॑र्ता , विऽह्रु॑तं , पुन॒रिति॑ ॥
मा भू॑म॒ निष्ट्या॑ इ॒वेंद्र॒ त्वदर॑णा इव । वना॑नि॒ न प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा॑सो अमन्महि ॥
मा , भू॒म॒ , निष्ट्याः॑ऽइव , इंद्र॑ , त्वत् , अर॑णाःऽइव । वना॑नि , न , प्र॒ऽज॒हि॒तानि॑ , अ॒द्रि॒ऽवः॒ , दु॒रोषा॑सः , अ॒म॒न्म॒हि॒ ॥
अम॑न्म॒हीद॑ना॒शवो॑ऽनु॒ग्रास॑श्च वृत्रहन् । स॒कृत्सु ते॑ मह॒ता शू॑र॒ राध॑सा॒ अनु॒ स्तोमं॑ मुदीमहि ॥
अम॑न्महि , इत् , अ॒ना॒शवः॑ , अ॒नु॒ग्रासः॑ , च॒ , वृ॒त्र॒ऽह॒न् । स॒कृत् , सु , ते॒ , म॒ह॒ता , शू॒र॒ , राध॑सा , अनु॑ , स्तोमं॑ , मु॒दी॒म॒हि॒ ॥
यदि॒ स्तोमं॒ मम॒ श्रव॑द॒स्माक॒मिंद्र॒मिंद॑वः । ति॒रः प॒वित्रं॑ ससृ॒वांस॑ आ॒शवो॒ मंदं॑तु तुग्र्या॒वृधः॑ ॥
यदि॑ , स्तोमं॑ , मम॑ , श्रव॑त् , अ॒स्माकं॑ , इंद्रं॑ , इंद॑वः । ति॒रः , प॒वित्रं॑ , स॒सृ॒ऽवांसः॑ , आ॒शवः॑ , मंदं॑तु , तु॒ग्र्य॒ऽवृधः॑ ॥
आ त्व१॒॑द्य स॒धस्तु॑तिं वा॒वातुः॒ सख्यु॒रा ग॑हि । उप॑स्तुतिर्म॒घोनां॒ प्र त्वा॑व॒त्वधा॑ ते वश्मि सुष्टु॒तिं ॥
आ , तु , अ॒द्य , स॒धऽस्तु॑तिं , व॒वातुः॑ , सख्युः॑ , आ , ग॒हि॒ । उप॑ऽस्तुतिः , म॒घोनां॑ , प्र , त्वा॒ , अ॒व॒तु॒ , अध॑ , ते॒ , व॒श्मि॒ , सु॒ऽस्तु॒तिं ॥
सोता॒ हि सोम॒मद्रि॑भि॒रेमे॑नम॒प्सु धा॑वत । ग॒व्या वस्त्रे॑व वा॒सयं॑त॒ इन्नरो॒ निर्धु॑क्षन्व॒क्षणा॑भ्यः ॥
सोत॑ , हि , सोमं॑ , अद्रि॑ऽभिः , आ , ईं॒ , ए॒नं॒ , अ॒प्ऽसु , धा॒व॒त॒ । ग॒व्या , वस्त्रा॑ऽइव , वा॒सयं॑तः , इत् , नरः॑ , निः , धु॒क्ष॒न् , व॒क्षणा॑भ्यः ॥
अध॒ ज्मो अध॑ वा दि॒वो बृ॑ह॒तो रो॑च॒नादधि॑ । अ॒या व॑र्धस्व त॒न्वा॑ गि॒रा ममा जा॒ता सु॑क्रतो पृण ॥
अध॑ , ज्मः , अध॑ , वा॒ , दि॒वः , बृ॒ह॒तः , रो॒च॒नात् , अधि॑ । अ॒या , व॒र्ध॒स्व॒ , त॒न्वा॑ , गि॒रा , मम॑ , आ , जा॒ता , सु॒क्र॒तो॒ इति॑ सुऽक्रतो , पृ॒ण॒ ॥
इंद्रा॑य॒ सु म॒दिंत॑मं॒ सोमं॑ सोता॒ वरे॑ण्यं । श॒क्र ए॑णं पीपय॒द्विश्व॑या धि॒या हि॑न्वा॒नं न वा॑ज॒युं ॥
इंद्रा॑य , सु , म॒दिन्ऽत॑मं , सोमं॑ , सो॒त॒ , वरे॑ण्यं । श॒क्रः , ए॒नं॒ , पी॒प॒य॒त् , विश्व॑या , धि॒या , हि॒न्वा॒नं , न , वा॒ज॒ऽयुं ॥
मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच॑न्न॒हं गि॒रा । भूर्णिं॑ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा॑नं॒ न या॑चिषत् ॥
मा , त्वा॒ , सोम॑स्य , गल्द॑या , सदा॑ , याच॑न् , अ॒हं , गि॒रा । भूर्णिं॑ , मृ॒गं , न , सव॑नेषु , चु॒क्रु॒धं॒ , कः , ईशा॑नं , न , या॒चि॒ष॒त् ॥
मदे॑नेषि॒तं मद॑मु॒ग्रमु॒ग्रेण॒ शव॑सा । विश्वे॑षां तरु॒तारं॑ मद॒च्युतं॒ मदे॒ हि ष्मा॒ ददा॑ति नः ॥
मदे॑न , इ॒षि॒तं , मदं॑ , उ॒ग्रं , उ॒ग्रेण॑ , शव॑सा । विश्वे॑षां , त॒रु॒तारं॑ , म॒द॒ऽच्युतं॑ , मदे॑ , हि , स्म॒ , ददा॑ति , नः॒ ॥
शेवा॑रे॒ वार्या॑ पु॒रु दे॒वो मर्ता॑य दा॒शुषे॑ । स सु॑न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू॑र्तो अरिष्टु॒तः ॥
शेवा॑रे , वार्या॑ , पु॒रु , दे॒वः , मर्ता॑य , दा॒शुषे॑ । सः , सु॒न्व॒ते , च॒ , स्तु॒व॒ते , च॒ , रा॒स॒ते॒ , वि॒श्वऽगू॑र्तः , अ॒रि॒ऽस्तु॒तः ॥
एंद्र॑ याहि॒ मत्स्व॑ चि॒त्रेण॑ देव॒ राध॑सा । सरो॒ न प्रा॑स्यु॒दरं॒ सपी॑तिभि॒रा सोमे॑भिरु॒रु स्फि॒रं ॥
आ , इं॒द्र॒ , या॒हि॒ , मत्स्व॑ , चि॒त्रेण॑ , दे॒व॒ , राध॑सा । सरः॑ , न , प्रा॒सि॒ , उ॒दरं॑ , सपी॑तिऽभिः , आ , सोमे॑भिः , उ॒रु , स्फि॒रं ॥
आ त्वा॑ स॒हस्र॒मा श॒तं यु॒क्ता रथे॑ हिर॒ण्यये॑ । ब्र॒ह्म॒युजो॒ हर॑य इंद्र के॒शिनो॒ वहं॑तु॒ सोम॑पीतये ॥
आ , त्वा॒ , स॒हस्रं॑ , आ , श॒तं , यु॒क्ताः , रथे॑ , हि॒र॒ण्यये॑ । ब्र॒ह्म॒ऽयुजः॑ , हर॑यः , इं॒द्र॒ , के॒शिनः॑ , वहं॑तु , सोम॑ऽपीतये ॥
आ त्वा॒ रथे॑ हिर॒ण्यये॒ हरी॑ म॒यूर॑शेप्या । शि॒ति॒पृ॒ष्ठा व॑हतां॒ मध्वो॒ अंध॑सो वि॒वक्ष॑णस्य पी॒तये॑ ॥
आ , त्वा॒ , रथे॑ , हि॒र॒ण्यये॑ , हरी॒ इति॑ , म॒यूर॑ऽशेप्या । शि॒ति॒ऽपृ॒ष्ठा , व॒ह॒तां॒ , मध्वः॑ , अंध॑सः , वि॒वक्ष॑णस्य , पी॒तये॑ ॥
पिबा॒ त्व१॒॑स्य गि॑र्वणः सु॒तस्य॑ पूर्व॒पा इ॑व । परि॑ष्कृतस्य र॒सिन॑ इ॒यमा॑सु॒तिश्चारु॒र्मदा॑य पत्यते ॥
पिब॑ , तु , अ॒स्य , गि॒र्व॒णः॒ , सु॒तस्य॑ , पू॒र्व॒पाःऽइ॑व । परि॑ऽकृतस्य , र॒सिनः॑ , इ॒यं , आ॒ऽसु॒तिः , चारुः॑ , मदा॑य , प॒त्य॒ते॒ ॥
य एको॒ अस्ति॑ दं॒सना॑ म॒हाँ उ॒ग्रो अ॒भि व्र॒तैः । गम॒त्स शि॒प्री न स यो॑ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति ॥
यः , एकः॑ , अस्ति॑ , दं॒सना॑ , म॒हान् , उ॒ग्रः , अ॒भि , व्र॒तैः । गम॑त् , सः , शि॒प्री , न , सः , यो॒ष॒त् , आ , ग॒म॒त् , हवं॑ , न , परि॑ , व॒र्ज॒ति॒ ॥
त्वं पुरं॑ चरि॒ष्ण्वं॑ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् । त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदिं॑द्र॒ हव्यो॒ भुवः॑ ॥
त्वं , पुरं॑ , च॒रि॒ष्ण्वं॑ , व॒धैः , शुष्ण॑स्य , सं , पि॒ण॒क् । त्वं , भाः , अनु॑ , च॒रः॒ , अध॑ , द्वि॒ता , यत् , इं॒द्र॒ , हव्यः॑ , भुवः॑ ॥
मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः । मम॑ प्रपि॒त्वे अ॑पिशर्व॒रे व॑स॒वा स्तोमा॑सो अवृत्सत ॥
मम॑ , त्वा॒ , सूरे॑ , उत्ऽइ॑ते , मम॑ , म॒ध्यंदि॑ने , दि॒वः । मम॑ , प्र॒ऽपि॒त्वे , अ॒पि॒ऽश॒र्व॒रे , व॒सो॒ इति॑ , आ , स्तोमा॑सः , अ॒वृ॒त्स॒त॒ ॥
स्तु॒हि स्तु॒हीदे॒ते घा॑ ते॒ मंहि॑ष्ठासो म॒घोनां॑ । निं॒दि॒ताश्वः॑ प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ॥
स्तु॒हि , स्तु॒हि , इत् , ए॒ते , घ॒ , ते॒ , मंहि॑ष्ठासः , म॒घोनां॑ । निं॒दि॒तऽअ॑श्वः , प्र॒ऽप॒थी , प॒र॒म॒ऽज्याः , म॒घस्य॑ , मे॒ध्य॒ऽअ॒ति॒थे॒ ॥
आ यदश्वा॒न्वन॑न्वतः श्र॒द्धया॒हं रथे॑ रु॒हं । उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो अस्ति॒ याद्वः॑ प॒शुः ॥
आ , यत् , अश्वा॑न् , वन॑न्ऽवतः , श्र॒द्धया॑ , अ॒हं , रथे॑ , रु॒हं । उ॒त , वा॒मस्य॑ , वसु॑नः , चि॒के॒त॒ति॒ , यः , अस्ति॑ , याद्वः॑ , प॒शुः ॥
य ऋ॒ज्रा मह्यं॑ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया॑ । ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ सौभ॑गासं॒गस्य॑ स्व॒नद्र॑थः ॥
यः , ऋ॒ज्रा , मह्यं॑ , म॒म॒हे , स॒ह , त्व॒चा , हि॒र॒ण्यया॑ । ए॒षः , विश्वा॑नि , अ॒भि , अ॒स्तु॒ , सौभ॑गा , आ॒ऽसं॒गस्य॑ , स्व॒नत्ऽर॑थः ॥
अध॒ प्लायो॑गि॒रति॑ दासद॒न्याना॑सं॒गो अ॑ग्ने द॒शभिः॑ स॒हस्रैः॑ । अधो॒क्षणो॒ दश॒ मह्यं॒ रुशं॑तो न॒ळा इ॑व॒ सर॑सो॒ निर॑तिष्ठन् ॥
अध॑ , प्लायो॑गिः , अति॑ , दा॒स॒त् , अ॒न्यान् , आ॒ऽसं॒गः , अ॒ग्ने॒ , द॒शऽभिः॑ , स॒हस्रैः॑ । अध॑ , उ॒क्षणः॑ , दश॑ , मह्यं॑ , रुशं॑तः , न॒ळाःऽइ॑व , सर॑सः , निः , अ॒ति॒ष्ठ॒न् ॥
अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता॑दन॒स्थ ऊ॒रुर॑व॒रंब॑माणः । शश्व॑ती॒ नार्य॑भि॒चक्ष्या॑ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ॥
अनु॑ , अ॒स्य॒ , स्थू॒रं , द॒दृ॒शे॒ , पु॒रस्ता॑त् , अ॒न॒स्थः , ऊ॒रुः , अ॒व॒ऽरंब॑माणः । शश्व॑ती , नारी॑ , अ॒भि॒ऽचक्ष्य॑ , आ॒ह॒ , सुऽभ॑द्रं , अ॒र्य॒ , भोज॑नं , बि॒भ॒र्षि॒ ॥
[२] इदंवसोसुतमिति द्विचत्वारिंशदृचस्य सूक्तस्य मेधातिथिरांगिरसः प्रियमेधश्चेत्युभावृषी अंत्ययोर्द्वयोःकाण्वोमेधातिथिरृषिरिंद्रः | अंत्ययोर्विभिंदुर्गायत्री अष्टाविंश्यनुष्टुप् | (विभिदोर्दानस्तुतिः) |
इ॒दं व॑सो सु॒तमंधः॒ पिबा॒ सुपू॑र्णमु॒दरं॑ । अना॑भयिन्ररि॒मा ते॑ ॥
इ॒दं , व॒सो॒ इति॑ , सु॒तं , अंधः॑ , पिब॑ , सुऽपू॑र्णं , उ॒दरं॑ । अना॑भयिन् , र॒रि॒म , ते॒ ॥
नृभि॑र्धू॒तः सु॒तो अश्नै॒रव्यो॒ वारैः॒ परि॑पूतः । अश्वो॒ न नि॒क्तो न॒दीषु॑ ॥
नृऽभिः॑ , धू॒तः , सु॒तः , अश्नैः॑ , अव्यः॑ , वारैः॑ , परि॑ऽपूतः । अश्वः॑ , न , नि॒क्तः , न॒दीषु॑ ॥
तं ते॒ यवं॒ यथा॒ गोभिः॑ स्वा॒दुम॑कर्म श्री॒णंतः॑ । इंद्र॑ त्वा॒स्मिंत्स॑ध॒मादे॑ ॥
तं , ते॒ , यवं॑ , यथा॑ , गोभिः॑ , स्वा॒दुं , अ॒क॒र्म॒ , श्री॒णंतः॑ । इंद्र॑ , त्वा॒ , अ॒स्मिन् , स॒ध॒ऽमादे॑ ॥
इंद्र॒ इत्सो॑म॒पा एक॒ इंद्रः॑ सुत॒पा वि॒श्वायुः॑ । अं॒तर्दे॒वान्मर्त्याँ॑श्च ॥
इंद्र॑ , इत् , सो॒म॒ऽपाः , एकः॑ , इंद्रः॑ , सु॒त॒ऽपाः , वि॒श्वऽआ॑युः । अं॒तः , दे॒वान् , मर्त्या॑न् , च॒ ॥
न यं शु॒क्रो न दुरा॑शी॒र्न तृ॒प्रा उ॑रु॒व्यच॑सं । अ॒प॒स्पृ॒ण्व॒ते सु॒हार्दं॑ ॥
न , यं , शु॒क्रः , न , दुःऽआ॑शीः , न , तृ॒प्राः , उ॒रु॒ऽव्यच॑सं । अ॒प॒ऽस्पृ॒ण्व॒ते , सु॒ऽहार्दं॑ ॥
गोभि॒र्यदी॑म॒न्ये अ॒स्मन्मृ॒गं न व्रा मृ॒गयं॑ते । अ॒भि॒त्सरं॑ति धे॒नुभिः॑ ॥
गोभिः॑ , यत् , ईं॒ , अ॒न्ये , अ॒स्मत् , मृ॒गं , न , व्राः , मृ॒गयं॑ते । अ॒भि॒ऽत्सरं॑ति , धे॒नुऽभिः॑ ॥
त्रय॒ इंद्र॑स्य॒ सोमाः॑ सु॒तासः॑ संतु दे॒वस्य॑ । स्वे क्षये॑ सुत॒पाव्नः॑ ॥
त्रयः॑ , इंद्र॑स्य , सोमाः॑ , सु॒तासः॑ , सं॒तु॒ , दे॒वस्य॑ । स्वे , क्षये॑ , सु॒त॒ऽपाव्नः॑ ॥
त्रयः॒ कोशा॑सः श्चोतंति ति॒स्रश्च॒म्व१॒॑ः सुपू॑र्णाः । स॒मा॒ने अधि॒ भार्म॑न् ॥
त्रयः॑ , कोशा॑सः , श्चो॒तं॒ति॒ , ति॒स्रः , च॒म्वः॑ , सुऽपू॑र्णाः । स॒मा॒ने , अधि॑ , भार्म॑न् ॥
शुचि॑रसि पुरुनिः॒ष्ठाः क्षी॒रैर्म॑ध्य॒त आशी॑र्तः । द॒ध्ना मंदि॑ष्ठः॒ शूर॑स्य ॥
शुचिः॑ , अ॒सि॒ , पु॒रु॒निः॒ऽस्थाः , क्षी॒रैः , म॒ध्य॒तः , आऽशी॑र्तः । द॒ध्ना , मंदि॑ष्ठः , शूर॑स्य ॥
इ॒मे त॑ इंद्र॒ सोमा॑स्ती॒व्रा अ॒स्मे सु॒तासः॑ । शु॒क्रा आ॒शिरं॑ याचंते ॥
इ॒मे , ते॒ , इं॒द्र॒ , सोमाः॑ , ती॒व्राः , अ॒स्मे इति॑ , सु॒तासः॑ । शु॒क्राः , आ॒ऽशिरं॑ , या॒चं॒ते॒ ॥
ताँ आ॒शिरं॑ पुरो॒ळाश॒मिंद्रे॒मं सोमं॑ श्रीणीहि । रे॒वंतं॒ हि त्वा॑ शृ॒णोमि॑ ॥
तान् , आ॒ऽशिरं॑ , पु॒रो॒ळाशं॑ , इंद्र॑ , इ॒मं , सोमं॑ , श्री॒णी॒हि॒ । रे॒वंतं॑ , हि , त्वा॒ , शृ॒णोमि॑ ॥
हृ॒त्सु पी॒तासो॑ युध्यंते दु॒र्मदा॑सो॒ न सुरा॑यां । ऊध॒र्न न॒ग्ना ज॑रंते ॥
हृ॒त्ऽसु , पी॒तासः॑ , यु॒ध्यं॒ते॒ , दुः॒ऽमदा॑सः , न , सुरा॑यां । ऊधः॑ , न , न॒ग्नाः , ज॒रं॒ते॒ ॥
रे॒वाँ इद्रे॒वतः॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ । प्रेदु॑ हरिवः श्रु॒तस्य॑ ॥
रे॒वान् , इत् , रे॒वतः॑ , स्तो॒ता , स्यात् , त्वाऽव॑तः , म॒घोनः॑ । प्र , इत् , ऊँ॒ इति॑ , ह॒रि॒ऽवः॒ , श्रु॒तस्य॑ ॥
उ॒क्थं च॒न श॒स्यमा॑न॒मगो॑र॒रिरा चि॑केत । न गा॑य॒त्रं गी॒यमा॑नं ॥
उ॒क्थं , च॒न , श॒स्यमा॑नं , अगोः॑ , अ॒रिः , आ , चि॒के॒त॒ । न , गा॒य॒त्रं , गी॒यमा॑नं ॥
मा न॑ इंद्र पीय॒त्नवे॒ मा शर्ध॑ते॒ परा॑ दाः । शिक्षा॑ शचीवः॒ शची॑भिः ॥
मा , नः॒ , इं॒द्र॒ , पी॒य॒त्नवे॑ , मा , शर्ध॑ते , परा॑ , दाः॒ । शिक्ष॑ , श॒ची॒ऽवः॒ , शची॑भिः ॥
व॒यमु॑ त्वा त॒दिद॑र्था॒ इंद्र॑ त्वा॒यंतः॒ सखा॑यः । कण्वा॑ उ॒क्थेभि॑र्जरंते ॥
व॒यं , ऊँ॒ इति॑ , त्वा॒ , त॒दित्ऽअ॑र्थाः , इंद्र॑ , त्वा॒ऽयंतः॑ , सखा॑यः । कण्वाः॑ , उ॒क्थेभिः॑ , ज॒रं॒ते॒ ॥
न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ । तवेदु॒ स्तोमं॑ चिकेत ॥
न , घ॒ , ईं॒ , अ॒न्यत् , आ , प॒प॒न॒ , वज्रि॑न् , अ॒पसः॑ , नवि॑ष्टौ । तव॑ , इत् , ऊँ॒ इति॑ , स्तोमं॑ , चि॒के॒त॒ ॥
इ॒च्छंति॑ दे॒वाः सु॒न्वंतं॒ न स्वप्ना॑य स्पृहयंति । यंति॑ प्र॒माद॒मतं॑द्राः ॥
इ॒च्छंति॑ , दे॒वाः , सु॒न्वंतं॑ , न , स्वप्ना॑य , स्पृ॒ह॒यं॒ति॒ । यंति॑ , प्र॒ऽमादं॑ , अतं॑द्राः ॥
ओ षु प्र या॑हि॒ वाजे॑भि॒र्मा हृ॑णीथा अ॒भ्य१॒॑स्मान् । म॒हाँ इ॑व॒ युव॑जानिः ॥
ओ इति॑ , सु , प्र , या॒हि॒ , वाजे॑भिः , मा , हृ॒णी॒थाः॒ , अ॒भि , अ॒स्मान् । म॒हान्ऽइ॑व , युव॑ऽजानिः ॥
मो ष्व१॒॑द्य दु॒र्हणा॑वांत्सा॒यं क॑रदा॒रे अ॒स्मत् । अ॒श्री॒र इ॑व॒ जामा॑ता ॥
मो इति॑ , सु , अ॒द्य , दुः॒ऽहना॑वान् , सा॒यं , क॒र॒त् , आ॒रे , अ॒स्मत् । अ॒श्री॒रःऽइ॑व , जामा॑ता ॥
वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिं । त्रि॒षु जा॒तस्य॒ मनां॑सि ॥
वि॒द्म , हि , अ॒स्य॒ , वी॒रस्य॑ , भू॒रि॒ऽदावा॑रीं , सु॒ऽम॒तिं । त्रि॒षु , जा॒तस्य॑ , मनां॑सि ॥
आ तू षिं॑च॒ कण्व॑मंतं॒ न घा॑ विद्म शवसा॒नात् । य॒शस्त॑रं श॒तमू॑तेः ॥
आ , तु , सिं॒च॒ , कण्व॑ऽमंतं , न , घ॒ , वि॒द्म॒ , श॒व॒सा॒नात् । य॒शःऽत॑रं , श॒तंऽऊ॑तेः ॥
ज्येष्ठे॑न सोत॒रिंद्रा॑य॒ सोमं॑ वी॒राय॑ श॒क्राय॑ । भरा॒ पिब॒न्नर्या॑य ॥
ज्येष्ठे॑न , सो॒तः॒ , इंद्रा॑य , सोमं॑ , वी॒राय॑ , श॒क्राय॑ । भर॑ , पिब॑त् , नर्या॑य ॥
यो वेदि॑ष्ठो अव्य॒थिष्वश्वा॑वंतं जरि॒तृभ्यः॑ । वाजं॑ स्तो॒तृभ्यो॒ गोमं॑तं ॥
यः , वेदि॑ष्ठः , अ॒व्य॒थिषु॑ , अश्व॑ऽवंतं , ज॒रि॒तृऽभ्यः॑ । वाजं॑ , स्तो॒तृऽभ्यः॑ , गोऽमं॑तं ॥
पन्यं॑पन्य॒मित्सो॑तार॒ आ धा॑वत॒ मद्या॑य । सोमं॑ वी॒राय॒ शूरा॑य ॥
पन्यं॑ऽपन्यं , इत् , सो॒ता॒रः॒ , आ , धा॒व॒त॒ , मद्या॑य । सोमं॑ , वी॒राय॑ , शूरा॑य ॥
पाता॑ वृत्र॒हा सु॒तमा घा॑ गम॒न्नारे अ॒स्मत् । नि य॑मते श॒तमू॑तिः ॥
पाता॑ , वृ॒त्र॒ऽहा , सु॒तं , आ , घ॒ , ग॒म॒त् , न , आ॒रे , अ॒स्मत् । नि , य॒म॒ते॒ , श॒तंऽऊ॑तिः ॥
एह हरी॑ ब्रह्म॒युजा॑ श॒ग्मा व॑क्षतः॒ सखा॑यं । गी॒र्भिः श्रु॒तं गिर्व॑णसं ॥
आ , इ॒ह , हरी॒ इति॑ , ब्र॒ह्म॒ऽयुजा॑ , श॒ग्मा , व॒क्ष॒तः॒ , सखा॑यं । गीः॒ऽभिः , श्रु॒तं , गिर्व॑णसं ॥
स्वा॒दवः॒ सोमा॒ आ या॑हि श्री॒ताः सोमा॒ आ या॑हि । शिप्रि॒न्नृषी॑वः॒ शची॑वो॒ नायमच्छा॑ सध॒मादं॑ ॥
स्वा॒दवः॑ , सोमाः॑ , आ , या॒हि॒ , श्री॒ताः , सोमाः॑ , आ , या॒हि॒ । शिप्रि॑न् , ऋषि॑ऽवः , शची॑ऽवः , न , अ॒यं , अच्छ॑ , स॒ध॒ऽमादं॑ ॥
स्तुत॑श्च॒ यास्त्वा॒ वर्धं॑ति म॒हे राध॑से नृ॒म्णाय॑ । इंद्र॑ का॒रिणं॑ वृ॒धंतः॑ ॥
स्तुतः॑ , च॒ , याः , त्वा॒ , वर्धं॑ति , म॒हे , राध॑से , नृ॒म्णाय॑ । इंद्र॑ , का॒रिणं॑ , वृ॒धंतः॑ ॥
गिर॑श्च॒ यास्ते॑ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑ । स॒त्रा द॑धि॒रे शवां॑सि ॥
गिरः॑ , च॒ , याः , ते॒ , गि॒र्वा॒हः॒ , उ॒क्था , च॒ , तुभ्यं॑ , तानि॑ । स॒त्रा , द॒धि॒रे , शवां॑सि ॥
ए॒वेदे॒ष तु॑विकू॒र्मिर्वाजाँ॒ एको॒ वज्र॑हस्तः । स॒नादमृ॑क्तो दयते ॥
ए॒व , इत् , ए॒षः , तु॒वि॒ऽकू॒र्मिः , वाजा॑न् , एकः॑ , वज्र॑ऽहस्तः । स॒नात् , अमृ॑क्तः , द॒य॒ते॒ ॥
हंता॑ वृ॒त्रं दक्षि॑णे॒नेंद्रः॑ पु॒रू पु॑रुहू॒तः । म॒हान्म॒हीभिः॒ शची॑भिः ॥
हंत॑ , वृ॒त्रं , दक्षि॑णेन , इंद्रः॑ , पु॒रु , पु॒रु॒ऽहू॒तः । म॒हान् , म॒हीभिः॑ , शची॑भिः ॥
यस्मि॒न्विश्वा॑श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां॑सि च । अनु॒ घेन्मं॒दी म॒घोनः॑ ॥
यस्मि॑न् , विश्वाः॑ , च॒र्ष॒णयः॑ , उ॒त , च्यौ॒त्ना , ज्रयां॑सि , च॒ । अनु॑ , घ॒ , इत् , मं॒दी , म॒घोनः॑ ॥
ए॒ष ए॒तानि॑ चका॒रेंद्रो॒ विश्वा॒ योऽति॑ शृ॒ण्वे । वा॒ज॒दावा॑ म॒घोनां॑ ॥
ए॒षः , ए॒तानि॑ , च॒का॒र॒ , इंद्रः॑ , विश्वा॑ , यः , अति॑ , शृ॒ण्वे । वा॒ज॒ऽदावा॑ , म॒घोनां॑ ॥
प्रभ॑र्ता॒ रथं॑ ग॒व्यंत॑मपा॒काच्चि॒द्यमव॑ति । इ॒नो वसु॒ स हि वोळ्हा॑ ॥
प्रऽभ॑र्ता , रथं॑ , ग॒व्यंतं॑ , अ॒पा॒कात् , चि॒त् , यं , अव॑ति । इ॒नः , वसु॑ , सः , हि , वोळ्हा॑ ॥
सनि॑ता॒ विप्रो॒ अर्व॑द्भि॒र्हंता॑ वृ॒त्रं नृभिः॒ शूरः॑ । स॒त्यो॑ऽवि॒ता वि॒धंतं॑ ॥
सनि॑ता , विप्रः॑ , अर्व॑त्ऽभिः , हंता॑ , वृ॒त्रं , नृऽभिः॑ , शूरः॑ । स॒त्यः , अ॒वि॒ता , वि॒धंतं॑ ॥
यज॑ध्वैनं प्रियमेधा॒ इंद्रं॑ स॒त्राचा॒ मन॑सा । यो भूत्सोमैः॑ स॒त्यम॑द्वा ॥
यज॑ध्व , ए॒नं॒ , प्रि॒य॒ऽमे॒धाः॒ , इंद्रं॑ , स॒त्राचा॑ , मन॑सा । यः , भूत् , सोमैः॑ , स॒त्यऽम॑द्वा ॥
गा॒थश्र॑वसं॒ सत्प॑तिं॒ श्रव॑स्कामं पुरु॒त्मानं॑ । कण्वा॑सो गा॒त वा॒जिनं॑ ॥
गा॒थऽश्र॑वसं , सत्ऽप॑तिं , श्रवः॑ऽकामं , पु॒रु॒ऽत्मानं॑ । कण्वा॑सः , गा॒त , वा॒जिनं॑ ॥
य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्यः॒ शची॑वान् । ये अ॑स्मि॒न्काम॒मश्रि॑यन् ॥
यः , ऋ॒ते , चि॒त् , गाः , प॒देभ्यः॑ , दात् , सखा॑ , नृऽभ्यः॑ , शची॑ऽवान् । ये , अ॒स्मि॒न् , कामं॑ , अश्रि॑यन् ॥
इ॒त्था धीवं॑तमद्रिवः का॒ण्वं मेध्या॑तिथिं । मे॒षो भू॒तो॒३॒॑ऽभि यन्नयः॑ ॥
इ॒त्था , धीऽवं॑तं , अ॒द्रि॒ऽवः॒ , का॒ण्वं , मेध्य॑ऽअतिथिं । मे॒षः , भू॒तः , अ॒भि , यन् , अयः॑ ॥
शिक्षा॑ विभिंदो अस्मै च॒त्वार्य॒युता॒ दद॑त् । अ॒ष्टा प॒रः स॒हस्रा॑ ॥
शिक्ष॑ , वि॒भिं॒दो॒ इति॑ विऽभिंदो , अ॒स्मै॒ , च॒त्वारि॑ , अ॒युता॑ , दद॑त् । अ॒ष्ट , प॒रः , स॒हस्रा॑ ॥
उ॒त सु त्ये प॑यो॒वृधा॑ मा॒की रण॑स्य न॒प्त्या॑ । ज॒नि॒त्व॒नाय॑ मामहे ॥
उ॒त , सु , त्ये इति॑ , प॒यः॒ऽवृधा॑ , मा॒की इति॑ , रण॑स्य , न॒प्त्या॑ । ज॒नि॒ऽत्व॒नाय॑ , म॒म॒हे॒ ॥
[३] पिबासुतस्येति चतुर्विंशत्यृचस्य सूक्तस्य काण्वोमेध्यातिथिरिंद्रः अंत्यचतसृणांपाकस्थामा देवता प्रथमाद्येकोनविंश्यंता अयुजो बृहत्यः द्वितीयादिविंश्यंता युजः सतोबृहत्यः अंत्याश्चतस्रः क्रमेणानुष्टुब्गायत्र्यौबृहतीच |
पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इंद्र॒ गोम॑तः । आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३॒॑ऽस्माँ अ॑वंतु ते॒ धियः॑ ॥
पिब॑ , सु॒तस्य॑ , र॒सिनः॑ , मत्स्व॑ , नः॒ , इं॒द्र॒ , गोऽम॑तः । आ॒पिः , नः॒ , बो॒धि॒ , स॒ध॒ऽमाद्यः॑ , वृ॒धे , अ॒स्मान् , अ॒वं॒तु॒ , ते॒ , धियः॑ ॥
भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा नः॑ स्तर॒भिमा॑तये । अ॒स्मांचि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा नः॑ सु॒म्नेषु॑ यामय ॥
भू॒याम॑ , ते॒ , सु॒ऽम॒तौ , वा॒जिनः॑ , व॒यं , मा , नः॒ , स्तः॒ , अ॒भिऽमा॑तये । अ॒स्मान् , चि॒त्राभिः॑ , अ॒व॒ता॒त् , अ॒भिष्टि॑ऽभिः , आ , नः॒ , सु॒म्नेषु॑ , य॒म॒य॒ ॥
इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धंतु॒ या मम॑ । पा॒व॒कव॑र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥
इ॒माः , ऊँ॒ इति॑ , त्वा॒ , पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो , गिरः॑ , व॒र्धं॒तु॒ , याः , मम॑ । पा॒व॒कऽव॑र्णाः , शुच॑यः , वि॒पः॒ऽचितः॑ , अ॒भि , स्तोमैः॑ , अ॒नू॒ष॒त॒ ॥
अ॒यं स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे । स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥
अ॒यं , स॒हस्रं॑ , ऋषि॑ऽभिः , सहः॑ऽकृतः , स॒मु॒द्रःऽइ॑व , प॒प्र॒थे॒ । स॒त्यः , सः , अ॒स्य॒ , म॒हि॒मा , गृ॒णे॒ , शवः॑ , य॒ज्ञेषु॑ , वि॒प्र॒ऽराज्ये॑ ॥
इंद्र॒मिद्दे॒वता॑तय॒ इंद्रं॑ प्रय॒त्य॑ध्व॒रे । इंद्रं॑ समी॒के व॒निनो॑ हवामह॒ इंद्रं॒ धन॑स्य सा॒तये॑ ॥
इंद्रं॑ , इत् , दे॒वऽता॑तये , इंद्रं॑ , प्र॒ऽय॒ति , अ॒ध्व॒रे । इंद्रं॑ , सं॒ऽई॒के , व॒निनः॑ , ह॒वा॒म॒हे॒ , इंद्रं॑ , धन॑स्य , सा॒तये॑ ॥
इंद्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इंद्रः॒ सूर्य॑मरोचयत् । इंद्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इंद्रे॑ सुवा॒नास॒ इंद॑वः ॥
इंद्रः॑ , म॒ह्ना , रोद॑सी॒ इति॑ , प॒प्र॒थ॒त् , शवः॑ , इंद्रः॑ , सूर्यं॑ , अ॒रो॒च॒य॒त् । इंद्रे॑ , ह॒ , विश्वा॑ , भुव॑नानि , ये॒मि॒रे॒ , इंद्रे॑ , सु॒वा॒नासः॑ , इंद॑वः ॥
अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इंद्र॒ स्तोमे॑भिरा॒यवः॑ । स॒मी॒ची॒नास॑ ऋ॒भवः॒ सम॑स्वरन्रु॒द्रा गृ॑णंत॒ पूर्व्यं॑ ॥
अ॒भि , त्वा॒ , पू॒र्वऽपी॑तये , इंद्र॑ , स्तोमे॑भिः , आ॒यवः॑ । सं॒ऽई॒ची॒नासः॑ , ऋ॒भवः॑ , सं , अ॒स्व॒र॒न् , रु॒द्राः , गृ॒णं॒त॒ , पूर्व्यं॑ ॥
अ॒स्येदिंद्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि । अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवंति पू॒र्वथा॑ ॥
अ॒स्य , इत् , इंद्रः॑ , व॒वृ॒धे॒ , वृष्ण्यं॑ , शवः॑ , मदे॑ , सु॒तस्य॑ , विष्ण॑वि । अ॒द्य , तं , अ॒स्य॒ , म॒हि॒मानं॑ , आ॒यवः॑ , अनु॑ , स्तु॒वं॒ति॒ , पू॒र्वऽथा॑ ॥
तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये । येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥
तत् , त्वा॒ , या॒मि॒ , सु॒ऽवीर्यं॑ , तत् , ब्रह्म॑ , पू॒र्वऽचि॑त्तये । येन॑ , यति॑ऽभ्यः , भृग॑वे , धने॑ , हि॒ते , येन॑ , प्रस्क॑ण्वं , आवि॑थ ॥
येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदिं॑द्र॒ वृष्णि॑ ते॒ शवः॑ । स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥
येन॑ , स॒मु॒द्रं , असृ॑जः , म॒हीः , अ॒पः , तत् , इं॒द्र॒ , वृष्णि॑ , ते॒ , शवः॑ । स॒द्यः , सः , अ॒स्य॒ , म॒हि॒मा , न , सं॒ऽनशे॑ , यं , क्षो॒णीः , अ॒नु॒ऽच॒क्र॒दे ॥
श॒ग्धी न॑ इंद्र॒ यत्त्वा॑ र॒यिं यामि॑ सु॒वीर्यं॑ । श॒ग्धि वाजा॑य प्रथ॒मं सिषा॑सते श॒ग्धि स्तोमा॑य पूर्व्य ॥
श॒ग्धि , नः॒ , इं॒द्र॒ , यत् , त्वा॒ , र॒यिं , यामि॑ , सु॒ऽवीर्यं॑ । श॒ग्धि , वाजा॑य , प्र॒थ॒मं , सिसा॑सते , श॒ग्धि , स्तोमा॑य , पू॒र्व्य॒ ॥
श॒ग्धी नो॑ अ॒स्य यद्ध॑ पौ॒रमावि॑थ॒ धिय॑ इंद्र॒ सिषा॑सतः । श॒ग्धि यथा॒ रुश॑मं॒ श्याव॑कं॒ कृप॒मिंद्र॒ प्रावः॒ स्व॑र्णरं ॥
श॒ग्धि , नः॒ , अ॒स्य , यत् , ह॒ , पौ॒रं , आवि॑थ , धियः॑ , इं॒द्र॒ , सिसा॑सतः । श॒ग्धि , यथा॑ , रुश॑मं , श्याव॑कं , कृपं॑ , इंद्र॑ , प्र , आवः॑ , स्वः॑ऽनरं ॥
कन्नव्यो॑ अत॒सीनां॑ तु॒रो गृ॑णीत॒ मर्त्यः॑ । न॒ही न्व॑स्य महि॒मान॑मिंद्रि॒यं स्व॑र्गृ॒णंत॑ आन॒शुः ॥
कत् , नव्यः॑ , अ॒त॒सीनां॑ , तु॒रः , गृ॒णी॒त॒ , मर्त्यः॑ । न॒हि , नु , अ॒स्य॒ , म॒हि॒मानं॑ , इं॒द्रि॒यं , स्वः॑ , गृ॒णंतः॑ , आ॒न॒शुः ॥
कदु॑ स्तु॒वंत॑ ऋतयंत दे॒वत॒ ऋषिः॒ को विप्र॑ ओहते । क॒दा हवं॑ मघवन्निंद्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ॥
कत् , ऊँ॒ इति॑ , स्तु॒वंतः॑ , ऋ॒त॒ऽयं॒त॒ , दे॒वता॑ , ऋषिः॑ , कः , विप्रः॑ , ओ॒ह॒ते॒ । क॒दा , हवं॑ , म॒घ॒ऽव॒न् , इं॒द्र॒ , सु॒न्व॒तः , कत् , ऊँ॒ इति॑ , स्तु॒व॒तः , आ , ग॒मः॒ ॥
उदु॒ त्ये मधु॑मत्तमा॒ गिरः॒ स्तोमा॑स ईरते । स॒त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यंतो॒ रथा॑ इव ॥
उत् , ऊँ॒ इति॑ , त्ये , मधु॑मत्ऽतमाः , गिरः॑ , स्तोमा॑सः , ई॒र॒ते॒ । स॒त्रा॒ऽजितः॑ , ध॒न॒ऽसाः , अक्षि॑तऽऊतयः , वा॒ज॒ऽयंतः॑ , रथाः॑ऽइव ॥
कण्वा॑ इव॒ भृग॑वः॒ सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः । इंद्रं॒ स्तोमे॑भिर्म॒हयं॑त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ॥
कण्वाः॑ऽइव , भृग॑वः , सूर्याः॑ऽइव , विश्वं॑ , इत् , धी॒तं , आ॒न॒शुः॒ । इंद्रं॑ , स्तोमे॑भिः , म॒हयं॑तः , आ॒यवः॑ , प्रि॒यऽमे॑धासः , अ॒स्व॒र॒न् ॥
यु॒क्ष्वा हि वृ॑त्रहंतम॒ हरी॑ इंद्र परा॒वतः॑ । अ॒र्वा॒ची॒नो म॑घवं॒त्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ॥
यु॒क्ष्व , हि , वृ॒त्र॒ह॒न्ऽत॒म॒ , हरी॒ इति॑ , इं॒द्र॒ , प॒रा॒ऽवतः॑ । अ॒र्वा॒ची॒नः , म॒घ॒ऽव॒न् , सोम॑ऽपीतये , उ॒ग्रः , ऋ॒ष्वेभिः॑ , आ , ग॒हि॒ ॥
इ॒मे हि ते॑ का॒रवो॑ वाव॒शुर्धि॒या विप्रा॑सो मे॒धसा॑तये । स त्वं नो॑ मघवन्निंद्र गिर्वणो वे॒नो न शृ॑णुधी॒ हवं॑ ॥
इ॒मे , हि , ते॒ , का॒रवः॑ , वा॒व॒शुः , धि॒या , विप्रा॑सः , मे॒धऽसा॑तये । सः , त्वं , नः॒ , म॒घ॒ऽव॒न् , इं॒द्र॒ , गि॒र्व॒णः॒ , वे॒नः , न , शृ॒णु॒धि॒ , हवं॑ ॥
निरिं॑द्र बृह॒तीभ्यो॑ वृ॒त्रं धनु॑भ्यो अस्फुरः । निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा आ॑जः ॥
निः , इं॒द्र॒ , बृ॒ह॒तीभ्यः॑ , वृ॒त्रं , धनु॑ऽभ्यः , अ॒स्फु॒रः॒ । निः , अर्बु॑दस्य , मृग॑यस्य , मा॒यिनः॑ , निः , पर्व॑तस्य , गाः , आ॒जः॒ ॥
निर॒ग्नयो॑ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इंद्रि॒यो रसः॑ । निरं॒तरि॑क्षादधमो म॒हामहिं॑ कृ॒षे तदिं॑द्र॒ पौंस्यं॑ ॥
निः , अ॒ग्नयः॑ , रु॒रु॒चुः॒ , निः , ऊँ॒ इति॑ , सूर्यः॑ , निः , सोमः॑ , इं॒द्रि॒यः , रसः॑ । निः , अं॒तरि॑क्षात् , अ॒ध॒मः॒ , म॒हां , अहिं॑ , कृ॒षे , तत् , इं॒द्र॒ , पौंस्यं॑ ॥
यं मे॒ दुरिंद्रो॑ म॒रुतः॒ पाक॑स्थामा॒ कौर॑याणः । विश्वे॑षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे॑व दि॒वि धाव॑मानं ॥
यं , मे॒ , दुः , इंद्रः॑ , म॒रुतः॑ , पाक॑ऽस्थामा , कौर॑याणः । विश्वे॑षां , त्मना॑ , शोभि॑ष्ठं , उप॑ऽइव , दि॒वि , धाव॑मानं ॥
रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं॑ कक्ष्य॒प्रां । अदा॑द्रा॒यो वि॒बोध॑नं ॥
रोहि॑तं , मे॒ , पाक॑ऽस्थामा , सु॒ऽधुरं॑ , क॒क्ष्य॒ऽप्रां । अदा॑त् , रा॒यः , वि॒ऽबोध॑नं ॥
यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वहं॑ति॒ वह्न॑यः । अस्तं॒ वयो॒ न तुग्र्यं॑ ॥
यस्मै॑ , अ॒न्ये , दश॑ , प्रति॑ , धुरं॑ , वहं॑ति , वह्न॑यः । अस्तं॑ , वयः॑ , न , तुग्र्यं॑ ॥
आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यंज॑नं । तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवं ॥
आ॒त्मा , पि॒तुः , त॒नूः , वासः॑ , ओ॒जः॒ऽदाः , अ॒भि॒ऽअंज॑नं । तु॒रीयं॑ , इत् , रोहि॑तस्य , पाक॑ऽस्थामानं , भो॒जं , दा॒तारं॑ , अ॒ब्र॒वं॒ ॥
[४] यदिंद्रेत्येकविंशत्यृचस्य सूक्तस्य काण्वो मेधातिथिरिंद्रः अंत्यतिसृणांकुरुंगः अयुजोबृहत्योयुजः सतोबृहत्यः अंत्यापुरउष्णिक् (प्रपूषणमित्यादिचतसृणांपूषादेवतावा ) |
यदिं॑द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ । सिमा॑ पु॒रू नृषू॑तो अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे॑ ॥
यत् , इं॒द्र॒ , प्राक् , अपा॑क् , उद॑क् , न्य॑क् , वा॒ , हू॒यसे॑ , नृऽभिः॑ । सिम॑ , पु॒रु , नृऽसू॑तः , अ॒सि॒ , आन॑वे , असि॑ , प्र॒ऽश॒र्ध॒ , तु॒र्वशे॑ ॥
यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इंद्र॑ मा॒दय॑से॒ सचा॑ । कण्वा॑सस्त्वा॒ ब्रह्म॑भिः॒ स्तोम॑वाहस॒ इंद्रा य॑च्छं॒त्या ग॑हि ॥
यत् , वा॒ , रुमे॑ , रुश॑मे , श्याव॑के , कृपे॑ , इंद्र॑ , मा॒दय॑से , सचा॑ । कण्वा॑सः , त्वा॒ , ब्रह्म॑ऽभिः , स्तोम॑ऽवाहसः , इंद्र॑ , आ , य॒च्छं॒ति॒ , आ , ग॒हि॒ ॥
यथा॑ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णं । आ॒पि॒त्वे नः॑ प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे॑षु॒ सु सचा॒ पिब॑ ॥
यथा॑ , गौ॒रः , अ॒पा , कृ॒तं , तृष्य॑न् , एति॑ , अव॑ , इरि॑णं । आ॒ऽपि॒त्वे , नः॒ , प्र॒ऽपि॒त्वे , तूयं॑ , आ , ग॒हि॒ , कण्वे॑षु , सु , सचा॑ , पिब॑ ॥
मंदं॑तु त्वा मघवन्निं॒द्रेंद॑वो राधो॒देया॑य सुन्व॒ते । आ॒मुष्या॒ सोम॑मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द॑धिषे॒ सहः॑ ॥
मंदं॑तु , त्वा॒ , म॒घ॒ऽव॒न् , इं॒द्र॒ , इंद॑वः , रा॒धः॒ऽदेया॑य , सु॒न्व॒ते । आ॒ऽमुष्य॑ , सोमं॑ , अ॒पि॒बः॒ , च॒मू इति॑ , सु॒तं , ज्येष्ठं॑ , तत् , द॒धि॒षे॒ , सहः॑ ॥
प्र च॑क्रे॒ सह॑सा॒ सहो॑ ब॒भंज॑ म॒न्युमोज॑सा । विश्वे॑ त इंद्र पृतना॒यवो॑ यहो॒ नि वृ॒क्षा इ॑व येमिरे ॥
प्र , च॒क्रे॒ , सह॑सा , सहः॑ , ब॒भंज॑ , म॒न्युं , ओज॑सा । विश्वे॑ , ते॒ , इं॒द्र॒ , पृ॒त॒ना॒ऽयवः॑ , य॒हो॒ इति॑ , नि , वृ॒क्षाःऽइ॑व , ये॒मि॒रे॒ ॥
स॒हस्रे॑णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप॑स्तुतिं । पु॒त्रं प्रा॑व॒र्गं कृ॑णुते सु॒वीर्ये॑ दा॒श्नोति॒ नम॑उक्तिभिः ॥
स॒हस्रे॑णऽइव , स॒च॒ते॒ , य॒वि॒ऽयुधा॑ , यः , ते॒ , आन॑ट् , उप॑ऽस्तुतिं । पु॒त्रं , प्रा॒व॒र्गं , कृ॒णु॒ते॒ , सु॒ऽवीर्ये॑ , दा॒श्नोति॑ , नम॑उक्तिऽभिः ॥
मा भे॑म॒ मा श्र॑मिष्मो॒ग्रस्य॑ स॒ख्ये तव॑ । म॒हत्ते॒ वृष्णो॑ अभि॒चक्ष्यं॑ कृ॒तं पश्ये॑म तु॒र्वशं॒ यदुं॑ ॥
मा , भे॒म॒ , मा , श्र॒मि॒ष्म॒ , उ॒ग्रस्य॑ , स॒ख्ये , तव॑ । म॒हत् , ते॒ , वृष्णः॑ , अ॒भि॒ऽचक्ष्यं॑ , कृ॒तं , पश्ये॑म , तु॒र्वशं॑ , यदुं॑ ॥
स॒व्यामनु॑ स्फि॒ग्यं॑ वावसे॒ वृषा॒ न दा॒नो अ॑स्य रोषति । मध्वा॒ संपृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑ ॥
स॒व्यां , अनु॑ , स्फि॒ग्यं॑ , व॒व॒से॒ , वृषा॑ , न , दा॒नः , अ॒स्य॒ , रो॒ष॒ति॒ । मध्वा॑ , संऽपृ॑क्ताः , सा॒र॒घेण॑ , धे॒नवः॑ , तूयं॑ , आ , इ॒हि॒ , द्रव॑ , पिब॑ ॥
अ॒श्वी र॒थी सु॑रू॒प इद्गोमाँ॒ इदिं॑द्र ते॒ सखा॑ । श्वा॒त्र॒भाजा॒ वय॑सा सचते॒ सदा॑ चं॒द्रो या॑ति स॒भामुप॑ ॥
अ॒श्वी , र॒थी , सु॒ऽरू॒पः , इत् , गोऽमा॑न् , इत् , इं॒द्र॒ , ते॒ , सखा॑ । श्वा॒त्र॒ऽभाजा॑ , वय॑सा , स॒च॒ते॒ , सदा॑ , चं॒द्रः , या॒ति॒ , स॒भां , उप॑ ॥
ऋश्यो॒ न तृष्य॑न्नव॒पान॒मा ग॑हि॒ पिबा॒ सोमं॒ वशाँ॒ अनु॑ । नि॒मेघ॑मानो मघवंदि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सहः॑ ॥
ऋश्यः॑ , न , तृष्य॑न् , अ॒व॒ऽपानं॑ , आ , ग॒हि॒ , पिब॑ , सोमं॑ , वशा॑न् , अनु॑ । नि॒ऽमेघ॑मानः , म॒घ॒ऽव॒न् , दि॒वेऽदि॑वे , ओजि॑ष्ठं , द॒धि॒षे॒ , सहः॑ ॥
अध्व॑र्यो द्रा॒वया॒ त्वं सोम॒मिंद्रः॑ पिपासति । उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒ आ च॑ जगाम वृत्र॒हा ॥
अध्व॑र्यो॒ इति॑ , द्र॒वय॑ , त्वं , सोमं॑ , इंद्रः॑ , पि॒पा॒स॒ति॒ । उप॑ , नू॒नं , यु॒यु॒जे॒ , वृष॑णा , हरी॒ इति॑ , आ , च॒ , ज॒गा॒म॒ , वृ॒त्र॒ऽहा ॥
स्व॒यं चि॒त्स म॑न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृं॒पसि॑ । इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥
स्व॒यं , चि॒त् , सः , म॒न्य॒ते॒ , दाशु॑रिः , जनः॑ , यत्र॑ , सोम॑स्य , तृं॒पसि॑ । इ॒दं , ते॒ , अन्नं॑ , युज्यं॑ , संऽउ॑क्षितं , तस्य॑ , आ , इ॒हि॒ , प्र , द्र॒व॒ , पिब॑ ॥
र॒थे॒ष्ठाया॑ध्वर्यवः॒ सोम॒मिंद्रा॑य सोतन । अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वंतो॑ दा॒श्व॑ध्वरं ॥
र॒थे॒ऽस्थाय॑ , अ॒ध्व॒र्य॒वः॒ , सोमं॑ , इंद्रा॑य , सो॒त॒न॒ । अधि॑ , ब्र॒ध्नस्य॑ , अद्र॑यः , वि , च॒क्ष॒ते॒ , सु॒न्वंतः॑ , दा॒शुऽअ॑ध्वरं ॥
उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒ इंद्र॑म॒पसु॑ वक्षतः । अ॒र्वांचं॑ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वहं॑तु॒ सव॒नेदुप॑ ॥
उप॑ , ब्र॒ध्नं , व॒वाता॑ , वृष॑णा , हरी॒ इति॑ , इंद्रं॑ , अ॒पऽसु॑ , व॒क्ष॒तः॒ । अ॒र्वांचं॑ , त्वा॒ , सप्त॑यः , अ॒ध्व॒र॒ऽश्रियः॑ , वहं॑तु , सव॑ना , इत् , उप॑ ॥
प्र पू॒षणं॑ वृणीमहे॒ युज्या॑य पुरू॒वसुं॑ । स श॑क्र शिक्ष पुरुहूत नो धि॒या तुजे॑ रा॒ये वि॑मोचन ॥
प्र , पू॒षणं॑ , वृ॒णी॒म॒हे॒ , युज्या॑य , पु॒रु॒ऽवसुं॑ । सः , श॒क्र॒ , शि॒क्ष॒ , पु॒रु॒ऽहू॒त॒ , नः॒ , धि॒या , तुजे॑ , रा॒ये , वि॒ऽमो॒च॒न॒ ॥
सं नः॑ शिशीहि भु॒रिजो॑रिव क्षु॒रं रास्व॑ रा॒यो वि॑मोचन । त्वे तन्नः॑ सु॒वेद॑मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्यं॑ ॥
सं , नः॒ , शि॒शी॒हि॒ , भु॒रिजोः॑ऽइव , क्षु॒रं , रास्व॑ , रा॒यः , वि॒ऽमो॒च॒न॒ । त्वे इति॑ , तत् , नः॒ , सु॒ऽवेदं॑ , उ॒स्रियं॑ , वसु॑ , यं , त्वं , हि॒नोषि॑ , मर्त्यं॑ ॥
वेमि॑ त्वा पूषन्नृं॒जसे॒ वेमि॒ स्तोत॑व आघृणे । न तस्य॑ वे॒म्यर॑णं॒ हि तद्व॑सो स्तु॒षे प॒ज्राय॒ साम्ने॑ ॥
वेमि॑ , त्वा॒ , पू॒ष॒न् , ऋं॒जसे॑ , वेमि॑ , स्तोत॑वे , आ॒घृ॒णे॒ । न , तस्य॑ , वे॒मि॒ , अर॑णं , हि , तत् , व॒सो॒ इति॑ , स्तु॒षे , प॒ज्राय॑ , साम्ने॑ ॥
परा॒ गावो॒ यव॑सं॒ कच्चि॑दाघृणे॒ नित्यं॒ रेक्णो॑ अमर्त्य । अ॒स्माकं॑ पूषन्नवि॒ता शि॒वो भ॑व॒ मंहि॑ष्ठो॒ वाज॑सातये ॥
परा॑ , गावः॑ , यव॑सं , कत् , चि॒त् , आ॒घृ॒णे॒ , नित्यं॑ , रेक्णः॑ , अ॒म॒र्त्य॒ । अ॒स्माकं॑ , पू॒ष॒न् , अ॒वि॒ता , शि॒वः , भ॒व॒ , मंहि॑ष्ठः , वाज॑ऽसातये ॥
स्थू॒रं राधः॑ श॒ताश्वं॑ कुरुं॒गस्य॒ दिवि॑ष्टिषु । राज्ञ॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिषु॑ तु॒र्वशे॑ष्वमन्महि ॥
स्थू॒रं , राधः॑ , श॒तऽअ॑श्वं , कु॒रुं॒गस्य॑ , दिवि॑ष्टिषु । राज्ञः॑ , त्वे॒षस्य॑ , सु॒ऽभग॑स्य , रा॒तिषु॑ , तु॒र्वशे॑षु , अ॒म॒न्म॒हि॒ ॥
धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिनः॑ प्रि॒यमे॑धैर॒भिद्यु॑भिः । ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषिः॑ ॥
धी॒भिः , सा॒तानि॑ , का॒ण्वस्य॑ , वा॒जिनः॑ , प्रि॒यऽमे॑धैः , अ॒भिद्यु॑ऽभिः । ष॒ष्टिं , स॒हस्रा॑ , अनु॑ , निःऽम॑जां , अ॒जे॒ , निः , यू॒थानि॑ , गवां॑ , ऋषिः॑ ॥
वृ॒क्षाश्चि॑न्मे अभिपि॒त्वे अ॑रारणुः । गां भ॑जंत मे॒हनाश्वं॑ भजंत मे॒हना॑ ॥
वृ॒क्षाः , चि॒त् , मे॒ , अ॒भि॒ऽपि॒त्वे , अ॒र॒र॒णुः॒ । गां , भ॒जं॒त॒ , मे॒हना॑ , अश्वं॑ , भ॒जं॒त॒ , मे॒हना॑ ॥
[५] दूरादिहेवेत्येकोनचत्वारिंशदृचस्य सूक्तस्य काण्वोब्रह्मातिथिरश्विनौ यथाचिच्चैद्यः कशुरित्यादिसार्धद्वयोः कशुर्गायत्री अंत्यास्तिस्रः क्रमेणबृहत्यावनुष्टुप्च
दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् । वि भा॒नुं वि॒श्वधा॑तनत् ॥
दू॒रात् , इ॒हऽइ॑व , यत् , स॒ती , अ॒रु॒णऽप्सुः॑ , अशि॑श्वितत् । वि , भा॒नुं , वि॒श्वधा॑ , अ॒त॒न॒त् ॥
नृ॒वद्द॑स्रा मनो॒युजा॒ रथे॑न पृथु॒पाज॑सा । सचे॑थे अश्विनो॒षसं॑ ॥
नृ॒ऽवत् , द॒स्रा॒ , म॒नः॒ऽयुजा॑ , रथे॑न , पृ॒थु॒ऽपाज॑सा । सचे॑थे॒ इति॑ , अ॒श्वि॒ना॒ , उ॒षसं॑ ॥
यु॒वाभ्यां॑ वाजिनीवसू॒ प्रति॒ स्तोमा॑ अदृक्षत । वाचं॑ दू॒तो यथो॑हिषे ॥
यु॒वाभ्यां॑ , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू , प्रति॑ , स्तोमाः॑ , अ॒दृ॒क्ष॒त॒ । वाचं॑ , दू॒तः , यथा॑ , ओ॒हि॒षे॒ ॥
पु॒रु॒प्रि॒या ण॑ ऊ॒तये॑ पुरुमं॒द्रा पु॑रू॒वसू॑ । स्तु॒षे कण्वा॑सो अ॒श्विना॑ ॥
पु॒रु॒ऽप्रि॒या , नः॒ , ऊ॒तये॑ , पु॒रु॒ऽमं॒द्रा , पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ । स्तु॒षे , कण्वा॑सः , अ॒श्विना॑ ॥
मंहि॑ष्ठा वाज॒सात॑मे॒षयं॑ता शु॒भस्पती॑ । गंता॑रा दा॒शुषो॑ गृ॒हं ॥
मंहि॑ष्ठा , वा॒ज॒ऽसात॑मा , इ॒षयं॑ता , शु॒भः , पती॒ इति॑ । गंता॑रा , दा॒शुषः॑ , गृ॒हं ॥
ता सु॑दे॒वाय॑ दा॒शुषे॑ सुमे॒धामवि॑तारिणीं । घृ॒तैर्गव्यू॑तिमुक्षतं ॥
ता , सु॒ऽदे॒वाय॑ , दा॒शुषे॑ , सु॒ऽमे॒धां , अवि॑ऽतारिणीं । घृ॒तैः , गव्यू॑तिं , उ॒क्ष॒तं॒ ॥
आ नः॒ स्तोम॒मुप॑ द्र॒वत्तूयं॑ श्ये॒नेभि॑रा॒शुभिः॑ । या॒तमश्वे॑भिरश्विना ॥
आ , नः॒ , स्तोमं॑ , उप॑ , द्र॒वत् , तूयं॑ , श्ये॒नेभिः॑ , आ॒शुऽभिः॑ । या॒तं , अश्वे॑भिः , अ॒श्वि॒ना॒ ॥
येभि॑स्ति॒स्रः प॑रा॒वतो॑ दि॒वो विश्वा॑नि रोच॒ना । त्रीँर॒क्तून्प॑रि॒दीय॑थः ॥
येभिः॑ , ति॒स्रः , प॒रा॒ऽवतः॑ , दि॒वः , विश्वा॑नि , रो॒च॒ना । त्रीन् , अ॒क्तून् , प॒रि॒ऽदीय॑थः ॥
उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा । वि प॒थः सा॒तये॑ सितं ॥
उ॒त , नः॒ , गोऽम॑तीः , इषः॑ , उ॒त , सा॒तीः , अ॒हः॒ऽवि॒दा॒ । वि , प॒थः , सा॒तये॑ , सि॒तं॒ ॥
आ नो॒ गोमं॑तमश्विना सु॒वीरं॑ सु॒रथं॑ र॒यिं । वो॒ळ्हमश्वा॑वती॒रिषः॑ ॥
आ , नः॒ , गोऽमं॑तं , अ॒श्वि॒ना॒ , सु॒ऽवीरं॑ , सु॒ऽरथं॑ , र॒यिं । वो॒ळ्हं , अश्व॑ऽवतीः , इषः॑ ॥
वा॒वृ॒धा॒ना शु॑भस्पती दस्रा॒ हिर॑ण्यवर्तनी । पिब॑तं सो॒म्यं मधु॑ ॥
व॒वृ॒धा॒ना , शु॒भः॒ , प॒ती॒ इति॑ , दस्रा॑ , हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । पिब॑तं , सो॒म्यं , मधु॑ ॥
अ॒स्मभ्यं॑ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथः॑ । छ॒र्दिर्यं॑त॒मदा॑भ्यं ॥
अ॒स्मभ्यं॑ , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू , म॒घव॑त्ऽभ्यः , च॒ , स॒ऽप्रथः॑ । छ॒र्दिः , यं॒तं॒ , अदा॑भ्यं ॥
नि षु ब्रह्म॒ जना॑नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तं । मो ष्व१॒॑न्याँ उपा॑रतं ॥
नि , सु , ब्रह्म॑ , जना॑नां , या , अवि॑ष्टं , तूयं॑ , आ , ग॒तं॒ । मो इति॑ , सु , अ॒न्यान् , उप॑ , अ॒र॒तं॒ ॥
अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः । मध्वो॑ रा॒तस्य॑ धिष्ण्या ॥
अ॒स्य , पि॒ब॒तं॒ , अ॒श्वि॒ना॒ , यु॒वं , मद॑स्य , चारु॑णः । मध्वः॑ , रा॒तस्य॑ , धि॒ष्ण्या॒ ॥
अ॒स्मे आ व॑हतं र॒यिं श॒तवं॑तं सह॒स्रिणं॑ । पु॒रु॒क्षुं वि॒श्वधा॑यसं ॥
अ॒स्मे इति॑ , आ , व॒ह॒तं॒ , र॒यिं , श॒तऽवं॑तं , स॒ह॒स्रिणं॑ । पु॒रु॒ऽक्षुं , वि॒श्वऽधा॑यसं ॥
पु॒रु॒त्रा चि॒द्धि वां॑ नरा वि॒ह्वयं॑ते मनी॒षिणः॑ । वा॒घद्भि॑रश्वि॒ना ग॑तं ॥
पु॒रु॒ऽत्रा , चि॒त् , हि , वां॒ , न॒रा॒ , वि॒ऽह्वयं॑ते , म॒नी॒षिणः॑ । वा॒घत्ऽभिः॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ ॥
जना॑सो वृ॒क्तब॑र्हिषो ह॒विष्मं॑तो अरं॒कृतः॑ । यु॒वां ह॑वंते अश्विना ॥
जना॑सः , वृ॒क्तऽब॑र्हिषः , ह॒विष्मं॑तः , अ॒रं॒ऽकृतः॑ । यु॒वां , ह॒वं॒ते॒ , अ॒श्वि॒ना॒ ॥
अ॒स्माक॑म॒द्य वा॑म॒यं स्तोमो॒ वाहि॑ष्ठो॒ अंत॑मः । यु॒वाभ्यां॑ भूत्वश्विना ॥
अ॒स्माकं॑ , अ॒द्य , वां॒ , अ॒यं , स्तोमः॑ , वाहि॑ष्ठः , अंत॑मः । यु॒वाभ्यां॑ , भू॒तु॒ , अ॒श्वि॒ना॒ ॥
यो ह॑ वां॒ मधु॑नो॒ दृति॒राहि॑तो रथ॒चर्ष॑णे । ततः॑ पिबतमश्विना ॥
यः , ह॒ , वां॒ , मधु॑नः , दृतिः॑ , आऽहि॑तः , र॒थ॒ऽचर्ष॑णे । ततः॑ , पि॒ब॒तं॒ , अ॒श्वि॒ना॒ ॥
तेन॑ नो वाजिनीवसू॒ पश्वे॑ तो॒काय॒ शं गवे॑ । वह॑तं॒ पीव॑री॒रिषः॑ ॥
तेन॑ , नः॒ , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू , पश्वे॑ , तो॒काय॑ , शं , गवे॑ । वह॑तं , पीव॑रीः , इषः॑ ॥
उ॒त नो॑ दि॒व्या इष॑ उ॒त सिंधूँ॑रहर्विदा । अप॒ द्वारे॑व वर्षथः ॥
उ॒त , नः॒ , दि॒व्याः , इषः॑ , उ॒त , सिंधू॑न् , अ॒हः॒ऽवि॒दा॒ । अप॑ , द्वारा॑ऽइव , व॒र्ष॒थः॒ ॥
क॒दा वां॑ तौ॒ग्र्यो वि॑धत्समु॒द्रे ज॑हि॒तो न॑रा । यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥
क॒दा , वां॒ , तौ॒ग्र्यः , वि॒ध॒त् , स॒मु॒द्रे , ज॒हि॒तः , न॒रा॒ । यत् , वां॒ , रथः॑ , विऽभिः॑ , पता॑त् ॥
यु॒वं कण्वा॑य नासत्या॒ ऋपि॑रिप्ताय ह॒र्म्ये । शश्व॑दू॒तीर्द॑शस्यथः ॥
यु॒वं , कण्वा॑य , ना॒स॒त्या॒ , अपि॑ऽरिप्ताय , ह॒र्म्ये । शश्व॑त् , ऊ॒तीः , द॒श॒स्य॒थः॒ ॥
ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभिः॑ । यद्वां॑ वृषण्वसू हु॒वे ॥
ताभिः॑ , आ , या॒तं॒ , ऊ॒तिऽभिः॑ , नव्य॑सीभिः , सु॒श॒स्तिऽभिः॑ । यत् , वां॒ , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू , हु॒वे ॥
यथा॑ चि॒त्कण्व॒माव॑तं प्रि॒यमे॑धमुपस्तु॒तं । अत्रिं॑ शिं॒जार॑मश्विना ॥
यथा॑ , चि॒त् , कण्वं॑ , आव॑तं , प्रि॒यऽमे॑धं , उ॒प॒ऽस्तु॒तं । अत्रिं॑ , शिं॒जारं॑ , अ॒श्वि॒ना॒ ॥
यथो॒त कृत्व्ये॒ धनें॒ऽशुं गोष्व॒गस्त्यं॑ । यथा॒ वाजे॑षु॒ सोभ॑रिं ॥
यथा॑ , उ॒त , कृत्व्ये॑ , धने॑ , अं॒शुं , गोषु॑ , अ॒गस्त्यं॑ । यथा॑ , वाजे॑षु , सोभ॑रिं ॥
ए॒ताव॑द्वां वृषण्वसू॒ अतो॑ वा॒ भूयो॑ अश्विना । गृ॒णंतः॑ सु॒म्नमी॑महे ॥
ए॒ताव॑त् , वां॒ , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू , अतः॑ , वा॒ , भूयः॑ , अ॒श्वि॒ना॒ । गृ॒णंतः॑ , सु॒म्नं , ई॒म॒हे॒ ॥
रथं॒ हिर॑ण्यवंधुरं॒ हिर॑ण्याभीशुमश्विना । आ हि स्थाथो॑ दिवि॒स्पृशं॑ ॥
रथं॑ , हिर॑ण्यऽवंधुरं , हिर॑ण्यऽअभीशुं , अ॒श्वि॒ना॒ । आ , हि , स्थाथः॑ , दि॒वि॒ऽस्पृशं॑ ॥
हि॒र॒ण्ययी॑ वां॒ रभि॑री॒षा अक्षो॑ हिर॒ण्ययः॑ । उ॒भा च॒क्रा हि॑र॒ण्यया॑ ॥
हि॒र॒ण्ययी॑ , वां॒ , रभिः॑ , ई॒षा , अक्षः॑ , हि॒र॒ण्ययः॑ । उ॒भा , च॒क्रा , हि॒र॒ण्यया॑ ॥
तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तं । उपे॒मां सु॑ष्टु॒तिं मम॑ ॥
तेन॑ , नः॒ , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू , प॒रा॒ऽवतः॑ , चि॒त् , आ , ग॒तं॒ । उप॑ , इ॒मां , सु॒ऽस्तु॒तिं , मम॑ ॥
आ व॑हेथे परा॒कात्पू॒र्वीर॒श्नंता॑वश्विना । इषो॒ दासी॑रमर्त्या ॥
आ , व॒हे॒थे॒ इति॑ , प॒रा॒कात् , पू॒र्वीः , अ॒श्नंतौ॑ , अ॒श्वि॒ना॒ । इषः॑ , दासीः॑ , अ॒म॒र्त्या॒ ॥
आ नो॑ द्यु॒म्नैरा श्रवो॑भि॒रा रा॒या या॑तमश्विना । पुरु॑श्चंद्रा॒ नास॑त्या ॥
आ , नः॒ , द्यु॒म्नैः , आ , श्रवः॑ऽभिः , आ , रा॒या , या॒तं॒ , अ॒श्वि॒ना॒ । पुरु॑ऽचंद्रा , नास॑त्या ॥
एह वां॑ प्रुषि॒तप्स॑वो॒ वयो॑ वहंतु प॒र्णिनः॑ । अच्छा॑ स्वध्व॒रं जनं॑ ॥
आ , इ॒ह , वां॒ , प्रु॒षि॒तऽप्स॑वः , वयः॑ , व॒हं॒तु॒ , प॒र्णिनः॑ । अच्छ॑ , सु॒ऽअ॒ध्व॒रं , जनं॑ ॥
रथं॑ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह । न च॒क्रम॒भि बा॑धते ॥
रथं॑ , वां॒ , अनु॑ऽगायसं , यः , इ॒षा , वर्त॑ते , स॒ह । न , च॒क्रं , अ॒भि , बा॒ध॒ते॒ ॥
हि॒र॒ण्यये॑न॒ रथे॑न द्र॒वत्पा॑णिभि॒रश्वैः॑ । धीज॑वना॒ नास॑त्या ॥
हि॒र॒ण्यये॑न , रथे॑न , द्र॒वत्पा॑णिऽभिः , अश्वैः॑ । धीऽज॑वना , नास॑त्या ॥
यु॒वं मृ॒गं जा॑गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू । ता नः॑ पृंक्तमि॒षा र॒यिं ॥
यु॒वं , मृ॒गं , जा॒गृ॒ऽवांसं॑ , स्वद॑थः , वा॒ , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । ता , नः॒ , पृं॒क्तं॒ , इ॒षा , र॒यिं ॥
ता मे॑ अश्विना सनी॒नां वि॒द्यातं॒ नवा॑नां । यथा॑ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा॑नां॒ दद॑त्स॒हस्रा॒ दश॒ गोनां॑ ॥
ता , मे॒ , अ॒श्वि॒ना॒ , स॒नी॒नां , वि॒द्यातं॑ , नवा॑नां । यथा॑ , चि॒त् , चै॒द्यः , क॒शुः , श॒तं , उष्ट्रा॑नां , दद॑त् , स॒हस्रा॑ , दश॑ , गोनां॑ ॥
यो मे॒ हिर॑ण्यसंदृशो॒ दश॒ राज्ञो॒ अमं॑हत । अ॒ध॒स्प॒दा इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना अ॒भितो॒ जनाः॑ ॥
यः , मे॒ , हिर॑ण्यऽसंदृशः , दश॑ , राज्ञः॒ , अमं॑हत । अ॒धः॒ऽप॒दाः , इत् , चै॒द्यस्य॑ , कृ॒ष्टयः॑ , च॒र्म॒ऽम्नाः , अ॒भितः॑ , जनाः॑ ॥
माकि॑रे॒ना प॒था गा॒द्येने॒मे यंति॑ चे॒दयः॑ । अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जनः॑ ॥
माकिः॑ , ए॒ना , प॒था , गा॒त् , येन॑ , इ॒मे , यंति॑ , चे॒दयः॑ । अ॒न्यः , न , इत् , सू॒रिः , ओह॑ते , भू॒रि॒दाव॑त्ऽतरः , जनः॑ ॥
[६] महाँइंद्र इत्यष्टचत्वारिंशदृचस्य सूक्तस्य काण्वोवत्सइंद्रोंत्यतिसृणां तिरिंदिरोगायत्री | (पार्शव्यस्यदानस्तुतिः) |
म॒हाँ इंद्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व । स्तोमै॑र्व॒त्सस्य॑ वावृधे ॥
म॒हान् , इंद्रः॑ , यः , ओज॑सा , प॒र्जन्यः॑ , वृ॒ष्टि॒मान्ऽइ॑व । स्तोमैः॑ , व॒त्सस्य॑ , व॒वृ॒धे॒ ॥
प्र॒जामृ॒तस्य॒ पिप्र॑तः॒ प्र यद्भरं॑त॒ वह्न॑यः । विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥
प्र॒ऽजां , ऋ॒तस्य॑ , पिप्र॑तः , प्र , यत् , भरं॑त , वह्न॑यः । विप्राः॑ , ऋ॒तस्य॑ , वाह॑सा ॥
कण्वा॒ इंद्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नं । जा॒मि ब्रु॑वत॒ आयु॑धं ॥
कण्वाः॑ , इंद्रं॑ , यत् , अक्र॑त , स्तोमैः॑ , य॒ज्ञस्य॑ , साध॑नं । जा॒मि , ब्रु॒व॒ते॒ , आयु॑धं ॥
सम॑स्य म॒न्यवे॒ विशो॒ विश्वा॑ नमंत कृ॒ष्टयः॑ । स॒मु॒द्राये॑व॒ सिंध॑वः ॥
सं , अ॒स्य॒ , म॒न्यवे॑ , विशः॑ , विश्वाः॑ , न॒मं॒त॒ , कृ॒ष्टयः॑ । स॒मु॒द्राय॑ऽइव , सिंध॑वः ॥
ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत् । इंद्र॒श्चर्मे॑व॒ रोद॑सी ॥
ओजः॑ , तत् , अ॒स्य॒ , ति॒त्वि॒षे॒ , उ॒भे इति॑ , यत् , सं॒ऽअव॑र्तयत् । इंद्रः॑ , चर्म॑ऽइव , रोद॑सी॒ इति॑ ॥
वि चि॑द्वृ॒त्रस्य॒ दोध॑तो॒ वज्रे॑ण श॒तप॑र्वणा । शिरो॑ बिभेद वृ॒ष्णिना॑ ॥
वि , चि॒त् , वृ॒त्रस्य॑ , दोध॑तः , वज्रे॑ण , श॒तऽप॑र्वणा । शिरः॑ , बि॒भे॒द॒ , वृ॒ष्णिना॑ ॥
इ॒मा अ॒भि प्र णो॑नुमो वि॒पामग्रे॑षु धी॒तयः॑ । अ॒ग्नेः शो॒चिर्न दि॒द्युतः॑ ॥
इ॒माः , अ॒भि , प्र , नो॒नु॒मः॒ , वि॒पां , अग्रे॑षु , धी॒तयः॑ । अ॒ग्नेः , शो॒चिः , न , दि॒द्युतः॑ ॥
गुहा॑ स॒तीरुप॒ त्मना॒ प्र यच्छोचं॑त धी॒तयः॑ । कण्वा॑ ऋ॒तस्य॒ धार॑या ॥
गुहा॑ , स॒तीः , उप॑ , त्मना॑ , प्र , यत् , शोचं॑त , धी॒तयः॑ । कण्वाः॑ , ऋ॒तस्य॑ , धार॑या ॥
प्र तमिं॑द्र नशीमहि र॒यिं गोमं॑तम॒श्विनं॑ । प्र ब्रह्म॑ पू॒र्वचि॑त्तये ॥
प्र , तं , इं॒द्र॒ , न॒शी॒म॒हि॒ , र॒यिं , गोऽमं॑तं , अ॒श्विनं॑ । प्र , ब्रह्म॑ , पू॒र्वऽचि॑त्तये ॥
अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ । अ॒हं सूर्य॑ इवाजनि ॥
अ॒हं , इत् , हि , पि॒तुः , परि॑ , मे॒धां , ऋ॒तस्य॑ , ज॒ग्रभ॑ । अ॒हं , सूर्यः॑ऽइव , अ॒ज॒नि॒ ॥
अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिरः॑ शुंभामि कण्व॒वत् । येनेंद्रः॒ शुष्म॒मिद्द॒धे ॥
अ॒हं , प्र॒त्नेन॑ , मन्म॑ना , गिरः॑ , शुं॒भा॒मि॒ , क॒ण्व॒ऽवत् । येन॑ , इंद्रः॑ , शुष्मं॑ , इत् , द॒धे ॥
ये त्वामिं॑द्र॒ न तु॑ष्टु॒वुर्ऋष॑यो॒ ये च॑ तुष्टु॒वुः । ममेद्व॑र्धस्व॒ सुष्टु॑तः ॥
ये , त्वां , इं॒द्र॒ , न , तु॒स्तु॒वुः , ऋष॑यः , ये , च॒ , तु॒स्तु॒वुः । मम॑ , इत् , व॒र्ध॒स्व॒ , सुऽस्तु॑तः ॥
यद॑स्य म॒न्युरध्व॑नी॒द्वि वृ॒त्रं प॑र्व॒शो रु॒जन् । अ॒पः स॑मु॒द्रमैर॑यत् ॥
यत् , अ॒स्य॒ , म॒न्युः , अध्व॑नीत् , वि , वृ॒त्रं , प॒र्व॒ऽशः , रु॒जन् । अ॒पः , स॒मु॒द्रं , ऐर॑यत् ॥
नि शुष्ण॑ इंद्र धर्ण॒सिं वज्रं॑ जघंथ॒ दस्य॑वि । वृषा॒ ह्यु॑ग्र शृण्वि॒षे ॥
नि , शुष्णे॑ , इं॒द्र॒ , ध॒र्ण॒सिं , वज्रं॑ , ज॒घं॒थ॒ , दस्य॑वि । वृषा॑ , हि , उ॒ग्र॒ , शृ॒ण्वि॒षे ॥
न द्याव॒ इंद्र॒मोज॑सा॒ नांतरि॑क्षाणि व॒ज्रिणं॑ । न वि॑व्यचंत॒ भूम॑यः ॥
न , द्यावः॑ , इंद्रं॑ , ओज॑सा , न , अं॒तरि॑क्षाणि , व॒ज्रिणं॑ । न , वि॒व्य॒चं॒त॒ , भूम॑यः ॥
यस्त॑ इंद्र म॒हीर॒पः स्त॑भू॒यमा॑न॒ आश॑यत् । नि तं पद्या॑सु शिश्नथः ॥
यः , ते॒ , इं॒द्र॒ , म॒हीः , अ॒पः , स्त॒भु॒ऽयमा॑नः , आ , अश॑यत् । नि , तं , पद्या॑सु , शि॒श्न॒थः॒ ॥
य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत् । तमो॑भिरिंद्र॒ तं गु॑हः ॥
यः , इ॒मे इति॑ , रोद॑सी॒ इति॑ , म॒ही इति॑ , स॒मी॒ची इति॑ सं॒ऽई॒ची , सं॒ऽअज॑ग्रभीत् । तमः॑ऽभिः , इं॒द्र॒ , तं , गु॒हः॒ ॥
य इं॑द्र॒ यत॑यस्त्वा॒ भृग॑वो॒ ये च॑ तुष्टु॒वुः । ममेदु॑ग्र श्रुधी॒ हवं॑ ॥
ये , इं॒द्र॒ , यत॑यः , त्वा॒ , भृग॑वः , ये , च॒ , तु॒स्तु॒वुः । मम॑ , इत् , उ॒ग्र॒ , श्रु॒धि॒ , हवं॑ ॥
इ॒मास्त॑ इंद्र॒ पृश्न॑यो घृ॒तं दु॑हत आ॒शिरं॑ । ए॒नामृ॒तस्य॑ पि॒प्युषीः॑ ॥
इ॒माः , ते॒ , इं॒द्र॒ , पृश्न॑यः , घृ॒तं , दु॒ह॒ते॒ , आ॒ऽशिरं॑ । ए॒नां , ऋ॒तस्य॑ , पि॒प्युषीः॑ ॥
या इं॑द्र प्र॒स्व॑स्त्वा॒सा गर्भ॒मच॑क्रिरन् । परि॒ धर्मे॑व॒ सूर्यं॑ ॥
याः , इं॒द्र॒ , प्र॒ऽस्वः॑ , त्वा॒ , आ॒सा , गर्भं॑ , अच॑क्रिरन् । परि॑ , धर्म॑ऽइव , सूर्यं॑ ॥
त्वामिच्छ॑वसस्पते॒ कण्वा॑ उ॒क्थेन॑ वावृधुः । त्वां सु॒तास॒ इंद॑वः ॥
त्वां , इत् , श॒व॒सः॒ , प॒ते॒ , कण्वाः॑ , उ॒क्थेन॑ , व॒वृ॒धुः॒ । त्वां , सु॒तासः॑ , इंद॑वः ॥
तवेदिं॑द्र॒ प्रणी॑तिषू॒त प्रश॑स्तिरद्रिवः । य॒ज्ञो वि॑तंत॒साय्यः॑ ॥
तव॑ , इत् , इं॒द्र॒ , प्रऽनी॑तिषु , उ॒त , प्रऽश॑स्तिः , अ॒द्रि॒ऽवः॒ । य॒ज्ञः , वि॒तं॒त॒साय्यः॑ ॥
आ न॑ इंद्र म॒हीमिषं॒ पुरं॒ न द॑र्षि॒ गोम॑तीं । उ॒त प्र॒जां सु॒वीर्यं॑ ॥
आ , नः॒ , इं॒द्र॒ , म॒हीं , इषं॑ , पुरं॑ , न , द॒र्षि॒ , गोऽम॑तीं । उ॒त , प्र॒ऽजां , सु॒ऽवीर्यं॑ ॥
उ॒त त्यदा॒श्वश्व्यं॒ यदिं॑द्र॒ नाहु॑षी॒ष्वा । अग्रे॑ वि॒क्षु प्र॒दीद॑यत् ॥
उ॒त , त्यत् , आ॒शु॒ऽअश्व्यं॑ , यत् , इं॒द्र॒ , नाहु॑षीषु , आ । अग्रे॑ , वि॒क्षु , प्र॒ऽदीद॑यत् ॥
अ॒भि व्र॒जं न त॑त्निषे॒ सूर॑ उपा॒कच॑क्षसं । यदिं॑द्र मृ॒ळया॑सि नः ॥
अ॒भि , व्र॒जं , न , त॒त्नि॒षे॒ , सूरः॑ , उ॒पा॒कऽच॑क्षसं । यत् , इं॒द्र॒ , मृ॒ळया॑सि , नः॒ ॥
यदं॒ग त॑विषी॒यस॒ इंद्र॑ प्र॒राज॑सि क्षि॒तीः । म॒हाँ अ॑पा॒र ओज॑सा ॥
यत् , अं॒ग , त॒वि॒षी॒ऽयसे॑ , इंद्र॑ , प्र॒ऽराज॑सि , क्षि॒तीः । म॒हान् , अ॒पा॒रः , ओज॑सा ॥
तं त्वा॑ ह॒विष्म॑ती॒र्विश॒ उप॑ ब्रुवत ऊ॒तये॑ । उ॒रु॒ज्रय॑स॒मिंदु॑भिः ॥
तं , त्वा॒ , ह॒विष्म॑तीः , विशः॑ , उप॑ , ब्रु॒व॒ते॒ , ऊ॒तये॑ । उ॒रु॒ऽज्रय॑सं , इंदु॑ऽभिः ॥
उ॒प॒ह्व॒रे गि॑री॒णां सं॑ग॒थे च॑ न॒दीनां॑ । धि॒या विप्रो॑ अजायत ॥
उ॒प॒ऽह्व॒रे , गि॒री॒णां , सं॒ऽग॒थे , च॒ , न॒दीनां॑ । धि॒या , विप्रः॑ , अ॒जा॒य॒त॒ ॥
अतः॑ समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ अव॑ पश्यति । यतो॑ विपा॒न एज॑ति ॥
अतः॑ , स॒मु॒द्रं , उ॒त्ऽवतः॑ , चि॒कि॒त्वान् , अव॑ , प॒श्य॒ति॒ । यतः॑ , वि॒पा॒नः , एज॑ति ॥
आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यंति वास॒रं । प॒रो यदि॒ध्यते॑ दि॒वा ॥
आत् , इत् , प्र॒त्नस्य॑ , रेत॑सः , ज्योतिः॑ , प॒श्यं॒ति॒ , वा॒स॒रं । प॒रः , यत् , इ॒ध्यते॑ , दि॒वा ॥
कण्वा॑स इंद्र ते म॒तिं विश्वे॑ वर्धंति॒ पौंस्यं॑ । उ॒तो श॑विष्ठ॒ वृष्ण्यं॑ ॥
कण्वा॑सः , इं॒द्र॒ , ते॒ , म॒तिं , विश्वे॑ , व॒र्धं॒ति॒ , पौंस्यं॑ । उ॒तो इति॑ , श॒वि॒ष्ठ॒ , वृष्ण्यं॑ ॥
इ॒मां म॑ इंद्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम॑व । उ॒त प्र व॑र्धया म॒तिं ॥
इ॒मां , मे॒ , इं॒द्र॒ , सु॒ऽस्तु॒तिं , जु॒षस्व॑ , प्र , सु , मां , अ॒व॒ । उ॒त , प्र , व॒र्ध॒य॒ , म॒तिं ॥
उ॒त ब्र॑ह्म॒ण्या व॒यं तुभ्यं॑ प्रवृद्ध वज्रिवः । विप्रा॑ अतक्ष्म जी॒वसे॑ ॥
उ॒त , ब्र॒ह्म॒ण्या , व॒यं , तुभ्यं॑ , प्र॒ऽवृ॒द्ध॒ , व॒ज्रि॒ऽवः॒ । विप्राः॑ , अ॒त॒क्ष्म॒ , जी॒वसे॑ ॥
अ॒भि कण्वा॑ अनूष॒तापो॒ न प्र॒वता॑ य॒तीः । इंद्रं॒ वन॑न्वती म॒तिः ॥
अ॒भि , कण्वाः॑ , अ॒नू॒ष॒त॒ , आपः॑ , न , प्र॒ऽवता॑ , य॒तीः । इंद्रं॑ , वन॑न्ऽवती , म॒तिः ॥
इंद्र॑मु॒क्थानि॑ वावृधुः समु॒द्रमि॑व॒ सिंध॑वः । अनु॑त्तमन्युम॒जरं॑ ॥
इंद्रं॑ , उ॒क्थानि॑ , व॒वृ॒धुः॒ , स॒मु॒द्रंऽइ॑व , सिंध॑वः । अनु॑त्तऽमन्युं , अ॒जरं॑ ॥
आ नो॑ याहि परा॒वतो॒ हरि॑भ्यां हर्य॒ताभ्यां॑ । इ॒ममिं॑द्र सु॒तं पि॑ब ॥
आ , नः॒ , या॒हि॒ , प॒रा॒ऽवतः॑ , हरि॑ऽभ्यां , ह॒र्य॒ताभ्यां॑ । इ॒मं , इं॒द्र॒ , सु॒तं , पि॒ब॒ ॥
त्वामिद्वृ॑त्रहंतम॒ जना॑सो वृ॒क्तब॑र्हिषः । हवं॑ते॒ वाज॑सातये ॥
त्वां , इत् , वृ॒त्र॒ह॒न्ऽत॒म॒ , जना॑सः , वृ॒क्तऽब॑र्हिषः । हवं॑ते , वाज॑ऽसातये ॥
अनु॑ त्वा॒ रोद॑सी उ॒भे च॒क्रं न व॒र्त्येत॑शं । अनु॑ सुवा॒नास॒ इंद॑वः ॥
अनु॑ , त्वा॒ , रोद॑सी॒ इति॑ , उ॒भे इति॑ , च॒क्रं , न , व॒र्ति॒ , एत॑शं । अनु॑ , सु॒वा॒नासः॑ , इंद॑वः ॥
मंद॑स्वा॒ सु स्व॑र्णर उ॒तेंद्र॑ शर्य॒णाव॑ति । मत्स्वा॒ विव॑स्वतो म॒ती ॥
मंद॑स्व , सु , स्वः॑ऽनरे , उ॒त , इं॒द्र॒ , श॒र्य॒णाऽव॑ति । मत्स्व॑ , विव॑स्वतः , म॒ती ॥
वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा॑ व॒ज्र्य॑रोरवीत् । वृ॒त्र॒हा सो॑म॒पात॑मः ॥
व॒वृ॒धा॒नः , उप॑ , द्यवि॑ , वृषा॑ , व॒ज्री , अ॒रो॒र॒वी॒त् । वृ॒त्र॒ऽहा , सो॒म॒ऽपात॑मः ॥
ऋषि॒र्हि पू॑र्व॒जा अस्येक॒ ईशा॑न॒ ओज॑सा । इंद्र॑ चोष्कू॒यसे॒ वसु॑ ॥
ऋषिः॑ , हि , पू॒र्व॒ऽजाः , असि॑ , एकः॑ , ईशा॑नः , ओज॑सा । इंद्र॑ , चो॒ष्कू॒यसे॑ , वसु॑ ॥
अ॒स्माकं॑ त्वा सु॒ताँ उप॑ वी॒तपृ॑ष्ठा अ॒भि प्रयः॑ । श॒तं व॑हंतु॒ हर॑यः ॥
अ॒स्माकं॑ , त्वा॒ , सु॒तान् , उप॑ , वी॒तऽपृ॑ष्ठाः , अ॒भि , प्रयः॑ । श॒तं , व॒हं॒तु॒ , हर॑यः ॥
इ॒मां सु पू॒र्व्यां धियं॒ मधो॑र्घृ॒तस्य॑ पि॒प्युषीं॑ । कण्वा॑ उ॒क्थेन॑ वावृधुः ॥
इ॒मां , सु , पू॒र्व्यां , धियं॒ , मधोः॑ , घृ॒तस्य॑ , पि॒प्युषीं॑ । कण्वाः॑ , उ॒क्थेन॑ , व॒वृ॒धुः॒ ॥
इंद्र॒मिद्विम॑हीनां॒ मेधे॑ वृणीत॒ मर्त्यः॑ । इंद्रं॑ सनि॒ष्युरू॒तये॑ ॥
इंद्रं॑ , इत् , विऽम॑हीनां , मेधे॑ , वृ॒णी॒त॒ , मर्त्यः॑ । इंद्रं॑ , स॒नि॒ष्युः , ऊ॒तये॑ ॥
अ॒र्वांचं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ । सो॒म॒पेया॑य वक्षतः ॥
अ॒र्वांचं॑ , त्वा॒ , पु॒रु॒ऽस्तु॒त॒ , प्रि॒यमे॑धऽस्तुता , हरी॒ इति॑ । सो॒म॒ऽपेया॑य , व॒क्ष॒तः॒ ॥
श॒तम॒हं ति॒रिंदि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे । राधां॑सि॒ याद्वा॑नां ॥
श॒तं , अ॒हं , ति॒रिंदि॑रे , स॒हस्रं॑ , पर्शौ॑ , आ , द॒दे॒ । राधां॑सि , याद्वा॑नां ॥
त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोनां॑ । द॒दुष्प॒ज्राय॒ साम्ने॑ ॥
त्रीणि॑ , श॒तानि॑ , अर्व॑तां , स॒हस्रा॑ , दश॑ , गोनां॑ । द॒दुः , प॒ज्राय॑ , साम्ने॑ ॥
उदा॑नट् ककु॒हो दिव॒मुष्ट्रां॑चतु॒र्युजो॒ दद॑त् । श्रव॑सा॒ याद्वं॒ जनं॑ ॥
उत् , आ॒न॒ट् , क॒कु॒हः , दिवं॑ , उष्ट्रा॑न् , च॒तुः॒ऽयुजः॑ , दद॑त् । श्रव॑सा , याद्वं॑ , जनं॑ ॥
[७] प्रयद्वइति षट्त्रिंशदृचस्य सूक्तस्य काण्वः पुनर्वत्सोमरुतोगायत्री |
प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत् । वि पर्व॑तेषु राजथ ॥
प्र , यत् , वः॒ , त्रि॒ऽस्तुभं॑ , इषं॑ , मरु॑तः , विप्रः॑ , अक्ष॑रत् । वि , पर्व॑तेषु , रा॒ज॒थ॒ ॥
यदं॒ग त॑विषीयवो॒ यामं॑ शुभ्रा॒ अचि॑ध्वं । नि पर्व॑ता अहासत ॥
यत् , अं॒ग , त॒वि॒षी॒ऽय॒वः॒ , यामं॑ , शु॒भ्राः॒ , अचि॑ध्वं । नि , पर्व॑ताः , अ॒हा॒स॒त॒ ॥
उदी॑रयंत वा॒युभि॑र्वा॒श्रासः॒ पृश्नि॑मातरः । धु॒क्षंत॑ पि॒प्युषी॒मिषं॑ ॥
उत् , ई॒र॒यं॒त॒ , वा॒युऽभिः॑ , वा॒श्रासः॑ , पृश्नि॑ऽमातरः । धु॒क्षंत॑ , पि॒प्युषीं॑ , इषं॑ ॥
वपं॑ति म॒रुतो॒ मिहं॒ प्र वे॑पयंति॒ पर्व॑तान् । यद्यामं॒ यांति॑ वा॒युभिः॑ ॥
वपं॑ति , म॒रुतः॑ , मिहं॑ , प्र , वे॒प॒यं॒ति॒ , पर्व॑तान् । यत् , यामं॑ , यांति॑ , वा॒युऽभिः॑ ॥
नि यद्यामा॑य वो गि॒रिर्नि सिंध॑वो॒ विध॑र्मणे । म॒हे शुष्मा॑य येमि॒रे ॥
नि , यत् , यामा॑य , वः॒ , गि॒रिः , नि , सिंध॑वः , विऽध॑र्मणे । म॒हे , शुष्मा॑य , ये॒मि॒रे ॥
यु॒ष्माँ उ॒ नक्त॑मू॒तये॑ यु॒ष्मांदिवा॑ हवामहे । यु॒ष्मान्प्र॑य॒त्य॑ध्व॒रे ॥
यु॒ष्मान् , ऊँ॒ इति॑ , नक्तं॑ , ऊ॒तये॑ , यु॒ष्मान् , दिवा॑ , ह॒वा॒म॒हे॒ । यु॒ष्मान् , प्र॒ऽय॒ति , अ॒ध्व॒रे ॥
उदु॒ त्ये अ॑रु॒णप्स॑वश्चि॒त्रा यामे॑भिरीरते । वा॒श्रा अधि॒ ष्णुना॑ दि॒वः ॥
उत् , ऊँ॒ इति॑ , त्ये , अ॒रु॒णऽप्स॑वः , चि॒त्राः , यामे॑भिः , ई॒र॒ते॒ । वा॒श्राः , अधि॑ , स्नुना॑ , दि॒वः ॥
सृ॒जंति॑ र॒श्मिमोज॑सा॒ पंथां॒ सूर्या॑य॒ यात॑वे । ते भा॒नुभि॒र्वि त॑स्थिरे ॥
सृ॒जंति॑ , र॒श्मिं , ओज॑सा , पंथां॑ , सूर्या॑य , यात॑वे । ते , भा॒नुऽभिः॑ , वि , त॒स्थि॒रे॒ ॥
इ॒मां मे॑ मरुतो॒ गिर॑मि॒मं स्तोम॑मृभुक्षणः । इ॒मं मे॑ वनता॒ हवं॑ ॥
इ॒मां , मे॒ , म॒रु॒तः॒ , गिरं॑ , इ॒मं , स्तोमं॑ , ऋ॒भु॒क्ष॒णः॒ । इ॒मं , मे॒ , व॒न॒त॒ , हवं॑ ॥
त्रीणि॒ सरां॑सि॒ पृश्न॑यो दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ । उत्सं॒ कवं॑धमु॒द्रिणं॑ ॥
त्रीणि॑ , सरां॑सि , पृश्न॑यः , दु॒दु॒ह्रे , व॒ज्रिणे॑ , मधु॑ । उत्सं॑ , कवं॑धं , उ॒द्रिणं॑ ॥
मरु॑तो॒ यद्ध॑ वो दि॒वः सु॑म्ना॒यंतो॒ हवा॑महे । आ तू न॒ उप॑ गंतन ॥
मरु॑तः , यत् , ह॒ , वः॒ , दि॒वः , सु॒म्न॒ऽयंतः॑ , हवा॑महे । आ , तु , नः॒ , उप॑ , गं॒त॒न॒ ॥
यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा॑ ऋभुक्षणो॒ दमे॑ । उ॒त प्रचे॑तसो॒ मदे॑ ॥
यू॒यं , हि , स्थ , सु॒ऽदा॒न॒वः॒ , रुद्राः॑ , ऋ॒भु॒क्ष॒णः॒ , दमे॑ । उ॒त , प्रऽचे॑तसः , मदे॑ ॥
आ नो॑ र॒यिं म॑द॒च्युतं॑ पुरु॒क्षुं वि॒श्वधा॑यसं । इय॑र्ता मरुतो दि॒वः ॥
आ , नः॒ , र॒यिं , म॒द॒ऽच्युतं॑ , पु॒रु॒ऽक्षुं , वि॒श्वऽधा॑यसं । इय॑र्त , म॒रु॒तः॒ , दि॒वः ॥
अधी॑व॒ यद्गि॑री॒णां यामं॑ शुभ्रा॒ अचि॑ध्वं । सु॒वा॒नैर्मं॑दध्व॒ इंदु॑भिः ॥
अधि॑ऽइव , यत् , गि॒री॒णां , यामं॑ , शु॒भ्राः॒ , अचि॑ध्वं । सु॒वा॒नैः , मं॒द॒ध्वे॒ , इंदु॑ऽभिः ॥
ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ । अदा॑भ्यस्य॒ मन्म॑भिः ॥
ए॒ताव॑तः , चि॒त् , ए॒षां॒ , सु॒म्नं , भि॒क्षे॒त॒ , मर्त्यः॑ । अदा॑भ्यस्य , मन्म॑ऽभिः ॥
ये द्र॒प्सा इ॑व॒ रोद॑सी॒ धमं॒त्यनु॑ वृ॒ष्टिभिः॑ । उत्सं॑ दु॒हंतो॒ अक्षि॑तं ॥
ये , द्र॒प्साःऽइ॑व , रोद॑सी॒ इति॑ , धमं॑ति , अनु॑ , वृ॒ष्टिऽभिः॑ । उत्सं॑ , दु॒हंतः॑ , अक्षि॑तं ॥
उदु॑ स्वा॒नेभि॑रीरत॒ उद्रथै॒रुदु॑ वा॒युभिः॑ । उत्स्तोमैः॒ पृश्नि॑मातरः ॥
उत् , ऊँ॒ इति॑ , स्वा॒नेभिः॑ , ई॒र॒ते॒ , उत् , रथैः॑ , उत् , ऊँ॒ इति॑ , वा॒युऽभिः॑ । उत् , स्तोमैः॑ , पृश्नि॑ऽमातरः ॥
येना॒व तु॒र्वशं॒ यदुं॒ येन॒ कण्वं॑ धन॒स्पृतं॑ । रा॒ये सु तस्य॑ धीमहि ॥
येन॑ , आ॒व , तु॒र्वशं॑ , यदुं॑ , येन॑ , कण्वं॑ , ध॒न॒ऽस्पृतं॑ । रा॒ये , सु , तस्य॑ , धी॒म॒हि॒ ॥
इ॒मा उ॑ वः सुदानवो घृ॒तं न पि॒प्युषी॒रिषः॑ । वर्धा॑न्का॒ण्वस्य॒ मन्म॑भिः ॥
इ॒माः , ऊँ॒ इति॑ , वः॒ , सु॒ऽदा॒न॒वः॒ , घृ॒तं , न , पि॒प्युषीः॑ , इषः॑ । वर्धा॑न् , का॒ण्वस्य॑ , मन्म॑ऽभिः ॥
क्व॑ नू॒नं सु॑दानवो॒ मद॑था वृक्तबर्हिषः । ब्र॒ह्मा को वः॑ सपर्यति ॥
क्व॑ , नू॒नं , सु॒ऽदा॒न॒वः॒ , मद॑थ , वृ॒क्त॒ऽब॒र्हि॒षः॒ । ब्र॒ह्मा , कः , वः॒ , स॒प॒र्यति॒ ॥
न॒हि ष्म॒ यद्ध॑ वः पु॒रा स्तोमे॑भिर्वृक्तबर्हिषः । शर्धाँ॑ ऋ॒तस्य॒ जिन्व॑थ ॥
न॒हि , स्म॒ , यत् , ह॒ , वः॒ , पु॒रा , स्तोमे॑भिः , वृ॒क्त॒ऽब॒र्हि॒षः॒ । शर्धा॑न् , ऋ॒तस्य॑ , जिन्व॑थ ॥
समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्यं॑ । सं वज्रं॑ पर्व॒शो द॑धुः ॥
सं , ऊँ॒ इति॑ , त्ये , म॒ह॒तीः , अ॒पः , सं , क्षो॒णी इति॑ , सं , ऊँ॒ इति॑ , सूर्यं॑ । सं , वज्रं॑ , प॒र्व॒ऽशः , द॒धुः॒ ॥
वि वृ॒त्रं प॑र्व॒शो य॑यु॒र्वि पर्व॑ताँ अरा॒जिनः॑ । च॒क्रा॒णा वृष्णि॒ पौंस्यं॑ ॥
वि , वृ॒त्रं , प॒र्व॒ऽशः , य॒युः॒ , वि , पर्व॑तान् , अ॒रा॒जिनः॑ । च॒क्रा॒णाः , वृष्णि॑ , पौंस्यं॑ ॥
अनु॑ त्रि॒तस्य॒ युध्य॑तः॒ शुष्म॑मावन्नु॒त क्रतुं॑ । अन्विंद्रं॑ वृत्र॒तूर्ये॑ ॥
अनु॑ , त्रि॒तस्य॑ , युध्य॑तः , शुष्मं॑ , आ॒व॒न् , उ॒त , क्रतुं॑ । अनु॑ , इंद्रं॑ , वृ॒त्र॒ऽतूर्ये॑ ॥
वि॒द्युद्ध॑स्ता अ॒भिद्य॑वः॒ शिप्राः॑ शी॒र्षन्हि॑र॒ण्ययीः॑ । शु॒भ्रा व्यं॑जत श्रि॒ये ॥
वि॒द्युत्ऽह॑स्ताः , अ॒भिऽद्य॑वः , शिप्राः॑ , शी॒र्षन् , हि॒र॒ण्ययीः॑ । शु॒भ्राः , वि , अं॒ज॒त॒ , श्रि॒ये ॥
उ॒शना॒ यत्प॑रा॒वत॑ उ॒क्ष्णो रंध्र॒मया॑तन । द्यौर्न च॑क्रदद्भि॒या ॥
उ॒शना॑ , यत् , प॒रा॒ऽवतः॑ , उ॒क्ष्णः , रंध्रं॑ , अया॑तन । द्यौः , न , च॒क्र॒द॒त् , भि॒या ॥
आ नो॑ म॒खस्य॑ दा॒वनेऽश्वै॒र्हिर॑ण्यपाणिभिः । देवा॑स॒ उप॑ गंतन ॥
आ , नः॒ , म॒खस्य॑ , दा॒वने॑ , अश्वैः॑ , हिर॑ण्यपाणिऽभिः । देवा॑सः , उप॑ , गं॒त॒न॒ ॥
यदे॑षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः । यांति॑ शु॒भ्रा रि॒णन्न॒पः ॥
यत् , ए॒षां॒ , पृष॑तीः , रथे॑ , प्रष्टिः॑ , वह॑ति , रोहि॑तः । यांति॑ , शु॒भ्राः , रि॒णन् , अ॒पः ॥
सु॒षोमे॑ शर्य॒णाव॑त्यार्जी॒के प॒स्त्या॑वति । य॒युर्निच॑क्रया॒ नरः॑ ॥
सु॒ऽसोमे॑ , श॒र्य॒णाऽव॑ति , आ॒र्जी॒के , प॒स्त्य॑ऽवति । य॒युः , निऽच॑क्रया , नरः॑ ॥
क॒दा ग॑च्छाथ मरुत इ॒त्था विप्रं॒ हव॑मानं । मा॒र्डी॒केभि॒र्नाध॑मानं ॥
क॒दा , ग॒च्छा॒थ॒ , म॒रु॒तः॒ , इ॒त्था , विप्रं॑ , हव॑मानं । मा॒र्डी॒केभिः॑ , नाध॑मानं ॥
कद्ध॑ नू॒नं क॑धप्रियो॒ यदिंद्र॒मज॑हातन । को वः॑ सखि॒त्व ओ॑हते ॥
कत् , ह॒ , नू॒नं , क॒ध॒ऽप्रि॒यः॒ , यत् , इंद्रं॑ , अज॑हातन । कः , वः॒ , स॒खि॒ऽत्वे , ओ॒ह॒ते॒ ॥
स॒हो षु णो॒ वज्र॑हस्तैः॒ कण्वा॑सो अ॒ग्निं म॒रुद्भिः॑ । स्तु॒षे हिर॑ण्यवाशीभिः ॥
स॒हो इति॑ , सु , नः॒ , वज्र॑ऽहस्तैः , कण्वा॑सः , अ॒ग्निं , म॒रुत्ऽभिः॑ । स्तु॒षे , हिर॑ण्यऽवाशीभिः ॥
ओ षु वृष्णः॒ प्रय॑ज्यू॒ना नव्य॑से सुवि॒ताय॑ । व॒वृ॒त्यां चि॒त्रवा॑जान् ॥
ओ इति॑ , सु , वृष्णः॑ , प्रऽय॑ज्यून् , आ , नव्य॑से , सु॒वि॒ताय॑ । व॒वृ॒त्यां , चि॒त्रऽवा॑जान् ॥
गि॒रय॑श्चि॒न्नि जि॑हते॒ पर्शा॑नासो॒ मन्य॑मानाः । पर्व॑ताश्चि॒न्नि ये॑मिरे ॥
गि॒रयः॑ , चि॒त् , नि , जि॒ह॒ते॒ , पर्शा॑नासः , मन्य॑मानाः । पर्व॑ताः , चि॒त् , नि , ये॒मि॒रे॒ ॥
आक्ष्ण॒यावा॑नो वहंत्यं॒तरि॑क्षेण॒ पत॑तः । धाता॑रः स्तुव॒ते वयः॑ ॥
आ , अ॒क्ष्ण॒ऽयावा॑नः , व॒हं॒ति॒ , अं॒तरि॑क्षेण , पत॑तः । धाता॑रः , स्तु॒व॒ते , वयः॑ ॥
अ॒ग्निर्हि जानि॑ पू॒र्व्यश्छंदो॒ न सूरो॑ अ॒र्चिषा॑ । ते भा॒नुभि॒र्वि त॑स्थिरे ॥
अ॒ग्निः , हि , जनि॑ , पू॒र्व्यः , छंदः॑ , न , सूरः॑ , अ॒र्चिषा॑ । ते , भा॒नुऽभिः॑ , वि , त॒स्थि॒रे॒ ॥
[८] आनोविश्वाभिरिति त्रयोविंशत्यृचस्य सूक्तस्य काण्वः सध्वंसोश्विनावनुष्टुप् |
आ नो॒ विश्वा॑भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वं । दस्रा॒ हिर॑ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑ ॥
आ , नः॒ , विश्वा॑भिः , ऊ॒तिऽभिः॑ , अश्वि॑ना , गच्छ॑तं , यु॒वं । दस्रा॑ , हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी , पिब॑तं , सो॒म्यं , मधु॑ ॥
आ नू॒नं या॑तमश्विना॒ रथे॑न॒ सूर्य॑त्वचा । भुजी॒ हिर॑ण्यपेशसा॒ कवी॒ गंभी॑रचेतसा ॥
आ , नू॒नं , या॒तं॒ , अ॒श्वि॒ना॒ , रथे॑न , सूर्य॑ऽत्वचा । भुजी॒ इति॑ , हिर॑ण्यऽपेशसा , कवी॒ इति॑ , गंभी॑रऽचेतसा ॥
आ या॑तं॒ नहु॑ष॒स्पर्यांतरि॑क्षात्सुवृ॒क्तिभिः॑ । पिबा॑थो अश्विना॒ मधु॒ कण्वा॑नां॒ सव॑ने सु॒तं ॥
आ , या॒तं॒ , नहु॑षः , परि॑ , आ , अं॒तरि॑क्षात् , सु॒वृ॒क्तिऽभिः॑ । पिबा॑थः , अ॒श्वि॒ना॒ , मधु॑ , कण्वा॑नां , सव॑ने , सु॒तं ॥
आ नो॑ यातं दि॒वस्पर्यांतरि॑क्षादधप्रिया । पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑ ॥
आ , नः॒ , या॒तं॒ , दि॒वः , परि॑ , आ , अं॒तरि॑क्षात् , अ॒ध॒ऽप्रि॒या॒ । पु॒त्रः , कण्व॑स्य , वां॒ , इ॒ह , सु॒साव॑ , सो॒म्यं , मधु॑ ॥
आ नो॑ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये । स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि॑र्नरा ॥
आ , नः॒ , या॒तं॒ , उप॑ऽश्रुति , अश्वि॑ना , सोम॑ऽपीतये । स्वाहा॑ , स्तोम॑स्य , व॒र्ध॒ना॒ , प्र , क॒वी॒ इति॑ , धी॒तिऽभिः॑ , न॒रा॒ ॥
यच्चि॒द्धि वां॑ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा । आ या॑तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑ ॥
यत् , चि॒त् , हि , वां॒ , पु॒रा , ऋष॑यः , जु॒हू॒रे , अव॑से , न॒रा॒ । आ , या॒तं॒ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ , उप॑ , इ॒मां , सु॒ऽस्तु॒तिं , मम॑ ॥
दि॒वश्चि॑द्रोच॒नादध्या नो॑ गंतं स्वर्विदा । धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे॑भिर्हवनश्रुता ॥
दि॒वः , चि॒त् , रो॒च॒नात् , अधि॑ , आ , नः॒ , गं॒तं॒ , स्वः॒ऽवि॒दा॒ । धी॒भिः , व॒त्स॒ऽप्र॒चे॒त॒सा॒ , स्तोमे॑भिः , ह॒व॒न॒ऽश्रु॒ता॒ ॥
किम॒न्ये पर्या॑सते॒ऽस्मत्स्तोमे॑भिर॒श्विना॑ । पु॒त्रः कण्व॑स्य वा॒मृषि॑र्गी॒र्भिर्व॒त्सो अ॑वीवृधत् ॥
किं , अ॒न्ये , परि॑ , आ॒स॒ते॒ , अ॒स्मत् , स्तोमे॑भिः , अ॒श्विना॑ । पु॒त्रः , कण्व॑स्य , वां॒ , ऋषिः॑ , गीः॒ऽभिः , व॒त्सः , अ॒वी॒वृ॒ध॒त् ॥
आ वां॒ विप्र॑ इ॒हाव॒सेऽह्व॒त्स्तोमे॑भिरश्विना । अरि॑प्रा॒ वृत्र॑हंतमा॒ ता नो॑ भूतं मयो॒भुवा॑ ॥
आ , वां॒ , विप्रः॑ , इ॒ह , अव॑से , अह्व॑त् , स्तोमे॑भिः , अ॒श्वि॒ना॒ । अरि॑प्रा , वृत्र॑हन्ऽतमा , ता , नः॒ , भू॒तं॒ , म॒यः॒ऽभुवा॑ ॥
आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू । विश्वा॑न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतं ॥
आ , यत् , वां॒ , योष॑णा , रथं॑ , अति॑ष्ठत् , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । विश्वा॑नि , अ॒श्वि॒ना॒ , यु॒वं , प्र , धी॒तानि॑ , अ॒ग॒च्छ॒तं॒ ॥
अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना । व॒त्सो वां॒ मधु॑म॒द्वचोऽशं॑सीत्का॒व्यः क॒विः ॥
अतः॑ , स॒हस्र॑ऽनिर्निजा , रथे॑न , आ , या॒तं॒ , अ॒श्वि॒ना॒ । व॒त्सः , वां॒ , मधु॑ऽमत् , वचः॑ , अशं॑सीत् , का॒व्यः , क॒विः ॥
पु॒रु॒मं॒द्रा पु॑रू॒वसू॑ मनो॒तरा॑ रयी॒णां । स्तोमं॑ मे अ॒श्विना॑वि॒मम॒भि वह्नी॑ अनूषातां ॥
पु॒रु॒ऽमं॒द्रा , पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ , म॒नो॒तरा॑ , र॒यी॒णां । स्तोमं॑ , मे॒ , अ॒श्विनौ॑ , इ॒मं , अ॒भि , वह्नी॒ इति॑ , अ॒नू॒षा॒तां॒ ॥
आ नो॒ विश्वा॑न्यश्विना ध॒त्तं राधां॒स्यह्र॑या । कृ॒तं न॑ ऋ॒त्विया॑वतो॒ मा नो॑ रीरधतं नि॒दे ॥
आ , नः॒ , विश्वा॑नि , अ॒श्वि॒ना॒ , ध॒त्तं , राधां॑सि , अह्र॑या । कृ॒तं , नः॒ , ऋ॒त्विय॑ऽवतः , मा , नः॒ , री॒र॒ध॒तं॒ , नि॒दे ॥
यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अध्यंब॑रे । अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ॥
यत् , ना॒स॒त्या॒ , प॒रा॒ऽवति॑ , यत् , वा॒ , स्थः , अधि॑ , अंब॑रे । अतः॑ , स॒हस्र॑ऽनिर्निजा , रथे॑न , आ , या॒तं॒ , अ॒श्वि॒ना॒ ॥
यो वां॑ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् । तस्मै॑ स॒हस्र॑निर्णिज॒मिषं॑ धत्तं घृत॒श्चुतं॑ ॥
यः , वां॒ , ना॒स॒त्यौ॒ , ऋषिः॑ , गीः॒ऽभिः , व॒त्सः , अवी॑वृधत् । तस्मै॑ , स॒हस्र॑ऽनिर्निजं , इषं॑ , ध॒त्तं॒ , घृ॒त॒ऽश्चुतं॑ ॥
प्रास्मा॒ ऊर्जं॑ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वं । यो वां॑ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा॑नुनस्पती ॥
प्र , अ॒स्मै॒ , ऊर्जं॑ , घृ॒त॒ऽश्चुतं॑ , अश्वि॑ना , यच्छ॑तं , यु॒वं । यः , वां॒ , सु॒म्नाय॑ , तु॒स्तव॑त् , व॒सु॒ऽयात् , दा॒नु॒नः॒ , प॒ती॒ इति॑ ॥
आ नो॑ गंतं रिशादसे॒मं स्तोमं॑ पुरुभुजा । कृ॒तं नः॑ सु॒श्रियो॑ नरे॒मा दा॑तम॒भिष्ट॑ये ॥
आ , नः॒ , गं॒तं॒ , रि॒शा॒द॒सा॒ , इ॒मं , स्तोमं॑ , पु॒रु॒ऽभु॒जा॒ । कृ॒तं , नः॒ , सु॒ऽश्रियः॑ , न॒रा॒ , इ॒मा , दा॒तं॒ , अ॒भिष्ट॑ये ॥
आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत । राजं॑तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ॥
आ , वां॒ , विश्वा॑भिः , ऊ॒तिऽभिः॑ , प्रि॒यऽमे॑धाः , अ॒हू॒ष॒त॒ । राजं॑तौ , अ॒ध्व॒राणां॑ , अश्वि॑ना , याम॑ऽहूतिषु ॥
आ नो॑ गंतं मयो॒भुवाश्वि॑ना शं॒भुवा॑ यु॒वं । यो वां॑ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ॥
आ , नः॒ , गं॒तं॒ , म॒यः॒ऽभुवा॑ , अश्वि॑ना , शं॒ऽभुवा॑ , यु॒वं । यः , वां॒ , वि॒प॒न्यू॒ इति॑ , धी॒तिऽभिः॑ , गीः॒ऽभिः , व॒त्सः , अवी॑वृधत् ॥
याभिः॒ कण्वं॒ मेधा॑तिथिं॒ याभि॒र्वशं॒ दश॑व्रजं । याभि॒र्गोश॑र्य॒माव॑तं॒ ताभि॑र्नोऽवतं नरा ॥
याभिः॑ , कण्वं॑ , मेध॑ऽअतिथिं , याभिः॑ , वशं॑ , दश॑ऽव्रजं । याभिः॑ , गोऽश॑र्यं , आव॑तं , ताभिः॑ , नः॒ , अ॒व॒तं॒ , न॒रा॒ ॥
याभि॑र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने॑ । ताभिः॒ ष्व१॒॑स्माँ अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ॥
याभिः॑ , न॒रा॒ , त्र॒सद॑स्युं , आव॑तं , कृत्व्ये॑ , धने॑ । ताभिः॑ , सु , अ॒स्मान् , अ॒श्वि॒ना॒ , प्र , अ॒व॒तं॒ , वाज॑ऽसातये ॥
प्र वां॒ स्तोमाः॑ सुवृ॒क्तयो॒ गिरो॑ वर्धंत्वश्विना । पुरु॑त्रा॒ वृत्र॑हंतमा॒ ता नो॑ भूतं पुरु॒स्पृहा॑ ॥
प्र , वां॒ , स्तोमाः॑ , सु॒ऽवृ॒क्तयः॑ , गिरः॑ , व॒र्धं॒तु॒ , अ॒श्वि॒ना॒ । पुरु॑ऽत्रा , वृत्र॑हन्ऽतमा , ता , नः॒ , भू॒तं॒ , पु॒रु॒ऽस्पृहा॑ ॥
त्रीणि॑ प॒दान्य॒श्विनो॑रा॒विः सांति॒ गुहा॑ प॒रः । क॒वी ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ॥
त्रीणि॑ , प॒दानि॑ , अ॒श्विनोः॑ , आ॒विः , संति॑ , गुहा॑ , प॒रः । क॒वी इति॑ , ऋ॒तस्य॑ , पत्म॑ऽभिः , अ॒र्वाक् , जी॒वेभ्यः॑ , परि॑ ॥
[९] आनूनमित्येकविंशत्यृचस्य सूक्तस्य काण्वः शशकर्णोश्विनावनुष्टुप् आद्याचतुर्थी षष्ठीचतुर्दशी पंचदश्योबृहत्यः द्वितीयातृतीया विंश्येकविंश्योगायत्र्यः पंचमी ककुप् दशमीस्त्रिष्ठुबेकादशीविराड् द्वादशी जगती |
आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गंत॒मव॑से । प्रास्मै॑ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा॑तयः ॥
आ , नू॒नं , अ॒श्वि॒ना॒ , यु॒वं , व॒त्सस्य॑ , गं॒तं॒ , अव॑से । प्र , अ॒स्मै॒ , य॒च्छ॒तं॒ , अ॒वृ॒कं , पृ॒थु , छ॒र्दिः , यु॒यु॒तं , याः , अरा॑तयः ॥
यदं॒तरि॑क्षे॒ यद्दि॒वि यत्पंच॒ मानु॑षाँ॒ अनु॑ । नृ॒म्णं तद्ध॑त्तमश्विना ॥
यत् , अं॒तरि॑क्षे , यत् , दि॒वि , यत् , पंच॑ , मानु॑षान् , अनु॑ । नृ॒म्णं , तत् , ध॒त्तं॒ , अ॒श्वि॒ना॒ ॥
ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः । ए॒वेत्का॒ण्वस्य॑ बोधतं ॥
ये , वां॒ , दंसां॑सि , अ॒श्वि॒ना॒ , विप्रा॑सः , प॒रि॒ऽम॒मृ॒शुः । ए॒व , इत् , का॒ण्वस्य॑ , बो॒ध॒तं॒ ॥
अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते । अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके॑तथः ॥
अ॒यं , वां॒ , घ॒र्मः , अ॒श्वि॒ना॒ , स्तोमे॑न , परि॑ , सि॒च्य॒ते॒ । अ॒यं , सोमः॑ , मधु॑ऽमान् , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू , येन॑ , वृ॒त्रं , चिके॑तथः ॥
यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तं । तेन॑ माविष्टमश्विना ॥
यत् , अ॒प्ऽसु , यत् , वन॒स्पतौ॑ , यत् , ओष॑धीषु , पु॒रु॒ऽदं॒स॒सा॒ , कृ॒तं । तेन॑ , मा॒ , अ॒वि॒ष्टं॒ , अ॒श्वि॒ना॒ ॥
यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथः॑ । अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न विं॑धते ह॒विष्मं॑तं॒ हि गच्छ॑थः ॥
यत् , ना॒स॒त्या॒ , भु॒र॒ण्यथः॑ , यत् , वा॒ , दे॒वा॒ , भि॒ष॒ज्यथः॑ । अ॒यं , वां॒ , व॒त्सः , म॒तिऽभिः॑ , न , विं॒ध॒ते॒ , ह॒विष्मं॑तं , हि , गच्छ॑थः ॥
आ नू॒नम॒श्विनो॒र्ऋषिः॒ स्तोमं॑ चिकेत वा॒मया॑ । आ सोमं॒ मधु॑मत्तमं घ॒र्मं सिं॑चा॒दथ॑र्वणि ॥
आ , नू॒नं , अ॒श्विनोः॑ , ऋषिः॑ , स्तोमं॑ , चि॒के॒त॒ , वा॒मया॑ । आ , सोमं॑ , मधु॑मत्ऽतमं , घ॒र्मं , सिं॒चा॒त् , अथ॑र्वणि ॥
आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना । आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ॥
आ , नू॒नं , र॒घुऽव॑र्तनिं , रथं॑ , ति॒ष्ठा॒थः॒ , अ॒श्वि॒ना॒ । आ , वां॒ , स्तोमाः॑ , इ॒मे , मम॑ , नभः॑ , न , चु॒च्य॒वी॒र॒त॒ ॥
यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑ । यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतं ॥
यत् , अ॒द्य , वां॒ , ना॒स॒त्या॒ , उ॒क्थैः , आ॒ऽचु॒च्यु॒वी॒महि॑ । यत् , वा॒ , वाणी॑भिः , अ॒श्वि॒ना॒ , ए॒व , इत् , का॒ण्वस्य॑ , बो॒ध॒तं॒ ॥
यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑ । पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथां ॥
यत् , वां॒ , क॒क्षीवा॑न् , उ॒त , यत् , विऽअ॑श्वः , ऋषिः॑ , यत् , वां॒ , दी॒र्घऽत॑माः , जु॒हाव॑ । पृथी॑ , यत् , वां॒ , वै॒न्यः , सद॑नेषु , ए॒व , इत् , अतः॑ , अ॒श्वि॒ना॒ , चे॒त॒ये॒थां॒ ॥
या॒तं छ॑र्दि॒ष्पा उ॒त नः॑ पर॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा । व॒र्तिस्तो॒काय॒ तन॑याय यातं ॥
या॒तं , छ॒र्दिः॒ऽपौ , उ॒त , नः॒ , प॒रः॒ऽपा , भू॒तं , ज॒ग॒त्ऽपौ , उ॒त , नः॒ , त॒नू॒ऽपा । व॒र्तिः , तो॒काय॑ , तन॑याय , या॒तं॒ ॥
यदिंद्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थः॒ समो॑कसा । यदा॑दि॒त्येभि॑र्ऋ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥
यत् , इंद्रे॑ण , स॒ऽरथं॑ , या॒थः , अ॒श्वि॒ना॒ , यत् , वा॒ , वा॒युना॑ , भव॑थः , संऽओ॑कसा । यत् , आ॒दि॒त्येभिः॑ , ऋ॒भुऽभिः॑ , स॒ऽजोष॑सा , यत् , वा॒ , विष्णोः॑ , वि॒ऽक्रम॑णेषु , तिष्ठ॑थः ॥
यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये । यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ॥
यत् , अ॒द्य , अ॒श्विनौ॑ , अ॒हं , हु॒वेय॑ , वाज॑ऽसातये । यत् , पृ॒त्ऽसु , तु॒र्वणे॑ , सहः॑ , तत् , श्रेष्ठं॑ , अ॒श्विनोः॑ , अवः॑ ॥
आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता । इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥
आ , नू॒नं , या॒तं॒ , अ॒श्वि॒ना॒ , इ॒मा , ह॒व्यानि॑ , वां॒ , हि॒ता । इ॒मे , सोमा॑सः , अधि॑ , तु॒र्वशे॑ , यदौ॑ , इ॒मे , कण्वे॑षु , वां॒ , अथ॑ ॥
यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जं । तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतं ॥
यत् , ना॒स॒त्या॒ , प॒रा॒के , अ॒र्वा॒के , अस्ति॑ , भे॒ष॒जं । तेन॑ , नू॒नं , वि॒ऽम॒दाय॑ , प्र॒ऽचे॒त॒सा॒ , छ॒र्दिः , व॒त्साय॑ , य॒च्छ॒तं॒ ॥
अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनोः॑ । व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः ॥
अभु॑त्सि , ऊँ॒ इति॑ , प्र , दे॒व्या , सा॒कं , वा॒चा , अ॒हं , अ॒श्विनोः॑ । वि , आ॒वः॒ , दे॒वि॒ , आ , म॒तिं , वि , रा॒तिं , मर्त्ये॑भ्यः ॥
प्र बो॑धयोषो अ॒श्विना॒ प्र दे॑वि सूनृते महि । प्र य॑ज्ञहोतरानु॒षक्प्र मदा॑य॒ श्रवो॑ बृ॒हत् ॥
प्र , बो॒ध॒य॒ , उ॒षः॒ , अ॒श्विना॑ , प्र , दे॒वि॒ , सू॒नृ॒ते॒ , म॒हि॒ । प्र , य॒ज्ञ॒ऽहो॒तः॒ , आ॒नु॒षक् , प्र , मदा॑य , श्रवः॑ , बृ॒हत् ॥
यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये॑ण रोचसे । आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नृ॒पाय्यं॑ ॥
यत् , उ॒षः॒ , यासि॑ , भा॒नुना॑ , सं , सूर्ये॑ण , रो॒च॒से॒ । आ , ह॒ , अ॒यं , अ॒श्विनोः॑ , रथः॑ , व॒र्तिः , या॒ति॒ , नृ॒ऽपाय्यं॑ ॥
यदापी॑तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः । यद्वा॒ वाणी॒रनू॑षत॒ प्र दे॑व॒यंतो॑ अ॒श्विना॑ ॥
यत् , आऽपी॑तासः , अं॒शवः॑ , गावः॑ , न , दु॒ह्रे , ऊध॑ऽभिः । यत् , वा॒ , वाणीः॑ , अनू॑षत , प्र , दे॒व॒ऽयंतः॑ , अ॒श्विना॑ ॥
प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या॑य॒ शर्म॑णे । प्र दक्षा॑य प्रचेतसा ॥
प्र , द्यु॒म्नाय॑ , प्र , शव॑से , प्र , नृ॒ऽसह्या॑य , शर्म॑णे । प्र , दक्षा॑य , प्र॒ऽचे॒त॒सा॒ ॥
यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः । यद्वा॑ सु॒म्नेभि॑रुक्थ्या ॥
यत् , नू॒नं , धी॒भिः , अ॒श्वि॒ना॒ , पि॒तुः , योना॑ , नि॒ऽसीद॑थः । यत् , वा॒ , सु॒म्नेभिः॑ , उ॒क्थ्या॒ ॥
[१०] यत्स्थइति षडृचस्य सूक्तस्य काण्वः प्रगाथोश्विनौक्रमेण बृहतीमध्येज्योतिरनुष्टुबास्तारपंक्तिर्बृहतीसतोबृहत्यः |
यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो॑च॒ने दि॒वः । यद्वा॑ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या॑तमश्विना ॥
यत् , स्थः , दी॒र्घऽप्र॑सद्मनि , यत् , वा॒ , अ॒दः , रो॒च॒ने , दि॒वः । यत् , वा॒ , स॒मु॒द्रे , अधि॑ , आऽकृ॑ते , गृ॒हे , अतः॑ , आ , या॒तं॒ , अ॒श्वि॒ना॒ ॥
यद्वा॑ य॒ज्ञं मन॑वे संमिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतं । बृह॒स्पतिं॒ विश्वां॑दे॒वाँ अ॒हं हु॑व॒ इंद्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥
यत् , वा॒ , य॒ज्ञं , मन॑वे , सं॒ऽमि॒मि॒क्षथुः॑ , ए॒व , इत् , का॒ण्वस्य॑ , बो॒ध॒तं॒ । बृह॒स्पतिं॑ , विश्वा॑न् , दे॒वान् , अ॒हं , हु॒वे॒ , इंद्रा॒विष्णू॒ इति॑ , अ॒श्विनौ॑ , आ॒शु॒ऽहेष॑सा ॥
त्या न्व१॒॑श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता । ययो॒रस्ति॒ प्र णः॑ स॒ख्यं दे॒वेष्वध्याप्यं॑ ॥
त्या , नु , अ॒श्विना॑ , हु॒वे॒ , सु॒ऽदंस॑सा , गृ॒भे , कृ॒ता । ययोः॑ , अस्ति॑ , प्र , नः॒ , स॒ख्यं , दे॒वेषु॑ , अधि॑ , आप्यं॑ ॥
ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे संति॑ सू॒रयः॑ । ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ॥
ययोः॑ , अधि॑ , प्र , य॒ज्ञाः , अ॒सू॒रे , संति॑ , सू॒रयः॑ । ता , य॒ज्ञस्य॑ , अ॒ध्व॒रस्य॑ , प्रऽचे॑तसा , स्व॒धाभिः॑ , या , पिब॑तः , सो॒म्यं , मधु॑ ॥
यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा॑जिनीवसू । यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ॑ हु॒वे वा॒मथ॒ मा ग॑तं ॥
यत् , अ॒द्य , अ॒श्वि॒नौ॒ , अपा॑क् , यत् , प्राक् , स्थः , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । यत् , द्रु॒ह्यवि॑ , अन॑वि , तु॒र्वशे॑ , यदौ॑ , हु॒वे , वां॒ , अथ॑ , मा॒ , आ , ग॒तं॒ ॥
यदं॒तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒ अनु॑ । यद्वा॑ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या॑तमश्विना ॥
यत् , अं॒तरि॑क्षे , पत॑थः , पु॒रु॒ऽभु॒जा॒ , यत् , वा॒ , इ॒मे इति॑ , रोद॑सी॒ इति॑ , अनु॑ । यत् , वा॒ , स्व॒धाभिः॑ , अ॒धि॒ऽतिष्ठ॑थः , रथं॑ , अतः॑ , आ , या॒तं॒ , अ॒श्वि॒ना॒ ॥
[११] त्वमग्नइति दशर्चस्य सूक्तस्य काण्वोवत्सोग्निर्गायत्री प्रथमाप्रतिष्ठा द्वितीयावर्धमानांत्यात्रिष्टुप् |
त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं य॒ज्ञेष्वीड्यः॑ ॥
त्वं , अ॒ग्ने॒ , व्र॒त॒ऽपाः , अ॒सि॒ , दे॒वः , आ , मर्त्ये॑षु , आ । त्वं , य॒ज्ञेषु॑ , ईड्यः॑ ॥
त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहंत्य । अग्ने॑ र॒थीर॑ध्व॒राणां॑ ॥
त्वं , अ॒सि॒ , प्र॒ऽशस्यः॑ , वि॒दथे॑षु , स॒हं॒त्य॒ । अग्ने॑ , र॒थीः , अ॒ध्व॒राणां॑ ॥
स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः । अदे॑वीरग्ने॒ अरा॑तीः ॥
सः , त्वं , अ॒स्मत् , अप॑ , द्विषः॑ , यु॒यो॒धि , जा॒त॒ऽवे॒दः॒ । अदे॑वीः , अ॒ग्ने॒ , अरा॑तीः ॥
अंति॑ चि॒त्संत॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः । नोप॑ वेषि जातवेदः ॥
अंति॑ , चि॒त् , संतं॑ , अह॑ , य॒ज्ञं , मर्त॑स्य , रि॒पोः । न , उप॑ , वे॒षि॒ , जा॒त॒ऽवे॒दः॒ ॥
मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे । विप्रा॑सो जा॒तवे॑दसः ॥
मर्ताः॑ , अम॑र्त्यस्य , ते॒ , भूरि॑ , नाम॑ , म॒ना॒म॒हे॒ । विप्रा॑सः , जा॒तऽवे॑दसः ॥
विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता॑स ऊ॒तये॑ । अ॒ग्निं गी॒र्भिर्ह॑वामहे ॥
विप्रं॑ , विप्रा॑सः , अव॑से , दे॒वं , मर्ता॑सः , ऊ॒तये॑ । अ॒ग्निं , गीः॒ऽभिः , ह॒वा॒म॒हे॒ ॥
आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् । अग्ने॒ त्वांका॑मया गि॒रा ॥
आ , ते॒ , व॒त्सः , मनः॑ , य॒म॒त् , प॒र॒मात् , चि॒त् , स॒धऽस्था॑त् । अग्ने॑ , त्वांऽका॑मया , गि॒रा ॥
पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः । स॒मत्सु॑ त्वा हवामहे ॥
पु॒रु॒ऽत्रा , हि , स॒ऽदृङ् , असि॑ , विशः॑ , विश्वाः॑ , अनु॑ , प्र॒ऽभुः । स॒मत्ऽसु॑ , त्वा॒ , ह॒वा॒म॒हे॒ ॥
स॒मत्स्व॒ग्निमव॑से वाज॒यंतो॑ हवामहे । वाजे॑षु चि॒त्ररा॑धसं ॥
स॒मत्ऽसु॑ , अ॒ग्निं , अव॑से , वा॒ज॒ऽयंतः॑ , ह॒वा॒म॒हे॒ । वाजे॑षु , चि॒त्रऽरा॑धसं ॥
प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ । स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥
प्र॒त्नः , हि , कं॒ , ईड्यः॑ , अ॒ध्व॒रेषु॑ , स॒नात् , च॒ , होता॑ , नव्यः॑ , च॒ , सत्सि॑ । स्वां , च॒ , अ॒ग्ने॒ , त॒न्वं॑ , पि॒प्रय॑स्व , अ॒स्मभ्यं॑ , च॒ , सौभ॑गं , आ , य॒ज॒स्व॒ ॥
[१२] यइंद्रेति त्रयस्त्रिंशदृचस्य सूक्तस्य काण्वः पर्वत इंद्र उष्णिक् |
य इं॑द्र सोम॒पात॑मो॒ मदः॑ शविष्ठ॒ चेत॑ति । येना॒ हंसि॒ न्य१॒॑त्रिणं॒ तमी॑महे ॥
यः , इं॒द्र॒ , सो॒म॒ऽपात॑मः , मदः॑ , श॒वि॒ष्ठ॒ , चेत॑ति । येन॑ , हंसि॑ , नि , अ॒त्रिणं॑ , तं , ई॒म॒हे॒ ॥
येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पयं॑तं॒ स्व॑र्णरं । येना॑ समु॒द्रमावि॑था॒ तमी॑महे ॥
येन॑ , दश॑ऽग्वं , अध्रि॑ऽगुं , वे॒पयं॑तं , स्वः॑ऽनरं । येन॑ , स॒मु॒द्रं , आवि॑थ , तं , ई॒म॒हे॒ ॥
येन॒ सिंधुं॑ म॒हीर॒पो रथाँ॑ इव प्रचो॒दयः॑ । पंथा॑मृ॒तस्य॒ यात॑वे॒ तमी॑महे ॥
येन॑ , सिंधुं॑ , म॒हीः , अ॒पः , रथा॑न्ऽइव , प्र॒ऽचो॒दयः॑ । पंथां॑ , ऋ॒तस्य॑ , यात॑वे , तं , ई॒म॒हे॒ ॥
इ॒मं स्तोम॑म॒भिष्ट॑ये घृ॒तं न पू॒तम॑द्रिवः । येना॒ नु स॒द्य ओज॑सा व॒वक्षि॑थ ॥
इ॒मं , स्तोमं॑ , अ॒भिष्ट॑ये , घृ॒तं , न , पू॒तं , अ॒द्रि॒ऽवः॒ । येन॑ , नु , स॒द्यः , ओज॑सा , व॒वक्षि॑थ ॥
इ॒मं जु॑षस्व गिर्वणः समु॒द्र इ॑व पिन्वते । इंद्र॒ विश्वा॑भिरू॒तिभि॑र्व॒वक्षि॑थ ॥
इ॒मं , जु॒ष॒स्व॒ , गि॒र्व॒णः॒ , स॒मु॒द्रःऽइ॑व , पि॒न्व॒ते॒ । इंद्र॑ , विश्वा॑भिः , ऊ॒तिऽभिः॑ , व॒वक्षि॑थ ॥
यो नो॑ दे॒वः प॑रा॒वतः॑ सखित्व॒नाय॑ माम॒हे । दि॒वो न वृ॒ष्टिं प्र॒थय॑न्व॒वक्षि॑थ ॥
यः , नः॒ , दे॒वः , प॒रा॒ऽवतः॑ , स॒खि॒ऽत्व॒नाय॑ , म॒म॒हे । दि॒वः , न , वृ॒ष्टिं , प्र॒थय॑न् , व॒वक्षि॑थ ॥
व॒व॒क्षुर॑स्य के॒तव॑ उ॒त वज्रो॒ गभ॑स्त्योः । यत्सूर्यो॒ न रोद॑सी॒ अव॑र्धयत् ॥
व॒व॒क्षुः , अ॒स्य॒ , के॒तवः॑ , उ॒त , वज्रः॑ , गभ॑स्त्योः । यत् , सूर्यः॑ , न , रोद॑सी॒ इति॑ , अव॑र्धयत् ॥
यदि॑ प्रवृद्ध सत्पते स॒हस्रं॑ महि॒षाँ अघः॑ । आदित्त॑ इंद्रि॒यं महि॒ प्र वा॑वृधे ॥
यदि॑ , प्र॒ऽवृ॒द्ध॒ , स॒त्ऽप॒ते॒ , स॒हस्रं॑ , म॒हि॒षान् , अघः॑ । आत् , इत् , ते॒ , इं॒द्रि॒यं , महि॑ , प्र , व॒वृ॒धे॒ ॥
इंद्रः॒ सूर्य॑स्य र॒श्मिभि॒र्न्य॑र्शसा॒नमो॑षति । अ॒ग्निर्वने॑व सास॒हिः प्र वा॑वृधे ॥
इंद्रः॑ , सूर्य॑स्य , र॒श्मिऽभिः॑ , नि , अ॒र्श॒सा॒नं , ओ॒ष॒ति॒ । अ॒ग्निः , वना॑ऽइव , स॒स॒हिः , प्र , व॒वृ॒धे॒ ॥
इ॒यं त॑ ऋ॒त्विया॑वती धी॒तिरे॑ति॒ नवी॑यसी । स॒प॒र्यंती॑ पुरुप्रि॒या मिमी॑त॒ इत् ॥
इ॒यं , ते॒ , ऋ॒त्विय॑ऽवती , धी॒तिः , ए॒ति॒ , नवी॑यसी । स॒प॒र्यंती॑ , पु॒रु॒ऽप्रि॒या , मिमी॑ते , इत् ॥
गर्भो॑ य॒ज्ञस्य॑ देव॒युः क्रतुं॑ पुनीत आनु॒षक् । स्तोमै॒रिंद्र॑स्य वावृधे॒ मिमी॑त॒ इत् ॥
गर्भः॑ , य॒ज्ञस्य॑ , दे॒व॒ऽयुः , क्रतुं॑ , पु॒नी॒ते॒ , आ॒नु॒षक् । स्तोमैः॑ , इंद्र॑स्य , व॒वृ॒धे॒ , मिमी॑ते , इत् ॥
स॒निर्मि॒त्रस्य॑ पप्रथ॒ इंद्रः॒ सोम॑स्य पी॒तये॑ । प्राची॒ वाशी॑व सुन्व॒ते मिमी॑त॒ इत् ॥
स॒निः , मि॒त्रस्य॑ , प॒प्र॒थे॒ , इंद्रः॑ , सोम॑स्य , पी॒तये॑ । प्राची॑ , वाशी॑ऽइव , सु॒न्व॒ते , मिमी॑ते , इत् ॥
यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रमं॒दुरा॒यवः॑ । घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ॥
यं , विप्राः॑ , उ॒क्थऽवा॑हसः , अ॒भि॒ऽप्र॒मं॒दुः , आ॒यवः॑ । घृ॒तं , न , पि॒प्ये॒ , आ॒सनि॑ , ऋ॒तस्य॑ , यत् ॥
उ॒त स्व॒राजे॒ अदि॑तिः॒ स्तोम॒मिंद्रा॑य जीजनत् । पु॒रु॒प्र॒श॒स्तमू॒तय॑ ऋ॒तस्य॒ यत् ॥
उ॒त , स्व॒ऽराजे॑ , अदि॑तिः , स्तोमं॑ , इंद्रा॑य , जी॒ज॒न॒त् । पु॒रु॒ऽप्र॒श॒स्तं , ऊ॒तये॑ , ऋ॒तस्य॑ , यत् ॥
अ॒भि वह्न॑य ऊ॒तयेऽनू॑षत॒ प्रश॑स्तये । न दे॑व॒ विव्र॑ता॒ हरी॑ ऋ॒तस्य॒ यत् ॥
अ॒भि , वह्न॑यः , ऊ॒तये॑ , अनू॑षत , प्रऽश॑स्तये । न , दे॒व॒ , विऽव्र॑ता , हरी॒ इति॑ , ऋ॒तस्य॑ , यत् ॥
यत्सोम॑मिंद्र॒ विष्ण॑वि॒ यद्वा॑ घ त्रि॒त आ॒प्त्ये । यद्वा॑ म॒रुत्सु॒ मंद॑से॒ समिंदु॑भिः ॥
यत् , सोमं॑ , इं॒द्र॒ , विष्ण॑वि , यत् , वा॒ , घ॒ , त्रि॒ते , आ॒प्त्ये । यत् , वा॒ , म॒रुत्ऽसु॑ , मंद॑से , सं , इंदु॑ऽभिः ॥
यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मंद॑से । अ॒स्माक॒मित्सु॒ते र॑णा॒ समिंदु॑भिः ॥
यत् , वा॒ , श॒क्र॒ , प॒रा॒ऽवति॑ , स॒मु॒द्रे , अधि॑ , मंद॑से । अ॒स्माकं॑ , इत् , सु॒ते , र॒ण॒ , सं , इंदु॑ऽभिः ॥
यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते । उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिंदु॑भिः ॥
यत् , वा॒ , असि॑ , सु॒न्व॒तः , वृ॒धः , यज॑मानस्य , स॒त्ऽप॒ते॒ । उ॒क्थे , वा॒ , यस्य॑ , रण्य॑सि , सं , इंदु॑ऽभिः ॥
दे॒वंदे॑वं॒ वोऽव॑स॒ इंद्र॑मिंद्रं गृणी॒षणि॑ । अधा॑ य॒ज्ञाय॑ तु॒र्वणे॒ व्या॑नशुः ॥
दे॒वंऽदे॑वं , वः॒ , अव॑से , इंद्रं॑ऽइंद्रं , गृ॒णी॒षणि॑ । अध॑ , य॒ज्ञाय॑ , तु॒र्वणे॑ , वि , आ॒न॒शुः॒ ॥
य॒ज्ञेभि॑र्य॒ज्ञवा॑हसं॒ सोमे॑भिः सोम॒पात॑मं । होत्रा॑भि॒रिंद्रं॑ वावृधु॒र्व्या॑नशुः ॥
य॒ज्ञेभिः॑ , य॒ज्ञऽवा॑हसं , सोमे॑भिः , सो॒म॒ऽपात॑मं । होत्रा॑भिः , इंद्रं॑ , व॒वृ॒धुः॒ , वि , आ॒न॒शुः॒ ॥
म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः । विश्वा॒ वसू॑नि दा॒शुषे॒ व्या॑नशुः ॥
म॒हीः , अ॒स्य॒ , प्रऽनी॑तयः , पू॒र्वीः , उ॒त , प्रऽश॑स्तयः । विश्वा॑ , वसू॑नि , दा॒शुषे॑ , वि , आ॒न॒शुः॒ ॥
इंद्रं॑ वृ॒त्राय॒ हंत॑वे दे॒वासो॑ दधिरे पु॒रः । इंद्रं॒ वाणी॑रनूषता॒ समोज॑से ॥
इंद्रं॑ , वृ॒त्राय॑ , हंत॑वे , दे॒वासः॑ , द॒धि॒रे॒ , पु॒रः । इंद्रं॑ , वाणीः॑ , अ॒नू॒ष॒त॒ , सं , ओज॑से ॥
म॒हांतं॑ महि॒ना व॒यं स्तोमे॑भिर्हवन॒श्रुतं॑ । अ॒र्कैर॒भि प्र णो॑नुमः॒ समोज॑से ॥
म॒हांतं॑ , म॒हि॒ना , व॒यं , स्तोमे॑भिः , ह॒व॒न॒ऽश्रुतं॑ । अ॒र्कैः , अ॒भि , प्र , नो॒नु॒मः॒ , सं , ओज॑से ॥
न यं वि॑वि॒क्तो रोद॑सी॒ नांतरि॑क्षाणि व॒ज्रिणं॑ । अमा॒दिद॑स्य तित्विषे॒ समोज॑सः ॥
न , यं , वि॒वि॒क्तः , रोद॑सी॒ इति॑ , न , अं॒तरि॑क्षाणि , व॒ज्रिणं॑ । अमा॑त् , इत् , अ॒स्य॒ , ति॒त्वि॒षे॒ , सं , ओज॑सः ॥
यदिं॑द्र पृत॒नाज्ये॑ दे॒वास्त्वा॑ दधि॒रे पु॒रः । आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥
यत् , इं॒द्र॒ , पृ॒त॒नाज्ये॑ , दे॒वाः , त्वा॒ , द॒धि॒रे , पु॒रः । आत् , इत् , ते॒ , ह॒र्य॒ता , हरी॒ इति॑ , व॒व॒क्ष॒तुः॒ ॥
य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः । आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥
य॒दा , वृ॒त्रं , न॒दी॒ऽवृतं॑ , शव॑सा , व॒ज्रि॒न् , अव॑धीः । आत् , इत् , ते॒ , ह॒र्य॒ता , हरी॒ इति॑ , व॒व॒क्ष॒तुः॒ ॥
य॒दा ते॒ विष्णु॒रोज॑सा॒ त्रीणि॑ प॒दा वि॑चक्र॒मे । आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥
य॒दा , ते॒ , विष्णुः॑ , ओज॑सा , त्रीणि॑ , प॒दा , वि॒ऽच॒क्र॒मे । आत् , इत् , ते॒ , ह॒र्य॒ता , हरी॒ इति॑ , व॒व॒क्ष॒तुः॒ ॥
य॒दा ते॑ हर्य॒ता हरी॑ वावृ॒धाते॑ दि॒वेदि॑वे । आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥
य॒दा , ते॒ , ह॒र्य॒ता , हरी॒ इति॑ , व॒वृ॒धाते॒ इति॑ , दि॒वेऽदि॑वे । आत् , इत् , ते॒ , विश्वा॑ , भुव॑नानि , ये॒मि॒रे॒ ॥
य॒दा ते॒ मारु॑ती॒र्विश॒स्तुभ्य॑मिंद्र नियेमि॒रे । आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥
य॒दा , ते॒ , मारु॑तीः , विशः॑ , तुभ्यं॑ , इं॒द्र॒ , नि॒ऽये॒मि॒रे । आत् , इत् , ते॒ , विश्वा॑ , भुव॑नानि , ये॒मि॒रे॒ ॥
य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा॑रयः । आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥
य॒दा , सूर्यं॑ , अ॒मुं , दि॒वि , शु॒क्रं , ज्योतिः॑ , अधा॑रयः । आत् , इत् , ते॒ , विश्वा॑ , भुव॑नानि , ये॒मि॒रे॒ ॥
इ॒मां त॑ इंद्र सुष्टु॒तिं विप्र॑ इयर्ति धी॒तिभिः॑ । जा॒मिं प॒देव॒ पिप्र॑तीं॒ प्राध्व॒रे ॥
इ॒मां , ते॒ , इं॒द्र॒ , सु॒ऽस्तु॒तिं , विप्रः॑ , इ॒य॒र्ति॒ , धी॒तिऽभिः॑ । जा॒मिं , प॒दाऽइ॑व , पिप्र॑तीं , प्र , अ॒ध्व॒रे ॥
यद॑स्य॒ धाम॑नि प्रि॒ये स॑मीची॒नासो॒ अस्व॑रन् । नाभा॑ य॒ज्ञस्य॑ दो॒हना॒ प्राध्व॒रे ॥
यत् , अ॒स्य॒ , धाम॑नि , प्रि॒ये , सं॒ऽई॒ची॒नासः॑ , अस्व॑रन् । नाभा॑ , य॒ज्ञस्य॑ , दो॒हना॑ , प्र , अ॒ध्व॒रे ॥
सु॒वीर्यं॒ स्वश्व्यं॑ सु॒गव्य॑मिंद्र दद्धि नः । होते॑व पू॒र्वचि॑त्तये॒ प्राध्व॒रे ॥
सु॒ऽवीर्यं॑ , सु॒ऽअश्व्यं॑ , सु॒ऽगव्यं॑ , इं॒द्र॒ , द॒द्धि॒ , नः॒ । होता॑ऽइव , पू॒र्वऽचि॑त्तये , प्र , अ॒ध्व॒रे ॥
[१३] इंद्रः सुतेष्विति त्रयस्त्रिंशदृचस्य सूक्तस्य काण्वोनारदइंद्रउष्णिक् |
इंद्रः॑ सु॒तेषु॒ सोमे॑षु॒ क्रतुं॑ पुनीत उ॒क्थ्यं॑ । वि॒दे वृ॒धस्य॒ दक्ष॑सो म॒हान्हि षः ॥
इंद्रः॑ , सु॒तेषु॑ , सोमे॑षु , क्रतुं॑ , पु॒नी॒ते॒ , उ॒क्थ्यं॑ । वि॒दे , वृ॒धस्य॑ , दक्ष॑सः , म॒हान् , हि , सः ॥
स प्र॑थ॒मे व्यो॑मनि दे॒वानां॒ सद॑ने वृ॒धः । सु॒पा॒रः सु॒श्रव॑स्तमः॒ सम॑प्सु॒जित् ॥
सः , प्र॒थ॒मे , विऽओ॑मनि , दे॒वानां॑ , सद॑ने , वृ॒धः । सु॒ऽपा॒रः , सु॒श्रवः॑ऽतमः , सं , अ॒प्सु॒ऽजित् ॥
तम॑ह्वे॒ वाज॑सातय॒ इंद्रं॒ भरा॑य शु॒ष्मिणं॑ । भवा॑ नः सु॒म्ने अंत॑मः॒ सखा॑ वृ॒धे ॥
तं , अ॒ह्वे॒ , वाज॑ऽसातये , इंद्रं॑ , भरा॑य , शु॒ष्मिणं॑ । भव॑ , नः॒ , सु॒म्ने , अंत॑मः , सखा॑ , वृ॒धे ॥
इ॒यं त॑ इंद्र गिर्वणो रा॒तिः क्ष॑रति सुन्व॒तः । मं॒दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥
इ॒यं , ते॒ , इं॒द्र॒ , गि॒र्व॒णः॒ , रा॒तिः , क्ष॒र॒ति॒ , सु॒न्व॒तः । मं॒दा॒नः , अ॒स्य , ब॒र्हिषः॑ , वि , रा॒ज॒सि॒ ॥
नू॒नं तदिं॑द्र दद्धि नो॒ यत्त्वा॑ सु॒न्वंत॒ ईम॑हे । र॒यिं न॑श्चि॒त्रमा भ॑रा स्व॒र्विदं॑ ॥
नू॒नं , तत् , इं॒द्र॒ , द॒द्धि॒ , नः॒ , यत् , त्वा॒ , सु॒न्वंतः॑ , ईम॑हे । र॒यिं , नः॒ , चि॒त्रं , आ , भ॒र॒ , स्वः॒ऽविदं॑ ॥
स्तो॒ता यत्ते॒ विच॑र्षणिरतिप्रश॒र्धय॒द्गिरः॑ । व॒या इ॒वानु॑ रोहते जु॒षंत॒ यत् ॥
स्तो॒ता , यत् , ते॒ , विऽच॑र्षणिः , अ॒ति॒ऽप्र॒श॒र्धय॑त् , गिरः॑ । व॒याःऽइ॑व , अनु॑ , रो॒ह॒ते॒ , जु॒षंत॑ , यत् ॥
प्र॒त्न॒वज्ज॑नया॒ गिरः॑ शृणु॒धी ज॑रि॒तुर्हवं॑ । मदे॑मदे ववक्षिथा सु॒कृत्व॑ने ॥
प्र॒त्न॒ऽवत् , ज॒न॒य॒ , गिरः॑ , शृ॒णु॒धि , ज॒रि॒तुः , हवं॑ । मदे॑ऽमदे , व॒व॒क्षि॒थ॒ , सु॒ऽकृत्व॑ने ॥
क्रीळं॑त्यस्य सू॒नृता॒ आपो॒ न प्र॒वता॑ य॒तीः । अ॒या धि॒या य उ॒च्यते॒ पति॑र्दि॒वः ॥
क्रीळं॑ति , अ॒स्य॒ , सू॒नृताः॑ , आपः॑ , न , प्र॒ऽवता॑ , य॒तीः । अ॒या , धि॒या , यः , उ॒च्यते॑ , पतिः॑ , दि॒वः ॥
उ॒तो पति॒र्य उ॒च्यते॑ कृष्टी॒नामेक॒ इद्व॒शी । न॒मो॒वृ॒धैर॑व॒स्युभिः॑ सु॒ते र॑ण ॥
उ॒तो इति॑ , पतिः॑ , यः , उ॒च्यते॑ , कृ॒ष्टी॒नां , एकः॑ , इत् , व॒शी । न॒मः॒ऽवृ॒धैः , अ॒व॒स्युऽभिः॑ , सु॒ते , र॒ण॒ ॥
स्तु॒हि श्रु॒तं वि॑प॒श्चितं॒ हरी॒ यस्य॑ प्रस॒क्षिणा॑ । गंता॑रा दा॒शुषो॑ गृ॒हं न॑म॒स्विनः॑ ॥
स्तु॒हि , श्रु॒तं , वि॒पः॒ऽचितं॑ , हरी॒ इति॑ , यस्य॑ , प्र॒ऽस॒क्षिणा॑ । गंता॑रा , दा॒शुषः॑ , गृ॒हं , न॒म॒स्विनः॑ ॥
तू॒तु॒जा॒नो म॑हेम॒तेऽश्वे॑भिः प्रुषि॒तप्सु॑भिः । आ या॑हि य॒ज्ञमा॒शुभिः॒ शमिद्धि ते॑ ॥
तू॒तु॒जा॒नः , म॒हे॒ऽम॒ते॒ , अश्वे॑भिः , प्रु॒षि॒तप्सु॑ऽभिः । आ , या॒हि॒ , य॒ज्ञं , आ॒शुऽभिः॑ , शं , इत् , हि , ते॒ ॥
इंद्र॑ शविष्ठ सत्पते र॒यिं गृ॒णत्सु॑ धारय । श्रवः॑ सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नं ॥
इंद्र॑ , श॒वि॒ष्ठ॒ , स॒त्ऽप॒ते॒ , र॒यिं , गृ॒णत्ऽसु॑ , धा॒र॒य॒ । श्रवः॑ , सू॒रिऽभ्यः॑ , अ॒मृतं॑ , व॒सु॒ऽत्व॒नं ॥
हवे॑ त्वा॒ सूर॒ उदि॑ते॒ हवे॑ म॒ध्यंदि॑ने दि॒वः । जु॒षा॒ण इं॑द्र॒ सप्ति॑भिर्न॒ आ ग॑हि ॥
हवे॑ , त्वा॒ , सूरे॑ , उत्ऽइ॑ते , हवे॑ , म॒ध्यंदि॑ने , दि॒वः । जु॒षा॒णः , इं॒द्र॒ , सप्ति॑ऽभिः , नः॒ , आ , ग॒हि॒ ॥
आ तू ग॑हि॒ प्र तु द्र॑व॒ मत्स्वा॑ सु॒तस्य॒ गोम॑तः । तंतुं॑ तनुष्व पू॒र्व्यं यथा॑ वि॒दे ॥
आ , तु , ग॒हि॒ , प्र , तु , द्र॒व॒ , मत्स्व॑ , सु॒तस्य॑ , गोऽम॑तः । तंतुं॑ , त॒नु॒ष्व॒ , पू॒र्व्यं , यथा॑ , वि॒दे ॥
यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् । यद्वा॑ समु॒द्रे अंध॑सोऽवि॒तेद॑सि ॥
यत् , श॒क्र॒ , असि॑ , प॒रा॒ऽवति॑ , यत् , अ॒र्वा॒ऽवति॑ , वृ॒त्र॒ऽह॒न् । यत् , वा॒ , स॒मु॒द्रे , अंध॑सः , अ॒वि॒ता , इत् , अ॒सि॒ ॥
इंद्रं॑ वर्धंतु नो॒ गिर॒ इंद्रं॑ सु॒तास॒ इंद॑वः । इंद्रे॑ ह॒विष्म॑ती॒र्विशो॑ अराणिषुः ॥
इंद्रं॑ , व॒र्धं॒तु॒ , नः॒ , गिरः॑ , इंद्रं॑ , सु॒तासः॑ , इंद॑वः । इंद्रे॑ , ह॒विष्म॑तीः , विशः॑ , अ॒रा॒णि॒षुः॒ ॥
तमिद्विप्रा॑ अव॒स्यवः॑ प्र॒वत्व॑तीभिरू॒तिभिः॑ । इंद्रं॑ क्षो॒णीर॑वर्धयन्व॒या इ॑व ॥
तं , इत् , विप्राः॑ , अ॒व॒स्यवः॑ , प्र॒वत्व॑तीभिः , ऊ॒तिऽभिः॑ । इंद्रं॑ , क्षो॒णीः , अ॒व॒र्ध॒य॒न् , व॒याःऽइ॑व ॥
त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत । तमिद्व॑र्धंतु नो॒ गिरः॑ स॒दावृ॑धं ॥
त्रिऽक॑द्रुकेषु , चेत॑नं , दे॒वासः॑ , य॒ज्ञं , अ॒त्न॒त॒ । तं , इत् , व॒र्धं॒तु॒ , नः॒ , गिरः॑ , स॒दाऽवृ॑धं ॥
स्तो॒ता यत्ते॒ अनु॑व्रत उ॒क्थान्यृ॑तु॒था द॒धे । शुचिः॑ पाव॒क उ॑च्यते॒ सो अद्भु॑तः ॥
स्तो॒ता , यत् , ते॒ , अनु॑ऽव्रतः , उ॒क्थानि॑ , ऋ॒तु॒ऽथा , द॒धे । शुचिः॑ , पा॒व॒कः , उ॒च्य॒ते॒ , सः , अद्भु॑तः ॥
तदिद्रु॒द्रस्य॑ चेतति य॒ह्वं प्र॒त्नेषु॒ धाम॑सु । मनो॒ यत्रा॒ वि तद्द॒धुर्विचे॑तसः ॥
तत् , इत् , रु॒द्रस्य॑ , चे॒त॒ति॒ , य॒ह्वं , प्र॒त्नेषु॑ , धाम॑ऽसु । मनः॑ , यत्र॑ , वि , तत् , द॒धुः , विऽचे॑तसः ॥
यदि॑ मे स॒ख्यमा॒वर॑ इ॒मस्य॑ पा॒ह्यंध॑सः । येन॒ विश्वा॒ अति॒ द्विषो॒ अता॑रिम ॥
यदि॑ , मे॒ , स॒ख्यं , आ॒ऽवरः॑ , इ॒मस्य॑ , पा॒हि॒ , अंध॑सः । येन॑ , विश्वाः॑ , अति॑ , द्विषः॑ , अता॑रिम ॥
क॒दा त॑ इंद्र गिर्वणः स्तो॒ता भ॑वाति॒ शंत॑मः । क॒दा नो॒ गव्ये॒ अश्व्ये॒ वसौ॑ दधः ॥
क॒दा , ते॒ , इं॒द्र॒ , गि॒र्व॒णः॒ , स्तो॒ता , भ॒वा॒ति॒ , शंऽत॑मः । क॒दा , नः॒ , गव्ये॑ , अश्व्ये॑ , वसौ॑ , द॒धः॒ ॥
उ॒त ते॒ सुष्टु॑ता॒ हरी॒ वृष॑णा वहतो॒ रथं॑ । अ॒जु॒र्यस्य॑ म॒दिंत॑मं॒ यमीम॑हे ॥
उ॒त , ते॒ , सुऽस्तु॑ता , हरी॒ इति॑ , वृष॑णा , व॒ह॒तः॒ , रथं॑ । अ॒जु॒र्यस्य॑ , म॒दिन्ऽत॑मं , यं , ईम॑हे ॥
तमी॑महे पुरुष्टु॒तं य॒ह्वं प्र॒त्नाभि॑रू॒तिभिः॑ । नि ब॒र्हिषि॑ प्रि॒ये स॑द॒दध॑ द्वि॒ता ॥
तं , ई॒म॒हे॒ , पु॒रु॒ऽस्तु॒तं , य॒ह्वं , प्र॒त्नाभिः॑ , ऊ॒तिऽभिः॑ । नि , ब॒र्हिषि॑ , प्रि॒ये , स॒द॒त् , अध॑ , द्वि॒ता ॥
वर्ध॑स्वा॒ सु पु॑रुष्टुत॒ ऋषि॑ष्टुताभिरू॒तिभिः॑ । धु॒क्षस्व॑ पि॒प्युषी॒मिष॒मवा॑ च नः ॥
वर्ध॑स्व , सु , पु॒रु॒ऽस्तु॒त॒ , ऋषि॑ऽस्तुताभिः , ऊ॒तिऽभिः॑ । धु॒क्षस्व॑ , पि॒प्युषीं॑ , इषं॑ , अव॑ , च॒ , नः॒ ॥
इंद्र॒ त्वम॑वि॒तेद॑सी॒त्था स्तु॑व॒तो अ॑द्रिवः । ऋ॒तादि॑यर्मि ते॒ धियं॑ मनो॒युजं॑ ॥
इंद्र॑ , त्वं , अ॒वि॒ता , इत् , अ॒सि॒ , इ॒त्था , स्तु॒व॒तः , अ॒द्रि॒ऽवः॒ । ऋ॒तात् , इ॒य॒र्मि॒ , ते॒ , धियं॑ , म॒नः॒ऽयुजं॑ ॥
इ॒ह त्या स॑ध॒माद्या॑ युजा॒नः सोम॑पीतये । हरी॑ इंद्र प्र॒तद्व॑सू अ॒भि स्व॑र ॥
इ॒ह , त्या , स॒ध॒ऽमाद्या॑ , यु॒जा॒नः , सोम॑ऽपीतये । हरी॒ इति॑ , इं॒द्र॒ , प्र॒तद्व॑सू॒ इति॑ प्र॒तत्ऽव॑सू , अ॒भि , स्व॒र॒ ॥
अ॒भि स्व॑रंतु॒ ये तव॑ रु॒द्रासः॑ सक्षत॒ श्रियं॑ । उ॒तो म॒रुत्व॑ती॒र्विशो॑ अ॒भि प्रयः॑ ॥
अ॒भि , स्व॒रं॒तु॒ , ये , तव॑ , रु॒द्रासः॑ , स॒क्ष॒त॒ , श्रियं॑ । उ॒तो इति॑ , म॒रुत्व॑तीः , विशः॑ , अ॒भि , प्रयः॑ ॥
इ॒मा अ॑स्य॒ प्रतू॑र्तयः प॒दं जु॑षंत॒ यद्दि॒वि । नाभा॑ य॒ज्ञस्य॒ सं द॑धु॒र्यथा॑ वि॒दे ॥
इ॒माः , अ॒स्य॒ , प्रऽतू॑र्तयः , प॒दं , जु॒षं॒त॒ , यत् , दि॒वि । नाभा॑ , य॒ज्ञस्य॑ , सं , द॒धुः॒ , यथा॑ , वि॒दे ॥
अ॒यं दी॒र्घाय॒ चक्ष॑से॒ प्राचि॑ प्रय॒त्य॑ध्व॒रे । मिमी॑ते य॒ज्ञमा॑नु॒षग्वि॒चक्ष्य॑ ॥
अ॒यं , दी॒र्घाय॑ , चक्ष॑से , प्राचि॑ , प्र॒ऽय॒ति , अ॒ध्व॒रे । मिमी॑ते , य॒ज्ञं , आ॒नु॒षक् , वि॒ऽचक्ष्य॑ ॥
वृषा॒यमिं॑द्र ते॒ रथ॑ उ॒तो ते॒ वृष॑णा॒ हरी॑ । वृषा॒ त्वं श॑तक्रतो॒ वृषा॒ हवः॑ ॥
वृषा॑ , अ॒यं , इं॒द्र॒ , ते॒ , रथः॑ , उ॒तो इति॑ , ते॒ , वृष॑णा , हरी॒ इति॑ । वृषा॑ , त्वं , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , वृषा॑ , हवः॑ ॥
वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः । वृषा॑ य॒ज्ञो यमिन्व॑सि॒ वृषा॒ हवः॑ ॥
वृषा॑ , ग्रावा॑ , वृषा॑ , मदः॑ , वृषा॑ , सोमः॑ , अ॒यं , सु॒तः । वृषा॑ , य॒ज्ञः , यं , इन्व॑सि , वृषा॑ , हवः॑ ॥
वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रिं॑चि॒त्राभि॑रू॒तिभिः॑ । वा॒वंथ॒ हि प्रति॑ष्टुतिं॒ वृषा॒ हवः॑ ॥
वृषा॑ , त्वा॒ , वृष॑णं , हु॒वे॒ , वज्रि॑न् , चि॒त्राभिः॑ , ऊ॒तिऽभिः॑ । व॒वंथ॑ , हि , प्रति॑ऽस्तुतिं , वृषा॑ , हवः॑ ॥
[१४] यदिंद्राहमिति पंचदशर्चस्य सूक्तस्य काण्वायनौगोषूक्त्यश्वसूक्तिनाविंद्रो गायत्री |
यदिं॑द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् । स्तो॒ता मे॒ गोष॑खा स्यात् ॥
यत् , इं॒द्र॒ , अ॒हं , यथा॑ , त्वं , ईशी॑य , वस्वः॑ , एकः॑ , इत् । स्तो॒ता , मे॒ , गोऽस॑खा , स्या॒त् ॥
शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑ । यद॒हं गोप॑तिः॒ स्यां ॥
शिक्षे॑यं , अ॒स्मै॒ , दित्से॑यं , शची॑ऽपते , म॒नी॒षिणे॑ । यत् , अ॒हं , गोऽप॑तिः , स्यां॒ ॥
धे॒नुष्ट॑ इंद्र सू॒नृता॒ यज॑मानाय सुन्व॒ते । गामश्वं॑ पि॒प्युषी॑ दुहे ॥
धे॒नुः , ते॒ , इं॒द्र॒ , सू॒नृता॑ , यज॑मानाय , सु॒न्व॒ते । गां , अश्वं॑ , पि॒प्युषी॑ , दु॒हे॒ ॥
न ते॑ व॒र्तास्ति॒ राध॑स॒ इंद्र॑ दे॒वो न मर्त्यः॑ । यद्दित्स॑सि स्तु॒तो म॒घं ॥
न , ते॒ , व॒र्ता , अ॒स्ति॒ , राध॑सः , इंद्र॑ , दे॒वः , न , मर्त्यः॑ । यत् , दित्स॑सि , स्तु॒तः , म॒घं ॥
य॒ज्ञ इंद्र॑मवर्धय॒द्यद्भूमिं॒ व्यव॑र्तयत् । च॒क्रा॒ण ओ॑प॒शं दि॒वि ॥
य॒ज्ञः , इंद्रं॑ , अ॒व॒र्ध॒य॒त् , यत् , भूमिं॑ , वि , अव॑र्तयत् । च॒क्रा॒णः , ओ॒प॒शं , दि॒वि ॥
वा॒वृ॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ । ऊ॒तिमिं॒द्रा वृ॑णीमहे ॥
वा॒वृ॒धा॒नस्य॑ , ते॒ , व॒यं , विश्वा॑ , धना॑नि , जि॒ग्युषः॑ । ऊ॒तिं , इं॒द्र॒ , आ , वृ॒णी॒म॒हे॒ ॥
व्य१॒॑न्तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना । इंद्रो॒ यदभि॑नद्व॒लं ॥
वि , अं॒तरि॑क्षं , अ॒ति॒र॒त् , मदे॑ , सोम॑स्य , रो॒च॒ना । इंद्रः॑ , यत् , अभि॑नत् , व॒लं ॥
उद्गा आ॑ज॒दंगि॑रोभ्य आ॒विष्कृ॒ण्वन्गुहा॑ स॒तीः । अ॒र्वांचं॑ नुनुदे व॒लं ॥
उत् , गाः , आ॒ज॒त् , अंगि॑रःऽभ्यः , आ॒विः , कृ॒ण्वन् , गुहा॑ , स॒तीः । अ॒र्वांचं॑ , नु॒नु॒दे॒ , व॒लं ॥
इंद्रे॑ण रोच॒ना दि॒वो दृ॒ळ्हानि॑ दृंहि॒तानि॑ च । स्थि॒राणि॒ न प॑रा॒णुदे॑ ॥
इंद्रे॑ण , रो॒च॒ना , दि॒वः , दृ॒ळ्हानि॑ , दृं॒हि॒तानि॑ , च॒ । स्थि॒राणि॑ , न , प॒रा॒ऽनुदे॑ ॥
अ॒पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इंद्राजिरायते । वि ते॒ मदा॑ अराजिषुः ॥
अ॒पां , ऊ॒र्मिः , मद॑न्ऽइव , स्तोमः॑ , इं॒द्र॒ , अ॒जि॒र॒ऽय॒ते॒ । वि , ते॒ , मदाः॑ , अ॒रा॒जि॒षुः॒ ॥
त्वं हि स्तो॑म॒वर्ध॑न॒ इंद्रास्यु॑क्थ॒वर्ध॑नः । स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत् ॥
त्वं , हि , स्तो॒म॒ऽवर्ध॑नः , इंद्र॑ , असि॑ , उ॒क्थ॒ऽवर्ध॑नः । स्तो॒तॄ॒णां , उ॒त , भ॒द्र॒ऽकृत् ॥
इंद्र॒मित्के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः । उप॑ य॒ज्ञं सु॒राध॑सं ॥
इंद्रं॑ , इत् , के॒शिना॑ , हरी॒ इति॑ , सो॒म॒ऽपेया॑य , व॒क्ष॒तः॒ । उप॑ , य॒ज्ञं , सु॒ऽराध॑सं ॥
अ॒पां फेने॑न॒ नमु॑चेः॒ शिर॑ इं॒द्रोद॑वर्तयः । विश्वा॒ यदज॑यः॒ स्पृधः॑ ॥
अ॒पां , फेने॑न , नमु॑चेः , शिरः॑ , इं॒द्र॒ , उत् , अ॒व॒र्त॒य्चः॒ । विश्वाः॑ , यत् , अज॑यः , स्पृधः॑ ॥
मा॒याभि॑रु॒त्सिसृ॑प्सत॒ इंद्र॒ द्यामा॒रुरु॑क्षतः । अव॒ दस्यूँ॑रधूनुथाः ॥
मा॒याभिः॑ , उ॒त्ऽसिसृ॑प्सतः , इंद्र॑ , द्यां , आ॒ऽरुरु॑क्षतः । अव॑ , दस्यू॑न् , अ॒धू॒नु॒थाः॒ ॥
अ॒सु॒न्वामिं॑द्र सं॒सदं॒ विषू॑चीं॒ व्य॑नाशयः । सो॒म॒पा उत्त॑रो॒ भव॑न् ॥
अ॒सु॒न्वां , इं॒द्र॒ , सं॒ऽसदं॑ , विषू॑चीं , वि , अ॒ना॒श॒यः॒ । सो॒म॒ऽपाः , उत्ऽत॑रः , भव॑न् ॥
[१५] तम्वभीति त्रयोदशर्चस्य सूक्तस्य काण्वायनौ काण्वायनौगोषूक्त्यश्वसूक्तिनाविंद्रउष्णिक् |
तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तं । इंद्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥
तं , ऊँ॒ इति॑ , अ॒भि , प्र , गा॒य॒त॒ , पु॒रु॒ऽहू॒तं , पु॒रु॒ऽस्तु॒तं । इंद्रं॑ , गीः॒ऽभिः , त॒वि॒षं , आ , वि॒वा॒स॒त॒ ॥
यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी । गि॒रीँरज्राँ॑ अ॒पः स्व॑र्वृषत्व॒ना ॥
यस्य॑ , द्वि॒ऽबर्ह॑सः , बृ॒हत् , सहः॑ , दा॒धार॑ , रोद॑सी॒ इति॑ । गि॒रीन् , अज्रा॑न् , अ॒पः , स्वः॑ , वृ॒ष॒ऽत्व॒ना ॥
स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे । इंद्र॒ जैत्रा॑ श्रव॒स्या॑ च॒ यंत॑वे ॥
सः , रा॒ज॒सि॒ , पु॒रु॒ऽस्तु॒त॒ , एकः॑ , वृ॒त्राणि॑ , जि॒घ्न॒से॒ । इंद्र॑ , जैत्रा॑ , श्र॒व॒स्या॑ , च॒ , यंत॑वे ॥
तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिं । उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रियं॑ ॥
तं , ते॒ , मदं॑ , गृ॒णी॒म॒सि॒ , वृष॑णं , पृ॒त्ऽसु , स॒स॒हिं । ऊँ॒ इति॑ , लो॒क॒ऽकृ॒त्नुं , अ॒द्रि॒ऽवः॒ , ह॒रि॒ऽश्रियं॑ ॥
येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ । मं॒दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥
येन॑ , ज्योतीं॑षि , आ॒यवे॑ , मन॑वे , च॒ , वि॒वेदि॑थ । मं॒दा॒नः , अ॒स्य , ब॒र्हिषः॑ , वि , रा॒ज॒सि॒ ॥
तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवंति पू॒र्वथा॑ । वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ॥
तत् , अ॒द्य , चि॒त् , ते॒ , उ॒क्थिनः॑ , अनु॑ , स्तु॒वं॒ति॒ , पू॒र्वऽथा॑ । वृष॑ऽपत्नीः , अ॒पः , ज॒य॒ , दि॒वेऽदि॑वे ॥
तव॒ त्यदिं॑द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतुं॑ । वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यं ॥
तव॑ , त्यत् , इं॒द्रि॒यं , बृ॒हत् , तव॑ , शुष्मं॑ , उ॒त , क्रतुं॑ । वज्रं॑ , शि॒शा॒ति॒ , धि॒षणा॑ , वरे॑ण्यं ॥
तव॒ द्यौरिं॑द्र॒ पौंस्यं॑ पृथि॒वी व॑र्धति॒ श्रवः॑ । त्वामापः॒ पर्व॑तासश्च हिन्विरे ॥
तव॑ , द्यौः , इं॒द्र॒ , पौंस्यं॑ , पृ॒थि॒वी , व॒र्ध॒ति॒ , श्रवः॑ । त्वां , आपः॑ , पर्व॑तासः , च॒ , हि॒न्वि॒रे॒ ॥
त्वां विष्णु॑र्बृ॒हन्क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः । त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तं ॥
त्वां , विष्णुः॑ , बृ॒हन् , क्षयः॑ , मि॒त्रः , गृ॒णा॒ति॒ , वरु॑णः । त्वां , शर्धः॑ , म॒द॒ति॒ , अनु॑ , मारु॑तं ॥
त्वं वृषा॒ जना॑नां॒ मंहि॑ष्ठ इंद्र जज्ञिषे । स॒त्रा विश्वा॑ स्वप॒त्यानि॑ दधिषे ॥
त्वं , वृषा॑ , जना॑नां , मंहि॑ष्ठः , इं॒द्र॒ , ज॒ज्ञि॒षे॒ । स॒त्रा , विश्वा॑ , सु॒ऽअ॒प॒त्यानि॑ , द॒धि॒षे॒ ॥
स॒त्रा त्वं पु॑रुष्टुतँ॒ एको॑ वृ॒त्राणि॑ तोशसे । नान्य इंद्रा॒त्कर॑णं॒ भूय॑ इन्वति ॥
स॒त्रा , त्वं , पु॒रु॒ऽस्तु॒त॒ , एकः॑ , वृ॒त्राणि॑ , तो॒श॒से॒ । न , अ॒न्यः , इंद्रा॑त् , कर॑णं , भूयः॑ , इ॒न्व॒ति॒ ॥
यदिं॑द्र मन्म॒शस्त्वा॒ नाना॒ हवं॑त ऊ॒तये॑ । अ॒स्माके॑भि॒र्नृभि॒रत्रा॒ स्व॑र्जय ॥
यत् , इं॒द्र॒ , म॒न्म॒ऽशः , त्वा॒ , नाना॑ , हवं॑ते , ऊ॒तये॑ । अ॒स्माके॑भिः , नृऽभिः॑ , अत्र॑ , स्वः॑ , ज॒य॒ ॥
अरं॒ क्षया॑य नो म॒हे विश्वा॑ रू॒पाण्या॑वि॒शन् । इंद्रं॒ जैत्रा॑य हर्षया॒ शची॒पतिं॑ ॥
अरं॒ , क्षया॑य , नः॒ , म॒हे , विश्वा॑ , रू॒पाणि॑ , आ॒ऽवि॒शन् । इंद्रं॑ , जैत्रा॑य , ह॒र्ष॒य॒ , शची॒३॒॑ऽपतिं॑ ॥
[१६] प्रसम्राजमिति द्वादशर्चस्य सूक्तस्य काण्वइरिंबिठिरिंद्रोगायत्री |
प्र स॒म्राजं॑ चर्षणी॒नामिंद्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः । नरं॑ नृ॒षाहं॒ मंहि॑ष्ठं ॥
प्र , सं॒ऽराजं॑ , च॒र्ष॒णी॒नां , इंद्रं॑ , स्तो॒ता॒ , नव्यं॑ , गीः॒ऽभिः । नरं॑ , नृ॒ऽसहं॑ , मंहि॑ष्ठं ॥
यस्मि॑न्नु॒क्थानि॒ रण्यं॑ति॒ विश्वा॑नि च श्रव॒स्या॑ । अ॒पामवो॒ न स॑मु॒द्रे ॥
यस्मि॑न् , उ॒क्थानि॑ , रण्यं॑ति , विश्वा॑नि , च॒ , श्र॒व॒स्या॑ । अ॒पां , अवः॑ , न , स॒मु॒द्रे ॥
तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुं । म॒हो वा॒जिनं॑ स॒निभ्यः॑ ॥
तं , सु॒ऽस्तु॒त्या , आ , वि॒वा॒से॒ , ज्ये॒ष्ठ॒ऽराजं॑ , भरे॑ , कृ॒त्नुं । म॒हः , वा॒जिनं॑ , स॒निऽभ्यः॑ ॥
यस्यानू॑ना गभी॒रा मदा॑ उ॒रव॒स्तरु॑त्राः । ह॒र्षु॒मंतः॒ शूर॑सातौ ॥
यस्य॑ , अनू॑नाः , ग॒भी॒राः , मदाः॑ , उ॒रवः॑ , तरु॑त्राः । ह॒र्षु॒ऽमंतः॑ , शूर॑ऽसातौ ॥
तमिद्धने॑षु हि॒तेष्व॑धिवा॒काय॑ हवंते । येषा॒मिंद्र॒स्ते ज॑यंति ॥
तं , इत् , धने॑षु , हि॒तेषु॑ , अ॒धि॒ऽवा॒काय॑ , ह॒वं॒ते॒ । येषां॑ , इंद्रः॑ , ते॒ , ज॒यं॒ति॒ ॥
तमिच्च्यौ॒त्नैरार्यं॑ति॒ तं कृ॒तेभि॑श्चर्ष॒णयः॑ । ए॒ष इंद्रो॑ वरिव॒स्कृत् ॥
तं , इत् , च्यौ॒त्नैः , आर्यं॑ति , तं , कृ॒तेभिः॑ , च॒र्ष॒णयः॑ । ए॒षः , इंद्रः॑ , व॒रि॒वः॒ऽकृत् ॥
इंद्रो॑ ब्र॒ह्मेंद्र॒ ऋषि॒रिंद्रः॑ पु॒रू पु॑रुहू॒तः । म॒हान्म॒हीभिः॒ शची॑भिः ॥
इंद्रः॑ , ब्र॒ह्मा , इंद्रः॑ , ऋषिः॑ , इंद्रः॑ , पु॒रु , पु॒रु॒ऽहू॒तः । म॒हान् , म॒हीभिः॑ , शची॑भिः ॥
स स्तोम्यः॒ स हव्यः॑ स॒त्यः सत्वा॑ तुविकू॒र्मिः । एक॑श्चि॒त्सन्न॒भिभू॑तिः ॥
सः , स्तोम्यः॑ , सः , हव्यः॑ , स॒त्यः , सत्वा॑ , तु॒वि॒ऽकू॒र्मिः । एकः॑ , चि॒त् , सन् , अ॒भिऽभू॑तिः ॥
तम॒र्केभि॒स्तं साम॑भि॒स्तं गा॑य॒त्रैश्च॑र्ष॒णयः॑ । इंद्रं॑ वर्धंति क्षि॒तयः॑ ॥
तं , अ॒र्केभिः॑ , तं , साम॑ऽभिः , तं , गा॒य॒त्रैः , च॒र्ष॒णयः॑ । इंद्रं॑ , व॒र्धं॒ति॒ , क्षि॒तयः॑ ॥
प्र॒णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योतिः॑ स॒मत्सु॑ । सा॒स॒ह्वांसं॑ यु॒धामित्रा॑न् ॥
प्र॒ऽने॒तारं॑ , वस्यः॑ , अच्छ॑ , कर्ता॑रं , ज्योतिः॑ , स॒मत्ऽसु॑ । स॒स॒ह्वांसं॑ , यु॒धा , अ॒मित्रा॑न् ॥
स नः॒ पप्रिः॑ पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः । इंद्रो॒ विश्वा॒ अति॒ द्विषः॑ ॥
सः , नः॒ , पप्रिः॑ , पा॒र॒या॒ति॒ , स्व॒स्ति , ना॒वा , पु॒रु॒ऽहू॒तः । इंद्रः॑ , विश्वाः॑ , अति॑ , द्विषः॑ ॥
स त्वं न॑ इंद्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑ । अच्छा॑ च नः सु॒म्नं ने॑षि ॥
सः , त्वं , नः॒ , इं॒द्र॒ , वाजे॑भिः , द॒श॒स्य , च॒ , गा॒तु॒ऽय , च॒ । अच्छ॑ , च॒ , नः॒ , सु॒म्नं , ने॒षि॒ ॥
[१७] आयाहीति पंचदशर्चस्य सूक्तस्य काण्वइरिंबिठिरिंद्रोगायत्री अंत्येद्वेबृहतीसतोबृहत्यौ | त्वास्तोष्पतइत्यस्यावास्तोष्पतिर्देवतेतिशौनकः | (उपांत्यायाअर्धर्चेदेवोवास्तोष्पतिः स्तुतइति हितद्वाक्यं) |
आ या॑हि सुषु॒मा हि त॒ इंद्र॒ सोमं॒ पिबा॑ इ॒मं । एदं ब॒र्हिः स॑दो॒ मम॑ ॥
आ , या॒हि॒ , सु॒सु॒म , हि , ते॒ , इंद्र॑ , सोमं॑ , पिब॑ , इ॒मं । आ , इ॒दं , ब॒र्हिः , स॒दः॒ , मम॑ ॥
आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिंद्र के॒शिना॑ । उप॒ ब्रह्मा॑णि नः शृणु ॥
आ , त्वा॒ , ब्र॒ह्म॒ऽयुजा॑ , हरी॒ इति॑ , वह॑तां , इं॒द्र॒ , के॒शिना॑ । उप॑ , ब्रह्मा॑णि , नः॒ , शृ॒णु॒ ॥
ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामिं॑द्र सो॒मिनः॑ । सु॒तावं॑तो हवामहे ॥
ब्र॒ह्माणः॑ , त्वा॒ , व॒यं , यु॒जा , सो॒म॒ऽपां , इं॒द्र॒ , सो॒मिनः॑ । सु॒तऽवं॑तः , ह॒वा॒म॒हे॒ ॥
आ नो॑ याहि सु॒ताव॑तो॒ऽस्माकं॑ सुष्टु॒तीरुप॑ । पिबा॒ सु शि॑प्रि॒न्नंध॑सः ॥
आ , नः॒ , या॒हि॒ , सु॒तऽव॑तः , अ॒स्माकं॑ , सु॒ऽस्तु॒तीः , उप॑ । पिब॑ , सु , शि॒प्रि॒न् , अंध॑सः ॥
आ ते॑ सिंचामि कु॒क्ष्योरनु॒ गात्रा॒ वि धा॑वतु । गृ॒भा॒य जि॒ह्वया॒ मधु॑ ॥
आ , ते॒ , सिं॒चा॒मि॒ , कु॒क्ष्योः , अनु॑ , गात्रा॑ , वि , धा॒व॒तु॒ । गृ॒भा॒य , जि॒ह्वया॑ , मधु॑ ॥
स्वा॒दुष्टे॑ अस्तु सं॒सुदे॒ मधु॑मांत॒न्वे॒३॒॑ तव॑ । सोमः॒ शम॑स्तु ते हृ॒दे ॥
स्वा॒दुः , ते॒ , अ॒स्तु॒ , सं॒ऽसुदे॑ , मधु॑ऽमान् , त॒न्वे॑ , तव॑ । सोमः॑ , शं , अ॒स्तु॒ , ते॒ , हृ॒दे ॥
अ॒यमु॑ त्वा विचर्षणे॒ जनी॑रिवा॒भि संवृ॑तः । प्र सोम॑ इंद्र सर्पतु ॥
अ॒यं , ऊँ॒ इति॑ , त्वा॒ , वि॒ऽच॒र्ष॒णे॒ , जनीः॑ऽइव , अ॒भि , संऽवृ॑तः । प्र , सोमः॑ , इं॒द्र॒ , स॒र्प॒तु॒ ॥
तु॒वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरंध॑सो॒ मदे॑ । इंद्रो॑ वृ॒त्राणि॑ जिघ्नते ॥
तु॒वि॒ऽग्रीवः॑ , व॒पाऽउ॑दरः , सु॒ऽबा॒हुः , अंध॑सः , मदे॑ । इंद्रः॑ , वृ॒त्राणि॑ , जि॒घ्न॒ते॒ ॥
इंद्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा । वृ॒त्राणि॑ वृत्रहंजहि ॥
इंद्र॑ , प्र , इ॒हि॒ , पु॒रः , त्वं , विश्व॑स्य , ईशा॑नः , ओज॑सा । वृ॒त्राणि॑ , वृ॒त्र॒ऽह॒न् , ज॒हि॒ ॥
दी॒र्घस्ते॑ अस्त्वंकु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि । यज॑मानाय सुन्व॒ते ॥
दी॒र्घः , ते॒ , अ॒स्तु॒ , अं॒कु॒शः , येन॑ , वसु॑ , प्र॒ऽयच्छ॑सि । यज॑मानाय , सु॒न्व॒ते ॥
अ॒यं त॑ इंद्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑ । एही॑म॒स्य द्रवा॒ पिब॑ ॥
अ॒यं , ते॒ , इं॒द्र॒ , सोमः॑ , निऽपू॑तः , अधि॑ , ब॒र्हिषि॑ । आ , इ॒हि॒ , ईं॒ , अ॒स्य , द्रव॑ , पिब॑ ॥
शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः । आखं॑डल॒ प्र हू॑यसे ॥
शाचि॑गो॒ इति॒ शाचि॑ऽगो , शाचि॑ऽपूजन , अ॒यं , रणा॑य , ते॒ , सु॒तः । आखं॑डल , प्र , हू॒य॒से॒ ॥
यस्ते॑ शृंगवृषो नपा॒त्प्रण॑पात्कुंड॒पाय्यः॑ । न्य॑स्मिंदध्र॒ आ मनः॑ ॥
यः , ते॒ , शृं॒ग॒ऽवृ॒षः॒ , न॒पा॒त् , प्रन॑पा॒दिति॒ प्रऽन॑पात् , कुं॒ड॒ऽपाय्यः॑ । नि , अ॒स्मि॒न् , द॒ध्रे॒ , आ , मनः॑ ॥
वास्तो॑ष्पते ध्रु॒वा स्थूणांस॑त्रं सो॒म्यानां॑ । द्र॒प्सो भे॒त्ता पु॒रां शश्व॑तीना॒मिंद्रो॒ मुनी॑नां॒ सखा॑ ॥
वास्तोः॑ , प॒ते॒ , ध्रु॒वा , स्थूणा॑ , अंस॑त्रं , सो॒म्यानां॑ । द्र॒प्सः , भे॒त्ता , पु॒रां , शश्व॑तीनां , इंद्रः॑ , मुनी॑नां , सखा॑ ॥
पृदा॑कुसानुर्यज॒तो ग॒वेष॑ण॒ एकः॒ सन्न॒भि भूय॑सः । भूर्णि॒मश्वं॑ नयत्तु॒जा पु॒रो गृ॒भेंद्रं॒ सोम॑स्य पी॒तये॑ ॥
पृदा॑कुऽसानुः , य॒ज॒तः , गो॒ऽएष॑णः , एकः॑ , सन् , अ॒भि , भूय॑सः । भूर्णिं॑ , अश्वं॑ , न॒य॒त् , तु॒जा , पु॒रः , गृ॒भा , इंद्रं॑ , सोम॑स्य , पी॒तये॑ ॥
[१८] इदंहेति द्वाविंशत्यृचस्य सूक्तस्य काण्वइरिंबिठिरादित्याः चतुर्थषष्ठीसप्तमीनामदितिः अष्टम्याअश्विनौ नवम्याअग्निसूर्यानिला उष्णिक् |
इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ । आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि ॥
इ॒दं , ह॒ , नू॒नं , ए॒षां॒ , सु॒म्नं , भि॒क्षे॒त॒ , मर्त्यः॑ । आ॒दि॒त्यानां॑ , अपू॑र्व्यं , सवी॑मनि ॥
अ॒न॒र्वाणो॒ ह्ये॑षां॒ पंथा॑ आदि॒त्यानां॑ । अद॑ब्धाः॒ संति॑ पा॒यवः॑ सुगे॒वृधः॑ ॥
अ॒न॒र्वाणः॑ , हि , ए॒षां॒ , पंथा॑ , आ॒दि॒त्यानां॑ । अद॑ब्धाः , संति॑ , पा॒यवः॑ , सु॒गे॒ऽवृधः॑ ॥
तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । शर्म॑ यच्छंतु स॒प्रथो॒ यदीम॑हे ॥
तत् , सु , नः॒ , स॒वि॒ता , भगः॑ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा । शर्म॑ , य॒च्छं॒तु॒ , स॒ऽप्रथः॑ , यत् , ईम॑हे ॥
दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि । स्मत्सू॒रिभिः॑ पुरुप्रिये सु॒शर्म॑भिः ॥
दे॒वेभिः॑ , दे॒वि॒ , अ॒दि॒ते॒ , अरि॑ष्टऽभर्मन् , आ , ग॒हि॒ । स्मत् , सू॒रिऽभिः॑ , पु॒रु॒ऽप्रि॒ये॒ , सु॒शर्म॑ऽभिः ॥
ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां॑सि॒ योत॑वे । अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हसः॑ ॥
ते , हि , पु॒त्रासः॑ , अदि॑तेः , वि॒दुः , द्वेषां॑सि , योत॑वे । अं॒होः , चि॒त् , उ॒रु॒ऽचक्र॑यः , अ॒ने॒हसः॑ ॥
अदि॑तिर्नो॒ दिवा॑ प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः । अदि॑तिः पा॒त्वंह॑सः स॒दावृ॑धा ॥
अदि॑तिः , नः॒ , दिवा॑ , प॒शुं , अदि॑तिः , नक्तं॑ , अद्व॑याः । अदि॑तिः , पा॒तु॒ , अंह॑सः , स॒दाऽवृ॑धा ॥
उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् । सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिधः॑ ॥
उ॒त , स्या , नः॒ , दिवा॑ , म॒तिः , अदि॑तिः , ऊ॒त्या , आ , ग॒म॒त् । सा , शंऽता॑ति , मयः॑ , क॒र॒त् , अप॑ , स्रिधः॑ ॥
उ॒त त्या दैव्या॑ भि॒षजा॒ शं नः॑ करतो अ॒श्विना॑ । यु॒यु॒याता॑मि॒तो रपो॒ अप॒ स्रिधः॑ ॥
उ॒त , त्या , दैव्या॑ , भि॒षजा॑ , शं , नः॒ , क॒र॒तः॒ , अ॒श्विना॑ । यु॒यु॒यातां॑ , इ॒तः , रपः॑ , अप॑ , स्रिधः॑ ॥
शम॒ग्निर॒ग्निभिः॑ कर॒च्छं न॑स्तपतु॒ सूर्यः॑ । शं वातो॑ वात्वर॒पा अप॒ स्रिधः॑ ॥
शं , अ॒ग्निः , अ॒ग्निऽभिः॑ , क॒र॒त् , शं , नः॒ , त॒प॒तु॒ , सूर्यः॑ । शं , वातः॑ , वा॒तु॒ , अ॒र॒पाः , अप॑ , स्रिधः॑ ॥
अपामी॑वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिं । आदि॑त्यासो यु॒योत॑ना नो॒ अंह॑सः ॥
अप॑ , अमी॑वां , अप॑ , स्रिधं॑ , अप॑ , से॒ध॒त॒ , दुः॒ऽम॒तिं । आदि॑त्यासः , यु॒योत॑न , नः॒ , अंह॑सः ॥
यु॒योता॒ शरु॑म॒स्मदाँ आदि॑त्यास उ॒ताम॑तिं । ऋध॒ग्द्वेषः॑ कृणुत विश्ववेदसः ॥
यु॒योत॑ , शरुं॑ , अ॒स्मत् , आ , आदि॑त्यासः , उ॒त , अम॑तिं । ऋध॑क् , द्वेषः॑ , कृ॒णु॒त॒ , वि॒श्व॒ऽवे॒द॒सः॒ ॥
तत्सु नः॒ शर्म॑ यच्छ॒तादि॑त्या॒ यन्मुमो॑चति । एन॑स्वंतं चि॒देन॑सः सुदानवः ॥
तत् , सु , नः॒ , शर्म॑ , य॒च्छ॒त॒ , आदि॑त्याः , यत् , मुमो॑चति । एन॑स्वंतं , चि॒त् , एन॑सः , सु॒ऽदा॒न॒वः॒ ॥
यो नः॒ कश्चि॒द्रिरि॑क्षति रक्ष॒स्त्वेन॒ मर्त्यः॑ । स्वैः ष एवै॑ रिरिषीष्ट॒ युर्जनः॑ ॥
यः , नः॒ , कः , चि॒त् , रिरि॑क्षति , र॒क्षः॒ऽत्वेन॑ , मर्त्यः॑ । स्वैः , सः , एवैः॑ , रि॒रि॒षी॒ष्ट॒ , युः , जनः॑ ॥
समित्तम॒घम॑श्नवद्दुः॒शंसं॒ मर्त्यं॑ रि॒पुं । यो अ॑स्म॒त्रा दु॒र्हणा॑वाँ॒ उप॑ द्व॒युः ॥
सं , इत् , तं , अ॒घं , अ॒श्न॒व॒त् , दुः॒ऽशंसं॑ , मर्त्यं॑ , रि॒पुं । यः , अ॒स्म॒ऽत्रा , दुः॒ऽहना॑वान् , उप॑ , द्व॒युः ॥
पा॒क॒त्रा स्थ॑न देवा हृ॒त्सु जा॑नीथ॒ मर्त्यं॑ । उप॑ द्व॒युं चाद्व॑युं च वसवः ॥
पा॒क॒ऽत्रा , स्थ॒न॒ , दे॒वाः॒ , हृ॒त्ऽसु , जा॒नी॒थ॒ , मर्त्यं॑ । उप॑ , द्व॒युं , च॒ , अद्व॑युं , च॒ , व॒स॒वः॒ ॥
आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे । द्यावा॑क्षामा॒रे अ॒स्मद्रप॑स्कृतं ॥
आ , शर्म॑ , पर्व॑तानां , आ , उ॒त , अ॒पां , वृ॒णी॒म॒हे॒ । द्यावा॑क्षामा , आ॒रे , अ॒स्मत् , रपः॑ , कृ॒तं॒ ॥
ते नो॑ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं॑ ना॒वा व॑सवः । अति॒ विश्वा॑नि दुरि॒ता पि॑पर्तन ॥
ते , नः॒ , भ॒द्रेण॑ , शर्म॑णा , यु॒ष्माकं॑ , ना॒वा , व॒स॒वः॒ । अति॑ , विश्वा॑नि , दुः॒ऽइ॒ता , पि॒प॒र्त॒न॒ ॥
तु॒चे तना॑य॒ तत्सु नो॒ द्राघी॑य॒ आयु॑र्जी॒वसे॑ । आदि॑त्यासः सुमहसः कृ॒णोत॑न ॥
तु॒चे , तना॑य , तत् , सु , नः॒ , द्राघी॑यः , आयुः॑ , जी॒वसे॑ । आदि॑त्यासः , सु॒ऽम॒ह॒सः॒ , कृ॒णोत॑न ॥
य॒ज्ञो ही॒ळो वो॒ अंत॑र॒ आदि॑त्या॒ अस्ति॑ मृ॒ळत॑ । यु॒ष्मे इद्वो॒ अपि॑ ष्मसि सजा॒त्ये॑ ॥
य॒ज्ञः , ही॒ळः , वः॒ , अंत॑रः , आदि॑त्याः , अस्ति॑ , मृ॒ळत॑ । यु॒ष्मे इति॑ , इत् , वः॒ , अपि॑ , स्म॒सि॒ , स॒ऽजा॒त्ये॑ ॥
बृ॒हद्वरू॑थं म॒रुतां॑ दे॒वं त्रा॒तार॑म॒श्विना॑ । मि॒त्रमी॑महे॒ वरु॑णं स्व॒स्तये॑ ॥
बृ॒हत् , वरू॑थं , म॒रुतां॑ , दे॒वं , त्रा॒तरं॑ , अ॒श्विना॑ । मि॒त्रं , ई॒म॒हे॒ , वरु॑णं , स्व॒स्तये॑ ॥
अ॒ने॒हो मि॑त्रार्यमन्नृ॒वद्व॑रुण॒ शंस्यं॑ । त्रि॒वरू॑थं मरुतो यंत नश्छ॒र्दिः ॥
अ॒ने॒हः , मि॒त्र॒ , अ॒र्य॒म॒न् , नृ॒ऽवत् , व॒रु॒ण॒ , शंस्यं॑ । त्रि॒ऽवरू॑थं , म॒रु॒तः॒ , यं॒त॒ , नः॒ , छ॒र्दिः ॥
ये चि॒द्धि मृ॒त्युबं॑धव॒ आदि॑त्या॒ मन॑वः॒ स्मसि॑ । प्र सू न॒ आयु॑र्जी॒वसे॑ तिरेतन ॥
ये , चि॒त् , हि , मृ॒त्युऽबं॑धवः , आदि॑त्याः , मन॑वः , स्मसि॑ । प्र , सु , नः॒ , आयुः॑ , जी॒वसे॑ , ति॒रे॒त॒न॒ ॥
[१९] तंगूर्धयेति सप्तत्रिंशदृचस्य सूक्तस्य काण्वः सोभरिरग्निः चतुस्त्रिंशीपंचत्रिंश्योरादित्या अंत्ययोर्द्वयोस्त्रसदस्युः प्रथमादिपंचविंश्यंताअयुजःककुभः द्वितीयादिषड्विश्यंतायुजः सतोबृहत्यः पितुर्नेतिसप्तविंशीद्विपदा अष्टाविंशीत्रिंशीद्वात्रिंशीषट्त्रिंश्यः ककुभः एकोनत्रिंश्येकत्रिंशीत्रयस्त्रिंशीपंचत्रिंश्यः सतोबृहत्यः चतुस्त्रिंश्युष्णिक् सप्तत्रिंशीपंक्तिः |
तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे । दे॒व॒त्रा ह॒व्यमोहि॑रे ॥
तं , गू॒र्ध॒य॒ , स्वः॑ऽनरं , दे॒वासः॑ , दे॒वं , अ॒र॒तिं , द॒ध॒न्वि॒रे॒ । दे॒व॒ऽत्रा , ह॒व्यं , आ , ऊ॒हि॒रे॒ ॥
विभू॑तरातिं विप्र चि॒त्रशो॑चिषम॒ग्निमी॑ळिष्व यं॒तुरं॑ । अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्यं॑ ॥
विभू॑तऽरातिं , वि॒प्र॒ , चि॒त्रऽशो॑चिषं , अ॒ग्निं , ई॒ळि॒ष्व॒ , यं॒तुरं॑ । अ॒स्य , मेघ॑स्य , सो॒म्यस्य॑ , सो॒भ॒रे॒ , प्र , ईं॒ , अ॒ध्व॒राय॑ , पूर्व्यं॑ ॥
यजि॑ष्ठं त्वा ववृमहे दे॒वं दे॑व॒त्रा होता॑र॒मम॑र्त्यं । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतुं॑ ॥
यजि॑ष्ठं , त्वा॒ , व॒वृ॒म॒हे॒ , दे॒वं , दे॒व॒ऽत्रा , होता॑रं , अम॑र्त्यं । अ॒स्य , य॒ज्ञस्य॑ , सु॒ऽक्रतुं॑ ॥
ऊ॒र्जो नपा॑तं सु॒भगं॑ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषं । स नो॑ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒वि ॥
ऊ॒र्जः , नपा॑तं , सु॒ऽभगं॑ , सु॒ऽदीदि॑तिं , अ॒ग्निं , श्रेष्ठ॑ऽशोचिषं । सः , नः॒ , मि॒त्रस्य॑ , वरु॑णस्य , सः , अ॒पां , आ , सु॒म्नं , य॒क्ष॒ते॒ , दि॒वि ॥
यः स॒मिधा॒ य आहु॑ती॒ यो वेदे॑न द॒दाश॒ मर्तो॑ अ॒ग्नये॑ । यो नम॑सा स्वध्व॒रः ॥
यः , सं॒ऽइधा॑ , यः , आऽहु॑ती , यः , वेदे॑न , द॒दाश॑ , मर्तः॑ , अ॒ग्नये॑ । यः , नम॑सा , सु॒ऽअ॒ध्व॒रः ॥
तस्येदर्वं॑तो रंहयंत आ॒शव॒स्तस्य॑ द्यु॒म्नित॑मं॒ यशः॑ । न तमंहो॑ दे॒वकृ॑तं॒ कुत॑श्च॒न न मर्त्य॑कृतं नशत् ॥
तस्य॑ , इत् , अर्वं॑तः , रं॒ह॒यं॒ते॒ , आ॒शवः॑ , तस्य॑ , द्यु॒म्निऽत॑मं , यशः॑ । न , तं , अंहः॑ , दे॒वऽकृ॑तं , कुतः॑ , च॒न , न , मर्त्य॑ऽकृतं , न॒श॒त् ॥
स्व॒ग्नयो॑ वो अ॒ग्निभिः॒ स्याम॑ सूनो सहस ऊर्जां पते । सु॒वीर॒स्त्वम॑स्म॒युः ॥
सु॒ऽअ॒ग्नयः॑ , वः॒ , अ॒ग्निऽभिः॑ , स्याम॑ , सू॒नो॒ इति॑ , स॒ह॒सः॒ , ऊ॒र्जां॒ , प॒ते॒ । सु॒ऽवीरः॑ , त्वं , अ॒स्म॒ऽयुः ॥
प्र॒शंस॑मानो॒ अति॑थि॒र्न मि॒त्रियो॒ऽग्नी रथो॒ न वेद्यः॑ । त्वे क्षेमा॑सो॒ अपि॑ संति सा॒धव॒स्त्वं राजा॑ रयी॒णां ॥
प्र॒ऽशंस॑मानः , अति॑थिः , न , मि॒त्रियः॑ , अ॒ग्निः , रथः॑ , न , वेद्यः॑ । त्वे॒ इति॑ , क्षेमा॑सः , अपि॑ , सं॒ति॒ , सा॒धवः॑ , त्वं , राजा॑ , र॒यी॒णां ॥
सो अ॒द्धा दा॒श्व॑ध्व॒रोऽग्ने॒ मर्तः॑ सुभग॒ स प्र॒शंस्यः॑ । स धी॒भिर॑स्तु॒ सनि॑ता ॥
सः , अ॒द्धा , दा॒शुऽअ॑ध्वरः , अग्ने॑ , मर्तः॑ , सु॒ऽभ॒ग॒ , सः , प्र॒ऽशंस्यः॑ । सः , धी॒भिः , अ॒स्तु॒ , सनि॑ता ॥
यस्य॒ त्वमू॒र्ध्वो अ॑ध्व॒राय॒ तिष्ठ॑सि क्ष॒यद्वी॑रः॒ स सा॑धते । सो अर्व॑द्भिः॒ सनि॑ता॒ स वि॑प॒न्युभिः॒ स शूरैः॒ सनि॑ता कृ॒तं ॥
यस्य॑ , त्वं , ऊ॒र्ध्वः , अ॒ध्व॒राय॑ , तिष्ठ॑सि , क्ष॒यत्ऽवी॑रः , सः , सा॒ध॒ते॒ । सः , अर्व॑त्ऽभिः , सनि॑ता , सः , वि॒प॒न्यु॒ऽभिः॒ , सः , शूरैः॑ , सनि॑ता , कृ॒तं ॥
यस्या॒ग्निर्वपु॑र्गृ॒हे स्तोमं॒ चनो॒ दधी॑त वि॒श्ववा॑र्यः । ह॒व्या वा॒ वेवि॑ष॒द्विषः॑ ॥
यस्य॑ , अ॒ग्निः , वपुः॑ , गृ॒हे , स्तोमं॑ , चनः॑ , दधी॑त , वि॒श्वऽवा॑र्यः । ह॒व्या , वा॒ , वेवि॑षत् , विषः॑ ॥
विप्र॑स्य वा स्तुव॒तः स॑हसो यहो म॒क्षूत॑मस्य रा॒तिषु॑ । अ॒वोदे॑वमु॒परि॑मर्त्यं कृधि॒ वसो॑ विवि॒दुषो॒ वचः॑ ॥
विप्र॑स्य , वा॒ , स्तु॒व॒तः , स॒ह॒सः॒ , य॒हो॒ इति॑ , म॒क्षुऽत॑मस्य , रा॒तिषु॑ । अ॒वःऽदे॑वं , उ॒परि॑ऽमर्त्यं , कृ॒धि॒ , वसो॒ इति॑ , वि॒वि॒दुषः॑ , वचः॑ ॥
यो अ॒ग्निं ह॒व्यदा॑तिभि॒र्नमो॑भिर्वा सु॒दक्ष॑मा॒विवा॑सति । गि॒रा वा॑जि॒रशो॑चिषं ॥
यः , अ॒ग्निं , ह॒व्यदा॑तिऽभिः , नमः॑ऽभिः , वा॒ , सु॒ऽदक्षं॑ , आ॒ऽविवा॑सति । गि॒रा , वा॒ , अ॒जि॒रऽशो॑चिषं ॥
स॒मिधा॒ यो निशि॑ती॒ दाश॒ददि॑तिं॒ धाम॑भिरस्य॒ मर्त्यः॑ । विश्वेत्स धी॒भिः सु॒भगो॒ जनाँ॒ अति॑ द्यु॒म्नैरु॒द्न इ॑व तारिषत् ॥
सं॒ऽइधा॑ , यः , निऽशि॑ती , दाश॑त् , अदि॑तिं , धाम॑ऽभिः , अ॒स्य॒ , मर्त्यः॑ । विश्वा॑ , इत् , सः , धी॒भिः , सु॒ऽभगः॑ , जना॑न् , अति॑ , द्यु॒म्नैः , उ॒द्गःऽइ॑व , ता॒रि॒ष॒त् ॥
तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिणं॑ । म॒न्युं जन॑स्य दू॒ढ्यः॑ ॥
तत् , अ॒ग्ने॒ , द्यु॒म्नं , आ , भ॒र॒ , यत् , स॒सह॑त् , सद॑ने , कं , चि॒त् , अ॒त्रिणं॑ । म॒न्युं , जन॑स्य , दुः॒ऽध्यः॑ ॥
येन॒ चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मा येन॒ नास॑त्या॒ भगः॑ । व॒यं तत्ते॒ शव॑सा गातु॒वित्त॑मा॒ इंद्र॑त्वोता विधेमहि ॥
येन॑ , चष्टे॑ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा , येन॑ , नास॑त्या , भगः॑ । व॒यं , तत् , ते॒ , शव॑सा , गा॒तु॒वित्ऽत॑माः , इंद्र॑त्वाऽऊताः , वि॒धे॒म॒हि॒ ॥
ते घेद॑ग्ने स्वा॒ध्यो॒३॒॑ ये त्वा॑ विप्र निदधि॒रे नृ॒चक्ष॑सं । विप्रा॑सो देव सु॒क्रतुं॑ ॥
ते , घ॒ , इत् , अ॒ग्ने॒ , सु॒ऽआ॒ध्यः॑ , ये , त्वा॒ , वि॒प्र॒ , नि॒ऽद॒धि॒रे , नृ॒ऽचक्ष॑सं । विप्रा॑सः , दे॒व॒ , सु॒ऽक्रतुं॑ ॥
त इद्वेदिं॑ सुभग॒ त आहु॑तिं॒ ते सोतुं॑ चक्रिरे दि॒वि । त इद्वाजे॑भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं॑ न्येरि॒रे ॥
ते , इत् , वेदिं॑ , सु॒ऽभ॒ग॒ , ते , आऽहु॑तिं , ते , सोतुं॑ , च॒क्रि॒रे॒ , दि॒वि । ते , इत् , वाजे॑भिः , जि॒ग्युः॒ , म॒हत् , धनं॑ , ये , त्वे इति॑ , कामं॑ , नि॒ऽए॒रि॒रे ॥
भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः । भ॒द्रा उ॒त प्रश॑स्तयः ॥
भ॒द्रः , नः॒ , अ॒ग्निः , आऽहु॑तः , भ॒द्रा , रा॒तिः , सु॒ऽभ॒ग॒ , भ॒द्रः , अ॒ध्व॒रः । भ॒द्राः , उ॒त , प्रऽश॑स्तयः ॥
भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॒ येना॑ स॒मत्सु॑ सा॒सहः॑ । अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥
भ॒द्रं , मनः॑ , कृ॒णु॒ष्व॒ , वृ॒त्र॒ऽतूर्ये॑ , येन॑ , स॒मत्ऽसु॑ , स॒सहः॑ । अव॑ , स्थि॒रा , त॒नु॒हि॒ , भूरि॑ , शर्ध॑तां , व॒नेम॑ , ते॒ , अ॒भिष्टि॑ऽभिः ॥
ईळे॑ गि॒रा मनु॑र्हितं॒ यं दे॒वा दू॒तम॑र॒तिं न्ये॑रि॒रे । यजि॑ष्ठं हव्य॒वाह॑नं ॥
ईळे॑ , गि॒रा , मनुः॑ऽहितं , यं , दे॒वाः , दू॒तं , अ॒र॒तिं , नि॒ऽए॒रि॒रे । यजि॑ष्ठं , ह॒व्य॒ऽवाह॑नं ॥
ति॒ग्मजं॑भाय॒ तरु॑णाय॒ राज॑ते॒ प्रयो॑ गायस्य॒ग्नये॑ । यः पिं॒शते॑ सू॒नृता॑भिः सु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः ॥
ति॒ग्मऽजं॑भाय , तरु॑णाय , राज॑ते , प्रयः॑ , गा॒य॒सि॒ , अ॒ग्नये॑ । यः , पिं॒शते॑ , सू॒नृता॑भिः , सु॒ऽवीर्यं॑ , अ॒ग्निः , घृ॒तेभिः॑ , आऽहु॑तः ॥
यदी॑ घृ॒तेभि॒राहु॑तो॒ वाशी॑म॒ग्निर्भर॑त॒ उच्चाव॑ च । असु॑र इव नि॒र्णिजं॑ ॥
यदि॑ , घृ॒तेभिः॑ , आऽहु॑तः , वाशीं॑ , अ॒ग्निः , भर॑ते , उत् , च॒ , अव॑ , च॒ । असु॑रःऽइव , निः॒ऽनिजं॑ ॥
यो ह॒व्यान्यैर॑यता॒ मनु॑र्हितो दे॒व आ॒सा सु॑गं॒धिना॑ । विवा॑सते॒ वार्या॑णि स्वध्व॒रो होता॑ दे॒वो अम॑र्त्यः ॥
यः , ह॒व्यानि॑ , ऐर॑यत , मनुः॑ऽहितः , दे॒वः , आ॒सा , सु॒ऽगं॒धिना॑ । विवा॑सते , वार्या॑णि , सु॒ऽअ॒ध्व॒रः , होता॑ , दे॒वः , अम॑र्त्यः ॥
यद॑ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि॑त्रमहो॒ अम॑र्त्यः । सह॑सः सूनवाहुत ॥
यत् , अ॒ग्ने॒ , मर्त्यः॑ , त्वं , स्यां , अ॒हं , मि॒त्र॒ऽम॒हः॒ , अम॑र्त्यः । सह॑सः , सू॒नो॒ इति॑ , आ॒ऽहु॒त॒ ॥
न त्वा॑ रासीया॒भिश॑स्तये वसो॒ न पा॑प॒त्वाय॑ संत्य । न मे॑ स्तो॒ताम॑ती॒वा न दुर्हि॑तः॒ स्याद॑ग्ने॒ न पा॒पया॑ ॥
न , त्वा॒ , रा॒सी॒य॒ , अ॒भिऽश॑स्तये , व॒सो॒ इति॑ , न , पा॒प॒ऽत्वाय॑ , सं॒त्य॒ । न , मे॒ , स्तो॒ता , अ॒म॒ति॒ऽवा , न , दुःऽहि॑तः , स्यात् , अ॒ग्ने॒ , न , पा॒पया॑ ॥
पि॒तुर्न पु॒त्रः सुभृ॑तो दुरो॒ण आ दे॒वाँ ए॑तु॒ प्र णो॑ ह॒विः ॥
पि॒तुः , न , पु॒त्रः , सुऽभृ॑तः , दु॒रो॒णे , आ , दे॒वान् , ए॒तु॒ , प्र , नः॒ , ह॒विः ॥ ।
तवा॒हम॑ग्न ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोष॒मा व॑सो । सदा॑ दे॒वस्य॒ मर्त्यः॑ ॥
तव॑ , अ॒हं , अ॒ग्ने॒ , ऊ॒तिऽभिः॑ , नेदि॑ष्ठाभिः , स॒चे॒य॒ , जोषं॑ , आ , व॒सो॒ इति॑ । सदा॑ , दे॒वस्य॑ , मर्त्यः॑ ॥
तव॒ क्रत्वा॑ सनेयं॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः । त्वामिदा॑हुः॒ प्रम॑तिं वसो॒ ममाग्ने॒ हर्ष॑स्व॒ दात॑वे ॥
तव॑ , क्रत्वा॑ , स॒ने॒यं॒ , तव॑ , रा॒तिऽभिः॑ , अग्ने॑ , तव॑ , प्रश॑स्तिऽभिः । त्वां , इत् , आ॒हुः॒ , प्रऽम॑तिं , व॒सो॒ इति॑ , मम॑ , अग्ने॑ , हर्ष॑स्व , दात॑वे ॥
प्र सो अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः । यस्य॒ त्वं स॒ख्यमा॒वरः॑ ॥
प्र , सः , अ॒ग्ने॒ , तव॑ , ऊ॒तिऽभिः॑ , सु॒ऽवीरा॑भिः , ति॒र॒ते॒ , वाज॑भर्मऽभिः । यस्य॑ , त्वं , स॒ख्यं , आ॒ऽवरः॑ ॥
तव॑ द्र॒प्सो नील॑वान्वा॒श ऋ॒त्विय॒ इंधा॑नः सिष्ण॒वा द॑दे । त्वं म॑ही॒नामु॒षसा॑मसि प्रि॒यः क्ष॒पो वस्तु॑षु राजसि ॥
तव॑ , द्र॒प्सः , नील॑ऽवान् , वा॒शः , ऋ॒त्वियः॑ , इंधा॑नः , सि॒ष्णो॒ इति॑ , आ , द॒दे॒ । त्वं , म॒ही॒नां , उ॒षसां॑ , अ॒सि॒ , प्रि॒यः , क्ष॒पः , वस्तु॑षु , रा॒ज॒सि॒ ॥
तमाग॑न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से । स॒म्राजं॒ त्रास॑दस्यवं ॥
तं , आ , अ॒ग॒न्म॒ , सोभ॑रयः , स॒हस्र॑ऽमुष्कं , सु॒ऽअ॒भि॒ष्टिं , अव॑से । सं॒ऽराजं॑ , त्रास॑दस्यवं ॥
यस्य॑ ते अग्ने अ॒न्ये अ॒ग्नय॑ उप॒क्षितो॑ व॒या इ॑व । विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना॑नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥
यस्य॑ , ते॒ , अ॒ग्ने॒ , अ॒न्ये , अ॒ग्नयः॑ , उ॒प॒ऽक्षितः॑ , व॒याःऽइ॑व । विपः॑ , न , द्यु॒म्ना , नि , यु॒वे॒ , जना॑नां , तव॑ , क्ष॒त्राणि॑ , व॒र्धय॑न् ॥
यमा॑दित्यासो अद्रुहः पा॒रं नय॑थ॒ मर्त्यं॑ । म॒घोनां॒ विश्वे॑षां सुदानवः ॥
यं , आ॒दि॒त्या॒सः॒ , अ॒द्रु॒हः॒ , पा॒रं , नय॑थ , मर्त्यं॑ । म॒घोनां॑ , विश्वे॑षां , सु॒ऽदा॒न॒वः॒ ॥
यू॒यं रा॑जानः॒ कं चि॑च्चर्षणीसहः॒ क्षयं॑तं॒ मानु॑षाँ॒ अनु॑ । व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑मं॒त्स्यामेदृ॒तस्य॑ र॒थ्यः॑ ॥
यू॒यं , रा॒जा॒नः॒ , कं , चि॒त् , च॒र्ष॒णि॒ऽस॒हः॒ , क्षयं॑तं , मानु॑षान् , अनु॑ । व॒यं , ते , वः॒ , वरु॑ण , मित्र॑ , अर्य॑मन् , स्याम॑ , इत् , ऋ॒तस्य॑ , र॒थ्यः॑ ॥
अदा॑न्मे पौरुकु॒त्स्यः पं॑चा॒शतं॑ त्र॒सद॑स्युर्व॒धूनां॑ । मंहि॑ष्ठो अ॒र्यः सत्प॑तिः ॥
अदा॑त् , मे॒ , पौ॒रु॒ऽकु॒त्स्यः , पं॒चा॒शतं॑ , त्र॒सद॑स्युः , व॒धूनां॑ । मंहि॑ष्ठः , अ॒र्यः , सत्ऽप॑तिः ॥
उ॒त मे॑ प्र॒यियो॑र्व॒यियोः॑ सु॒वास्त्वा॒ अधि॒ तुग्व॑नि । ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया॑नां॒ पतिः॑ ॥
उ॒त , मे॒ , प्र॒यियोः॑ , व॒यियोः॑ , सु॒ऽवास्त्वाः॑ , अधि॑ , तुग्व॑नि । ति॒सॄ॒णां , स॒प्त॒ती॒नां , श्या॒वः , प्र॒ऽने॒ता , भु॒व॒त् , वसुः॑ , दिया॑नां , पतिः॑ ॥
[२०] आगंतेति षड्विंशत्यृचस्य सूक्तस्य काण्वः सोभरिर्मरुतः अयुजः ककुभो युजःसतोबृहत्यः |
आ गं॑ता॒ मा रि॑षण्यत॒ प्रस्था॑वानो॒ माप॑ स्थाता समन्यवः । स्थि॒रा चि॑न्नमयिष्णवः ॥
आ , गं॒त॒ , मा , रि॒ष॒ण्य॒त॒ , प्रऽस्था॑वानः , मा , अप॑ , स्था॒त॒ , स॒ऽम॒न्य॒वः॒ । स्थि॒रा , चि॒त् , न॒म॒यि॒ष्ण॒वः॒ ॥
वी॒ळु॒प॒विभि॑र्मरुत ऋभुक्षण॒ आ रु॑द्रासः सुदी॒तिभिः॑ । इ॒षा नो॑ अ॒द्या ग॑ता पुरुस्पृहो य॒ज्ञमा सो॑भरी॒यवः॑ ॥
वी॒ळु॒प॒विऽभिः॑ , म॒रु॒तः॒ , ऋ॒भु॒क्ष॒णः॒ , आ , रु॒द्रा॒सः॒ , सु॒दी॒तिऽभिः॑ । इ॒षा , नः॒ , अ॒द्य , आ , ग॒त॒ , पु॒रु॒ऽस्पृ॒हः॒ , य॒ज्ञं , आ , सो॒भ॒री॒ऽयवः॑ ॥
वि॒द्मा हि रु॒द्रिया॑णां॒ शुष्म॑मु॒ग्रं म॒रुतां॒ शिमी॑वतां । विष्णो॑रे॒षस्य॑ मी॒ळ्हुषां॑ ॥
वि॒द्म , हि , रु॒द्रिया॑णां , शुष्मं॑ , उ॒ग्रं , म॒रुतां॑ , शिमी॑ऽवतां । विष्णोः॑ , ए॒षस्य॑ , मी॒ळ्हुषां॑ ॥
वि द्वी॒पानि॒ पाप॑तं॒तिष्ठ॑द्दु॒च्छुनो॒भे यु॑जंत॒ रोद॑सी । प्र धन्वा॑न्यैरत शुभ्रखादयो॒ यदेज॑थ स्वभानवः ॥
वि , द्वी॒पानि॑ , पाप॑तन् , तिष्ठ॑त् , दु॒च्छुना॑ , उ॒भे इति॑ , यु॒जं॒त॒ , रोद॑सी॒ इति॑ । प्र , धन्वा॑नि , ऐ॒र॒त॒ , शु॒भ्र॒ऽखा॒द॒यः॒ , यत् , एज॑थ , स्व॒ऽभा॒न॒वः॒ ॥
अच्यु॑ता चिद्वो॒ अज्म॒न्ना नान॑दति॒ पर्व॑तासो॒ वन॒स्पतिः॑ । भूमि॒र्यामे॑षु रेजते ॥
अच्यु॑ता , चि॒त् , वः॒ , अज्म॑न् , आ , नान॑दति , पर्व॑तासः , वन॒स्पतिः॑ । भूमिः॑ , यामे॑षु , रे॒ज॒ते॒ ॥
अमा॑य वो मरुतो॒ यात॑वे॒ द्यौर्जिही॑त॒ उत्त॑रा बृ॒हत् । यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां॑सि बा॒ह्वो॑जसः ॥
अमा॑य , वः॒ , म॒रु॒तः॒ , यात॑वे , द्यौः , जिही॑ते , उत्ऽत॑रा , बृ॒हत् । यत्र॑ , नरः॑ , देदि॑शते , त॒नूषु॑ , आ , त्वक्षां॑सि , ब॒हुऽओ॑जसः ॥
स्व॒धामनु॒ श्रियं॒ नरो॒ महि॑ त्वे॒षा अम॑वंतो॒ वृष॑प्सवः । वहं॑ते॒ अह्रु॑तप्सवः ॥
स्व॒धां , अनु॑ , श्रियं॑ , नरः॑ , महि॑ , त्वे॒षाः , अम॑ऽवंतः , वृष॑ऽप्सवः । वहं॑ते , अह्रु॑तऽप्सवः ॥
गोभि॑र्वा॒णो अ॑ज्यते॒ सोभ॑रीणां॒ रथे॒ कोशे॑ हिर॒ण्यये॑ । गोबं॑धवः सुजा॒तास॑ इ॒षे भु॒जे म॒हांतो॑ नः॒ स्पर॑से॒ नु ॥
गोभिः॑ , वा॒णः , अ॒ज्य॒ते॒ , सोभ॑रीणां , रथे॑ , कोशे॑ , हि॒र॒ण्यये॑ । गोऽबं॑धवः , सु॒ऽजा॒तासः॑ , इ॒षे , भु॒जे , म॒हांतः॑ , नः॒ , स्पर॑से , नु ॥
प्रति॑ वो वृषदंजयो॒ वृष्णे॒ शर्धा॑य॒ मारु॑ताय भरध्वं । ह॒व्या वृष॑प्रयाव्णे ॥
प्रति॑ , वः॒ , वृ॒ष॒त्ऽअं॒ज॒यः॒ , वृष्णे॑ , शर्धा॑य , मारु॑ताय , भ॒र॒ध्वं॒ । ह॒व्या , वृष॑ऽप्रयाव्ने ॥
वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे॑न॒ वृष॑नाभिना । आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा॑ नरो ह॒व्या नो॑ वी॒तये॑ गत ॥
वृ॒ष॒ण॒श्वेन॑ , म॒रु॒तः॒ , वृष॑ऽप्सुना , रथे॑न , वृष॑ऽनाभिना । आ , श्ये॒नासः॑ , न , प॒क्षिणः॑ , वृथा॑ , न॒रः॒ , ह॒व्या , नः॒ , वी॒तये॑ , ग॒त॒ ॥
स॒मा॒नमं॒ज्ये॑षां॒ वि भ्रा॑जंते रु॒क्मासो॒ अधि॑ बा॒हुषु॑ । दवि॑द्युतत्यृ॒ष्टयः॑ ॥
स॒मा॒नं , अं॒जि , ए॒षां॒ , वि , भ्रा॒जं॒ते॒ , रु॒क्मासः॑ , अधि॑ , बा॒हुषु॑ । दवि॑द्युतति , ऋ॒ष्टयः॑ ॥
त उ॒ग्रासो॒ वृष॑ण उ॒ग्रबा॑हवो॒ नकि॑ष्ट॒नूषु॑ येतिरे । स्थि॒रा धन्वा॒न्यायु॑धा॒ रथे॑षु॒ वोऽनी॑के॒ष्वधि॒ श्रियः॑ ॥
ते , उ॒ग्रासः॑ , वृष॑णः , उ॒ग्रऽबा॑हवः , नकिः॑ , त॒नूषु॑ , ये॒ति॒रे॒ । स्थि॒रा , धन्वा॑नि , आयु॑धा , रथे॑षु , वः॒ , अनी॑केषु , अधि॑ , श्रियः॑ ॥
येषा॒मर्णो॒ न स॒प्रथो॒ नाम॑ त्वे॒षं शश्व॑ता॒मेक॒मिद्भु॒जे । वयो॒ न पित्र्यं॒ सहः॑ ॥
येषां॑ , अर्णः॑ , न , स॒ऽप्रथः॑ , नाम॑ , त्वे॒षं , शश्व॑तां , एकं॑ , इत् , भु॒जे । वयः॑ , न , पित्र्यं॑ , सहः॑ ॥
तान्वं॑दस्व म॒रुत॒स्ताँ उप॑ स्तुहि॒ तेषां॒ हि धुनी॑नां । अ॒राणां॒ न च॑र॒मस्तदे॑षां दा॒ना म॒ह्ना तदे॑षां ॥
तान् , वं॒द॒स्व॒ , म॒रुतः॑ , तान् , उप॑ , स्तु॒हि॒ , तेषां॑ , हि , धुनी॑नां । अ॒राणां॑ , न , च॒र॒मः , तत् , ए॒षां॒ , दा॒ना , म॒ह्ना , तत् , ए॒षां॒ ॥
सु॒भगः॒ स व॑ ऊ॒तिष्वास॒ पूर्वा॑सु मरुतो॒ व्यु॑ष्टिषु । यो वा॑ नू॒नमु॒तास॑ति ॥
सु॒ऽभगः॑ , सः , वः॒ , ऊ॒तिषु॑ , आस॑ , पूर्वा॑सु , म॒रु॒तः॒ , विऽउ॑ष्टिषु । यः , वा॒ , नू॒नं , उ॒त , अस॑ति ॥
यस्य॑ वा यू॒यं प्रति॑ वा॒जिनो॑ नर॒ आ ह॒व्या वी॒तये॑ ग॒थ । अ॒भि ष द्यु॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना वो॑ धूतयो नशत् ॥
यस्य॑ , वा॒ , यू॒यं , प्रति॑ , वा॒जिनः॑ , न॒रः॒ , आ , ह॒व्या , वी॒तये॑ , ग॒थ । अ॒भि , सः , द्यु॒म्नैः , उ॒त , वाज॑सातिऽभिः , सु॒म्ना , वः॒ , धू॒त॒यः॒ , न॒श॒त् ॥
यथा॑ रु॒द्रस्य॑ सू॒नवो॑ दि॒वो वशं॒त्यसु॑रस्य वे॒धसः॑ । युवा॑न॒स्तथेद॑सत् ॥
यथा॑ , रु॒द्रस्य॑ , सू॒नवः॑ , दि॒वः , वशं॑ति , असु॑रस्य , वे॒धसः॑ । युवा॑नः , तथा॑ , इत् , अ॒स॒त् ॥
ये चार्हं॑ति म॒रुतः॑ सु॒दान॑वः॒ स्मन्मी॒ळ्हुष॒श्चरं॑ति॒ ये । अत॑श्चि॒दा न॒ उप॒ वस्य॑सा हृ॒दा युवा॑न॒ आ व॑वृध्वं ॥
ये , च॒ , अर्हं॑ति , म॒रुतः॑ , सु॒ऽदान॑वः , स्मत् , मी॒ळ्हुषः॑ , चरं॑ति , ये । अतः॑ , चि॒त् , आ , नः॒ , उप॑ , वस्य॑सा , हृ॒दा , युवा॑नः , आ , व॒वृ॒ध्वं॒ ॥
यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्णः॑ पाव॒काँ अ॒भि सो॑भरे गि॒रा । गाय॒ गा इ॑व॒ चर्कृ॑षत् ॥
यूनः॑ , ऊँ॒ इति॑ , सु , नवि॑ष्ठया , वृष्णः॑ , पा॒व॒कान् , अ॒भि , सो॒भ॒रे॒ , गि॒रा । गाय॑ , गाःऽइ॑व , चर्कृ॑षत् ॥
सा॒हा ये संति॑ मुष्टि॒हेव॒ हव्यो॒ विश्वा॑सु पृ॒त्सु होतृ॑षु । वृष्ण॑श्चं॒द्रान्न सु॒श्रव॑स्तमान्गि॒रा वंद॑स्व म॒रुतो॒ अह॑ ॥
स॒हाः , ये , संति॑ , मु॒ष्टि॒हाऽइ॑व , हव्यः॑ , विश्वा॑सु , पृ॒त्ऽसु , होतृ॑षु । वृष्णः॑ , चं॒द्रान् , न , सु॒श्रवः॑ऽतमान् , गि॒रा , वंद॑स्व , म॒रुतः॑ , अह॑ ॥
गाव॑श्चिद्घा समन्यवः सजा॒त्ये॑न मरुतः॒ सबं॑धवः । रि॒ह॒ते क॒कुभो॑ मि॒थः ॥
गावः॑ , चि॒त् , घ॒ , स॒ऽम॒न्य॒वः॒ , स॒ऽजा॒त्ये॑न , म॒रु॒तः॒ , सऽबं॑धवः । रि॒ह॒ते , क॒कुभः॑ , मि॒थः ॥
मर्त॑श्चिद्वो नृतवो रुक्मवक्षस॒ उप॑ भ्रातृ॒त्वमाय॑ति । अधि॑ नो गात मरुतः॒ सदा॒ हि व॑ आपि॒त्वमस्ति॒ निध्रु॑वि ॥
मर्तः॑ , चि॒त् , वः॒ , नृ॒त॒वः॒ , रु॒क्म॒ऽव॒क्ष॒सः॒ , उप॑ , भ्रा॒तृ॒ऽत्वं , आ , अ॒य॒ति॒ । अधि॑ , नः॒ , गा॒त॒ , म॒रु॒तः॒ , सदा॑ , हि , वः॒ , आ॒पि॒ऽत्वं , अस्ति॑ , निऽध्रु॑वि ॥
मरु॑तो॒ मारु॑तस्य न॒ आ भे॑ष॒जस्य॑ वहता सुदानवः । यू॒यं स॑खायः सप्तयः ॥
मरु॑तः , मारु॑तस्य , नः॒ , आ , भे॒ष॒जस्य॑ , व॒ह॒त॒ , सु॒ऽदा॒न॒वः॒ । यू॒यं , स॒खा॒यः॒ , स॒प्त॒यः॒ ॥
याभिः॒ सिंधु॒मव॑थ॒ याभि॒स्तूर्व॑थ॒ याभि॑र्दश॒स्यथा॒ क्रिविं॑ । मयो॑ नो भूतो॒तिभि॑र्मयोभुवः शि॒वाभि॑रसचद्विषः ॥
याभिः॑ , सिंधुं॑ , अव॑थ , याभिः॑ , तूर्व॑थ , याभिः॑ , द॒श॒स्यथ॑ , क्रिविं॑ । मयः॑ , नः॒ , भू॒त॒ , ऊ॒तिऽभिः॑ , म॒यः॒ऽभु॒वः॒ , शि॒वाभिः॑ , अ॒स॒च॒ऽद्वि॒षः॒ ॥
यत्सिंधौ॒ यदसि॑क्न्यां॒ यत्स॑मु॒द्रेषु॑ मरुतः सुबर्हिषः । यत्पर्व॑तेषु भेष॒जं ॥
यत् , सिंधौ॑ , यत् , असि॑क्न्यां , यत् , स॒मु॒द्रेषु॑ , म॒रु॒तः॒ , सु॒ऽब॒र्हि॒षः॒ । यत् , पर्व॑तेषु , भे॒ष॒जं ॥
विश्वं॒ पश्यं॑तो बिभृथा त॒नूष्वा तेना॑ नो॒ अधि॑ वोचत । क्ष॒मा रपो॑ मरुत॒ आतु॑रस्य न॒ इष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ॥
विश्वं॑ , पश्यं॑तः , वि॒भृ॒थ॒ , त॒नूषु॑ , आ , तेन॑ , नः॒ , अधि॑ , वो॒च॒त॒ । क्ष॒मा , रपः॑ , म॒रु॒तः॒ , आतु॑रस्य , नः॒ , इष्क॑र्त , विऽह्रु॑तं , पुन॒रिति॑ ॥
[२१] वयमुत्वेत्यष्टादशर्चस्य सूक्तस्य काण्वः सोभरिरिंद्रोंत्ययोर्द्वयोश्चित्रः अयुजःककुभोयुजःसतोबृहृत्यः |
व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भरं॑तोऽव॒स्यवः॑ । वाजे॑ चि॒त्रं ह॑वामहे ॥
व॒यं , ऊँ॒ इति॑ , त्वां , अ॒पू॒र्व्य॒ , स्थू॒रं , न , कत् , चि॒त् , भरं॑तः , अ॒व॒स्यवः॑ । वाजे॑ , चि॒त्रं , ह॒वा॒म॒हे॒ ॥
उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॒षत् । त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इंद्र सान॒सिं ॥
उप॑ , त्वा॒ , कर्म॑न् , ऊ॒तये॑ , सः , नः॒ , युवा॑ , उ॒ग्रः , च॒क्रा॒म॒ , यः , धृ॒षत् । त्वां , इत् , हि , अ॒वि॒तारं॑ , व॒वृ॒महे॑ , सखा॑यः , इं॒द्र॒ , सा॒न॒सिं ॥
आ या॑ही॒म इंद॒वोऽश्व॑पते॒ गोप॑त॒ उर्व॑रापते । सोमं॑ सोमपते पिब ॥
आ , या॒हि॒ , इ॒मे , इंद॑वः , अश्व॑ऽपते , गोऽप॑ते , उर्व॑राऽपते । सोमं॑ , सो॒म॒ऽप॒ते॒ , पि॒ब॒ ॥
व॒यं हि त्वा॒ बंधु॑मंतमबं॒धवो॒ विप्रा॑स इंद्र येमि॒म । या ते॒ धामा॑नि वृषभ॒ तेभि॒रा ग॑हि॒ विश्वे॑भिः॒ सोम॑पीतये ॥
व॒यं , हि , त्वा॒ , बंधु॑ऽमंतं , अ॒बं॒धवः॑ , विप्रा॑सः , इं॒द्र॒ , ये॒मि॒म । या , ते॒ , धामा॑नि , वृ॒ष॒भ॒ , तेभिः॑ , आ , ग॒हि॒ , विश्वे॑भिः , सोम॑ऽपीतये ॥
सीदं॑तस्ते॒ वयो॑ यथा॒ गोश्री॑ते॒ मधौ॑ मदि॒रे वि॒वक्ष॑णे । अ॒भि त्वामिं॑द्र नोनुमः ॥
सीदं॑तः , ते॒ , वयः॑ , य॒था॒ , गोऽश्री॑ते , मधौ॑ , म॒दि॒रे , वि॒वक्ष॑णे । अ॒भि , त्वां , इं॒द्र॒ , नो॒नु॒मः॒ ॥
अच्छा॑ च त्वै॒ना नम॑सा॒ वदा॑मसि॒ किं मुहु॑श्चि॒द्वि दी॑धयः । संति॒ कामा॑सो हरिवो द॒दिष्ट्वं स्मो व॒यं संति॑ नो॒ धियः॑ ॥
अच्छ॑ , च॒ , त्वा॒ , ए॒ना , नम॑सा , वदा॑मसि , किं , मुहुः॑ , चि॒त् , वि , दी॒ध॒यः॒ । संति॑ , कामा॑सः , ह॒रि॒ऽवः॒ , द॒दिः , त्वं , स्मः , व॒यं , संति॑ , नः॒ , धियः॑ ॥
नूत्ना॒ इदिं॑द्र ते व॒यमू॒ती अ॑भूम न॒हि नू ते॑ अद्रिवः । वि॒द्मा पु॒रा परी॑णसः ॥
नूत्नाः॑ , इत् , इं॒द्र॒ , ते॒ , व॒यं , ऊ॒ती , अ॒भू॒म॒ , न॒हि , नु , ते॒ , अ॒द्रि॒ऽवः॒ । वि॒द्म , पु॒रा , परी॑णसः ॥
वि॒द्मा स॑खि॒त्वमु॒त शू॑र भो॒ज्य१॒॑मा ते॒ ता व॑ज्रिन्नीमहे । उ॒तो स॑मस्मि॒न्ना शि॑शीहि नो वसो॒ वाजे॑ सुशिप्र॒ गोम॑ति ॥
वि॒द्म , स॒खि॒ऽत्वं , उ॒त , शू॒र॒ , भो॒ज्यं॑ , आ , ते॒ , ता , व॒ज्रि॒न् , ई॒म॒हे॒ । उ॒तो इति॑ , स॒म॒स्मि॒न् , आ , शि॒शी॒हि॒ , नः॒ , व॒सो॒ इति॑ , वाजे॑ , सु॒ऽशि॒प्र॒ , गोऽम॑ति ॥
यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ वः स्तुषे । सखा॑य॒ इंद्र॑मू॒तये॑ ॥
यः , नः॒ , इ॒दंऽइ॑दं , पु॒रा , प्र , वस्यः॑ , आ॒ऽनि॒नाय॑ , तं , ऊँ॒ इति॑ , वः॒ , स्तु॒षे॒ । सखा॑यः , इंद्रं॑ , ऊ॒तये॑ ॥
हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अमं॑दत । आ तु नः॒ स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तं ॥
हरि॑ऽअश्वं , सत्ऽप॑तिं , च॒र्ष॒णि॒ऽसहं॑ , सः , हि , स्म॒ , यः , अमं॑दत । आ , तु , नः॒ , सः , व॒य॒ति॒ , गव्यं॑ , अश्व्यं॑ , स्तो॒तृऽभ्यः॑ , म॒घऽवा॑ , श॒तं ॥
त्वया॑ ह स्विद्यु॒जा व॒यं प्रति॑ श्व॒संतं॑ वृषभ ब्रुवीमहि । सं॒स्थे जन॑स्य॒ गोम॑तः ॥
त्वया॑ , ह॒ , स्वि॒त् , यु॒जा , व॒यं , प्रति॑ , श्व॒संतं॑ , वृ॒ष॒भ॒ , ब्रु॒वी॒म॒हि॒ । सं॒ऽस्थे , जन॑स्य , गोऽम॑तः ॥
जये॑म का॒रे पु॑रुहूत का॒रिणो॒ऽभि ति॑ष्ठेम दू॒ढ्यः॑ । नृभि॑र्वृ॒त्रं ह॒न्याम॑ शूशु॒याम॒ चावे॑रिंद्र॒ प्र णो॒ धियः॑ ॥
जये॑म , का॒रे , पु॒रु॒ऽहू॒त॒ , का॒रिणः॑ , अ॒भि , ति॒ष्ठे॒म॒ , दुः॒ऽध्यः॑ । नृऽभिः॑ , वृ॒त्रं , ह॒न्याम॑ , शू॒शु॒याम॑ , च॒ , अवेः॑ , इं॒द्र॒ , प्र , नः॒ , धियः॑ ॥
अ॒भ्रा॒तृ॒व्यो अ॒ना त्वमना॑पिरिंद्र ज॒नुषा॑ स॒नाद॑सि । यु॒धेदा॑पि॒त्वमि॑च्छसे ॥
अ॒भ्रा॒तृ॒व्यः , अ॒ना , त्वं , अना॑पिः , इं॒द्र॒ , ज॒नुषा॑ , स॒नात् , अ॒सि॒ । यु॒धा , इत् , आ॒पि॒ऽत्वं , इ॒च्छ॒से॒ ॥
नकी॑ रे॒वंतं॑ स॒ख्याय॑ विंदसे॒ पीयं॑ति ते सुरा॒श्वः॑ । य॒दा कृ॒णोषि॑ नद॒नुं समू॑ह॒स्यादित्पि॒तेव॑ हूयसे ॥
नकिः॑ , रे॒वंतं॑ , स॒ख्याय॑ , विं॒द॒से॒ , पीयं॑ति , ते॒ , सु॒रा॒श्वः॑ । य॒दा , कृ॒णोषि॑ , न॒द॒नुं , सं , ऊ॒ह॒सि॒ , आत् , इत् , पि॒ताऽइ॑व , हू॒य॒से॒ ॥
मा ते॑ अमा॒जुरो॑ यथा मू॒रास॑ इंद्र स॒ख्ये त्वाव॑तः । नि ष॑दाम॒ सचा॑ सु॒ते ॥
मा , ते॒ , अ॒मा॒ऽजुरः॑ , य॒था॒ , मू॒रासः॑ , इं॒द्र॒ , स॒ख्ये , त्वाऽव॑तः । नि , स॒दा॒म॒ , सचा॑ , सु॒ते ॥
मा ते॑ गोदत्र॒ निर॑राम॒ राध॑स॒ इंद्र॒ मा ते॑ गृहामहि । दृ॒ळ्हा चि॑द॒र्यः प्र मृ॑शा॒भ्या भ॑र॒ न ते॑ दा॒मान॑ आ॒दभे॑ ॥
मा , ते॒ , गो॒ऽद॒त्र॒ , निः , अ॒रा॒म॒ , राध॑सः , इंद्र॑ , मा , ते॒ , गृ॒हा॒म॒हि॒ । दृ॒ळ्हा , चि॒त् , अ॒र्यः , प्र , मृ॒श॒ , अ॒भि , आ , भ॒र॒ , न , ते॒ , दा॒मानः॑ , आ॒ऽदभे॑ ॥
इंद्रो॑ वा॒ घेदिय॑न्म॒घं सर॑स्वती वा सु॒भगा॑ द॒दिर्वसु॑ । त्वं वा॑ चित्र दा॒शुषे॑ ॥
इंद्रः॑ , वा॒ , घ॒ , इत् , इय॑त् , म॒घं , सर॑स्वती , वा॒ , सु॒ऽभगा॑ , द॒दिः , वसु॑ । त्वं , वा॒ , चि॒त्र॒ , दा॒शुषे॑ ॥
चित्र॒ इद्राजा॑ राज॒का इद॑न्य॒के य॒के सर॑स्वती॒मनु॑ । प॒र्जन्य॑ इव त॒तन॒द्धि वृ॒ष्ट्या स॒हस्र॑म॒युता॒ दद॑त् ॥
चित्रः॑ , इत् , राजा॑ , रा॒ज॒काः , इत् , अ॒न्य॒के , य॒के , सर॑स्वतीं , अनु॑ । प॒र्जन्यः॑ऽइव , त॒तन॑त् , हि , वृ॒ष्ट्या , स॒हस्रं॑ , अ॒युता॑ , दद॑त् ॥
[२२] ओत्यमह्वइत्यष्टादशर्चस्य सूक्तस्य काण्वः सोभरिरश्विनौ प्रथमातृतीयापंचमीसप्तमीबृहत्यः द्वितीयाचतुर्थीषष्ठयः सतोबृहत्यः अष्टम्यनुष्टुप् नवमीत्रयोदशीपंचदशी सप्तदृश्यः ककुभः दशमीचतुर्दशीषोडश्यष्टादश्यः सतोबृहत्यः एकादशीद्वादश्यौ ककुम्मध्येज्योतिषी |
ओ त्यम॑ह्व॒ आ रथ॑म॒द्या दंसि॑ष्ठमू॒तये॑ । यम॑श्विना सुहवा रुद्रवर्तनी॒ आ सू॒र्यायै॑ त॒स्थथुः॑ ॥
ओ इति॑ , त्यं , अ॒ह्वे॒ , आ , रथं॑ , अ॒द्य , दंसि॑ष्ठं , ऊ॒तये॑ । यं , अ॒श्वि॒ना॒ , सु॒ऽह॒वा॒ , रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी , आ , सू॒र्यायै॑ , त॒स्थथुः॑ ॥
पू॒र्वा॒पुषं॑ सु॒हवं॑ पुरु॒स्पृहं॑ भु॒ज्युं वाजे॑षु॒ पूर्व्यं॑ । स॒च॒नावं॑तं सुम॒तिभिः॑ सोभरे॒ विद्वे॑षसमने॒हसं॑ ॥
पू॒र्व॒ऽआ॒पुषं॑ , सु॒ऽहवं॑ , पु॒रु॒ऽस्पृहं॑ , भु॒ज्युं , वाजे॑षु , पूर्व्यं॑ । स॒च॒नाऽवं॑तं , सु॒म॒तिऽभिः॑ , सो॒भ॒रे॒ , विऽद्वे॑षसं , अ॒ने॒हसं॑ ॥
इ॒ह त्या पु॑रु॒भूत॑मा दे॒वा नमो॑भिर॒श्विना॑ । अ॒र्वा॒ची॒ना स्वव॑से करामहे॒ गंता॑रा दा॒शुषो॑ गृ॒हं ॥
इ॒ह , त्या , पु॒रु॒ऽभूत॑मा , दे॒वा , नमः॑ऽभिः , अ॒श्विना॑ । अ॒र्वा॒ची॒ना , सु , अव॑से , क॒रा॒म॒हे॒ , गंता॑रा , दा॒शुषः॑ , गृ॒हं ॥
यु॒वो रथ॑स्य॒ परि॑ च॒क्रमी॑यत ई॒र्मान्यद्वा॑मिषण्यति । अ॒स्माँ अच्छा॑ सुम॒तिर्वां॑ शुभस्पती॒ आ धे॒नुरि॑व धावतु ॥
यु॒वोः , रथ॑स्य , परि॑ , च॒क्रं , ई॒य॒ते॒ , ई॒र्मा , अ॒न्यत् , वां॒ , इ॒ष॒ण्य॒ति॒ । अ॒स्मान् , अच्छ॑ , सु॒ऽम॒तिः , वां॒ , शु॒भः॒ , प॒ती॒ इति॑ , आ , धे॒नुःऽइ॑व , धा॒व॒तु॒ ॥
रथो॒ यो वां॑ त्रिवंधु॒रो हिर॑ण्याभीशुरश्विना । परि॒ द्यावा॑पृथि॒वी भूष॑ति श्रु॒तस्तेन॑ नास॒त्या ग॑तं ॥
रथः॑ , यः , वां॒ , त्रि॒ऽवं॒धु॒रः , हिर॑ण्यऽअभीशुः , अ॒श्वि॒ना॒ । परि॑ , द्यावा॑पृथि॒वी इति॑ , भूष॑ति , श्रु॒तः , तेन॑ , ना॒स॒त्या॒ , आ , ग॒तं॒ ॥
द॒श॒स्यंता॒ मन॑वे पू॒र्व्यं दि॒वि यवं॒ वृके॑ण कर्षथः । ता वा॑म॒द्य सु॑म॒तिभिः॑ शुभस्पती॒ अश्वि॑ना॒ प्र स्तु॑वीमहि ॥
द॒श॒स्यंता॑ , मन॑वे , पू॒र्व्यं , दि॒वि , यवं॑ , वृके॑ण , क॒र्ष॒थः॒ । ता , वां॒ , अ॒द्य , सु॒म॒तिऽभिः॑ , शु॒भः॒ , प॒ती॒ इति॑ , अश्वि॑ना , प्र , स्तु॒वी॒म॒हि॒ ॥
उप॑ नो वाजिनीवसू या॒तमृ॒तस्य॑ प॒थिभिः॑ । येभि॑स्तृ॒क्षिं वृ॑षणा त्रासदस्य॒वं म॒हे क्ष॒त्राय॒ जिन्व॑थः ॥
उप॑ , नः॒ , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू , या॒तं , ऋ॒तस्य॑ , प॒थिऽभिः॑ । येभिः॑ , तृ॒क्षिं , वृ॒ष॒णा॒ , त्रा॒स॒द॒स्य॒वं , म॒हे , क्ष॒त्राय॑ , जिन्व॑थः ॥
अ॒यं वा॒मद्रि॑भिः सु॒तः सोमो॑ नरा वृषण्वसू । आ या॑तं॒ सोम॑पीतये॒ पिब॑तं दा॒शुषो॑ गृ॒हे ॥
अ॒यं , वां॒ , अद्रि॑ऽभिः , सु॒तः , सोमः॑ , न॒रा॒ , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । आ , या॒तं॒ , सोम॑ऽपीतये , पिब॑तं , दा॒शुषः॑ , गृ॒हे ॥
आ हि रु॒हत॑मश्विना॒ रथे॒ कोशे॑ हिर॒ण्यये॑ वृषण्वसू । युं॒जाथां॒ पीव॑री॒रिषः॑ ॥
आ , हि , रु॒हतं॑ , अ॒श्वि॒ना॒ , रथे॑ , कोशे॑ , हि॒र॒ण्यये॑ , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । युं॒जाथां॑ , पीव॑रीः , इषः॑ ॥
याभिः॑ प॒क्थमव॑थो॒ याभि॒रध्रि॑गुं॒ याभि॑र्ब॒भ्रुं विजो॑षसं । ताभि॑र्नो म॒क्षू तूय॑मश्वि॒ना ग॑तं भिष॒ज्यतं॒ यदातु॑रं ॥
याभिः॑ , प॒क्थं , अव॑थः , याभिः॑ , अध्रि॑ऽगुं , याभिः॑ , ब॒भ्रुं , विऽजो॑षसं । ताभिः॑ , नः॒ , म॒क्षु , तूयं॑ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ , भि॒ष॒ज्यतं॑ , यत् , आतु॑रं ॥
यदध्रि॑गावो॒ अध्रि॑गू इ॒दा चि॒दह्नो॑ अ॒श्विना॒ हवा॑महे । व॒यं गी॒र्भिर्वि॑प॒न्यवः॑ ॥
यत् , अध्रि॑ऽगावः , अध्रि॑गू॒ इत्यध्रि॑ऽगू , इ॒दा , चि॒त् , अह्नः॑ , अ॒श्विना॑ , हवा॑महे । व॒यं , गीः॒ऽभिः , वि॒प॒न्यवः॑ ॥
ताभि॒रा या॑तं वृष॒णोप॑ मे॒ हवं॑ वि॒श्वप्सुं॑ वि॒श्ववा॑र्यं । इ॒षा मंहि॑ष्ठा पुरु॒भूत॑मा नरा॒ याभिः॒ क्रिविं॑ वावृ॒धुस्ताभि॒रा ग॑तं ॥
ताभिः॑ , आ , या॒तं॒ , वृ॒ष॒णा॒ , उप॑ , मे॒ , हवं॑ , वि॒श्वऽप्सुं॑ , वि॒श्वऽवा॑र्यं । इ॒षा , मंहि॑ष्ठा , पु॒रु॒ऽभूत॑मा , न॒रा॒ , याभिः॑ , क्रिविं॑ , व॒वृ॒धुः , ताभिः॑ , आ , ग॒तं॒ ॥
तावि॒दा चि॒दहा॑नां॒ ताव॒श्विना॒ वंद॑मान॒ उप॑ ब्रुवे । ता उ॒ नमो॑भिरीमहे ॥
तौ , इ॒दा , चि॒त् , अहा॑नां , तौ , अ॒श्विना॑ , वंद॑मानः , उप॑ , ब्रु॒वे॒ । तौ , ऊँ॒ इति॑ , नमः॑ऽभिः , ई॒म॒हे॒ ॥
ताविद्दो॒षा ता उ॒षसि॑ शु॒भस्पती॒ ता याम॑न्रु॒द्रव॑र्तनी । मा नो॒ मर्ता॑य रि॒पवे॑ वाजिनीवसू प॒रो रु॑द्रा॒वति॑ ख्यतं ॥
तौ , इत् , दो॒षा , तौ , उ॒षसि॑ , शु॒भः , पती॒ इति॑ , ता , याम॑न् , रु॒द्रव॑र्तनी॒ इति॑ रु॒द्रऽव॑र्तनी । मा , नः॒ , मर्ता॑य , रि॒पवे॑ , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू , प॒रः , रु॒द्रौ॒ , अति॑ , ख्य॒तं॒ ॥
आ सुग्म्या॑य॒ सुग्म्यं॑ प्रा॒ता रथे॑ना॒श्विना॑ वा स॒क्षणी॑ । हु॒वे पि॒तेव॒ सोभ॑री ॥
आ , सुग्म्या॑य , सुग्म्यं॑ , प्रा॒तरिति॑ , रथे॑न , अ॒श्विना॑ , वा॒ , स॒क्षणी॒ इति॑ । हु॒वे , पि॒ताऽइ॑व , सोभ॑री ॥
मनो॑जवसा वृषणा मदच्युता मक्षुंग॒माभि॑रू॒तिभिः॑ । आ॒रात्ता॑च्चिद्भूतम॒स्मे अव॑से पू॒र्वीभिः॑ पुरुभोजसा ॥
मनः॑ऽजवसा , वृ॒ष॒णा॒ , म॒द॒ऽच्यु॒ता॒ , म॒क्षुं॒ऽग॒माभिः॑ , ऊ॒तिऽभिः॑ । आ॒रात्ता॑त् , चि॒त् , भू॒तं॒ , अ॒स्मे इति॑ , अव॑से , पू॒र्वीऽभीः॑ , पु॒रु॒ऽभो॒ज॒सा॒ ॥
आ नो॒ अश्वा॑वदश्विना व॒र्तिर्या॑सिष्टं मधुपातमा नरा । गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥
आ , नः॒ , अश्व॑ऽवत् , अ॒श्वि॒ना॒ , व॒र्तिः , या॒सि॒ष्टं॒ , म॒धु॒ऽपा॒त॒मा॒ , न॒रा॒ । गोऽम॑त् , द॒स्रा॒ , हिर॑ण्यऽवत् ॥
सु॒प्रा॒व॒र्गं सु॒वीर्यं॑ सु॒ष्ठु वार्य॒मना॑धृष्टं रक्ष॒स्विना॑ । अ॒स्मिन्ना वा॑मा॒याने॑ वाजिनीवसू॒ विश्वा॑ वा॒मानि॑ धीमहि ॥
सु॒ऽप्रा॒व॒र्गं , सु॒ऽवीर्यं॑ , सु॒ष्ठु , वार्यं॑ , अना॑धृष्टं , र॒क्ष॒स्विना॑ । अ॒स्मिन् , आ , वां॒ , आ॒ऽयाने॑ , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू , विश्वा॑ , वा॒मानि॑ , धी॒म॒हि॒ ॥
[२३] ईळिष्वेति त्रिंशदृचस्य सूक्तस्य वैयश्वोविश्वमनाअग्निरुष्णिक् |
ईळि॑ष्वा॒ हि प्र॑ती॒व्यं१॒॑ यज॑स्व जा॒तवे॑दसं । च॒रि॒ष्णुधू॑म॒मगृ॑भीतशोचिषं ॥
ईळि॑ष्व , हि , प्र॒ती॒व्यं॑ , यज॑स्व , जा॒तऽवे॑दसं । च॒रि॒ष्णुऽधू॑मं , अगृ॑भीतऽशोचिषं ॥
दा॒मानं॑ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा । उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा॑नां ॥
दा॒मानं॑ , वि॒श्व॒ऽच॒र्ष॒णे॒ , अ॒ग्निं , वि॒श्व॒ऽम॒नः॒ , गि॒रा । उ॒त , स्तु॒षे॒ , विऽस्प॑र्धसः , रथा॑नां ॥
येषा॑माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे॑ । उ॒प॒विदा॒ वह्नि॑र्विंदते॒ वसु॑ ॥
येषां॑ , आ॒ऽबा॒धः , ऋ॒ग्मियः॑ , इ॒षः , पृ॒क्षः , च॒ , नि॒ऽग्रभे॑ । उ॒प॒ऽविदा॑ , वह्निः॑ , विं॒द॒ते॒ , वसु॑ ॥
उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्य१॒॑जरं॑ । तपु॑र्जंभस्य सु॒द्युतो॑ गण॒श्रियः॑ ॥
उत् , अ॒स्य॒ , शो॒चिः , अ॒स्था॒त् , दी॒दि॒युषः॑ , वि , अ॒जरं॑ । तपुः॑ऽजंभस्य , सु॒ऽद्युतः॑ , ग॒ण॒ऽश्रियः॑ ॥
उदु॑ तिष्ठ स्वध्वर॒ स्तवा॑नो दे॒व्या कृ॒पा । अ॒भि॒ख्या भा॒सा बृ॑ह॒ता शु॑शु॒क्वनिः॑ ॥
उत् , ऊँ॒ इति॑ , ति॒ष्ठ॒ , सु॒ऽअ॒ध्व॒र॒ , स्तवा॑नः , दे॒व्या , कृ॒पा । अ॒भि॒ऽख्या , भा॒सा , बृ॒ह॒ता , शु॒शु॒क्वनिः॑ ॥
अग्ने॑ या॒हि सु॑श॒स्तिभि॑र्ह॒व्या जुह्वा॑न आनु॒षक् । यथा॑ दू॒तो ब॒भूथ॑ हव्य॒वाह॑नः ॥
अग्ने॑ , या॒हि , सु॒श॒स्तिऽभिः॑ , ह॒व्या , जुह्वा॑नः , आ॒नु॒षक् । यथा॑ , दू॒तः , ब॒भूथ॑ , ह॒व्य॒ऽवाह॑नः ॥
अ॒ग्निं वः॑ पू॒र्व्यं हु॑वे॒ होता॑रं चर्षणी॒नां । तम॒या वा॒चा गृ॑णे॒ तमु॑ वः स्तुषे ॥
अ॒ग्निं , वः॒ , पू॒र्व्यं , हु॒वे॒ , होता॑रं , च॒र्ष॒णी॒नां । तं , अ॒या , वा॒चा , गृ॒णे॒ , तं , ऊँ॒ इति॑ , वः॒ , स्तु॒षे॒ ॥
य॒ज्ञेभि॒रद्भु॑तक्रतुं॒ यं कृ॒पा सू॒दयं॑त॒ इत् । मि॒त्रं न जने॒ सुधि॑तमृ॒ताव॑नि ॥
य॒ज्ञेभिः॑ , अद्भु॑तऽक्रतुं , यं , कृ॒पा , सू॒दयं॑ते , इत् । मि॒त्रं , न , जने॑ , सुऽधि॑तं , ऋ॒तऽव॑नि ॥
ऋ॒तावा॑नमृतायवो य॒ज्ञस्य॒ साध॑नं गि॒रा । उपो॑ एनं जुजुषु॒र्नम॑सस्प॒दे ॥
ऋ॒तऽवा॑नं , ऋ॒त॒ऽय॒वः॒ , य॒ज्ञस्य॑ , साध॑नं , गि॒रा । उपो॒ इति॑ , ए॒नं॒ , जु॒जु॒षुः॒ , नम॑सः , प॒दे ॥
अच्छा॑ नो॒ अंगि॑रस्तमं य॒ज्ञासो॑ यंतु सं॒यतः॑ । होता॒ यो अस्ति॑ वि॒क्ष्वा य॒शस्त॑मः ॥
अच्छ॑ , नः॒ , अंगि॑रःऽतमं , य॒ज्ञासः॑ , यं॒तु॒ , सं॒ऽयतः॑ । होता॑ , यः , अस्ति॑ , वि॒क्षु , आ , य॒शःऽत॑मः ॥
अग्ने॒ तव॒ त्ये अ॑ज॒रेंधा॑नासो बृ॒हद्भाः । अश्वा॑ इव॒ वृष॑णस्तविषी॒यवः॑ ॥
अग्ने॑ , तव॑ , त्ये , अ॒ज॒र॒ , इंधा॑नासः , बृ॒हत् , भाः । अश्वाः॑ऽइव , वृष॑णः , त॒वि॒षी॒ऽयवः॑ ॥
स त्वं न॑ ऊर्जां पते र॒यिं रा॑स्व सु॒वीर्यं॑ । प्राव॑ नस्तो॒के तन॑ये स॒मत्स्वा ॥
सः , त्वं , नः॒ , ऊ॒र्जां॒ , प॒ते॒ , र॒यिं , रा॒स्व॒ , सु॒ऽवीर्यं॑ । प्र , अ॒व॒ , नः॒ , तो॒के , तन॑ये , स॒मत्ऽसु॑ , आ ॥
यद्वा उ॑ वि॒श्पतिः॑ शि॒तः सुप्री॑तो॒ मनु॑षो वि॒शि । विश्वेद॒ग्निः प्रति॒ रक्षां॑सि सेधति ॥
यत् , वै , ऊँ॒ इति॑ , वि॒श्पतिः॑ , शि॒तः , सुऽप्री॑तः , मनु॑षः , वि॒शि । विश्वा॑ , इत् , अ॒ग्निः , प्रति॑ , रक्षां॑सि , से॒ध॒ति॒ ॥
श्रु॒ष्ट्य॑ग्ने॒ नव॑स्य मे॒ स्तोम॑स्य वीर विश्पते । नि मा॒यिन॒स्तपु॑षा र॒क्षसो॑ दह ॥
श्रु॒ष्टी , अ॒ग्ने॒ , नव॑स्य , मे॒ , स्तोम॑स्य , वी॒र॒ , वि॒श्प॒ते॒ । नि , मा॒यिनः॑ , तपु॑षा , र॒क्षसः॑ , द॒ह॒ ॥
न तस्य॑ मा॒यया॑ च॒न रि॒पुरी॑शीत॒ मर्त्यः॑ । यो अ॒ग्नये॑ द॒दाश॑ ह॒व्यदा॑तिभिः ॥
न , तस्य॑ , मा॒यया॑ , च॒न , रि॒पुः , ई॒शी॒त॒ , मर्त्यः॑ । यः , अ॒ग्नये॑ , द॒दाश॑ , ह॒व्यदा॑तिऽभिः ॥
व्य॑श्वस्त्वा वसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषिः॑ । म॒हो रा॒ये तमु॑ त्वा॒ समि॑धीमहि ॥
विऽअ॑श्वः , त्वा॒ , व॒सु॒ऽविदं॑ , उ॒क्ष॒ण्युः , अ॒प्री॒णा॒त् , ऋषिः॑ । म॒हः , रा॒ये , तं , ऊँ॒ इति॑ , त्वा॒ , सं , इ॒धी॒म॒हि॒ ॥
उ॒शना॑ का॒व्यस्त्वा॒ नि होता॑रमसादयत् । आ॒य॒जिं त्वा॒ मन॑वे जा॒तवे॑दसं ॥
उ॒शना॑ , का॒व्यः , त्वा॒ , नि , होता॑रं , अ॒सा॒द॒य॒त् । आ॒ऽय॒जिं , त्वा॒ , मन॑वे , जा॒तऽवे॑दसं ॥
विश्वे॒ हि त्वा॑ स॒जोष॑सो दे॒वासो॑ दू॒तमक्र॑त । श्रु॒ष्टी दे॑व प्रथ॒मो य॒ज्ञियो॑ भुवः ॥
विश्वे॑ , हि , त्वा॒ , स॒ऽजोष॑सः , दे॒वासः॑ , दू॒तं , अक्र॑त । श्रु॒ष्टी , दे॒व॒ , प्र॒थ॒मः , य॒ज्ञियः॑ , भु॒वः॒ ॥
इ॒मं घा॑ वी॒रो अ॒मृतं॑ दू॒तं कृ॑ण्वीत॒ मर्त्यः॑ । पा॒व॒कं कृ॒ष्णव॑र्तनिं॒ विहा॑यसं ॥
इ॒मं , घ॒ , वी॒रः , अ॒मृतं॑ , दू॒तं , कृ॒ण्वी॒त॒ , मर्त्यः॑ । पा॒व॒कं , कृ॒ष्णऽव॑र्तनिं , विऽहा॑यसं ॥
तं हु॑वेम य॒तस्रु॑चः सु॒भासं॑ शु॒क्रशो॑चिषं । वि॒शाम॒ग्निम॒जरं॑ प्र॒त्नमीड्यं॑ ॥
तं , हु॒वे॒म॒ , य॒तऽस्रु॑चः , सु॒ऽभासं॑ , शु॒क्रऽशो॑चिषं । वि॒शां , अ॒ग्निं , अ॒जरं॑ , प्र॒त्नं , ईड्यं॑ ॥
यो अ॑स्मै ह॒व्यदा॑तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत् । भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यशः॑ ॥
यः , अ॒स्मै॒ , ह॒व्यदा॑तिऽभिः , आऽहु॑तिं , मर्तः॑ , अवि॑धत् । भूरि॑ , पोषं॑ , सः , ध॒त्ते॒ , वी॒रऽव॑त् , यशः॑ ॥
प्र॒थ॒मं जा॒तवे॑दसम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं । प्रति॒ स्रुगे॑ति॒ नम॑सा ह॒विष्म॑ती ॥
प्र॒थ॒मं , जा॒तऽवे॑दसं , अ॒ग्निं , य॒ज्ञेषु॑ , पू॒र्व्यं । प्रति॑ , स्रुक् , ए॒ति॒ , नम॑सा , ह॒विष्म॑ती ॥
आभि॑र्विधेमा॒ग्नये॒ ज्येष्ठा॑भिर्व्यश्व॒वत् । मंहि॑ष्ठाभिर्म॒तिभिः॑ शु॒क्रशो॑चिषे ॥
आभिः॑ , वि॒धे॒म॒ , अ॒ग्नये॑ , ज्येष्ठा॑भिः , व्य॒श्व॒ऽवत् । मंहि॑ष्ठाभिः , म॒तिऽभिः॑ , शु॒क्रऽशो॑चिषे ॥
नू॒नम॑र्च॒ विहा॑यसे॒ स्तोमे॑भिः स्थूरयूप॒वत् । ऋषे॑ वैयश्व॒ दम्या॑या॒ग्नये॑ ॥
नू॒नं , अ॒र्च॒ , विऽहा॑यसे , स्तोमे॑भिः , स्थू॒र॒यू॒प॒ऽवत् । ऋषे॑ , वै॒य॒श्व॒ , दम्या॑य , अ॒ग्नये॑ ॥
अति॑थिं॒ मानु॑षाणां सू॒नुं वन॒स्पती॑नां । विप्रा॑ अ॒ग्निमव॑से प्र॒त्नमी॑ळते ॥
अति॑थिं , मानु॑षाणां , सू॒नुं , वन॒स्पती॑नां । विप्राः॑ , अ॒ग्निं , अव॑से , प्र॒त्नं , ई॒ळ॒ते॒ ॥
म॒हो विश्वाँ॑ अ॒भि ष॒तो॒३॒॑ऽभि ह॒व्यानि॒ मानु॑षा । अग्ने॒ नि ष॑त्सि॒ नम॒साधि॑ ब॒र्हिषि॑ ॥
म॒हः , विश्वा॑न् , अ॒भि , स॒तः , अ॒भि , ह॒व्यानि॑ , मानु॑षा । अग्ने॑ , नि , स॒त्सि॒ , नम॑सा , अधि॑ , ब॒र्हिषि॑ ॥
वंस्वा॑ नो॒ वार्या॑ पु॒रु वंस्व॑ रा॒यः पु॑रु॒स्पृहः॑ । सु॒वीर्य॑स्य प्र॒जाव॑तो॒ यश॑स्वतः ॥
वंस्व॑ , नः॒ , वार्या॑ , पु॒रु , वंस्व॑ , रा॒यः , पु॒रु॒ऽस्पृहः॑ । सु॒ऽवीर्य॑स्य , प्र॒जाऽव॑तः , यश॑स्वतः ॥
त्वं व॑रो सु॒षाम्णेऽग्ने॒ जना॑य चोदय । सदा॑ वसो रा॒तिं य॑विष्ठ॒ शश्व॑ते ॥
त्वं , व॒रो॒ इति॑ , सु॒ऽसाम्ने॑ , अग्ने॑ , जना॑य , चो॒द॒य॒ । सदा॑ , व॒सो॒ इति॑ , रा॒तिं , य॒वि॒ष्ठ॒ , शश्व॑ते ॥
त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिषः॑ । म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि ॥
त्वं , हि , सु॒ऽप्र॒तूः , असि॑ , त्वं , नः॒ , गोऽम॑तीः , इषः॑ । म॒हः , रा॒यः , सा॒तिं , अ॒ग्ने॒ , अप॑ , वृ॒धि॒ ॥
अग्ने॒ त्वं य॒शा अ॒स्या मि॒त्रावरु॑णा वह । ऋ॒तावा॑ना स॒म्राजा॑ पू॒तद॑क्षसा ॥
अग्ने॑ , त्वं , य॒शाः , अ॒सि॒ , आ , मि॒त्रावरु॑णा , व॒ह॒ । ऋ॒तऽवा॑ना , सं॒ऽराजा॑ , पू॒तऽद॑क्षसा ॥
[२४] सखायइति त्रिंशदृचस्य सूक्तस्य वैयश्वो विश्वमनाइंद्रोंत्यतृचस्य वरुरुष्णिगंत्यानुष्टुप् (वरुः सौषाम्णोयंराजा) |
सखा॑य॒ आ शि॑षामहि॒ ब्रह्मेंद्रा॑य व॒ज्रिणे॑ । स्तु॒ष ऊ॒ षु वो॒ नृत॑माय धृ॒ष्णवे॑ ॥
सखा॑यः , आ , शि॒षा॒म॒हि॒ , ब्रह्म॑ , इंद्रा॑य , व॒ज्रिणे॑ । स्तु॒षे , ऊँ॒ इति॑ , सु , वः॒ , नृऽत॑माय , धृ॒ष्णवे॑ ॥
शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा । म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ॥
शव॑सा , हि , असि॑ , श्रु॒तः , वृ॒त्र॒ऽहत्ये॑न , वृ॒त्र॒ऽहा । म॒घैः , म॒घोनः॑ , अति॑ , शू॒र॒ , दा॒श॒सि॒ ॥
स नः॒ स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमं । नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ॥
सः , नः॒ , स्तवा॑नः , आ , भ॒र॒ , र॒यिं , चि॒त्रश्र॑वःऽतमं । नि॒रे॒के , चि॒त् , यः , ह॒रि॒ऽवः॒ , वसुः॑ , द॒दिः ॥
आ नि॑रे॒कमु॒त प्रि॒यमिंद्र॒ दर्षि॒ जना॑नां । धृ॒ष॒ता धृ॑ष्णो॒ स्तव॑मान॒ आ भ॑र ॥
आ , नि॒रे॒कं , उ॒त , प्रि॒यं , इंद्र॑ , दर्षि॑ , जना॑नां । धृ॒ष॒ता , धृ॒ष्णो॒ इति॑ , स्तव॑मानः , आ , भ॒र॒ ॥
न ते॑ स॒व्यं न दक्षि॑णं॒ हस्तं॑ वरंत आ॒मुरः॑ । न प॑रि॒बाधो॑ हरिवो॒ गवि॑ष्टिषु ॥
न , ते॒ , स॒व्यं , न , दक्षि॑णं , हस्तं॑ , व॒रं॒ते॒ , आ॒ऽमुरः॑ । न , प॒रि॒ऽबाधः॑ , ह॒रि॒ऽवः॒ , गोऽइ॑ष्टिषु ॥
आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिर्ऋ॑णोम्यद्रिवः । आ स्मा॒ कामं॑ जरि॒तुरा मनः॑ पृण ॥
आ , त्वा॒ , गोभिः॑ऽइव , व्र॒जं , गीः॒ऽभिः , ऋ॒णो॒मि॒ , अ॒द्रि॒ऽवः॒ । आ , स्म॒ , कामं॑ , ज॒रि॒तुः , आ , मनः॑ , पृ॒ण॒ ॥
विश्वा॑नि वि॒श्वम॑नसो धि॒या नो॑ वृत्रहंतम । उग्र॑ प्रणेत॒रधि॒ षू व॑सो गहि ॥
विश्वा॑नि , वि॒श्वऽम॑नसः , धि॒या , नः॒ , वृ॒त्र॒ह॒न्ऽत॒म॒ । उग्र॑ , प्र॒ने॒त॒रिति॑ प्रऽनेतः , अधि॑ , सु , व॒सो॒ इति॑ , ग॒हि॒ ॥
व॒यं ते॑ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः । वसोः॑ स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ॥
व॒यं , ते॒ , अ॒स्य , वृ॒त्र॒ऽह॒न् , वि॒द्याम॑ , शू॒र॒ , नव्य॑सः । वसोः॑ , स्पा॒र्हस्य॑ , पु॒रु॒ऽहू॒त॒ , राध॑सः ॥
इंद्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शवः॑ । अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे॑ ॥
इंद्र॑ , यथा॑ , हि , अस्ति॑ , ते॒ , अप॑रिऽइतं , नृ॒तो॒ इति॑ , शवः॑ । अमृ॑क्ता , रा॒तिः , पु॒रु॒ऽहू॒त॒ , दा॒शुषे॑ ॥
आ वृ॑षस्व महामह म॒हे नृ॑तम॒ राध॑से । दृ॒ळ्हश्चि॑द्दृह्य मघवन्म॒घत्त॑ये ॥
आ , वृ॒ष॒स्व॒ , म॒हा॒ऽम॒ह॒ , म॒हे , नृ॒ऽत॒म॒ , राध॑से । दृ॒ळ्हः , चि॒त् , दृ॒ह्य॒ , म॒घ॒ऽव॒न् , म॒घत्त॑ये ॥
नू अ॒न्यत्रा॑ चिदद्रिव॒स्त्वन्नो॑ जग्मुरा॒शसः॑ । मघ॑वंछ॒ग्धि तव॒ तन्न॑ ऊ॒तिभिः॑ ॥
नु , अ॒न्यत्र॑ , चि॒त् , अ॒द्रि॒ऽवः॒ , त्वत् , नः॒ , ज॒ग्मुः॒ , आ॒ऽशसः॑ । मघ॑ऽवन् , श॒ग्धि , तव॑ , तत् , नः॒ , ऊ॒तिऽभिः॑ ॥
न॒ह्य१॒॑ङ्ग नृ॑तो॒ त्वद॒न्यं विं॒दामि॒ राध॑से । रा॒ये द्यु॒म्नाय॒ शव॑से च गिर्वणः ॥
न॒हि , अं॒ग , नृ॒तो॒ इति॑ , त्वत् , अ॒न्यं , विं॒दामि॑ , राध॑से । रा॒ये , द्यु॒म्नाय॑ , शव॑से , च॒ , गि॒र्व॒णः॒ ॥
एंदु॒मिंद्रा॑य सिंचत॒ पिबा॑ति सो॒म्यं मधु॑ । प्र राध॑सा चोदयाते महित्व॒ना ॥
आ , इंदुं॑ , इंद्रा॑य , सिं॒च॒त॒ , पिबा॑ति , सो॒म्यं , मधु॑ । प्र , राध॑सा , चो॒द॒या॒ते॒ , म॒हि॒ऽत्व॒ना ॥
उपो॒ हरी॑णां॒ पतिं॒ दक्षं॑ पृं॒चंत॑मब्रवं । नू॒नं श्रु॑धि स्तुव॒तो अ॒श्व्यस्य॑ ॥
उपो॒ इति॑ , हरी॑णां , पतिं॑ , दक्षं॑ , पृं॒चंतं॑ , अ॒ब्र॒वं॒ । नू॒नं , श्रु॒धि॒ , स्तु॒व॒तः , अ॒श्व्यस्य॑ ॥
न॒ह्य१॒॑ङ्ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत् । नकी॑ रा॒या नैवथा॒ न भं॒दना॑ ॥
न॒हि , अं॒ग , पु॒रा , च॒न , ज॒ज्ञे , वी॒रऽत॑रः , त्वत् । नकिः॑ , रा॒या , न , ए॒वऽथा॑ , न , भं॒दना॑ ॥
एदु॒ मध्वो॑ म॒दिंत॑रं सिं॒च वा॑ध्वर्यो॒ अंध॑सः । ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ॥
आ , इत् , ऊँ॒ इति॑ , मध्वः॑ , म॒दिन्ऽत॑रं , सिं॒च , वा॒ , अ॒ध्व॒र्यो॒ इति॑ , अंध॑सः । ए॒व , हि , वी॒रः , स्तव॑ते , स॒दाऽवृ॑धः ॥
इंद्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिं । उदा॑नंश॒ शव॑सा॒ न भं॒दना॑ ॥
इंद्र॑ , स्था॒तः॒ , ह॒री॒णां॒ , नकिः॑ , ते॒ , पू॒र्व्यऽस्तु॑तिं । उत् , आ॒नं॒श॒ , शव॑सा , न , भं॒दना॑ ॥
तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यवः॑ । अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्यं॑ ॥
तं , वः॒ , वाजा॑नां , पतिं॑ , अहू॑महि , श्र॒व॒स्यवः॑ । अप्रा॑युऽभिः , य॒ज्ञेभिः॑ , व॒वृ॒धेन्यं॑ ॥
एतो॒ न्विंद्रं॒ स्तवा॑म॒ सखा॑यः॒ स्तोम्यं॒ नरं॑ । कृ॒ष्टीर्यो विश्वा॑ अ॒भ्यस्त्येक॒ इत् ॥
एतो॒ इति॑ , नु , इंद्रं॑ , स्तवा॑म , सखा॑यः , स्तोम्यं॑ , नरं॑ । कृ॒ष्टीः , यः , विश्वाः॑ , अ॒भि , अस्ति॑ , एकः॑ , इत् ॥
अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑ । घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥
अगो॑ऽरुधाय , गो॒ऽइषे॑ , द्यु॒क्षाय॑ , दस्म्यं॑ , वचः॑ । घृ॒तात् , स्वादी॑यः , मधु॑नः , च॒ , वो॒च॒त॒ ॥
यस्यामि॑तानि वी॒र्या॒३॒॑ न राधः॒ पर्ये॑तवे । ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ॥
यस्य॑ , अमि॑तानि , वी॒र्या॑ , न , राधः॑ , परि॑ऽएतवे । ज्योतिः॑ , न , विश्वं॑ , अ॒भि , अस्ति॑ , दक्षि॑णा ॥
स्तु॒हींद्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यमं॑ । अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ॥
स्तु॒हि , इंद्रं॑ , व्य॒श्व॒ऽवत् , अनू॑र्मिं , वा॒जिनं॑ , यमं॑ । अ॒र्यः , गयं॑ , मंह॑मानं , वि , दा॒शुषे॑ ॥
ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नवं॑ । सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नां ॥
ए॒व , नू॒नं , उप॑ , स्तु॒हि॒ , वैय॑श्व , द॒श॒मं , नवं॑ । सुऽवि॑द्वांसं , च॒र्कृत्यं॑ , च॒रणी॑नां ॥
वेत्था॒ हि निर्ऋ॑तीनां॒ वज्र॑हस्त परि॒वृजं॑ । अह॑रहः शुं॒ध्युः प॑रि॒पदा॑मिव ॥
वेत्थ॑ , हि , निःऽऋ॑तीनां , वज्र॑ऽहस्त , प॒रि॒ऽवृजं॑ । अहः॑ऽअहः , शुं॒ध्युः , प॒रि॒पदां॑ऽइव ॥
तदिं॒द्राव॒ आ भ॑र॒ येना॑ दंसिष्ठ॒ कृत्व॑ने । द्वि॒ता कुत्सा॑य शिश्नथो॒ नि चो॑दय ॥
तत् , इं॒द्र॒ , अवः॑ , आ , भ॒र॒ , येन॑ , दं॒सि॒ष्ठ॒ , कृत्व॑ने । द्वि॒ता , कुत्सा॑य , शि॒श्न॒थः॒ , नि , चो॒द॒य॒ ॥
तमु॑ त्वा नू॒नमी॑महे॒ नव्यं॑ दंसिष्ठ॒ सन्य॑से । स त्वं नो॒ विश्वा॑ अ॒भिमा॑तीः स॒क्षणिः॑ ॥
तं , ऊँ॒ इति॑ , त्वा॒ , नू॒नं , ई॒म॒हे॒ , नव्यं॑ , दं॒सि॒ष्ठ॒ , सन्य॑से । सः , त्वं , नः॒ , विश्वाः॑ , अ॒भिऽमा॑तीः , स॒क्षणिः॑ ॥
य ऋक्षा॒दंह॑सो मु॒चद्यो वार्या॑त्स॒प्त सिंधु॑षु । वध॑र्दा॒सस्य॑ तुविनृम्ण नीनमः ॥
यः , ऋक्षा॑त् , अंह॑सः , मु॒चत् , यः , वा॒ , आर्या॑त् , स॒प्त , सिंधु॑षु । वधः॑ , दा॒सस्य॑ , तु॒वि॒ऽनृ॒म्ण॒ , नी॒न॒मः॒ ॥
यथा॑ वरो सु॒षाम्णे॑ स॒निभ्य॒ आव॑हो र॒यिं । व्य॑श्वेभ्यः सुभगे वाजिनीवति ॥
यथा॑ , व॒रो॒ इति॑ , सु॒ऽसाम्ने॑ , स॒निऽभ्यः॑ , आ , अव॑हः , र॒यिं । विऽअ॑श्वेभ्यः , सु॒ऽभ॒गे॒ , वा॒जि॒नी॒ऽव॒ति॒ ॥
आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिनः॑ । स्थू॒रं च॒ राधः॑ श॒तव॑त्स॒हस्र॑वत् ॥
आ , ना॒र्यस्य॑ , दक्षि॑णा , विऽअ॑श्वान् , ए॒तु॒ , सो॒मिनः॑ । स्थू॒रं , च॒ , राधः॑ , श॒तऽव॑त् , स॒हस्र॑ऽवत् ॥
यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते । ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति ॥
यत् , त्वा॒ , पृ॒च्छात् , ई॒जा॒नः , कु॒ह॒या , कु॒ह॒या॒ऽकृ॒ते॒ । ए॒षः , अप॑ऽश्रितः , व॒लः , गो॒ऽम॒तीं , अव॑ , ति॒ष्ठ॒ति॒ ॥
[२५] तावांविश्वस्येति चतुर्विंशत्यृचस्य सूक्तस्य वैयश्वोविश्वमना मित्रावरुणौ दशम्यादितिसृणां विश्वेदेवाउष्णिक् उपांत्योष्णिग्गर्भा |
ता वां॒ विश्व॑स्य गो॒पा दे॒वा दे॒वेषु॑ य॒ज्ञिया॑ । ऋ॒तावा॑ना यजसे पू॒तद॑क्षसा ॥
ता , वां॒ , विश्व॑स्य , गो॒पा , दे॒वा , दे॒वेषु॑ , य॒ज्ञिया॑ । ऋ॒तऽवा॑ना , य॒ज॒से॒ , पू॒तऽद॑क्षसा ॥
मि॒त्रा तना॒ न र॒थ्या॒३॒॑ वरु॑णो॒ यश्च॑ सु॒क्रतुः॑ । स॒नात्सु॑जा॒ता तन॑या धृ॒तव्र॑ता ॥
मि॒त्रा , तना॑ , न , र॒थ्या॑ , वरु॑णः , यः , च॒ , सु॒ऽक्रतुः॑ । स॒नात् , सु॒ऽजा॒ता , तन॑या , धृ॒तऽव्र॑ता ॥
ता मा॒ता वि॒श्ववे॑दसासु॒र्या॑य॒ प्रम॑हसा । म॒ही ज॑जा॒नादि॑तिर्ऋ॒ताव॑री ॥
ता , मा॒ता , वि॒श्वऽवे॑दसा , अ॒सु॒र्या॑य , प्रऽम॑हसा । म॒ही , ज॒जा॒न॒ , अदि॑तिः , ऋ॒तऽव॑री ॥
म॒हांता॑ मि॒त्रावरु॑णा स॒म्राजा॑ दे॒वावसु॑रा । ऋ॒तावा॑नावृ॒तमा घो॑षतो बृ॒हत् ॥
म॒हांता॑ , मि॒त्रावरु॑णा , सं॒ऽराजा॑ , दे॒वौ , असु॑रा । ऋ॒तऽवा॑नौ , ऋ॒तं , आ , घो॒ष॒तः॒ , बृ॒हत् ॥
नपा॑ता॒ शव॑सो म॒हः सू॒नू दक्ष॑स्य सु॒क्रतू॑ । सृ॒प्रदा॑नू इ॒षो वास्त्वधि॑ क्षितः ॥
नपा॑ता , शव॑सः , म॒हः , सू॒नू इति॑ , दक्ष॑स्य , सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ । सृ॒प्रदा॑नू॒ इति॑ सृ॒प्रऽदा॑नू , इ॒षः , वास्तु॑ , अधि॑ , क्षि॒तः॒ ॥
सं या दानू॑नि ये॒मथु॑र्दि॒व्याः पार्थि॑वी॒रिषः॑ । नभ॑स्वती॒रा वां॑ चरंतु वृ॒ष्टयः॑ ॥
सं , या , दानू॑नि , ये॒मथुः॑ , दि॒व्याः , पार्थि॑वीः , इषः॑ । नभ॑स्वतीः , आ , वां॒ , च॒रं॒तु॒ , वृ॒ष्टयः॑ ॥
अधि॒ या बृ॑ह॒तो दि॒वो॒३॒॑ऽभि यू॒थेव॒ पश्य॑तः । ऋ॒तावा॑ना स॒म्राजा॒ नम॑से हि॒ता ॥
अधि॑ , या , बृ॒ह॒तः , दि॒वः , अ॒भि , यू॒थाऽइ॑व , पश्य॑तः । ऋ॒तऽवा॑ना , सं॒ऽराजा॑ , नम॑से , हि॒ता ॥
ऋ॒तावा॑ना॒ नि षे॑दतुः॒ साम्रा॑ज्याय सु॒क्रतू॑ । धृ॒तव्र॑ता क्ष॒त्रिया॑ क्ष॒त्रमा॑शतुः ॥
ऋ॒तऽवा॑ना , नि , से॒द॒तुः॒ , सांऽरा॑ज्याय , सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ । धृ॒तऽव्र॑ता , क्ष॒त्रिया॑ , क्ष॒त्रं , आ॒श॒तुः॒ ॥
अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒ चक्ष॑सा । नि चि॑न्मि॒षंता॑ निचि॒रा नि चि॑क्यतुः ॥
अ॒क्ष्णः , चि॒त् , गा॒तु॒वित्ऽत॑रा , अ॒नु॒ल्ब॒णेन॑ , चक्ष॑सा । नि , चि॒त् , मि॒षंता॑ , नि॒ऽचि॒रा , नि , चि॒क्य॒तुः॒ ॥
उ॒त नो॑ दे॒व्यदि॑तिरुरु॒ष्यतां॒ नास॑त्या । उ॒रु॒ष्यंतु॑ म॒रुतो॑ वृ॒द्धश॑वसः ॥
उ॒त , नः॒ , दे॒वी , अदि॑तिः , उ॒रु॒ष्यतां॑ , नास॑त्या । उ॒रु॒ष्यंतु॑ , म॒रुतः॑ , वृ॒द्धऽश॑वसः ॥
ते नो॑ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं॑ सुदानवः । अरि॑ष्यंतो॒ नि पा॒युभिः॑ सचेमहि ॥
ते , नः॒ , ना॒वं , उ॒रु॒ष्य॒त॒ , दिवा॑ , नक्तं॑ , सु॒ऽदा॒न॒वः॒ । अरि॑ष्यंतः , नि , पा॒युऽभिः॑ , स॒चे॒म॒हि॒ ॥
अघ्न॑ते॒ विष्ण॑वे व॒यमरि॑ष्यंतः सु॒दान॑वे । श्रु॒धि स्व॑यावंत्सिंधो पू॒र्वचि॑त्तये ॥
अघ्न॑ते , विष्ण॑वे , व॒यं , अरि॑ष्यंतः , सु॒ऽदान॑वे । श्रु॒धि , स्व॒ऽया॒व॒न् , सिं॒धो॒ इति॑ , पू॒र्वऽचि॑त्तये ॥
तद्वार्यं॑ वृणीमहे॒ वरि॑ष्ठं गोप॒यत्यं॑ । मि॒त्रो यत्पांति॒ वरु॑णो॒ यद॑र्य॒मा ॥
तत् , वार्यं॑ , वृ॒णी॒म॒हे॒ , वरि॑ष्ठं , गो॒प॒यत्यं॑ । मि॒त्रः , यत् , पांति॑ , वरु॑णः , यत् , अ॒र्य॒मा ॥
उ॒त नः॒ सिंधु॑र॒पां तन्म॒रुत॒स्तद॒श्विना॑ । इंद्रो॒ विष्णु॑र्मी॒ढ्वांसः॑ स॒जोष॑सः ॥
उ॒त , नः॒ , सिंधुः॑ , अ॒पां , तत् , म॒रुतः॑ , तत् , अ॒श्विना॑ । इंद्रः॑ , विष्णुः॑ , मी॒ढ्वांसः॑ , स॒ऽजोष॑सः ॥
ते हि ष्मा॑ व॒नुषो॒ नरो॒ऽभिमा॑तिं॒ कय॑स्य चित् । ति॒ग्मं न क्षोदः॑ प्रति॒घ्नंति॒ भूर्ण॑यः ॥
ते , हि , स्म॒ , व॒नुषः॑ , नरः॑ , अ॒भिऽमा॑तिं , कय॑स्य , चि॒त् । ति॒ग्मं , न , क्षोदः॑ , प्र॒ति॒ऽघ्नंति॑ , भूर्ण॑यः ॥
अ॒यमेक॑ इ॒त्था पु॒रूरु च॑ष्टे॒ वि वि॒श्पतिः॑ । तस्य॑ व्र॒तान्यनु॑ वश्चरामसि ॥
अ॒यं , एकः॑ , इ॒त्था , पु॒रु , उ॒रु , च॒ष्टे॒ , वि , वि॒श्पतिः॑ । तस्य॑ , व्र॒तानि॑ , अनु॑ , वः॒ , च॒रा॒म॒सि॒ ॥
अनु॒ पूर्वा॑ण्यो॒क्या॑ साम्रा॒ज्यस्य॑ सश्चिम । मि॒त्रस्य॑ व्र॒ता वरु॑णस्य दीर्घ॒श्रुत् ॥
अनु॑ , पूर्वा॑णि , ओ॒क्या॑ , सां॒ऽरा॒ज्यस्य॑ , स॒श्चि॒म॒ । मि॒त्रस्य॑ , व्र॒ता , वरु॑णस्य , दी॒र्घ॒ऽश्रुत् ॥
परि॒ यो र॒श्मिना॑ दि॒वोऽन्ता॑न्म॒मे पृ॑थि॒व्याः । उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ॥
परि॑ , यः , र॒श्मिना॑ , दि॒वः , अंता॑न् , म॒मे , पृ॒थि॒व्याः । उ॒भे इति॑ , आ , प॒प्रौ॒ , रोद॑सी॒ इति॑ , म॒हि॒ऽत्वा ॥
उदु॒ ष्य श॑र॒णे दि॒वो ज्योति॑रयंस्त॒ सूर्यः॑ । अ॒ग्निर्न शु॒क्रः स॑मिधा॒न आहु॑तः ॥
उत् , ऊँ॒ इति॑ , स्यः , श॒र॒णे , दि॒वः , ज्योतिः॑ , अ॒यं॒स्त॒ , सूर्यः॑ । अ॒ग्निः , न , शु॒क्रः , सं॒ऽइ॒धा॒नः , आऽहु॑तः ॥
वचो॑ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः । ईशे॒ हि पि॒त्वो॑ऽवि॒षस्य॑ दा॒वने॑ ॥
वचः॑ , दी॒र्घऽप्र॑सद्मनि , ईशे॑ , वाज॑स्य , गोऽम॑तः । ईशे॑ , हि , पि॒त्वः , अ॒वि॒षस्य॑ , दा॒वने॑ ॥
तत्सूर्यं॒ रोद॑सी उ॒भे दो॒षा वस्तो॒रुप॑ ब्रुवे । भो॒जेष्व॒स्माँ अ॒भ्युच्च॑रा॒ सदा॑ ॥
तत् , सूर्यं॑ , रोद॑सी॒ इति॑ , उ॒भे इति॑ , दो॒षा , वस्तोः॑ , उप॑ , ब्रु॒वे॒ । भो॒जेषु॑ , अ॒स्मान् , अ॒भि , उत् , च॒र॒ , सदा॑ ॥
ऋ॒ज्रमु॑क्ष॒ण्याय॑ने रज॒तं हर॑याणे । रथं॑ यु॒क्तम॑सनाम सु॒षाम॑णि ॥
ऋ॒ज्रं , उ॒क्ष॒ण्याय॑ने , र॒ज॒तं , हर॑याणे । रथं॑ , यु॒क्तं , अ॒स॒ना॒म॒ , सु॒ऽसाम॑नि ॥
ता मे॒ अश्व्या॑नां॒ हरी॑णां नि॒तोश॑ना । उ॒तो नु कृत्व्या॑नां नृ॒वाह॑सा ॥
ता , मे॒ , अश्व्या॑नां , हरी॑णां , नि॒ऽतोश॑ना । उ॒तो इति॑ , नु , कृत्व्या॑नां , नृ॒ऽवाह॑सा ॥
स्मद॑भीशू॒ कशा॑वंता॒ विप्रा॒ नवि॑ष्ठया म॒ती । म॒हो वा॒जिना॒वर्वं॑ता॒ सचा॑सनं ॥
स्मद॑भीशू॒ इति॒ स्मत्ऽअ॑भीशू , कशा॑ऽवंता , विप्रा॑ , नवि॑ष्ठया , म॒ती । म॒हः , वा॒जिनौ॑ , अर्वं॑ता , सचा॑ , अ॒स॒नं॒ ॥
[२६] युवोरुष्विति पंचविंशत्यृचस्य सूक्तस्यांगिरसोव्यश्वोश्विनावंत्यषण्णां वायुरुष्णिक् वाहिष्ठोवामित्यादिचतस्रो गायत्र्यः विंश्येकविंश्यंत्याअनुष्टुभः (व्यश्वोवेति सर्वानुक्रमोक्ता वपिशौनके नव्यश्वस्यैवमुख्यत्वद्योतनादुत्रव्यश्वेमुख्यत्वमादृतंतेनपाक्षिकोविश्वमनाः) |
यु॒वोरु॒ षू रथं॑ हुवे स॒धस्तु॑त्याय सू॒रिषु॑ । अतू॑र्तदक्षा वृषणा वृषण्वसू ॥
यु॒वोः , ऊँ॒ इति॑ , सु , रथं॑ , हु॒वे॒ , स॒धऽस्तु॑त्याय , सू॒रिषु॑ । अतू॑र्तऽदक्षा , वृ॒ष॒णा॒ , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥
यु॒वं व॑रो सु॒षाम्णे॑ म॒हे तने॑ नासत्या । अवो॑भिर्याथो वृषणा वृषण्वसू ॥
यु॒वं , व॒रो॒ इति॑ , सु॒ऽसाम्ने॑ , म॒हे , तने॑ , ना॒स॒त्या॒ । अवः॑ऽभिः , या॒थः॒ , वृ॒ष॒णा॒ , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥
ता वा॑म॒द्य ह॑वामहे ह॒व्येभि॑र्वाजिनीवसू । पू॒र्वीरि॒ष इ॒षयं॑ता॒वति॑ क्ष॒पः ॥
ता , वां॒ , अ॒द्य , ह॒वा॒म॒हे॒ , ह॒व्येभिः॑ , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । पू॒र्वीः , इ॒षः , इ॒षयं॑तौ , अति॑ , क्ष॒पः ॥
आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु श्रु॒तो न॑रा । उप॒ स्तोमां॑तु॒रस्य॑ दर्शथः श्रि॒ये ॥
आ , वां॒ , वाहि॑ष्ठः , अ॒श्वि॒ना॒ , रथः॑ , या॒तु॒ , श्रु॒तः , न॒रा॒ । उप॑ , स्तोमा॑न् , तु॒रस्य॑ , द॒र्श॒थः॒ , श्रि॒ये ॥
जु॒हु॒रा॒णा चि॑दश्वि॒ना म॑न्येथां वृषण्वसू । यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒ अति॒ द्विषः॑ ॥
जु॒हु॒रा॒णा , चि॒त् , अ॒श्वि॒ना॒ , आ , म॒न्ये॒थां॒ , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । यु॒वं , हि , रु॒द्रा॒ , पर्ष॑थः , अति॑ , द्विषः॑ ॥
द॒स्रा हि विश्व॑मानु॒षङ्म॒क्षूभिः॑ परि॒दीय॑थः । धि॒यं॒जि॒न्वा मधु॑वर्णा शु॒भस्पती॑ ॥
द॒स्रा , हि , विश्वं॑ , आ॒नु॒षक् , म॒क्षुऽभिः॑ , प॒रि॒ऽदीय॑थः । धि॒यं॒ऽजि॒न्वा , मधु॑ऽवर्णा , शु॒भः , पती॒ इति॑ ॥
उप॑ नो यातमश्विना रा॒या वि॑श्व॒पुषा॑ स॒ह । म॒घवा॑ना सु॒वीरा॒वन॑पच्युता ॥
उप॑ , नः॒ , या॒तं॒ , अ॒श्वि॒ना॒ , रा॒या , वि॒श्व॒ऽपुषा॑ , स॒ह । म॒घऽवा॑ना , सु॒ऽवीरौ॑ , अन॑पऽच्युता ॥
आ मे॑ अ॒स्य प्र॑ती॒व्य१॒॑मिंद्र॑नासत्या गतं । दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा ॥
आ , मे॒ , अ॒स्य , प्र॒ती॒व्यं॑ , इंद्र॑नासत्या , ग॒तं॒ । दे॒वा , दे॒वेभिः॑ , अ॒द्य , स॒चनः॑ऽतमा ॥
व॒यं हि वां॒ हवा॑मह उक्ष॒ण्यंतो॑ व्यश्व॒वत् । सु॒म॒तिभि॒रुप॑ विप्रावि॒हा ग॑तं ॥
व॒यं , हि , वां॒ , हवा॑महे , उ॒क्ष॒ण्यंतः॑ , व्य॒श्व॒ऽवत् । सु॒म॒तिऽभिः॑ , उप॑ , वि॒प्रौ॒ , इ॒ह , आ , ग॒तं॒ ॥
अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हवं॑ । नेदी॑यसः कूळयातः प॒णीँरु॒त ॥
अ॒श्विना॑ , सु , ऋ॒षे॒ , स्तु॒हि॒ , कु॒वित् , ते॒ , श्रव॑तः , हवं॑ । नेदी॑यसः , कू॒ळ॒या॒तः॒ , प॒णीन् , उ॒त ॥
वै॒य॒श्वस्य॑ श्रुतं नरो॒तो मे॑ अ॒स्य वे॑दथः । स॒जोष॑सा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥
वै॒य॒श्वस्य॑ , श्रु॒तं॒ , न॒रा॒ , उ॒तो इति॑ , मे॒ , अ॒स्य , वे॒द॒थः॒ । स॒ऽजोष॑सा , वरु॑णः , मि॒त्रः , अ॒र्य॒मा ॥
यु॒वाद॑त्तस्य धिष्ण्या यु॒वानी॑तस्य सू॒रिभिः॑ । अह॑रहर्वृषण॒ मह्यं॑ शिक्षतं ॥
यु॒वाऽद॑त्तस्य , धि॒ष्ण्या॒ , यु॒वाऽनी॑तस्य , सू॒रिऽभिः॑ । अहः॑ऽअहः , वृ॒ष॒णा॒ , मह्यं॑ , शि॒क्ष॒तं॒ ॥
यो वां॑ य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्रा व॒धूरि॑व । स॒प॒र्यंता॑ शु॒भे च॑क्राते अ॒श्विना॑ ॥
यः , वां॒ , य॒ज्ञेभिः॑ , आऽवृ॑तः , अधि॑ऽवस्त्रा , व॒धूःऽइ॑व । स॒प॒र्यंता॑ , शु॒भे , च॒क्रा॒ते॒ इति॑ , अ॒श्विना॑ ॥
यो वा॑मुरु॒व्यच॑स्तमं॒ चिके॑तति नृ॒पाय्यं॑ । व॒र्तिर॑श्विना॒ परि॑ यातमस्म॒यू ॥
यः , वां॒ , उ॒रु॒व्यचः॑ऽतमं , चिके॑तति , नृ॒ऽपाय्यं॑ । व॒र्तिः , अ॒श्वि॒ना॒ , परि॑ , या॒तं॒ , अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥
अ॒स्मभ्यं॒ सु वृ॑षण्वसू या॒तं व॒र्तिर्नृ॒पाय्यं॑ । वि॒षु॒द्रुहे॑व य॒ज्ञमू॑हथुर्गि॒रा ॥
अ॒स्मभ्यं॑ , सु , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू , या॒तं , व॒र्तिः , नृ॒ऽपाय्यं॑ । वि॒षु॒द्रुहा॑ऽइव , य॒ज्ञं , ऊ॒ह॒थुः॒ , गि॒रा ॥
वाहि॑ष्ठो वां॒ हवा॑नां॒ स्तोमो॑ दू॒तो हु॑वन्नरा । यु॒वाभ्यां॑ भूत्वश्विना ॥
वाहि॑ष्ठः , वां॒ , हवा॑नां , स्तोमः॑ , दू॒तः , हु॒व॒त् , न॒रा॒ । यु॒वाभ्यां॑ , भू॒तु॒ , अ॒श्वि॒ना॒ ॥
यद॒दो दि॒वो अ॑र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे । श्रु॒तमिन्मे॑ अमर्त्या ॥
यत् , अ॒दः , दि॒वः , अ॒र्ण॒वे , इ॒षः , वा॒ , मद॑थः , गृ॒हे । श्रु॒तं , इत् , मे॒ , अ॒म॒र्त्या॒ ॥
उ॒त स्या श्वे॑त॒याव॑री॒ वाहि॑ष्ठा वां न॒दीनां॑ । सिंधु॒र्हिर॑ण्यवर्तनिः ॥
उ॒त , स्या , श्वे॒त॒ऽयाव॑री , वाहि॑ष्ठा , वां॒ , न॒दीनां॑ । सिंधुः॑ , हिर॑ण्यऽवर्तनिः ॥
स्मदे॒तया॑ सुकी॒र्त्याश्वि॑ना श्वे॒तया॑ धि॒या । वहे॑थे शुभ्रयावाना ॥
स्मत् , ए॒तया॑ , सु॒ऽकी॒र्त्या , अश्वि॑ना , श्वे॒तया॑ , धि॒या । वहे॑थे॒ इति॑ , शु॒भ्र॒ऽया॒वा॒ना॒ ॥
यु॒क्ष्वा हि त्वं र॑था॒सहा॑ यु॒वस्व॒ पोष्या॑ वसो । आन्नो॑ वायो॒ मधु॑ पिबा॒स्माकं॒ सव॒ना ग॑हि ॥
यु॒क्ष्व , हि , त्वं , र॒थ॒ऽसहा॑ , यु॒वस्व॑ , पोष्या॑ , व॒सो॒ इति॑ । आत् , नः॒ , वा॒यो॒ इति॑ , मधु॑ , पि॒ब॒ , अ॒स्माकं॑ , सव॑ना , आ , ग॒हि॒ ॥
तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत । अवां॒स्या वृ॑णीमहे ॥
तव॑ , वा॒यो॒ इति॑ , ऋ॒तः॒प॒ते॒ , त्वष्टुः॑ , जा॒मा॒तः॒ , अ॒द्भु॒त॒ । अवां॑सि , आ , वृ॒णी॒म॒हे॒ ॥
त्वष्टु॒र्जामा॑तरं व॒यमीशा॑नं रा॒य ई॑महे । सु॒तावं॑तो वा॒युं द्यु॒म्ना जना॑सः ॥
त्वष्टुः॑ , जामा॑तरं , व॒यं , ईशा॑नं , रा॒यः , ई॒म॒हे॒ । सु॒तऽवं॑तः , वा॒युं , द्यु॒म्ना , जना॑सः ॥
वायो॑ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्यं॑ । वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे॑ ॥
वायो॒ इति॑ , या॒हि , शि॒व॒ , आ , दि॒वः , वह॑स्व , सु , सु॒ऽअश्व्यं॑ । वह॑स्व , म॒हः , पृ॒थु॒ऽपक्ष॑सा , रथे॑ ॥
त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे॑ । ग्रावा॑णं॒ नाश्व॑पृष्ठं मं॒हना॑ ॥
त्वां , हि , सु॒प्सरः॑ऽतमं , नृ॒ऽसद॑नेषु , हू॒महे॑ । ग्रावा॑णं , न , अश्व॑ऽपृष्ठं , मं॒हना॑ ॥
स त्वं नो॑ देव॒ मन॑सा॒ वायो॑ मंदा॒नो अ॑ग्रि॒यः । कृ॒धि वाजाँ॑ अ॒पो धियः॑ ॥
सः , त्वं , नः॒ , दे॒व॒ , मन॑सा , वायो॒ इति॑ , मं॒दा॒नः , अ॒ग्रि॒यः । कृ॒धि , वाजा॑न् , अ॒पः , धियः॑ ॥
[२७] अग्निरुक्थइति द्वाविंशत्यृचस्य सूक्तस्य वैवस्वतोमनुर्विश्वेदेवाः अयुजोबृहत्योयुजः सतोबृहत्यः | (अग्निरुक्थइत्यादिवैश्वदेवेषुचतुः सूक्तेषु आद्ययोरंत्येचसर्वेविश्वेदेवाएवनात्रभेदः) |
अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा॑णो ब॒र्हिर॑ध्व॒रे । ऋ॒चा या॑मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं॑ दे॒वाँ अवो॒ वरे॑ण्यं ॥
अ॒ग्निः , उ॒क्थे , पु॒रःऽहि॑तः , ग्रावा॑णः , ब॒र्हिः , अ॒ध्व॒रे । ऋ॒चा , या॒मि॒ , म॒रुतः॑ , ब्रह्म॑णः , पतिं॑ , दे॒वान् , अवः॑ , वरे॑ण्यं ॥
आ प॒शुं गा॑सि पृथि॒वीं वन॒स्पती॑नु॒षासा॒ नक्त॒मोष॑धीः । विश्वे॑ च नो वसवो विश्ववेदसो धी॒नां भू॑त प्रावि॒तारः॑ ॥
आ , प॒शुं , गा॒सि॒ , पृ॒थि॒वीं , वन॒स्पती॑न् , उ॒षसा॑ , नक्तं॑ , ओष॑धीः । विश्वे॑ , च॒ , नः॒ , व॒स॒वः॒ , वि॒श्व॒ऽवे॒द॒सः॒ , धी॒नां , भू॒त॒ , प्र॒ऽअ॒वि॒तारः॑ ॥
प्र सू न॑ एत्वध्व॒रो॒३॒॑ऽग्ना दे॒वेषु॑ पू॒र्व्यः । आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा॑नुषु ॥
प्र , सु , नः॒ , ए॒तु॒ , अ॒ध्व॒रः , अ॒ग्ना , दे॒वेषु॑ , पू॒र्व्यः । आ॒दि॒त्येषु॑ , प्र , वरु॑णे , धृ॒तऽव्र॑ते , म॒रुत्ऽसु॑ , वि॒श्वऽभा॑नुषु ॥
विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः । अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यंता॑ नोऽवृ॒कं छ॒र्दिः ॥
विश्वे॑ , हि , स्म॒ , मन॑वे , वि॒श्वऽवे॑दसः , भुव॑न् , वृ॒धे , रि॒शाद॑सः । अरि॑ष्टेभिः , पा॒युऽभिः॑ , वि॒श्व॒ऽवे॒द॒सः॒ , यंत॑ , नः॒ , अ॒वृ॒कं , छ॒र्दिः ॥
आ नो॑ अ॒द्य सम॑नसो॒ गंता॒ विश्वे॑ स॒जोष॑सः । ऋ॒चा गि॒रा मरु॑तो॒ देव्यदि॑ते॒ सद॑ने॒ पस्त्ये॑ महि ॥
आ , नः॒ , अ॒द्य , सऽम॑नसः , गंत॑ , विश्वे॑ , स॒ऽजोष॑सः । ऋ॒चा , गि॒रा , मरु॑तः , देवि॑ , अदि॑ते , सद॑ने , पस्त्ये॑ , म॒हि॒ ॥
अ॒भि प्रि॒या म॑रुतो॒ या वो॒ अश्व्या॑ ह॒व्या मि॑त्र प्रया॒थन॑ । आ ब॒र्हिरिंद्रो॒ वरु॑णस्तु॒रा नर॑ आदि॒त्यासः॑ सदंतु नः ॥
अ॒भि , प्रि॒या , म॒रु॒तः॒ , या , वः॒ , अश्व्या॑ , ह॒व्या , मि॒त्र॒ , प्र॒ऽया॒थन॑ । आ , ब॒र्हिः , इंद्रः॑ , वरु॑णः , तु॒राः , नरः॑ , आ॒दि॒त्यासः॑ , स॒दं॒तु॒ , नः॒ ॥
व॒यं वो॑ वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आनु॒षक् । सु॒तसो॑मासो वरुण हवामहे मनु॒ष्वदि॒द्धाग्न॑यः ॥
व॒यं , वः॒ , वृ॒क्तऽब॑र्हिषः , हि॒तऽप्र॑यसः , आ॒नु॒षक् । सु॒तऽसो॑मासः , व॒रु॒ण॒ , ह॒वा॒म॒हे॒ , म॒नु॒ष्वत् , इ॒द्धऽअ॑ग्नयः ॥
आ प्र या॑त॒ मरु॑तो॒ विष्णो॒ अश्वि॑ना॒ पूष॒न्माकी॑नया धि॒या । इंद्र॒ आ या॑तु प्रथ॒मः स॑नि॒ष्युभि॒र्वृषा॒ यो वृ॑त्र॒हा गृ॒णे ॥
आ , प्र , या॒त॒ , मरु॑तः , विष्णो॒ इति॑ , अश्वि॑ना , पूष॑न् , माकी॑नया , धि॒या । इंद्रः॑ , आ , या॒तु॒ , प्र॒थ॒मः , स॒नि॒ष्युऽभिः॑ , वृषा॑ , यः , वृ॒त्र॒ऽहा , गृ॒णे ॥
वि नो॑ देवासो अद्रु॒होऽच्छि॑द्रं॒ शर्म॑ यच्छत । न यद्दू॒राद्व॑सवो॒ नू चि॒दंति॑तो॒ वरू॑थमाद॒धर्ष॑ति ॥
वि , नः॒ , दे॒वा॒सः॒ , अ॒द्रु॒हः॒ , अच्छि॑द्रं , शर्म॑ , य॒च्छ॒त॒ । न , यत् , दू॒रात् , व॒स॒वः॒ , नु , चि॒त् , अंति॑तः , वरू॑थं , आ॒ऽद॒धर्ष॑ति ॥
अस्ति॒ हि वः॑ सजा॒त्यं॑ रिशादसो॒ देवा॑सो॒ अस्त्याप्यं॑ । प्र णः॒ पूर्व॑स्मै सुवि॒ताय॑ वोचत म॒क्षू सु॒म्नाय॒ नव्य॑से ॥
अस्ति॑ , हि , वः॒ , स॒ऽजा॒त्यं॑ , रि॒शा॒द॒सः॒ , देवा॑सः , अस्ति॑ , आप्यं॑ । प्र , नः॒ , पूर्व॑स्मै , सु॒वि॒ताय॑ , वो॒च॒त॒ , म॒क्षु , सु॒म्नाय॑ , नव्य॑से ॥
इ॒दा हि व॒ उप॑स्तुतिमि॒दा वा॒मस्य॑ भ॒क्तये॑ । उप॑ वो विश्ववेदसो नम॒स्युराँ असृ॒क्ष्यन्या॑मिव ॥
इ॒दा , हि , वः॒ , उप॑ऽस्तुतिं , इ॒दा , वा॒मस्य॑ , भ॒क्तये॑ । उप॑ , वः॒ , वि॒श्व॒ऽवे॒द॒सः॒ , न॒म॒स्युः , आ , असृ॑क्षि , अन्यां॑ऽइव ॥
उदु॒ ष्य वः॑ सवि॒ता सु॑प्रणीत॒योऽस्था॑दू॒र्ध्वो वरे॑ण्यः । नि द्वि॒पाद॒श्चतु॑ष्पादो अ॒र्थिनोऽवि॑श्रन्पतयि॒ष्णवः॑ ॥
उत् , ऊँ॒ इति॑ , स्यः , वः॒ , स॒वि॒ता , सु॒ऽप्र॒नी॒त॒यः॒ , अस्था॑त् , ऊ॒र्ध्वः , वरे॑ण्यः । नि , द्वि॒ऽपादः॑ , चतुः॑ऽपादः , अ॒र्थिनः॑ , अवि॑श्रन् , प॒त॒यि॒ष्णवः॑ ॥
दे॒वंदे॑वं॒ वोऽव॑से दे॒वंदे॑वम॒भिष्ट॑ये । दे॒वंदे॑वं हुवेम॒ वाज॑सातये गृ॒णंतो॑ दे॒व्या धि॒या ॥
दे॒वंऽदे॑वं , वः॒ , अव॑से , दे॒वंऽदे॑वं , अ॒भिष्ट॑ये । दे॒वंऽदे॑वं , हु॒वे॒म॒ , वाज॑ऽसातये , गृ॒णंतः॑ , दे॒व्या , धि॒या ॥
दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कं सरा॑तयः । ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भवं॑तु वरिवो॒विदः॑ ॥
दे॒वासः॑ , हि , स्म॒ , मन॑वे , सऽम॑न्यवः , विश्वे॑ , सा॒कं , सऽरा॑तयः । ते , नः॒ , अ॒द्य , ते , अ॒प॒रं , तु॒चे , तु , नः॒ , भवं॑तु , व॒रि॒वः॒ऽविदः॑ ॥
प्र वः॑ शंसाम्यद्रुहः सं॒स्थ उप॑स्तुतीनां । न तं धू॒र्तिर्व॑रुण मित्र॒ मर्त्यं॒ यो वो॒ धाम॒भ्योऽवि॑धत् ॥
प्र , वः॒ , शं॒सा॒मि॒ , अ॒द्रु॒हः॒ , सं॒ऽस्थे , उप॑ऽस्तुतीनां । न , तं , धू॒र्तिः , व॒रु॒ण॒ , मि॒त्र॒ , मर्त्यं॑ , यः , वः॒ , धाम॑ऽभ्यः , अवि॑धत् ॥
प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति । प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्पर्यरि॑ष्टः॒ सर्व॑ एधते ॥
प्र , सः , क्षयं॑ , ति॒र॒ते॒ , वि , म॒हीः , इषः॑ , यः , वः॒ , वरा॑य , दाश॑ति । प्र , प्र॒ऽजाभिः॑ , जा॒य॒ते॒ , धर्म॑णः , परि॑ , अरि॑ष्टः , सर्वः॑ , ए॒ध॒ते॒ ॥
ऋ॒ते स विं॑दते यु॒धः सु॒गेभि॑र्या॒त्यध्व॑नः । अ॒र्य॒मा मि॒त्रो वरु॑णः॒ सरा॑तयो॒ यं त्रायं॑ते स॒जोष॑सः ॥
ऋ॒ते , सः , विं॒द॒ते॒ , यु॒धः , सु॒ऽगेभिः॑ , या॒ति॒ , अध्व॑नः । अ॒र्य॒मा , मि॒त्रः , वरु॑णः॒ , सऽरा॑तयः , यं , त्रायं॑ते , स॒ऽजोष॑सः ॥
अज्रे॑ चिदस्मै कृणुथा॒ न्यंच॑नं दु॒र्गे चि॒दा सु॑सर॒णं । ए॒षा चि॑दस्माद॒शनिः॑ प॒रो नु सास्रे॑धंती॒ वि न॑श्यतु ॥
अज्रे॑ , चि॒त् , अ॒स्मै॒ , कृ॒णु॒थ॒ , नि॒ऽअंच॑नं , दुः॒ऽगे , चि॒त् , आ , सु॒ऽस॒र॒णं । ए॒षा , चि॒त् , अ॒स्मा॒त् , अ॒शनिः॑ , प॒रः , नु , सा , अस्रे॑धंती , वि , न॒श्य॒तु॒ ॥
यद॒द्य सूर्य॑ उद्य॒ति प्रिय॑क्षत्रा ऋ॒तं द॒ध । यन्नि॒म्रुचि॑ प्र॒बुधि॑ विश्ववेदसो॒ यद्वा॑ म॒ध्यंदि॑ने दि॒वः ॥
यत् , अ॒द्य , सूर्ये॑ , उ॒त्ऽय॒ति , प्रिय॑ऽक्षत्राः , ऋ॒तं , द॒ध । यत् , नि॒ऽम्रुचि॑ , प्र॒ऽबुधि॑ , वि॒श्व॒ऽवे॒द॒सः॒ , यत् , वा॒ , म॒ध्यंदि॑ने , दि॒वः ॥
यद्वा॑भिपि॒त्वे अ॑सुरा ऋ॒तं य॒ते छ॒र्दिर्ये॒म वि दा॒शुषे॑ । व॒यं तद्वो॑ वसवो विश्ववेदस॒ उप॑ स्थेयाम॒ मध्य॒ आ ॥
यत् , वा॒ , अ॒भि॒ऽपि॒त्वे , अ॒सु॒राः॒ , ऋ॒तं , य॒ते , छ॒र्दिः , ये॒म , वि , दा॒शुषे॑ । व॒यं , तत् , वः॒ , व॒स॒वः॒ , वि॒श्व॒ऽवे॒द॒सः॒ , उप॑ , स्थे॒या॒म॒ , मध्ये॒ , आ ॥
यद॒द्य सूर॒ उदि॑ते॒ यन्म॒ध्यंदि॑न आ॒तुचि॑ । वा॒मं ध॒त्थ मन॑वे विश्ववेदसो॒ जुह्वा॑नाय॒ प्रचे॑तसे ॥
यत् , अ॒द्य , सूरे॑ , उत्ऽइ॑ते , यत् , म॒ध्यंदि॑ने , आ॒ऽतुचि॑ । वा॒मं , ध॒त्थ , मन॑वे , वि॒श्व॒ऽवे॒द॒सः॒ , जुह्वा॑नाय , प्रऽचे॑तसे ॥
व॒यं तद्वः॑ सम्राज॒ आ वृ॑णीमहे पु॒त्रो न ब॑हु॒पाय्यं॑ । अ॒श्याम॒ तदा॑दित्या॒ जुह्व॑तो ह॒विर्येन॒ वस्यो॒ऽनशा॑महै ॥
व॒यं , तत् , वः॒ , सं॒ऽरा॒जः॒ , आ , वृ॒णी॒म॒हे॒ , पु॒त्रः , न , ब॒हु॒ऽपाय्यं॑ । अ॒श्याम॑ , तत् , आ॒दि॒त्याः॒ , जुह्व॑तः , ह॒विः , येन॑ , वस्यः॑ , अ॒नशा॑महै ॥
[२८] येत्रिंशतीति पंचर्चस्य सूक्तस्य वैवस्वतोमनुर्विश्वेदेवागायत्री चतुर्थीपुरउष्णिक् |
ये त्रिं॒शति॒ त्रय॑स्प॒रो दे॒वासो॑ ब॒र्हिरास॑दन् । वि॒दन्नह॑ द्वि॒तास॑नन् ॥
ये , त्रिं॒शति॑ , त्रयः॑ , प॒रः , दे॒वासः॑ , ब॒र्हिः , आ , अस॑दन् । वि॒दन् , अह॑ , द्वि॒ता , अ॒स॒न॒न् ॥
वरु॑णो मि॒त्रो अ॑र्य॒मा स्मद्रा॑तिषाचो अ॒ग्नयः॑ । पत्नी॑वंतो॒ वष॑ट्कृताः ॥
वरु॑णः , मि॒त्रः , अ॒र्य॒मा , स्मद्रा॑तिऽसाचः , अ॒ग्नयः॑ । पत्नी॑ऽवंतः , वष॑ट्ऽकृटाः ॥
ते नो॑ गो॒पा अ॑पा॒च्यास्त उद॒क्त इ॒त्था न्य॑क् । पु॒रस्ता॒त्सर्व॑या वि॒शा ॥
ते , नः॒ , गो॒पाः , अ॒पा॒च्याः , ते , उद॑क् , ते , इ॒त्था , न्य॑क् । पु॒रस्ता॑त् , सर्व॑या , वि॒शा ॥
यथा॒ वशं॑ति दे॒वास्तथेद॑स॒त्तदे॑षां॒ नकि॒रा मि॑नत् । अरा॑वा च॒न मर्त्यः॑ ॥
यथा॑ , वशं॑ति , दे॒वाः , तथा॑ , इत् , अ॒स॒त् , तत् , ए॒षां॒ , नकिः॑ , आ , मि॒न॒त् । अरा॑वा , च॒न , मर्त्यः॑ ॥
स॒प्ता॒नां स॒प्त ऋ॒ष्टयः॑ स॒प्त द्यु॒म्नान्ये॑षां । स॒प्तो अधि॒ श्रियो॑ धिरे ॥
स॒प्ता॒नां , स॒प्त , ऋ॒ष्टयः॑ , स॒प्त , द्यु॒म्नानि॑ , ए॒षां॒ । स॒प्तो इति॑ , अधि॑ , श्रियः॑ , धि॒रे॒ ॥
[२९] बभ्रुरेकइति दशर्चस्य सूक्तस्य वैवस्वतो मनुर्विश्वेदेवाद्विपदा विराट् | (भेदपक्षे - सोमः १ अग्निः १ त्वष्टा १ इंद्रः १ रुद्रः १ पूषा १ विष्णुः १ अश्विनौ १ मित्रावरुणौ १ अश्विनौ १ एवंदश । अस्मिन्मारीचः कश्यपर्षिः पाक्षिकः) |
ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवां॒ज्यं॑क्ते हिर॒ण्ययं॑ ॥
ब॒भ्रुः , एकः॑ , विषु॑णः , सू॒नरः॑ , युवा॑ , अं॒जि , अं॒क्ते॒ , हि॒र॒ण्ययं॑ ॥ ।
योनि॒मेक॒ आ स॑साद॒ द्योत॑नो॒ऽन्तर्दे॒वेषु॒ मेधि॑रः ॥
योनिं॑ , एकः॑ , आ , स॒सा॒द॒ , द्योत॑नः , अं॒तः , दे॒वेषु॑ , मेधि॑रः ॥ ।
वाशी॒मेको॑ बिभर्ति॒ हस्त॑ आय॒सीमं॒तर्दे॒वेषु॒ निध्रु॑विः ॥
वाशीं॑ , एकः॑ , बि॒भ॒र्ति॒ , हस्ते॑ , आ॒य॒सीं , अं॒तः , दे॒वेषु॑ , निऽध्रु॑विः ॥ ।
वज्र॒मेको॑ बिभर्ति॒ हस्त॒ आहि॑तं॒ तेन॑ वृ॒त्राणि॑ जिघ्नते ॥
वज्रं॑ , एकः॑ , बि॒भ॒र्ति॒ , हस्ते॑ , आऽहि॑तं , तेन॑ , वृ॒त्राणि॑ , जि॒घ्न॒ते॒ ॥ ।
ति॒ग्ममेको॑ बिभर्ति॒ हस्त॒ आयु॑धं॒ शुचि॑रु॒ग्रो जला॑षभेषजः ॥
ति॒ग्मं , एकः॑ , बि॒भ॒र्ति॒ , हस्ते॑ , आयु॑धं , शुचिः॑ , उ॒ग्रः , जला॑षऽभेषजः ॥ ।
प॒थ एकः॑ पीपाय॒ तस्क॑रो यथाँ ए॒ष वे॑द निधी॒नां ॥
प॒थः , एकः॑ , पी॒पा॒य॒ , तस्क॑रः , य॒था॒ , ए॒षः , वे॒द॒ , नि॒ऽधी॒नां ॥ ।
त्रीण्येक॑ उरुगा॒यो वि च॑क्रमे॒ यत्र॑ दे॒वासो॒ मदं॑ति ॥
त्रीणि॑ , एकः॑ , उ॒रु॒ऽगा॒यः , वि , च॒क्र॒मे॒ , यत्र॑ , दे॒वासः॑ , मदं॑ति ॥ ।
विभि॒र्द्वा च॑रत॒ एक॑या स॒ह प्र प्र॑वा॒सेव॑ वसतः ॥
विऽभिः॑ , द्वा , च॒र॒तः॒ , एक॑या , स॒ह , प्र , प्र॒वा॒साऽइ॑व , व॒स॒तः॒ ॥ ।
सदो॒ द्वा च॑क्राते उप॒मा दि॒वि स॒म्राजा॑ स॒र्पिरा॑सुती ॥
सदः॑ , द्वा , च॒क्रा॒ते॒ इति॑ , उ॒प॒ऽमा , दि॒वि , सं॒ऽराजा॑ , स॒र्पिरा॑सुती॒ इति॑ स॒र्पिःऽआ॑सुती ॥ ।
अर्चं॑त॒ एके॒ महि॒ साम॑ मन्वत॒ तेन॒ सूर्य॑मरोचयन् ॥
अर्चं॑तः , एके॑ , महि॑ , साम॑ , म॒न्व॒त॒ , तेन॑ , सूर्यं॑ , अ॒रो॒च॒य॒न् ॥ ।
[३०] नहिवैति चतुरृचस्य सूक्तस्य वैवस्वतोमनुर्विश्वेदेवागायत्री पुरउष्णिग्बृहत्यनुष्टुभः |
न॒हि वो॒ अस्त्य॑र्भ॒को देवा॑सो॒ न कु॑मार॒कः । विश्वे॑ स॒तोम॑हांत॒ इत् ॥
न॒हि , वः॒ , अस्ति॑ , अ॒र्भ॒कः , देवा॑सः , न , कु॒मा॒र॒कः । विश्वे॑ , स॒तःऽम॑हांतः , इत् ॥
इति॑ स्तु॒तासो॑ असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑ । मनो॑र्देवा यज्ञियासः ॥
इति॑ , स्तु॒तासः॑ , अ॒स॒थ॒ , रि॒शा॒द॒सः॒ , ये , स्थ , त्रयः॑ , च॒ , त्रिं॒शत् , च॒ । मनोः॑ , दे॒वाः॒ , य॒ज्ञि॒या॒सः॒ ॥
ते न॑स्त्राध्वं॒ ते॑ऽवत॒ त उ॑ नो॒ अधि॑ वोचत । मा नः॑ प॒थः पित्र्या॑न्मान॒वादधि॑ दू॒रं नै॑ष्ट परा॒वतः॑ ॥
ते , नः॒ , त्रा॒ध्वं॒ , ते॒ , अ॒व॒त॒ , ते , ऊँ॒ इति॑ , नः॒ , अधि॑ , वो॒च॒त॒ । मा , नः॒ , प॒थः , पित्र्या॑त् , मा॒न॒वात् , अधि॑ , दू॒रं , नै॒ष्ट॒ , प॒रा॒ऽवतः॑ ॥
ये दे॑वास इ॒ह स्थन॒ विश्वे॑ वैश्वान॒रा उ॒त । अ॒स्मभ्यं॒ शर्म॑ स॒प्रथो॒ गवेऽश्वा॑य यच्छत ॥
ये , दे॒वा॒सः॒ , इ॒ह , स्थन॑ , विश्वे॑ , वै॒श्वा॒न॒राः , उ॒त । अ॒स्मभ्यं॑ , शर्म॑ , स॒ऽप्रथः॑ , गवे॑ , अश्वा॑य , य॒च्छ॒त॒ ॥
[३१] योयजातीत्यष्टादशर्चस्य सूक्तस्य वैवस्वतोमनुः यज्ञोदेवतातृतीयादिद्वयोर्यजमानः पंचम्यादीनांदंपती दशम्यादिनवानांदंपत्याशिषोगायत्री नवमीचतुर्दश्यावनुष्टुभौ दशमीपादनिचृदंत्याश्चतस्रः पंक्त्यः (प्रथमयोर्द्वयोरिंद्रो देवतेति केचित् दशम्या यजमानपत्न्याशीः ततोद्वयोः पूषा ततएकस्यामित्रार्यमवरुणाः ततएकस्याअग्निः अंत्यचतस्रणां यजमानइति शौनकाद्यभिप्रायेणकेचिदाहुः) |
यो यजा॑ति॒ यजा॑त॒ इत्सु॒नव॑च्च॒ पचा॑ति च । ब्र॒ह्मेदिंद्र॑स्य चाकनत् ॥
यः , यजा॑ति , यजा॑ते , इत् , सु॒नव॑त् , च॒ , पचा॑ति , च॒ । ब्र॒ह्मा , इत् , इंद्र॑स्य , चा॒क॒न॒त् ॥
पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिरं॑ । पादित्तं श॒क्रो अंह॑सः ॥
पु॒रो॒ळाशं॑ , यः , अ॒स्मै॒ , सोमं॑ , रर॑ते , आ॒ऽशिरं॑ । पात् , इत् , तं , श॒क्रः , अंह॑सः ॥
तस्य॑ द्यु॒माँ अ॑स॒द्रथो॑ दे॒वजू॑तः॒ स शू॑शुवत् । विश्वा॑ व॒न्वन्न॑मि॒त्रिया॑ ॥
तस्य॑ , द्यु॒ऽमान् , अ॒स॒त् , रथः॑ , दे॒वऽजू॑तः , सः , शू॒शु॒व॒त् । विश्वा॑ , व॒न्वन् , अ॒मि॒त्रिया॑ ॥
अस्य॑ प्र॒जाव॑ती गृ॒हेऽस॑श्चंती दि॒वेदि॑वे । इळा॑ धेनु॒मती॑ दुहे ॥
अस्य॑ , प्र॒जाऽव॑ती , गृ॒हे , अस॑श्चंती , दि॒वेऽदि॑वे । इळा॑ , धे॒नु॒ऽमती॑ , दु॒हे॒ ॥
या दंप॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः । देवा॑सो॒ नित्य॑या॒शिरा॑ ॥
या , दंप॑ती॒ इति॒ दंऽप॑ती , सऽम॑नसा , सु॒नु॒तः , आ , च॒ , धाव॑तः । देवा॑सः , नित्य॑या , आ॒ऽशिरा॑ ॥
प्रति॑ प्राश॒व्याँ॑ इतः स॒म्यंचा॑ ब॒र्हिरा॑शाते । न ता वाजे॑षु वायतः ॥
प्रति॑ , प्रा॒श॒व्या॑न् , इ॒तः॒ , स॒म्यंचा॑ , ब॒र्हिः , आ॒शा॒ते॒ इति॑ । न , ता , वाजे॑षु , वा॒य॒तः॒ ॥
न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः । श्रवो॑ बृ॒हद्वि॑वासतः ॥
न , दे॒वानां॑ , अपि॑ , ह्नु॒तः , सु॒ऽम॒तिं , न , जु॒घु॒क्ष॒तः॒ । श्रवः॑ , बृ॒हत् , वि॒वा॒स॒तः॒ ॥
पु॒त्रिणा॒ ता कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतः । उ॒भा हिर॑ण्यपेशसा ॥
पु॒त्रिणा॑ , ता , कु॒मा॒रिणा॑ , विश्वं॑ , आयुः॑ , वि , अ॒श्नु॒तः॒ । उ॒भा , हिर॑ण्यऽपेशसा ॥
वी॒तिहो॑त्रा कृ॒तद्व॑सू दश॒स्यंता॒मृता॑य॒ कं । समूधो॑ रोम॒शं ह॑तो दे॒वेषु॑ कृणुतो॒ दुवः॑ ॥
वी॒तिऽहो॑त्रा , कृ॒तद्व॑सू॒ इति॑ कृ॒तत्ऽव॑सू , द॒श॒स्यंता॑ , अ॒मृता॑य , कं । सं , ऊधः॑ , रो॒म॒शं , ह॒तः॒ , दे॒वेषु॑ , कृ॒णु॒तः॒ , दुवः॑ ॥
आ शर्म॒ पर्व॑तानां वृणी॒महे॑ न॒दीनां॑ । आ विष्णोः॑ सचा॒भुवः॑ ॥
आ , शर्म॑ , पर्व॑तानां , वृ॒णी॒महे॑ , न॒दीनां॑ । आ , विष्णोः॑ , स॒चा॒ऽभुवः॑ ॥
ऐतु॑ पू॒षा र॒यिर्भगः॑ स्व॒स्ति स॑र्व॒धात॑मः । उ॒रुरध्वा॑ स्व॒स्तये॑ ॥
आ , ए॒तु॒ , पू॒षा , र॒यिः , भगः॑ , स्व॒स्ति , स॒र्व॒ऽधात॑मः । उ॒रुः , अध्वा॑ , स्व॒स्तये॑ ॥
अ॒रम॑तिरन॒र्वणो॒ विश्वो॑ दे॒वस्य॒ मन॑सा । आ॒दि॒त्याना॑मने॒ह इत् ॥
अ॒रम॑तिः , अ॒न॒र्वणः॑ , विश्वः॑ , दे॒वस्य॑ , मन॑सा । आ॒दि॒त्यानां॑ , अ॒ने॒हः , इत् ॥
यथा॑ नो मि॒त्रो अ॑र्य॒मा वरु॑णः॒ संति॑ गो॒पाः । सु॒गा ऋ॒तस्य॒ पंथाः॑ ॥
यथा॑ , नः॒ , मि॒त्रः , अ॒र्य॒मा , वरु॑णः , संति॑ , गो॒पाः । सु॒ऽगाः , ऋ॒तस्य॑ , पंथाः॑ ॥
अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वमी॑ळे॒ वसू॑नां । स॒प॒र्यंतः॑ पुरुप्रि॒यं मि॒त्रं न क्षे॑त्र॒साध॑सं ॥
अ॒ग्निं , वः॒ , पू॒र्व्यं , गि॒रा , दे॒वं , ई॒ळे॒ , वसू॑नां । स॒प॒र्यंतः॑ , पु॒रु॒ऽप्रि॒यं , मि॒त्रं , न , क्षे॒त्र॒ऽसाध॑सं ॥
म॒क्षू दे॒वव॑तो॒ रथः॒ शूरो॑ वा पृ॒त्सु कासु॑ चित् । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥
म॒क्षु , दे॒वऽव॑तः , रथः॑ , शूरः॑ , वा॒ , पृ॒त्ऽसु , कासु॑ , चि॒त् । दे॒वानां॑ , यः , इत् , मनः॑ , यज॑मानः , इय॑क्षति , अ॒भि , इत् , अय॑ज्वनः , भु॒व॒त् ॥
न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥
न , य॒ज॒मा॒न॒ , रि॒ष्य॒सि॒ , न , सु॒न्वा॒न॒ , न , दे॒व॒यो॒ इति॑ देवऽयो । दे॒वानां॑ , यः , इत् , मनः॑ , यज॑मानः , इय॑क्षति , अ॒भि , इत् , अय॑ज्वनः , भु॒व॒त् ॥
नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥
नकिः॑ , तं , कर्म॑णा , न॒श॒त् , न , प्र , यो॒ष॒त् , न , यो॒ष॒ति॒ । दे॒वानां॑ , यः , इत् , मनः॑ , यज॑मानः , इय॑क्षति , अ॒भि , इत् , अय॑ज्वनः , भु॒व॒त् ॥
अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्यं॑ । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥
अस॑त् , अत्र॑ , सु॒ऽवीर्यं॑ , उ॒त , त्यत् , आ॒शु॒ऽअश्व्यं॑ । दे॒वानां॑ , यः , इत् , मनः॑ , यज॑मानः , इय॑क्षति , अ॒भि , इत् , अय॑ज्वनः , भु॒व॒त् ॥
[३२] प्रकृतानीति त्रिंशदृचस्य सूक्तस्य काण्वोमेधातिथिरिंद्रोगायत्री |
प्र कृ॒तान्यृ॑जी॒षिणः॒ कण्वा॒ इंद्र॑स्य॒ गाथ॑या । मदे॒ सोम॑स्य वोचत ॥
प्र , कृ॒तानि॑ , ऋ॒जी॒षिणः॑ , कण्वाः॑ , इंद्र॑स्य , गाथ॑या । मदे॑ , सोम॑स्य , वो॒च॒त॒ ॥
यः सृबिं॑द॒मन॑र्शनिं॒ पिप्रुं॑ दा॒सम॑ही॒शुवं॑ । वधी॑दु॒ग्रो रि॒णन्न॒पः ॥
यः , सृबिं॑दं , अन॑र्शनिं , पिप्रुं॑ , दा॒सं , अ॒ही॒शुवं॑ । वधी॑त् , उ॒ग्रः , रि॒णन् , अ॒पः ॥
न्यर्बु॑दस्य वि॒ष्टपं॑ व॒र्ष्माणं॑ बृह॒तस्ति॑र । कृ॒षे तदिं॑द्र॒ पौंस्यं॑ ॥
नि , अर्बु॑दस्य , वि॒ष्टपं॑ , व॒र्ष्माणं॑ , बृ॒ह॒तः , ति॒र॒ । कृ॒षे , तत् , इं॒द्र॒ , पौंस्यं॑ ॥
प्रति॑ श्रु॒ताय॑ वो धृ॒षत्तूर्णा॑शं॒ न गि॒रेरधि॑ । हु॒वे सु॑शि॒प्रमू॒तये॑ ॥
प्रति॑ , श्रु॒ताय॑ , वः॒ , धृ॒षत् , तूर्णा॑शं , न , गि॒रेः , अधि॑ । हु॒वे , सु॒ऽशि॒प्रं , ऊ॒तये॑ ॥
स गोरश्व॑स्य॒ वि व्र॒जं मं॑दा॒नः सो॒म्येभ्यः॑ । पुरं॒ न शू॑र दर्षसि ॥
सः , गोः , अश्व॑स्य , वि , व्र॒जं , मं॒दा॒नः , सो॒म्येभ्यः॑ । पुरं॑ , न , शू॒र॒ , द॒र्ष॒सि॒ ॥
यदि॑ मे रा॒रणः॑ सु॒त उ॒क्थे वा॒ दध॑से॒ चनः॑ । आ॒रादुप॑ स्व॒धा ग॑हि ॥
यदि॑ , मे॒ , र॒रणः॑ , सु॒ते , उ॒क्थे , वा॒ , दध॑से , चनः॑ । आ॒रात् , उप॑ , स्व॒धा , आ , ग॒हि॒ ॥
व॒यं घा॑ ते॒ अपि॑ ष्मसि स्तो॒तार॑ इंद्र गिर्वणः । त्वं नो॑ जिन्व सोमपाः ॥
व॒यं , घ॒ , ते॒ , अपि॑ , स्म॒सि॒ , स्तो॒तारः॑ , इं॒द्र॒ , गि॒र्व॒णः॒ । त्वं , नः॒ , जि॒न्व॒ , सो॒म॒ऽपाः॒ ॥
उ॒त नः॑ पि॒तुमा भ॑र संररा॒णो अवि॑क्षितं । मघ॑व॒न्भूरि॑ ते॒ वसु॑ ॥
उ॒त , नः॒ , पि॒तुं , आ , भ॒र॒ , सं॒ऽर॒रा॒णः , अवि॑ऽक्षितं । मघ॑ऽवन् , भूरि॑ , ते॒ , वसु॑ ॥
उ॒त नो॒ गोम॑तस्कृधि॒ हिर॑ण्यवतो अ॒श्विनः॑ । इळा॑भिः॒ सं र॑भेमहि ॥
उ॒त , नः॒ , गोऽम॑तः , कृ॒धि॒ , हिर॑ण्यऽवतः , अ॒श्विनः॑ । इळा॑भिः , सं , र॒भे॒म॒हि॒ ॥
बृ॒बदु॑क्थं हवामहे सृ॒प्रक॑रस्नमू॒तये॑ । साधु॑ कृ॒ण्वंत॒मव॑से ॥
बृ॒बत्ऽउ॑क्थं , ह॒वा॒म॒हे॒ , सृ॒प्रऽक॑रस्नं , ऊ॒तये॑ । साधु॑ , कृ॒ण्वंतं॑ , अव॑से ॥
यः सं॒स्थे चि॑च्छ॒तक्र॑तु॒रादीं॑ कृ॒णोति॑ वृत्र॒हा । ज॒रि॒तृभ्यः॑ पुरू॒वसुः॑ ॥
यः , सं॒ऽस्थे , चि॒त् , श॒तऽक्र॑तुः , आत् , ईं॒ , कृ॒णोति॑ , वृ॒त्र॒ऽहा । ज॒रि॒तृऽभ्यः॑ , पु॒रु॒ऽवसुः॑ ॥
स नः॑ श॒क्रश्चि॒दा श॑क॒द्दान॑वाँ अंतराभ॒रः । इंद्रो॒ विश्वा॑भिरू॒तिभिः॑ ॥
सः , नः॒ , श॒क्रः , चि॒त् , आ , श॒क॒त् , दान॑ऽवान् , अं॒त॒र॒ऽआ॒भ॒रः । इंद्रः॑ , विश्वा॑भिः , ऊ॒तिऽभिः॑ ॥
यो रा॒यो॒३॒॑ऽवनि॑र्म॒हांत्सु॑पा॒रः सु॑न्व॒तः सखा॑ । तमिंद्र॑म॒भि गा॑यत ॥
यः , रा॒यः , अ॒वनिः॑ , म॒हान् , सु॒ऽपा॒रः , सु॒न्व॒तः , सखा॑ । तं , इंद्रं॑ , अ॒भि , गा॒य॒त॒ ॥
आ॒यं॒तारं॒ महि॑ स्थि॒रं पृत॑नासु श्रवो॒जितं॑ । भूरे॒रीशा॑न॒मोज॑सा ॥
आ॒ऽयं॒तारं॑ , महि॑ , स्थि॒रं , पृत॑नासु , श्र॒वः॒ऽजितं॑ । भूरेः॑ , ईशा॑नं , ओज॑सा ॥
नकि॑रस्य॒ शची॑नां नियं॒ता सू॒नृता॑नां । नकि॑र्व॒क्ता न दा॒दिति॑ ॥
नकिः॑ , अ॒स्य॒ , शची॑नां , नि॒ऽयं॒ता , सू॒नृता॑नां । नकिः॑ , व॒क्ता , न , दा॒त् , इति॑ ॥
न नू॒नं ब्र॒ह्मणा॑मृ॒णं प्रा॑शू॒नाम॑स्ति सुन्व॒तां । न सोमो॑ अप्र॒ता प॑पे ॥
न , नू॒नं , ब्र॒ह्मणां॑ , ऋ॒णं , प्रा॒शू॒नां , अ॒स्ति॒ , सु॒न्व॒तां । न , सोमः॑ , अ॒प्र॒ता , प॒पे॒ ॥
पन्य॒ इदुप॑ गायत॒ पन्य॑ उ॒क्थानि॑ शंसत । ब्रह्मा॑ कृणोत॒ पन्य॒ इत् ॥
पन्ये॑ , इत् , उप॑ , गा॒य॒त॒ , पन्ये॑ , उ॒क्थानि॑ , शं॒स॒त॒ । ब्रह्म॑ , कृ॒णो॒त॒ , पन्ये॑ , इत् ॥
पन्य॒ आ द॑र्दिरच्छ॒ता स॒हस्रा॑ वा॒ज्यवृ॑तः । इंद्रो॒ यो यज्व॑नो वृ॒धः ॥
पन्यः॑ , आ , द॒र्दि॒र॒त् , श॒ता , स॒हस्रा॑ , वा॒जी , अवृ॑तः । इंद्रः॑ , यः , यज्व॑नः , वृ॒धः ॥
वि षू च॑र स्व॒धा अनु॑ कृष्टी॒नामन्वा॒हुवः॑ । इंद्र॒ पिब॑ सु॒तानां॑ ॥
वि , सु , च॒र॒ , स्व॒धाः , अनु॑ , कृ॒ष्टी॒नां , अनु॑ , आ॒ऽहुवः॑ । इंद्र॑ , पिब॑ , सु॒तानां॑ ॥
पिब॒ स्वधै॑नवानामु॒त यस्तुग्र्ये॒ सचा॑ । उ॒तायमिं॑द्र॒ यस्तव॑ ॥
पिब॑ , स्वऽधै॑नवानां , उ॒त , यः , तुग्र्ये॑ , सचा॑ । उ॒त , अ॒यं , इं॒द्र॒ , यः , तव॑ ॥
अती॑हि मन्युषा॒विणं॑ सुषु॒वांस॑मु॒पार॑णे । इ॒मं रा॒तं सु॒तं पि॑ब ॥
अति॑ , इ॒हि॒ , म॒न्यु॒ऽसा॒विनं॑ , सु॒सु॒ऽवांसं॑ , उ॒प॒ऽअर॑णे । इ॒मं , रा॒तं , सु॒तं , पि॒ब॒ ॥
इ॒हि ति॒स्रः प॑रा॒वत॑ इ॒हि पंच॒ जनाँ॒ अति॑ । धेना॑ इंद्राव॒चाक॑शत् ॥
इ॒हि , ति॒स्रः , प॒रा॒ऽवतः॑ , इ॒हि , पंच॑ , जना॑न् , अति॑ । धेनाः॑ , इं॒द्र॒ , अ॒व॒ऽचाक॑शत् ॥
सूर्यो॑ र॒श्मिं यथा॑ सृ॒जा त्वा॑ यच्छंतु मे॒ गिरः॑ । नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥
सूर्यः॑ , र॒श्मिं , यथा॑ , सृ॒ज॒ , आ , त्वा॒ , य॒च्छं॒तु॒ , मे॒ , गिरः॑ । नि॒म्नं , आपः॑ , न , स॒ध्र्य॑क् ॥
अध्व॑र्य॒वा तु हि षिं॒च सोमं॑ वी॒राय॑ शि॒प्रिणे॑ । भरा॑ सु॒तस्य॑ पी॒तये॑ ॥
अध्व॑र्यो॒ इति॑ , आ , तु , हि , सिं॒च , सोमं॑ , वी॒राय॑ , शि॒प्रिणे॑ । भर॑ , सु॒तस्य॑ , पी॒तये॑ ॥
य उ॒द्नः फ॑लि॒गं भि॒नन्न्य१॒॑क्सिंधूँ॑र॒वासृ॑जत् । यो गोषु॑ प॒क्वं धा॒रय॑त् ॥
यः , उ॒द्नः , फ॒लि॒ऽगं , भि॒नत् , न्य॑क् , सिंधू॑न् , अ॒व॒ऽअसृ॑जत् । यः , गोषु॑ , प॒क्वं , धा॒रय॑त् ॥
अह॑न्वृ॒त्रमृची॑षम और्णवा॒भम॑ही॒शुवं॑ । हि॒मेना॑विध्य॒दर्बु॑दं ॥
अह॑न् , वृ॒त्रं , ऋची॑षमः , औ॒र्ण॒ऽवा॒भं , अ॒ही॒शुवं॑ । हि॒मेन॑ , अ॒वि॒ध्य॒त् , अर्बु॑दं ॥
प्र व॑ उ॒ग्राय॑ नि॒ष्टुरेऽषा॑ळ्हाय प्रस॒क्षिणे॑ । दे॒वत्तं॒ ब्रह्म॑ गायत ॥
प्र , वः॒ , उ॒ग्राय॑ , निः॒ऽतुरे॑ , अषा॑ळ्हाय , प्र॒ऽस॒क्षिणे॑ । दे॒वत्तं॑ , ब्रह्म॑ , गा॒य॒त॒ ॥
यो विश्वा॑न्य॒भि व्र॒ता सोम॑स्य॒ मदे॒ अंध॑सः । इंद्रो॑ दे॒वेषु॒ चेत॑ति ॥
यः , विश्वा॑नि , अ॒भि , व्र॒ता , सोम॑स्य , मदे॑ , अंध॑सः । इंद्रः॑ , दे॒वेषु॑ , चेत॑ति ॥
इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या । वो॒ळ्हाम॒भि प्रयो॑ हि॒तं ॥
इ॒ह , त्या , स॒ध॒ऽमाद्या॑ , हरी॒ इति॑ , हिर॑ण्यऽकेश्या । वो॒ळ्हां , अ॒भि , प्रयः॑ , हि॒तं ॥
अ॒र्वांचं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ । सो॒म॒पेया॑य वक्षतः ॥
अ॒र्वांचं॑ , त्वा॒ , पु॒रु॒ऽस्तु॒त॒ , प्रि॒यमे॑धऽस्तुता , हरी॒ इति॑ । सो॒म॒ऽपेया॑य , व॒क्ष॒तः॒ ॥
[३३] वयंघेत्येकोनविंशत्यृचस्य सूक्तस्य काण्वोमेध्यातिथिरिंद्रो बृहती षोडश्याद्यास्तिस्रो गायत्र्योंत्यानुष्टुप् |
व॒यं घ॑ त्वा सु॒तावं॑त॒ आपो॒ न वृ॒क्तब॑र्हिषः । प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥
व॒यं , घ॒ , त्वा॒ , सु॒तऽवं॑तः , आपः॑ , न , वृ॒क्तऽब॑र्हिषः । प॒वित्र॑स्य , प्र॒ऽस्रव॑णेषु , वृ॒त्र॒ऽह॒न् , परि॑ , स्तो॒तारः॑ , आ॒स॒ते॒ ॥
स्वरं॑ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिनः॑ । क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इंद्र॑ स्व॒ब्दीव॒ वंस॑गः ॥
स्वरं॑ति , त्वा॒ , सु॒ते , नरः॑ , वसो॒ इति॑ , नि॒रे॒के , उ॒क्थिनः॑ । क॒दा , सु॒तं , तृ॒षा॒णः , ओकः॑ , आ , ग॒मः॒ , इंद्र॑ , स्व॒ब्दीऽइ॑व , वंस॑गः ॥
कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिणं॑ । पि॒शंग॑रूपं मघवन्विचर्षणे म॒क्षू गोमं॑तमीमहे ॥
कण्वे॑भिः , धृ॒ष्णो॒ इति॑ , आ , धृ॒षत् , वाजं॑ , द॒र्षि॒ , स॒ह॒स्रिणं॑ । पि॒शंग॑ऽरूपं , म॒घ॒ऽव॒न् , वि॒ऽच॒र्ष॒णे॒ , म॒क्षु , गोऽमं॑तं , ई॒म॒हे॒ ॥
पा॒हि गायांध॑सो॒ मद॒ इंद्रा॑य मेध्यातिथे । यः संमि॑श्लो॒ हर्यो॒र्यः सु॒ते सचा॑ व॒ज्री रथो॑ हिर॒ण्ययः॑ ॥
पा॒हि , गाय॑ , अंध॑सः , मदे॑ , इंद्रा॑य , मे॒ध्य॒ऽअ॒ति॒थे॒ । यः , संऽमि॑श्लः , हर्योः॑ , यः , सु॒ते , सचा॑ , व॒ज्री , रथः॑ , हि॒र॒ण्ययः॑ ॥
यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गृ॒णे । य आ॑क॒रः स॒हस्रा॒ यः श॒ताम॑घ॒ इंद्रो॒ यः पू॒र्भिदा॑रि॒तः ॥
यः , सु॒ऽस॒व्यः , सु॒ऽदक्षि॑णः , इ॒नः , यः , सु॒ऽक्रतुः॑ , गृ॒णे । यः , आ॒ऽक॒रः , स॒हस्रा॑ , यः , श॒तऽम॑घः , इंद्रः॑ , यः , पूः॒ऽभित् , आ॒रि॒तः ॥
यो धृ॑षि॒तो योऽवृ॑तो॒ यो अस्ति॒ श्मश्रु॑षु श्रि॒तः । विभू॑तद्युम्न॒श्च्यव॑नः पुरुष्टु॒तः क्रत्वा॒ गौरि॑व शाकि॒नः ॥
यः , धृ॒षि॒तः , यः , अवृ॑तः , यः , अस्ति॑ , श्मश्रु॑षु , श्रि॒तः । विभू॑तऽद्युम्नः , च्यव॑नः , पु॒रु॒ऽस्तु॒तः , क्रत्वा॑ , गौःऽइ॑व , शा॒कि॒नः ॥
क ईं॑ वेद सु॒ते सचा॒ पिबं॑तं॒ कद्वयो॑ दधे । अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मंदा॒नः शि॒प्र्यंध॑सः ॥
कः , ईं॒ , वे॒द॒ , सु॒ते , सचा॑ , पिबं॑तं , कत् , वयः॑ , द॒धे॒ । अ॒यं , यः , पुरः॑ , वि॒ऽभि॒नत्ति॑ , ओज॑सा , मं॒दा॒नः , शि॒प्री , अंध॑सः ॥
दा॒ना मृ॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे । नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हाँश्च॑र॒स्योज॑सा ॥
दा॒ना , मृ॒गः , न , वा॒र॒णः , पु॒रु॒ऽत्रा , च॒रथं॑ , द॒धे॒ । नकिः॑ , त्वा॒ , नि , य॒म॒त् , आ , सु॒ते , ग॒मः॒ , म॒हान् , च॒र॒सि॒ , ओज॑सा ॥
य उ॒ग्रः सन्ननि॑ष्टृतः स्थि॒रो रणा॑य॒ संस्कृ॑तः । यदि॑ स्तो॒तुर्म॒घवा॑ शृ॒णव॒द्धवं॒ नेंद्रो॑ योष॒त्या ग॑मत् ॥
यः , उ॒ग्रः , सन् , अनिः॑ऽस्तृतः , स्थि॒रः , रणा॑य , संस्कृ॑तः । यदि॑ , स्तो॒तुः , म॒घऽवा॑ , शृ॒णव॑त् , हवं॑ , न , इंद्रः॑ , यो॒ष॒ति॒ , आ , ग॒म॒त् ॥
स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः । वृषा॒ ह्यु॑ग्र शृण्वि॒षे प॑रा॒वति॒ वृषो॑ अर्वा॒वति॑ श्रु॒तः ॥
स॒त्यं , इ॒त्था , वृषा॑ , इत् , अ॒सि॒ , वृष॑ऽजूतिः , नः॒ , अवृ॑तः । वृषा॑ , हि , उ॒ग्र॒ , शृ॒ण्वि॒षे , प॒रा॒ऽवति॑ , वृषो॒ इति॑ , अ॒र्वा॒ऽवति॑ , श्रु॒तः ॥
वृष॑णस्ते अ॒भीश॑वो॒ वृषा॒ कशा॑ हिर॒ण्ययी॑ । वृषा॒ रथो॑ मघव॒न्वृष॑णा॒ हरी॒ वृषा॒ त्वं श॑तक्रतो ॥
वृष॑णः , ते॒ , अ॒भीश॑वः , वृषा॑ , कशा॑ , हि॒र॒ण्ययी॑ । वृषा॑ , रथः॑ , म॒घ॒ऽव॒न् , वृष॑णा , हरी॒ इति॑ , वृषा॑ , त्वं , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥
वृषा॒ सोता॑ सुनोतु ते॒ वृष॑न्नृजीपि॒न्ना भ॑र । वृषा॑ दधन्वे॒ वृष॑णं न॒दीष्वा तुभ्यं॑ स्थातर्हरीणां ॥
वृषा॑ , सोता॑ , सु॒नो॒तु॒ , ते॒ , वृष॑न् , ऋ॒जी॒पि॒न् , आ , भ॒र॒ । वृषा॑ , द॒ध॒न्वे॒ , वृष॑णं , न॒दीषु॑ , आ , तुभ्यं॑ , स्था॒तः॒ , ह॒री॒णां॒ ॥
एंद्र॑ याहि पी॒तये॒ मधु॑ शविष्ठ सो॒म्यं । नायमच्छा॑ म॒घवा॑ शृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च॑ सु॒क्रतुः॑ ॥
आ , इं॒द्र॒ , या॒हि॒ , पी॒तये॑ , मधु॑ , श॒वि॒ष्ठ॒ , सो॒म्यं । न , अ॒यं , अच्छ॑ , म॒घऽवा॑ , शृ॒णव॑त् , गिरः॑ , ब्रह्म॑ , उ॒क्था , च॒ , सु॒ऽक्रतुः॑ ॥
वहं॑तु त्वा रथे॒ष्ठामा हर॑यो रथ॒युजः॑ । ति॒रश्चि॑द॒र्यं सव॑नानि वृत्रहन्न॒न्येषां॒ या श॑तक्रतो ॥
वहं॑तु , त्वा॒ , र॒थे॒ऽस्थां , आ , हर॑यः , र॒थ॒ऽयुजः॑ । ति॒रः , चि॒त् , अ॒र्यं , सव॑नानि , वृ॒त्र॒ऽह॒न् , अ॒न्येषां॑ , या , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥
अ॒स्माक॑म॒द्यांत॑मं॒ स्तोमं॑ धिष्व महामह । अ॒स्माकं॑ ते॒ सव॑ना संतु॒ शंत॑मा॒ मदा॑य द्युक्ष सोमपाः ॥
अ॒स्माकं॑ , अ॒द्य , अंत॑मं , स्तोमं॑ , धि॒ष्व॒ , म॒हा॒ऽम॒ह॒ । अ॒स्माकं॑ , ते॒ , सव॑ना , सं॒तु॒ , शंऽत॑मा , मदा॑य , द्यु॒क्ष॒ , सो॒म॒ऽपाः॒ ॥
न॒हि षस्तव॒ नो मम॑ शा॒स्त्रे अ॒न्यस्य॒ रण्य॑ति । यो अ॒स्मान्वी॒र आन॑यत् ॥
न॒हि , सः , तव॑ , नो इति॑ , मम॑ , शा॒स्त्रे , अ॒न्यस्य॑ , रण्य॑ति । यः , अ॒स्मान् , वी॒रः , आ , अन॑यत् ॥
इंद्र॑श्चिद्घा॒ तद॑ब्रवीत्स्त्रि॒या अ॑शा॒स्यं मनः॑ । उ॒तो अह॒ क्रतुं॑ र॒घुं ॥
इंद्रः॑ , चि॒त् , घ॒ , तत् , अ॒ब्र॒वी॒त् , स्त्रि॒याः , अ॒शा॒स्यं , मनः॑ । उ॒तो इति॑ , अह॑ , क्रतुं॑ , र॒घुं ॥
सप्ती॑ चिद्घा मद॒च्युता॑ मिथु॒ना व॑हतो॒ रथं॑ । ए॒वेद्धूर्वृष्ण॒ उत्त॑रा ॥
सप्ती॒ इति॑ , चि॒त् , घ॒ , म॒द॒ऽच्युता॑ , मि॒थु॒ना , व॒ह॒तः॒ , रथं॑ । ए॒व , इत् , धूः , वृष्णः॑ , उत्ऽत॑रा ॥
अ॒धः प॑श्यस्व॒ मोपरि॑ संत॒रां पा॑द॒कौ ह॑र । मा ते॑ कशप्ल॒कौ दृ॑शं॒त्स्त्री हि ब्र॒ह्मा ब॒भूवि॑थ ॥
अ॒धः , प॒श्य॒स्व॒ , मा , उ॒परि॑ , सं॒ऽत॒रां , पा॒द॒कौ , ह॒र॒ । मा , ते॒ , क॒श॒ऽप्ल॒कौ , दृ॒श॒न् , स्त्री , हि , ब्र॒ह्मा , ब॒भूवि॑थ ॥
[३४] एंद्रयाहीत्यष्टादशर्चस्य सूक्तस्य काण्वोनीपातिथिरिंद्रः आयदिंद्रइत्यादितिसृणामांगिरसाः सहस्रवसुरोचिषऋषयइंद्रोऽनुष्टुबंत्यास्तिस्रोगायत्र्यः |
एंद्र॑ याहि॒ हरि॑भि॒रुप॒ कण्व॑स्य सुष्टु॒तिं । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
आ , इं॒द्र॒ , या॒हि॒ , हरि॑ऽभिः , उप॑ , कण्व॑स्य , सु॒ऽस्तु॒तिं । दि॒वः , अ॒मुष्य॑ , शास॑तः , दिवं॑ , य॒य , दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
आ त्वा॒ ग्रावा॒ वद॑न्नि॒ह सो॒मी घोषे॑ण यच्छतु । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
आ , त्वा॒ , ग्रावा॑ , वद॑न् , इ॒ह , सो॒मी , घोषे॑ण , य॒च्छ॒तु॒ । दि॒वः , अ॒मुष्य॑ , शास॑तः , दिवं॑ , य॒य , दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
अत्रा॒ वि ने॒मिरे॑षा॒मुरां॒ न धू॑नुते॒ वृकः॑ । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
अत्र॑ , वि , ने॒मिः , ए॒षां॒ , उरां॑ , न , धू॒नु॒ते॒ , वृकः॑ । दि॒वः , अ॒मुष्य॑ , शास॑तः , दिवं॑ , य॒य , दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
आ त्वा॒ कण्वा॑ इ॒हाव॑से॒ हवं॑ते॒ वाज॑सातये । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
आ , त्वा॒ , कण्वाः॑ , इ॒ह , अव॑से , हवं॑ते , वाज॑ऽसातये । दि॒वः , अ॒मुष्य॑ , शास॑तः , दिवं॑ , य॒य , दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
दधा॑मि ते सु॒तानां॒ वृष्णे॒ न पू॑र्व॒पाय्यं॑ । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
दधा॑मि , ते॒ , सु॒तानां॑ , वृष्णे॑ , न , पू॒र्व॒ऽपाय्यं॑ । दि॒वः , अ॒मुष्य॑ , शास॑तः , दिवं॑ , य॒य , दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
स्मत्पु॑रंधिर्न॒ आ ग॑हि वि॒श्वतो॑धीर्न ऊ॒तये॑ । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
स्मत्ऽपु॑रंधिः , नः॒ , आ , ग॒हि॒ , वि॒श्वतः॑ऽधीः , नः॒ , ऊ॒तये॑ । दि॒वः , अ॒मुष्य॑ , शास॑तः , दिवं॑ , य॒य , दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
आ नो॑ याहि महेमते॒ सह॑स्रोते॒ शता॑मघ । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
आ , नः॒ , या॒हि॒ , म॒हे॒ऽम॒ते॒ , सह॑स्रऽऊते , शत॑ऽमघ । दि॒वः , अ॒मुष्य॑ , शास॑तः , दिवं॑ , य॒य , दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
आ त्वा॒ होता॒ मनु॑र्हितो देव॒त्रा व॑क्ष॒दीड्यः॑ । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
आ , त्वा॒ , होता॑ , मनुः॑ऽहितः , दे॒व॒ऽत्रा , व॒क्ष॒त् , ईड्यः॑ । दि॒वः , अ॒मुष्य॑ , शास॑तः , दिवं॑ , य॒य , दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
आ त्वा॑ मद॒च्युता॒ हरी॑ श्ये॒नं प॒क्षेव॑ वक्षतः । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
आ , त्वा॒ , म॒द॒ऽच्युता॑ , हरी॒ इति॑ , श्ये॒नं , प॒क्षाऽइ॑व , व॒क्ष॒तः॒ । दि॒वः , अ॒मुष्य॑ , शास॑तः , दिवं॑ , य॒य , दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
आ या॑ह्य॒र्य आ परि॒ स्वाहा॒ सोम॑स्य पी॒तये॑ । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
आ , या॒हि॒ , अ॒र्यः , आ , परि॑ , स्वाहा॑ , सोम॑स्य , पी॒तये॑ । दि॒वः , अ॒मुष्य॑ , शास॑तः , दिवं॑ , य॒य , दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
आ नो॑ या॒ह्युप॑श्रुत्यु॒क्थेषु॑ रणया इ॒ह । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
आ , नः॒ , या॒हि॒ , उप॑ऽश्रुति , उ॒क्थेषु॑ , र॒ण॒य॒ , इ॒ह । दि॒वः , अ॒मुष्य॑ , शास॑तः , दिवं॑ , य॒य , दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
सरू॑पै॒रा सु नो॑ गहि॒ संभृ॑तैः॒ संभृ॑ताश्वः । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
सऽरू॑पैः , आ , सु , नः॒ , ग॒हि॒ , संऽभृ॑तैः , संभृ॑तऽअश्वः । दि॒वः , अ॒मुष्य॑ , शास॑तः , दिवं॑ , य॒य , दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
आ या॑हि॒ पर्व॑तेभ्यः समु॒द्रस्याधि॑ वि॒ष्टपः॑ । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
आ , या॒हि॒ , पर्व॑तेभ्यः , स॒मु॒द्रस्य॑ , अधि॑ , वि॒ष्टपः॑ । दि॒वः , अ॒मुष्य॑ , शास॑तः , दिवं॑ , य॒य , दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
आ नो॒ गव्या॒न्यश्व्या॑ स॒हस्रा॑ शूर दर्दृहि । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
आ , नः॒ , गव्या॑नि , अश्व्या॑ , स॒हस्रा॑ , शू॒र॒ , द॒र्दृ॒हि॒ । दि॒वः , अ॒मुष्य॑ , शास॑तः , दिवं॑ , य॒य , दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
आ नः॑ सहस्र॒शो भ॑रा॒युता॑नि श॒तानि॑ च । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
आ , नः॒ , स॒ह॒स्र॒ऽशः , भ॒र॒ , अ॒युता॑नि , श॒तानि॑ , च॒ । दि॒वः , अ॒मुष्य॑ , शास॑तः , दिवं॑ , य॒य , दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
आ यदिंद्र॑श्च॒ दद्व॑हे स॒हस्रं॒ वसु॑रोचिषः । ओजि॑ष्ठ॒मश्व्यं॑ प॒शुं ॥
आ , यत् , इंद्रः॑ , च॒ , दद्व॑हे॒ इति॑ , स॒हस्रं॑ , वसु॑ऽरोचिषः । ओजि॑ष्ठं , अश्व्यं॑ , प॒शुं ॥
य ऋ॒ज्रा वात॑रंहसोऽरु॒षासो॑ रघु॒ष्यदः॑ । भ्राजं॑ते॒ सूर्या॑ इव ॥
ये , ऋ॒ज्राः , वात॑ऽरंहसः , अ॒रु॒षासः॑ , र॒घु॒ऽस्यदः॑ । भ्राजं॑ते , सूर्याः॑ऽइव ॥
पारा॑वतस्य रा॒तिषु॑ द्र॒वच्च॑क्रेष्वा॒शुषु॑ । तिष्ठं॒ वन॑स्य॒ मध्य॒ आ ॥
पारा॑वतस्य , रा॒तिषु॑ , द्र॒वत्ऽच॑क्रेषु , आ॒शुषु॑ । तिष्ठं॑ , वन॑स्य , मध्ये॑ , आ ॥
[३५] अग्निर्नेंद्रेणेति चतुर्विंशत्यृचस्य सूक्तस्यात्रेयः श्यावाश्वोश्विनावुपरिष्टाज्ज्योतिरंत्यास्तिस्रः क्रमेणपंक्तिमहाबृहतीपंक्तयः |
अ॒ग्निनेंद्रे॑ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥
अ॒ग्निना॑ , इंद्रे॑ण , वरु॑णेन , विष्णु॑ना , आ॒दि॒त्यैः , रु॒द्रैः , वसु॑ऽभिः , स॒चा॒ऽभुवा॑ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , सोमं॑ , पि॒ब॒तं॒ , अ॒श्वि॒ना॒ ॥
विश्वा॑भिर्धी॒भिर्भुव॑नेन वाजिना दि॒वा पृ॑थि॒व्याद्रि॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥
विश्वा॑भिः , धी॒भिः , भुव॑नेन , वा॒जि॒ना॒ , दि॒वा , पृ॒थि॒व्या , अद्रि॑ऽभिः , स॒चा॒ऽभुवा॑ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , सोमं॑ , पि॒ब॒तं॒ , अ॒श्वि॒ना॒ ॥
विश्वै॑र्दे॒वैस्त्रि॒भिरे॑काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥
विश्वैः॑ , दे॒वैः , त्रि॒ऽभिः , ए॒का॒द॒शैः , इ॒ह , अ॒त्ऽभिः , म॒रुत्ऽभिः॑ , भृगु॑ऽभिः , स॒चा॒ऽभुवा॑ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , सोमं॑ , पि॒ब॒तं॒ , अ॒श्वि॒ना॒ ॥
जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतं । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥
जु॒षेथां॑ , य॒ज्ञं , बोध॑तं , हव॑स्य , मे॒ , विश्वा॑ , इ॒ह , दे॒वौ॒ , सव॑ना , अव॑ , ग॒च्छ॒तं॒ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , आ , इषं॑ , नः॒ , वो॒ळ्हं॒ , अ॒श्वि॒ना॒ ॥
स्तोमं॑ जुषेथां युव॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतं । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥
स्तोमं॑ , जु॒षे॒थां॒ , यु॒व॒शाऽइ॑व , क॒न्यनां॑ , विश्वा॑ , इ॒ह , दे॒वौ॒ , सव॑ना , अव॑ , ग॒च्छ॒तं॒ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , आ , इषं॑ , नः॒ , वो॒ळ्हं॒ , अ॒श्वि॒ना॒ ॥
गिरो॑ जुषेथामध्व॒रं जु॑षेथां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतं । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥
गिरः॑ , जु॒षे॒थां॒ , अ॒ध्व॒रं , जु॒षे॒थां॒ , विश्वा॑ , इ॒ह , दे॒वौ॒ , सव॑ना , अव॑ , ग॒च्छ॒तं॒ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , आ , इषं॑ , नः॒ , वो॒ळ्हं॒ , अ॒श्वि॒ना॒ ॥
हा॒रि॒द्र॒वेव॑ पतथो॒ वनेदुप॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥
हा॒रि॒द्र॒वाऽइ॑व , प॒त॒थः॒ , वना॑ , इत् , उप॑ , सोमं॑ , सु॒तं , म॒हि॒षाऽइ॑व , अव॑ , ग॒च्छ॒थः॒ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , त्रिः , व॒र्तिः , या॒तं॒ , अ॒श्वि॒ना॒ ॥
हं॒सावि॑व पतथो अध्व॒गावि॑व॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥
हं॒सौऽइ॑व , प॒त॒थः॒ , अ॒ध्व॒गौऽइ॑व , सोमं॑ , सु॒तं , म॒हि॒षाऽइ॑व , अव॑ , ग॒च्छ॒थः॒ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , त्रिः , व॒र्तिः , या॒तं॒ , अ॒श्वि॒ना॒ ॥
श्ये॒नावि॑व पतथो ह॒व्यदा॑तये॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥
श्ये॒नौऽइ॑व , प॒त॒थः॒ , ह॒व्यऽदा॑तये , सोमं॑ , सु॒तं , म॒हि॒षाऽइ॑व , अव॑ , ग॒च्छ॒थः॒ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , त्रिः , व॒र्तिः , या॒तं॒ , अ॒श्वि॒ना॒ ॥
पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तं । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
पिब॑तं , च॒ , तृ॒प्णु॒तं , च॒ , आ , च॒ , ग॒च्छ॒तं॒ , प्र॒ऽजां , च॒ , ध॒त्तं , द्रवि॑णं , च॒ , ध॒त्तं॒ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , ऊर्जं॑ , नः॒ , ध॒त्तं॒ , अ॒श्वि॒ना॒ ॥
जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तं । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
जय॑तं , च॒ , प्र , स्तु॒तं॒ , च॒ , प्र , च॒ , अ॒व॒तं॒ , प्र॒ऽजां , च॒ , ध॒त्तं , द्रवि॑णं , च॒ , ध॒त्तं॒ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , ऊर्जं॑ , नः॒ , ध॒त्तं॒ , अ॒श्वि॒ना॒ ॥
ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिणः॑ प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तं । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
ह॒तं , च॒ , शत्रू॑न् , यत॑तं , च॒ , मि॒त्रिणः॑ , प्र॒ऽजां , च॒ , ध॒त्तं , द्रवि॑णं , च॒ , ध॒त्तं॒ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , ऊर्जं॑ , नः॒ , ध॒त्तं॒ , अ॒श्वि॒ना॒ ॥
मि॒त्रावरु॑णवंता उ॒त धर्म॑वंता म॒रुत्वं॑ता जरि॒तुर्ग॑च्छथो॒ हवं॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥
मि॒त्रावरु॑णऽवंतौ , उ॒त , धर्म॑ऽवंता , म॒रुत्वं॑ता , ज॒रि॒तुः , ग॒च्छ॒थः॒ , हवं॑ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , आ॒दि॒त्यैः , या॒तं॒ , अ॒श्वि॒ना॒ ॥
अंगि॑रस्वंता उ॒त विष्णु॑वंता म॒रुत्वं॑ता जरि॒तुर्ग॑च्छथो॒ हवं॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥
अंगि॑रस्वंतौ , उ॒त , विष्णु॑ऽवंता , म॒रुत्वं॑ता , ज॒रि॒तुः , ग॒च्छ॒थः॒ , हवं॑ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , आ॒दि॒त्यैः , या॒तं॒ , अ॒श्वि॒ना॒ ॥
ऋ॒भु॒मंता॑ वृषणा॒ वाज॑वंता म॒रुत्वं॑ता जरि॒तुर्ग॑च्छथो॒ हवं॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥
ऋ॒भु॒ऽमंता॑ , वृ॒ष॒णा॒ , वाज॑ऽवंता , म॒रुत्वं॑ता , ज॒रि॒तुः , ग॒च्छ॒थः॒ , हवं॑ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , आ॒दि॒त्यैः , या॒तं॒ , अ॒श्वि॒ना॒ ॥
ब्रह्म॑ जिन्वतमु॒त जि॑न्वतं॒ धियो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥
ब्रह्म॑ , जि॒न्व॒तं॒ , उ॒त , जि॒न्व॒तं॒ , धियः॑ , ह॒तं , रक्षां॑सि , सेध॑तं , अमी॑वाः । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , सोमं॑ , सु॒न्व॒तः , अ॒श्वि॒ना॒ ॥
क्ष॒त्रं जि॑न्वतमु॒त जि॑न्वतं॒ नॄन्ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥
क्ष॒त्रं , जि॒न्व॒तं॒ , उ॒त , जि॒न्व॒तं॒ , नॄन् , ह॒तं , रक्षां॑सि , सेध॑तं , अमी॑वाः । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , सोमं॑ , सु॒न्व॒तः , अ॒श्वि॒ना॒ ॥
धे॒नूर्जि॑न्वतमु॒त जि॑न्वतं॒ विशो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥
धे॒नूः , जि॒न्व॒तं॒ , उ॒त , जि॒न्व॒तं॒ , विशः॑ , ह॒तं , रक्षां॑सि , सेध॑तं , अमी॑वाः । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , सोमं॑ , सु॒न्व॒तः , अ॒श्वि॒ना॒ ॥
अत्रे॑रिव शृणुतं पू॒र्व्यस्तु॑तिं श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यं ॥
अत्रेः॑ऽइव , शृ॒णु॒तं॒ , पू॒र्व्यऽस्तु॑तिं , श्या॒वऽअ॑श्वस्य , सु॒न्व॒तः , म॒द॒ऽच्यु॒ता॒ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , अश्वि॑ना , ति॒रःऽअ॑ह्न्यं ॥
सर्गाँ॑ इव सृजतं सुष्टु॒तीरुप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यं ॥
सर्गा॑न्ऽइव , सृ॒ज॒तं॒ , सु॒ऽस्तु॒तीः , उप॑ , श्या॒वऽअ॑श्वस्य , सु॒न्व॒तः , म॒द॒ऽच्यु॒ता॒ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , अश्वि॑ना , ति॒रःऽअ॑ह्न्यं ॥
र॒श्मीँरि॑व यच्छतमध्व॒राँ उप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यं ॥
र॒श्मीन्ऽइ॑व , य॒च्छ॒तं॒ , अ॒ध्व॒रान् , उप॑ , श्या॒वऽअ॑श्वस्य , सु॒न्व॒तः , म॒द॒ऽच्यु॒ता॒ । स॒ऽजोष॑सौ , उ॒षसा॑ , सूर्ये॑ण , च॒ , अश्वि॑ना , ति॒रःऽअ॑ह्न्यं ॥
अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
अ॒र्वाक् , रथं॑ , नि , य॒च्छ॒तं॒ , पिब॑तं , सो॒म्यं , मधु॑ । आ , या॒तं॒ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ , अ॒व॒स्युः , वां॒ , अ॒हं , हु॒वे॒ , ध॒त्तं , रत्ना॑नि , दा॒शुषे॑ ॥
न॒मो॒वा॒के प्रस्थि॑ते अध्व॒रे न॑रा वि॒वक्ष॑णस्य पी॒तये॑ । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
न॒मः॒ऽवा॒के , प्रऽस्थि॑ते , अ॒ध्व॒रे , न॒रा॒ , वि॒वक्ष॑णस्य , पी॒तये॑ । आ , या॒तं॒ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ , अ॒व॒स्युः , वां॒ , अ॒हं , हु॒वे॒ , ध॒त्तं , रत्ना॑नि , दा॒शुषे॑ ॥
स्वाहा॑कृतस्य तृंपतं सु॒तस्य॑ देवा॒वंध॑सः । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
स्वाहा॑ऽकृतस्य , तृं॒प॒तं॒ , सु॒तस्य॑ , दे॒वौ॒ , अंध॑सः । आ , या॒तं॒ , अ॒श्वि॒ना॒ , आ , ग॒तं॒ , अ॒व॒स्युः , वां॒ , अ॒हं , हु॒वे॒ , ध॒त्तं , रत्ना॑नि , दा॒शुषे॑ ॥
[३६] अवितासीति सप्तर्चस्य सूक्तस्यात्रेयः श्यावाश्वइंद्रः शक्वर्यंत्या महापंक्तिः |
अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब॑र्हिषः॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥
अ॒वि॒ता , अ॒सि॒ , सु॒न्व॒तः , वृ॒क्तऽब॑र्हिषः , पिब॑ , सोमं॑ , मदा॑य , कं , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यं , ते॒ , भा॒गं , अधा॑रयन् , विश्वाः॑ , से॒हा॒नः , पृत॑नाः , उ॒रु , ज्रयः॑ , सं , अ॒प्सु॒ऽजित् , म॒रुत्वा॑न् , इं॒द्र॒ , स॒त्ऽप॒ते॒ ॥
प्राव॑ स्तो॒तारं॑ मघव॒न्नव॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥
प्र , अ॒व॒ , स्तो॒तारं॑ , म॒घ॒ऽव॒न् , अव॑ , त्वां , पिब॑ , सोमं॑ , मदा॑य , कं , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यं , ते॒ , भा॒गं , अधा॑रयन् , विश्वाः॑ , से॒हा॒नः , पृत॑नाः , उ॒रु , ज्रयः॑ , सं , अ॒प्सु॒ऽजित् , म॒रुत्वा॑न् , इं॒द्र॒ , स॒त्ऽप॒ते॒ ॥
ऊ॒र्जा दे॒वाँ अव॒स्योज॑सा॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥
ऊ॒र्जा , दे॒वान् , अव॑सि , ओज॑सा , त्वां , पिब॑ , सोमं॑ , मदा॑य , कं , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यं , ते॒ , भा॒गं , अधा॑रयन् , विश्वाः॑ , से॒हा॒नः , पृत॑नाः , उ॒रु , ज्रयः॑ , सं , अ॒प्सु॒ऽजित् , म॒रुत्वा॑न् , इं॒द्र॒ , स॒त्ऽप॒ते॒ ॥
ज॒नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥
ज॒नि॒ता , दि॒वः , ज॒नि॒ता , पृ॒थि॒व्याः , पिब॑ , सोमं॑ , मदा॑य , कं , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यं , ते॒ , भा॒गं , अधा॑रयन् , विश्वाः॑ , से॒हा॒नः , पृत॑नाः , उ॒रु , ज्रयः॑ , सं , अ॒प्सु॒ऽजित् , म॒रुत्वा॑न् , इं॒द्र॒ , स॒त्ऽप॒ते॒ ॥
ज॒नि॒ताश्वा॑नां जनि॒ता गवा॑मसि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥
ज॒नि॒ता , अश्वा॑नां , ज॒नि॒ता , गवां॑ , अ॒सि॒ , पिब॑ , सोमं॑ , मदा॑य , कं , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यं , ते॒ , भा॒गं , अधा॑रयन् , विश्वाः॑ , से॒हा॒नः , पृत॑नाः , उ॒रु , ज्रयः॑ , सं , अ॒प्सु॒ऽजित् , म॒रुत्वा॑न् , इं॒द्र॒ , स॒त्ऽप॒ते॒ ॥
अत्री॑णां॒ स्तोम॑मद्रिवो म॒हस्कृ॑धि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥
अत्री॑णां , स्तोमं॑ , अ॒द्रि॒ऽवः॒ , म॒हः , कृ॒धि॒ , पिब॑ , सोमं॑ , मदा॑य , कं , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यं , ते॒ , भा॒गं , अधा॑रयन् , विश्वाः॑ , से॒हा॒नः , पृत॑नाः , उ॒रु , ज्रयः॑ , सं , अ॒प्सु॒ऽजित् , म॒रुत्वा॑न् , इं॒द्र॒ , स॒त्ऽप॒ते॒ ॥
श्या॒वाश्व॑स्य सुन्व॒तस्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रेः॒ कर्मा॑णि कृण्व॒तः । प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इंद्र॒ ब्रह्मा॑णि व॒र्धय॑न् ॥
श्या॒वऽअ॑श्वस्य , सु॒न्व॒तः , तथा॑ , शृ॒णु॒ , यथा॑ , अशृ॑णोः , अत्रेः॑ , कर्मा॑णि , कृ॒ण्व॒तः । प्र , त्र॒सद॑स्युं , आ॒वि॒थ॒ , त्वं , एकः॑ , इत् , नृ॒ऽसह्ये॑ , इंद्र॑ , ब्रह्मा॑णि , व॒र्धय॑न् ॥
[३७] प्रेदमिति सप्तर्चस्य सूक्तस्यात्रेयः श्यावाश्वइंद्रोमहापंक्तिराद्यातिजगती |
प्रेदं ब्रह्म॑ वृत्र॒तूर्ये॑ष्वाविथ॒ प्र सु॑न्व॒तः श॑चीपत॒ इंद्र॒ विश्वा॑भिरू॒तिभिः॑ । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
प्र , इ॒दं , ब्रह्म॑ , वृ॒त्र॒ऽतूर्ये॑षु , आ॒वि॒थ॒ , प्र , सु॒न्व॒तः , श॒ची॒ऽप॒ते॒ , इंद्र॑ , विश्वा॑भिः , ऊ॒तिऽभिः॑ । माध्यं॑दिनस्य , सव॑नस्य , वृ॒त्र॒ऽह॒न् , अ॒ने॒द्य॒ , पिब॑ , सोम॑स्य , व॒ज्रि॒ऽवः॒ ॥
से॒हा॒न उ॑ग्र॒ पृत॑ना अ॒भि द्रुहः॑ शचीपत॒ इंद्र॒ विश्वा॑भिरू॒तिभिः॑ । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
से॒हा॒नः , उ॒ग्र॒ , पृत॑नाः , अ॒भि , द्रुहः॑ , श॒ची॒ऽप॒ते॒ , इंद्र॑ , विश्वा॑भिः , ऊ॒तिऽभिः॑ । माध्यं॑दिनस्य , सव॑नस्य , वृ॒त्र॒ऽह॒न् , अ॒ने॒द्य॒ , पिब॑ , सोम॑स्य , व॒ज्रि॒ऽवः॒ ॥
ए॒क॒राळ॒स्य भुव॑नस्य राजसि शचीपत॒ इंद्र॒ विश्वा॑भिरू॒तिभिः॑ । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
ए॒क॒ऽराट् , अ॒स्य , भुव॑नस्य , रा॒ज॒सि॒ , श॒ची॒ऽप॒ते॒ , इंद्र॑ , विश्वा॑भिः , ऊ॒तिऽभिः॑ । माध्यं॑दिनस्य , सव॑नस्य , वृ॒त्र॒ऽह॒न् , अ॒ने॒द्य॒ , पिब॑ , सोम॑स्य , व॒ज्रि॒ऽवः॒ ॥
स॒स्थावा॑ना यवयसि॒ त्वमेक॒ इच्छ॑चीपत॒ इंद्र॒ विश्वा॑भिरू॒तिभिः॑ । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
स॒ऽस्थावा॑ना , य॒व॒य॒सि॒ , त्वं , एकः॑ , इत् , श॒ची॒ऽप॒ते॒ , इंद्र॑ , विश्वा॑भिः , ऊ॒तिऽभिः॑ । माध्यं॑दिनस्य , सव॑नस्य , वृ॒त्र॒ऽह॒न् , अ॒ने॒द्य॒ , पिब॑ , सोम॑स्य , व॒ज्रि॒ऽवः॒ ॥
क्षेम॑स्य च प्र॒युज॑श्च॒ त्वमी॑शिषे शचीपत॒ इंद्र॒ विश्वा॑भिरू॒तिभिः॑ । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
क्षेम॑स्य , च॒ , प्र॒ऽयुजः॑ , च॒ , त्वं , ई॒शि॒षे॒ , श॒ची॒ऽप॒ते॒ , इंद्र॑ , विश्वा॑भिः , ऊ॒तिऽभिः॑ । माध्यं॑दिनस्य , सव॑नस्य , वृ॒त्र॒ऽह॒न् , अ॒ने॒द्य॒ , पिब॑ , सोम॑स्य , व॒ज्रि॒ऽवः॒ ॥
क्ष॒त्राय॑ त्व॒मव॑सि॒ न त्व॑माविथ शचीपत॒ इंद्र॒ विश्वा॑भिरू॒तिभिः॑ । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
क्ष॒त्राय॑ , त्वं॒ , अव॑सि , न , त्वं॒ , आ॒वि॒थ॒ , श॒ची॒ऽप॒ते॒ , इंद्र॑ , विश्वा॑भिः , ऊ॒तिऽभिः॑ । माध्यं॑दिनस्य , सव॑नस्य , वृ॒त्र॒ऽह॒न् , अ॒ने॒द्य॒ , पिब॑ , सोम॑स्य , व॒ज्रि॒ऽवः॒ ॥
श्या॒वाश्व॑स्य॒ रेभ॑त॒स्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रेः॒ कर्मा॑णि कृण्व॒तः । प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इंद्र॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥
श्या॒वऽअ॑श्वस्य , रेभ॑तः , तथा॑ , शृ॒णु॒ , यथा॑ , अशृ॑णोः , अत्रेः॑ , कर्मा॑णि , कृ॒ण्व॒तः । प्र , त्र॒सद॑स्युं , आ॒वि॒थ॒ , त्वं , एकः॑ , इत् , नृ॒ऽसह्ये॑ , इंद्र॑ , क्ष॒त्राणि॑ , व॒र्धय॑न् ॥
[३८] यज्ञस्येति दशर्चस्य सूक्तस्यात्रेयः श्यावाश्वइंद्राग्नीगायत्री |
य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु । इंद्रा॑ग्नी॒ तस्य॑ बोधतं ॥
य॒ज्ञस्य॑ , हि , स्थः , ऋ॒त्विजा॑ , सस्नी॒ इति॑ , वाजे॑षु , कर्म॑ऽसु । इंद्रा॑ग्नी॒ इति॑ , तस्य॑ , बो॒ध॒तं॒ ॥
तो॒शासा॑ रथ॒यावा॑ना वृत्र॒हणाप॑राजिता । इंद्रा॑ग्नी॒ तस्य॑ बोधतं ॥
तो॒षासा॑ , र॒थ॒ऽयावा॑ना , वृ॒त्र॒ऽहना॑ , अप॑राऽजिता । इंद्रा॑ग्नी॒ इति॑ , तस्य॑ , बो॒ध॒तं॒ ॥
इ॒दं वां॑ मदि॒रं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ । इंद्रा॑ग्नी॒ तस्य॑ बोधतं ॥
इ॒दं , वां॒ , म॒दि॒रं , मधु॑ , अधु॑क्षन् , अद्रि॑ऽभिः , नरः॑ । इंद्रा॑ग्नी॒ इति॑ , तस्य॑ , बो॒ध॒तं॒ ॥
जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ सु॒तं सोमं॑ सधस्तुती । इंद्रा॑ग्नी॒ आ ग॑तं नरा ॥
जु॒षेथां॑ , य॒ज्ञं , इ॒ष्टये॑ , सु॒तं , सोमं॑ , स॒ध॒स्तु॒ती॒ इति॑ सधऽस्तुती । इंद्रा॑ग्नी॒ इति॑ , आ , ग॒तं॒ , न॒रा॒ ॥
इ॒मा जु॑षेथां॒ सव॑ना॒ येभि॑र्ह॒व्यान्यू॒हथुः॑ । इंद्रा॑ग्नी॒ आ ग॑तं नरा ॥
इ॒मा , जु॒षे॒थां॒ , सव॑ना , येभिः॑ , ह॒व्यानि॑ , ऊ॒हथुः॑ । इंद्रा॑ग्नी॒ इति॑ , आ , ग॒तं॒ , न॒रा॒ ॥
इ॒मां गा॑य॒त्रव॑र्तनिं जु॒षेथां॑ सुष्टु॒तिं मम॑ । इंद्रा॑ग्नी॒ आ ग॑तं नरा ॥
इ॒मां , गा॒य॒त्रऽव॑र्तनिं , जु॒षेथां॑ , सु॒ऽस्तु॒तिं , मम॑ । इंद्रा॑ग्नी॒ इति॑ , आ , ग॒तं॒ , न॒रा॒ ॥
प्रा॒त॒र्याव॑भि॒रा ग॑तं दे॒वेभि॑र्जेन्यावसू । इंद्रा॑ग्नी॒ सोम॑पीतये ॥
प्रा॒त॒र्याव॑ऽभिः , आ , ग॒तं॒ , दे॒वेभिः॑ , जे॒न्या॒व॒सू॒ इति॑ । इंद्रा॑ग्नी॒ इति॑ , सोम॑ऽपीतये ॥
श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां शृणुतं॒ हवं॑ । इंद्रा॑ग्नी॒ सोम॑पीतये ॥
श्या॒वऽअ॑श्वस्य , सु॒न्व॒तः , अत्री॑णां , शृ॒णु॒तं॒ , हवं॑ । इंद्रा॑ग्नी॒ इति॑ , सोम॑ऽपीतये ॥
ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वंत॒ मेधि॑राः । इंद्रा॑ग्नी॒ सोम॑पीतये ॥
ए॒व , वां॒ , अ॒ह्वे॒ , ऊ॒तये॑ , यथा॑ , अहु॑वंत , मेधि॑राः । इंद्रा॑ग्नी॒ इति॑ , सोम॑ऽपीतये ॥
आहं सर॑स्वतीवतोरिंद्रा॒ग्न्योरवो॑ वृणे । याभ्यां॑ गाय॒त्रमृ॒च्यते॑ ॥
आ , अ॒हं , सर॑स्वतीऽवतोः , इं॒द्रा॒ग्न्योः , अवः॑ , वृ॒णे॒ । याभ्यां॑ , गा॒य॒त्रं , ऋ॒च्यते॑ ॥
[३९] अग्निमिति दशर्चस्य सूक्तस्य काण्वो नाभाकोग्निर्महापंक्तिः |
अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै॑ । अ॒ग्निर्दे॒वाँ अ॑नक्तु न उ॒भे हि वि॒दथे॑ क॒विरं॒तश्चर॑ति दू॒त्यं१॒॑ नभं॑तामन्य॒के स॑मे ॥
अ॒ग्निं , अ॒स्तो॒षि॒ , ऋ॒ग्मियं॑ , अ॒ग्निं , ई॒ळा , य॒जध्यै॑ । अ॒ग्निः , दे॒वान् , अ॒न॒क्तु॒ , नः॒ , उ॒भे इति॑ , हि , वि॒दथे॒ इति॑ , क॒विः , अं॒तरिति॑ , चर॑ति , दू॒त्यं॑ , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
न्य॑ग्ने॒ नव्य॑सा॒ वच॑स्त॒नूषु॒ शंस॑मेषां । न्यरा॑ती॒ ररा॑व्णां॒ विश्वा॑ अ॒र्यो अरा॑तीरि॒तो यु॑च्छंत्वा॒मुरो॒ नभं॑तामन्य॒के स॑मे ॥
नि , अ॒ग्ने॒ , नव्य॑सा , वचः॑ , त॒नूषु॑ , शंसं॑ , ए॒षां॒ । नि , अरा॑तीः , ररा॑व्णां , विश्वाः॑ , अ॒र्यः , अरा॑तीः , इ॒तः , यु॒च्छं॒तु॒ , आ॒ऽमुरः॑ , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
अग्ने॒ मन्मा॑नि॒ तुभ्यं॒ कं घृ॒तं न जु॑ह्व आ॒सनि॑ । स दे॒वेषु॒ प्र चि॑किद्धि॒ त्वं ह्यसि॑ पू॒र्व्यः शि॒वो दू॒तो वि॒वस्व॑तो॒ नभं॑तामन्य॒के स॑मे ॥
अग्ने॑ , मन्मा॑नि , तुभ्यं॑ , कं , घृ॒तं , न , जु॒ह्वे॒ , आ॒सनि॑ । सः , दे॒वेषु॑ , प्र , चि॒कि॒द्धि॒ , त्वं , हि , असि॑ , पू॒र्व्यः , शि॒वः , दू॒तः , वि॒वस्व॑तः , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
तत्त॑द॒ग्निर्वयो॑ दधे॒ यथा॑यथा कृप॒ण्यति॑ । ऊ॒र्जाहु॑ति॒र्वसू॑नां॒ शं च॒ योश्च॒ मयो॑ दधे॒ विश्व॑स्यै दे॒वहू॑त्यै॒ नभं॑तामन्य॒के स॑मे ॥
तत्ऽत॑त् , अ॒ग्निः , वयः॑ , द॒धे॒ , यथा॑ऽयथा , कृ॒प॒ण्यति॑ । ऊ॒र्जाऽआ॑हुतिः , वसू॑नां , शं , च॒ , योः , च॒ , मयः॑ , द॒धे॒ , विश्व॑स्यै , दे॒वऽहू॑त्यै॒ , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
स चि॑केत॒ सही॑यसा॒ग्निश्चि॒त्रेण॒ कर्म॑णा । स होता॒ शश्व॑तीनां॒ दक्षि॑णाभिर॒भीवृ॑त इ॒नोति॑ च प्रती॒व्यं१॒॑ नभं॑तामन्य॒के स॑मे ॥
सः , चि॒के॒त॒ , सही॑यसा , अ॒ग्निः , चि॒त्रेण॑ , कर्म॑णा । सः , होता॑ , शश्व॑तीनां , दक्षि॑णाभिः , अ॒भिऽवृ॑तः , इ॒नोति॑ , च॒ , प्र॒ती॒व्यं॑ , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
अ॒ग्निर्जा॒ता दे॒वाना॑म॒ग्निर्वे॑द॒ मर्ता॑नामपी॒च्यं॑ । अ॒ग्निः स द्र॑विणो॒दा अ॒ग्निर्द्वारा॒ व्यू॑र्णुते॒ स्वा॑हुतो॒ नवी॑यसा॒ नभं॑तामन्य॒के स॑मे ॥
अ॒ग्निः , जा॒ता , दे॒वानां॑ , अ॒ग्निः , वे॒द॒ , मर्ता॑नां , अ॒पी॒च्यं॑ । अ॒ग्निः , सः , द्र॒वि॒णः॒ऽदाः , अ॒ग्निः , द्वारा॑ , वि , ऊ॒र्णु॒ते॒ , सुऽआ॑हुतः , नवी॑यसा , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
अ॒ग्निर्दे॒वेषु॒ संव॑सुः॒ स वि॒क्षु य॒ज्ञिया॒स्वा । स मु॒दा काव्या॑ पु॒रु विश्वं॒ भूमे॑व पुष्यति दे॒वो दे॒वेषु॑ य॒ज्ञियो॒ नभं॑तामन्य॒के स॑मे ॥
अ॒ग्निः , दे॒वेषु॑ , संऽव॑सुः , सः , वि॒क्षु , य॒ज्ञिया॑सु , आ । सः , मु॒दा , काव्या॑ , पु॒रु , विश्वं॑ , भूम॑ऽइव , पु॒ष्य॒ति॒ , दे॒वः , दे॒वेषु॑ , य॒ज्ञियः॑ , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
यो अ॒ग्निः स॒प्तमा॑नुषः श्रि॒तो विश्वे॑षु॒ सिंधु॑षु । तमाग॑न्म त्रिप॒स्त्यं मं॑धा॒तुर्द॑स्यु॒हंत॑मम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं नभं॑तामन्य॒के स॑मे ॥
यः , अ॒ग्निः , स॒प्तऽमा॑नुषः , श्रि॒तः , विश्वे॑षु , सिंधु॑षु । तं , आ , अ॒ग॒न्म॒ , त्रि॒ऽप॒स्त्यं , मं॒धा॒तुः , द॒स्यु॒हन्ऽत॑मं , अ॒ग्निं , य॒ज्ञेषु॑ , पू॒र्व्यं , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः । स त्रीँरे॑काद॒शाँ इ॒ह यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतो॒ नभं॑तामन्य॒के स॑मे ॥
अ॒ग्निः , त्रीणि॑ , त्रि॒ऽधातू॑नि , आ , क्षे॒ति॒ , वि॒दथा॑ , क॒विः । सः , त्रीन् , ए॒का॒द॒शान् , इ॒ह , यक्ष॑त् , च॒ , पि॒प्रय॑त् , च॒ , नः॒ , विप्रः॑ , दू॒तः , परि॑ऽकृतः , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
त्वं नो॑ अग्न आ॒युषु॒ त्वं दे॒वेषु॑ पूर्व्य॒ वस्व॒ एक॑ इरज्यसि । त्वामापः॑ परि॒स्रुतः॒ परि॑ यंति॒ स्वसे॑तवो॒ नभं॑तामन्य॒के स॑मे ॥
त्वं , नः॒ , अ॒ग्ने॒ , आ॒युषु॑ , त्वं , दे॒वेषु॑ , पू॒र्व्य॒ , वस्वः॑ , एकः॑ , इ॒र॒ज्य॒सि॒ । त्वां , आपः॑ , प॒रि॒ऽस्रुतः॑ , परि॑ , यं॒ति॒ , स्वऽसे॑तवः , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
[४०] इंद्राग्नीइति द्वादशर्चस्य सूक्तस्य काण्वोनाभाक इंद्राग्नी महापंक्तिर्द्वितीयाशक्वर्यंत्यात्रिष्टुप् |
इंद्रा॑ग्नी यु॒वं सु नः॒ सहं॑ता॒ दास॑थो र॒यिं । येन॑ दृ॒ळ्हा स॒मत्स्वा वी॒ळु चि॑त्साहिषी॒मह्य॒ग्निर्वने॑व॒ वात॒ इन्नभं॑तामन्य॒के स॑मे ॥
इंद्रा॑ग्नी॒ इति॑ , यु॒वं , सु , नः॒ , सहं॑ता , दास॑थः , र॒यिं । येन॑ , दृ॒ळ्हा , स॒मत्ऽसु॑ , आ , वी॒ळु , चि॒त् , स॒हि॒षी॒महि॑ , अ॒ग्निः , वना॑ऽइव , वाते॑ , इत् , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
न॒हि वां॑ व॒व्रया॑म॒हेऽथेंद्र॒मिद्य॑जामहे॒ शवि॑ष्ठं नृ॒णां नरं॑ । स नः॑ क॒दा चि॒दर्व॑ता॒ गम॒दा वाज॑सातये॒ गम॒दा मे॒धसा॑तये॒ नभं॑तामन्य॒के स॑मे ॥
न॒हि , वां॒ , व॒व्रया॑महे , अथ॑ , इंद्रं॑ , इत् , य॒जा॒म॒हे॒ , शवि॑ष्ठं , नृ॒णां , नरं॑ । सः , नः॒ , क॒दा , चि॒त् , अर्व॑ता , गम॑त् , आ , वाज॑ऽसातये , गम॑त् , आ , मे॒धऽसा॑तये , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
ता हि मध्यं॒ भरा॑णामिंद्रा॒ग्नी अ॑धिक्षि॒तः । ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभं॑तामन्य॒के स॑मे ॥
ता , हि , मध्यं॑ , भरा॑णां , इं॒द्रा॒ग्नी इति॑ , अ॒धि॒ऽक्षि॒तः । तौ , ऊँ॒ इति॑ , क॒वि॒ऽत्व॒ना , क॒वी इति॑ , पृ॒च्छ्यमा॑ना , स॒खि॒ऽय॒ते , सं , धी॒तं , अ॒श्नु॒तं॒ , न॒रा॒ , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
अ॒भ्य॑र्च नभाक॒वदिं॑द्रा॒ग्नी य॒जसा॑ गि॒रा । ययो॒र्विश्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒ह्यु१॒॑पस्थे॑ बिभृ॒तो वसु॒ नभं॑तामन्य॒के स॑मे ॥
अ॒भि , अ॒र्च॒ , न॒भा॒क॒ऽवत् , इं॒द्रा॒ग्नी इति॑ , य॒जसा॑ , गि॒रा । ययोः॑ , विश्वं॑ , इ॒दं , जग॑त् , इ॒यं , द्यौः , पृ॒थि॒वी , म॒ही , उ॒पऽस्थे॑ , बि॒भृ॒तः , वसु॑ , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
प्र ब्रह्मा॑णि नभाक॒वदिं॑द्रा॒ग्निभ्या॑मिरज्यत । या स॒प्तबु॑ध्नमर्ण॒वं जि॒ह्मबा॑रमपोर्णु॒त इंद्र॒ ईशा॑न॒ ओज॑सा॒ नभं॑तामन्य॒के स॑मे ॥
प्र , ब्रह्मा॑णि , न॒भा॒क॒ऽवत् , इं॒द्रा॒ग्निऽभ्यां॑ , इ॒र॒ज्य॒त॒ । या , स॒प्तऽबु॑ध्नं , अ॒र्ण॒वं , जि॒ह्मऽबा॑रं , अ॒प॒ऽऊ॒र्णु॒तः , इंद्रः॑ , ईशा॑नः , ओज॑सा , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तमोजो॑ दा॒सस्य॑ दंभय । व॒यं तद॑स्य॒ संभृ॑तं॒ वस्विंद्रे॑ण॒ वि भ॑जेमहि॒ नभं॑तामन्य॒के स॑मे ॥
अपि॑ , वृ॒श्च॒ , पु॒रा॒ण॒ऽवत् , व्र॒ततेः॑ऽइव , गु॒ष्पि॒तं , ओजः॑ , दा॒सस्य॑ , दं॒भ॒य॒ । व॒यं , तत् , अ॒स्य॒ , संऽभृ॑तं , वसु॑ , इंद्रे॑ण , वि , भ॒जे॒म॒हि॒ , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
यदिं॑द्रा॒ग्नी जना॑ इ॒मे वि॒ह्वयं॑ते॒ तना॑ गि॒रा । अ॒स्माके॑भि॒र्नृभि॑र्व॒यं सा॑स॒ह्याम॑ पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तो नभं॑तामन्य॒के स॑मे ॥
यत् , इं॒द्रा॒ग्नी इति॑ , जनाः॑ , इ॒मे , वि॒ऽह्वयं॑ते , तना॑ , गि॒रा । अ॒स्माके॑भिः , नृऽभिः॑ , व॒यं , स॒स॒ह्याम॑ , पृ॒त॒न्य॒तः , व॒नु॒याम॑ , व॒नु॒ष्य॒तः , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
या नु श्वे॒ताव॒वो दि॒व उ॒च्चरा॑त॒ उप॒ द्युभिः॑ । इं॒द्रा॒ग्न्योरनु॑ व्र॒तमुहा॑ना यंति॒ सिंध॑वो॒ यांत्सीं॑ बं॒धादमुं॑चतां॒ नभं॑तामन्य॒के स॑मे ॥
या , नु , श्वे॒तौ , अ॒वः , दि॒वः , उ॒त्ऽचरा॑तः , उप॑ , द्युऽभिः॑ । इं॒द्रा॒ग्न्योः , अनु॑ , व्र॒तं , उहा॑नाः , यं॒ति॒ , सिंध॑वः , यान् , सीं॒ , बं॒धात् , अमुं॑चतां , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
पू॒र्वीष्ट॑ इं॒द्रोप॑मातयः पू॒र्वीरु॒त प्रश॑स्तयः॒ सूनो॑ हि॒न्वस्य॑ हरिवः । वस्वो॑ वी॒रस्या॒पृचो॒ या नु साधं॑त नो॒ धियो॒ नभं॑तामन्य॒के स॑मे ॥
पू॒र्वीः , ते॒ , इं॒द्र॒ , उप॑ऽमातयः , पू॒र्वीः , उ॒त , प्रऽश॑स्तयः , सूनो॒ इति॑ , हि॒न्वस्य॑ , ह॒रि॒ऽवः॒ । वस्वः॑ , वी॒रस्य॑ , आ॒ऽपृचः॑ , याः , नु , साधं॑त , नः॒ , धियः॑ , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
तं शि॑शीता सुवृ॒क्तिभि॑स्त्वे॒षं सत्वा॑नमृ॒ग्मियं॑ । उ॒तो नु चि॒द्य ओज॑सा॒ शुष्ण॑स्यां॒डानि॒ भेद॑ति॒ जेष॒त्स्व॑र्वतीर॒पो नभं॑तामन्य॒के स॑मे ॥
तं , शि॒शी॒त॒ , सु॒वृ॒क्तिऽभिः॑ , त्वे॒षं , सत्वा॑नं , ऋ॒ग्मियं॑ । उ॒तो इति॑ , नु , चि॒त् , यः , ओज॑सा , शुष्ण॑स्य , आं॒डानि॑ , भेद॑ति , जेष॑त् , स्वः॑ऽवतीः , अ॒पः , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
तं शि॑शीता स्वध्व॒रं स॒त्यं सत्वा॑नमृ॒त्वियं॑ । उ॒तो नु चि॒द्य ओह॑त आं॒डा शुष्ण॑स्य॒ भेद॒त्यजैः॒ स्व॑र्वतीर॒पो नभं॑तामन्य॒के स॑मे ॥
तं , शि॒शी॒त॒ , सु॒ऽअ॒ध्व॒रं , स॒त्यं , सत्वा॑नं , ऋ॒त्वियं॑ । उ॒तो इति॑ , नु , चि॒त् , यः , ओह॑ते , आं॒डा , शुष्ण॑स्य , भेद॑ति , अजैः॑ , स्वः॑ऽवतीः , अ॒पः , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
ए॒वेंद्रा॒ग्निभ्यां॑ पितृ॒वन्नवी॑यो मंधातृ॒वदं॑गिर॒स्वद॑वाचि । त्रि॒धातु॑ना॒ शर्म॑णा पातम॒स्मान्व॒यं स्या॑म॒ पत॑यो रयी॒णां ॥
ए॒व , इं॒द्रा॒ग्निऽभ्यां॑ , पि॒तृ॒ऽवत् , नवी॑यः , मं॒धा॒तृ॒ऽवत् , अं॒गि॒र॒स्वत् , अ॒वा॒चि॒ । त्रि॒ऽधातु॑ना , शर्म॑णा , पा॒तं॒ , अ॒स्मान् , व॒यं , स्या॒म॒ , पत॑यः , र॒यी॒णां ॥
[४१] अस्माऊष्विति दशर्चस्य सूक्तस्य काण्वोनाभाकोवरुणोमहापंक्तिः |
अ॒स्मा ऊ॒ षु प्रभू॑तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा॑ वि॒दुष्ट॑रेभ्यः । यो धी॒ता मानु॑षाणां प॒श्वो गा इ॑व॒ रक्ष॑ति॒ नभं॑तामन्य॒के स॑मे ॥
अ॒स्मै , ऊँ॒ इति॑ , सु , प्रऽभू॑तये , वरु॑णाय , म॒रुत्ऽभ्यः॑ , अर्च॑ , वि॒दुःऽत॑रेभ्यः । यः , धी॒ता , मानु॑षाणां , प॒श्वः , गाःऽइ॑व , रक्ष॑ति , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः । ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिंधू॑ना॒मुपो॑द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभं॑तामन्य॒के स॑मे ॥
तं , ऊँ॒ इति॑ , सु , स॒म॒ना , गि॒रा , पि॒तॄ॒णां , च॒ , मन्म॑ऽभिः । ना॒भा॒कस्य॑ , प्रश॑स्तिऽभिः , यः , सिंधू॑नां , उप॑ , उ॒त्ऽअ॒ये , स॒प्तऽस्व॑सा , सः , म॒ध्य॒मः , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
स क्षपः॒ परि॑ षस्वजे॒ न्यु१॒॑स्रो मा॒यया॑ दधे॒ स विश्वं॒ परि॑ दर्श॒तः । तस्य॒ वेनी॒रनु॑ व्र॒तमु॒षस्ति॒स्रो अ॑वर्धय॒न्नभं॑तामन्य॒के स॑मे ॥
सः , क्षपः॑ , परि॑ , स॒स्व॒जे॒ , नि , उ॒स्रः , मा॒यया॑ , द॒धे॒ , सः , विश्वं॑ , परि॑ , द॒र्श॒तः । तस्य॑ , वेनीः॑ , अनु॑ , व्र॒तं , उ॒षः , ति॒स्रः , अ॒व॒र्ध॒य॒न् , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
यः क॒कुभो॑ निधार॒यः पृ॑थि॒व्यामधि॑ दर्श॒तः । स माता॑ पू॒र्व्यं प॒दं तद्वरु॑णस्य॒ सप्त्यं॒ स हि गो॒पा इ॒वेर्यो॒ नभं॑तामन्य॒के स॑मे ॥
यः , क॒कुभः॑ , नि॒ऽधा॒र॒यः , पृ॒थि॒व्यां , अधि॑ , द॒र्श॒तः । सः , माता॑ , पू॒र्व्यं , प॒दं , तत् , वरु॑णस्य , सप्त्यं॑ , सः , हि , गो॒पाःऽइ॑व , इर्यः॑ , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा॑मपी॒च्या॒३॒॑ वेद॒ नामा॑नि॒ गुह्या॑ । स क॒विः काव्या॑ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभं॑तामन्य॒के स॑मे ॥
यः , ध॒र्ता , भुव॑नानां , यः , उ॒स्राणां॑ , अ॒पी॒च्या॑ , वेद॑ , नामा॑नि , गुह्या॑ । सः , क॒विः , काव्या॑ , पु॒रु , रू॒पं , द्यौःऽइ॑व , पु॒ष्य॒ति॒ , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
यस्मि॒न्विश्वा॑नि॒ काव्या॑ च॒क्रे नाभि॑रिव श्रि॒ता । त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे॑ यु॒जे अश्वाँ॑ अयुक्षत॒ नभं॑तामन्य॒के स॑मे ॥
यस्मि॑न् , विश्वा॑नि , काव्या॑ , च॒क्रे , नाभिः॑ऽइव , श्रि॒ता । त्रि॒तं , जू॒ती , स॒प॒र्य॒त॒ , व्र॒जे , गावः॑ , न , सं॒ऽयुजे॑ , यु॒जे , अश्वा॑न् , अ॒यु॒क्ष॒त॒ , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
य आ॒स्वत्क॑ आ॒शये॒ विश्वा॑ जा॒तान्ये॑षां । परि॒ धामा॑नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे॑ दे॒वा अनु॑ व्र॒तं नभं॑तामन्य॒के स॑मे ॥
यः , आ॒सु॒ , अत्कः॑ , आ॒ऽशये॑ , विश्वा॑ , जा॒तानि॑ , ए॒षां॒ । परि॑ , धामा॑नि , मर्मृ॑शत् , वरु॑णस्य , पु॒रः , गये॑ , विश्वे॑ , दे॒वाः , अनु॑ , व्र॒तं , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
स स॑मु॒द्रो अ॑पी॒च्य॑स्तु॒रो द्यामि॑व रोहति॒ नि यदा॑सु॒ यजु॑र्द॒धे । स मा॒या अ॒र्चिना॑ प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभं॑तामन्य॒के स॑मे ॥
सः , स॒मु॒द्रः , अ॒पी॒च्यः॑ , तु॒रः , द्यांऽइ॑व , रो॒ह॒ति॒ , नि , यत् , आ॒सु॒ , यजुः॑ , द॒धे । सः , मा॒याः , अ॒र्चिना॑ , प॒दा , अस्तृ॑णात् , नाकं॑ , आ , अ॒रु॒ह॒त् , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
यस्य॑ श्वे॒ता वि॑चक्ष॒णा ति॒स्रो भूमी॑रधिक्षि॒तः । त्रिरुत्त॑राणि प॒प्रतु॒र्वरु॑णस्य ध्रु॒वं सदः॒ स स॑प्ता॒नामि॑रज्यति॒ नभं॑तामन्य॒के स॑मे ॥
यस्य॑ , श्वे॒ता , वि॒ऽच॒क्ष॒णा , ति॒स्रः , भूमीः॑ , अ॒धि॒ऽक्षि॒तः । त्रिः , उत्ऽत॑राणि , प॒प्रतुः॑ , वरु॑णस्य , ध्रु॒वं , सदः॑ , सः , स॒प्ता॒नां , इ॒रज्य॒ति॒ , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
यः श्वे॒ताँ अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ अनु॑ व्र॒ता । स धाम॑ पू॒र्व्यं म॑मे॒ यः स्कं॒भेन॒ वि रोद॑सी अ॒जो न द्यामधा॑रय॒न्नभं॑तामन्य॒के स॑मे ॥
यः , श्वे॒तान् , अधि॑ऽनिर्निजः , च॒क्रे , कृ॒ष्णान् , अनु॑ , व्र॒ता । सः , धाम॑ , पू॒र्व्यं , म॒मे॒ , यः , स्कं॒भेन॑ , वि , रोद॑सी॒ इति॑ , अ॒जः , न , द्यां , अधा॑रयत् , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
[४२] अस्तभ्नादिति षडृचस्य सूक्तस्य काण्वोनाभाकऋषिरंत्यानांतिसृणामात्रेयार्चनानाऋषिराद्यानांतिसृणां वरुणोंत्यानांतिसृणामश्विनौ आद्यास्तिस्रस्त्रिष्टुभोंत्यास्तिस्रोनुष्टुभः |
अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे॑दा॒ अमि॑मीत वरि॒माणं॑ पृथि॒व्याः । आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥
अस्त॑भ्नात् , द्यां , असु॑रः , वि॒श्वऽवे॑दाः , अमि॑मीत , व॒रि॒माणं॑ , पृ॒थि॒व्याः । आ , अ॒सी॒द॒त् , विश्वा॑ , भुव॑नानि , सं॒ऽराट् , विश्वा॑ , इत् , तानि॑ , वरु॑णस्य , व्र॒तानि॑ ॥
ए॒वा वं॑दस्व॒ वरु॑णं बृ॒हंतं॑ नम॒स्या धीर॑म॒मृत॑स्य गो॒पां । स नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सत्पा॒तं नो॑ द्यावापृथिवी उ॒पस्थे॑ ॥
ए॒व , वं॒द॒स्व॒ , वरु॑णं , बृ॒हंतं॑ , न॒म॒स्य , धीरं॑ , अ॒मृत॑स्य , गो॒पां । सः , नः॒ , शर्म॑ , त्रि॒ऽवरू॑थं , वि , यं॒स॒त् , पा॒तं , नः॒ , द्या॒वा॒पृ॒थि॒वी॒ इति॑ , उ॒पऽस्थे॑ ॥
इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि । ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम ॥
इ॒मां , धियं॑ , शिक्ष॑माणस्य , दे॒व॒ , क्रतुं॑ , दक्षं॑ , व॒रु॒ण॒ , सं , शि॒शा॒धि॒ । यया॑ , अति॑ , विश्वा॑ , दुः॒ऽइ॒ता , तरे॑म , सु॒ऽतर्मा॑णं , अधि॑ , नावं॑ , रु॒हे॒म॒ ॥
आ वां॒ ग्रावा॑णो अश्विना धी॒भिर्विप्रा॑ अचुच्यवुः । नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥
आ , वां॒ , ग्रावा॑णः , अ॒श्वि॒ना॒ , धी॒भिः , विप्राः॑ , अ॒चु॒च्य॒वुः॒ । नास॑त्या , सोम॑ऽपीतये , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् । नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥
यथा॑ , वां॒ , अत्रिः॑ , अ॒श्वि॒ना॒ , गीः॒ऽभिः , विप्रः॑ , अजो॑हवीत् । नास॑त्या , सोम॑ऽपीतये , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वंत॒ मेधि॑राः । नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥
ए॒व , वां॒ , अ॒ह्वे॒ , ऊ॒तये॑ , यथा॑ , अहु॑वंत , मेधि॑राः । नास॑त्या , सोम॑ऽपीतये , नभं॑तां , अ॒न्य॒के , स॒मे॒ ॥
[४३] इमेविप्रस्येति त्रयस्त्रिंशदृचस्य सूक्तस्यांगिरसोविरूपोग्निर्गायत्री |
इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः । गिरः॒ स्तोमा॑स ईरते ॥
इ॒मे , विप्र॑स्य , वे॒धसः॑ , अ॒ग्नेः , अस्तृ॑तऽयज्वनः । गिरः॑ , स्तोमा॑सः , ई॒र॒ते॒ ॥
अस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे । अग्ने॒ जना॑मि सुष्टु॒तिं ॥
अस्मै॑ , ते॒ , प्र॒ति॒ऽहर्य॑ते , जात॑ऽवेदः , विऽच॑र्षणे । अग्ने॑ , जना॑मि , सु॒ऽस्तु॒तिं ॥
आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विषः॑ । द॒द्भिर्वना॑नि बप्सति ॥
आ॒रो॒काःऽइ॑व , घ॒ , इत् , अह॑ , ति॒ग्माः , अ॒ग्ने॒ , तव॑ , त्विषः॑ । द॒त्ऽभिः , वना॑नि , ब॒प्स॒ति॒ ॥
हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ । यतं॑ते॒ वृथ॑ग॒ग्नयः॑ ॥
हर॑यः , धू॒मऽके॑तवः , वात॑ऽजूताः , उप॑ , द्यवि॑ । यतं॑ते , वृथ॑क् , अ॒ग्नयः॑ ॥
ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धासः॒ सम॑दृक्षत । उ॒षसा॑मिव के॒तवः॑ ॥
ए॒ते , त्ये , वृथ॑क् , अ॒ग्नयः॑ , इ॒द्धासः॑ , सं , अ॒दृ॒क्ष॒त॒ । उ॒षसां॑ऽइव , के॒तवः॑ ॥
कृ॒ष्णा रजां॑सि पत्सु॒तः प्र॒याणे॑ जा॒तवे॑दसः । अ॒ग्निर्यद्रोध॑ति॒ क्षमि॑ ॥
कृ॒ष्णा , रजां॑सि , प॒त्सु॒तः , प्र॒ऽयाणे॑ , जा॒तऽवे॑दसः । अ॒ग्निः , यत् , रोध॑ति , क्षमि॑ ॥
धा॒सिं कृ॑ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा॑यति । पुन॒र्यंतरु॑णी॒रपि॑ ॥
धा॒सिं , कृ॒ण्वा॒नः , ओष॑धीः , बप्स॑त् , अ॒ग्निः , न , वा॒य॒ति॒ । पुनः॑ , यन् , तरु॑णीः , अपि॑ ॥
जि॒ह्वाभि॒रह॒ नन्न॑मद॒र्चिषा॑ जंजणा॒भव॑न् । अ॒ग्निर्वने॑षु रोचते ॥
जि॒ह्वाभिः॑ , अह॑ , नन्न॑मत् , अ॒र्चिषा॑ , जं॒ज॒णा॒ऽभव॑न् । अ॒ग्निः , वने॑षु , रो॒च॒ते॒ ॥
अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ संजा॑यसे॒ पुनः॑ ॥
अ॒प्ऽसु , अ॒ग्ने॒ , सधिः॑ , तव॑ , सः , ओष॑धीः , अनु॑ , रु॒ध्य॒से॒ । गर्भे॑ , सन् , जा॒य॒से॒ , पुन॒रिति॑ ॥
उद॑ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो॑चत॒ आहु॑तं । निंसा॑नं जु॒ह्वो॒३॒॑ मुखे॑ ॥
उत् , अ॒ग्ने॒ , तव॑ , तत् , घृ॒तात् , अ॒र्चिः , रो॒च॒ते॒ , आऽहु॑तं । निंसा॑नं , जु॒ह्वः॑ , मुखे॑ ॥
उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑ । स्तोमै॑र्विधेमा॒ग्नये॑ ॥
उ॒क्षऽअ॑न्नाय , व॒शाऽअ॑न्नाय , सोम॑ऽपृष्ठाय , वे॒धसे॑ । स्तोमैः॑ , वि॒धे॒म॒ , अ॒ग्नये॑ ॥
उ॒त त्वा॒ नम॑सा व॒यं होत॒र्वरे॑ण्यक्रतो । अग्ने॑ स॒मिद्भि॑रीमहे ॥
उ॒त , त्वा॒ , नम॑सा , व॒यं , होतः॑ , वरे॑ण्यक्रतो॒ इति॒ वरे॑ण्यऽक्रतो । अग्ने॑ , स॒मित्ऽभिः॑ , ई॒म॒हे॒ ॥
उ॒त त्वा॑ भृगु॒वच्छु॑चे मनु॒ष्वद॑ग्न आहुत । अं॒गि॒र॒स्वद्ध॑वामहे ॥
उ॒त , त्वा॒ , भृ॒गु॒ऽवत् , शु॒चे॒ , म॒नु॒ष्वत् , अ॒ग्ने॒ , आ॒ऽहु॒त॒ । अं॒गि॒र॒स्वत् , ह॒वा॒म॒हे॒ ॥
त्वं ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ संत्स॒ता । सखा॒ सख्या॑ समि॒ध्यसे॑ ॥
त्वं , हि , अ॒ग्ने॒ , अ॒ग्निना॑ , विप्रः॑ , विप्रे॑ण , सन् , स॒ता । सखा॑ , सख्या॑ , सं॒ऽइ॒ध्यसे॑ ॥
स त्वं विप्रा॑य दा॒शुषे॑ र॒यिं दे॑हि सह॒स्रिणं॑ । अग्ने॑ वी॒रव॑ती॒मिषं॑ ॥
सः , त्वं , विप्रा॑य , दा॒शुषे॑ , र॒यिं , दे॒हि॒ , स॒ह॒स्रिणं॑ । अग्ने॑ , वी॒रऽव॑तीं , इषं॑ ॥
अग्ने॒ भ्रातः॒ सह॑स्कृत॒ रोहि॑दश्व॒ शुचि॑व्रत । इ॒मं स्तोमं॑ जुषस्व मे ॥
अग्ने॑ , भ्रा॒त॒रिति॑ , सहः॑ऽकृत , रोहि॑त्ऽअश्व , शुचि॑ऽव्रत । इ॒मं , स्तोमं॑ , जु॒ष॒स्व॒ , मे॒ ॥
उ॒त त्वा॑ग्ने॒ मम॒ स्तुतो॑ वा॒श्राय॑ प्रति॒हर्य॑ते । गो॒ष्ठं गाव॑ इवाशत ॥
उ॒त , त्वा॒ , अ॒ग्ने॒ , मम॑ , स्तुतः॑ , वा॒श्राय॑ , प्र॒ति॒ऽहर्य॑ते । गो॒ऽस्थं , गावः॑ऽइव , आ॒श॒त॒ ॥
तुभ्यं॒ ता अं॑गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् । अग्ने॒ कामा॑य येमिरे ॥
तुभ्यं॑ , ताः , अं॒गि॒रः॒ऽत॒म॒ , विश्वाः॑ , सु॒ऽक्षि॒तयः॑ , पृथ॑क् । अग्ने॑ , कामा॑य , ये॒मि॒रे॒ ॥
अ॒ग्निं धी॒भिर्म॑नी॒षिणो॒ मेधि॑रासो विप॒श्चितः॑ । अ॒द्म॒सद्या॑य हिन्विरे ॥
अ॒ग्निं , धी॒भिः , म॒नी॒षिणः॑ , मेधि॑रासः , वि॒पः॒ऽचितः॑ । अ॒द्म॒ऽसद्या॑य , हि॒न्वि॒रे॒ ॥
तं त्वामज्मे॑षु वा॒जिनं॑ तन्वा॒ना अ॑ग्ने अध्व॒रं । वह्निं॒ होता॑रमीळते ॥
तं , त्वां , अज्मे॑षु , वा॒जिनं॑ , त॒न्वा॒नाः , अ॒ग्ने॒ , अ॒ध्व॒रं । वह्निं॑ , होता॑रं , ई॒ळ॒ते॒ ॥
पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः । स॒मत्सु॑ त्वा हवामहे ॥
पु॒रु॒ऽत्रा , हि , स॒ऽदृङ् , असि॑ , विशः॑ , विश्वाः॑ , अनु॑ , प्र॒ऽभुः । स॒मत्ऽसु॑ , त्वा॒ , ह॒वा॒म॒हे॒ ॥
तमी॑ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः । इ॒मं नः॑ शृणव॒द्धवं॑ ॥
तं , ई॒ळि॒ष्व॒ , यः , आऽहु॑तः , अ॒ग्निः , वि॒ऽभ्राज॑ते , घृ॒तैः । इ॒मं , नः॒ , शृ॒ण॒व॒त् , हवं॑ ॥
तं त्वा॑ व॒यं ह॑वामहे शृ॒ण्वंतं॑ जा॒तवे॑दसं । अग्ने॒ घ्नंत॒मप॒ द्विषः॑ ॥
तं , त्वा॒ , व॒यं , ह॒वा॒म॒हे॒ , शृ॒ण्वंतं॑ , जा॒तऽवे॑दसं । अग्ने॑ , घ्नंतं॑ , अप॑ , द्विषः॑ ॥
वि॒शां राजा॑न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मं । अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥
वि॒शां , राजा॑नं , अद्भु॑तं , अधि॑ऽअक्षं , धर्म॑णां , इ॒मं । अ॒ग्निं , ई॒ळे॒ , सः , ऊँ॒ इति॑ , श्र॒व॒त् ॥
अ॒ग्निं वि॒श्वायु॑वेपसं॒ मर्यं॒ न वा॒जिनं॑ हि॒तं । सप्तिं॒ न वा॑जयामसि ॥
अ॒ग्निं , वि॒श्वायु॑ऽवेपसं , मर्यं॑ , न , वा॒जिनं॑ , हि॒तं । सप्तिं॑ , न , वा॒ज॒या॒म॒सि॒ ॥
घ्नन्मृ॒ध्राण्यप॒ द्विषो॒ दह॒न्रक्षां॑सि वि॒श्वहा॑ । अग्ने॑ ति॒ग्मेन॑ दीदिहि ॥
घ्नन् , मृ॒ध्राणि॑ , अप॑ , द्विषः॑ , दह॑न् , रक्षां॑सि , वि॒श्वहा॑ । अग्ने॑ , ति॒ग्मेन॑ , दी॒दि॒हि॒ ॥
यं त्वा॒ जना॑स इंध॒ते म॑नु॒ष्वदं॑गिरस्तम । अग्ने॒ स बो॑धि मे॒ वचः॑ ॥
यं , त्वा॒ , जना॑सः , इं॒ध॒ते , म॒नु॒ष्वत् , अं॒गि॒रः॒ऽत॒म॒ । अग्ने॑ , सः , बो॒धि॒ , मे॒ , वचः॑ ॥
यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा॑ सहस्कृत । तं त्वा॑ गी॒र्भिर्ह॑वामहे ॥
यत् , अ॒ग्ने॒ , दि॒वि॒ऽजाः , असि॑ , अ॒प्सु॒ऽजाः , वा॒ , स॒हः॒ऽकृ॒त॒ । तं , त्वा॒ , गीः॒ऽभिः , ह॒वा॒म॒हे॒ ॥
तुभ्यं॒ घेत्ते जना॑ इ॒मे विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् । धा॒सिं हि॑न्वं॒त्यत्त॑वे ॥
तुभ्यं॑ , घ॒ , इत् , ते , जनाः॑ , इ॒मे , विश्वाः॑ , सु॒ऽक्षि॒तयः॑ , पृथ॑क् । धा॒सिं , हि॒न्वं॒ति॒ , अत्त॑वे ॥
ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा॑ नृ॒चक्ष॑सः । तरं॑तः स्याम दु॒र्गहा॑ ॥
ते , घ॒ , इत् , अ॒ग्ने॒ , सु॒ऽआ॒ध्यः , अहा॑ , विश्वा॑ , नृ॒ऽचक्ष॑सः । तरं॑तः , स्या॒म॒ , दुः॒ऽगहा॑ ॥
अ॒ग्निं मं॒द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषं । हृ॒द्भिर्मं॒द्रेभि॑रीमहे ॥
अ॒ग्निं , मं॒द्रं , पु॒रु॒ऽप्रि॒यं , शी॒रं , पा॒व॒कऽशो॑चिषं । हृ॒त्ऽभिः , मं॒द्रेभिः॑ , ई॒म॒हे॒ ॥
स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जंत्सूर्यो॒ न र॒श्मिभिः॑ । शर्धं॒तमां॑सि जिघ्नसे ॥
सः , त्वं , अ॒ग्ने॒ , वि॒भाऽव॑सुः , सृ॒जन् , सूर्यः॑ , न , र॒श्मिऽभिः॑ । शर्ध॑न् , तमां॑सि , जि॒घ्न॒से॒ ॥
तत्ते॑ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति । त्वद॑ग्ने॒ वार्यं॒ वसु॑ ॥
तत् , ते॒ , स॒ह॒स्वः॒ , ई॒म॒हे॒ , दा॒त्रं , यत् , न , उ॒प॒ऽदस्य॑ति । त्वत् , अ॒ग्ने॒ , वार्यं॑ , वसु॑ ॥
[४४] समिधाग्निमिति त्रिंशदृचस्य सूक्तस्यांगिरसो विरूपोग्निर्गायत्री |
स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिं । आस्मि॑न्ह॒व्या जु॑होतन ॥
सं॒ऽइधा॑ , अ॒ग्निं , दु॒व॒स्य॒त॒ , घृ॒तैः , बो॒ध॒य॒त॒ , अति॑थिं । आ , अ॒स्मि॒न् , ह॒व्या , जु॒हो॒त॒न॒ ॥
अग्ने॒ स्तोमं॑ जुषस्व मे॒ वर्ध॑स्वा॒नेन॒ मन्म॑ना । प्रति॑ सू॒क्तानि॑ हर्य नः ॥
अग्ने॑ , स्तोमं॑ , जु॒ष॒स्व॒ , मे॒ , वर्ध॑स्व , अ॒नेन॑ , मन्म॑ना । प्रति॑ , सु॒ऽउ॒क्तानि॑ , ह॒र्य॒ , नः॒ ॥
अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे । दे॒वाँ आ सा॑दयादि॒ह ॥
अ॒ग्निं , दू॒तं , पु॒रः , द॒धे॒ , ह॒व्य॒ऽवाहं॑ , उप॑ , ब्रु॒वे॒ । दे॒वान् , आ , सा॒द॒या॒त् , इ॒ह ॥
उत्ते॑ बृ॒हंतो॑ अ॒र्चयः॑ समिधा॒नस्य॑ दीदिवः । अग्ने॑ शु॒क्रास॑ ईरते ॥
उत् , ते॒ , बृ॒हंतः॑ , अ॒र्चयः॑ , सं॒ऽइ॒धा॒नस्य॑ , दी॒दि॒ऽवः॒ । अग्ने॑ , शु॒क्रासः॑ , ई॒र॒ते॒ ॥
उप॑ त्वा जु॒ह्वो॒३॒॑ मम॑ घृ॒ताची॑र्यंतु हर्यत । अग्ने॑ ह॒व्या जु॑षस्व नः ॥
उप॑ , त्वा॒ , जु॒ह्वः॑ , मम॑ , घृ॒ताचीः॑ , यं॒तु॒ , ह॒र्य॒त॒ । अग्ने॑ , ह॒व्या , जु॒ष॒स्व॒ , नः॒ ॥
मं॒द्रं होता॑रमृ॒त्विजं॑ चि॒त्रभा॑नुं वि॒भाव॑सुं । अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥
मं॒द्रं , होता॑रं , ऋ॒त्विजं॑ , चि॒त्रऽभा॑नुं , वि॒भाऽव॑सुं । अ॒ग्निं , ई॒ळे॒ , सः , ऊँ॒ इति॑ , श्र॒व॒त् ॥
प्र॒त्नं होता॑र॒मीड्यं॒ जुष्ट॑म॒ग्निं क॒विक्र॑तुं । अ॒ध्व॒राणा॑मभि॒श्रियं॑ ॥
प्र॒त्नं , होता॑रं , ईड्यं॑ , जुष्टं॑ , अ॒ग्निं , क॒विऽक्र॑तुं । अ॒ध्व॒राणां॑ , अ॒भि॒ऽश्रियं॑ ॥
जु॒षा॒णो अं॑गिरस्तमे॒मा ह॒व्यान्या॑नु॒षक् । अग्ने॑ य॒ज्ञं न॑य ऋतु॒था ॥
जु॒षा॒णः , अं॒गि॒रः॒ऽत॒म॒ , इ॒मा , ह॒व्यानि॑ , आ॒नु॒षक् । अग्ने॑ , य॒ज्ञं , न॒य॒ , ऋ॒तु॒ऽथा ॥
स॒मि॒धा॒न उ॑ संत्य॒ शुक्र॑शोच इ॒हा व॑ह । चि॒कि॒त्वांदैव्यं॒ जनं॑ ॥
सं॒ऽइ॒धा॒नः , ऊँ॒ इति॑ , सं॒त्य॒ , शुक्र॑ऽशोचे , इ॒ह , आ , व॒ह॒ । चि॒कि॒त्वान् , दैव्यं॑ , जनं॑ ॥
विप्रं॒ होता॑रम॒द्रुहं॑ धू॒मके॑तुं वि॒भाव॑सुं । य॒ज्ञानां॑ के॒तुमी॑महे ॥
विप्रं॑ , होता॑रं , अ॒द्रुहं॑ , धू॒मऽके॑तुं , वि॒भाऽव॑सुं । य॒ज्ञानां॑ , के॒तुं , ई॒म॒हे॒ ॥
अग्ने॒ नि पा॑हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः । भिं॒धि द्वेषः॑ सहस्कृत ॥
अग्ने॑ , नि , पा॒हि॒ , नः॒ , त्वं , प्रति॑ , स्म॒ , दे॒व॒ , रिष॑तः । भिं॒धि , द्वेषः॑ , स॒हः॒ऽकृ॒त॒ ॥
अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुंभा॑नस्त॒न्वं१॒॑ स्वां । क॒विर्विप्रे॑ण वावृधे ॥
अ॒ग्निः , प्र॒त्नेन॑ , मन्म॑ना , शुंभा॑नः , त॒न्वं॑ , स्वां । क॒विः , विप्रे॑ण , व॒वृ॒धे॒ ॥
ऊ॒र्जो नपा॑त॒मा हु॑वे॒ऽग्निं पा॑व॒कशो॑चिषं । अ॒स्मिन्य॒ज्ञे स्व॑ध्व॒रे ॥
ऊ॒र्जः , नपा॑तं , आ , हु॒वे॒ , अ॒ग्निं , पा॒व॒कऽशो॑चिषं । अ॒स्मिन् , य॒ज्ञे , सु॒ऽअ॒ध्व॒रे ॥
स नो॑ मित्रमह॒स्त्वमग्ने॑ शु॒क्रेण॑ शो॒चिषा॑ । दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥
सः , नः॒ , मि॒त्र॒ऽम॒हः॒ , त्वं , अग्ने॑ , शु॒क्रेण॑ , शो॒चिषा॑ । दे॒वैः , आ , स॒त्सि॒ , ब॒र्हिषि॑ ॥
यो अ॒ग्निं त॒न्वो॒३॒॑ दमे॑ दे॒वं मर्तः॑ सप॒र्यति॑ । तस्मा॒ इद्दी॑दय॒द्वसु॑ ॥
यः , अ॒ग्निं , त॒न्वः॑ , दमे॑ , दे॒वं , मर्तः॑ , स॒प॒र्यति॑ । तस्मै॑ , इत् , दी॒द॒य॒त् , वसु॑ ॥
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यं । अ॒पां रेतां॑सि जिन्वति ॥
अ॒ग्निः , मू॒र्धा , दि॒वः , क॒कुत् , पतिः॑ , पृ॒थि॒व्याः , अ॒यं । अ॒पां , रेतां॑सि , जि॒न्व॒ति॒ ॥
उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राजं॑त ईरते । तव॒ ज्योतीं॑ष्य॒र्चयः॑ ॥
उत् , अ॒ग्ने॒ , शुच॑यः , तव॑ , शु॒क्राः , भ्राजं॑तः , ई॒र॒ते॒ । तव॑ , ज्योतीं॑षि , अ॒र्चयः॑ ॥
ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या॑ग्ने॒ स्व॑र्पतिः । स्तो॒ता स्यां॒ तव॒ शर्म॑णि ॥
ईशि॑षे , वार्य॑स्य , हि , दा॒त्रस्य॑ , अ॒ग्ने॒ , स्वः॑ऽपतिः । स्तो॒ता , स्यां॒ , तव॑ , शर्म॑णि ॥
त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि॑न्वंति॒ चित्ति॑भिः । त्वां व॑र्धंतु नो॒ गिरः॑ ॥
त्वां , अ॒ग्ने॒ , म॒नी॒षिणः॑ , त्वां , हि॒न्वं॒ति॒ , चित्ति॑ऽभिः । त्वां , व॒र्धं॒तु॒ , नः॒ , गिरः॑ ॥
अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑तः॒ सदा॑ । अ॒ग्नेः स॒ख्यं वृ॑णीमहे ॥
अद॑ब्धस्य , स्व॒धाऽव॑तः , दू॒तस्य॑ , रेभ॑तः , सदा॑ । अ॒ग्नेः , स॒ख्यं , वृ॒णी॒म॒हे॒ ॥
अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः । शुची॑ रोचत॒ आहु॑तः ॥
अ॒ग्निः , शुचि॑व्रतऽतमः , शुचिः॑ , विप्रः॑ , शुचिः॑ , क॒विः । शुचिः॑ , रो॒च॒ते॒ , आऽहु॑तः ॥
उ॒त त्वा॑ धी॒तयो॒ मम॒ गिरो॑ वर्धंतु वि॒श्वहा॑ । अग्ने॑ स॒ख्यस्य॑ बोधि नः ॥
उ॒त , त्वा॒ , धी॒तयः॑ , मम॑ , गिरः॑ , वृ॒धं॒तु॒ , वि॒स्वहा॑ । अग्ने॑ , स॒ख्यस्य॑ , बो॒धि॒ , नः॒ ॥
यद॑ग्ने॒ स्याम॒हं त्वं त्वं वा॑ घा॒ स्या अ॒हं । स्युष्टे॑ स॒त्या इ॒हाशिषः॑ ॥
यत् , अ॒ग्ने॒ , स्यां॒ , अ॒हं , त्वं , त्वं , वा॒ , घ॒ , स्याः , अ॒हं । स्युः , ते॒ , स॒त्याः , इ॒ह , आ॒ऽशिषः॑ ॥
वसु॒र्वसु॑पति॒र्हि क॒मस्य॑ग्ने वि॒भाव॑सुः । स्याम॑ ते सुम॒तावपि॑ ॥
वसुः॑ , वसु॑ऽपतिः , हि , कं॒ , असि॑ , अ॒ग्ने॒ , वि॒भाऽव॑सुः । स्याम॑ , ते॒ , सु॒ऽम॒तौ , अपि॑ ॥
अग्ने॑ धृ॒तव्र॑ताय ते समु॒द्राये॑व॒ सिंध॑वः । गिरो॑ वा॒श्रास॑ ईरते ॥
अग्ने॑ , धृ॒तऽव्र॑ताय , ते॒ , स॒मु॒द्राय॑ऽइव , सिंध॑वः । गिरः॑ , वा॒श्रासः॑ , ई॒र॒ते॒ ॥
युवा॑नं वि॒श्पतिं॑ क॒विं वि॒श्वादं॑ पुरु॒वेप॑सं । अ॒ग्निं शुं॑भामि॒ मन्म॑भिः ॥
युवा॑नं , वि॒श्पतिं॑ , क॒विं , वि॒श्व॒ऽअदं॑ , पु॒रु॒ऽवेप॑सं । अ॒ग्निं , शुं॒भा॒मि॒ , मन्म॑ऽभिः ॥
य॒ज्ञानां॑ र॒थ्ये॑ व॒यं ति॒ग्मजं॑भाय वी॒ळवे॑ । स्तोमै॑रिषेमा॒ग्नये॑ ॥
य॒ज्ञानां॑ , र॒थ्ये॑ , व॒यं , ति॒ग्मऽजं॑भाय , वी॒ळवे॑ । स्तोमैः॑ , इ॒षे॒म॒ , अ॒ग्नये॑ ॥
अ॒यम॑ग्ने॒ त्वे अपि॑ जरि॒ता भू॑तु संत्य । तस्मै॑ पावक मृळय ॥
अ॒यं , अ॒ग्ने॒ , त्वे इति॑ , अपि॑ , ज॒रि॒ता , भू॒तु॒ , सं॒त्य॒ । तस्मै॑ , पा॒व॒क॒ , मृ॒ळ॒य॒ ॥
धीरो॒ ह्यस्य॑द्म॒सद्विप्रो॒ न जागृ॑विः॒ सदा॑ । अग्ने॑ दी॒दय॑सि॒ द्यवि॑ ॥
धीरः॑ , हि , असि॑ , अ॒द्म॒ऽसत् , विप्रः॑ , न , जागृ॑विः , सदा॑ । अग्ने॑ , दी॒दय॑सि , द्यवि॑ ॥
पु॒राग्ने॑ दुरि॒तेभ्यः॑ पु॒रा मृ॒ध्रेभ्यः॑ कवे । प्र ण॒ आयु॑र्वसो तिर ॥
पु॒रा , अ॒ग्ने॒ , दुः॒ऽइ॒तेभ्यः॑ , पु॒रा , मृ॒ध्रेभ्यः॑ , क॒वे॒ । प्र , नः॒ , आयुः॑ , व॒सो॒ इति॑ , ति॒र॒ ॥
[४५] आघायइति द्विचत्वारिंशदृचस्य सूक्तस्य काण्वस्त्रिशोकइंद्र आद्याया अग्नींद्रागायत्री |
आ घा॒ ये अ॒ग्निमिं॑ध॒ते स्तृ॒णंति॑ ब॒र्हिरा॑नु॒षक् । येषा॒मिंद्रो॒ युवा॒ सखा॑ ॥
आ , घ॒ , ये , अ॒ग्निं , इं॒ध॒ते , स्तृ॒णंति॑ , ब॒र्हिः , आ॒नु॒ष॒क् । येषां॑ , इंद्रः॑ , युवा॑ , सखा॑ ॥
बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑ । येषा॒मिंद्रो॒ युवा॒ सखा॑ ॥
बृ॒हन् , इत् , इ॒ध्मः , ए॒षां॒ , भूरि॑ , श॒स्तं , पृ॒थुः , स्वरुः॑ । येषां॑ , इंद्रः॑ , युवा॑ , सखा॑ ॥
अयु॑द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज॑ति॒ सत्व॑भिः । येषा॒मिंद्रो॒ युवा॒ सखा॑ ॥
अयु॑द्धः , इत् , यु॒धा , वृतं॑ , शूरः॑ , आ , अ॒ज॒ति॒ , सत्व॑ऽभिः । येषां॑ , इंद्रः॑ , युवा॑ , सखा॑ ॥
आ बुं॒दं वृ॑त्र॒हा द॑दे जा॒तः पृ॑च्छ॒द्वि मा॒तरं॑ । क उ॒ग्राः के ह॑ शृण्विरे ॥
आ , बुं॒दं , वृ॒त्र॒ऽहा , द॒दे॒ , जा॒तः , पृ॒च्छ॒त् , वि , मा॒तरं॑ । के , उ॒ग्राः , के , ह॒ , शृ॒ण्वि॒रे॒ ॥
प्रति॑ त्वा शव॒सी व॑दद्गि॒रावप्सो॒ न यो॑धिषत् । यस्ते॑ शत्रु॒त्वमा॑च॒के ॥
प्रति॑ , त्वा॒ , श॒व॒सी , व॒द॒त् , गि॒रौ , अप्सः॑ , न , यो॒धि॒ष॒त् । यः , ते॒ , श॒त्रु॒ऽत्वं , आ॒ऽच॒के ॥
उ॒त त्वं म॑घवंछृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् । यद्वी॒ळया॑सि वी॒ळु तत् ॥
उ॒त , त्वं , म॒घ॒ऽव॒न् , शृ॒णु॒ , यः , ते॒ , वष्टि॑ , व॒वक्षि॑ , तत् । यत् , वी॒ळया॑सि , वी॒ळु , तत् ॥
यदा॒जिं यात्या॑जि॒कृदिंद्रः॑ स्वश्व॒युरुप॑ । र॒थीत॑मो र॒थिनां॑ ॥
यत् , आ॒जिं , याति॑ , आ॒जि॒ऽकृत् , इंद्रः॑ , स्व॒श्व॒ऽयुः , उप॑ । र॒थिऽत॑मः , र॒थीनां॑ ॥
वि षु विश्वा॑ अभि॒युजो॒ वज्रि॒न्विष्व॒ग्यथा॑ वृह । भवा॑ नः सु॒श्रव॑स्तमः ॥
वि , सु , विश्वाः॑ , अ॒भि॒ऽयुजः॑ , वज्रि॑न् , विष्व॑क् , यथा॑ , वृ॒ह॒ । भव॑ , नः॒ , सु॒श्रवः॑ऽतमः ॥
अ॒स्माकं॒ सु रथं॑ पु॒र इंद्रः॑ कृणोतु सा॒तये॑ । न यं धूर्वं॑ति धू॒र्तयः॑ ॥
अ॒स्माकं॑ , सु , रथं॑ , पु॒रः , इंद्रः॑ , कृ॒णो॒तु॒ , सा॒तये॑ । न , यं , धूर्वं॑ति , धू॒र्तयः॑ ॥
वृ॒ज्याम॑ ते॒ परि॒ द्विषोऽरं॑ ते शक्र दा॒वने॑ । ग॒मेमेदिं॑द्र॒ गोम॑तः ॥
वृ॒ज्याम॑ , ते॒ , परि॑ , द्विषः॑ , अरं॑ , ते॒ , श॒क्र॒ , दा॒वने॑ । ग॒मेम॑ , इत् , इं॒द्र॒ , गोऽम॑तः ॥
शनै॑श्चि॒द्यंतो॑ अद्रि॒वोऽश्वा॑वंतः शत॒ग्विनः॑ । वि॒वक्ष॑णा अने॒हसः॑ ॥
शनैः॑ , चि॒त् , यंतः॑ , अ॒द्रि॒ऽवः॒ , अश्व॑ऽवंतः , श॒त॒ऽग्विनः॑ । वि॒वक्ष॑णाः , अ॒ने॒हसः॑ ॥
ऊ॒र्ध्वा हि ते॑ दि॒वेदि॑वे स॒हस्रा॑ सू॒नृता॑ श॒ता । ज॒रि॒तृभ्यो॑ वि॒मंह॑ते ॥
ऊ॒र्ध्वा , हि , ते॒ , दि॒वेऽदि॑वे , स॒हस्रा॑ , सू॒नृता॑ , श॒ता । ज॒रि॒तृऽभ्यः॑ , वि॒ऽमंह॑ते ॥
वि॒द्मा हि त्वा॑ धनंज॒यमिंद्र॑ दृ॒ळ्हा चि॑दारु॒जं । आ॒ऽदा॒रिणं॒ यथा॒ गयं॑ ॥
वि॒द्म , हि , त्वा॒ , ध॒नं॒ऽज॒यं , इंद्र॑ , दृ॒ळ्हा , चि॒त् , आ॒ऽरु॒जं । आ॒दा॒रिणं॑ , यथा॑ , गयं॑ ॥
क॒कु॒हं चि॑त्त्वा कवे॒ मंदं॑तु धृष्ण॒विंद॑वः । आ त्वा॑ प॒णिं यदीम॑हे ॥
क॒कु॒हं , चि॒त् , त्वा॒ , क॒वे॒ , मंदं॑तु , धृ॒ष्णो॒ इति॑ , इंद॑वः । आ , त्वा॒ , प॒णिं , यत् , ईम॑हे ॥
यस्ते॑ रे॒वाँ अदा॑शुरिः प्रम॒मर्ष॑ म॒घत्त॑ये । तस्य॑ नो॒ वेद॒ आ भ॑र ॥
यः , ते॒ , रे॒वान् , अदा॑शुरिः , प्र॒ऽम॒मर्ष॑ , म॒घत्त॑ये । तस्य॑ , नः॒ , वेदः॑ , आ , भ॒र॒ ॥
इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा॑य इंद्र सो॒मिनः॑ । पु॒ष्टावं॑तो॒ यथा॑ प॒शुं ॥
इ॒मे , ऊँ॒ इति॑ , त्वा॒ , वि , च॒क्ष॒ते॒ , सखा॑यः , इं॒द्र॒ , सो॒मिनः॑ । पु॒ष्टऽवं॑तः , यथा॑ , प॒शुं ॥
उ॒त त्वाब॑धिरं व॒यं श्रुत्क॑र्णं॒ संत॑मू॒तये॑ । दू॒रादि॒ह ह॑वामहे ॥
उ॒त , त्वा॒ , अब॑धिरं , व॒यं , श्रुत्ऽक॑र्णं , संतं॑ , ऊ॒तये॑ । दू॒रात् , इ॒ह , ह॒वा॒म॒हे॒ ॥
यच्छु॑श्रू॒या इ॒मं हवं॑ दु॒र्मर्षं॑ चक्रिया उ॒त । भवे॑रा॒पिर्नो॒ अंत॑मः ॥
यत् , शु॒श्रू॒याः , इ॒मं , हवं॑ , दुः॒ऽमर्षं॑ , च॒क्रि॒याः॒ , उ॒त । भवेः॑ , आ॒पिः , नः॒ , अंत॑मः ॥
यच्चि॒द्धि ते॒ अपि॒ व्यथि॑र्जग॒न्वांसो॒ अम॑न्महि । गो॒दा इदिं॑द्र बोधि नः ॥
यत् , चि॒त् , हि , ते॒ , अपि॑ , व्यथिः॑ , ज॒ग॒न्वांसः॑ , अम॑न्महि । गो॒ऽदाः , इत् , इं॒द्र॒ , बो॒धि॒ , नः॒ ॥
आ त्वा॑ रं॒भं न जिव्र॑यो रर॒भ्मा श॑वसस्पते । उ॒श्मसि॑ त्वा स॒धस्थ॒ आ ॥
आ , त्वा॒ , रं॒भं , न , जिव्र॑यः , र॒र॒भ्म , श॒व॒सः॒ , प॒ते॒ । उ॒श्मसि॑ , त्वा॒ , स॒धऽस्थे॑ , आ ॥
स्तो॒त्रमिंद्रा॑य गायत पुरुनृ॒म्णाय॒ सत्व॑ने । नकि॒र्यं वृ॑ण्व॒ते यु॒धि ॥
स्तो॒त्रं , इंद्रा॑य , गा॒य॒त॒ , पु॒रु॒ऽनृ॒म्णाय॑ , सत्व॑ने । नकिः॑ , यं , वृ॒ण्व॒ते , यु॒धि ॥
अ॒भि त्वा॑ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये॑ । तृं॒पा व्य॑श्नुही॒ मदं॑ ॥
अ॒भि , त्वा॒ , वृ॒ष॒भ॒ , सु॒ते , सु॒तं , सृ॒जा॒मि॒ , पी॒तये॑ । तृं॒प , वि , अ॒श्नु॒हि॒ , मदं॑ ॥
मा त्वा॑ मू॒रा अ॑वि॒ष्यवो॒ मोप॒हस्वा॑न॒ आ द॑भन् । माकीं॑ ब्रह्म॒द्विषो॑ वनः ॥
मा , त्वा॒ , मू॒राः , अ॒वि॒ष्यवः॑ , मा , उ॒प॒ऽहस्वा॑नः , आ , द॒भ॒न् । माकीं॑ , ब्र॒ह्म॒ऽद्विषः॑ , व॒नः॒ ॥
इ॒ह त्वा॒ गोप॑रीणसा म॒हे मं॑दंतु॒ राध॑से । सरो॑ गौ॒रो यथा॑ पिब ॥
इ॒ह , त्वा॒ , गोऽप॑रीणसा , म॒हे , मं॒दं॒तु॒ , राध॑से । सरः॑ , गौ॒रः , यथा॑ , पि॒ब॒ ॥
या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ नवा॑ च चुच्यु॒वे । ता सं॒सत्सु॒ प्र वो॑चत ॥
या , वृ॒त्र॒ऽहा , प॒रा॒ऽवति॑ , सना॑ , नवा॑ , च॒ , चु॒च्यु॒वे । ता , सं॒सत्ऽसु॑ , प्र , वो॒च॒त॒ ॥
अपि॑बत्क॒द्रुवः॑ सु॒तमिंद्रः॑ स॒हस्र॑बाह्वे । अत्रा॑देदिष्ट॒ पौंस्यं॑ ॥
अपि॑बत् , क॒द्रुवः॑ , सु॒तं , इंद्रः॑ , स॒हस्र॑ऽबाह्वे । अत्र॑ , अ॒दे॒दि॒ष्ट॒ , पौंस्यं॑ ॥
स॒त्यं तत्तु॒र्वशे॒ यदौ॒ विदा॑नो अह्नवा॒य्यं । व्या॑नट् तु॒र्वणे॒ शमि॑ ॥
स॒त्यं , तत् , तु॒र्वशे॑ , यदौ॑ , विदा॑नः , अ॒ह्न॒वा॒य्यं । वि , आ॒न॒ट् , तु॒र्वणे॑ , शमि॑ ॥
त॒रणिं॑ वो॒ जना॑नां त्र॒दं वाज॑स्य॒ गोम॑तः । स॒मा॒नमु॒ प्र शं॑सिषं ॥
त॒रणिं॑ , वः॒ , जना॑नां , त्र॒दं , वाज॑स्य , गोऽम॑तः । स॒मा॒नं , ऊँ॒ इति॑ , प्र , शं॒सि॒षं॒ ॥
ऋ॒भु॒क्षणं॒ न वर्त॑व उ॒क्थेषु॑ तुग्र्या॒वृधं॑ । इंद्रं॒ सोमे॒ सचा॑ सु॒ते ॥
ऋ॒भु॒क्षणं॑ , न , वर्त॑वे , उ॒क्थेषु॑ , तु॒ग्र्य॒ऽवृधं॑ । इंद्रं॑ , सोमे॑ , सचा॑ , सु॒ते ॥
यः कृं॒तदिद्वि यो॒न्यं त्रि॒शोका॑य गि॒रिं पृ॒थुं । गोभ्यो॑ गा॒तुं निरे॑तवे ॥
यः , कृं॒तत् , इत् , वि , यो॒न्यं , त्रि॒ऽशोका॑य , गि॒रिं , पृ॒थुं । गोऽभ्यः॑ , गा॒तुं , निःऽए॑तवे ॥
यद्द॑धि॒षे म॑न॒स्यसि॑ मंदा॒नः प्रेदिय॑क्षसि । मा तत्क॑रिंद्र मृ॒ळय॑ ॥
यत् , द॒धि॒षे , म॒न॒स्यसि॑ , मं॒दा॒नः , प्र , इत् , इय॑क्षसि । मा , तत् , कः॒ , इं॒द्र॒ , मृ॒ळय॑ ॥
द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं शृ॒ण्वे अधि॒ क्षमि॑ । जिगा॑त्विंद्र ते॒ मनः॑ ॥
द॒भ्रं , चि॒त् , हि , त्वाऽव॑तः , कृ॒तं , शृ॒ण्वे , अधि॑ , क्षमि॑ । जिगा॑तु , इं॒द्र॒ , ते॒ , मनः॑ ॥
तवेदु॒ ताः सु॑की॒र्तयोऽस॑न्नु॒त प्रश॑स्तयः । यदिं॑द्र मृ॒ळया॑सि नः ॥
तव॑ , इत् , ऊँ॒ इति॑ , ताः , सु॒ऽकी॒र्तयः॑ , अस॑न् , उ॒त , प्रऽश॑स्तयः । यत् , इं॒द्र॒ , मृ॒ळया॑सि , नः॒ ॥
मा न॒ एक॑स्मि॒न्नाग॑सि॒ मा द्वयो॑रु॒त त्रि॒षु । वधी॒र्मा शू॑र॒ भूरि॑षु ॥
मा , नः॒ , एक॑स्मिन् , आग॑सि , मा , द्वयोः॑ , उ॒त , त्रि॒षु । वधीः॑ , मा , शू॒र॒ , भूरि॑षु ॥
बि॒भया॒ हि त्वाव॑त उ॒ग्राद॑भिप्रभं॒गिणः॑ । द॒स्माद॒हमृ॑ती॒षहः॑ ॥
बि॒भय॑ , हि , त्वाऽव॑तः , उ॒ग्रात् , अ॒भि॒ऽप्र॒भं॒गिनः॑ । द॒स्मात् , अ॒हं , ऋ॒ति॒ऽसहः॑ ॥
मा सख्युः॒ शून॒मा वि॑दे॒ मा पु॒त्रस्य॑ प्रभूवसो । आ॒वृत्व॑द्भूतु ते॒ मनः॑ ॥
मा , सख्युः॑ , शूनं॑ , आ , वि॒दे॒ , मा , पु॒त्रस्य॑ , प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । आ॒ऽवृत्व॑त् , भू॒तु॒ , ते॒ , मनः॑ ॥
को नु म॑र्या॒ अमि॑थितः॒ सखा॒ सखा॑यमब्रवीत् । ज॒हा को अ॒स्मदी॑षते ॥
कः , नु , म॒र्याः॒ , अमि॑थितः , सखा॑ , सखा॑यं , अ॒ब्र॒वी॒त् । ज॒हा , कः , अ॒स्मत् , ई॒ष॒ते॒ ॥
ए॒वारे॑ वृषभा सु॒तेऽसि॑न्व॒न्भूर्या॑वयः । श्व॒घ्नीव॑ नि॒वता॒ चर॑न् ॥
ए॒वारे॑ , वृ॒ष॒भ॒ , सु॒ते , असि॑न्वन् , भूरि॑ , आ॒व॒यः॒ । श्व॒घ्नीऽइ॑व , नि॒ऽवता॑ , चर॑न् ॥
आ त॑ ए॒ता व॑चो॒युजा॒ हरी॑ गृभ्णे सु॒मद्र॑था । यदीं॑ ब्र॒ह्मभ्य॒ इद्ददः॑ ॥
आ , ते॒ , ए॒ता , व॒चः॒ऽयुजा॑ , हरी॒ इति॑ , गृ॒भ्णे॒ , स॒मत्ऽर॑था । यत् , ईं॒ , ब्र॒ह्मऽभ्यः॑ , इत् , ददः॑ ॥
भिं॒धि विश्वा॒ अप॒ द्विषः॒ परि॒ बाधो॑ ज॒ही मृधः॑ । वसु॑ स्पा॒र्हं तदा भ॑र ॥
भिं॒धि , विश्वाः॑ , अप॑ , द्विषः॑ , परि॑ , बाधः॑ , ज॒हि , मृधः॑ । वसु॑ , स्पा॒र्हं , तत् , आ , भ॒र॒ ॥
यद्वी॒ळाविं॑द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतं । वसु॑ स्पा॒र्हं तदा भ॑र ॥
यत् , वी॒ळौ , इं॒द्र॒ , यत् , स्थि॒रे , यत् , पर्शा॑ने , परा॑ऽभृतं । वसु॑ , स्पा॒र्हं , तत् , आ , भ॒र॒ ॥
यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति । वसु॑ स्पा॒र्हं तदा भ॑र ॥
यस्य॑ , ते॒ , वि॒श्वऽमा॑नुषः , भूरेः॑ , द॒त्तस्य॑ , वेद॑ति । वसु॑ , स्पा॒र्हं , तत् , आ , भ॒र॒ ॥
[४६] त्वावतइति त्रयस्त्रिंशदृचस्य सूक्तस्याश्व्योवशऋषिः पृथुश्रवादेवता आद्यानांविंशत्यृचामिंद्रोदेवता आनोवायवित्यादिचतसृणां शतंदासइत्यस्याश्चवायुर्देवता आद्यापादनिचृत् द्वितीयादितिस्रोगायत्र्यः पंचम्याद्याः क्रमेण ककुब्गायत्री बृहत्यनुष्टुप् सतोबृहती गायत्री बृहती विपरीतद्विपदागायत्री बृहती पिपीलिकमध्य ककुम्न्यं कुशिरा विराड्जगत्युपरिष्टाद्बृहतबृहती विषमपदाबृहती पंक्तिसंस्तारपंक्ति गायत्री पंक्ति बृहती सतोबृहती बृहती सतोबृहती गायत्री द्विपदविराड् उष्णिक् पंक्ति गायत्र्यः | (पृथुश्रवाः कानीतोराजातस्यदानस्तुतिः) |
त्वाव॑तः पुरूवसो व॒यमिं॑द्र प्रणेतः । स्मसि॑ स्थातर्हरीणां ॥
त्वाऽव॑तः , पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो , व॒यं , इं॒द्र॒ , प्र॒ने॒त॒रिति॑ प्रऽनेतः । स्मसि॑ , स्था॒तः॒ , ह॒री॒णां॒ ॥
त्वां हि स॒त्यम॑द्रिवो वि॒द्म दा॒तार॑मि॒षां । वि॒द्म दा॒तारं॑ रयी॒णां ॥
त्वां , हि , स॒त्यं , अ॒द्रि॒ऽवः॒ , वि॒द्म , दा॒तारं॑ , इ॒षां । वि॒द्म , दा॒तारं॑ , र॒यी॒णां ॥
आ यस्य॑ ते महि॒मानं॒ शत॑मूते॒ शत॑क्रतो । गी॒र्भिर्गृ॒णंति॑ का॒रवः॑ ॥
आ , यस्य॑ , ते॒ , म॒हि॒मानं॑ , शतं॑ऽऊते , शत॑क्रतो॒ इति॒ शत॑ऽक्रतो । गीः॒ऽभिः , गृ॒णंति॑ , का॒रवः॑ ॥
सु॒नी॒थो घा॒ स मर्त्यो॒ यं म॒रुतो॒ यम॑र्य॒मा । मि॒त्रः पांत्य॒द्रुहः॑ ॥
सु॒ऽनी॒थः , घ॒ , सः , मर्त्यः॑ , यं , म॒रुतः॑ , यं , अ॒र्य॒मा । मि॒त्रः , पांति॑ , अ॒द्रुहः॑ ॥
दधा॑नो॒ गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू॑त एधते । सदा॑ रा॒या पु॑रु॒स्पृहा॑ ॥
दधा॑नः , गोऽम॑त् , अश्व॑ऽवत् , सु॒ऽवीर्यं॑ , आ॒दि॒त्यऽजू॑तः , ए॒ध॒ते॒ । सदा॑ , रा॒या , पु॒रु॒ऽस्पृहा॑ ॥
तमिंद्रं॒ दान॑मीमहे शवसा॒नमभी॑र्वं । ईशा॑नं रा॒य ई॑महे ॥
तं , इंद्रं॑ , दानं॑ , ई॒म॒हे , श॒व॒सा॒नं , अभी॑र्वं । ईशा॑नं , रा॒यः , ई॒म॒हे॒ ॥
तस्मि॒न्हि संत्यू॒तयो॒ विश्वा॒ अभी॑रवः॒ सचा॑ । तमा व॑हंतु॒ सप्त॑यः पुरू॒वसुं॒ मदा॑य॒ हर॑यः सु॒तं ॥
तस्मि॑न् , हि , संति॑ , ऊ॒तयः॑ , विश्वाः॑ , अभी॑रवः , सचा॑ । तं , आ , व॒हं॒तु॒ , सप्त॑यः , पु॒रु॒ऽवसुं॑ , मदा॑य , हर॑यः , सु॒तं ॥
यस्ते॒ मदो॒ वरे॑ण्यो॒ य इं॑द्र वृत्र॒हंत॑मः । य आ॑द॒दिः स्व१॒॑र्नृभि॒र्यः पृत॑नासु दु॒ष्टरः॑ ॥
यः , ते॒ , मदः॑ , वरे॑ण्यः , यः , इं॒द्र॒ , वृ॒त्र॒हन्ऽत॑मः । यः , आ॒ऽद॒दिः , स्वः॑ , नृऽभिः॑ , यः , पृत॑नासु , दु॒स्तरः॑ ॥
यो दु॒ष्टरो॑ विश्ववार श्र॒वाय्यो॒ वाजे॒ष्वस्ति॑ तरु॒ता । स नः॑ शविष्ठ॒ सव॒ना व॑सो गहि ग॒मेम॒ गोम॑ति व्र॒जे ॥
यः , दु॒स्तरः॑ , वि॒श्व॒ऽवा॒र॒ , श्र॒वाय्यः॑ , वाजे॑षु , अस्ति॑ , त॒रु॒ता । सः , नः॒ , श॒वि॒ष्ठ॒ , सव॑ना , आ , व॒सो॒ इति॑ , ग॒हि॒ , ग॒मेम॑ , गोऽम॑ति , व्र॒जे ॥
ग॒व्यो षु णो॒ यथा॑ पु॒राश्व॒योत र॑थ॒या । व॒रि॒व॒स्य म॑हामह ॥
ग॒व्यो इति॑ , सु , नः॒ , यथा॑ , पु॒रा , अ॒श्व॒ऽया , उ॒त , र॒थ॒ऽया । व॒रि॒व॒स्य , म॒हा॒ऽम॒ह॒ ॥
न॒हि ते॑ शूर॒ राध॒सोऽन्तं॑ विं॒दामि॑ स॒त्रा । द॒श॒स्या नो॑ मघव॒न्नू चि॑दद्रिवो॒ धियो॒ वाजे॑भिराविथ ॥
न॒हि , ते॒ , शू॒र॒ , राध॑सः , अंतं॑ , विं॒दामि॑ , स॒त्रा । द॒श॒स्य , नः॒ , म॒घ॒ऽव॒न् , नु , चि॒त् , अ॒द्रि॒ऽवः॒ , धियः॑ , वाजे॑भिः , आ॒वि॒थ॒ ॥
य ऋ॒ष्वः श्रा॑व॒यत्स॑खा॒ विश्वेत्स वे॑द॒ जनि॑मा पुरुष्टु॒तः । तं विश्वे॒ मानु॑षा यु॒गेंद्रं॑ हवंते तवि॒षं य॒तस्रु॑चः ॥
यः , ऋ॒ष्वः , श्र॒व॒यत्ऽस॑खा , विश्वा॑ , इत् , सः , वे॒द॒ , जनि॑म , पु॒रु॒ऽस्तु॒तः । तं , विश्वे॑ , मानु॑षा , यु॒गा , इंद्रं॑ , ह॒वं॒ते॒ , त॒वि॒षं , य॒तऽस्रु॑चः ॥
स नो॒ वाजे॑ष्ववि॒ता पु॑रू॒वसुः॑ पुरःस्था॒ता म॒घवा॑ वृत्र॒हा भु॑वत् ॥
सः , नः॒ , वाजे॑षु , अ॒वि॒ता , पु॒रु॒ऽवसुः॑ , पु॒रः॒ऽस्था॒ता , म॒घऽवा॑ , वृ॒त्र॒ऽहा , भु॒व॒त् ॥ ।
अ॒भि वो॑ वी॒रमंध॑सो॒ मदे॑षु गाय गि॒रा म॒हा विचे॑तसं । इंद्रं॒ नाम॒ श्रुत्यं॑ शा॒किनं॒ वचो॒ यथा॑ ॥
अ॒भि , वः॒ , वी॒रं , अंध॑सः , मदे॑षु , गा॒य॒ , गि॒रा , म॒हा , विऽचे॑तसं । इंद्रं॑ , नाम॑ , श्रुत्यं॑ , शा॒किनं॑ , वचः॑ , यथा॑ ॥
द॒दी रेक्ण॑स्त॒न्वे॑ द॒दिर्वसु॑ द॒दिर्वाजे॑षु पुरुहूत वा॒जिनं॑ । नू॒नमथ॑ ॥
द॒दिः , रेक्णः॑ , त॒न्वे॑ , द॒दिः , वसु॑ , द॒दिः , वाजे॑षु , पु॒रु॒ऽहू॒त॒ , वा॒जिनं॑ । नू॒नं , अथ॑ ॥
विश्वे॑षामिर॒ज्यंतं॒ वसू॑नां सास॒ह्वांसं॑ चिद॒स्य वर्प॑सः । कृ॒प॒य॒तो नू॒नमत्यथ॑ ॥
विश्वे॑षां , इ॒र॒ज्यंतं॑ , वसू॑नां , स॒स॒ह्वांसं॑ , चि॒त् , अ॒स्य , वर्प॑सः । कृ॒प॒ऽय॒तः , नू॒नं , अति॑ , अथ॑ ॥
म॒हः सु वो॒ अर॑मिषे॒ स्तवा॑महे मी॒ळ्हुषे॑ अरंग॒माय॒ जग्म॑ये । य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषां म॒रुता॑मियक्षसि॒ गाये॑ त्वा॒ नम॑सा गि॒रा ॥
म॒हः , सु , वः॒ , अरं॑ , इ॒षे॒ , स्तवा॑महे , मी॒ळ्हुषे॑ , अ॒रं॒ऽग॒माय॑ , जग्म॑ये । य॒ज्ञेभिः॑ , गीः॒ऽभिः , वि॒श्वऽम॑नुषां , म॒रुतां॑ , इ॒य॒क्ष॒सि॒ , गाये॑ , त्वा॒ , नम॑सा , गि॒रा ॥
ये पा॒तयं॑ते॒ अज्म॑भिर्गिरी॒णां स्नुभि॑रेषां । य॒ज्ञं म॑हि॒ष्वणी॑नां सु॒म्नं तु॑वि॒ष्वणी॑नां॒ प्राध्व॒रे ॥
ये , पा॒तयं॑ते , अज्म॑ऽभिः , गि॒री॒णां , स्नुऽभिः॑ , ए॒षां॒ । य॒ज्ञं , म॒हि॒ऽस्वनी॑नां , सु॒म्नं , तु॒वि॒ऽस्वनी॑नां , प्र , अ॒ध्व॒रे ॥
प्र॒भं॒गं दु॑र्मती॒नामिंद्र॑ शवि॒ष्ठा भ॑र । र॒यिम॒स्मभ्यं॒ युज्यं॑ चोदयन्मते॒ ज्येष्ठं॑ चोदयन्मते ॥
प्र॒ऽभं॒गं , दुः॒ऽम॒ती॒नां , इंद्र॑ , श॒वि॒ष्ठ॒ , आ , भ॒र॒ । र॒यिं , अ॒स्मभ्यं॑ , युज्यं॑ , चो॒द॒य॒त्ऽम॒ते॒ , ज्येष्ठं॑ , चो॒द॒य॒त्ऽम॒ते॒ ॥
सनि॑तः॒ सुस॑नित॒रुग्र॒ चित्र॒ चेति॑ष्ठ॒ सूनृ॑त । प्रा॒सहा॑ सम्रा॒ट् सहु॑रिं॒ सहं॑तं भु॒ज्युं वाजे॑षु॒ पूर्व्यं॑ ॥
सनि॑त॒रिति॑ , सुऽस॑नितः , उग्र॑ , चित्र॑ , चेति॑ष्ठ , सूनृ॑त । प्र॒ऽसहा॑ , संऽरा॒ट् , सहु॑रिं , सहं॑तं , भु॒ज्युं , वाजे॑षु , पूर्व्यं॑ ॥
आ स ए॑तु॒ य ईव॒दाँ अदे॑वः पू॒र्तमा॑द॒दे । यथा॑ चि॒द्वशो॑ अ॒श्व्यः पृ॑थु॒श्रव॑सि कानी॒ते॒३॒॑ऽस्या व्युष्या॑द॒दे ॥
आ , सः , ए॒तु॒ , यः , ईव॑त् , आ , अदे॑वः , पू॒र्तं , आ॒ऽद॒दे । यथा॑ , चि॒त् , वशः॑ , अ॒श्व्यः , पृ॒थु॒ऽश्रव॑सि , का॒नी॒ते , अ॒स्याः , वि॒ऽउषि॑ , आ॒ऽद॒दे ॥
ष॒ष्टिं स॒हस्राश्व्य॑स्या॒युता॑सन॒मुष्ट्रा॑नां विंश॒तिं श॒ता । दश॒ श्यावी॑नां श॒ता दश॒ त्र्य॑रुषीणां॒ दश॒ गवां॑ स॒हस्रा॑ ॥
ष॒ष्टिं , स॒हस्रा॑ , अश्व्य॑स्य , अ॒युता॑ , अ॒स॒नं॒ , उष्ट्रा॑नां , विं॒श॒तिं , श॒ता । दश॑ , श्यावी॑नां , श॒ता , दश॑ , त्रिऽअ॑रुषीणां , दश॑ , गवां॑ , स॒हस्रा॑ ॥
दश॑ श्या॒वा ऋ॒धद्र॑यो वी॒तवा॑रास आ॒शवः॑ । म॒थ्रा ने॒मिं नि वा॑वृतुः ॥
दश॑ , श्या॒वाः , ऋ॒धत्ऽर॑यः , वी॒तऽवा॑रासः , आ॒शवः॑ । म॒थ्राः , ने॒मिं , नि , व॒वृ॒तुः॒ ॥
दाना॑सः पृथु॒श्रव॑सः कानी॒तस्य॑ सु॒राध॑सः । रथं॑ हिर॒ण्ययं॒ दद॒न्मंहि॑ष्ठः सू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒ श्रवः॑ ॥
दाना॑सः , पृ॒थु॒ऽश्रव॑सः , का॒नी॒तस्य॑ , सु॒ऽराध॑सः । रथं॑ , हि॒र॒ण्ययं॑ , दद॑त् , मंहि॑ष्ठः , सू॒रिः , अ॒भू॒त् , वर्षि॑ष्ठं , अ॒कृ॒त॒ , श्रवः॑ ॥
आ नो॑ वायो म॒हे तने॑ या॒हि म॒खाय॒ पाज॑से । व॒यं हि ते॑ चकृ॒मा भूरि॑ दा॒वने॑ स॒द्यश्चि॒न्महि॑ दा॒वने॑ ॥
आ , नः॒ , वा॒यो॒ इति॑ , म॒हे , तने॑ , या॒हि , म॒खाय॑ , पाज॑से । व॒यं , हि , ते॒ , च॒कृ॒म , भूरि॑ , दा॒वने॑ , स॒द्यः , चि॒त् , महि॑ , दा॒वने॑ ॥
यो अश्वे॑भि॒र्वह॑ते॒ वस्त॑ उ॒स्रास्त्रिः स॒प्त स॑प्तती॒नां । ए॒भिः सोमे॑भिः सोम॒सुद्भिः॑ सोमपा दा॒नाय॑ शुक्रपूतपाः ॥
यः , अश्वे॑भिः , वह॑ते , वस्ते॑ , उ॒स्राः , त्रिः , स॒प्त , स॒प्त॒ती॒नां । ए॒भिः , सोमे॑भिः , सो॒म॒सुत्ऽभिः॑ , सो॒म॒ऽपाः॒ , दा॒नाय॑ , शु॒क्र॒पू॒त॒ऽपाः॒ ॥
यो म॑ इ॒मं चि॑दु॒ त्मनामं॑दच्चि॒त्रं दा॒वने॑ । अ॒र॒ट्वे अक्षे॒ नहु॑षे सु॒कृत्व॑नि सु॒कृत्त॑राय सु॒क्रतुः॑ ॥
यः , मे॒ , इ॒मं , चि॒त् , ऊँ॒ इति॑ , त्मना॑ , अमं॑दत् , चि॒त्रं , दा॒वने॑ । अ॒र॒ट्वे , अक्षे॑ , नहु॑षे , सु॒ऽकृत्व॑नि , सु॒कृत्ऽत॑राय , सु॒ऽक्रतुः॑ ॥
उ॒च॒थ्ये॒३॒॑ वपु॑षि॒ यः स्व॒राळु॒त वा॑यो घृत॒स्नाः । अश्वे॑षितं॒ रजे॑षितं॒ शुने॑षितं॒ प्राज्म॒ तदि॒दं नु तत् ॥
उ॒च॒थ्ये॑ , वपु॑षि , यः , स्व॒ऽराट् , उ॒त , वा॒यो॒ इति॑ , घृ॒त॒ऽस्नाः । अश्व॑ऽइषितं , रजः॑ऽइषितं , शुना॑ऽइषितं , प्र , अज्म॑ , तत् , इ॒दं , नु , तत् ॥
अध॑ प्रि॒यमि॑षि॒राय॑ ष॒ष्टिं स॒हस्रा॑सनं । अश्वा॑ना॒मिन्न वृष्णां॑ ॥
अध॑ , प्रि॒यं , इ॒षि॒राय॑ , ष॒ष्टिं , स॒हस्रा॑ , अ॒स॒नं॒ । अश्वा॑नां , इत् , न , वृष्णां॑ ॥
गावो॒ न यू॒थमुप॑ यंति॒ वध्र॑य॒ उप॒ मा यं॑ति॒ वध्र॑यः ॥
गावः॑ , न , यू॒थं , उप॑ , यं॒ति॒ , वध्र॑यः , उप॑ , मा॒ , आ , यं॒ति॒ , वध्र॑यः ॥ ।
अध॒ यच्चार॑थे ग॒णे श॒तमुष्ट्राँ॒ अचि॑क्रदत् । अध॒ श्वित्ने॑षु विंश॒तिं श॒ता ॥
अध॑ , यत् , चार॑थे , ग॒णे , श॒तं , उष्ट्रा॑न् , अचि॑क्रदत् । अध॑ , श्वित्ने॑षु , विं॒श॒तिं , श॒ता ॥
श॒तं दा॒से ब॑ल्बू॒थे विप्र॒स्तरु॑क्ष॒ आ द॑दे । ते ते॑ वायवि॒मे जना॒ मदं॒तींद्र॑गोपा॒ मदं॑ति दे॒वगो॑पाः ॥
श॒तं , दा॒से , ब॒ल्बू॒थे , विप्रः॑ , तरु॑क्षे , आ , द॒दे॒ । ते , ते॒ , वा॒यो॒ इति॑ , इ॒मे , जनाः॑ , मदं॑ति , इंद्र॑ऽगोपाः , मदं॑ति , दे॒वऽगो॑पाः ॥
अध॒ स्या योष॑णा म॒ही प्र॑ती॒ची वश॑म॒श्व्यं । अधि॑रुक्मा॒ वि नी॑यते ॥
अध॑ , स्या , योष॑णा , म॒ही , प्र॒ती॒ची , वशं॑ , अ॒श्व्यं । अधि॑ऽरुक्मा , वि , नी॒य॒ते॒ ॥
[४७] महिवइत्यष्टादशर्चस्य सूक्तस्याप्त्यस्त्रित आदित्या अंत्यपंचानामादित्योषसो महापंक्तिः | (अंत्याः पंचदु:स्वप्नघ्न्यः) |
महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्र॑ दा॒शुषे॑ । यमा॑दित्या अ॒भि द्रु॒हो रक्ष॑था॒ नेम॒घं न॑शदने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
महि॑ , वः॒ , म॒ह॒तां , अवः॑ , वरु॑ण , मित्र॑ , दा॒शुषे॑ । यं , आ॒दि॒त्याः॒ , अ॒भि , द्रु॒हः , रक्ष॑थ , न , ईं॒ , अ॒घं , न॒श॒त् , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
वि॒दा दे॑वा अ॒घाना॒मादि॑त्यासो अ॒पाकृ॑तिं । प॒क्षा वयो॒ यथो॒परि॒ व्य१॒॑स्मे शर्म॑ यच्छताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
वि॒द , दे॒वाः॒ , अ॒घानां॑ , आदि॑त्यासः , अ॒प॒ऽआकृ॑तिं । प॒क्षा , वयः॑ , यथा॑ , उ॒परि॑ , वि , अ॒स्मे इति॑ , शर्म॑ , य॒च्छ॒त॒ , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
व्य१॒॑स्मे अधि॒ शर्म॒ तत्प॒क्षा वयो॒ न यं॑तन । विश्वा॑नि विश्ववेदसो वरू॒थ्या॑ मनामहेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
वि , अ॒स्मे इति॑ , अधि॑ , शर्म॑ , तत् , प॒क्षा , वयः॑ , न , यं॒त॒न॒ । विश्वा॑नि , वि॒श्व॒ऽवे॒द॒सः॒ , व॒रू॒थ्या॑ , म॒ना॒म॒हे॒ , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
यस्मा॒ अरा॑सत॒ क्षयं॑ जी॒वातुं॑ च॒ प्रचे॑तसः । मनो॒र्विश्व॑स्य॒ घेदि॒म आ॑दि॒त्या रा॒य ई॑शतेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
यस्मै॑ , अरा॑सत , क्षयं॑ , जी॒वातुं॑ , च॒ , प्रऽचे॑तसः । मनोः॑ , विश्व॑स्य , घ॒ , इत् , इ॒मे , आ॒दि॒त्याः , रा॒यः , ई॒श॒ते॒ , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
परि॑ णो वृणजन्न॒घा दु॒र्गाणि॑ र॒थ्यो॑ यथा । स्यामेदिंद्र॑स्य॒ शर्म॑ण्यादि॒त्याना॑मु॒ताव॑स्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
परि॑ , नः॒ , वृ॒ण॒ज॒न् , अ॒घा , दुः॒ऽगानि॑ , र॒थ्यः॑ , य॒था॒ । स्याम॑ , इत् , इंद्र॑स्य , शर्म॑णि , आ॒दि॒त्यानां॑ , उ॒त , अव॑सि , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
प॒रि॒ह्वृ॒तेद॒ना जनो॑ यु॒ष्माद॑त्तस्य वायति । देवा॒ अद॑भ्रमाश वो॒ यमा॑दित्या॒ अहे॑तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
प॒रि॒ऽह्वृ॒ता , इत् , अ॒ना , जनः॑ , यु॒ष्माऽद॑त्तस्य , वा॒य॒ति॒ । देवाः॑ , अद॑भ्रं , आ॒श॒ , वः॒ , यं , आ॒दि॒त्याः॒ , अहे॑तन , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
न तं ति॒ग्मं च॒न त्यजो॒ न द्रा॑सद॒भि तं गु॒रु । यस्मा॑ उ॒ शर्म॑ स॒प्रथ॒ आदि॑त्यासो॒ अरा॑ध्वमने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
न , तं , ति॒ग्मं , च॒न , त्यजः॑ , न , द्रा॒स॒त् , अ॒भि , तं , गु॒रु । यस्मै॑ , ऊँ॒ इति॑ , शर्म॑ , स॒ऽप्रथः॑ , आदि॑त्यासः , अरा॑ध्वं , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
यु॒ष्मे दे॑वा॒ अपि॑ ष्मसि॒ युध्यं॑त इव॒ वर्म॑सु । यू॒यं म॒हो न॒ एन॑सो यू॒यमर्भा॑दुरुष्यताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
यु॒ष्मे इति॑ , दे॒वाः॒ , अपि॑ , स्म॒सि॒ , युध्यं॑तःऽइव , वर्म॑ऽसु । यू॒यं , म॒हः , नः॒ , एन॑सः , यू॒यं , अर्भा॑त् , उ॒रु॒ष्य॒त॒ , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
अदि॑तिर्न उरुष्य॒त्वदि॑तिः॒ शर्म॑ यच्छतु । मा॒ता मि॒त्रस्य॑ रे॒वतो॑ऽर्य॒म्णो वरु॑णस्य चाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
अदि॑तिः , नः॒ , उ॒रु॒ष्य॒तु॒ , अदि॑तिः , शर्म॑ , य॒च्छ॒तु॒ । मा॒ता , मि॒त्रस्य॑ , रे॒वतः॑ , अ॒र्य॒म्णः , वरु॑णस्य , च॒ , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
यद्दे॑वाः॒ शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रं । त्रि॒धातु॒ यद्व॑रू॒थ्यं१॒॑ तद॒स्मासु॒ वि यं॑तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
यत् , दे॒वाः॒ , शर्म॑ , श॒र॒णं , यत् , भ॒द्रं , यत् , अ॒ना॒तु॒रं । त्रि॒ऽधातु॑ , यत् , व॒रू॒थ्यं॑ , तत् , अ॒स्मासु॑ , वि , यं॒त॒न॒ , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
आदि॑त्या॒ अव॒ हि ख्यताधि॒ कूला॑दिव॒ स्पशः॑ । सु॒ती॒र्थमर्व॑तो य॒थानु॑ नो नेषथा सु॒गम॑ने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
आदि॑त्याः , अव॑ , हि , ख्यत॑ , अधि॑ , कूला॑त्ऽइव , स्पशः॑ । सु॒ऽती॒र्थं , अर्व॑तः , य॒था॒ , अनु॑ , नः॒ , ने॒ष॒थ॒ , सु॒ऽगं , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त । गवे॑ च भ॒द्रं धे॒नवे॑ वी॒राय॑ च श्रवस्य॒ते॑ऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
न , इ॒ह , भ॒द्रं , र॒क्ष॒स्विने॑ , न , अ॒व॒ऽयै , न , उ॒प॒ऽयै , उ॒त । गवे॑ , च॒ , भ॒द्रं , धे॒नवे॑ , वी॒राय॑ , च॒ , श्र॒व॒स्य॒ते , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
यदा॒विर्यद॑पी॒च्यं१॒॑ देवा॑सो॒ अस्ति॑ दुष्कृ॒तं । त्रि॒ते तद्विश्व॑मा॒प्त्य आ॒रे अ॒स्मद्द॑धातनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
यत् , आ॒विः , यत् , अ॒पी॒च्यं॑ , देवा॑सः , अस्ति॑ , दुः॒ऽकृ॒तं । त्रि॒ते , तत् , विश्वं॑ , आ॒प्त्ये , आ॒रे , अ॒स्मत् , द॒धा॒त॒न॒ , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
यच्च॒ गोषु॑ दु॒ष्ष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः । त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
यत् , च॒ , गोषु॑ , दुः॒ऽस्वप्न्यं॑ , यत् , च॒ , अ॒स्मे इति॑ , दु॒हि॒तः॒ , दि॒वः॒ । त्रि॒ताय॑ , तत् , वि॒भा॒ऽव॒रि॒ , आ॒प्त्याय॑ , परा॑ , व॒ह॒ , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
नि॒ष्कं वा॑ घा कृ॒णव॑ते॒ स्रजं॑ वा दुहितर्दिवः । त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
नि॒ष्कं , वा॒ , घ॒ , कृ॒णव॑ते , स्रजं॑ , वा॒ , दु॒हि॒तः॒ , दि॒वः॒ । त्रि॒ते , दुः॒ऽस्वप्न्यं॑ , सर्वं॑ , आ॒प्त्ये , परि॑ , द॒द्म॒सि॒ , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
तद॑न्नाय॒ तद॑पसे॒ तं भा॒गमु॑पसे॒दुषे॑ । त्रि॒ताय॑ च द्वि॒ताय॒ चोषो॑ दु॒ष्ष्वप्न्यं॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
तत्ऽअ॑न्नाय , तत्ऽअ॑पसे , तं , भा॒गं , उ॒प॒ऽसे॒दुषे॑ । त्रि॒ताय॑ , च॒ , द्वि॒ताय॑ , च॒ , उषः॑ , दुः॒ऽस्वप्न्यं॑ , व॒ह॒ , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
यथा॑ क॒लां यथा॑ श॒फं यथ॑ ऋ॒णं सं॒नया॑मसि । ए॒वा दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये सं न॑यामस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
यथा॑ , क॒लां , यथा॑ , श॒फं , यथा॑ , ऋ॒णं , सं॒ऽनया॑मसि । ए॒व , दुः॒ऽस्वप्न्यं॑ , सर्वं॑ , आ॒प्त्ये , सं , न॒या॒म॒सि॒ , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यं । उषो॒ यस्मा॑द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
अजै॑ष्म , अ॒द्य , अस॑नाम , च॒ , अभू॑म , अना॑गसः , व॒यं । उषः॑ , यस्मा॑त् , दुः॒ऽस्वप्न्या॑त् , अभै॑ष्म , अप॑ , तत् , उ॒च्छ॒तु॒ , अ॒ने॒हसः॑ , वः॒ , ऊ॒तयः॑ , सु॒ऽऊ॒तयः॑ , वः॒ , ऊ॒तयः॑ ॥
[४८] स्वादोरिति पंचदशर्चस्य सूक्तस्य काण्वः प्रगाथः सोमस्त्रिष्टुप् पंचमी जगती |
स्वा॒दोर॑भक्षि॒ वय॑सः सुमे॒धाः स्वा॒ध्यो॑ वरिवो॒वित्त॑रस्य । विश्वे॒ यं दे॒वा उ॒त मर्त्या॑सो॒ मधु॑ ब्रु॒वंतो॑ अ॒भि सं॒चरं॑ति ॥
स्वा॒दोः , अ॒भ॒क्षि॒ , वय॑सः , सु॒ऽमे॒धाः , सु॒ऽआ॒ध्यः॑ , व॒रि॒वो॒वित्ऽत॑रस्य । विश्वे॑ , यं , दे॒वाः , उ॒त , मर्त्या॑सः , मधु॑ , ब्रु॒वंतः॑ , अ॒भि , सं॒ऽचरं॑ति ॥
अं॒तश्च॒ प्रागा॒ अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य । इंद॒विंद्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी॑व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ॥
अं॒तरिति॑ , च॒ , प्र , अगाः॑ , अदि॑तिः , भ॒वा॒सि॒ , अ॒व॒ऽया॒ता , हर॑सः , दैव्य॑स्य । इंदो॒ इति॑ , इंद्र॑स्य , स॒ख्यं , जु॒षा॒णः , श्रौष्टी॑ऽइव , धुरं॑ , अनु॑ , रा॒ये , ऋ॒ध्याः॒ ॥
अपा॑म॒ सोम॑म॒मृता॑ अभू॒माग॑न्म॒ ज्योति॒रवि॑दाम दे॒वान् । किं नू॒नम॒स्मान्कृ॑णव॒दरा॑तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥
अपा॑म , सोमं॑ , अ॒मृताः॑ , अ॒भू॒म॒ , अग॑न्म , ज्योतिः॑ , अवि॑दाम , दे॒वान् । किं , नू॒नं , अ॒स्मान् , कृ॒ण॒व॒त् , अरा॑तिः , किं , ऊँ॒ इति॑ , धू॒र्तिः , अ॒मृ॒त॒ , मर्त्य॑स्य ॥
शं नो॑ भव हृ॒द आ पी॒त इं॑दो पि॒तेव॑ सोम सू॒नवे॑ सु॒शेवः॑ । सखे॑व॒ सख्य॑ उरुशंस॒ धीरः॒ प्र ण॒ आयु॑र्जी॒वसे॑ सोम तारीः ॥
शं , नः॒ , भ॒व॒ , हृ॒दे , आ , पी॒तः , इं॒दो॒ इति॑ , पि॒ताऽइ॑व , सो॒म॒ , सू॒नवे॑ , सु॒ऽशेवः॑ । सखा॑ऽइव , सख्ये॑ , उ॒रु॒ऽशं॒स॒ , धीरः॑ , प्र , नः॒ , आयुः॑ , जी॒वसे॑ , सो॒म॒ , ता॒रीः॒ ॥
इ॒मे मा॑ पी॒ता य॒शस॑ उरु॒ष्यवो॒ रथं॒ न गावः॒ सम॑नाह॒ पर्व॑सु । ते मा॑ रक्षंतु वि॒स्रस॑श्च॒रित्रा॑दु॒त मा॒ स्रामा॑द्यवयं॒त्विंद॑वः ॥
इ॒मे , मा॒ , पी॒ताः , य॒शसः॑ , उ॒रु॒ष्यवः॑ , रथं॑ , न , गावः॑ , सं , अ॒ना॒ह॒ , पर्व॑ऽसु । ते , मा॒ , र॒क्षं॒तु॒ , वि॒ऽस्रसः॑ , च॒रित्रा॑त् , उ॒त , मा॒ , स्रामा॑त् , य॒व॒यं॒तु॒ , इंद॑वः ॥
अ॒ग्निं न मा॑ मथि॒तं सं दि॑दीपः॒ प्र च॑क्षय कृणु॒हि वस्य॑सो नः । अथा॒ हि ते॒ मद॒ आ सो॑म॒ मन्ये॑ रे॒वाँ इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ॥
अ॒ग्निं , न , मा॒ , म॒थि॒तं , सं , दि॒दी॒पः॒ , प्र , च॒क्ष॒य॒ , कृ॒णु॒हि , वस्य॑सः , नः॒ । अथ॑ , हि , ते॒ , मदे॑ , आ , सो॒म॒ , मन्ये॑ , रे॒वान्ऽइ॑व , प्र , च॒र॒ , पु॒ष्टिं , अच्छ॑ ॥
इ॒षि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भक्षी॒महि॒ पित्र्य॑स्येव रा॒यः । सोम॑ राज॒न्प्र ण॒ आयूं॑षि तारी॒रहा॑नीव॒ सूर्यो॑ वास॒राणि॑ ॥
इ॒षि॒रेण॑ , ते॒ , मन॑सा , सु॒तस्य॑ , भ॒क्षी॒महि॑ , पित्र्य॑स्यऽइव , रा॒यः । सोम॑ , राज॑न् , प्र , नः॒ , आयूं॑षि , ता॒रीः॒ , अहा॑निऽइव , सूर्यः॑ , वा॒स॒राणि॑ ॥
सोम॑ राजन्मृ॒ळया॑ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒३॒॑स्तस्य॑ विद्धि । अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरिं॑दो॒ मा नो॑ अ॒र्यो अ॑नुका॒मं परा॑ दाः ॥
सोम॑ , रा॒ज॒न् , मृ॒ळय॑ , नः॒ , स्व॒स्ति , तव॑ , स्म॒सि॒ , व्र॒त्याः॑ , तस्य॑ , वि॒द्धि॒ । अल॑र्ति , दक्षः॑ , उ॒त , म॒न्युः , इं॒दो॒ इति॑ , मा , नः॒ , अ॒र्यः , अ॒नु॒ऽका॒मं , परा॑ , दाः॒ ॥
त्वं हि न॑स्त॒न्वः॑ सोम गो॒पा गात्रे॑गात्रे निष॒सत्था॑ नृ॒चक्षाः॑ । यत्ते॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॒ स नो॑ मृळ सुष॒खा दे॑व॒ वस्यः॑ ॥
त्वं , हि , नः॒ , त॒न्वः॑ , सो॒म॒ , गो॒पाः , गात्रे॑ऽगात्रे , नि॒ऽस॒सत्थ॑ , नृ॒ऽचक्षाः॑ । यत् , ते॒ , व॒यं , प्र॒ऽमि॒नाम॑ , व्र॒तानि॑ , सः , नः॒ , मृ॒ळ॒ , सु॒ऽस॒खा , दे॒व॒ , वस्यः॑ ॥
ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये॑द्धर्यश्व पी॒तः । अ॒यं यः सोमो॒ न्यधा॑य्य॒स्मे तस्मा॒ इंद्रं॑ प्र॒तिर॑मे॒म्यायुः॑ ॥
ऋ॒दू॒दरे॑ण , सख्या॑ , स॒चे॒य॒ , यः , मा॒ , न , रिष्ये॑त् , ह॒रि॒ऽअ॒श्व॒ , पी॒तः । अ॒यं , यः , सोमः॑ , नि , अधा॑यि , अ॒स्मे इति॑ , तस्मै॑ , इंद्रं॑ , प्र॒ऽतिरं॑ , ए॒मि॒ , आयुः॑ ॥
अप॒ त्या अ॑स्थु॒रनि॑रा॒ अमी॑वा॒ निर॑त्रसं॒तमि॑षीची॒रभै॑षुः । आ सोमो॑ अ॒स्माँ अ॑रुह॒द्विहा॑या॒ अग॑न्म॒ यत्र॑ प्रति॒रंत॒ आयुः॑ ॥
अप॑ , त्याः , अ॒स्थुः॒ , अनि॑राः , अमी॑वाः , निः , अ॒त्र॒स॒न् , तमि॑षीचीः , अभै॑षुः । आ , सोमः॑ , अ॒स्मान् , अ॒रु॒ह॒त् , विऽहा॑याः , अग॑न्म , यत्र॑ , प्र॒ऽति॒रंते॑ , आयुः॑ ॥
यो न॒ इंदुः॑ पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ । तस्मै॒ सोमा॑य ह॒विषा॑ विधेम मृळी॒के अ॑स्य सुम॒तौ स्या॑म ॥
यः , नः॒ , इंदुः॑ , पि॒त॒रः॒ , हृ॒त्ऽसु , पी॒तः , अम॑र्त्यः , मर्त्या॑न् , आ॒ऽवि॒वेश॑ । तस्मै॑ , सोमा॑य , ह॒विषा॑ , वि॒धे॒म॒ , मृ॒ळी॒के , अ॒स्य॒ , सु॒ऽम॒तौ , स्या॒म॒ ॥
त्वं सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तंथ । तस्मै॑ त इंदो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णां ॥
त्वं , सो॒म॒ , पि॒तृऽभिः॑ , सं॒ऽवि॒दा॒नः , अनु॑ , द्यावा॑पृथि॒वी इति॑ , आ , त॒तं॒थ॒ । तस्मै॑ , ते॒ , इं॒दो॒ इति॑ , ह॒विषा॑ , वि॒धे॒म॒ , व॒यं , स्या॒म॒ , पत॑यः , र॒यी॒णां ॥
त्राता॑रो देवा॒ अधि॑ वोचता नो॒ मा नो॑ नि॒द्रा ई॑शत॒ मोत जल्पिः॑ । व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
त्राता॑रः , दे॒वाः॒ , अधि॑ , वो॒च॒त॒ , नः॒ , मा , नः॒ , नि॒ऽद्रा , ई॒श॒त॒ , मा , उ॒त , जल्पिः॑ । व॒यं , सोम॑स्य , वि॒श्वह॑ , प्रि॒यासः॑ , सु॒ऽवीरा॑सः , वि॒दथं॑ , आ , व॒दे॒म॒ ॥
त्वं नः॑ सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षाः॑ । त्वं न॑ इंद ऊ॒तिभिः॑ स॒जोषाः॑ पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥
त्वं , नः॒ , सो॒म॒ , वि॒श्वतः॑ , व॒यः॒ऽधाः , त्वं , स्वः॒ऽवित् , आ , वि॒श॒ , नृ॒ऽचक्षाः॑ । त्वं , नः॒ , इं॒दो॒ इति॑ , ऊ॒तिऽभिः॑ , स॒ऽजोषाः॑ , पा॒हि , प॒श्चाता॑त् , उ॒त , वा॒ , पु॒रस्ता॑त् ॥
[४९] अभिप्रेति दशर्चस्य सूक्तस्य काण्वःप्रस्कण्व इंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः |
अ॒भि प्र वः॑ सु॒राध॑स॒मिंद्र॑मर्च॒ यथा॑ वि॒दे । यो ज॑रि॒तृभ्यो॑ म॒घवा॑ पुरू॒वसुः॑ स॒हस्रे॑णेव॒ शिक्ष॑ति ॥
अ॒भि , प्र , वः॒ , सु॒ऽराध॑सं , इंद्रं॑ , अ॒र्च॒ , यथा॑ , वि॒दे । यः , ज॒रि॒तृऽभ्यः॑ , म॒घऽवा॑ , पु॒रु॒ऽवसुः॑ , स॒हस्रे॑णऽइव , शिक्ष॑ति ॥
श॒तानी॑केव॒ प्र जि॑गाति धृष्णु॒या हंति॑ वृ॒त्राणि॑ दा॒शुषे॑ । गि॒रेरि॑व॒ प्र रसा॑ अस्य पिन्विरे॒ दत्रा॑णि पुरु॒भोज॑सः ॥
श॒तानी॑काऽइव , प्र , जि॒गा॒ति॒ , धृ॒ष्णु॒ऽया , हंति॑ , वृ॒त्राणि॑ , दा॒शुषे॑ । गि॒रेःऽइ॑व , प्र , रसाः॑ , अ॒स्य॒ , पि॒न्वि॒रे॒ , दत्रा॑णि , पु॒रु॒ऽभोज॑सः ॥
आ त्वा॑ सु॒तास॒ इंद॑वो॒ मदा॒ य इं॑द्र गिर्वणः । आपो॒ न व॑ज्रि॒न्नन्वो॒क्यं१॒॑ सरः॑ पृ॒णंति॑ शूर॒ राध॑से ॥
आ , त्वा॒ , सु॒तासः॑ , इंद॑वः , मदाः॑ , ये , इं॒द्र॒ , गि॒र्व॒णः॒ । आपः॑ , न , व॒ज्रि॒न् , अनु॑ , ओ॒क्यं॑ , सरः॑ , पृ॒णंति॑ , शू॒र॒ , राध॑से ॥
अ॒ने॒हसं॑ प्र॒तर॑णं वि॒वक्ष॑णं॒ मध्वः॒ स्वादि॑ष्ठमीं पिब । आ यथा॑ मंदसा॒नः कि॒रासि॑ नः॒ प्र क्षु॒द्रेव॒ त्मना॑ धृ॒षत् ॥
अ॒ने॒हसं॑ , प्र॒ऽतर॑णं , वि॒वक्ष॑णं , मध्वः॑ , स्वादि॑ष्ठं , ईं॒ , पि॒ब॒ । आ , यथा॑ , मं॒द॒सा॒नः , कि॒रासि॑ , नः॒ , प्र , क्षु॒द्राऽइ॑व , त्मना॑ , धृ॒षत् ॥
आ नः॒ स्तोम॒मुप॑ द्र॒वद्धि॑या॒नो अश्वो॒ न सोतृ॑भिः । यं ते॑ स्वधावंत्स्व॒दयं॑ति धे॒नव॒ इंद्र॒ कण्वे॑षु रा॒तयः॑ ॥
आ , नः॒ , स्तोमं॑ , उप॑ , द्र॒वत् , हि॒या॒नः , अश्वः॑ , न , सोतृ॑ऽभिः । यं , ते॒ , स्व॒धा॒ऽव॒न् , स्व॒दयं॑ति , धे॒नवः॑ , इंद्र॑ , कण्वे॑षु , रा॒तयः॑ ॥
उ॒ग्रं न वी॒रं नम॒सोप॑ सेदिम॒ विभू॑ति॒मक्षि॑तावसुं । उ॒द्रीव॑ वज्रिन्नव॒तो न सिं॑च॒ते क्षरं॑तींद्र धी॒तयः॑ ॥
उ॒ग्रं , न , वी॒रं , नम॑सा , उप॑ , से॒दि॒म॒ , विऽभू॑तिं , अक्षि॑तऽवसुं । उ॒द्रीऽइ॑व , व॒ज्रि॒न् , अ॒व॒तः , न , सिं॒च॒ते , क्षरं॑ति , इं॒द्र॒ , धी॒तयः॑ ॥
यद्ध॑ नू॒नं यद्वा॑ य॒ज्ञे यद्वा॑ पृथि॒व्यामधि॑ । अतो॑ नो य॒ज्ञमा॒शुभि॑र्महेमत उ॒ग्र उ॒ग्रेभि॒रा ग॑हि ॥
यत् , ह॒ , नू॒नं , यत् , वा॒ , य॒ज्ञे , यत् , वा॒ , पृ॒थि॒व्यां , अधि॑ । अतः॑ , नः॒ , य॒ज्ञं , आ॒शुऽभिः॑ , म॒हे॒ऽम॒ते॒ , उ॒ग्रः , उ॒ग्रेभिः॑ , आ , ग॒हि॒ ॥
अ॒जि॒रासो॒ हर॑यो॒ ये त॑ आ॒शवो॒ वाता॑ इव प्रस॒क्षिणः॑ । येभि॒रप॑त्यं॒ मनु॑षः प॒रीय॑से॒ येभि॒र्विश्वं॒ स्व॑र्दृ॒शे ॥
अ॒जि॒रासः॑ , हर॑यः , ये , ते॒ , आ॒शवः॑ , वाताः॑ऽइव , प्र॒ऽस॒क्षिणः॑ । येभिः॑ , अप॑त्यं , मनु॑षः , प॒रि॒ऽईय॑से , येभिः॑ , विश्वं॑ , स्वः॑ , दृ॒शे ॥
ए॒ताव॑तस्त ईमह॒ इंद्र॑ सु॒म्नस्य॒ गोम॑तः । यथा॒ प्रावो॑ मघव॒न्मेध्या॑तिथिं॒ यथा॒ नीपा॑तिथिं॒ धने॑ ॥
ए॒ताव॑तः , ते॒ , ई॒म॒हे॒ , इंद्र॑ , सु॒म्नस्य॑ , गोऽम॑तः । यथा॑ , प्र , आवः॑ , म॒घ॒ऽव॒न् , मेध्य॑ऽअतिथिं , यथा॑ , नीप॑ऽअतिथिं , धने॑ ॥
यथा॒ कण्वे॑ मघवंत्र॒सद॑स्यवि॒ यथा॑ प॒क्थे दश॑व्रजे । यथा॒ गोश॑र्ये॒ अस॑नोर्ऋ॒जिश्व॒नींद्र॒ गोम॒द्धिर॑ण्यवत् ॥
यथा॑ , कण्वे॑ , म॒घ॒ऽव॒न् , त्र॒सद॑स्यवि , यथा॑ , प॒क्थे , दश॑ऽव्रजे । यथा॑ , गोऽश॑र्ये , अस॑नोः , ऋ॒जिश्व॑नि , इंद्र॑ , गोऽम॑त् , हिर॑ण्यऽवत् ॥
[५०] प्रसुश्रुतमिति दशर्चस्य सूक्तस्य पुष्टिगुरिंद्रः अयुजो बृहत्योयुजः सतोबृहत्यः |
प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये । यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥
प्र , सु , श्रु॒तं , सु॒ऽराध॑सं , अर्च॑ , श॒क्रं , अ॒भिष्ट॑ये । यः , सु॒न्व॒ते , स्तु॒व॒ते , काम्यं॑ , वसु॑ , स॒हस्रे॑णऽइव , मंह॑ते ॥
श॒तानी॑का हे॒तयो॑ अस्य दु॒ष्टरा॒ इंद्र॑स्य स॒मिषो॑ म॒हीः । गि॒रिर्न भु॒ज्मा म॒घव॑त्सु पिन्वते॒ यदीं॑ सु॒ता अमं॑दिषुः ॥
श॒तऽअ॑नीकाः , हे॒तयः॑ , अ॒स्य॒ , दु॒स्तराः॑ , इंद्र॑स्य , सं॒ऽइषः॑ , म॒हीः । गि॒रिः , न , भु॒ज्मा , म॒घव॑त्ऽसु , पि॒न्व॒ते॒ , यत् , ईं॒ , सु॒ताः , अमं॑दिषुः ॥
यदीं॑ सु॒तास॒ इंद॑वो॒ऽभि प्रि॒यममं॑दिषुः । आपो॒ न धा॑यि॒ सव॑नं म॒ आ व॑सो॒ दुघा॑ इ॒वोप॑ दा॒शुषे॑ ॥
यत् , ईं॒ , सु॒तासः॑ , इंद॑वः , अ॒भि , प्रि॒यं , अमं॑दिषुः । आपः॑ , न , धा॒यि॒ , सव॑नं , मे॒ , आ , व॒सो॒ इति॑ , दुघाः॑ऽइव , उप॑ , दा॒शुषे॑ ॥
अ॒ने॒हसं॑ वो॒ हव॑मानमू॒तये॒ मध्वः॑ क्षरंति धी॒तयः॑ । आ त्वा॑ वसो॒ हव॑मानास॒ इंद॑व॒ उप॑ स्तो॒त्रेषु॑ दधिरे ॥
अ॒ने॒हसं॑ , वः॒ , हव॑मानं , ऊ॒तये॑ , मध्वः॑ , क्ष॒रं॒ति॒ , धी॒तयः॑ । आ , त्वा॒ , व॒सो॒ इति॑ , हव॑मानासः , इंद॑वः , उप॑ , स्तो॒त्रेषु॑ , द॒धि॒रे॒ ॥
आ नः॒ सोमे॑ स्वध्व॒र इ॑या॒नो अत्यो॒ न तो॑शते । यं ते॑ स्वदावं॒त्स्वदं॑ति गू॒र्तयः॑ पौ॒रे छं॑दयसे॒ हवं॑ ॥
आ , नः॒ , सोमे॑ , सु॒ऽअ॒ध्व॒रे , इ॒या॒नः , अत्यः॑ , न , तो॒श॒ते॒ । यं , ते॒ , स्व॒दा॒ऽव॒न् , स्वदं॑ति , गू॒र्तयः॑ , पौ॒रे , छं॒द॒य॒से॒ , हवं॑ ॥
प्र वी॒रमु॒ग्रं विवि॑चिं धन॒स्पृतं॒ विभू॑तिं॒ राध॑सो म॒हः । उ॒द्रीव॑ वज्रिन्नव॒तो व॑सुत्व॒ना सदा॑ पीपेथ दा॒शुषे॑ ॥
प्र , वी॒रं , उ॒ग्रं , विवि॑चिं , ध॒न॒ऽस्पृतं॑ , विऽभू॑तिं , राध॑सः , म॒हः । उ॒द्रीऽइ॑व , व॒ज्रि॒न् , अ॒व॒तः , व॒सु॒ऽत्व॒ना , सदा॑ , पी॒पे॒थ॒ , दा॒शुषे॑ ॥
यद्ध॑ नू॒नं प॑रा॒वति॒ यद्वा॑ पृथि॒व्यां दि॒वि । यु॒जा॒न इं॑द्र॒ हरि॑भिर्महेमत ऋ॒ष्व ऋ॒ष्वेभि॒रा ग॑हि ॥
यत् , ह॒ , नू॒नं , प॒रा॒ऽवति॑ , यत् , वा॒ , पृ॒थि॒व्यां , दि॒वि । यु॒जा॒नः , इं॒द्र॒ , हरि॑ऽभिः , म॒हे॒ऽम॒ते॒ , ऋ॒ष्वः , ऋ॒ष्वेभिः॑ , आ , ग॒हि॒ ॥
र॒थि॒रासो॒ हर॑यो॒ ये ते॑ अ॒स्रिध॒ ओजो॒ वात॑स्य॒ पिप्र॑ति । येभि॒र्नि दस्युं॒ मनु॑षो नि॒घोष॑यो॒ येभिः॒ स्वः॑ प॒रीय॑से ॥
र॒थि॒रासः॑ , हर॑यः , ये , ते॒ , अ॒स्रिधः॑ , ओजः॑ , वात॑स्य , पिप्र॑ति । येभिः॑ , नि , दस्युं॑ , मनु॑षः , नि॒ऽघोष॑यः , येभिः॑ , स्व१॒॑रिति॒ स्वः॑ , प॒रि॒ऽईय॑से ॥
ए॒ताव॑तस्ते वसो वि॒द्याम॑ शूर॒ नव्य॑सः । यथा॒ प्राव॒ एत॑शं॒ कृत्व्ये॒ धने॒ यथा॒ वशं॒ दश॑व्रजे ॥
ए॒ताव॑तः , ते॒ , व॒सो॒ इति॑ , वि॒द्याम॑ , शू॒र॒ , नव्य॑सः । यथा॑ , प्र , आवः॑ , एत॑शं , कृत्व्ये॑ , धने॑ , यथा॑ , वशं॑ , दश॑ऽव्रजे ॥
यथा॒ कण्वे॑ मघव॒न्मेधे॑ अध्व॒रे दी॒र्घनी॑थे॒ दमू॑नसि । यथा॒ गोश॑र्ये॒ असि॑षासो अद्रिवो॒ मयि॑ गो॒त्रं ह॑रि॒श्रियं॑ ॥
यथा॑ , कण्वे॑ , म॒घ॒ऽव॒न् , मेधे॑ , अ॒ध्व॒रे , दी॒र्घऽनी॑थे , दमू॑नसि । यथा॑ , गोऽश॑र्ये , असि॑सासः , अ॒द्रि॒ऽवः॒ , मयि॑ , गो॒त्रं , ह॒रि॒ऽश्रियं॑ ॥
[५१] यथामनाविति दशर्चस्य सूक्तस्य श्रुष्टिगुरिंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः |
यथा॒ मनौ॒ सांव॑रणौ॒ सोम॑मिं॒द्रापि॑बः सु॒तं । नीपा॑तिथौ मघव॒न्मेध्या॑तिथौ॒ पुष्टि॑गौ॒ श्रुष्टि॑गौ॒ सचा॑ ॥
यथा॑ , मनौ॑ , सांऽव॑रणौ , सोमं॑ , इं॒द्र॒ , अपि॑बः , सु॒तं । नीप॑ऽअतिथौ , म॒घ॒ऽव॒न् , मेध्य॑ऽअतिथौ , पुष्टि॑ऽगौ , श्रुष्टि॑ऽगौ , सचा॑ ॥
पा॒र्ष॒द्वा॒णः प्रस्क॑ण्वं॒ सम॑सादय॒च्छया॑नं॒ जिव्रि॒मुद्धि॑तं । स॒हस्रा॑ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒ दस्य॑वे॒ वृकः॑ ॥
पा॒र्ष॒द्वा॒णः , प्रस्क॑ण्वं , सं , अ॒सा॒द॒य॒त् , शया॑नं , जिव्रिं॑ , उद्धि॑तं । स॒हस्रा॑णि , अ॒सि॒सा॒स॒त् , गवां॑ , ऋषिः॑ , त्वाऽऊ॑तः , दस्य॑वे , वृकः॑ ॥
य उ॒क्थेभि॒र्न विं॒धते॑ चि॒किद्य ऋ॑षि॒चोद॑नः । इंद्रं॒ तमच्छा॑ वद॒ नव्य॑स्या म॒त्यरि॑ष्यंतं॒ न भोज॑से ॥
यः , उ॒क्थेभिः॑ , न , विं॒धते॑ , चि॒कित् , यः , ऋ॒षि॒ऽचोद॑नः । इंद्रं॑ , तं , अच्छ॑ , व॒द॒ , नव्य॑स्या , म॒ती , अरि॑ष्यंतं , न , भोज॑से ॥
यस्मा॑ अ॒र्कं स॒प्तशी॑र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मे प॒दे । स त्वि१॒॑मा विश्वा॒ भुव॑नानि चिक्रद॒दादिज्ज॑निष्ट॒ पौंस्यं॑ ॥
यस्मै॑ , अ॒र्कं , स॒प्तऽशी॑र्षाणं , आ॒नृ॒चुः , त्रि॒ऽधातुं॑ , उ॒त्ऽत॒मे , प॒दे । सः , तु , इ॒मा , विश्वा॑ , भुव॑नानि , चि॒क्र॒द॒त् , आत् , इत् , ज॒नि॒ष्ट॒ , पौंस्यं॑ ॥
यो नो॑ दा॒ता वसू॑ना॒मिंद्रं॒ तं हू॑महे व॒यं । वि॒द्मा ह्य॑स्य सुम॒तिं नवी॑यसीं ग॒मेम॒ गोम॑ति व्र॒जे ॥
यः , नः॒ , दा॒ता , वसू॑नां , इंद्रं॑ , तं , हू॒म॒हे॒ , व॒यं । वि॒द्म , हि , अ॒स्य॒ , सु॒ऽम॒तिं , नवी॑यसीं , ग॒मेम॑ , गोऽम॑ति , व्र॒जे ॥
यस्मै॒ त्वं व॑सो दा॒नाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते । तं त्वा॑ व॒यं म॑घवन्निंद्र गिर्वणः सु॒तावं॑तो हवामहे ॥
यस्मै॑ , त्वं , व॒सो॒ इति॑ , दा॒नाय॑ , शिक्ष॑सि , सः , रा॒यः , पोषं॑ , अ॒श्नु॒ते॒ । तं , त्वा॒ , व॒यं , म॒घ॒ऽव॒न् , इं॒द्र॒ , गि॒र्व॒णः॒ , सु॒तऽवं॑तः , ह॒वा॒म॒हे॒ ॥
क॒दा च॒न स्त॒रीर॑सि॒ नेंद्र॑ सश्चसि दा॒शुषे॑ । उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥
क॒दा , च॒न , स्त॒रीः , अ॒सि॒ , न , इं॒द्र॒ , स॒श्च॒सि॒ , दा॒शुषे॑ । उप॑ऽउप , इत् , नु , म॒घ॒ऽव॒न् , भूयः॑ , इत् , नु , ते॒ , दानं॑ , दे॒वस्य॑ , पृ॒च्य॒ते॒ ॥
प्र यो न॑न॒क्षे अ॒भ्योज॑सा॒ क्रिविं॑ व॒धैः शुष्णं॑ निघो॒षय॑न् । य॒देदस्तं॑भीत्प्र॒थय॑न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ॥
प्र , यः , न॒न॒क्षे , अ॒भि , ओज॑सा , क्रिविं॑ , व॒धैः , शुष्णं॑ , नि॒ऽघो॒षय॑न् । य॒दा , इत् , अस्तं॑भीत् , प्र॒थय॑न् , अ॒मूं , दिवं॑ , आत् , इत् , ज॒नि॒ष्ट॒ , पार्थि॑वः ॥
यस्या॒यं विश्व॒ आर्यो॒ दासः॑ शेवधि॒पा अ॒रिः । ति॒रश्चि॑द॒र्ये रुश॑मे॒ परी॑रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ॥
यस्य॑ , अ॒यं , विश्वः॑ , आर्यः॑ , दासः॑ , शे॒व॒धि॒ऽपाः , अ॒रिः । ति॒रः , चि॒त् , अ॒र्ये , रुश॑मे , पवी॑रवि , तुभ्य॑ , इत् , सः , अ॒ज्य॒ते॒ , र॒यिः ॥
तु॒र॒ण्यवो॒ मधु॑मंतं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः । अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इंद॑वः ॥
तु॒र॒ण्यवः॑ , मधु॑ऽमंतं , घृ॒त॒ऽश्चुतं॑ , विप्रा॑सः , अ॒र्कं , आ॒नृ॒चुः॒ । अ॒स्मे इति॑ , र॒यिः , प॒प्र॒थे॒ , वृष्ण्यं॑ , शवः॑ , अ॒स्मे इति॑ , सु॒वा॒नासः॑ , इंद॑वः ॥
[५२] यथामनाविति दशर्चस्य सूक्तस्यायुरिंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः |
यथा॒ मनौ॒ विव॑स्वति॒ सोमं॑ श॒क्रापि॑बः सु॒तं । यथा॑ त्रि॒ते छंद॑ इंद्र॒ जुजो॑षस्या॒यौ मा॑दयसे॒ सचा॑ ॥
यथा॑ , मनौ॑ , विव॑स्वति , सोमं॑ , श॒क्र॒ , अपि॑बः , सु॒तं । यथा॑ , त्रि॒ते , छंदः॑ , इं॒द्र॒ , जुजो॑षसि , आ॒यौ , मा॒द॒य॒से॒ , सचा॑ ॥
पृष॑ध्रे॒ मेध्ये॑ मात॒रिश्व॒नींद्र॑ सुवा॒ने अमं॑दथाः । यथा॒ सोमं॒ दश॑शिप्रे॒ दशो॑ण्ये॒ स्यूम॑रश्मा॒वृजू॑नसि ॥
पृष॑ध्रे , मेध्ये॑ , मा॒त॒रिश्व॑नि , इंद्र॑ , सु॒वा॒ने , अमं॑दथाः । यथा॑ , सोमं॑ , दश॑ऽशिप्रे , दश॑ऽओण्ये , स्यूम॑ऽरश्मौ , ऋजू॑नसि ॥
य उ॒क्था केव॑ला द॒धे यः सोमं॑ धृषि॒तापि॑बत् । यस्मै॒ विष्णु॒स्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धर्म॑भिः ॥
यः , उ॒क्था , केव॑ला , द॒धे , यः , सोमं॑ , धृ॒षि॒ता , अपि॑बत् । यस्मै॑ , विष्णुः॑ , त्रीणि॑ , प॒दा , वि॒ऽच॒क्र॒मे , उप॑ , मि॒त्रस्य॑ , धर्म॑ऽभिः ॥
यस्य॒ त्वमिं॑द्र॒ स्तोमे॑षु चा॒कनो॒ वाजे॑ वाजिंछतक्रतो । तं त्वा॑ व॒यं सु॒दुघा॑मिव गो॒दुहो॑ जुहू॒मसि॑ श्रव॒स्यवः॑ ॥
यस्य॑ , त्वं , इं॒द्र॒ , स्तोमे॑षु , चा॒कनः॑ , वाजे॑ , वा॒जि॒न् , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । तं , त्वा॒ , व॒यं , सु॒दुघां॑ऽइव , गो॒ऽदुहः॑ , जु॒हू॒मसि॑ , श्र॒व॒स्यवः॑ ॥
यो नो॑ दा॒ता स नः॑ पि॒ता म॒हाँ उ॒ग्र ई॑शान॒कृत् । अया॑मन्नु॒ग्रो म॒घवा॑ पुरू॒वसु॒र्गोरश्व॑स्य॒ प्र दा॑तु नः ॥
यः , नः॒ , दा॒ता , सः , नः॒ , पि॒ता , म॒हान् , उ॒ग्रः , ई॒शा॒न॒ऽकृत् । अया॑मन् , उ॒ग्रः , म॒घऽवा॑ , पु॒रु॒ऽवसुः॑ , गोः , अश्व॑स्य , प्र , दा॒तु॒ , नः॒ ॥
यस्मै॒ त्वं व॑सो दा॒नाय॒ मंह॑से॒ स रा॒यस्पोष॑मिन्वति । व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिंद्रं॑ हवामहे ॥
यस्मै॑ , त्वं , व॒सो॒ इति॑ , दा॒नाय॑ , मंह॑से , सः , रा॒यः , पोषं॑ , इ॒न्व॒ति॒ । व॒सु॒ऽयवः॑ , वसु॑ऽपतिं , श॒तऽक्र॑तुं , स्तोमैः॑ , इंद्रं॑ , ह॒वा॒म॒हे॒ ॥
क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी । तुरी॑यादित्य॒ हव॑नं त इंद्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ॥
क॒दा , च॒न , प्र , यु॒च्छ॒सि॒ , उ॒भे इति॑ , नि , पा॒सि॒ , जन्म॑नी॒ इति॑ । तुरी॑य , आ॒दि॒त्य॒ , हव॑नं , ते॒ , इं॒द्रि॒यं , आ , त॒स्थौ॒ , अ॒मृतं॑ , दि॒वि ॥
यस्मै॒ त्वं म॑घवन्निंद्र गिर्वणः॒ शिक्षो॒ शिक्ष॑सि दा॒शुषे॑ । अ॒स्माकं॒ गिर॑ उ॒त सु॑ष्टु॒तिं व॑सो कण्व॒वच्छृ॑णुधी॒ हवं॑ ॥
यस्मै॑ , त्वं , म॒घ॒ऽव॒न् , इं॒द्र॒ , गि॒र्व॒णः॒ , शिक्षो॒ इति॑ , शिक्ष॑सि , दा॒शुषे॑ । अ॒स्माकं॑ , गिरः॑ , उ॒त , सु॒स्तु॒तिं , व॒सो॒ इति॑ , क॒ण्व॒ऽवत् , शृ॒णु॒धि॒ , हवं॑ ॥
अस्ता॑वि॒ मन्म॑ पू॒र्व्यं ब्रह्मेंद्रा॑य वोचत । पू॒र्वीर्ऋ॒तस्य॑ बृह॒तीर॑नूषत स्तो॒तुर्मे॒धा अ॑सृक्षत ॥
अस्ता॑वि , मन्म॑ , पू॒र्व्यं , ब्रह्म॑ , इंद्रा॑य , वो॒च॒त॒ । पू॒र्वीः , ऋ॒तस्य॑ , बृ॒ह॒तीः , अ॒नू॒ष॒त॒ , स्तो॒तुः , मे॒धाः , अ॒सृ॒क्ष॒त॒ ॥
समिंद्रो॒ रायो॑ बृह॒तीर॑धूनुत॒ सं क्षो॒णी समु॒ सूर्यं॑ । सं शु॒क्रासः॒ शुच॑यः॒ सं गवा॑शिरः॒ सोमा॒ इंद्र॑ममंदिषुः ॥
सं , इंद्रः॑ , रायः॑ , बृ॒ह॒तीः , अ॒धू॒नु॒त॒ , सं , क्षो॒णी इति॑ , सं , ऊँ॒ इति॑ , सूर्यं॑ । सं , शु॒क्रासः॑ , शुच॑यः , सं , गोऽआ॑शिरः , सोमाः॑ , इंद्रं॑ , अ॒मं॒दि॒षुः॒ ॥
[५३] उपमंत्वेत्यष्टर्चस्य सूक्तस्य मेध्य इंद्रः अयुजो बृहत्योयुजः सतोबृहत्यः |
उ॒प॒मं त्वा॑ म॒घोनां॒ ज्येष्ठं॑ च वृष॒भाणां॑ । पू॒र्भित्त॑मं मघवन्निंद्र गो॒विद॒मीशा॑नं रा॒य ई॑महे ॥
उ॒प॒ऽमं , त्वा॒ , म॒घोनां॑ , ज्येष्ठं॑ , च॒ , वृ॒ष॒भाणां॑ । पु॒र्भित्ऽत॑मं , म॒घ॒ऽव॒न् , इं॒द्र॒ , गो॒ऽविदं॑ , ईशा॑नं , रा॒यः , ई॒म॒हे॒ ॥
य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे । तं त्वा॑ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यंतो॑ हवामहे ॥
यः , आ॒युं , कुत्सं॑ , अ॒ति॒थि॒ऽग्वं , अर्द॑यः , व॒वृ॒धा॒नः , दि॒वेऽदि॑वे । तं , त्वा॒ , व॒यं , हरि॑ऽअश्वं , श॒तऽक्र॑तुं , वा॒ज॒ऽयंतः॑ , ह॒वा॒म॒हे॒ ॥
आ नो॒ विश्वे॑षां॒ रसं॒ मध्वः॑ सिंचं॒त्वद्र॑यः । ये प॑रा॒वति॑ सुन्वि॒रे जने॒ष्वा ये अ॑र्वा॒वतींद॑वः ॥
आ , नः॒ , विश्वे॑षां , रसं॑ , मध्वः॑ , सिं॒चं॒तु॒ , अद्र॑यः । ये , प॒रा॒ऽवति॑ , सु॒न्वि॒रे , जने॑षु , आ , ये , अ॒र्वा॒ऽवति॑ , इंद॑वः ॥
विश्वा॒ द्वेषां॑सि ज॒हि चाव॒ चा कृ॑धि॒ विश्वे॑ सन्वं॒त्वा वसु॑ । शीष्टे॑षु चित्ते मदि॒रासो॑ अं॒शवो॒ यत्रा॒ सोम॑स्य तृं॒पसि॑ ॥
विश्वा॑ , द्वेषां॑सि , ज॒हि , च॒ , अव॑ , च॒ , आ , कृ॒धि॒ , विश्वे॑ , स॒न्वं॒तु॒ , आ , वसु॑ । शीष्टे॑षु , चि॒त् , ते॒ , म॒दि॒रासः॑ , अं॒शवः॑ , यत्र॑ , सोम॑स्य , तृं॒पसि॑ ॥
इंद्र॒ नेदी॑य॒ एदि॑हि मि॒तमे॑धाभिरू॒तिभिः॑ । आ शं॑तम॒ शंत॑माभिर॒भिष्टि॑भि॒रा स्वा॑पे स्वा॒पिभिः॑ ॥
इंद्र॑ , नेदी॑यः , आ , इत् , इ॒हि॒ , मि॒तऽमे॑धाभिः , ऊ॒तिऽभिः॑ । आ , शं॒ऽत॒म॒ , शंऽत॑माभिः , अ॒भिष्टि॑ऽभिः , आ , सु॒ऽआ॒पे॒ , स्वा॒पिऽभिः॑ ॥
आ॒जि॒तुरं॒ सत्प॑तिं वि॒श्वच॑र्षणिं कृ॒धि प्र॒जास्वाभ॑गं । प्र सू ति॑रा॒ शची॑भि॒र्ये त॑ उ॒क्थिनः॒ क्रतुं॑ पुन॒त आ॑नु॒षक् ॥
आ॒जि॒ऽतुरं॑ , सत्ऽप॑तिं , वि॒श्वऽच॑र्षणिं , कृ॒धि , प्र॒ऽजासु॑ , आऽभ॑गं । प्र , सु , ति॒र॒ , शची॑भिः , ये , ते॒ , उ॒क्थिनः॑ , क्रतुं॑ , पु॒न॒ते , आ॒नु॒षक् ॥
यस्ते॒ साधि॒ष्ठोऽव॑से॒ ते स्या॑म॒ भरे॑षु ते । व॒यं होत्रा॑भिरु॒त दे॒वहू॑तिभिः सस॒वांसो॑ मनामहे ॥
यः , ते॒ , साधि॑ष्ठः , अव॑से , ते , स्या॒म॒ , भरे॑षु , ते॒ । व॒यं , होत्रा॑भिः , उ॒त , दे॒वहू॑तिऽभिः , स॒स॒ऽवांसः॑ , म॒ना॒म॒हे॒ ॥
अ॒हं हि ते॑ हरिवो॒ ब्रह्म॑ वाज॒युरा॒जिं यामि॒ सदो॒तिभिः॑ । त्वामिदे॒व तममे॒ सम॑श्व॒युर्ग॒व्युरग्रे॑ मथी॒नां ॥
अ॒हं , हि , ते॒ , ह॒रि॒ऽवः॒ , ब्रह्म॑ , वा॒ज॒ऽयुः , आ॒जिं , यामि॑ , सदा॑ , ऊ॒तिऽभिः॑ । त्वां , इत् , ए॒व , तं , अमे॑ , सं , अ॒श्व॒ऽयुः , ग॒व्युः , अग्रे॑ , म॒थी॒नां ॥
[५४] एतत्तइत्यष्टर्चस्य सूक्तस्य मातरिश्वानइंद्रस्तृतीयाचतुर्थ्योर्विश्वेदेवाः अयुजोबृहत्योयुजः सतोबृहत्यः |
ए॒तत्त॑ इंद्र वी॒र्यं॑ गी॒र्भिर्गृ॒णंति॑ का॒रवः॑ । ते स्तोभं॑त॒ ऊर्ज॑मावन्घृत॒श्चुतं॑ पौ॒रासो॑ नक्षंधी॒तिभिः॑ ॥
ए॒तत् , ते॒ , इं॒द्र॒ , वी॒र्यं॑ , गीः॒ऽभिः , गृ॒णंति॑ , का॒रवः॑ । ते , स्तोभं॑तः , ऊर्जं॑ , आ॒व॒न् , घृ॒त॒ऽश्चुतं॑ , पौ॒रासः॑ , न॒क्ष॒न् , धी॒तिऽभिः॑ ॥
नक्षं॑त॒ इंद्र॒मव॑से सुकृ॒त्यया॒ येषां॑ सु॒तेषु॒ मंद॑से । यथा॑ संव॒र्ते अम॑दो॒ यथा॑ कृ॒श ए॒वास्मे इं॑द्र मत्स्व ॥
नक्षं॑ते , इंद्रं॑ , अव॑से , सु॒ऽकृ॒त्यया॑ , येषां॑ , सु॒तेषु॑ , मंद॑से । यथा॑ , सं॒ऽव॒र्ते , अम॑दः , यथा॑ , कृ॒शे , ए॒व , अ॒स्मे इति॑ , इं॒द्र॒ , म॒त्स्व॒ ॥
आ नो॒ विश्वे॑ स॒जोष॑सो॒ देवा॑सो॒ गंत॒नोप॑ नः । वस॑वो रु॒द्रा अव॑से न॒ आ ग॑मंछृ॒ण्वंतु॑ म॒रुतो॒ हवं॑ ॥
आ , नः॒ , विश्वे॑ , स॒ऽजोष॑सः , देवा॑सः , गंत॑न , उप॑ , नः॒ । वस॑वः , रु॒द्राः , अव॑से , नः॒ , आ , ग॒म॒न् , शृ॒ण्वंतु॑ , म॒रुतः॑ , हवं॑ ॥
पू॒षा विष्णु॒र्हव॑नं मे॒ सर॑स्व॒त्यवं॑तु स॒प्त सिंध॑वः । आपो॒ वातः॒ पर्व॑तासो॒ वन॒स्पतिः॑ शृ॒णोतु॑ पृथि॒वी हवं॑ ॥
पू॒षा , विष्णुः॑ , हव॑नं , मे॒ , सर॑स्वती , अवं॑तु , स॒प्त , सिंध॑वः । आपः॑ , वातः॑ , पर्व॑तासः , वन॒स्पतिः॑ , शृ॒णोतु॑ , पृ॒थि॒वी , हवं॑ ॥
यदिं॑द्र॒ राधो॒ अस्ति॑ ते॒ माघो॑नं मघवत्तम । तेन॑ नो बोधि सध॒माद्यो॑ वृ॒धे भगो॑ दा॒नाय॑ वृत्रहन् ॥
यत् , इं॒द्र॒ , राधः॑ , अस्ति॑ , ते॒ , माघो॑नं , म॒घ॒व॒त्ऽत॒म॒ । तेन॑ , नः॒ , बो॒धि॒ , स॒ध॒ऽमाद्यः॑ , वृ॒धे , भगः॑ , दा॒नाय॑ , वृ॒त्र॒ऽह॒न् ॥
आजि॑पते नृपते॒ त्वमिद्धि नो॒ वाज॒ आ व॑क्षि सुक्रतो । वी॒ती होत्रा॑भिरु॒त दे॒ववी॑तिभिः सस॒वांसो॒ वि शृ॑ण्विरे ॥
आजि॑ऽपते , नृ॒ऽप॒ते॒ , त्वं , इत् , हि , नः॒ , वाजे॑ , आ , व॒क्षि॒ , सु॒क्र॒तो॒ इति॑ सुऽक्रतो । वी॒ती , होत्रा॑भिः , उ॒त , दे॒ववी॑तिऽभिः , स॒स॒ऽवांसः॑ , वि , शृ॒ण्वि॒रे॒ ॥
संति॒ ह्य१॒॑र्य आ॒शिष॒ इंद्र॒ आयु॒र्जना॑नां । अ॒स्मान्न॑क्षस्व मघव॒न्नुपाव॑से धु॒क्षस्व॑ पि॒प्युषी॒मिषं॑ ॥
संति॑ , हि , अ॒र्ये , आ॒ऽशिषः॑ , इंद्रे॑ , आयुः॑ , जना॑नां । अ॒स्मान् , न॒क्ष॒स्व॒ , म॒घ॒ऽव॒न् , उप॑ , अव॑से , धु॒क्षस्व॑ , पि॒प्युषीं॑ , इषं॑ ॥
व॒यं त॑ इंद्र॒ स्तोमे॑भिर्विधेम॒ त्वम॒स्माकं॑ शतक्रतो । महि॑ स्थू॒रं श॑श॒यं राधो॒ अह्र॑यं॒ प्रस्क॑ण्वाय॒ नि तो॑शय ॥
व॒यं , ते॒ , इं॒द्र॒ , स्तोमे॑भिः , वि॒धे॒म॒ , त्वं , अ॒स्माकं॑ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । महि॑ , स्थू॒रं , श॒श॒यं , राधः॑ , अह्र॑यं , प्रस्क॑ण्वाय , नि , तो॒श॒य॒ ॥
[५५] भूरीदिति पंचर्चस्य सूक्तस्य कृशइंद्रोगायत्री तृतीयापंचम्यावनुष्टुभौ |
भूरीदिंद्र॑स्य वी॒र्यं१॒॑ व्यख्य॑म॒भ्याय॑ति । राध॑स्ते दस्यवे वृक ॥
भूरि॑ , इत् , इंद्र॑स्य , वी॒र्यं॑ , वि , अख्यं॑ , अ॒भि , आ , अ॒य॒ति॒ । राधः॑ , ते॒ , द॒स्य॒वे॒ , वृ॒क॒ ॥
श॒तं श्वे॒तास॑ उ॒क्षणो॑ दि॒वि तारो॒ न रो॑चंते । म॒ह्ना दिवं॒ न त॑स्तभुः ॥
श॒तं , श्वे॒तासः॑ , उ॒क्षणः॑ , दि॒वि , तारः॑ , न , रो॒चं॒ते॒ । म॒ह्ना , दिवं॑ , न , त॒स्त॒भुः॒ ॥
श॒तं वे॒णूंछ॒तं शुनः॑ श॒तं चर्मा॑णि म्ला॒तानि॑ । श॒तं मे॑ बल्बजस्तु॒का अरु॑षीणां॒ चतुः॑शतं ॥
श॒तं , वे॒णून् , श॒तं , शुनः॑ , श॒तं , चर्मा॑णि , म्ला॒तानि॑ । श॒तं , मे॒ , ब॒ल्ब॒ज॒ऽस्तु॒काः , अरु॑षीणां , चतुः॑ऽशतं ॥
सु॒दे॒वाः स्थ॑ काण्वायना॒ वयो॑वयो विच॒रंतः॑ । अश्वा॑सो॒ न चं॑क्रमत ॥
सु॒ऽदे॒वाः , स्थ॒ , का॒ण्वा॒य॒नाः॒ , वयः॑ऽवयः , वि॒ऽच॒रंतः॑ । अश्वा॑सः , न , चं॒क्र॒म॒त॒ ॥
आदित्सा॒प्तस्य॑ चर्किर॒न्नानू॑नस्य॒ महि॒ श्रवः॑ । श्यावी॑रतिध्व॒सन्प॒थश्चक्षु॑षा च॒न सं॒नशे॑ ॥
आत् , इत् , सा॒प्तस्य॑ , च॒र्कि॒र॒न् , न , अनू॑नस्य , महि॑ , श्रवः॑ । श्यावीः॑ , अ॒ति॒ऽध्व॒सन् , प॒थः , चक्षु॑षा , च॒न , सं॒ऽनशे॑ ॥
[५६] प्रतितइति पंचर्चस्य सूक्तस्य पृषध्रइंद्रोंत्याया अग्निसूर्यौगायत्र्यंत्यापंक्तिः |
प्रति॑ ते दस्यवे वृक॒ राधो॑ अद॒र्श्यह्र॑यं । द्यौर्न प्र॑थि॒ना शवः॑ ॥
प्रति॑ , ते॒ , द॒स्य॒वे॒ , वृ॒क॒ , राधः॑ , अ॒द॒र्शि॒ , अह्र॑यं । द्यौः , न , प्र॒थि॒ना , शवः॑ ॥
दश॒ मह्यं॑ पौतक्र॒तः स॒हस्रा॒ दस्य॑वे॒ वृकः॑ । नित्या॑द्रा॒यो अ॑मंहत ॥
दश॑ , मह्यं॑ , पौ॒त॒ऽक्र॒तः , स॒हस्रा॑ , दस्य॑वे , वृकः॑ । नित्या॑त् , रा॒यः , अ॒मं॒ह॒त॒ ॥
श॒तं मे॑ गर्द॒भानां॑ श॒तमूर्णा॑वतीनां । श॒तं दा॒साँ अति॒ स्रजः॑ ॥
श॒तं , मे॒ , ग॒र्द॒भानां॑ , श॒तं , ऊर्णा॑ऽवतीनां । श॒तं , दा॒सान् , अति॑ , स्रजः॑ ॥
तत्रो॒ अपि॒ प्राणी॑यत पू॒तक्र॑तायै॒ व्य॑क्ता । अश्वा॑ना॒मिन्न यू॒थ्यां॑ ॥
तत्रो॒ इति॑ , अपि॑ , प्र , अ॒नी॒य॒त॒ , पू॒तऽक्र॑तायै , विऽअ॑क्ता । अश्वा॑नां , इत् , न , यू॒थ्यां॑ ॥
अचे॑त्य॒ग्निश्चि॑कि॒तुर्ह॑व्य॒वाट् स सु॒मद्र॑थः । अ॒ग्निः शु॒क्रेण॑ शो॒चिषा॑ बृ॒हत्सूरो॑ अरोचत दि॒वि सूर्यो॑ अरोचत ॥
अचे॑ति , अ॒ग्निः , चि॒कि॒तुः , ह॒व्य॒ऽवाट् , सः , सु॒मत्ऽर॑थः । अ॒ग्निः , शु॒क्रेण॑ , शो॒चिषा॑ , बृ॒हत् , सूरः॑ , अ॒रो॒च॒त॒ , दि॒वि , सूर्यः॑ , अ॒रो॒च॒त॒ ॥
[५७] युवंदेवेति चतुरृचस्य सूक्तस्य मेध्योश्विनौत्रिष्टुप् |
यु॒वं दे॑वा॒ क्रतु॑ना पू॒र्व्येण॑ यु॒क्ता रथे॑न तवि॒षं य॑जत्रा । आग॑च्छतं नासत्या॒ शची॑भिरि॒दं तृ॒तीयं॒ सव॑नं पिबाथः ॥
यु॒वं , दे॒वा॒ , क्रतु॑ना , पू॒र्व्येण॑ , यु॒क्ता , रथे॑न , त॒वि॒षं , य॒ज॒त्रा॒ । आ , अ॒ग॒च्छ॒तं॒ , ना॒स॒त्या॒ , शची॑भिः , इ॒दं , तृ॒तीयं॑ , सव॑नं , पि॒बा॒थः॒ ॥
यु॒वां दे॒वास्त्रय॑ एकाद॒शासः॑ स॒त्याः स॒त्यस्य॑ ददृशे पु॒रस्ता॑त् । अ॒स्माकं॑ य॒ज्ञं सव॑नं जुषा॒णा पा॒तं सोम॑मश्विना॒ दीद्य॑ग्नी ॥
यु॒वां , दे॒वाः , त्रयः॑ , ए॒का॒द॒शासः॑ , स॒त्याः , स॒त्यस्य॑ , द॒दृ॒शे॒ , पु॒रस्ता॑त् । अ॒स्माकं॑ , य॒ज्ञं , सव॑नं , जु॒षा॒णा , पा॒तं , सोमं॑ , अ॒श्वि॒ना॒ , दीद्य॑ग्नी॒ इति॒ दीदि॑ऽअग्नी ॥
प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः । स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥
प॒नाय्यं॑ , तत् , अ॒श्वि॒ना॒ , कृ॒तं , वां॒ , वृ॒ष॒भः , दि॒वः , रज॑सः , पृ॒थि॒व्याः । स॒हस्रं॑ , शंसाः॑ , उ॒त , ये , गोऽइ॑ष्टौ , सर्वा॑न् , इत् , तान् , उप॑ , या॒त॒ , पिब॑ध्यै ॥
अ॒यं वां॑ भा॒गो निहि॑तो यजत्रे॒मा गिरो॑ नास॒त्योप॑ यातं । पिब॑तं॒ सोमं॒ मधु॑मंतम॒स्मे प्र दा॒श्वांस॑मवतं॒ शची॑भिः ॥
अ॒यं , वां॒ , भा॒गः , निऽहि॑तः , य॒ज॒त्रा॒ , इ॒माः , गिरः॑ , ना॒स॒त्या॒ , उप॑ , या॒तं॒ । पिब॑तं , सोमं॑ , मधु॑ऽमंतं , अ॒स्मे इति॑ , प्र , दा॒श्वांसं॑ , अ॒व॒तं॒ , शची॑भिः ॥
[५८] यमृत्विजइति तृचस्य सूक्तस्य मेध्योविश्वेदेवास्त्रिष्टुप् (आद्यायाऋत्विजोदेवतावा) |
यमृ॒त्विजो॑ बहु॒धा क॒ल्पयं॑तः॒ सचे॑तसो य॒ज्ञमि॒मं वहं॑ति । यो अ॑नूचा॒नो ब्रा॑ह्म॒णो यु॒क्त आ॑सी॒त्का स्वि॒त्तत्र॒ यज॑मानस्य सं॒वित् ॥
यं , ऋ॒त्विजः॑ , ब॒हु॒धा , क॒ल्पयं॑तः , सऽचे॑तसः , य॒ज्ञं , इ॒मं , वहं॑ति । यः , अ॒नू॒चा॒नः , ब्रा॒ह्म॒णः , यु॒क्तः , आ॒सी॒त् , का , स्वि॒त् , तत्र॑ , यज॑मानस्य , सं॒ऽवित् ॥
एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्ध॒ एकः॒ सूर्यो॒ विश्व॒मनु॒ प्रभू॑तः । एकै॒वोषाः सर्व॑मि॒दं वि भा॒त्येकं॒ वा इ॒दं वि ब॑भूव॒ सर्वं॑ ॥
एकः॑ , ए॒व , अ॒ग्निः , ब॒हु॒धा , संऽइ॑द्धः , एकः॑ , सूर्यः॑ , विश्वं॑ , अनु॑ , प्रऽभू॑तः । एका॑ , ए॒व , उ॒षाः , सर्वं॑ , इ॒दं , वि , भा॒ति॒ , एकं॑ , वै॒ , इ॒दं , वि , ब॒भू॒व॒ , सर्वं॑ ॥
ज्योति॑ष्मंतं केतु॒मंतं॑ त्रिच॒क्रं सु॒खं रथं॑ सु॒षदं॒ भूरि॑वारं । चि॒त्राम॑घा॒ यस्य॒ योगे॑ऽधिजज्ञे॒ तं वां॑ हु॒वे अति॑ रिक्तं॒ पिब॑ध्यै ॥
ज्योति॑ष्मंतं , के॒तु॒ऽमंतं॑ , त्रि॒ऽच॒क्रं , सु॒ऽखं , रथं॑ , सु॒ऽसदं॑ , भूरि॑ऽवारं । चि॒त्रऽम॑घा , यस्य॑ , योगे॑ , अ॒धि॒ऽज॒ज्ञे॒ , तं , वां॒ , हु॒वे , अति॑ , रिक्तं॑ , पिब॑ध्यै ॥
[५९] इमानिवामिति सप्तर्चस्य सूक्तस्य सुपर्णइंद्रावरुणौजगती |
इ॒मानि॑ वां भाग॒धेया॑नि सिस्रत॒ इंद्रा॑वरुणा॒ प्र म॒हे सु॒तेषु॑ वां । य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑थः ॥
इ॒मानि॑ , वां॒ , भा॒ग॒ऽधेया॑नि , सि॒स्र॒ते॒ , इंद्रा॑वरुणा , प्र , म॒हे , सु॒तेषु॑ , वां॒ । य॒ज्ञेऽय॑ज्ञे , ह॒ , सव॑ना , भु॒र॒ण्यथः॑ , यत् , सु॒न्व॒ते , यज॑मानाय , शिक्ष॑थः ॥
नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑ आस्ता॒मिंद्रा॑वरुणा महि॒मान॒माश॑त । या सिस्र॑तू॒ रज॑सः पा॒रे अध्व॑नो॒ ययोः॒ शत्रु॒र्नकि॒रादे॑व॒ ओह॑ते ॥
निः॒ऽसिध्व॑रीः , ओष॑धीः , आपः॑ , आ॒स्तां॒ , इंद्रा॑वरुणा , म॒हि॒मानं॑ , आ॒श॒त॒ । या , सिस्र॑तुः , रज॑सः , पा॒रे , अध्व॑नः , ययोः॑ , शत्रुः॑ , नकिः॑ , अदे॑वः , ओह॑ते ॥
स॒त्यं तदिं॑द्रावरुणा कृ॒शस्य॑ वां॒ मध्व॑ ऊ॒र्मिं दु॑हते स॒प्त वाणीः॑ । ताभि॑र्दा॒श्वांस॑मवतं शुभस्पती॒ यो वा॒मद॑ब्धो अ॒भि पाति॒ चित्ति॑भिः ॥
स॒त्यं , तत् , इं॒द्रा॒व॒रु॒णा॒ , कृ॒शस्य॑ , वां॒ , मध्वः॑ , ऊ॒र्मिं , दु॒ह॒ते॒ , स॒प्त , वाणीः॑ । ताभिः॑ , दा॒श्वांसं॑ , अ॒व॒तं॒ , शु॒भः॒ , प॒ती॒ इति॑ , यः , वां॒ , अद॑ब्धः , अ॒भि , पाति॑ , चित्ति॑ऽभिः ॥
घृ॒त॒प्रुषः॒ सौम्या॑ जी॒रदा॑नवः स॒प्त स्वसा॑रः॒ सद॑न ऋ॒तस्य॑ । या ह॑ वामिंद्रावरुणा घृत॒श्चुत॒स्ताभि॑र्धत्तं॒ यज॑मानाय शिक्षतं ॥
घृ॒त॒ऽप्रुषः॑ , सौम्याः॑ , जी॒रऽदा॑नवः , स॒प्त , स्वसा॑रः , सद॑ने , ऋ॒तस्य॑ । याः , ह॒ , वां॒ , इं॒द्रा॒व॒रु॒णा॒ , घृ॒त॒ऽश्चुतः॑ , ताभिः॑ , ध॒त्तं॒ , यज॑मानाय , शि॒क्ष॒तं॒ ॥
अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिंद्रि॒यं । अ॒स्मांत्स्विं॑द्रावरुणा घृत॒श्चुत॒स्त्रिभिः॑ सा॒प्तेभि॑रवतं शुभस्पती ॥
अवो॑चाम , म॒ह॒ते , सौभ॑गाय , स॒त्यं , त्वे॒षाभ्यां॑ , म॒हि॒मानं॑ , इं॒द्रि॒यं । अ॒स्मान् , सु , इं॒द्रा॒व॒रु॒णा॒ , घृ॒त॒ऽश्चुतः॑ , त्रिऽभिः॑ , सा॒प्तेभिः॑ , अ॒व॒तं॒ , शु॒भः॒ , प॒ती॒ इति॑ ॥
इंद्रा॑वरुणा॒ यदृ॒षिभ्यो॑ मनी॒षां वा॒चो म॒तिं श्रु॒तम॑दत्त॒मग्रे॑ । यानि॒ स्थाना॑न्यसृजंत॒ धीरा॑ य॒ज्ञं त॑न्वा॒नास्तप॑सा॒भ्य॑पश्यं ॥
इंद्रा॑वरुणा , यत् , ऋ॒षिऽभ्यः॑ , म॒नी॒षां , वा॒चः , म॒तिं , श्रु॒तं , अ॒द॒त्तं॒ , अग्रे॑ । यानि॑ , स्थाना॑नि , अ॒सृ॒जं॒त॒ , धीराः॑ , य॒ज्ञं , त॒न्वा॒नाः , तप॑सा , अ॒भि , अ॒प॒श्यं॒ ॥
इंद्रा॑वरुणा सौमन॒समदृ॑प्तं रा॒यस्पोषं॒ यज॑मानेषु धत्तं । प्र॒जां पु॒ष्टिं भू॑तिम॒स्मासु॑ धत्तं दीर्घायु॒त्वाय॒ प्र ति॑रतं न॒ आयुः॑ ॥
इंद्रा॑वरुणा , सौ॒म॒न॒सं , अदृ॑प्तं , रा॒यः , पोषं॑ , यज॑मानेषु , ध॒त्तं॒ । प्र॒ऽजां , पु॒ष्टिं , भू॒तिं॒ , अ॒स्मासु॑ , ध॒त्तं॒ , दी॒र्घा॒यु॒ऽत्वाय॑ , प्र , ति॒र॒तं॒ , नः॒ , आयुः॑ ॥
[६०] अग्नआयाहीति विंशत्यृचस्य सूक्तस्य प्रागाथोभर्गोग्निः अयुजोबृहत्योयुजःसतोबृहत्यः |
अग्न॒ आ या॑ह्य॒ग्निभि॒र्होता॑रं त्वा वृणीमहे । आ त्वाम॑नक्तु॒ प्रय॑ता ह॒विष्म॑ती॒ यजि॑ष्ठं ब॒र्हिरा॒सदे॑ ॥
अग्ने॑ , आ , या॒हि॒ , अ॒ग्निऽभिः॑ , होता॑रं , त्वा॒ , वृ॒णी॒म॒हे॒ । आ , त्वां , अ॒न॒क्तु॒ , प्रऽय॑ता , ह॒विष्म॑ती , यजि॑ष्ठं , ब॒र्हिः , आ॒ऽसदे॑ ॥
अच्छा॒ हि त्वा॑ सहसः सूनो अंगिरः॒ स्रुच॒श्चरं॑त्यध्व॒रे । ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यं ॥
अच्छ॑ , हि , त्वा॒ , स॒ह॒सः॒ , सू॒नो॒ इति॑ , अं॒गि॒रः॒ , स्रुचः॑ , चरं॑ति , अ॒ध्व॒रे । ऊ॒र्जः , नपा॑तं , घृ॒तऽके॑शं , ई॒म॒हे॒ , अ॒ग्निं , य॒ज्ञेषु॑ , पू॒र्व्यं ॥
अग्ने॑ क॒विर्वे॒धा अ॑सि॒ होता॑ पावक॒ यक्ष्यः॑ । मं॒द्रो यजि॑ष्ठो अध्व॒रेष्वीड्यो॒ विप्रे॑भिः शुक्र॒ मन्म॑भिः ॥
अग्ने॑ , क॒विः , वे॒धाः , अ॒सि॒ , होता॑ , पा॒व॒क॒ , यक्ष्यः॑ । मं॒द्रः , यजि॑ष्ठः , अ॒ध्व॒रेषु॑ , ईड्यः॑ , विप्रे॑भिः , शु॒क्र॒ , मन्म॑ऽभिः ॥
अद्रो॑घ॒मा व॑होश॒तो य॑विष्ठ्य दे॒वाँ अ॑जस्र वी॒तये॑ । अ॒भि प्रयां॑सि॒ सुधि॒ता व॑सो गहि॒ मंद॑स्व धी॒तिभि॑र्हि॒तः ॥
अद्रो॑घं , आ , व॒ह॒ , उ॒श॒तः , य॒वि॒ष्ठ्य॒ , दे॒वान् , अ॒ज॒स्र॒ , वी॒तये॑ । अ॒भि , प्रयां॑सि , सुऽधि॑ता , आ , व॒सो॒ इति॑ , ग॒हि॒ , मंद॑स्व , धी॒तिऽभिः॑ , हि॒तः ॥
त्वमित्स॒प्रथा॑ अ॒स्यग्ने॑ त्रातर्ऋ॒तस्क॒विः । त्वां विप्रा॑सः समिधान दीदिव॒ आ वि॑वासंति वे॒धसः॑ ॥
त्वं , इत् , स॒ऽप्रथाः॑ , अ॒सि॒ , अग्ने॑ , त्रा॒तः॒ , ऋ॒तः , क॒विः । त्वां , विप्रा॑सः , सं॒ऽइ॒धा॒न॒ , दी॒दि॒ऽवः॒ , आ , वि॒वा॒सं॒ति॒ , वे॒धसः॑ ॥
शोचा॑ शोचिष्ठ दीदि॒हि वि॒शे मयो॒ रास्व॑ स्तो॒त्रे म॒हाँ अ॑सि । दे॒वानां॒ शर्म॒न्मम॑ संतु सू॒रयः॑ शत्रू॒षाहः॑ स्व॒ग्नयः॑ ॥
शोच॑ , शो॒चि॒ष्ठ॒ , दी॒दि॒हि , वि॒शे , मयः॑ , रास्व॑ , स्तो॒त्रे , म॒हान् , अ॒सि॒ । दे॒वानां॑ , शर्म॑न् , मम॑ , सं॒तु॒ , सू॒रयः॑ , श॒त्रु॒ऽसहः॑ , सु॒ऽअ॒ग्नयः॑ ॥
यथा॑ चिद्वृ॒द्धम॑त॒समग्ने॑ सं॒जूर्व॑सि॒ क्षमि॑ । ए॒वा द॑ह मित्रमहो॒ यो अ॑स्म॒ध्रुग्दु॒र्मन्मा॒ कश्च॒ वेन॑ति ॥
यथा॑ , चि॒त् , वृ॒द्धं , अ॒त॒सं , अग्ने॑ , सं॒ऽजूर्व॑सि , क्षमि॑ । ए॒व , द॒ह॒ , मि॒त्र॒ऽम॒हः॒ , यः , अ॒स्म॒ऽध्रुक् , दुः॒ऽमन्मा॑ , कः , च॒ , वेन॑ति ॥
मा नो॒ मर्ता॑य रि॒पवे॑ रक्ष॒स्विने॒ माघशं॑साय रीरधः । अस्रे॑धद्भिस्त॒रणि॑भिर्यविष्ठ्य शि॒वेभिः॑ पाहि पा॒युभिः॑ ॥
मा , नः॒ , मर्ता॑य , रि॒पवे॑ , र॒क्ष॒स्विने॑ , मा , अ॒घऽशं॑साय , री॒र॒धः॒ । अस्रे॑धत्ऽभिः , त॒रणि॑ऽभिः , य॒वि॒ष्ठ्य॒ , शि॒वेभिः॑ , पा॒हि॒ , पा॒युऽभिः॑ ॥
पा॒हि नो॑ अग्न॒ एक॑या पा॒ह्यु१॒॑त द्वि॒तीय॑या । पा॒हि गी॒र्भिस्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि॑र्वसो ॥
पा॒हि , नः॒ , अ॒ग्ने॒ , एक॑या , पा॒हि , उ॒त , द्वि॒तीय॑या । पा॒हि , गीः॒ऽभिः , ति॒सृऽभिः॑ , ऊ॒र्जां॒ , प॒ते॒ , पा॒हि , च॒त॒सृऽभिः॑ , व॒सो॒ इति॑ ॥
पा॒हि विश्व॑स्माद्र॒क्षसो॒ अरा॑व्णः॒ प्र स्म॒ वाजे॑षु नोऽव । त्वामिद्धि नेदि॑ष्ठं दे॒वता॑तय आ॒पिं नक्षा॑महे वृ॒धे ॥
पा॒हि , विश्व॑स्मात् , र॒क्षसः॑ , अरा॑व्णः , प्र , स्म॒ , वाजे॑षु , नः॒ , अ॒व॒ । त्वां , इत् , हि , नेदि॑ष्ठं , दे॒वऽता॑तये , आ॒पिं , नक्षा॑महे , वृ॒धे ॥
आ नो॑ अग्ने वयो॒वृधं॑ र॒यिं पा॑वक॒ शंस्यं॑ । रास्वा॑ च न उपमाते पुरु॒स्पृहं॒ सुनी॑ती॒ स्वय॑शस्तरं ॥
आ , नः॒ , अ॒ग्ने॒ , व॒यः॒ऽवृधं॑ , र॒यिं , पा॒व॒क॒ , शंस्यं॑ । रास्व॑ , च॒ , नः॒ , उ॒प॒ऽमा॒ते॒ , पु॒रु॒ऽस्पृहं॑ , सुऽनी॑ती , स्वय॑शःऽतरं ॥
येन॒ वंसा॑म॒ पृत॑नासु॒ शर्ध॑त॒स्तरं॑तो अ॒र्य आ॒दिशः॑ । स त्वं नो॑ वर्ध॒ प्रय॑सा शचीवसो॒ जिन्वा॒ धियो॑ वसु॒विदः॑ ॥
येन॑ , वंसा॑म , पृत॑नासु , शर्ध॑तः , तरं॑तः , अ॒र्यः , आ॒ऽदिशः॑ । सः , त्वं , नः॒ , व॒र्ध॒ , प्रय॑सा , श॒ची॒व॒सो॒ इति॑ शचीऽवसो , जिन्व॑ , धियः॑ , व॒सु॒ऽविदः॑ ॥
शिशा॑नो वृष॒भो य॑था॒ग्निः शृंगे॒ दवि॑ध्वत् । ति॒ग्मा अ॑स्य॒ हन॑वो॒ न प्र॑ति॒धृषे॑ सु॒जंभः॒ सह॑सो य॒हुः ॥
शिशा॑नः , वृ॒ष॒भः , य॒था॒ , अ॒ग्निः , शृंगे॒ इति॑ , दवि॑ध्वत् । ति॒ग्माः , अ॒स्य॒ , हन॑वः , न , प्र॒ति॒ऽधृषे॑ , सु॒ऽजंभः॑ , सह॑सः , य॒हुः ॥
न॒हि ते॑ अग्ने वृषभ प्रति॒धृषे॒ जंभा॑सो॒ यद्वि॒तिष्ठ॑से । स त्वं नो॑ होतः॒ सुहु॑तं ह॒विष्कृ॑धि॒ वंस्वा॑ नो॒ वार्या॑ पु॒रु ॥
न॒हि , ते॒ , अ॒ग्ने॒ , वृ॒ष॒भ॒ , प्र॒ति॒ऽधृषे॑ , जंभा॑सः , यत् , वि॒ऽतिष्ठ॑से । सः , त्वं , नः॒ , हो॒त॒रिति॑ , सुऽहु॑तं , ह॒विः , कृ॒धि॒ , वंस्व॑ , नः॒ , वार्या॑ , पु॒रु ॥
शेषे॒ वने॑षु मा॒त्रोः सं त्वा॒ मर्ता॑स इंधते । अतं॑द्रो ह॒व्या व॑हसि हवि॒ष्कृत॒ आदिद्दे॒वेषु॑ राजसि ॥
शेषे॑ , वने॑षु , मा॒त्रोः , सं , त्वा॒ , मर्ता॑सः , इं॒ध॒ते॒ । अतं॑द्रः , ह॒व्या , व॒ह॒सि॒ , ह॒विः॒ऽकृतः॑ , आत् , इत् , दे॒वेषु॑ , रा॒ज॒सि॒ ॥
स॒प्त होता॑र॒स्तमिदी॑ळते॒ त्वाग्ने॑ सु॒त्यज॒मह्र॑यं । भि॒नत्स्यद्रिं॒ तप॑सा॒ वि शो॒चिषा॒ प्राग्ने॑ तिष्ठ॒ जनाँ॒ अति॑ ॥
स॒प्त , होता॑रः , तं , इत् , ई॒ळ॒ते॒ , त्वा॒ , अग्ने॑ , सु॒ऽत्यजं॑ , अह्र॑यं । भि॒नत्सि॑ , अद्रिं॑ , तप॑सा , वि , शो॒चिषा॑ , प्र , अ॒ग्ने॒ , ति॒ष्ठ॒ , जना॑न् , अति॑ ॥
अ॒ग्निम॑ग्निं वो॒ अध्रि॑गुं हु॒वेम॑ वृ॒क्तब॑र्हिषः । अ॒ग्निं हि॒तप्र॑यसः शश्व॒तीष्वा होता॑रं चर्षणी॒नां ॥
अ॒ग्निंऽअ॑ग्निं , वः॒ , अध्रि॑ऽगुं , हु॒वेम॑ , वृ॒क्तऽब॑र्हिषः । अ॒ग्निं , हि॒तऽप्र॑यसः , श॒श्व॒तीषु॑ , आ , होता॑रं , च॒र्ष॒णी॒नां ॥
केते॑न॒ शर्मं॑त्सचते सुषा॒मण्यग्ने॒ तुभ्यं॑ चिकि॒त्वना॑ । इ॒ष॒ण्यया॑ नः पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥
केते॑न , शर्म॑न् , स॒च॒ते॒ , सु॒ऽसा॒मनि॑ , अग्ने॑ , तुभ्यं॑ , चि॒कि॒त्वना॑ । इ॒ष॒ण्यया॑ , नः॒ , पु॒रु॒ऽरूपं॑ , आ , भ॒र॒ , वाज॑न् , नेदि॑ष्ठं , ऊ॒तये॑ ॥
अग्ने॒ जरि॑तर्वि॒श्पति॑स्तेपा॒नो दे॑व र॒क्षसः॑ । अप्रो॑षिवान्गृ॒हप॑तिर्म॒हाँ अ॑सि दि॒वस्पा॒युर्दु॑रोण॒युः ॥
अग्ने॑ , जरि॑तः , वि॒श्पतिः॑ , ते॒पा॒नः , दे॒व॒ , र॒क्षसः॑ । अप्रो॑षिऽवान् , गृ॒हऽप॑तिः , म॒हान् , अ॒सि॒ , दि॒वः , पा॒युः , दु॒रो॒ण॒ऽयुः ॥
मा नो॒ रक्ष॒ आ वे॑शीदाघृणीवसो॒ मा या॒तुर्या॑तु॒माव॑तां । प॒रो॒ग॒व्यू॒त्यनि॑रा॒मप॒ क्षुध॒मग्ने॒ सेध॑ रक्ष॒स्विनः॑ ॥
मा , नः॒ , रक्षः॑ , आ , वे॒शी॒त् , आ॒घृ॒णि॒व॒सो॒ इत्या॑घृणिऽवसो , मा , या॒तुः , या॒तु॒ऽमाव॑तां । प॒रः॒ऽग॒व्यू॒ति , अनि॑रां , अप॑ , क्षुधं॑ , अग्ने॑ , सेध॑ , र॒क्ष॒स्विनः॑ ॥
[६१] उभयमित्यष्टादशर्चस्य सूक्तस्य प्रागाथोभर्गइंद्रः अयुजो बृहत्योयुजः सतोबृहत्यः |
उ॒भयं॑ शृ॒णव॑च्च न॒ इंद्रो॑ अ॒र्वागि॒दं वचः॑ । स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥
उ॒भयं॑ , शृ॒णव॑त् , च॒ , नः॒ , इंद्रः॑ , अ॒र्वाक् , इ॒दं , वचः॑ । स॒त्राच्या॑ , म॒घऽवा॑ , सोम॑ऽपीतये , धि॒या , शवि॑ष्ठः , आ , ग॒म॒त् ॥
तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतुः॑ । उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ॥
तं , हि , स्व॒ऽराजं॑ , वृ॒ष॒भं , तं , ओज॑से , धि॒षणे॒ इति॑ , निः॒ऽत॒त॒क्षतुः॑ । उ॒त , उ॒प॒ऽमानां॑ , प्र॒थ॒मः , नि , सी॒द॒सि॒ , सोम॑ऽकामं , हि , ते॒ , मनः॑ ॥
आ वृ॑षस्व पुरूवसो सु॒तस्यें॒द्रांध॑सः । वि॒द्मा हि त्वा॑ हरिवः पृ॒त्सु सा॑स॒हिमधृ॑ष्टं चिद्दधृ॒ष्वणिं॑ ॥
आ , वृ॒ष॒स्व॒ , पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो , सु॒तस्य॑ , इं॒द्र॒ , अंध॑सः । वि॒द्म , हि , त्वा॒ , ह॒रि॒ऽवः॒ , पृ॒त्ऽसु , स॒स॒हिं , अधृ॑ष्टं , चि॒त् , द॒धृ॒ष्वणिं॑ ॥
अप्रा॑मिसत्य मघवं॒तथेद॑स॒दिंद्र॒ क्रत्वा॒ यथा॒ वशः॑ । स॒नेम॒ वाजं॒ तव॑ शिप्रि॒न्नव॑सा म॒क्षू चि॒द्यंतो॑ अद्रिवः ॥
अप्रा॑मिऽसत्य , म॒घ॒ऽव॒न् , तथा॑ , इत् , अ॒स॒त् , इंद्र॑ , क्रत्वा॑ , यथा॑ , वशः॑ । स॒नेम॑ , वाजं॑ , तव॑ , शि॒प्रि॒न् , अव॑सा , म॒क्षु , चि॒त् , यंतः॑ , अ॒द्रि॒ऽवः॒ ॥
श॒ग्ध्यू॒३॒॑ षु श॑चीपत॒ इंद्र॒ विश्वा॑भिरू॒तिभिः॑ । भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥
श॒ग्धि , ऊँ॒ इति॑ , सु , श॒ची॒ऽप॒ते॒ , इंद्र॑ , विश्वा॑भिः , ऊ॒तिऽभिः॑ । भगं॑ , न , हि , त्वा॒ , य॒शसं॑ , व॒सु॒ऽविदं॑ , अनु॑ , शू॒र॒ , चरा॑मसि ॥
पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑ । नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥
पौ॒रः , अश्व॑स्य , पु॒रु॒ऽकृत् , गवां॑ , अ॒सि॒ , उत्सः॑ , दे॒व॒ , हि॒र॒ण्ययः॑ । नकिः॑ , हि , दानं॑ , प॒रि॒ऽमर्धि॑षत् , त्वे इति॑ , यत्ऽय॑त् , यामि॑ , तत् , आ , भ॒र॒ ॥
त्वं ह्येहि॒ चेर॑वे वि॒दा भगं॒ वसु॑त्तये । उद्वा॑वृषस्व मघव॒न्गवि॑ष्टय॒ उदिं॒द्राश्व॑मिष्टये ॥
त्वं , हि , आ , इ॒हि॒ , चेर॑वे , वि॒दाः , भगं॑ , वसु॑त्तये । उत् , व॒वृ॒ष॒स्व॒ , म॒घ॒ऽव॒न् , गोऽइ॑ष्टये , उत् , इं॒द्र॒ , अश्वं॑ऽइष्टये ॥
त्वं पु॒रू स॒हस्रा॑णि श॒तानि॑ च यू॒था दा॒नाय॑ मंहसे । आ पु॑रंद॒रं च॑कृम॒ विप्र॑वचस॒ इंद्रं॒ गायं॒तोऽव॑से ॥
त्वं , पु॒रु , स॒हस्रा॑णि , श॒तानि॑ , च॒ , यू॒था , दा॒नाय॑ , मं॒ह॒से॒ । आ , पु॒रं॒ऽद॒रं , च॒कृ॒म॒ , विप्र॑ऽवचसः , इंद्रं॑ , गायं॑तः , अव॑से ॥
अ॒वि॒प्रो वा॒ यदवि॑ध॒द्विप्रो॑ वेंद्र ते॒ वचः॑ । स प्र म॑मंदत्त्वा॒या श॑तक्रतो॒ प्राचा॑मन्यो॒ अहं॑सन ॥
अ॒वि॒प्रः , वा॒ , यत् , अवि॑धत् , विप्रः॑ , वा॒ , इं॒द्र॒ , ते॒ , वचः॑ । सः , प्र , म॒मं॒द॒त् , त्वा॒ऽया , श॒त॒क्र॒तो॒ इति॑ शातऽक्रतो , प्राचा॑मन्यो॒ इति॒ प्राचा॑ऽमन्यो , अहं॑ऽसन ॥
उ॒ग्रबा॑हुर्म्रक्ष॒कृत्वा॑ पुरंद॒रो यदि॑ मे शृ॒णव॒द्धवं॑ । व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिंद्रं॑ हवामहे ॥
उ॒ग्रऽबा॑हुः , म्र॒क्ष॒ऽकृत्वा॑ , पु॒रं॒ऽद॒रः , यदि॑ , मे॒ , शृ॒णव॑त् , हवं॑ । व॒सु॒ऽयवः॑ , वसु॑ऽपतिं , श॒तऽक्र॑तुं , स्तोमैः॑ , इंद्रं॑ , ह॒वा॒म॒हे॒ ॥
न पा॒पासो॑ मनामहे॒ नारा॑यासो॒ न जळ्ह॑वः । यदिन्न्विंद्रं॒ वृष॑णं॒ सचा॑ सु॒ते सखा॑यं कृ॒णवा॑महै ॥
न , पा॒पासः॑ , म॒ना॒म॒हे॒ , न , अरा॑यासः , न , जळ्ह॑वः । यत् , इत् , नु , इंद्रं॑ , वृष॑णं , सचा॑ , सु॒ते , सखा॑यं , कृ॒णवा॑महै ॥
उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका॑ति॒मदा॑भ्यं । वेदा॑ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ॥
उ॒ग्रं , यु॒यु॒ज्म॒ , पृत॑नासु , स॒स॒हिं , ऋ॒णऽका॑तिं , अदा॑भ्यं । वेद॑ , भृ॒मं , चि॒त् , सनि॑ता , र॒थिऽत॑मः , वा॒जिनं॑ , यं , इत् , ऊँ॒ इति॑ , नश॑त् ॥
यत॑ इंद्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि । मघ॑वंछ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ॥
यतः॑ , इं॒द्र॒ , भया॑महे , ततः॑ , नः॒ , अभ॑यं , कृ॒धि॒ । मघ॑ऽवन् , श॒ग्धि , तव॑ , तत् , नः॒ , ऊ॒तिऽभिः॑ , वि , द्विषः॑ , वि , मृधः॑ , ज॒हि॒ ॥
त्वं हि रा॑धस्पते॒ राध॑सो म॒हः क्षय॒स्यासि॑ विध॒तः । तं त्वा॑ व॒यं म॑घवन्निंद्र गिर्वणः सु॒तावं॑तो हवामहे ॥
त्वं , हि , रा॒धः॒ऽप॒ते॒ , राध॑सः , म॒हः , क्षय॑स्य , असि॑ , वि॒ध॒तः । तं , त्वा॒ , व॒यं , म॒घ॒ऽव॒न् , इं॒द्र॒ , गि॒र्व॒णः॒ , सु॒तऽवं॑तः , ह॒वा॒म॒हे॒ ॥
इंद्रः॒ स्पळु॒त वृ॑त्र॒हा प॑र॒स्पा नो॒ वरे॑ण्यः । स नो॑ रक्षिषच्चर॒मं स म॑ध्य॒मं स प॒श्चात्पा॑तु नः पु॒रः ॥
इंद्रः॑ , स्पट् , उ॒त , वृ॒त्र॒ऽहा , प॒रः॒ऽपाः , नः॒ , वरे॑ण्यः । सः , नः॒ , र॒क्षि॒ष॒त् , च॒र॒मं , सः , म॒ध्य॒मं , सः , प॒श्चात् , पा॒तु॒ , नः॒ , पु॒रः ॥
त्वं नः॑ प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इंद्र॒ नि पा॑हि वि॒श्वतः॑ । आ॒रे अ॒स्मत्कृ॑णुहि॒ दैव्यं॑ भ॒यमा॒रे हे॒तीरदे॑वीः ॥
त्वं , नः॒ , प॒श्चात् , अ॒ध॒रात् , उ॒त्त॒रात् , पु॒रः , इंद्र॑ , नि , पा॒हि॒ , वि॒श्वतः॑ । आ॒रे , अ॒स्मत् , कृ॒णु॒हि॒ , दैव्यं॑ , भ॒यं , आ॒रे , हे॒तीः , अदे॑वीः ॥
अ॒द्याद्या॒ श्वःश्व॒ इंद्र॒ त्रास्व॑ प॒रे च॑ नः । विश्वा॑ च नो जरि॒तॄंत्स॑त्पते॒ अहा॒ दिवा॒ नक्तं॑ च रक्षिषः ॥
अ॒द्यऽअ॑द्य , श्वःऽश्वः॑ , इंद्र॑ , त्रास्व॑ , प॒रे , च॒ , नः॒ । विश्वा॑ , च॒ , नः॒ , ज॒रि॒तॄन् , स॒त्ऽप॒ते॒ , अहा॑ , दिवा॑ , नक्तं॑ , च॒ , र॒क्षि॒षः॒ ॥
प्र॒भं॒गी शूरो॑ म॒घवा॑ तु॒वीम॑घः॒ संमि॑श्लो वि॒र्या॑य॒ कं । उ॒भा ते॑ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं॑ मिमि॒क्षतुः॑ ॥
प्र॒ऽभं॒गी , शूरः॑ , म॒घऽवा॑ , तु॒विऽम॑घः , संऽमि॑श्लः , वी॒र्या॑य , कं । उ॒भा , ते॒ , बा॒हू इति॑ , वृष॑णा , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , नि , या , वज्रं॑ , मि॒मि॒क्षतुः॑ ॥
[६२] प्रोअस्माइति द्वादशर्चस्य सूक्तस्य काण्वःप्रगाथइंद्रः पंक्तिः सप्तम्याद्यास्तिस्रो बृहत्यः |
प्रो अ॑स्मा॒ उप॑स्तुतिं॒ भर॑ता॒ यज्जुजो॑षति । उ॒क्थैरिंद्र॑स्य॒ माहि॑नं॒ वयो॑ वर्धंति सो॒मिनो॑ भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥
प्रो इति॑ , अ॒स्मै॒ , उप॑ऽस्तुतिं , भर॑त , यत् , जुजो॑षति । उ॒क्थैः , इंद्र॑स्य , माहि॑नं , वयः॑ , व॒र्धं॒ति॒ , सो॒मिनः॑ , भ॒द्राः , इंद्र॑स्य , रा॒तयः॑ ॥
अ॒यु॒जो अस॑मो॒ नृभि॒रेकः॑ कृ॒ष्टीर॒यास्यः॑ । पू॒र्वीरति॒ प्र वा॑वृधे॒ विश्वा॑ जा॒तान्योज॑सा भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥
अ॒यु॒जः , अस॑मः , नृऽभिः॑ , एकः॑ , कृ॒ष्टीः , अ॒यास्यः॑ । पू॒र्वीः , अति॑ , प्र , व॒वृ॒धे॒ , विश्वा॑ , जा॒तानि॑ , ओज॑सा , भ॒द्राः , इंद्र॑स्य , रा॒तयः॑ ॥
अहि॑तेन चि॒दर्व॑ता जी॒रदा॑नुः सिषासति । प्र॒वाच्य॑मिंद्र॒ तत्तव॑ वी॒र्या॑णि करिष्य॒तो भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥
अहि॑तेन , चि॒त् , अर्व॑ता , जी॒रऽदा॑नुः , सि॒सा॒स॒ति॒ । प्र॒ऽवाच्यं॑ , इं॒द्र॒ , तत् , तव॑ , वी॒र्या॑णि , क॒रि॒ष्य॒तः , भ॒द्राः , इंद्र॑स्य , रा॒तयः॑ ॥
आ या॑हि कृ॒णवा॑म त॒ इंद्र॒ ब्रह्मा॑णि॒ वर्ध॑ना । येभिः॑ शविष्ठ चा॒कनो॑ भ॒द्रमि॒ह श्र॑वस्य॒ते भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥
आ , या॒हि॒ , कृ॒णवा॑म , ते॒ , इंद्र॑ , ब्रह्मा॑णि , वर्ध॑ना । येभिः॑ , श॒वि॒ष्ठ॒ , चा॒कनः॑ , भ॒द्रं , इ॒ह , श्र॒व॒स्य॒ते , भ॒द्राः , इंद्र॑स्य , रा॒तयः॑ ॥
धृ॒ष॒तश्चि॑द्धृ॒षन्मनः॑ कृ॒णोषीं॑द्र॒ यत्त्वं । ती॒व्रैः सोमैः॑ सपर्य॒तो नमो॑भिः प्रति॒भूष॑तो भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥
धृ॒ष॒तः , चि॒त् , धृ॒षत् , मनः॑ , कृ॒णोषि॑ , इं॒द्र॒ , यत् , त्वं । ती॒व्रैः , सोमैः॑ , स॒प॒र्य॒तः , नमः॑ऽभिः , प्र॒ति॒ऽभूष॑तः , भ॒द्राः , इंद्र॑स्य , रा॒तयः॑ ॥
अव॑ चष्ट॒ ऋची॑षमोऽव॒ताँ इ॑व॒ मानु॑षः । जु॒ष्ट्वी दक्ष॑स्य सो॒मिनः॒ सखा॑यं कृणुते॒ युजं॑ भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥
अव॑ , च॒ष्टे॒ , ऋची॑षमः , अ॒व॒तान्ऽइ॑व , मानु॑षः । जु॒ष्ट्वी , दक्ष॑स्य , सो॒मिनः॑ , सखा॑यं , कृ॒णु॒ते॒ , युजं॑ , भ॒द्राः , इंद्र॑स्य , रा॒तयः॑ ॥
विश्वे॑ त इंद्र वी॒र्यं॑ दे॒वा अनु॒ क्रतुं॑ ददुः । भुवो॒ विश्व॑स्य॒ गोप॑तिः पुरुष्टुत भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥
विश्वे॑ , ते॒ , इं॒द्र॒ , वी॒र्यं॑ , दे॒वाः , अनु॑ , क्रतुं॑ , द॒दुः॒ । भुवः॑ , विश्व॑स्य , गोऽप॑तिः , पु॒रु॒ऽस्तु॒त॒ , भ॒द्राः , इंद्र॑स्य , रा॒तयः॑ ॥
गृ॒णे तदिं॑द्र ते॒ शव॑ उप॒मं दे॒वता॑तये । यद्धंसि॑ वृ॒त्रमोज॑सा शचीपते भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥
गृ॒णे , तत् , इं॒द्र॒ , ते॒ , शवः॑ , उ॒प॒ऽमं , दे॒वऽता॑तये । यत् , हंसि॑ , वृ॒त्रं , ओज॑सा , श॒ची॒ऽप॒ते॒ , भ॒द्राः , इंद्र॑स्य , रा॒तयः॑ ॥
सम॑नेव वपुष्य॒तः कृ॒णव॒न्मानु॑षा यु॒गा । वि॒दे तदिंद्र॒श्चेत॑न॒मध॑ श्रु॒तो भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥
सम॑नाऽइव , व॒पु॒ष्य॒तः , कृ॒णव॑त् , मानु॑षा , यु॒गा । वि॒दे , तत् , इंद्रः॑ , चेत॑नं , अध॑ , श्रु॒तः , भ॒द्राः , इंद्र॑स्य , रा॒तयः॑ ॥
उज्जा॒तमिं॑द्र ते॒ शव॒ उत्त्वामुत्तव॒ क्रतुं॑ । भूरि॑गो॒ भूरि॑ वावृधु॒र्मघ॑वं॒तव॒ शर्म॑णि भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥
उत् , जा॒तं , इं॒द्र॒ , ते॒ , शवः॑ , उत् , त्वां , उत् , तव॑ , क्रतुं॑ । भूरि॑गो॒ इति॒ भूरि॑ऽगो , भूरि॑ , व॒वृ॒धुः॒ , मघ॑ऽवन् , तव॑ , शर्म॑णि , भ॒द्राः , इंद्र॑स्य , रा॒तयः॑ ॥
अ॒हं च॒ त्वं च॑ वृत्रहं॒त्सं यु॑ज्याव स॒निभ्य॒ आ । अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मंसते भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥
अ॒हं , च॒ , त्वं , च॒ , वृ॒त्र॒ऽह॒न् , सं , यु॒ज्या॒व॒ , स॒निऽभ्यः॑ , आ । अ॒रा॒ति॒ऽवा , चि॒त् , अ॒द्रि॒ऽवः॒ , अनु॑ , नौ॒ , शू॒र॒ , मं॒स॒ते॒ , भ॒द्राः , इंद्र॑स्य , रा॒तयः॑ ॥
स॒त्यमिद्वा उ॒ तं व॒यमिंद्रं॑ स्तवाम॒ नानृ॑तं । म॒हाँ असु॑न्वतो व॒धो भूरि॒ ज्योतीं॑षि सुन्व॒तो भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥
स॒त्यं , इत् , वै , ऊँ॒ इति॑ , तं , व॒यं , इंद्रं॑ , स्त॒वा॒म॒ , न , अनृ॑तं । म॒हान् , असु॑न्वतः , व॒धः , भूरि॑ , ज्योतीं॑षि , सु॒न्व॒तः , भ॒द्राः , इंद्र॑स्य , रा॒तयः॑ ॥
[६३] सपूर्व्यइति द्वादशर्चस्य सूक्तस्य काण्वः प्रगाथइंद्रोत्यायादेवागायत्री आद्या चतुर्थीपंचमीसप्तम्योनुष्टुभः अंत्यात्रिष्टुप् |
स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे । यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥
सः , पू॒र्व्यः , म॒हानां॑ , वे॒नः , क्रतु॑ऽभिः , आ॒न॒जे॒ । यस्य॑ , द्वारा॑ , मनुः॑ , पि॒ता , दे॒वेषु॑ , धियः॑ , आ॒न॒जे ॥
दि॒वो मानं॒ नोत्स॑दं॒त्सोम॑पृष्ठासो॒ अद्र॑यः । उ॒क्था ब्रह्म॑ च॒ शंस्या॑ ॥
दि॒वः , मानं॑ , न , उत् , स॒द॒न् , सोम॑ऽपृष्ठासः , अद्र॑यः । उ॒क्था , ब्रह्म॑ , च॒ , शंस्या॑ ॥
स वि॒द्वाँ अंगि॑रोभ्य॒ इंद्रो॒ गा अ॑वृणो॒दप॑ । स्तु॒षे तद॑स्य॒ पौंस्यं॑ ॥
सः , वि॒द्वान् , अंगि॑रःऽभ्यः , इंद्रः॑ , गाः , अ॒वृ॒णो॒त् , अप॑ । स्तु॒षे , तत् , अ॒स्य॒ , पौंस्यं॑ ॥
स प्र॒त्नथा॑ कविवृ॒ध इंद्रो॑ वा॒कस्य॑ व॒क्षणिः॑ । शि॒वो अ॒र्कस्य॒ होम॑न्यस्म॒त्रा गं॒त्वव॑से ॥
सः , प्र॒त्नऽथा॑ , क॒वि॒ऽवृ॒धः , इंद्रः॑ , वा॒कस्य॑ , व॒क्षणिः॑ । शि॒वः , अ॒र्कस्य॑ , होम॑नि , अ॒स्म॒ऽत्रा , गं॒तु॒ , अव॑से ॥
आदू॒ नु ते॒ अनु॒ क्रतुं॒ स्वाहा॒ वर॑स्य॒ यज्य॑वः । श्वा॒त्रम॒र्का अ॑नूष॒तेंद्र॑ गो॒त्रस्य॑ दा॒वने॑ ॥
आत् , ऊँ॒ इति॑ , नु , ते॒ , अनु॑ , क्रतुं॑ , स्वाहा॑ , वर॑स्य , यज्य॑वः । श्वा॒त्रं , अ॒र्काः , अ॒नू॒ष॒त॒ , इंद्र॑ , गो॒त्रस्य॑ , दा॒वने॑ ॥
इंद्रे॒ विश्वा॑नि वी॒र्या॑ कृ॒तानि॒ कर्त्वा॑नि च । यम॒र्का अ॑ध्व॒रं वि॒दुः ॥
इंद्रे॑ , विश्वा॑नि , वी॒र्या॑ , कृ॒तानि॑ , कर्त्वा॑नि , च॒ । यं , अ॒र्काः , अ॒ध्व॒रं , वि॒दुः ॥
यत्पांच॑जन्यया वि॒शेंद्रे॒ घोषा॒ असृ॑क्षत । अस्तृ॑णाद्ब॒र्हणा॑ वि॒पो॒३॒॑ऽर्यो मान॑स्य॒ स क्षयः॑ ॥
यत् , पांच॑ऽजन्यया , वि॒शा , इंद्रे॑ , घोषाः॑ , असृ॑क्षत । अस्तृ॑णात् , ब॒र्हणा॑ , वि॒पः , अ॒र्यः , मान॑स्य , सः , क्षयः॑ ॥
इ॒यमु॑ ते॒ अनु॑ष्टुतिश्चकृ॒षे तानि॒ पौंस्या॑ । प्राव॑श्च॒क्रस्य॑ वर्त॒निं ॥
इ॒यं , ऊँ॒ इति॑ , ते॒ , अनु॑ऽस्तुतिः , च॒कृ॒षे , तानि॑ , पौंस्या॑ । प्र , आ॒वः॒ , च॒क्रस्य॑ , व॒र्त॒निं ॥
अ॒स्य वृष्णो॒ व्योद॑न उ॒रु क्र॑मिष्ट जी॒वसे॑ । यवं॒ न प॒श्व आ द॑दे ॥
अ॒स्य , वृष्णः॑ , वि॒ऽओद॑ने , उ॒रु , क्र॒मि॒ष्ट॒ , जी॒वसे॑ । यवं॑ , न , प॒श्वः , आ , द॒दे॒ ॥
तद्दधा॑ना अव॒स्यवो॑ यु॒ष्माभि॒र्दक्ष॑पितरः । स्याम॑ म॒रुत्व॑तो वृ॒धे ॥
तत् , दधा॑नाः , अ॒व॒स्यवः॑ , यु॒ष्माभिः॑ , दक्ष॑ऽपितरः । स्याम॑ , म॒रुत्व॑तः , वृ॒धे ॥
बळृ॒त्विया॑य॒ धाम्न॒ ऋक्व॑भिः शूर नोनुमः । जेषा॑मेंद्र॒ त्वया॑ यु॒जा ॥
बट् , ऋ॒त्विया॑य , धाम्ने॑ , ऋक्व॑ऽभिः , शू॒र॒ , नो॒नु॒मः॒ । जेषा॑म , इं॒द्र॒ , त्वया॑ , यु॒जा ॥
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑ । यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इंद्र॑ज्येष्ठा अ॒स्माँ अ॑वंतु दे॒वाः ॥
अ॒स्मे इति॑ , रु॒द्राः , मे॒हना॑ , पर्व॑तासः , वृ॒त्र॒ऽहत्ये॑ , भर॑ऽहूतौ , स॒ऽजोषाः॑ । यः , शंस॑ते , स्तु॒व॒ते , धायि॑ , प॒ज्रः , इंद्र॑ऽज्येष्ठाः , अ॒स्मान् , अ॒वं॒तु॒ , दे॒वाः ॥
[६४] उत्त्वामंदत्विति द्वादशर्चस्य सूक्तस्य काण्वःप्रगाथइंद्रोगायत्री |
उत्त्वा॑ मंदंतु॒ स्तोमाः॑ कृणु॒ष्व राधो॑ अद्रिवः । अव॑ ब्रह्म॒द्विषो॑ जहि ॥
उत् , त्वा॒ , मं॒दं॒तु॒ , स्तोमाः॑ , कृ॒णु॒ष्व , राधः॑ , अ॒द्रि॒ऽवः॒ । अव॑ , ब्र॒ह्म॒ऽद्विषः॑ , ज॒हि॒ ॥
प॒दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि । न॒हि त्वा॒ कश्च॒न प्रति॑ ॥
प॒दा , प॒णीन् , अ॒रा॒धसः॑ , नि , बा॒ध॒स्व॒ , म॒हान् , अ॒सि॒ । न॒हि , त्वा॒ , कः , च॒न , प्रति॑ ॥
त्वमी॑शिषे सु॒ताना॒मिंद्र॒ त्वमसु॑तानां । त्वं राजा॒ जना॑नां ॥
त्वं , ई॒शि॒षे॒ , सु॒तानां॑ , इं॒द्र॒ , त्वं , असु॑तानां । त्वं , राजा॑ , जना॑नां ॥
एहि॒ प्रेहि॒ क्षयो॑ दि॒व्या॒३॒॑घोषं॑चर्षणी॒नां । ओभे पृ॑णासि॒ रोद॑सी ॥
आ , इ॒हि॒ , प्र , इ॒हि॒ , क्षयः॑ , दि॒वि , आ॒ऽघोष॑न् , च॒र्ष॒णी॒णां । आ , उ॒भे इति॑ , पृ॒णा॒सि॒ , रोद॑सी॒ इति॑ ॥
त्यं चि॒त्पर्व॑तं गि॒रिं श॒तवं॑तं सह॒स्रिणं॑ । वि स्तो॒तृभ्यो॑ रुरोजिथ ॥
त्यं , चि॒त् , पर्व॑तं , गि॒रिं , श॒तऽवं॑तं , स॒ह॒स्रिणं॑ । वि , स्तो॒तृऽभ्यः॑ , रु॒रो॒जि॒थ॒ ॥
व॒यमु॑ त्वा॒ दिवा॑ सु॒ते व॒यं नक्तं॑ हवामहे । अ॒स्माकं॒ काम॒मा पृ॑ण ॥
व॒यं , ऊँ॒ इति॑ , त्वा॒ , दिवा॑ , सु॒ते , व॒यं , नक्तं॑ , ह॒वा॒म॒हे॒ । अ॒स्माकं॑ , कामं॑ , आ , पृ॒ण॒ ॥
क्व१॒॑ स्य वृ॑ष॒भो युवा॑ तुवि॒ग्रीवो॒ अना॑नतः । ब्र॒ह्मा कस्तं स॑पर्यति ॥
क्व॑ , स्यः , वृ॒ष॒भः , युवा॑ , तु॒वि॒ऽग्रीवः॑ , अना॑नतः । ब्र॒ह्मा , कः , तं , स॒प॒र्य॒ति॒ ॥
कस्य॑ स्वि॒त्सव॑नं॒ वृषा॑ जुजु॒ष्वाँ अव॑ गच्छति । इंद्रं॒ क उ॑ स्वि॒दा च॑के ॥
कस्य॑ , स्वि॒त् , सव॑नं , वृषा॑ , जु॒जु॒ष्वान् , अव॑ , ग॒च्छ॒ति॒ । इंद्रं॑ , कः , ऊँ॒ इति॑ , स्वि॒त् , आ , च॒के॒ ॥
कं ते॑ दा॒ना अ॑सक्षत॒ वृत्र॑ह॒न्कं सु॒वीर्या॑ । उ॒क्थे क उ॑ स्वि॒दंत॑मः ॥
कं , ते॒ , दा॒नाः , अ॒स॒क्ष॒त॒ , वृत्र॑ऽहन् , कं , सु॒ऽवीर्या॑ । उ॒क्थे , कः , ऊँ॒ इति॑ , स्वि॒त् , अंत॑मः ॥
अ॒यं ते॒ मानु॑षे॒ जने॒ सोमः॑ पू॒रुषु॑ सूयते । तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥
अ॒यं , ते॒ , मानु॑षे , जने॑ , सोमः॑ , पू॒रुषु॑ , सू॒य॒ते॒ । तस्य॑ , आ , इ॒हि॒ , प्र , द्र॒व॒ , पिब॑ ॥
अ॒यं ते॑ शर्य॒णाव॑ति सु॒षोमा॑या॒मधि॑ प्रि॒यः । आ॒र्जी॒कीये॑ म॒दिंत॑मः ॥
अ॒यं , ते॒ , श॒र्य॒णाऽव॑ति , सु॒ऽसोमा॑यां , अधि॑ , प्रि॒यः । आ॒र्जी॒कीये॑ , म॒दिन्ऽत॑मः ॥
तम॒द्य राध॑से म॒हे चारुं॒ मदा॑य॒ घृष्व॑ये । एही॑मिंद्र॒ द्रवा॒ पिब॑ ॥
तं , अ॒द्य , राध॑से , म॒हे , चारुं॑ , मदा॑य , घृष्व॑ये । आ , इ॒हि॒ , ईं॒ , इं॒द्र॒ , द्रव॑ , पिब॑ ॥
[६५] यदिंद्रेति द्वादशर्चस्य सूक्तस्य काण्वःप्रगाथइंद्रोगायत्री |
यदिं॑द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ । आ या॑हि॒ तूय॑मा॒शुभिः॑ ॥
यत् , इं॒द्र॒ , प्राक् , अपा॑क् , उद॑क् , न्य॑क् , वा॒ , हू॒यसे॑ , नृऽभिः॑ । आ , या॒हि॒ , तूयं॑ , आ॒शुऽभिः॑ ॥
यद्वा॑ प्र॒स्रव॑णे दि॒वो मा॒दया॑से॒ स्व॑र्णरे । यद्वा॑ समु॒द्रे अंध॑सः ॥
यत् , वा॒ , प्र॒ऽस्रव॑णे , दि॒वः , मा॒दया॑से , स्वः॑ऽनरे । यत् , वा॒ , स॒मु॒द्रे , अंध॑सः ॥
आ त्वा॑ गी॒र्भिर्म॒हामु॒रुं हु॒वे गामि॑व॒ भोज॑से । इंद्र॒ सोम॑स्य पी॒तये॑ ॥
आ , त्वा॒ , गीः॒ऽभिः , म॒हां , उ॒रुं , हु॒वे , गांऽइ॑व , भोज॑से । इंद्र॑ , सोम॑स्य , पी॒तये॑ ॥
आ त॑ इंद्र महि॒मानं॒ हर॑यो देव ते॒ महः॑ । रथे॑ वहंतु॒ बिभ्र॑तः ॥
आ , ते॒ , इं॒द्र॒ , म॒हि॒मानं॑ , हर॑यः , दे॒व॒ , ते॒ , महः॑ । रथे॑ , व॒हं॒तु॒ , बिभ्र॑तः ॥
इंद्र॑ गृणी॒ष उ॑ स्तु॒षे म॒हाँ उ॒ग्र ई॑शान॒कृत् । एहि॑ नः सु॒तं पिब॑ ॥
इंद्र॑ , गृ॒णी॒षे , ऊँ॒ इति॑ , स्तु॒षे , म॒हान् , उ॒ग्रः , ई॒शा॒न॒ऽकृत् । आ , इ॒हि॒ , नः॒ , सु॒तं , पिब॑ ॥
सु॒तावं॑तस्त्वा व॒यं प्रय॑स्वंतो हवामहे । इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥
सु॒तऽवं॑तः , त्वा॒ , व॒यं , प्रय॑स्वंतः , ह॒वा॒म॒हे॒ । इ॒दं , नः॒ , ब॒र्हिः , आ॒ऽसदे॑ ॥
यच्चि॒द्धि शश्व॑ता॒मसींद्र॒ साधा॑रण॒स्त्वं । तं त्वा॑ व॒यं ह॑वामहे ॥
यत् , चि॒त् , हि , शश्व॑तां , असि॑ , इंद्र॑ , साधा॑रणः , त्वं । तं , त्वा॒ , व॒यं , ह॒वा॒म॒हे॒ ॥
इ॒दं ते॑ सो॒म्यं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ । जु॒षा॒ण इं॑द्र॒ तत्पि॑ब ॥
इ॒दं , ते॒ , सो॒म्यं , मधु॑ , अधु॑क्षन् , अद्रि॑ऽभिः , नरः॑ । जु॒षा॒णः , इं॒द्र॒ , तत् , पि॒ब॒ ॥
विश्वाँ॑ अ॒र्यो वि॑प॒श्चितोऽति॑ ख्य॒स्तूय॒मा ग॑हि । अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥
विश्वा॑न् , अ॒र्यः , वि॒पः॒ऽचितः॑ , अति॑ , ख्यः॒ , तूयं॑ , आ , ग॒हि॒ । अ॒स्मे इति॑ , धे॒हि॒ , श्रवः॑ , बृ॒हत् ॥
दा॒ता मे॒ पृष॑तीनां॒ राजा॑ हिरण्य॒वीनां॑ । मा दे॑वा म॒घवा॑ रिषत् ॥
दा॒ता , मे॒ , पृष॑तीनां , राजा॑ , हि॒र॒ण्य॒ऽवीनां॑ । मा , दे॒वाः॒ , म॒घऽवा॑ , रि॒ष॒त् ॥
स॒हस्रे॒ पृष॑तीना॒मधि॑ श्चं॒द्रं बृ॒हत्पृ॒थु । शु॒क्रं हिर॑ण्य॒मा द॑दे ॥
स॒हस्रे॑ , पृष॑तीनां , अधि॑ , चं॒द्रं , बृ॒हत् , पृ॒थु । शु॒क्रं , हिर॑ण्यं , आ , द॒दे॒ ॥
नपा॑तो दु॒र्गह॑स्य मे स॒हस्रे॑ण सु॒राध॑सः । श्रवो॑ दे॒वेष्व॑क्रत ॥
नपा॑तः , दुः॒ऽगह॑स्य , मे॒ , स॒हस्रे॑ण , सु॒ऽराध॑सः । श्रवः॑ , दे॒वेषु॑ , अ॒क्र॒त॒ ॥
[६६] तरोभिरिति पंचदशर्चस्य सूक्तस्य प्रागाथः कलिरिंद्रः प्रथमादित्रयोदश्यंताअयुजोवृहत्यः द्वितीयादियुजःसतोबृहत्योंत्यानुष्टुप् |
तरो॑भिर्वो वि॒दद्व॑सु॒मिंद्रं॑ स॒बाध॑ ऊ॒तये॑ । बृ॒हद्गायं॑तः सु॒तसो॑मे अध्व॒रे हु॒वे भरं॒ न का॒रिणं॑ ॥
तरः॑ऽभिः , वः॒ , वि॒दत्ऽव॑सुं , इंद्रं॑ , स॒ऽबाधः॑ , ऊ॒तये॑ । बृ॒हत् , गायं॑तः , सु॒तऽसो॑मे , अ॒ध्व॒रे , हु॒वे , भरं॑ , न , का॒रिणं॑ ॥
न यं दु॒ध्रा वरं॑ते॒ न स्थि॒रा मुरो॒ मदे॑ सुशि॒प्रमंध॑सः । य आ॒दृत्या॑ शशमा॒नाय॑ सुन्व॒ते दाता॑ जरि॒त्र उ॒क्थ्यं॑ ॥
न , यं , दु॒ध्राः , वरं॑ते , न , स्थि॒राः , मुरः॑ , मदे॑ , सु॒ऽशि॒प्रं , अंध॑सः । यः , आ॒ऽदृत्य॑ , श॒श॒मा॒नाय॑ , सु॒न्व॒ते , दाता॑ , ज॒रि॒त्रे , उ॒क्थ्यं॑ ॥
यः श॒क्रो मृ॒क्षो अश्व्यो॒ यो वा॒ कीजो॑ हिर॒ण्ययः॑ । स ऊ॒र्वस्य॑ रेजय॒त्यपा॑वृति॒मिंद्रो॒ गव्य॑स्य वृत्र॒हा ॥
यः , श॒क्रः , मृ॒क्षः , अश्व्यः॑ , यः , वा॒ , कीजः॑ , हि॒र॒ण्ययः॑ । सः , ऊ॒र्वस्य॑ , रे॒ज॒य॒ति॒ , अप॑ऽवृतिं , इंद्रः॑ , गव्य॑स्य , वृ॒त्र॒ऽहा ॥
निखा॑तं चि॒द्यः पु॑रुसंभृ॒तं वसूदिद्वप॑ति दा॒शुषे॑ । व॒ज्री सु॑शि॒प्रो हर्य॑श्व॒ इत्क॑र॒दिंद्रः॒ क्रत्वा॒ यथा॒ वश॑त् ॥
निऽखा॑तं , चि॒त् , यः , पु॒रु॒ऽसं॒भृ॒तं , वसु॑ , उत् , इत् , वप॑ति , दा॒शुषे॑ । व॒ज्री , सु॒ऽशि॒प्रः , हरि॑ऽअश्वः , इत् , क॒र॒त् , इंद्रः॑ , क्रत्वा॑ , यथा॑ , वश॑त् ॥
यद्वा॒वंथ॑ पुरुष्टुत पु॒रा चि॑च्छूर नृ॒णां । व॒यं तत्त॑ इंद्र॒ सं भ॑रामसि य॒ज्ञमु॒क्थं तु॒रं वचः॑ ॥
यत् , व॒वंथ॑ , पु॒रु॒ऽस्तु॒त॒ , पु॒रा , चि॒त् , शू॒र॒ , नृ॒णां । व॒यं , तत् , ते॒ , इं॒द्र॒ , सं , भ॒रा॒म॒सि॒ , य॒ज्ञं , उ॒क्थं , तु॒रं , वचः॑ ॥
सचा॒ सोमे॑षु पुरुहूत वज्रिवो॒ मदा॑य द्युक्ष सोमपाः । त्वमिद्धि ब्र॑ह्म॒कृते॒ काम्यं॒ वसु॒ देष्ठः॑ सुन्व॒ते भुवः॑ ॥
सचा॑ , सोमे॑षु , पु॒रु॒ऽहू॒त॒ , व॒ज्रि॒ऽवः॒ , मदा॑य , द्यु॒क्ष॒ , सो॒म॒ऽपाः॒ । त्वं , इत् , हि , ब्र॒ह्म॒ऽकृते॑ , काम्यं॑ , वसु॑ , देष्ठः॑ , सु॒न्व॒ते , भुवः॑ ॥
व॒यमे॑नमि॒दा ह्योऽपी॑पेमे॒ह व॒ज्रिणं॑ । तस्मा॑ उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू॑षत श्रु॒ते ॥
व॒यं , ए॒नं॒ , इ॒दा , ह्यः , अपी॑पेम , इ॒ह , व॒ज्रिणं॑ । तस्मै॑ , ऊँ॒ इति॑ , अ॒द्य , स॒म॒ना , सु॒तं , भ॒र॒ , आ , नू॒नं , भू॒ष॒त॒ , श्रु॒ते ॥
वृक॑श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने॑षु भूषति । सेमं नः॒ स्तोमं॑ जुजुषा॒ण आ ग॒हींद्र॒ प्र चि॒त्रया॑ धि॒या ॥
वृकः॑ , चि॒त् , अ॒स्य॒ , वा॒र॒णः , उ॒रा॒ऽमथिः॑ , आ , व॒युने॑षु , भू॒ष॒ति॒ । सः , इ॒मं , नः॒ , स्तोमं॑ , जु॒जु॒षा॒णः , आ , ग॒हि॒ , इंद्र॑ , प्र , चि॒त्रया॑ , धि॒या ॥
कदू॒ न्व१॒॑स्याकृ॑त॒मिंद्र॑स्यास्ति॒ पौंस्यं॑ । केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुषः॒ परि॑ वृत्र॒हा ॥
कत् , ऊँ॒ इति॑ , नु , अ॒स्य॒ , अकृ॑तं , इंद्र॑स्य , अ॒स्ति॒ , पौंस्यं॑ । केनो॒ इति॑ , नु , कं॒ , श्रोम॑तेन , न , शु॒श्रु॒वे॒ , ज॒नुषः॑ , परि॑ , वृ॒त्र॒ऽहा ॥
कदू॑ म॒हीरधृ॑ष्टा अस्य॒ तवि॑षीः॒ कदु॑ वृत्र॒घ्नो अस्तृ॑तं । इंद्रो॒ विश्वा॑न्बेक॒नाटाँ॑ अह॒र्दृश॑ उ॒त क्रत्वा॑ प॒णीँर॒भि ॥
कत् , ऊँ॒ इति॑ , म॒हीः , अधृ॑ष्टाः , अ॒स्य॒ , तवि॑षीः , कत् , ऊँ॒ इति॑ , वृ॒त्र॒ऽघ्नः , अस्तृ॑तं । इंद्रः॑ , विश्वा॑न् , बे॒क॒ऽनाटा॑न् , अ॒हः॒ऽदृषः॑ , उ॒त , क्रत्वा॑ , प॒णीन् , अ॒भि ॥
व॒यं घा॑ ते॒ अपू॒र्व्येंद्र॒ ब्रह्मा॑णि वृत्रहन् । पु॒रू॒तमा॑सः पुरुहूत वज्रिवो भृ॒तिं न प्र भ॑रामसि ॥
व॒यं , घ॒ , ते॒ , अपू॑र्व्या , इंद्र॑ , ब्रह्मा॑णि , वृ॒त्र॒ऽह॒न् । पु॒रु॒ऽतमा॑सः , पु॒रु॒ऽहू॒त॒ , व॒ज्रि॒ऽवः॒ , भृ॒तिं , न , प्र , भ॒रा॒म॒सि॒ ॥
पू॒र्वीश्चि॒द्धि त्वे तु॑विकूर्मिन्ना॒शसो॒ हवं॑त इंद्रो॒तयः॑ । ति॒रश्चि॑द॒र्यः सव॒ना व॑सो गहि॒ शवि॑ष्ठ श्रु॒धि मे॒ हवं॑ ॥
पू॒र्वीः , चि॒त् , हि , त्वे इति॑ , तु॒वि॒ऽकू॒र्मि॒न् , आ॒ऽशसः॑ , हवं॑ते , इं॒द्र॒ , ऊ॒तयः॑ । ति॒रः , चि॒त् , अ॒र्यः , स॒व॒ना , आ , व॒सो॒ इति॑ , ग॒हि॒ , शवि॑ष्ठ , श्रु॒धि , मे॒ , हवं॑ ॥
व॒यं घा॑ ते॒ त्वे इद्विंद्र॒ विप्रा॒ अपि॑ ष्मसि । न॒हि त्वद॒न्यः पु॑रुहूत॒ कश्च॒न मघ॑व॒न्नस्ति॑ मर्डि॒ता ॥
व॒यं , घ॒ , ते॒ , त्वे इति॑ , इत् , ऊँ॒ इति॑ , इंद्र॑ , विप्राः॑ , अपि॑ , स्म॒सि॒ । न॒हि , त्वत् , अ॒न्यः , पु॒रु॒ऽहू॒त॒ , कः , च॒न , मघ॑ऽवन् , अस्ति॑ , म॒र्डि॒ता ॥
त्वं नो॑ अ॒स्या अम॑तेरु॒त क्षु॒धो॒३॒॑ऽभिश॑स्ते॒रव॑ स्पृधि । त्वं न॑ ऊ॒ती तव॑ चि॒त्रया॑ धि॒या शिक्षा॑ शचिष्ठ गातु॒वित् ॥
त्वं , नः॒ , अ॒स्याः , अम॑तेः , उ॒त , क्षु॒धः , अ॒भिऽश॑स्तेः , अव॑ , स्पृ॒धि॒ । त्वं , नः॒ , ऊ॒ती , तव॑ , चि॒त्रया॑ , धि॒या , शिक्ष॑ , श॒चि॒ष्ठ॒ , गा॒तु॒ऽवित् ॥
सोम॒ इद्वः॑ सु॒तो अ॑स्तु॒ कल॑यो॒ मा बि॑भीतन । अपेदे॒ष ध्व॒स्माय॑ति स्व॒यं घै॒षो अपा॑यति ॥
सोमः॑ , इत् , वः॒ , सु॒तः , अ॒स्तु॒ , कल॑यः , मा , बि॒भी॒त॒न॒ । अप॑ , इत् , ए॒षः , ध्व॒स्मा , अ॒य॒ति॒ , स्व॒यं , घ॒ , ए॒षः , अप॑ , अ॒य॒ति॒ ॥
[६७] त्यान्न्वित्येकविंशत्यृचस्य सूक्तस्य सांमदोमत्स्य आदित्या दशम्यादितिसृणामदितिर्गायत्री (मैत्रावरुणिर्मान्यो बहवोवामत्स्या जालनद्धाऋष) |
त्यान्नु क्ष॒त्रियाँ॒ अव॑ आदि॒त्यान्या॑चिषामहे । सु॒मृ॒ळी॒काँ अ॒भिष्ट॑ये ॥
त्यान् , नु , क्ष॒त्रिया॑न् , अवः॑ , आ॒दि॒त्यान् , या॒चि॒षा॒म॒हे॒ । सु॒ऽमृ॒ळी॒कान् , अ॒भिष्ट॑ये ॥
मि॒त्रो नो॒ अत्यं॑ह॒तिं वरु॑णः पर्षदर्य॒मा । आ॒दि॒त्यासो॒ यथा॑ वि॒दुः ॥
मि॒त्रः , नः॒ , अति॑ , अं॒ह॒तिं , वरु॑णः , प॒र्ष॒त् , अ॒र्य॒मा । आ॒दि॒त्यासः॑ , यथा॑ , वि॒दुः ॥
तेषां॒ हि चि॒त्रमु॒क्थ्यं१॒॑ वरू॑थ॒मस्ति॑ दा॒शुषे॑ । आ॒दि॒त्याना॑मरं॒कृते॑ ॥
तेषां॑ , हि , चि॒त्रं , उ॒क्थ्यं॑ , वरू॑थं , अस्ति॑ , दा॒शुषे॑ । आ॒दि॒त्यानां॑ , अ॒रं॒ऽकृते॑ ॥
महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्रार्य॑मन् । अवां॒स्या वृ॑णीमहे ॥
महि॑ , वः॒ , म॒ह॒तां , अवः॑ , वरु॑ण , मित्र॑ , अर्य॑मन् । अवां॑सि , आ , वृ॒णी॒म॒हे॒ ॥
जी॒वान्नो॑ अ॒भि धे॑त॒नादि॑त्यासः पु॒रा हथा॑त् । कद्ध॑ स्थ हवनश्रुतः ॥
जी॒वान् , नः॒ , अ॒भि , धे॒त॒न॒ , आदि॑त्यासः , पु॒रा , हथा॑त् । कत् , ह॒ , स्थ॒ , ह॒व॒न॒ऽश्रु॒तः॒ ॥
यद्वः॑ श्रां॒ताय॑ सुन्व॒ते वरू॑थ॒मस्ति॒ यच्छ॒र्दिः । तेना॑ नो॒ अधि॑ वोचत ॥
यत् , वः॒ , श्रां॒ताय॑ , सु॒न्व॒ते , वरू॑थं , अस्ति॑ , यत् , छ॒र्दिः । तेन॑ , नः॒ , अधि॑ , वो॒च॒त॒ ॥
अस्ति॑ देवा अं॒होरु॒र्वस्ति॒ रत्न॒मना॑गसः । आदि॑त्या॒ अद्भु॑तैनसः ॥
अस्ति॑ , दे॒वाः॒ , अं॒होः , उ॒रु , अस्ति॑ , रत्नं॑ , अना॑गसः । आदि॑त्याः , अद्भु॑तऽएनसः ॥
मा नः॒ सेतुः॑ सिषेद॒यं म॒हे वृ॑णक्तु न॒स्परि॑ । इंद्र॒ इद्धि श्रु॒तो व॒शी ॥
मा , नः॒ , सेतुः॑ , सि॒से॒त् , अ॒यं , म॒हे , वृ॒ण॒क्तु॒ , नः॒ , परि॑ । इंद्रः॑ , इत् , हि , श्रु॒तः , व॒शी ॥
मा नो॑ मृ॒चा रि॑पू॒णां वृ॑जि॒नाना॑मविष्यवः । देवा॑ अ॒भि प्र मृ॑क्षत ॥
मा , नः॒ , मृ॒चा , रि॒पू॒णां , वृ॒जि॒नानां॑ , अ॒वि॒ष्य॒वः॒ । देवाः॑ , अ॒भि , प्र , मृ॒क्ष॒त॒ ॥
उ॒त त्वाम॑दिते मह्य॒हं दे॒व्युप॑ ब्रुवे । सु॒मृ॒ळी॒काम॒भिष्ट॑ये ॥
उ॒त , त्वां , अ॒दि॒ते॒ , म॒हि॒ , अ॒हं , दे॒वि॒ , उप॑ , ब्रु॒वे॒ । सु॒ऽमृ॒ळी॒कां , अ॒भिष्ट॑ये ॥
पर्षि॑ दी॒ने ग॑भी॒र आँ उग्र॑पुत्रे॒ जिघां॑सतः । माकि॑स्तो॒कस्य॑ नो रिषत् ॥
पर्षि॑ , दी॒ने , ग॒भी॒रे , आ , उग्र॑ऽपुत्रे , जिघां॑सतः । माकिः॑ , तो॒कस्य॑ , नः॒ , रि॒ष॒त् ॥
अ॒ने॒हो न॑ उरुव्रज॒ उरू॑चि॒ वि प्रस॑र्तवे । कृ॒धि तो॒काय॑ जी॒वसे॑ ॥
अ॒ने॒हः , नः॒ , उ॒रु॒ऽव्र॒जे॒ , उरू॑चि , वि , प्रऽस॑र्तवे । कृ॒धि , तो॒काय॑ , जी॒वसे॑ ॥
ये मू॒र्धानः॑ क्षिती॒नामद॑ब्धासः॒ स्वय॑शसः । व्र॒ता रक्षं॑ते अ॒द्रुहः॑ ॥
ये , मू॒र्धानः॑ , क्षि॒ती॒नां , अद॑ब्धासः , स्वऽय॑शसः । व्र॒ता , रक्षं॑ते , अ॒द्रुहः॑ ॥
ते न॑ आ॒स्नो वृका॑णा॒मादि॑त्यासो मु॒मोच॑त । स्ते॒नं ब॒द्धमि॑वादिते ॥
ते , नः॒ , आ॒स्नः , वृका॑णां , आदि॑त्यासः , मु॒मोच॑त । स्ते॒नं , ब॒द्धंऽइ॑व , अ॒दि॒ते॒ ॥
अपो॒ षु ण॑ इ॒यं शरु॒रादि॑त्या॒ अप॑ दुर्म॒तिः । अ॒स्मदे॒त्वज॑घ्नुषी ॥
अपो॒ इति॑ , सु , नः॒ , इ॒यं , शरुः॑ , आदि॑त्याः , अप॑ , दुः॒ऽम॒तिः । अ॒स्मत् , ए॒तु॒ , अज॑घ्नुषी ॥
शश्व॒द्धि वः॑ सुदानव॒ आदि॑त्या ऊ॒तिभि॑र्व॒यं । पु॒रा नू॒नं बु॑भु॒ज्महे॑ ॥
शश्व॑त् , हि , वः॒ , सु॒ऽदा॒न॒वः॒ , आदि॑त्याः , ऊ॒तिऽभिः॑ , व॒यं । पु॒रा , नू॒नं , बु॒भु॒ज्महे॑ ॥
शश्वं॑तं॒ हि प्र॑चेतसः प्रति॒यंतं॑ चि॒देन॑सः । देवाः॑ कृणु॒थ जी॒वसे॑ ॥
शश्वं॑तं , हि , प्र॒ऽचे॒त॒सः॒ , प्र॒ति॒ऽयंतं॑ , चि॒त् , एन॑सः । देवाः॑ , कृ॒णु॒थ , जी॒वसे॑ ॥
तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो॑चति । बं॒धाद्ब॒द्धमि॑वादिते ॥
तत् , सु , नः॒ , नव्यं॑ , सन्य॑से , आदि॑त्याः , यत् , मुमो॑चति । बं॒धात् , ब॒द्धंऽइ॑व , अ॒दि॒ते॒ ॥
नास्माक॑मस्ति॒ तत्तर॒ आदि॑त्यासो अति॒ष्कदे॑ । यू॒यम॒स्मभ्यं॑ मृळत ॥
न , अ॒स्माकं॑ , अ॒स्ति॒ , तत् , तरः॑ , आदि॑त्यासः , अ॒ति॒ऽस्कदे॑ । यू॒यं , अ॒स्मभ्यं॑ , मृ॒ळ॒त॒ ॥
मा नो॑ हे॒तिर्वि॒वस्व॑त॒ आदि॑त्याः कृ॒त्रिमा॒ शरुः॑ । पु॒रा नु ज॒रसो॑ वधीत् ॥
मा , नः॒ , हे॒तिः , वि॒वस्व॑तः , आदि॑त्याः , कृ॒त्रिमा॑ , शरुः॑ । पु॒रा , नु , ज॒रसः॑ , व॒धी॒त् ॥
वि षु द्वेषो॒ व्यं॑ह॒तिमादि॑त्यासो॒ वि संहि॑तं । विष्व॒ग्वि वृ॑हता॒ रपः॑ ॥
वि , सु , द्वेषः॑ , वि , अं॒ह॒तिं , आदि॑त्यासः , वि , संऽहि॑तं । विष्व॑क् , वि , वृ॒ह॒त॒ , रपः॑ ॥
[६८] आत्वेत्येकोनविंशत्यृचस्य सूक्तस्यांगिरसः प्रियमेधइंद्रश्चतुर्दश्यादिषण्णामृक्षाश्वमेधौगायत्री आद्याचतुर्थी सप्तमीदम्योनुष्टुभः |
आ त्वा॒ रथं॒ यथो॒तये॑ सु॒म्नाय॑ वर्तयामसि । तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिंद्र॒ शवि॑ष्ठ॒ सत्प॑ते ॥
आ , त्वा॒ , रथं॑ , यथा॑ , ऊ॒तये॑ , सु॒म्नाय॑ , व॒र्त॒या॒म॒सि॒ । तु॒वि॒ऽकू॒र्मिं , ऋ॒ति॒ऽसहं॑ , इंद्र॑ , शवि॑ष्ठ , सत्ऽप॑ते ॥
तुवि॑शुष्म॒ तुवि॑क्रतो॒ शची॑वो॒ विश्व॑या मते । आ प॑प्राथ महित्व॒ना ॥
तुवि॑ऽशुष्म , तुवि॑क्रतो॒ इति॒ तुवि॑ऽक्रतो , शची॑ऽवः , विश्व॑या , म॒ते॒ । आ , प॒प्रा॒थ॒ , म॒हि॒ऽत्व॒ना ॥
यस्य॑ ते महि॒ना म॒हः परि॑ ज्मा॒यंत॑मी॒यतुः॑ । हस्ता॒ वज्रं॑ हिर॒ण्ययं॑ ॥
यस्य॑ , ते॒ , म॒हि॒ना , म॒हः , परि॑ , ज्मा॒यंतं॑ , ई॒यतुः॑ । हस्ता॑ , वज्रं॑ , हि॒र॒ण्ययं॑ ॥
वि॒श्वान॑रस्य व॒स्पति॒मना॑नतस्य॒ शव॑सः । एवै॑श्च चर्षणी॒नामू॒ती हु॑वे॒ रथा॑नां ॥
वि॒श्वान॑रस्य , वः॒ , पतिं॑ , अना॑नतस्य , शव॑सः । एवैः॑ , च॒ , च॒र्ष॒णी॒नां , ऊ॒ती , हु॒वे॒ , रथा॑नां ॥
अ॒भिष्ट॑ये स॒दावृ॑धं॒ स्व॑र्मीळ्हेषु॒ यं नरः॑ । नाना॒ हवं॑त ऊ॒तये॑ ॥
अ॒भिष्ट॑ये , स॒दाऽवृ॑धं , स्वः॑ऽमीळ्हेषु , यं , नरः॑ । नाना॑ , हवं॑ते , ऊ॒तये॑ ॥
प॒रोमा॑त्र॒मृची॑षम॒मिंद्र॑मु॒ग्रं सु॒राध॑सं । ईशा॑नं चि॒द्वसू॑नां ॥
प॒रःऽमा॑त्रं , ऋची॑षमं , इंद्रं॑ , उ॒ग्रं , सु॒ऽराध॑सं । ईशा॑नं , चि॒त् , वसू॑नां ॥
तंत॒मिद्राध॑से म॒ह इंद्रं॑ चोदामि पी॒तये॑ । यः पू॒र्व्यामनु॑ष्टुति॒मीशे॑ कृष्टी॒नां नृ॒तुः ॥
तंऽतं॑ , इत् , राध॑से , म॒हे , इंद्रं॑ , चो॒दा॒मि॒ , पी॒तये॑ । यः , पू॒र्व्यां , अनु॑ऽस्तुतिं , ईशे॑ , कृ॒ष्टी॒नां , नृ॒तुः ॥
न यस्य॑ ते शवसान स॒ख्यमा॒नंश॒ मर्त्यः॑ । नकिः॒ शवां॑सि ते नशत् ॥
न , यस्य॑ , ते॒ , श॒व॒सा॒न॒ , स॒ख्यं , आ॒नंश॑ , मर्त्यः॑ । नकिः॑ , शवां॑सि , ते॒ , न॒श॒त् ॥
त्वोता॑स॒स्त्वा यु॒जाप्सु सूर्ये॑ म॒हद्धनं॑ । जये॑म पृ॒त्सु व॑ज्रिवः ॥
त्वाऽऊ॑तासः , त्वा , यु॒जा , अ॒प्ऽसु , सूर्ये॑ , म॒हत् , धनं॑ । जये॑म , पृ॒त्ऽसु , व॒ज्रि॒ऽवः॒ ॥
तं त्वा॑ य॒ज्ञेभि॑रीमहे॒ तं गी॒र्भिर्गि॑र्वणस्तम । इंद्र॒ यथा॑ चि॒दावि॑थ॒ वाजे॑षु पुरु॒माय्यं॑ ॥
तं , त्वा॒ , य॒ज्ञेभिः॑ , ई॒म॒हे॒ , तं , गीः॒ऽभिः , गि॒र्व॒णः॒ऽत॒म॒ । इंद्र॑ , यथा॑ , चि॒त् , आवि॑थ , वाजे॑षु , पु॒रु॒ऽमाय्यं॑ ॥
यस्य॑ ते स्वा॒दु स॒ख्यं स्वा॒द्वी प्रणी॑तिरद्रिवः । य॒ज्ञो वि॑तंत॒साय्यः॑ ॥
यस्य॑ , ते॒ , स्वा॒दु , स॒ख्यं , स्वा॒द्वी , प्रऽनी॑तिः , अ॒द्रि॒ऽवः॒ । य॒ज्ञः , वि॒तं॒त॒साय्यः॑ ॥
उ॒रु ण॑स्त॒न्वे॒३॒॑ तन॑ उ॒रु क्षया॑य नस्कृधि । उ॒रु णो॑ यंधि जी॒वसे॑ ॥
उ॒रु , नः॒ , त॒न्वे॑ , तने॑ , उ॒रु , क्षया॑य , नः॒ , कृ॒धि॒ । उ॒रु , नः॒ , यं॒धि॒ , जी॒वसे॑ ॥
उ॒रुं नृभ्य॑ उ॒रुं गव॑ उ॒रुं रथा॑य॒ पंथां॑ । दे॒ववी॑तिं मनामहे ॥
उ॒रुं , नृऽभ्यः॑ , उ॒रुं , गवे॑ , उ॒रुं , रथा॑य , पंथां॑ । दे॒वऽवी॑तिं , म॒ना॒म॒हे॒ ॥
उप॑ मा॒ षड्द्वाद्वा॒ नरः॒ सोम॑स्य॒ हर्ष्या॑ । तिष्ठं॑ति स्वादुरा॒तयः॑ ॥
उप॑ , मा॒ , षट् , द्वाऽद्वा॑ , नरः॑ , सोम॑स्य , हर्ष्या॑ । तिष्ठं॑ति , स्वा॒दु॒ऽरा॒तयः॑ ॥
ऋ॒ज्राविं॑द्रो॒त आ द॑दे॒ हरी॒ ऋक्ष॑स्य सू॒नवि॑ । आ॒श्व॒मे॒धस्य॒ रोहि॑ता ॥
ऋ॒ज्रौ , इं॒द्रो॒ते , आ , द॒दे॒ , हरी॒ इति॑ , ऋक्ष॑स्य , सू॒नवि॑ । आ॒श्व॒ऽमे॒धस्य॑ , रोहि॑ता ॥
सु॒रथाँ॑ आतिथि॒ग्वे स्व॑भी॒शूँरा॒र्क्षे । आ॒श्व॒मे॒धे सु॒पेश॑सः ॥
सु॒ऽरथा॑न् , आ॒ति॒थि॒ऽग्वे , सु॒ऽअ॒भी॒शून् , आ॒र्क्षे । आ॒श्व॒ऽमे॒धे , सु॒ऽपेश॑सः ॥
षळश्वाँ॑ आतिथि॒ग्व इं॑द्रो॒ते व॒धूम॑तः । सचा॑ पू॒तक्र॑तौ सनं ॥
षट् , अश्वा॑न् , आ॒ति॒थि॒ऽग्वे , इं॒द्रो॒ते , व॒धूऽम॑तः । सचा॑ , पू॒तऽक्र॑तौ , स॒नं॒ ॥
ऐषु॑ चेत॒द्वृष॑ण्वत्यं॒तर्ऋ॒ज्रेष्वरु॑षी । स्व॒भी॒शुः कशा॑वती ॥
आ , ए॒षु॒ , चे॒त॒त् , वृष॑ण्ऽवती , अं॒तः , ऋ॒ज्रेषु॑ , अरु॑षी । सु॒ऽअ॒भी॒शुः , कशा॑ऽवती ॥
न यु॒ष्मे वा॑जबंधवो निनि॒त्सुश्च॒न मर्त्यः॑ । अ॒व॒द्यमधि॑ दीधरत् ॥
न , यु॒ष्मे इति॑ , वा॒ज॒ऽबं॒ध॒वः॒ , नि॒नि॒त्सुः , च॒न , मर्त्यः॑ । अ॒व॒द्यं , अधि॑ , दी॒ध॒र॒त् ॥
[६९] प्रप्रवइत्यष्टादशर्चस्य सूक्तस्यांगिरसः प्रियमेधइंद्रः अपादिंद्रइत्यस्यविश्वेदेववरुणादेवताः सुदेवइत्यस्यवरुणोनुष्टुप् द्वितीयोष्णिक् चतुर्थ्याद्यास्तिस्रोगायत्र्यः एकादशीषोळश्यौपंक्ती अंत्येद्वेबृहत्यौ |
प्रप्र॑ वस्त्रि॒ष्टुभ॒मिषं॑ मं॒दद्वी॑रा॒येंद॑वे । धि॒या वो॑ मे॒धसा॑तये॒ पुरं॒ध्या वि॑वासति ॥
प्रऽप्र॑ , वः॒ , त्रि॒ऽस्तुभं॑ , इषं॑ , मं॒दत्ऽवी॑राय , इंद॑वे । धि॒या , वः॒ , मे॒धऽसा॑तये , पु॒रं॒ऽध्या , आ , वि॒वा॒स॒ति॒ ॥
न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनां । पतिं॑ वो॒ अघ्न्या॑नां धेनू॒नामि॑षुध्यसि ॥
न॒दं , वः॒ , ओद॑तीनां , न॒दं , योयु॑वतीनां । पतिं॑ , वः॒ , अघ्न्या॑नां , धे॒नू॒नां , इ॒षु॒ध्य॒सि॒ ॥
ता अ॑स्य॒ सूद॑दोहसः॒ सोमं॑ श्रीणंति॒ पृश्न॑यः । जन्मं॑दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥
ताः , अ॒स्य॒ , सूद॑ऽदोहसः , सोमं॑ , श्री॒णं॒ति॒ , पृश्न॑यः । जन्म॑न् , दे॒वानां॑ , विशः॑ , त्रि॒षु , आ , रो॒च॒ने , दि॒वः ॥
अ॒भि प्र गोप॑तिं गि॒रेंद्र॑मर्च॒ यथा॑ वि॒दे । सू॒नुं स॒त्यस्य॒ सत्प॑तिं ॥
अ॒भि , प्र , गोऽप॑तिं , गि॒रा , इंद्रं॑ , अ॒र्च॒ , यथा॑ , वि॒दे । सू॒नुं , स॒त्यस्य॑ , सत्ऽप॑तिं ॥
आ हर॑यः ससृज्रि॒रेऽरु॑षी॒रधि॑ ब॒र्हिषि॑ । यत्रा॒भि सं॒नवा॑महे ॥
आ , हर॑यः , स॒सृ॒ज्रि॒रे॒ , अरु॑षीः , अधि॑ , ब॒र्हिषि॑ । यत्र॑ , अ॒भि , सं॒ऽनवा॑महे ॥
इंद्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ । यत्सी॑मुपह्व॒रे वि॒दत् ॥
इंद्रा॑य , गावः॑ , आ॒ऽशिरं॑ , दु॒दु॒ह्रे , व॒ज्रिणे॑ , मधु॑ । यत् , सीं॒ , उ॒प॒ऽह्व॒रे , वि॒दत् ॥
उद्यद्ब्र॒ध्नस्य॑ वि॒ष्टपं॑ गृ॒हमिंद्र॑श्च॒ गन्व॑हि । मध्वः॑ पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्युः॑ प॒दे ॥
उत् , यत् , ब्र॒ध्नस्य॑ , वि॒ष्टपं॑ , गृ॒हं , इंद्रः॑ , च॒ , गन्व॑हि । मध्वः॑ , पी॒त्वा , स॒चे॒व॒हि॒ , त्रिः , स॒प्त , सख्युः॑ , प॒दे ॥
अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒ अर्च॑त । अर्चं॑तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्व॑र्चत ॥
अर्च॑त , प्र , अ॒र्च॒त॒ , प्रिय॑ऽमेधासः , अर्च॑त । अर्चं॑तु , पु॒त्र॒काः , उ॒त , पुरं॑ , न , धृ॒ष्णु , अ॒र्च॒त॒ ॥
अव॑ स्वराति॒ गर्ग॑रो गो॒धा परि॑ सनिष्वणत् । पिंगा॒ परि॑ चनिष्कद॒दिंद्रा॑य॒ ब्रह्मोद्य॑तं ॥
अव॑ , स्व॒रा॒ति॒ , गर्ग॑रः , गो॒धा , परि॑ , स॒नि॒स्व॒न॒त् । पिंगा॑ , परि॑ , च॒नि॒स्क॒द॒त् , इंद्रा॑य , ब्रह्म॑ , उत्ऽय॑तं ॥
आ यत्पतं॑त्ये॒न्यः॑ सु॒दुघा॒ अन॑पस्फुरः । अ॒प॒स्फुरं॑ गृभायत॒ सोम॒मिंद्रा॑य॒ पात॑वे ॥
आ , यत् , पतं॑ति , ए॒न्यः॑ , सु॒ऽदुघाः॑ , अन॑पऽस्फुरः । अ॒प॒ऽस्फुरं॑ , गृ॒भा॒य॒त॒ , सोमं॑ , इंद्रा॑य , पात॑वे ॥
अपा॒दिंद्रो॒ अपा॑द॒ग्निर्विश्वे॑ दे॒वा अ॑मत्सत । वरु॑ण॒ इदि॒ह क्ष॑य॒त्तमापो॑ अ॒भ्य॑नूषत व॒त्सं सं॒शिश्व॑रीरिव ॥
अपा॑त् , इंद्रः॑ , अपा॑त् , अ॒ग्निः , विश्वे॑ , दे॒वाः , अ॒म॒त्स॒त॒ । वरु॑णः , इत् , इ॒ह , क्ष॒य॒त् , तं , आपः॑ , अ॒भि , अ॒नू॒ष॒त॒ , व॒त्सं , सं॒शिश्व॑रीःऽइव ॥
सु॒दे॒वो अ॑सि वरुण॒ यस्य॑ ते स॒प्त सिंध॑वः । अ॒नु॒क्षरं॑ति का॒कुदं॑ सू॒र्म्यं॑ सुषि॒रामि॑व ॥
सु॒ऽदे॒वः , अ॒सि॒ , व॒रु॒ण॒ , यस्य॑ , ते॒ , स॒प्त , सिंध॑वः । अ॒नु॒ऽक्षरं॑ति , का॒कुदं॑ , सू॒र्म्यं॑ , सु॒षि॒रांऽइ॑व ॥
यो व्यतीँ॒रफा॑णय॒त्सुयु॑क्ताँ॒ उप॑ दा॒शुषे॑ । त॒क्वो ने॒ता तदिद्वपु॑रुप॒मा यो अमु॑च्यत ॥
यः , व्यती॑न् , अफा॑णयत् , सुऽयु॑क्तान् , उप॑ , दा॒शुषे॑ । त॒क्वः , ने॒ता , तत् , इत् , वपुः॑ , उ॒प॒ऽमा , यः , अमु॑च्यत ॥
अतीदु॑ श॒क्र ओ॑हत॒ इंद्रो॒ विश्वा॒ अति॒ द्विषः॑ । भि॒नत्क॒नीन॑ ओद॒नं प॒च्यमा॑नं प॒रो गि॒रा ॥
अति॑ , इत् , ऊँ॒ इति॑ , श॒क्रः , ओ॒ह॒ते॒ , इंद्रः॑ , विश्वाः॑ , अति॑ , द्विषः॑ । भि॒नत् , क॒नीनः॑ , ओ॒द॒नं , प॒च्यमा॑नं , प॒रः , गि॒रा ॥
अ॒र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथं॑ । स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतुं॑ ॥
अ॒र्भ॒कः , न , कु॒मा॒र॒कः , अधि॑ , ति॒ष्ठ॒त् , नवं॑ , रथं॑ । सः , प॒क्ष॒त् , म॒हि॒षं , मृ॒गं , पि॒त्रे , मा॒त्रे , वि॒भु॒ऽक्रतुं॑ ॥
आ तू सु॑शिप्र दंपते॒ रथं॑ तिष्ठा हिर॒ण्ययं॑ । अध॑ द्यु॒क्षं स॑चेवहि स॒हस्र॑पादमरु॒षं स्व॑स्ति॒गाम॑ने॒हसं॑ ॥
आ , तु , सु॒ऽशि॒प्र॒ , दं॒ऽप॒ते॒ , रथं॑ , ति॒ष्ठ॒ , हि॒र॒ण्ययं॑ । अध॑ , द्यु॒क्षं , स॒चे॒व॒हि॒ , स॒हस्र॑ऽपादं , अ॒रु॒षं , स्व॒स्ति॒ऽगां , अ॒ने॒हसं॑ ॥
तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते । अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तयं॑ति दा॒वने॑ ॥
तं , घ॒ , ईं॒ , इ॒त्था , न॒म॒स्विनः॑ , उप॑ , स्व॒ऽराजं॑ , आ॒स॒ते॒ । अर्थं॑ , चि॒त् , अ॒स्य॒ , सुऽधि॑तं , यत् , एत॑वे , आ॒ऽव॒र्तयं॑ति , दा॒वने॑ ॥
अनु॑ प्र॒त्नस्यौक॑सः प्रि॒यमे॑धास एषां । पूर्वा॒मनु॒ प्रय॑तिं वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आशत ॥
अनु॑ , प्र॒त्नस्य॑ , ओक॑सः , प्रि॒यऽमे॑धासः , ए॒षां॒ । पूर्वां॑ , अनु॑ , प्रऽय॑तिं , वृ॒क्तऽब॑र्हिषः , हि॒तऽप्र॑यसः , आ॒श॒त॒ ॥
[७०] योराजेति पंचदशर्चस्य सूक्तस्यांगिरसः पुरुहन्मेंद्रो बृहती द्वितीयाचतुर्थीषष्ट्यः सतोबृहत्यः त्रयोदश्युष्णिक् चतुर्दश्यनुष्टुबंत्या पुरउष्णिक् |
यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः । विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥
यः , राजा॑ , च॒र्ष॒णी॒नां , याता॑ , रथे॑भिः , अध्रि॑ऽगुः । विश्वा॑सां , त॒रु॒ता , पृत॑नानां , ज्येष्ठः॑ , यः , वृ॒त्र॒ऽहा , गृ॒णे ॥
इंद्रं॒ तं शुं॑भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ । हस्ता॑य॒ वज्रः॒ प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्यः॑ ॥
इंद्रं॑ , तं , शुं॒भ॒ , पु॒रु॒ऽह॒न्म॒न् , अव॑से , यस्य॑ , द्वि॒ता , वि॒ऽध॒र्तरि॑ । हस्ता॑य , वज्रः॑ , प्रति॑ , धा॒यि॒ , द॒र्श॒तः , म॒हः , दि॒वे , न , सूर्यः॑ ॥
नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धं । इंद्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो॑जसं ॥
नकिः॑ , तं , कर्म॑णा , न॒श॒त् , यः , च॒कार॑ , स॒दाऽवृ॑धं । इंद्रं॑ , न , य॒ज्ञैः , वि॒श्वऽगू॑र्तं , ऋभ्व॑सं , अधृ॑ष्टं , धृ॒ष्णुऽओ॑जसं ॥
अषा॑ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रयः॑ । सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्यावः॒ क्षामो॑ अनोनवुः ॥
अषा॑ळ्हं , उ॒ग्रं , पृत॑नासु , स॒स॒हिं , यस्मि॑न् , म॒हीः , उ॒रु॒ऽज्रयः॑ । सं , धे॒नवः॑ , जाय॑माने , अ॒नो॒न॒वुः॒ , द्यावः॑ , क्षामः॑ , अ॒नो॒न॒वुः॒ ॥
यद्द्याव॑ इंद्र ते श॒तं श॒तं भूमी॑रु॒त स्युः । न त्वा॑ वज्रिंत्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥
यत् , द्यावः॑ , इं॒द्र॒ , ते॒ , श॒तं , श॒तं , भूमीः॑ , उ॒त , स्युरिति॒ स्युः । न , त्वा॒ , व॒ज्रि॒न् , स॒हस्रं॑ , सूर्याः॑ , अनु॑ , न , जा॒तं , अ॒ष्ट॒ , रोद॑सी॒ इति॑ ॥
आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा । अ॒स्माँ अ॑व मघव॒न्गोम॑ति व्र॒जे वज्रिं॑चि॒त्राभि॑रू॒तिभिः॑ ॥
आ , प॒प्रा॒थ॒ , म॒हि॒ना , वृष्ण्या॑ , वृ॒ष॒न् , विश्वा॑ , श॒वि॒ष्ठ॒ , शव॑सा । अ॒स्मान् , अ॒व॒ , म॒घ॒ऽव॒न् , गोऽम॑ति , व्र॒जे , वज्रि॑न् , चि॒त्राभिः॑ , ऊ॒तिऽभिः॑ ॥
न सी॒मदे॑व आप॒दिषं॑ दीर्घायो॒ मर्त्यः॑ । एत॑ग्वा चि॒द्य एत॑शा यु॒योज॑ते॒ हरी॒ इंद्रो॑ यु॒योज॑ते ॥
न , सीं॒ , अदे॑वः , आ॒प॒त् , इषं॑ , दी॒र्घा॒यो॒ इति॑ दीर्घऽआयो , मर्त्यः॑ । एत॑ऽग्वा , चि॒त् , यः , एत॑शा , यु॒योज॑ते , हरी॒ इति॑ , इंद्रः॑ , यु॒योज॑ते ॥
तं वो॑ म॒हो म॒हाय्य॒मिंद्रं॑ दा॒नाय॑ स॒क्षणिं॑ । यो गा॒धेषु॒ य आर॑णेषु॒ हव्यो॒ वाजे॒ष्वस्ति॒ हव्यः॑ ॥
तं , वः॒ , म॒हः , म॒हाय्यं॑ , इंद्रं॑ , दा॒नाय॑ , स॒क्षणिं॑ । यः , गा॒धेषु॑ , यः , आ॒ऽअर॑णेषु , हव्यः॑ , वाजे॑षु , अस्ति॑ , हव्यः॑ ॥
उदू॒ षु णो॑ वसो म॒हे मृ॒शस्व॑ शूर॒ राध॑से । उदू॒ षु म॒ह्यै म॑घवन्म॒घत्त॑य॒ उदिं॑द्र॒ श्रव॑से म॒हे ॥
उत् , ऊँ॒ इति॑ , सु , नः॒ , व॒सो॒ इति॑ , म॒हे , मृ॒शस्व॑ , शू॒र॒ , राध॑से । उत् , ऊँ॒ इति॑ , सु , म॒ह्यै , म॒घ॒ऽव॒न् , म॒घत्त॑ये , उत् , इं॒द्र॒ , श्रव॑से , म॒हे ॥
त्वं न॑ इंद्र ऋत॒युस्त्वा॒निदो॒ नि तृं॑पसि । मध्ये॑ वसिष्व तुविनृम्णो॒र्वोर्नि दा॒सं शि॑श्नथो॒ हथैः॑ ॥
त्वं , नः॒ , इं॒द्र॒ , ऋ॒त॒ऽयुः , त्वा॒ऽनिदः॑ , नि , तृं॒प॒सि॒ । मध्ये॑ , व॒सि॒ष्व॒ , तु॒वि॒ऽनृ॒म्ण॒ , ऊ॒र्वोः , नि , दा॒सं , शि॒श्न॒थः॒ , हथैः॑ ॥
अ॒न्यव्र॑त॒ममा॑नुष॒मय॑ज्वान॒मदे॑वयुं । अव॒ स्वः सखा॑ दुधुवीत॒ पर्व॑तः सु॒घ्नाय॒ दस्युं॒ पर्व॑तः ॥
अ॒न्यऽव्र॑तं , अमा॑नुषं , अय॑ज्वानं , अदे॑वऽयुं । अव॑ , स्वः , सखा॑ , दु॒धु॒वी॒त॒ , पर्व॑तः , सु॒ऽघ्नाय॑ , दस्युं॑ , पर्व॑तः ॥
त्वं न॑ इंद्रासां॒ हस्ते॑ शविष्ठ दा॒वने॑ । धा॒नानां॒ न सं गृ॑भायास्म॒युर्द्विः सं गृ॑भायास्म॒युः ॥
त्वं , नः॒ , इं॒द्र॒ , आ॒सां॒ , हस्ते॑ , श॒वि॒ष्ठ॒ , दा॒वने॑ । धा॒नानां॑ , न , सं , गृ॒भा॒य॒ , अ॒स्म॒ऽयुः , द्विः , सं , गृ॒भा॒य॒ , अ॒स्म॒ऽयुः ॥
सखा॑यः॒ क्रतु॑मिच्छत क॒था रा॑धाम श॒रस्य॑ । उप॑स्तुतिं भो॒जः सू॒रिर्यो अह्र॑यः ॥
सखा॑यः , क्रतुं॑ , इ॒च्छ॒त॒ , क॒था , रा॒धा॒म॒ , श॒रस्य॑ । उप॑ऽस्तुतिं , भो॒जः , सू॒रिः , यः , अह्र॑यः ॥
भूरि॑भिः समह॒ ऋषि॑भिर्ब॒र्हिष्म॑द्भिः स्तविष्यसे । यदि॒त्थमेक॑मेक॒मिच्छर॑ व॒त्सान्प॑रा॒ददः॑ ॥
भूरि॑ऽभिः , स॒म॒ह॒ , ऋषि॑ऽभिः , ब॒र्हिष्म॑त्ऽभिः , स्त॒वि॒ष्य॒से॒ । यत् , इ॒त्थं , एकं॑ऽएकं , इत् , शर॑ , व॒त्सान् , प॒रा॒ऽददः॑ ॥
क॒र्ण॒गृह्या॑ म॒घवा॑ शौरदे॒व्यो व॒त्सं न॑स्त्रि॒भ्य आन॑यत् । अ॒जां सू॒रिर्न धात॑वे ॥
क॒र्ण॒ऽगृह्य॑ , म॒घऽवा॑ , शौ॒र॒ऽदे॒व्यः , व॒त्सं , नः॒ , त्रि॒ऽभ्यः , आ , अ॒न॒य॒त् । अ॒जां , सू॒रिः , न , धात॑वे ॥
[७१] त्वंनोअग्नइति पंचदशर्चस्य सूक्तस्य सुदीतिपुरुमीळ्हावाग्निर्गायत्री दशमीद्वादशीचतुर्दश्योबृहत्यः एकादशीत्रयोदशीपंचदश्यः सतोबृहत्यः | (अत्रसुदीतिपुरुमीळ्हयोरन्यतरोवाऋषिः) |
त्वं नो॑ अग्ने॒ महो॑भिः पा॒हि विश्व॑स्या॒ अरा॑तेः । उ॒त द्वि॒षो मर्त्य॑स्य ॥
त्वं , नः॒ , अ॒ग्ने॒ , महः॑ऽभिः , पा॒हि , विश्व॑स्याः , अरा॑तेः । उ॒त , द्वि॒षः , मर्त्य॑स्य ॥
न॒हि म॒न्युः पौरु॑षेय॒ ईशे॒ हि वः॑ प्रियजात । त्वमिद॑सि॒ क्षपा॑वान् ॥
न॒हि , म॒न्युः , पौरु॑षेयः , ईशे॑ , हि , वः॒ , प्रि॒य॒ऽजा॒त॒ । त्वं , इत् , अ॒सि॒ , क्षपा॑ऽवान् ॥
स नो॒ विश्वे॑भिर्दे॒वेभि॒रूर्जो॑ नपा॒द्भद्र॑शोचे । र॒यिं दे॑हि वि॒श्ववा॑रं ॥
सः , नः॒ , विश्वे॑भिः , दे॒वेभिः॑ , ऊर्जः॑ , नपा॑त् , भद्र॑ऽशोचे । र॒यिं , दे॒हि॒ , वि॒श्वऽवा॑रं ॥
न तम॑ग्ने॒ अरा॑तयो॒ मर्तं॑ युवंत रा॒यः । यं त्राय॑से दा॒श्वांसं॑ ॥
न , तं , अ॒ग्ने॒ , अरा॑तयः , मर्तं॑ , यु॒वं॒त॒ , रा॒यः । यं , त्राय॑से , दा॒श्वांसं॑ ॥
यं त्वं वि॑प्र मे॒धसा॑ता॒वग्ने॑ हि॒नोषि॒ धना॑य । स तवो॒ती गोषु॒ गंता॑ ॥
यं , त्वं , वि॒प्र॒ , मे॒धऽसा॑तौ , अग्ने॑ , हि॒नोषि॑ , धना॑य । सः , तव॑ , ऊ॒ती , गोषु॑ , गंता॑ ॥
त्वं र॒यिं पु॑रु॒वीर॒मग्ने॑ दा॒शुषे॒ मर्ता॑य । प्र णो॑ नय॒ वस्यो॒ अच्छ॑ ॥
त्वं , र॒यिं , पु॒रु॒ऽवीरं॑ , अग्ने॑ , दा॒शुषे॑ , मर्ता॑य । प्र , नः॒ , न॒य॒ , वस्यः॑ , अच्छ॑ ॥
उ॒रु॒ष्या णो॒ मा परा॑ दा अघाय॒ते जा॑तवेदः । दु॒रा॒ध्ये॒३॒॑ मर्ता॑य ॥
उ॒रु॒ष्य , नः॒ , मा , परा॑ , दाः॒ , अ॒घ॒ऽय॒ते , जा॒त॒ऽवे॒दः॒ । दुः॒ऽआ॒ध्ये॑ , मर्ता॑य ॥
अग्ने॒ माकि॑ष्टे दे॒वस्य॑ रा॒तिमदे॑वो युयोत । त्वमी॑शिषे॒ वसू॑नां ॥
अग्ने॑ , माकिः॑ , ते॒ , दे॒वस्य॑ , रा॒तिं , अदे॑वः , यु॒यो॒त॒ । त्वं , ई॒शि॒षे॒ , वसू॑नां ॥
स नो॒ वस्व॒ उप॑ मा॒स्यूर्जो॑ नपा॒न्माहि॑नस्य । सखे॑ वसो जरि॒तृभ्यः॑ ॥
सः , नः॒ , वस्वः॑ , उप॑ , मा॒सि॒ , ऊर्जः॑ , नपा॑त् , माहि॑नस्य । सखे॑ , व॒सो॒ इति॑ , ज॒रि॒तृऽभ्यः॑ ॥
अच्छा॑ नः शी॒रशो॑चिषं॒ गिरो॑ यंतु दर्श॒तं । अच्छा॑ य॒ज्ञासो॒ नम॑सा पुरू॒वसुं॑ पुरुप्रश॒स्तमू॒तये॑ ॥
अच्छ॑ , नः॒ , शी॒रऽशो॑चिषं , गिरः॑ , यं॒तु॒ , द॒र्श॒तं । अच्छ॑ , य॒ज्ञासः॑ , नम॑सा , पु॒रु॒ऽवसुं॑ , पु॒रु॒ऽप्र॒श॒स्तं , ऊ॒तये॑ ॥
अ॒ग्निं सू॒नुं सह॑सो जा॒तवे॑दसं दा॒नाय॒ वार्या॑णां । द्वि॒ता यो भूद॒मृतो॒ मर्त्ये॒ष्वा होता॑ मं॒द्रत॑मो वि॒शि ॥
अ॒ग्निं , सू॒नुं , सह॑सः , जा॒तऽवे॑दसं , दा॒नाय॑ , वार्या॑णां । द्वि॒ता , यः , भूत् , अ॒मृतः॑ , मर्त्ये॑षु , आ , होता॑ , मं॒द्रऽत॑मः , वि॒शि ॥
अ॒ग्निं वो॑ देवय॒ज्यया॒ग्निं प्र॑य॒त्य॑ध्व॒रे । अ॒ग्निं धी॒षु प्र॑थ॒मम॒ग्निमर्व॑त्य॒ग्निं क्षैत्रा॑य॒ साध॑से ॥
अ॒ग्निं , वः॒ , दे॒व॒ऽय॒ज्यया॑ , अ॒ग्निं , प्र॒ऽय॒ति , अ॒ध्व॒रे । अ॒ग्निं , धी॒षु , प्र॒थ॒मं , अ॒ग्निं , अर्व॑ति , अ॒ग्निं , क्षैत्रा॑य , साध॑से ॥
अ॒ग्निरि॒षां स॒ख्ये द॑दातु न॒ ईशे॒ यो वार्या॑णां । अ॒ग्निं तो॒के तन॑ये॒ शश्व॑दीमहे॒ वसुं॒ संतं॑ तनू॒पां ॥
अ॒ग्निः , इ॒षां , स॒ख्ये , द॒दा॒तु॒ , नः॒ , ईशे॑ , यः , वार्या॑णां । अ॒ग्निं , तो॒के , तन॑ये , शश्व॑त् , ई॒म॒हे॒ , वसुं॑ , संतं॑ , त॒नू॒ऽपां ॥
अ॒ग्निमी॑ळि॒ष्वाव॑से॒ गाथा॑भिः शी॒रशो॑चिषं । अ॒ग्निं रा॒ये पु॑रुमीळ्ह श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये॑ छ॒र्दिः ॥
अ॒ग्निं , ई॒ळि॒ष्व॒ , अव॑से , गाथा॑भिः , शी॒रऽशो॑चिषं । अ॒ग्निं , रा॒ये , पु॒रु॒ऽमी॒ळ्ह॒ , श्रु॒तं , नरः॑ , अ॒ग्निं , सु॒ऽदी॒तये॑ , छ॒र्धिः ॥
अ॒ग्निं द्वेषो॒ योत॒वै नो॑ गृणीमस्य॒ग्निं शं योश्च॒ दात॑वे । विश्वा॑सु वि॒क्ष्व॑वि॒तेव॒ हव्यो॒ भुव॒द्वस्तु॑र्ऋषू॒णां ॥
अ॒ग्निं , द्वेषः॑ , योत॒वै , नः॒ , गृ॒णी॒म॒सि॒ , अ॒ग्निं , शं , योः , च॒ , दात॑वे । विश्वा॑सु , वि॒क्षु , अ॒वि॒ताऽइ॑व , हव्यः॑ , भुव॑त् , वस्तुः॑ , ऋ॒षू॒णां ॥
[७२] हरिरित्यष्टादशर्चस्य सूक्तस्य प्रागाथोहर्यतोग्निर्गायत्री | (हविषांस्तुतिर्वादेवता)
ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुनः॑ । वि॒द्वाँ अ॑स्य प्र॒शास॑नं ॥
ह॒विः , कृ॒णु॒ध्वं॒ , आ , ग॒म॒त् , अ॒ध्व॒र्युः , व॒न॒ते॒ , पुन॒रिति॑ । वि॒द्वान् , अ॒स्य॒ , प्र॒ऽशास॑नं ॥
नि ति॒ग्मम॒भ्यं१॒॑शुं सीद॒द्धोता॑ म॒नावधि॑ । जु॒षा॒णो अ॑स्य स॒ख्यं ॥
नि , ति॒ग्मं , अ॒भि , अं॒शुं , सीद॑त् , होता॑ , म॒नौ , अधि॑ । जु॒षा॒णः , अ॒स्य॒ , स॒ख्यं ॥
अं॒तरि॑च्छंति॒ तं जने॑ रु॒द्रं प॒रो म॑नी॒षया॑ । गृ॒भ्णंति॑ जि॒ह्वया॑ स॒सं ॥
अं॒तः , इ॒च्छं॒ति॒ , तं , जने॑ , रु॒द्रं , प॒रः , म॒नी॒षया॑ । गृ॒भ्णंति॑ , जि॒ह्वया॑ , स॒सं ॥
जा॒म्य॑तीतपे॒ धनु॑र्वयो॒धा अ॑रुह॒द्वनं॑ । दृ॒षदं॑ जि॒ह्वयाव॑धीत् ॥
जा॒मि , अ॒ती॒त॒पे॒ , धनुः॑ , व॒यः॒ऽधाः , अ॒रु॒ह॒त् , वनं॑ । दृ॒षदं॑ , जि॒ह्वया॑ , आ , अ॒व॒धी॒त् ॥
चर॑न्व॒त्सो रुश॑न्नि॒ह नि॑दा॒तारं॒ न विं॑दते । वेति॒ स्तोत॑व अं॒ब्यं॑ ॥
चर॑न् , व॒त्सः , रुश॑न् , इ॒ह , नि॒ऽदा॒तारं॑ , न , विं॒द॒ते॒ । वेति॑ , स्तोत॑वे , अं॒ब्यं॑ ॥
उ॒तो न्व॑स्य॒ यन्म॒हदश्वा॑व॒द्योज॑नं बृ॒हत् । दा॒मा रथ॑स्य॒ ददृ॑शे ॥
उ॒तो इति॑ , नु , अ॒स्य॒ , यत् , म॒हत् , अश्व॑ऽवत् , योज॑नं , बृ॒हत् । दा॒मा , रथ॑स्य , ददृ॑शे ॥
दु॒हंति॑ स॒प्तैका॒मुप॒ द्वा पंच॑ सृजतः । ती॒र्थे सिंधो॒रधि॑ स्व॒रे ॥
दु॒हंति॑ , स॒प्त , एकां॑ , उप॑ , द्वा , पंच॑ , सृ॒ज॒तः॒ । ती॒र्थे , सिंधोः॑ , अधि॑ , स्व॒रे ॥
आ द॒शभि॑र्वि॒वस्व॑त॒ इंद्रः॒ कोश॑मचुच्यवीत् । खेद॑या त्रि॒वृता॑ दि॒वः ॥
आ , द॒शऽभिः॑ , वि॒वस्व॑तः , इंद्रः॑ , कोशं॑ , अ॒चु॒च्य॒वी॒त् । खेद॑या , त्रि॒ऽवृता॑ , दि॒वः ॥
परि॑ त्रि॒धातु॑रध्व॒रं जू॒र्णिरे॑ति॒ नवी॑यसी । मध्वा॒ होता॑रो अंजते ॥
परि॑ , त्रि॒ऽधातुः॑ , अ॒ध्व॒रं , जू॒र्णिः , ए॒ति॒ , नवी॑यसी । मध्वा॑ , होता॑रः , अं॒ज॒ते॒ ॥
सिं॒चंति॒ नम॑साव॒तमु॒च्चाच॑क्रं॒ परि॑ज्मानं । नी॒चीन॑बार॒मक्षि॑तं ॥
सिं॒चंति॑ , नम॑सा , अ॒व॒तं , उ॒च्चाऽच॑क्रं , परि॑ऽज्मानं । नी॒चीन॑ऽबारं , अक्षि॑तं ॥
अ॒भ्यार॒मिदद्र॑यो॒ निषि॑क्तं॒ पुष्क॑रे॒ मधु॑ । अ॒व॒तस्य॑ वि॒सर्ज॑ने ॥
अ॒भि॒ऽआरं॑ , इत् , अद्र॑यः , निऽसि॑क्तं , पुष्क॑रे , मधु॑ । अ॒व॒तस्य॑ , वि॒ऽसर्ज॑ने ॥
गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ । उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥
गावः॑ , उप॑ , अ॒व॒त॒ , अ॒व॒तं , म॒ही इति॑ , य॒ज्ञस्य॑ , र॒प्सुदा॑ । उ॒भा , कर्णा॑ , हि॒र॒ण्यया॑ ॥
आ सु॒ते सिं॑चत॒ श्रियं॒ रोद॑स्योरभि॒श्रियं॑ । र॒सा द॑धीत वृष॒भं ॥
आ , सु॒ते , सिं॒च॒त॒ , श्रियं॑ , रोद॑स्योः , अ॒भि॒ऽश्रियं॑ । र॒सा , द॒धी॒त॒ , वृ॒ष॒भं ॥
ते जा॑नत॒ स्वमो॒क्यं१॒॑ सं व॒त्सासो॒ न मा॒तृभिः॑ । मि॒थो न॑संत जा॒मिभिः॑ ॥
ते , जा॒न॒त॒ , स्वं , ओ॒क्यं॑ , सं , व॒त्सासः॑ , न , मा॒तृऽभिः॑ । मि॒थः , न॒सं॒त॒ , जा॒मिऽभिः॑ ॥
उप॒ स्रक्वे॑षु॒ बप्स॑तः कृण्व॒ते ध॒रुणं॑ दि॒वि । इंद्रे॑ अ॒ग्ना नमः॒ स्वः॑ ॥
उप॑ , स्रक्वे॑षु , बप्स॑तः , कृ॒ण्व॒ते , ध॒रुणं॑ , दि॒वि । इंद्रे॑ , अ॒ग्ना , नमः॑ , स्व१॒॑रिति॒ स्वः॑ ॥
अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं॑ स॒प्तप॑दीम॒रिः । सूर्य॑स्य स॒प्त र॒श्मिभिः॑ ॥
अधु॑क्षत् , पि॒प्युषीं॑ , इषं॑ , ऊर्जं॑ , स॒प्तऽप॑दीं , अ॒रिः । सूर्य॑स्य , स॒प्त , र॒श्मिऽभिः॑ ॥
सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे । तदातु॑रस्य भेष॒जं ॥
सोम॑स्य , मि॒त्रा॒व॒रु॒णा॒ , उत्ऽइ॑ता , सूरे॑ , आ , द॒दे॒ । तत् , आतु॑रस्य , भे॒ष॒जं ॥
उ॒तो न्व॑स्य॒ यत्प॒दं ह॑र्य॒तस्य॑ निधा॒न्यं॑ । परि॒ द्यां जि॒ह्वया॑तनत् ॥
उ॒तो इति॑ , नु , अ॒स्य॒ , यत् , प॒दं , ह॒र्य॒तस्य॑ , नि॒ऽधा॒न्यं॑ । परि॑ , द्यां , जि॒ह्वया॑ , अ॒त॒न॒त् ॥
[७३] उदीराथामित्यष्टादशर्चस्य सूक्तस्यात्रेयोगोपवनोश्विनौगायत्री | ( सप्तवध्निर्वाऋषिः)
उदी॑राथामृताय॒ते युं॒जाथा॑मश्विना॒ रथं॑ । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
उत् , ई॒रा॒थां॒ , ऋ॒त॒ऽय॒ते , युं॒जाथां॑ , अ॒श्वि॒ना॒ , रथं॑ । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
नि॒मिष॑श्चि॒ज्जवी॑यसा॒ रथे॒ना या॑तमश्विना । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
नि॒ऽमिषः॑ , चि॒त् , जवी॑यसा , रथे॑न , आ , या॒तं॒ , अ॒श्वि॒ना॒ । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
उप॑ स्तृणीत॒मत्र॑ये हि॒मेन॑ घ॒र्मम॑श्विना । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
उप॑ , स्तृ॒णी॒तं॒ , अत्र॑ये , हि॒मेन॑ , घ॒र्मं , अ॒श्वि॒ना॒ । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
कुह॑ स्थः॒ कुह॑ जग्मथुः॒ कुह॑ श्ये॒नेव॑ पेतथुः । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
कुह॑ , स्थः॒ , कुह॑ , ज॒ग्म॒थुः॒ , कुह॑ , श्ये॒नाऽइ॑व , पे॒त॒थुः॒ । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
यद॒द्य कर्हि॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हवं॑ । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
यत् , अ॒द्य , कर्हि॑ , कर्हि॑ , चि॒त् , शु॒श्रू॒यातं॑ , इ॒मं , हवं॑ । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
अ॒श्विना॑ याम॒हूत॑मा॒ नेदि॑ष्ठं या॒म्याप्यं॑ । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
अ॒श्विना॑ , या॒म॒ऽहूत॑मा , नेदि॑ष्ठं , या॒मि॒ , आप्यं॑ । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
अवं॑त॒मत्र॑ये गृ॒हं कृ॑णु॒तं यु॒वम॑श्विना । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
अवं॑तं , अत्र॑ये , गृ॒हं , कृ॒णु॒तं , यु॒वं , अ॒श्वि॒ना॒ । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
वरे॑थे अ॒ग्निमा॒तपो॒ वद॑ते व॒ल्ग्वत्र॑ये । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
वरे॑थे॒ इति॑ , अ॒ग्निं , आ॒ऽतपः॑ , वद॑ते , व॒ल्गु , अत्र॑ये । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
प्र स॒प्तव॑ध्रिरा॒शसा॒ धारा॑म॒ग्नेर॑शायत । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
प्र , स॒प्तऽव॑ध्रिः , आ॒ऽशसा॑ , धारां॑ , अ॒ग्नेः , अ॒शा॒य॒त॒ । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
इ॒हा ग॑तं वृषण्वसू शृणु॒तं म॑ इ॒मं हवं॑ । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
इ॒ह , आ , ग॒तं॒ , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू , शृ॒णु॒तं , मे॒ , इ॒मं , हवं॑ । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
किमि॒दं वां॑ पुराण॒वज्जर॑तोरिव शस्यते । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
किं , इ॒दं , वां॒ , पु॒रा॒ण॒ऽवत् , जर॑तोःऽइव , श॒स्य॒ते॒ । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
स॒मा॒नं वां॑ सजा॒त्यं॑ समा॒नो बंधु॑रश्विना । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
स॒मा॒नं , वां॒ , स॒ऽजा॒त्यं॑ , स॒मा॒नः , बंधुः॑ , अ॒श्वि॒ना॒ । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
यो वां॒ रजां॑स्यश्विना॒ रथो॑ वि॒याति॒ रोद॑सी । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
यः , वां॒ , रजां॑सि , अ॒श्वि॒ना॒ , रथः॑ , वि॒ऽयाति॑ , रोद॑सी॒ इति॑ । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
आ नो॒ गव्ये॑भि॒रश्व्यैः॑ स॒हस्रै॒रुप॑ गच्छतं । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
आ , नः॒ , गव्ये॑भिः , अश्व्यैः॑ , स॒हस्रैः॑ , उप॑ , ग॒च्छ॒तं॒ । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
मा नो॒ गव्ये॑भि॒रश्व्यैः॑ स॒हस्रे॑भि॒रति॑ ख्यतं । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
मा , नः॒ , गव्ये॑भिः , अश्व्यैः॑ , स॒हस्रे॑भिः , अति॑ , ख्य॒तं॒ । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
अ॒रु॒णप्सु॑रु॒षा अ॑भू॒दक॒र्ज्योति॑र्ऋ॒ताव॑री । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
अ॒रु॒णऽप्सुः॑ , उ॒षाः , अ॒भू॒त् , अकः॑ , ज्योतिः॑ , ऋ॒तऽव॑री । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
अ॒श्विना॒ सु वि॒चाक॑शद्वृ॒क्षं प॑रशु॒माँ इ॑व । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
अ॒श्विना॑ , सु , वि॒ऽचाक॑शत् , वृ॒क्षं , प॒र॒शु॒मान्ऽइ॑व । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
पुरं॒ न धृ॑ष्ण॒वा रु॑ज कृ॒ष्णया॑ बाधि॒तो वि॒शा । अंति॒ षद्भू॑तु वा॒मवः॑ ॥
पुरं॑ , न , धृ॒ष्णो॒ इति॑ , आ , रु॒ज॒ , कृ॒ष्णया॑ , बा॒धि॒तः , वि॒शा । अंति॑ , सत् , भू॒तु॒ , वां॒ , अवः॑ ॥
[७४] विशोविशइति पंचदशर्चस्य सूक्तस्यात्रेयोगोपवनोग्निरंत्यतिसृणां श्रुतर्वागायत्री आद्याचतुर्थीसप्तमीदशम्यस्त्रयोदश्यादितिस्रश्चानुष्टुभः |
वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यंतः॑ पुरुप्रि॒यं । अ॒ग्निं वो॒ दुर्यं॒ वचः॑ स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥
वि॒शःऽवि॑शः , वः॒ , अति॑थिं , वा॒ज॒ऽयंतः॑ , पु॒रु॒ऽप्रि॒यं । अ॒ग्निं , वः॒ , दुर्यं॑ , वचः॑ , स्तु॒षे , शू॒षस्य॑ , मन्म॑ऽभिः ॥
यं जना॑सो ह॒विष्मं॑तो मि॒त्रं न स॒र्पिरा॑सुतिं । प्र॒शंसं॑ति॒ प्रश॑स्तिभिः ॥
यं , जना॑सः , ह॒विष्मं॑तः , मि॒त्रं , न , स॒र्पिःऽआ॑सुतिं । प्र॒ऽशंसं॑ति , प्रश॑स्तिऽभिः ॥
पन्यां॑सं जा॒तवे॑दसं॒ यो दे॒वता॒त्युद्य॑ता । ह॒व्यान्यैर॑यद्दि॒वि ॥
पन्यां॑सं , जा॒तऽवे॑दसं , यः , दे॒वऽता॑ति , उत्ऽय॑ता । ह॒व्यानि॑ , ऐर॑यत् , दि॒वि ॥
आग॑न्म वृत्र॒हंत॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वं । यस्य॑ श्रु॒तर्वा॑ बृ॒हन्ना॒र्क्षो अनी॑क॒ एध॑ते ॥
आ , अ॒ग॒न्म॒ , वृ॒त्र॒हन्ऽत॑मं , ज्येष्ठं॑ , अ॒ग्निं , आन॑वं । यस्य॑ , श्रु॒तर्वा॑ , बृ॒हन् , आ॒र्क्षः , अनी॑के , एध॑ते ॥
अ॒मृतं॑ जा॒तवे॑दसं ति॒रस्तमां॑सि दर्श॒तं । घृ॒ताह॑वन॒मीड्यं॑ ॥
अ॒मृतं॑ , जा॒तऽवे॑दसं , ति॒रः , तमां॑सि , द॒र्श॒तं । घृ॒तऽआ॑हवनं , ईड्यं॑ ॥
स॒बाधो॒ यं जना॑ इ॒मे॒३॒॑ऽग्निं ह॒व्येभि॒रीळ॑ते । जुह्वा॑नासो य॒तस्रु॑चः ॥
स॒ऽबाधः॑ , यं , जनाः॑ , इ॒मे , अ॒ग्निं , ह॒व्येभिः॑ , ईळ॑ते । जुह्वा॑नासः , य॒तऽस्रु॑चः ॥
इ॒यं ते॒ नव्य॑सी म॒तिरग्ने॒ अधा॑य्य॒स्मदा । मंद्र॒ सुजा॑त॒ सुक्र॒तोऽमू॑र॒ दस्माति॑थे ॥
इ॒यं , ते॒ , नव्य॑सी , म॒तिः , अग्ने॑ , अधा॑यि , अ॒स्मत् , आ । मंद्र॑ , सुऽजा॑त , सुक्र॑तो॒ इति॒ सुऽक्र॑तो , अमू॑र , दस्म॑ , अति॑थे ॥
सा ते॑ अग्ने॒ शंत॑मा॒ चनि॑ष्ठा भवतु प्रि॒या । तया॑ वर्धस्व॒ सुष्टु॑तः ॥
सा , ते॒ , अ॒ग्ने॒ , शंऽत॑मा , चनि॑ष्ठा , भ॒व॒तु॒ , प्रि॒या । तया॑ , व॒र्ध॒स्व॒ , सुऽस्तु॑तः ॥
सा द्यु॒म्नैर्द्यु॒म्निनी॑ बृ॒हदुपो॑प॒ श्रव॑सि॒ श्रवः॑ । दधी॑त वृत्र॒तूर्ये॑ ॥
सा , द्यु॒म्नैः , द्यु॒म्निनी॑ , बृ॒हत् , उप॑ऽउप , श्रव॑सि , श्रवः॑ । दधी॑त , वृ॒त्र॒ऽतूर्ये॑ ॥
अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिंद्रं॒ न सत्प॑तिं । यस्य॒ श्रवां॑सि॒ तूर्व॑थ॒ पन्यं॑पन्यं च कृ॒ष्टयः॑ ॥
अश्वं॑ , इत् , गां , र॒थ॒ऽप्रां , त्वे॒षं , इंद्रं॑ , न , सत्ऽप॑तिं । यस्य॑ , श्रवां॑सि , तूर्व॑थ , पन्यं॑ऽपन्यं , च॒ , कृ॒ष्टयः॑ ॥
यं त्वा॑ गो॒पव॑नो गि॒रा चनि॑ष्ठदग्ने अंगिरः । स पा॑वक श्रुधी॒ हवं॑ ॥
यं , त्वा॒ , गो॒पव॑नः , गि॒रा , चनि॑ष्ठत् , अ॒ग्ने॒ , अं॒गि॒रः॒ । सः , पा॒व॒क॒ , श्रु॒धि॒ , हवं॑ ॥
यं त्वा॒ जना॑स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये । स बो॑धि वृत्र॒तूर्ये॑ ॥
यं , त्वा॒ , जना॑सः , ईळ॑ते , स॒ऽबाधः॑ , वाज॑ऽसातये । सः , बो॒धि॒ , वृ॒त्र॒ऽतूर्ये॑ ॥
अ॒हं हु॑वा॒न आ॒र्क्षे श्रु॒तर्व॑णि मद॒च्युति॑ । शर्धां॑सीव स्तुका॒विनां॑ मृ॒क्षा शी॒र्षा च॑तु॒र्णां ॥
अ॒हं , हु॒वा॒नः , आ॒र्क्षे , श्रु॒तर्व॑णि , म॒द॒ऽच्युति॑ । शर्धां॑सिऽइव , स्तु॒का॒ऽविनां॑ , मृ॒क्षा , शी॒र्षा , च॒तु॒र्णां ॥
मां च॒त्वार॑ आ॒शवः॒ शवि॑ष्ठस्य द्रवि॒त्नवः॑ । सु॒रथा॑सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्यं॑ ॥
मां , च॒त्वारः॑ , आ॒शवः॑ , शवि॑ष्ठस्य , द्र॒वि॒त्नवः॑ । सु॒ऽरथा॑सः , अ॒भि , प्रयः॑ , वक्ष॑न् , वयः॑ , न , तुग्र्यं॑ ॥
स॒त्यमित्त्वा॑ महेनदि॒ परु॒ष्ण्यव॑ देदिशं । नेमा॑पो अश्व॒दात॑रः॒ शवि॑ष्ठादस्ति॒ मर्त्यः॑ ॥
स॒त्यं , इत् , त्वा॒ , म॒हे॒ऽन॒दि॒ , परु॑ष्णि , अव॑ , दे॒दि॒शं॒ । न , ईं॒ , आ॒पः॒ , अ॒श्व॒ऽदात॑रः , शवि॑ष्ठात् , अ॒स्ति॒ , मर्त्यः॑ ॥
[७५] युक्ष्वाहीति षोळशर्चस्य सूक्तस्यांगिरसो विरूपोग्निर्गायत्री |
यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ॥
यु॒क्ष्व , हि , दे॒व॒ऽहूत॑मान् , अश्वा॑न् , अ॒ग्ने॒ , र॒थीःऽइ॑व । नि , होता॑ , पू॒र्व्यः , स॒दः॒ ॥
उ॒त नो॑ देव दे॒वाँ अच्छा॑ वोचो वि॒दुष्ट॑रः । श्रद्विश्वा॒ वार्या॑ कृधि ॥
उ॒त , नः॒ , दे॒व॒ , दे॒वान् , अच्छ॑ , वो॒चः॒ , वि॒दुःऽत॑रः । श्रत् , विश्वा॑ , वार्या॑ , कृ॒धि॒ ॥
त्वं ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत । ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ ॥
त्वं , ह॒ , यत् , य॒वि॒ष्ठ्य॒ , सह॑सः , सू॒नो॒ इति॑ , आ॒ऽहु॒त॒ । ऋ॒तऽवा॑ , य॒ज्ञियः॑ , भुवः॑ ॥
अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ । मू॒र्धा क॒वी र॑यी॒णां ॥
अ॒यं , अ॒ग्निः , स॒ह॒स्रिणः॑ , वाज॑स्य , श॒तिनः॑ , पतिः॑ । मू॒र्धा , क॒विः , र॒यी॒णां ॥
तं ने॒मिमृ॒भवो॑ य॒था न॑मस्व॒ सहू॑तिभिः । नेदी॑यो य॒ज्ञमं॑गिरः ॥
तं , ने॒मिं , ऋ॒भवः॑ , य॒था॒ , आ , न॒म॒स्व॒ , सहू॑तिऽभिः । नेदी॑यः , य॒ज्ञं , अं॒गि॒रः॒ ॥
तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या । वृष्णे॑ चोदस्व सुष्टु॒तिं ॥
तस्मै॑ , नू॒नं , अ॒भिऽद्य॑वे , वा॒चा , वि॒ऽरू॒प॒ , नित्य॑या । वृष्णे॑ , चो॒द॒स्व॒ , सु॒ऽस्तु॒तिं ॥
कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः । प॒णिं गोषु॑ स्तरामहे ॥
कं , ऊँ॒ इति॑ , स्वि॒त् , अ॒स्य॒ , सेन॑या , अ॒ग्नेः , अपा॑कऽचक्षसः । प॒णिं , गोषु॑ , स्त॒रा॒म॒हे॒ ॥
मा नो॑ दे॒वानां॒ विशः॑ प्रस्ना॒तीरि॑वो॒स्राः । कृ॒शं न हा॑सु॒रघ्न्याः॑ ॥
मा , नः॒ , दे॒वानां॑ , विशः॑ , प्र॒स्ना॒तीःऽइ॑व , उ॒स्राः । कृ॒शं , न , हा॒सुः॒ , अघ्न्याः॑ ॥
मा नः॑ समस्य दू॒ढ्य१॒॑ः परि॑द्वेषसो अंह॒तिः । ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥
मा , नः॒ , स॒म॒स्य॒ , दुः॒ऽध्यः॑ , परि॑ऽद्वेषसः , अं॒ह॒तिः । ऊ॒र्मिः , न , नावं॑ , आ , व॒धी॒त् ॥
नम॑स्ते अग्न॒ ओज॑से गृ॒णंति॑ देव कृ॒ष्टयः॑ । अमै॑र॒मित्र॑मर्दय ॥
नमः॑ , ते॒ , अ॒ग्ने॒ , ओज॑से , गृ॒णंति॑ , दे॒व॒ , कृ॒ष्टयः॑ । अमैः॑ , अ॒मित्रं॑ , अ॒र्द॒य॒ ॥
कु॒वित्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒वेषि॑षो र॒यिं । उरु॑कृदु॒रु ण॑स्कृधि ॥
कु॒वित् , सु , नः॒ , गोऽइ॑ष्टये , अग्ने॑ , सं॒ऽवेषि॑षः , र॒यिं । उरु॑ऽकृत् , उ॒रु , नः॒ , कृ॒धि॒ ॥
मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था । सं॒वर्गं॒ सं र॒यिं ज॑य ॥
मा , नः॒ , अ॒स्मिन् , म॒हा॒ऽध॒ने , परा॑ , वर्क् , भा॒र॒ऽभृत् , य॒था॒ । सं॒ऽवर्गं॑ , सं , र॒यिं , ज॒य॒ ॥
अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना॑ । वर्धा॑ नो॒ अम॑व॒च्छवः॑ ॥
अ॒न्यं , अ॒स्मत् , भि॒यै , इ॒यं , अग्ने॑ , सिस॑क्तु , दु॒च्छुना॑ । वर्ध॑ , नः॒ , अम॑ऽवत् , शवः॑ ॥
यस्याजु॑षन्नम॒स्विनः॒ शमी॒मदु॑र्मखस्य वा । तं घेद॒ग्निर्वृ॒धाव॑ति ॥
यस्य॑ , अजु॑षत् , न॒म॒स्विनः॑ , शमीं॑ , अदुः॑ऽमखस्य , वा॒ । तं , घ॒ , इत् , अ॒ग्निः , वृ॒धा , अ॒व॒ति॒ ॥
पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ अ॒भ्या त॑र । यत्रा॒हमस्मि॒ ताँ अ॑व ॥
पर॑स्याः , अधि॑ , सं॒ऽवतः॑ , अव॑रान् , अ॒भि , आ , त॒र॒ । यत्र॑ , अ॒हं , अस्मि॑ , तान् , अ॒व॒ ॥
वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः । अधा॑ ते सु॒म्नमी॑महे ॥
वि॒द्म , हि , ते॒ , पु॒रा , व॒यं , अग्ने॑ , पि॒तुः , यथा॑ , अव॑सः । अध॑ , ते॒ , सु॒म्नं , ई॒म॒हे॒ ॥
[७६] इमंन्विति द्वादशर्चस्य सूक्तस्य काण्वः कुरुसुतिरिंद्रोगायत्री |
इ॒मं नु मा॒यिनं॑ हुव॒ इंद्र॒मीशा॑न॒मोज॑सा । म॒रुत्वं॑तं॒ न वृं॒जसे॑ ॥
इ॒मं , नु , मा॒यिनं॑ , हु॒वे॒ , इंद्रं॑ , ईशा॑नं , ओज॑सा । म॒रुत्वं॑तं , न , वृं॒जसे॑ ॥
अ॒यमिंद्रो॑ म॒रुत्स॑खा॒ वि वृ॒त्रस्या॑भिन॒च्छिरः॑ । वज्रे॑ण श॒तप॑र्वणा ॥
अ॒यं , इंद्रः॑ , म॒रुत्ऽस॑खा , वि , वृ॒त्रस्य॑ , अ॒भि॒न॒त् , शिरः॑ । वज्रे॑ण , श॒तऽप॑र्वणा ॥
वा॒वृ॒धा॒नो म॒रुत्स॒खेंद्रो॒ वि वृ॒त्रमै॑रयत् । सृ॒जंत्स॑मु॒द्रिया॑ अ॒पः ॥
व॒वृ॒धा॒नः , म॒रुत्ऽस॑खा , इंद्रः॑ , वि , वृ॒त्रं , ऐ॒र॒य॒त् । सृ॒जन् , स॒मु॒द्रियाः॑ , अ॒पः ॥
अ॒यं ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता जि॒तं । इंद्रे॑ण॒ सोम॑पीतये ॥
अ॒यं , ह॒ , येन॑ , वै , इ॒दं , स्वः॑ , म॒रुत्व॑ता , जि॒तं । इंद्रे॑ण , सोम॑ऽपीतये ॥
म॒रुत्वं॑तमृजी॒षिण॒मोज॑स्वंतं विर॒प्शिनं॑ । इंद्रं॑ गी॒र्भिर्ह॑वामहे ॥
म॒रुत्वं॑तं , ऋ॒जी॒षिणं॑ , ओज॑स्वंतं , वि॒ऽर॒प्शिनं॑ । इंद्रं॑ , गीः॒ऽभिः , ह॒वा॒म॒हे॒ ॥
इंद्रं॑ प्र॒त्नेन॒ मन्म॑ना म॒रुत्वं॑तं हवामहे । अ॒स्य सोम॑स्य पी॒तये॑ ॥
इंद्रं॑ , प्र॒त्नेन॑ , मन्म॑ना , म॒रुत्वं॑तं , ह॒वा॒म॒हे॒ । अ॒स्य , सोम॑स्य , पी॒तये॑ ॥
म॒रुत्वाँ॑ इंद्र मीढ्वः॒ पिबा॒ सोमं॑ शतक्रतो । अ॒स्मिन्य॒ज्ञे पु॑रुष्टुत ॥
म॒रुत्वा॑न् , इं॒द्र॒ , मी॒ढ्वः॒ , पिब॑ , सोमं॑ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । अ॒स्मिन् , य॒ज्ञे , पु॒रु॒ऽस्तु॒त॒ ॥
तुभ्येदिं॑द्र म॒रुत्व॑ते सु॒ताः सोमा॑सो अद्रिवः । हृ॒दा हू॑यंत उ॒क्थिनः॑ ॥
तुभ्य॑ , इत् , इं॒द्र॒ , म॒रुत्व॑ते , सु॒ताः , सोमा॑सः , अ॒द्रि॒ऽवः॒ । हृ॒दा , हू॒यं॒ते॒ , उ॒क्थिनः॑ ॥
पिबेदिं॑द्र म॒रुत्स॑खा सु॒तं सोमं॒ दिवि॑ष्टिषु । वज्रं॒ शिशा॑न॒ ओज॑सा ॥
पिब॑ , इत् , इं॒द्र॒ , म॒रुत्ऽस॑खा , सु॒तं , सोमं॑ , दिवि॑ष्टिषु । वज्रं॑ , शिशा॑नः , ओज॑सा ॥
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः । सोम॑मिंद्र च॒मू सु॒तं ॥
उ॒त्ऽतिष्ठ॑न् , ओज॑सा , स॒ह , पी॒त्वी , शिप्रे॒ इति॑ , अ॒वे॒प॒यः॒ । सोमं॑ , इं॒द्र॒ , च॒मू इति॑ , सु॒तं ॥
अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेतां । इंद्र॒ यद्द॑स्यु॒हाभ॑वः ॥
अनु॑ , त्वा॒ , रोद॑सी॒ इति॑ , उ॒भे इति॑ , क्रक्ष॑माणं , अ॒कृ॒पे॒तां॒ । इंद्र॑ , यत् , द॒स्यु॒ऽहा , अभ॑वः ॥
वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृशं॑ । इंद्रा॒त्परि॑ त॒न्वं॑ ममे ॥
वाचं॑ , अ॒ष्टाऽप॑दीं , अ॒हं , नव॑ऽस्रक्तिं , ऋ॒त॒ऽस्पृशं॑ । इंद्रा॑त् , परि॑ , त॒न्वं॑ , म॒मे॒ ॥
[७७] जज्ञानइत्येकादशर्चस्य सूक्तस्य काण्वः कुरुसुतिरिंद्रोगायत्री अंत्येद्वेबृहती सतोबृहत्यौ |
ज॒ज्ञा॒नो नु श॒तक्र॑तु॒र्वि पृ॑च्छ॒दिति॑ मा॒तरं॑ । क उ॒ग्राः के ह॑ शृण्विरे ॥
ज॒ज्ञा॒नः , नु , श॒तऽक्र॑तुः , वि , पृ॒च्छ॒त् , इति॑ , मा॒तरं॑ । के , उ॒ग्राः , के , ह॒ , शृ॒ण्वि॒रे॒ ॥
आदीं॑ शव॒स्य॑ब्रवीदौर्णवा॒भम॑ही॒शुवं॑ । ते पु॑त्र संतु नि॒ष्टुरः॑ ॥
आत् , ईं॒ , श॒व॒सी , अ॒ब्र॒वी॒त् , औ॒र्ण॒ऽवा॒भं , अ॒ही॒शुवं॑ । ते , पु॒त्र॒ , सं॒तु॒ , निः॒ऽतुरः॑ ॥
समित्तान्वृ॑त्र॒हाखि॑द॒त्खे अ॒राँ इ॑व॒ खेद॑या । प्रवृ॑द्धो दस्यु॒हाभ॑वत् ॥
सं , इत् , तान् , वृ॒त्र॒ऽहा , अ॒खि॒द॒त् , खे , अ॒रान्ऽइ॑व , खेद॑या । प्रऽवृ॑द्धः , द॒स्यु॒ऽहा , अ॒भ॒व॒त् ॥
एक॑या प्रति॒धापि॑बत्सा॒कं सरां॑सि त्रिं॒शतं॑ । इंद्रः॒ सोम॑स्य काणु॒का ॥
एक॑या , प्र॒ति॒ऽधा , अ॒पि॒ब॒त् , सा॒कं , सरां॑सि , त्रिं॒शतं॑ । इंद्रः॑ , सोम॑स्य , का॒णु॒का ॥
अ॒भि गं॑ध॒र्वम॑तृणदबु॒ध्नेषु॒ रजः॒स्वा । इंद्रो॑ ब्र॒ह्मभ्य॒ इद्वृ॒धे ॥
अ॒भि , गं॒ध॒र्वं , अ॒तृ॒ण॒त् , अ॒बु॒ध्नेषु॑ , रजः॑ऽसु , आ । इंद्रः॑ , ब्र॒ह्मऽभ्यः॑ , इत् , वृ॒धे ॥
निरा॑विध्यद्गि॒रिभ्य॒ आ धा॒रय॑त्प॒क्वमो॑द॒नं । इंद्रो॑ बुं॒दं स्वा॑ततं ॥
निः , अ॒वि॒ध्य॒त् , गि॒रिऽभ्यः॑ , आ , धा॒रय॑त् , प॒क्वं , ओ॒द॒नं । इंद्रः॑ , बुं॒दं , सुऽआ॑ततं ॥
श॒तब्र॑ध्न॒ इषु॒स्तव॑ स॒हस्र॑पर्ण॒ एक॒ इत् । यमिं॑द्र चकृ॒षे युजं॑ ॥
श॒तऽब्र॑ध्नः , इषुः॑ , तव॑ , स॒हस्र॑ऽपर्णः , एकः॑ , इत् । यं , इं॒द्र॒ , च॒कृ॒षे , युजं॑ ॥
तेन॑ स्तो॒तृभ्य॒ आ भ॑र॒ नृभ्यो॒ नारि॑भ्यो॒ अत्त॑वे । स॒द्यो जा॒त ऋ॑भुष्ठिर ॥
तेन॑ , स्तो॒तृऽभ्यः॑ , आ , भ॒र॒ , नृऽभ्यः॑ , नारि॑ऽभ्यः , अत्त॑वे । स॒द्यः , जा॒तः , ऋ॒भु॒ऽस्थि॒र॒ ॥
ए॒ता च्यौ॒त्नानि॑ ते कृ॒ता वर्षि॑ष्ठानि॒ परी॑णसा । हृ॒दा वी॒ड्व॑धारयः ॥
ए॒ता , च्यौ॒त्नानि॑ , ते॒ , कृ॒ता , वर्षि॑ष्ठानि , परी॑णसा । हृ॒दा , वी॒ळु , अ॒धा॒र॒यः॒ ॥
विश्वेत्ता विष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः । श॒तं म॑हि॒षान्क्षी॑रपा॒कमो॑द॒नं व॑रा॒हमिंद्र॑ एमु॒षं ॥
विश्वा॑ , इत् , ता , विष्णुः॑ , आ , अ॒भ॒र॒त् , उ॒रु॒ऽक्र॒मः , त्वाऽइ॑षितः । श॒तं , म॒हि॒षान् , क्षी॒र॒ऽपा॒कं , ओ॒द॒नं , व॒रा॒हं , इंद्रः॑ , ए॒मु॒षं ॥
तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनुः॑ सा॒धुर्बुं॒दो हि॑र॒ण्ययः॑ । उ॒भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू॒पे चि॑दृदू॒वृधा॑ ॥
तु॒वि॒ऽक्षं , ते॒ , सुऽकृ॑तं , सु॒ऽमयं॑ , धनुः॑ , सा॒धुः , बुं॒दः , हि॒र॒ण्ययः॑ । उ॒भा , ते॒ , बा॒हू इति॑ , रण्या॑ , सुऽसं॑स्कृता , ऋ॒दु॒ऽपे , चि॒त् , ऋ॒दु॒ऽवृधा॑ ॥
[७८] पुरोळाशमिति दशर्चस्य सूक्तस्य काण्वःकुरुसुतिरिंद्रोगायत्र्यंत्या बृहती |
पु॒रो॒ळाशं॑ नो॒ अंध॑स॒ इंद्र॑ स॒हस्र॒मा भ॑र । श॒ता च॑ शूर॒ गोनां॑ ॥
पु॒रो॒ळाशं॑ , नः॒ , अंध॑सः , इंद्र॑ , स॒हस्रं॑ , आ , भ॒र॒ । श॒ता , च॒ , शू॒र॒ , गोनां॑ ॥
आ नो॑ भर॒ व्यंज॑नं॒ गामश्व॑म॒भ्यंज॑नं । सचा॑ म॒ना हि॑र॒ण्यया॑ ॥
आ , नः॒ , भ॒र॒ , वि॒ऽअंज॑नं , गां , अश्वं॑ , अ॒भि॒ऽअंज॑नं । सचा॑ , म॒ना , हि॒र॒ण्यया॑ ॥
उ॒त नः॑ कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र । त्वं हि शृ॑ण्वि॒षे व॑सो ॥
उ॒त , नः॒ , क॒र्ण॒ऽशोभ॑ना , पु॒रूणि॑ , धृ॒ष्णो॒ इति॑ , आ , भ॒र॒ । त्वं , हि , शृ॒ण्वि॒षे , व॒सो॒ इति॑ ॥
नकीं॑ वृधी॒क इं॑द्र ते॒ न सु॒षा न सु॒दा उ॒त । नान्यस्त्वच्छू॑र वा॒घतः॑ ॥
नकीं॑ , वृ॒धी॒कः , इं॒द्र॒ , ते॒ , न , सु॒ऽसाः , न , सु॒ऽदाः , उ॒त । न , अ॒न्यः , त्वत् , शू॒र॒ , वा॒घतः॑ ॥
नकी॒मिंद्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे । विश्वं॑ शृणोति॒ पश्य॑ति ॥
नकीं॑ , इंद्रः॑ , निऽक॑र्तवे , न , श॒क्रः , परि॑ऽशक्तवे । विश्वं॑ , शृ॒णो॒ति॒ , पश्य॑ति ॥
स म॒न्युं मर्त्या॑ना॒मद॑ब्धो॒ नि चि॑कीषते । पु॒रा नि॒दश्चि॑कीषते ॥
सः , म॒न्युं , मर्त्या॑नां , अद॑ब्धः , नि , चि॒की॒ष॒ते॒ । पु॒रा , नि॒दः , चि॒की॒ष॒ते॒ ॥
क्रत्व॒ इत्पू॒र्णमु॒दरं॑ तु॒रस्या॑स्ति विध॒तः । वृ॒त्र॒घ्नः सो॑म॒पाव्नः॑ ॥
क्रत्वः॑ , इत् , पू॒र्णं , उ॒दरं॑ , तु॒रस्य॑ , अ॒स्ति॒ , वि॒ध॒तः । वृ॒त्र॒ऽघ्नः , सो॒म॒ऽपाव्नः॑ ॥
त्वे वसू॑नि॒ संग॑ता॒ विश्वा॑ च सोम॒ सौभ॑गा । सु॒दात्वप॑रिह्वृता ॥
त्वे इति॑ , वसू॑नि , संऽग॑ता , विश्वा॑ , च॒ , सो॒म॒ , सौभ॑गा । सु॒ऽदातु॑ , अप॑रिऽह्वृता ॥
त्वामिद्य॑व॒युर्मम॒ कामो॑ ग॒व्युर्हि॑रण्य॒युः । त्वाम॑श्व॒युरेष॑ते ॥
त्वां , इत् , य॒व॒ऽयुः , मम॑ , कामः॑ , ग॒व्युः , हि॒र॒ण्य॒ऽयुः । त्वां , अ॒श्व॒ऽयुः , आ , ई॒ष॒ते॒ ॥
तवेदिं॑द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे । दि॒नस्य॑ वा मघवं॒त्संभृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥
तव॑ , इत् , इं॒द्र॒ , अ॒हं , आ॒ऽशसा॑ , हस्ते॑ , दात्रं॑ , च॒न , आ , द॒दे॒ । दि॒नस्य॑ , वा॒ , म॒घ॒ऽव॒न् , संऽभृ॑तस्य , वा॒ , पू॒र्धि , यव॑स्य , का॒शिना॑ ॥
[७९] अयंकृत्नुरिति नवर्चस्य सूक्तस्य कृत्नुर्भार्गवः सोमोगायत्र्यंत्यानुष्टुप् |
अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोमः॑ । ऋषि॒र्विप्रः॒ काव्ये॑न ॥
अ॒यं , कृ॒त्नुः , अगृ॑भीतः , वि॒श्व॒ऽजित् , उ॒त्ऽभित् , इत् , सोमः॑ । ऋषिः॑ , विप्रः॑ , काव्ये॑न ॥
अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रं । प्रेमं॒धः ख्य॒न्निः श्रो॒णो भू॑त् ॥
अ॒भि , ऊ॒र्णो॒ति॒ , यत् , न॒ग्नं , भि॒षक्ति॑ , विश्वं॑ , यत् , तु॒रं । प्र , ईं॒ , अं॒धः , ख्य॒त् , निः , श्रो॒णः , भू॒त् ॥
त्वं सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः । उ॒रु यं॒तासि॒ वरू॑थं ॥
त्वं , सो॒म॒ , त॒नू॒कृत्ऽभ्यः॑ , द्वेषः॑ऽभ्यः , अ॒न्यऽकृ॑तेभ्यः । उ॒रु , यं॒ता , अ॒सि॒ , वरू॑थं ॥
त्वं चि॒त्ती तव॒ दक्षै॑र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन् । यावी॑र॒घस्य॑ चि॒द्द्वेषः॑ ॥
त्वं , चि॒त्ती , तव॑ , दक्षैः॑ , दि॒वः , आ , पृ॒थि॒व्याः , ऋ॒जी॒षि॒न् । यावीः॑ , अ॒घस्य॑ , चि॒त् , द्वेषः॑ ॥
अ॒र्थिनो॒ यंति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो॑ रा॒तिं । व॒वृ॒ज्युस्तृष्य॑तः॒ कामं॑ ॥
अ॒र्थिनः॑ , यंति॑ , च॒ , इत् , अर्थं॑ , गच्छा॑न् , इत् , द॒दुषः॑ , रा॒तिं । व॒वृ॒ज्युः , तृष्य॑तः , कामं॑ ॥
वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी॑मृता॒युमी॑रयत् । प्रेमायु॑स्तारी॒दती॑र्णं ॥
वि॒दत् , यत् , पू॒र्व्यं , न॒ष्टं , उत् , ईं॒ , ऋ॒त॒ऽयुं , ई॒र॒य॒त् । प्र , ईं॒ , आयुः॑ , ता॒री॒त् , अती॑र्णं ॥
सु॒शेवो॑ नो मृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः । भवा॑ नः सोम॒ शं हृ॒दे ॥
सु॒ऽशेवः॑ , नः॒ , मृ॒ळ॒याकुः॑ , अदृ॑प्तऽक्रतुः , अ॒वा॒तः । भव॑ , नः॒ , सो॒म॒ , शं , हृ॒दे ॥
मा नः॑ सोम॒ सं वी॑विजो॒ मा वि बी॑भिषथा राजन् । मा नो॒ हार्दि॑ त्वि॒षा व॑धीः ॥
मा , नः॒ , सो॒म॒ , सं , वी॒वि॒जः॒ , मा , वि , बी॒भि॒ष॒थाः॒ , रा॒ज॒न् । मा , नः॒ , हार्दि॑ , त्वि॒षा , व॒धीः॒ ॥
अव॒ यत्स्वे स॒धस्थे॑ दे॒वानां॑ दुर्म॒तीरीक्षे॑ । राज॒न्नप॒ द्विषः॑ सेध॒ मीढ्वो॒ अप॒ स्रिधः॑ सेध ॥
अव॑ , यत् , स्वे , स॒धऽस्थे॑ , दे॒वानां॑ , दुः॒ऽम॒तीः , ईक्षे॑ । राज॑न् , अप॑ , द्विषः॑ , से॒ध॒ , मीढ्वः॑ , अप॑ , स्रिधः॑ , से॒ध॒ ॥
[८०] नह्यान्यमिति दशर्चस्य सूक्तस्य नौधस एकद्यूरिंद्रोंत्यायादेवागायत्र्यंत्यात्रिष्टुप् |
न॒ह्य१॒॑न्यं ब॒ळाक॑रं मर्डि॒तारं॑ शतक्रतो । त्वं न॑ इंद्र मृळय ॥
न॒हि , अ॒न्यं , ब॒ळा , अक॑रं , म॒र्डि॒तारं॑ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । त्वं , नः॒ , इं॒द्र॒ , मृ॒ळ॒य॒ ॥
यो नः॒ शश्व॑त्पु॒रावि॒थामृ॑ध्रो॒ वाज॑सातये । स त्वं न॑ इंद्र मृळय ॥
यः , नः॒ , शश्व॑त् , पु॒रा , आवि॑थ , अमृ॑ध्रः , वाज॑ऽसातये । सः , त्वं , नः॒ , इं॒द्र॒ , मृ॒ळ॒य॒ ॥
किमं॒ग र॑ध्र॒चोद॑नः सुन्वा॒नस्या॑वि॒तेद॑सि । कु॒वित्स्विं॑द्र णः॒ शकः॑ ॥
किं , अं॒ग , र॒ध्र॒ऽचोद॑नः , सु॒न्वा॒नस्य॑ , अ॒वि॒ता , इत् , अ॒सि॒ । कु॒वित् , सु , इं॒द्र॒ , नः॒ , शकः॑ ॥
इंद्र॒ प्र णो॒ रथ॑मव प॒श्चाच्चि॒त्संत॑मद्रिवः । पु॒रस्ता॑देनं मे कृधि ॥
इंद्र॑ , प्र , नः॒ , रथं॑ , अ॒व॒ , प॒श्चात् , चि॒त् , संतं॑ , अ॒द्रि॒ऽवः॒ । पु॒रस्ता॑त् , ए॒नं॒ , मे॒ , कृ॒धि॒ ॥
हंतो॒ नु किमा॑ससे प्रथ॒मं नो॒ रथं॑ कृधि । उ॒प॒मं वा॑ज॒यु श्रवः॑ ॥
हंतो॒ इति॑ , नु , किं , आ॒स॒से॒ , प्र॒थ॒मं , नः॒ , रथं॑ , कृ॒धि॒ । उ॒प॒ऽमं , वा॒ज॒ऽयु , श्रवः॑ ॥
अवा॑ नो वाज॒युं रथं॑ सु॒करं॑ ते॒ किमित्परि॑ । अ॒स्मांत्सु जि॒ग्युष॑स्कृधि ॥
अव॑ , नः॒ , वा॒ज॒ऽयुं , रथं॑ , सु॒ऽकरं॑ , ते॒ , किं , इत् , परि॑ । अ॒स्मान् , सु , जि॒ग्युषः॑ , कृ॒धि॒ ॥
इंद्र॒ दृह्य॑स्व॒ पूर॑सि भ॒द्रा त॑ एति निष्कृ॒तं । इ॒यं धीर्ऋ॒त्विया॑वती ॥
इंद्र॑ , दृह्य॑स्व , पूः , अ॒सि॒ , भ॒द्रा , ते॒ , ए॒ति॒ , निः॒ऽकृ॒तं । इ॒यं , धीः , ऋ॒त्विय॑ऽवती ॥
मा सी॑मव॒द्य आ भा॑गु॒र्वी काष्ठा॑ हि॒तं धनं॑ । अ॒पावृ॑क्ता अर॒त्नयः॑ ॥
मा , सीं॒ , अ॒व॒द्ये , आ , भा॒क् , उ॒र्वी , काष्ठा॑ , हि॒तं , धनं॑ । अ॒प॒ऽआवृ॑क्ताः , अ॒र॒त्नयः॑ ॥
तु॒रीयं॒ नाम॑ य॒ज्ञियं॑ य॒दा कर॒स्तदु॑श्मसि । आदित्पति॑र्न ओहसे ॥
तु॒रीयं॑ , नाम॑ , य॒ज्ञियं॑ , य॒दा , करः॑ , तत् , उ॒श्म॒सि॒ । आत् , इत् , पतिः॑ , नः॒ , ओ॒ह॒से॒ ॥
अवी॑वृधद्वो अमृता॒ अमं॑दीदेक॒द्यूर्दे॑वा उ॒त याश्च॑ देवीः । तस्मा॑ उ॒ राधः॑ कृणुत प्रश॒स्तं प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
अवी॑वृधत् , वः॒ , अ॒मृ॒ताः॒ , अमं॑दीत् , ए॒क॒ऽद्यूः , दे॒वाः॒ , उ॒त , याः , च॒ , दे॒वीः॒ । तस्मै॑ , ऊँ॒ इति॑ , राधः॑ , कृ॒णु॒त॒ , प्र॒ऽश॒स्तं , प्रा॒तः , म॒क्षु , धि॒याऽव॑सुः , ज॒ग॒म्या॒त् ॥
[८१] आतूनइति नवर्चस्य सूक्तस्य काण्वः कुसीदींद्रो गायत्री |
आ तू न॑ इंद्र क्षु॒मंतं॑ चि॒त्रं ग्रा॒भं सं गृ॑भाय । म॒हा॒ह॒स्ती दक्षि॑णेन ॥
आ , तु , नः॒ , इं॒द्र॒ , क्षु॒ऽमंतं॑ , चि॒त्रं , ग्रा॒भं , सं , गृ॒भा॒य॒ । म॒हा॒ऽह॒स्ती , दक्षि॑णेन ॥
वि॒द्मा हि त्वा॑ तुविकू॒र्मिं तु॒विदे॑ष्णं तु॒वीम॑घं । तु॒वि॒मा॒त्रमवो॑भिः ॥
वि॒द्म , हि , त्वा॒ , तु॒वि॒ऽकू॒र्मिं , तु॒विऽदे॑ष्णं , तु॒विऽम॑घं । तु॒वि॒ऽमा॒त्रं , अवः॑ऽभिः ॥
न॒हि त्वा॑ शूर दे॒वा न मर्ता॑सो॒ दित्सं॑तं । भी॒मं न गां वा॒रयं॑ते ॥
न॒हि , त्वा॒ , शू॒र॒ , दे॒वाः , न , मर्ता॑सः , दित्सं॑तं । भी॒मं , न , गां , वा॒रयं॑ते ॥
एतो॒ न्विंद्रं॒ स्तवा॒मेशा॑नं॒ वस्वः॑ स्व॒राजं॑ । न राध॑सा मर्धिषन्नः ॥
आ , इ॒त॒ , ऊँ॒ इति॑ , नु , इंद्रं॑ , स्तवा॑म , ईशा॑नं , वस्वः॑ , स्व॒ऽराजं॑ । न , राध॑सा , म॒र्धि॒ष॒त् , नः॒ ॥
प्र स्तो॑ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा॑नं । अ॒भि राध॑सा जुगुरत् ॥
प्र , स्तो॒ष॒त् , उप॑ , गा॒सि॒ष॒त् , श्रव॑त् , साम॑ , गी॒यमा॑नं । अ॒भि , राध॑सा , जु॒गु॒र॒त् ॥
आ नो॑ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श । इंद्र॒ मा नो॒ वसो॒र्निर्भा॑क् ॥
आ , नः॒ , भ॒र॒ , दक्षि॑णेन , अ॒भि , स॒व्येन॑ , प्र , मृ॒श॒ । इंद्र॑ , मा , नः॒ , वसोः॑ , निः , भा॒क् ॥
उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना॑नां । अदा॑शूष्टरस्य॒ वेदः॑ ॥
उप॑ , क्र॒म॒स्व॒ , आ , भ॒र॒ , धृ॒ष॒ता , धृ॒ष्णो॒ इति॑ , जना॑नां । अदा॑शूःऽतरस्य , वेदः॑ ॥
इंद्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भिः॒ सनि॑त्वः । अ॒स्माभिः॒ सु तं स॑नुहि ॥
इंद्र॑ , यः , ऊँ॒ इति॑ , नु , ते॒ , अस्ति॑ , वाजः॑ , विप्रे॑भिः , सनि॑त्वः । अ॒स्माभिः॑ , सु , तं , स॒नु॒हि॒ ॥
स॒द्यो॒जुव॑स्ते॒ वाजा॑ अ॒स्मभ्यं॑ वि॒श्वश्चं॑द्राः । वशै॑श्च म॒क्षू ज॑रंते ॥
स॒द्यः॒ऽजुवः॑ , ते॒ , वाजाः॑ , अ॒स्मभ्यं॑ , वि॒श्वऽचं॑द्राः । वशैः॑ , च॒ , म॒क्षु , ज॒रं॒ते॒ ॥
[८२] आप्रद्रवइति नवर्चस्य सूक्तस्य काण्वः कुसीदींद्रो गायत्री |
आ प्र द्र॑व परा॒वतो॑ऽर्वा॒वत॑श्च वृत्रहन् । मध्वः॒ प्रति॒ प्रभ॑र्मणि ॥
आ , प्र , द्र॒व॒ , प॒रा॒ऽवतः॑ , अ॒र्वा॒ऽवतः॑ , च॒ , वृ॒त्र॒ऽह॒न् । मध्वः॑ , प्रति॑ , प्रऽभ॑र्मणि ॥
ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णवः॑ । पिबा॑ द॒धृग्यथो॑चि॒षे ॥
ती॒व्राः , सोमा॑सः , आ , ग॒हि॒ , सु॒तासः॑ , मा॒द॒यि॒ष्णवः॑ । पिब॑ , द॒धृक् , यथा॑ , ओ॒चि॒षे ॥
इ॒षा मं॑द॒स्वादु॒ तेऽरं॒ वरा॑य म॒न्यवे॑ । भुव॑त्त इंद्र॒ शं हृ॒दे ॥
इ॒षा , मं॒द॒स्व॒ , आत् , ऊँ॒ इति॑ , ते॒ , अरं॑ , वरा॑य , म॒न्यवे॑ । भुव॑त् , ते॒ , इं॒द्र॒ , शं , हृ॒दे ॥
आ त्व॑शत्र॒वा ग॑हि॒ न्यु१॒॑क्थानि॑ च हूयसे । उ॒प॒मे रो॑च॒ने दि॒वः ॥
आ , तु , अ॒श॒त्रो॒ इति॑ , आ , ग॒हि॒ , नि , उ॒क्थानि॑ , च॒ , हू॒य॒से॒ । उ॒प॒ऽमे , रो॒च॒ने , दि॒वः ॥
तुभ्या॒यमद्रि॑भिः सु॒तो गोभिः॑ श्री॒तो मदा॑य॒ कं । प्र सोम॑ इंद्र हूयते ॥
तुभ्य॑ , अ॒यं , अद्रि॑ऽभिः , सु॒तः , गोभिः॑ , श्री॒तः , मदा॑य , कं । प्र , सोमः॑ , इं॒द्र॒ , हू॒य॒ते॒ ॥
इंद्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः । वि पी॒तिं तृ॒प्तिम॑श्नुहि ॥
इंद्र॑ , श्रु॒धि , सु , मे॒ , हवं॑ , अ॒स्मे इति॑ , सु॒तस्य॑ , गोऽम॑तः । वि , पी॒तिं , तृ॒प्तिं , अ॒श्नु॒हि॒ ॥
य इं॑द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः । पिबेद॑स्य॒ त्वमी॑शिषे ॥
यः , इं॒द्र॒ , च॒म॒सेषु॑ , आ , सोमः॑ , च॒मूषु॑ , ते॒ , सु॒तः । पिब॑ , इत् , अ॒स्य॒ , त्वं , ई॒शि॒षे॒ ॥
यो अ॒प्सु चं॒द्रमा॑ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे । पिबेद॑स्य॒ त्वमी॑शिषे ॥
यः , अ॒प्ऽसु , चं॒द्रमाः॑ऽइव , सोमः॑ , च॒मूषु॑ , ददृ॑शे । पिब॑ , इत् , अ॒स्य॒ , त्वं , ई॒शि॒षे॒ ॥
यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तं । पिबेद॑स्य॒ त्वमी॑शिषे ॥
यं , ते॒ , श्ये॒नः , प॒दा , आ , अभ॑रत् , ति॒रः , रजां॑सि , अस्पृ॑तं । पिब॑ , इत् , अ॒स्य॒ , त्वं , ई॒शि॒षे॒ ॥
[८३] देवानामिति नवर्चस्य सूक्तस्य काण्वः कुसीदीविश्वेदेवा गायत्री | (भेदपक्षे - विश्वेदेवाः ३ अर्यमवरुणौ १ विश्वेदेवाः ५ एवं ९) |
दे॒वाना॒मिदवो॑ म॒हत्तदा वृ॑णीमहे व॒यं । वृष्णा॑म॒स्मभ्य॑मू॒तये॑ ॥
दे॒वानां॑ , इत् , अवः॑ , म॒हत् , तत् , आ , वृ॒णी॒म॒हे॒ , व॒यं । वृष्णां॑ , अ॒स्मभ्यं॑ , ऊ॒तये॑ ॥
ते नः॑ संतु॒ युजः॒ सदा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । वृ॒धास॑श्च॒ प्रचे॑तसः ॥
ते , नः॒ , सं॒तु॒ , युजः॑ , सदा॑ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा । वृ॒धासः॑ , च॒ , प्रऽचे॑तसः ॥
अति॑ नो विष्पि॒ता पु॒रु नौ॒भिर॒पो न प॑र्षथ । यू॒यमृ॒तस्य॑ रथ्यः ॥
अति॑ , नः॒ , वि॒ष्पि॒ता , पु॒रु , नौ॒भिः , अ॒पः , न , प॒र्ष॒थ॒ । यू॒यं , ऋ॒तस्य॑ , र॒थ्यः॒ ॥
वा॒मं नो॑ अस्त्वर्यमन्वा॒मं व॑रुण॒ शंस्यं॑ । वा॒मं ह्या॑वृणी॒महे॑ ॥
वा॒मं , नः॒ , अ॒स्तु॒ , अ॒र्य॒म॒न् , वा॒मं , व॒रु॒ण॒ , शंस्यं॑ । वा॒मं , हि , आ॒ऽवृ॒णी॒महे॑ ॥
वा॒मस्य॒ हि प्र॑चेतस॒ ईशा॑नाशो रिशादसः । नेमा॑दित्या अ॒घस्य॒ यत् ॥
वा॒मस्य॑ , हि , प्र॒ऽचे॒त॒सः॒ , ईशा॑नासः , रि॒शा॒द॒सः॒ । न , ईं॒ , आ॒दि॒त्याः॒ , अ॒घस्य॑ , यत् ॥
व॒यमिद्वः॑ सुदानवः क्षि॒यंतो॒ यांतो॒ अध्व॒न्ना । देवा॑ वृ॒धाय॑ हूमहे ॥
व॒यं , इत् , वः॒ , सु॒ऽदा॒न॒वः॒ , क्षि॒यंतः॑ , यांतः॑ , अध्व॑न् , आ । देवाः॑ , वृ॒धाय॑ , हू॒म॒हे॒ ॥
अधि॑ न इंद्रैषां॒ विष्णो॑ सजा॒त्या॑नां । इ॒ता मरु॑तो॒ अश्वि॑ना ॥
अधि॑ , नः॒ , इं॒द्र॒ , ए॒षां॒ , विष्णो॒ इति॑ , स॒ऽजा॒त्या॑नां । इ॒त , मरु॑तः , अश्वि॑ना ॥
प्र भ्रा॑तृ॒त्वं सु॑दान॒वोऽध॑ द्वि॒ता स॑मा॒न्या । मा॒तुर्गर्भे॑ भरामहे ॥
प्र , भ्रा॒तृ॒ऽत्वं , सु॒ऽदा॒न॒वः॒ , अध॑ , द्वि॒ता , स॒मा॒न्या । मा॒तुः , गर्भे॑ , भ॒रा॒म॒हे॒ ॥
यू॒यं हि ष्ठा सु॑दानव॒ इंद्र॑ज्येष्ठा अ॒भिद्य॑वः । अधा॑ चिद्व उ॒त ब्रु॑वे ॥
यू॒यं , हि , स्थ , सु॒ऽदा॒न॒वः॒ , इंद्र॑ऽज्येष्ठाः , अ॒भिऽद्य॑वः । अध॑ , चि॒त् , वः॒ , उ॒त , ब्रु॒वे॒ ॥
[८४] प्रेष्ठंवइति नवर्चस्य सूक्तस्य काव्य उशनाअग्निर्गायत्री |
प्रेष्ठं॑ वो॒ अति॑थिं स्तु॒षे मि॒त्रमि॑व प्रि॒यं । अ॒ग्निं रथं॒ न वेद्यं॑ ॥
प्रेष्ठं॑ , वः॒ , अति॑थिं , स्तु॒षे , मि॒त्रंऽइ॑व , प्रि॒यं । अ॒ग्निं , रथं॑ , न , वेद्यं॑ ॥
क॒विमि॑व॒ प्रचे॑तसं॒ यं दे॒वासो॒ अध॑ द्वि॒ता । नि मर्त्ये॑ष्वाद॒धुः ॥
क॒विंऽइ॑व , प्रऽचे॑तसं , यं , दे॒वासः॑ , अध॑ , द्वि॒ता । नि , मर्त्ये॑षु , आ॒ऽद॒धुः ॥
त्वं य॑विष्ठ दा॒शुषो॒ नॄँः पा॑हि शृणु॒धी गिरः॑ । रक्षा॑ तो॒कमु॒त त्मना॑ ॥
त्वं , य॒वि॒ष्ठ॒ , दा॒शुषः॑ , नॄन् , पा॒हि॒ , शृ॒णु॒धि , गिरः॑ । रक्ष॑ , तो॒कं , उ॒त , त्मना॑ ॥
कया॑ ते अग्ने अंगिर॒ ऊर्जो॑ नपा॒दुप॑स्तुतिं । वरा॑य देव म॒न्यवे॑ ॥
कया॑ , ते॒ , अ॒ग्ने॒ , अं॒गि॒रः॒ , ऊर्जः॑ , नपा॑त् , उप॑ऽस्तुतिं । वरा॑य , दे॒व॒ , म॒न्यवे॑ ॥
दाशे॑म॒ कस्य॒ मन॑सा य॒ज्ञस्य॑ सहसो यहो । कदु॑ वोच इ॒दं नमः॑ ॥
दाशे॑म , कस्य॑ , मन॑सा , य॒ज्ञस्य॑ , स॒ह॒सः॒ , य॒हो॒ इति॑ । कत् , ऊँ॒ इति॑ , वो॒चे॒ , इ॒दं , नमः॑ ॥
अधा॒ त्वं हि न॒स्करो॒ विश्वा॑ अ॒स्मभ्यं॑ सुक्षि॒तीः । वाज॑द्रविणसो॒ गिरः॑ ॥
अध॑ , त्वं , हि , नः॒ , करः॑ , विश्वाः॑ , अ॒स्मभ्यं॑ , सु॒ऽक्षि॒तीः । वाज॑ऽद्रविणसः , गिरः॑ ॥
कस्य॑ नू॒नं परी॑णसो॒ धियो॑ जिन्वसि दंपते । गोषा॑ता॒ यस्य॑ ते॒ गिरः॑ ॥
कस्य॑ , नू॒नं , परी॑णसः , धियः॑ , जि॒न्व॒सि॒ , दं॒ऽप॒ते॒ । गोऽसा॑ता , यस्य॑ , ते॒ , गिरः॑ ॥
तं म॑र्जयंत सु॒क्रतुं॑ पुरो॒यावा॑नमा॒जिषु॑ । स्वेषु॒ क्षये॑षु वा॒जिनं॑ ॥
तं , म॒र्ज॒यं॒त॒ , सु॒ऽक्रतुं॑ , पु॒रः॒ऽयावा॑नं , आ॒जिषु॑ । स्वेषु॑ , क्षये॑षु , वा॒जिनं॑ ॥
क्षेति॒ क्षेमे॑भिः सा॒धुभि॒र्नकि॒र्यं घ्नंति॒ हंति॒ यः । अग्ने॑ सु॒वीर॑ एधते ॥
क्षेति॑ , क्षेमे॑भिः , सा॒धुऽभिः॑ , नकिः॑ , यं , घ्नंति॑ , हंति॑ , यः । अग्ने॑ , सु॒ऽवीरः॑ , ए॒ध॒ते॒ ॥
[८५] आमेहवमिति नवर्चस्य सूक्तस्यांगिरसः कृष्णोश्विनौ गायत्री |
आ मे॒ हवं॑ नास॒त्याश्वि॑ना॒ गच्छ॑तं यु॒वं । मध्वः॒ सोम॑स्य पी॒तये॑ ॥
आ , मे॒ , हवं॑ , ना॒स॒त्या॒ , अश्वि॑ना , गच्छ॑तं , यु॒वं । मध्वः॑ , सोम॑स्य , पी॒तये॑ ॥
इ॒मं मे॒ स्तोम॑मश्विने॒मं मे॑ शृणुतं॒ हवं॑ । मध्वः॒ सोम॑स्य पी॒तये॑ ॥
इ॒मं , मे॒ , स्तोमं॑ , अ॒श्वि॒ना॒ , इ॒मं , मे॒ , शृ॒णु॒तं॒ , हवं॑ । मध्वः॑ , सोम॑स्य , पी॒तये॑ ॥
अ॒यं वां॒ कृष्णो॑ अश्विना॒ हव॑ते वाजिनीवसू । मध्वः॒ सोम॑स्य पी॒तये॑ ॥
अ॒यं , वां॒ , कृष्णः॑ , अ॒श्वि॒ना॒ , हव॑ते , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । मध्वः॑ , सोम॑स्य , पी॒तये॑ ॥
शृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा । मध्वः॒ सोम॑स्य पी॒तये॑ ॥
शृ॒णु॒तं , ज॒रि॒तुः , हवं॑ , कृष्ण॑स्य , स्तु॒व॒तः , न॒रा॒ । मध्वः॑ , सोम॑स्य , पी॒तये॑ ॥
छ॒र्दिर्यं॑त॒मदा॑भ्यं॒ विप्रा॑य स्तुव॒ते न॑रा । मध्वः॒ सोम॑स्य पी॒तये॑ ॥
छ॒र्दिः , यं॒तं॒ , अदा॑भ्यं , विप्रा॑य , स्तु॒व॒ते , न॒रा॒ । मध्वः॑ , सोम॑स्य , पी॒तये॑ ॥
गच्छ॑तं दा॒शुषो॑ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना । मध्वः॒ सोम॑स्य पी॒तये॑ ॥
गच्छ॑तं , दा॒शुषः॑ , गृ॒हं , इ॒त्था , स्तु॒व॒तः , अ॒श्वि॒ना॒ । मध्वः॑ , सोम॑स्य , पी॒तये॑ ॥
युं॒जाथां॒ रास॑भं॒ रथे॑ वी॒ड्वं॑गे वृषण्वसू । मध्वः॒ सोम॑स्य पी॒तये॑ ॥
युं॒जाथां॑ , रास॑भं , रथे॑ , वी॒ळुऽअं॑गे , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । मध्वः॑ , सोम॑स्य , पी॒तये॑ ॥
त्रि॒वं॒धु॒रेण॑ त्रि॒वृता॒ रथे॒ना या॑तमश्विना । मध्वः॒ सोम॑स्य पी॒तये॑ ॥
त्रि॒ऽवं॒धु॒रेण॑ , त्रि॒ऽवृता॑ , रथे॑न , आ , या॒तं॒ , अ॒श्वि॒ना॒ । मध्वः॑ , सोम॑स्य , पी॒तये॑ ॥
नू मे॒ गिरो॑ नास॒त्याश्वि॑ना॒ प्राव॑तं यु॒वं । मध्वः॒ सोम॑स्य पी॒तये॑ ॥
नु , मे॒ , गिरः॑ , ना॒स॒त्या॒ , अश्वि॑ना , प्र , अ॒व॒तं॒ , यु॒वं । मध्वः॑ , सोम॑स्य , पी॒तये॑ ॥
[८६] उभाहीति पंचर्चस्य सूक्तस्यांगिरसः कृष्णोश्विनौजगती | (अत्रकाणिर्विश्वकऋषिः पाक्षिकः)
उ॒भा हि द॒स्रा भि॒षजा॑ मयो॒भुवो॒भा दक्ष॑स्य॒ वच॑सो बभू॒वथुः॑ । ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥
उ॒भा , हि , द॒स्रा , भि॒षजा॑ , म॒यः॒ऽभुवा॑ , उ॒भा , दक्ष॑स्य , वच॑सः , ब॒भू॒वथुः॑ । ता , वां॒ , विश्व॑कः , ह॒व॒ते॒ , त॒नू॒ऽकृ॒थे , मा , नः॒ , वि , यौ॒ष्टं॒ , स॒ख्या , मु॒मोच॑तं ॥
क॒था नू॒नं वां॒ विम॑ना॒ उप॑ स्तवद्यु॒वं धियं॑ ददथु॒र्वस्य॑इष्टये । ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥
क॒था , नू॒नं , वां॒ , विऽम॑नाः , उप॑ , स्त॒व॒त् , यु॒वं , धियं॑ , द॒द॒थुः॒ , वस्यः॑ऽइष्टये । ता , वां॒ , विश्व॑कः , ह॒व॒ते॒ , त॒नू॒ऽकृ॒थे , मा , नः॒ , वि , यौ॒ष्टं॒ , स॒ख्या , मु॒मोच॑तं ॥
यु॒वं हि ष्मा॑ पुरुभुजे॒ममे॑ध॒तुं वि॑ष्णा॒प्वे॑ द॒दथु॒र्वस्य॑इष्टये । ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥
यु॒वं , हि , स्म॒ , पु॒रु॒ऽभु॒जा॒ , इ॒मं , ए॒ध॒तुं , वि॒ष्णा॒प्वे॑ , द॒दथुः॑ , वस्यः॑ऽइष्टये । ता , वां॒ , विश्व॑कः , ह॒व॒ते॒ , त॒नू॒ऽकृ॒थे , मा , नः॒ , वि , यौ॒ष्टं॒ , स॒ख्या , मु॒मोच॑तं ॥
उ॒त त्यं वी॒रं ध॑न॒सामृ॑जी॒षिणं॑ दू॒रे चि॒त्संत॒मव॑से हवामहे । यस्य॒ स्वादि॑ष्ठा सुम॒तिः पि॒तुर्य॑था॒ मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥
उ॒त , त्यं , वी॒रं , ध॒न॒ऽसां , ऋ॒जी॒षिणं॑ , दू॒रे , चि॒त् , संतं॑ , अव॑से , ह॒वा॒म॒हे॒ । यस्य॑ , स्वादि॑ष्ठा , सु॒ऽम॒तिः , पि॒तुः , य॒था॒ , मा , नः॒ , वि , यौ॒ष्टं॒ , स॒ख्या , मु॒मोच॑तं ॥
ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ शृंग॑मुर्वि॒या वि प॑प्रथे । ऋ॒तं सा॑साह॒ महि॑ चित्पृतन्य॒तो मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥
ऋ॒तेन॑ , दे॒वः , स॒वि॒ता , शं॒ऽआ॒य॒ते॒ , ऋ॒तस्य॑ , शृंगं॑ , उ॒र्वि॒या , वि , प॒प्र॒थे॒ । ऋ॒तं , स॒सा॒ह॒ , महि॑ , चि॒त् , पृ॒त॒न्य॒तः , मा , नः॒ , वि , यौ॒ष्टं॒ , स॒ख्या , मु॒मोच॑तं ॥
[८७] द्युम्नीवामिति षडृचस्य सूक्तस्यांगिरसः कृष्णोश्विनौअयुजोबृहत्योयुजः सतोबृहत्यः | ( अत्रवासिष्ठोद्युम्नीकआंगिरसः प्रियमेधश्चेत्युभावृषीवैकल्पिकौ) |
द्यु॒म्नी वां॒ स्तोमो॑ अश्विना॒ क्रिवि॒र्न सेक॒ आ ग॑तं । मध्वः॑ सु॒तस्य॒ स दि॒वि प्रि॒यो न॑रा पा॒तं गौ॒रावि॒वेरि॑णे ॥
द्यु॒म्नी , वां॒ , स्तोमः॑ , अ॒श्वि॒ना॒ , क्रिविः॑ , न , सेके॑ , आ , ग॒तं॒ । मध्वः॑ , सु॒तस्य॑ , सः , दि॒वि , प्रि॒यः , न॒रा॒ , पा॒तं , गौ॒रौऽइ॑व , इरि॑णे ॥
पिब॑तं घ॒र्मं मधु॑मंतमश्वि॒ना ब॒र्हिः सी॑दतं नरा । ता मं॑दसा॒ना मनु॑षो दुरो॒ण आ नि पा॑तं॒ वेद॑सा॒ वयः॑ ॥
पिब॑तं , घ॒र्मं , मधु॑ऽमंतं , अ॒श्वि॒ना॒ , आ , ब॒र्हिः , सी॒द॒तं॒ , न॒रा॒ । ता , मं॒द॒सा॒ना , मनु॑षः , दु॒रो॒णे , आ , नि , पा॒तं॒ , वेद॑सा , वयः॑ ॥
आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत । ता व॒र्तिर्या॑त॒मुप॑ वृ॒क्तब॑र्हिषो॒ जुष्टं॑ य॒ज्ञं दिवि॑ष्टिषु ॥
आ , वां॒ , विश्वा॑भिः , ऊ॒तिऽभिः॑ , प्रि॒यऽमे॑धाः , अ॒हू॒ष॒त॒ । ता , व॒र्तिः , या॒तं॒ , उप॑ , वृ॒क्तऽब॑र्हिषः , जुष्टं॑ , य॒ज्ञं , दिवि॑ष्टिषु ॥
पिब॑तं॒ सोमं॒ मधु॑मंतमश्वि॒ना ब॒र्हिः सी॑दतं सु॒मत् । ता वा॑वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो गं॒तं गौ॒रावि॒वेरि॑णं ॥
पिब॑तं , सोमं॑ , मधु॑ऽमंतं , अ॒श्वि॒ना॒ , आ , ब॒र्हिः , सी॒द॒तं॒ , सु॒ऽमत् । ता , व॒वृ॒धा॒नौ , उप॑ , सु॒ऽस्तु॒तिं , दि॒वः , गं॒तं , गौ॒रौऽइ॑व , इरि॑णं ॥
आ नू॒नं या॑तमश्वि॒नाश्वे॑भिः प्रुषि॒तप्सु॑भिः । दस्रा॒ हिर॑ण्यवर्तनी शुभस्पती पा॒तं सोम॑मृतावृधा ॥
आ , नू॒नं , या॒तं॒ , अ॒श्वि॒ना॒ , अश्वे॑भिः , प्रु॒षि॒तप्सु॑ऽभिः । दस्रा॑ , हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी , शु॒भः॒ , प॒ती॒ इति॑ , पा॒तं , सोमं॑ , ऋ॒त॒ऽवृ॒धा॒ ॥
व॒यं हि वां॒ हवा॑महे विप॒न्यवो॒ विप्रा॑सो॒ वाज॑सातये । ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याश्वि॑ना श्रु॒ष्ट्या ग॑तं ॥
व॒यं , हि , वां॒ , हवा॑महे , वि॒प॒न्यवः॑ , विप्रा॑सः , वाज॑ऽसातये । ता , व॒ल्गू इति॑ , द॒स्रा , पु॒रु॒ऽदंस॑सा , धि॒या , अश्वि॑ना , श्रु॒ष्टी , आ , ग॒तं॒ ॥
[८८] तंवोदस्ममिति षडृचस्य सूक्तस्य गौतमोनोधाइंद्रः अयुजोबृहत्योयुजःसतोबृहत्यः |
तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मंदा॒नमंध॑सः । अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इंद्रं॑ गी॒र्भिर्न॑वामहे ॥
तं , वः॒ , द॒स्मं , ऋ॒ति॒ऽसहं॑ , वसोः॑ , मं॒दा॒नं , अंध॑सः । अ॒भि , व॒त्सं , न , स्वस॑रेषु , धे॒नवः॑ , इंद्रं॑ , गीः॒ऽभिः , न॒वा॒म॒हे॒ ॥
द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सं । क्षु॒मंतं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोमं॑तमीमहे ॥
द्यु॒क्षं , सु॒ऽदानुं॑ , तवि॑षीभिः , आऽवृ॑तं , गि॒रिं , न , पु॒रु॒ऽभोज॑सं । क्षु॒ऽमंतं॑ , वाजं॑ , श॒तिनं॑ , स॒ह॒स्रिणं॑ , म॒क्षु , गोऽमं॑तं , ई॒म॒हे॒ ॥
न त्वा॑ बृ॒हंतो॒ अद्र॑यो॒ वरं॑त इंद्र वी॒ळवः॑ । यद्दित्स॑सि स्तुव॒ते माव॑ते॒ वसु॒ नकि॒ष्टदा मि॑नाति ते ॥
न , त्वा॒ , बृ॒हंतः॑ , अद्र॑यः , वरं॑ते , इं॒द्र॒ , वी॒ळवः॑ । यत् , दित्स॑सि , स्तु॒व॒ते , माऽव॑ते , वसु॑ , नकिः॑ , तत् , आ , मि॒ना॒ति॒ , ते॒ ॥
योद्धा॑सि॒ क्रत्वा॒ शव॑सो॒त दं॒सना॒ विश्वा॑ जा॒ताभि म॒ज्मना॑ । आ त्वा॒यम॒र्क ऊ॒तये॑ ववर्तति॒ यं गोत॑मा॒ अजी॑जनन् ॥
योद्धा॑ , अ॒सि॒ , क्रत्वा॑ , शव॑सा , उ॒त , दं॒सना॑ , विश्वा॑ , जा॒ता , अ॒भि , म॒ज्मना॑ । आ , त्वा॒ , अ॒यं , अ॒र्कः , ऊ॒तये॑ , व॒व॒र्त॒ति॒ , यं , गोत॑माः , अजी॑जनन् ॥
प्र हि रि॑रि॒क्ष ओज॑सा दि॒वो अंते॑भ्य॒स्परि॑ । न त्वा॑ विव्याच॒ रज॑ इंद्र॒ पार्थि॑व॒मनु॑ स्व॒धां व॑वक्षिथ ॥
प्र , हि , रि॒रि॒क्षे , ओज॑सा , दि॒वः , अंते॑भ्यः , परि॑ । न , त्वा॒ , वि॒व्या॒च॒ , रजः॑ , इं॒द्र॒ , पार्थि॑वं , अनु॑ , स्व॒धां , व॒व॒क्षि॒थ॒ ॥
नकिः॒ परि॑ष्टिर्मघवन्म॒घस्य॑ ते॒ यद्दा॒शुषे॑ दश॒स्यसि॑ । अ॒स्माकं॑ बोध्यु॒चथ॑स्य चोदि॒ता मंहि॑ष्ठो॒ वाज॑सातये ॥
नकिः॑ , परि॑ष्टिः , म॒घ॒ऽव॒न् , म॒घस्य॑ , ते॒ , यत् , दा॒शुषे॑ , द॒श॒स्यसि॑ । अ॒स्माकं॑ , बो॒धि॒ , उ॒चथ॑स्य , चो॒दि॒ता , मंहि॑ष्ठः , वाज॑ऽसातये ॥
[८९] बृहदिंद्रायेति सप्तर्चस्य सूक्तस्यांगिरसौ नृमेधपुरुमेधाविंद्रो बृहती द्वितीयाचतुर्थ्यौसतोबृहत्यौ पंचमीषष्ठ्यावनुष्टुभौ |
बृ॒हदिंद्रा॑य गायत॒ मरु॑तो वृत्र॒हंत॑मं । येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥
बृ॒हत् , इंद्रा॑य , गा॒य॒त॒ , मरु॑तः , वृ॒त्र॒हंऽत॑मं । येन॑ , ज्योतिः॑ , अज॑नयन् , ऋ॒त॒ऽवृधः॑ , दे॒वं , दे॒वाय॑ , जागृ॑वि ॥
अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेंद्रो॑ द्यु॒म्न्याभ॑वत् । दे॒वास्त॑ इंद्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥
अप॑ , अ॒ध॒म॒त् , अ॒भिऽश॑स्तीः , अ॒श॒स्ति॒ऽहा , अथ॑ , इंद्रः॑ , द्यु॒म्नी , आ , अ॒भ॒व॒त् । दे॒वाः , ते॒ , इं॒द्र॒ , स॒ख्याय॑ , ये॒मि॒रे॒ , बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो , मरु॑त्ऽगण ॥
प्र व॒ इंद्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत । वृ॒त्रं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥
प्र , वः॒ , इंद्रा॑य , बृ॒ह॒ते , मरु॑तः , ब्रह्म॑ , अ॒र्च॒त॒ । वृ॒त्रं , ह॒न॒ति॒ , वृ॒त्र॒ऽहा , श॒तऽक्र॑तुः , वज्रे॑ण , श॒तऽप॑र्वणा ॥
अ॒भि प्र भ॑र धृष॒ता धृ॑षन्मनः॒ श्रव॑श्चित्ते असद्बृ॒हत् । अर्षं॒त्वापो॒ जव॑सा॒ वि मा॒तरो॒ हनो॑ वृ॒त्रं जया॒ स्वः॑ ॥
अ॒भि , प्र , भ॒र॒ , धृ॒ष॒ता , धृ॒ष॒त्ऽम॒नः॒ , श्रवः॑ , चि॒त् , ते॒ , अ॒स॒त् , बृ॒हत् । अर्षं॑तु , आपः॑ , जव॑सा , वि , मा॒तरः॑ , हनः॑ , वृ॒त्रं , जय॑ , स्व१॒॑रिति॒ स्वः॑ ॥
यज्जाय॑था अपूर्व्य॒ मघ॑वन्वृत्र॒हत्या॑य । तत्पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना उ॒त द्यां ॥
यत् , जाय॑थाः , अ॒पू॒र्व्य॒ , मघ॑ऽवन् , वृ॒त्र॒ऽहत्या॑य । तत् , पृ॒थि॒वीं , अ॒प्र॒थ॒यः॒ , तत् , अ॒स्त॒भ्नाः॒ , उ॒त , द्यां ॥
तत्ते॑ य॒ज्ञो अ॑जायत॒ तद॒र्क उ॒त हस्कृ॑तिः । तद्विश्व॑मभि॒भूर॑सि॒ यज्जा॒तं यच्च॒ जंत्वं॑ ॥
तत् , ते॒ , य॒ज्ञः , अ॒जा॒य॒त॒ , तत् , अ॒र्कः , उ॒त , हस्कृ॑तिः । तत् , विश्वं॑ , अ॒भि॒ऽभूः , अ॒सि॒ , यत् , जा॒तं , यत् , च॒ , जंत्वं॑ ॥
आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यं॑ रोहयो दि॒वि । घ॒र्मं न सामं॑तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे बृ॒हत् ॥
आ॒मासु॑ , प॒क्वं , ऐर॑यः , आ , सूर्यं॑ , रो॒ह॒यः॒ , दि॒वि । घ॒र्मं , न , साम॑न् , त॒प॒त॒ , सु॒वृ॒क्तिऽभिः॑ , जुष्टं॑ , गिर्व॑णसे , बृ॒हत् ॥
[९०] आनोविश्वास्थिति षडृचस्य सूक्तस्यांगिरसौ नृमेधपुरुमेधाविंद्रः अयुजोबृहत्योयुजःसतोबृहत्यः |
आ नो॒ विश्वा॑सु॒ हव्य॒ इंद्रः॑ स॒मत्सु॑ भूषतु । उप॒ ब्रह्मा॑णि॒ सव॑नानि वृत्र॒हा प॑रम॒ज्या ऋची॑षमः ॥
आ , नः॒ , विश्वा॑सु , हव्यः॑ , इंद्रः॑ , स॒मत्ऽसु॑ , भू॒ष॒तु॒ । उप॑ , ब्रह्मा॑णि , सव॑नानि , वृ॒त्र॒ऽहा , प॒र॒म॒ऽज्याः , ऋची॑षमः ॥
त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत् । तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ॑णीमहे पु॒त्रस्य॒ शव॑सो म॒हः ॥
त्वं , दा॒ता , प्र॒थ॒मः , राध॑सां , अ॒सि॒ , असि॑ , स॒त्यः , ई॒शा॒न॒ऽकृत् । तु॒वि॒ऽद्यु॒म्नस्य॑ , युज्या॑ , आ , वृ॒णी॒म॒हे॒ , पु॒त्रस्य॑ , शव॑सः , म॒हः ॥
ब्रह्मा॑ त इंद्र गिर्वणः क्रि॒यंते॒ अन॑तिद्भुता । इ॒मा जु॑षस्व हर्यश्व॒ योज॒नेंद्र॒ या ते॒ अम॑न्महि ॥
ब्रह्म॑ , ते॒ , इं॒द्र॒ , गि॒र्व॒णः॒ , क्रि॒यंते॑ , अन॑तिद्भुता । इ॒मा , जु॒ष॒स्व॒ , ह॒रि॒ऽअ॒श्व॒ , योज॑ना , इंद्र॑ , या , ते॒ , अम॑न्महि ॥
त्वं हि स॒त्यो म॑घव॒न्नना॑नतो वृ॒त्रा भूरि॑ न्यृं॒जसे॑ । स त्वं श॑विष्ठ वज्रहस्त दा॒शुषे॒ऽर्वांचं॑ र॒यिमा कृ॑धि ॥
त्वं , हि , स॒त्यः , म॒घ॒ऽव॒न् , अना॑नतः , वृ॒त्रा , भूरि॑ , नि॒ऽऋं॒जसे॑ । सः , त्वं , श॒वि॒ष्ठ॒ , व॒ज्र॒ऽह॒स्त॒ , दा॒शुषे॑ , अ॒र्वांचं॑ , र॒यिं , आ , कृ॒धि॒ ॥
त्वमिं॑द्र य॒शा अ॑स्यृजी॒षी श॑वसस्पते । त्वं वृ॒त्राणि॑ हंस्यप्र॒तीन्येक॒ इदनु॑त्ता चर्षणी॒धृता॑ ॥
त्वं , इं॒द्र॒ , य॒शाः , अ॒सि॒ , ऋ॒जी॒षी , श॒व॒सः॒ , प॒ते॒ । त्वं , वृ॒त्राणि॑ , हं॒सि॒ , अ॒प्र॒तीनि॑ , एकः॑ , इत् , अनु॑त्ता , च॒र्ष॒णि॒ऽधृता॑ ॥
तमु॑ त्वा नू॒नम॑सुर॒ प्रचे॑तसं॒ राधो॑ भा॒गमि॑वेमहे । म॒हीव॒ कृत्तिः॑ शर॒णा त॑ इंद्र॒ प्र ते॑ सु॒म्ना नो॑ अश्नवन् ॥
तं , ऊँ॒ इति॑ , त्वा॒ , नू॒नं , अ॒सु॒र॒ , प्रऽचे॑तसं , राधः॑ , भा॒गंऽइ॑व , ई॒म॒हे॒ । म॒हीऽइ॑व , कृत्तिः॑ , श॒र॒णा , ते॒ , इं॒द्र॒ , प्र , ते॒ , सु॒म्ना , नः॒ , अ॒श्न॒व॒न् ॥
[९१] कन्यावारिति सप्तर्चस्य सूक्तस्यात्रेय्यपालेंद्रोनुष्टुबाद्येद्वेपंक्ती |
क॒न्या॒३॒॑ वार॑वाय॒ती सोम॒मपि॑ स्रु॒तावि॑दत् । अस्तं॒ भरं॑त्यब्रवी॒दिंद्रा॑य सुनवै त्वा श॒क्राय॑ सुनवै त्वा ॥
क॒न्या॑ , वाः , अ॒व॒ऽय॒ती , सोमं॑ , अपि॑ , स्रु॒ता , अ॒वि॒द॒त् । अस्तं॑ , भरं॑ती , अ॒ब्र॒वी॒त् , इंद्रा॑य , सु॒न॒वै॒ , त्वा॒ , श॒क्राय॑ , सु॒न॒वै॒ , त्वा॒ ॥
अ॒सौ य एषि॑ वीर॒को गृ॒हंगृ॑हं वि॒चाक॑शत् । इ॒मं जंभ॑सुतं पिब धा॒नावं॑तं करं॒भिण॑मपू॒पवं॑तमु॒क्थिनं॑ ॥
अ॒सौ , यः , एषि॑ , वी॒र॒कः , गृ॒हंऽगृ॑हं , वि॒ऽचाक॑शत् । इ॒मं , जंभ॑ऽसुतं , पि॒ब॒ , धा॒नाऽवं॑तं , क॒रं॒भिणं॑ , अ॒पू॒पऽवं॑तं , उ॒क्थिनं॑ ॥
आ च॒न त्वा॑ चिकित्सा॒मोऽधि॑ च॒न त्वा॒ नेम॑सि । शनै॑रिव शन॒कैरि॒वेंद्रा॑येंदो॒ परि॑ स्रव ॥
आ , च॒न , त्वा॒ , चि॒कि॒त्सा॒मः॒ , अधि॑ , च॒न , त्वा॒ , न , इ॒म॒सि॒ । शनैः॑ऽइव , श॒न॒कैःऽइ॑व , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त् । कु॒वित्प॑ति॒द्विषो॑ य॒तीरिंद्रे॑ण सं॒गमा॑महै ॥
कु॒वित् , शक॑त् , कु॒वित् , कर॑त् , कु॒वित् , नः॒ , वस्य॑सः , कर॑त् । कु॒वित् , प॒ति॒ऽद्विषः॑ , य॒तीः , इंद्रे॑ण , सं॒ऽगमा॑महै ॥
इ॒मानि॒ त्रीणि॑ वि॒ष्टपा॒ तानीं॑द्र॒ वि रो॑हय । शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे॑ ॥
इ॒मानि॑ , त्रीणि॑ , वि॒ष्टपा॑ , तानि॑ , इं॒द्र॒ , वि , रो॒ह॒य॒ । शिरः॑ , त॒तस्य॑ , उ॒र्वरां॑ , आत् , इ॒दं , मे॒ , उप॑ , उ॒दरे॑ ॥
अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्वं१॒॑ मम॑ । अथो॑ त॒तस्य॒ यच्छिरः॒ सर्वा॒ ता रो॑म॒शा कृ॑धि ॥
अ॒सौ , च॒ , या , नः॒ , उ॒र्वरा॑ , आत् , इ॒मां , त॒न्वं॑ , मम॑ । अथो॒ इति॑ , त॒तस्य॑ , यत् , शिरः॑ , सर्वा॑ , ता , रो॒म॒शा , कृ॒धि॒ ॥
खे रथ॑स्य॒ खेऽन॑सः॒ खे यु॒गस्य॑ शतक्रतो । अ॒पा॒लामिं॑द्र॒ त्रिष्पू॒त्व्यकृ॑णोः॒ सूर्य॑त्वचं ॥
खे , रथ॑स्य , खे , अन॑सः , खे , यु॒गस्य॑ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । अ॒पा॒लां , इं॒द्र॒ , त्रिः , पू॒त्वी , अकृ॑णोः , सूर्य॑ऽत्वचं ॥
[९२] पांतमिति त्रयस्त्रिंशदृचस्य सूक्तस्यांगिरसः श्रुतकक्ष इंद्रोगायत्र्याद्यानुष्टुप् (सुकक्षोवाऋषिः ) |
पांत॒मा वो॒ अंध॑स॒ इंद्र॑म॒भि प्र गा॑यत । वि॒श्वा॒साहं॑ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नां ॥
पांतं॑ , आ , वः॒ , अंध॑सः , इंद्रं॑ , अ॒भि , प्र , गा॒य॒त॒ । वि॒श्व॒ऽसहं॑ , श॒तऽक्र॑तुं , मंहि॑ष्ठं , च॒र्ष॒णी॒नां ॥
पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतं । इंद्र॒ इति॑ ब्रवीतन ॥
पु॒रु॒ऽहू॒तं , पु॒रु॒ऽस्तु॒तं , गा॒था॒न्यं॑ , सन॑ऽश्रुतं । इंद्रः॑ , इति॑ , ब्र॒वी॒त॒न॒ ॥
इंद्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः । म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ॥
इंद्रः॑ , इत् , नः॒ , म॒हानां॑ , दा॒ता , वाजा॑नां , नृ॒तुः । म॒हान् , अ॒भि॒ऽज्ञु , आ , य॒म॒त् ॥
अपा॑दु शि॒प्र्यंध॑सः सु॒दक्ष॑स्य प्रहो॒षिणः॑ । इंदो॒रिंद्रो॒ यवा॑शिरः ॥
अपा॑त् , ऊँ॒ इति॑ , शि॒प्री , अंध॑सः , सु॒ऽदक्ष॑स्य , प्र॒ऽहो॒षिणः॑ । इंदोः॑ , इंद्रः॑ , यव॑ऽआशिरः ॥
तम्व॒भि प्रार्च॒तेंद्रं॒ सोम॑स्य पी॒तये॑ । तदिद्ध्य॑स्य॒ वर्ध॑नं ॥
तं , ऊँ॒ इति॑ , अ॒भि , प्र , अ॒र्च॒त॒ , इंद्रं॑ , सोम॑स्य , पी॒तये॑ । तत् , इत् , हि , अ॒स्य॒ , वर्ध॑नं ॥
अ॒स्य पी॒त्वा मदा॑नां दे॒वो दे॒वस्यौज॑सा । विश्वा॒भि भुव॑ना भुवत् ॥
अ॒स्य , पी॒त्वा , मदा॑नां , दे॒वः , दे॒वस्य॑ , ओज॑सा । विश्वा॑ , अ॒भि , भुव॑ना , भु॒व॒त् ॥
त्यमु॑ वः सत्रा॒साहं॒ विश्वा॑सु गी॒र्ष्वाय॑तं । आ च्या॑वयस्यू॒तये॑ ॥
त्यं , ऊँ॒ इति॑ , वः॒ , स॒त्रा॒ऽसहं॑ , विश्वा॑सु , गी॒र्षु , आऽय॑तं । आ , च्य॒व॒य॒सि॒ , ऊ॒तये॑ ॥
यु॒ध्मं संत॑मन॒र्वाणं॑ सोम॒पामन॑पच्युतं । नर॑मवा॒र्यक्र॑तुं ॥
यु॒ध्मं , संतं॑ , अ॒न॒र्वाणं॑ , सो॒म॒ऽपां , अन॑पऽच्युतं । नरं॑ , अ॒वा॒र्यऽक्र॑तुं ॥
शिक्षा॑ ण इंद्र रा॒य आ पु॒रु वि॒द्वाँ ऋ॑चीषम । अवा॑ नः॒ पार्ये॒ धने॑ ॥
शिक्ष॑ , नः॒ , इं॒द्र॒ , रा॒यः , आ , पु॒रु , वि॒द्वान् , ऋ॒ची॒ष॒म॒ । अव॑ , नः॒ , पार्ये॑ , धने॑ ॥
अत॑श्चिदिंद्र ण॒ उपा या॑हि श॒तवा॑जया । इ॒षा स॒हस्र॑वाजया ॥
अतः॑ , चि॒त् , इं॒द्र॒ , नः॒ , उप॑ , आ , या॒हि॒ , श॒तऽवा॑जया । इ॒षा , स॒हस्र॑ऽवाजया ॥
अया॑म॒ धीव॑तो॒ धियोऽर्व॑द्भिः शक्र गोदरे । जये॑म पृ॒त्सु व॑ज्रिवः ॥
अया॑म , धीऽव॑तः , धियः॑ , अर्व॑त्ऽभिः , श॒क्र॒ , गो॒ऽद॒रे॒ । जये॑म , पृ॒त्ऽसु , व॒ज्रि॒ऽवः॒ ॥
व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा । उ॒क्थेषु॑ रणयामसि ॥
व॒यं , ऊँ॒ इति॑ , त्वा॒ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , गावः॑ , न , यव॑सेषु , आ । उ॒क्थेषु॑ , र॒ण॒या॒म॒सि॒ ॥
विश्वा॒ हि म॑र्त्यत्व॒नानु॑का॒मा श॑तक्रतो । अग॑न्म वज्रिन्ना॒शसः॑ ॥
विश्वा॑ , हि , म॒र्त्य॒ऽत्व॒ना , अ॒नु॒ऽका॒मा , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । अग॑न्म , व॒ज्रि॒न् , आ॒ऽशसः॑ ॥
त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः । न त्वामिं॒द्राति॑ रिच्यते ॥
त्वे इति॑ , सु , पु॒त्र॒ , श॒व॒सः॒ , अवृ॑त्रन् , काम॑ऽकातयः । न , त्वां , इं॒द्र॒ , अति॑ , रि॒च्य॒ते॒ ॥
स नो॑ वृषं॒त्सनि॑ष्ठया॒ सं घो॒रया॑ द्रवि॒त्न्वा । धि॒यावि॑ड्ढि॒ पुरं॑ध्या ॥
सः , नः॒ , वृ॒ष॒न् , सनि॑ष्ठया , सं , घो॒रया॑ , द्र॒वि॒त्न्वा । धि॒या , अ॒वि॒ड्ढि॒ , पुरं॑ऽध्या ॥
यस्ते॑ नू॒नं श॑तक्रत॒विंद्र॑ द्यु॒म्नित॑मो॒ मदः॑ । तेन॑ नू॒नं मदे॑ मदेः ॥
यः , ते॒ , नू॒नं , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , इंद्र॑ , द्यु॒म्निऽत॑मः , मदः॑ । तेन॑ , नू॒नं , मदे॑ , म॒दे॒रिति॑ मदेः ॥
यस्ते॑ चि॒त्रश्र॑वस्तमो॒ य इं॑द्र वृत्र॒हंत॑मः । य ओ॑जो॒दात॑मो॒ मदः॑ ॥
यः , ते॒ , चि॒त्रश्र॑वःऽतमः , यः , इं॒द्र॒ , वृ॒त्र॒हन्ऽत॑मः । यः , ओ॒जः॒ऽदात॑मः , मदः॑ ॥
वि॒द्मा हि यस्ते॑ अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः । विश्वा॑सु दस्म कृ॒ष्टिषु॑ ॥
वि॒द्म , हि , यः , ते॒ , अ॒द्रि॒ऽवः॒ , त्वाऽद॑त्तः , स॒त्य॒ , सो॒म॒ऽपाः॒ । विश्वा॑सु , द॒स्म॒ , कृ॒ष्टिषु॑ ॥
इंद्रा॑य॒ मद्व॑ने सु॒तं परि॑ ष्टोभंतु नो॒ गिरः॑ । अ॒र्कम॑र्चंतु का॒रवः॑ ॥
इंद्रा॑य , मद्व॑ने , सु॒तं , परि॑ , स्तो॒भं॒तु॒ , नः॒ , गिरः॑ । अ॒र्कं , अ॒र्चं॒तु॒ , का॒रवः॑ ॥
यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रणं॑ति स॒प्त सं॒सदः॑ । इंद्रं॑ सु॒ते ह॑वामहे ॥
यस्मि॑न् , विश्वाः॑ , अधि॑ , श्रियः॑ , रणं॑ति , स॒प्त , सं॒ऽसदः॑ । इंद्रं॑ , सु॒ते , ह॒वा॒म॒हे॒ ॥
त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत । तमिद्व॑र्धंतु नो॒ गिरः॑ ॥
त्रिऽक॑द्रुकेषु , चेत॑नं , दे॒वासः॑ , य॒ज्ञं , अ॒त्न॒त॒ । तं , इत् , व॒र्धं॒तु॒ , नः॒ , गिरः॑ ॥
आ त्वा॑ विशं॒त्विंद॑वः समु॒द्रमि॑व॒ सिंध॑वः । न त्वामिं॒द्राति॑ रिच्यते ॥
आ , त्वा॒ , वि॒शं॒तु॒ , इंद॑वः , स॒मु॒द्रंऽइ॑व , सिंध॑वः । न , त्वां , इं॒द्र॒ , अति॑ , रि॒च्य॒ते॒ ॥
वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे । य इं॑द्र ज॒ठरे॑षु ते ॥
वि॒व्यक्थ॑ , म॒हि॒ना , वृ॒ष॒न् , भ॒क्षं , सोम॑स्य , जा॒गृ॒वे॒ । यः , इं॒द्र॒ , ज॒ठरे॑षु , ते॒ ॥
अरं॑ त इंद्र कु॒क्षये॒ सोमो॑ भवतु वृत्रहन् । अरं॒ धाम॑भ्य॒ इंद॑वः ॥
अरं॑ , ते॒ , इं॒द्र॒ , कु॒क्षये॑ , सोमः॑ , भ॒व॒तु॒ , वृ॒त्र॒ऽह॒न् । अरं॑ , धाम॑ऽभ्यः , इंद॑वः ॥
अर॒मश्वा॑य गायति श्रु॒तक॑क्षो॒ अरं॒ गवे॑ । अर॒मिंद्र॑स्य॒ धाम्ने॑ ॥
अरं॑ , अश्वा॑य , गा॒य॒ति॒ , श्रु॒तऽक॑क्षः , अरं॑ , गवे॑ । अरं॑ , इंद्र॑स्य , धाम्ने॑ ॥
अरं॒ हि ष्म॑ सु॒तेषु॑ णः॒ सोमे॑ष्विंद्र॒ भूष॑सि । अरं॑ ते शक्र दा॒वने॑ ॥
अरं॑ , हि , स्म॒ , सु॒तेषु॑ , नः॒ , सोमे॑षु , इं॒द्र॒ , भूष॑सि । अरं॑ , ते॒ , श॒क्र॒ , दा॒वने॑ ॥
प॒रा॒कात्ता॑च्चिदद्रिव॒स्त्वां न॑क्षंत नो॒ गिरः॑ । अरं॑ गमाम ते व॒यं ॥
प॒रा॒कात्ता॑त् , चि॒त् , अ॒द्रि॒ऽवः॒ , त्वां , न॒क्षं॒त॒ , नः॒ , गिरः॑ । अरं॑ , ग॒मा॒म॒ , ते॒ , व॒यं ॥
ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः । ए॒वा ते॒ राध्यं॒ मनः॑ ॥
ए॒व , हि , असि॑ , वी॒र॒ऽयुः , ए॒व , शूरः॑ , उ॒त , स्थि॒रः । ए॒व , ते॒ , राध्यं॑ , मनः॑ ॥
ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभिः॑ । अधा॑ चिदिंद्र मे॒ सचा॑ ॥
ए॒व , रा॒तिः , तु॒वि॒ऽम॒घ॒ , विश्वे॑भिः , धा॒यि॒ , धा॒तृऽभिः॑ । अध॑ , चि॒त् , इं॒द्र॒ , मे॒ , सचा॑ ॥
मो षु ब्र॒ह्मेव॑ तंद्र॒युर्भुवो॑ वाजानां पते । मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥
मो इति॑ , सु , ब्र॒ह्माऽइ॑व , तं॒द्र॒युः , भुवः॑ , वा॒जा॒नां॒ , प॒ते॒ । मत्स्व॑ , सु॒तस्य॑ , गोऽम॑तः ॥
मा न॑ इंद्रा॒भ्या॒३॒॑दिशः॒ सूरो॑ अ॒क्तुष्वा य॑मन् । त्वा यु॒जा व॑नेम॒ तत् ॥
मा , नः॒ , इं॒द्र॒ , अ॒भि , आ॒ऽदिशः॑ , सूरः॑ , अ॒क्तुषु॑ , आ , य॒म॒न् । त्वा , यु॒जा , व॒ने॒म॒ , तत् ॥
त्वयेदिं॑द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृधः॑ । त्वम॒स्माकं॒ तव॑ स्मसि ॥
त्वया॑ , इत् , इं॒द्र॒ , यु॒जा , व॒यं , प्रति॑ , ब्रु॒वी॒म॒हि॒ , स्पृधः॑ । त्वं , अ॒स्माकं॑ , तव॑ , स्म॒सि॒ ॥
त्वामिद्धि त्वा॒यवो॑ऽनु॒नोनु॑वत॒श्चरा॑न् । सखा॑य इंद्र का॒रवः॑ ॥
त्वां , इत् , हि , त्वा॒ऽयवः॑ , अ॒नु॒ऽनोनु॑वतः , चरा॑न् । सखा॑यः , इं॒द्र॒ , का॒रवः॑ ॥
[९३] उद्घेदभीति चतुस्त्रिंशदृचस्य सूक्तस्यांगिरसः सुकक्ष इंद्रोंत्याया इंद्रर्भवो गायत्री |
उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसं । अस्ता॑रमेषि सूर्य ॥
उत् , घ॒ , इत् , अ॒भि , श्रु॒तऽम॑घं , वृ॒ष॒भं , नर्य॑ऽअपसं । अस्ता॑रं , ए॒षि॒ , सू॒र्य॒ ॥
नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वो॑जसा । अहिं॑ च वृत्र॒हाव॑धीत् ॥
नव॑ , यः , न॒व॒तिं , पुरः॑ , बि॒भेद॑ , बा॒हुऽओ॑जसा । अहिं॑ , च॒ , वृ॒त्र॒ऽहा , अ॒व॒धी॒त् ॥
स न॒ इंद्रः॑ शि॒वः सखाश्वा॑व॒द्गोम॒द्यव॑मत् । उ॒रुधा॑रेव दोहते ॥
सः , नः॒ , इंद्रः॑ , शि॒वः , सखा॑ , अश्व॑ऽवत् , गोऽम॑त् , यव॑ऽमत् । उ॒रुधा॑राऽइव , दो॒ह॒ते॒ ॥
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य । सर्वं॒ तदिं॑द्र ते॒ वशे॑ ॥
यत् , अ॒द्य , कत् , च॒ , वृ॒त्र॒ऽह॒न् , उ॒त्ऽअगाः॑ , अ॒भि , सू॒र्य॒ । सर्वं॑ , तत् , इं॒द्र॒ , ते॒ , वशे॑ ॥
यद्वा॑ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से । उ॒तो तत्स॒त्यमित्तव॑ ॥
यत् , वा॒ , प्र॒ऽवृ॒द्ध॒ , स॒त्ऽप॒ते॒ , न , म॒रै॒ , इति॑ , मन्य॑से । उ॒तो इति॑ , तत् , स॒त्यं , इत् , तव॑ ॥
ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे । सर्वाँ॒स्ताँ इं॑द्र गच्छसि ॥
ये , सोमा॑सः , प॒रा॒ऽवति॑ , ये , अ॒र्वा॒ऽवति॑ , सु॒न्वि॒रे । सर्वा॑न् , तान् , इं॒द्र॒ , ग॒च्छ॒सि॒ ॥
तमिंद्रं॑ वाजयामसि म॒हे वृ॒त्राय॒ हंत॑वे । स वृषा॑ वृष॒भो भु॑वत् ॥
तं , इंद्रं॑ , वा॒ज॒या॒म॒सि॒ , म॒हे , वृ॒त्राय॑ , हंत॑वे । सः , वृषा॑ , वृ॒ष॒भः , भु॒व॒त् ॥
इंद्रः॒ स दाम॑ने कृ॒त ओजि॑ष्ठः॒ स मदे॑ हि॒तः । द्यु॒म्नी श्लो॒की स सो॒म्यः ॥
इंद्रः॑ , सः , दाम॑ने , कृ॒तः , ओजि॑ष्ठः , सः , मदे॑ , हि॒तः । द्यु॒म्नी , श्लो॒की , सः , सो॒म्यः ॥
गि॒रा वज्रो॒ न संभृ॑तः॒ सब॑लो॒ अन॑पच्युतः । व॒व॒क्ष ऋ॒ष्वो अस्तृ॑तः ॥
गि॒रा , वज्रः॑ , न , संऽभृ॑तः , सऽब॑लः , अन॑पऽच्युतः । व॒व॒क्षे , ऋ॒ष्वः , अस्तृ॑तः ॥
दु॒र्गे चि॑न्नः सु॒गं कृ॑धि गृणा॒न इं॑द्र गिर्वणः । त्वं च॑ मघव॒न्वशः॑ ॥
दुः॒ऽगे , चि॒त् , नः॒ , सु॒ऽगं , कृ॒धि॒ , गृ॒णा॒नः , इं॒द्र॒ , गि॒र्व॒णः॒ । त्वं , च॒ , म॒घ॒ऽव॒न् , वशः॑ ॥
यस्य॑ ते॒ नू चि॑दा॒दिशं॒ न मि॒नंति॑ स्व॒राज्यं॑ । न दे॒वो नाध्रि॑गु॒र्जनः॑ ॥
यस्य॑ , ते॒ , नु , चि॒त् , आ॒ऽदिशं॑ , न , मि॒नंति॑ , स्व॒ऽराज्यं॑ । न , दे॒वः , न , अध्रि॑ऽगुः , जनः॑ ॥
अधा॑ ते॒ अप्र॑तिष्कुतं दे॒वी शुष्मं॑ सपर्यतः । उ॒भे सु॑शिप्र॒ रोद॑सी ॥
अध॑ , ते॒ , अप्र॑तिऽस्कुतं , दे॒वी इति॑ , शुष्मं॑ , स॒प॒र्य॒तः॒ । उ॒भे इति॑ , सु॒ऽशि॒प्र॒ , रोद॑सी॒ इति॑ ॥
त्वमे॒तद॑धारयः कृ॒ष्णासु॒ रोहि॑णीषु च । परु॑ष्णीषु॒ रुश॒त्पयः॑ ॥
त्वं , ए॒तत् , अ॒धा॒र॒यः॒ , कृ॒ष्णासु॑ , रोहि॑णीषु , च॒ । परु॑ष्णीषु , रुश॑त् , पयः॑ ॥
वि यदहे॒रध॑ त्वि॒षो विश्वे॑ दे॒वासो॒ अक्र॑मुः । वि॒दन्मृ॒गस्य॒ ताँ अमः॑ ॥
वि , यत् , अहेः॑ , अध॑ , त्वि॒षः , विश्वे॑ , दे॒वासः॑ , अक्र॑मुः । वि॒दत् , मृ॒गस्य॑ , तान् , अमः॑ ॥
आदु॑ मे निव॒रो भु॑वद्वृत्र॒हादि॑ष्ट॒ पौंस्यं॑ । अजा॑तशत्रु॒रस्तृ॑तः ॥
आत् , ऊँ॒ इति॑ , मे॒ , नि॒ऽव॒रः , भु॒व॒त् , वृ॒त्र॒ऽहा , अ॒दि॒ष्ट॒ , पौंस्यं॑ । अजा॑तऽशत्रुः , अस्तृ॑तः ॥
श्रु॒तं वो॑ वृत्र॒हंत॑मं॒ प्र शर्धं॑ चर्षणी॒नां । आ शु॑षे॒ राध॑से म॒हे ॥
श्रु॒तं , वः॒ , वृ॒त्र॒हन्ऽत॑मं , प्र , शर्धं॑ , च॒र्ष॒णी॒नां । आ , शु॒षे॒ , राध॑से , म॒हे ॥
अ॒या धि॒या च॑ गव्य॒या पुरु॑णाम॒न्पुरु॑ष्टुत । यत्सोमे॑सोम॒ आभ॑वः ॥
अ॒या , धि॒या , च॒ , ग॒व्य॒ऽया , पुरु॑ऽनामन् , पुरु॑ऽस्तुत । यत् , सोमे॑ऽसोमे , आ , अभ॑वः ॥
बो॒धिन्म॑ना॒ इद॑स्तु नो वृत्र॒हा भूर्या॑सुतिः । शृ॒णोतु॑ श॒क्र आ॒शिषं॑ ॥
बो॒धित्ऽम॑नाः , इत् , अ॒स्तु॒ , नः॒ , वृ॒त्र॒ऽहा , भूरि॑ऽआसुतिः । शृ॒णोतु॑ , शु॒क्रः , आ॒ऽशिषं॑ ॥
कया॒ त्वं न॑ ऊ॒त्याभि प्र मं॑दसे वृषन् । कया॑ स्तो॒तृभ्य॒ आ भ॑र ॥
कया॑ , त्वं , नः॒ , ऊ॒त्या , अ॒भि , प्र , मं॒द॒से॒ , वृ॒ष॒न् । कया॑ , स्तो॒तृऽभ्यः॑ , आ , भ॒र॒ ॥
कस्य॒ वृषा॑ सु॒ते सचा॑ नि॒युत्वा॑न्वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये ॥
कस्य॑ , वृषा॑ , सु॒ते , सचा॑ , नि॒युत्वा॑न् , वृ॒ष॒भः , र॒ण॒त् । वृ॒त्र॒ऽहा , सोम॑ऽपीतये ॥
अ॒भी षु ण॒स्त्वं र॒यिं मं॑दसा॒नः स॑ह॒स्रिणं॑ । प्र॒यं॒ता बो॑धि दा॒शुषे॑ ॥
अ॒भि , सु , नः॒ , त्वं , र॒यिं , मं॒द॒सा॒नः , स॒ह॒स्रिणं॑ । प्र॒ऽयं॒ता , बो॒धि॒ , दा॒शुषे॑ ॥
पत्नी॑वंतः सु॒ता इ॒म उ॒शंतो॑ यंति वी॒तये॑ । अ॒पां जग्मि॑र्निचुंपु॒णः ॥
पत्नी॑ऽवंतः , सु॒ताः , इ॒मे , उ॒शंतः॑ , यं॒ति॒ , वी॒तये॑ । अ॒पां , जग्मिः॑ , नि॒ऽचुं॒पु॒णः ॥
इ॒ष्टा होत्रा॑ असृक्ष॒तेंद्रं॑ वृ॒धासो॑ अध्व॒रे । अच्छा॑वभृ॒थमोज॑सा ॥
इ॒ष्टाः , होत्राः॑ , अ॒सृ॒क्ष॒त॒ , इंद्रं॑ , वृ॒धासः॑ , अ॒ध्व॒रे । अच्छ॑ , अ॒व॒ऽभृ॒थं , ओज॑सा ॥
इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या । वो॒ळ्हाम॒भि प्रयो॑ हि॒तं ॥
इ॒ह , त्या , स॒ध॒ऽमाद्या॑ , हरी॒ इति॑ , हिर॑ण्यऽकेश्या । वो॒ळ्हां , अ॒भि , प्रयः॑ , हि॒तं ॥
तुभ्यं॒ सोमाः॑ सु॒ता इ॒मे स्ती॒र्णं ब॒र्हिर्वि॑भावसो । स्तो॒तृभ्य॒ इंद्र॒मा व॑ह ॥
तुभ्यं॑ , सोमाः॑ , सु॒ताः , इ॒मे , स्ती॒र्णं , ब॒र्हिः , वि॒भा॒व॒सो॒ इति॑ विभाऽवसो । स्तो॒तृऽभ्यः॑ , इंद्रं॑ , आ , व॒ह॒ ॥
आ ते॒ दक्षं॒ वि रो॑च॒ना दध॒द्रत्ना॒ वि दा॒शुषे॑ । स्तो॒तृभ्य॒ इंद्र॑मर्चत ॥
आ , ते॒ , दक्षं॑ , वि , रो॒च॒ना , द॒ध॒त् , रत्ना॑ , वि , दा॒शुषे॑ । स्तो॒तृऽभ्यः॑ , इंद्रं॑ , अ॒र्च॒त॒ ॥
आ ते॑ दधामींद्रि॒यमु॒क्था विश्वा॑ शतक्रतो । स्तो॒तृभ्य॑ इंद्र मृळय ॥
आ , ते॒ , द॒धा॒मि॒ , इं॒द्रि॒यं , उ॒क्था , विश्वा॑ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । स्तो॒तृऽभ्यः॑ , इं॒द्र॒ , मृ॒ळ॒य॒ ॥
भ॒द्रंभ॑द्रं न॒ आ भ॒रेष॒मूर्जं॑ शतक्रतो । यदिं॑द्र मृ॒ळया॑सि नः ॥
भ॒द्रंऽभ॑द्रं , नः॒ , आ , भ॒र॒ , इषं॑ , ऊर्जं॑ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यत् , इं॒द्र॒ , मृ॒ळया॑सि , नः॒ ॥
स नो॒ विश्वा॒न्या भ॑र सुवि॒तानि॑ शतक्रतो । यदिं॑द्र मृ॒ळया॑सि नः ॥
सः , नः॒ , विश्वा॑नि , आ , भ॒र॒ , सु॒वि॒तानि॑ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यत् , इं॒द्र॒ , मृ॒ळया॑सि , नः॒ ॥
त्वामिद्वृ॑त्रहंतम सु॒तावं॑तो हवामहे । यदिं॑द्र मृ॒ळया॑सि नः ॥
त्वां , इत् , वृ॒त्र॒ह॒न्ऽत॒म॒ , सु॒तऽवं॑तः , ह॒वा॒म॒हे॒ । यत् , इं॒द्र॒ , मृ॒ळया॑सि , नः॒ ॥
उप॑ नो॒ हरि॑भिः सु॒तं या॒हि म॑दानां पते । उप॑ नो॒ हरि॑भिः सु॒तं ॥
उप॑ , नः॒ , हरि॑ऽभिः , सु॒तं , या॒हि , म॒दा॒नां॒ , प॒ते॒ । उप॑ , नः॒ , हरि॑ऽभिः , सु॒तं ॥
द्वि॒ता यो वृ॑त्र॒हंत॑मो वि॒द इंद्रः॑ श॒तक्र॑तुः । उप॑ नो॒ हरि॑भिः सु॒तं ॥
द्वि॒ता , यः , वृ॒त्र॒हन्ऽत॑मः , वि॒दे , इंद्रः॑ , श॒तऽक्र॑तुः । उप॑ , नः॒ , हरि॑ऽभिः , सु॒तं ॥
त्वं हि वृ॑त्रहन्नेषां पा॒ता सोमा॑ना॒मसि॑ । उप॑ नो॒ हरि॑भिः सु॒तं ॥
त्वं , हि , वृ॒त्र॒ऽह॒न् , ए॒षां॒ , पा॒ता , सोमा॑नां , असि॑ । उप॑ , नः॒ , हरि॑ऽभिः , सु॒तं ॥
इंद्र॑ इ॒षे द॑दातु न ऋभु॒क्षण॑मृ॒भुं र॒यिं । वा॒जी द॑दातु वा॒जिनं॑ ॥
इंद्रः॑ , इ॒षे , द॒दा॒तु॒ , नः॒ , ऋ॒भु॒क्षणं॑ , ऋ॒भुं , र॒यिं । वा॒जी , द॒दा॒तु॒ , वा॒जिनं॑ ॥
[९४] गौर्धयतीति द्वादशर्चस्य सूक्तस्यांगिरसोबिंदुर्मरुतोगायत्री (पूतदक्षोवाऋषिः) |
गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोनां॑ । यु॒क्ता वह्नी॒ रथा॑नां ॥
गौः , ध॒य॒ति॒ , म॒रुतां॑ , श्र॒व॒स्युः , मा॒ता , म॒घोनां॑ । यु॒क्ता , वह्निः॑ , रथा॑नां ॥
यस्या॑ दे॒वा उ॒पस्थे॑ व्र॒ता विश्वे॑ धा॒रयं॑ते । सूर्या॒मासा॑ दृ॒शे कं ॥
यस्याः॑ , दे॒वाः , उ॒पऽस्थे॑ , व्र॒ता , विश्वे॑ , धा॒रयं॑ते । सूर्या॒मासा॑ , दृ॒शे , कं ॥
तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणंति का॒रवः॑ । म॒रुतः॒ सोम॑पीतये ॥
तत् , सु , नः॒ , विश्वे॑ , अ॒र्यः , आ , सदा॑ , गृ॒णं॒ति॒ , का॒रवः॑ । म॒रुतः॑ , सोम॑ऽपीतये ॥
अस्ति॒ सोमो॑ अ॒यं सु॒तः पिबं॑त्यस्य म॒रुतः॑ । उ॒त स्व॒राजो॑ अ॒श्विना॑ ॥
अस्ति॑ , सोमः॑ , अ॒यं , सु॒तः , पिबं॑ति , अ॒स्य॒ , म॒रुतः॑ । उ॒त , स्व॒ऽराजः॑ , अ॒श्विना॑ ॥
पिबं॑ति मि॒त्रो अ॑र्य॒मा तना॑ पू॒तस्य॒ वरु॑णः । त्रि॒ष॒ध॒स्थस्य॒ जाव॑तः ॥
पिबं॑ति , मि॒त्रः , अ॒र्य॒मा , तना॑ , पू॒तस्य॑ , वरु॑णः । त्रि॒ऽस॒ध॒स्थस्य॑ , जाऽव॑तः ॥
उ॒तो न्व॑स्य॒ जोष॒माँ इंद्रः॑ सु॒तस्य॒ गोम॑तः । प्रा॒तर्होते॑व मत्सति ॥
उ॒तो इति॑ , नु , अ॒स्य॒ , जोषं॑ , आ , इंद्रः॑ , सु॒तस्य॑ , गोऽम॑तः । प्रा॒तः , होता॑ऽइव , म॒त्स॒ति॒ ॥
कद॑त्विषंत सू॒रय॑स्ति॒र आप॑ इव॒ स्रिधः॑ । अर्षं॑ति पू॒तद॑क्षसः ॥
कत् , अ॒त्वि॒षं॒त॒ , सू॒रयः॑ , ति॒रः , आपः॑ऽइव , स्रिधः॑ । अर्षं॑ति , पू॒तऽद॑क्षसः ॥
कद्वो॑ अ॒द्य म॒हानां॑ दे॒वाना॒मवो॑ वृणे । त्मना॑ च द॒स्मव॑र्चसां ॥
कत् , वः॒ , अ॒द्य , म॒हानां॑ , दे॒वानां॑ , अवः॑ , वृ॒णे॒ । त्मना॑ , च॒ , द॒स्मऽव॑र्चसां ॥
आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ॑न्रोच॒ना दि॒वः । म॒रुतः॒ सोम॑पीतये ॥
आ , ये , विश्वा॑ , पार्थि॑वानि , प॒प्रथ॑न् , रो॒च॒ना , दि॒वः । म॒रुतः॑ , सोम॑ऽपीतये ॥
त्यान्नु पू॒तद॑क्षसो दि॒वो वो॑ मरुतो हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥
त्यान् , नु , पू॒तऽद॑क्षसः , दि॒वः , वः॒ , म॒रु॒तः॒ , हु॒वे॒ । अ॒स्य , सोम॑स्य , पी॒तये॑ ॥
त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥
त्यान् , नु , ये , वि , रोद॑सी॒ इति॑ , त॒स्त॒भुः , म॒रुतः॑ , हु॒वे॒ । अ॒स्य , सोम॑स्य , पी॒तये॑ ॥
त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥
त्यं , नु , मारु॑तं , ग॒णं , गि॒रि॒ऽस्थां , वृष॑णं , हु॒वे॒ । अ॒स्य , सोम॑स्य , पी॒तये॑ ॥
[९५] आत्वागिरइति नवर्चस्य सूक्तस्यांगिरसस्तिरश्चीरिंद्रोनुष्टुप् |
आ त्वा॒ गिरो॑ र॒थीरि॒वास्थुः॑ सु॒तेषु॑ गिर्वणः । अ॒भि त्वा॒ सम॑नूष॒तेंद्र॑ व॒त्सं न मा॒तरः॑ ॥
आ , त्वा॒ , गिरः॑ , र॒थीःऽइ॑व , अस्थुः॑ , सु॒तेषु॑ , गि॒र्व॒णः॒ । अ॒भि , त्वा॒ , सं , अ॒नू॒ष॒त॒ , इंद्र॑ , व॒त्सं , न , मा॒तरः॑ ॥
आ त्वा॑ शु॒क्रा अ॑चुच्यवुः सु॒तास॑ इंद्र गिर्वणः । पिबा॒ त्व१॒॑स्यांध॑स॒ इंद्र॒ विश्वा॑सु ते हि॒तं ॥
आ , त्वा॒ , शु॒क्राः , अ॒चु॒च्य॒वुः॒ , सु॒तासः॑ , इं॒द्र॒ , गि॒र्व॒णः॒ । पिब॑ , तु , अ॒स्य , अंध॑सः , इंद्र॑ , विश्वा॑सु , ते॒ , हि॒तं ॥
पिबा॒ सोमं॒ मदा॑य॒ कमिंद्र॑ श्ये॒नाभृ॑तं सु॒तं । त्वं हि शश्व॑तीनां॒ पती॒ राजा॑ वि॒शामसि॑ ॥
पिब॑ , सोमं॑ , मदा॑य , कं , इंद्र॑ , श्ये॒नऽआ॑भृतं , सु॒तं । त्वं , हि , शश्व॑तीनां , पतिः॑ , राजा॑ , वि॒शां , असि॑ ॥
श्रु॒धी हवं॑ तिर॒श्च्या इंद्र॒ यस्त्वा॑ सप॒र्यति॑ । सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पू॑र्धि म॒हाँ अ॑सि ॥
श्रु॒धि , हवं॑ , ति॒र॒श्च्याः , इंद्र॑ , यः , त्वा॒ , स॒प॒र्यति॑ । सु॒ऽवीर्य॑स्य , गोऽम॑तः , रा॒यः , पू॒र्धि॒ , म॒हान् , अ॒सि॒ ॥
इंद्र॒ यस्ते॒ नवी॑यसीं॒ गिरं॑ मं॒द्रामजी॑जनत् । चि॒कि॒त्विन्म॑नसं॒ धियं॑ प्र॒त्नामृ॒तस्य॑ पि॒प्युषीं॑ ॥
इंद्र॑ , यः , ते॒ , नवी॑यसीं , गिरं॑ , मं॒द्रां , अजी॑जनत् । चि॒कि॒त्वित्ऽम॑नसं , धियं॑ , प्र॒त्नां , ऋ॒तस्य॑ , पि॒प्युषीं॑ ॥
तमु॑ ष्टवाम॒ यं गिर॒ इंद्र॑मु॒क्थानि॑ वावृ॒धुः । पु॒रूण्य॑स्य॒ पौंस्या॒ सिषा॑संतो वनामहे ॥
तं , ऊँ॒ इति॑ , स्त॒वा॒म॒ , यं , गिरः॑ , इंद्रं॑ , उ॒क्थानि॑ , व॒वृ॒धुः । पु॒रूणि॑ , अ॒स्य॒ , पौंस्या॑ , सिसा॑संतः , व॒ना॒म॒हे॒ ॥
एतो॒ न्विंद्रं॒ स्तवा॑म शु॒द्धं शु॒द्धेन॒ साम्ना॑ । शु॒द्धैरु॒क्थैर्वा॑वृ॒ध्वांसं॑ शु॒द्ध आ॒शीर्वा॑न्ममत्तु ॥
एतो॒ इति॑ , नु , इंद्रं॑ , स्तवा॑म , शु॒द्धं , शु॒द्धेन॑ , साम्ना॑ । शु॒द्धैः , उ॒क्थैः , व॒वृ॒ध्वांसं॑ , शु॒द्धः , आ॒शीःऽवा॑न् , म॒म॒त्तु॒ ॥
इंद्र॑ शु॒द्धो न॒ आ ग॑हि शु॒द्धः शु॒द्धाभि॑रू॒तिभिः॑ । शु॒द्धो र॒यिं नि धा॑रय शु॒द्धो म॑मद्धि सो॒म्यः ॥
इंद्र॑ , शु॒द्धः , नः॒ , आ , ग॒हि॒ , शु॒द्धः , शु॒द्धाभिः॑ , ऊ॒तिऽभिः॑ । शु॒द्धः , र॒यिं , नि , धा॒र॒य॒ , शु॒द्धः , म॒म॒द्धि॒ , सो॒म्यः ॥
इंद्र॑ शु॒द्धो हि नो॑ र॒यिं शु॒द्धो रत्ना॑नि दा॒शुषे॑ । शु॒द्धो वृ॒त्राणि॑ जिघ्नसे शु॒द्धो वाजं॑ सिषाससि ॥
इंद्र॑ , शु॒द्धः , हि , नः॒ , र॒यिं , शु॒द्धः , रत्ना॑नि , दा॒शुषे॑ । शु॒द्धः , वृ॒त्राणि॑ , जि॒घ्न॒से॒ , शु॒द्धः , वाजं॑ , सि॒सा॒स॒सि॒ ॥
[९६] अस्माइत्येकविंशत्यृचस्य सूक्तस्यांगिरसस्तिरश्चीरिंद्रश्चतुर्दश्याइंद्रामरुतः पंचदश्याइंद्राबृहस्पतीत्रिष्टुप् चतुर्थीविराट् (द्युतानोवाऋषिः) |
अ॒स्मा उ॒षास॒ आति॑रंत॒ याम॒मिंद्रा॑य॒ नक्त॒मूर्म्याः॑ सु॒वाचः॑ । अ॒स्मा आपो॑ मा॒तरः॑ स॒प्त त॑स्थु॒र्नृभ्य॒स्तरा॑य॒ सिंध॑वः सुपा॒राः ॥
अ॒स्मै , उ॒षसः॑ , आ , अ॒ति॒रं॒त॒ , यामं॑ , इंद्रा॑य , नक्तं॑ , ऊर्म्याः॑ , सु॒ऽवाचः॑ । अ॒स्मै , आपः॑ , मा॒तरः॑ , स॒प्त , त॒स्थुः॒ , नृऽभ्यः॑ , तरा॑य , सिंध॑वः , सु॒ऽपा॒राः ॥
अति॑विद्धा विथु॒रेणा॑ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णां । न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ॥
अति॑ऽविद्धा , वि॒थु॒रेण॑ , चि॒त् , अस्रा॑ , त्रिः , स॒प्त , सानु॑ , संऽहि॑ता , गि॒री॒णां । न , तत् , दे॒वः , न , मर्त्यः॑ , तु॒तु॒र्या॒त् , यानि॑ , प्रऽवृ॑द्धः , वृ॒ष॒भः , च॒कार॑ ॥
इंद्र॑स्य॒ वज्र॑ आय॒सो निमि॑श्ल॒ इंद्र॑स्य बा॒ह्वोर्भूयि॑ष्ठ॒मोजः॑ । शी॒र्षन्निंद्र॑स्य॒ क्रत॑वो निरे॒क आ॒सन्नेषं॑त॒ श्रुत्या॑ उपा॒के ॥
इंद्र॑स्य , वज्रः॑ , आ॒य॒सः , निऽमि॑श्लः , इंद्र॑स्य , बा॒ह्वोः , भूयि॑ष्ठं , ओजः॑ । शी॒र्षन् , इंद्र॑स्य , क्रत॑वः , नि॒रे॒के , आ॒सन् , आ , ई॒षं॒त॒ , श्रुत्यै॑ , उ॒पा॒के ॥
मन्ये॑ त्वा य॒ज्ञियं॑ य॒ज्ञिया॑नां॒ मन्ये॑ त्वा॒ च्यव॑न॒मच्यु॑तानां । मन्ये॑ त्वा॒ सत्व॑नामिंद्र के॒तुं मन्ये॑ त्वा वृष॒भं च॑र्षणी॒नां ॥
मन्ये॑ , त्वा॒ , य॒ज्ञियं॑ , य॒ज्ञिया॑नां , मन्ये॑ , त्वा॒ , च्यव॑नं , अच्यु॑तानां । मन्ये॑ , त्वा॒ , सत्व॑नां , इं॒द्र॒ , के॒तुं , मन्ये॑ , त्वा॒ , वृ॒ष॒भं , च॒र्ष॒णी॒नां ॥
आ यद्वज्रं॑ बा॒ह्वोरिं॑द्र॒ धत्से॑ मद॒च्युत॒मह॑ये॒ हंत॒वा उ॑ । प्र पर्व॑ता॒ अन॑वंत॒ प्र गावः॒ प्र ब्र॒ह्माणो॑ अभि॒नक्षं॑त॒ इंद्रं॑ ॥
आ , यत् , वज्रं॑ , बा॒ह्वोः , इं॒द्र॒ , धत्से॑ , म॒द॒ऽच्युतं॑ , अह॑ये , हंत॒वै , ऊँ॒ इति॑ । प्र , पर्व॑ताः , अन॑वंत , प्र , गावः॑ , प्र , ब्र॒ह्माणः॑ , अ॒भि॒ऽनक्षं॑तः , इंद्रं॑ ॥
तमु॑ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा॑ जा॒तान्यव॑राण्यस्मात् । इंद्रे॑ण मि॒त्रं दि॑धिषेम गी॒र्भिरुपो॒ नमो॑भिर्वृष॒भं वि॑शेम ॥
तं , ऊँ॒ इति॑ , स्त॒वा॒म॒ , यः , इ॒मा , ज॒जान॑ , विश्वा॑ , जा॒तानि॑ , अव॑राणि , अ॒स्मा॒त् । इंद्रे॑ण , मि॒त्रं , दि॒धि॒षे॒म॒ , गीः॒ऽभिः , उपो॒ इति॑ , नमः॑ऽभिः , वृ॒ष॒भं , वि॒शे॒म॒ ॥
वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः । म॒रुद्भि॑रिंद्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वाः॒ पृत॑ना जयासि ॥
वृ॒त्रस्य॑ , त्वा॒ , श्व॒सथा॑त् , ईष॑माणाः , विश्वे॑ , दे॒वाः , अ॒ज॒हुः॒ , ये , सखा॑यः । म॒रुत्ऽभिः॑ , इं॒द्र॒ , स॒ख्यं , ते॒ , अ॒स्तु॒ , अथ॑ , इ॒माः , विश्वाः॑ , पृत॑नाः , ज॒या॒सि॒ ॥
त्रिः ष॒ष्टिस्त्वा॑ म॒रुतो॑ वावृधा॒ना उ॒स्रा इ॑व रा॒शयो॑ य॒ज्ञिया॑सः । उप॒ त्वेमः॑ कृ॒धि नो॑ भाग॒धेयं॒ शुष्मं॑ त ए॒ना ह॒विषा॑ विधेम ॥
त्रिः , ष॒ष्टिः , त्वा॒ , म॒रुतः॑ , व॒वृ॒धा॒नाः , उ॒स्राःऽइ॑व , रा॒शयः॑ , य॒ज्ञिया॑सः । उप॑ , त्वा॒ , आ , इ॒मः॒ , कृ॒धि , नः॒ , भा॒ग॒ऽधेयं॑ , शुष्मं॑ , ते॒ , ए॒ना , ह॒विषा॑ , वि॒धे॒म॒ ॥
ति॒ग्ममायु॑धं म॒रुता॒मनी॑कं॒ कस्त॑ इंद्र॒ प्रति॒ वज्रं॑ दधर्ष । अ॒ना॒यु॒धासो॒ असु॑रा अदे॒वाश्च॒क्रेण॒ ताँ अप॑ वप ऋजीषिन् ॥
ति॒ग्मं , आयु॑धं , म॒रुतां॑ , अनी॑कं , कः , ते॒ , इं॒द्र॒ , प्रति॑ , वज्रं॑ , द॒ध॒र्ष॒ । अ॒ना॒यु॒धासः॑ , असु॑राः , अ॒दे॒वाः , च॒क्रेण॑ , तान् , अप॑ , व॒प॒ , ऋ॒जी॒षि॒न् ॥
म॒ह उ॒ग्राय॑ त॒वसे॑ सुवृ॒क्तिं प्रेर॑य शि॒वत॑माय प॒श्वः । गिर्वा॑हसे॒ गिर॒ इंद्रा॑य पू॒र्वीर्धे॒हि त॒न्वे॑ कु॒विदं॒ग वेद॑त् ॥
म॒हे , उ॒ग्राय॑ , त॒वसे॑ , सु॒ऽवृ॒क्तिं , प्र , ई॒र॒य॒ , शि॒वऽत॑माय , प॒श्वः । गिर्वा॑हसे , गिरः॑ , इंद्रा॑य , पू॒र्वीः , धे॒हि , त॒न्वे॑ , कु॒वित् , अं॒ग , वेद॑त् ॥
उ॒क्थवा॑हसे वि॒भ्वे॑ मनी॒षां द्रुणा॒ न पा॒रमी॑रया न॒दीनां॑ । नि स्पृ॑श धि॒या त॒न्वि॑ श्रु॒तस्य॒ जुष्ट॑तरस्य कु॒विदं॒ग वेद॑त् ॥
उ॒क्थऽवा॑हसे , वि॒ऽभ्वे॑ , म॒नी॒षां , द्रुणा॑ , न , पा॒रं , ई॒र॒य॒ , न॒दीनां॑ । नि , स्पृ॒श॒ , धि॒या , त॒न्वि॑ , श्रु॒तस्य॑ , जुष्ट॑ऽतरस्य , कु॒वित् , अं॒ग , वेद॑त् ॥
तद्वि॑विड्ढि॒ यत्त॒ इंद्रो॒ जुजो॑षत्स्तु॒हि सु॑ष्टु॒तिं नम॒सा वि॑वास । उप॑ भूष जरित॒र्मा रु॑वण्यः श्रा॒वया॒ वाचं॑ कु॒विदं॒ग वेद॑त् ॥
तत् , वि॒वि॒ड्ढि॒ , यत् , ते॒ , इंद्रः॑ , जुजो॑षत् , स्तु॒हि , सु॒ऽस्तु॒तिं , नम॑सा , आ , वि॒वा॒स॒ । उप॑ , भू॒ष॒ , ज॒रि॒तः॒ , मा , रु॒व॒ण्यः॒ , श्र॒वय॑ , वाचं॑ , कु॒वित् , अं॒ग , वेद॑त् ॥
अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः॑ । आव॒त्तमिंद्रः॒ शच्या॒ धमं॑त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ॥
अव॑ , द्र॒प्सः , अं॒शु॒ऽमतीं॑ , अ॒ति॒ष्ठ॒त् , इ॒या॒नः , कृ॒ष्णः , द॒शऽभिः॑ , स॒हस्रैः॑ । आव॑त् , तं , इंद्रः॑ , शच्या॑ , धमं॑तं , अप॑ , स्नेहि॑तीः , नृ॒ऽमनाः॑ , अ॒ध॒त्त॒ ॥
द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चरं॑तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्याः॑ । नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥
द्र॒प्सं , अ॒प॒श्यं॒ , विषु॑णे , चरं॑तं , उ॒प॒ऽह्व॒रे , न॒द्यः॑ , अं॒शु॒ऽमत्याः॑ । नभः॑ , न , कृ॒ष्णं , अ॒व॒त॒स्थि॒ऽवांसं॑ , इष्या॑मि , वः॒ , वृ॒ष॒णः॒ , युध्य॑त , आ॒जौ ॥
अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः । विशो॒ अदे॑वीर॒भ्या॒३॒॑चरं॑ती॒र्बृह॒स्पति॑ना यु॒जेंद्रः॑ ससाहे ॥
अध॑ , द्र॒प्सः , अं॒शु॒ऽमत्याः॑ , उ॒पऽस्थे॑ , अधा॑रयत् , त॒न्वं॑ , ति॒त्वि॒षा॒णः । विशः॑ , अदे॑वीः , अ॒भि , आ॒ऽचरं॑तीः , बृह॒स्पति॑ना , यु॒जा , इंद्रः॑ , स॒स॒हे॒ ॥
त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभवः॒ शत्रु॑रिंद्र । गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विंदो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥
त्वं , ह॒ , त्यत् , स॒प्तऽभ्यः॑ , जाय॑मानः , अ॒श॒त्रुऽभ्यः॑ , अ॒भ॒वः॒ , शत्रुः॑ , इं॒द्र॒ । गू॒ळ्हे इति॑ , द्यावा॑पृथि॒वी इति॑ , अनु॑ , अ॒विं॒दः॒ , वि॒भु॒मत्ऽभ्यः॑ , भुव॑नेभ्यः , रणं॑ , धाः॒ ॥
त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिंधृषि॒तो ज॑घंथ । त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इं॑द्र॒ शच्येद॑विंदः ॥
त्वं , ह॒ , त्यत् , अ॒प्र॒ति॒ऽमा॒नं , ओजः॑ , वज्रे॑ण , व॒ज्रि॒न् , धृ॒षि॒तः , ज॒घं॒थ॒ । त्वं , शुष्ण॑स्य , अव॑ , अ॒ति॒रः॒ , वध॑त्रैः , त्वं , गाः , इं॒द्र॒ , शच्या॑ , इत् , अ॒विं॒दः॒ ॥
त्वं ह॒ त्यद्वृ॑षभ चर्षणी॒नां घ॒नो वृ॒त्राणां॑ तवि॒षो ब॑भूथ । त्वं सिंधूँ॑रसृजस्तस्तभा॒नांत्वम॒पो अ॑जयो दा॒सप॑त्नीः ॥
त्वं , ह॒ , त्यत् , वृ॒ष॒भ॒ , च॒र्ष॒णी॒नां , घ॒नः , वृ॒त्राणां॑ , त॒वि॒षः , ब॒भू॒थ॒ । त्वं , सिंधू॑न् , अ॒सृ॒जः॒ , त॒स्त॒भा॒नान् , त्वं , अ॒पः , अ॒ज॒यः॒ , दा॒सऽप॑त्नीः ॥
स सु॒क्रतू॒ रणि॑ता॒ यः सु॒तेष्वनु॑त्तमन्यु॒र्यो अहे॑व रे॒वान् । य एक॒ इन्नर्यपां॑सि॒ कर्ता॒ स वृ॑त्र॒हा प्रतीद॒न्यमा॑हुः ॥
सः , सु॒ऽक्रतुः॑ , रणि॑ता , यः , सु॒तेषु॑ , अनु॑त्तऽमन्युः , यः , अहा॑ऽइव , रे॒वान् । यः , एकः॑ , इत् , नरि॑ , अपां॑सि , कर्ता॑ , सः , वृ॒त्र॒ऽहा , प्रति॑ , इत् , अ॒न्यं , आ॒हुः॒ ॥
स वृ॑त्र॒हेंद्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं॑ हुवेम । स प्रा॑वि॒ता म॒घवा॑ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ॥
सः , वृ॒त्र॒ऽहा , इंद्रः॑ , च॒र्ष॒णि॒ऽधृत् , तं , सु॒ऽस्तु॒त्या , हव्यं॑ , हु॒वे॒म॒ । सः , प्र॒ऽअ॒वि॒ता , म॒घऽवा॑ , नः॒ , अ॒धि॒ऽव॒क्ता , सः , वाज॑स्य , श्र॒व॒स्य॑स्य , दा॒ता ॥
स वृ॑त्र॒हेंद्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो॑ बभूव । कृ॒ण्वन्नपां॑सि॒ नर्या॑ पु॒रूणि॒ सोमो॒ न पी॒तो हव्यः॒ सखि॑भ्यः ॥
सः , वृ॒त्र॒ऽहा , इंद्रः॑ , ऋ॒भु॒क्षाः , स॒द्यः , ज॒ज्ञा॒नः , हव्यः॑ , ब॒भू॒व॒ । कृ॒ण्वन् , अपां॑सि , नर्या॑ , पु॒रूणि॑ , सोमः॑ , न , पी॒तः , हव्यः॑ , सखि॑ऽभ्यः ॥
[९७] याइंद्रेति पंचदशर्चस्य सूक्तस्य काश्यपोरेभइंद्रो बृहती दशम्याद्याः क्रमेणातिजगत्युपरिष्टाद्बृहत्योजगतीत्रिष्टुप्जगत्यः |
या इं॑द्र॒ भुज॒ आभ॑रः॒ स्व॑र्वाँ॒ असु॑रेभ्यः । स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥
याः , इं॒द्र॒ , भुजः॑ , आ , अभ॑रः , स्वः॑ऽवान् , असु॑रेभ्यः । स्तो॒तारं॑ , इत् , म॒घ॒ऽव॒न् , अ॒स्य॒ , व॒र्ध॒य॒ , ये , च॒ , त्वे इति॑ , वृ॒क्तऽब॑र्हिषः ॥
यमिं॑द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यं । यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मिं॒तं धे॑हि॒ मा प॒णौ ॥
यं , इं॒द्र॒ , द॒धि॒षे , त्वं , अश्वं॑ , गां , भा॒गं , अव्य॑यं । यज॑माने , सु॒न्व॒ति , दक्षि॑णाऽवति , तस्मि॑न् , तं , धे॒हि॒ , मा , प॒णौ ॥
य इं॑द्र॒ सस्त्य॑व्र॒तो॑ऽनु॒ष्वाप॒मदे॑वयुः । स्वैः ष एवै॑र्मुमुर॒त्पोष्यं॑ र॒यिं स॑नु॒तर्धे॑हि॒ तं ततः॑ ॥
यः , इं॒द्र॒ , सस्ति॑ , अ॒व्र॒तः , अ॒नु॒ऽस्वापं॑ , अदे॑वऽयुः । स्वैः , सः , एवैः॑ , मु॒मु॒र॒त् , पोष्यं॑ , र॒यिं , स॒नु॒तः , धे॒हि॒ , तं , ततः॑ ॥
यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् । अत॑स्त्वा गी॒र्भिर्द्यु॒गदिं॑द्र के॒शिभिः॑ सु॒तावाँ॒ आ वि॑वासति ॥
यत् , श॒क्र॒ , असि॑ , प॒रा॒ऽवति॑ , यत् , अ॒र्वा॒ऽवति॑ , वृ॒त्र॒ऽह॒न् । अतः॑ , त्वा॒ , गीः॒ऽभिः , द्यु॒ऽगत् , इं॒द्र॒ , के॒शिऽभिः॑ , सु॒तऽवा॑न् , आ , वि॒वा॒स॒ति॒ ॥
यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टपि॑ । यत्पार्थि॑वे॒ सद॑ने वृत्रहंतम॒ यदं॒तरि॑क्ष॒ आ ग॑हि ॥
यत् , वा॒ , असि॑ , रो॒च॒ने , दि॒वः , स॒मु॒द्रस्य॑ , अधि॑ , वि॒ष्टपि॑ । यत् , पार्थि॑वे , सद॑ने , वृ॒त्र॒ह॒न्ऽत॒म॒ , यत् , अं॒तरि॑क्षे , आ , ग॒हि॒ ॥
स नः॒ सोमे॑षु सोमपाः सु॒तेषु॑ शवसस्पते । मा॒दय॑स्व॒ राध॑सा सू॒नृता॑व॒तेंद्र॑ रा॒या परी॑णसा ॥
सः , नः॒ , सोमे॑षु , सो॒म॒ऽपाः॒ , सु॒तेषु॑ , श॒व॒सः॒ , प॒ते॒ । मा॒दय॑स्व , राध॑सा , सू॒नृता॑ऽवता , इंद्र॑ , रा॒या , परी॑णसा ॥
मा न॑ इंद्र॒ परा॑ वृण॒ग्भवा॑ नः सध॒माद्यः॑ । त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इंद्र॒ परा॑ वृणक् ॥
मा , नः॒ , इं॒द्र॒ , परा॑ , वृ॒ण॒क् , भव॑ , नः॒ , स॒ध॒ऽमाद्यः॑ । त्वं , नः॒ , ऊ॒ती , त्वं , इत् , नः॒ , आप्यं॑ , मा , नः॒ , इं॒द्र॒ , परा॑ , वृ॒ण॒क् ॥
अ॒स्मे इं॑द्र॒ सचा॑ सु॒ते नि ष॑दा पी॒तये॒ मधु॑ । कृ॒धी ज॑रि॒त्रे म॑घव॒न्नवो॑ म॒हद॒स्मे इं॑द्र॒ सचा॑ सु॒ते ॥
अ॒स्मे इति॑ , इं॒द्र॒ , सचा॑ , सु॒ते , नि , स॒द॒ , पी॒तये॑ , मधु॑ । कृ॒धि , ज॒रि॒त्रे , म॒घ॒ऽव॒न् , अवः॑ , म॒हत् , अ॒स्मे इति॑ , इं॒द्र॒ , सचा॑ , सु॒ते ॥
न त्वा॑ दे॒वास॑ आशत॒ न मर्त्या॑सो अद्रिवः । विश्वा॑ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा॑ दे॒वास॑ आशत ॥
न , त्वा॒ , दे॒वासः॑ , आ॒श॒त॒ , न , मर्त्या॑सः , अ॒द्रि॒ऽवः॒ । विश्वा॑ , जा॒तानि॑ , शव॑सा , अ॒भि॒ऽभूः , अ॒सि॒ , न , त्वा॒ , दे॒वासः॑ , आ॒श॒त॒ ॥
विश्वाः॒ पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिंद्रं॑ जज॒नुश्च॑ रा॒जसे॑ । क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विनं॑ ॥
विश्वाः॑ , पृत॑नाः , अ॒भि॒ऽभूत॑रं , नरं॑ , स॒ऽजूः , त॒त॒क्षुः॒ , इंद्रं॑ , ज॒ज॒नुः , च॒ , रा॒जसे॑ । क्रत्वा॑ , वरि॑ष्ठं , वरे॑ , आ॒ऽमुरिं॑ , उ॒त , उ॒ग्रं , ओजि॑ष्ठं , त॒वसं॑ , त॒र॒स्विनं॑ ॥
समीं॑ रे॒भासो॑ अस्वर॒न्निंद्रं॒ सोम॑स्य पी॒तये॑ । स्व॑र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ॥
सं , ईं॒ , रे॒भासः॑ , अ॒स्व॒र॒न् , इंद्रं॑ , सोम॑स्य , पी॒तये॑ । स्वः॑ऽपतिं , यत् , ईं॒ , वृ॒धे , धृ॒तऽव्र॑तः , हि , ओज॑सा , सं , ऊ॒तिऽभिः॑ ॥
ने॒मिं न॑मंति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑ । सु॒दी॒तयो॑ वो अ॒द्रुहोऽपि॒ कर्णे॑ तर॒स्विनः॒ समृक्व॑भिः ॥
ने॒मिं , न॒मं॒ति॒ , चक्ष॑सा , मे॒षं , विप्राः॑ , अ॒भि॒ऽस्वरा॑ । सु॒ऽदी॒तयः॑ , वः॒ , अ॒द्रुहः॑ , अपि॑ , कर्णे॑ , त॒र॒स्विनः॑ , सं , ऋक्व॑ऽभिः ॥
तमिंद्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि । मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥
तं , इंद्रं॑ , जो॒ह॒वी॒मि॒ , म॒घऽवा॑नं , उ॒ग्रं , स॒त्रा , दधा॑नं , अप्र॑तिऽस्कुतं , शवां॑सि । मंहि॑ष्ठः , गीः॒ऽभिः , आ , च॒ , य॒ज्ञियः॑ , व॒वर्त॑त् , रा॒ये , नः॒ , विश्वा॑ , सु॒ऽपथा॑ , कृ॒णो॒तु॒ , व॒ज्री ॥
त्वं पुर॑ इंद्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ । त्वद्विश्वा॑नि॒ भुव॑नानि वज्रिं॒द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥
त्वं , पुरः॑ , इं॒द्र॒ , चि॒कित् , ए॒नाः॒ , वि , ओज॑सा , श॒वि॒ष्ठ॒ , श॒क्र॒ , ना॒श॒यध्यै॑ । त्वत् , विश्वा॑नि , भुव॑नानि , व॒ज्रि॒न् , द्यावा॑ , रे॒जे॒ते॒ इति॑ , पृ॒थि॒वी इति॑ , च॒ , भी॒षा ॥
तन्म॑ ऋ॒तमिं॑द्र शूर चित्र पात्व॒पो न व॑ज्रिंदुरि॒ताति॑ पर्षि॒ भूरि॑ । क॒दा न॑ इंद्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥
तत् , मा॒ , ऋ॒तं , इं॒द्र॒ , शू॒र॒ , चि॒त्र॒ , पा॒तु॒ , अ॒पः , न , व॒ज्रि॒न् , दुः॒ऽइ॒ता , अति॑ , प॒र्षि॒ , भूरि॑ । क॒दा , नः॒ , इं॒द्र॒ , रा॒यः , आ , द॒श॒स्येः॒ , वि॒श्वऽप्स्न्य॑स्य , स्पृ॒ह॒याय्य॑स्य , रा॒ज॒न् ॥
[९८] इंद्रायसामेति द्वादशर्चस्यसूक्तस्यांगिरसोनृमेधइंद्र उष्णिक् सप्तमीदशम्येकादश्यः ककुभो नवम्यंत्येपुरउष्णिहौ |
इंद्रा॑य॒ साम॑ गायत॒ विप्रा॑य बृह॒ते बृ॒हत् । ध॒र्म॒कृते॑ विप॒श्चिते॑ पन॒स्यवे॑ ॥
इंद्रा॑य , साम॑ , गा॒य॒त॒ , विप्रा॑य , बृ॒ह॒ते , बृ॒हत् । ध॒र्म॒ऽकृते॑ , वि॒पः॒ऽचिते॑ , प॒न॒स्यवे॑ ॥
त्वमिं॑द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः । वि॒श्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ॥
त्वं , इं॒द्र॒ , अ॒भि॒ऽभूः , अ॒सि॒ , त्वं , सूर्यं॑ , अ॒रो॒च॒यः॒ । वि॒श्वऽक॑र्मा , वि॒श्वऽदे॑वः , म॒हान् , अ॒सि॒ ॥
वि॒भ्राजं॒ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः । दे॒वास्त॑ इंद्र स॒ख्याय॑ येमिरे ॥
वि॒ऽभ्राज॑न् , ज्योति॑षा , स्वः॑ , अग॑च्छः , रो॒च॒नं , दि॒वः । दे॒वाः , ते॒ , इं॒द्र॒ , स॒ख्याय॑ , ये॒मि॒रे॒ ॥
एंद्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः । गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ॥
आ , इं॒द्र॒ , नः॒ , ग॒धि॒ , प्रि॒यः , स॒त्रा॒ऽजित् , अगो॑ह्यः । गि॒रिः , न , वि॒श्वतः॑ , पृ॒थुः , पतिः॑ , दि॒वः ॥
अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी । इंद्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥
अ॒भि , हि , स॒त्य॒ , सो॒म॒ऽपाः॒ , उ॒भे इति॑ , ब॒भूथ॑ , रोद॑सी॒ इति॑ । इंद्र॑ , असि॑ , सु॒न्व॒तः , वृ॒धः , पतिः॑ , दि॒वः ॥
त्वं हि शश्व॑तीना॒मिंद्र॑ द॒र्ता पु॒रामसि॑ । हं॒ता दस्यो॒र्मनो॑र्वृ॒धः पति॑र्दि॒वः ॥
त्वं , हि , शश्व॑तीनां , इंद्र॑ , द॒र्ता , पु॒रां , असि॑ । हं॒ता , दस्योः॑ , मनोः॑ , वृ॒धः , पतिः॑ , दि॒वः ॥
अधा॒ हीं॑द्र गिर्वण॒ उप॑ त्वा॒ कामा॑न्म॒हः स॑सृ॒ज्महे॑ । उ॒देव॒ यंत॑ उ॒दभिः॑ ॥
अध॑ , हि , इं॒द्र॒ , गि॒र्व॒णः॒ , उप॑ , त्वा॒ , कामा॑न् , म॒हः , स॒सृ॒ज्महे॑ । उ॒दाऽइ॑व , यंतः॑ , उ॒दऽभिः॑ ॥
वार्ण त्वा॑ य॒व्याभि॒र्वर्धं॑ति शूर॒ ब्रह्मा॑णि । वा॒वृ॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ॥
वाः , न , त्वा॒ , य॒व्याभिः॑ , वर्धं॑ति , शू॒र॒ , ब्रह्मा॑णि । व॒वृ॒ध्वांसं॑ , चि॒त् , अ॒द्रि॒ऽवः॒ , दि॒वेऽदि॑वे ॥
युं॒जंति॒ हरी॑ इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे । इं॒द्र॒वाहा॑ वचो॒युजा॑ ॥
युं॒जंति॑ , हरी॒ इति॑ , इ॒षि॒रस्य॑ , गाथ॑या , उ॒रौ , रथे॑ , उ॒रुऽयु॑गे । इं॒द्र॒ऽवाहा॑ , व॒चः॒ऽयुजा॑ ॥
त्वं न॑ इं॒द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे । आ वी॒रं पृ॑तना॒षहं॑ ॥
त्वं , नः॒ , इं॒द्र॒ , आ , भ॒र॒ , ओजः॑ , नृ॒म्णं , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , वि॒ऽच॒र्ष॒णे॒ । आ , वी॒रं , पृ॒त॒ना॒ऽसहं॑ ॥
त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ । अधा॑ ते सु॒म्नमी॑महे ॥
त्वं , हि , नः॒ , पि॒ता , व॒सो॒ इति॑ , त्वं , मा॒ता , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , ब॒भूवि॑थ । अध॑ , ते॒ , सु॒म्नं , ई॒म॒हे॒ ॥
त्वां शु॑ष्मिन्पुरुहूत वाज॒यंत॒मुप॑ ब्रुवे शतक्रतो । स नो॑ रास्व सु॒वीर्यं॑ ॥
त्वां , शु॒ष्मि॒न् , पु॒रु॒ऽहू॒त॒ , वा॒ज॒ऽयंतं॑ , उप॑ , ब्रु॒वे॒ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । सः , नः॒ , रा॒स्व॒ , सु॒ऽवीर्यं॑ ॥
[९९] त्वामिदेत्यष्टर्चस्य सूक्तस्यांगिरसोनृमेधइंद्रः अयुजोबृहत्योयुजः सतोबृहत्यः |
त्वामि॒दा ह्यो नरोऽपी॑प्यन्वज्रि॒न्भूर्ण॑यः । स इं॑द्र॒ स्तोम॑वाहसामि॒ह श्रु॒ध्युप॒ स्वस॑र॒मा ग॑हि ॥
त्वां , इ॒दा , ह्यः , नरः॑ , अपी॑प्यन् , व॒ज्रि॒न् , भूर्ण॑यः । सः , इं॒द्र॒ , स्तोम॑ऽवाहसां , इ॒ह , श्रु॒धि॒ , उप॑ , स्वस॑रं , आ , ग॒हि॒ ॥
मत्स्वा॑ सुशिप्र हरिव॒स्तदी॑महे॒ त्वे आ भू॑षंति वे॒धसः॑ । तव॒ श्रवां॑स्युप॒मान्यु॒क्थ्या॑ सु॒तेष्विं॑द्र गिर्वणः ॥
मत्स्व॑ , सु॒ऽशि॒प्र॒ , ह॒रि॒ऽवः॒ , तत् , ई॒म॒हे॒ , त्वे इति॑ , आ , भू॒षं॒ति॒ , वे॒धसः॑ । तव॑ , श्रवां॑सि , उ॒प॒ऽमानि॑ , उ॒क्थ्या॑ , सु॒तेषु॑ , इं॒द्र॒ , गि॒र्व॒णः॒ ॥
श्रायं॑त इव॒ सूर्यं॒ विश्वेदिंद्र॑स्य भक्षत । वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥
श्रायं॑तःऽइव , सूर्यं॑ , विश्वा॑ , इत् , इंद्र॑स्य , भ॒क्ष॒त॒ । वसू॑नि , जा॒ते , जन॑माने , ओज॑सा , प्रति॑ , भा॒गं , न , दी॒धि॒म॒ ॥
अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इंद्र॑स्य रा॒तयः॑ । सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ॥
अन॑र्शऽरातिं , व॒सु॒ऽदां , उप॑ , स्तु॒हि॒ , भ॒द्राः , इंद्र॑स्य , रा॒तयः॑ । सः , अ॒स्य॒ , कामं॑ , वि॒ध॒तः , न , रो॒ष॒ति॒ , मनः॑ , दा॒नाय॑ , चो॒दय॑न् ॥
त्वमिं॑द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृधः॑ । अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥
त्वं , इं॒द्र॒ , प्रऽतू॑र्तिषु , अ॒भि , विश्वाः॑ , अ॒सि॒ , स्पृधः॑ । अ॒श॒स्ति॒ऽहा , ज॒नि॒ता , वि॒श्व॒ऽतूः , अ॒सि॒ , त्वं , तू॒र्य॒ , त॒रु॒ष्य॒तः ॥
अनु॑ ते॒ शुष्मं॑ तु॒रयं॑तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ । विश्वा॑स्ते॒ स्पृधः॑ श्नथयंत म॒न्यवे॑ वृ॒त्रं यदिं॑द्र॒ तूर्व॑सि ॥
अनु॑ , ते॒ , शुष्मं॑ , तु॒रयं॑तं , ई॒य॒तुः॒ , क्षो॒णी इति॑ , शिशुं॑ , न , मा॒तरा॑ । विश्वाः॑ , ते॒ , स्पृधः॑ , श्न॒थ॒यं॒त॒ , म॒न्यवे॑ , वृ॒त्रं , यत् , इं॒द्र॒ , तूर्व॑सि ॥
इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितं । आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वृधं॑ ॥
इ॒तः , ऊ॒ती , वः॒ , अ॒जरं॑ , प्र॒ऽहे॒तारं॑ , अप्र॑ऽहितं । आ॒शुं , जेता॑रं , हेता॑रं , र॒थिऽत॑मं , अतू॑र्तं , तु॒ग्र्य॒ऽवृधं॑ ॥
इ॒ष्क॒र्तार॒मनि॑ष्कृतं॒ सह॑स्कृतं श॒तमू॑तिं श॒तक्र॑तुं । स॒मा॒नमिंद्र॒मव॑से हवामहे॒ वस॑वानं वसू॒जुवं॑ ॥
इ॒ष्क॒र्तारं॑ , अनिः॑ऽकृतं , सहः॑ऽकृतं , श॒तंऽऊ॑तिं , श॒तऽक्र॑तुं । स॒मा॒नं , इंद्रं॑ , अव॑से , ह॒वा॒म॒हे॒ , वस॑वानं , व॒सु॒ऽजुवं॑ ॥
[१००] अयंतइति द्वादशर्चस्य सूक्तस्य भार्गवोनेमऋषिः अयंतइतिद्वयोरिंद्रऋषिः इंद्रोदेवतामनोजवाइत्यस्याः सुपर्णोदेवता समुद्रेइत्यस्यावज्रं यद्वाग्वदंती तिद्वयोर्वाग्देवतात्रिष्टुप् षष्ठीजगती सप्तम्याद्यास्तिस्रोनुष्टुभः |
अ॒यं त॑ एमि त॒न्वा॑ पु॒रस्ता॒द्विश्वे॑ दे॒वा अ॒भि मा॑ यंति प॒श्चात् । य॒दा मह्यं॒ दीध॑रो भा॒गमिं॒द्रादिन्मया॑ कृणवो वी॒र्या॑णि ॥
अ॒यं , ते॒ , ए॒मि॒ , त॒न्वा॑ , पु॒रस्ता॑त् , विश्वे॑ , दे॒वाः , अ॒भि , मा॒ , यं॒ति॒ , प॒श्चात् । य॒दा , मह्यं॑ , दीध॑रः , भा॒गं , इं॒द्र॒ , आत् , इत् , मया॑ , कृ॒ण॒वः॒ , वी॒र्या॑णि ॥
दधा॑मि ते॒ मधु॑नो भ॒क्षमग्रे॑ हि॒तस्ते॑ भा॒गः सु॒तो अ॑स्तु॒ सोमः॑ । अस॑श्च॒ त्वं द॑क्षिण॒तः सखा॒ मेऽधा॑ वृ॒त्राणि॑ जंघनाव॒ भूरि॑ ॥
दधा॑मि , ते॒ , मधु॑नः , भ॒क्षं , अग्रे॑ , हि॒तः , ते॒ , भा॒गः , सु॒तः , अ॒स्तु॒ , सोमः॑ । असः॑ , च॒ , त्वं , द॒क्षि॒ण॒तः , सखा॑ , मे॒ , अध॑ , वृ॒त्राणि॑ , जं॒घ॒ना॒व॒ , भूरि॑ ॥
प्र सु स्तोमं॑ भरत वाज॒यंत॒ इंद्रा॑य स॒त्यं यदि॑ स॒त्यमस्ति॑ । नेंद्रो॑ अ॒स्तीति॒ नेम॑ उ त्व आह॒ क ईं॑ ददर्श॒ कम॒भि ष्ट॑वाम ॥
प्र , सु , स्तोमं॑ , भ॒र॒त॒ , वा॒ज॒ऽयंतः॑ , इंद्रा॑य , स॒त्यं , यदि॑ , स॒त्यं , अस्ति॑ । न , इंद्रः॑ , अ॒स्ति॒ , इति॑ , नेमः॑ , ऊँ॒ इति॑ , त्वः॒ , आ॒ह॒ , कः , ईं॒ , द॒द॒र्श॒ , कं , अ॒भि , स्त॒वा॒म॒ ॥
अ॒यम॑स्मि जरितः॒ पश्य॑ मे॒ह विश्वा॑ जा॒तान्य॒भ्य॑स्मि म॒ह्ना । ऋ॒तस्य॑ मा प्र॒दिशो॑ वर्धयंत्यादर्दि॒रो भुव॑ना दर्दरीमि ॥
अ॒यं , अ॒स्मि॒ , ज॒रि॒त॒रिति॑ , पश्य॑ , मा॒ , इ॒ह , विश्वा॑ , जा॒तानि॑ , अ॒भि , अ॒स्मि॒ , म॒ह्ना । ऋ॒तस्य॑ , मा॒ , प्र॒ऽदिशः॑ , व॒र्ध॒यं॒ति॒ , आ॒ऽद॒र्दि॒रः , भुव॑ना , द॒र्द॒री॒मि॒ ॥
आ यन्मा॑ वे॒ना अरु॑हन्नृ॒तस्यँ॒ एक॒मासी॑नं हर्य॒तस्य॑ पृ॒ष्ठे । मन॑श्चिन्मे हृ॒द आ प्रत्य॑वोच॒दचि॑क्रदं॒छिशु॑मंतः॒ सखा॑यः ॥
आ , यत् , मा॒ , वे॒नाः , अरु॑हन् , ऋ॒तस्य॑ , एकं॑ , आसी॑नं , ह॒र्य॒तस्य॑ , पृ॒ष्ठे । मनः॑ , चि॒त् , मे॒ , हृ॒दे , आ , प्रति॑ , अ॒वो॒च॒त् , अचि॑क्रदन् , शिशु॑ऽमंतः , सखा॑यः ॥
विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॒ या च॒कर्थ॑ मघवन्निंद्र सुन्व॒ते । पारा॑वतं॒ यत्पु॑रुसंभृ॒तं वस्व॒पावृ॑णोः शर॒भाय॒ ऋषि॑बंधवे ॥
विश्वा॑ , इत् , ता , ते॒ , सव॑नेषु , प्र॒ऽवाच्या॑ , या , च॒कर्थ॑ , म॒घ॒ऽव॒न् , इं॒द्र॒ , सु॒न्व॒ते । पारा॑वतं , यत् , पु॒रु॒ऽसं॒भृ॒तं , वसु॑ , अ॒प॒ऽअवृ॑णोः , श॒र॒भाय॑ , ऋषि॑ऽबंधवे ॥
प्र नू॒नं धा॑वता॒ पृथ॒ङ्नेह यो वो॒ अवा॑वरीत् । नि षीं॑ वृ॒त्रस्य॒ मर्म॑णि॒ वज्र॒मिंद्रो॑ अपीपतत् ॥
प्र , नू॒नं , धा॒व॒त॒ , पृथ॑क् , न , इ॒ह , यः , वः॒ , अवा॑वरीत् । नि , सीं॒ , वृ॒त्रस्य॑ , मर्म॑णि , वज्रं॑ , इंद्रः॑ , अ॒पी॒प॒त॒त् ॥
मनो॑जवा॒ अय॑मान आय॒सीम॑तर॒त्पुरं॑ । दिवं॑ सुप॒र्णो ग॒त्वाय॒ सोमं॑ व॒ज्रिण॒ आभ॑रत् ॥
मनः॑ऽजवाः , अय॑मानः , आ॒य॒सीं , अ॒त॒र॒त् , पुरं॑ । दिवं॑ , सु॒ऽप॒र्णः , ग॒त्वाय॑ , सोमं॑ , व॒ज्रिणे॑ , आ , अ॒भ॒र॒त् ॥
स॒मु॒द्रे अं॒तः श॑यत उ॒द्ना वज्रो॑ अ॒भीवृ॑तः । भरं॑त्यस्मै सं॒यतः॑ पु॒रःप्र॑स्रवणा ब॒लिं ॥
स॒मु॒द्रे , अं॒तरिति॑ , श॒य॒ते॒ , उ॒द्ना , वज्रः॑ , अ॒भिऽवृ॑तः । भरं॑ति , अ॒स्मै॒ , सं॒ऽयतः॑ , पु॒रःऽप्र॑स्रवणाः , ब॒लिं ॥
यद्वाग्वदं॑त्यविचेत॒नानि॒ राष्ट्री॑ दे॒वानां॑ निष॒साद॑ मं॒द्रा । चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयां॑सि॒ क्व॑ स्विदस्याः पर॒मं ज॑गाम ॥
यत् , वाक् , वदं॑ती , अ॒वि॒ऽचे॒त॒नानि॑ , राष्ट्री॑ , दे॒वानां॑ , नि॒ऽस॒साद॑ , मं॒द्रा । चत॑स्रः , ऊर्जं॑ , दु॒दु॒हे॒ , पयां॑सि , क्व॑ , स्वि॒त् , अ॒स्याः॒ , प॒र॒मं , ज॒गा॒म॒ ॥
दे॒वीं वाच॑मजनयंत दे॒वास्तां वि॒श्वरू॑पाः प॒शवो॑ वदंति । सा नो॑ मं॒द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥
दे॒वीं , वाचं॑ , अ॒ज॒न॒यं॒त॒ , दे॒वाः , तां , वि॒श्वऽरू॑पाः , प॒शवः॑ , व॒दं॒ति॒ । सा , नः॒ , मं॒द्रा , इषं॑ , ऊर्जं॑ , दुहा॑ना , धे॒नुः , वाक् , अ॒स्मान् , उप॑ , सुऽस्तु॑ता , आ , ए॒तु॒ ॥
सखे॑ विष्णो वित॒रं वि क्र॑मस्व॒ द्यौर्दे॒हि लो॒कं वज्रा॑य वि॒ष्कभे॑ । हना॑व वृ॒त्रं रि॒णचा॑व॒ सिंधू॒निंद्र॑स्य यंतु प्रस॒वे विसृ॑ष्टाः ॥
सखे॑ , वि॒ष्णो॒ इति॑ , वि॒ऽत॒रं , वि , क्र॒म॒स्व॒ , द्यौः , दे॒हि , लो॒कं , वज्रा॑य , वि॒ऽस्कभे॑ । हना॑व , वृ॒त्रं , रि॒णचा॑व , सिंधू॑न् , इंद्र॑स्य , यं॒तु॒ , प्र॒ऽस॒वे , विऽसृ॑ष्टाः ॥
[१०१] ऋधगित्थेति षोळशर्चस्य सूक्तस्य भार्गवोजमदग्निरृषिर्मित्रावरुणौदेवते पंचम्यामित्रावरुणादित्यादेवताः षष्ठ्या आदित्याः सप्तम्यष्टम्योरश्विनौ नवमीदशम्योर्वायुरेकादशीद्वादश्योः सूर्यस्त्रयोदश्या उषाश्चतुर्दश्याः पवमानःस्ततोद्वयोर्गौर्बृहती द्वितीयाचतुर्थी षष्ठ्यष्ठम्यः सतोबृहत्यः तृतीयागायत्र्यंत्यास्तिस्रत्रिष्टुभः
ऋध॑गि॒त्था स मर्त्यः॑ शश॒मे दे॒वता॑तये । यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा॑तये ॥
ऋध॑क् , इ॒त्था , सः , मर्त्यः॑ , श॒श॒मे , दे॒वऽता॑तये । यः , नू॒नं , मि॒त्रावरु॑णौ , अ॒भिष्ट॑ये , आ॒ऽच॒क्रे , ह॒व्यऽदा॑तये ॥
वर्षि॑ष्ठक्षत्रा उरु॒चक्ष॑सा॒ नरा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा । ता बा॒हुता॒ न दं॒सना॑ रथर्यतः सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ॥
वर्षि॑ष्ठऽक्षत्रौ , उ॒रु॒ऽचक्ष॑सा , नरा॑ , राजा॑ना , दी॒र्घ॒श्रुत्ऽत॑मा । ता , बा॒हुता॑ , न , दं॒सना॑ , र॒थ॒र्य॒तः॒ , सा॒कं , सूर्य॑स्य , र॒श्मिऽभिः॑ ॥
प्र यो वां॑ मित्रावरुणाजि॒रो दू॒तो अद्र॑वत् । अयः॑शीर्षा॒ मदे॑रघुः ॥
प्र , यः , वां॒ , मि॒त्रा॒व॒रु॒णा॒ , अ॒जि॒रः , दू॒तः , अद्र॑वत् । अयः॑ऽशीर्षा , मदे॑ऽरघुः ॥
न यः सं॒पृच्छे॒ न पुन॒र्हवी॑तवे॒ न सं॑वा॒दाय॒ रम॑ते । तस्मा॑न्नो अ॒द्य समृ॑तेरुरुष्यतं बा॒हुभ्यां॑ न उरुष्यतं ॥
न , यः , सं॒ऽपृच्छे॑ , न , पुनः॑ , हवी॑तवे , न , सं॒ऽवा॒दाय॑ , रम॑ते । तस्मा॑त् , नः॒ , अ॒द्य , संऽऋ॑तेः , उ॒रु॒ष्य॒तं॒ , बा॒हुऽभ्यां॑ , नः॒ , उ॒रु॒ष्य॒तं॒ ॥
प्र मि॒त्राय॒ प्रार्य॒म्णे स॑च॒थ्य॑मृतावसो । व॒रू॒थ्यं१॒॑ वरु॑णे॒ छंद्यं॒ वचः॑ स्तो॒त्रं राज॑सु गायत ॥
प्र , मि॒त्राय॑ , प्र , अ॒र्य॒म्णे , स॒च॒थ्यं॑ , ऋ॒त॒व॒सो॒ इत्यृ॑तऽवसो । व॒रू॒थ्यं॑ , वरु॑णे , छंद्यं॑ , वचः॑ , स्तो॒त्रं , राज॑ऽसु , गा॒य॒त॒ ॥
ते हि॑न्विरे अरु॒णं जेन्यं॒ वस्वेकं॑ पु॒त्रं ति॑सॄ॒णां । ते धामा॑न्य॒मृता॒ मर्त्या॑ना॒मद॑ब्धा अ॒भि च॑क्षते ॥
ते , हि॒न्वि॒रे॒ , अ॒रु॒णं , जेन्यं॑ , वसु॑ , एकं॑ , पु॒त्रं , ति॒सॄ॒णां । ते , धामा॑नि , अ॒मृताः॑ , मर्त्या॑नां , अद॑ब्धाः , अ॒भि , च॒क्ष॒ते॒ ॥
आ मे॒ वचां॒स्युद्य॑ता द्यु॒मत्त॑मानि॒ कर्त्वा॑ । उ॒भा या॑तं नासत्या स॒जोष॑सा॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ ॥
आ , मे॒ , वचां॑सि , उत्ऽय॑ता , द्यु॒मत्ऽत॑मानि , कर्त्वा॑ । उ॒भा , या॒तं॒ , ना॒स॒त्या॒ , स॒ऽजोष॑सा , प्रति॑ , ह॒व्यानि॑ , वी॒तये॑ ॥
रा॒तिं यद्वा॑मर॒क्षसं॒ हवा॑महे यु॒वाभ्यां॑ वाजिनीवसू । प्राचीं॒ होत्रां॑ प्रति॒रंता॑वितं नरा गृणा॒ना ज॒मद॑ग्निना ॥
रा॒तिं , यत् , वां॒ , अ॒र॒क्षसं॑ , हवा॑महे , यु॒वाभ्यां॑ , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प्राचीं॑ , होत्रां॑ , प्र॒ऽति॒रंतौ॑ , इ॒तं॒ , न॒रा॒ , गृ॒णा॒ना , ज॒मत्ऽअ॑ग्निना ॥
आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो॑ या॒हि सु॒मन्म॑भिः । अं॒तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नो॒३॒॑ऽयं शु॒क्रो अ॑यामि ते ॥
आ , नः॒ , य॒ज्ञं , दि॒वि॒ऽस्पृशं॑ , वायो॒ इति॑ , या॒हि , सु॒मन्म॑ऽभिः । अं॒तरिति॑ , प॒वित्रे॑ , उ॒परि॑ , श्री॒णा॒नः , अ॒यं , शु॒क्रः , अ॒या॒मि॒ , ते॒ ॥
वेत्य॑ध्व॒र्युः प॒थिभी॒ रजि॑ष्ठैः॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ । अधा॑ नियुत्व उ॒भय॑स्य नः पिब॒ शुचिं॒ सोमं॒ गवा॑शिरं ॥
वेति॑ , अ॒ध्व॒र्युः , प॒थिऽभिः॑ , रजि॑ष्ठैः , प्रति॑ , ह॒व्यानि॑ , वी॒तये॑ । अध॑ , नि॒यु॒त्वः॒ , उ॒भय॑स्य , नः॒ , पि॒ब॒ , शुचिं॑ , सोमं॑ , गोऽआ॑शिरं ॥
बण्म॒हाँ अ॑सि सूर्य॒ बळा॑दित्य म॒हाँ अ॑सि । म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ अ॑सि ॥
बट् , म॒हान् , अ॒सि॒ , सू॒र्य॒ , बट् , आ॒दि॒त्य॒ , म॒हान् , अ॒सि॒ । म॒हः , ते॒ , स॒तः , म॒हि॒मा , प॒न॒स्य॒ते॒ , अ॒द्धा , दे॒व॒ , म॒हान् , अ॒सि॒ ॥
बट् सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि । म॒ह्ना दे॒वाना॑मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यं ॥
बट् , सू॒र्य॒ , श्रव॑सा , म॒हान् , अ॒सि॒ , स॒त्रा , दे॒व॒ , म॒हान् , अ॒सि॒ । म॒ह्ना , दे॒वानां॑ , अ॒सु॒र्यः॑ , पु॒रःऽहि॑तः , वि॒ऽभु , ज्योतिः॑ , अदा॑भ्यं ॥
इ॒यं या नीच्य॒र्किणी॑ रू॒पा रोहि॑ण्या कृ॒ता । चि॒त्रेव॒ प्रत्य॑दर्श्याय॒त्य१॒॑न्तर्द॒शसु॑ बा॒हुषु॑ ॥
इ॒यं , या , नीची॑ , अ॒र्किणी॑ , रू॒पा , रोहि॑ण्या , कृ॒ता । चि॒त्राऽइ॑व , प्रति॑ , अ॒द॒र्शि॒ , आ॒ऽय॒ती , अं॒तः , द॒शऽसु॑ , बा॒हुषु॑ ॥
प्र॒जा ह॑ ति॒स्रो अ॒त्याय॑मीयु॒र्न्य१॒॑न्या अ॒र्कम॒भितो॑ विविश्रे । बृ॒हद्ध॑ तस्थौ॒ भुव॑नेष्वं॒तः पव॑मानो ह॒रित॒ आ वि॑वेश ॥
प्र॒ऽजाः , ह॒ , ति॒स्रः , अ॒ति॒ऽआयं॑ , ई॒युः॒ , नि , अ॒न्याः , अ॒र्कं , अ॒भितः॑ , वि॒वि॒श्रे॒ । बृ॒हत् , ह॒ , त॒स्थौ॒ , भुव॑नेषु , अं॒तरिति॑ , पव॑मानः , ह॒रितः॑ , आ , वि॒वे॒श॒ ॥
मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑नां॒ स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ । प्र नु वो॑चं चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट ॥
मा॒ता , रु॒द्राणां॑ , दु॒हि॒ता , वसू॑नां , स्वसा॑ , आ॒दि॒त्यानां॑ , अ॒मृत॑स्य , नाभिः॑ । प्र , नु , वो॒चं॒ , चि॒कि॒तुषे॑ , जना॑य , मा , गां , अना॑गां , अदि॑तिं , व॒धि॒ष्ट॒ ॥
व॒चो॒विदं॒ वाच॑मुदी॒रयं॑तीं॒ विश्वा॑भिर्धी॒भिरु॑प॒तिष्ठ॑मानां । दे॒वीं दे॒वेभ्यः॒ पर्ये॒युषीं॒ गामा मा॑वृक्त॒ मर्त्यो॑ द॒भ्रचे॑ताः ॥
व॒चः॒ऽविदं॑ , वाचं॑ , उ॒त्ऽई॒रयं॑तीं , विश्वा॑भिः , धी॒भिः , उ॒प॒ऽतिष्ठ॑मानां । दे॒वीं , दे॒वेभ्यः॑ , परि॑ , आ॒ऽई॒युषीं॑ , गां , आ , मा॒ , अ॒वृ॒क्त॒ , मर्त्यः॑ , द॒भ्रऽचे॑ताः ॥
[१०२] त्वमग्नइति द्वाविंशत्यृचस्य सूक्तस्य भार्गवःप्रयोगोग्निर्गायत्री | (अस्मिन्सूक्तेएतऋषयोविकल्प्यंते - बार्हस्पत्योग्निः पावकः यद्वासहसः पुत्रौगृहपतियविष्ठौ अनयोरन्यतरोवा ) |
त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे॑ । क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥
त्वं , अ॒ग्ने॒ , बृ॒हत् , वयः॑ , दधा॑सि , दे॒व॒ , दा॒शुषे॑ । क॒विः , गृ॒हऽप॑तिः , युवा॑ ॥
स न॒ ईळा॑नया स॒ह दे॒वाँ अ॑ग्ने दुव॒स्युवा॑ । चि॒किद्वि॑भान॒वा व॑ह ॥
सः , नः॒ , ईळा॑नया , स॒ह , दे॒वान् , अ॒ग्ने॒ , दु॒व॒स्युवा॑ । चि॒कित् , वि॒भा॒नो॒ इति॑ विऽभानो , आ , व॒ह॒ ॥
त्वया॑ ह स्विद्यु॒जा व॒यं चोदि॑ष्ठेन यविष्ठ्य । अ॒भि ष्मो॒ वाज॑सातये ॥
त्वया॑ , ह॒ , स्वि॒त् , यु॒जा , व॒यं , चोदि॑ष्ठेन , य॒वि॒ष्ठ्य॒ । अ॒भि , स्मः॒ , वाज॑ऽसातये ॥
औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे । अ॒ग्निं स॑मु॒द्रवा॑ससं ॥
औ॒र्व॒भृ॒गु॒ऽवत् , शुचिं॑ , अ॒प्न॒वा॒न॒ऽवत् , आ , हु॒वे॒ । अ॒ग्निं , स॒मु॒द्रऽवा॑ससं ॥
हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रंद्यं॒ सहः॑ । अ॒ग्निं स॑मु॒द्रवा॑ससं ॥
हु॒वे , वात॑ऽस्वनं , क॒विं , प॒र्जन्य॑ऽक्रंद्यं , सहः॑ । अ॒ग्निं , स॒मु॒द्रऽवा॑ससं ॥
आ स॒वं स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिं हु॑वे । अ॒ग्निं स॑मु॒द्रवा॑ससं ॥
आ , स॒वं , स॒वि॒तुः , य॒था॒ , भग॑स्यऽइव , भु॒जिं , हु॒वे॒ । अ॒ग्निं , स॒मु॒द्रऽवा॑ससं ॥
अ॒ग्निं वो॑ वृ॒धंत॑मध्व॒राणां॑ पुरू॒तमं॑ । अच्छा॒ नप्त्रे॒ सह॑स्वते ॥
अ॒ग्निं , वः॒ , वृ॒धंतं॑ , अ॒ध्व॒राणां॑ , पु॒रु॒ऽतमं॑ । अच्छ॑ , नप्त्रे॑ , सह॑स्वते ॥
अ॒यं यथा॑ न आ॒भुव॒त्त्वष्टा॑ रू॒पेव॒ तक्ष्या॑ । अ॒स्य क्रत्वा॒ यश॑स्वतः ॥
अ॒यं , यथा॑ , नः॒ , आ॒ऽभुव॑त् , त्वष्टा॑ , रू॒पाऽइ॑व , तक्ष्या॑ । अ॒स्य , क्रत्वा॑ , यश॑स्वतः ॥
अ॒यं विश्वा॑ अ॒भि श्रियो॒ऽग्निर्दे॒वेषु॑ पत्यते । आ वाजै॒रुप॑ नो गमत् ॥
अ॒यं , विश्वाः॑ , अ॒भि , श्रियः॑ , अ॒ग्निः , दे॒वेषु॑ , प॒त्य॒ते॒ । आ , वाजैः॑ , उप॑ , नः॒ , ग॒म॒त् ॥
विश्वे॑षामि॒ह स्तु॑हि॒ होतॄ॑णां य॒शस्त॑मं । अ॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं ॥
विश्वे॑षां , इ॒ह , स्तु॒हि॒ , होतॄ॑णां , य॒शःऽत॑मं । अ॒ग्निं , य॒ज्ञेषु॑ , पू॒र्व्यं ॥
शी॒रं पा॑व॒कशो॑चिषं॒ ज्येष्ठो॒ यो दमे॒ष्वा । दी॒दाय॑ दीर्घ॒श्रुत्त॑मः ॥
शी॒रं , पा॒व॒कऽशो॑चिषं , ज्येष्ठः॑ , यः , दमे॑षु , आ । दी॒दाय॑ , दी॒र्घ॒श्रुत्ऽत॑मः ॥
तमर्वं॑तं॒ न सा॑न॒सिं गृ॑णी॒हि वि॑प्र शु॒ष्मिणं॑ । मि॒त्रं न या॑त॒यज्ज॑नं ॥
तं , अर्वं॑तं , न , सा॒न॒सिं , गृ॒णी॒हि , वि॒प्र॒ , शु॒ष्मिणं॑ । मि॒त्रं , न , या॒त॒यत्ऽज॑नं ॥
उप॑ त्वा जा॒मयो॒ गिरो॒ देदि॑शतीर्हवि॒ष्कृतः॑ । वा॒योरनी॑के अस्थिरन् ॥
उप॑ , त्वा॒ , जा॒मयः॑ , गिरः॑ , देदि॑शतीः , ह॒विः॒ऽकृतः॑ । वा॒योः , अनी॑के , अ॒स्थि॒र॒न् ॥
यस्य॑ त्रि॒धात्ववृ॑तं ब॒र्हिस्त॒स्थावसं॑दिनं । आप॑श्चि॒न्नि द॑धा प॒दं ॥
यस्य॑ , त्रि॒ऽधातु॑ , अवृ॑तं , ब॒र्हिः , त॒स्थौ , असं॑ऽदिनं । आपः॑ , चि॒त् , नि , द॒ध॒ , प॒दं ॥
प॒दं दे॒वस्य॑ मी॒ळ्हुषोऽना॑धृष्टाभिरू॒तिभिः॑ । भ॒द्रा सूर्य॑ इवोप॒दृक् ॥
प॒दं , दे॒वस्य॑ , मी॒ळ्हुषः॑ , अना॑धृष्टाभिः , ऊ॒तिऽभिः॑ । भ॒द्रा , सूर्यः॑ऽइव , उ॒प॒ऽदृक् ॥
अग्ने॑ घृ॒तस्य॑ धी॒तिभि॑स्तेपा॒नो दे॑व शो॒चिषा॑ । आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥
अग्ने॑ , घृ॒तस्य॑ , धी॒तिऽभिः॑ , ते॒पा॒नः , दे॒व॒ , शो॒चिषा॑ । आ , दे॒वान् , व॒क्षि॒ , यक्षि॑ , च॒ ॥
तं त्वा॑जनंत मा॒तरः॑ क॒विं दे॒वासो॑ अंगिरः । ह॒व्य॒वाह॒मम॑र्त्यं ॥
तं , त्वा॒ , अ॒ज॒नं॒त॒ , मा॒तरः॑ , क॒विं , दे॒वासः॑ , अं॒गि॒रः॒ । ह॒व्य॒ऽवाहं॑ , अम॑र्त्यं ॥
प्रचे॑तसं त्वा क॒वेऽग्ने॑ दू॒तं वरे॑ण्यं । ह॒व्य॒वाहं॒ नि षे॑दिरे ॥
प्रऽचे॑तसं , त्वा॒ , क॒वे॒ , अग्ने॑ , दू॒तं , वरे॑ण्यं । ह॒व्य॒ऽवाहं॑ , नि , से॒दि॒रे॒ ॥
न॒हि मे॒ अस्त्यघ्न्या॒ न स्वधि॑ति॒र्वन॑न्वति । अथै॑ता॒दृग्भ॑रामि ते ॥
न॒हि , मे॒ , अस्ति॑ , अघ्न्या॑ , न , स्वऽधि॑तिः , वन॑न्ऽवति । अथ॑ , ए॒ता॒दृक् , भ॒रा॒मि॒ , ते॒ ॥
यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ । ता जु॑षस्व यविष्ठ्य ॥
यत् , अ॒ग्ने॒ , कानि॑ , कानि॑ , चि॒त् , आ , ते॒ , दारू॑णि , द॒ध्मसि॑ । ता , जु॒ष॒स्व॒ , य॒वि॒ष्ठ्य॒ ॥
यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति । सर्वं॒ तद॑स्तु ते घृ॒तं ॥
यत् , अत्ति॑ , उ॒प॒ऽजिह्वि॑का , यत् , व॒म्रः , अ॒ति॒ऽसर्प॑ति । सर्वं॑ , तत् , अ॒स्तु॒ , ते॒ , घृ॒तं ॥
अ॒ग्निमिंधा॑नो॒ मन॑सा॒ धियं॑ सचेत॒ मर्त्यः॑ । अ॒ग्निमी॑धे वि॒वस्व॑भिः ॥
अ॒ग्निं , इंधा॑नः , मन॑सा , धियं॑ , स॒चे॒त॒ , मर्त्यः॑ । अ॒ग्निं , ई॒धे॒ , वि॒वस्व॑ऽभिः ॥
[१०३] अदर्शीति चतुर्दशर्चस्य सूक्तस्य काण्वः सोभरिरग्निरंत्याया अग्नामरुतोबृहती पंचमीविराड्रूपा सप्तम्याद्ययुजःसतोबृहत्योऽष्टम्यादियुजः क्रमेणककुब्हसीयसीककुबनुष्टुभः |
अद॑र्शि गातु॒वित्त॑मो॒ यस्मि॑न्व्र॒तान्या॑द॒धुः । उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षंत नो॒ गिरः॑ ॥
अद॑र्शि , गा॒तु॒वित्ऽत॑मः , यस्मि॑न् , व्र॒तानि॑ , आ॒ऽद॒धुः । उपो॒ इति॑ , सु , जा॒तं , आर्य॑स्य , वर्ध॑नं , अ॒ग्निं , न॒क्षं॒त॒ , नः॒ , गिरः॑ ॥
प्र दैवो॑दासो अ॒ग्निर्दे॒वाँ अच्छा॒ न म॒ज्मना॑ । अनु॑ मा॒तरं॑ पृथि॒वीं वि वा॑वृते त॒स्थौ नाक॑स्य॒ सान॑वि ॥
प्र , दैवः॑ऽदासः , अ॒ग्निः , दे॒वान् , अच्छ॑ , न , म॒ज्मना॑ । अनु॑ , मा॒तरं॑ , पृ॒थि॒वीं , वि , व॒वृ॒ते॒ , त॒स्थौ , नाक॑स्य , सान॑वि ॥
यस्मा॒द्रेजं॑त कृ॒ष्टय॑श्च॒र्कृत्या॑नि कृण्व॒तः । स॒ह॒स्र॒सां मे॒धसा॑ताविव॒ त्मना॒ग्निं धी॒भिः स॑पर्यत ॥
यस्मा॑त् , रेजं॑त , कृ॒ष्टयः॑ , च॒र्कृत्या॑नि , कृ॒ण्व॒तः । स॒ह॒स्र॒ऽसां , मे॒धसा॑तौऽइव , त्मना॑ , अ॒ग्निं , धी॒भिः , स॒प॒र्य॒त॒ ॥
प्र यं रा॒ये निनी॑षसि॒ मर्तो॒ यस्ते॑ वसो॒ दाश॑त् । स वी॒रं ध॑त्ते अग्न उक्थशं॒सिनं॒ त्मना॑ सहस्रपो॒षिणं॑ ॥
प्र , यं , रा॒ये , निनी॑षसि , मर्तः॑ , यः , ते॒ , व॒सो॒ इति॑ , दाश॑त् । सः , वी॒रं , ध॒त्ते॒ , अ॒ग्ने॒ , उ॒क्थ॒ऽशं॒सिनं॑ , त्मना॑ , स॒ह॒स्र॒ऽपो॒षिणं॑ ॥
स दृ॒ळ्हे चि॑द॒भि तृ॑णत्ति॒ वाज॒मर्व॑ता॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ । त्वे दे॑व॒त्रा सदा॑ पुरूवसो॒ विश्वा॑ वा॒मानि॑ धीमहि ॥
सः , दृ॒ळ्हे , चि॒त् , अ॒भि , तृ॒ण॒त्ति॒ , वाजं॑ , अर्व॑ता , सः , ध॒त्ते॒ , अक्षि॑ति , श्रवः॑ । त्वे इति॑ , दे॒व॒ऽत्रा , सदा॑ , पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो , विश्वा॑ , वा॒मानि॑ , धी॒म॒हि॒ ॥
यो विश्वा॒ दय॑ते॒ वसु॒ होता॑ मं॒द्रो जना॑नां । मधो॒र्न पात्रा॑ प्रथ॒मान्य॑स्मै॒ प्र स्तोमा॑ यंत्य॒ग्नये॑ ॥
यः , विश्वा॑ , दय॑ते , वसु॑ , होता॑ , मं॒द्रः , जना॑नां । मधोः॑ , न , पात्रा॑ , प्र॒थ॒मानि॑ , अ॒स्मै॒ , प्र , स्तोमाः॑ , यं॒ति॒ , अ॒ग्नये॑ ॥
अश्वं॒ न गी॒र्भी र॒थ्यं॑ सु॒दान॑वो मर्मृ॒ज्यंते॑ देव॒यवः॑ । उ॒भे तो॒के तन॑ये दस्म विश्पते॒ पर्षि॒ राधो॑ म॒घोनां॑ ॥
अश्वं॑ , न , गीः॒ऽभिः , र॒थ्यं॑ , सु॒ऽदान॑वः , म॒र्मृ॒ज्यंते॑ , दे॒व॒ऽयवः॑ । उ॒भे इति॑ , तो॒के इति॑ , तन॑ये , द॒स्म॒ , वि॒श्प॒ते॒ , पर्षि॑ , राधः॑ , म॒घोनां॑ ॥
प्र मंहि॑ष्ठाय गायत ऋ॒ताव्ने॑ बृह॒ते शु॒क्रशो॑चिषे । उप॑स्तुतासो अ॒ग्नये॑ ॥
प्र , मंहि॑ष्ठाय , गा॒य॒त॒ , ऋ॒तऽव्ने॑ , बृ॒ह॒ते , शु॒क्रऽशो॑चिषे । उप॑ऽस्तुतासः , अ॒ग्नये॑ ॥
आ वं॑सते म॒घवा॑ वी॒रव॒द्यशः॒ समि॑द्धो द्यु॒म्न्याहु॑तः । कु॒विन्नो॑ अस्य सुम॒तिर्नवी॑य॒स्यच्छा॒ वाजे॑भिरा॒गम॑त् ॥
आ , वं॒स॒ते॒ , म॒घऽवा॑ , वी॒रऽव॑त् , यशः॑ , संऽइ॑द्धः , द्यु॒म्नी , आऽहु॑तः । कु॒वित् , नः॒ , अ॒स्य॒ , सु॒ऽम॒तिः , नवी॑यसी , अच्छ॑ , वाजे॑भिः , आ॒ऽगम॑त् ॥
प्रेष्ठ॑मु प्रि॒याणां॑ स्तु॒ह्या॑सा॒वाति॑थिं । अ॒ग्निं रथा॑नां॒ यमं॑ ॥
प्रेष्ठं॑ , ऊँ॒ इति॑ , प्रि॒याणां॑ , स्तु॒हि , आ॒ऽसा॒व॒ , अति॑थिं । अ॒ग्निं , रथा॑नां , यमं॑ ॥
उदि॑ता॒ यो निदि॑ता॒ वेदि॑ता॒ वस्वा य॒ज्ञियो॑ व॒वर्त॑ति । दु॒ष्टरा॒ यस्य॑ प्रव॒णे नोर्मयो॑ धि॒या वाजं॒ सिषा॑सतः ॥
उत्ऽइ॑ता , यः , निऽदि॑ता , वेदि॑ता , वसु॑ , आ , य॒ज्ञियः॑ , व॒वर्त॑ति । दु॒स्तराः॑ , यस्य॑ , प्र॒व॒णे , न , ऊ॒र्मयः॑ , धि॒या , वाजं॑ , सिसा॑सतः ॥
मा नो॑ हृणीता॒मति॑थि॒र्वसु॑र॒ग्निः पु॑रुप्रश॒स्त ए॒षः । यः सु॒होता॑ स्वध्व॒रः ॥
मा , नः॒ , हृ॒णी॒तां॒ , अति॑थिः , वसुः॑ , अ॒ग्निः , पु॒रु॒ऽप्र॒श॒स्तः , ए॒षः । यः , सु॒ऽहोता॑ , सु॒ऽअ॒ध्व॒रः ॥
मो ते रि॑ष॒न्ये अच्छो॑क्तिभिर्व॒सोऽग्ने॒ केभि॑श्चि॒देवैः॑ । की॒रिश्चि॒द्धि त्वामीट्टे॑ दू॒त्या॑य रा॒तह॑व्यः स्वध्व॒रः ॥
मो इति॑ , ते , रि॒ष॒न् , ये , अच्छो॑क्तिऽभिः , व॒सो॒ इति॑ , अग्ने॑ , केभिः॑ , चि॒त् , एवैः॑ । की॒रिः , चि॒त् , हि , त्वां , ईट्टे॑ , दू॒त्या॑य , रा॒तऽह॑व्यः , सु॒ऽअ॒ध्व॒रः ॥
आग्ने॑ याहि म॒रुत्स॑खा रु॒द्रेभिः॒ सोम॑पीतये । सोभ॑र्या॒ उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व॑र्णरे ॥
आ , अ॒ग्ने॒ , या॒हि॒ , म॒रुत्ऽस॑खा , रु॒द्रेभिः॑ , सोम॑ऽपीतये । सोभ॑र्याः , उप॑ , सु॒ऽस्तु॒तिं , मा॒दय॑स्व , स्वः॑ऽनरे ॥
[१] स्वादिष्ठयेति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः पवमानः सोमो गायत्री | (पवमान पारायण प्रथमोध्यायः)
स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या । इंद्रा॑य॒ पात॑वे सु॒तः ॥
स्वादि॑ष्ठया , मदि॑ष्ठया , पव॑स्व , सो॒म॒ , धार॑या । इंद्रा॑य , पात॑वे , सु॒तः ॥
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतं । द्रुणा॑ स॒धस्थ॒मास॑दत् ॥
र॒क्षः॒ऽहा , वि॒श्वऽच॑र्षणिः , अ॒भि , योनिं॑ , अयः॑ऽहतं । द्रुणा॑ , स॒धऽस्थं॑ , आ , अ॒स॒द॒त् ॥
व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हंत॑मः । पर्षि॒ राधो॑ म॒घोनां॑ ॥
व॒रि॒वः॒ऽधात॑मः , भ॒व॒ , मंहि॑ष्ठः , वृ॒त्र॒हन्ऽत॑मः । पर्षि॑ , राधः॑ , म॒घोनां॑ ॥
अ॒भ्य॑र्ष म॒हानां॑ दे॒वानां॑ वी॒तिमंध॑सा । अ॒भि वाज॑मु॒त श्रवः॑ ॥
अ॒भि , अ॒र्ष॒ , म॒हानां॑ , दे॒वानां॑ , वी॒तिं , अंध॑सा । अ॒भि , वाजं॑ , उ॒त , श्रवः॑ ॥
त्वामच्छा॑ चरामसि॒ तदिदर्थं॑ दि॒वेदि॑वे । इंदो॒ त्वे न॑ आ॒शसः॑ ॥
त्वां , अच्छ॑ , च॒रा॒म॒सि॒ , तत् , इत् , अर्थं॑ , दि॒वेऽदि॑वे । इंदो॒ इति॑ , त्वे इति॑ , नः॒ , आ॒ऽशसः॑ ॥
पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना॑ ॥
पु॒नाति॑ , ते॒ , प॒रि॒ऽस्रुतं॑ , सोमं॑ , सूर्य॑स्य , दु॒हि॒ता । वारे॑ण , शश्व॑ता , तना॑ ॥
तमी॒मण्वीः॑ सम॒र्य आ गृ॒भ्णंति॒ योष॑णो॒ दश॑ । स्वसा॑रः॒ पार्ये॑ दि॒वि ॥
तं , ईं॒ , अण्वीः॑ , स॒ऽम॒र्ये , आ , गृ॒भ्णंति॑ , योष॑णः , दश॑ । स्वसा॑रः , पार्ये॑ , दि॒वि ॥
तमीं॑ हिन्वंत्य॒ग्रुवो॒ धमं॑ति बाकु॒रं दृतिं॑ । त्रि॒धातु॑ वार॒णं मधु॑ ॥
तं , ईं॒ , हि॒न्वं॒ति॒ , अ॒ग्रुवः॑ , धमं॑ति , बा॒कु॒रं , दृतिं॑ । त्रि॒ऽधातु॑ , वा॒र॒णं , मधु॑ ॥
अ॒भी॒३॒॑ममघ्न्या॑ उ॒त श्री॒णंति॑ धे॒नवः॒ शिशुं॑ । सोम॒मिंद्रा॑य॒ पात॑वे ॥
अ॒भि , इ॒मं , अघ्न्याः॑ , उ॒त , श्री॒णंति॑ , धे॒नवः॑ , शिशुं॑ । सोमं॑ , इंद्रा॑य , पात॑वे ॥
अ॒स्येदिंद्रो॒ मदे॒ष्वा विश्वा॑ वृ॒त्राणि॑ जिघ्नते । शूरो॑ म॒घा च॑ मंहते ॥
अ॒स्य , इत् , इंद्रः॑ , मदे॑षु , आ , विश्वा॑ , वृ॒त्राणि॑ , जि॒घ्न॒ते॒ । शूरः॑ , म॒घा , च॒ , मं॒ह॒ते॒ ॥
[२] पवस्वेति दशर्चस्य सूक्तस्य काण्वोमेधातिथिः पवमानःसोमोगायत्री |
पव॑स्व देव॒वीरति॑ प॒वित्रं॑ सोम॒ रंह्या॑ । इंद्र॑मिंदो॒ वृषा वि॑श ॥
पव॑स्व , दे॒व॒ऽवीः , अति॑ , प॒वित्रं॑ , सो॒म॒ , रंह्या॑ । इंद्रं॑ , इं॒दो॒ इति॑ , वृषा॑ , आ , वि॒श॒ ॥
आ व॑च्यस्व॒ महि॒ प्सरो॒ वृषें॑दो द्यु॒म्नव॑त्तमः । आ योनिं॑ धर्ण॒सिः स॑दः ॥
आ , व॒च्य॒स्व॒ , महि॑ , प्सरः॑ , वृषा॑ , इं॒दो॒ इति॑ , द्यु॒म्नव॑त्ऽतमः । आ , योनिं॑ , ध॒र्ण॒सिः , स॒दः॒ ॥
अधु॑क्षत प्रि॒यं मधु॒ धारा॑ सु॒तस्य॑ वे॒धसः॑ । अ॒पो व॑सिष्ट सु॒क्रतुः॑ ॥
अधु॑क्षत , प्रि॒यं , मधु॑ , धारा॑ , सु॒तस्य॑ , वे॒धसः॑ । अ॒पः , व॒सि॒ष्ट॒ , सु॒ऽक्रतुः॑ ॥
म॒हांतं॑ त्वा म॒हीरन्वापो॑ अर्षंति॒ सिंध॑वः । यद्गोभि॑र्वासयि॒ष्यसे॑ ॥
म॒हांतं॑ , त्वा॒ , म॒हीः , अनु॑ , आपः॑ , अ॒र्षं॒ति॒ , सिंध॑वः । यत् , गोभिः॑ , वा॒स॒यि॒ष्यसे॑ ॥
स॒मु॒द्रो अ॒प्सु मा॑मृजे विष्टं॒भो ध॒रुणो॑ दि॒वः । सोमः॑ प॒वित्रे॑ अस्म॒युः ॥
स॒मु॒द्रः , अ॒प्ऽसु , म॒मृ॒जे॒ , वि॒ष्टं॒भः , ध॒रुणः॑ , दि॒वः । सोमः॑ , प॒वित्रे॑ , अ॒स्म॒ऽयुः ॥
अचि॑क्रद॒द्वृषा॒ हरि॑र्म॒हान्मि॒त्रो न द॑र्श॒तः । सं सूर्ये॑ण रोचते ॥
अचि॑क्रदत् , वृषा॑ , हरिः॑ , म॒हान् , मि॒त्रः , न , द॒र्श॒तः । सं , सूर्ये॑ण , रो॒च॒ते॒ ॥
गिर॑स्त इंद॒ ओज॑सा मर्मृ॒ज्यंते॑ अप॒स्युवः॑ । याभि॒र्मदा॑य॒ शुंभ॑से ॥
गिरः॑ , ते॒ , इं॒दो॒ इति॑ , ओज॑सा , म॒र्मृ॒ज्यंते॑ , अ॒प॒स्युवः॑ । याभिः॑ , मदा॑य , शुंभ॑से ॥
तं त्वा॒ मदा॑य॒ घृष्व॑य उ लोककृ॒त्नुमी॑महे । तव॒ प्रश॑स्तयो म॒हीः ॥
तं , त्वा॒ , मदा॑य , घृष्व॑ये , ऊँ॒ इति॑ , लो॒क॒ऽकृ॒त्नुं , ई॒म॒हे॒ । तव॑ , प्रऽश॑स्तयः , म॒हीः ॥
अ॒स्मभ्य॑मिंदविंद्र॒युर्मध्वः॑ पवस्व॒ धार॑या । प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ॥
अ॒स्मभ्यं॑ , इं॒दो॒ इति॑ , इं॒द्र॒ऽयुः , मध्वः॑ , प॒व॒स्व॒ , धार॑या । प॒र्जन्यः॑ , वृ॒ष्टि॒मान्ऽइ॑व ॥
गो॒षा इं॑दो नृ॒षा अ॑स्यश्व॒सा वा॑ज॒सा उ॒त । आ॒त्मा य॒ज्ञस्य॑ पू॒र्व्यः ॥
गो॒ऽसाः , इं॒दो॒ इति॑ , नृ॒ऽसाः , अ॒सि॒ , अ॒श्व॒ऽसाः , वा॒ज॒ऽसाः , उ॒त । आ॒त्मा , य॒ज्ञस्य॑ , पू॒र्व्यः ॥
[३] एषदेव इति दशर्चस्य सूक्तस्याजीगर्तिः शुनःशेपः सकृत्रिमोवैश्वामित्रोदेवरातः पवमानः सोमो गायत्री ।
ए॒ष दे॒वो अम॑र्त्यः पर्ण॒वीरि॑व दीयति । अ॒भि द्रोणा॑न्या॒सदं॑ ॥
ए॒षः , दे॒वः , अम॑र्त्यः , प॒र्ण॒वीःऽइ॑व , दी॒य॒ति॒ । अ॒भि , द्रोणा॑नि , आ॒ऽसदं॑ ॥
ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां॑सि धावति । पव॑मानो॒ अदा॑भ्यः ॥
ए॒षः , दे॒वः , वि॒पा , कृ॒तः , अति॑ , ह्वरां॑सि , धा॒व॒ति॒ । पव॑मानः , अदा॑भ्यः ॥
ए॒ष दे॒वो वि॑प॒न्युभिः॒ पव॑मान ऋता॒युभिः॑ । हरि॒र्वाजा॑य मृज्यते ॥
ए॒षः , दे॒वः , वि॒प॒न्युऽभिः॑ , पव॑मानः , ऋ॒त॒युऽभिः॑ । हरिः॑ , वाजा॑य , मृ॒ज्य॒ते॒ ॥
ए॒ष विश्वा॑नि॒ वार्या॒ शूरो॒ यन्नि॑व॒ सत्व॑भिः । पव॑मानः सिषासति ॥
ए॒षः , विश्वा॑नि , वार्या॑ , शूरः॑ , यन्ऽइ॑व , सत्व॑ऽभिः । पव॑मानः , सि॒सा॒स॒ति॒ ॥
ए॒ष दे॒वो र॑थर्यति॒ पव॑मानो दशस्यति । आ॒विष्कृ॑णोति वग्व॒नुं ॥
ए॒षः , दे॒वः , र॒थ॒र्य॒ति॒ , पव॑मानः , द॒श॒स्य॒ति॒ । आ॒विः , कृ॒णो॒ति॒ , व॒ग्व॒नुं ॥
ए॒ष विप्रै॑र॒भिष्टु॑तो॒ऽपो दे॒वो वि गा॑हते । दध॒द्रत्ना॑नि दा॒शुषे॑ ॥
ए॒षः , विप्रैः॑ , अ॒भिऽस्तु॑तः , अ॒पः , दे॒वः , वि , गा॒ह॒ते॒ । दध॑त् , रत्ना॑नि , दा॒शुषे॑ ॥
ए॒ष दिवं॒ वि धा॑वति ति॒रो रजां॑सि॒ धार॑या । पव॑मानः॒ कनि॑क्रदत् ॥
ए॒षः , दिवं॑ , वि , धा॒व॒ति॒ , ति॒रः , रजां॑सि , धार॑या । पव॑मानः , कनि॑क्रदत् ॥
ए॒ष दिवं॒ व्यास॑रत्ति॒रो रजां॒स्यस्पृ॑तः । पव॑मानः स्वध्व॒रः ॥
ए॒षः , दिवं॑ , वि , आ , अ॒स॒र॒त् , ति॒रः , रजां॑सि , अस्पृ॑तः । पव॑मानः , सु॒ऽअ॒ध्व॒रः ॥
ए॒ष प्र॒त्नेन॒ जन्म॑ना दे॒वो दे॒वेभ्यः॑ सु॒तः । हरिः॑ प॒वित्रे॑ अर्षति ॥
ए॒षः , प्र॒त्नेन॑ , जन्म॑ना , दे॒वः , दे॒वेभ्यः॑ , सु॒तः । हरिः॑ , प॒वित्रे॑ , अ॒र्ष॒ति॒ ॥
ए॒ष उ॒ स्य पु॑रुव्र॒तो ज॑ज्ञा॒नो ज॒नय॒न्निषः॑ । धार॑या पवते सु॒तः ॥
ए॒षः , ऊँ॒ इति॑ , स्यः , पु॒रु॒ऽव्र॒तः , ज॒ज्ञा॒नः , ज॒नय॑न् , इषः॑ । धार॑या , प॒व॒ते॒ , सु॒तः ॥
[४] सनाचेति दशर्चस्य सूक्तस्यांगिरसो हिरण्यस्तूपः पवमानःसोमो गायत्री
सना॑ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रवः॑ । अथा॑ नो॒ वस्य॑सस्कृधि ॥
सन॑ , च॒ , सो॒म॒ , जेषि॑ , च॒ , पव॑मान , महि॑ , श्रवः॑ । अथ॑ , नः॒ , वस्य॑सः , कृ॒धि॒ ॥
सना॒ ज्योतिः॒ सना॒ स्व१॒॑र्विश्वा॑ च सोम॒ सौभ॑गा । अथा॑ नो॒ वस्य॑सस्कृधि ॥
सन॑ , ज्योतिः॑ , सन॑ , स्वः॑ , विश्वा॑ , च॒ , सो॒म॒ , सौभ॑गा । अथ॑ , नः॒ , वस्य॑सः , कृ॒धि॒ ॥
सना॒ दक्ष॑मु॒त क्रतु॒मप॑ सोम॒ मृधो॑ जहि । अथा॑ नो॒ वस्य॑सस्कृधि ॥
सना॑ , दक्षं॑ , उ॒त , क्रतुं॑ , अप॑ , सो॒म॒ , मृधः॑ , ज॒हि॒ । अथ॑ , नः॒ , वस्य॑सः , कृ॒धि॒ ॥
पवी॑तारः पुनी॒तन॒ सोम॒मिंद्रा॑य॒ पात॑वे । अथा॑ नो॒ वस्य॑सस्कृधि ॥
पवि॑तारः , पु॒नी॒तन॑ , सोमं॑ , इंद्रा॑य , पात॑वे । अथ॑ , नः॒ , वस्य॑सः , कृ॒धि॒ ॥
त्वं सूर्ये॑ न॒ आ भ॑ज॒ तव॒ क्रत्वा॒ तवो॒तिभिः॑ । अथा॑ नो॒ वस्य॑सस्कृधि ॥
त्वं , सूर्ये॑ , नः॒ , आ , भ॒ज॒ , तव॑ , क्रत्वा॑ , तव॑ , ऊ॒तिऽभिः॑ । अथ॑ , नः॒ , वस्य॑सः , कृ॒धि॒ ॥
तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक्प॑श्येम॒ सूर्यं॑ । अथा॑ नो॒ वस्य॑सस्कृधि ॥
तव॑ , क्रत्वा॑ , तव॑ , ऊ॒तिऽभिः॑ , ज्योक् , प॒श्ये॒म॒ , सूर्यं॑ । अथ॑ , नः॒ , वस्य॑सः , कृ॒धि॒ ॥
अ॒भ्य॑र्ष स्वायुध॒ सोम॑ द्वि॒बर्ह॑सं र॒यिं । अथा॑ नो॒ वस्य॑सस्कृधि ॥
अ॒भि , अ॒र्ष॒ , सु॒ऽआ॒यु॒ध॒ , सोम॑ , द्वि॒ऽबर्ह॑सं , र॒यिं । अथ॑ , नः॒ , वस्य॑सः , कृ॒धि॒ ॥
अ॒भ्य१॒॑र्षान॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः । अथा॑ नो॒ वस्य॑सस्कृधि ॥
अ॒भि , अ॒र्ष॒ , अन॑पऽच्युतः , र॒यिं , स॒मत्ऽसु॑ , स॒स॒हिः । अथ॑ , नः॒ , वस्य॑सः , कृ॒धि॒ ॥
त्वां य॒ज्ञैर॑वीवृध॒न्पव॑मान॒ विध॑र्मणि । अथा॑ नो॒ वस्य॑सस्कृधि ॥
त्वां , य॒ज्ञैः , अ॒वी॒वृ॒ध॒न् , पव॑मान , विऽध॑र्मणि । अथ॑ , नः॒ , वस्य॑सः , कृ॒धि॒ ॥
र॒यिं न॑श्चि॒त्रम॒श्विन॒मिंदो॑ वि॒श्वायु॒मा भ॑र । अथा॑ नो॒ वस्य॑सस्कृधि ॥
र॒यिं , नः॒ , चि॒त्रं , अ॒श्विनं॑ , इंदो॒ इति॑ , वि॒श्वऽआ॑युं , आ , भ॒र॒ । अथ॑ , नः॒ , वस्य॑सः , कृ॒धि॒ ॥
[५] समिद्धइत्येकादशर्चस्य सूक्तस्य काश्यपोसितः क्रमेणेध्मस्तनूनपादिळोबर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौ तिस्रोदेव्यः सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयोगायत्री अंत्याश्चतस्रोनुष्टुभः | ( इतआरभ्यविंशतिसूक्तेषुकाश्यपोदेवलोऽसितेन सहविकल्पते ) |
समि॑द्धो वि॒श्वत॒स्पतिः॒ पव॑मानो॒ वि रा॑जति । प्री॒णन्वृषा॒ कनि॑क्रदत् ॥
संऽइ॑द्धः , वि॒श्वतः॑ , पतिः॑ , पव॑मानः , वि , रा॒ज॒ति॒ । प्री॒णन् , वृषा॑ , कनि॑क्रदत् ॥
तनू॒नपा॒त्पव॑मानः॒ शृंगे॒ शिशा॑नो अर्षति । अं॒तरि॑क्षेण॒ रार॑जत् ॥
तनू॒३॒॑ऽनपा॑त् , पव॑मानः , शृंगे॒ इति॑ , शिशा॑नः , अ॒र्ष॒ति॒ । अं॒तरि॑क्षेण , रार॑जत् ॥
ई॒ळेन्यः॒ पव॑मानो र॒यिर्वि रा॑जति द्यु॒मान् । मधो॒र्धारा॑भि॒रोज॑सा ॥
ई॒ळेन्यः॑ , पव॑मानः , र॒यिः , वि , रा॒ज॒ति॒ , द्यु॒ऽमान् । मधोः॑ , धारा॑भिः , ओज॑सा ॥
ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन्हरिः॑ । दे॒वेषु॑ दे॒व ई॑यते ॥
ब॒र्हिः , प्रा॒चीनं॑ , ओज॑सा , पव॑मानः , स्तृ॒णन् , हरिः॑ । दे॒वेषु॑ , दे॒वः , ई॒य॒ते॒ ॥
उदातै॑र्जिहते बृ॒हद्द्वारो॑ दे॒वीर्हि॑र॒ण्ययीः॑ । पव॑मानेन॒ सुष्टु॑ताः ॥
उत् , आतैः॑ , जि॒ह॒ते॒ , बृ॒हत् , द्वारः॑ , दे॒वीः , हि॒र॒ण्ययीः॑ । पव॑मानेन , सुऽस्तु॑ताः ॥
सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति । नक्तो॒षासा॒ न द॑र्श॒ते ॥
सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे , बृ॒ह॒ती इति॑ , म॒ही इति॑ , पव॑मानः , वृ॒ष॒ण्य॒ति॒ । नक्तो॒षसा॑ , न , द॒र्श॒ते इति॑ ॥
उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता॑रा॒ दैव्या॑ हुवे । पव॑मान॒ इंद्रो॒ वृषा॑ ॥
उ॒भा , दे॒वा , नृ॒ऽचक्ष॑सा , होता॑रा , दैव्या॑ , हु॒वे॒ । पव॑मानः , इंद्रः॑ , वृषा॑ ॥
भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा॑ म॒ही । इ॒मं नो॑ य॒ज्ञमा ग॑मंति॒स्रो दे॒वीः सु॒पेश॑सः ॥
भार॑ती , पव॑मानस्य , सर॑स्वती , इळा॑ , म॒ही । इ॒मं , नः॒ , य॒ज्ञं , आ , ग॒म॒न् , ति॒स्रः , दे॒वीः , सु॒ऽपेश॑सः ॥
त्वष्टा॑रमग्र॒जां गो॒पां पु॑रो॒यावा॑न॒मा हु॑वे । इंदु॒रिंद्रो॒ वृषा॒ हरिः॒ पव॑मानः प्र॒जाप॑तिः ॥
त्वष्टा॑रं , अ॒ग्र॒ऽजां , गो॒पां , पु॒रः॒ऽयावा॑नं , आ , हु॒वे॒ । इंदुः॑ , इंद्रः॑ , वृषा॑ , हरिः॑ , पव॑मानः , प्र॒जाऽप॑तिः ॥
वन॒स्पतिं॑ पवमान॒ मध्वा॒ समं॑ग्धि॒ धार॑या । स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्ययं॑ ॥
वन॒स्पतिं॑ , प॒व॒मा॒न॒ , मध्वा॑ , सं , अं॒ग्धि॒ , धार॑या । स॒हस्र॑ऽवल्शं , हरि॑तं , भ्राज॑मानं , हि॒र॒ण्ययं॑ ॥
विश्वे॑ देवाः॒ स्वाहा॑कृतिं॒ पव॑मान॒स्या ग॑त । वा॒युर्बृह॒स्पतिः॒ सूर्यो॒ऽग्निरिंद्रः॑ स॒जोष॑सः ॥
विश्वे॑ , दे॒वाः॒ , स्वाहा॑ऽकृतिं , पव॑मानस्य , आ , ग॒त॒ । वा॒युः , बृह॒स्पतिः॑ , सूर्यः॑ , अ॒ग्निः , इंद्रः॑ , स॒ऽजोष॑सः ॥
[६] मंद्रयेति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानःसोमो गायत्री
मं॒द्रया॑ सोम॒ धार॑या॒ वृषा॑ पवस्व देव॒युः । अव्यो॒ वारे॑ष्वस्म॒युः ॥
मं॒द्रया॑ , सो॒म॒ , धार॑या , वृषा॑ , प॒व॒स्व॒ , दे॒व॒ऽयुः । अव्यः॑ , वारे॑षु , अ॒स्म॒ऽयुः ॥
अ॒भि त्यं मद्यं॒ मद॒मिंद॒विंद्र॒ इति॑ क्षर । अ॒भि वा॒जिनो॒ अर्व॑तः ॥
अ॒भि , त्यं , मद्यं॑ , मदं॑ , इंदो॒ इति॑ , इंद्रः॑ , इति॑ , क्ष॒र॒ । अ॒भि , वा॒जिनः॑ , अर्व॑तः ॥
अ॒भि त्यं पू॒र्व्यं मदं॑ सुवा॒नो अ॑र्ष प॒वित्र॒ आ । अ॒भि वाज॑मु॒त श्रवः॑ ॥
अ॒भि , त्यं , पू॒र्व्यं , मदं॑ , सु॒वा॒नः , अ॒र्ष॒ , प॒वित्रे॑ , आ । अ॒भि , वाजं॑ , उ॒त , श्रवः॑ ॥
अनु॑ द्र॒प्सास॒ इंद॑व॒ आपो॒ न प्र॒वता॑सरन् । पु॒ना॒ना इंद्र॑माशत ॥
अनु॑ , द्र॒प्सासः॑ , इंद॑वः , आपः॑ , न , प्र॒ऽवता॑ , अ॒स॒र॒न् । पु॒ना॒नाः , इंद्रं॑ , आ॒श॒त॒ ॥
यमत्य॑मिव वा॒जिनं॑ मृ॒जंति॒ योष॑णो॒ दश॑ । वने॒ क्रीळं॑त॒मत्य॑विं ॥
यं , अत्यं॑ऽइव , वा॒जिनं॑ , मृ॒जंति॑ , योष॑णः , दश॑ । वने॑ , क्रीळं॑तं , अति॑ऽअविं ॥
तं गोभि॒र्वृष॑णं॒ रसं॒ मदा॑य दे॒ववी॑तये । सु॒तं भरा॑य॒ सं सृ॑ज ॥
तं , गोभिः॑ , वृष॑णं , रसं॑ , मदा॑य , दे॒वऽवी॑तये । सु॒तं , भरा॑य , सं , सृ॒ज॒ ॥
दे॒वो दे॒वाय॒ धार॒येंद्रा॑य पवते सु॒तः । पयो॒ यद॑स्य पी॒पय॑त् ॥
दे॒वः , दे॒वाय॑ , धार॑या , इंद्रा॑य , प॒व॒ते॒ , सु॒तः । पयः॑ , यत् , अ॒स्य॒ , पी॒पय॑त् ॥
आ॒त्मा य॒ज्ञस्य॒ रंह्या॑ सुष्वा॒णः प॑वते सु॒तः । प्र॒त्नं नि पा॑ति॒ काव्यं॑ ॥
आ॒त्मा , य॒ज्ञस्य॑ , रंह्या॑ , सु॒स्वा॒णः , प॒व॒ते॒ , सु॒तः । प्र॒त्नं , नि , पा॒ति॒ , काव्यं॑ ॥
ए॒वा पु॑ना॒न इं॑द्र॒युर्मदं॑ मदिष्ठ वी॒तये॑ । गुहा॑ चिद्दधिषे॒ गिरः॑ ॥
ए॒व , पु॒ना॒नः , इं॒द्र॒ऽयुः , मदं॑ , म॒दि॒ष्ठ॒ , वी॒तये॑ । गुहा॑ , चि॒त् , द॒धि॒षे॒ , गिरः॑ ॥
[७] असृग्रमिति नवर्चस्य सूक्तस्य काश्यपोऽसितः पवमानः सोमो गायत्री |
असृ॑ग्र॒मिंद॑वः प॒था धर्म॑न्नृ॒तस्य॑ सु॒श्रियः॑ । वि॒दा॒ना अ॑स्य॒ योज॑नं ॥
असृ॑ग्रं , इंद॑वः , प॒था , धर्म॑न् , ऋ॒तस्य॑ , सु॒ऽश्रियः॑ । वि॒दा॒नाः , अ॒स्य॒ , योज॑नं ॥
प्र धारा॒ मध्वो॑ अग्रि॒यो म॒हीर॒पो वि गा॑हते । ह॒विर्ह॒विष्षु॒ वंद्यः॑ ॥
प्र , धारा॑ , मध्वः॑ , अ॒ग्रि॒यः , म॒हीः , अ॒पः , वि , गा॒ह॒ते॒ । ह॒विः , ह॒विष्षु॑ , वंद्यः॑ ॥
प्र यु॒जो वा॒चो अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने॑ । सद्मा॒भि स॒त्यो अ॑ध्व॒रः ॥
प्र , यु॒जः , वा॒चः , अ॒ग्रि॒यः , वृषा॑ , अव॑ , च॒क्र॒द॒त् , वने॑ । सद्म॑ , अ॒भि , स॒त्यः , अ॒ध्व॒रः ॥
परि॒ यत्काव्या॑ क॒विर्नृ॒म्णा वसा॑नो॒ अर्ष॑ति । स्व॑र्वा॒जी सि॑षासति ॥
परि॑ , यत् , काव्या॑ , क॒विः , नृ॒म्णा , वसा॑नः , अर्ष॑ति । स्वः॑ , वा॒जी , सि॒सा॒स॒ति॒ ॥
पव॑मानो अ॒भि स्पृधो॒ विशो॒ राजे॑व सीदति । यदी॑मृ॒ण्वंति॑ वे॒धसः॑ ॥
पव॑मानः , अ॒भि , स्पृधः॑ , विशः॑ , राजा॑ऽइव , सी॒द॒ति॒ । यत् , ईं॒ , ऋ॒ण्वंति॑ , वे॒धसः॑ ॥
अव्यो॒ वारे॒ परि॑ प्रि॒यो हरि॒र्वने॑षु सीदति । रे॒भो व॑नुष्यते म॒ती ॥
अव्यः॑ , वारे॑ , परि॑ , प्रि॒यः , हरिः॑ , वने॑षु , सी॒द॒ति॒ । रे॒भः , व॒नु॒ष्य॒ते॒ , म॒ती ॥
स वा॒युमिंद्र॑म॒श्विना॑ सा॒कं मदे॑न गच्छति । रणा॒ यो अ॑स्य॒ धर्म॑भिः ॥
सः , वा॒युं , इंद्रं॑ , अ॒श्विना॑ , सा॒कं , मदे॑न , ग॒च्छ॒ति॒ । रण॑ , यः , अ॒स्य॒ , धर्म॑ऽभिः ॥
आ मि॒त्रावरु॑णा॒ भगं॒ मध्वः॑ पवंत ऊ॒र्मयः॑ । वि॒दा॒ना अ॑स्य॒ शक्म॑भिः ॥
आ , मि॒त्रावरु॑णा , भगं॑ , मध्वः॑ , प॒वं॒ते॒ , ऊ॒र्मयः॑ । वि॒दा॒नाः , अ॒स्य॒ , शक्म॑ऽभिः ॥
अ॒स्मभ्यं॑ रोदसी र॒यिं मध्वो॒ वाज॑स्य सा॒तये॑ । श्रवो॒ वसू॑नि॒ सं जि॑तं ॥
अ॒स्मभ्यं॑ , रो॒द॒सी॒ इति॑ , र॒यिं , मध्वः॑ , वाज॑स्य , सा॒तये॑ । श्रवः॑ , वसू॑नि , सं , जि॒तं॒ ॥
[८] एतेसोमा इति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानःसोमो गायत्री |
ए॒ते सोमा॑ अ॒भि प्रि॒यमिंद्र॑स्य॒ काम॑मक्षरन् । वर्धं॑तो अस्य वी॒र्यं॑ ॥
ए॒ते , सोमाः॑ , अ॒भि , प्रि॒यं , इंद्र॑स्य , कामं॑ , अ॒क्ष॒र॒न् । वर्धं॑तः , अ॒स्य॒ , वी॒र्यं॑ ॥
पु॒ना॒नास॑श्चमू॒षदो॒ गच्छं॑तो वा॒युम॒श्विना॑ । ते नो॑ धांतु सु॒वीर्यं॑ ॥
पु॒ना॒नासः॑ , च॒मू॒ऽसदः॑ , गच्छं॑तः , वा॒युं , अ॒श्विना॑ । ते , नः॒ , धां॒तु॒ , सु॒ऽवीर्यं॑ ॥
इंद्र॑स्य सोम॒ राध॑से पुना॒नो हार्दि॑ चोदय । ऋ॒तस्य॒ योनि॑मा॒सदं॑ ॥
इंद्र॑स्य , सो॒म॒ , राध॑से , पु॒ना॒नः , हार्दि॑ , चो॒द॒य॒ । ऋ॒तस्य॑ , योनिं॑ , आ॒ऽसदं॑ ॥
मृ॒जंति॑ त्वा॒ दश॒ क्षिपो॑ हि॒न्वंति॑ स॒प्त धी॒तयः॑ । अनु॒ विप्रा॑ अमादिषुः ॥
मृ॒जंति॑ , त्वा॒ , दश॑ , क्षिपः॑ , हि॒न्वंति॑ , स॒प्त , धी॒तयः॑ । अनु॑ , विप्राः॑ , अ॒मा॒दि॒षुः॒ ॥
दे॒वेभ्य॑स्त्वा॒ मदा॑य॒ कं सृ॑जा॒नमति॑ मे॒ष्यः॑ । सं गोभि॑र्वासयामसि ॥
दे॒वेभ्यः॑ , त्वा॒ , मदा॑य , कं , सृ॒जा॒नं , अति॑ , मे॒ष्यः॑ । सं , गोभिः॑ , वा॒स॒या॒म॒सि॒ ॥
पु॒ना॒नः क॒लशे॒ष्वा वस्त्रा॑ण्यरु॒षो हरिः॑ । परि॒ गव्या॑न्यव्यत ॥
पु॒ना॒नः , क॒लशे॑षु , आ , वस्त्रा॑णि , अ॒रु॒षः , हरिः॑ । परि॑ , गव्या॑नि , अ॒व्य॒त॒ ॥
म॒घोन॒ आ प॑वस्व नो ज॒हि विश्वा॒ अप॒ द्विषः॑ । इंदो॒ सखा॑य॒मा वि॑श ॥
म॒घोनः॑ , आ , प॒व॒स्व॒ , नः॒ , ज॒हि , विश्वाः॑ , अप॑ , द्विषः॑ । इंदो॒ इति॑ , सखा॑यं , आ , वि॒श॒ ॥
वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या अधि॑ । सहो॑ नः सोम पृ॒त्सु धाः॑ ॥
वृ॒ष्टिं , दि॒वः , परि॑ , स्र॒व॒ , द्यु॒म्नं , पृ॒थि॒व्याः , अधि॑ । सहः॑ , नः॒ , सो॒म॒ , पृ॒त्ऽसु , धाः॒ ॥
नृ॒चक्ष॑सं त्वा व॒यमिंद्र॑पीतं स्व॒र्विदं॑ । भ॒क्षी॒महि॑ प्र॒जामिषं॑ ॥
नृ॒ऽचक्ष॑सं , त्वा॒ , व॒यं , इंद्र॑ऽपीतं , स्वः॒ऽविदं॑ । भ॒क्षी॒महि॑ , प्र॒ऽजां , इषं॑ ॥
[९] परिप्रियेति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानःसोमो गायत्री
परि॑ प्रि॒या दि॒वः क॒विर्वयां॑सि न॒प्त्यो॑र्हि॒तः । सु॒वा॒नो या॑ति क॒विक्र॑तुः ॥
परि॑ , प्रि॒या , दि॒वः , क॒विः , वयां॑सि , न॒प्त्योः॑ , हि॒तः । सु॒वा॒नः , या॒ति॒ , क॒विऽक्र॑तुः ॥
प्रप्र॒ क्षया॑य॒ पन्य॑से॒ जना॑य॒ जुष्टो॑ अ॒द्रुहे॑ । वी॒त्य॑र्ष॒ चनि॑ष्ठया ॥
प्रऽप्र॑ , क्षया॑य , पन्य॑से , जना॑य , जुष्टः॑ , अ॒द्रुहे॑ । वी॒ती , अ॒र्ष॒ , चनि॑ष्ठया ॥
स सू॒नुर्मा॒तरा॒ शुचि॑र्जा॒तो जा॒ते अ॑रोचयत् । म॒हान्म॒ही ऋ॑ता॒वृधा॑ ॥
सः , सू॒नुः , मा॒तरा॑ , शुचिः॑ , जा॒तः , जा॒ते इति॑ , अ॒रो॒च॒य॒त् । म॒हान् , म॒ही इति॑ , ऋ॒त॒ऽवृधा॑ ॥
स स॒प्त धी॒तिभि॑र्हि॒तो न॒द्यो॑ अजिन्वद॒द्रुहः॑ । या एक॒मक्षि॑ वावृ॒धुः ॥
सः , स॒प्त , धी॒तिऽभिः॑ , हि॒तः , न॒द्यः॑ , अ॒जि॒न्व॒त् , अ॒द्रुहः॑ । याः , एकं॑ , अक्षि॑ , व॒वृ॒धुः ॥
ता अ॒भि संत॒मस्तृ॑तं म॒हे युवा॑न॒मा द॑धुः । इंदु॑मिंद्र॒ तव॑ व्र॒ते ॥
ताः , अ॒भि , संतं॑ , अस्तृ॑तं , म॒हे , युवा॑नं , आ , द॒धुः॒ । इंदुं॑ , इं॒द्र॒ , तव॑ , व्र॒ते ॥
अ॒भि वह्नि॒रम॑र्त्यः स॒प्त प॑श्यति॒ वाव॑हिः । क्रिवि॑र्दे॒वीर॑तर्पयत् ॥
अ॒भि , वह्निः॑ , अम॑र्त्यः , स॒प्त , प॒श्य॒ति॒ , वाव॑हिः । क्रिविः॑ , दे॒वीः , अ॒त॒र्प॒य॒त् ॥
अवा॒ कल्पे॑षु नः पुम॒स्तमां॑सि सोम॒ योध्या॑ । तानि॑ पुनान जंघनः ॥
अव॑ , कल्पे॑षु , नः॒ , पु॒मः॒ , तमां॑सि , सो॒म॒ , योध्या॑ । तानि॑ , पु॒ना॒न॒ , जं॒घ॒नः॒ ॥
नू नव्य॑से॒ नवी॑यसे सू॒क्ताय॑ साधया प॒थः । प्र॒त्न॒वद्रो॑चया॒ रुचः॑ ॥
नु , नव्य॑से , नवी॑यसे , सु॒ऽउ॒क्ताय॑ , सा॒ध॒य॒ , प॒थः । प्र॒त्न॒ऽवत् , रो॒च॒य॒ , रुचः॑ ॥
पव॑मान॒ महि॒ श्रवो॒ गामश्वं॑ रासि वी॒रव॑त् । सना॑ मे॒धां सना॒ स्वः॑ ॥
पव॑मान , महि॑ , श्रवः॑ , गां , अश्वं॑ , रा॒सि॒ , वी॒रऽव॑त् । सन॑ , मे॒धां , सना॑ , स्व१॒॑रिति॒ स्वः॑ ॥
[१०] प्रस्वानास इति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री |
प्र स्वा॒नासो॒ रथा॑ इ॒वार्वं॑तो॒ न श्र॑व॒स्यवः॑ । सोमा॑सो रा॒ये अ॑क्रमुः ॥
प्र , स्वा॒नासः॑ , रथाः॑ऽइव , अर्वं॑तः , न , श्र॒व॒स्यवः॑ । सोमा॑सः , रा॒ये , अ॒क्र॒मुः॒ ॥
हि॒न्वा॒नासो॒ रथा॑ इव दधन्वि॒रे गभ॑स्त्योः । भरा॑सः का॒रिणा॑मिव ॥
हि॒न्वा॒नासः॑ , रथाः॑ऽइव , द॒ध॒न्वि॒रे , गभ॑स्त्योः । भरा॑सः , का॒रिणां॑ऽइव ॥
राजा॑नो॒ न प्रश॑स्तिभिः॒ सोमा॑सो॒ गोभि॑रंजते । य॒ज्ञो न स॒प्त धा॒तृभिः॑ ॥
राजा॑नः , न , प्रश॑स्तिऽभिः , सोमा॑सः , गोभिः॑ , अं॒ज॒ते॒ । य॒ज्ञः , न , स॒प्त , धा॒तृऽभिः॑ ॥
परि॑ सुवा॒नास॒ इंद॑वो॒ मदा॑य ब॒र्हणा॑ गि॒रा । सु॒ता अ॑र्षंति॒ धार॑या ॥
परि॑ , सु॒वा॒नासः॑ , इंद॑वः , मदा॑य , ब॒र्हणा॑ , गि॒रा । सु॒ताः , अ॒र्षं॒ति॒ , धार॑या ॥
आ॒पा॒नासो॑ वि॒वस्व॑तो॒ जनं॑त उ॒षसो॒ भगं॑ । सूरा॒ अण्वं॒ वि त॑न्वते ॥
आ॒पा॒नासः॑ , वि॒वस्व॑तः , जनं॑तः , उ॒षसः॑ , भगं॑ । सूराः॑ , अण्वं॑ , वि , त॒न्व॒ते॒ ॥
अप॒ द्वारा॑ मती॒नां प्र॒त्ना ऋ॑ण्वंति का॒रवः॑ । वृष्णो॒ हर॑स आ॒यवः॑ ॥
अप॑ , द्वारा॑ , म॒ती॒नां , प्र॒त्नाः , ऋ॒ण्वं॒ति॒ , का॒रवः॑ । वृष्णः॑ , हर॑से , आ॒यवः॑ ॥
स॒मी॒ची॒नास॑ आसते॒ होता॑रः स॒प्तजा॑मयः । प॒दमेक॑स्य॒ पिप्र॑तः ॥
सं॒ऽई॒ची॒नासः॑ , आ॒स॒ते॒ , होता॑रः , स॒प्तऽजा॑मयः । प॒दं , एक॑स्य , पिप्र॑तः ॥
नाभा॒ नाभिं॑ न॒ आ द॑दे॒ चक्षु॑श्चि॒त्सूर्ये॒ सचा॑ । क॒वेरप॑त्य॒मा दु॑हे ॥
नाभा॑ , नाभिं॑ , नः॒ , आ , द॒दे॒ , चक्षुः॑ , चि॒त् , सूर्ये॑ , सचा॑ । क॒वेः , अप॑त्यं , आ , दु॒हे॒ ॥
अ॒भि प्रि॒या दि॒वस्प॒दम॑ध्व॒र्युभि॒र्गुहा॑ हि॒तं । सूरः॑ पश्यति॒ चक्ष॑सा ॥
अ॒भि , प्रि॒या , दि॒वः , प॒दं , अ॒ध्व॒र्युऽभिः॑ , गुहा॑ , हि॒तं । सूरः॑ , प॒श्य॒ति॒ , चक्ष॑सा ॥
[११] उपास्माइति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री |
उपा॑स्मै गायता नरः॒ पव॑माना॒येंद॑वे । अ॒भि दे॒वाँ इय॑क्षते ॥
उप॑ , अ॒स्मै॒ , गा॒य॒त॒ , न॒रः॒ , पव॑मानाय , इंद॑वे । अ॒भि , दे॒वान् , इय॑क्षते ॥
अ॒भि ते॒ मधु॑ना॒ पयोऽथ॑र्वाणो अशिश्रयुः । दे॒वं दे॒वाय॑ देव॒यु ॥
अ॒भि , ते॒ , मधु॑ना , पयः॑ , अथ॑र्वाणः , अ॒शि॒श्र॒युः॒ । दे॒वं , दे॒वाय॑ , दे॒व॒ऽयु ॥
स नः॑ पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते । शं रा॑ज॒न्नोष॑धीभ्यः ॥
सः , नः॒ , प॒व॒स्व॒ , शं , गवे॑ , शं , जना॑य , शं , अर्व॑ते । शं , रा॒ज॒न् , ओष॑धीभ्यः ॥
ब॒भ्रवे॒ नु स्वत॑वसेऽरु॒णाय॑ दिवि॒स्पृशे॑ । सोमा॑य गा॒थम॑र्चत ॥
ब॒भ्रवे॑ , नु , स्वऽत॑वसे , अ॒रु॒णाय॑ , दि॒वि॒ऽस्पृशे॑ । सोमा॑य , गा॒थं , अ॒र्च॒त॒ ॥
हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं॑ पुनीतन । मधा॒वा धा॑वता॒ मधु॑ ॥
हस्त॑ऽच्युतेभिः , अद्रि॑ऽभिः , सु॒तं , सोमं॑ , पु॒नी॒त॒न॒ । मधौ॑ , आ , धा॒व॒त॒ , मधु॑ ॥
नम॒सेदुप॑ सीदत द॒ध्नेद॒भि श्री॑णीतन । इंदु॒मिंद्रे॑ दधातन ॥
नम॑सा , इत् , उप॑ , सी॒द॒त॒ , द॒ध्ना , इत् , अ॒भि , श्री॒णी॒त॒न॒ । इंदुं॑ , इंद्रे॑ , द॒धा॒त॒न॒ ॥
अ॒मि॒त्र॒हा विच॑र्षणिः॒ पव॑स्व सोम॒ शं गवे॑ । दे॒वेभ्यो॑ अनुकाम॒कृत् ॥
अ॒मि॒त्र॒ऽहा , विऽच॑र्षणिः , पव॑स्व , सो॒म॒ , शं , गवे॑ । दे॒वेभ्यः॑ , अ॒नु॒का॒म॒ऽकृत् ॥
इंद्रा॑य सोम॒ पात॑वे॒ मदा॑य॒ परि॑ षिच्यसे । म॒न॒श्चिन्मन॑स॒स्पतिः॑ ॥
इंद्रा॑य , सो॒म॒ , पात॑वे , मदा॑य , परि॑ , सि॒च्य॒से॒ । म॒नः॒ऽचित् , मन॑सः , पतिः॑ ॥
पव॑मान सु॒वीर्यं॑ र॒यिं सो॑म रिरीहि नः । इंद॒विंद्रे॑ण नो यु॒जा ॥
पव॑मान , सु॒ऽवीर्यं॑ , र॒यिं , सो॒म॒ , रि॒री॒हि॒ , नः॒ । इंदो॒ इति॑ , इंद्रे॑ण , नः॒ , यु॒जा ॥
[१२] सोमाअसृग्रमिति नवर्चस्य सूक्तस्य काश्यपोसितःपवमानः सोमो गायत्री |
सोमा॑ असृग्र॒मिंद॑वः सु॒ता ऋ॒तस्य॒ साद॑ने । इंद्रा॑य॒ मधु॑मत्तमाः ॥
सोमाः॑ , अ॒सृ॒ग्रं॒ , इंद॑वः , सु॒ताः , ऋ॒तस्य॑ , सद॑ने । इंद्रा॑य , मधु॑मत्ऽतमाः ॥
अ॒भि विप्रा॑ अनूषत॒ गावो॑ व॒त्सं न मा॒तरः॑ । इंद्रं॒ सोम॑स्य पी॒तये॑ ॥
अ॒भि , विप्राः॑ , अ॒नू॒ष॒त॒ , गावः॑ , व॒त्सं , न , मा॒तरः॑ । इंद्रं॑ , सोम॑स्य , पी॒तये॑ ॥
म॒द॒च्युत्क्षे॑ति॒ साद॑ने॒ सिंधो॑रू॒र्मा वि॑प॒श्चित् । सोमो॑ गौ॒री अधि॑ श्रि॒तः ॥
म॒द॒ऽच्युत् , क्षे॒ति॒ , सद॑ने , सिंधोः॑ , ऊ॒र्मा , वि॒पः॒ऽचित् । सोमः॑ , गौ॒री इति॑ , अधि॑ , श्रि॒तः ॥
दि॒वो नाभा॑ विचक्ष॒णोऽव्यो॒ वारे॑ महीयते । सोमो॒ यः सु॒क्रतुः॑ क॒विः ॥
दि॒वः , नाभा॑ , वि॒ऽच॒क्ष॒णः , अव्यः॑ , वारे॑ , म॒ही॒य॒ते॒ । सोमः॑ , यः , सु॒ऽक्रतुः॑ , क॒विः ॥
यः सोमः॑ क॒लशे॒ष्वाँ अं॒तः प॒वित्र॒ आहि॑तः । तमिंदुः॒ परि॑ षस्वजे ॥
यः , सोमः॑ , क॒लशे॑षु , आ , अं॒तरिति॑ , प॒वित्रे॑ , आऽहि॑तः । तं , इंदुः॑ , परि॑ , स॒स्व॒जे॒ ॥
प्र वाच॒मिंदु॑रिष्यति समु॒द्रस्याधि॑ वि॒ष्टपि॑ । जिन्व॒न्कोशं॑ मधु॒श्चुतं॑ ॥
प्र , वाचं॑ , इंदुः॑ , इ॒ष्य॒ति॒ , स॒मु॒द्रस्य॑ , अधि॑ , वि॒ष्टपि॑ । जिन्व॑न् , कोशं॑ , म॒धु॒ऽश्चुतं॑ ॥
नित्य॑स्तोत्रो॒ वन॒स्पति॑र्धी॒नामं॒तः स॑ब॒र्दुघः॑ । हि॒न्वा॒नो मानु॑षा यु॒गा ॥
नित्य॑ऽस्तोत्रः , वन॒स्पतिः॑ , धी॒नां , अं॒तरिति॑ , स॒बः॒ऽदुघः॑ । हि॒न्वा॒नः , मानु॑षा , यु॒गा ॥
अ॒भि प्रि॒या दि॒वस्प॒दा सोमो॑ हिन्वा॒नो अ॑र्षति । विप्र॑स्य॒ धार॑या क॒विः ॥
अ॒भि , प्रि॒या , दि॒वः , प॒दा , सोमः॑ , हि॒न्वा॒नः , अ॒र्ष॒ति॒ । विप्र॑स्य , धार॑या , क॒विः ॥
आ प॑वमान धारय र॒यिं स॒हस्र॑वर्चसं । अ॒स्मे इं॑दो स्वा॒भुवं॑ ॥
आ , प॒व॒मा॒न॒ , धा॒र॒य॒ , र॒यिं , स॒हस्र॑ऽवर्चसं । अ॒स्मे इति॑ , इं॒दो॒ इति॑ , सु॒ऽआ॒भुवं॑ ॥
[१३] सोमः पुनानइति नवर्चस्य सूक्तस्य काश्यपोऽसितः पवमानः सोमो गायत्री | (पवमान पारायण द्वितीयोध्यायः)
सोमः॑ पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः । वा॒योरिंद्र॑स्य निष्कृ॒तं ॥
सोमः॑ , पु॒ना॒नः , अ॒र्ष॒ति॒ , स॒हस्र॑ऽधारः , अति॑ऽअविः । वा॒योः , इंद्र॑स्य , निः॒ऽकृ॒तं ॥
पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा॑यत । सु॒ष्वा॒णं दे॒ववी॑तये ॥
पव॑मानं , अ॒व॒स्य॒वः॒ , विप्रं॑ , अ॒भि , प्र , गा॒य॒त॒ । सु॒स्वा॒णं , दे॒वऽवी॑तये ॥
पवं॑ते॒ वाज॑सातये॒ सोमाः॑ स॒हस्र॑पाजसः । गृ॒णा॒ना दे॒ववी॑तये ॥
पवं॑ते , वाज॑ऽसातये , सोमाः॑ , स॒हस्र॑ऽपाजसः । गृ॒णा॒नाः , दे॒वऽवी॑तये ॥
उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिषः॑ । द्यु॒मदिं॑दो सु॒वीर्यं॑ ॥
उ॒त , नः॒ , वाज॑ऽसातये , पव॑स्व , बृ॒ह॒तीः , इषः॑ । द्यु॒ऽमत् , इं॒दो॒ इति॑ , सु॒ऽवीर्यं॑ ॥
ते नः॑ सह॒स्रिणं॑ र॒यिं पवं॑ता॒मा सु॒वीर्यं॑ । सु॒वा॒ना दे॒वास॒ इंद॑वः ॥
ते , नः॒ , स॒ह॒स्रिणं॑ , र॒यिं , पवं॑तां , आ , सु॒ऽवीर्यं॑ । सु॒वा॒नाः , दे॒वासः॑ , इंद॑वः ॥
अत्या॑ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये । वि वार॒मव्य॑मा॒शवः॑ ॥
अत्याः॑ , हि॒या॒नाः , न , हे॒तृऽभिः॑ , असृ॑ग्रं , वाज॑ऽसातये । वि , वारं॑ , अव्यं॑ , आ॒शवः॑ ॥
वा॒श्रा अ॑र्षं॒तींद॑वो॒ऽभि व॒त्सं न धे॒नवः॑ । द॒ध॒न्वि॒रे गभ॑स्त्योः ॥
वा॒श्राः , अ॒र्षं॒ति॒ , इंद॑वः , अ॒भि , व॒त्सं , न , धे॒नवः॑ । द॒ध॒न्वि॒रे , गभ॑स्त्योः ॥
जुष्ट॒ इंद्रा॑य मत्स॒रः पव॑मान॒ कनि॑क्रदत् । विश्वा॒ अप॒ द्विषो॑ जहि ॥
जुष्टः॑ , इंद्रा॑य , म॒त्स॒रः , पव॑मान , कनि॑क्रदत् । विश्वाः॑ , अप॑ , द्विषः॑ , ज॒हि॒ ॥
अ॒प॒घ्नंतो॒ अरा॑व्णः॒ पव॑मानाः स्व॒र्दृशः॑ । योना॑वृ॒तस्य॑ सीदत ॥
अ॒प॒ऽघ्नंतः॑ , अरा॑व्णः , पव॑मानाः , स्वः॒ऽदृशः॑ । योनौ॑ , ऋ॒तस्य॑ , सी॒द॒त॒ ॥
[१४] परिप्रेत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानःसोमो गायत्री |
परि॒ प्रासि॑ष्यदत्क॒विः सिंधो॑रू॒र्मावधि॑ श्रि॒तः । का॒रं बिभ्र॑त्पुरु॒स्पृहं॑ ॥
परि॑ , प्र , अ॒सि॒स्य॒द॒त् , क॒विः , सिंधोः॑ , ऊ॒र्मौ , अधि॑ , श्रि॒तः । का॒रं , बिभ्र॑त् , पु॒रु॒ऽस्पृहं॑ ॥
गि॒रा यदी॒ सबं॑धवः॒ पंच॒ व्राता॑ अप॒स्यवः॑ । प॒रि॒ष्कृ॒ण्वंति॑ धर्ण॒सिं ॥
गि॒रा , यदि॑ , सऽबं॑धवः , पंच॑ , व्राताः॑ , अ॒प॒स्यवः॑ । प॒रि॒ऽकृ॒ण्वंति॑ , ध॒र्ण॒सिं ॥
आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे॑ दे॒वा अ॑मत्सत । यदी॒ गोभि॑र्वसा॒यते॑ ॥
आत् , अ॒स्य॒ , शु॒ष्मिणः॑ , रसे॑ , विश्वे॑ , दे॒वाः , अ॒म॒त्स॒त॒ । यदि॑ , गोभिः॑ , व॒सा॒यते॑ ॥
नि॒रि॒णा॒नो वि धा॑वति॒ जह॒च्छर्या॑णि॒ तान्वा॑ । अत्रा॒ सं जि॑घ्नते यु॒जा ॥
नि॒ऽरि॒णा॒नः , वि , धा॒व॒ति॒ , जह॑त् , शर्या॑णि , तान्वा॑ । अत्र॑ , सं , जि॒घ्न॒ते॒ , यु॒जा ॥
न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा॑मृ॒जे युवा॑ । गाः कृ॑ण्वा॒नो न नि॒र्णिजं॑ ॥
न॒प्तीभिः॑ , यः , वि॒वस्व॑तः , शु॒भ्रः , न , म॒मृ॒जे , युवा॑ । गाः , कृ॒ण्वा॒नः , न , निः॒ऽनिजं॑ ॥
अति॑ श्रि॒ती ति॑र॒श्चता॑ ग॒व्या जि॑गा॒त्यण्व्या॑ । व॒ग्नुमि॑यर्ति॒ यं वि॒दे ॥
अति॑ , श्रि॒ती , ति॒र॒श्चता॑ , ग॒व्या , जि॒गा॒ति॒ , अण्व्या॑ । व॒ग्नुं , इ॒य॒र्ति॒ , यं , वि॒दे ॥
अ॒भि क्षिपः॒ सम॑ग्मत म॒र्जयं॑तीरि॒षस्पतिं॑ । पृ॒ष्ठा गृ॑भ्णत वा॒जिनः॑ ॥
अ॒भि , क्षिपः॑ , सं , अ॒ग्म॒त॒ , म॒र्जयं॑तीः , इ॒षः , पतिं॑ । पृ॒ष्ठा , गृ॒भ्ण॒त॒ , वा॒जिनः॑ ॥
परि॑ दि॒व्यानि॒ मर्मृ॑श॒द्विश्वा॑नि सोम॒ पार्थि॑वा । वसू॑नि याह्यस्म॒युः ॥
परि॑ , दि॒व्यानि॑ , मर्मृ॑शत् , विश्वा॑नि , सो॒म॒ , पार्थि॑वा । वसू॑नि , या॒हि॒ , अ॒स्म॒ऽयुः ॥
[१५] एषधियेत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानःसोमोगायत्री |
ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे॑भिरा॒शुभिः॑ । गच्छ॒न्निंद्र॑स्य निष्कृ॒तं ॥
ए॒षः , धि॒या , या॒ति॒ , अण्व्या॑ , शूरः॑ , रथे॑भिः , आ॒शुऽभिः॑ । गच्छ॑न् , इंद्र॑स्य , निः॒ऽकृ॒तं ॥
ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये । यत्रा॒मृता॑स॒ आस॑ते ॥
ए॒षः , पु॒रु , धि॒या॒ऽय॒ते॒ , बृ॒ह॒ते , दे॒वऽता॑तये । यत्र॑ , अ॒मृता॑सः , आस॑ते ॥
ए॒ष हि॒तो वि नी॑यते॒ऽन्तः शु॒भ्राव॑ता प॒था । यदी॑ तुं॒जंति॒ भूर्ण॑यः ॥
ए॒षः , हि॒तः , वि , नी॒य॒ते॒ , अं॒तरिति॑ , शु॒भ्रऽव॑ता , प॒था । यदि॑ , तुं॒जंति॑ , भूर्ण॑यः ॥
ए॒ष शृंगा॑णि॒ दोधु॑व॒च्छिशी॑ते यू॒थ्यो॒३॒॑ वृषा॑ । नृ॒म्णा दधा॑न॒ ओज॑सा ॥
ए॒षः , शृंगा॑णि , दोधु॑वत् , शिशी॑ते , यू॒थ्यः॑ , वृषा॑ । नृ॒म्णा , दधा॑नः , ओज॑सा ॥
ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभिः॑ । पतिः॒ सिंधू॑नां॒ भव॑न् ॥
ए॒षः , रु॒क्मिऽभिः॑ , ई॒य॒ते॒ , वा॒जी , शु॒भ्रेभिः॑ , अं॒शुऽभिः॑ । पतिः॑ , सिंधू॑नां , भव॑न् ॥
ए॒ष वसू॑नि पिब्द॒ना परु॑षा ययि॒वाँ अति॑ । अव॒ शादे॑षु गच्छति ॥
ए॒षः , वसू॑नि , पि॒ब्द॒ना , परु॑षा , य॒यि॒ऽवान् , अति॑ । अव॑ , शादे॑षु , ग॒च्छ॒ति॒ ॥
ए॒तं मृ॑जंति॒ मर्ज्य॒मुप॒ द्रोणे॑ष्वा॒यवः॑ । प्र॒च॒क्रा॒णं म॒हीरिषः॑ ॥
ए॒तं , मृ॒जं॒ति॒ , मर्ज्यं॑ , उप॑ , द्रोणे॑षु , आ॒यवः॑ । प्र॒ऽच॒क्रा॒णं , म॒हीः , इषः॑ ॥
ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जंति॑ स॒प्त धी॒तयः॑ । स्वा॒यु॒धं म॒दिंत॑मं ॥
ए॒तं , ऊँ॒ इति॑ , त्यं , दश॑ , क्षिपः॑ , मृ॒जंति॑ , स॒प्त , धी॒तयः॑ । सु॒ऽआ॒यु॒धं , म॒दिन्ऽत॑मं ॥
[१६] प्रतेसोतारइत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री |
प्र ते॑ सो॒तार॑ ओ॒ण्यो॒३॒॑ रसं॒ मदा॑य॒ घृष्व॑ये । सर्गो॒ न त॒क्त्येत॑शः ॥
प्र , ते॒ , सो॒तारः॑ , ओ॒ण्योः॑ , रसं॑ , मदा॑य , घृष्व॑ये । सर्गः॑ , न , त॒क्ति॒ , एत॑शः ॥
क्रत्वा॒ दक्ष॑स्य र॒थ्य॑म॒पो वसा॑न॒मंध॑सा । गो॒षामण्वे॑षु सश्चिम ॥
क्रत्वा॑ , दक्ष॑स्य , र॒थ्यं॑ , अ॒पः , वसा॑नं , अंध॑सा । गो॒ऽसां , अण्वे॑षु , स॒श्चि॒म॒ ॥
अन॑प्तम॒प्सु दु॒ष्टरं॒ सोमं॑ प॒वित्र॒ आ सृ॑ज । पु॒नी॒हींद्रा॑य॒ पात॑वे ॥
अन॑प्तं , अ॒प्ऽसु , दु॒स्तरं॑ , सोमं॑ , प॒वित्रे॑ , आ , सृ॒ज॒ । पु॒नी॒हि , इंद्रा॑य , पात॑वे ॥
प्र पु॑ना॒नस्य॒ चेत॑सा॒ सोमः॑ प॒वित्रे॑ अर्षति । क्रत्वा॑ स॒धस्थ॒मास॑दत् ॥
प्र , पु॒ना॒नस्य॑ , चेत॑सा , सोमः॑ , प॒वित्रे॑ , अ॒र्ष॒ति॒ । क्रत्वा॑ , स॒धऽस्थं॑ , आ , अ॒स॒द॒त् ॥
प्र त्वा॒ नमो॑भि॒रिंद॑व॒ इंद्र॒ सोमा॑ असृक्षत । म॒हे भरा॑य का॒रिणः॑ ॥
प्र , त्वा॒ , नमः॑ऽभिः , इंद॑वः , इंद्र॑ , सोमाः॑ , अ॒सृ॒क्ष॒त॒ । म॒हे , भरा॑य , का॒रिणः॑ ॥
पु॒ना॒नो रू॒पे अ॒व्यये॒ विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ । शूरो॒ न गोषु॑ तिष्ठति ॥
पु॒ना॒नः , रू॒पे , अ॒व्यव्ये॑ , विश्वाः॑ , अर्ष॑न् , अ॒भि , श्रियः॑ । शूरः॑ , न , गोषु॑ , ति॒ष्ठ॒ति॒ ॥
दि॒वो न सानु॑ पि॒प्युषी॒ धारा॑ सु॒तस्य॑ वे॒धसः॑ । वृथा॑ प॒वित्रे॑ अर्षति ॥
दि॒वः , न , सानु॑ , पि॒प्युषी॑ , धारा॑ , सु॒तस्य॑ , वे॒धसः॑ । वृथा॑ , प॒वित्रे॑ , अ॒र्ष॒ति॒ ॥
त्वं सो॑म विप॒श्चितं॒ तना॑ पुना॒न आ॒युषु॑ । अव्यो॒ वारं॒ वि धा॑वसि ॥
त्वं , सो॒म॒ , वि॒पः॒ऽचितं॑ , तना॑ , पु॒ना॒नः , आ॒युषु॑ । अव्यः॑ , वारं॑ , वि , धा॒व॒सि॒ ॥
[१७] प्रनिम्नेनेवेत्य ष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री |
प्र नि॒म्नेने॑व॒ सिंध॑वो॒ घ्नंतो॑ वृ॒त्राणि॒ भूर्ण॑यः । सोमा॑ असृग्रमा॒शवः॑ ॥
प्र , नि॒मेन॑ऽइव , सिंध॑वः , घ्नंतः॑ , वृ॒त्राणि॑ , भूर्ण॑यः । सोमाः॑ , अ॒सृ॒ग्रं॒ , आ॒शवः॑ ॥
अ॒भि सु॑वा॒नास॒ इंद॑वो वृ॒ष्टयः॑ पृथि॒वीमि॑व । इंद्रं॒ सोमा॑सो अक्षरन् ॥
अ॒भि , सु॒वा॒नासः॑ , इंद॑वः , वृ॒ष्टयः॑ , पृ॒थि॒वींऽइ॑व । इंद्रं॑ , सोमा॑सः , अ॒क्ष॒र॒न् ॥
अत्यू॑र्मिर्मत्स॒रो मदः॒ सोमः॑ प॒वित्रे॑ अर्षति । वि॒घ्नन्रक्षां॑सि देव॒युः ॥
अति॑ऽऊर्मिः , म॒त्स॒रः , मदः॑ , सोमः॑ , प॒वित्रे॑ , अ॒र्ष॒ति॒ । वि॒ऽघ्नन् , रक्षां॑सि , दे॒व॒ऽयुः ॥
आ क॒लशे॑षु धावति प॒वित्रे॒ परि॑ षिच्यते । उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ॥
आ , क॒लशे॑षु , धा॒व॒ति॒ , प॒वित्रे॑ , परि॑ , सि॒च्य॒ते॒ । उ॒क्थैः , य॒ज्ञेषु॑ , व॒र्ध॒ते॒ ॥
अति॒ त्री सो॑म रोच॒ना रोह॒न्न भ्रा॑जसे॒ दिवं॑ । इ॒ष्णंत्सूर्यं॒ न चो॑दयः ॥
अति॑ , त्री , सो॒म॒ , रो॒च॒ना , रोह॑न् , न , भ्रा॒ज॒से॒ , दिवं॑ । इ॒ष्णन् , सूर्यं॑ , न , चो॒द॒यः॒ ॥
अ॒भि विप्रा॑ अनूषत मू॒र्धन्य॒ज्ञस्य॑ का॒रवः॑ । दधा॑ना॒श्चक्ष॑सि प्रि॒यं ॥
अ॒भि , विप्राः॑ , अ॒नू॒ष॒त॒ , मू॒र्धन् , य॒ज्ञस्य॑ , का॒रवः॑ । दधा॑नाः , चक्ष॑सि , प्रि॒यं ॥
तमु॑ त्वा वा॒जिनं॒ नरो॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ । मृ॒जंति॑ दे॒वता॑तये ॥
तं , ऊँ॒ इति॑ , त्वा॒ , वा॒जिनं॑ , नरः॑ , धी॒भिः , विप्राः॑ , अ॒व॒स्यवः॑ । मृ॒जंति॑ , दे॒वऽता॑तये ॥
मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः । चारु॑र्ऋ॒ताय॑ पी॒तये॑ ॥
मधोः॑ , धारां॑ , अनु॑ , क्ष॒र॒ , ती॒व्रः , स॒धऽस्थं॑ , आ , अ॒स॒दः॒ । चारुः॑ , ऋ॒ताय॑ , पी॒तये॑ ॥
[१८] परिसुवानइति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री |
परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो॑ अक्षाः । मदे॑षु सर्व॒धा अ॑सि ॥
परि॑ , सु॒वा॒नः , गि॒रि॒ऽस्थाः , प॒वित्रे॑ , सोमः॑ , अ॒क्षा॒रिति॑ । मदे॑षु , स॒र्व॒ऽधाः , अ॒सि॒ ॥
त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमंध॑सः । मदे॑षु सर्व॒धा अ॑सि ॥
त्वं , विप्रः॑ , त्वं , क॒विः , मधु॑ , प्र , जा॒तं , अंध॑सः । मदे॑षु , स॒र्व॒ऽधाः , अ॒सि॒ ॥
तव॒ विश्वे॑ स॒जोष॑सो दे॒वासः॑ पी॒तिमा॑शत । मदे॑षु सर्व॒धा अ॑सि ॥
तव॑ , विश्वे॑ , स॒ऽजोष॑सः , दे॒वासः॑ , पी॒तिं , आ॒श॒त॒ । मदे॑षु , स॒र्व॒ऽधाः , अ॒सि॒ ॥
आ यो विश्वा॑नि॒ वार्या॒ वसू॑नि॒ हस्त॑योर्द॒धे । मदे॑षु सर्व॒धा अ॑सि ॥
आ , यः , विश्वा॑नि , वार्या॑ , वसू॑नि , हस्त॑योः , द॒धे । मदे॑षु , स॒र्व॒ऽधाः , अ॒सि॒ ॥
य इ॒मे रोद॑सी म॒ही सं मा॒तरे॑व॒ दोह॑ते । मदे॑षु सर्व॒धा अ॑सि ॥
यः , इ॒मे इति॑ , रोद॑सी॒ इति॑ , म॒ही इति॑ , सं , मा॒तरा॑ऽइव , दोह॑ते । मदे॑षु , स॒र्व॒ऽधाः , अ॒सि॒ ॥
परि॒ यो रोद॑सी उ॒भे स॒द्यो वाजे॑भि॒रर्ष॑ति । मदे॑षु सर्व॒धा अ॑सि ॥
परि॑ , यः , रोद॑सी॒ इति॑ , उ॒भे इति॑ , स॒द्यः , वाजे॑भिः , अर्ष॑ति । मदे॑षु , स॒र्व॒ऽधाः , अ॒सि॒ ॥
स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो अ॑चिक्रदत् । मदे॑षु सर्व॒धा अ॑सि ॥
सः , शु॒ष्मी , क॒लशे॑षु , आ , पु॒ना॒नः , अ॒चि॒क्र॒द॒त् । मदे॑षु , स॒र्व॒ऽधाः , अ॒सि॒ ॥
[१९] यत्सोमेति सप्तर्चस्य सूक्तस्य काश्यपोसितःपवमा नसोमो गायत्री |
यत्सो॑म चि॒त्रमु॒क्थ्यं॑ दि॒व्यं पार्थि॑वं॒ वसु॑ । तन्नः॑ पुना॒न आ भ॑र ॥
यत् , सो॒म॒ , चि॒त्रं , उ॒क्थ्यं॑ , दि॒व्यं , पार्थि॑वं , वसु॑ । तत् , नः॒ , पु॒ना॒नः , आ , भ॒र॒ ॥
यु॒वं हि स्थः स्व॑र्पती॒ इंद्र॑श्च सोम॒ गोप॑ती । ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥
यु॒वं , हि , स्थः , स्व॑र्पती॒ इति॒ स्वः॑ऽपती , इंद्रः॑ , च॒ , सो॒म॒ , गोप॑ती॒ इति॒ गोऽप॑ती । ई॒शा॒ना , पि॒प्य॒तं॒ , धियः॑ ॥
वृषा॑ पुना॒न आ॒युषु॑ स्त॒नय॒न्नधि॑ ब॒र्हिषि॑ । हरिः॒ सन्योनि॒मास॑दत् ॥
वृषा॑ , पु॒ना॒नः , आ॒युषु॑ , स्त॒नय॑न् , अधि॑ , ब॒र्हिषि॑ । हरिः॑ , सन् , योनिं॑ , आ , अ॒स॒द॒त् ॥
अवा॑वशंत धी॒तयो॑ वृष॒भस्याधि॒ रेत॑सि । सू॒नोर्व॒त्सस्य॑ मा॒तरः॑ ॥
अवा॑वशंत , धी॒तयः॑ , वृ॒ष॒भस्य॑ , अधि॑ , रेत॑सि । सू॒नोः , व॒त्सस्य॑ , मा॒तरः॑ ॥
कु॒विद्वृ॑ष॒ण्यंती॑भ्यः पुना॒नो गर्भ॑मा॒दध॑त् । याः शु॒क्रं दु॑ह॒ते पयः॑ ॥
कु॒वित् , वृ॒ष॒ण्यंती॑भ्यः , पु॒ना॒नः , गर्भं॑ , आ॒ऽदध॑त् । याः , शु॒क्रं , दु॒ह॒ते , पयः॑ ॥
उप॑ शिक्षापत॒स्थुषो॑ भि॒यस॒मा धे॑हि॒ शत्रु॑षु । पव॑मान वि॒दा र॒यिं ॥
उप॑ , शि॒क्ष॒ , अ॒प॒ऽत॒स्थुषः॑ , भि॒यसं॑ , आ , धे॒हि॒ , शत्रु॑षु । पव॑मान , वि॒दाः , र॒यिं ॥
नि शत्रोः॑ सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय॑स्तिर । दू॒रे वा॑ स॒तो अंति॑ वा ॥
नि , शत्रोः॑ , सो॒म॒ , वृष्ण्यं॑ , नि , शुष्मं॑ , नि , वयः॑ , ति॒र॒ । दू॒रे , वा॒ , स॒तः , अंति॑ , वा॒ ॥
[२०] प्रकविरिति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री |
प्र क॒विर्दे॒ववी॑त॒येऽव्यो॒ वारे॑भिरर्षति । सा॒ह्वान्विश्वा॑ अ॒भि स्पृधः॑ ॥
प्र , क॒विः , दे॒वऽवी॑तये , अव्यः॑ , वारे॑भिः , अ॒र्ष॒ति॒ । स॒ह्वान् , विश्वाः॑ , अ॒भि , स्पृधः॑ ॥
स हि ष्मा॑ जरि॒तृभ्य॒ आ वाजं॒ गोमं॑त॒मिन्व॑ति । पव॑मानः सह॒स्रिणं॑ ॥
सः , हि , स्म॒ , ज॒रि॒तृऽभ्यः॑ , आ , वाजं॑ , गोऽमं॑तं , इन्व॑ति । पव॑मानः , स॒ह॒स्रिणं॑ ॥
परि॒ विश्वा॑नि॒ चेत॑सा मृ॒शसे॒ पव॑से म॒ती । स नः॑ सोम॒ श्रवो॑ विदः ॥
परि॑ , विश्वा॑नि , चेत॑सा , मृ॒शसे॑ , पव॑से , म॒ती । सः , नः॒ , सो॒म॒ , श्रवः॑ , वि॒दः॒ ॥
अ॒भ्य॑र्ष बृ॒हद्यशो॑ म॒घव॑द्भ्यो ध्रु॒वं र॒यिं । इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
अ॒भि , अ॒र्ष॒ , बृ॒हत् , यशः॑ , म॒घव॑त्ऽभ्यः , ध्रु॒वं , र॒यिं । इषं॑ , स्तो॒तृऽभ्यः॑ , आ , भ॒र॒ ॥
त्वं राजे॑व सुव्र॒तो गिरः॑ सो॒मा वि॑वेशिथ । पु॒ना॒नो व॑ह्ने अद्भुत ॥
त्वं , राजा॑ऽइव , सु॒ऽव्र॒तः , गिरः॑ , सो॒म॒ , आ , वि॒वे॒शि॒थ॒ । पु॒ना॒नः , व॒ह्ने॒ , अ॒द्भु॒त॒ ॥
स वह्नि॑र॒प्सु दु॒ष्टरो॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः । सोम॑श्च॒मूषु॑ सीदति ॥
सः , वह्निः॑ , अ॒प्ऽसु , दु॒स्तरः॑ , मृ॒ज्यमा॑नः , गभ॑स्त्योः । सोमः॑ , च॒मूषु॑ , सी॒द॒ति॒ ॥
क्री॒ळुर्म॒खो न मं॑ह॒युः प॒वित्रं॑ सोम गच्छसि । दध॑त्स्तो॒त्रे सु॒वीर्यं॑ ॥
क्री॒ळुः , म॒खः , न , मं॒ह॒युः , प॒वित्रं॑ , सो॒म॒ , ग॒च्छ॒सि॒ । दध॑त् , स्तो॒त्रे , सु॒ऽवीर्यं॑ ॥
[२१] एतेधावंतीति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री |
ए॒ते धा॑वं॒तींद॑वः॒ सोमा॒ इंद्रा॑य॒ घृष्व॑यः । म॒त्स॒रासः॑ स्व॒र्विदः॑ ॥
ए॒ते , धा॒वं॒ति॒ , इंद॑वः , सोमाः॑ , इंद्रा॑य , घृष्व॑यः । म॒त्स॒रासः॑ , स्वः॒ऽविदः॑ ॥
प्र॒वृ॒ण्वंतो॑ अभि॒युजः॒ सुष्व॑ये वरिवो॒विदः॑ । स्व॒यं स्तो॒त्रे व॑य॒स्कृतः॑ ॥
प्र॒ऽवृ॒ण्वंतः॑ , अ॒भि॒ऽयुजः॑ , सुस्व॑ये , व॒रि॒वः॒ऽविदः॑ । स्व॒यं , स्तो॒त्रे , व॒यः॒ऽकृतः॑ ॥
वृथा॒ क्रीळं॑त॒ इंद॑वः स॒धस्थ॑म॒भ्येक॒मित् । सिंधो॑रू॒र्मा व्य॑क्षरन् ॥
वृथा॑ , क्रीळं॑तः , इंद॑वः , स॒धऽस्थं॑ , अ॒भि , एकं॑ , इत् । सिंधोः॑ , ऊ॒र्मा , वि , अ॒क्ष॒र॒न् ॥
ए॒ते विश्वा॑नि॒ वार्या॒ पव॑मानास आशत । हि॒ता न सप्त॑यो॒ रथे॑ ॥
ए॒ते , विश्वा॑नि , वार्या॑ , पव॑मानासः , आ॒श॒त॒ । हि॒ताः , न , सप्त॑यः , रथे॑ ॥
आस्मि॑न्पि॒शंग॑मिंदवो॒ दधा॑ता वे॒नमा॒दिशे॑ । यो अ॒स्मभ्य॒मरा॑वा ॥
आ , अ॒स्मि॒न् , पि॒शंगं॑ , इं॒द॒वः॒ , दधा॑त , वे॒नं , आ॒ऽदिशे॑ । यः , अ॒स्मभ्यं॑ , अरा॑वा ॥
ऋ॒भुर्न रथ्यं॒ नवं॒ दधा॑ता॒ केत॑मा॒दिशे॑ । शु॒क्राः प॑वध्व॒मर्ण॑सा ॥
ऋ॒भुः , न , रथ्यं॑ , नवं॑ , दधा॑त , केतं॑ , आ॒ऽदिशे॑ । शु॒क्राः , प॒व॒ध्वं॒ , अर्ण॑सा ॥
ए॒त उ॒ त्ये अ॑वीवश॒न्काष्ठां॑ वा॒जिनो॑ अक्रत । स॒तः प्रासा॑विषुर्म॒तिं ॥
ए॒ते , ऊँ॒ इति॑ , त्ये , अ॒वी॒व॒श॒न् , काष्ठां॑ , वा॒जिनः॑ , अ॒क्र॒त॒ । स॒तः , प्र , अ॒सा॒वि॒षुः॒ , म॒तिं ॥
[२२] एतेसोमासइति सप्तर्चस्य सूक्तस्य काश्यपोसितःपवमानःसोमोगायत्री |
ए॒ते सोमा॑स आ॒शवो॒ रथा॑ इव॒ प्र वा॒जिनः॑ । सर्गाः॑ सृ॒ष्टा अ॑हेषत ॥
ए॒ते , सोमा॑सः , आ॒शवः॑ , रथाः॑ऽइव , प्र , वा॒जिनः॑ । सर्गाः॑ , सृ॒ष्टाः , अ॒हे॒ष॒त॒ ॥
ए॒ते वाता॑ इवो॒रवः॑ प॒र्जन्य॑स्येव वृ॒ष्टयः॑ । अ॒ग्नेरि॑व भ्र॒मा वृथा॑ ॥
ए॒ते , वाताः॑ऽइव , उ॒रवः॑ , प॒र्जन्य॑स्यऽइव , वृ॒ष्टयः॑ । अ॒ग्नेःऽइ॑व , भ्र॒माः , वृथा॑ ॥
ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा॑सो॒ दध्या॑शिरः । वि॒पा व्या॑नशु॒र्धियः॑ ॥
ए॒ते , पू॒ताः , वि॒पः॒ऽचितः॑ , सोमा॑सः , दधि॑ऽआशिरः । वि॒पा , वि , आ॒न॒शुः॒ , धियः॑ ॥
ए॒ते मृ॒ष्टा अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः । इय॑क्षंतः प॒थो रजः॑ ॥
ए॒ते , मृ॒ष्टाः , अम॑र्त्याः , स॒सृ॒ऽवांसः॑ , न , श॒श्र॒मुः॒ । इय॑क्षंतः , प॒थः , रजः॑ ॥
ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यंतो॒ व्या॑नशुः । उ॒तेदमु॑त्त॒मं रजः॑ ॥
ए॒ते , पृ॒ष्ठानि॑ , रोद॑सोः , वि॒ऽप्र॒यंतः॑ , वि , आ॒न॒शुः॒ । उ॒त , इ॒दं , उ॒त्ऽत॒मं , रजः॑ ॥
तंतुं॑ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत । उ॒तेदमु॑त्त॒माय्यं॑ ॥
तंतुं॑ , त॒न्वा॒नं , उ॒त्ऽत॒मं , अनु॑ , प्र॒ऽवतः॑ , आ॒श॒त॒ । उ॒त , इ॒दं , उ॒त्त॒माय्यं॑ ॥
त्वं सो॑म प॒णिभ्य॒ आ वसु॒ गव्या॑नि धारयः । त॒तं तंतु॑मचिक्रदः ॥
त्वं , सो॒म॒ , प॒णिऽभ्यः॑ , आ , वसु॑ , गव्या॑नि , धा॒र॒यः॒ । त॒तं , तंतुं॑ , अ॒चि॒क्र॒दः॒ ॥
[२३] सोमा असृग्रमिति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमोगायत्री |
सोमा॑ असृग्रमा॒शवो॒ मधो॒र्मद॑स्य॒ धार॑या । अ॒भि विश्वा॑नि॒ काव्या॑ ॥
सोमाः॑ , अ॒सृ॒ग्रं॒ , आ॒शवः॑ , मधोः॑ , मद॑स्य , धार॑या । अ॒भि , विश्वा॑नि , काव्या॑ ॥
अनु॑ प्र॒त्नास॑ आ॒यवः॑ प॒दं नवी॑यो अक्रमुः । रु॒चे ज॑नंत॒ सूर्यं॑ ॥
अनु॑ , प्र॒त्नासः॑ , आ॒यवः॑ , प॒दं , नवी॑यः , अ॒क्र॒मुः॒ । रु॒चे , ज॒नं॒त॒ , सूर्यं॑ ॥
आ प॑वमान नो भरा॒र्यो अदा॑शुषो॒ गयं॑ । कृ॒धि प्र॒जाव॑ती॒रिषः॑ ॥
आ , प॒व॒मा॒न॒ , नः॒ , भ॒र॒ , अ॒र्यः , अदा॑शुषः , गयं॑ । कृ॒धि , प्र॒जाऽव॑तीः , इषः॑ ॥
अ॒भि सोमा॑स आ॒यवः॒ पवं॑ते॒ मद्यं॒ मदं॑ । अ॒भि कोशं॑ मधु॒श्चुतं॑ ॥
अ॒भि , सोमा॑सः , आ॒यवः॑ , पवं॑ते , मद्यं॑ , मदं॑ । अ॒भि , कोशं॑ , म॒धु॒ऽश्चुतं॑ ॥
सोमो॑ अर्षति धर्ण॒सिर्दधा॑न इंद्रि॒यं रसं॑ । सु॒वीरो॑ अभिशस्ति॒पाः ॥
सोमः॑ , अ॒र्ष॒ति॒ , ध॒र्ण॒सिः , दधा॑नः , इं॒द्रि॒यं , रसं॑ । सु॒ऽवीरः॑ , अ॒भि॒श॒स्ति॒ऽपाः ॥
इंद्रा॑य सोम पवसे दे॒वेभ्यः॑ सध॒माद्यः॑ । इंदो॒ वाजं॑ सिषाससि ॥
इंद्रा॑य , सो॒म॒ , प॒व॒से॒ , दे॒वेभ्यः॑ , स॒ध॒ऽमाद्यः॑ । इंदो॒ इति॑ , वाजं॑ , सि॒सा॒स॒सि॒ ॥
अ॒स्य पी॒त्वा मदा॑ना॒मिंद्रो॑ वृ॒त्राण्य॑प्र॒ति । ज॒घान॑ ज॒घन॑च्च॒ नु ॥
अ॒स्य , पी॒त्वा , मदा॑नां , इंद्रः॑ , वृ॒त्राणि॑ , अ॒प्र॒ति । ज॒घान॑ , ज॒घन॑त् , च॒ , नु ॥
[२४] प्रसोमासइति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री |
प्र सोमा॑सो अधन्विषुः॒ पव॑मानास॒ इंद॑वः । श्री॒णा॒ना अ॒प्सु मृं॑जत ॥
प्र , सोमा॑सः , अ॒ध॒न्वि॒षुः॒ , पव॑मानासः , इंद॑वः । श्री॒णा॒नाः , अ॒प्ऽसु , मृं॒ज॒त॒ ॥
अ॒भि गावो॑ अधन्विषु॒रापो॒ न प्र॒वता॑ य॒तीः । पु॒ना॒ना इंद्र॑माशत ॥
अ॒भि , गावः॑ , अ॒ध॒न्वि॒षुः॒ , आपः॑ , न , प्र॒ऽवता॑ , य॒तीः । पु॒ना॒नाः , इंद्रं॑ , आ॒श॒त॒ ॥
प्र प॑वमान धन्वसि॒ सोमेंद्रा॑य॒ पात॑वे । नृभि॑र्य॒तो वि नी॑यसे ॥
प्र , प॒व॒मा॒न॒ , ध॒न्व॒सि॒ , सोम॑ , इंद्रा॑य , पात॑वे । नृऽभिः॑ , य॒तः , वि , नी॒य॒से॒ ॥
त्वं सो॑म नृ॒माद॑नः॒ पव॑स्व चर्षणी॒सहे॑ । सस्नि॒र्यो अ॑नु॒माद्यः॑ ॥
त्वं , सो॒म॒ , नृ॒ऽमाद॑नः , पव॑स्व , च॒र्ष॒णि॒ऽसहे॑ । सस्निः॑ , यः , अ॒नु॒ऽमाद्यः॑ ॥
इंदो॒ यदद्रि॑भिः सु॒तः प॒वित्रं॑ परि॒धाव॑सि । अर॒मिंद्र॑स्य॒ धाम्ने॑ ॥
इंदो॒ इति॑ , यत् , अद्रि॑ऽभिः , सु॒तः , प॒वित्रं॑ , प॒रि॒ऽधाव॑सि । अरं॑ , इंद्र॑स्य , धाम्ने॑ ॥
पव॑स्व वृत्रहंतमो॒क्थेभि॑रनु॒माद्यः॑ । शुचिः॑ पाव॒को अद्भु॑तः ॥
पव॑स्व , वृ॒त्र॒ह॒न्ऽत॒म॒ , उ॒क्थेभिः॑ , अ॒नु॒ऽमाद्यः॑ । शुचिः॑ , पा॒व॒कः , अद्भु॑तः ॥
शुचिः॑ पाव॒क उ॑च्यते॒ सोमः॑ सु॒तस्य॒ मध्वः॑ । दे॒वा॒वीर॑घशंस॒हा ॥
शुचिः॑ , पा॒व॒कः , उ॒च्य॒ते॒ , सोमः॑ , सु॒तस्य॑ , मध्वः॑ । दे॒व॒ऽअ॒वीः , अ॒घ॒शं॒स॒ऽहा ॥
[२५] पवस्वेति षडृचस्य सूक्तस्यागस्त्योदृळ्हच्युतः पवमानः सोमोगायत्री |
पव॑स्व दक्ष॒साध॑नो दे॒वेभ्यः॑ पी॒तये॑ हरे । म॒रुद्भ्यो॑ वा॒यवे॒ मदः॑ ॥
पव॑स्व , द॒क्ष॒ऽसाध॑नः , दे॒वेभ्यः॑ , पी॒तये॑ , ह॒रे॒ । म॒रुत्ऽभ्यः॑ , वा॒यवे॑ , मदः॑ ॥
पव॑मान धि॒या हि॒तो॒३॒॑ऽभि योनिं॒ कनि॑क्रदत् । धर्म॑णा वा॒युमा वि॑श ॥
पव॑मान , धि॒या , हि॒तः , अ॒भि , योनिं॑ , कनि॑क्रदत् । धर्म॑णा , वा॒युं , आ , वि॒श॒ ॥
सं दे॒वैः शो॑भते॒ वृषा॑ क॒विर्योना॒वधि॑ प्रि॒यः । वृ॒त्र॒हा दे॑व॒वीत॑मः ॥
सं , दे॒वैः , शो॒भ॒ते॒ , वृषा॑ , क॒विः , योनौ॑ , अधि॑ , प्रि॒यः । वृ॒त्र॒ऽहा , दे॒व॒ऽवीत॑मः ॥
विश्वा॑ रू॒पाण्या॑वि॒शन्पु॑ना॒नो या॑ति हर्य॒तः । यत्रा॒मृता॑स॒ आस॑ते ॥
विश्वा॑ , रू॒पाणि॑ , आ॒ऽवि॒शन् , पु॒ना॒नः , या॒ति॒ , ह॒र्य॒तः । यत्र॑ , अ॒मृता॑सः , आस॑ते ॥
अ॒रु॒षो ज॒नय॒न्गिरः॒ सोमः॑ पवत आयु॒षक् । इंद्रं॒ गच्छ॑न्क॒विक्र॑तुः ॥
अ॒रु॒षः , ज॒नय॑न् , गिरः॑ , सोमः॑ , प॒व॒ते॒ , आ॒यु॒षक् । इंद्रं॑ , गच्छ॑न् , क॒विऽक्र॑तुः ॥
आ प॑वस्व मदिंतम प॒वित्रं॒ धार॑या कवे । अ॒र्कस्य॒ योनि॑मा॒सदं॑ ॥
आ , प॒व॒स्व॒ , म॒दि॒न्ऽत॒म॒ , प॒वित्रं॑ , धार॑या , क॒वे॒ । अ॒र्कस्य॑ , योनिं॑ , आ॒ऽसदं॑ ॥
[२६] तममृक्षंतेति षडृचस्य सूक्तस्य दार्डच्युतइध्मवाहः पवमानः सोमोगायत्री |
तम॑मृक्षंत वा॒जिन॑मु॒पस्थे॒ अदि॑ते॒रधि॑ । विप्रा॑सो॒ अण्व्या॑ धि॒या ॥
तं , अ॒मृ॒क्षं॒त॒ , वा॒जिनं॑ , उ॒पऽस्थे॑ , अदि॑तेः , अधि॑ । विप्रा॑सः , अण्व्या॑ , धि॒या ॥
तं गावो॑ अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तं । इंदुं॑ ध॒र्तार॒मा दि॒वः ॥
तं , गावः॑ , अ॒भि , अ॒नू॒ष॒त॒ , स॒हस्र॑ऽधारं , अक्षि॑तं । इंदुं॑ , ध॒र्तारं॑ , आ , दि॒वः ॥
तं वे॒धां मे॒धया॑ह्य॒न्पव॑मान॒मधि॒ द्यवि॑ । ध॒र्ण॒सिं भूरि॑धायसं ॥
तं , वे॒धां , मे॒धया॑ , अ॒ह्य॒न् , पव॑मानं , अधि॑ , द्यवि॑ । ध॒र्ण॒सिं , भूरि॑ऽधायसं ॥
तम॑ह्यन्भु॒रिजो॑र्धि॒या सं॒वसा॑नं वि॒वस्व॑तः । पतिं॑ वा॒चो अदा॑भ्यं ॥
तं , अ॒ह्य॒न् , भु॒रिजोः॑ , धि॒या , सं॒ऽवसा॑नं , वि॒वस्व॑तः । पतिं॑ , वा॒चः , अदा॑भ्यं ॥
तं साना॒वधि॑ जा॒मयो॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः । ह॒र्य॒तं भूरि॑चक्षसं ॥
तं , सानौ॑ , अधि॑ , जा॒मयः॑ , हरिं॑ , हि॒न्वं॒ति॒ , अद्रि॑ऽभिः । ह॒र्य॒तं , भूरि॑ऽचक्षसं ॥
तं त्वा॑ हिन्वंति वे॒धसः॒ पव॑मान गिरा॒वृधं॑ । इंद॒विंद्रा॑य मत्स॒रं ॥
तं , त्वा॒ , हि॒न्वं॒ति॒ , वे॒धसः॑ , पव॑मान , गि॒रा॒ऽवृधं॑ । इंदो॒ इति॑ , इंद्रा॑य , म॒त्स॒रं ॥
[२७] एषकविरिति षडृचस्य सूक्तस्यांगिरसो नृमेधः पवमानः सोमो गायत्री |
ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒ अधि॑ तोशते । पु॒ना॒नो घ्नन्नप॒ स्रिधः॑ ॥
ए॒षः , क॒विः , अ॒भिऽस्तु॑तः , प॒वित्रे॑ , अधि॑ , तो॒श॒ते॒ । पु॒ना॒नः , घ्नन् , अप॑ , स्रिधः॑ ॥
ए॒ष इंद्रा॑य वा॒यवे॑ स्व॒र्जित्परि॑ षिच्यते । प॒वित्रे॑ दक्ष॒साध॑नः ॥
ए॒षः , इंद्रा॑य , वा॒यवे॑ , स्वः॒ऽजित् , परि॑ , सि॒च्य॒ते॒ । प॒वित्रे॑ , द॒क्ष॒ऽसाध॑नः ॥
ए॒ष नृभि॒र्वि नी॑यते दि॒वो मू॒र्धा वृषा॑ सु॒तः । सोमो॒ वने॑षु विश्व॒वित् ॥
ए॒षः , नृऽभिः॑ , वि , नी॒य॒ते॒ , दि॒वः , मू॒र्धा , वृषा॑ , सु॒तः । सोमः॑ , वने॑षु , वि॒श्व॒ऽवित् ॥
ए॒ष ग॒व्युर॑चिक्रद॒त्पव॑मानो हिरण्य॒युः । इंदुः॑ सत्रा॒जिदस्तृ॑तः ॥
ए॒षः , ग॒व्युः , अ॒चि॒क्र॒द॒त् , पव॑मानः , हि॒र॒ण्य॒ऽयुः । इंदुः॑ , स॒त्रा॒ऽजित् , अस्तृ॑तः ॥
ए॒ष सूर्ये॑ण हासते॒ पव॑मानो॒ अधि॒ द्यवि॑ । प॒वित्रे॑ मत्स॒रो मदः॑ ॥
ए॒षः , सूर्ये॑ण , हा॒स॒ते॒ , पव॑मानः , अधि॑ , द्यवि॑ । प॒वित्रे॑ , म॒त्स॒रः , मदः॑ ॥
ए॒ष शु॒ष्म्य॑सिष्यददं॒तरि॑क्षे॒ वृषा॒ हरिः॑ । पु॒ना॒न इंदु॒रिंद्र॒मा ॥
ए॒षः , शु॒ष्मी , अ॒सि॒स्य॒द॒त् , अं॒तरि॑क्षे , वृषा॑ , हरिः॑ । पु॒ना॒नः , इंदुः॑ , इंद्रं॑ , आ ॥
[२८] एषवाजीति षडृचस्य सूक्तस्यांगिरसः प्रियमेधः पवमानःसोमो गायत्री |
ए॒ष वा॒जी हि॒तो नृभि॑र्विश्व॒विन्मन॑स॒स्पतिः॑ । अव्यो॒ वारं॒ वि धा॑वति ॥
ए॒षः , वा॒जी , हि॒तः , नृऽभिः॑ , वि॒श्व॒ऽवित् , मन॑सः , पतिः॑ । अव्यः॑ , वारं॑ , वि , धा॒व॒ति॒ ॥
ए॒ष प॒वित्रे॑ अक्षर॒त्सोमो॑ दे॒वेभ्यः॑ सु॒तः । विश्वा॒ धामा॑न्यावि॒शन् ॥
ए॒षः , प॒वित्रे॑ , अ॒क्ष॒र॒त् , सोमः॑ , दे॒वेभ्यः॑ , सु॒तः । विश्वा॑ , धामा॑नि , आ॒ऽवि॒शन् ॥
ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः । वृ॒त्र॒हा दे॑व॒वीत॑मः ॥
ए॒षः , दे॒वः , शु॒भा॒य॒ते॒ , अधि॑ , योनौ॑ , अम॑र्त्यः । वृ॒त्र॒ऽहा , दे॒व॒ऽवीत॑मः ॥
ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि॑र्य॒तः । अ॒भि द्रोणा॑नि धावति ॥
ए॒षः , वृषा॑ , कनि॑क्रदत् , द॒शऽभिः॑ , जा॒मिऽभिः॑ , य॒तः । अ॒भि , द्रोणा॑नि , धा॒व॒ति॒ ॥
ए॒ष सूर्य॑मरोचय॒त्पव॑मानो॒ विच॑र्षणिः । विश्वा॒ धामा॑नि विश्व॒वित् ॥
ए॒षः , सूर्यं॑ , अ॒रो॒च॒य॒त् , पव॑मानः , विऽच॑र्षणिः । विश्वा॑ , धामा॑नि , वि॒श्व॒ऽवित् ॥
ए॒ष शु॒ष्म्यदा॑भ्यः॒ सोमः॑ पुना॒नो अ॑र्षति । दे॒वा॒वीर॑घशंस॒हा ॥
ए॒षः , शु॒ष्मी , अदा॑भ्यः , सोमः॑ , पु॒ना॒नः , अ॒र्ष॒ति॒ । दे॒व॒ऽअ॒वीः , अ॒घ॒शं॒स॒ऽहा ॥
[२९] प्रास्यधाराइति षडृचस्य सूक्तस्यांगिरसोनृमेधः पवमानः सोमो गायत्री
प्रास्य॒ धारा॑ अक्षर॒न्वृष्णः॑ सु॒तस्यौज॑सा । दे॒वाँ अनु॑ प्र॒भूष॑तः ॥
प्र , अ॒स्य॒ , धाराः॑ , अ॒क्ष॒र॒न् , वृष्णः॑ , सु॒तस्य॑ , ओज॑सा । दे॒वान् , अनु॑ , प्र॒ऽभूष॑तः ॥
सप्तिं॑ मृजंति वे॒धसो॑ गृ॒णंतः॑ का॒रवो॑ गि॒रा । ज्योति॑र्जज्ञा॒नमु॒क्थ्यं॑ ॥
सप्तिं॑ , मृ॒जं॒ति॒ , वे॒धसः॑ , गृ॒णंतः॑ , का॒रवः॑ , गि॒रा । ज्योतिः॑ , ज॒ज्ञा॒नं , उ॒क्थ्यं॑ ॥
सु॒षहा॑ सोम॒ तानि॑ ते पुना॒नाय॑ प्रभूवसो । वर्धा॑ समु॒द्रमु॒क्थ्यं॑ ॥
सु॒ऽसहा॑ , सो॒म॒ , तानि॑ , ते॒ , पु॒ना॒नाय॑ , प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । वर्ध॑ , स॒मु॒द्रं , उ॒क्थ्यं॑ ॥
विश्वा॒ वसू॑नि सं॒जय॒न्पव॑स्व सोम॒ धार॑या । इ॒नु द्वेषां॑सि स॒ध्र्य॑क् ॥
विश्वा॑ , वसू॑नि , सं॒ऽजय॑न् , पव॑स्व , सो॒म॒ , धार॑या । इ॒नु , द्वेषां॑सि , स॒ध्र्य॑क् ॥
रक्षा॒ सु नो॒ अर॑रुषः स्व॒नात्स॑मस्य॒ कस्य॑ चित् । नि॒दो यत्र॑ मुमु॒च्महे॑ ॥
रक्ष॑ , सु , नः॒ , अर॑रुषः , स्व॒नात् , स॒मस्य॑ , कस्य॑ , चि॒त् । नि॒दः , यत्र॑ , मु॒मु॒च्महे॑ ॥
एंदो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या । द्यु॒मंतं॒ शुष्म॒मा भ॑र ॥
आ , इं॒दो॒ इति॑ , पार्थि॑वं , र॒यिं , दि॒व्यं , प॒व॒स्व॒ , धार॑या । द्यु॒ऽमंतं॑ , शुष्मं॑ , आ , भ॒र॒ ॥
[३०] प्रधाराइति षडृचस्य सूक्तस्यांगिरसो बिंदुः पवमानःसोमोगायत्री |
प्र धारा॑ अस्य शु॒ष्मिणो॒ वृथा॑ प॒वित्रे॑ अक्षरन् । पु॒ना॒नो वाच॑मिष्यति ॥
प्र , धाराः॑ , अ॒स्य॒ , शु॒ष्मिणः॑ , वृथा॑ , प॒वित्रे॑ , अ॒क्ष॒र॒न् । पु॒ना॒नः , वाचं॑ , इ॒ष्य॒ति॒ ॥
इंदु॑र्हिया॒नः सो॒तृभि॑र्मृ॒ज्यमा॑नः॒ कनि॑क्रदत् । इय॑र्ति व॒ग्नुमिं॑द्रि॒यं ॥
इंदुः॑ , हि॒या॒नः , सो॒तृऽभिः॑ , मृ॒ज्यमा॑नः , कनि॑क्रदत् । इय॑र्ति , व॒ग्नुं , इं॒द्रि॒यं ॥
आ नः॒ शुष्मं॑ नृ॒षाह्यं॑ वी॒रवं॑तं पुरु॒स्पृहं॑ । पव॑स्व सोम॒ धार॑या ॥
आ , नः॒ , शुष्मं॑ , नृ॒ऽसह्यं॑ , वी॒रऽवं॑तं , पु॒रु॒ऽस्पृहं॑ । पव॑स्व , सो॒म॒ , धार॑या ॥
प्र सोमो॒ अति॒ धार॑या॒ पव॑मानो असिष्यदत् । अ॒भि द्रोणा॑न्या॒सदं॑ ॥
प्र , सोमः॑ , अति॑ , धार॑या , पव॑मानः , अ॒सि॒स्य॒द॒त् । अ॒भि , द्रोणा॑नि , आ॒ऽसदं॑ ॥
अ॒प्सु त्वा॒ मधु॑मत्तमं॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः । इंद॒विंद्रा॑य पी॒तये॑ ॥
अ॒प्ऽसु , त्वा॒ , मधु॑मत्ऽतमं , हरिं॑ , हि॒न्वं॒ति॒ , अद्रि॑ऽभिः । इंदो॒ इति॑ , इंद्रा॑य , पी॒तये॑ ॥
सु॒नोता॒ मधु॑मत्तमं॒ सोम॒मिंद्रा॑य व॒ज्रिणे॑ । चारुं॒ शर्धा॑य मत्स॒रं ॥
सु॒नोत॑ , मधु॑मत्ऽतमं , सोमं॑ , इंद्रा॑य , व॒ज्रिणे॑ । चारुं॑ , शर्धा॑य , म॒त्स॒रं ॥
[३१] प्रसोमासइति षडृचस्य सूक्तस्य राहूगणोगोतमःपवमानः सोमोगायत्री |
प्र सोमा॑सः स्वा॒ध्य१॒॑ः पव॑मानासो अक्रमुः । र॒यिं कृ॑ण्वंति॒ चेत॑नं ॥
प्र , सोमा॑सः , सु॒ऽआ॒ध्यः॑ , पव॑मानासः , अ॒क्र॒मुः॒ । र॒यिं , कृ॒ण्वं॒ति॒ , चेत॑नं ॥
दि॒वस्पृ॑थि॒व्या अधि॒ भवें॑दो द्युम्न॒वर्ध॑नः । भवा॒ वाजा॑नां॒ पतिः॑ ॥
दि॒वः , पृ॒थि॒व्याः , अधि॑ , भव॑ , इं॒दो॒ इति॑ , द्यु॒म्न॒ऽवर्ध॑नः । भव॑ , वाजा॑नां , पतिः॑ ॥
तुभ्यं॒ वाता॑ अभि॒प्रिय॒स्तुभ्य॑मर्षंति॒ सिंध॑वः । सोम॒ वर्धं॑ति ते॒ महः॑ ॥
तुभ्यं॑ , वाताः॑ , अ॒भि॒ऽप्रियः॑ , तुभ्यं॑ , अ॒र्षं॒ति॒ , सिंध॑वः । सोम॑ , वर्धं॑ति , ते॒ , महः॑ ॥
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्यं॑ । भवा॒ वाज॑स्य संग॒थे ॥
आ , प्या॒य॒स्व॒ , सं , ए॒तु॒ , ते॒ , वि॒श्वतः॑ , सो॒म॒ , वृष्ण्यं॑ । भव॑ , वाज॑स्य , सं॒ऽग॒थे ॥
तुभ्यं॒ गावो॑ घृ॒तं पयो॒ बभ्रो॑ दुदु॒ह्रे अक्षि॑तं । वर्षि॑ष्ठे॒ अधि॒ सान॑वि ॥
तुभ्यं॑ , गावः॑ , घृ॒तं , पयः॑ , बभ्रो॒ इति॑ , दु॒दु॒ह्रे , अक्षि॑तं । वर्षि॑ष्ठे , अधि॑ , सान॑वि ॥
स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यं । इंदो॑ सखि॒त्वमु॑श्मसि ॥
सु॒ऽआ॒यु॒धस्य॑ , ते॒ , स॒तः , भुव॑नस्य , प॒ते॒ , व॒यं । इंदो॒ इति॑ , स॒खि॒ऽत्वं , उ॒श्म॒सि॒ ॥
[३२] प्रसोमासइति षडृचस्य सूक्तस्यात्रेयः श्यावाश्वः पवमानः सोमो गायत्री
प्र सोमा॑सो मद॒च्युतः॒ श्रव॑से नो म॒घोनः॑ । सु॒ता वि॒दथे॑ अक्रमुः ॥
प्र , सोमा॑सः , म॒द॒ऽच्युतः॑ , श्रव॑से , नः॒ , म॒घोनः॑ । सु॒ताः , वि॒दथे॑ , अ॒क्र॒मुः॒ ॥
आदीं॑ त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः । इंदु॒मिंद्रा॑य पी॒तये॑ ॥
आत् , ईं॒ , त्रि॒तस्य॑ , योष॑णः , हरिं॑ , हि॒न्वं॒ति॒ , अद्रि॑ऽभिः । इंदुं॑ , इंद्रा॑य , पी॒तये॑ ॥
आदीं॑ हं॒सो यथा॑ ग॒णं विश्व॑स्यावीवशन्म॒तिं । अत्यो॒ न गोभि॑रज्यते ॥
आत् , ईं॒ , हं॒सः , यथा॑ , ग॒णं , विश्व॑स्य , अ॒वी॒व॒श॒त् , म॒तिं । अत्यः॑ , न , गोभिः॑ , अ॒ज्य॒ते॒ ॥
उ॒भे सो॑माव॒चाक॑शन्मृ॒गो न त॒क्तो अ॑र्षसि । सीद॑न्नृ॒तस्य॒ योनि॒मा ॥
उ॒भे इति॑ , सो॒म॒ , अ॒व॒ऽचाक॑शत् , मृ॒गः , न , त॒क्तः , अ॒र्ष॒सि॒ । सीद॑न् , ऋ॒तस्य॑ , योनिं॑ , आ ॥
अ॒भि गावो॑ अनूषत॒ योषा॑ जा॒रमि॑व प्रि॒यं । अग॑न्ना॒जिं यथा॑ हि॒तं ॥
अ॒भि , गावः॑ , अ॒नू॒ष॒त॒ , योषा॑ , जा॒रंऽइ॑व , प्रि॒यं । अग॑न् , आ॒जिं , यथा॑ , हि॒तं ॥
अ॒स्मे धे॑हि द्यु॒मद्यशो॑ म॒घव॑द्भ्यश्च॒ मह्यं॑ च । स॒निं मे॒धामु॒त श्रवः॑ ॥
अ॒स्मे इति॑ , धे॒हि॒ , द्यु॒ऽमत् , यशः॑ , म॒घव॑त्ऽभ्यः , च॒ , मह्यं॑ , च॒ । स॒निं , मे॒धां , उ॒त , श्रवः॑ ॥
[३३] प्रसोमासइति षडृचस्य सूक्तस्याप्त्यस्त्रितः पवमानः सोमोगायत्री |
प्र सोमा॑सो विप॒श्चितो॒ऽपां न यं॑त्यू॒र्मयः॑ । वना॑नि महि॒षा इ॑व ॥
प्र , सोमा॑सः , वि॒पः॒ऽचितः॑ , अ॒पां , न , यं॒ति॒ , ऊ॒र्मयः॑ । वना॑नि , म॒हि॒षाःऽइ॑व ॥
अ॒भि द्रोणा॑नि ब॒भ्रवः॑ शु॒क्रा ऋ॒तस्य॒ धार॑या । वाजं॒ गोमं॑तमक्षरन् ॥
अ॒भि , द्रोणा॑नि , ब॒भ्रवः॑ , शु॒क्राः , ऋ॒तस्य॑ , धार॑या । वाजं॑ , गोऽमं॑तं , अ॒क्ष॒र॒न् ॥
सु॒ता इंद्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ । सोमा॑ अर्षंति॒ विष्ण॑वे ॥
सु॒ताः , इंद्रा॑य , वा॒यवे॑ , वरु॑णाय , म॒रुत्ऽभ्यः॑ । सोमाः॑ , अ॒र्षं॒ति॒ , विष्ण॑वे ॥
ति॒स्रो वाच॒ उदी॑रते॒ गावो॑ मिमंति धे॒नवः॑ । हरि॑रेति॒ कनि॑क्रदत् ॥
ति॒स्रः , वाचः॑ , उत् , ई॒र॒ते॒ , गावः॑ , मि॒मं॒ति॒ , धे॒नवः॑ । हरिः॑ , ए॒ति॒ , कनि॑क्रदत् ॥
अ॒भि ब्रह्मी॑रनूषत य॒ह्वीर्ऋ॒तस्य॑ मा॒तरः॑ । म॒र्मृ॒ज्यंते॑ दि॒वः शिशुं॑ ॥
अ॒भि , ब्रह्मीः॑ , अ॒नू॒ष॒त॒ , य॒ह्वीः , ऋ॒तस्य॑ , मा॒तरः॑ । म॒र्मृ॒ज्यंते॑ , दि॒वः , शिशुं॑ ॥
रा॒यः स॑मु॒द्राँश्च॒तुरो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ । आ प॑वस्व सह॒स्रिणः॑ ॥
रा॒यः , स॒मु॒द्रान् , च॒तुरः॑ , अ॒स्मभ्यं॑ , सो॒म॒ , वि॒श्वतः॑ । आ , प॒व॒स्व॒ , स॒ह॒स्रिणः॑ ॥
[३४] प्रसुवानइति षडृचस्य सूक्तस्याप्त्यस्त्रितः पवमानः सोमोगायत्री |
प्र सु॑वा॒नो धार॑या॒ तनेंदु॑र्हिन्वा॒नो अ॑र्षति । रु॒जद्दृ॒ळ्हा व्योज॑सा ॥
प्र , सु॒वा॒नः , धार॑या , तना॑ , इंदुः॑ , हि॒न्वा॒नः , अ॒र्ष॒ति॒ । रु॒जत् , दृ॒ळ्हा , वि , ओज॑सा ॥
सु॒त इंद्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ । सोमो॑ अर्षति॒ विष्ण॑वे ॥
सु॒तः , इंद्रा॑य , वा॒यवे॑ , वरु॑णाय , म॒रुत्ऽभ्यः॑ । सोमः॑ , अ॒र्ष॒ति॒ , विष्ण॑वे ॥
वृषा॑णं॒ वृष॑भिर्य॒तं सु॒न्वंति॒ सोम॒मद्रि॑भिः । दु॒हंति॒ शक्म॑ना॒ पयः॑ ॥
वृषा॑णं , वृष॑ऽभिः , य॒तं , सु॒न्वंति॑ , सोमं॑ , अद्रि॑ऽभिः । दु॒हंति॑ , शक्म॑ना , पयः॑ ॥
भुव॑त्त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिंद्रा॑य मत्स॒रः । सं रू॒पैर॑ज्यते॒ हरिः॑ ॥
भुव॑त् , त्रि॒तस्य॑ , मर्ज्यः॑ , भुव॑त् , इंद्रा॑य , म॒त्स॒रः । सं , रू॒पैः , अ॒ज्य॒ते॒ , हरिः॑ ॥
अ॒भीमृ॒तस्य॑ वि॒ष्टपं॑ दुह॒ते पृश्नि॑मातरः । चारु॑ प्रि॒यत॑मं ह॒विः ॥
अ॒भि , ईं॒ , ऋ॒तस्य॑ , वि॒ष्टपं॑ , दु॒ह॒ते , पृश्नि॑ऽमातरः । चारु॑ , प्रि॒यऽत॑मं , ह॒विः ॥
समे॑न॒मह्रु॑ता इ॒मा गिरो॑ अर्षंति स॒स्रुतः॑ । धे॒नूर्वा॒श्रो अ॑वीवशत् ॥
सं , ए॒नं॒ , अह्रु॑ताः , इ॒माः , गिरः॑ , अ॒र्षं॒ति॒ , स॒ऽस्रुतः॑ । धे॒नूः , वा॒श्रः , अ॒वी॒व॒श॒त् ॥
[३५] आनःपवस्वेति षडृचस्य सूक्तस्यांगिरसःप्रभूवसुः पवमानःसोमोगायत्री |
आ नः॑ पवस्व॒ धार॑या॒ पव॑मान र॒यिं पृ॒थुं । यया॒ ज्योति॑र्वि॒दासि॑ नः ॥
आ , नः॒ , प॒व॒स्व॒ , धार॑या , पव॑मान , र॒यिं , पृ॒थुं । यया॑ , ज्योतिः॑ , वि॒दासि॑ , नः॒ ॥
इंदो॑ समुद्रमींखय॒ पव॑स्व विश्वमेजय । रा॒यो ध॒र्ता न॒ ओज॑सा ॥
इंदो॒ इति॑ , स॒मु॒द्रं॒ऽईं॒ख॒य॒ , पव॑स्व , वि॒श्वं॒ऽए॒ज॒य॒ । रा॒यः , ध॒र्ता , नः॒ , ओज॑सा ॥
त्वया॑ वी॒रेण॑ वीरवो॒ऽभि ष्या॑म पृतन्य॒तः । क्षरा॑ णो अ॒भि वार्यं॑ ॥
त्वया॑ , वी॒रेण॑ , वी॒र॒ऽवः॒ , अ॒भि , स्या॒म॒ , पृ॒त॒न्य॒तः । क्षर॑ , नः॒ , अ॒भि , वार्यं॑ ॥
प्र वाज॒मिंदु॑रिष्यति॒ सिषा॑सन्वाज॒सा ऋषिः॑ । व्र॒ता वि॑दा॒न आयु॑धा ॥
प्र , वाजं॑ , इंदुः॑ , इ॒ष्य॒ति॒ , सिसा॑सन् , वा॒ज॒ऽसाः , ऋषिः॑ । व्र॒ता , वि॒दा॒नः , आयु॑धा ॥
तं गी॒र्भिर्वा॑चमींख॒यं पु॑ना॒नं वा॑सयामसि । सोमं॒ जन॑स्य॒ गोप॑तिं ॥
तं , गीः॒ऽभिः , वा॒चं॒ऽईं॒ख॒यं , पु॒ना॒नं , वा॒स॒या॒म॒सि॒ । सोमं॑ , जन॑स्य , गोऽप॑तिं ॥
विश्वो॒ यस्य॑ व्र॒ते जनो॑ दा॒धार॒ धर्म॑ण॒स्पतेः॑ । पु॒ना॒नस्य॑ प्र॒भूव॑सोः ॥
विश्वः॑ , यस्य॑ , व्र॒ते , जनः॑ , दा॒धार॑ , धर्म॑णः , पतेः॑ । पु॒ना॒नस्य॑ , प्र॒भुऽव॑सोः ॥
[३६] असर्जीति षडृचस्य सूक्तस्यांगिरसः प्रभूवसुः पवमानःसोमोगायत्री |
अस॑र्जि॒ रथ्यो॑ यथा प॒वित्रे॑ च॒म्वोः॑ सु॒तः । कार्ष्म॑न्वा॒जी न्य॑क्रमीत् ॥
अस॑र्जि , रथ्यः॑ , य॒था॒ , प॒वित्रे॑ , च॒म्वोः॑ , सु॒तः । कार्ष्म॑न् , वा॒जी , नि , अ॒क्र॒मी॒त् ॥
स वह्निः॑ सोम॒ जागृ॑विः॒ पव॑स्व देव॒वीरति॑ । अ॒भि कोशं॑ मधु॒श्चुतं॑ ॥
सः , वह्निः॑ , सो॒म॒ , जागृ॑विः , पव॑स्व , दे॒व॒ऽवीः , अति॑ । अ॒भि , कोशं॑ , म॒धु॒ऽश्चुतं॑ ॥
स नो॒ ज्योतीं॑षि पूर्व्य॒ पव॑मान॒ वि रो॑चय । क्रत्वे॒ दक्षा॑य नो हिनु ॥
सः , नः॒ , ज्योतीं॑षि , पू॒र्व्य॒ , पव॑मान , वि , रो॒च॒य॒ । क्रत्वे॑ , दक्षा॑य , नः॒ , हि॒नु॒ ॥
शुं॒भमा॑न ऋता॒युभि॑र्मृ॒ज्यमा॑नो॒ गभ॑स्त्योः । पव॑ते॒ वारे॑ अ॒व्यये॑ ॥
शुं॒भमा॑नः , ऋ॒त॒युऽभिः॑ , मृ॒ज्यमा॑नः , गभ॑स्त्योः । पव॑ते , वारे॑ , अ॒व्यये॑ ॥
स विश्वा॑ दा॒शुषे॒ वसु॒ सोमो॑ दि॒व्यानि॒ पार्थि॑वा । पव॑ता॒मांतरि॑क्ष्या ॥
सः , विश्वा॑ , दा॒शुषे॑ , वसु॑ , सोमः॑ , दि॒व्यानि॑ , पार्थि॑वा । पव॑तां , आ , अं॒तरि॑क्ष्या ॥
आ दि॒वस्पृ॒ष्ठम॑श्व॒युर्ग॑व्य॒युः सो॑म रोहसि । वी॒र॒युः श॑वसस्पते ॥
आ , दि॒वः , पृ॒ष्ठं , अ॒श्व॒ऽयुः , ग॒व्य॒ऽयुः , सो॒म॒ , रो॒ह॒सि॒ । वी॒र॒ऽयुः , श॒व॒सः॒ , प॒ते॒ ॥
[३७] ससुतइति षडृचस्यसूक्तस्यांगिरसोरहूगणः पवमानः सोमो गायत्री |
स सु॒तः पी॒तये॒ वृषा॒ सोमः॑ प॒वित्रे॑ अर्षति । वि॒घ्नन्रक्षां॑सि देव॒युः ॥
सः , सु॒तः , पी॒तये॑ , वृषा॑ , सोमः॑ , प॒वित्रे॑ , अ॒र्ष॒ति॒ । वि॒ऽघ्नन् , रक्षां॑सि , दे॒व॒ऽयुः ॥
स प॒वित्रे॑ विचक्ष॒णो हरि॑रर्षति धर्ण॒सिः । अ॒भि योनिं॒ कनि॑क्रदत् ॥
सः , प॒वित्रे॑ , वि॒ऽच॒क्ष॒णः , हरिः॑ , अ॒र्ष॒ति॒ , ध॒र्ण॒सिः । अ॒भि , योनिं॑ , कनि॑क्रदत् ॥
स वा॒जी रो॑च॒ना दि॒वः पव॑मानो॒ वि धा॑वति । र॒क्षो॒हा वार॑म॒व्ययं॑ ॥
सः , वा॒जी , रो॒च॒ना , दि॒वः , पव॑मानः , वि , धा॒व॒ति॒ । र॒क्षः॒ऽहा , वारं॑ , अ॒व्ययं॑ ॥
स त्रि॒तस्याधि॒ सान॑वि॒ पव॑मानो अरोचयत् । जा॒मिभिः॒ सूर्यं॑ स॒ह ॥
सः , त्रि॒तस्य॑ , अधि॑ , सान॑वि , पव॑मानः , अ॒रो॒च॒य॒त् । जा॒मिऽभिः॑ , सूर्यं॑ , स॒ह ॥
स वृ॑त्र॒हा वृषा॑ सु॒तो व॑रिवो॒विददा॑भ्यः । सोमो॒ वाज॑मिवासरत् ॥
सः , वृ॒त्र॒ऽहा , वृषा॑ , सु॒तः , व॒रि॒वः॒ऽवित् , अदा॑भ्यः । सोमः॑ , वाजं॑ऽइव , अ॒स॒र॒त् ॥
स दे॒वः क॒विने॑षि॒तो॒३॒॑ऽभि द्रोणा॑नि धावति । इंदु॒रिंद्रा॑य मं॒हना॑ ॥
सः , दे॒वः , क॒विना॑ , इ॒षि॒तः , अ॒भि , द्रोणा॑नि , धा॒व॒ति॒ । इंदुः॑ , इंद्रा॑य , मं॒हना॑ ॥
[३८] एषउस्यइति षडृचस्य सूक्तस्यांगिरसोरहूगणः पवमानः सोमोगायत्री |
ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे॑भिरर्षति । गच्छ॒न्वाजं॑ सह॒स्रिणं॑ ॥
ए॒षः , ऊँ॒ इति॑ , स्यः , वृषा॑ , रथः॑ , अव्यः॑ , वारे॑भिः , अ॒र्ष॒ति॒ । गच्छ॑न् , वाजं॑ , स॒ह॒स्रिणं॑ ॥
ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः । इंदु॒मिंद्रा॑य पी॒तये॑ ॥
ए॒तं , त्रि॒तस्य॑ , योष॑णः , हरिं॑ , हि॒न्वं॒ति॒ , अद्रि॑ऽभिः । इंदुं॑ , इंद्रा॑य , पी॒तये॑ ॥
ए॒तं त्यं ह॒रितो॒ दश॑ मर्मृ॒ज्यंते॑ अप॒स्युवः॑ । याभि॒र्मदा॑य॒ शुंभ॑ते ॥
ए॒तं , त्यं , ह॒रितः॑ , दश॑ , म॒र्मृ॒ज्यंते॑ , अ॒प॒स्युवः॑ । याभिः॑ , मदा॑य , शुंभ॑ते ॥
ए॒ष स्य मानु॑षी॒ष्वा श्ये॒नो न वि॒क्षु सी॑दति । गच्छं॑जा॒रो न यो॒षितं॑ ॥
ए॒षः , स्यः , मानु॑षीषु , आ , श्ये॒नः , न , वि॒क्षु , सी॒द॒ति॒ । गच्छ॑न् , जा॒रः , न , यो॒षितं॑ ॥
ए॒ष स्य मद्यो॒ रसोऽव॑ चष्टे दि॒वः शिशुः॑ । य इंदु॒र्वार॒मावि॑शत् ॥
ए॒षः , स्यः , मद्यः॑ , रसः॑ , अव॑ , च॒ष्टे॒ , दि॒वः , शिशुः॑ । यः , इंदुः॑ , वारं॑ , आ , अवि॑शत् ॥
ए॒ष स्य पी॒तये॑ सु॒तो हरि॑रर्षति धर्ण॒सिः । क्रंद॒न्योनि॑म॒भि प्रि॒यं ॥
ए॒षः , स्यः , पी॒तये॑ , सु॒तः , हरिः॑ , अ॒र्ष॒ति॒ , ध॒र्ण॒सिः । क्रंद॑न् , योनिं॑ , अ॒भि , प्रि॒यं ॥
[३९] आशुरर्षेति षडृचस्य सूक्तस्यांगिरसो बृहन्मतिः पवमानःसोमोगायत्री |
आ॒शुर॑र्ष बृहन्मते॒ परि॑ प्रि॒येण॒ धाम्ना॑ । यत्र॑ दे॒वा इति॒ ब्रव॑न् ॥
आ॒शुः , अ॒र्ष॒ , बृ॒ह॒त्ऽम॒ते॒ , परि॑ , प्रि॒येण॑ , धाम्ना॑ । यत्र॑ , दे॒वाः , इति॑ , ब्रव॑न् ॥
प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒ जना॑य या॒तय॒न्निषः॑ । वृ॒ष्टिं दि॒वः परि॑ स्रव ॥
प॒रि॒ऽकृ॒ण्वन् , अनिः॑ऽकृतं , जना॑य , या॒तय॑न् , इषः॑ । वृ॒ष्टिं , दि॒वः , परि॑ , स्र॒व॒ ॥
सु॒त ए॑ति प॒वित्र॒ आ त्विषिं॒ दधा॑न॒ ओज॑सा । वि॒चक्षा॑णो विरो॒चय॑न् ॥
सु॒तः , ए॒ति॒ , प॒वित्रे॑ , आ , त्विषिं॑ , दधा॑नः , ओज॑सा । वि॒ऽचक्षा॑णः , वि॒ऽरो॒चय॑न् ॥
अ॒यं स यो दि॒वस्परि॑ रघु॒यामा॑ प॒वित्र॒ आ । सिंधो॑रू॒र्मा व्यक्ष॑रत् ॥
अ॒यं , सः , यः , दि॒वः , परि॑ , र॒घु॒ऽयामा॑ , प॒वित्रे॑ , आ । सिंधोः॑ , ऊ॒र्मा , वि , अक्ष॑रत् ॥
आ॒विवा॑सन्परा॒वतो॒ अथो॑ अर्वा॒वतः॑ सु॒तः । इंद्रा॑य सिच्यते॒ मधु॑ ॥
आ॒ऽविवा॑सन् , प॒रा॒ऽवतः॑ , अथो॒ इति॑ , अ॒र्वा॒ऽवतः॑ , सु॒तः । इंद्रा॑य , सि॒च्य॒ते॒ , मधु॑ ॥
स॒मी॒ची॒ना अ॑नूषत॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः । योना॑वृ॒तस्य॑ सीदत ॥
सं॒ऽई॒ची॒नाः , अ॒नू॒ष॒त॒ , हरिं॑ , हि॒न्वं॒ति॒ , अद्रि॑ऽभिः । योनौ॑ , ऋ॒तस्य॑ , सी॒द॒त॒ ॥
[४०] पुनानइति षडृचस्य सूक्तस्यांगिरसो बृहन्मतिः पवमानःसोमोगायत्री |
पु॒ना॒नो अ॑क्रमीद॒भि विश्वा॒ मृधो॒ विच॑र्षणिः । शुं॒भंति॒ विप्रं॑ धी॒तिभिः॑ ॥
पु॒ना॒नः , अ॒क्र॒मी॒त् , अ॒भि , विश्वाः॑ , मृधः॑ , विऽच॑र्षणिः । शुं॒भंति॑ , विप्रं॑ , धी॒तिऽभिः॑ ॥
आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिंद्रं॒ वृषा॑ सु॒तः । ध्रु॒वे सद॑सि सीदति ॥
आ , योनिं॑ , अ॒रु॒णः , रु॒ह॒त् , गम॑त् , इंद्रं॑ , वृषा॑ , सु॒तः । ध्रु॒वे , सद॑सि , सी॒द॒ति॒ ॥
नू नो॑ र॒यिं म॒हामिं॑दो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ । आ प॑वस्व सह॒स्रिणं॑ ॥
नु , नः॒ , र॒यिं , म॒हां , इं॒दो॒ इति॑ , अ॒स्मभ्यं॑ , सो॒म॒ , वि॒श्वतः॑ । आ , प॒व॒स्व॒ , स॒ह॒स्रिणं॑ ॥
विश्वा॑ सोम पवमान द्यु॒म्नानीं॑द॒वा भ॑र । वि॒दाः स॑ह॒स्रिणी॒रिषः॑ ॥
विश्वा॑ , सो॒म॒ , प॒व॒मा॒न॒ , द्यु॒म्नानि॑ , इं॒दो॒ इति॑ , आ , भ॒र॒ । वि॒दाः , स॒ह॒स्रिणीः॑ , इषः॑ ॥
स नः॑ पुना॒न आ भ॑र र॒यिं स्तो॒त्रे सु॒वीर्यं॑ । ज॒रि॒तुर्व॑र्धया॒ गिरः॑ ॥
सः , नः॒ , पु॒ना॒नः , आ , भ॒र॒ , र॒यिं , स्तो॒त्रे , सु॒ऽवीर्यं॑ । ज॒रि॒तुः , व॒र्ध॒य॒ , गिरः॑ ॥
पु॒ना॒न इं॑द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिं । वृष॑न्निंदो न उ॒क्थ्यं॑ ॥
पु॒ना॒नः , इं॒दो॒ इति॑ , आ , भ॒र॒ , सोम॑ , द्वि॒ऽबर्ह॑सं , र॒यिं । वृष॑न् , इं॒दो॒ इति॑ , नः॒ , उ॒क्थ्यं॑ ॥
[४१] प्रयेगावइतिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानःसोमो गायत्री |
प्र ये गावो॒ न भूर्ण॑यस्त्वे॒षा अ॒यासो॒ अक्र॑मुः । घ्नंतः॑ कृ॒ष्णामप॒ त्वचं॑ ॥
प्र , ये , गावः॑ , न , भूर्ण॑यः , त्वे॒षाः , अ॒यासः॑ , अक्र॑मुः । घ्नंतः॑ , कृ॒ष्णां , अप॑ , त्वचं॑ ॥
सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं॑ दुरा॒व्यं॑ । सा॒ह्वांसो॒ दस्यु॑मव्र॒तं ॥
सु॒वि॒तस्य॑ , म॒ना॒म॒हे॒ , अति॑ , सेतुं॑ , दुः॒ऽआ॒व्यं॑ । स॒ह्वांसः॑ , दस्युं॑ , अ॒व्र॒तं ॥
शृ॒ण्वे वृ॒ष्टेरि॑व स्व॒नः पव॑मानस्य शु॒ष्मिणः॑ । चरं॑ति वि॒द्युतो॑ दि॒वि ॥
शृ॒ण्वे , वृ॒ष्टेःऽइ॑व , स्व॒नः , पव॑मानस्य , शु॒ष्मिणः॑ । चरं॑ति , वि॒ऽद्युतः॑ , दि॒वि ॥
आ प॑वस्व म॒हीमिषं॒ गोम॑दिंदो॒ हिर॑ण्यवत् । अश्वा॑व॒द्वाज॑वत्सु॒तः ॥
आ , प॒व॒स्व॒ , म॒हीं , इषं॑ , गोऽम॑त् , इं॒दो॒ इति॑ , हिर॑ण्यऽवत् । अश्व॑ऽवत् , वाज॑ऽवत् , सु॒तः ॥
स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण । उ॒षाः सूर्यो॒ न र॒श्मिभिः॑ ॥
सः , प॒व॒स्व॒ , वि॒ऽच॒र्ष॒णे॒ , आ , म॒ही इति॑ , रोद॑सी॒ इति॑ , पृ॒ण॒ । उ॒षाः , सूर्यः॑ , न , र॒श्मिऽभिः॑ ॥
परि॑ णः शर्म॒यंत्या॒ धार॑या सोम वि॒श्वतः॑ । सरा॑ र॒सेव॑ वि॒ष्टपं॑ ॥
परि॑ , नः॒ , श॒र्म॒ऽयंत्या॑ , धार॑या , सो॒म॒ , वि॒श्वतः॑ । सर॑ , र॒साऽइ॑व , वि॒ष्टपं॑ ॥
[४२] जनयन्नितिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानःसोमो गायत्री |
ज॒नय॑न्रोच॒ना दि॒वो ज॒नय॑न्न॒प्सु सूर्यं॑ । वसा॑नो॒ गा अ॒पो हरिः॑ ॥
ज॒नय॑न् , रो॒च॒ना , दि॒वः , ज॒नय॑न् , अ॒प्ऽसु , सूर्यं॑ । वसा॑नः , गाः , अ॒पः , हरिः॑ ॥
ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ । धार॑या पवते सु॒तः ॥
ए॒षः , प्र॒त्नेन॑ , मन्म॑ना , दे॒वः , दे॒वेभ्यः॑ , परि॑ । धार॑या , प॒व॒ते॒ , सु॒तः ॥
वा॒वृ॒धा॒नाय॒ तूर्व॑ये॒ पवं॑ते॒ वाज॑सातये । सोमाः॑ स॒हस्र॑पाजसः ॥
व॒वृ॒धा॒नाय॑ , तूर्व॑ये , पवं॑ते , वाज॑ऽसातये । सोमाः॑ , स॒हस्र॑ऽपाजसः ॥
दु॒हा॒नः प्र॒त्नमित्पयः॑ प॒वित्रे॒ परि॑ षिच्यते । क्रंदं॑दे॒वाँ अ॑जीजनत् ॥
दु॒हा॒नः , प्र॒त्नं , इत् , पयः॑ , प॒वित्रे॑ , परि॑ , सि॒च्य॒ते॒ । क्रंद॑न् , दे॒वान् , अ॒जी॒ज॒न॒त् ॥
अ॒भि विश्वा॑नि॒ वार्या॒भि दे॒वाँ ऋ॑ता॒वृधः॑ । सोमः॑ पुना॒नो अ॑र्षति ॥
अ॒भि , विश्वा॑नि , वार्या॑ , अ॒भि , दे॒वान् , ऋ॒त॒ऽवृधः॑ । सोमः॑ , पु॒ना॒नः , अ॒र्ष॒ति॒ ॥
गोम॑न्नः सोम वी॒रव॒दश्वा॑व॒द्वाज॑वत्सु॒तः । पव॑स्व बृह॒तीरिषः॑ ॥
गोऽम॑त् , नः॒ , सो॒म॒ , वी॒रऽव॑त् , अश्व॑ऽवत् , वाज॑ऽवत् , सु॒तः । पव॑स्व , बृ॒ह॒तीः , इषः॑ ॥
[४३] योअत्यइवेतिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानःसोमो गायत्री |
यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः । तं गी॒र्भिर्वा॑सयामसि ॥
यः , अत्यः॑ऽइव , मृ॒ज्यते॑ , गोभिः॑ , मदा॑य , ह॒र्य॒तः । तं , गीः॒ऽभिः , वा॒स॒या॒म॒सि॒ ॥
तं नो॒ विश्वा॑ अव॒स्युवो॒ गिरः॑ शुंभंति पू॒र्वथा॑ । इंदु॒मिंद्रा॑य पी॒तये॑ ॥
तं , नः॒ , विश्वाः॑ , अ॒व॒स्युवः॑ , गिरः॑ , शुं॒भं॒ति॒ , पू॒र्वऽथा॑ । इंदुं॑ , इंद्रा॑य , पी॒तये॑ ॥
पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः । विप्र॑स्य॒ मेध्या॑तिथेः ॥
पु॒ना॒नः , या॒ति॒ , ह॒र्य॒तः , सोमः॑ , गीः॒ऽभिः , परि॑ऽकृतः । विप्र॑स्य , मेध्य॑ऽअतिथेः ॥
पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रियं॑ । इंदो॑ स॒हस्र॑वर्चसं ॥
पव॑मान , वि॒दाः , र॒यिं , अ॒स्मभ्यं॑ , सो॒म॒ , सु॒ऽश्रियं॑ । इंदो॒ इति॑ , स॒हस्र॑ऽवर्चसं ॥
इंदु॒रत्यो॒ न वा॑ज॒सृत्कनि॑क्रंति प॒वित्र॒ आ । यदक्षा॒रति॑ देव॒युः ॥
इंदुः॑ , अत्यः॑ , न , वा॒ज॒ऽसृत् , कनि॑क्रंति , प॒वित्रे॑ , आ । यत् , अक्षाः॑ , अति॑ , दे॒व॒ऽयुः ॥
पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे । सोम॒ रास्व॑ सु॒वीर्यं॑ ॥
पव॑स्व , वाज॑ऽसातये , विप्र॑स्य , गृ॒ण॒तः , वृ॒धे । सोम॑ , रास्व॑ , सु॒ऽवीर्यं॑ ॥
[४४] प्रणइंदविति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानःसोमो गायत्री | (पवमान पारायण तृतीयोध्यायः)
प्र ण॑ इंदो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि । अ॒भि दे॒वाँ अ॒यास्यः॑ ॥
प्र , नः॒ , इं॒दो॒ इति॑ , म॒हे , तने॑ , ऊ॒र्मिं , न , बिभ्र॑त् , अ॒र्ष॒सि॒ । अ॒भि , दे॒वान् , अ॒यास्यः॑ ॥
म॒ती जु॒ष्टो धि॒या हि॒तः सोमो॑ हिन्वे परा॒वति॑ । विप्र॑स्य॒ धार॑या क॒विः ॥
म॒ती , जु॒ष्टः , धि॒या , हि॒तः , सोमः॑ , हि॒न्वे॒ , प॒रा॒ऽवति॑ । विप्र॑स्य , धार॑या , क॒विः ॥
अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए॑ति प॒वित्र॒ आ । सोमो॑ याति॒ विच॑र्षणिः ॥
अ॒यं , दे॒वेषु॑ , जागृ॑विः , सु॒तः , ए॒ति॒ , प॒वित्रे॑ , आ । सोमः॑ , या॒ति॒ , विऽच॑र्षणिः ॥
स नः॑ पवस्व वाज॒युश्च॑क्रा॒णश्चारु॑मध्व॒रं । ब॒र्हिष्माँ॒ आ वि॑वासति ॥
सः , नः॒ , प॒व॒स्व॒ , वा॒ज॒ऽयुः , च॒क्रा॒णः , चारुं॑ , अ॒ध्व॒रं । ब॒र्हिष्मा॑न् , आ , वि॒वा॒स॒ति॒ ॥
स नो॒ भगा॑य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः । सोमो॑ दे॒वेष्वा य॑मत् ॥
सः , नः॒ , भगा॑य , वा॒यवे॑ , विप्र॑ऽवीरः , स॒दाऽवृ॑धः । सोमः॑ , दे॒वेषु॑ , आ , य॒म॒त् ॥
स नो॑ अ॒द्य वसु॑त्तये क्रतु॒विद्गा॑तु॒वित्त॑मः । वाजं॑ जेषि॒ श्रवो॑ बृ॒हत् ॥
सः , नः॒ , अ॒द्य , वसु॑त्तये , क्र॒तु॒ऽवित् , गा॒तु॒वित्ऽत॑मः । वाजं॑ , जे॒षि॒ , श्रवः॑ , बृ॒हत् ॥
[४५] स पवस्वेति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानःसोमो गायत्री |
स प॑वस्व॒ मदा॑य॒ कं नृ॒चक्षा॑ दे॒ववी॑तये । इंद॒विंद्रा॑य पी॒तये॑ ॥
सः , प॒व॒स्व॒ , मदा॑य , कं , नृ॒ऽचक्षाः॑ , दे॒वऽवी॑तये । इंदो॒ इति॑ , इंद्रा॑य , पी॒तये॑ ॥
स नो॑ अर्षा॒भि दू॒त्यं१॒॑ त्वमिंद्रा॑य तोशसे । दे॒वांत्सखि॑भ्य॒ आ वरं॑ ॥
सः , नः॒ , अ॒र्ष॒ , अ॒भि , दू॒त्यं॑ , त्वं , इंद्रा॑य , तो॒श॒से॒ । दे॒वान् , सखि॑ऽभ्यः , आ , वरं॑ ॥
उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रंज्मो॒ मदा॑य॒ कं । वि नो॑ रा॒ये दुरो॑ वृधि ॥
उ॒त , त्वां , अ॒रु॒णं , व॒यं , गोभिः॑ , अं॒ज्मः॒ , मदा॑य , कं । वि , नः॒ , रा॒ये , दुरः॑ , वृ॒धि॒ ॥
अत्यू॑ प॒वित्र॑मक्रमीद्वा॒जी धुरं॒ न याम॑नि । इंदु॑र्दे॒वेषु॑ पत्यते ॥
अति॑ , ऊँ॒ इति॑ , प॒वित्रं॑ , अ॒क्र॒मी॒त् , वा॒जी , धुरं॑ , न , याम॑नि । इंदुः॑ , दे॒वेषु॑ , प॒त्य॒ते॒ ॥
समी॒ सखा॑यो अस्वर॒न्वने॒ क्रीळं॑त॒मत्य॑विं । इंदुं॑ ना॒वा अ॑नूषत ॥
सं , ई॒मिति॑ , सखा॑यः , अ॒स्व॒र॒न् , वने॑ , क्रीळं॑तं , अति॑ऽअविं । इंदुं॑ , ना॒वाः , अ॒नू॒ष॒त॒ ॥
तया॑ पवस्व॒ धार॑या॒ यया॑ पी॒तो वि॒चक्ष॑से । इंदो॑ स्तो॒त्रे सु॒वीर्यं॑ ॥
तया॑ , प॒व॒स्व॒ , धार॑या , यया॑ , पी॒तः , वि॒ऽचक्ष॑से । इंदो॒ इति॑ , स्तो॒त्रे , सु॒ऽवीर्यं॑ ॥
[४६] असृग्रनिति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानःसोमो गायत्री |
असृ॑ग्रंदे॒ववी॑त॒येऽत्या॑सः॒ कृत्व्या॑ इव । क्षरं॑तः पर्वता॒वृधः॑ ॥
असृ॑ग्रन् , दे॒वऽवी॑तये , अत्या॑सः , कृत्व्याः॑ऽइव । क्षरं॑तः , प॒र्व॒त॒ऽवृधः॑ ॥
परि॑ष्कृतास॒ इंद॑वो॒ योषे॑व॒ पित्र्या॑वती । वा॒युं सोमा॑ असृक्षत ॥
परि॑ऽकृतासः , इंद॑वः , योषा॑ऽइव , पित्र्य॑ऽवती । वा॒युं , सोमाः॑ , अ॒सृ॒क्ष॒त॒ ॥
ए॒ते सोमा॑स॒ इंद॑वः॒ प्रय॑स्वंतश्च॒मू सु॒ताः । इंद्रं॑ वर्धंति॒ कर्म॑भिः ॥
ए॒ते , सोमा॑सः , इंद॑वः , प्रय॑स्वंतः , च॒मू इति॑ , सु॒ताः । इंद्रं॑ , व॒र्धं॒ति॒ , कर्म॑ऽभिः ॥
आ धा॑वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत मं॒थिना॑ । गोभिः॑ श्रीणीत मत्स॒रं ॥
आ , धा॒व॒त॒ , सु॒ऽह॒स्त्यः॒ , शु॒क्रा , गृ॒भ्णी॒त॒ , मं॒थिना॑ । गोभिः॑ , श्री॒णी॒त॒ , म॒त्स॒रं ॥
स प॑वस्व धनंजय प्रयं॒ता राध॑सो म॒हः । अ॒स्मभ्यं॑ सोम गातु॒वित् ॥
सः , प॒व॒स्व॒ , ध॒नं॒ऽज॒य॒ , प्र॒ऽयं॒ता , राध॑सः , म॒हः । अ॒स्मभ्यं॑ , सो॒म॒ , गा॒तु॒ऽवित् ॥
ए॒तं मृ॑जंति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ । इंद्रा॑य मत्स॒रं मदं॑ ॥
ए॒तं , मृ॒जं॒ति॒ , मर्ज्यं॑ , पव॑मानं , दश॑ , क्षिपः॑ । इंद्रा॑य , म॒त्स॒रं , मदं॑ ॥
[४७] अयासोमइति पंचर्चस्य सूक्तस्य भार्गवःकविः पवमानःसोमो गायत्री
अ॒या सोमः॑ सुकृ॒त्यया॑ म॒हश्चि॑द॒भ्य॑वर्धत । मं॒दा॒न उद्वृ॑षायते ॥
अ॒या , सोमः॑ , सु॒ऽकृ॒त्यया॑ , म॒हः , चि॒त् , अ॒भि , अ॒व॒र्ध॒त॒ । मं॒दा॒नः , उत् , वृ॒ष॒ऽय॒ते॒ ॥
कृ॒तानीद॑स्य॒ कर्त्वा॒ चेतं॑ते दस्यु॒तर्ह॑णा । ऋ॒णा च॑ धृ॒ष्णुश्च॑यते ॥
कृ॒तानि॑ , इत् , अ॒स्य॒ , कर्त्वा॑ , चेतं॑ते , द॒स्यु॒ऽतर्ह॑णा । ऋ॒णा , च॒ , धृ॒ष्णुः , च॒य॒ते॒ ॥
आत्सोम॑ इंद्रि॒यो रसो॒ वज्रः॑ सहस्र॒सा भु॑वत् । उ॒क्थं यद॑स्य॒ जाय॑ते ॥
आत् , सोमः॑ , इं॒द्रि॒यः , रसः॑ , वज्रः॑ , स॒ह॒स्र॒ऽसाः , भु॒व॒त् । उ॒क्थं , यत् , अ॒स्य॒ , जाय॑ते ॥
स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा॑य॒ रत्न॑मिच्छति । यदी॑ मर्मृ॒ज्यते॒ धियः॑ ॥
स्व॒यं , क॒विः , वि॒ऽध॒र्तरि॑ , विप्रा॑य , रत्नं॑ , इ॒च्छ॒ति॒ । यदि॑ , म॒र्मृ॒ज्यते॑ , धियः॑ ॥
सि॒षा॒सतू॑ रयी॒णां वाजे॒ष्वर्व॑तामिव । भरे॑षु जि॒ग्युषा॑मसि ॥
सि॒सा॒सतुः॑ , र॒यी॒णां , वाजे॑षु , अर्व॑तांऽइव । भरे॑षु , जि॒ग्युषां॑ , अ॒सि॒ ॥
[४८] तंत्वेति पंचर्चस्य सूक्तस्य भार्गवःकविः पवमानःसोमो गायत्री |
तं त्वा॑ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे॑षु म॒हो दि॒वः । चारुं॑ सुकृ॒त्यये॑महे ॥
तं , त्वा॒ , नृ॒म्णानि॑ , विभ्र॑तं , स॒धऽस्थे॑षु , म॒हः , दि॒वः । चारुं॑ , सु॒ऽकृ॒त्यया॑ , ई॒म॒हे॒ ॥
संवृ॑क्तधृष्णुमु॒क्थ्यं॑ म॒हाम॑हिव्रतं॒ मदं॑ । श॒तं पुरो॑ रुरु॒क्षणिं॑ ॥
संवृ॑क्तऽधृष्णुं , उ॒क्थ्यं॑ , म॒हाऽम॑हिव्रतं , मदं॑ । श॒तं , पुरः॑ , रु॒रु॒क्षणिं॑ ॥
अत॑स्त्वा र॒यिम॒भि राजा॑नं सुक्रतो दि॒वः । सु॒प॒र्णो अ॑व्य॒थिर्भ॑रत् ॥
अतः॑ , त्वा॒ , र॒यिं , अ॒भि , राजा॑नं , सु॒क्र॒तो॒ इति॑ सुऽक्रतो , दि॒वः । सु॒ऽप॒र्णः , अ॒व्य॒थिः , भ॒र॒त् ॥
विश्व॑स्मा॒ इत्स्व॑र्दृ॒शे साधा॑रणं रज॒स्तुरं॑ । गो॒पामृ॒तस्य॒ विर्भ॑रत् ॥
विश्व॑स्मै , इत् , स्वः॑ , दृ॒शे , साधा॑रणं , र॒जः॒ऽतुरं॑ । गो॒पां , ऋ॒तस्य॑ , विः , भ॒र॒त् ॥
अधा॑ हिन्वा॒न इं॑द्रि॒यं ज्यायो॑ महि॒त्वमा॑नशे । अ॒भि॒ष्टि॒कृद्विच॑र्षणिः ॥
अध॑ , हि॒न्वा॒नः , इं॒द्रि॒यं , ज्यायः॑ , म॒हि॒ऽत्वं , आ॒न॒शे॒ । अ॒भि॒ष्टि॒ऽकृत् , विऽच॑र्षणिः ॥
[४९] पवस्वेति पंचर्चस्य सूक्तस्य भार्गवःकविः पवमानःसोमो गायत्री |
पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ । अ॒य॒क्ष्मा बृ॑ह॒तीरिषः॑ ॥
पव॑स्व , वृ॒ष्टिं , आ , सु , नः॒ , अ॒पां , ऊ॒र्मिं , दि॒वः , परि॑ । अ॒य॒क्ष्माः , बृ॒ह॒तीः , इषः॑ ॥
तया॑ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम॑न् । जन्या॑स॒ उप॑ नो गृ॒हं ॥
तया॑ , प॒व॒स्व॒ , धार॑या , यया॑ , गावः॑ , इ॒ह , आ॒ऽगम॑न् । जन्या॑सः , उप॑ , नः॒ , गृ॒हं ॥
घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः । अ॒स्मभ्यं॑ वृ॒ष्टिमा प॑व ॥
घृ॒तं , प॒व॒स्व॒ , धार॑या , य॒ज्ञेषु॑ , दे॒व॒ऽवीत॑मः । अ॒स्मभ्यं॑ , वृ॒ष्टिं , आ , प॒व॒ ॥
स न॑ ऊ॒र्जे व्य१॒॑व्ययं॑ प॒वित्रं॑ धाव॒ धार॑या । दे॒वासः॑ शृ॒णव॒न्हि कं॑ ॥
सः , नः॒ , ऊ॒र्जे , वि , अ॒व्ययं॑ , प॒वित्रं॑ , धा॒व॒ , धार॑या । दे॒वासः॑ , शृ॒णव॑न् , हि , कं॒ ॥
पव॑मानो असिष्यद॒द्रक्षां॑स्यप॒जंघ॑नत् । प्र॒त्न॒वद्रो॒चय॒न्रुचः॑ ॥
पव॑मानः , अ॒सि॒स्य॒द॒त् , रक्षां॑सि , अ॒प॒ऽजंघ॑नत् । प्र॒त्न॒ऽवत् , रो॒चय॑न् , रुचः॑ ॥
[५०] उत्तेशुष्मासइति पंचर्चस्य सूक्तस्यांगिरस उचथ्यः पवमानः सोमोगायत्री |
उत्ते॒ शुष्मा॑स ईरते॒ सिंधो॑रू॒र्मेरि॑व स्व॒नः । वा॒णस्य॑ चोदया प॒विं ॥
उत् , ते॒ , शुष्मा॑सः , ई॒र॒ते॒ , सिंधोः॑ , ऊ॒र्मेःऽइ॑व , स्व॒नः । वा॒णस्य॑ , चो॒द॒य॒ , प॒विं ॥
प्र॒स॒वे त॒ उदी॑रते ति॒स्रो वाचो॑ मख॒स्युवः॑ । यदव्य॒ एषि॒ सान॑वि ॥
प्र॒ऽस॒वे , ते॒ , उत् , ई॒र॒ते॒ , ति॒स्रः , वाचः॑ , म॒ख॒स्युवः॑ । यत् , अव्ये॑ , एषि॑ , सान॑वि ॥
अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं॑ हिन्वं॒त्यद्रि॑भिः । पव॑मानं मधु॒श्चुतं॑ ॥
अव्यः॑ , वारे॑ , परि॑ , प्रि॒यं , हरिं॑ , हि॒न्वं॒ति॒ , अद्रि॑ऽभिः । पव॑मानं , म॒धु॒ऽश्चुतं॑ ॥
आ प॑वस्व मदिंतम प॒वित्रं॒ धार॑या कवे । अ॒र्कस्य॒ योनि॑मा॒सदं॑ ॥
आ , प॒व॒स्व॒ , म॒दि॒न्ऽत॒म॒ , प॒वित्रं॑ , धार॑या , क॒वे॒ । अ॒र्कस्य॑ , योनिं॑ , आ॒ऽसदं॑ ॥
स प॑वस्व मदिंतम॒ गोभि॑रंजा॒नो अ॒क्तुभिः॑ । इंद॒विंद्रा॑य पी॒तये॑ ॥
सः , प॒व॒स्व॒ , म॒दि॒न्ऽत॒म॒ , गोभिः॑ , अं॒जा॒नः , अ॒क्तुऽभिः॑ । इंदो॒ इति॑ , इंद्रा॑य , पी॒तये॑ ॥
[५१] अध्वर्यविति पंचर्चस्य सूक्तस्यांगिरस उचथ्यः पवमानः सोमोगायत्री |
अध्व॑र्यो॒ अद्रि॑भिः सु॒तं सोमं॑ प॒वित्र॒ आ सृ॑ज । पु॒नी॒हींद्रा॑य॒ पात॑वे ॥
अध्व॑र्यो॒ इति॑ , अद्रि॑ऽभिः , सु॒तं , सोमं॑ , प॒वित्रे॑ , आ , सृ॒ज॒ । पु॒नी॒हि , इंद्रा॑य , पात॑वे ॥
दि॒वः पी॒यूष॑मुत्त॒मं सोम॒मिंद्रा॑य व॒ज्रिणे॑ । सु॒नोता॒ मधु॑मत्तमं ॥
दि॒वः , पी॒यूषं॑ , उ॒त्ऽत॒मं , सोमं॑ , इंद्रा॑य , व॒ज्रिणे॑ । सु॒नोत॑ , मधु॑मत्ऽतमं ॥
तव॒ त्य इं॑दो॒ अंध॑सो दे॒वा मधो॒र्व्य॑श्नते । पव॑मानस्य म॒रुतः॑ ॥
तव॑ , त्ये , इं॒दो॒ इति॑ , अंध॑सः , दे॒वाः , मधोः॑ , वि , अ॒श्न॒ते॒ । पव॑मानस्य , म॒रुतः॑ ॥
त्वं हि सो॑म व॒र्धयं॑त्सु॒तो मदा॑य॒ भूर्ण॑ये । वृषं॑त्स्तो॒तार॑मू॒तये॑ ॥
त्वं , हि , सो॒म॒ , व॒र्धय॑न् , सु॒तः , मदा॑य , भूर्ण॑ये । वृष॑न् , स्तो॒तारं॑ , ऊ॒तये॑ ॥
अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः । अ॒भि वाज॑मु॒त श्रवः॑ ॥
अ॒भि , अ॒र्ष॒ , वि॒ऽच॒क्ष॒ण॒ , प॒वित्रं॑ , धार॑या , सु॒तः । अ॒भि , वाजं॑ , उ॒त , श्रवः॑ ॥
[५२] परिद्युक्षइति पंचर्चस्य सूक्तस्यांगिरस उचथ्यः पवमानः सोमोगायत्री |
परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं॑ नो॒ अंध॑सा । सु॒वा॒नो अ॑र्ष प॒वित्र॒ आ ॥
परि॑ , द्यु॒क्षः , स॒नत्ऽर॑यिः , भर॑त् , वाजं॑ , नः॒ , अंध॑सा । सु॒वा॒नः , अ॒र्ष॒ , प॒वित्रे॑ , आ ॥
तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः । स॒हस्र॑धारो या॒त्तना॑ ॥
तव॑ , प्र॒त्नेभिः॑ , अध्व॑ऽभिः , अव्यः॑ , वारे॑ , परि॑ , प्रि॒यः । स॒हस्र॑ऽधारः , या॒त् , तना॑ ॥
च॒रुर्न यस्तमीं॑ख॒येंदो॒ न दान॑मींखय । व॒धैर्व॑धस्नवींखय ॥
च॒रुः , न , यः , तं , ईं॒ख॒य॒ , इंदो॒ इति॑ , न , दानं॑ , ईं॒ख॒य॒ । व॒धैः , व॒ध॒स्नो॒ इति॑ वधऽस्नो , ईं॒ख॒य॒ ॥
नि शुष्म॑मिंदवेषां॒ पुरु॑हूत॒ जना॑नां । यो अ॒स्माँ आ॒दिदे॑शति ॥
नि , शुष्मं॑ , इं॒दो॒ इति॑ , एषां॑ , पुरु॑ऽहूत , जना॑नां । यः , अ॒स्मान् , आ॒ऽदिदे॑शति ॥
श॒तं न॑ इंद ऊ॒तिभिः॑ स॒हस्रं॑ वा॒ शुची॑नां । पव॑स्व मंह॒यद्र॑यिः ॥
श॒तं , नः॒ , इं॒दो॒ इति॑ , ऊ॒तिऽभिः॑ , स॒हस्रं॑ , वा॒ , शुची॑णां । पव॑स्व , मं॒ह॒यत्ऽर॑यिः ॥
[५३] उत्तेशुष्मासइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानःसोमोगायत्री |
उत्ते॒ शुष्मा॑सो अस्थू॒ रक्षो॑ भिं॒दंतो॑ अद्रिवः । नु॒दस्व॒ याः प॑रि॒स्पृधः॑ ॥
उत् , ते॒ , शुष्मा॑सः , अ॒स्थुः॒ , रक्षः॑ , भिं॒दंतः॑ , अ॒द्रि॒ऽवः॒ । नु॒दस्व॑ , याः , प॒रि॒ऽस्पृधः॑ ॥
अ॒या नि॑ज॒घ्निरोज॑सा रथस॒ङ् गे धने॑ हि॒ते । स्तवा॒ अबि॑भ्युषा हृ॒दा ॥
अ॒या , नि॒ऽज॒घ्निः , ओज॑सा , र॒थ॒ऽसं॒गे , धने॑ , हि॒ते । स्तवै॑ , अबि॑भ्युषा , हृ॒दा ॥
अस्य॑ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ढ्या॑ । रु॒ज यस्त्वा॑ पृत॒न्यति॑ ॥
अस्य॑ , व्र॒तानि॑ , न , आ॒ऽधृषे॑ , पव॑मानस्य , दुः॒ऽध्या॑ । रु॒ज , यः , त्वा॒ , पृ॒त॒न्यति॑ ॥
तं हि॑न्वंति मद॒च्युतं॒ हरिं॑ न॒दीषु॑ वा॒जिनं॑ । इंदु॒मिंद्रा॑य मत्स॒रं ॥
तं , हि॒न्वं॒ति॒ , म॒द॒ऽच्युतं॑ , हरिं॑ , न॒दीषु॑ , वा॒जिनं॑ । इंदुं॑ , इंद्रा॑य , म॒त्स॒रं ॥
[५४] अस्यप्रत्नामिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानःसोमोगायत्री |
अ॒स्य प्र॒त्नामनु॒ द्युतं॑ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः । पयः॑ सहस्र॒सामृषिं॑ ॥
अ॒स्य , प्र॒त्नां , अनु॑ , द्युतं॑ , शु॒क्रं , दु॒दु॒ह्रे॒ , अह्र॑यः । पयः॑ , स॒ह॒स्र॒ऽसां , ऋषिं॑ ॥
अ॒यं सूर्य॑ इवोप॒दृग॒यं सरां॑सि धावति । स॒प्त प्र॒वत॒ आ दिवं॑ ॥
अ॒यं , सूर्यः॑ऽइव , उ॒प॒ऽदृक् , अ॒यं , सरां॑सि , धा॒व॒ति॒ । स॒प्त , प्र॒ऽवतः॑ , आ , दिवं॑ ॥
अ॒यं विश्वा॑नि तिष्ठति पुना॒नो भुव॑नो॒परि॑ । सोमो॑ दे॒वो न सूर्यः॑ ॥
अ॒यं , विश्वा॑नि , ति॒ष्ठ॒ति॒ , पु॒ना॒नः , भुव॑ना , उ॒परि॑ । सोमः॑ , दे॒वः , न , सूर्यः॑ ॥
परि॑ णो दे॒ववी॑तये॒ वाजाँ॑ अर्षसि॒ गोम॑तः । पु॒ना॒न इं॑दविंद्र॒युः ॥
परि॑ , नः॒ , दे॒वऽवी॑तये , वाजा॑न् , अ॒र्ष॒सि॒ , गोऽम॑तः । पु॒ना॒नः , इं॒दो॒ इति॑ , इं॒द्र॒ऽयुः ॥
[५५] यवंयवमिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानःसोमोगायत्री |
यवं॑यवं नो॒ अंध॑सा पु॒ष्टंपु॑ष्टं॒ परि॑ स्रव । सोम॒ विश्वा॑ च॒ सौभ॑गा ॥
यवं॑ऽयवं , नः॒ , अंध॑सा , पु॒ष्टंऽपु॑ष्टं , परि॑ , स्र॒व॒ । सोम॑ , विश्वा॑ , च॒ , सौभ॑गा ॥
इंदो॒ यथा॒ तव॒ स्तवो॒ यथा॑ ते जा॒तमंध॑सः । नि ब॒र्हिषि॑ प्रि॒ये स॑दः ॥
इंदो॒ इति॑ , यथा॑ , तव॑ , स्तवः॑ , यथा॑ , ते॒ , जा॒तं , अंध॑सः । नि , ब॒र्हिषि॑ , प्रि॒ये , स॒दः॒ ॥
उ॒त नो॑ गो॒विद॑श्व॒वित्पव॑स्व सो॒मांध॑सा । म॒क्षूत॑मेभि॒रह॑भिः ॥
उ॒त , नः॒ , गो॒ऽवित् , अ॒श्व॒ऽवित् , पव॑स्व , सो॒म॒ , अंध॑सा । म॒क्षुऽत॑मेभिः , अह॑ऽभिः ॥
यो जि॒नाति॒ न जीय॑ते॒ हंति॒ शत्रु॑म॒भीत्य॑ । स प॑वस्व सहस्रजित् ॥
यः , जि॒नाति॑ , न , जीय॑ते , हंति॑ , शत्रुं॑ , अ॒भि॒ऽइत्य॑ । सः , प॒व॒स्व॒ , स॒ह॒स्र॒ऽजि॒त् ॥
[५६] परिसोमइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानःसोमोगायत्री |
परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे॑ अर्षति । वि॒घ्नन्रक्षां॑सि देव॒युः ॥
परि॑ , सोमः॑ , ऋ॒तं , बृ॒हत् , आ॒शुः , प॒वित्रे॑ , अ॒र्ष॒ति॒ । वि॒ऽघ्नन् , रक्षां॑सि , दे॒व॒ऽयुः ॥
यत्सोमो॒ वाज॒मर्ष॑ति श॒तं धारा॑ अप॒स्युवः॑ । इंद्र॑स्य स॒ख्यमा॑वि॒शन् ॥
यत् , सोमः॑ , वाजं॑ , अर्ष॑ति , श॒तं , धाराः॑ , अ॒प॒स्युवः॑ । इंद्र॑स्य , स॒ख्यं , आ॒ऽवि॒शन् ॥
अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या॑नूषत । मृ॒ज्यसे॑ सोम सा॒तये॑ ॥
अ॒भि , त्वा॒ , योष॑णः , दश॑ , जा॒रं , न , क॒न्या॑ , अ॒नू॒ष॒त॒ । मृ॒ज्यसे॑ , सो॒म॒ , सा॒तये॑ ॥
त्वमिंद्रा॑य॒ विष्ण॑वे स्वा॒दुरिं॑दो॒ परि॑ स्रव । नॄंत्स्तो॒तॄन्पा॒ह्यंह॑सः ॥
त्वं , इंद्रा॑य , विष्ण॑वे , स्वा॒दुः , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ । नॄन् , स्तो॒तॄन् , पा॒हि॒ , अंह॑सः ॥
[५७] प्रतेधाराइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानःसोमोगायत्री |
प्र ते॒ धारा॑ अस॒श्चतो॑ दि॒वो न यं॑ति वृ॒ष्टयः॑ । अच्छा॒ वाजं॑ सह॒स्रिणं॑ ॥
प्र , ते॒ , धाराः॑ , अ॒स॒श्चतः॑ , दि॒वः , न , यं॒ति॒ , वृ॒ष्टयः॑ । अच्छ॑ , वाजं॑ , स॒ह॒स्रिणं॑ ॥
अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा॑णो अर्षति । हरि॑स्तुंजा॒न आयु॑धा ॥
अ॒भि , प्रि॒याणि॑ , काव्या॑ , विश्वा॑ , चक्षा॑णः , अ॒र्ष॒ति॒ । हरिः॑ , तुं॒जा॒नः , आयु॑धा ॥
स म॑र्मृजा॒न आ॒युभि॒रिभो॒ राजे॑व सुव्र॒तः । श्ये॒नो न वंसु॑ षीदति ॥
सः , म॒र्मृजा॒नः , आ॒युऽभिः॑ , इभः॑ , राजा॑ऽइव , सु॒ऽव्र॒तः । श्ये॒नः , न , वंसु॑ , सी॒द॒ति॒ ॥
स नो॒ विश्वा॑ दि॒वो वसू॒तो पृ॑थि॒व्या अधि॑ । पु॒ना॒न इं॑द॒वा भ॑र ॥
सः , नः॒ , विश्वा॑ , दि॒वः , वसु॑ , उ॒तो इति॑ , पृ॒थि॒व्याः , अधि॑ । पु॒नानः॑ , इं॒दो॒ इति॑ , आ , भ॒र॒ ॥
[५८] तरत्समंदीति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानःसोमोगायत्री |
तर॒त्स मं॒दी धा॑वति॒ धारा॑ सु॒तस्यांध॑सः । तर॒त्स मं॒दी धा॑वति ॥
तर॑त् , सः , मं॒दी , धा॒व॒ति॒ , धारा॑ , सु॒तस्य॑ , अंध॑सः । तर॑त् , सः , मं॒दी , धा॒व॒ति॒ ॥
उ॒स्रा वे॑द॒ वसू॑नां॒ मर्त॑स्य दे॒व्यव॑सः । तर॒त्स मं॒दी धा॑वति ॥
उ॒स्रा , वे॒द॒ , वसू॑नां , मर्त॑स्य , दे॒वी , अव॑सः । तर॑त् , सः , मं॒दी , धा॒व॒ति॒ ॥
ध्व॒स्रयोः॑ पुरु॒षंत्यो॒रा स॒हस्रा॑णि दद्महे । तर॒त्स मं॒दी धा॑वति ॥
ध्व॒स्रयोः॑ , पु॒रु॒ऽसंत्योः॑ , आ , स॒हस्रा॑णि , द॒द्म॒हे॒ । तर॑त् , सः , मं॒दी , धा॒व॒ति॒ ॥
आ ययो॑स्त्रिं॒शतं॒ तना॑ स॒हस्रा॑णि च॒ दद्म॑हे । तर॒त्स मं॒दी धा॑वति ॥
आ , ययोः॑ , त्रिं॒शतं॑ , तना॑ , स॒हस्रा॑णि , च॒ , दद्म॑हे । तर॑त् , सः , मं॒दी , धा॒व॒ति॒ ॥
[५९] पवस्वेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानःसोमोगायत्री |
पव॑स्व गो॒जिद॑श्व॒जिद्वि॑श्व॒जित्सो॑म रण्य॒जित् । प्र॒जाव॒द्रत्न॒मा भ॑र ॥
पव॑स्व , गो॒ऽजित् , अ॒श्व॒ऽजित् , वि॒श्व॒ऽजित् , सो॒म॒ , र॒ण्य॒ऽजित् । प्र॒जाऽव॑त् , रत्नं॑ , आ , भ॒र॒ ॥
पव॑स्वा॒द्भ्यो अदा॑भ्यः॒ पव॒स्वौष॑धीभ्यः । पव॑स्व धि॒षणा॑भ्यः ॥
पव॑स्व , अ॒त्ऽभ्यः , अदा॑भ्यः , पव॑स्व , ओष॑धीभ्यः । पव॑स्व , धि॒षणा॑भ्यः ॥
त्वं सो॑म॒ पव॑मानो॒ विश्वा॑नि दुरि॒ता त॑र । क॒विः सी॑द॒ नि ब॒र्हिषि॑ ॥
त्वं , सो॒म॒ , पव॑मानः , विश्वा॑नि , दुः॒ऽइ॒ता , त॒र॒ । क॒विः , सी॒द॒ , नि , ब॒र्हिषि॑ ॥
पव॑मान॒ स्व॑र्विदो॒ जाय॑मानोऽभवो म॒हान् । इंदो॒ विश्वाँ॑ अ॒भीद॑सि ॥
पव॑मान , स्वः॑ , वि॒दः॒ , जाय॑मानः , अ॒भ॒वः॒ , म॒हान् । इंदो॒ इति॑ , विश्वा॑न् , अ॒भि , इत् , अ॒सि॒ ॥
[६०] प्रगायत्रेणेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानः सोमोगायत्री तृतीयापुरउष्णिक्
प्र गा॑य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिं । इंदुं॑ स॒हस्र॑चक्षसं ॥
प्र , गा॒य॒त्रेण॑ , गा॒य॒त॒ , पव॑मानं , विऽच॑र्षणिं । इंदुं॑ , स॒हस्र॑ऽचक्षसं ॥
तं त्वा॑ स॒हस्र॑चक्षस॒मथो॑ स॒हस्र॑भर्णसं । अति॒ वार॑मपाविषुः ॥
त्वं , त्वा॒ , स॒हस्र॑ऽचक्षसं , अथो॒ इति॑ , स॒हस्र॑ऽभर्णसं । अति॑ , वारं॑ , अ॒पा॒वि॒षुः॒ ॥
अति॒ वारा॒न्पव॑मानो असिष्यदत्क॒लशाँ॑ अ॒भि धा॑वति । इंद्र॑स्य॒ हार्द्या॑वि॒शन् ॥
अति॑ , वारा॑न् , पव॑मानः , अ॒सि॒स्य॒द॒त् , क॒लशा॑न् , अ॒भि , धा॒व॒ति॒ । इंद्र॑स्य , हार्दि॑ , आ॒ऽवि॒शन् ॥
इंद्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे । प्र॒जाव॒द्रेत॒ आ भ॑र ॥
इंद्र॑स्य , सो॒म॒ , राध॑से , शं , प॒व॒स्व॒ , वि॒ऽच॒र्ष॒णे॒ । प्र॒जाऽव॑त् , रेतः॑ , आ , भ॒र॒ ॥
[६१] अयावीतीति त्रिंशदृचस्य सूक्तस्यांगिरसोऽमहीयुः पवमानः सोमो गायत्री |
अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इंदो॒ मदे॒ष्वा । अ॒वाह॑न्नव॒तीर्नव॑ ॥
अ॒या , वी॒ती , परि॑ , स्र॒व॒ , यः , ते॒ , इं॒दो॒ इति॑ , मदे॑षु , आ । अ॒व॒ऽअह॑न् , न॒व॒तीः , नव॑ ॥
पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो॑दासाय॒ शंब॑रं । अध॒ त्यं तु॒र्वशं॒ यदुं॑ ॥
पुरः॑ , स॒द्यः , इ॒त्थाऽधि॑ये , दिवः॑ऽदासाय , शंब॑रं । अध॑ , त्यं , तु॒र्वशं॑ , यदुं॑ ॥
परि॑ णो॒ अश्व॑मश्व॒विद्गोम॑दिंदो॒ हिर॑ण्यवत् । क्षरा॑ सह॒स्रिणी॒रिषः॑ ॥
परि॑ , नः॒ , अश्वं॑ , अ॒श्व॒ऽवित् , गोऽम॑त् , इं॒दो॒ इति॑ , हिर॑ण्यऽवत् । क्षर॑ , स॒ह॒स्रिणीः॑ , इषः॑ ॥
पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युंद॒तः । स॒खि॒त्वमा वृ॑णीमहे ॥
पव॑मानस्य , ते॒ , व॒यं , प॒वित्रं॑ , अ॒भि॒ऽउं॒द॒तः । स॒खि॒ऽत्वं , आ , वृ॒णी॒म॒हे॒ ॥
ये ते॑ प॒वित्र॑मू॒र्मयो॑ऽभि॒क्षरं॑ति॒ धार॑या । तेभि॑र्नः सोम मृळय ॥
ये , ते॒ , प॒वित्रं॑ , ऊ॒र्मयः॑ , अ॒भि॒ऽक्षरं॑ति , धार॑या । तेभिः॑ , नः॒ , सो॒म॒ , मृ॒ळ॒य॒ ॥
स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिषं॑ । ईशा॑नः सोम वि॒श्वतः॑ ॥
सः , नः॒ , पु॒ना॒नः , आ , भ॒र॒ , र॒यिं , वी॒रऽव॑तीं , इषं॑ । ईशा॑नः , सो॒म॒ , वि॒श्वतः॑ ॥
ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जंति॒ सिंधु॑मातरं । समा॑दि॒त्येभि॑रख्यत ॥
ए॒तं , ऊँ॒ इति॑ , त्यं , दश॑ , क्षिपः॑ , मृ॒जंति॑ , सिंधु॑ऽमातरं । सं , आ॒दि॒त्येभिः॑ , अ॒ख्य॒त॒ ॥
समिंद्रे॑णो॒त वा॒युना॑ सु॒त ए॑ति प॒वित्र॒ आ । सं सूर्य॑स्य र॒श्मिभिः॑ ॥
सं , इंद्रे॑ण , उ॒त , वा॒युना॑ , सु॒तः , ए॒ति॒ , प॒वित्रे॑ , आ । सं , सूर्य॑स्य , र॒श्मिऽभिः॑ ॥
स नो॒ भगा॑य वा॒यवे॑ पू॒ष्णे प॑वस्व॒ मधु॑मान् । चारु॑र्मि॒त्रे वरु॑णे च ॥
सः , नः॒ , भगा॑य , वा॒यवे॑ , पू॒ष्णे , प॒व॒स्व॒ , मधु॑ऽमान् । चारुः॑ , मि॒त्रे , वरु॑णे , च॒ ॥
उ॒च्चा ते॑ जा॒तमंध॑सो दि॒वि षद्भूम्या द॑दे । उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ॥
उ॒च्चा , ते॒ , जा॒तं , अंध॑सः , दि॒वि , सत् , भूमिः॑ , आ , द॒दे॒ । उ॒ग्रं , शर्म॑ , महि॑ , श्रवः॑ ॥
ए॒ना विश्वा॑न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणां । सिषा॑संतो वनामहे ॥
ए॒ना , विश्वा॑नि , अ॒र्यः , आ , द्यु॒म्नानि॑ , मानु॑षाणां । सिसा॑संतः , व॒ना॒म॒हे॒ ॥
स न॒ इंद्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑ । व॒रि॒वो॒वित्परि॑ स्रव ॥
सः , नः॒ , इंद्रा॑य , यज्य॑वे , वरु॑णाय , म॒रुत्ऽभ्यः॑ । व॒रि॒वः॒ऽवित् , परि॑ , स्र॒व॒ ॥
उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भं॒गं परि॑ष्कृतं । इंदुं॑ दे॒वा अ॑यासिषुः ॥
उपो॒ इति॑ , सु , जा॒तं , अ॒प्ऽतुरं॑ , गोभिः॑ , भं॒गं , परि॑ऽकृतं । इंदुं॑ , दे॒वाः , अ॒या॒सि॒षुः॒ ॥
तमिद्व॑र्धंतु नो॒ गिरो॑ व॒त्सं सं॒शिश्व॑रीरिव । य इंद्र॑स्य हृदं॒सनिः॑ ॥
तं , इत् , व॒र्धं॒तु॒ , नः॒ , गिरः॑ , व॒त्सं , सं॒शिश्व॑रीःऽइव । यः , इंद्र॑स्य , हृ॒दं॒ऽसनिः॑ ॥
अर्षा॑ णः सोम॒ शं गवे॑ धु॒क्षस्व॑ पि॒प्युषी॒मिषं॑ । वर्धा॑ समु॒द्रमु॒क्थ्यं॑ ॥
अर्ष॑ , नः॒ , सो॒म॒ , शं , गवे॑ , धु॒क्षस्व॑ , पि॒प्युषीं॑ , इषं॑ । वर्ध॑ , स॒मु॒द्रं , उ॒क्थ्यं॑ ॥
पव॑मानो अजीजनद्दि॒वश्चि॒त्रं न त॑न्य॒तुं । ज्योति॑र्वैश्वान॒रं बृ॒हत् ॥
पव॑मानः , अ॒जी॒ज॒न॒त् , दि॒वः , चि॒त्रं , न , त॒न्य॒तुं । ज्योतिः॑ , वै॒श्वा॒न॒रं , बृ॒हत् ॥
पव॑मानस्य ते॒ रसो॒ मदो॑ राजन्नदुच्छु॒नः । वि वार॒मव्य॑मर्षति ॥
पव॑मानस्य , ते॒ , रसः॑ , मदः॑ , रा॒ज॒न् , अ॒दु॒च्छु॒नः । वि , वारं॑ , अव्यं॑ , अ॒र्ष॒ति॒ ॥
पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा॑जति द्यु॒मान् । ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ॥
पव॑मान , रसः॑ , तव॑ , दक्षः॑ , वि , रा॒ज॒ति॒ , द्यु॒ऽमान् । ज्योतिः॑ , विश्वं॑ , स्वः॑ , दृ॒शे ॥
यस्ते॒ मदो॒ वरे॑ण्य॒स्तेना॑ पव॒स्वांध॑सा । दे॒वा॒वीर॑घशंस॒हा ॥
यः , ते॒ , मदः॑ , वरे॑ण्यः , तेन॑ , प॒व॒स्व॒ , अंध॑सा । दे॒व॒ऽअ॒वीः , अ॒घ॒शं॒स॒ऽहा ॥
जघ्नि॑र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं॑ दि॒वेदि॑वे । गो॒षा उ॑ अश्व॒सा अ॑सि ॥
जघ्निः॑ , वृ॒त्रं , अ॒मि॒त्रियं॑ , सस्निः॑ , वाजं॑ , दि॒वेऽदि॑वे । गो॒ऽसाः , ऊँ॒ इति॑ , अ॒श्व॒ऽसाः , अ॒सि॒ ॥
संमि॑श्लो अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभिः॑ । सीदं॑छ्ये॒नो न योनि॒मा ॥
संऽमि॑श्लः , अ॒रु॒षः , भ॒व॒ , सु॒ऽउ॒प॒स्थाभिः॑ , न , धे॒नुऽभिः॑ । सीद॑न् , श्ये॒नः , न , योनिं॑ , आ ॥
स प॑वस्व॒ य आवि॒थेंद्रं॑ वृ॒त्राय॒ हंत॑वे । व॒व्रि॒वांसं॑ म॒हीर॒पः ॥
सः , प॒व॒स्व॒ , यः , आवि॑थ , इंद्रं॑ , वृ॒त्राय॑ , हंत॑वे । व॒व्रि॒ऽवांसं॑ , म॒हीः , अ॒पः ॥
सु॒वीरा॑सो व॒यं धना॒ जये॑म सोम मीढ्वः । पु॒ना॒नो व॑र्ध नो॒ गिरः॑ ॥
सु॒ऽवीरा॑सः , व॒यं , धना॑ , जये॑म , सो॒म॒ , मी॒ढ्वः॒ । पु॒ना॒नः , व॒र्ध॒ , नः॒ , गिरः॑ ॥
त्वोता॑स॒स्तवाव॑सा॒ स्याम॑ व॒न्वंत॑ आ॒मुरः॑ । सोम॑ व्र॒तेषु॑ जागृहि ॥
त्वाऽऊ॑तासः , तव॑ , अव॑सा , स्याम॑ , व॒न्वंतः॑ , आ॒ऽमुरः॑ । सोम॑ , व्र॒तेषु॑ , जा॒गृ॒हि॒ ॥
अ॒प॒घ्नन्प॑वते॒ मृधोऽप॒ सोमो॒ अरा॑व्णः । गच्छ॒न्निंद्र॑स्य निष्कृ॒तं ॥
अ॒प॒ऽघ्नन् , प॒व॒ते॒ , मृधः॑ , अप॑ , सोमः॑ , अरा॑व्णः । गच्छ॑न् , इंद्र॑स्य , निः॒ऽकृ॒तं ॥
म॒हो नो॑ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ । रास्वें॑दो वी॒रव॒द्यशः॑ ॥
म॒हः , नः॒ , रा॒यः , आ , भ॒र॒ , पव॑मान , ज॒हि , मृधः॑ । रास्व॑ , इं॒दो॒ इति॑ , वी॒रऽव॑त् , यशः॑ ॥
न त्वा॑ श॒तं च॒न ह्रुतो॒ राधो॒ दित्सं॑त॒मा मि॑नन् । यत्पु॑ना॒नो म॑ख॒स्यसे॑ ॥
न , त्वा॒ , श॒तं , च॒न , ह्रुतः॑ , राधः॑ , दित्सं॑तं , आ , मि॒न॒न् । यत् , पु॒ना॒नः , म॒ख॒स्यसे॑ ॥
पव॑स्वेंदो॒ वृषा॑ सु॒तः कृ॒धी नो॑ य॒शसो॒ जने॑ । विश्वा॒ अप॒ द्विषो॑ जहि ॥
पव॑स्व , इं॒दो॒ इति॑ , वृषा॑ , सु॒तः , कृ॒धि , नः॒ , य॒शसः॑ , जने॑ । विश्वाः॑ , अप॑ , द्विषः॑ , ज॒हि॒ ॥
अस्य॑ ते स॒ख्ये व॒यं तवें॑दो द्यु॒म्न उ॑त्त॒मे । सा॒स॒ह्याम॑ पृतन्य॒तः ॥
अस्य॑ , ते॒ , स॒ख्ये , व॒यं , तव॑ , इं॒दो॒ इति॑ , द्यु॒म्ने , उ॒त्ऽत॒मे । स॒स॒ह्याम॑ , पृ॒त॒न्य॒तः ॥
या ते॑ भी॒मान्यायु॑धा ति॒ग्मानि॒ संति॒ धूर्व॑णे । रक्षा॑ समस्य नो नि॒दः ॥
या , ते॒ , भी॒मानि॑ , आयु॑धा , ति॒ग्मानि॑ , संति॑ , धूर्व॑णे । रक्ष॑ , स॒म॒स्य॒ , नः॒ , नि॒दः ॥
[६२] एतेअसृग्रमिति त्रिंशदृचस्य सूक्तस्य भार्गवोजमदग्निः पवमानःसोमो गायत्री |
ए॒ते अ॑सृग्र॒मिंद॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ । विश्वा॑न्य॒भि सौभ॑गा ॥
ए॒ते , अ॒सृ॒ग्रं॒ , इंद॑वः , ति॒रः , प॒वित्रं॑ , आ॒शवः॑ । विश्वा॑नि , अ॒भि , सौभ॑गा ॥
वि॒घ्नंतो॑ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिनः॑ । तना॑ कृ॒ण्वंतो॒ अर्व॑ते ॥
वि॒ऽघ्नंतः॑ , दुः॒ऽइ॒ता , पु॒रु , सु॒ऽगा , तो॒काय॑ , वा॒जिनः॑ । तना॑ , कृ॒ण्वंतः॑ , अर्व॑ते ॥
कृ॒ण्वंतो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षंति सुष्टु॒तिं । इळा॑म॒स्मभ्यं॑ सं॒यतं॑ ॥
कृ॒ण्वंतः॑ , वरि॑वः , गवे॑ , अ॒भि , अ॒र्षं॒ति॒ , सु॒ऽस्तु॒तिं । इळां॑ , अ॒स्मभ्यं॑ , सं॒ऽयतं॑ ॥
असा॑व्यं॒शुर्मदा॑या॒प्सु दक्षो॑ गिरि॒ष्ठाः । श्ये॒नो न योनि॒मास॑दत् ॥
असा॑वि , अं॒शुः , मदा॑य , अ॒प्ऽसु , दक्षः॑ , गि॒रि॒ऽस्थाः । श्ये॒नः , न , योनिं॑ , आ , अ॒स॒द॒त् ॥
शु॒भ्रमंधो॑ दे॒ववा॑तम॒प्सु धू॒तो नृभिः॑ सु॒तः । स्वदं॑ति॒ गावः॒ पयो॑भिः ॥
शु॒भ्रं , अंधः॑ , दे॒वऽवा॑तं , अ॒प्ऽसु , धू॒तः , नृऽभिः॑ , सु॒तः । स्वदं॑ति , गावः॑ , पयः॑ऽभिः ॥
आदी॒मश्वं॒ न हेता॒रोऽशू॑शुभन्न॒मृता॑य । मध्वो॒ रसं॑ सध॒मादे॑ ॥
आत् , ईं॒ , अश्वं॑ , न , हेता॑रः , अशू॑शुभन् , अ॒मृता॑य । मध्वः॑ , रसं॑ , स॒ध॒ऽमादे॑ ॥
यास्ते॒ धारा॑ मधु॒श्चुतोऽसृ॑ग्रमिंद ऊ॒तये॑ । ताभिः॑ प॒वित्र॒मास॑दः ॥
याः , ते॒ , धाराः॑ , म॒धु॒ऽश्चुतः॑ , असृ॑ग्रं , इं॒दो॒ इति॑ , ऊ॒तये॑ । ताभिः॑ , प॒वित्रं॑ , आ , अ॒स॒दः॒ ॥
सो अ॒र्षेंद्रा॑य पी॒तये॑ ति॒रो रोमा॑ण्य॒व्यया॑ । सीद॒न्योना॒ वने॒ष्वा ॥
सः , अ॒र्ष॒ , इंद्रा॑य , पी॒तये॑ , ति॒रः , रोमा॑णि , अ॒व्यया॑ । सीद॑न् , योना॑ , वने॑षु , आ ॥
त्वमिं॑दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒ अंगि॑रोभ्यः । व॒रि॒वो॒विद्घृ॒तं पयः॑ ॥
त्वं , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ , स्वादि॑ष्ठः , अंगि॑रःऽभ्यः । व॒रि॒वः॒ऽवित् , घृ॒तं , पयः॑ ॥
अ॒यं विच॑र्षणिर्हि॒तः पव॑मानः॒ स चे॑तति । हि॒न्वा॒न आप्यं॑ बृ॒हत् ॥
अ॒यं , विऽच॑र्षणिः , हि॒तः , पव॑मानः , सः , चे॒त॒ति॒ । हि॒न्वा॒नः , आप्यं॑ , बृ॒हत् ॥
ए॒ष वृषा॒ वृष॑व्रतः॒ पव॑मानो अशस्ति॒हा । कर॒द्वसू॑नि दा॒शुषे॑ ॥
ए॒षः , वृषा॑ , वृष॑ऽव्रतः , पव॑मानः , अ॒श॒स्ति॒ऽहा । कर॑त् , वसू॑नि , दा॒शुषे॑ ॥
आ प॑वस्व सह॒स्रिणं॑ र॒यिं गोमं॑तम॒श्विनं॑ । पु॒रु॒श्चं॒द्रं पु॑रु॒स्पृहं॑ ॥
आ , प॒व॒स्व॒ , स॒ह॒स्रिणं॑ , र॒यिं , गोऽमं॑तं , अ॒श्विनं॑ । पु॒रु॒ऽचं॒द्रं , पु॒रु॒ऽस्पृहं॑ ॥
ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा॑न आ॒युभिः॑ । उ॒रु॒गा॒यः क॒विक्र॑तुः ॥
ए॒षः , स्यः , परि॑ , सि॒च्य॒ते॒ , म॒र्मृ॒ज्यमा॑नः , आ॒युऽभिः॑ । उ॒रु॒ऽगा॒यः , क॒विऽक्र॑तुः ॥
स॒हस्रो॑तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः । इंद्रा॑य पवते॒ मदः॑ ॥
स॒हस्र॑ऽऊतिः , श॒तऽम॑घः , वि॒ऽमानः॑ , रज॑सः , क॒विः । इंद्रा॑य , प॒व॒ते॒ , मदः॑ ॥
गि॒रा जा॒त इ॒ह स्तु॒त इंदु॒रिंद्रा॑य धीयते । विर्योना॑ वस॒तावि॑व ॥
गि॒रा , जा॒तः , इ॒ह , स्तु॒तः , इंदुः॑ , इंद्रा॑य , धी॒य॒ते॒ । विः , योना॑ , व॒स॒तौऽइ॑व ॥
पव॑मानः सु॒तो नृभिः॒ सोमो॒ वाज॑मिवासरत् । च॒मूषु॒ शक्म॑ना॒सदं॑ ॥
पव॑मानः , सु॒तः , नृऽभिः॑ , सोमः॑ , वाजं॑ऽइव , अ॒स॒रत् । च॒मूषु॑ , शक्म॑ना , आ॒ऽसदं॑ ॥
तं त्रि॑पृ॒ष्ठे त्रि॑वंधु॒रे रथे॑ युंजंति॒ यात॑वे । ऋषी॑णां स॒प्त धी॒तिभिः॑ ॥
तं , त्रि॒ऽपृ॒ष्ठे , त्रि॒ऽवं॒धु॒रे , रथे॑ , युं॒जं॒ति॒ , यात॑वे । ऋषी॑णां , स॒प्त , धी॒तिऽभिः॑ ॥
तं सो॑तारो धन॒स्पृत॑मा॒शुं वाजा॑य॒ यात॑वे । हरिं॑ हिनोत वा॒जिनं॑ ॥
तं , सो॒ता॒रः॒ , ध॒न॒ऽस्पृतं॑ , आ॒शुं , वाजा॑य , यात॑वे । हरिं॑ , हि॒नो॒त॒ , वा॒जिनं॑ ॥
आ॒वि॒शन्क॒लशं॑ सु॒तो विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ । शूरो॒ न गोषु॑ तिष्ठति ॥
आ॒ऽवि॒शन् , क॒लशं॑ , सु॒तः , विश्वाः॑ , अर्ष॑न् , अ॒भि , श्रियः॑ । शूरः॑ , न , गोषु॑ , ति॒ष्ठ॒ति॒ ॥
आ त॑ इंदो॒ मदा॑य॒ कं पयो॑ दुहंत्या॒यवः॑ । दे॒वा दे॒वेभ्यो॒ मधु॑ ॥
आ , ते॒ , इं॒दो॒ इति॑ , मदा॑य , कं , पयः॑ , दु॒हं॒ति॒ , आ॒यवः॑ । दे॒वाः , दे॒वेभ्यः॑ , मधु॑ ॥
आ नः॒ सोमं॑ प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमं । दे॒वेभ्यो॑ देव॒श्रुत्त॑मं ॥
आ , नः॒ , सोमं॑ , प॒वित्रे॑ , आ , सृ॒जत॑ , मधु॑मत्ऽतमं । दे॒वेभ्यः॑ , दे॒व॒श्रुत्ऽत॑मं ॥
ए॒ते सोमा॑ असृक्षत गृणा॒नाः श्रव॑से म॒हे । म॒दिंत॑मस्य॒ धार॑या ॥
ए॒ते , सोमाः॑ , अ॒सृ॒क्ष॒त॒ , गृ॒णा॒नाः , श्रव॑से , म॒हे । म॒दिन्ऽत॑मस्य , धार॑या ॥
अ॒भि गव्या॑नि वी॒तये॑ नृ॒म्णा पु॑ना॒नो अ॑र्षसि । स॒नद्वा॑जः॒ परि॑ स्रव ॥
अ॒भि , गव्या॑नि , वी॒तये॑ , नृ॒म्णा , पु॒ना॒नः , अ॒र्ष॒सि॒ । स॒नत्ऽवा॑जः , परि॑ , स्र॒व॒ ॥
उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा॑ अर्ष परि॒ष्टुभः॑ । गृ॒णा॒नो ज॒मद॑ग्निना ॥
उ॒त , नः॒ , गोऽम॑तीः , इषः॑ , विश्वाः॑ , अ॒र्ष॒ , प॒रि॒ऽस्तुभः॑ । गृ॒णा॒नः , ज॒मत्ऽअ॑ग्निना ॥
पव॑स्व वा॒चो अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभिः॑ । अ॒भि विश्वा॑नि॒ काव्या॑ ॥
पव॑स्व , वा॒चः , अ॒ग्रि॒यः , सोम॑ , चि॒त्राभिः॑ , ऊ॒तिऽभिः॑ । अ॒भि , विश्वा॑नि , काव्या॑ ॥
त्वं स॑मु॒द्रिया॑ अ॒पो॑ऽग्रि॒यो वाच॑ ई॒रय॑न् । पव॑स्व विश्वमेजय ॥
त्वं , स॒मु॒द्रियाः॑ , अ॒पः , अ॒ग्रि॒यः , वाचः॑ , ई॒रय॑न् । पव॑स्व , वि॒श्वं॒ऽए॒ज॒य॒ ॥
तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो॑म तस्थिरे । तुभ्य॑मर्षंति॒ सिंध॑वः ॥
तुभ्य॑ , इ॒मा , भुव॑ना , क॒वे॒ , म॒हि॒म्ने , सो॒म॒ , त॒स्थि॒रे॒ । तुभ्यं॑ , अ॒र्षं॒ति॒ , सिंध॑वः ॥
प्र ते॑ दि॒वो न वृ॒ष्टयो॒ धारा॑ यंत्यस॒श्चतः॑ । अ॒भि शु॒क्रामु॑प॒स्तिरं॑ ॥
प्र , ते॒ , दि॒वः , न , वृ॒ष्टयः॑ , धाराः॑ , यं॒ति॒ , अ॒स॒श्चतः॑ । अ॒भि , शु॒क्रां , उ॒प॒ऽस्तिरं॑ ॥
इंद्रा॒येंदुं॑ पुनीतनो॒ग्रं दक्षा॑य॒ साध॑नं । ई॒शा॒नं वी॒तिरा॑धसं ॥
इंद्रा॑य , इंदुं॑ , पु॒नी॒त॒न॒ , उ॒ग्रं , दक्षा॑य , साध॑नं । ई॒शा॒नं , वी॒तिऽरा॑धसं ॥
पव॑मान ऋ॒तः क॒विः सोमः॑ प॒वित्र॒मास॑दत् । दध॑त्स्तो॒त्रे सु॒वीर्यं॑ ॥
पव॑मानः , ऋ॒तः , क॒विः , सोमः॑ , प॒वित्रं॑ , आ , अ॒स॒द॒त् । दध॑त् , स्तो॒त्रे , सु॒ऽवीर्यं॑ ॥
[६३] आपवस्वेति त्रिंशदृचस्य सूक्तस्य काश्यपोनिध्रुविः पवमानः सोमो गायत्री |
आ प॑वस्व सह॒स्रिणं॑ र॒यिं सो॑म सु॒वीर्यं॑ । अ॒स्मे श्रवां॑सि धारय ॥
आ , प॒व॒स्व॒ , स॒ह॒स्रिणं॑ , र॒यिं , सो॒म॒ , सु॒ऽवीर्यं॑ । अ॒स्मे इति॑ , श्रवां॑सि , धा॒र॒य॒ ॥
इष॒मूर्जं॑ च पिन्वस॒ इंद्रा॑य मत्स॒रिंत॑मः । च॒मूष्वा नि षी॑दसि ॥
इषं॑ , ऊर्जं॑ , च॒ , पि॒न्व॒से॒ , इंद्रा॑य , म॒त्स॒रिन्ऽत॑मः । च॒मूषु॑ , आ , नि , सी॒द॒सि॒ ॥
सु॒त इंद्रा॑य॒ विष्ण॑वे॒ सोमः॑ क॒लशे॑ अक्षरत् । मधु॑माँ अस्तु वा॒यवे॑ ॥
सु॒तः , इंद्रा॑य , विष्ण॑वे , सोमः॑ , क॒लशे॑ , अ॒क्ष॒र॒त् । मधु॑ऽमान् , अ॒स्तु॒ , वा॒यवे॑ ॥
ए॒ते अ॑सृग्रमा॒शवोऽति॒ ह्वरां॑सि ब॒भ्रवः॑ । सोमा॑ ऋ॒तस्य॒ धार॑या ॥
ए॒ते , अ॒सृ॒ग्रं॒ , आ॒शवः॑ , अति॑ , ह्वरां॑सि , ब॒भ्रवः॑ । सोमाः॑ , ऋ॒तस्य॑ , धार॑या ॥
इंद्रं॒ वर्धं॑तो अ॒प्तुरः॑ कृ॒ण्वंतो॒ विश्व॒मार्यं॑ । अ॒प॒घ्नंतो॒ अरा॑व्णः ॥
इंद्रं॑ , वर्धं॑तः , अ॒प्ऽतुरः॑ , कृ॒ण्वंतः॑ , विश्वं॑ , आर्यं॑ । अ॒प॒ऽघ्नंतः॑ , अरा॑व्णः ॥
सु॒ता अनु॒ स्वमा रजो॒ऽभ्य॑र्षंति ब॒भ्रवः॑ । इंद्रं॒ गच्छं॑त॒ इंद॑वः ॥
सु॒ताः , अनु॑ , स्वं , आ , रजः॑ , अ॒भि , अ॒र्षं॒ति॒ , ब॒भ्रवः॑ । इंद्रं॑ , गच्छं॑तः , इंद॑वः ॥
अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो॑चयः । हि॒न्वा॒नो मानु॑षीर॒पः ॥
अ॒या , प॒व॒स्व॒ , धार॑या , यया॑ , सूर्यं॑ , अरो॑चयः । हि॒न्वा॒नः , मानु॑षीः , अ॒पः ॥
अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ । अं॒तरि॑क्षेण॒ यात॑वे ॥
अयु॑क्त , सूरः॑ , एत॑शं , पव॑मानः , म॒नौ , अधि॑ । अं॒तरि॑क्षेण , यात॑वे ॥
उ॒त त्या ह॒रितो॒ दश॒ सूरो॑ अयुक्त॒ यात॑वे । इंदु॒रिंद्र॒ इति॑ ब्रु॒वन् ॥
उ॒त , त्याः , ह॒रितः॑ , दश॑ , सूरः॑ , अ॒यु॒क्त॒ , यात॑वे । इंदुः॑ , इंद्रः॑ , इति॑ , ब्रु॒वन् ॥
परी॒तो वा॒यवे॑ सु॒तं गिर॒ इंद्रा॑य मत्स॒रं । अव्यो॒ वारे॑षु सिंचत ॥
परि॑ , इ॒तः , वा॒यवे॑ , सु॒तं , गिरः॑ , इंद्रा॑य , म॒त्स॒रं । अव्यः॑ , वारे॑षु , सिं॒च॒त॒ ॥
पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम दु॒ष्टरं॑ । यो दू॒णाशो॑ वनुष्य॒ता ॥
पव॑मान , वि॒दाः , र॒यिं , अ॒स्मभ्यं॑ , सो॒म॒ , दु॒स्तरं॑ । यः , दुः॒ऽनशः॑ , व॒नु॒ष्य॒ता ॥
अ॒भ्य॑र्ष सह॒स्रिणं॑ र॒यिं गोमं॑तम॒श्विनं॑ । अ॒भि वाज॑मु॒त श्रवः॑ ॥
अ॒भि , अ॒र्ष॒ , स॒ह॒स्रिणं॑ , र॒यिं , गोऽमं॑तं , अ॒श्विनं॑ । अ॒भि , वाजं॑ , उ॒त , श्रवः॑ ॥
सोमो॑ दे॒वो न सूर्योऽद्रि॑भिः पवते सु॒तः । दधा॑नः क॒लशे॒ रसं॑ ॥
सोमः॑ , दे॒वः , न , सूर्यः॑ , अद्रि॑ऽभिः , प॒व॒ते॒ , सु॒तः । दधा॑नः , क॒लशे॑ , रसं॑ ॥
ए॒ते धामा॒न्यार्या॑ शु॒क्रा ऋ॒तस्य॒ धार॑या । वाजं॒ गोमं॑तमक्षरन् ॥
ए॒ते , धामा॑नि , आर्या॑ , शु॒क्राः , ऋ॒तस्य॑ , धार॑या । वाजं॑ , गोऽमं॑तं , अ॒क्ष॒र॒न् ॥
सु॒ता इंद्रा॑य व॒ज्रिणे॒ सोमा॑सो॒ दध्या॑शिरः । प॒वित्र॒मत्य॑क्षरन् ॥
सु॒ताः , इंद्रा॑य , व॒ज्रिणे॑ , सोमा॑सः , दधि॑ऽआशिरः । प॒वित्रं॑ , अति॑ , अ॒क्ष॒र॒न् ॥
प्र सो॑म॒ मधु॑मत्तमो रा॒ये अ॑र्ष प॒वित्र॒ आ । मदो॒ यो दे॑व॒वीत॑मः ॥
प्र , सो॒म॒ , मधु॑मत्ऽतमः , रा॒ये , अ॒र्ष॒ , प॒वित्रे॑ , आ । मदः॑ , यः , दे॒व॒ऽवीत॑मः ॥
तमी॑ मृजंत्या॒यवो॒ हरिं॑ न॒दीषु॑ वा॒जिनं॑ । इंदु॒मिंद्रा॑य मत्स॒रं ॥
तं , ई॒मिति॑ , मृ॒जं॒ति॒ , आ॒यवः॑ , हरिं॑ , न॒दीषु॑ , वा॒जिनं॑ । इंदुं॑ , इंद्रा॑य , म॒त्स॒रं ॥
आ प॑वस्व॒ हिर॑ण्यव॒दश्वा॑वत्सोम वी॒रव॑त् । वाजं॒ गोमं॑त॒मा भ॑र ॥
आ , प॒व॒स्व॒ , हिर॑ण्यऽवत् , अश्व॑ऽवत् , सो॒म॒ , वी॒रऽव॑त् । वाजं॑ , गोऽमं॑तं , आ , भ॒र॒ ॥
परि॒ वाजे॒ न वा॑ज॒युमव्यो॒ वारे॑षु सिंचत । इंद्रा॑य॒ मधु॑मत्तमं ॥
परि॑ , वाजे॑ , न , वा॒ज॒ऽयुं , अव्यः॑ , वारे॑षु , सिं॒च॒त॒ । इंद्रा॑य , मधु॑मत्ऽतमं ॥
क॒विं मृ॑जंति॒ मर्ज्यं॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ । वृषा॒ कनि॑क्रदर्षति ॥
क॒विं , मृ॒जं॒ति॒ , मर्ज्यं॑ , धी॒भिः , विप्राः॑ , अ॒व॒स्यवः॑ । वृषा॑ , कनि॑क्रत् , अ॒र्ष॒ति॒ ॥
वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या । म॒ती विप्राः॒ सम॑स्वरन् ॥
वृष॑णं , धी॒भिः , अ॒प्ऽतुरं॑ , सोमं॑ , ऋ॒तस्य॑ , धार॑या । म॒ती , विप्राः॑ , सं , अ॒स्व॒र॒न् ॥
पव॑स्व देवायु॒षगिंद्रं॑ गच्छतु ते॒ मदः॑ । वा॒युमा रो॑ह॒ धर्म॑णा ॥
पव॑स्व , दे॒व॒ , आ॒यु॒षक् , इंद्रं॑ , ग॒च्छ॒तु॒ , ते॒ , मदः॑ । वा॒युं , आ , रो॒ह॒ , धर्म॑णा ॥
पव॑मान॒ नि तो॑शसे र॒यिं सो॑म श्र॒वाय्यं॑ । प्रि॒यः स॑मु॒द्रमा वि॑श ॥
पव॑मान , नि , तो॒श॒से॒ , र॒यिं , सो॒म॒ , श्र॒वाय्यं॑ । प्रि॒यः , स॒मु॒द्रं , आ , वि॒श॒ ॥
अ॒प॒घ्नन्प॑वसे॒ मृधः॑ क्रतु॒वित्सो॑म मत्स॒रः । नु॒दस्वादे॑वयुं॒ जनं॑ ॥
अ॒प॒ऽघ्नन् , प॒व॒से॒ , मृधः॑ , क्र॒तु॒ऽवित् , सो॒म॒ , म॒त्स॒रः । नु॒दस्व॑ , अदे॑वऽयुं , जनं॑ ॥
पव॑माना असृक्षत॒ सोमाः॑ शु॒क्रास॒ इंद॑वः । अ॒भि विश्वा॑नि॒ काव्या॑ ॥
पव॑मानाः , अ॒सृ॒क्ष॒त॒ , सोमाः॑ , शु॒क्रासः॑ , इंद॑वः । अ॒भि , विश्वा॑नि , काव्या॑ ॥
पव॑मानास आ॒शवः॑ शु॒भ्रा अ॑सृग्र॒मिंद॑वः । घ्नंतो॒ विश्वा॒ अप॒ द्विषः॑ ॥
पव॑मानासः , आ॒शवः॑ , शु॒भ्राः , अ॒सृ॒ग्रं॒ , इंद॑वः । घ्नंतः॑ , विश्वाः॑ , अप॑ , द्विषः॑ ॥
पव॑माना दि॒वस्पर्यं॒तरि॑क्षादसृक्षत । पृ॒थि॒व्या अधि॒ सान॑वि ॥
पव॑मानाः , दि॒वः , परि॑ , अं॒तरि॑क्षात् , अ॒सृ॒क्ष॒त॒ । पृ॒थि॒व्याः , अधि॑ , सान॑वि ॥
पु॒ना॒नः सो॑म॒ धार॒येंदो॒ विश्वा॒ अप॒ स्रिधः॑ । ज॒हि रक्षां॑सि सुक्रतो ॥
पु॒ना॒नः , सो॒म॒ , धार॑या , इंदो॒ इति॑ , विश्वाः॑ , अप॑ , स्रिधः॑ । ज॒हि , रक्षां॑सि , सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥
अ॒प॒घ्नंत्सो॑म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् । द्यु॒मंतं॒ शुष्म॑मुत्त॒मं ॥
अ॒प॒ऽघ्नन् , सो॒म॒ , र॒क्षसः॑ , अ॒भि , अ॒र्ष॒ , कनि॑क्रदत् । द्यु॒ऽमंतं॑ , शुष्मं॑ , उ॒त्ऽत॒मं ॥
अ॒स्मे वसू॑नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा । इंदो॒ विश्वा॑नि॒ वार्या॑ ॥
अ॒स्मे इति॑ , वसू॑नि , धा॒र॒य॒ , सोम॑ , दि॒व्यानि॑ , पार्थि॑वा । इंदो॒ इति॑ , विश्वा॑नि , वार्या॑ ॥
[६४] वृषासोमेति त्रिंशदृचस्यसूक्तस्य मारीचः कश्यपः पवमानःसोमोगायत्री |
वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ॥
वृषा॑ , सो॒म॒ , द्यु॒ऽमान् , अ॒सि॒ , वृषा॑ , दे॒व॒ , वृष॑ऽव्रतः । वृषा॑ , धर्मा॑णि , द॒धि॒षे॒ ॥
वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः॑ । स॒त्यं वृ॑ष॒न्वृषेद॑सि ॥
वृष्णः॑ , ते॒ , वृष्ण्यं॑ , शवः॑ , वृषा॑ , वनं॑ , वृषा॑ , मदः॑ । स॒त्यं , वृ॒ष॒न् , वृषा॑ , इत् , अ॒सि॒ ॥
अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा इं॑दो॒ समर्व॑तः । वि नो॑ रा॒ये दुरो॑ वृधि ॥
अश्वः॑ , न , च॒क्र॒दः॒ , वृषा॑ , सं , गाः , इं॒दो॒ इति॑ , सं , अर्व॑तः । वि , नः॒ , रा॒ये , दुरः॑ , वृ॒धि॒ ॥
असृ॑क्षत॒ प्र वा॒जिनो॑ ग॒व्या सोमा॑सो अश्व॒या । शु॒क्रासो॑ वीर॒याशवः॑ ॥
असृ॑क्षत , प्र , वा॒जिनः॑ , ग॒व्या , सोमा॑सः , अ॒श्व॒ऽया । शु॒क्रासः॑ , वी॒र॒ऽया , आ॒शवः॑ ॥
शुं॒भमा॑ना ऋता॒युभि॑र्मृ॒ज्यमा॑ना॒ गभ॑स्त्योः । पवं॑ते॒ वारे॑ अ॒व्यये॑ ॥
शुं॒भमा॑नाः , ऋ॒त॒युऽभिः॑ , मृ॒ज्यमा॑नाः , गभ॑स्त्योः । पवं॑ते , वारे॑ , अ॒व्यये॑ ॥
ते विश्वा॑ दा॒शुषे॒ वसु॒ सोमा॑ दि॒व्यानि॒ पार्थि॑वा । पवं॑ता॒मांतरि॑क्ष्या ॥
ते , विश्वा॑ , दा॒शुषे॑ , वसु॑ , सोमाः॑ , दि॒व्यानि॑ , पार्थि॑वा । पवं॑तां , आ , अं॒तरि॑क्ष्या ॥
पव॑मानस्य विश्ववि॒त्प्र ते॒ सर्गा॑ असृक्षत । सूर्य॑स्येव॒ न र॒श्मयः॑ ॥
पव॑मानस्य , वि॒श्व॒ऽवि॒त् , प्र , ते॒ , सर्गाः॑ , अ॒सृ॒क्ष॒त॒ । सूर्य॑स्यऽइव , न , र॒श्मयः॑ ॥
के॒तुं कृ॒ण्वंदि॒वस्परि॒ विश्वा॑ रू॒पाभ्य॑र्षसि । स॒मु॒द्रः सो॑म पिन्वसे ॥
के॒तुं , कृ॒ण्वन् , दि॒वः , परि॑ , विश्वा॑ , रू॒पा , अ॒भि , अ॒र्ष॒सि॒ । स॒मु॒द्रः , सो॒म॒ , पि॒न्व॒से॒ ॥
हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध॑र्मणि । अक्रां॑दे॒वो न सूर्यः॑ ॥
हि॒न्वा॒नः , वाचं॑ , इ॒ष्य॒सि॒ , पव॑मान , विऽध॑र्मणि । अक्रा॑न् , दे॒वः , न , सूर्यः॑ ॥
इंदुः॑ पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती । सृ॒जदश्वं॑ र॒थीरि॑व ॥
इंदुः॑ , प॒वि॒ष्ट॒ , चेत॑नः , प्रि॒यः , क॒वी॒नां , म॒ती । सृ॒जत् , अश्वं॑ , र॒थीःऽइ॑व ॥
ऊ॒र्मिर्यस्ते॑ प॒वित्र॒ आ दे॑वा॒वीः प॒र्यक्ष॑रत् । सीद॑न्नृ॒तस्य॒ योनि॒मा ॥
ऊ॒र्मिः , यः , ते॒ , प॒वित्रे॑ , आ , द॒व॒ऽअ॒वीः , प॒रि॒ऽअक्ष॑रत् । सीद॑न् , ऋ॒तस्य॑ , योनिं॑ , आ ॥
स नो॑ अर्ष प॒वित्र॒ आ मदो॒ यो दे॑व॒वीत॑मः । इंद॒विंद्रा॑य पी॒तये॑ ॥
सः , नः॒ , अ॒र्ष॒ , प॒वित्रे॑ , आ , मदः॑ , यः , दे॒व॒ऽवीत॑मः । इंदो॒ इति॑ , इंद्रा॑य , पी॒तये॑ ॥
इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा॑नो मनी॒षिभिः॑ । इंदो॑ रु॒चाभि गा इ॑हि ॥
इ॒षे , प॒व॒स्व॒ , धार॑या , मृ॒ज्यमा॑नः , म॒नी॒षिऽभिः॑ । इंदो॒ इति॑ , रु॒चा , अ॒भि , गाः , इ॒हि॒ ॥
पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना॑य गिर्वणः । हरे॑ सृजा॒न आ॒शिरं॑ ॥
पु॒ना॒नः , वरि॑वः , कृ॒धि॒ , ऊर्जं॑ , जना॑य , गि॒र्व॒णः॒ । हरे॑ , सृ॒जा॒नः , आ॒ऽशिरं॑ ॥
पु॒ना॒नो दे॒ववी॑तय॒ इंद्र॑स्य याहि निष्कृ॒तं । द्यु॒ता॒नो वा॒जिभि॑र्य॒तः ॥
पु॒ना॒नः , दे॒वऽवी॑तये , इंद्र॑स्य , या॒हि॒ , निः॒ऽकृ॒तं । द्यु॒ता॒नः , वा॒जिऽभिः॑ , य॒तः ॥
प्र हि॑न्वा॒नास॒ इंद॒वोऽच्छा॑ समु॒द्रमा॒शवः॑ । धि॒या जू॒ता अ॑सृक्षत ॥
प्र , हि॒न्वा॒नासः॑ , इंद॑वः , अच्छ॑ , स॒मु॒द्रं , आ॒शवः॑ । धि॒या , जू॒ताः , अ॒सृ॒क्ष॒त॒ ॥
म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा॑ समु॒द्रमिंद॑वः । अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥
म॒र्मृ॒जा॒नासः॑ , आ॒यवः॑ , वृथा॑ , स॒मु॒द्रं , इंद॑वः । अग्म॑न् , ऋ॒तस्य॑ , योनिं॑ , आ ॥
परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा । पा॒हि नः॒ शर्म॑ वी॒रव॑त् ॥
परि॑ , नः॒ , या॒हि॒ , अ॒स्म॒ऽयुः , विश्वा॑ , वसू॑नि , ओज॑सा । पा॒हि , नः॒ , शर्म॑ , वी॒रऽव॑त् ॥
मिमा॑ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः । प्र यत्स॑मु॒द्र आहि॑तः ॥
मिमा॑ति , वह्निः॑ , एत॑शः , प॒दं , यु॒जा॒नः , ऋक्व॑ऽभिः । प्र , यत् , स॒मु॒द्रे , आऽहि॑तः ॥
आ यद्योनिं॑ हिर॒ण्यय॑मा॒शुर्ऋ॒तस्य॒ सीद॑ति । जहा॒त्यप्र॑चेतसः ॥
आ , यत् , योनिं॑ , हि॒र॒ण्ययं॑ , आ॒शुः , ऋ॒तस्य॑ , सीद॑ति । जहा॑ति , अप्र॑ऽचेतसः ॥
अ॒भि वे॒ना अ॑नूष॒तेय॑क्षंति॒ प्रचे॑तसः । मज्जं॒त्यवि॑चेतसः ॥
अ॒भि , वे॒नाः , अ॒नू॒ष॒त॒ , इय॑क्षंति , प्रऽचे॑तसः । मज्जं॑ति , अवि॑ऽचेतसः ॥
इंद्रा॑येंदो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः । ऋ॒तस्य॒ योनि॑मा॒सदं॑ ॥
इंद्रा॑य , इं॒दो॒ इति॑ , म॒रुत्व॑ते , पव॑स्व , मधु॑मत्ऽतमः । ऋ॒तस्य॑ , योनिं॑ , आ॒ऽसदं॑ ॥
तं त्वा॒ विप्रा॑ वचो॒विदः॒ परि॑ ष्कृण्वंति वे॒धसः॑ । सं त्वा॑ मृजंत्या॒यवः॑ ॥
तं , त्वा॒ , विप्राः॑ , व॒चः॒ऽविदः॑ , परि॑ , कृ॒ण्वं॒ति॒ , वे॒धसः॑ । सं , त्वा॒ , मृ॒जं॒ति॒ , आ॒यवः॑ ॥
रसं॑ ते मि॒त्रो अ॑र्य॒मा पिबं॑ति॒ वरु॑णः कवे । पव॑मानस्य म॒रुतः॑ ॥
रसं॑ , ते॒ , मि॒त्रः , अ॒र्य॒मा , पिबं॑ति , वरु॑णः , क॒वे॒ । पव॑मानस्य , म॒रुतः॑ ॥
त्वं सो॑म विप॒श्चितं॑ पुना॒नो वाच॑मिष्यसि । इंदो॑ स॒हस्र॑भर्णसं ॥
त्वं , सो॒म॒ , वि॒पः॒ऽचितं॑ , पु॒ना॒नः , वाचं॑ , इ॒ष्य॒सि॒ । इंदो॒ इति॑ , स॒हस्र॑ऽभर्णसं ॥
उ॒तो स॒हस्र॑भर्णसं॒ वाचं॑ सोम मख॒स्युवं॑ । पु॒ना॒न इं॑द॒वा भ॑र ॥
उ॒तो इति॑ , स॒हस्र॑ऽभर्णसं , वाचं॑ , सो॒म॒ , म॒ख॒स्युवं॑ । पु॒ना॒नः , इं॒दो॒ इति॑ , आ , भ॒र॒ ॥
पु॒ना॒न इं॑दवेषां॒ पुरु॑हूत॒ जना॑नां । प्रि॒यः स॑मु॒द्रमा वि॑श ॥
पु॒ना॒नः , इं॒दो॒ इति॑ , ए॒षां॒ , पुरु॑ऽहूत , जना॑नां । प्रि॒यः , स॒मु॒द्रं , आ , वि॒श॒ ॥
दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभं॑त्या कृ॒पा । सोमाः॑ शु॒क्रा गवा॑शिरः ॥
दवि॑द्युतत्या , रु॒चा , प॒रि॒ऽस्तोभं॑त्या , कृ॒पा । सोमाः॑ , शु॒क्राः , गोऽआ॑शिरः ॥
हि॒न्वा॒नो हे॒तृभि॑र्य॒त आ वाजं॑ वा॒ज्य॑क्रमीत् । सीदं॑तो व॒नुषो॑ यथा ॥
हि॒न्वा॒नः , हे॒तृऽभिः॑ , य॒तः , आ , वाजं॑ , वा॒जी , अ॒क्र॒मी॒त् । सीदं॑तः , व॒नुषः॑ , य॒था॒ ॥
ऋ॒धक्सो॑म स्व॒स्तये॑ संजग्मा॒नो दि॒वः क॒विः । पव॑स्व॒ सूर्यो॑ दृ॒शे ॥
ऋ॒धक् , सो॒म॒ , स्व॒स्तये॑ , सं॒ऽज॒ग्मा॒नः , दि॒वः , क॒विः । पव॑स्व , सूर्यः॑ , दृ॒शे ॥
[६५] हिन्वंतीति त्रिंशदृचस्य सूक्तस्य वारुणिर्भृगुः पवमानःसोमोगायत्री | (अत्रभार्गवोजमदग्निः पाक्षिकः) (पवमान पारायण चतुर्थोध्यायः)
हि॒न्वंति॒ सूर॒मुस्र॑यः॒ स्वसा॑रो जा॒मय॒स्पतिं॑ । म॒हामिंदुं॑ मही॒युवः॑ ॥
हि॒न्वंति॑ , सूरं॑ , उस्र॑यः , स्वसा॑रः , जा॒मयः॑ , पतिं॑ । म॒हां , इंदुं॑ , म॒ही॒युवः॑ ॥
पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ । विश्वा॒ वसू॒न्या वि॑श ॥
पव॑मान , रु॒चाऽरु॑चा , दे॒वः , दे॒वेभ्यः॑ , परि॑ । विश्वा॑ , वसू॑नि , आ , वि॒श॒ ॥
आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ । इ॒षे प॑वस्व सं॒यतं॑ ॥
आ , प॒व॒मा॒न॒ , सु॒ऽस्तु॒तिं , वृ॒ष्टिं , दे॒वेभ्यः॑ , दुवः॑ । इ॒षे , प॒व॒स्व॒ , सं॒ऽयतं॑ ॥
वृषा॒ ह्यसि॑ भा॒नुना॑ द्यु॒मंतं॑ त्वा हवामहे । पव॑मान स्वा॒ध्यः॑ ॥
वृषा॑ , हि , असि॑ , भा॒नुना॑ , द्यु॒ऽमंतं॑ , त्वा॒ , ह॒वा॒म॒हे॒ । पव॑मान , सु॒ऽआ॒ध्यः॑ ॥
आ प॑वस्व सु॒वीर्यं॒ मंद॑मानः स्वायुध । इ॒हो ष्विं॑द॒वा ग॑हि ॥
आ , पा॒व॒स्व॒ , सु॒ऽवीर्यं॑ , मंद॑मानः , सु॒ऽआ॒यु॒ध॒ । इ॒हो इति॑ , सु , इं॒दो॒ इति॑ , आ , ग॒हि॒ ॥
यद॒द्भिः प॑रिषि॒च्यसे॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः । द्रुणा॑ स॒धस्थ॑मश्नुषे ॥
यत् , अ॒त्ऽभिः , प॒रि॒ऽसि॒च्यसे॑ , मृ॒ज्यमा॑नः , गभ॑स्त्योः । द्रुणा॑ , स॒धऽस्थं॑ , अ॒श्नु॒षे॒ ॥
प्र सोमा॑य व्यश्व॒वत्पव॑मानाय गायत । म॒हे स॒हस्र॑चक्षसे ॥
प्र , सोमा॑य , व्य॒श्व॒ऽवत् , पव॑मानाय , गा॒य॒त॒ । म॒हे , स॒हस्र॑ऽचक्षसे ॥
यस्य॒ वर्णं॑ मधु॒श्चुतं॒ हरिं॑ हि॒न्वंत्यद्रि॑भिः । इंदु॒मिंद्रा॑य पी॒तये॑ ॥
यस्य॑ , वर्णं॑ , म॒धु॒ऽश्चुतं॑ , हरिं॑ , हि॒न्वंति॑ , अद्रि॑ऽभिः । इंदुं॑ , इंद्रा॑य , पी॒तये॑ ॥
तस्य॑ ते वा॒जिनो॑ व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ । स॒खि॒त्वमा वृ॑णीमहे ॥
तस्य॑ , ते॒ , वा॒जिनः॑ , व॒यं , विश्वा॑ , धना॑नि , जि॒ग्युषः॑ । स॒खि॒ऽत्वं , आ , वृ॒णी॒म॒हे॒ ॥
वृषा॑ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः । विश्वा॒ दधा॑न॒ ओज॑सा ॥
वृषा॑ , प॒व॒स्व॒ , धार॑या , म॒रुत्व॑ते , च॒ , म॒त्स॒रः । विश्वा॑ , दधा॑नः , ओज॑सा ॥
तं त्वा॑ ध॒र्तार॑मो॒ण्यो॒३॒॑ः पव॑मान स्व॒र्दृशं॑ । हि॒न्वे वाजे॑षु वा॒जिनं॑ ॥
तं , त्वा॒ , ध॒र्तारं॑ , ओ॒ण्योः॑ , पव॑मान , स्वः॒ऽदृशं॑ । हि॒न्वे , वाजे॑षु , वा॒जिनं॑ ॥
अ॒या चि॒त्तो वि॒पानया॒ हरिः॑ पवस्व॒ धार॑या । युजं॒ वाजे॑षु चोदय ॥
अ॒या , चि॒त्तः , वि॒पा , अ॒नया॑ , हरिः॑ , प॒व॒स्व॒ , धार॑या । युजं॑ , वाजे॑षु , चो॒द॒य॒ ॥
आ न॑ इंदो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः । अ॒स्मभ्यं॑ सोम गातु॒वित् ॥
आ , नः॒ , इं॒दो॒ इति॑ , म॒हीं , इषं॑ , पव॑स्व , वि॒श्वऽद॑र्शतः । अ॒स्मभ्यं॑ , सो॒म॒ , गा॒तु॒ऽवित् ॥
आ क॒लशा॑ अनूष॒तेंदो॒ धारा॑भि॒रोज॑सा । एंद्र॑स्य पी॒तये॑ विश ॥
आ , क॒लशाः॑ , अ॒नू॒ष॒त॒ , इंदो॒ इति॑ , धारा॑भिः , ओज॑सा । आ , इंद्र॑स्य , पी॒तये॑ , वि॒श॒ ॥
यस्य॑ ते॒ मद्यं॒ रसं॑ ती॒व्रं दु॒हंत्यद्रि॑भिः । स प॑वस्वाभिमाति॒हा ॥
यस्य॑ , ते॒ , मद्यं॑ , रसं॑ , ती॒व्रं , दु॒हंति॑ , अद्रि॑ऽभिः । सः , प॒व॒स्व॒ , अ॒भि॒मा॒ति॒ऽहा ॥
राजा॑ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ । अं॒तरि॑क्षेण॒ यात॑वे ॥
राजा॑ , मे॒धाभिः॑ , ई॒य॒ते॒ , पव॑मानः , म॒नौ , अधि॑ । अं॒तरि॑क्षेण , यात॑वे ॥
आ न॑ इंदो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्यं॑ । वहा॒ भग॑त्तिमू॒तये॑ ॥
आ , नः॒ , इं॒दो॒ इति॑ , श॒त॒ऽग्विनं॑ , गवां॑ , पोषं॑ , सु॒ऽअश्व्यं॑ । वह॑ , भग॑त्तिं , ऊ॒तये॑ ॥
आ नः॑ सोम॒ सहो॒ जुवो॑ रू॒पं न वर्च॑से भर । सु॒ष्वा॒णो दे॒ववी॑तये ॥
आ , नः॒ , सो॒म॒ , सहः॑ , जुवः॑ , रू॒पं , न , वर्च॑से , भ॒र॒ । सु॒स्वा॒नः , दे॒वऽवी॑तये ॥
अर्षा॑ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा॑नि॒ रोरु॑वत् । सीदं॑छ्ये॒नो न योनि॒मा ॥
अर्ष॑ , सो॒म॒ , द्यु॒मत्ऽत॑मः , अ॒भि , द्रोणा॑नि , रोरु॑वत् । सीद॑न् , श्ये॒नः , न , योनिं॑ , आ ॥
अ॒प्सा इंद्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ । सोमो॑ अर्षति॒ विष्ण॑वे ॥
अ॒प्साः , इंद्रा॑य , वा॒यवे॑ , वरु॑णाय , म॒रुत्ऽभ्यः॑ । सोमः॑ , अ॒र्ष॒ति॒ , विष्ण॑वे ॥
इषं॑ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं॑ सोम वि॒श्वतः॑ । आ प॑वस्व सह॒स्रिणं॑ ॥
इषं॑ , तो॒काय॑ , नः॒ , दध॑त् , अ॒स्मभ्यं॑ , सो॒म॒ , वि॒श्वतः॑ । आ , प॒व॒स्व॒ , स॒ह॒स्रिणं॑ ॥
ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे । ये वा॒दः श॑र्य॒णाव॑ति ॥
ये , सोमा॑सः , प॒रा॒ऽवति॑ , ये , अ॒र्वा॒ऽवति॑ , सु॒न्वि॒रे । ये , वा॒ , अ॒दः , श॒र्य॒णाऽव॑ति ॥
य आ॑र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये॑ प॒स्त्या॑नां । ये वा॒ जने॑षु पं॒चसु॑ ॥
ये , आ॒र्जी॒केषु॑ , कृत्व॑ऽसु , ये , मध्ये॑ , प॒स्त्या॑नां । ये , वा॒ , जने॑षु , पं॒चऽसु॑ ॥
ते नो॑ वृ॒ष्टिं दि॒वस्परि॒ पवं॑ता॒मा सु॒वीर्यं॑ । सु॒वा॒ना दे॒वास॒ इंद॑वः ॥
ते , नः॒ , वृ॒ष्टिं , दि॒वः , परि॑ , पवं॑तां , आ , सु॒ऽवीर्यं॑ । सु॒वा॒नाः , दे॒वासः॑ , इंद॑वः ॥
पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना । हि॒न्वा॒नो गोरधि॑ त्व॒चि ॥
पव॑ते , ह॒र्य॒तः , हरिः॑ , गृ॒णा॒नः , ज॒मत्ऽअ॑ग्निना । हि॒न्वा॒नः , गोः , अधि॑ , त्व॒चि ॥
प्र शु॒क्रासो॑ वयो॒जुवो॑ हिन्वा॒नासो॒ न सप्त॑यः । श्री॒णा॒ना अ॒प्सु मृं॑जत ॥
प्र , शु॒क्रासः॑ , व॒यः॒ऽजुवः॑ , हि॒न्वा॒नासः॑ , न , सप्त॑यः । श्री॒णा॒नाः , अ॒प्ऽसु , मृं॒ज॒त॒ ॥
तं त्वा॑ सु॒तेष्वा॒भुवो॑ हिन्वि॒रे दे॒वता॑तये । स प॑वस्वा॒नया॑ रु॒चा ॥
तं , त्वा॒ , सु॒तेषु॑ , आ॒ऽभुवः॑ , हि॒न्वि॒रे , दे॒वऽता॑तये । सः , प॒व॒स्व॒ , अ॒नया॑ , रु॒चा ॥
आ ते॒ दक्षं॑ मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे । पांत॒मा पु॑रु॒स्पृहं॑ ॥
आ , ते॒ , दक्षं॑ , म॒यः॒ऽभुवं॑ , वह्निं॑ , अ॒द्य , वृ॒णी॒म॒हे॒ । पांतं॑ , आ , पु॒रु॒ऽस्पृहं॑ ॥
आ मं॒द्रमा वरे॑ण्य॒मा विप्र॒मा म॑नी॒षिणं॑ । पांत॒मा पु॑रु॒स्पृहं॑ ॥
आ , मं॒द्रं , आ , वरे॑ण्यं , आ , विप्रं॑ , आ , म॒नी॒षिणं॑ । पांतं॑ , आ , पु॒रु॒ऽस्पृहं॑ ॥
आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा । पांत॒मा पु॑रु॒स्पृहं॑ ॥
आ , र॒यिं , आ , सु॒ऽचे॒तुनं॑ , आ , सु॒क्र॒तो॒ इति॑ सुऽक्रतो , त॒नूषु॑ , आ । पांतं॑ , आ , पु॒रु॒ऽस्पृहं॑ ॥
[६६] पवस्वेति त्रिंशदृचस्य सूक्तस्य शतंवैखानसाः पवमानःसोम एकोनविंश्यादितिसृणामग्निः पवमानोगायत्र्यष्टादश्यनुष्टुप् (शतं वैखानसाएतेस्वायंभुवाः अतएषांगोत्रंनास्तिएवमग्रेपिनारायणादयऊह्याः) |
पव॑स्व विश्वचर्षणे॒ऽभि विश्वा॑नि॒ काव्या॑ । सखा॒ सखि॑भ्य॒ ईड्यः॑ ॥
पव॑स्व , वि॒श्व॒ऽच॒र्ष॒णे॒ , अ॒भि , विश्वा॑नि , काव्या॑ । सखा॑ , सखि॑ऽभ्यः , ईड्यः॑ ॥
ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी । प्र॒ती॒ची सो॑म त॒स्थतुः॑ ॥
ताभ्यं॑ , विश्व॑स्य , रा॒ज॒सि॒ , ये इति॑ , प॒व॒मा॒न॒ , धाम॑नी॒ इति॑ । प्र॒ती॒ची इति॑ , सो॒म॒ , त॒स्थतुः॑ ॥
परि॒ धामा॑नि॒ यानि॑ ते॒ त्वं सो॑मासि वि॒श्वतः॑ । पव॑मान ऋ॒तुभिः॑ कवे ॥
परि॑ , धामा॑नि , यानि॑ , ते॒ , त्वं , सो॒म॒ , अ॒सि॒ , वि॒श्वतः॑ । पव॑मान , ऋ॒तुऽभिः॑ , क॒वे॒ ॥
पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा॑नि॒ वार्या॑ । सखा॒ सखि॑भ्य ऊ॒तये॑ ॥
पव॑स्व , ज॒नय॑न् , इषः॑ , अ॒भि , विश्वा॑नि , वार्या॑ । सखा॑ , सखि॑ऽभ्यः , ऊ॒तये॑ ॥
तव॑ शु॒क्रासो॑ अ॒र्चयो॑ दि॒वस्पृ॒ष्ठे वि त॑न्वते । प॒वित्रं॑ सोम॒ धाम॑भिः ॥
तव॑ , शु॒क्रासः॑ , अ॒र्चयः॑ , दि॒वः , पृ॒ष्ठे , वि , त॒न्व॒ते॒ । प॒वित्रं॑ , सो॒म॒ , धाम॑ऽभिः ॥
तवे॒मे स॒प्त सिंध॑वः प्र॒शिषं॑ सोम सिस्रते । तुभ्यं॑ धावंति धे॒नवः॑ ॥
तव॑ , इ॒मे , स॒प्त , सिंध॑वः , प्र॒ऽशिषं॑ , सो॒म॒ , सि॒स्र॒ते॒ । तुभ्यं॑ , धा॒वं॒ति॒ , धे॒नवः॑ ॥
प्र सो॑म याहि॒ धार॑या सु॒त इंद्रा॑य मत्स॒रः । दधा॑नो॒ अक्षि॑ति॒ श्रवः॑ ॥
प्र , सो॒म॒ , या॒हि॒ , धार॑या , सु॒तः , इंद्रा॑य , म॒त्स॒रः । दधा॑नः , अक्षि॑ति , श्रवः॑ ॥
समु॑ त्वा धी॒भिर॑स्वरन्हिन्व॒तीः स॒प्त जा॒मयः॑ । विप्र॑मा॒जा वि॒वस्व॑तः ॥
सं , ऊँ॒ इति॑ , त्वा॒ , धी॒भिः , अ॒स्व॒र॒न् , हि॒न्व॒तीः , स॒प्त , जा॒मयः॑ । विप्रं॑ , आ॒जा , वि॒वस्व॑तः ॥
मृ॒जंति॑ त्वा॒ सम॒ग्रुवोऽव्ये॑ जी॒रावधि॒ ष्वणि॑ । रे॒भो यद॒ज्यसे॒ वने॑ ॥
मृ॒जंति॑ , त्वा॒ , सं , अ॒ग्रुवः॑ , अव्ये॑ , जी॒रौ , अधि॑ , स्वनि॑ । रे॒भः , यत् , अ॒ज्यसे॑ , वने॑ ॥
पव॑मानस्य ते कवे॒ वाजिं॒त्सर्गा॑ असृक्षत । अर्वं॑तो॒ न श्र॑व॒स्यवः॑ ॥
पव॑मानस्य , ते॒ , क॒वे॒ , वाजि॑न् , सर्गाः॑ , अ॒सृ॒क्ष॒त॒ । अर्वं॑तः , न , श्र॒व॒स्यवः॑ ॥
अच्छा॒ कोशं॑ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे॑ अ॒व्यये॑ । अवा॑वशंत धी॒तयः॑ ॥
अच्छ॑ , कोशं॑ , म॒धु॒ऽश्चुतं॑ , असृ॑ग्रं , वारे॑ , अ॒व्यये॑ । अवा॑वशंत , धी॒तयः॑ ॥
अच्छा॑ समु॒द्रमिंद॒वोऽस्तं॒ गावो॒ न धे॒नवः॑ । अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥
अच्छ॑ , स॒मु॒द्रं , इंद॑वः , अस्तं॑ , गावः॑ , न , धे॒नवः॑ । अग्म॑न् , ऋ॒तस्य॑ , योनिं॑ , आ ॥
प्र ण॑ इंदो म॒हे रण॒ आपो॑ अर्षंति॒ सिंध॑वः । यद्गोभि॑र्वासयि॒ष्यसे॑ ॥
प्र , नः॒ , इं॒दो॒ इति॑ , म॒हे , रणे॑ , आपः॑ , अ॒र्षं॒ति॒ , सिंध॑वः । यत् , गोभिः॑ , वा॒स॒यि॒ष्यसे॑ ॥
अस्य॑ ते स॒ख्ये व॒यमिय॑क्षंत॒स्त्वोत॑यः । इंदो॑ सखि॒त्वमु॑श्मसि ॥
अस्य॑ , ते॒ , स॒ख्ये , व॒यं , इय॑क्षंतः , त्वाऽऊ॑तयः । इंदो॒ इति॑ , स॒खि॒ऽत्वं , उ॒श्म॒सि॒ ॥
आ प॑वस्व॒ गवि॑ष्टये म॒हे सो॑म नृ॒चक्ष॑से । एंद्र॑स्य ज॒ठरे॑ विश ॥
आ , प॒व॒स्व॒ , गोऽइ॑ष्टये , म॒हे , सो॒म॒ , नृ॒ऽचक्ष॑से । आ , इंद्र॑स्य , ज॒ठरे॑ , वि॒श॒ ॥
म॒हाँ अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा॑मिंद॒ ओजि॑ष्ठः । युध्वा॒ संछश्व॑ज्जिगेथ ॥
म॒हान् , अ॒सि॒ , सो॒म॒ , ज्येष्ठः॑ , उ॒ग्राणां॑ , इं॒दो॒ इति॑ , ओजि॑ष्ठः । युध्वा॑ , सन् , शश्व॑त् , जि॒गे॒थ॒ ॥
य उ॒ग्रेभ्य॑श्चि॒दोजी॑यां॒छूरे॑भ्यश्चि॒च्छूर॑तरः । भू॒रि॒दाभ्य॑श्चि॒न्मंही॑यान् ॥
यः , उ॒ग्रेभ्यः॑ , चि॒त् , ओजी॑यान् , शूरे॑भ्यः , चि॒त् , शूर॑ऽतरः । भू॒रि॒ऽदाभ्यः॑ , चि॒त् , मंही॑यान् ॥
त्वं सो॑म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूनां॑ । वृ॒णी॒महे॑ स॒ख्याय॑ वृणी॒महे॒ युज्या॑य ॥
त्वं , सो॒म॒ , सूरः॑ , आ , इषः॑ , तो॒कस्य॑ , सा॒ता , त॒नूनां॑ । वृ॒णी॒महे॑ , स॒ख्याय॑ , वृ॒णी॒महे॑ , युज्या॑य ॥
अग्न॒ आयूं॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुनां॑ ॥
अग्ने॑ , आयूं॑षि , प॒व॒से॒ , आ , सु॒व॒ , ऊर्जं॑ , इषं॑ , च॒ , नः॒ । आ॒रे , बा॒ध॒स्व॒ , दु॒च्छुनां॑ ॥
अ॒ग्निर्ऋषिः॒ पव॑मानः॒ पांच॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यं ॥
अ॒ग्निः , ऋषिः॑ , पव॑मानः , पांच॑ऽजन्यः , पु॒रःऽहि॑तः । तं , ई॒म॒हे॒ , म॒हा॒ऽग॒यं ॥
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्यं॑ । दध॑द्र॒यिं मयि॒ पोषं॑ ॥
अग्ने॑ , पव॑स्व , सु॒ऽअपाः॑ , अ॒स्मे इति॑ , वर्चः॑ , सु॒ऽवीर्यं॑ । दध॑त् , र॒यिं , मयि॑ , पोषं॑ ॥
पव॑मानो॒ अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिं । सूरो॒ न वि॒श्वद॑र्शतः ॥
पव॑मानः , अति॑ , स्रिधः॑ , अ॒भि , अ॒र्ष॒ति॒ , सु॒ऽस्तु॒तिं । सूरः॑ , न , वि॒श्वऽद॑र्शतः ॥
स म॑र्मृजा॒न आ॒युभिः॒ प्रय॑स्वा॒न्प्रय॑से हि॒तः । इंदु॒रत्यो॑ विचक्ष॒णः ॥
सः , म॒र्मृ॒जा॒नः , आ॒युऽभिः॑ , प्रय॑स्वान् , प्रय॑से , हि॒तः । इंदुः॑ , अत्यः॑ , वि॒ऽच॒क्ष॒णः ॥
पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् । कृ॒ष्णा तमां॑सि॒ जंघ॑नत् ॥
पव॑मानः , ऋ॒तं , बृ॒हत् , शु॒क्रं , ज्योतिः॑ , अ॒जी॒ज॒न॒त् । कृ॒ष्णा , तमां॑सि , जंघ॑नत् ॥
पव॑मानस्य॒ जंघ्न॑तो॒ हरे॑श्चं॒द्रा अ॑सृक्षत । जी॒रा अ॑जि॒रशो॑चिषः ॥
पव॑मानस्य , जंघ्न॑तः , हरेः॑ , चं॒द्राः , अ॒सृ॒क्ष॒त॒ । जी॒राः , अ॒जि॒रऽशो॑चिषः ॥
पव॑मानो र॒थीत॑मः शु॒भ्रेभिः॑ शु॒भ्रश॑स्तमः । हरि॑श्चंद्रो म॒रुद्ग॑णः ॥
पव॑मानः , र॒थिऽत॑मः , शु॒भ्रेभिः॑ , शु॒भ्रशः॑ऽतमः । हरि॑ऽचंद्रः , म॒रुत्ऽग॑णः ॥
पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि॑र्वाज॒सात॑मः । दध॑त्स्तो॒त्रे सु॒वीर्यं॑ ॥
पव॑मानः , वि , अ॒श्न॒व॒त् , र॒श्मिऽभिः॑ , वा॒ज॒ऽसात॑मः । दध॑त् , स्तो॒त्रे , सु॒ऽवीर्यं॑ ॥
प्र सु॑वा॒न इंदु॑रक्षाः प॒वित्र॒मत्य॒व्ययं॑ । पु॒ना॒न इंदु॒रिंद्र॒मा ॥
प्र , सु॒वा॒नः , इंदुः॑ , अ॒क्षा॒रिति॑ , प॒वित्रं॑ , अति॑ , अ॒व्ययं॑ । पु॒ना॒नः , इंदुः॑ , इंद्रं॑ , आ ॥
ए॒ष सोमो॒ अधि॑ त्व॒चि गवां॑ क्रीळ॒त्यद्रि॑भिः । इंद्रं॒ मदा॑य॒ जोहु॑वत् ॥
ए॒षः , सोमः॑ , अधि॑ , त्व॒चि , गवां॑ , क्री॒ळ॒ति॒ , अद्रि॑ऽभिः । इंद्रं॑ , मदा॑य , जोहु॑वत् ॥
यस्य॑ ते द्यु॒म्नव॒त्पयः॒ पव॑मा॒नाभृ॑तं दि॒वः । तेन॑ नो मृळ जी॒वसे॑ ॥
यस्य॑ , ते॒ , द्यु॒म्नऽव॑त् , पयः॑ , पव॑मान , आऽभृ॑तं , दि॒वः । तेन॑ , नः॒ , मृ॒ळ॒ , जी॒वसे॑ ॥
[६७] त्वंसोमासीति द्वात्रिंशदृचस्य सूक्तस्य आद्यानांसप्तानांतृचानांभरद्वाजकश्यपगोतमात्रिविश्वामित्र जमदग्निवसिष्ठा ऋषयः शिष्टानामांगिरसः पवित्रऋषिः (अत्रवसिष्ठोवापवित्रवसिष्ठौवेतिविपक्षौ) पवमानःसोमोदेवता दशम्यादितिसृणांपूषावा यत्तेपवित्रमित्यादिपंचानामग्निः अंत्ययोर्द्वयोः पावमान्यधेतागायत्री षोडश्याद्यास्तिस्रोद्विपदागायत्र्यः त्रिंशीपुरउष्णिक् सप्तविंश्येकत्रिंशीद्वात्रिंश्योनुष्टुभः |( पंचविंश्यादितिसृणांक्रमात्सविताग्निसवितारौविश्वेदेवाइतिदेवताअग्निनासह विकल्पंते ) |
त्वं सो॑मासि धार॒युर्मं॒द्र ओजि॑ष्ठो अध्व॒रे । पव॑स्व मंह॒यद्र॑यिः ॥
त्वं , सो॒म॒ , अ॒सि॒ , धा॒र॒युः , मं॒द्रः , ओजि॑ष्ठः , अ॒ध्व॒रे । पव॑स्व , मं॒ह॒यत्ऽर॑यिः ॥
त्वं सु॒तो नृ॒माद॑नो दध॒न्वान्म॑त्स॒रिंत॑मः । इंद्रा॑य सू॒रिरंध॑सा ॥
त्वं , सु॒तः , नृ॒ऽमाद॑नः , द॒ध॒न्वान् , म॒त्स॒रिन्ऽत॑मः । इंद्रा॑य , सू॒रिः , अंध॑सा ॥
त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् । द्यु॒मंतं॒ शुष्म॑मुत्त॒मं ॥
त्वं , सु॒स्वा॒नः , अद्रि॑ऽभिः , अ॒भि , अ॒र्ष॒ , कनि॑क्रदत् । द्यु॒ऽमंतं॑ , शुष्मं॑ , उ॒त्ऽत॒मं ॥
इंदु॑र्हिन्वा॒नो अ॑र्षति ति॒रो वारा॑ण्य॒व्यया॑ । हरि॒र्वाज॑मचिक्रदत् ॥
इंदुः॑ , हि॒न्वा॒नः , अ॒र्ष॒ति॒ , ति॒रः , वारा॑णि , अ॒व्यया॑ । हरिः॑ , वाजं॑ , अ॒चि॒क्र॒द॒त् ॥
इंदो॒ व्यव्य॑मर्षसि॒ वि श्रवां॑सि॒ वि सौभ॑गा । वि वाजां॑त्सोम॒ गोम॑तः ॥
इंदो॒ इति॑ , वि , अव्यं॑ , अ॒र्ष॒सि॒ , वि , श्रवां॑सि , वि , सौभ॑गा । वि , वाजा॑न् , सो॒म॒ , गोऽम॑तः ॥
आ न॑ इंदो शत॒ग्विनं॑ र॒यिं गोमं॑तम॒श्विनं॑ । भरा॑ सोम सह॒स्रिणं॑ ॥
आ , नः॒ , इं॒दो॒ इति॑ , श॒त॒ऽग्विनं॑ , र॒यिं , गोऽमं॑तं , अ॒श्विनं॑ । भर॑ , सो॒म॒ , स॒ह॒स्रिणं॑ ॥
पव॑मानास॒ इंद॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ । इंद्रं॒ यामे॑भिराशत ॥
पव॑मानासः , इंद॑वः , ति॒रः , प॒वित्रं॑ , आ॒शवः॑ । इंद्रं॑ , यामे॑भिः , आ॒श॒त॒ ॥
क॒कु॒हः सो॒म्यो रस॒ इंदु॒रिंद्रा॑य पू॒र्व्यः । आ॒युः प॑वत आ॒यवे॑ ॥
क॒कु॒हः , सो॒म्यः , रसः॑ , इंदुः॑ , इंद्रा॑य , पू॒र्व्यः । आ॒युः , प॒व॒ते॒ , आ॒यवे॑ ॥
हि॒न्वंति॒ सूर॒मुस्र॑यः॒ पव॑मानं मधु॒श्चुतं॑ । अ॒भि गि॒रा सम॑स्वरन् ॥
हि॒न्वंति॑ , सूरं॑ , उस्र॑यः , पव॑मानं , म॒धु॒ऽश्चुतं॑ । अ॒भि , गि॒रा , सं , अ॒स्व॒र॒न् ॥
अ॒वि॒ता नो॑ अ॒जाश्वः॑ पू॒षा याम॑नियामनि । आ भ॑क्षत्क॒न्या॑सु नः ॥
अ॒वि॒ता , नः॒ , अ॒जऽअ॑श्वः , पू॒षा , याम॑निऽयामनि । आ , भ॒क्ष॒त् , क॒न्या॑सु , नः॒ ॥
अ॒यं सोमः॑ कप॒र्दिने॑ घृ॒तं न प॑वते॒ मधु॑ । आ भ॑क्षत्क॒न्या॑सु नः ॥
अ॒यं , सोमः॑ , क॒प॒र्दिने॑ , घृ॒तं , न , प॒व॒ते॒ , मधु॑ । आ , भ॒क्ष॒त् , क॒न्या॑सु , नः॒ ॥
अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ । आ भ॑क्षत्क॒न्या॑सु नः ॥
अ॒यं , ते॒ , आ॒घृ॒णे॒ , सु॒तः , घृ॒तं , न , प॒व॒ते॒ , शुचि॑ । आ , भ॒क्ष॒त् , क॒न्या॑सु , नः॒ ॥
वा॒चो जं॒तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या । दे॒वेषु॑ रत्न॒धा अ॑सि ॥
वा॒चः , जं॒तुः , क॒वी॒नां , पव॑स्व , सो॒म॒ , धार॑या । दे॒वेषु॑ , र॒त्न॒ऽधाः , अ॒सि॒ ॥
आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते । अ॒भि द्रोणा॒ कनि॑क्रदत् ॥
आ , क॒लशे॑षु , धा॒व॒ति॒ , श्ये॒नः , वर्म॑ , वि , गा॒ह॒ते॒ । अ॒भि , द्रोणा॑ , कनि॑क्रदत् ॥
परि॒ प्र सो॑म ते॒ रसोऽस॑र्जि क॒लशे॑ सु॒तः । श्ये॒नो न त॒क्तो अ॑र्षति ॥
परि॑ , प्र , सो॒म॒ , ते॒ , रसः॑ , अस॑र्जि , क॒लशे॑ , सु॒तः । श्ये॒नः , न , त॒क्तः , अ॒र्ष॒ति॒ ॥
पव॑स्व सोम मं॒दय॒न्निंद्रा॑य॒ मधु॑मत्तमः ॥
पव॑स्व , सो॒म॒ , मं॒दय॑न् , इंद्रा॑य , मधु॑मत्ऽतमः ॥ ।
असृ॑ग्रंदे॒ववी॑तये वाज॒यंतो॒ रथा॑ इव ॥
असृ॑ग्रन् , दे॒वऽवी॑तये , वा॒ज॒ऽयंतः॑ , रथाः॑ऽइव ॥ ।
ते सु॒तासो॑ म॒दिंत॑माः शु॒क्रा वा॒युम॑सृक्षत ॥
ते , सु॒तासः॑ , म॒दिन्ऽत॑माः , शु॒क्राः , वा॒युं , अ॒सृ॒क्ष॒त॒ ॥ ।
ग्राव्णा॑ तु॒न्नो अ॒भिष्टु॑तः प॒वित्रं॑ सोम गच्छसि । दध॑त्स्तो॒त्रे सु॒वीर्यं॑ ॥
ग्राव्णा॑ , तु॒न्नः , अ॒भिऽस्तु॑तः , प॒वित्रं॑ , सो॒म॒ , ग॒च्छ॒सि॒ । दध॑त् , स्तो॒त्रे , सु॒ऽवीर्यं॑ ॥
ए॒ष तु॒न्नो अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते । र॒क्षो॒हा वार॑म॒व्ययं॑ ॥
ए॒षः , तु॒न्नः , अ॒भिऽस्तु॑तः , प॒वित्रं॑ , अति॑ , गा॒ह॒ते॒ । र॒क्षः॒ऽहा , वारं॑ , अ॒व्ययं॑ ॥
यदंति॒ यच्च॑ दूर॒के भ॒यं विं॒दति॒ मामि॒ह । पव॑मान॒ वि तज्ज॑हि ॥
यत् , अंति॑ , यत् , च॒ , दू॒र॒के , भ॒यं , विं॒दति॑ , मां , इ॒ह । पव॑मान , वि , तत् , ज॒हि॒ ॥
पव॑मानः॒ सो अ॒द्य नः॑ प॒वित्रे॑ण॒ विच॑र्षणिः । यः पो॒ता स पु॑नातु नः ॥
पव॑मानः , सः , अ॒द्य , नः॒ , प॒वित्रे॑ण , विऽच॑र्षणिः । यः , पो॒ता , सः , पु॒ना॒तु॒ , नः॒ ॥
यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तमं॒तरा । ब्रह्म॒ तेन॑ पुनीहि नः ॥
यत् , ते॒ , प॒वित्रं॑ , अ॒र्चिषि॑ , अग्ने॑ , विऽत॑तं , अं॒तः , आ । ब्रह्म॑ , तेन॑ , पु॒नी॒हि॒ , नः॒ ॥
यत्ते॑ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः । ब्र॒ह्म॒स॒वैः पु॑नीहि नः ॥
यत् , ते॒ , प॒वित्रं॑ , अ॒र्चि॒ऽवत् , अग्ने॑ , तेन॑ , पु॒नी॒हि॒ , नः॒ । ब्र॒ह्म॒ऽस॒वैः , पु॒नी॒हि॒ , नः॒ ॥
उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च । मां पु॑नीहि वि॒श्वतः॑ ॥
उ॒भाभ्यां॑ , दे॒व॒ , स॒वि॒त॒रिति॑ , प॒वित्रे॑ण , स॒वेन॑ , च॒ । मां , पु॒नी॒हि॒ , वि॒श्वतः॑ ॥
त्रि॒भिष्ट्वं दे॑व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः । अग्ने॒ दक्षैः॑ पुनीहि नः ॥
त्रि॒ऽभिः , त्वं , दे॒व॒ , स॒वि॒तः॒ , वर्षि॑ष्ठैः , सो॒म॒ , धाम॑ऽभिः । अग्ने॑ , दक्षैः॑ , पु॒नी॒हि॒ , नः॒ ॥
पु॒नंतु॒ मां दे॑वज॒नाः पु॒नंतु॒ वस॑वो धि॒या । विश्वे॑ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा॑ ॥
पु॒नंतु॑ , मां , दे॒व॒ऽज॒नाः , पु॒नंतु॑ , वस॑वः , धि॒या । विश्वे॑ , दे॒वाः॒ , पु॒नी॒त , मा॒ , जात॑ऽवेदः , पु॒नी॒हि , मा॒ ॥
प्र प्या॑यस्व॒ प्र स्यं॑दस्व॒ सोम॒ विश्वे॑भिरं॒शुभिः॑ । दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥
प्र , प्या॒य॒स्व॒ , प्र , स्यं॒द॒स्व॒ , सोम॑ , विश्वे॑भिः , अं॒शुऽभिः॑ । दे॒वेभ्यः॑ , उ॒त्ऽत॒मं , ह॒विः ॥
उप॑ प्रि॒यं पनि॑प्नतं॒ युवा॑नमाहुती॒वृधं॑ । अग॑न्म॒ बिभ्र॑तो॒ नमः॑ ॥
उप॑ , प्रि॒यं , पनि॑प्नतं , युवा॑नं , आ॒हु॒ति॒ऽवृधं॑ । अग॑न्म , बिभ्र॑तः , नमः॑ ॥
अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम । आ॒खुं चि॑दे॒व दे॑व सोम ॥
अ॒लाय्य॑स्य , प॒र॒शुः , न॒ना॒श॒ , तं , आ , प॒व॒स्व॒ , दे॒व॒ , सो॒म॒ । आ॒खुं , चि॒त् , ए॒व , दे॒व॒ , सो॒म॒ ॥
यः पा॑वमा॒नीर॒ध्येत्यृषि॑भिः॒ संभृ॑तं॒ रसं॑ । सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा॑त॒रिश्व॑ना ॥
यः , पा॒व॒मा॒नीः , अ॒धि॒ऽएति॑ , ऋषि॑ऽभिः , संऽभृ॑तं , रसं॑ । सर्वं॒ , सः , पू॒तं , अ॒श्ना॒ति॒ , स्व॒दि॒तं , मा॒त॒रिश्व॑ना ॥
पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भिः॒ संभृ॑तं॒ रसं॑ । तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू॑द॒कं ॥
पा॒व॒मा॒नीः , यः , अ॒धि॒ऽएति॑ , ऋषि॑ऽभिः॒ , संऽभृ॑तं , रसं॑ । तस्मै॑ , सर॑स्वती , दु॒हे॒ , क्षी॒रं , स॒र्पिः , मधु॑ , उ॒द॒कं ॥
[६८] प्रदेवमिति दशर्चस्य सूक्तस्य भालंदनो वत्सप्रिः पवमानःसोमोजगत्यंत्यात्रिष्टुप् |
प्र दे॒वमच्छा॒ मधु॑मंत॒ इंद॒वोऽसि॑ष्यदंत॒ गाव॒ आ न धे॒नवः॑ । ब॒र्हि॒षदो॑ वच॒नावं॑त॒ ऊध॑भिः परि॒स्रुत॑मु॒स्रिया॑ नि॒र्णिजं॑ धिरे ॥
प्र , दे॒वं , अच्छ॑ , मधु॑ऽमंतः , इंद॑वः , असि॑स्यदंत , गावः॑ , आ , न , धे॒नवः॑ । ब॒र्हि॒ऽसदः॑ , व॒च॒नाऽवं॑तः , ऊध॑ऽभिः , प॒रि॒ऽस्रुतं॑ , उ॒स्रियाः॑ , निः॒ऽनिजं॑ , धि॒रे॒ ॥
स रोरु॑वद॒भि पूर्वा॑ अचिक्रददुपा॒रुहः॑ श्र॒थयं॑त्स्वादते॒ हरिः॑ । ति॒रः प॒वित्रं॑ परि॒यन्नु॒रु ज्रयो॒ नि शर्या॑णि दधते दे॒व आ वरं॑ ॥
सः , रोरु॑वत् , अ॒भि , पूर्वाः॑ , अ॒चि॒क्र॒द॒त् , उ॒प॒ऽआ॒रुहः॑ , श्र॒थय॑न् , स्वा॒द॒ते॒ , हरिः॑ । ति॒रः , प॒वित्रं॑ , प॒रि॒ऽयन् , उ॒रु , ज्रयः॑ , नि , शर्या॑णि , द॒ध॒ते॒ , दे॒वः , आ , वरं॑ ॥
वि यो म॒मे य॒म्या॑ संय॒ती मदः॑ साकं॒वृधा॒ पय॑सा पिन्व॒दक्षि॑ता । म॒ही अ॑पा॒रे रज॑सी वि॒वेवि॑ददभि॒व्रज॒न्नक्षि॑तं॒ पाज॒ आ द॑दे ॥
वि , यः , म॒मे , य॒म्या॑ , सं॒य॒ती इति॑ सं॒ऽय॒ती , मदः॑ , सा॒कं॒ऽवृधा॑ , पय॑सा , पि॒न्व॒त् , अक्षि॑ता । म॒ही इति॑ , अ॒पा॒रे इति॑ , रज॑सी॒ इति॑ , वि॒ऽवेवि॑दत् , अ॒भि॒ऽव्रज॑न् , अक्षि॑तं , पाजः॑ , आ , द॒दे॒ ॥
स मा॒तरा॑ वि॒चर॑न्वा॒जय॑न्न॒पः प्र मेधि॑रः स्व॒धया॑ पिन्वते प॒दं । अं॒शुर्यवे॑न पिपिशे य॒तो नृभिः॒ सं जा॒मिभि॒र्नस॑ते॒ रक्ष॑ते॒ शिरः॑ ॥
सः , मा॒तरा॑ , वि॒ऽचर॑न् , वा॒जय॑न् , अ॒पः , प्र , मेधि॑रः , स्व॒धया॑ , पि॒न्व॒ते॒ , प॒दं । अं॒शुः , यवे॑न , पि॒पि॒शे॒ , य॒तः , नृऽभिः॑ , सं , जा॒मिऽभिः॑ , नस॑ते , रक्ष॑ते , शिरः॑ ॥
सं दक्षे॑ण॒ मन॑सा जायते क॒विर्ऋ॒तस्य॒ गर्भो॒ निहि॑तो य॒मा प॒रः । यूना॑ ह॒ संता॑ प्रथ॒मं वि ज॑ज्ञतु॒र्गुहा॑ हि॒तं जनि॑म॒ नेम॒मुद्य॑तं ॥
सं , दक्षे॑ण , मन॑सा , जा॒य॒ते॒ , क॒विः , ऋ॒तस्य॑ , गर्भः॑ , निऽहि॑तः , य॒मा , प॒रः । यूना॑ , ह॒ , संता॑ , प्र॒थ॒मं , वि , ज॒ज्ञ॒तुः॒ , गुहा॑ , हि॒तं , जनि॑म , नेमं॑ , उत्ऽय॑तं ॥
मं॒द्रस्य॑ रू॒पं वि॑विदुर्मनी॒षिणः॑ श्ये॒नो यदंधो॒ अभ॑रत्परा॒वतः॑ । तं म॑र्जयंत सु॒वृधं॑ न॒दीष्वाँ उ॒शंत॑मं॒शुं प॑रि॒यंत॑मृ॒ग्मियं॑ ॥
मं॒द्रस्य॑ , रू॒पं , वि॒वि॒दुः॒ , म॒नी॒षिणः॑ , श्ये॒नः , यत् , अंधः॑ , अभ॑रत् , प॒रा॒ऽवतः॑ । तं , म॒र्ज॒यं॒त॒ , सु॒ऽवृधं॑ , न॒दीषु॑ , आ , उ॒शंतं॑ , अं॒शुं , प॒रि॒ऽयंतं॑ , ऋ॒ग्मियं॑ ॥
त्वां मृ॑जंति॒ दश॒ योष॑णः सु॒तं सोम॒ ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि॑र्हि॒तं । अव्यो॒ वारे॑भिरु॒त दे॒वहू॑तिभि॒र्नृभि॑र्य॒तो वाज॒मा द॑र्षि सा॒तये॑ ॥
त्वां , मृ॒जं॒ति॒ , दश॑ , योष॑णः , सु॒तं , सो॒म॒ , ऋषि॑ऽभिः , म॒तिऽभिः॑ , धी॒तिऽभिः॑ , हि॒तं । अव्यः॑ , वारे॑भिः , उ॒त , दे॒वहू॑तिऽभिः , नृऽभिः॑ , य॒तः , वाजं॑ , आ , द॒र्षि॒ , सा॒तये॑ ॥
प॒रि॒प्र॒यंतं॑ व॒य्यं॑ सुषं॒सदं॒ सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभः॑ । यो धार॑या॒ मधु॑माँ ऊ॒र्मिणा॑ दि॒व इय॑र्ति॒ वाचं॑ रयि॒षाळम॑र्त्यः ॥
प॒रि॒ऽप्र॒यंतं॑ , व॒य्यं॑ , सु॒ऽसं॒सदं॑ , सोमं॑ , म॒नी॒षाः , अ॒भि , अ॒नू॒ष॒त॒ , स्तुभः॑ । यः , धार॑या , मधु॑ऽमान् , ऊ॒र्मिणा॑ , दि॒वः , इय॑र्ति , वाचं॑ , र॒यि॒षाट् , अम॑र्त्यः ॥
अ॒यं दि॒व इ॑यर्ति॒ विश्व॒मा रजः॒ सोमः॑ पुना॒नः क॒लशे॑षु सीदति । अ॒द्भिर्गोभि॑र्मृज्यते॒ अद्रि॑भिः सु॒तः पु॑ना॒न इंदु॒र्वरि॑वो विदत्प्रि॒यं ॥
अ॒यं , दि॒वः , इ॒य॒र्ति॒ , विश्वं॑ , आ , रजः॑ , सोमः॑ , पु॒ना॒नः , क॒लशे॑षु , सी॒द॒ति॒ । अ॒त्ऽभिः , गोभिः॑ , मृ॒ज्य॒ते॒ , अद्रि॑ऽभिः , सु॒तः , पु॒ना॒नः , इंदुः॑ , वरि॑वः , वि॒द॒त् , प्रि॒यं ॥
ए॒वा नः॑ सोम परिषि॒च्यमा॑नो॒ वयो॒ दध॑च्चि॒त्रत॑मं पवस्व । अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीरं॑ ॥
ए॒व , नः॒ , सो॒म॒ , प॒रि॒ऽसि॒च्यमा॑नः , वयः॑ , दध॑त् , चि॒त्रऽत॑मं , प॒व॒स्व॒ । अ॒द्वे॒षे इति॑ , द्यावा॑पृथि॒वी इति॑ , हु॒वे॒म॒ , देवाः॑ , ध॒त्त , र॒यिं , अ॒स्मे इति॑ , सु॒ऽवीरं॑ ॥
[६९] इषुर्नेति दशर्चस्य सूक्तस्यांगिरसोहिरण्यस्तूपः पवमानःसोमोजगत्यंत्येद्वेत्रिष्टुभौ |
इषु॒र्न धन्व॒न्प्रति॑ धीयते म॒तिर्व॒त्सो न मा॒तुरुप॑ स॒र्ज्यूध॑नि । उ॒रुधा॑रेव दुहे॒ अग्र॑ आय॒त्यस्य॑ व्र॒तेष्वपि॒ सोम॑ इष्यते ॥
इषुः॑ , न , धन्व॑न् , प्रति॑ , धी॒य॒ते॒ , म॒तिः , व॒त्सः , न , मा॒तुः , उप॑ , स॒र्जि॒ , ऊर्ध॑नि । उ॒रुधा॑राऽइव , दु॒हे॒ , अग्रे॑ , आ॒ऽय॒ती , अस्य॑ , व्र॒तेषु॑ , अपि॑ , सोमः॑ , इ॒ष्य॒ते॒ ॥
उपो॑ म॒तिः पृ॒च्यते॑ सि॒च्यते॒ मधु॑ मं॒द्राज॑नी चोदते अं॒तरा॒सनि॑ । पव॑मानः संत॒निः प्र॑घ्न॒तामि॑व॒ मधु॑मांद्र॒प्सः परि॒ वार॑मर्षति ॥
उपो॒ इति॑ , म॒तिः , पृ॒च्यते॑ , सि॒च्यते॑ , मधु॑ , मं॒द्र॒ऽअज॑नी , चो॒द॒ते॒ , अं॒तः , आ॒सनि॑ । पव॑मानः , सं॒ऽत॒निः , प्र॒घ्न॒तांऽइ॑व , मधु॑ऽमान् , द्र॒प्सः , परि॑ , वारं॑ , अ॒र्ष॒ति॒ ॥
अव्ये॑ वधू॒युः प॑वते॒ परि॑ त्व॒चि श्र॑थ्नी॒ते न॒प्तीरदि॑तेर्ऋ॒तं य॒ते । हरि॑रक्रान्यज॒तः सं॑य॒तो मदो॑ नृ॒म्णा शिशा॑नो महि॒षो न शो॑भते ॥
अव्ये॑ , व॒धू॒ऽयुः , प॒व॒ते॒ , परि॑ , त्व॒चि , श्र॒थ्नी॒ते , न॒प्तीः , अदि॑तेः , ऋ॒तं , य॒ते । हरिः॑ , अ॒क्रा॒न् , य॒ज॒तः , सं॒ऽय॒तः , मदः॑ , नृ॒म्ना , शिशा॑नः , म॒हि॒षः , न , शो॒भ॒ते॒ ॥
उ॒क्षा मि॑माति॒ प्रति॑ यंति धे॒नवो॑ दे॒वस्य॑ दे॒वीरुप॑ यंति निष्कृ॒तं । अत्य॑क्रमी॒दर्जु॑नं॒ वार॑म॒व्यय॒मत्कं॒ न नि॒क्तं परि॒ सोमो॑ अव्यत ॥
उ॒क्षा , मि॒मा॒ति॒ , प्रति॑ , यं॒ति॒ , धे॒नवः॑ , दे॒वस्य॑ , दे॒वीः , उप॑ , यं॒ति॒ , निः॒ऽकृ॒तं । अति॑ , अ॒क्र॒मी॒त् , अर्जु॑नं , वारं॑ , अ॒व्ययं॑ , अत्कं॑ , न , नि॒क्तं , परि॑ , सोमः॑ , अ॒व्य॒त॒ ॥
अमृ॑क्तेन॒ रुश॑ता॒ वास॑सा॒ हरि॒रम॑र्त्यो निर्णिजा॒नः परि॑ व्यत । दि॒वस्पृ॒ष्ठं ब॒र्हणा॑ नि॒र्णिजे॑ कृतोप॒स्तर॑णं च॒म्वो॑र्नभ॒स्मयं॑ ॥
अमृ॑क्तेन , रुश॑ता , वास॑सा , हरिः॑ , अम॑र्त्यः , निः॒ऽनि॒जा॒नः , परि॑ , व्य॒त॒ । दि॒वः , पृ॒ष्ठं , ब॒र्हणा॑ , निः॒ऽनिजे॑ , कृ॒त॒ , उ॒प॒ऽस्तर॑णं , च॒म्वोः॑ , न॒भ॒स्मयं॑ ॥
सूर्य॑स्येव र॒श्मयो॑ द्रावयि॒त्नवो॑ मत्स॒रासः॑ प्र॒सुपः॑ सा॒कमी॑रते । तंतुं॑ त॒तं परि॒ सर्गा॑स आ॒शवो॒ नेंद्रा॑दृ॒ते प॑वते॒ धाम॒ किं च॒न ॥
सूर्य॑स्यऽइव , र॒श्मयः॑ , द्र॒व॒यि॒त्नवः॑ , म॒त्स॒रासः॑ , प्र॒ऽसुपः॑ , सा॒कं , ई॒र॒ते॒ । तंतुं॑ , त॒तं , परि॑ , सर्गा॑सः , आ॒शवः॑ , न , इंद्रा॑त् , ऋ॒ते , प॒व॒ते॒ , धाम॑ , किं , च॒न ॥
सिंधो॑रिव प्रव॒णे नि॒म्न आ॒शवो॒ वृष॑च्युता॒ मदा॑सो गा॒तुमा॑शत । शं नो॑ निवे॒शे द्वि॒पदे॒ चतु॑ष्पदे॒ऽस्मे वाजाः॑ सोम तिष्ठंतु कृ॒ष्टयः॑ ॥
सिंधोः॑ऽइव , प्र॒व॒णे , नि॒म्ने , आ॒शवः॑ , वृष॑ऽच्युताः , मदा॑सः , गा॒तुं , आ॒श॒त॒ । शं , नः॒ , नि॒ऽवे॒शे , द्वि॒ऽपदे॑ , चतुः॑ऽपदे , अ॒स्मे इति॑ , वाजाः॑ , सो॒म॒ , ति॒ष्ठं॒तु॒ , कृ॒ष्टयः॑ ॥
आ नः॑ पवस्व॒ वसु॑म॒द्धिर॑ण्यव॒दश्वा॑व॒द्गोम॒द्यव॑मत्सु॒वीर्यं॑ । यू॒यं हि सो॑म पि॒तरो॒ मम॒ स्थन॑ दि॒वो मू॒र्धानः॒ प्रस्थि॑ता वय॒स्कृतः॑ ॥
आ , नः॒ , प॒व॒स्व॒ , वसु॑ऽमत् , हिर॑ण्यऽवत् , अश्व॑ऽवत् , गोऽम॑त् , यव॑ऽमत् , सु॒ऽवीर्यं॑ । यू॒यं , हि , सो॒म॒ , पि॒तरः॑ , मम॑ , स्थन॑ , दि॒वः , मू॒र्धानः॑ , प्रऽस्थि॑ताः , व॒यः॒ऽकृतः॑ ॥
ए॒ते सोमाः॒ पव॑मानास॒ इंद्रं॒ रथा॑ इव॒ प्र य॑युः सा॒तिमच्छ॑ । सु॒ताः प॒वित्र॒मति॑ यं॒त्यव्यं॑ हि॒त्वी व॒व्रिं ह॒रितो॑ वृ॒ष्टिमच्छ॑ ॥
ए॒ते , सोमाः॑ , पव॑मानासः , इंद्रं॑ , रथाः॑ऽइव , प्र , य॒युः॒ , सा॒तिं , अच्छ॑ । सु॒ताः , प॒वित्रं॑ , अति॑ , यं॒ति॒ , अव्यं॑ , हि॒त्वी , व॒व्रिं , ह॒रितः॑ , वृ॒ष्टिं , अच्छ॑ ॥
इंद॒विंद्रा॑य बृह॒ते प॑वस्व सुमृळी॒को अ॑नव॒द्यो रि॒शादाः॑ । भरा॑ चं॒द्राणि॑ गृण॒ते वसू॑नि दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥
इंदो॒ इति॑ , इंद्रा॑य , बृ॒ह॒ते , प॒व॒स्व॒ , सु॒ऽमृ॒ळी॒कः , अ॒न॒व॒द्यः , रि॒शादाः॑ । भर॑ , चं॒द्राणि॑ , गृ॒ण॒ते , वसू॑नि , दे॒वैः , द्या॒वा॒पृ॒थि॒वी॒ इति॑ , प्र , अ॒व॒तं॒ , नः॒ ॥
[७०] त्रिरस्माइति दशर्चस्यक्तसूस्य वैश्वामित्रोरेणुः पवमानःसोमोजगत्यंत्यात्रिष्टुप् |
त्रिर॑स्मै स॒प्त धे॒नवो॑ दुदुह्रे स॒त्यामा॒शिरं॑ पू॒र्व्ये व्यो॑मनि । च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू॑णि चक्रे॒ यदृ॒तैरव॑र्धत ॥
त्रिः , अ॒स्मै॒ , स॒प्त , धे॒नवः॑ , दु॒दु॒ह्रे॒ , स॒त्यां , आ॒ऽशिरं॑ , पू॒र्व्ये , विऽओ॑मनि । च॒त्वारि॑ , अ॒न्या , भुव॑नानि , निः॒ऽनिजे॑ , चारू॑णि , च॒क्रे॒ , यत् , ऋ॒तैः , अव॑र्धत ॥
स भिक्ष॑माणो अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये॑ना॒ वि श॑श्रथे । तेजि॑ष्ठा अ॒पो मं॒हना॒ परि॑ व्यत॒ यदी॑ दे॒वस्य॒ श्रव॑सा॒ सदो॑ वि॒दुः ॥
सः , भिक्ष॑माणः , अ॒मृत॑स्य , चारु॑णः , उ॒भे इति॑ , द्यावा॑ , काव्ये॑न , वि , श॒श्र॒थे॒ । तेजि॑ष्ठाः , अ॒पः , मं॒हना॑ , परि॑ , व्य॒त॒ , यदि॑ , दे॒वस्य॑ , श्रव॑सा , सदः॑ , वि॒दुः ॥
ते अ॑स्य संतु के॒तवोऽमृ॑त्य॒वोऽदा॑भ्यासो ज॒नुषी॑ उ॒भे अनु॑ । येभि॑र्नृ॒म्णा च॑ दे॒व्या॑ च पुन॒त आदिद्राजा॑नं म॒नना॑ अगृभ्णत ॥
ते , अ॒स्य॒ , सं॒तु॒ , के॒तवः॑ , अमृ॑त्यवः , अदा॑भ्यासः , ज॒नुषी॒ इति॑ , उ॒भे इति॑ , अनु॑ । येभिः॑ , नृ॒म्णा , च॒ , दे॒व्या॑ , च॒ , पु॒न॒ते , आत् , इत् , राजा॑नं , म॒ननाः॑ , अ॒गृ॒भ्ण॒त॒ ॥
स मृ॒ज्यमा॑नो द॒शभिः॑ सु॒कर्म॑भिः॒ प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा॑ । व्र॒तानि॑ पा॒नो अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒ अनु॑ पश्यते॒ विशौ॑ ॥
सः , मृ॒ज्यमा॑नः , द॒शऽभिः॑ , सु॒कर्म॑ऽभिः , प्र , म॒ध्य॒मासु॑ , मा॒तृषु॑ , प्र॒ऽमे , सचा॑ । व्र॒तानि॑ , पा॒नः , अ॒मृत॑स्य , चारु॑णः , उ॒भे इति॑ , नृ॒ऽचक्षाः॑ , अनु॑ , प॒श्य॒ते॒ , विशौ॑ ॥
स म॑र्मृजा॒न इं॑द्रि॒याय॒ धाय॑स॒ ओभे अं॒ता रोद॑सी हर्षते हि॒तः । वृषा॒ शुष्मे॑ण बाधते॒ वि दु॑र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुधः॑ ॥
सः , म॒र्मृ॒जा॒नः , इं॒द्रि॒याय॑ , धाय॑से , आ , उ॒भे इति॑ , अं॒तरिति॑ , रोद॑सी॒ इति॑ , ह॒र्ष॒ते॒ , हि॒तः । वृषा॑ , शुष्मे॑ण , बा॒ध॒ते॒ , वि , दुः॒ऽम॒तीः , आ॒देदि॑शानः , श॒र्य॒हाऽइ॑व , शु॒रुधः॑ ॥
स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता॑मिव स्व॒नः । जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व॑र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतुः॑ ॥
सः , मा॒तरा॑ , न , ददृ॑शानः , उ॒स्रियः॑ , नान॑दत् , ए॒ति॒ , म॒रुतां॑ऽइव , स्व॒नः । जा॒नन् , ऋ॒तं , प्र॒थ॒मं , यत् , स्वः॑ऽनरं , प्रऽश॑स्तये , कं , अ॒वृ॒णी॒त॒ , सु॒ऽक्रतुः॑ ॥
रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृंगे॒ शिशा॑नो॒ हरि॑णी विचक्ष॒णः । आ योनिं॒ सोमः॒ सुकृ॑तं॒ नि षी॑दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी॑ ॥
रु॒वति॑ , भी॒मः , वृ॒ष॒भः , त॒वि॒ष्यया॑ , शृंगे॒ इति॑ , शिशा॑नः , हरि॑णी॒ इति॑ , वि॒ऽच॒क्ष॒णः । आ , योनिं॑ , सोमः॑ , सुऽकृ॑तं , नि , सी॒द॒ति॒ , ग॒व्ययी॑ , त्वक् , भ॒व॒ति॒ , निः॒ऽनिक् , अ॒व्ययी॑ ॥
शुचिः॑ पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒र्न्य॑धाविष्ट॒ सान॑वि । जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ त्रि॒धातु॒ मधु॑ क्रियते सु॒कर्म॑भिः ॥
शुचिः॑ , पु॒ना॒नः , त॒न्वं॑ , अ॒रे॒पसं॑ , अव्ये॑ , हरिः॑ , नि , अ॒धा॒वि॒ष्ट॒ , सान॑वि । जुष्टः॑ , मि॒त्राय॑ , वरु॑णाय , वा॒यवे॑ , त्रि॒ऽधातु॑ , मधु॑ , क्रि॒य॒ते॒ , सु॒कर्म॑ऽभिः ॥
पव॑स्व सोम दे॒ववी॑तये॒ वृषेंद्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श । पु॒रा नो॑ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा॑ विपृच्छ॒ते ॥
पव॑स्व , सो॒म॒ , दे॒वऽवी॑तये , वृषा॑ , इंद्र॑स्य , हार्दि॑ , सो॒म॒ऽधानं॑ , आ , वि॒श॒ । पु॒रा , नः॒ , बा॒धात् , दुः॒ऽइ॒ता , अति॑ , पा॒र॒य॒ , क्षे॒त्र॒ऽवित् , हि , दिशः॑ , आह॑ , वि॒ऽपृ॒च्छ॒ते ॥
हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेंद्र॑स्येंदो ज॒ठर॒मा प॑वस्व । ना॒वा न सिंधु॒मति॑ पर्षि वि॒द्वांछूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्पः॑ ॥
हि॒तः , न , सप्तिः॑ , अ॒भि , वाजं॑ , अ॒र्ष॒ , इंद्र॑स्य , इं॒दो॒ इति॑ , ज॒ठरं॑ , आ , प॒व॒स्व॒ । ना॒वा , न , सिंधुं॑ , अति॑ , प॒र्षि॒ , वि॒द्वान् , शूरः॑ , न , युध्य॑न् , अव॑ , नः॒ , नि॒दः , स्प॒रिति॑ स्पः ॥
[७१] आदक्षिणेति नवर्चस्य सूक्तस्य वैश्वामित्र ऋषभः पवमानःसोमोजगत्यंत्यांत्रिष्टुप् |
आ दक्षि॑णा सृज्यते शु॒ष्म्या॒३॒॑सदं॒ वेति॑ द्रु॒हो र॒क्षसः॑ पाति॒ जागृ॑विः । हरि॑रोप॒शं कृ॑णुते॒ नभ॒स्पय॑ उप॒स्तिरे॑ च॒म्वो॒३॒॑र्ब्रह्म॑ नि॒र्णिजे॑ ॥
आ , दक्षि॑णा , सृ॒ज्य॒ते॒ , शु॒ष्मी , आ॒ऽसदं॑ , वेति॑ , द्रु॒हः , र॒क्षसः॑ , पा॒ति॒ , जागृ॑विः । हरिः॑ , ओ॒प॒शं , कृ॒णु॒ते॒ , नभः॑ , पयः॑ , उ॒प॒ऽस्तिरे॑ , च॒म्वोः॑ , ब्रह्म॑ , निः॒ऽनिजे॑ ॥
प्र कृ॑ष्टि॒हेव॑ शू॒ष ए॑ति॒ रोरु॑वदसु॒र्यं१॒॑ वर्णं॒ नि रि॑णीते अस्य॒ तं । जहा॑ति व॒व्रिं पि॒तुरे॑ति निष्कृ॒तमु॑प॒प्रुतं॑ कृणुते नि॒र्णिजं॒ तना॑ ॥
प्र , कृ॒ष्टि॒हाऽइ॑व , शू॒षः , ए॒ति॒ , रोरु॑वत् , अ॒सु॒र्यं॑ , वर्णं॑ , नि , रि॒णी॒ते॒ , अ॒स्य॒ , तं । जहा॑ति , व॒व्रिं , पि॒तुः , ए॒ति॒ , निः॒ऽकृ॒तं , उ॒प॒ऽप्रुतं॑ , कृ॒णु॒ते॒ , निः॒ऽनिजं॑ , तना॑ ॥
अद्रि॑भिः सु॒तः प॑वते॒ गभ॑स्त्योर्वृषा॒यते॒ नभ॑सा॒ वेप॑ते म॒ती । स मो॑दते॒ नस॑ते॒ साध॑ते गि॒रा ने॑नि॒क्ते अ॒प्सु यज॑ते॒ परी॑मणि ॥
अद्रि॑ऽभिः , सु॒तः , प॒व॒ते॒ , गभ॑स्त्योः , वृ॒ष॒ऽयते॑ , नभ॑सा , वेप॑ते , म॒ती । सः , मो॒द॒ते॒ , नस॑ते , साध॑ते , गि॒रा , ने॒नि॒क्ते , अ॒प्ऽसु , यज॑ते , परी॑मणि ॥
परि॑ द्यु॒क्षं सह॑सः पर्वता॒वृधं॒ मध्वः॑ सिंचंति ह॒र्म्यस्य॑ स॒क्षणिं॑ । आ यस्मि॒न्गावः॑ सुहु॒ताद॒ ऊध॑नि मू॒र्धंछ्री॒णंत्य॑ग्रि॒यं वरी॑मभिः ॥
परि॑ , द्यु॒क्षं , सह॑सः , प॒र्व॒त॒ऽवृधं॑ , मध्वः॑ , सिं॒चं॒ति॒ , ह॒र्म्यस्य॑ , स॒क्षणिं॑ । आ , यस्मि॑न् , गावः॑ , सु॒हु॒त॒ऽअदः॑ , ऊध॑नि , मू॒र्धन् , श्री॒णंति॑ , अ॒ग्रि॒यं , वरी॑मऽभिः ॥
समी॒ रथं॒ न भु॒रिजो॑रहेषत॒ दश॒ स्वसा॑रो॒ अदि॑तेरु॒पस्थ॒ आ । जिगा॒दुप॑ ज्रयति॒ गोर॑पी॒च्यं॑ प॒दं यद॑स्य म॒तुथा॒ अजी॑जनन् ॥
सं , ई॒मिति॑ , रथं॑ , न , भु॒रिजोः॑ , अ॒हे॒ष॒त॒ , दश॑ , स्वसा॑रः , अदि॑तेः , उ॒पऽस्थे॑ , आ । जिगा॑त् , उप॑ , ज्र॒य॒ति॒ , गोः , अ॒पी॒च्यं॑ , प॒दं , यत् , अ॒स्य॒ , म॒तुथाः॑ , अजी॑जनन् ॥
श्ये॒नो न योनिं॒ सद॑नं धि॒या कृ॒तं हि॑र॒ण्यय॑मा॒सदं॑ दे॒व एष॑ति । ए रि॑णंति ब॒र्हिषि॑ प्रि॒यं गि॒राश्वो॒ न दे॒वाँ अप्ये॑ति य॒ज्ञियः॑ ॥
श्ये॒नः , न , योनिं॑ , सद॑नं , धि॒या , कृ॒तं , हि॒र॒ण्ययं॑ , आ॒ऽसदं॑ , दे॒वः , आ , ई॒ष॒ति॒ । आ , ई॒मिति॑ , रि॒णं॒ति॒ , ब॒र्हिषि॑ , प्रि॒यं , गि॒रा , अश्वः॑ , न , दे॒वान् , अपि॑ , ए॒ति॒ , य॒ज्ञियः॑ ॥
परा॒ व्य॑क्तो अरु॒षो दि॒वः क॒विर्वृषा॑ त्रिपृ॒ष्ठो अ॑नविष्ट॒ गा अ॒भि । स॒हस्र॑णीति॒र्यतिः॑ परा॒यती॑ रे॒भो न पू॒र्वीरु॒षसो॒ वि रा॑जति ॥
परा॑ , विऽअ॑क्तः , अ॒रु॒षः , दि॒वः , क॒विः , वृषा॑ , त्रि॒ऽपृ॒ष्ठः , अ॒न॒वि॒ष्ट॒ , गाः , अ॒भि । स॒हस्र॑ऽनीतिः , यतिः॑ , प॒रा॒ऽयतिः॑ , रे॒भः , न , पू॒र्वीः , उ॒षसः॑ , वि , रा॒ज॒ति॒ ॥
त्वे॒षं रू॒पं कृ॑णुते॒ वर्णो॑ अस्य॒ स यत्राश॑य॒त्समृ॑ता॒ सेध॑ति स्रि॒धः । अ॒प्सा या॑ति स्व॒धया॒ दैव्यं॒ जनं॒ सं सु॑ष्टु॒ती नस॑ते॒ सं गोअ॑ग्रया ॥
त्वे॒षं , रू॒पं , कृ॒णु॒ते॒ , वर्णः॑ , अ॒स्य॒ , सः , यत्र॑ , अश॑यत् , संऽऋ॑ता , सेध॑ति , स्रि॒धः । अ॒प्साः , या॒ति॒ , स्व॒धया॑ , दैव्यं॑ , जनं॑ , सं , सु॒ऽस्तु॒ती , नस॑ते , सं , गोऽअ॑ग्रया ॥
उ॒क्षेव॑ यू॒था प॑रि॒यन्न॑रावी॒दधि॒ त्विषी॑रधित॒ सूर्य॑स्य । दि॒व्यः सु॑प॒र्णोऽव॑ चक्षत॒ क्षां सोमः॒ परि॒ क्रतु॑ना पश्यते॒ जाः ॥
उ॒क्षाऽइ॑व , यू॒था , प॒रि॒ऽयन् , अ॒रा॒वी॒त् , अधि॑ , त्विषीः॑ , अ॒धि॒त॒ , सूर्य॑स्य । दि॒व्यः , सु॒ऽप॒र्णः , अव॑ , च॒क्ष॒त॒ , क्षां , सोमः॑ , परि॑ , क्रतु॑ना , प॒श्य॒ते॒ , जाः ॥
[७२] हरिंमृजंतीति नवर्चस्य सूक्तस्य आंगिरसोहरिमंतः पवमानःसोमोजगती |
हरिं॑ मृजंत्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभिः॑ क॒लशे॒ सोमो॑ अज्यते । उद्वाच॑मी॒रय॑ति हि॒न्वते॑ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रियः॑ ॥
हरिं॑ , मृ॒जं॒ति॒ , अ॒रु॒षः , न , यु॒ज्य॒ते॒ , सं , धे॒नुऽभिः॑ , क॒लशे॑ , सोमः॑ , अ॒ज्य॒ते॒ । उत् , वाचं॑ , ई॒रय॑ति , हि॒न्वते॑ , म॒ती , पु॒रु॒ऽस्तु॒तस्य॑ , कति॑ , चि॒त् , प॒रि॒ऽप्रियः॑ ॥
सा॒कं व॑दंति ब॒हवो॑ मनी॒षिण॒ इंद्र॑स्य॒ सोमं॑ ज॒ठरे॒ यदा॑दु॒हुः । यदी॑ मृ॒जंति॒ सुग॑भस्तयो॒ नरः॒ सनी॑ळाभिर्द॒शभिः॒ काम्यं॒ मधु॑ ॥
सा॒कं , व॒दं॒ति॒ , ब॒हवः॑ , म॒नी॒षिणः॑ , इंद्र॑स्य , सोमं॑ , ज॒ठरे॑ , यत् , आ॒ऽदु॒हुः । यदि॑ , मृ॒जंति॑ , सुऽग॑भस्तयः , नरः॑ , सऽनी॑ळाभिः , द॒शऽभिः॑ , काम्यं॑ , मधु॑ ॥
अर॑ममाणो॒ अत्ये॑ति॒ गा अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रवं॑ । अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभिः॒ स्वसृ॑भिः क्षेति जा॒मिभिः॑ ॥
अर॑ममाणः , अति॑ , ए॒ति॒ , गाः , अ॒भि , सूर्य॑स्य , प्रि॒यं , दु॒हि॒तुः , ति॒रः , रवं॑ । अनु॑ , अ॒स्मै॒ , जोषं॑ , अ॒भ॒र॒त् , वि॒नं॒ऽगृ॒सः , सं , द्व॒यीभिः॑ , स्वसृ॑ऽभिः , क्षे॒ति॒ , जा॒मिऽभिः॑ ॥
नृधू॑तो॒ अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां॑ प्र॒दिव॒ इंदु॑र्ऋ॒त्वियः॑ । पुरं॑धिवा॒न्मनु॑षो यज्ञ॒साध॑नः॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इंद्र ते ॥
नृऽधू॑तः , अद्रि॑ऽसुतः , ब॒र्हिषि॑ , प्रि॒यः , पतिः॑ , गवां॑ , प्र॒ऽदिवः॑ , इंदुः॑ , ऋ॒त्वियः॑ । पुरं॑धिऽवान् , मनु॑षः , य॒ज्ञ॒ऽसाध॑नः , शुचिः॑ , धि॒या , प॒व॒ते॒ , सोमः॑ , इं॒द्र॒ , ते॒ ॥
नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इंद्र ते । आप्राः॒ क्रतूं॒त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒॑रास॑द॒द्धरिः॑ ॥
नृबा॒हुऽभ्यां॑ , चो॒दि॒तः , धार॑या , सु॒तः , अ॒नु॒ऽस्व॒धं , प॒व॒ते॒ , सोमः॑ , इं॒द्र॒ , ते॒ । आ , अ॒प्राः॒ , क्रतू॑न् , सं , अ॒जैः॒ , अ॒ध्व॒रे , म॒तीः , वेः , न , द्रु॒ऽसत् , च॒म्वोः॑ , आ , अ॒स॒द॒त् , हरिः॑ ॥
अं॒शुं दु॑हंति स्त॒नयं॑त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो॑ मनी॒षिणः॑ । समी॒ गावो॑ म॒तयो॑ यंति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुवः॑ ॥
अं॒शुं , दु॒हं॒ति॒ , स्त॒नयं॑तं , अक्षि॑तं , क॒विं , क॒वयः॑ , अ॒पसः॑ , म॒नी॒षिणः॑ । सं , ई॒मिति॑ , गावः॑ , म॒तयः॑ , यं॒ति॒ , सं॒ऽयतः॑ , ऋ॒तस्य॑ , योना॑ , सद॑ने , पु॒नः॒ऽभुवः॑ ॥
नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वो॒३॒॑ऽपामू॒र्मौ सिंधु॑ष्वं॒तरु॑क्षि॒तः । इंद्र॑स्य॒ वज्रो॑ वृष॒भो वि॒भूव॑सुः॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥
नाभा॑ , पृ॒थि॒व्याः , ध॒रुणः॑ , म॒हः , दि॒वः , अ॒पां , ऊ॒र्मौ , सिंधु॑षु , अं॒तः , उ॒क्षि॒तः । इंद्र॑स्य , वज्रः॑ , वृ॒ष॒भः , वि॒भुऽव॑सुः , सोमः॑ , हृ॒दे , प॒व॒ते॒ , चारु॑ , म॒त्स॒रः ॥
स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजः॑ स्तो॒त्रे शिक्ष॑न्नाधून्व॒ते च॑ सुक्रतो । मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो॑ र॒यिं पि॒शंगं॑ बहु॒लं व॑सीमहि ॥
सः , तु , प॒व॒स्व॒ , परि॑ , पार्थि॑वं , रजः॑ , स्तो॒त्रे , शिक्ष॑न् , आ॒ऽधू॒न्व॒ते , च॒ , सु॒क्र॒तो॒ इति॑ सुऽक्रतो । मा , नः॒ , निः , भा॒क् , वसु॑नः , स॒द॒न॒ऽस्पृशः॑ , र॒यिं , पि॒शंगं॑ , ब॒हु॒लं , व॒सी॒म॒हि॒ ॥
आ तू न॑ इंदो श॒तदा॒त्वश्व्यं॑ स॒हस्र॑दातु पशु॒मद्धिर॑ण्यवत् । उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ॥
आ , तु , नः॒ , इं॒दो॒ इति॑ , श॒तऽदा॑तु , अश्व्यं॑ , स॒हस्र॑ऽदातु , प॒शु॒ऽमत् , हिर॑ण्यऽवत् । उप॑ , मा॒स्व॒ , बृ॒ह॒तीः , रे॒वतीः॑ , इषः॑ , अधि॑ , स्तो॒त्रस्य॑ , प॒व॒मा॒न॒ , नः॒ , ग॒हि॒ ॥
[७३] स्रक्वेद्रप्सस्येति नवर्चस्य सूक्तस्यांगिरसः पवित्रः पवमानः सोमो जगती |
स्रक्वे॑ द्र॒प्सस्य॒ धम॑तः॒ सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रंत॒ नाभ॑यः । त्रींत्स मू॒र्ध्नो असु॑रश्चक्र आ॒रभे॑ स॒त्यस्य॒ नावः॑ सु॒कृत॑मपीपरन् ॥
स्रक्वे॑ , द्र॒प्सस्य॑ , धम॑तः , सं , अ॒स्व॒र॒न् , ऋ॒तस्य॑ , योना॑ , सं , अ॒रं॒त॒ , नाभ॑यः । त्रीन् , सः , मू॒र्ध्नः , असु॑रः , च॒क्रे॒ , आ॒ऽरभे॑ , स॒त्यस्य॑ , नावः॑ , सु॒ऽकृतं॑ , अ॒पी॒प॒र॒न् ॥
स॒म्यक्स॒म्यंचो॑ महि॒षा अ॑हेषत॒ सिंधो॑रू॒र्मावधि॑ वे॒ना अ॑वीविपन् । मधो॒र्धारा॑भिर्ज॒नयं॑तो अ॒र्कमित्प्रि॒यामिंद्र॑स्य त॒न्व॑मवीवृधन् ॥
स॒म्यक् , स॒म्यंचः॑ , म॒हि॒षाः , अ॒हे॒ष॒त॒ , सिंधोः॑ , ऊ॒र्मौ , अधि॑ , वे॒नाः , अ॒वी॒वि॒प॒न् । मधोः॑ , धारा॑भिः , ज॒नयं॑तः , अ॒र्कं , इत् , प्रि॒यां , इंद्र॑स्य , त॒न्वं॑ , अ॒वी॒वृ॒ध॒न् ॥
प॒वित्र॑वंतः॒ परि॒ वाच॑मासते पि॒तैषां॑ प्र॒त्नो अ॒भि र॑क्षति व्र॒तं । म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे॒ धीरा॒ इच्छे॑कुर्ध॒रुणे॑ष्वा॒रभं॑ ॥
प॒वित्र॑ऽवंतः , परि॑ , वाचं॑ , आ॒स॒ते॒ , पि॒ता , ए॒षां॒ , प्र॒त्नः , अ॒भि , र॒क्ष॒ति॒ , व्र॒तं । म॒हः , स॒मु॒द्रं , वरु॑णः , ति॒रः , द॒धे॒ , धीराः॑ , इत् , शे॒कुः॒ , ध॒रुणे॑षु , आ॒ऽरभं॑ ॥
स॒हस्र॑धा॒रेऽव॒ ते सम॑स्वरंदि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑ । अस्य॒ स्पशो॒ न नि मि॑षंति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ संति॒ सेत॑वः ॥
स॒हस्र॑ऽधारे , अव॑ , ते , सं , अ॒स्व॒र॒न् , दि॒वः , नाके॑ , मधु॑ऽजिह्वाः , अ॒स॒श्चतः॑ । अस्य॑ , स्पशः॑ , न , नि , मि॒षं॒ति॒ , भूर्ण॑यः , प॒देऽप॑दे , पा॒शिनः॑ , सं॒ति॒ , सेत॑वः ॥
पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्नृ॒चा शोचं॑तः सं॒दहं॑तो अव्र॒तान् । इंद्र॑द्विष्टा॒मप॑ धमंति मा॒यया॒ त्वच॒मसि॑क्नीं॒ भूम॑नो दि॒वस्परि॑ ॥
पि॒तुः , मा॒तुः , अधि॑ , आ , ये , सं॒ऽअस्व॑रन् , ऋ॒चा , शोचं॑तः , सं॒ऽदहं॑तः , अ॒व्र॒तान् । इंद्र॑ऽद्विष्टां , अप॑ , ध॒मं॒ति॒ , मा॒यया॑ , त्वचं॑ , असि॑क्नीं , भूम॑नः , दि॒वः , परि॑ ॥
प्र॒त्नान्माना॒दध्या ये स॒मस्व॑रं॒छ्लोक॑यंत्रासो रभ॒सस्य॒ मंत॑वः । अपा॑न॒क्षासो॑ बधि॒रा अ॑हासत ऋ॒तस्य॒ पंथां॒ न त॑रंति दु॒ष्कृतः॑ ॥
प्र॒त्नात् , माना॑त् , अधि॑ , आ , ये , सं॒ऽअस्व॑रन् , श्लोक॑ऽयंत्रासः , र॒भ॒सस्य॑ , मंत॑वः । अप॑ , अ॒न॒क्षासः॑ , ब॒धि॒राः , अ॒हा॒स॒त॒ , ऋ॒तस्य॑ , पंथां॑ , न , त॒रं॒ति॒ , दुः॒ऽकृतः॑ ॥
स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं॑ पुनंति क॒वयो॑ मनी॒षिणः॑ । रु॒द्रास॑ एषामिषि॒रासो॑ अ॒द्रुहः॒ स्पशः॒ स्वंचः॑ सु॒दृशो॑ नृ॒चक्ष॑सः ॥
स॒हस्र॑ऽधारे , विऽत॑ते , प॒वित्रे॑ , आ , वाचं॑ , पु॒नं॒ति॒ , क॒वयः॑ , म॒नी॒षिणः॑ । रु॒द्रासः॑ , ए॒षां॒ , इ॒षि॒रासः॑ , अ॒द्रुहः॑ , स्पशः॑ , सु॒ऽअंचः॑ , सु॒ऽदृशः॑ , नृ॒ऽचक्ष॑सः ॥
ऋ॒तस्य॑ गो॒पा न दभा॑य सु॒क्रतु॒स्त्री ष प॒वित्रा॑ हृ॒द्य१॒॑न्तरा द॑धे । वि॒द्वांत्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान्विध्यति क॒र्ते अ॑व्र॒तान् ॥
ऋ॒तस्य॑ , गो॒पाः , न , दभा॑य , सु॒ऽक्रतुः॑ , त्री , सः , प॒वित्रा॑ , हृ॒दि , अं॒तः , आ , द॒धे॒ । वि॒द्वान् , सः , विश्वा॑ , भुव॑ना , अ॒भि , प॒श्य॒ति॒ , अव॑ , अजु॑ष्टान् , वि॒ध्य॒ति , क॒र्ते , अ॒व्र॒तान् ॥
ऋ॒तस्य॒ तंतु॒र्वित॑तः प॒वित्र॒ आ जि॒ह्वाया॒ अग्रे॒ वरु॑णस्य मा॒यया॑ । धीरा॑श्चि॒त्तत्स॒मिन॑क्षंत आश॒तात्रा॑ क॒र्तमव॑ पदा॒त्यप्र॑भुः ॥
ऋ॒तस्य॑ , तंतुः॑ , विऽत॑तः , प॒वित्रे॑ , आ , जि॒ह्वायाः॑ , अग्रे॑ , वरु॑णस्य , मा॒यया॑ । धीराः॑ , चि॒त् , तत् , सं॒ऽइन॑क्षंतः , आ॒श॒त॒ , अत्र॑ , क॒र्तं , अव॑ , प॒दा॒ति॒ , अप्र॑ऽभुः ॥
[७४] शिशुर्नेति नवर्चस्य सूक्तस्य दैर्घतमसः कक्षीवान्पवमान सोमोजगत्यष्टमीत्रिष्टुप् |
शिशु॒र्न जा॒तोऽव॑ चक्रद॒द्वने॒ स्व१॒॑र्यद्वा॒ज्य॑रु॒षः सिषा॑सति । दि॒वो रेत॑सा सचते पयो॒वृधा॒ तमी॑महे सुम॒ती शर्म॑ स॒प्रथः॑ ॥
शिशुः॑ , न , जा॒तः , अव॑ , च॒क्र॒द॒त् , वने॑ , स्वः॑ , यत् , वा॒जी , अ॒रु॒षः , सिसा॑सति । दि॒वः , रेत॑सा , स॒च॒ते॒ , प॒यः॒ऽवृधा॑ , तं , ई॒म॒हे॒ , सु॒ऽम॒ती , शर्म॑ , स॒ऽप्रथः॑ ॥
दि॒वो यः स्कं॒भो ध॒रुणः॒ स्वा॑तत॒ आपू॑र्णो अं॒शुः प॒र्येति॑ वि॒श्वतः॑ । सेमे म॒ही रोद॑सी यक्षदा॒वृता॑ समीची॒ने दा॑धार॒ समिषः॑ क॒विः ॥
दि॒वः , यः , स्कं॒भः , ध॒रुणः॑ , सुऽआ॑ततः , आऽपू॑र्णः , अं॒शुः , प॒रि॒ऽएति॑ , वि॒श्वतः॑ । सः , इ॒मे इति॑ , म॒ही इति॑ , रोद॑सी॒ इति॑ , य॒क्ष॒त् , आ॒ऽवृता॑ , स॒मी॒ची॒ने इति॑ सं॒ऽई॒ची॒ने , दा॒हा॒र॒ , सं , इषः॑ , क॒विः ॥
महि॒ प्सरः॒ सुकृ॑तं सो॒म्यं मधू॒र्वी गव्यू॑ति॒रदि॑तेर्ऋ॒तं य॒ते । ईशे॒ यो वृ॒ष्टेरि॒त उ॒स्रियो॒ वृषा॒पां ने॒ता य इ॒तऊ॑तिर्ऋ॒ग्मियः॑ ॥
महि॑ , प्सरः॑ , सुऽकृ॑तं , सो॒म्यं , मधु॑ , उ॒र्वी , गव्यू॑तिः , अदि॑तेः , ऋ॒तं , य॒ते । ईशे॑ , यः , वृ॒ष्टेः , इ॒तः , उ॒स्रियः॑ , वृषा॑ , अ॒पां , ने॒ता , यः , इ॒तःऽऊ॑तिः , ऋ॒ग्मियः॑ ॥
आ॒त्म॒न्वन्नभो॑ दुह्यते घृ॒तं पय॑ ऋ॒तस्य॒ नाभि॑र॒मृतं॒ वि जा॑यते । स॒मी॒ची॒नाः सु॒दान॑वः प्रीणंति॒ तं नरो॑ हि॒तमव॑ मेहंति॒ पेर॑वः ॥
आ॒त्म॒न्ऽवत् , नभः॑ , दु॒ह्य॒ते॒ , घृ॒तं , पयः॑ , ऋ॒तस्य॑ , नाभिः॑ , अ॒मृतं॑ , वि , जा॒य॒ते॒ । सं॒ऽई॒ची॒नाः , सु॒ऽदान॑वः , प्री॒णं॒ति॒ , तं , नरः॑ , हि॒तं , अव॑ , मे॒हं॒ति॒ , पेर॑वः ॥
अरा॑वीदं॒शुः सच॑मान ऊ॒र्मिणा॑ देवा॒व्यं१॒॑ मनु॑षे पिन्वति॒ त्वचं॑ । दधा॑ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥
अरा॑वीत् , अं॒शुः , सच॑मानः , ऊ॒र्मिणा॑ , दे॒व॒ऽअ॒व्यं॑ , मनु॑षे , पि॒न्व॒ति॒ , त्वचं॑ । दधा॑ति , गर्भं॑ , अदि॑तेः , उ॒पऽस्थे॑ , आ , येन॑ , तो॒कं , च॒ , तन॑यं , च॒ , धाम॑हे ॥
स॒हस्र॑धा॒रेऽव॒ ता अ॑स॒श्चत॑स्तृ॒तीये॑ संतु॒ रज॑सि प्र॒जाव॑तीः । चत॑स्रो॒ नाभो॒ निहि॑ता अ॒वो दि॒वो ह॒विर्भ॑रंत्य॒मृतं॑ घृत॒श्चुतः॑ ॥
स॒हस्र॑ऽधारे , अव॑ , ताः , अ॒स॒श्चतः॑ , तृ॒तीये॑ , सं॒तु॒ , रज॑सि , प्र॒जाऽव॑तीः । चत॑स्रः , नाभः॑ , निऽहि॑ताः , अ॒वः , दि॒वः , ह॒विः , भ॒रं॒ति॒ , अ॒मृतं॑ , घृ॒त॒ऽश्चुतः॑ ॥
श्वे॒तं रू॒पं कृ॑णुते॒ यत्सिषा॑सति॒ सोमो॑ मी॒ढ्वाँ असु॑रो वेद॒ भूम॑नः । धि॒या शमी॑ सचते॒ सेम॒भि प्र॒वद्दि॒वस्कवं॑ध॒मव॑ दर्षदु॒द्रिणं॑ ॥
श्वे॒तं , रू॒पं , कृ॒णु॒ते॒ , यत् , सिसा॑सति , सोमः॑ , मी॒ढ्वान् , असु॑रः , वे॒द॒ , भूम॑नः । धि॒या , शमी॑ , स॒च॒ते॒ , सः , ईं॒ , अ॒भि , प्र॒ऽवत् , दि॒वः , कवं॑धं , अव॑ , द॒र्ष॒त् , उ॒द्रिणं॑ ॥
अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तं कार्ष्म॒न्ना वा॒ज्य॑क्रमीत्सस॒वान् । आ हि॑न्विरे॒ मन॑सा देव॒यंतः॑ क॒क्षीव॑ते श॒तहि॑माय॒ गोनां॑ ॥
अध॑ , श्वे॒तं , क॒लशं॑ , गोभिः॑ , अ॒क्तं , कार्ष्म॑न् , आ , वा॒जी , अ॒क्र॒मी॒त् , स॒स॒ऽवान् । आ , हि॒न्वि॒रे॒ , मन॑सा , दे॒व॒ऽयंतः॑ , क॒क्षीव॑ते , श॒तऽहि॑माय , गोनां॑ ॥
अ॒द्भिः सो॑म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति । स मृ॒ज्यमा॑नः क॒विभि॑र्मदिंतम॒ स्वद॒स्वेंद्रा॑य पवमान पी॒तये॑ ॥
अ॒त्ऽभिः , सो॒म॒ , प॒पृ॒चा॒नस्य॑ , ते॒ , रसः॑ , अव्यः॑ , वारं॑ , वि , प॒व॒मा॒न॒ , धा॒व॒ति॒ । सः , मृ॒ज्यमा॑नः , क॒विऽभिः॑ , म॒दि॒न्ऽत॒म॒ , स्वद॑स्व , इंद्रा॑य , प॒व॒मा॒न॒ , पी॒तये॑ ॥
[७५] अभिप्रियाणीति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानःसोमोजगती |
अ॒भि प्रि॒याणि॑ पवते॒ चनो॑हितो॒ नामा॑नि य॒ह्वो अधि॒ येषु॒ वर्ध॑ते । आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्वं॑चमरुहद्विचक्ष॒णः ॥
अ॒भि , प्रि॒याणि॑ , प॒व॒ते॒ , चनः॑ऽहितः , नामा॑नि , य॒ह्वः , अधि॑ , येषु॑ , वर्ध॑ते । आ , सूर्य॑स्य , बृ॒ह॒तः , बृ॒हन् , अधि॑ , रथं॑ , विष्वं॑चं , अ॒रु॒ह॒त् , वि॒ऽच॒क्ष॒णः ॥
ऋ॒तस्य॑ जि॒ह्वा प॑वते॒ मधु॑ प्रि॒यं व॒क्ता पति॑र्धि॒यो अ॒स्या अदा॑भ्यः । दधा॑ति पु॒त्रः पि॒त्रोर॑पी॒च्यं१॒॑ नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥
ऋ॒तस्य॑ , जि॒ह्वा , प॒व॒ते॒ , मधु॑ , प्रि॒यं , व॒क्ता , पतिः॑ , धि॒यः , अ॒स्याः , अदा॑भ्यः । दधा॑ति , पु॒त्रः , पि॒त्रोः , अ॒पी॒च्यं॑ , नाम॑ , तृ॒तीयं॑ , अधि॑ , रो॒च॒ने , दि॒वः ॥
अव॑ द्युता॒नः क॒लशाँ॑ अचिक्रद॒न्नृभि॑र्येमा॒नः कोश॒ आ हि॑र॒ण्यये॑ । अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूष॒ताधि॑ त्रिपृ॒ष्ठ उ॒षसो॒ वि रा॑जति ॥
अव॑ , द्यु॒ता॒नः , क॒लशा॑न् , अ॒चि॒क्र॒द॒त् , नृऽभिः॑ , ये॒मा॒नः , कोशे॑ , आ , हि॒र॒ण्यये॑ । अ॒भि , ईं॒ , ऋ॒तस्य॑ , दो॒हनाः॑ , अ॒नू॒ष॒त॒ , अधि॑ , त्रि॒ऽपृ॒ष्ठः , उ॒षसः॑ , वि , रा॒ज॒ति॒ ॥
अद्रि॑भिः सु॒तो म॒तिभि॒श्चनो॑हितः प्ररो॒चय॒न्रोद॑सी मा॒तरा॒ शुचिः॑ । रोमा॒ण्यव्या॑ स॒मया॒ वि धा॑वति॒ मधो॒र्धारा॒ पिन्व॑माना दि॒वेदि॑वे ॥
अद्रि॑ऽभिः , सु॒तः , म॒तिऽभिः॑ , चनः॑ऽहितः , प्र॒ऽरो॒चय॑न् , रोद॑सी॒ इति॑ , मा॒तरा॑ , शुचिः॑ । रोमा॑णि , अव्या॑ , स॒मया॑ , वि , धा॒व॒ति॒ , मधोः॑ , धारा॑ , पिन्व॑माना , दि॒वेऽदि॑वे ॥
परि॑ सोम॒ प्र ध॑न्वा स्व॒स्तये॒ नृभिः॑ पुना॒नो अ॒भि वा॑सया॒शिरं॑ । ये ते॒ मदा॑ आह॒नसो॒ विहा॑यस॒स्तेभि॒रिंद्रं॑ चोदय॒ दात॑वे म॒घं ॥
परि॑ , सो॒म॒ , प्र , ध॒न्व॒ , स्व॒स्तये॑ , नृऽभिः॑ , पु॒ना॒नः , अ॒भि , वा॒स॒य॒ , आ॒ऽशिरं॑ । ये , ते॒ , मदाः॑ , आ॒ह॒नसः॑ , विऽहा॑यसः , तेभिः॑ , इंद्रं॑ , चो॒द॒य॒ , दात॑वे , म॒घं ॥
[७६] धर्तेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानःसोमोजगती |
ध॒र्ता दि॒वः प॑वते॒ कृत्व्यो॒ रसो॒ दक्षो॑ दे॒वाना॑मनु॒माद्यो॒ नृभिः॑ । हरिः॑ सृजा॒नो अत्यो॒ न सत्व॑भि॒र्वृथा॒ पाजां॑सि कृणुते न॒दीष्वा ॥
ध॒र्ता , दि॒वः , प॒व॒ते॒ , कृत्व्यः॑ , रसः॑ , दक्षः॑ , दे॒वानां॑ , अ॒नु॒ऽमाद्यः॑ , नृऽभिः॑ । हरिः॑ , सृ॒जा॒नः , अत्यः॑ , न , सत्व॑ऽभिः , वृथा॑ , पाजां॑सि , कृ॒णु॒ते॒ , न॒दीषु॑ , आ ॥
शूरो॒ न ध॑त्त॒ आयु॑धा॒ गभ॑स्त्योः॒ स्व१॒॑ः सिषा॑सन्रथि॒रो गवि॑ष्टिषु । इंद्र॑स्य॒ शुष्म॑मी॒रय॑न्नप॒स्युभि॒रिंदु॑र्हिन्वा॒नो अ॑ज्यते मनी॒षिभिः॑ ॥
शूरः॑ , न , ध॒त्ते॒ , आयु॑धा , गभ॑स्त्योः , स्व१॒॑रिति॒ स्वः॑ , सिसा॑सन् , र॒थि॒रः , गोऽइ॑ष्टिषु । इंद्र॑स्य , शुष्मं॑ , ई॒रय॑न् , अ॒प॒स्युऽभिः॑ , इंदुः॑ , हि॒न्वा॒नः , अ॒ज्य॒ते॒ , म॒नी॒षिऽभिः॑ ॥
इंद्र॑स्य सोम॒ पव॑मान ऊ॒र्मिणा॑ तवि॒ष्यमा॑णो ज॒ठरे॒ष्वा वि॑श । प्र णः॑ पिन्व वि॒द्युद॒भ्रेव॒ रोद॑सी धि॒या न वाजाँ॒ उप॑ मासि॒ शश्व॑तः ॥
इंद्र॑स्य , सो॒म॒ , पव॑मानः , ऊ॒र्मिणा॑ , त॒वि॒ष्यमा॑णः , ज॒ठरे॑षु , आ , वि॒श॒ । प्र , नः॒ , पि॒न्व॒ , वि॒ऽद्युत् , अ॒भ्राऽइ॑व , रोद॑सी॒ इति॑ , धि॒या , न , वाजा॑न् , उप॑ , मा॒सि॒ , शश्व॑तः ॥
विश्व॑स्य॒ राजा॑ पवते स्व॒र्दृश॑ ऋ॒तस्य॑ धी॒तिमृ॑षि॒षाळ॑वीवशत् । यः सूर्य॒स्यासि॑रेण मृ॒ज्यते॑ पि॒ता म॑ती॒नामस॑मष्टकाव्यः ॥
विश्व॑स्य , राजा॑ , प॒व॒ते॒ , स्वः॒ऽदृशः॑ , ऋ॒तस्य॑ , धी॒तिं , ऋ॒षि॒षाट् , अ॒वी॒व॒श॒त् । यः , सूर्य॑स्य , असि॑रेण , मृ॒ज्यते॑ , पि॒ता , म॒ती॒नां , अस॑मष्टऽकाव्यः ॥
वृषे॑व यू॒था परि॒ कोश॑मर्षस्य॒पामु॒पस्थे॑ वृष॒भः कनि॑क्रदत् । स इंद्रा॑य पवसे मत्स॒रिंत॑मो॒ यथा॒ जेषा॑म समि॒थे त्वोत॑यः ॥
वृषा॑ऽइव , यू॒था , परि॑ , कोशं॑ , अ॒र्ष॒सि॒ , अ॒पां , उ॒पऽस्थे॑ , वृ॒ष॒भः , कनि॑क्रदत् । सः , इंद्रा॑य , प॒व॒से॒ , म॒त्स॒रिन्ऽत॑मः , यथा॑ , जेषा॑म , सं॒ऽइ॒थे , त्वाऽऊ॑तयः ॥
[७७] एषइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानः सोमोजगती |
ए॒ष प्र कोशे॒ मधु॑माँ अचिक्रद॒दिंद्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः । अ॒भीमृ॒तस्य॑ सु॒दुघा॑ घृत॒श्चुतो॑ वा॒श्रा अ॑र्षंति॒ पय॑सेव धे॒नवः॑ ॥
ए॒षः , प्र , कोशे॑ , मधु॑ऽमान् , अ॒चि॒क्र॒द॒त् , इंद्र॑स्य , वज्रः॑ , वपु॑षः , वपुः॑ऽतरः । अ॒भि , ईं॒ , ऋ॒तस्य॑ , सु॒ऽदुघाः॑ , घृ॒त॒ऽश्चुतः॑ , वा॒श्राः , अ॒र्षं॒ति॒ , पय॑साऽइव , धे॒नवः॑ ॥
स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रजः॑ । स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा॑ ॥
सः , पू॒र्व्यः , प॒व॒ते॒ , यं , दि॒वः , परि॑ , श्ये॒नः , म॒था॒यत् , इ॒षि॒तः , ति॒रः , रजः॑ । सः , मध्वः॑ , आ , यु॒व॒ते॒ , वेवि॑जानः , इत् , कृ॒शानोः॑ , अस्तुः॑ , मन॑सा , अह॑ , बि॒भ्युषा॑ ॥
ते नः॒ पूर्वा॑स॒ उप॑रास॒ इंद॑वो म॒हे वाजा॑य धन्वंतु॒ गोम॑ते । ई॒क्षे॒ण्या॑सो अ॒ह्यो॒३॒॑ न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑जु॒षुर्ह॒विर्ह॑विः ॥
ते , नः॒ , पूर्वा॑सः , उप॑रासः , इंद॑वः , म॒हे , वाजा॑य , ध॒न्वं॒तु॒ , गोऽम॑ते । ई॒क्षे॒ण्या॑सः , अ॒ह्यः॑ , न , चार॑वः , ब्रह्म॑ऽब्रह्म , ये , जु॒जु॒षुः , ह॒विःऽह॑विः ॥
अ॒यं नो॑ वि॒द्वान्व॑नवद्वनुष्य॒त इंदुः॑ स॒त्राचा॒ मन॑सा पुरुष्टु॒तः । इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा॑मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जं ॥
अ॒यं , नः॒ , वि॒द्वान् , व॒न॒व॒त् , व॒नु॒ष्य॒तः , इंदुः॑ , स॒त्राचा॑ , मन॑सा , पु॒रु॒ऽस्तु॒तः । इ॒नस्य॑ , यः , सद॑ने , गर्भं॑ , आ॒ऽद॒धे , गवां॑ , उ॒रु॒ब्जं , अ॒भि , अर्ष॑ति , व्र॒जं ॥
चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो॑ म॒हाँ अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते । असा॑वि मि॒त्रो वृ॒जने॑षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ॥
चक्रिः॑ , दि॒वः , प॒व॒ते॒ , कृत्व्यः॑ , रसः॑ , म॒हान् , अद॑ब्धः , वरु॑णः , हु॒रुक् , य॒ते । असा॑वि , मि॒त्रः , वृ॒जने॑षु , य॒ज्ञियः॑ , अत्यः॑ , न , यू॒थे , वृ॒ष॒ऽयुः , कनि॑क्रदत् ॥
[७८] प्रराजेति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानः सोमो जगती |
प्र राजा॒ वाचं॑ ज॒नय॑न्नसिष्यदद॒पो वसा॑नो अ॒भि गा इ॑यक्षति । गृ॒भ्णाति॑ रि॒प्रमवि॑रस्य॒ तान्वा॑ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृ॒तं ॥
प्र , राजा॑ , वाचं॑ , ज॒नय॑न् , अ॒सि॒स्य॒द॒त् , अ॒पः , वसा॑नः , अ॒भि , गाः , इ॒य॒क्ष॒ति॒ । गृ॒भ्णाति॑ , रि॒प्रं , अविः॑ , अ॒स्य॒ , तान्वा॑ , शु॒द्धः , दे॒वानां॑ , उप॑ , या॒ति॒ , निः॒ऽकृ॒तं ॥
इंद्रा॑य सोम॒ परि॑ षिच्यसे॒ नृभि॑र्नृ॒चक्षा॑ ऊ॒र्मिः क॒विर॑ज्यसे॒ वने॑ । पू॒र्वीर्हि ते॑ स्रु॒तयः॒ संति॒ यात॑वे स॒हस्र॒मश्वा॒ हर॑यश्चमू॒षदः॑ ॥
इंद्रा॑य , सो॒म॒ , परि॑ , सि॒च्य॒से॒ , नृऽभिः॑ , नृ॒ऽचक्षाः॑ , ऊ॒र्मिः , क॒विः , अ॒ज्य॒से॒ , वने॑ । पू॒र्वीः , हि , ते॒ , स्रु॒तयः॑ , संति॑ , यात॑वे , स॒हस्रं॑ , अश्वाः॑ , हर॑यः , च॒मू॒ऽसदः॑ ॥
स॒मु॒द्रिया॑ अप्स॒रसो॑ मनी॒षिण॒मासी॑ना अं॒तर॒भि सोम॑मक्षरन् । ता ईं॑ हिन्वंति ह॒र्म्यस्य॑ स॒क्षणिं॒ याचं॑ते सु॒म्नं पव॑मान॒मक्षि॑तं ॥
स॒मु॒द्रियाः॑ , अ॒प्स॒रसः॑ , म॒नी॒षिणं॑ , आसी॑नाः , अं॒तः , अ॒भि , सोमं॑ , अ॒क्ष॒र॒न् । ताः , ईं॒ , हि॒न्वं॒ति॒ , ह॒र्म्यस्य॑ , स॒क्षणिं॑ , याचं॑ते , सु॒म्नं , पव॑मानं , अक्षि॑तं ॥
गो॒जिन्नः॒ सोमो॑ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् । यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुवं॑ ॥
गो॒ऽजित् , नः॒ , सोमः॑ , र॒थ॒ऽजित् , हि॒र॒ण्य॒ऽजित् , स्वः॒ऽजित् , अ॒प्ऽजित् , प॒व॒ते॒ , स॒ह॒स्र॒ऽजित् । यं , दे॒वासः॑ , च॒क्रि॒रे , पी॒तये॑ , मदं॑ , स्वादि॑ष्ठं , द्र॒प्सं , अ॒रु॒णं , म॒यः॒ऽभुवं॑ ॥
ए॒तानि॑ सोम॒ पव॑मानो अस्म॒युः स॒त्यानि॑ कृ॒ण्वंद्रवि॑णान्यर्षसि । ज॒हि शत्रु॑मंति॒के दू॑र॒के च॒ य उ॒र्वीं गव्यू॑ति॒मभ॑यं च नस्कृधि ॥
ए॒तानि॑ , सो॒म॒ , पव॑मानः , अ॒स्म॒ऽयुः , स॒त्यानि॑ , कृ॒ण्वन् , द्रवि॑णानि , अ॒र्ष॒सि॒ । ज॒हि , शत्रुं॑ , अं॒ति॒के , दू॒र॒के , च॒ , यः , उ॒र्वीं , गव्यू॑तिं , अभ॑यं , च॒ , नः॒ , कृ॒धि॒ ॥
[७९] अचोदसइति पंचर्चस्य सूक्तस्य भार्गवः कविः पवमानःसोमोजगती |
अ॒चो॒दसो॑ नो धन्वं॒त्विंद॑वः॒ प्र सु॑वा॒नासो॑ बृ॒हद्दि॑वेषु॒ हर॑यः । वि च॒ नश॑न्न इ॒षो अरा॑तयो॒ऽर्यो न॑शंत॒ सनि॑षंत नो॒ धियः॑ ॥
अ॒चो॒दसः॑ , नः॒ , ध॒न्वं॒तु॒ , इंद॑वः , प्र , सु॒वा॒नासः॑ , बृ॒हत्ऽदि॑वेषु , हर॑यः । वि , च॒ , नश॑न् , नः॒ , इ॒षः , अरा॑तयः , अ॒र्यः , न॒शं॒त॒ , सनि॑षंत , नः॒ , धियः॑ ॥
प्र णो॑ धन्वं॒त्विंद॑वो मद॒च्युतो॒ धना॑ वा॒ येभि॒रर्व॑तो जुनी॒मसि॑ । ति॒रो मर्त॑स्य॒ कस्य॑ चि॒त्परि॑ह्वृतिं व॒यं धना॑नि वि॒श्वधा॑ भरेमहि ॥
प्र , नः॒ , ध॒न्वं॒तु॒ , इंद॑वः , म॒द॒ऽच्युतः॑ , धना॑ , वा॒ , येभिः॑ , अर्व॑तः , जु॒नी॒मसि॑ । ति॒रः , मर्त॑स्य , कस्य॑ , चि॒त् , परि॑ऽह्वृतिं , व॒यं , धना॑नि , वि॒श्वधा॑ , भ॒रे॒म॒हि॒ ॥
उ॒त स्वस्या॒ अरा॑त्या अ॒रिर्हि ष उ॒तान्यस्या॒ अरा॑त्या॒ वृको॒ हि षः । धन्व॒न्न तृष्णा॒ सम॑रीत॒ ताँ अ॒भि सोम॑ ज॒हि प॑वमान दुरा॒ध्यः॑ ॥
उ॒त , स्वस्याः॑ , अरा॑त्याः , अ॒रिः , हि , सः , उ॒त , अ॒न्यस्याः॑ , अरा॑त्याः , वृकः॑ , हि , सः । धन्व॑न् , न , तृष्णा॑ , सं , अ॒री॒त॒ , तान् , अ॒भि , सोम॑ , ज॒हि , प॒व॒मा॒न॒ , दुः॒ऽआ॒ध्यः॑ ॥
दि॒वि ते॒ नाभा॑ पर॒मो य आ॑द॒दे पृ॑थि॒व्यास्ते॑ रुरुहुः॒ सान॑वि॒ क्षिपः॑ । अद्र॑यस्त्वा बप्सति॒ गोरधि॑ त्व॒च्य१॒॑प्सु त्वा॒ हस्तै॑र्दुदुहुर्मनी॒षिणः॑ ॥
दि॒वि , ते॒ , नाभा॑ , प॒र॒मः , यः , आ॒ऽद॒दे , पृ॒थि॒व्याः , ते॒ , रु॒रु॒हुः॒ , सान॑वि , क्षिपः॑ । अद्र॑यः , त्वा॒ , ब॒प्स॒ति॒ , गोः , अधि॑ , त्व॒चि , अ॒प्ऽसु , त्वा॒ , हस्तैः॑ , दु॒दु॒हुः॒ , म॒नी॒षिणः॑ ॥
ए॒वा त॑ इंदो सु॒भ्वं॑ सु॒पेश॑सं॒ रसं॑ तुंजंति प्रथ॒मा अ॑भि॒श्रियः॑ । निदं॑निदं पवमान॒ नि ता॑रिष आ॒विस्ते॒ शुष्मो॑ भवतु प्रि॒यो मदः॑ ॥
ए॒व , ते॒ , इं॒दो॒ इति॑ , सु॒ऽभ्वं॑ , सु॒ऽपेश॑सं , रसं॑ , तुं॒जं॒ति॒ , प्र॒थ॒माः , अ॒भि॒ऽश्रियः॑ । निदं॑ऽनिदं , प॒व॒मा॒न॒ , नि , ता॒रि॒षः॒ , आ॒विः , ते॒ , शुष्मः॑ , भ॒व॒तु॒ , प्रि॒यः , मदः॑ ॥
[८०] सोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमानः सोमोजगती |
सोम॑स्य॒ धारा॑ पवते नृ॒चक्ष॑स ऋ॒तेन॑ दे॒वान्ह॑वते दि॒वस्परि॑ । बृह॒स्पते॑ र॒वथे॑ना॒ वि दि॑द्युते समु॒द्रासो॒ न सव॑नानि विव्यचुः ॥
सोम॑स्य , धारा॑ , प॒व॒ते॒ , नृ॒ऽचक्ष॑सः , ऋ॒तेन॑ , दे॒वान् , ह॒व॒ते॒ , दि॒वः , परि॑ । बृह॒स्पतेः॑ , र॒वथे॑न , वि , दि॒द्यु॒ते॒ , स॒मु॒द्रासः॑ , न , सव॑नानि , वि॒व्य॒चुः॒ ॥
यं त्वा॑ वाजिन्न॒घ्न्या अ॒भ्यनू॑ष॒तायो॑हतं॒ योनि॒मा रो॑हसि द्यु॒मान् । म॒घोना॒मायुः॑ प्रति॒रन्महि॒ श्रव॒ इंद्रा॑य सोम पवसे॒ वृषा॒ मदः॑ ॥
यं , त्वा॒ , वा॒जि॒न् , अ॒घ्न्याः , अ॒भि , अनू॑षत , अयः॑ऽहतं , योनिं॑ , आ , रो॒ह॒सि॒ , द्यु॒ऽमान् । म॒घोनां॑ , आयुः॑ , प्र॒ऽति॒रन् , महि॑ , श्रवः॑ , इंद्रा॑य , सो॒म॒ , प॒व॒से॒ , वृषा॑ , मदः॑ ॥
एंद्र॑स्य कु॒क्षा प॑वते म॒दिंत॑म॒ ऊर्जं॒ वसा॑नः॒ श्रव॑से सुमं॒गलः॑ । प्र॒त्यङ्स विश्वा॒ भुव॑ना॒भि प॑प्रथे॒ क्रीळ॒न्हरि॒रत्यः॑ स्यंदते॒ वृषा॑ ॥
आ , इंद्र॑स्य , कु॒क्षा , प॒व॒ते॒ , म॒दिन्ऽत॑मः , ऊर्जं॑ , वसा॑नः , श्रव॑से , सु॒ऽमं॒गलः॑ । प्र॒त्यङ् , सः , विश्वा॑ , भुव॑ना , अ॒भि , प॒प्र॒थे॒ , क्रीळ॑न् , हरिः॑ , अत्यः॑ , स्यं॒द॒ते॒ , वृषा॑ ॥
तं त्वा॑ दे॒वेभ्यो॒ मधु॑मत्तमं॒ नरः॑ स॒हस्र॑धारं दुहते॒ दश॒ क्षिपः॑ । नृभिः॑ सोम॒ प्रच्यु॑तो॒ ग्राव॑भिः सु॒तो विश्वां॑दे॒वाँ आ प॑वस्वा सहस्रजित् ॥
तं , त्वा॒ , दे॒वेभ्यः॑ , मधु॑मत्ऽतमं , नरः॑ , स॒हस्र॑ऽधारं , दु॒ह॒ते॒ , दश॑ , क्षिपः॑ । नृऽभिः॑ , सो॒म॒ , प्रऽच्यु॑तः , ग्राव॑ऽभिः , सु॒तः , विश्वा॑न् , दे॒वान् , आ , प॒व॒स्व॒ , स॒ह॒स्र॒ऽजि॒त् ॥
तं त्वा॑ ह॒स्तिनो॒ मधु॑मंत॒मद्रि॑भिर्दु॒हंत्य॒प्सु वृ॑ष॒भं दश॒ क्षिपः॑ । इंद्रं॑ सोम मा॒दयं॒दैव्यं॒ जनं॒ सिंधो॑रिवो॒र्मिः पव॑मानो अर्षसि ॥
तं , त्वा॒ , ह॒स्तिनः॑ , मधु॑ऽमंतं , अद्रि॑ऽभिः , दु॒हंति॑ , अ॒प्ऽसु , वृ॒ष॒भं , दश॑ , क्षिपः॑ । इंद्रं॑ , सो॒म॒ , मा॒दय॑न् , दैव्यं॑ , जनं॑ , सिंधोः॑ऽइव , ऊ॒र्मिः , पव॑मानः , अ॒र्ष॒सि॒ ॥
[८१] प्रसोमस्येति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमानः सोमोजगत्यंत्यात्रिष्टुप् |
प्र सोम॑स्य॒ पव॑मानस्यो॒र्मय॒ इंद्र॑स्य यंति ज॒ठरं॑ सु॒पेश॑सः । द॒ध्ना यदी॒मुन्नी॑ता य॒शसा॒ गवां॑ दा॒नाय॒ शूर॑मु॒दमं॑दिषुः सु॒ताः ॥
प्र , सोम॑स्य , पव॑मानस्य , ऊ॒र्मयः॑ , इंद्र॑स्य , यं॒ति॒ , ज॒ठरं॑ , सु॒ऽपेश॑सः । द॒ध्ना , यत् , ईं॒ , उत्ऽनी॑ताः , य॒शसा॑ , गवां॑ , दा॒नाय॑ , शूरं॑ , उ॒त्ऽअमं॑दिषुः , सु॒ताः ॥
अच्छा॒ हि सोमः॑ क॒लशाँ॒ असि॑ष्यद॒दत्यो॒ न वोळ्हा॑ र॒घुव॑र्तनि॒र्वृषा॑ । अथा॑ दे॒वाना॑मु॒भय॑स्य॒ जन्म॑नो वि॒द्वाँ अ॑श्नोत्य॒मुत॑ इ॒तश्च॒ यत् ॥
अच्छ॑ , हि , सोमः॑ , क॒लशा॑न् , असि॑स्यदत् , अत्यः॑ , न , वोळ्हा॑ , र॒घुऽव॑र्तनिः , वृषा॑ । अथ॑ , दे॒वानां॑ , उ॒भय॑स्य , जन्म॑नः , वि॒द्वान् , अ॒श्नो॒ति॒ , अ॒मुतः॑ , इ॒तः , च॒ , यत् ॥
आ नः॑ सोम॒ पव॑मानः किरा॒ वस्विंदो॒ भव॑ म॒घवा॒ राध॑सो म॒हः । शिक्षा॑ वयोधो॒ वस॑वे॒ सु चे॒तुना॒ मा नो॒ गय॑मा॒रे अ॒स्मत्परा॑ सिचः ॥
आ , नः॒ , सो॒म॒ , पव॑मानः , कि॒र॒ , वसु॑ , इंदो॒ इति॑ , भव॑ , म॒घऽवा॑ , राध॑सः , म॒हः । शिक्ष॑ , व॒यः॒ऽधः॒ , वस॑वे , सु , चे॒तुना॑ , मा , नः॒ , गयं॑ , आ॒रे , अ॒स्मत् , परा॑ , सि॒चः॒ ॥
आ नः॑ पू॒षा पव॑मानः सुरा॒तयो॑ मि॒त्रो ग॑च्छंतु॒ वरु॑णः स॒जोष॑सः । बृह॒स्पति॑र्म॒रुतो॑ वा॒युर॒श्विना॒ त्वष्टा॑ सवि॒ता सु॒यमा॒ सर॑स्वती ॥
आ , नः॒ , पू॒षा , पव॑मानः , सु॒ऽरा॒तयः॑ , मि॒त्रः , ग॒च्छं॒तु॒ , वरु॑णः , स॒ऽजोष॑सः । बृह॒स्पतिः॑ , म॒रुतः॑ , वा॒युः , अ॒श्विना॑ , त्वष्टा॑ , स॒वि॒ता , सु॒ऽयमा॑ , सर॑स्वती ॥
उ॒भे द्यावा॑पृथि॒वी वि॑श्वमि॒न्वे अ॑र्य॒मा दे॒वो अदि॑तिर्विधा॒ता । भगो॒ नृशंस॑ उ॒र्व१॒॑न्तरि॑क्षं॒ विश्वे॑ दे॒वाः पव॑मानं जुषंत ॥
उ॒भे इति॑ , द्यावा॑पृथि॒वी इति॑ , वि॒श्व॒मि॒न्वे इति॑ वि॒श्वं॒ऽइ॒न्वे , अ॒र्य॒मा , दे॒वः , अदि॑तिः , वि॒ऽधा॒ता । भगः॑ , नृऽशंसः॑ , उ॒रु , अं॒तरि॑क्षं , विश्वे॑ , दे॒वाः , पव॑मानं , जु॒षं॒त॒ ॥
[८२] असावीति पंचर्चस्य सूक्तस्य भारद्वाजो वसुः पवमानः सोमोजगत्यंत्यात्रिष्टुप् |
असा॑वि॒ सोमो॑ अरु॒षो वृषा॒ हरी॒ राजे॑व द॒स्मो अ॒भि गा अ॑चिक्रदत् । पु॒ना॒नो वारं॒ पर्ये॑त्य॒व्ययं॑ श्ये॒नो न योनिं॑ घृ॒तवं॑तमा॒सदं॑ ॥
असा॑वि , सोमः॑ , अ॒रु॒षः , वृषा॑ , हरिः॑ , राजा॑ऽइव , द॒स्मः , अ॒भि , गाः , अ॒चि॒क्र॒द॒त् । पु॒ना॒नः , वारं॑ , परि॑ , ए॒ति॒ , अ॒व्ययं॑ , श्ये॒नः , न , योनिं॑ , घृ॒तऽवं॑तं , आ॒ऽसदं॑ ॥
क॒विर्वे॑ध॒स्या पर्ये॑षि॒ माहि॑न॒मत्यो॒ न मृ॒ष्टो अ॒भि वाज॑मर्षसि । अ॒प॒सेधं॑दुरि॒ता सो॑म मृळय घृ॒तं वसा॑नः॒ परि॑ यासि नि॒र्णिजं॑ ॥
क॒विः , वे॒ध॒स्या , परि॑ , ए॒षि॒ , माहि॑नं , अत्यः॑ , न , मृ॒ष्टः , अ॒भि , वाजं॑ , अ॒र्ष॒सि॒ । अ॒प॒ऽसेध॑न् , दुः॒ऽइ॒ता , सो॒म॒ , मृ॒ळ॒य॒ , घृ॒तं , वसा॑नः , परि॑ , या॒सि॒ , निः॒ऽनिजं॑ ॥
प॒र्जन्यः॑ पि॒ता म॑हि॒षस्य॑ प॒र्णिनो॒ नाभा॑ पृथि॒व्या गि॒रिषु॒ क्षयं॑ दधे । स्वसा॑र॒ आपो॑ अ॒भि गा उ॒तास॑रं॒त्सं ग्राव॑भिर्नसते वी॒ते अ॑ध्व॒रे ॥
प॒र्जन्यः॑ , पि॒ता , म॒हि॒षस्य॑ , प॒र्णिनः॑ , नाभा॑ , पृ॒थि॒व्याः , गि॒रिषु॑ , क्षयं॑ , द॒धे॒ । स्वसा॑रः , आपः॑ , अ॒भि , गाः , उ॒त , अ॒स॒र॒न् , सं , ग्राव॑ऽभिः , न॒स॒ते॒ , वी॒ते , अ॒ध्व॒रे ॥
जा॒येव॒ पत्या॒वधि॒ शेव॑ मंहसे॒ पज्रा॑या गर्भ शृणु॒हि ब्रवी॑मि ते । अं॒तर्वाणी॑षु॒ प्र च॑रा॒ सु जी॒वसे॑ऽनिं॒द्यो वृ॒जने॑ सोम जागृहि ॥
जा॒याऽइ॑व , पत्यौ॑ , अधि॑ , शेव॑ , मं॒ह॒से॒ , पज्रा॑याः , ग॒र्भ॒ , शृ॒णु॒हि , ब्रवी॑मि , ते॒ । अं॒तः , वाणी॑षु , प्र , च॒र॒ , सु , जी॒वसे॑ , अ॒निं॒द्यः , वृ॒जने॑ , सो॒म॒ , जा॒गृ॒हि॒ ॥
यथा॒ पूर्वे॑भ्यः शत॒सा अमृ॑ध्रः सहस्र॒साः प॒र्यया॒ वाज॑मिंदो । ए॒वा प॑वस्व सुवि॒ताय॒ नव्य॑से॒ तव॑ व्र॒तमन्वापः॑ सचंते ॥
यथा॑ , पूर्वे॑भ्यः , श॒त॒ऽसाः , अमृ॑ध्रः , स॒ह॒स्र॒ऽसाः , प॒रि॒ऽअयाः॑ , वाजं॑ , इं॒दो॒ इति॑ । ए॒व , प॒व॒स्व॒ , सु॒वि॒ताय॑ , नव्य॑से , तव॑ , व्र॒तं , अनु॑ , आपः॑ , स॒चं॒ते॒ ॥
[८३] पवित्रंतइति पंचर्चस्य सूक्तस्यांगिरसः पवित्रः पवमानःसोमोजगती |
प॒वित्रं॑ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ । अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒ इद्वहं॑त॒स्तत्समा॑शत ॥
प॒वित्रं॑ , ते॒ , विऽत॑तं , ब्र॒ह्म॒णः॒ , प॒ते॒ , प्र॒ऽभुः , गात्रा॑णि , परि॑ , ए॒षि॒ , वि॒श्वतः॑ । अत॑प्तऽतनूः , न , तत् , आ॒मः , अ॒श्नु॒ते॒ , शृ॒तासः॑ , इत् , वहं॑तः , तत् , सं , आ॒श॒त॒ ॥
तपो॑ष्प॒वित्रं॒ वित॑तं दि॒वस्प॒दे शोचं॑तो अस्य॒ तंत॑वो॒ व्य॑स्थिरन् । अवं॑त्यस्य पवी॒तार॑मा॒शवो॑ दि॒वस्पृ॒ष्ठमधि॑ तिष्ठंति॒ चेत॑सा ॥
तपोः॑ , प॒वित्रं॑ , विऽत॑तं , दि॒वः , प॒दे , शोचं॑तः , अ॒स्य॒ , तंत॑वः , वि , अ॒स्थि॒र॒न् । अवं॑ति , अ॒स्य॒ , प॒वि॒तारं॑ , आ॒शवः॑ , दि॒वः , पृ॒ष्ठं , अधि॑ , ति॒ष्ठं॒ति॒ , चेत॑सा ॥
अरू॑रुचदु॒षसः॒ पृश्नि॑रग्रि॒य उ॒क्षा बि॑भर्ति॒ भुव॑नानि वाज॒युः । मा॒या॒विनो॑ ममिरे अस्य मा॒यया॑ नृ॒चक्ष॑सः पि॒तरो॒ गर्भ॒मा द॑धुः ॥
अरू॑रुचत् , उ॒षसः॑ , पृश्निः॑ , अ॒ग्रि॒यः , उ॒क्षा , बि॒भ॒र्ति॒ , भुव॑नानि , वा॒ज॒ऽयुः । मा॒या॒ऽविनः॑ , म॒मि॒रे॒ , अ॒स्य॒ , मा॒यया॑ , नृ॒ऽचक्ष॑सः , पि॒तरः॑ , गर्भं॑ , आ , द॒धुः॒ ॥
गं॒ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः । गृ॒भ्णाति॑ रि॒पुं नि॒धया॑ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा॑शत ॥
गं॒ध॒र्वः , इ॒त्था , प॒दं , अ॒स्य॒ , र॒क्ष॒ति॒ , पाति॑ , दे॒वानां॑ , जनि॑मानि , अद्भु॑तः । गृ॒भ्णाति॑ , रि॒पुं , नि॒ऽधया॑ , नि॒धाऽप॑तिः , सु॒कृत्ऽत॑माः , मधु॑नः , भ॒क्षं , आ॒श॒त॒ ॥
ह॒विर्ह॑विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा॑नः॒ परि॑ यास्यध्व॒रं । राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टिर्जयसि॒ श्रवो॑ बृ॒हत् ॥
ह॒विः , ह॒वि॒ष्मः॒ , महि॑ , सद्म॑ , दैव्यं॑ , नभः॑ , वसा॑नः , परि॑ , या॒सि॒ , अ॒ध्व॒रं । राजा॑ , प॒वित्र॑ऽरथः , वाजं॑ , आ , अ॒रु॒हः॒ , स॒हस्र॑ऽभृष्टिः , ज॒य॒सि॒ , श्रवः॑ , बृ॒हत् ॥
[८४] पवस्वेति पंचर्चस्य सूक्तस्य वाच्यः प्रजापतिः पवमानः सोमोजगती |
पव॑स्व देव॒माद॑नो॒ विच॑र्षणिर॒प्सा इंद्रा॑य॒ वरु॑णाय वा॒यवे॑ । कृ॒धी नो॑ अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुक्षि॒तौ गृ॑णीहि॒ दैव्यं॒ जनं॑ ॥
पव॑स्व , दे॒व॒ऽमाद॑नः , विऽच॑र्षणिः , अ॒प्साः , इंद्रा॑य , वरु॑णाय , वा॒यवे॑ । कृ॒धि , नः॒ , अ॒द्य , वरि॑वः , स्व॒स्ति॒ऽमत् , उ॒रु॒ऽक्षि॒तौ , गृ॒णी॒हि॒ , दैव्यं॑ , जनं॑ ॥
आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा॑नि॒ सोमः॒ परि॒ तान्य॑र्षति । कृ॒ण्वंत्सं॒चृतं॑ वि॒चृत॑म॒भिष्ट॑य॒ इंदुः॑ सिषक्त्यु॒षसं॒ न सूर्यः॑ ॥
आ , यः , त॒स्थौ , भुव॑नानि , अम॑र्त्यः , विश्वा॑नि , सोमः॑ , परि॑ , तानि॑ , अ॒र्ष॒ति॒ । कृ॒ण्वन् , सं॒ऽचृतं॑ , वि॒ऽचृतं॑ , अ॒भिष्ट॑ये , इंदुः॑ , सि॒स॒क्ति॒ , उ॒षसं॑ , न , सूर्यः॑ ॥
आ यो गोभिः॑ सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां॑ सु॒म्न इ॒षय॒न्नुपा॑वसुः । आ वि॒द्युता॑ पवते॒ धार॑या सु॒त इंद्रं॒ सोमो॑ मा॒दयं॒दैव्यं॒ जनं॑ ॥
आ , यः , गोभिः॑ , सृ॒ज्यते॑ , ओष॑धीषु , आ , दे॒वानां॑ , सु॒म्ने , इ॒षय॑न् , उप॑ऽवसुः । आ , वि॒ऽद्युता॑ , प॒व॒ते॒ , धार॑या , सु॒तः , इंद्रं॑ , सोमः॑ , मा॒दय॑न् , दैव्यं॑ , जनं॑ ॥
ए॒ष स्य सोमः॑ पवते सहस्र॒जिद्धि॑न्वा॒नो वाच॑मिषि॒रामु॑ष॒र्बुधं॑ । इंदुः॑ समु॒द्रमुदि॑यर्ति वा॒युभि॒रेंद्र॑स्य॒ हार्दि॑ क॒लशे॑षु सीदति ॥
ए॒षः , स्यः , सोमः॑ , प॒व॒ते॒ , स॒ह॒स्र॒ऽजित् , हि॒न्वा॒नः , वाचं॑ , इ॒षि॒रां , उ॒षः॒ऽबुधं॑ । इंदुः॑ , स॒मु॒द्रं , उत् , इ॒य॒र्ति॒ , वा॒युऽभिः॑ , आ , इंद्र॑स्य , हार्दि॑ , क॒लशे॑षु , सी॒द॒ति॒ ॥
अ॒भि त्यं गावः॒ पय॑सा पयो॒वृधं॒ सोमं॑ श्रीणंति म॒तिभिः॑ स्व॒र्विदं॑ । ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्रः॑ क॒विः काव्ये॑ना॒ स्व॑र्चनाः ॥
अ॒भि , त्यं , गावः॑ , पय॑सा , प॒यः॒ऽवृधं॑ , सोमं॑ , श्री॒णं॒ति॒ , म॒तिऽभिः॑ , स्वः॒ऽविदं॑ । ध॒नं॒ऽज॒यः , प॒व॒ते॒ , कृत्व्यः॑ , रसः॑ , विप्रः॑ , क॒विः , काव्ये॑न , स्वः॑ऽचनाः ॥
[८५] इंद्रायेति द्वादशर्चस्य सूक्तस्य भार्गवोवेनः पवमानःसोमो जगत्यंत्येद्वेत्रिष्टुभौ |
इंद्रा॑य सोम॒ सुषु॑तः॒ परि॑ स्र॒वापामी॑वा भवतु॒ रक्ष॑सा स॒ह । मा ते॒ रस॑स्य मत्सत द्वया॒विनो॒ द्रवि॑णस्वंत इ॒ह सं॒त्विंद॑वः ॥
इंद्रा॑य , सो॒म॒ , सुऽसु॑तः , परि॑ , स्र॒व॒ , अप॑ , अमी॑वा , भ॒व॒तु॒ , रक्ष॑सा , स॒ह । मा , ते॒ , रस॑स्य , म॒त्स॒त॒ , द्व॒या॒विनः॑ , द्रवि॑णस्वंतः , इ॒ह , सं॒तु॒ , इंद॑वः ॥
अ॒स्मांत्स॑म॒र्ये प॑वमान चोदय॒ दक्षो॑ दे॒वाना॒मसि॒ हि प्रि॒यो मदः॑ । ज॒हि शत्रूँ॑र॒भ्या भं॑दनाय॒तः पिबें॑द्र॒ सोम॒मव॑ नो॒ मृधो॑ जहि ॥
अ॒स्मान् , स॒ऽम॒र्ये , प॒व॒मा॒न॒ , चो॒द॒य॒ , दक्षः॑ , दे॒वानां॑ , असि॑ , हि , प्रि॒यः , मदः॑ । ज॒हि , शत्रू॑न् , अ॒भि , आ , भं॒द॒ना॒ऽय॒तः , पिब॑ , इं॒द्र॒ , सोमं॑ , अव॑ , नः॒ , मृधः॑ , ज॒हि॒ ॥
अद॑ब्ध इंदो पवसे म॒दिंत॑म आ॒त्मेंद्र॑स्य भवसि धा॒सिरु॑त्त॒मः । अ॒भि स्व॑रंति ब॒हवो॑ मनी॒षिणो॒ राजा॑नम॒स्य भुव॑नस्य निंसते ॥
अद॑ब्धः , इं॒दो॒ इति॑ , प॒व॒से॒ , म॒दिन्ऽत॑मः , आ॒त्मा , इंद्र॑स्य , भ॒व॒सि॒ , धा॒सिः , उ॒त्ऽत॒मः । अ॒भि , स्व॒रं॒ति॒ , ब॒हवः॑ , म॒नी॒षिणः॑ , राजा॑नं , अ॒स्य , भुव॑नस्य , निं॒स॒ते॒ ॥
स॒हस्र॑णीथः श॒तधा॑रो॒ अद्भु॑त॒ इंद्रा॒येंदुः॑ पवते॒ काम्यं॒ मधु॑ । जय॒न्क्षेत्र॑म॒भ्य॑र्षा॒ जय॑न्न॒प उ॒रुं नो॑ गा॒तुं कृ॑णु सोम मीढ्वः ॥
स॒हस्र॑ऽनीथः , श॒तऽधा॑रः , अद्भु॑तः , इंद्रा॑य , इंदुः॑ , प॒व॒ते॒ , काम्यं॑ , मधु॑ । जय॑न् , क्षेत्रं॑ , अ॒भि , अ॒र्ष॒ , जय॑न् , अ॒पः , उ॒रुं , नः॒ , गा॒तुं , कृ॒णु॒ , सो॒म॒ , मी॒ढ्वः॒ ॥
कनि॑क्रदत्क॒लशे॒ गोभि॑रज्यसे॒ व्य१॒॑व्ययं॑ स॒मया॒ वार॑मर्षसि । म॒र्मृ॒ज्यमा॑नो॒ अत्यो॒ न सा॑न॒सिरिंद्र॑स्य सोम ज॒ठरे॒ सम॑क्षरः ॥
कनि॑क्रदत् , क॒लशे॑ , गोभिः॑ , अ॒ज्य॒से॒ , वि , अ॒व्ययं॑ , स॒मया॑ , वारं॑ , अ॒र्ष॒सि॒ । म॒र्मृ॒ज्यमा॑नः , अत्यः॑ , न , सा॒न॒सिः , इंद्र॑स्य , सो॒म॒ , ज॒ठरे॑ , सं , अ॒क्ष॒रः॒ ॥
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिंद्रा॑य सु॒हवी॑तुनाम्ने । स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑माँ॒ अदा॑भ्यः ॥
स्वा॒दुः , प॒व॒स्व॒ , दि॒व्याय॑ , जन्म॑ने , स्वा॒दुः , इंद्रा॑य , सु॒हवी॑तुऽनाम्ने । स्वा॒दुः , मि॒त्राय॑ , वरु॑णाय , वा॒यवे॑ , बृह॒स्पत॑ये , मधु॑ऽमान् , अदा॑भ्यः ॥
अत्यं॑ मृजंति क॒लशे॒ दश॒ क्षिपः॒ प्र विप्रा॑णां म॒तयो॒ वाच॑ ईरते । पव॑माना अ॒भ्य॑र्षंति सुष्टु॒तिमेंद्रं॑ विशंति मदि॒रास॒ इंद॑वः ॥
अत्यं॑ , मृ॒जं॒ति॒ , क॒लशे॑ , दश॑ , क्षिपः॑ , प्र , विप्रा॑णां , म॒तयः॑ , वाचः॑ , ई॒र॒ते॒ । पव॑मानाः , अ॒भि , अ॒र्षं॒ति॒ , सु॒ऽस्तु॒तिं , आ , इंद्रं॑ , वि॒शं॒ति॒ , म॒दि॒रासः॑ , इंद॑वः ॥
पव॑मानो अ॒भ्य॑र्षा सु॒वीर्य॑मु॒र्वीं गव्यू॑तिं॒ महि॒ शर्म॑ स॒प्रथः॑ । माकि॑र्नो अ॒स्य परि॑षूतिरीश॒तेंदो॒ जये॑म॒ त्वया॒ धनं॑धनं ॥
पव॑मानः , अ॒भि , अ॒र्ष॒ , सु॒ऽवीर्यं॑ , उ॒र्वीं , गव्यू॑तिं , महि॑ , शर्म॑ , स॒ऽप्रथः॑ । माकिः॑ , नः॒ , अ॒स्य , परि॑ऽसूतिः , ई॒श॒त॒ , इंदो॒ इति॑ , जये॑म , त्वया॑ , धनं॑ऽधनं ॥
अधि॒ द्याम॑स्थाद्वृष॒भो वि॑चक्ष॒णोऽरू॑रुच॒द्वि दि॒वो रो॑च॒ना क॒विः । राजा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वद्दि॒वः पी॒यूषं॑ दुहते नृ॒चक्ष॑सः ॥
अधि॑ , द्यां , अ॒स्था॒त् , वृ॒ष॒भः , वि॒ऽच॒क्ष॒णः , अरू॑रुचत् , वि , दि॒वः , रो॒च॒ना , क॒विः । राजा॑ , प॒वित्रं॑ , अति॑ , ए॒ति॒ , रोरु॑वत् , दि॒वः , पी॒यूषं॑ , दु॒ह॒ते॒ , नृ॒ऽचक्ष॑सः ॥
दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतो॑ वे॒ना दु॑हंत्यु॒क्षणं॑ गिरि॒ष्ठां । अ॒प्सु द्र॒प्सं वा॑वृधा॒नं स॑मु॒द्र आ सिंधो॑रू॒र्मा मधु॑मंतं प॒वित्र॒ आ ॥
दि॒वः , नाके॑ , मधु॑ऽजिह्वाः , अ॒स॒श्चतः॑ , वे॒नाः , दु॒हं॒ति॒ , उ॒क्षणं॑ , गि॒रि॒ऽस्थां । अ॒प्ऽसु , द्र॒प्सं , व॒वृ॒धा॒नं , स॒मु॒द्रे , आ , सिंधोः॑ , ऊ॒र्मा , मधु॑ऽमंतं , प॒वित्रे॑ , आ ॥
नाके॑ सुप॒र्णमु॑पपप्ति॒वांसं॒ गिरो॑ वे॒नाना॑मकृपंत पू॒र्वीः । शिशुं॑ रिहंति म॒तयः॒ पनि॑प्नतं हिर॒ण्ययं॑ शकु॒नं क्षाम॑णि॒ स्थां ॥
नाके॑ , सु॒ऽप॒र्णं , उ॒प॒प॒प्ति॒ऽवांसं॑ , गिरः॑ , वे॒नानां॑ , अ॒कृ॒पं॒त॒ , पू॒र्वीः । शिशुं॑ , रि॒हं॒ति॒ , म॒तयः॑ , पनि॑प्नतं , हि॒र॒ण्ययं॑ , श॒कु॒नं , क्षाम॑णि , स्थां॒ ॥
ऊ॒र्ध्वो गं॑ध॒र्वो अधि॒ नाके॑ अस्था॒द्विश्वा॑ रू॒पा प्र॑ति॒चक्षा॑णो अस्य । भा॒नुः शु॒क्रेण॑ शो॒चिषा॒ व्य॑द्यौ॒त्प्रारू॑रुच॒द्रोद॑सी मा॒तरा॒ शुचिः॑ ॥
ऊ॒र्ध्वः , गं॒ध॒र्वः , अधि॑ , नाके॑ , अ॒स्था॒त् , विश्वा॑ , रू॒पा , प्र॒ति॒ऽचक्षा॑णः , अ॒स्य॒ । भा॒नुः , शु॒क्रेण॑ , शो॒चिषा॑ , वि , अ॒द्यौ॒त् , प्र , अ॒रू॒रु॒च॒त् , रोद॑सी॒ इति॑ , मा॒तरा॑ , शुचिः॑ ॥
[८६] प्रतआशवइत्यष्टाचत्वारिंशदृचस्य सूक्तस्य आद्यानांदशानामकृष्टामाषाऋषयः एकादश्यादिदशानांसिकतानिवावरी एकविंश्यादिदशानां पृश्नियोजाः एकत्रिंश्यादिदशानामत्रेयः एकचत्वारिंश्यादिपंचानांभौमोत्रिः अत्यानांतिसृणां शौनकोगृत्समदः पवमानः सोमोजगती |
प्र त॑ आ॒शवः॑ पवमान धी॒जवो॒ मदा॑ अर्षंति रघु॒जा इ॑व॒ त्मना॑ । दि॒व्याः सु॑प॒र्णा मधु॑मंत॒ इंद॑वो म॒दिंत॑मासः॒ परि॒ कोश॑मासते ॥
प्र , ते॒ , आ॒शवः॑ , प॒व॒मा॒न॒ , धी॒ऽजवः॑ , मदाः॑ , अ॒र्षं॒ति॒ , र॒घु॒जाःऽइ॑व , त्मना॑ । दि॒व्याः , सु॒ऽप॒र्णाः , मधु॑ऽमंतः , इंद॑वः , म॒दिन्ऽत॑मासः , परि॑ , कोशं॑ , आ॒स॒ते॒ ॥
प्र ते॒ मदा॑सो मदि॒रास॑ आ॒शवोऽसृ॑क्षत॒ रथ्या॑सो॒ यथा॒ पृथ॑क् । धे॒नुर्न व॒त्सं पय॑सा॒भि व॒ज्रिण॒मिंद्र॒मिंद॑वो॒ मधु॑मंत ऊ॒र्मयः॑ ॥
प्र , ते॒ , मदा॑सः , म॒दि॒रासः॑ , आ॒शवः॑ , असृ॑क्षत , रथ्या॑सः , यथा॑ , पृथ॑क् । धे॒नुः , न , व॒त्सं , पय॑सा , अ॒भि , व॒ज्रिणं॑ , इंद्रं॑ , इंद॑वः , मधु॑ऽमंतः , ऊ॒र्मयः॑ ॥
अत्यो॒ न हि॑या॒नो अ॒भि वाज॑मर्ष स्व॒र्वित्कोशं॑ दि॒वो अद्रि॑मातरं । वृषा॑ प॒वित्रे॒ अधि॒ सानो॑ अ॒व्यये॒ सोमः॑ पुना॒न इं॑द्रि॒याय॒ धाय॑से ॥
अत्यः॑ , न , हि॒या॒नः , अ॒भि , वाजं॑ , अ॒र्ष॒ , स्वः॒ऽवित् , कोशं॑ , दि॒वः , अद्रि॑ऽमातरं । वृषा॑ , प॒वित्रे॑ , अधि॑ , सानौ॑ , अ॒व्यये॑ , सोमः॑ , पु॒ना॒नः , इं॒द्रि॒याय॑ , धाय॑से ॥
प्र त॒ आश्वि॑नीः पवमान धी॒जुवो॑ दि॒व्या अ॑सृग्र॒न्पय॑सा॒ धरी॑मणि । प्रांतर्ऋष॑यः॒ स्थावि॑रीरसृक्षत॒ ये त्वा॑ मृ॒जंत्यृ॑षिषाण वे॒धसः॑ ॥
प्र , ते॒ , आश्वि॑नीः , प॒व॒मा॒न॒ , धी॒ऽजुवः॑ , दि॒व्याः , अ॒सृ॒ग्र॒न् , पय॑सा , धरी॑मणि । प्र , अं॒तः , ऋष॑यः , स्थावि॑रीः , अ॒सृ॒क्ष॒त॒ , ये , त्वा॒ , मृ॒जंति॑ , ऋ॒षि॒ऽसा॒न॒ , वे॒धसः॑ ॥
विश्वा॒ धामा॑नि विश्वचक्ष॒ ऋभ्व॑सः प्र॒भोस्ते॑ स॒तः परि॑ यंति के॒तवः॑ । व्या॒न॒शिः प॑वसे सोम॒ धर्म॑भिः॒ पति॒र्विश्व॑स्य॒ भुव॑नस्य राजसि ॥
विश्वा॑ , धामा॑नि , वि॒श्व॒ऽच॒क्षः॒ , ऋभ्व॑सः , प्र॒ऽभोः , ते॒ , स॒तः , परि॑ , यं॒ति॒ , के॒तवः॑ । वि॒ऽआ॒न॒शिः , प॒व॒से॒ , सो॒म॒ , धर्म॑ऽभिः , पतिः॑ , विश्व॑स्य , भुव॑नस्य , रा॒ज॒सि॒ ॥
उ॒भ॒यतः॒ पव॑मानस्य र॒श्मयो॑ ध्रु॒वस्य॑ स॒तः परि॑ यंति के॒तवः॑ । यदी॑ प॒वित्रे॒ अधि॑ मृ॒ज्यते॒ हरिः॒ सत्ता॒ नि योना॑ क॒लशे॑षु सीदति ॥
उ॒भ॒यतः॑ , पव॑मानस्य , र॒श्मयः॑ , ध्रु॒वस्य॑ , स॒तः , परि॑ , यं॒ति॒ , के॒तवः॑ । यदि॑ , प॒वित्रे॑ , अधि॑ , मृ॒ज्यते॑ , हरिः॑ , सत्ता॑ , नि , योना॑ , क॒लशे॑षु , सी॒द॒ति॒ ॥
य॒ज्ञस्य॑ के॒तुः प॑वते स्वध्व॒रः सोमो॑ दे॒वाना॒मुप॑ याति निष्कृ॒तं । स॒हस्र॑धारः॒ परि॒ कोश॑मर्षति॒ वृषा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वत् ॥
य॒ज्ञस्य॑ , के॒तुः , प॒व॒ते॒ , सु॒ऽअ॒ध्व॒रः , सोमः॑ , दे॒वानां॑ , उप॑ , या॒ति॒ , निः॒ऽकृ॒तं । स॒हस्र॑ऽधारः , परि॑ , कोशं॑ , अ॒र्ष॒ति॒ , वृषा॑ , प॒वित्रं॑ , अति॑ , ए॒ति॒ , रोरु॑वत् ॥
राजा॑ समु॒द्रं न॒द्यो॒३॒॑ वि गा॑हते॒ऽपामू॒र्मिं स॑चते॒ सिंधु॑षु श्रि॒तः । अध्य॑स्था॒त्सानु॒ पव॑मानो अ॒व्ययं॒ नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वः ॥
राजा॑ , स॒मु॒द्रं , न॒द्यः॑ , वि , गा॒ह॒ते॒ , अ॒पां , ऊ॒र्मिं , स॒च॒ते॒ , सिंधु॑षु , श्रि॒तः । अधि॑ , अ॒स्था॒त् , सानु॑ , पव॑मानः , अ॒व्ययं॑ , नाभा॑ , पृ॒थि॒व्याः , ध॒रुणः॑ , म॒हः , दि॒वः ॥
दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रद॒द्द्यौश्च॒ यस्य॑ पृथि॒वी च॒ धर्म॑भिः । इंद्र॑स्य स॒ख्यं प॑वते वि॒वेवि॑द॒त्सोमः॑ पुना॒नः क॒लशे॑षु सीदति ॥
दि॒वः , न , सानु॑ , स्त॒नय॑न् , अ॒चि॒क्र॒द॒त् , द्यौः , च॒ , यस्य॑ , पृ॒थि॒वी , च॒ , धर्म॑ऽभिः । इंद्र॑स्य , स॒ख्यं , प॒व॒ते॒ , वि॒ऽवेवि॑दत् , सोमः॑ , पु॒ना॒नः , क॒लशे॑षु , सी॒द॒ति॒ ॥
ज्योति॑र्य॒ज्ञस्य॑ पवते॒ मधु॑ प्रि॒यं पि॒ता दे॒वानां॑ जनि॒ता वि॒भूव॑सुः । दधा॑ति॒ रत्नं॑ स्व॒धयो॑रपी॒च्यं॑ म॒दिंत॑मो मत्स॒र इं॑द्रि॒यो रसः॑ ॥
ज्योतिः॑ , य॒ज्ञस्य॑ , प॒व॒ते॒ , मधु॑ , प्रि॒यं , पि॒ता , दे॒वानां॑ , ज॒नि॒ता , वि॒भुऽव॑सुः । दधा॑ति , रत्नं॑ , स्व॒धयोः॑ , अ॒पी॒च्यं॑ , म॒दिन्ऽत॑मः , म॒त्स॒रः , इं॒द्रि॒यः , रसः॑ ॥
अ॒भि॒क्रंद॑न्क॒लशं॑ वा॒ज्य॑र्षति॒ पति॑र्दि॒वः श॒तधा॑रो विचक्ष॒णः । हरि॑र्मि॒त्रस्य॒ सद॑नेषु सीदति मर्मृजा॒नोऽवि॑भिः॒ सिंधु॑भि॒र्वृषा॑ ॥
अ॒भि॒ऽक्रंद॑न् , क॒लशं॑ , वा॒जी , अ॒र्ष॒ति॒ , पतिः॑ , दि॒वः , श॒तऽधा॑रः , वि॒ऽच॒क्ष॒णः । हरिः॑ , मि॒त्रस्य॑ , सद॑नेषु , सी॒द॒ति॒ , म॒र्मृ॒जा॒नः , अवि॑ऽभिः , सिंधु॑ऽभिः , वृषा॑ ॥
अग्रे॒ सिंधू॑नां॒ पव॑मानो अर्ष॒त्यग्रे॑ वा॒चो अ॑ग्रि॒यो गोषु॑ गच्छति । अग्रे॒ वाज॑स्य भजते महाध॒नं स्वा॑यु॒धः सो॒तृभिः॑ पूयते॒ वृषा॑ ॥
अग्रे॑ , सिंधू॑नां , पव॑मानः , अ॒र्ष॒ति॒ , अग्रे॑ , वा॒चः , अ॒ग्रि॒यः , गोषु॑ , ग॒च्छ॒ति॒ । अग्रे॑ , वाज॑स्य , भ॒ज॒ते॒ , म॒हा॒ऽध॒नं , सु॒ऽआ॒यु॒धः , सो॒तृऽभिः॑ , पू॒य॒ते॒ , वृषा॑ ॥
अ॒यं म॒तवां॑छकु॒नो यथा॑ हि॒तोऽव्ये॑ ससार॒ पव॑मान ऊ॒र्मिणा॑ । तव॒ क्रत्वा॒ रोद॑सी अंत॒रा क॑वे॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इंद्र ते ॥
अ॒यं , म॒तऽवा॑न् , श॒कु॒नः , यथा॑ , हि॒तः , अव्ये॑ , स॒सा॒र॒ , पव॑मानः , ऊ॒र्मिणा॑ । तव॑ , क्रत्वा॑ , रोद॑सी॒ इति॑ , अं॒त॒रा , क॒वे॒ , शुचिः॑ , धि॒या , प॒व॒ते॒ , सोमः॑ , इं॒द्र॒ , ते॒ ॥
द्रा॒पिं वसा॑नो यज॒तो दि॑वि॒स्पृश॑मंतरिक्ष॒प्रा भुव॑ने॒ष्वर्पि॑तः । स्व॑र्जज्ञा॒नो नभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्य पि॒तर॒मा वि॑वासति ॥
द्रा॒पिं , वसा॑नः , य॒ज॒तः , दि॒वि॒ऽस्पृशं॑ , अं॒त॒रि॒क्ष॒ऽप्राः , भुव॑नेषु , अर्पि॑तः । स्वः॑ , ज॒ज्ञा॒नः , नभ॑सा , अ॒भि , अ॒क्र॒मी॒त् , प्र॒त्नं , अ॒स्य॒ , पि॒तरं॑ , आ , वि॒वा॒स॒ति॒ ॥
सो अ॑स्य वि॒शे महि॒ शर्म॑ यच्छति॒ यो अ॑स्य॒ धाम॑ प्रथ॒मं व्या॑न॒शे । प॒दं यद॑स्य पर॒मे व्यो॑म॒न्यतो॒ विश्वा॑ अ॒भि सं या॑ति सं॒यतः॑ ॥
सः , अ॒स्य॒ , वि॒शे , महि॑ , शर्म॑ , य॒च्छ॒ति॒ , यः , अ॒स्य॒ , धाम॑ , प्र॒थ॒मं , वि॒ऽआ॒न॒शे । प॒दं , यत् , अ॒स्य॒ , प॒र॒मे , विऽओ॑मनि , अतः॑ , विश्वाः॑ , अ॒भि , सं , या॒ति॒ , सं॒ऽयतः॑ ॥
प्रो अ॑यासी॒दिंदु॒रिंद्र॑स्य निष्कृ॒तं सखा॒ सख्यु॒र्न प्र मि॑नाति सं॒गिरं॑ । मर्य॑ इव युव॒तिभिः॒ सम॑र्षति॒ सोमः॑ क॒लशे॑ श॒तया॑म्ना प॒था ॥
प्रो इति॑ , अ॒या॒सी॒त् , इंदुः॑ , इंद्र॑स्य , निः॒ऽकृ॒तं , सखा॑ , सख्युः॑ , न , प्र , मि॒ना॒ति॒ , सं॒ऽगिरं॑ । मर्यः॑ऽइव , यु॒व॒तिऽभिः॑ , सं , अ॒र्ष॒ति॒ , सोमः॑ , क॒लशे॑ , श॒तऽया॑म्ना , प॒था ॥
प्र वो॒ धियो॑ मंद्र॒युवो॑ विप॒न्युवः॑ पन॒स्युवः॑ सं॒वस॑नेष्वक्रमुः । सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभो॒ऽभि धे॒नवः॒ पय॑सेमशिश्रयुः ॥
प्र , वः॒ , धियः॑ , मं॒द्र॒ऽयुवः॑ , वि॒प॒न्युवः॑ , प॒न॒स्युवः॑ , सं॒ऽवस॑नेषु , अ॒क्र॒मुः॒ । सोमं॑ , म॒नी॒षाः , अ॒भि , अ॒नू॒ष॒त॒ , स्तुभः॑ , अ॒भि , धे॒नवः॑ , पय॑सा , ईं॒ , अ॒शि॒श्र॒युः॒ ॥
आ नः॑ सोम सं॒यतं॑ पि॒प्युषी॒मिष॒मिंदो॒ पव॑स्व॒ पव॑मानो अ॒स्रिधं॑ । या नो॒ दोह॑ते॒ त्रिरह॒न्नस॑श्चुषी क्षु॒मद्वाज॑व॒न्मधु॑मत्सु॒वीर्यं॑ ॥
आ , नः॒ , सो॒म॒ , सं॒ऽयतं॑ , पि॒प्युषीं॑ , इषं॑ , इंदो॒ इति॑ , पव॑स्व , पव॑मानः , अ॒स्रिधं॑ । या , नः॒ , दोह॑ते , त्रिः , अह॑न् , अस॑श्चुषी , क्षु॒ऽमत् , वाज॑ऽवत् , मधु॑ऽमत् , सु॒ऽवीर्यं॑ ॥
वृषा॑ मती॒नां प॑वते विचक्ष॒णः सोमो॒ अह्नः॑ प्रतरी॒तोषसो॑ दि॒वः । क्रा॒णा सिंधू॑नां क॒लशाँ॑ अवीवश॒दिंद्र॑स्य॒ हार्द्या॑वि॒शन्म॑नी॒षिभिः॑ ॥
वृषा॑ , म॒ती॒नां , प॒व॒ते॒ , वि॒ऽच॒क्ष॒णः , सोमः॑ , अह्नः॑ , प्र॒ऽत॒री॒ता , उ॒षसः॑ , दि॒वः । क्रा॒णा , सिंधू॑नां , क॒लशा॑न् , अ॒वी॒व॒श॒त् , इंद्र॑स्य , हार्दि॑ , आ॒ऽवि॒शन् , म॒नी॒षिऽभिः॑ ॥
म॒नी॒षिभिः॑ पवते पू॒र्व्यः क॒विर्नृभि॑र्य॒तः परि॒ कोशाँ॑ अचिक्रदत् । त्रि॒तस्य॒ नाम॑ ज॒नय॒न्मधु॑ क्षर॒दिंद्र॑स्य वा॒योः स॒ख्याय॒ कर्त॑वे ॥
म॒नी॒षिऽभिः॑ , प॒व॒ते॒ , पू॒र्व्यः , क॒विः , नृऽभिः॑ , य॒तः , परि॑ , कोशा॑न् , अ॒चि॒क्र॒द॒त् । त्रि॒तस्य॑ , नाम॑ , ज॒नय॑न् , मधु॑ , क्ष॒र॒त् , इंद्र॑स्य , वा॒योः , स॒ख्याय॑ , कर्त॑वे ॥
अ॒यं पु॑ना॒न उ॒षसो॒ वि रो॑चयद॒यं सिंधु॑भ्यो अभवदु लोक॒कृत् । अ॒यं त्रिः स॒प्त दु॑दुहा॒न आ॒शिरं॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥
अ॒यं , पु॒ना॒नः , उ॒षसः॑ , वि , रो॒च॒य॒त् , अ॒यं , सिंधु॑ऽभ्यः , अ॒भ॒व॒त् , ऊँ॒ इति॑ , लो॒क॒ऽकृत् । अ॒यं , त्रिः , स॒प्त , दु॒दु॒हा॒नः , आ॒ऽशिरं॑ , सोमः॑ , हृ॒दे , प॒व॒ते॒ , चारु॑ , म॒त्स॒रः ॥
पव॑स्व सोम दि॒व्येषु॒ धाम॑सु सृजा॒न इं॑दो क॒लशे॑ प॒वित्र॒ आ । सीद॒न्निंद्र॑स्य ज॒ठरे॒ कनि॑क्रद॒न्नृभि॑र्य॒तः सूर्य॒मारो॑हयो दि॒वि ॥
पव॑स्व , सो॒म॒ , दि॒व्येषु॑ , धाम॑ऽसु , सृ॒जा॒नः , इं॒दो॒ इति॑ , क॒लशे॑ , प॒वित्रे॑ , आ । सीद॑न् , इंद्र॑स्य , ज॒ठरे॑ , कनि॑क्रदत् , नृऽभिः॑ , य॒तः , सूर्यं॑ , आ , अ॒रो॒ह॒यः॒ , दि॒वि ॥
अद्रि॑भिः सु॒तः प॑वसे प॒वित्र॒ आँ इंद॒विंद्र॑स्य ज॒ठरे॑ष्वावि॒शन् । त्वं नृ॒चक्षा॑ अभवो विचक्षण॒ सोम॑ गो॒त्रमंगि॑रोभ्योऽवृणो॒रप॑ ॥
अद्रि॑ऽभिः , सु॒तः , प॒व॒से॒ , प॒वित्रे॑ , आ , इंदो॒ इति॑ , इंद्र॑स्य , ज॒ठरे॑षु , आ॒ऽवि॒शन् । त्वं , नृ॒ऽचक्षाः॑ , अ॒भ॒वः॒ , वि॒ऽच॒क्ष॒ण॒ , सोम॑ , गो॒त्रं , अंगि॑रःऽभ्यः , अ॒वृ॒णोः॒ , अप॑ ॥
त्वां सो॑म॒ पव॑मानं स्वा॒ध्योऽनु॒ विप्रा॑सो अमदन्नव॒स्यवः॑ । त्वां सु॑प॒र्ण आभ॑रद्दि॒वस्परींदो॒ विश्वा॑भिर्म॒तिभिः॒ परि॑ष्कृतं ॥
त्वां , सो॒म॒ , पव॑मानं , सु॒ऽआ॒ध्यः॑ , अनु॑ , विप्रा॑सः , अ॒म॒द॒न् , अ॒व॒स्यवः॑ । त्वां , सु॒ऽप॒र्णः , आ , अ॒भ॒र॒त् , दि॒वः , परि॑ , इंदो॒ इति॑ , विश्वा॑भिः , म॒तिऽभिः॑ , परि॑ऽकृतं ॥
अव्ये॑ पुना॒नं परि॒ वार॑ ऊ॒र्मिणा॒ हरिं॑ नवंते अ॒भि स॒प्त धे॒नवः॑ । अ॒पामु॒पस्थे॒ अध्या॒यवः॑ क॒विमृ॒तस्य॒ योना॑ महि॒षा अ॑हेषत ॥
अव्ये॑ , पु॒ना॒नं , परि॑ , वारे॑ , ऊ॒र्मिणा॑ , हरिं॑ , न॒वं॒ते॒ , अ॒भि , स॒प्त , धे॒नवः॑ । अ॒पां , उ॒पऽस्थे॑ , अधि॑ , आ॒यवः॑ , क॒विं , ऋ॒तस्य॑ , योना॑ , म॒हि॒षाः , अ॒हे॒ष॒त॒ ॥
इंदुः॑ पुना॒नो अति॑ गाहते॒ मृधो॒ विश्वा॑नि कृ॒ण्वंत्सु॒पथा॑नि॒ यज्य॑वे । गाः कृ॑ण्वा॒नो नि॒र्णिजं॑ हर्य॒तः क॒विरत्यो॒ न क्रीळ॒न्परि॒ वार॑मर्षति ॥
इंदुः॑ , पु॒ना॒नः , अति॑ , गा॒ह॒ते॒ , मृधः॑ , विश्वा॑नि , कृ॒ण्वन् , सु॒ऽपथा॑नि , यज्य॑वे । गाः , कृ॒ण्वा॒नः , निः॒ऽनिजं॑ , ह॒र्य॒तः , क॒विः , अत्यः॑ , न , क्रीळ॑न् , परि॑ , वारं॑ , अ॒र्ष॒ति॒ ॥
अ॒स॒श्चतः॑ श॒तधा॑रा अभि॒श्रियो॒ हरिं॑ नवं॒तेऽव॒ ता उ॑द॒न्युवः॑ । क्षिपो॑ मृजंति॒ परि॒ गोभि॒रावृ॑तं तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥
अ॒स॒श्चतः॑ , श॒तऽधा॑राः , अ॒भि॒ऽश्रियः॑ , हरिं॑ , न॒वं॒ते॒ , अव॑ , ताः , उ॒द॒न्युवः॑ । क्षिपः॑ , मृ॒जं॒ति॒ , परि॑ , गोभिः॑ , आऽवृ॑तं , तृ॒तीये॑ , पृ॒ष्ठे , अधि॑ , रो॒च॒ने , दि॒वः ॥
तवे॒माः प्र॒जा दि॒व्यस्य॒ रेत॑स॒स्त्वं विश्व॑स्य॒ भुव॑नस्य राजसि । अथे॒दं विश्वं॑ पवमान ते॒ वशे॒ त्वमिं॑दो प्रथ॒मो धा॑म॒धा अ॑सि ॥
तव॑ , इ॒माः , प्र॒ऽजाः , दि॒व्यस्य॑ , रेत॑सः , त्वं , विश्व॑स्य , भुव॑नस्य , रा॒ज॒सि॒ । अथ॑ , इ॒दं , विश्वं॑ , प॒व॒मा॒न॒ , ते॒ , वशे॑ , त्वं , इं॒दो॒ इति॑ , प्र॒थ॒मः , धा॒म॒ऽधाः , अ॒सि॒ ॥
त्वं स॑मु॒द्रो अ॑सि विश्व॒वित्क॑वे॒ तवे॒माः पंच॑ प्र॒दिशो॒ विध॑र्मणि । त्वं द्यां च॑ पृथि॒वीं चाति॑ जभ्रिषे॒ तव॒ ज्योतीं॑षि पवमान॒ सूर्यः॑ ॥
त्वं , स॒मु॒द्रः , अ॒सि॒ , वि॒श्व॒ऽवित् , क॒वे॒ , तव॑ , इ॒माः , पंच॑ , प्र॒ऽदिशः॑ , विऽध॑र्मणि । त्वं , द्यां , च॒ , पृ॒थि॒वीं , च॒ , अति॑ , ज॒भ्रि॒षे॒ , तव॑ , ज्योतीं॑षि , प॒व॒मा॒न॒ , सूर्यः॑ ॥
त्वं प॒वित्रे॒ रज॑सो॒ विध॑र्मणि दे॒वेभ्यः॑ सोम पवमान पूयसे । त्वामु॒शिजः॑ प्रथ॒मा अ॑गृभ्णत॒ तुभ्ये॒मा विश्वा॒ भुव॑नानि येमिरे ॥
त्वं , प॒वित्रे॑ , रज॑सः , विऽध॑र्मणि , दे॒वेभ्यः॑ , सो॒म॒ , प॒व॒मा॒न॒ , पू॒य॒से॒ । त्वां , उ॒शिजः॑ , प्र॒थ॒माः , अ॒गृ॒भ्ण॒त॒ , तुभ्य॑ , इ॒मा , विश्वा॑ , भुव॑नानि , ये॒मि॒रे॒ ॥
प्र रे॒भ ए॒त्यति॒ वार॑म॒व्ययं॒ वृषा॒ वने॒ष्वव॑ चक्रद॒द्धरिः॑ । सं धी॒तयो॑ वावशा॒ना अ॑नूषत॒ शिशुं॑ रिहंति म॒तयः॒ पनि॑प्नतं ॥
प्र , रे॒भः , ए॒ति॒ , अति॑ , वारं॑ , अ॒व्ययं॑ , वृषा॑ , वने॑षु , अव॑ , च॒क्र॒द॒त् , हरिः॑ । सं , धी॒तयः॑ , वा॒व॒शा॒नाः , अ॒नू॒ष॒त॒ , शिशुं॑ , रि॒हं॒ति॒ , म॒तयः॑ , पनि॑प्नतं ॥
स सूर्य॑स्य र॒श्मिभिः॒ परि॑ व्यत॒ तंतुं॑ तन्वा॒नस्त्रि॒वृतं॒ यथा॑ वि॒दे । नय॑न्नृ॒तस्य॑ प्र॒शिषो॒ नवी॑यसीः॒ पति॒र्जनी॑ना॒मुप॑ याति निष्कृ॒तं ॥
सः , सूर्य॑स्य , र॒श्मिऽभिः॑ , परि॑ , व्य॒त॒ , तंतुं॑ , त॒न्वा॒नः , त्रि॒ऽवृतं॑ , यथा॑ , वि॒दे । नय॑न् , ऋ॒तस्य॑ , प्र॒ऽशिषः॑ , नवी॑यसीः , पतिः॑ , जनी॑नां , उप॑ , या॒ति॒ , निः॒ऽकृ॒तं ॥
राजा॒ सिंधू॑नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभिः॒ कनि॑क्रदत् । स॒हस्र॑धारः॒ परि॑ षिच्यते॒ हरिः॑ पुना॒नो वाचं॑ ज॒नय॒न्नुपा॑वसुः ॥
राजा॑ , सिंधू॑नां , प॒व॒ते॒ , पतिः॑ , दि॒वः , ऋ॒तस्य॑ , या॒ति॒ , प॒थिऽभिः॑ , कनि॑क्रदत् । स॒हस्र॑ऽधारः , परि॑ , सि॒च्य॒ते॒ , हरिः॑ , पु॒ना॒नः , वाचं॑ , ज॒नय॑न् , उप॑ऽवसुः ॥
पव॑मान॒ मह्यर्णो॒ वि धा॑वसि॒ सूरो॒ न चि॒त्रो अव्य॑यानि॒ पव्य॑या । गभ॑स्तिपूतो॒ नृभि॒रद्रि॑भिः सु॒तो म॒हे वाजा॑य॒ धन्या॑य धन्वसि ॥
पव॑मान , महि॑ , अर्णः॑ , वि , धा॒व॒सि॒ , सूरः॑ , न , चि॒त्रः , अव्य॑यानि , पव्य॑या । गभ॑स्तिऽपूतः , नृऽभिः॑ , अद्रि॑ऽभिः , सु॒तः , म॒हे , वाजा॑य , धन्या॑य , ध॒न्व॒सि॒ ॥
इष॒मूर्जं॑ पवमाना॒भ्य॑र्षसि श्ये॒नो न वंसु॑ क॒लशे॑षु सीदसि । इंद्रा॑य॒ मद्वा॒ मद्यो॒ मदः॑ सु॒तो दि॒वो वि॑ष्टं॒भ उ॑प॒मो वि॑चक्ष॒णः ॥
इषं॑ , ऊर्जं॑ , प॒व॒मा॒न॒ , अ॒भि , अ॒र्ष॒सि॒ , श्ये॒नः , न , वंसु॑ , क॒लशे॑षु , सी॒द॒सि॒ । इंद्रा॑य , मद्वा॑ , मद्यः॑ , मदः॑ , सु॒तः , दि॒वः , वि॒ष्टं॒भः , उ॒प॒ऽमः , वि॒ऽच॒क्ष॒णः ॥
स॒प्त स्वसा॑रो अ॒भि मा॒तरः॒ शिशुं॒ नवं॑ जज्ञा॒नं जेन्यं॑ विप॒श्चितं॑ । अ॒पां गं॑ध॒र्वं दि॒व्यं नृ॒चक्ष॑सं॒ सोमं॒ विश्व॑स्य॒ भुव॑नस्य रा॒जसे॑ ॥
स॒प्त , स्वसा॑रः , अ॒भि , मा॒तरः॑ , शिशुं॑ , नवं॑ , ज॒ज्ञा॒नं , जेन्यं॑ , वि॒पः॒ऽचितं॑ । अ॒पां , गं॒ध॒र्वं , दि॒व्यं , नृ॒ऽचक्ष॑सं , सोमं॑ , विश्व॑स्य , भुव॑नस्य , रा॒जसे॑ ॥
ई॒शा॒न इ॒मा भुव॑नानि॒ वीय॑से युजा॒न इं॑दो ह॒रितः॑ सुप॒र्ण्यः॑ । तास्ते॑ क्षरंतु॒ मधु॑मद्घृ॒तं पय॒स्तव॑ व्र॒ते सो॑म तिष्ठंतु कृ॒ष्टयः॑ ॥
ई॒शा॒नः , इ॒मा , भुव॑नानि , वि , ई॒य॒से॒ , यु॒जा॒नः , इं॒दो॒ इति॑ , ह॒रितः॑ , सु॒ऽप॒र्ण्यः॑ । ताः , ते॒ , क्ष॒रं॒तु॒ , मधु॑ऽमत् , घृ॒तं , पयः॑ , तव॑ , व्र॒ते , सो॒म॒ , ति॒ष्ठं॒तु॒ , कृ॒ष्टयः॑ ॥
त्वं नृ॒चक्षा॑ असि सोम वि॒श्वतः॒ पव॑मान वृषभ॒ ता वि धा॑वसि । स नः॑ पवस्व॒ वसु॑म॒द्धिर॑ण्यवद्व॒यं स्या॑म॒ भुव॑नेषु जी॒वसे॑ ॥
त्वं , नृ॒ऽचक्षाः॑ , अ॒सि॒ , सो॒म॒ , वि॒श्वतः॑ , पव॑मान , वृ॒ष॒भ॒ , ता , वि , धा॒व॒सि॒ । सः , नः॒ , प॒व॒स्व॒ , वसु॑ऽमत् , हिर॑ण्यऽवत् , व॒यं , स्या॒म॒ , भुव॑नेषु , जी॒वसे॑ ॥
गो॒वित्प॑वस्व वसु॒विद्धि॑रण्य॒विद्रे॑तो॒धा इं॑दो॒ भुव॑ने॒ष्वर्पि॑तः । त्वं सु॒वीरो॑ असि सोम विश्व॒वित्तं त्वा॒ विप्रा॒ उप॑ गि॒रेम आ॑सते ॥
गो॒ऽवित् , प॒व॒स्व॒ , व॒सु॒ऽवित् , हि॒र॒ण्य॒ऽवित् , रे॒तः॒ऽधाः , इं॒दो॒ इति॑ , भुव॑नेषु , अर्पि॑तः । त्वं , सु॒ऽवीरः॑ , अ॒सि॒ , सो॒म॒ , वि॒श्व॒ऽवित् , तं , त्वा॒ , विप्राः॑ , उप॑ , गि॒रा , इ॒मे , आ॒स॒ते॒ ॥
उन्मध्व॑ ऊ॒र्मिर्व॒नना॑ अतिष्ठिपद॒पो वसा॑नो महि॒षो वि गा॑हते । राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒ श्रवो॑ बृ॒हत् ॥
उत् , मध्वः॑ , ऊ॒र्मिः , व॒ननाः॑ , अ॒ति॒स्थि॒प॒त् , अ॒पः , वसा॑नः , म॒हि॒षः , वि , गा॒ह॒ते॒ । राजा॑ , प॒वित्र॑ऽरथः , वाजं॑ , आ , अ॒रु॒ह॒त् , स॒हस्र॑ऽभृष्टिः , ज॒य॒ति॒ , श्रवः॑ , बृ॒हत् ॥
स भं॒दना॒ उदि॑यर्ति प्र॒जाव॑तीर्वि॒श्वायु॒र्विश्वाः॑ सु॒भरा॒ अह॑र्दिवि । ब्रह्म॑ प्र॒जाव॑द्र॒यिमश्व॑पस्त्यं पी॒त इं॑द॒विंद्र॑म॒स्मभ्यं॑ याचतात् ॥
सः , भं॒दनाः॑ , उत् , इ॒य॒र्ति॒ , प्र॒जाऽव॑तीः , वि॒श्वऽआ॑युः , विश्वाः॑ , सु॒ऽभराः॑ , अहः॑ऽदिवि । ब्रह्म॑ , प्र॒जाऽव॑त् , र॒यिं , अश्व॑ऽपस्त्यं , पी॒तः , इं॒दो॒ इति॑ , इंद्रं॑ , अ॒स्मभ्यं॑ , या॒च॒ता॒त् ॥
सो अग्रे॒ अह्नां॒ हरि॑र्हर्य॒तो मदः॒ प्र चेत॑सा चेतयते॒ अनु॒ द्युभिः॑ । द्वा जना॑ या॒तय॑न्नं॒तरी॑यते॒ नरा॑ च॒ शंसं॒ दैव्यं॑ च ध॒र्तरि॑ ॥
सः , अग्रे॑ , अह्नां॑ , हरिः॑ , ह॒र्य॒तः , मदः॑ , प्र , चेत॑सा , चे॒त॒य॒ते॒ , अनु॑ , द्युऽभिः॑ । द्वा , जना॑ , या॒तय॑न् , अं॒तः , ई॒य॒ते॒ , नरा॒शंसं॑ , च॒ , दैव्यं॑ , च॒ , ध॒र्तरि॑ ॥
अं॒जते॒ व्यं॑जते॒ समं॑जते॒ क्रतुं॑ रिहंति॒ मधु॑ना॒भ्यं॑जते । सिंधो॑रुच्छ्वा॒से प॒तयं॑तमु॒क्षणं॑ हिरण्यपा॒वाः प॒शुमा॑सु गृभ्णते ॥
अं॒जते॑ , वि , अं॒ज॒ते॒ , सं , अं॒ज॒ते॒ , क्रतुं॑ , रि॒हं॒ति॒ , मधु॑ना , अ॒भि , अं॒ज॒ते॒ । सिंधोः॑ , उ॒त्ऽश्वा॒से , प॒तयं॑तं , उ॒क्षणं॑ , हि॒र॒ण्य॒ऽपा॒वाः , प॒शुं , आ॒सु॒ , गृ॒भ्ण॒ते॒ ॥
वि॒प॒श्चिते॒ पव॑मानाय गायत म॒ही न धारात्यंधो॑ अर्षति । अहि॒र्न जू॒र्णामति॑ सर्पति॒ त्वच॒मत्यो॒ न क्रीळ॑न्नसर॒द्वृषा॒ हरिः॑ ॥
वि॒पः॒ऽचिते॑ , पव॑मानाय , गा॒य॒त॒ , म॒ही , न , धारा॑ , अति॑ , अंधः॑ , अ॒र्ष॒ति॒ । अहिः॑ , न , जू॒णां , अति॑ , स॒र्प॒ति॒ , त्वचं॑ , अत्यः॑ , न , क्रीळ॑न् , अ॒स॒र॒त् , वृषा॑ , हरिः॑ ॥
अ॒ग्रे॒गो राजाप्य॑स्तविष्यते वि॒मानो॒ अह्नां॒ भुव॑ने॒ष्वर्पि॑तः । हरि॑र्घृ॒तस्नुः॑ सु॒दृशी॑को अर्ण॒वो ज्यो॒तीर॑थः पवते रा॒य ओ॒क्यः॑ ॥
अ॒ग्रे॒ऽगः , राजा॑ , अप्यः॑ , त॒वि॒ष्य॒ते॒ , वि॒ऽमानः॑ , अह्नां॑ , भुव॑नेषु , अर्पि॑तः । हरिः॑ , घृ॒तऽस्नुः॑ , सु॒ऽदृशी॑कः , अ॒र्ण॒वः , ज्यो॒तिःऽर॑थः , प॒व॒ते॒ , रा॒ये , ओ॒क्यः॑ ॥
अस॑र्जि स्कं॒भो दि॒व उद्य॑तो॒ मदः॒ परि॑ त्रि॒धातु॒र्भुव॑नान्यर्षति । अं॒शुं रि॑हंति म॒तयः॒ पनि॑प्नतं गि॒रा यदि॑ नि॒र्णिज॑मृ॒ग्मिणो॑ य॒युः ॥
अस॑र्जि , स्कं॒भः , दि॒वः , उत्ऽय॑तः , मदः॑ , परि॑ , त्रि॒ऽधातुः॑ , भुव॑नानि , अ॒र्ष॒ति॒ । अं॒शुं , रि॒हं॒ति॒ , म॒तयः॑ , पनि॑प्नतं , गि॒रा , यदि॑ , निः॒ऽनिजं॑ , ऋ॒ग्मिणः॑ , य॒युः ॥
प्र ते॒ धारा॒ अत्यण्वा॑नि मे॒ष्यः॑ पुना॒नस्य॑ सं॒यतो॑ यंति॒ रंह॑यः । यद्गोभि॑रिंदो च॒म्वोः॑ सम॒ज्यस॒ आ सु॑वा॒नः सो॑म क॒लशे॑षु सीदसि ॥
प्र , ते॒ , धाराः॑ , अति॑ , अण्वा॑नि , मे॒ष्यः॑ , पु॒ना॒नस्य॑ , सं॒ऽयतः॑ , यं॒ति॒ , रंह॑यः । यत् , गोभिः॑ , इं॒दो॒ इति॑ , च॒म्वोः॑ , सं॒ऽअ॒ज्यसे॑ , आ , सु॒वा॒नः , सो॒म॒ , क॒लशे॑षु , सी॒द॒सि॒ ॥
पव॑स्व सोम क्रतु॒विन्न॑ उ॒क्थ्योऽव्यो॒ वारे॒ परि॑ धाव॒ मधु॑ प्रि॒यं । ज॒हि विश्वा॑न्र॒क्षस॑ इंदो अ॒त्रिणो॑ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
पव॑स्व , सो॒म॒ , क्र॒तु॒ऽवित् , नः॒ , उ॒क्थ्यः॑ , अव्यः॑ , वारे॑ , परि॑ , धा॒व॒ , मधु॑ , प्रि॒यं । ज॒हि , विश्वा॑न् , र॒क्षसः॑ , इं॒दो॒ इति॑ , अ॒त्रिणः॑ , बृ॒हत् , व॒दे॒म॒ , वि॒दथे॑ , सु॒ऽवीराः॑ ॥
[८७] प्रतुद्रवेति नवर्चस्य सूक्तस्य काव्यउशना पवमानःसोमस्त्रिष्टुप् |
प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी॑द॒ नृभिः॑ पुना॒नो अ॒भि वाज॑मर्ष । अश्वं॒ न त्वा॑ वा॒जिनं॑ म॒र्जयं॒तोऽच्छा॑ ब॒र्ही र॑श॒नाभि॑र्नयंति ॥
प्र , तु , द्र॒व॒ , परि॑ , कोशं॑ , नि , सी॒द॒ , नृऽभिः॑ , पु॒ना॒नः , अ॒भि , वाजं॑ , अ॒र्ष॒ । अश्वं॑ , न , त्वा॒ , वा॒जिनं॑ , म॒र्जयं॑तः , अच्छ॑ , ब॒र्हिः , र॒श॒नाभिः॑ , न॒यं॒ति॒ ॥
स्वा॒यु॒धः प॑वते दे॒व इंदु॑रशस्ति॒हा वृ॒जनं॒ रक्ष॑माणः । पि॒ता दे॒वानां॑ जनि॒ता सु॒दक्षो॑ विष्टं॒भो दि॒वो ध॒रुणः॑ पृथि॒व्याः ॥
सु॒ऽआ॒यु॒धः , प॒व॒ते॒ , दे॒वः , इंदुः॑ , अ॒श॒स्ति॒ऽहा , वृ॒जनं॑ , रक्ष॑माणः । पि॒ता , दे॒वानां॑ , ज॒नि॒ता , सु॒ऽदक्षः॑ , वि॒ष्टं॒भः , दि॒वः , ध॒रुणः॑ , पृ॒थि॒व्याः ॥
ऋषि॒र्विप्रः॑ पुरए॒ता जना॑नामृ॒भुर्धीर॑ उ॒शना॒ काव्ये॑न । स चि॑द्विवेद॒ निहि॑तं॒ यदा॑सामपी॒च्यं१॒॑ गुह्यं॒ नाम॒ गोनां॑ ॥
ऋषिः॑ , विप्रः॑ , पु॒रः॒ऽए॒ता , जना॑नां , ऋ॒भुः , धीरः॑ , उ॒शना॑ , काव्ये॑न । सः , चि॒त् , वि॒वे॒द॒ , निऽहि॑तं , यत् , आ॒सां॒ , अ॒पी॒च्यं॑ , गुह्यं॑ , नाम॑ , गोनां॑ ॥
ए॒ष स्य ते॒ मधु॑माँ इंद्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि॑ प॒वित्रे॑ अक्षाः । स॒ह॒स्र॒साः श॑त॒सा भू॑रि॒दावा॑ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य॑स्थात् ॥
ए॒षः , स्यः , ते॒ , मधु॑ऽमान् , इं॒द्र॒ , सोमः॑ , वृषा॑ , वृष्णे॑ , परि॑ , प॒वित्रे॑ , अ॒क्षा॒रिति॑ । स॒ह॒स्र॒ऽसाः , श॒त॒ऽसाः , भू॒रि॒ऽदावा॑ , श॒श्व॒त्ऽत॒मं , ब॒र्हिः , आ , वा॒जी , अ॒स्था॒त् ॥
ए॒ते सोमा॑ अ॒भि ग॒व्या स॒हस्रा॑ म॒हे वाजा॑या॒मृता॑य॒ श्रवां॑सि । प॒वित्रे॑भिः॒ पव॑माना असृग्रंछ्रव॒स्यवो॒ न पृ॑त॒नाजो॒ अत्याः॑ ॥
ए॒ते , सोमाः॑ , अ॒भि , ग॒व्या , स॒हस्रा॑ , म॒हे , वाजा॑य , अ॒मृता॑य , श्रवां॑सि । प॒वित्रे॑भिः , पव॑मानाः , अ॒सृ॒ग्र॒न् , श्र॒व॒स्यवः॑ , न , पृ॒त॒नाजः॑ , अत्याः॑ ॥
परि॒ हि ष्मा॑ पुरुहू॒तो जना॑नां॒ विश्वास॑र॒द्भोज॑ना पू॒यमा॑नः । अथा भ॑र श्येनभृत॒ प्रयां॑सि र॒यिं तुंजा॑नो अ॒भि वाज॑मर्ष ॥
परि॑ , हि , स्म॒ , पु॒रु॒ऽहू॒तः , जना॑नां , विश्वा॑ , अस॑रत् , भोज॑ना , पू॒यमा॑नः । अथ॑ , आ , भ॒र॒ , श्ये॒न॒ऽभृ॒त॒ , प्रयां॑सि , र॒यिं , तुंजा॑नः , अ॒भि , वाजं॑ , अ॒र्ष॒ ॥
ए॒ष सु॑वा॒नः परि॒ सोमः॑ प॒वित्रे॒ सर्गो॒ न सृ॒ष्टो अ॑दधाव॒दर्वा॑ । ति॒ग्मे शिशा॑नो महि॒षो न शृंगे॒ गा ग॒व्यन्न॒भि शूरो॒ न सत्वा॑ ॥
ए॒षः , सु॒वा॒नः , परि॑ , सोमः॑ , प॒वित्रे॑ , सर्गः॑ , न , सृ॒ष्टः , अ॒द॒धा॒व॒त् , अर्वा॑ । ति॒ग्मे इति॑ , शिशा॑नः , म॒हि॒षः , न , शृंगे॒ इति॑ , गाः , ग॒व्यन् , अ॒भि , शूरः॑ , न , सत्वा॑ ॥
ए॒षा य॑यौ पर॒मादं॒तरद्रेः॒ कूचि॑त्स॒तीरू॒र्वे गा वि॑वेद । दि॒वो न वि॒द्युत्स्त॒नयं॑त्य॒भ्रैः सोम॑स्य ते पवत इंद्र॒ धारा॑ ॥
ए॒षा , आ , य॒यौ॒ , प॒र॒मात् , अं॒तः , अद्रेः॑ , कूऽचि॑त् , स॒तीः , ऊ॒र्वे , गाः , वि॒वे॒द॒ । दि॒वः , न , वि॒ऽद्युत् , स्त॒नयं॑ती , अ॒भ्रैः , सोम॑स्य , ते॒ , प॒व॒ते॒ , इं॒द्र॒ , धारा॑ ॥
उ॒त स्म॑ रा॒शिं परि॑ यासि॒ गोना॒मिंद्रे॑ण सोम स॒रथं॑ पुना॒नः । पू॒र्वीरिषो॑ बृह॒तीर्जी॑रदानो॒ शिक्षा॑ शचीव॒स्तव॒ ता उ॑प॒ष्टुत् ॥
उ॒त , स्म॒ , रा॒शिं , परि॑ , या॒सि॒ , गोनां॑ , इंद्रे॑ण , सो॒म॒ , स॒ऽरथं॑ , पु॒ना॒नः । पू॒र्वीः , इषः॑ , बृ॒ह॒तीः , जी॒र॒दा॒नो॒ इति॑ जीरऽदानो , शिक्ष॑ , श॒ची॒ऽवः॒ , तव॑ , ताः , उ॒प॒ऽस्तुत् ॥
[८८] अयंसोमइत्यष्टर्चस्य सूक्तस्य काव्य उशना पवमानःसोमस्त्रिष्टुप् |
अ॒यं सोम॑ इंद्र॒ तुभ्यं॑ सुन्वे॒ तुभ्यं॑ पवते॒ त्वम॑स्य पाहि । त्वं ह॒ यं च॑कृ॒षे त्वं व॑वृ॒ष इंदुं॒ मदा॑य॒ युज्या॑य॒ सोमं॑ ॥
अ॒यं , सोमः॑ , इं॒द्र॒ , तुभ्यं॑ , सु॒न्वे॒ , तुभ्यं॑ , प॒व॒ते॒ , त्वं , अ॒स्य॒ , पा॒हि॒ । त्वं , ह॒ , यं , च॒कृ॒षे , त्वं , व॒वृ॒षे , इंदुं॑ , मदा॑य , युज्या॑य , सोमं॑ ॥
स ईं॒ रथो॒ न भु॑रि॒षाळ॑योजि म॒हः पु॒रूणि॑ सा॒तये॒ वसू॑नि । आदीं॒ विश्वा॑ नहु॒ष्या॑णि जा॒ता स्व॑र्षाता॒ वन॑ ऊ॒र्ध्वा न॑वंत ॥
सः , ईं॒ , रथः॑ , न , भु॒रि॒षाट् , अ॒यो॒जि॒ , म॒हः , पु॒रूणि॑ , सा॒तये॑ , वसू॑नि । आत् , ईं॒ , विश्वा॑ , न॒हु॒ष्या॑णि , जा॒ता , स्वः॑ऽसाता , वने॑ , ऊ॒र्ध्वा , न॒वं॒त॒ ॥
वा॒युर्न यो नि॒युत्वाँ॑ इ॒ष्टया॑मा॒ नास॑त्येव॒ हव॒ आ शंभ॑विष्ठः । वि॒श्ववा॑रो द्रविणो॒दा इ॑व॒ त्मन्पू॒षेव॑ धी॒जव॑नोऽसि सोम ॥
वा॒युः , न , यः , नि॒युत्वा॑न् , इ॒ष्टऽया॑मा , नास॑त्याऽइव , हवे॑ , आ , शंऽभ॑विष्ठः । वि॒श्वऽवा॑रः , द्र॒वि॒णो॒दाःऽइ॑व , त्मन् , पू॒षाऽइ॑व , धी॒ऽजव॑नः , अ॒सि॒ , सो॒म॒ ॥
इंद्रो॒ न यो म॒हा कर्मा॑णि॒ चक्रि॑र्हं॒ता वृ॒त्राणा॑मसि सोम पू॒र्भित् । पै॒द्वो न हि त्वमहि॑नाम्नां हं॒ता विश्व॑स्यासि सोम॒ दस्योः॑ ॥
इंद्रः॑ , न , यः , म॒हा , कर्मा॑णि , चक्रिः॑ , हं॒ता , वृ॒त्राणां॑ , अ॒सि॒ , सो॒म॒ , पूः॒ऽभित् । पै॒द्वः , न , हि , त्वं , अहि॑ऽनाम्नां , हं॒ता , विश्व॑स्य , अ॒सि॒ , सो॒म॒ , दस्योः॑ ॥
अ॒ग्निर्न यो वन॒ आ सृ॒ज्यमा॑नो॒ वृथा॒ पाजां॑सि कृणुते न॒दीषु॑ । जनो॒ न युध्वा॑ मह॒त उ॑प॒ब्दिरिय॑र्ति॒ सोमः॒ पव॑मान ऊ॒र्मिं ॥
अ॒ग्निः , न , यः , वने॑ , आ , सृ॒ज्यमा॑नः , वृथा॑ , पाजां॑सि , कृ॒णु॒ते॒ , न॒दीषु॑ । जनः॑ , न , युध्वा॑ , म॒ह॒तः , उ॒प॒ब्दिः , इय॑र्ति , सोमः॑ , पव॑मानः , ऊ॒र्मिं ॥
ए॒ते सोमा॒ अति॒ वारा॒ण्यव्या॑ दि॒व्या न कोशा॑सो अ॒भ्रव॑र्षाः । वृथा॑ समु॒द्रं सिंध॑वो॒ न नीचीः॑ सु॒तासो॑ अ॒भि क॒लशाँ॑ असृग्रन् ॥
ए॒ते , सोमाः॑ , अति॑ , वारा॑णि , अव्या॑ , दि॒व्याः , न , कोशा॑सः , अ॒भ्रऽव॑र्षाः । वृथा॑ , स॒मु॒द्रं , सिंध॑वः , न , नीचीः॑ , सु॒तासः॑ , अ॒भि , क॒लशा॑न् , अ॒सृ॒ग्र॒न् ॥
शु॒ष्मी शर्धो॒ न मारु॑तं पव॒स्वान॑भिशस्ता दि॒व्या यथा॒ विट् । आपो॒ न म॒क्षू सु॑म॒तिर्भ॑वा नः स॒हस्रा॑प्साः पृतना॒षाण्न य॒ज्ञः ॥
शु॒ष्मी , शर्धः॑ , न , मारु॑तं , प॒व॒स्व॒ , अन॑भिऽशस्ता , दि॒व्या , यथा॑ , विट् । आपः॑ , न , म॒क्षु , सु॒ऽम॒तिः , भ॒व॒ , नः॒ , स॒हस्र॑ऽअप्साः , पृ॒त॒ना॒षाट् , न , य॒ज्ञः ॥
राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ । शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥
राज्ञः॑ , नु , ते॒ , वरु॑णस्य , व्र॒तानि॑ , बृ॒हत् , ग॒भी॒रं , तव॑ , सो॒म॒ , धाम॑ । शुचिः॑ , त्वं , अ॒सि॒ , प्रि॒यः , न , मि॒त्रः , द॒क्षाय्यः॑ , अ॒र्य॒माऽइ॑व , अ॒सि॒ , सो॒म॒ ॥
[८९] प्रोस्यवह्निरिति सप्तर्चस्य सूक्तस्य काव्य उशना पवमानःसोमस्त्रिष्टुप् |
प्रो स्य वह्निः॑ प॒थ्या॑भिरस्यांदि॒वो न वृ॒ष्टिः पव॑मानो अक्षाः । स॒हस्र॑धारो असद॒न्न्य१॒॑स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोमः॑ ॥
प्रो इति॑ , स्यः , वह्निः॑ , प॒थ्या॑भिः , अ॒स्या॒न् , दि॒वः , न , वृ॒ष्टिः , पव॑मानः , अ॒क्षा॒रिति॑ । स॒हस्र॑ऽधारः , अ॒स॒द॒त् , नि , अ॒स्मे इति॑ , मा॒तुः , उ॒पऽस्थे॑ , वने॑ , आ , च॒ , सोमः॑ ॥
राजा॒ सिंधू॑नामवसिष्ट॒ वास॑ ऋ॒तस्य॒ नाव॒मारु॑ह॒द्रजि॑ष्ठां । अ॒प्सु द्र॒प्सो वा॑वृधे श्ये॒नजू॑तो दु॒ह ईं॑ पि॒ता दु॒ह ईं॑ पि॒तुर्जां ॥
राजा॑ , सिंधू॑नां , अ॒व॒सि॒ष्ट॒ , वासः॑ , ऋ॒तस्य॑ , नावं॑ , आ , अ॒रु॒ह॒त् , रजि॑ष्ठां । अ॒प्ऽसु , द्र॒प्सः , व॒वृ॒धे॒ , श्ये॒नऽजू॑तः , दु॒हे , ईं॒ , पि॒ता , दु॒हे , ईं॒ , पि॒तुः , जां ॥
सिं॒हं न॑संत॒ मध्वो॑ अ॒यासं॒ हरि॑मरु॒षं दि॒वो अ॒स्य पतिं॑ । शूरो॑ यु॒त्सु प्र॑थ॒मः पृ॑च्छते॒ गा अस्य॒ चक्ष॑सा॒ परि॑ पात्यु॒क्षा ॥
सिं॒हं , न॒सं॒त॒ , मध्वः॑ , अ॒यासं॑ , हरिं॑ , अ॒रु॒षं , दि॒वः , अ॒स्य , पतिं॑ । शूरः॑ , यु॒त्ऽसु , प्र॒थ॒मः , पृ॒च्छ॒ते॒ , गाः , अस्य॑ , चक्ष॑सा , परि॑ , पा॒ति॒ , उ॒क्षा ॥
मधु॑पृष्ठं घो॒रम॒यास॒मश्वं॒ रथे॑ युंजंत्युरुच॒क्र ऋ॒ष्वं । स्वसा॑र ईं जा॒मयो॑ मर्जयंति॒ सना॑भयो वा॒जिन॑मूर्जयंति ॥
मधु॑ऽपृष्ठं , घो॒रं , अ॒यासं॑ , अश्वं॑ , रथे॑ , युं॒जं॒ति॒ , उ॒रु॒ऽच॒क्रे , ऋ॒ष्वं । स्वसा॑रः , ईं॒ , जा॒मयः॑ , म॒र्ज॒यं॒ति॒ , सऽना॑भयः , वा॒जिनं॑ , ऊ॒र्ज॒यं॒ति॒ ॥
चत॑स्र ईं घृत॒दुहः॑ सचंते समा॒ने अं॒तर्ध॒रुणे॒ निष॑त्ताः । ता ई॑मर्षंति॒ नम॑सा पुना॒नास्ता ईं॑ वि॒श्वतः॒ परि॑ षंति पू॒र्वीः ॥
चत॑स्रः , ईं॒ , घृ॒त॒ऽदुहः॑ , स॒चं॒ते॒ , स॒मा॒ने , अं॒तः , ध॒रुणे॑ , निऽस॑त्ताः । ताः , ईं॒ , अ॒र्षं॒ति॒ , नम॑सा , पु॒ना॒नाः , ताः , ईं॒ , वि॒श्वतः॑ , परि॑ , सं॒ति॒ , पू॒र्वीः ॥
वि॒ष्टं॒भो दि॒वो ध॒रुणः॑ पृथि॒व्या विश्वा॑ उ॒त क्षि॒तयो॒ हस्ते॑ अस्य । अस॑त्त॒ उत्सो॑ गृण॒ते नि॒युत्वा॒न्मध्वो॑ अं॒शुः प॑वत इंद्रि॒याय॑ ॥
वि॒ष्टं॒भः , दि॒वः , ध॒रुणः॑ , पृ॒थि॒व्याः , विश्वाः॑ , उ॒त , क्षि॒तयः॑ , हस्ते॑ , अ॒स्य॒ । अस॑त् , ते॒ , उत्सः॑ , गृ॒ण॒ते , नि॒युत्वा॑न् , मध्वः॑ , अं॒शुः , प॒व॒ते॒ , इं॒द्रि॒याय॑ ॥
व॒न्वन्नवा॑तो अ॒भि दे॒ववी॑ति॒मिंद्रा॑य सोम वृत्र॒हा प॑वस्व । श॒ग्धि म॒हः पु॑रुश्चं॒द्रस्य॑ रा॒यः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
व॒न्वन् , अवा॑तः , अ॒भि , दे॒वऽवी॑तिं , इंद्रा॑य , सो॒म॒ , वृ॒त्र॒ऽहा , प॒व॒स्व॒ । श॒ग्धि , म॒हः , पु॒रु॒ऽचं॒द्रस्य॑ , रा॒यः , सु॒ऽवीर्य॑स्य , पत॑यः , स्या॒म॒ ॥
[९०] प्रहिन्वानइति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः पवमानःसोमस्त्रिष्टुप् |
प्र हि॑न्वा॒नो ज॑नि॒ता रोद॑स्यो॒ रथो॒ न वाजं॑ सनि॒ष्यन्न॑यासीत् । इंद्रं॒ गच्छ॒न्नायु॑धा सं॒शिशा॑नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा॑नः ॥
प्र , हि॒न्वा॒नः , ज॒नि॒ता , रोद॑स्योः , रथः॑ , न , वाजं॑ , स॒नि॒ष्यन् , अ॒या॒सी॒त् । इंद्रं॑ , गच्छ॑न् , आयु॑धा , सं॒ऽशिशा॑नः , विश्वा॑ , वसु॑ , हस्त॑योः , आ॒ऽदधा॑नः ॥
अ॒भि त्रि॑पृ॒ष्ठं वृष॑णं वयो॒धामां॑गू॒षाणा॑मवावशंत॒ वाणीः॑ । वना॒ वसा॑नो॒ वरु॑णो॒ न सिंधू॒न्वि र॑त्न॒धा द॑यते॒ वार्या॑णि ॥
अ॒भि , त्रि॒ऽपृ॒ष्ठं , वृष॑णं , व॒यः॒ऽधां , आं॒गू॒षाणां॑ , अ॒वा॒व॒शं॒त॒ , वाणीः॑ । वना॑ , वसा॑नः , वरु॑णः , न , सिंधू॑न् , वि , र॒त्न॒ऽधाः , द॒य॒ते॒ , वार्या॑णि ॥
शूर॑ग्रामः॒ सर्व॑वीरः॒ सहा॑वां॒जेता॑ पवस्व॒ सनि॑ता॒ धना॑नि । ति॒ग्मायु॑धः क्षि॒प्रध॑न्वा स॒मत्स्वषा॑ळ्हः सा॒ह्वान्पृत॑नासु॒ शत्रू॑न् ॥
शूर॑ऽग्रामः , सर्व॑ऽवीरः , सहा॑वान् , जेता॑ , प॒व॒स्व॒ , सनि॑ता , धना॑नि । ति॒ग्मऽआ॑युधः , क्षि॒प्रऽध॑न्वा , स॒मत्ऽसु॑ , अषा॑ळ्हः , स॒ह्वान् , पृत॑नासु , शत्रू॑न् ॥
उ॒रुग॑व्यूति॒रभ॑यानि कृ॒ण्वंत्स॑मीची॒ने आ प॑वस्वा॒ पुरं॑धी । अ॒पः सिषा॑सन्नु॒षसः॒ स्व१॒॑र्गाः सं चि॑क्रदो म॒हो अ॒स्मभ्यं॒ वाजा॑न् ॥
उ॒रुऽग॑व्यूतिः , अभ॑यानि , कृ॒ण्वन् , स॒मी॒ची॒ने इति॑ सं॒ऽई॒ची॒ने , आ , प॒व॒स्व॒ , पुरं॑धी॒ इति॒ पुरं॑ऽधी । अ॒पः , सिसा॑सन् , उ॒षसः॑ , स्वः॑ , गाः , सं , चि॒क्र॒दः॒ , म॒हः , अ॒स्मभ्यं॑ , वाजा॑न् ॥
मत्सि॑ सोम॒ वरु॑णं॒ मत्सि॑ मि॒त्रं मत्सींद्र॑मिंदो पवमान॒ विष्णुं॑ । मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॑ म॒हामिंद्र॑मिंदो॒ मदा॑य ॥
मत्सि॑ , सो॒म॒ , वरु॑णं , मत्सि॑ , मि॒त्रं , मत्सि॑ , इंद्रं॑ , इं॒दो॒ इति॑ , प॒व॒मा॒न॒ , विष्णुं॑ । मत्सि॑ , शर्धः॑ , मारु॑तं , मत्सि॑ , दे॒वान् , मत्सि॑ , म॒हां , इंद्रं॑ , इं॒दो॒ इति॑ , मदा॑य ॥
ए॒वा राजे॑व॒ क्रतु॑माँ॒ अमे॑न॒ विश्वा॒ घनि॑घ्नद्दुरि॒ता प॑वस्व । इंदो॑ सू॒क्ताय॒ वच॑से॒ वयो॑ धा यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ए॒व , राजा॑ऽइव , क्रतु॑ऽमान् , अमे॑न , विश्वा॑ , घनि॑घ्नत् , दुः॒ऽइ॒ता , प॒व॒स्व॒ । इंदो॒ इति॑ , सु॒ऽउ॒क्ताय॑ , वच॑से , वयः॑ , धाः॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[९१] असर्जीति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानःसोमस्त्रिष्टुप् |
अस॑र्जि॒ वक्वा॒ रथ्ये॒ यथा॒जौ धि॒या म॒नोता॑ प्रथ॒मो म॑नी॒षी । दश॒ स्वसा॑रो॒ अधि॒ सानो॒ अव्येऽजं॑ति॒ वह्निं॒ सद॑ना॒न्यच्छ॑ ॥
अस॑र्जि , वक्वा॑ , रथ्ये॑ , यथा॑ , आ॒जौ , धि॒या , म॒नोता॑ , प्र॒थ॒मः , म॒नी॒षी । दश॑ , स्वसा॑रः , अधि॑ , सानौ॑ , अव्ये॑ , अजं॑ति , वह्निं॑ , सद॑नानि , अच्छ॑ ॥
वी॒ती जन॑स्य दि॒व्यस्य॑ क॒व्यैरधि॑ सुवा॒नो न॑हु॒ष्ये॑भि॒रिंदुः॑ । प्र यो नृभि॑र॒मृतो॒ मर्त्ये॑भिर्मर्मृजा॒नोऽवि॑भि॒र्गोभि॑र॒द्भिः ॥
वी॒ती , जन॑स्य , दि॒व्यस्य॑ , क॒व्यैः , अधि॑ , सु॒वा॒नः , न॒हु॒ष्ये॑भिः , इंदुः॑ । प्र , यः , नृऽभिः॑ , अ॒मृतः॑ , मर्त्ये॑भिः , म॒र्मृ॒जा॒नः , अवि॑ऽभिः , गोभिः॑ , अ॒त्ऽभिः ॥
वृषा॒ वृष्णे॒ रोरु॑वदं॒शुर॑स्मै॒ पव॑मानो॒ रुश॑दीर्ते॒ पयो॒ गोः । स॒हस्र॒मृक्वा॑ प॒थिभि॑र्वचो॒विद॑ध्व॒स्मभिः॒ सूरो॒ अण्वं॒ वि या॑ति ॥
वृषा॑ , वृष्णे॑ , रोरु॑वत् , अं॒शुः , अ॒स्मै॒ , पव॑मानः , रुश॑त् , ई॒र्ते॒ , पयः॑ , गोः । स॒हस्रं॑ , ऋक्वा॑ , प॒थिऽभिः॑ , व॒चः॒ऽवित् , अ॒ध्व॒स्मऽभिः॑ , सूरः॑ , अण्वं॑ , वि , या॒ति॒ ॥
रु॒जा दृ॒ळ्हा चि॑द्र॒क्षसः॒ सदां॑सि पुना॒न इं॑द ऊर्णुहि॒ वि वाजा॑न् । वृ॒श्चोपरि॑ष्टात्तुज॒ता व॒धेन॒ ये अंति॑ दू॒रादु॑पना॒यमे॑षां ॥
रु॒ज , दृ॒ळ्हा , चि॒त् , र॒क्षसः॑ , सदां॑सि , पु॒ना॒नः , इं॒दो॒ इति॑ , ऊ॒र्णु॒हि॒ , वि , वाजा॑न् । वृ॒श्च , उ॒परि॑ष्टात् , तु॒ज॒ता , व॒धेन॑ , ये , अंति॑ , दू॒रात् , उ॒प॒ऽना॒यं , ए॒षां॒ ॥
स प्र॑त्न॒वन्नव्य॑से विश्ववार सू॒क्ताय॑ प॒थः कृ॑णुहि॒ प्राचः॑ । ये दुः॒षहा॑सो व॒नुषा॑ बृ॒हंत॒स्ताँस्ते॑ अश्याम पुरुकृत्पुरुक्षो ॥
सः , प्र॒त्न॒ऽवत् , नव्य॑से , वि॒श्व॒ऽवा॒र॒ , सु॒ऽउ॒क्ताय॑ , प॒थः , कृ॒णु॒हि॒ , प्राचः॑ । ये , दुः॒ऽसहा॑सः , व॒नुषा॑ , बृ॒हंतः॑ , तान् , ते॒ , अ॒श्या॒म॒ , पु॒रु॒ऽकृ॒त् , पु॒रु॒क्षो॒ इति॑ पुरुऽक्षो ॥
ए॒वा पु॑ना॒नो अ॒पः स्व१॒॑र्गा अ॒स्मभ्यं॑ तो॒का तन॑यानि॒ भूरि॑ । शं नः॒ क्षेत्र॑मु॒रु ज्योतीं॑षि सोम॒ ज्योङ्नः॒ सूर्यं॑ दृ॒शये॑ रिरीहि ॥
ए॒व , पु॒ना॒नः , अ॒पः , स्वः॑ , गाः , अ॒स्मभ्यं॑ , तो॒का , तन॑यानि , भूरि॑ । शं , नः॒ , क्षेत्रं॑ , उ॒रु , ज्योतीं॑षि , सो॒म॒ , ज्योक् , नः॒ , सूर्यं॑ , दृ॒शये॑ , रि॒री॒हि॒ ॥
[९२] परिसुवानइति षडृचस्य सूक्तस्य मारीचः कश्यपः पवमानःसोमस्त्रिष्टुप् |
परि॑ सुवा॒नो हरि॑रं॒शुः प॒वित्रे॒ रथो॒ न स॑र्जि स॒नये॑ हिया॒नः । आप॒च्छ्लोक॑मिंद्रि॒यं पू॒यमा॑नः॒ प्रति॑ दे॒वाँ अ॑जुषत॒ प्रयो॑भिः ॥
परि॑ , सु॒वा॒नः , हरिः॑ , अं॒शुः , प॒वित्रे॑ , रथः॑ , न , स॒र्जि॒ , स॒नये॑ , हि॒या॒नः । आप॑त् , श्लोकं॑ , इं॒द्रि॒यं , पू॒यमा॑नः , प्रति॑ , दे॒वान् , अ॒जु॒ष॒त॒ , प्रयः॑ऽभिः ॥
अच्छा॑ नृ॒चक्षा॑ असरत्प॒वित्रे॒ नाम॒ दधा॑नः क॒विर॑स्य॒ योनौ॑ । सीद॒न्होते॑व॒ सद॑ने च॒मूषूपे॑मग्म॒न्नृष॑यः स॒प्त विप्राः॑ ॥
अच्छ॑ , नृ॒ऽचक्षाः॑ , अ॒स॒र॒त् , प॒वित्रे॑ , नाम॑ , दधा॑नः , क॒विः , अ॒स्य॒ , योनौ॑ । सीद॑न् , होता॑ऽइव , सद॑ने , च॒मूषु॑ , उप॑ , ईं॒ , अ॒ग्म॒न् , ऋष॑यः , स॒प्त , विप्राः॑ ॥
प्र सु॑मे॒धा गा॑तु॒विद्वि॒श्वदे॑वः॒ सोमः॑ पुना॒नः सद॑ एति॒ नित्यं॑ । भुव॒द्विश्वे॑षु॒ काव्ये॑षु॒ रंतानु॒ जना॑न्यतते॒ पंच॒ धीरः॑ ॥
प्र , सु॒ऽमे॒धाः , गा॒तु॒ऽवित् , वि॒श्वऽदे॑वः , सोमः॑ , पु॒ना॒नः , सदः॑ , ए॒ति॒ , नित्यं॑ । भुव॑त् , विश्वे॑षु , काव्ये॑षु , रंता॑ , अनु॑ , जना॑न् , य॒त॒ते॒ , पंच॑ , धीरः॑ ॥
तव॒ त्ये सो॑म पवमान नि॒ण्ये विश्वे॑ दे॒वास्त्रय॑ एकाद॒शासः॑ । दश॑ स्व॒धाभि॒रधि॒ सानो॒ अव्ये॑ मृ॒जंति॑ त्वा न॒द्यः॑ स॒प्त य॒ह्वीः ॥
तव॑ , त्ये , सो॒म॒ , प॒व॒मा॒न॒ , नि॒ण्ये , विश्वे॑ , दे॒वाः , त्रयः॑ , ए॒का॒द॒शासः॑ । दश॑ , स्व॒धाभिः॑ , अधि॑ , सानौ॑ , अव्ये॑ , मृ॒जंति॑ , त्वा॒ , न॒द्यः॑ , स॒प्त , य॒ह्वीः ॥
तन्नु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे॑ का॒रवः॑ सं॒नसं॑त । ज्योति॒र्यदह्ने॒ अकृ॑णोदु लो॒कं प्राव॒न्मनुं॒ दस्य॑वे कर॒भीकं॑ ॥
तत् , नु , स॒त्यं , पव॑मानस्य , अ॒स्तु॒ , यत्र॑ , विश्वे॑ , का॒रवः॑ , सं॒ऽनसं॑त । ज्योतिः॑ , यत् , अह्ने॑ , अकृ॑णोत् , ऊँ॒ इति॑ , लो॒कं , प्र , आ॒व॒त् , मनुं॑ , दस्य॑वे , कः॒ , अ॒भीकं॑ ॥
परि॒ सद्मे॑व पशु॒मांति॒ होता॒ राजा॒ न स॒त्यः समि॑तीरिया॒नः । सोमः॑ पुना॒नः क॒लशाँ॑ अयासी॒त्सीद॑न्मृ॒गो न म॑हि॒षो वने॑षु ॥
परि॑ , सद्म॑ऽइव , प॒शु॒ऽमंति॑ , होता॑ , राजा॑ , न , स॒त्यः , संऽइ॑तीः , इ॒या॒नः । सोमः॑ , पु॒ना॒नः , क॒लशा॑न् , अ॒या॒सी॒त् , सीद॑न् , मृ॒गः , न , म॒हि॒षः , वने॑षु ॥
[९३] साकमुक्षइति पंचर्चस्य सूक्तस्य गौतमो नोधाः पवमानःसोमस्त्रिष्टुप् |
सा॒क॒मुक्षो॑ मर्जयंत॒ स्वसा॑रो॒ दश॒ धीर॑स्य धी॒तयो॒ धनु॑त्रीः । हरिः॒ पर्य॑द्रव॒ज्जाः सूर्य॑स्य॒ द्रोणं॑ ननक्षे॒ अत्यो॒ न वा॒जी ॥
सा॒कं॒ऽउक्षः॑ , म॒र्ज॒यं॒त॒ , स्वसा॑रः , दश॑ , धीर॑स्य , धी॒तयः॑ , धनु॑त्रीः । हरिः॑ , परि॑ , अ॒द्र॒व॒त् , जाः , सूर्य॑स्य , द्रोणं॑ , न॒न॒क्षे॒ , अत्यः॑ , न , वा॒जी ॥
सं मा॒तृभि॒र्न शिशु॑र्वावशा॒नो वृषा॑ दधन्वे पुरु॒वारो॑ अ॒द्भिः । मर्यो॒ न योषा॑म॒भि नि॑ष्कृ॒तं यंत्सं ग॑च्छते क॒लश॑ उ॒स्रिया॑भिः ॥
सं , मा॒तृऽभिः॑ , न , शिशुः॑ , वा॒व॒शा॒नः , वृषा॑ , द॒ध॒न्वे॒ , पु॒रु॒ऽवारः॑ , अ॒त्ऽभिः । मर्यः॑ , न , योषां॑ , अ॒भि , निः॒ऽकृ॒तं , यन् , सं , ग॒च्छ॒ते॒ , क॒लशे॑ , उ॒स्रिया॑भिः ॥
उ॒त प्र पि॑प्य॒ ऊध॒रघ्न्या॑या॒ इंदु॒र्धारा॑भिः सचते सुमे॒धाः । मू॒र्धानं॒ गावः॒ पय॑सा च॒मूष्व॒भि श्री॑णंति॒ वसु॑भि॒र्न नि॒क्तैः ॥
उ॒त , प्र , पि॒प्ये॒ , ऊधः॑ , अघ्न्या॑याः , इंदुः॑ , धारा॑भिः , स॒च॒ते॒ , सु॒ऽमे॒धाः । मू॒र्धानं॑ , गावः॑ , पय॑सा , च॒मूषु॑ , अ॒भि , श्री॒णं॒ति॒ , वसु॑ऽभिः , न , नि॒क्तैः ॥
स नो॑ दे॒वेभिः॑ पवमान र॒देंदो॑ र॒यिम॒श्विनं॑ वावशा॒नः । र॒थि॒रा॒यता॑मुश॒ती पुरं॑धिरस्म॒द्र्य१॒॑गा दा॒वने॒ वसू॑नां ॥
सः , नः॒ , दे॒वेभिः॑ , प॒व॒मा॒न॒ , र॒द॒ , इंदो॒ इति॑ , र॒यिं , अ॒श्विनं॑ , वा॒व॒शा॒नः । र॒थि॒रा॒यतां॑ , उ॒श॒ती , पुरं॑ऽधिः , अ॒स्म॒द्र्य॑क् , आ , दा॒वने॑ , वसू॑नां ॥
नू नो॑ र॒यिमुप॑ मास्व नृ॒वंतं॑ पुना॒नो वा॒ताप्यं॑ वि॒श्वश्चं॑द्रं । प्र वं॑दि॒तुरिं॑दो ता॒र्यायुः॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
नु , नः॒ , र॒यिं , उप॑ , मा॒स्व॒ , नृ॒ऽवंतं॑ , पु॒ना॒नः , वा॒ताप्यं॑ , वि॒श्वऽचं॑द्रं । प्र , वं॒दि॒तुः , इं॒दो॒ इति॑ , ता॒रि॒ , आयुः॑ , प्रा॒तः , म॒क्षु , धि॒याऽव॑सुः , ज॒ग॒म्या॒त् ॥
[९४] अधियदिति पंचर्चस्य सूक्तस्य घौरः कण्वः पवमानःसोमस्त्रिष्टुप् |
अधि॒ यद॑स्मिन्वा॒जिनी॑व॒ शुभः॒ स्पर्धं॑ते॒ धियः॒ सूर्ये॒ न विशः॑ । अ॒पो वृ॑णा॒नः प॑वते कवी॒यन्व्र॒जं न प॑शु॒वर्ध॑नाय॒ मन्म॑ ॥
अधि॑ , यत् , अ॒स्मि॒न् , वा॒जिनि॑ऽइव , शुभः॑ , स्पर्धं॑ते , धियः॑ , सूर्ये॑ , न , विशः॑ । अ॒पः , वृ॒णा॒नः , प॒व॒ते॒ , क॒वि॒ऽयन् , व्र॒जं , न , प॒शु॒ऽवर्ध॑नाय , मन्म॑ ॥
द्वि॒ता व्यू॒र्ण्वन्न॒मृत॑स्य॒ धाम॑ स्व॒र्विदे॒ भुव॑नानि प्रथंत । धियः॑ पिन्वा॒नाः स्वस॑रे॒ न गाव॑ ऋता॒यंती॑र॒भि वा॑वश्र॒ इंदुं॑ ॥
द्वि॒ता , वि॒ऽऊ॒र्ण्वन् , अ॒मृत॑स्य , धाम॑ , स्वः॒ऽविदे॑ , भुव॑नानि , प्र॒थं॒त॒ । धियः॑ , पि॒न्वा॒नाः , स्वस॑रे , न , गावः॑ , ऋ॒त॒ऽयंतीः॑ , अ॒भि , वा॒व॒श्रे॒ , इंदुं॑ ॥
परि॒ यत्क॒विः काव्या॒ भर॑ते॒ शूरो॒ न रथो॒ भुव॑नानि॒ विश्वा॑ । दे॒वेषु॒ यशो॒ मर्ता॑य॒ भूषं॒दक्षा॑य रा॒यः पु॑रु॒भूषु॒ नव्यः॑ ॥
परि॑ , यत् , क॒विः , काव्या॑ , भर॑ते , शूरः॑ , न , रथः॑ , भुव॑नानि , विश्वा॑ । दे॒वेषु॑ , यशः॑ , मर्ता॑य , भूष॑न् , दक्षा॑य , रा॒यः , पु॒रु॒ऽभूषु॑ , नव्यः॑ ॥
श्रि॒ये जा॒तः श्रि॒य आ निरि॑याय॒ श्रियं॒ वयो॑ जरि॒तृभ्यो॑ दधाति । श्रियं॒ वसा॑ना अमृत॒त्वमा॑य॒न्भवं॑ति स॒त्या स॑मि॒था मि॒तद्रौ॑ ॥
श्रि॒ये , जा॒तः , श्रि॒ये , आ , निः , इ॒या॒य॒ , श्रियं॑ , वयः॑ , ज॒रि॒तृऽभ्यः॑ , द॒धा॒ति॒ । श्रियं॑ , वसा॑नाः , अ॒मृ॒त॒ऽत्वं , आ॒य॒न् , भवं॑ति , स॒त्या , सं॒ऽइ॒था , मि॒तऽद्रौ॑ ॥
इष॒मूर्ज॑म॒भ्य१॒॑र्षाश्वं॒ गामु॒रु ज्योतिः॑ कृणुहि॒ मत्सि॑ दे॒वान् । विश्वा॑नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से सोम॒ शत्रू॑न् ॥
इषं॑ , ऊर्जं॑ , अ॒भि , अ॒र्ष॒ , अश्वं॑ , गां , उ॒रु , ज्योतिः॑ , कृ॒णु॒हि॒ , मत्सि॑ , दे॒वान् । विश्वा॑नि , हि , सु॒ऽसहा॑ , तानि॑ , तुभ्यं॑ , पव॑मान , बाध॑से , सो॒म॒ , शत्रू॑न् ॥
[९५] कनिक्रंतीति पंचर्चस्य सूक्तस्य कण्वः प्रस्कण्वः पवमानःसोमस्त्रिष्टुप् |
कनि॑क्रंति॒ हरि॒रा सृ॒ज्यमा॑नः॒ सीद॒न्वन॑स्य ज॒ठरे॑ पुना॒नः । नृभि॑र्य॒तः कृ॑णुते नि॒र्णिजं॒ गा अतो॑ म॒तीर्ज॑नयत स्व॒धाभिः॑ ॥
कनि॑क्रंति , हरिः॑ , आ , सृ॒ज्यमा॑नः , सीद॑न् , वन॑स्य , ज॒ठरे॑ , पु॒ना॒नः । नृऽभिः॑ , य॒तः , कृ॒णु॒ते॒ , निः॒ऽनिजं॑ , गाः , अतः॑ , म॒तीः , ज॒न॒य॒त॒ , स्व॒धाभिः॑ ॥
हरिः॑ सृजा॒नः प॒थ्या॑मृ॒तस्येय॑र्ति॒ वाच॑मरि॒तेव॒ नावं॑ । दे॒वो दे॒वानां॒ गुह्या॑नि॒ नामा॒विष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे॑ ॥
हरिः॑ , सृ॒जा॒नः , प॒थ्यां॑ , ऋ॒तस्य॑ , इय॑र्ति , वाचं॑ , अ॒रि॒ताऽइ॑व , नावं॑ । दे॒वः , दे॒वानां॑ , गुह्या॑नि , नाम॑ , आ॒विः , कृ॒णो॒ति॒ , ब॒र्हिषि॑ , प्र॒ऽवाचे॑ ॥
अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणाः॒ प्र म॑नी॒षा ई॑रते॒ सोम॒मच्छ॑ । न॒म॒स्यंती॒रुप॑ च॒ यंति॒ सं चा च॑ विशंत्युश॒तीरु॒शंतं॑ ॥
अ॒पांऽइ॑व , इत् , ऊ॒र्मयः॑ , तर्तु॑राणाः , प्र , म॒नी॒षाः , ई॒र॒ते॒ , सोमं॑ , अच्छ॑ । न॒म॒स्यंतीः॑ , उप॑ , च॒ , यंति॑ , सं , च॒ , आ , च॒ , वि॒शं॒ति॒ , उ॒श॒तीः , उ॒शंतं॑ ॥
तं म॑र्मृजा॒नं म॑हि॒षं न साना॑वं॒शुं दु॑हंत्यु॒क्षणं॑ गिरि॒ष्ठां । तं वा॑वशा॒नं म॒तयः॑ सचंते त्रि॒तो बि॑भर्ति॒ वरु॑णं समु॒द्रे ॥
तं , म॒र्मृ॒जा॒नं , म॒हि॒षं , न , सानौ॑ , अं॒शुं , दु॒हं॒ति॒ , उ॒क्षणं॑ , गि॒रि॒ऽस्थां । तं , वा॒व॒शा॒नं , म॒तयः॑ , स॒चं॒ते॒ , त्रि॒तः , बि॒भ॒र्ति॒ , वरु॑णं , स॒मु॒द्रे ॥
इष्य॒न्वाच॑मुपव॒क्तेव॒ होतुः॑ पुना॒न इं॑दो॒ वि ष्या॑ मनी॒षां । इंद्र॑श्च॒ यत्क्षय॑थः॒ सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
इष्य॑न् , वाचं॑ , उ॒प॒व॒क्ताऽइ॑व , होतुः॑ , पु॒ना॒नः , इं॒दो॒ इति॑ , वि , स्य॒ , म॒नी॒षां । इंद्रः॑ , च॒ , यत् , क्षय॑थः , सौभ॑गाय , सु॒ऽवीर्य॑स्य , पत॑यः , स्या॒म॒ ॥
[९६] प्रसेनानीरिति चतुर्विंशत्यृचस्य सूक्तस्य दैवोदासिः प्रतर्दनः पवमानःसोमस्त्रिष्टुप् |
प्र से॑ना॒नीः शूरो॒ अग्रे॒ रथा॑नां ग॒व्यन्ने॑ति॒ हर्ष॑ते अस्य॒ सेना॑ । भ॒द्रान्कृ॒ण्वन्निं॑द्रह॒वांत्सखि॑भ्य॒ आ सोमो॒ वस्त्रा॑ रभ॒सानि॑ दत्ते ॥
प्र , से॒ना॒ऽनीः , शूरः॑ , अग्रे॑ , रथा॑नां , ग॒व्यन् , ए॒ति॒ , हर्ष॑ते , अ॒स्य॒ , सेना॑ । भ॒द्रान् , कृ॒ण्वन् , इं॒द्र॒ऽह॒वान् , सखि॑ऽभ्यः , आ , सोमः॑ , वस्त्रा॑ , र॒भ॒सानि॑ , द॒त्ते॒ ॥
सम॑स्य॒ हरिं॒ हर॑यो मृजंत्यश्वह॒यैरनि॑शितं॒ नमो॑भिः । आ ति॑ष्ठति॒ रथ॒मिंद्र॑स्य॒ सखा॑ वि॒द्वाँ ए॑ना सुम॒तिं या॒त्यच्छ॑ ॥
सं , अ॒स्य॒ , हरिं॑ , हर॑यः , मृ॒जं॒ति॒ , अ॒श्व॒ऽह॒यैः , अनि॑ऽशितं , नमः॑ऽभिः । आ , ति॒ष्ठ॒ति॒ , रथं॑ , इंद्र॑स्य , सखा॑ , वि॒द्वान् , ए॒न॒ , सु॒ऽम॒तिं , या॒ति॒ , अच्छ॑ ॥
स नो॑ देव दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑स इंद्र॒पानः॑ । कृ॒ण्वन्न॒पो व॒र्षयं॒द्यामु॒तेमामु॒रोरा नो॑ वरिवस्या पुना॒नः ॥
सः , नः॒ , दे॒व॒ , दे॒वऽता॑ते , प॒व॒स्व॒ , म॒हे , सो॒म॒ , प्सर॑से , इं॒द्र॒ऽपानः॑ । कृ॒ण्वन् , अ॒पः , व॒र्षय॑न् , द्यां , उ॒त , इ॒मां , उ॒रोः , आ , नः॒ , व॒रि॒व॒स्य॒ , पु॒ना॒नः ॥
अजी॑त॒येऽह॑तये पवस्व स्व॒स्तये॑ स॒र्वता॑तये बृह॒ते । तदु॑शंति॒ विश्व॑ इ॒मे सखा॑य॒स्तद॒हं व॑श्मि पवमान सोम ॥
अजी॑तये , अह॑तये , प॒व॒स्व॒ , स्व॒स्तये॑ , स॒र्वऽता॑तये , बृ॒ह॒ते । तत् , उ॒शं॒ति॒ , विश्वे॑ , इ॒मे , सखा॑यः , तत् , अ॒हं , व॒श्मि॒ , प॒व॒मा॒न॒ , सो॒म॒ ॥
सोमः॑ पवते जनि॒ता म॑ती॒नां ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः । ज॒नि॒ताग्नेर्ज॑नि॒ता सूर्य॑स्य जनि॒तेंद्र॑स्य जनि॒तोत विष्णोः॑ ॥
सोमः॑ , प॒व॒ते॒ , ज॒नि॒ता , म॒ती॒नां , ज॒नि॒ता , दि॒वः , ज॒नि॒ता , पृ॒थि॒व्याः । ज॒नि॒ता , अ॒ग्नेः , ज॒नि॒ता , सूर्य॑स्य , ज॒नि॒ता , इंद्र॑स्य , ज॒नि॒ता , उ॒त , विष्णोः॑ ॥
ब्र॒ह्मा दे॒वानां॑ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणां॑ । श्ये॒नो गृध्रा॑णां॒ स्वधि॑ति॒र्वना॑नां॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न् ॥
ब्र॒ह्मा , दे॒वानां॑ , प॒द॒ऽवीः , क॒वी॒नां , ऋषिः॑ , विप्रा॑णां , म॒हि॒षः , मृ॒गाणां॑ । श्ये॒नः , गृध्रा॑णां , स्वऽधि॑तिः , वना॑नां , सोमः॑ , प॒वित्रं॑ , अति॑ , ए॒ति॒ , रेभ॑न् ॥
प्रावी॑विपद्वा॒च ऊ॒र्मिं न सिंधु॒र्गिरः॒ सोमः॒ पव॑मानो मनी॒षाः । अं॒तः पश्य॑न्वृ॒जने॒माव॑रा॒ण्या ति॑ष्ठति वृष॒भो गोषु॑ जा॒नन् ॥
प्र , अ॒वी॒वि॒प॒त् , वा॒चः , ऊ॒र्मिं , न , सिंधुः॑ , गिरः॑ , सोमः॑ , पव॑मानः , म॒नी॒षाः । अं॒तरिति॑ , पश्य॑न् , वृ॒जना॑ , इ॒मा , अव॑राणि , आ , ति॒ष्ठ॒ति॒ , वृ॒ष॒भः , गोषु॑ , जा॒नन् ॥
स म॑त्स॒रः पृ॒त्सु व॒न्वन्नवा॑तः स॒हस्र॑रेता अ॒भि वाज॑मर्ष । इंद्रा॑येंदो॒ पव॑मानो मनी॒ष्यं१॒॑शोरू॒र्मिमी॑रय॒ गा इ॑ष॒ण्यन् ॥
सः , म॒त्स॒रः , पृ॒त्ऽसु , व॒न्वन् , अवा॑तः , स॒हस्र॑ऽरेताः , अ॒भि , वाजं॑ , अ॒र्ष॒ । इंद्रा॑य , इं॒दो॒ इति॑ , पव॑मानः , म॒नी॒षी , अं॒शोः , ऊ॒र्मिं , ई॒र॒य॒ , गाः , इ॒ष॒ण्यन् ॥
परि॑ प्रि॒यः क॒लशे॑ दे॒ववा॑त॒ इंद्रा॑य॒ सोमो॒ रण्यो॒ मदा॑य । स॒हस्र॑धारः श॒तवा॑ज॒ इंदु॑र्वा॒जी न सप्तिः॒ सम॑ना जिगाति ॥
परि॑ , प्रि॒यः , क॒लशे॑ , दे॒वऽवा॑तः , इंद्रा॑य , सोमः॑ , रण्यः॑ , मदा॑य । स॒हस्र॑ऽधारः , श॒तऽवा॑जः , इंदुः॑ , वा॒जी , न , सप्तिः॑ , सम॑ना , जि॒गा॒ति॒ ॥
स पू॒र्व्यो व॑सु॒विज्जाय॑मानो मृजा॒नो अ॒प्सु दु॑दुहा॒नो अद्रौ॑ । अ॒भि॒श॒स्ति॒पा भुव॑नस्य॒ राजा॑ वि॒दद्गा॒तुं ब्रह्म॑णे पू॒यमा॑नः ॥
सः , पू॒र्व्यः , व॒सु॒ऽवित् , जाय॑मानः , मृ॒जा॒नः , अ॒प्ऽसु , दु॒दु॒हा॒नः , अद्रौ॑ । अ॒भि॒श॒स्ति॒ऽपाः , भुव॑नस्य , राजा॑ , वि॒दत् , गा॒तुं , ब्रह्म॑णे , पू॒यमा॑नः ॥
त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः॑ । व॒न्वन्नवा॑तः परि॒धीँरपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ॥
त्वया॑ , हि , नः॒ , पि॒तरः॑ , सो॒म॒ , पूर्वे॑ , कर्मा॑णि , च॒क्रुः , प॒व॒मा॒न॒ , धीराः॑ । व॒न्वन् , अवा॑तः , प॒रि॒ऽधीन् , अप॑ , ऊ॒र्णु॒ , वी॒रेभिः॑ , अश्वैः॑ , म॒घऽवा॑ , भ॒व॒ , नः॒ ॥
यथाप॑वथा॒ मन॑वे वयो॒धा अ॑मित्र॒हा व॑रिवो॒विद्ध॒विष्मा॑न् । ए॒वा प॑वस्व॒ द्रवि॑णं॒ दधा॑न॒ इंद्रे॒ सं ति॑ष्ठ ज॒नयायु॑धानि ॥
यथा॑ , अप॑वथाः , मन॑वे , व॒यः॒ऽधाः , अ॒मि॒त्र॒ऽहा , व॒रि॒वः॒ऽवित् , ह॒विष्मा॑न् । ए॒व , प॒व॒स्व॒ , द्रवि॑णं , दधा॑नः , इंद्रे॑ , सं , ति॒ष्ठ॒ , ज॒नय॑ , आयु॑धानि ॥
पव॑स्व सोम॒ मधु॑माँ ऋ॒तावा॒पो वसा॑नो॒ अधि॒ सानो॒ अव्ये॑ । अव॒ द्रोणा॑नि घृ॒तवां॑ति सीद म॒दिंत॑मो मत्स॒र इं॑द्र॒पानः॑ ॥
पव॑स्व , सो॒म॒ , मधु॑ऽमान् , ऋ॒तऽवा॑ , अ॒पः , वसा॑नः , अधि॑ , सानौ॑ , अव्ये॑ । अव॑ , द्रोणा॑नि , घृ॒तऽवं॑ति , सी॒द॒ , म॒दिन्ऽत॑मः , म॒त्स॒रः , इं॒द्र॒ऽपानः॑ ॥
वृ॒ष्टिं दि॒वः श॒तधा॑रः पवस्व सहस्र॒सा वा॑ज॒युर्दे॒ववी॑तौ । सं सिंधु॑भिः क॒लशे॑ वावशा॒नः समु॒स्रिया॑भिः प्रति॒रन्न॒ आयुः॑ ॥
वृ॒ष्टिं , दि॒वः , श॒तऽधा॑रः , प॒व॒स्व॒ , स॒ह॒स्र॒ऽसाः , वा॒ज॒ऽयुः , दे॒वऽवी॑तौ । सं , सिंधु॑ऽभिः , क॒लशे॑ , वा॒व॒शा॒नः , सं , उ॒स्रिया॑भिः , प्र॒ऽति॒रन् , नः॒ , आयुः॑ ॥
ए॒ष स्य सोमो॑ म॒तिभिः॑ पुना॒नोऽत्यो॒ न वा॒जी तर॒तीदरा॑तीः । पयो॒ न दु॒ग्धमदि॑तेरिषि॒रमु॒र्वि॑व गा॒तुः सु॒यमो॒ न वोळ्हा॑ ॥
ए॒षः , स्यः , सोमः॑ , म॒तिऽभिः॑ , पु॒ना॒नः , अत्यः॑ , न , वा॒जी , तर॑ति , इत् , अरा॑तीः । पयः॑ , न , दु॒ग्धं , अदि॑तेः , इ॒षि॒रं , उ॒रुऽइ॑व , गा॒तुः , सु॒ऽयमः॑ , न , वोळ्हा॑ ॥
स्वा॒यु॒धः सो॒तृभिः॑ पू॒यमा॑नो॒ऽभ्य॑र्ष॒ गुह्यं॒ चारु॒ नाम॑ । अ॒भि वाजं॒ सप्ति॑रिव श्रव॒स्याभि वा॒युम॒भि गा दे॑व सोम ॥
सु॒ऽआ॒यु॒धः , सो॒तृऽभिः॑ , पू॒यमा॑नः , अ॒भि , अ॒र्ष॒ , गुह्यं॑ , चारु॑ , नाम॑ । अ॒भि , वाजं॑ , सप्तिः॑ऽइव , श्र॒व॒स्या , अ॒भि , वा॒युं , अ॒भि , गाः , दे॒व॒ , सो॒म॒ ॥
शिशुं॑ जज्ञा॒नं ह॑र्य॒तं मृ॑जंति शुं॒भंति॒ वह्निं॑ म॒रुतो॑ ग॒णेन॑ । क॒विर्गी॒र्भिः काव्ये॑ना क॒विः संत्सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न् ॥
शिशुं॑ , ज॒ज्ञा॒नं , ह॒र्य॒तं , मृ॒जं॒ति॒ , शुं॒भंति॑ , वह्निं॑ , म॒रुतः॑ , ग॒णेन॑ । क॒विः , गीः॒ऽभिः , काव्ये॑न , क॒विः , सन् , सोमः॑ , प॒वित्रं॑ , अति॑ , ए॒ति॒ , रेभ॑न् ॥
ऋषि॑मना॒ य ऋ॑षि॒कृत्स्व॒र्षाः स॒हस्र॑णीथः पद॒वीः क॑वी॒नां । तृ॒तीयं॒ धाम॑ महि॒षः सिषा॑सं॒त्सोमो॑ वि॒राज॒मनु॑ राजति॒ ष्टुप् ॥
ऋषि॑ऽमनाः , यः , ऋ॒षि॒ऽकृत् , स्वः॒ऽसाः , स॒हस्र॑ऽनीथः , प॒द॒ऽवीः , क॒वी॒नां । तृ॒तीयं॑ , धाम॑ , म॒हि॒षः , सिसा॑सन् , सोमः॑ , वि॒ऽराजं॑ , अनु॑ , रा॒ज॒ति॒ , स्तुप् ॥
च॒मू॒षच्छ्ये॒नः श॑कु॒नो वि॒भृत्वा॑ गोविं॒दुर्द्र॒प्स आयु॑धानि॒ बिभ्र॑त् । अ॒पामू॒र्मिं सच॑मानः समु॒द्रं तु॒रीयं॒ धाम॑ महि॒षो वि॑वक्ति ॥
च॒मू॒ऽसत् , श्ये॒नः , श॒कु॒नः , वि॒ऽभृत्वा॑ , गो॒ऽविं॒दुः , द्र॒प्सः , आयु॑धानि , बिभ्र॑त् । अ॒पां , ऊ॒र्मिं , सच॑मानः , स॒मु॒द्रं , तु॒रीयं॑ , धाम॑ , म॒हि॒षः , वि॒व॒क्ति॒ ॥
मर्यो॒ न शु॒भ्रस्त॒न्वं॑ मृजा॒नोऽत्यो॒ न सृत्वा॑ स॒नये॒ धना॑नां । वृषे॑व यू॒था परि॒ कोश॒मर्ष॒न्कनि॑क्रदच्च॒म्वो॒३॒॑रा वि॑वेश ॥
मर्यः॑ , न , शु॒भ्रः , त॒न्वं॑ , मृ॒जा॒नः , अत्यः॑ , न , सृत्वा॑ , स॒नये॑ , धना॑नां । वृषा॑ऽइव , यू॒था , परि॑ , कोशं॑ , अर्ष॑न् , कनि॑क्रदत् , च॒म्वोः॑ , आ , वि॒वे॒श॒ ॥
पव॑स्वेंदो॒ पव॑मानो॒ महो॑भिः॒ कनि॑क्रद॒त्परि॒ वारा॑ण्यर्ष । क्रीळं॑च॒म्वो॒३॒॑रा वि॑श पू॒यमा॑न॒ इंद्रं॑ ते॒ रसो॑ मदि॒रो म॑मत्तु ॥
पव॑स्व , इं॒दो॒ इति॑ , पव॑मानः , महः॑ऽभिः , कनि॑क्रदत् , परि॑ , वारा॑णि , अ॒र्ष॒ । क्रीळ॑न् , च॒म्वोः॑ , आ , वि॒श॒ , पू॒यमा॑नः , इंद्रं॑ , ते॒ , रसः॑ , म॒दि॒रः , म॒म॒त्तु॒ ॥
प्रास्य॒ धारा॑ बृह॒तीर॑सृग्रन्न॒क्तो गोभिः॑ क॒लशाँ॒ आ वि॑वेश । साम॑ कृ॒ण्वंत्सा॑म॒न्यो॑ विप॒श्चित्क्रंद॑न्नेत्य॒भि सख्यु॒र्न जा॒मिं ॥
प्र , अ॒स्य॒ , धाराः॑ , बृ॒ह॒तीः , अ॒सृ॒ग्र॒न् , अ॒क्तः , गोभिः॑ , क॒लशा॑न् , आ , वि॒वे॒श॒ । साम॑ , कृ॒ण्वन् , सा॒म॒न्यः॑ , वि॒पः॒ऽचित् , क्रंद॑न् , ए॒ति॒ , अ॒भि , सख्युः॑ , न , जा॒मिं ॥
अ॒प॒घ्नन्ने॑षि पवमान॒ शत्रू॑न्प्रि॒यां न जा॒रो अ॒भिगी॑त॒ इंदुः॑ । सीद॒न्वने॑षु शकु॒नो न पत्वा॒ सोमः॑ पुना॒नः क॒लशे॑षु॒ सत्ता॑ ॥
अ॒प॒ऽघ्नन् , ए॒षि॒ , प॒व॒मा॒न॒ , शत्रू॑न् , प्रि॒यां , न , जा॒रः , अ॒भिऽगी॑तः , इंदुः॑ । सीद॑न् , वने॑षु , श॒कु॒नः , न , पत्वा॑ , सोमः॑ , पु॒ना॒नः , क॒लशे॑षु , सत्ता॑ ॥
आ ते॒ रुचः॒ पव॑मानस्य सोम॒ योषे॑व यंति सु॒दुघाः॑ सुधा॒राः । हरि॒रानी॑तः पुरु॒वारो॑ अ॒प्स्वचि॑क्रदत्क॒लशे॑ देवयू॒नां ॥
आ , ते॒ , रुचः॑ , पव॑मानस्य , सो॒म॒ , योषा॑ऽइव , यं॒ति॒ , सु॒ऽदुघाः॑ , सु॒ऽधा॒राः । हरिः॑ , आऽनी॑तः , पु॒रु॒ऽवारः॑ , अ॒प्ऽसु , अचि॑क्रदत् , क॒लशे॑ , दे॒व॒ऽयू॒नां ॥
[९७] अस्यप्रेपेत्यष्टपंचाशदृचस्य सूक्तस्याद्यानांतिसृणांमैत्रावरुणिर्वसिष्ठः चतुर्थ्यादितिसृणांवासिष्ठइंद्रप्रमतिः सप्तम्यादितिसृणांवासिष्ठोवृषगणः दशम्यादितिसृणांवासिष्टोमन्युः त्रयोदश्यादितिसृणां वासिष्ठ उपमन्युः षोडश्यादितिसृणांवासिष्ठोव्याघ्रपादः एकोनविंश्यादितिसृणां वासिष्ठःशक्तिः द्वाविंश्यादितिसृणां वासिष्ठःकर्णश्रुतः पंचविंश्यादितिसृणां वासिष्ठो मृळीकः अष्टविंश्यादितिसृणां वासिष्ठोवसुक्र एकत्रिंश्यादि चतुर्दशानां शाक्त्यः पराशरः पंचचत्वारिंश्यादिचतुर्दशानामांगिरसः कुत्स ऋषयः पवमानःसोमस्त्रिष्टुप् |
अ॒स्य प्रे॒षा हे॒मना॑ पू॒यमा॑नो दे॒वो दे॒वेभिः॒ सम॑पृक्त॒ रसं॑ । सु॒तः प॒वित्रं॒ पर्ये॑ति॒ रेभ॑न्मि॒तेव॒ सद्म॑ पशु॒मांति॒ होता॑ ॥
अ॒स्य , प्रे॒षा , हे॒मना॑ , पू॒यमा॑नः , दे॒वः , दे॒वेभिः॑ , सं , अ॒पृ॒क्त॒ , रसं॑ । सु॒तः , प॒वित्रं॑ , परि॑ , ए॒ति॒ , रेभ॑न् , मि॒ताऽइ॑व , सद्म॑ , प॒शु॒ऽमंति॑ , होता॑ ॥
भ॒द्रा वस्त्रा॑ सम॒न्या॒३॒॑ वसा॑नो म॒हान्क॒विर्नि॒वच॑नानि॒ शंस॑न् । आ व॑च्यस्व च॒म्वोः॑ पू॒यमा॑नो विचक्ष॒णो जागृ॑विर्दे॒ववी॑तौ ॥
भ॒द्रा , वस्त्रा॑ , स॒म॒न्या॑ , वसा॑नः , म॒हान् , क॒विः , नि॒ऽवच॑नानि , शं॒स॒न् । आ , व॒च्य॒स्व॒ , च॒म्वोः॑ , पू॒यमा॑नः , वि॒ऽच॒क्ष॒णः , जागृ॑विः , दे॒वऽवी॑तौ ॥
समु॑ प्रि॒यो मृ॑ज्यते॒ सानो॒ अव्ये॑ य॒शस्त॑रो य॒शसां॒ क्षैतो॑ अ॒स्मे । अ॒भि स्व॑र॒ धन्वा॑ पू॒यमा॑नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
सं , ऊँ॒ इति॑ , प्रि॒यः , मृ॒ज्य॒ते॒ , सानौ॑ , अव्ये॑ , य॒शःऽत॑रः , य॒शसां॑ , क्षैतः॑ , अ॒स्मे इति॑ । अ॒भि , स्व॒र॒ , धन्व॑ , पू॒यमा॑नः , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
प्र गा॑यता॒भ्य॑र्चाम दे॒वांत्सोमं॑ हिनोत मह॒ते धना॑य । स्वा॒दुः प॑वाते॒ अति॒ वार॒मव्य॒मा सी॑दाति क॒लशं॑ देव॒युर्नः॑ ॥
प्र , गा॒य॒त॒ , अ॒भि , अ॒र्चा॒म॒ , दे॒वान् , सोमं॑ , हि॒नो॒त॒ , म॒ह॒ते , धना॑य । स्वा॒दुः , प॒वा॒ते॒ , अति॑ , वारं॑ , अव्यं॑ , आ , सी॒दा॒ति॒ , क॒लशं॑ , दे॒व॒ऽयुः , नः॒ ॥
इंदु॑र्दे॒वाना॒मुप॑ स॒ख्यमा॒यंत्स॒हस्र॑धारः पवते॒ मदा॑य । नृभिः॒ स्तवा॑नो॒ अनु॒ धाम॒ पूर्व॒मग॒न्निंद्रं॑ मह॒ते सौभ॑गाय ॥
इंदुः॑ , दे॒वानां॑ , उप॑ , स॒ख्यं , आ॒ऽयन् , स॒हस्र॑ऽधारः , प॒व॒ते॒ , मदा॑य । नृऽभिः॑ , स्तवा॑नः , अनु॑ , धाम॑ , पूर्वं॑ , अग॑न् , इंद्रं॑ , म॒ह॒ते , सौभ॑गाय ॥
स्तो॒त्रे रा॒ये हरि॑रर्षा पुना॒न इंद्रं॒ मदो॑ गच्छतु ते॒ भरा॑य । दे॒वैर्या॑हि स॒रथं॒ राधो॒ अच्छा॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
स्तो॒त्रे , रा॒ये , हरिः॑ , अ॒र्ष॒ , पु॒ना॒नः , इंद्रं॑ , मदः॑ , ग॒च्छ॒तु॒ , ते॒ , भरा॑य । दे॒वैः , या॒हि॒ , स॒ऽरथं॑ , राधः॑ , अच्छ॑ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
प्र काव्य॑मु॒शने॑व ब्रुवा॒णो दे॒वो दे॒वानां॒ जनि॑मा विवक्ति । महि॑व्रतः॒ शुचि॑बंधुः पाव॒कः प॒दा व॑रा॒हो अ॒भ्ये॑ति॒ रेभ॑न् ॥
प्र , काव्यं॑ , उ॒शना॑ऽइव , ब्रु॒वा॒णः , दे॒वः , दे॒वानां॑ , जनि॑म , वि॒व॒क्ति॒ । महि॑ऽव्रतः , शुचि॑ऽबंधुः , पा॒व॒कः , प॒दा , व॒रा॒हः , अ॒भि , ए॒ति॒ , रेभ॑न् ॥
प्र हं॒सास॑स्तृ॒पलं॑ म॒न्युमच्छा॒मादस्तं॒ वृष॑गणा अयासुः । आं॒गू॒ष्यं१॒॑ पव॑मानं॒ सखा॑यो दु॒र्मर्षं॑ सा॒कं प्र व॑दंति वा॒णं ॥
प्र , हं॒सासः॑ , तृ॒पलं॑ , म॒न्युं , अच्छ॑ , अ॒मात् , अस्तं॑ , वृष॑ऽगणाः , अ॒या॒सुः॒ । आं॒गू॒ष्यं॑ , पव॑मानं , सखा॑यः , दुः॒ऽमर्षं॑ , सा॒कं , प्र , व॒दं॒ति॒ , वा॒णं ॥
स रं॑हत उरुगा॒यस्य॑ जू॒तिं वृथा॒ क्रीळं॑तं मिमते॒ न गावः॑ । प॒री॒ण॒सं कृ॑णुते ति॒ग्मशृं॑गो॒ दिवा॒ हरि॒र्ददृ॑शे॒ नक्त॑मृ॒ज्रः ॥
सः , रं॒ह॒ते॒ , उ॒रु॒ऽगा॒यस्य॑ , जू॒तिं , वृथा॑ , क्रीळं॑तं , मि॒म॒ते॒ , न , गावः॑ । प॒री॒ण॒सं , कृ॒णु॒ते॒ , ति॒ग्मऽशृं॑गः , दिवा॑ , हरिः॑ , ददृ॑शे , नक्तं॑ , ऋ॒ज्रः ॥
इंदु॑र्वा॒जी प॑वते॒ गोन्यो॑घा॒ इंद्रे॒ सोमः॒ सह॒ इन्व॒न्मदा॑य । हंति॒ रक्षो॒ बाध॑ते॒ पर्यरा॑ती॒र्वरि॑वः कृ॒ण्वन्वृ॒जन॑स्य॒ राजा॑ ॥
इंदुः॑ , वा॒जी , प॒व॒ते॒ , गोऽन्यो॑घाः , इंद्रे॑ , सोमः॑ , सह॑ , इन्व॑न् , मदा॑य । हंति॑ , रक्षः॑ , बाध॑ते , परि॑ , अरा॑तीः , वरि॑वः , कृ॒ण्वन् , वृ॒जन॑स्य , राजा॑ ॥
अध॒ धार॑या॒ मध्वा॑ पृचा॒नस्ति॒रो रोम॑ पवते॒ अद्रि॑दुग्धः । इंदु॒रिंद्र॑स्य स॒ख्यं जु॑षा॒णो दे॒वो दे॒वस्य॑ मत्स॒रो मदा॑य ॥
अध॑ , धार॑या , मध्वा॑ , पृ॒चा॒नः , ति॒रः , रोम॑ , प॒व॒ते॒ , अद्रि॑ऽदुग्धः । इंदुः॑ , इंद्र॑स्य , स॒ख्यं , जु॒षा॒णः , दे॒वः , दे॒वस्य॑ , म॒त्स॒रः , मदा॑य ॥
अ॒भि प्रि॒याणि॑ पवते पुना॒नो दे॒वो दे॒वांत्स्वेन॒ रसे॑न पृं॒चन् । इंदु॒र्धर्मा॑ण्यृतु॒था वसा॑नो॒ दश॒ क्षिपो॑ अव्यत॒ सानो॒ अव्ये॑ ॥
अ॒भि , प्रि॒याणि॑ , प॒व॒ते॒ , पु॒ना॒नः , दे॒वः , दे॒वान् , स्वेन॑ , रसे॑न , पृं॒चन् । इंदुः॑ , धर्मा॑णि , ऋ॒तु॒ऽथा , वसा॑नः , दश॑ , क्षिपः॑ , अ॒व्य॒त॒ , सानौ॑ , अव्ये॑ ॥
वृषा॒ शोणो॑ अभि॒कनि॑क्रद॒द्गा न॒दय॑न्नेति पृथि॒वीमु॒त द्यां । इंद्र॑स्येव व॒ग्नुरा शृ॑ण्व आ॒जौ प्र॑चे॒तय॑न्नर्षति॒ वाच॒मेमां ॥
वृषा॑ , शोणः॑ , अ॒भि॒ऽकनि॑क्रदत् , गाः , न॒दय॑न् , ए॒ति॒ , पृ॒थि॒वीं , उ॒त , द्यां । इंद्र॑स्यऽइव , व॒ग्नुः , आ , शृ॒ण्वे॒ , आ॒जौ , प्र॒ऽचे॒तय॑न् , अ॒र्ष॒ति॒ , वाचं॑ , आ , इ॒मां ॥
र॒साय्यः॒ पय॑सा॒ पिन्व॑मान ई॒रय॑न्नेषि॒ मधु॑मंतमं॒शुं । पव॑मानः संत॒निमे॑षि कृ॒ण्वन्निंद्रा॑य सोम परिषि॒च्यमा॑नः ॥
र॒साय्यः॑ , पय॑सा , पिन्व॑मानः , ई॒रय॑न् , ए॒षि॒ , मधु॑ऽमंतं , अं॒शुं । पव॑मानः , सं॒ऽत॒निं , ए॒षि॒ , कृ॒ण्वन् , इंद्रा॑य , सो॒म॒ , प॒रि॒ऽसि॒च्यमा॑नः ॥
ए॒वा प॑वस्व मदि॒रो मदा॑योदग्रा॒भस्य॑ न॒मय॑न्वध॒स्नैः । परि॒ वर्णं॒ भर॑माणो॒ रुशं॑तं ग॒व्युर्नो॑ अर्ष॒ परि॑ सोम सि॒क्तः ॥
ए॒व , प॒व॒स्व॒ , म॒दि॒रः , मदा॑य , उ॒द॒ऽग्रा॒भस्य॑ , न॒मय॑न् , व॒ध॒ऽस्नैः । परि॑ , वर्णं॑ , भर॑माणः , रुशं॑तं , ग॒व्युः , नः॒ , अ॒र्ष॒ , परि॑ , सो॒म॒ , सि॒क्तः ॥
जु॒ष्ट्वी न॑ इंदो सु॒पथा॑ सु॒गान्यु॒रौ प॑वस्व॒ वरि॑वांसि कृ॒ण्वन् । घ॒नेव॒ विष्व॑ग्दुरि॒तानि॑ वि॒घ्नन्नधि॒ ष्णुना॑ धन्व॒ सानो॒ अव्ये॑ ॥
जु॒ष्ट्वी , नः॒ , इं॒दो॒ इति॑ , सु॒ऽपथा॑ , सु॒ऽगानि॑ , उ॒रौ , प॒व॒स्व॒ , वरि॑वांसि , कृ॒ण्वन् । घ॒नाऽइ॑व , विष्व॑क् , दुः॒ऽइ॒तानि॑ , वि॒ऽघ्नन् , अधि॑ , स्नुना॑ , ध॒न्व॒ , सानौ॑ , अव्ये॑ ॥
वृ॒ष्टिं नो॑ अर्ष दि॒व्यां जि॑ग॒त्नुमिळा॑वतीं शं॒गयीं॑ जी॒रदा॑नुं । स्तुके॑व वी॒ता ध॑न्वा विचि॒न्वन्बंधूँ॑रि॒माँ अव॑राँ इंदो वा॒यून् ॥
वृ॒ष्टिं , नः॒ , अ॒र्ष॒ , दि॒व्यां , जि॒ग॒त्नुं , इळा॑ऽवतीं , शं॒ऽगयीं॑ , जी॒रऽदा॑नुं । स्तुका॑ऽइव , वी॒ता , ध॒न्व॒ , वि॒ऽचि॒न्वन् , बंधू॑न् , इ॒मान् , अव॑रान् , इं॒दो॒ इति॑ , वा॒यून् ॥
ग्रं॒थिं न वि ष्य॑ ग्रथि॒तं पु॑ना॒न ऋ॒जुं च॑ गा॒तुं वृ॑जि॒नं च॑ सोम । अत्यो॒ न क्र॑दो॒ हरि॒रा सृ॑जा॒नो मर्यो॑ देव धन्व प॒स्त्या॑वान् ॥
ग्रं॒थिं , न , वि , स्य॒ , ग्र॒थि॒तं , पु॒ना॒नः , ऋ॒जुं , च॒ , गा॒तुं , वृ॒जि॒नं , च॒ , सो॒म॒ । अत्यः॑ , न , क्र॒दः॒ , हरिः॑ , आ , सृ॒जा॒नः , मर्यः॑ , दे॒व॒ , ध॒न्व॒ , प॒स्त्य॑ऽवान् ॥
जुष्टो॒ मदा॑य दे॒वता॑त इंदो॒ परि॒ ष्णुना॑ धन्व॒ सानो॒ अव्ये॑ । स॒हस्र॑धारः सुर॒भिरद॑ब्धः॒ परि॑ स्रव॒ वाज॑सातौ नृ॒षह्ये॑ ॥
जुष्टः॑ , मदा॑य , दे॒वऽता॑ते , इं॒दो॒ इति॑ , परि॑ , स्नुना॑ , ध॒न्व॒ , सानौ॑ , अव्ये॑ । स॒हस्र॑ऽधारः , सु॒र॒भिः , अद॑ब्धः , परि॑ , स्र॒व॒ , वाज॑ऽसातौ , नृ॒ऽसह्ये॑ ॥
अ॒र॒श्मानो॒ ये॑ऽर॒था अयु॑क्ता॒ अत्या॑सो॒ न स॑सृजा॒नास॑ आ॒जौ । ए॒ते शु॒क्रासो॑ धन्वंति॒ सोमा॒ देवा॑स॒स्ताँ उप॑ याता॒ पिब॑ध्यै ॥
अ॒र॒श्मानः॑ , ये , अ॒र॒थाः , अयु॑क्ताः , अत्या॑सः , न , स॒सृ॒जा॒नासः॑ , आ॒जौ । ए॒ते , शु॒क्रासः॑ , ध॒न्वं॒ति॒ , सोमाः॑ , देवा॑सः , तान् , उप॑ , या॒त॒ , पिब॑ध्यै ॥
ए॒वा न॑ इंदो अ॒भि दे॒ववी॑तिं॒ परि॑ स्रव॒ नभो॒ अर्ण॑श्च॒मूषु॑ । सोमो॑ अ॒स्मभ्यं॒ काम्यं॑ बृ॒हंतं॑ र॒यिं द॑दातु वी॒रवं॑तमु॒ग्रं ॥
ए॒व , नः॒ , इं॒दो॒ , अ॒भि , दे॒वऽवी॑तिं , परि॑ , स्र॒व॒ , नभः॑ , अर्णः॑ , च॒मूषु॑ । सोमः॑ , अ॒स्मभ्यं॑ , काम्यं॑ , बृ॒हंतं॑ , र॒यिं , द॒दा॒तु॒ , वी॒रऽवं॑तं , उ॒ग्रं ॥
तक्ष॒द्यदी॒ मन॑सो॒ वेन॑तो॒ वाग्ज्येष्ठ॑स्य वा॒ धर्म॑णि॒ क्षोरनी॑के । आदी॑माय॒न्वर॒मा वा॑वशा॒ना जुष्टं॒ पतिं॑ क॒लशे॒ गाव॒ इंदुं॑ ॥
तक्ष॑त् , यदि॑ , मन॑सः , वेन॑तः , वाक् , ज्येष्ठ॑स्य , वा॒ , धर्म॑णि , क्षोः , अनी॑के । आत् , ईं॒ , आ॒य॒न् , वरं॑ , आ , वा॒व॒शा॒नाः , जुष्टं॑ , पतिं॑ , क॒लशे॑ , गावः॑ , इंदुं॑ ॥
प्र दा॑नु॒दो दि॒व्यो दा॑नुपि॒न्व ऋ॒तमृ॒ताय॑ पवते सुमे॒धाः । ध॒र्मा भु॑वद्वृज॒न्य॑स्य॒ राजा॒ प्र र॒श्मिभि॑र्द॒शभि॑र्भारि॒ भूम॑ ॥
प्र , दा॒नु॒ऽदः , दि॒व्यः , दा॒नु॒ऽपि॒न्वः , ऋ॒तं , ऋ॒ताय॑ , प॒व॒ते॒ , सु॒ऽमे॒धाः । ध॒र्मा , भु॒व॒त् , वृ॒ज॒न्य॑स्य , राजा॑ , प्र , रा॒स्मिऽभिः॑ , द॒शऽभिः॑ , भा॒रि॒ , भूम॑ ॥
प॒वित्रे॑भिः॒ पव॑मानो नृ॒चक्षा॒ राजा॑ दे॒वाना॑मु॒त मर्त्या॑नां । द्वि॒ता भु॑वद्रयि॒पती॑ रयी॒णामृ॒तं भ॑र॒त्सुभृ॑तं॒ चार्विंदुः॑ ॥
प॒वित्रे॑भिः , पव॑मानः , नृ॒ऽचक्षाः॑ , राजा॑ , दे॒वानां॑ , उ॒त , मर्त्या॑नां । द्वि॒ता , भु॒व॒त् , र॒यि॒ऽपतिः॑ , र॒यी॒णां , ऋ॒तं , भ॒र॒त् , सुऽभृ॑तं , चारु॑ , इंदुः॑ ॥
अर्वाँ॑ इव॒ श्रव॑से सा॒तिमच्छेंद्र॑स्य वा॒योर॒भि वी॒तिम॑र्ष । स नः॑ स॒हस्रा॑ बृह॒तीरिषो॑ दा॒ भवा॑ सोम द्रविणो॒वित्पु॑ना॒नः ॥
अर्वा॑न्ऽइव , श्रव॑से , सा॒तिं , अच्छ॑ , इंद्र॑स्य , वा॒योः , अ॒भि , वी॒तिं , अ॒र्ष॒ । सः , नः॒ , स॒हस्रा॑ , बृ॒ह॒तीः , इषः॑ , दाः॒ , भव॑ , सो॒म॒ , द्र॒वि॒णः॒ऽवित् , पु॒ना॒नः ॥
दे॒वा॒व्यो॑ नः परिषि॒च्यमा॑नाः॒ क्षयं॑ सु॒वीरं॑ धन्वंतु॒ सोमाः॑ । आ॒य॒ज्यवः॑ सुम॒तिं वि॒श्ववा॑रा॒ होता॑रो॒ न दि॑वि॒यजो॑ मं॒द्रत॑माः ॥
दे॒व॒ऽअ॒व्यः॑ , नः॒ , प॒रि॒ऽसि॒च्यमा॑नाः , क्षयं॑ , सु॒ऽवीरं॑ , ध॒न्वं॒तु॒ , सोमाः॑ । आ॒ऽय॒ज्यवः॑ , सु॒ऽम॒तिं , वि॒श्वऽवा॑राः , होता॑रः , न , दि॒वि॒ऽयजः॑ , मं॒द्रऽत॑माः ॥
ए॒वा दे॑व दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑से देव॒पानः॑ । म॒हश्चि॒द्धि ष्मसि॑ हि॒ताः स॑म॒र्ये कृ॒धि सु॑ष्ठा॒ने रोद॑सी पुना॒नः ॥
ए॒व , दे॒व॒ , दे॒वऽता॑ते , प॒व॒स्व॒ , म॒हे , सो॒म॒ , प्सर॑से , दे॒व॒ऽपानः॑ । म॒हः , चि॒त् , हि , स्मसि॑ , हि॒ताः , स॒ऽम॒र्ये , कृ॒धि , सु॒स्था॒ने इति॑ सु॒ऽस्था॒ने , रोद॑सी॒ इति॑ , पु॒ना॒नः ॥
अश्वो॒ न क्र॑दो॒ वृष॑भिर्युजा॒नः सिं॒हो न भी॒मो मन॑सो॒ जवी॑यान् । अ॒र्वा॒चीनैः॑ प॒थिभि॒र्ये रजि॑ष्ठा॒ आ प॑वस्व सौमन॒सं न॑ इंदो ॥
अश्वः॑ , न , क्र॒दः॒ , वृष॑ऽभिः , यु॒जा॒नः , सिं॒हः , न , भी॒मः , मन॑सः , जवी॑यान् । अ॒र्वा॒चीनैः॑ , प॒थिऽभिः॑ , ये , रजि॑ष्ठाः , आ , प॒व॒स्व॒ , सौ॒म॒न॒सं , नः॒ , इं॒दो॒ इति॑ ॥
श॒तं धारा॑ दे॒वजा॑ता असृग्रंत्स॒हस्र॑मेनाः क॒वयो॑ मृजंति । इंदो॑ स॒नित्रं॑ दि॒व आ प॑वस्व पुरए॒तासि॑ मह॒तो धन॑स्य ॥
श॒तं , धाराः॑ , दे॒वऽजा॑ताः , अ॒सृ॒ग्र॒न् , स॒हस्रं॑ , ए॒नाः॒ , क॒वयः॑ , मृ॒जं॒ति॒ । इंदो॒ इति॑ , स॒नित्रं॑ , दि॒वः , आ , प॒व॒स्व॒ , पु॒रः॒ऽए॒ता , अ॒सि॒ , म॒ह॒तः , धन॑स्य ॥
दि॒वो न सर्गा॑ अससृग्र॒मह्नां॒ राजा॒ न मि॒त्रं प्र मि॑नाति॒ धीरः॑ । पि॒तुर्न पु॒त्रः क्रतु॑भिर्यता॒न आ प॑वस्व वि॒शे अ॒स्या अजी॑तिं ॥
दि॒वः , न , सर्गाः॑ , अ॒स॒सृ॒ग्रं॒ , अह्नां॑ , राजा॑ , न , मि॒त्रं , प्र , मि॒ना॒ति॒ , धीरः॑ । पि॒तुः , न , पु॒त्रः , क्रतु॑ऽभिः , य॒ता॒नः , आ , प॒व॒स्व॒ , वि॒शे , अ॒स्यै , अजी॑तिं ॥
प्र ते॒ धारा॒ मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो अ॒त्येष्यव्या॑न् । पव॑मान॒ पव॑से॒ धाम॒ गोनां॑ जज्ञा॒नः सूर्य॑मपिन्वो अ॒र्कैः ॥
प्र , ते॒ , धाराः॑ , मधु॑ऽमतीः , अ॒सृ॒ग्र॒न् , वारा॑न् , यत् , पू॒तः , अ॒ति॒ऽएषि॑ , अव्या॑न् । पव॑मान , पव॑से , धाम॑ , गोनां॑ , ज॒ज्ञा॒नः , सूर्यं॑ , अ॒पि॒न्वः॒ , अ॒र्कैः ॥
कनि॑क्रद॒दनु॒ पंथा॑मृ॒तस्य॑ शु॒क्रो वि भा॑स्य॒मृत॑स्य॒ धाम॑ । स इंद्रा॑य पवसे मत्स॒रवा॑न्हिन्वा॒नो वाचं॑ म॒तिभिः॑ कवी॒नां ॥
कनि॑क्रदत् , अनु॑ , पंथां॑ , ऋ॒तस्य॑ , शु॒क्रः , वि , भा॒सि॒ , अ॒मृत॑स्य , धाम॑ । सः , इंद्रा॑य , प॒व॒से॒ , म॒त्स॒रऽवा॑न् , हि॒न्वा॒नः , वाचं॑ , म॒तिऽभिः॑ , क॒वी॒नां ॥
दि॒व्यः सु॑प॒र्णोऽव॑ चक्षि सोम॒ पिन्वं॒धाराः॒ कर्म॑णा दे॒ववी॑तौ । एंदो॑ विश क॒लशं॑ सोम॒धानं॒ क्रंद॑न्निहि॒ सूर्य॒स्योप॑ र॒श्मिं ॥
दि॒व्यः , सु॒ऽप॒र्णः , अव॑ , च॒क्षि॒ , सो॒म॒ , पिन्व॑न् , धाराः॑ , कर्म॑णा , दे॒वऽवी॑तौ । आ , इं॒दो॒ इति॑ , वि॒श॒ , क॒लशं॑ , सो॒म॒ऽधानं॑ , क्रंद॑न् , इ॒हि॒ , सूर्य॑स्य , उप॑ , र॒श्मिं ॥
ति॒स्रो वाच॑ ईरयति॒ प्र वह्नि॑र्ऋ॒तस्य॑ धी॒तिं ब्रह्म॑णो मनी॒षां । गावो॑ यंति॒ गोप॑तिं पृ॒च्छमा॑नाः॒ सोमं॑ यंति म॒तयो॑ वावशा॒नाः ॥
ति॒स्रः , वाचः॑ , ई॒र॒य॒ति॒ , प्र , वह्निः॑ , ऋ॒तस्य॑ , धी॒तिं , ब्रह्म॑णः , म॒नी॒षां । गावः॑ , यं॒ति॒ , गोऽप॑तिं , पृ॒च्छमा॑नाः , सोमं॑ , यं॒ति॒ , म॒तयः॑ , वा॒व॒शा॒नाः ॥
सोमं॒ गावो॑ धे॒नवो॑ वावशा॒नाः सोमं॒ विप्रा॑ म॒तिभिः॑ पृ॒च्छमा॑नाः । सोमः॑ सु॒तः पू॑यते अ॒ज्यमा॑नः॒ सोमे॑ अ॒र्कास्त्रि॒ष्टुभः॒ सं न॑वंते ॥
सोमं॑ , गावः॑ , धे॒नवः॑ , वा॒व॒शा॒नाः , सोमं॑ , विप्राः॑ , म॒तिऽभिः॑ , पृ॒च्छमा॑नाः । सोमः॑ , सु॒तः , पू॒य॒ते॒ , अ॒ज्यमा॑नः , सोमे॑ , अ॒र्काः , त्रि॒ऽस्तुभः॑ , सं , न॒वं॒ते॒ ॥
ए॒वा नः॑ सोम परिषि॒च्यमा॑न॒ आ प॑वस्व पू॒यमा॑नः स्व॒स्ति । इंद्र॒मा वि॑श बृह॒ता रवे॑ण व॒र्धया॒ वाचं॑ ज॒नया॒ पुरं॑धिं ॥
ए॒व , नः॒ , सो॒म॒ , प॒रि॒ऽसि॒च्यमा॑नः , आ , प॒व॒स्व॒ , पू॒यमा॑नः , स्व॒स्ति । इंद्रं॑ , आ , वि॒श॒ , बृ॒ह॒ता , रवे॑ण , व॒र्धय॑ , वाचं॑ , ज॒नय॑ , पुरं॑ऽधिं ॥
आ जागृ॑वि॒र्विप्र॑ ऋ॒ता म॑ती॒नां सोमः॑ पुना॒नो अ॑सदच्च॒मूषु॑ । सपं॑ति॒ यं मि॑थु॒नासो॒ निका॑मा अध्व॒र्यवो॑ रथि॒रासः॑ सु॒हस्ताः॑ ॥
आ , जागृ॑विः , विप्रः॑ , ऋ॒ता , म॒ती॒नां , सोमः॑ , पु॒ना॒नः , अ॒स॒द॒त् , च॒मूषु॑ । सपं॑ति , यं , मि॒थु॒नासः॑ , निऽका॑माः , अ॒ध्व॒र्यवः॑ , र॒थि॒रासः॑ , सु॒ऽहस्ताः॑ ॥
स पु॑ना॒न उप॒ सूरे॒ न धातोभे अ॑प्रा॒ रोद॑सी॒ वि ष आ॑वः । प्रि॒या चि॒द्यस्य॑ प्रिय॒सास॑ ऊ॒ती स तू धनं॑ का॒रिणे॒ न प्र यं॑सत् ॥
सः , पु॒ना॒नः , उप॑ , सूरे॑ , न , धाता॑ , आ , उ॒भे इति॑ , अ॒प्राः॒ , रोद॑सी॒ इति॑ , वि , सः , आ॒व॒रित्या॑वः । प्रि॒या , चि॒त् , यस्य॑ , प्रि॒य॒सासः॑ , ऊ॒ती , सः , तु , धनं॑ , का॒रिणे॑ , न , प्र , यं॒स॒त् ॥
स व॑र्धि॒ता वर्ध॑नः पू॒यमा॑नः॒ सोमो॑ मी॒ढ्वाँ अ॒भि नो॒ ज्योति॑षावीत् । येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञाः स्व॒र्विदो॑ अ॒भि गा अद्रि॑मु॒ष्णन् ॥
सः , व॒र्धि॒ता , वर्ध॑नः , पू॒यमा॑नः , सोमः॑ , मी॒ढ्वान् , अ॒भि , नः॒ , ज्योति॑षा , आ॒वी॒त् । येन॑ , नः॒ , पूर्वे॑ , पि॒तरः॑ , प॒द॒ऽज्ञाः , स्वः॒ऽविदः॑ , अ॒भि , गाः , अद्रिं॑ , उ॒ष्णन् ॥
अक्रां॑त्समु॒द्रः प्र॑थ॒मे विध॑र्मंज॒नय॑न्प्र॒जा भुव॑नस्य॒ राजा॑ । वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ अव्ये॑ बृ॒हत्सोमो॑ वावृधे सुवा॒न इंदुः॑ ॥
अक्रा॑न् , स॒मु॒द्रः , प्र॒थ॒मे , विऽध॑र्मन् , ज॒नय॑न् , प्र॒ऽजाः , भुव॑नस्य , राजा॑ । वृषा॑ , प॒वित्रे॑ , अधि॑ , सानौ॑ , अव्ये॑ , बृ॒हत् , सोमः॑ , व॒वृ॒धे॒ , सु॒वा॒नः , इंदुः॑ ॥
म॒हत्तत्सोमो॑ महि॒षश्च॑कारा॒पां यद्गर्भोऽवृ॑णीत दे॒वान् । अद॑धा॒दिंद्रे॒ पव॑मान॒ ओजोऽज॑नय॒त्सूर्ये॒ ज्योति॒रिंदुः॑ ॥
म॒हत् , तत् , सोमः॑ , म॒हि॒षः , च॒का॒र॒ , अ॒पां , यत् , गर्भः॑ , अवृ॑णीत , दे॒वान् । अद॑धात् , इंद्रे॑ , पव॑मानः , ओजः॑ , अज॑नयत् , सूर्ये॑ , ज्योतिः॑ , इंदुः॑ ॥
मत्सि॑ वा॒युमि॒ष्टये॒ राध॑से च॒ मत्सि॑ मि॒त्रावरु॑णा पू॒यमा॑नः । मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॒ द्यावा॑पृथि॒वी दे॑व सोम ॥
मत्सि॑ , वा॒युं , इ॒ष्टये॑ , राध॑से , च॒ , मत्सि॑ , मि॒त्रावरु॑णा , पू॒यमा॑नः । मत्सि॑ , शर्धः॑ , मारु॑तं , मत्सि॑ , दे॒वान् , मत्सि॑ , द्यावा॑पृथि॒वी इति॑ , दे॒व॒ , सो॒म॒ ॥
ऋ॒जुः प॑वस्व वृजि॒नस्य॑ हं॒तापामी॑वां॒ बाध॑मानो॒ मृध॑श्च । अ॒भि॒श्री॒णन्पयः॒ पय॑सा॒भि गोना॒मिंद्र॑स्य॒ त्वं तव॑ व॒यं सखा॑यः ॥
ऋ॒जुः , प॒व॒स्व॒ , वृ॒जि॒नस्य॑ , हं॒ता , अप॑ , अमी॑वां , बाध॑मानः , मृधः॑ , च॒ । अ॒भि॒ऽश्री॒णन् , पयः॑ , पय॑सा , अ॒भि , गोनां॑ , इंद्र॑स्य , त्वं , तव॑ , व॒यं , सखा॑यः ॥
मध्वः॒ सूदं॑ पवस्व॒ वस्व॒ उत्सं॑ वी॒रं च॑ न॒ आ प॑वस्वा॒ भगं॑ च । स्वद॒स्वेंद्रा॑य॒ पव॑मान इंदो र॒यिं च॑ न॒ आ प॑वस्वा समु॒द्रात् ॥
मध्वः॑ , सूदं॑ , प॒व॒स्व॒ , वस्वः॑ , उत्सं॑ , वी॒रं , च॒ , नः॒ , आ , प॒व॒स्व॒ , भगं॑ , च॒ । स्वद॑स्व , इंद्रा॑य , पव॑मानः , इं॒दो॒ इति॑ , र॒यिं , च॒ , नः॒ , आ , प॒व॒स्व॒ , स॒मु॒द्रात् ॥
सोमः॑ सु॒तो धार॒यात्यो॒ न हित्वा॒ सिंधु॒र्न नि॒म्नम॒भि वा॒ज्य॑क्षाः । आ योनिं॒ वन्य॑मसदत्पुना॒नः समिंदु॒र्गोभि॑रसर॒त्सम॒द्भिः ॥
सोमः॑ , सु॒तः , धार॑या , अत्यः॑ , न , हित्वा॑ , सिंधुः॑ , न , नि॒म्नं , अ॒भि , वा॒जी , अ॒क्षा॒रिति॑ । आ , योनिं॑ , वन्यं॑ , अ॒स॒द॒त् , पु॒ना॒नः , सं , इंदुः॑ , गोभिः॑ , अ॒स॒र॒त् , सं , अ॒त्ऽभिः ॥
ए॒ष स्य ते॑ पवत इंद्र॒ सोम॑श्च॒मूषु॒ धीर॑ उश॒ते तव॑स्वान् । स्व॑र्चक्षा रथि॒रः स॒त्यशु॑ष्मः॒ कामो॒ न यो दे॑वय॒तामस॑र्जि ॥
ए॒षः , स्यः , ते॒ , प॒व॒ते॒ , इं॒द्र॒ , सोमः॑ , च॒मूषु॑ , धीरः॑ , उ॒श॒ते , तव॑स्वान् । स्वः॑ऽचक्षाः , र॒थि॒रः , स॒त्यऽशु॑ष्मः , कामः॑ , न , यः , दे॒व॒ऽय॒तां , अस॑र्जि ॥
ए॒ष प्र॒त्नेन॒ वय॑सा पुना॒नस्ति॒रो वर्पां॑सि दुहि॒तुर्दधा॑नः । वसा॑नः॒ शर्म॑ त्रि॒वरू॑थम॒प्सु होते॑व याति॒ सम॑नेषु॒ रेभ॑न् ॥
ए॒षः , प्र॒त्नेन॑ , वय॑सा , पु॒ना॒नः , ति॒रः , वर्पां॑सि , दु॒हि॒तुः , दधा॑नः । वसा॑नः , शर्म॑ , त्रि॒ऽवरू॑थं , अ॒प्ऽसु , होता॑ऽइव , या॒ति॒ , सम॑नेषु , रेभ॑न् ॥
नू न॒स्त्वं र॑थि॒रो दे॑व सोम॒ परि॑ स्रव च॒म्वोः॑ पू॒यमा॑नः । अ॒प्सु स्वादि॑ष्ठो॒ मधु॑माँ ऋ॒तावा॑ दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा ॥
नु , नः॒ , त्वं , र॒थि॒रः , दे॒व॒ , सो॒म॒ , परि॑ , स्र॒व॒ , च॒म्वोः॑ , पू॒यमा॑नः । अ॒प्ऽसु , स्वादि॑ष्ठः , मधु॑ऽमान् , ऋ॒तऽवा॑ , दे॒वः , न , यः , स॒वि॒ता , स॒त्यऽम॑न्मा ॥
अ॒भि वा॒युं वी॒त्य॑र्षा गृणा॒नो॒३॒॑ऽभि मि॒त्रावरु॑णा पू॒यमा॑नः । अ॒भी नरं॑ धी॒जव॑नं रथे॒ष्ठाम॒भींद्रं॒ वृष॑णं॒ वज्र॑बाहुं ॥
अ॒भि , वा॒युं , वी॒ती , अ॒र्ष॒ , गृ॒णा॒नः , अ॒भि , मि॒त्रावरु॑णा , पू॒यमा॑नः । अ॒भि , नरं॑ , धी॒ऽजव॑नं , र॒थे॒ऽस्थां , अ॒भि , इंद्रं॑ , वृष॑णं , वज्र॑ऽबाहुं ॥
अ॒भि वस्त्रा॑ सुवस॒नान्य॑र्षा॒भि धे॒नूः सु॒दुघाः॑ पू॒यमा॑नः । अ॒भि चं॒द्रा भर्त॑वे नो॒ हिर॑ण्या॒भ्यश्वा॑न्र॒थिनो॑ देव सोम ॥
अ॒भि , वस्त्रा॑ , सु॒ऽव॒स॒नानि॑ , अ॒र्ष॒ , अ॒भि , धे॒नूः , सु॒ऽदुघाः॑ , पू॒यमा॑नः । अ॒भि , चं॒द्रा , भर्त॑वे , नः॒ , हिर॑ण्या , अ॒भि , अश्वा॑न् , र॒थिनः॑ , दे॒व॒ , सो॒म॒ ॥
अ॒भी नो॑ अर्ष दि॒व्या वसू॑न्य॒भि विश्वा॒ पार्थि॑वा पू॒यमा॑नः । अ॒भि येन॒ द्रवि॑णम॒श्नवा॑मा॒भ्या॑र्षे॒यं ज॑मदग्नि॒वन्नः॑ ॥
अ॒भि , नः॒ , अ॒र्ष॒ , दि॒व्या , वसू॑नि , अ॒भि , विश्वा॑ , पार्थि॑वा , पू॒यमा॑नः । अ॒भि , येन॑ , द्रवि॑णं , अ॒श्नवा॑म , अ॒भि , आ॒र्षे॒यं , ज॒म॒द॒ग्नि॒ऽवत् , नः॒ ॥
अ॒या प॒वा प॑वस्वै॒ना वसू॑नि माँश्च॒त्व इं॑दो॒ सर॑सि॒ प्र ध॑न्व । ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु॑रु॒मेध॑श्चि॒त्तक॑वे॒ नरं॑ दात् ॥
अ॒या , प॒वा , प॒व॒स्व॒ , ए॒ना , वसू॑नि , माँ॒श्च॒त्वे , इं॒दो॒ इति॑ , सर॑सि , प्र , ध॒न्व॒ । ब्र॒ध्नः , चि॒त् , अत्र॑ , वातः॑ , न , जू॒तः , पु॒रु॒ऽमेधः॑ , चि॒त् , तक॑वे , नरं॑ , दा॒त् ॥
उ॒त न॑ ए॒ना प॑व॒या प॑व॒स्वाधि॑ श्रु॒ते श्र॒वाय्य॑स्य ती॒र्थे । ष॒ष्टिं स॒हस्रा॑ नैगु॒तो वसू॑नि वृ॒क्षं न प॒क्वं धू॑नव॒द्रणा॑य ॥
उ॒त , नः॒ , ए॒ना , प॒व॒या , प॒व॒स्व॒ , अधि॑ , श्रु॒ते , श्र॒वाय्य॑स्य , ती॒र्थे । ष॒ष्टिं , स॒हस्रा॑ , नै॒गु॒तः , वसू॑नि , वृ॒क्षं , न , प॒क्वं , धू॒न॒व॒त् , रणा॑य ॥
मही॒मे अ॑स्य॒ वृष॒नाम॑ शू॒षे माँश्च॑त्वे वा॒ पृश॑ने वा॒ वध॑त्रे । अस्वा॑पयन्नि॒गुतः॑ स्ने॒हय॒च्चापा॒मित्राँ॒ अपा॒चितो॑ अचे॒तः ॥
महि॑ , इ॒मे इति॑ , अ॒स्य॒ , वृष॒नाम॑ , शू॒षे इति॑ , माँश्च॑त्वे , वा॒ , पृश॑ने , वा॒ , वध॑त्रे॒ इति॑ । अस्वा॑पयत् , नि॒ऽगुतः॑ , स्ने॒हय॑त् , च॒ , अप॑ , अ॒मित्रा॑न् , अप॑ , अ॒चितः॑ , अ॒च॒ , इ॒तः ॥
सं त्री प॒वित्रा॒ वित॑तान्ये॒ष्यन्वेकं॑ धावसि पू॒यमा॑नः । असि॒ भगो॒ असि॑ दा॒त्रस्य॑ दा॒तासि॑ म॒घवा॑ म॒घव॑द्भ्य इंदो ॥
सं , त्री , प॒वित्रा॑ , विऽत॑तानि , ए॒षि॒ , अनु॑ , एकं॑ , धा॒व॒सि॒ , पू॒यमा॑नः । असि॑ , भगः॑ , असि॑ , दा॒त्रस्य॑ , दा॒ता , असि॑ , म॒घऽवा॑ , म॒घव॑त्ऽभ्यः , इं॒दो॒ इति॑ ॥
ए॒ष वि॑श्व॒वित्प॑वते मनी॒षी सोमो॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ । द्र॒प्साँ ई॒रय॑न्वि॒दथे॒ष्विंदु॒र्वि वार॒मव्यं॑ स॒मयाति॑ याति ॥
ए॒षः , वि॒श्व॒ऽवित् , प॒व॒ते॒ , म॒नी॒षी , सोमः॑ , विश्व॑स्य , भुव॑नस्य , राजा॑ । द्र॒प्सान् , ई॒रय॑न् , वि॒दथे॑षु , इंदुः॑ , वि , वारं॑ , अव्यं॑ , स॒मया॑ , अति॑ , या॒ति॒ ॥
इंदुं॑ रिहंति महि॒षा अद॑ब्धाः प॒दे रे॑भंति क॒वयो॒ न गृध्राः॑ । हि॒न्वंति॒ धीरा॑ द॒शभिः॒ क्षिपा॑भिः॒ समं॑जते रू॒पम॒पां रसे॑न ॥
इंदुं॑ , रि॒हं॒ति॒ , म॒हि॒षाः , अद॑ब्धाः , प॒दे , रे॒भं॒ति॒ , क॒वयः॑ , न , गृध्राः॑ । हि॒न्वंति॑ , धीराः॑ , द॒शऽभिः॑ , क्षिपा॑भिः , सं , अं॒ज॒ते॒ , रू॒पं , अ॒पां , रसे॑न ॥
त्वया॑ व॒यं पव॑मानेन सोम॒ भरे॑ कृ॒तं वि चि॑नुयाम॒ शश्व॑त् । तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
त्वया॑ , व॒यं , पव॑मानेन , सो॒म॒ , भरे॑ , कृ॒तं , वि , चि॒नु॒या॒म॒ , शश्व॑त् । तत् , नः॒ , मि॒त्रः , वरु॑णः , म॒म॒हं॒तां॒ , अदि॑तिः , सिंधुः॑ , पृ॒थि॒वी , उ॒त , द्यौः ॥
[९८] अभिनइति द्वादशर्चस्य सूक्तस्यांबरीषऋजिश्वानौ पवमानःसोमोनुष्टुबेकादशीबृहती |
अ॒भि नो॑ वाज॒सात॑मं र॒यिम॑र्ष पुरु॒स्पृहं॑ । इंदो॑ स॒हस्र॑भर्णसं तुविद्यु॒म्नं वि॑भ्वा॒सहं॑ ॥
अ॒भि , नः॒ , वा॒ज॒ऽसात॑मं , र॒यिं , अ॒र्ष॒ , पु॒रु॒ऽस्पृहं॑ । इंदो॒ इति॑ , स॒हस्र॑ऽभर्णसं , तु॒वि॒ऽद्यु॒म्नं , वि॒भ्व॒ऽसहं॑ ॥
परि॒ ष्य सु॑वा॒नो अ॒व्ययं॒ रथे॒ न वर्मा॑व्यत । इंदु॑र॒भि द्रुणा॑ हि॒तो हि॑या॒नो धारा॑भिरक्षाः ॥
परि॑ , स्यः , सु॒वा॒नः , अ॒व्ययं॑ , रथे॑ , न , वर्म॑ , अ॒व्य॒त॒ । इंदुः॑ , अ॒भि , द्रुणा॑ , हि॒तः , हि॒या॒नः , धारा॑भिः , अ॒क्षा॒रिति॑ ॥
परि॒ ष्य सु॑वा॒नो अ॑क्षा॒ इंदु॒रव्ये॒ मद॑च्युतः । धारा॒ य ऊ॒र्ध्वो अ॑ध्व॒रे भ्रा॒जा नैति॑ गव्य॒युः ॥
परि॑ , स्यः , सु॒वा॒नः , अ॒क्षा॒रिति॑ , इंदुः॑ , अव्ये॑ , मद॑ऽच्युतः । धारा॑ , यः , ऊ॒र्ध्वः , अ॒ध्व॒रे , भ्रा॒जा , न , एति॑ , ग॒व्य॒ऽयुः ॥
स हि त्वं दे॑व॒ शश्व॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ । इंदो॑ सह॒स्रिणं॑ र॒यिं श॒तात्मा॑नं विवाससि ॥
सः , हि , त्वं , दे॒व॒ , शश्व॑ते , वसु॑ , मर्ता॑य , दा॒शुषे॑ । इंदो॒ इति॑ , स॒ह॒स्रिणं॑ , र॒यिं , श॒तऽआ॑त्मानं , वि॒वा॒स॒सि॒ ॥
व॒यं ते॑ अ॒स्य वृ॑त्रह॒न्वसो॒ वस्वः॑ पुरु॒स्पृहः॑ । नि नेदि॑ष्ठतमा इ॒षः स्याम॑ सु॒म्नस्या॑ध्रिगो ॥
व॒यं , ते॒ , अ॒स्य , वृ॒त्र॒ऽह॒न् , वसो॒ इति॑ , वस्वः॑ , पु॒रु॒ऽस्पृहः॑ । नि , नेदि॑ष्ठऽतमाः , इ॒षः , स्याम॑ , सु॒म्नस्य॑ , अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो ॥
द्विर्यं पंच॒ स्वय॑शसं॒ स्वसा॑रो॒ अद्रि॑संहतं । प्रि॒यमिंद्र॑स्य॒ काम्यं॑ प्रस्ना॒पयं॑त्यू॒र्मिणं॑ ॥
द्विः , यं , पंच॑ , स्वऽय॑शसं , स्वसा॑रः , अद्रि॑ऽसंहतं । प्रि॒यं , इंद्र॑स्य , काम्यं॑ , प्र॒ऽस्ना॒पयं॑ति , ऊ॒र्मिणं॑ ॥
परि॒ त्यं ह॑र्य॒तं हरिं॑ ब॒भ्रुं पु॑नंति॒ वारे॑ण । यो दे॒वान्विश्वाँ॒ इत्परि॒ मदे॑न स॒ह गच्छ॑ति ॥
परि॑ , त्यं , ह॒र्य॒तं , हरिं॑ , ब॒भ्रुं , पु॒नं॒ति॒ , वारे॑ण । यः , दे॒वान् , विश्वा॑न् , इत् , परि॑ , मदे॑न , स॒ह , गच्छ॑ति ॥
अ॒स्य वो॒ ह्यव॑सा॒ पांतो॑ दक्ष॒साध॑नं । यः सू॒रिषु॒ श्रवो॑ बृ॒हद्द॒धे स्व१॒॑र्ण ह॑र्य॒तः ॥
अ॒स्य , वः॒ , हि , अव॑सा , पांतः॑ , द॒क्ष॒ऽसाध॑नं । यः , सू॒रिषु॑ , श्रवः॑ , बृ॒हत् , द॒धे , स्वः॑ , न , ह॒र्य॒तः ॥
स वां॑ य॒ज्ञेषु॑ मानवी॒ इंदु॑र्जनिष्ट रोदसी । दे॒वो दे॑वी गिरि॒ष्ठा अस्रे॑धं॒तं तु॑वि॒ष्वणि॑ ॥
सः , वां॒ , य॒ज्ञेषु॑ , मा॒न॒वी॒ इति॑ , इंदुः॑ , ज॒नि॒ष्ट॒ , रो॒द॒सी॒ इति॑ । दे॒वः , दे॒वी॒ इति॑ , गि॒रि॒ऽस्थाः , अस्रे॑धन् , तं , तु॒वि॒ऽस्वनि॑ ॥
इंद्रा॑य सोम॒ पात॑वे वृत्र॒घ्ने परि॑ षिच्यसे । नरे॑ च॒ दक्षि॑णावते दे॒वाय॑ सदना॒सदे॑ ॥
इंद्रा॑य , सो॒म॒ , पात॑वे , वृ॒त्र॒ऽघ्ने , परि॑ , सि॒च्य॒से॒ । नरे॑ , च॒ , दक्षि॑णाऽवते , दे॒वाय॑ , स॒द॒न॒ऽसदे॑ ॥
ते प्र॒त्नासो॒ व्यु॑ष्टिषु॒ सोमाः॑ प॒वित्रे॑ अक्षरन् । अ॒प॒प्रोथं॑तः सनु॒तर्हु॑र॒श्चितः॑ प्रा॒तस्ताँ अप्र॑चेतसः ॥
ते , प्र॒त्नासः॑ , विऽउ॑ष्टिषु , सोमाः॑ , प॒वित्रे॑ , अ॒क्ष॒र॒न् । अ॒प॒ऽप्रोथं॑तः , स॒नु॒तः , हु॒रः॒ऽचितः॑ , प्रा॒तरिति॑ , तान् , अप्र॑ऽचेतसः ॥
तं स॑खायः पुरो॒रुचं॑ यू॒यं व॒यं च॑ सू॒रयः॑ । अ॒श्याम॒ वाज॑गंध्यं स॒नेम॒ वाज॑पस्त्यं ॥
तं , स॒खा॒यः॒ , पु॒रः॒ऽरुचं॑ , यू॒यं , व॒यं , च॒ , सू॒रयः॑ । अ॒श्याम॑ , वाज॑ऽगंध्यं , स॒नेम॑ , वाज॑ऽपस्त्यं ॥
[९९] आहर्यतायेत्यष्टर्चस्य सूक्तस्य काश्यपौ रेभसूनु पवमानःसोमोनुष्ठुबाद्याबृहती |
आ ह॑र्य॒ताय॑ धृ॒ष्णवे॒ धनु॑स्तन्वंति॒ पौंस्यं॑ । शु॒क्रां व॑यं॒त्यसु॑राय नि॒र्णिजं॑ वि॒पामग्रे॑ मही॒युवः॑ ॥
आ , ह॒र्य॒ताय॑ , धृ॒ष्णवे॑ , धनुः॑ , त॒न्वं॒ति॒ , पौंस्यं॑ । शु॒क्रां , व॒यं॒ति॒ , असु॑राय , निः॒ऽनिजं॑ , वि॒पां , अग्रे॑ , म॒ही॒युवः॑ ॥
अध॑ क्ष॒पा परि॑ष्कृतो॒ वाजाँ॑ अ॒भि प्र गा॑हते । यदी॑ वि॒वस्व॑तो॒ धियो॒ हरिं॑ हि॒न्वंति॒ यात॑वे ॥
अध॑ , क्ष॒पा , परि॑ऽकृतः , वाजा॑न् , अ॒भि , प्र , गा॒ह॒ते॒ । यदि॑ , वि॒वस्व॑तः , धियः॑ , हरिं॑ , हि॒न्वंति॑ , यात॑वे ॥
तम॑स्य मर्जयामसि॒ मदो॒ य इं॑द्र॒पात॑मः । यं गाव॑ आ॒सभि॑र्द॒धुः पु॒रा नू॒नं च॑ सू॒रयः॑ ॥
तं , अ॒स्य॒ , म॒र्ज॒या॒म॒सि॒ , मदः॑ , यः , इं॒द्र॒ऽपात॑मः । यं , गावः॑ , आ॒सऽभिः॑ , द॒धुः , पु॒रा , नू॒नं , च॒ , सू॒रयः॑ ॥
तं गाथ॑या पुरा॒ण्या पु॑ना॒नम॒भ्य॑नूषत । उ॒तो कृ॑पंत धी॒तयो॑ दे॒वानां॒ नाम॒ बिभ्र॑तीः ॥
तं , गाथ॑या , पु॒रा॒ण्या , पु॒ना॒नं , अ॒भि , अ॒नू॒ष॒त॒ । उ॒तो इति॑ , कृ॒पं॒त॒ , धी॒तयः॑ , दे॒वानां॑ , नाम॑ , बिभ्र॑तीः ॥
तमु॒क्षमा॑णम॒व्यये॒ वारे॑ पुनंति धर्ण॒सिं । दू॒तं न पू॒र्वचि॑त्तय॒ आ शा॑सते मनी॒षिणः॑ ॥
तं , उ॒क्षमा॑णं , अ॒व्यये॑ , वारे॑ , पु॒नं॒ति॒ , ध॒र्ण॒सिं । दू॒तं , न , पू॒र्वऽचि॑त्तये , आ , शा॒स॒ते॒ , म॒नी॒षिणः॑ ॥
स पु॑ना॒नो म॒दिंत॑मः॒ सोम॑श्च॒मूषु॑ सीदति । प॒शौ न रेत॑ आ॒दध॒त्पति॑र्वचस्यते धि॒यः ॥
सः , पु॒ना॒नः , म॒दिन्ऽत॑मः , सोमः॑ , च॒मूषु॑ , सी॒द॒ति॒ । प॒शौ , न , रेतः॑ , आ॒ऽदध॑त् , पतिः॑ , व॒च॒स्य॒ते॒ , धि॒यः ॥
स मृ॑ज्यते सु॒कर्म॑भिर्दे॒वो दे॒वेभ्यः॑ सु॒तः । वि॒दे यदा॑सु संद॒दिर्म॒हीर॒पो वि गा॑हते ॥
सः , मृ॒ज्य॒ते॒ , सु॒कर्म॑ऽभिः , दे॒वः , दे॒वेभ्यः॑ , सु॒तः । वि॒दे , यत् , आ॒सु॒ , सं॒ऽद॒दिः , म॒हीः , अ॒पः , वि , गा॒ह॒ते॒ ॥
सु॒त इं॑दो प॒वित्र॒ आ नृभि॑र्य॒तो वि नी॑यसे । इंद्रा॑य मत्स॒रिंत॑मश्च॒मूष्वा नि षी॑दसि ॥
सु॒तः , इं॒दो॒ इति॑ , प॒वित्रे॑ , आ , नृऽभिः॑ , य॒तः , वि , नी॒य॒से॒ । इंद्रा॑य , म॒त्स॒रिन्ऽत॑मः , च॒मूषु॑ , आ , नि , सी॒द॒सि॒ ॥
[१००] अभीनवंतइति नवर्चस्य सूक्तस्य काश्यपौ रेभसूनू पवमानः सोमोनुष्टुप् |
अ॒भी न॑वंते अ॒द्रुहः॑ प्रि॒यमिंद्र॑स्य॒ काम्यं॑ । व॒त्सं न पूर्व॒ आयु॑नि जा॒तं रि॑हंति मा॒तरः॑ ॥
अ॒भि , न॒वं॒ते॒ , अ॒द्रुहः॑ , प्रि॒यं , इंद्र॑स्य , काम्यं॑ । व॒त्सं , न , पूर्वे॑ , आयु॑नि , जा॒तं , रि॒हं॒ति॒ , मा॒तरः॑ ॥
पु॒ना॒न इं॑द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिं । त्वं वसू॑नि पुष्यसि॒ विश्वा॑नि दा॒शुषो॑ गृ॒हे ॥
पु॒ना॒नः , इं॒दो॒ इति॑ , आ , भ॒र॒ , सोम॑ , द्वि॒ऽबर्ह॑सं , र॒यिं । त्वं , वसू॑नि , पु॒ष्य॒सि॒ , विश्वा॑नि , दा॒शुषः॑ , गृ॒हे ॥
त्वं धियं॑ मनो॒युजं॑ सृ॒जा वृ॒ष्टिं न त॑न्य॒तुः । त्वं वसू॑नि॒ पार्थि॑वा दि॒व्या च॑ सोम पुष्यसि ॥
त्वं , धियं॑ , म॒नः॒ऽयुजं॑ , सृ॒ज , वृ॒ष्टिं , न , त॒न्य॒तुः । त्वं , वसू॑नि , पार्थि॑वा , दि॒व्या , च॒ , सो॒म॒ , पु॒ष्य॒सि॒ ॥
परि॑ ते जि॒ग्युषो॑ यथा॒ धारा॑ सु॒तस्य॑ धावति । रंह॑माणा॒ व्य१॒॑व्ययं॒ वारं॑ वा॒जीव॑ सान॒सिः ॥
परि॑ , ते॒ , जि॒ग्युषः॑ , य॒था॒ , धारा॑ , सु॒तस्य॑ , धा॒व॒ति॒ । रंह॑माणा , वि , अ॒व्ययं॑ , वारं॑ , वा॒जीऽइ॑व , सा॒न॒सिः ॥
क्रत्वे॒ दक्षा॑य नः कवे॒ पव॑स्व सोम॒ धार॑या । इंद्रा॑य॒ पात॑वे सु॒तो मि॒त्राय॒ वरु॑णाय च ॥
क्रत्वे॑ , दक्षा॑य , नः॒ , क॒वे॒ , पव॑स्व , सो॒म॒ , धार॑या । इंद्रा॑य , पात॑वे , सु॒तः , मि॒त्राय॑ , वरु॑णाय , च॒ ॥
पव॑स्व वाज॒सात॑मः प॒वित्रे॒ धार॑या सु॒तः । इंद्रा॑य सोम॒ विष्ण॑वे दे॒वेभ्यो॒ मधु॑मत्तमः ॥
पव॑स्व , वा॒ज॒ऽसात॑मः , प॒वित्रे॑ , धार॑या , सु॒तः । इंद्रा॑य , सो॒म॒ , विष्ण॑वे , दे॒वेभ्यः॑ , मधु॑मत्ऽतमः ॥
त्वां रि॑हंति मा॒तरो॒ हरिं॑ प॒वित्रे॑ अ॒द्रुहः॑ । व॒त्सं जा॒तं न धे॒नवः॒ पव॑मान॒ विध॑र्मणि ॥
त्वां , रि॒हं॒ति॒ , मा॒तरः॑ , हरिं॑ , प॒वित्रे॑ , अ॒द्रुहः॑ । व॒त्सं , जा॒तं , न , धे॒नवः॑ , पव॑मान , विऽध॑र्मणि ॥
पव॑मान॒ महि॒ श्रव॑श्चि॒त्रेभि॑र्यासि र॒श्मिभिः॑ । शर्धं॒तमां॑सि जिघ्नसे॒ विश्वा॑नि दा॒शुषो॑ गृ॒हे ॥
पव॑मान , महि॑ , श्रवः॑ , चि॒त्रेभिः॑ , या॒सि॒ , र॒श्मिऽभिः॑ । शर्ध॑न् , तमां॑सि , जि॒घ्न॒से॒ , विश्वा॑नि , दा॒शुषः॑ , गृ॒हे ॥
त्वं द्यां च॑ महिव्रत पृथि॒वीं चाति॑ जभ्रिषे । प्रति॑ द्रा॒पिम॑मुंचथाः॒ पव॑मान महित्व॒ना ॥
त्वं , द्यां , च॒ , म॒हि॒ऽव्र॒त॒ , पृ॒थि॒वीं , च॒ , अति॑ , ज॒भ्रि॒षे॒ । प्रति॑ , द्रा॒पिं , अ॒मुं॒च॒थाः॒ , पव॑मान , म॒हि॒ऽत्व॒ना ॥
[१०१] पुरोजितीति षोळशर्चस्य सूक्तस्याद्यानांतिसृणांश्यावाश्विरंधीगुः चतुर्थ्यादितिसृणांनाहुषोययातिः सप्तम्यादितिसृणांमानवोनहुषः दशम्यादितिसृणांसांवरणोमनुः त्रयोदश्यादिचतसृणां वैश्वामित्रः प्रजापतिः पवमानः सोमोनुष्टुप् द्वितीयातृतीये गायत्र्यौ |
पु॒रोजि॑ती वो॒ अंध॑सः सु॒ताय॑ मादयि॒त्नवे॑ । अप॒ श्वानं॑ श्नथिष्टन॒ सखा॑यो दीर्घजि॒ह्व्यं॑ ॥
पु॒रःऽजि॑ती , वः॒ , अंध॑सः , सु॒ताय॑ , मा॒द॒यि॒त्नवे॑ । अप॑ , श्वानं॑ , श्न॒थि॒ष्ट॒न॒ , सखा॑यः , दी॒र्घ॒ऽजि॒ह्व्यं॑ ॥
यो धार॑या पाव॒कया॑ परिप्र॒स्यंद॑ते सु॒तः । इंदु॒रश्वो॒ न कृत्व्यः॑ ॥
यः , धार॑या , पा॒व॒कया॑ , प॒रि॒ऽप्र॒स्यंद॑ते , सु॒तः । इंदुः॑ , अश्वः॑ , न , कृत्व्यः॑ ॥
तं दु॒रोष॑म॒भी नरः॒ सोमं॑ वि॒श्वाच्या॑ धि॒या । य॒ज्ञं हि॑न्वं॒त्यद्रि॑भिः ॥
तं , दु॒रोषं॑ , अ॒भि , नरः॑ , सोमं॑ , वि॒श्वाच्या॑ , धि॒या । य॒ज्ञं , हि॒न्वं॒ति॒ , अद्रि॑ऽभिः ॥
सु॒तासो॒ मधु॑मत्तमाः॒ सोमा॒ इंद्रा॑य मं॒दिनः॑ । प॒वित्र॑वंतो अक्षरंदे॒वान्ग॑च्छंतु वो॒ मदाः॑ ॥
सु॒तासः॑ , मधु॑मत्ऽतमाः , सोमाः॑ , इंद्रा॑य , मं॒दिनः॑ । प॒वित्र॑ऽवंतः , अ॒क्ष॒र॒न् , दे॒वान् , ग॒च्छं॒तु॒ , वः॒ , मदाः॑ ॥
इंदु॒रिंद्रा॑य पवत॒ इति॑ दे॒वासो॑ अब्रुवन् । वा॒चस्पति॑र्मखस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा ॥
इंदुः॑ , इंद्रा॑य , प॒व॒ते॒ , इति॑ , दे॒वासः॑ , अ॒ब्रु॒व॒न् । वा॒चः , पतिः॑ , म॒ख॒स्य॒ते॒ , विश्व॑स्य , ईशा॑नः , ओज॑सा ॥
स॒हस्र॑धारः पवते समु॒द्रो वा॑चमींख॒यः । सोमः॒ पती॑ रयी॒णां सखेंद्र॑स्य दि॒वेदि॑वे ॥
स॒हस्र॑ऽधारः , प॒व॒ते॒ , स॒मु॒द्रः , वा॒चं॒ऽईं॒ख॒यः । सोमः॑ , पतिः॑ , र॒यी॒णां , सखा॑ , इंद्र॑स्य , दि॒वेऽदि॑वे ॥
अ॒यं पू॒षा र॒यिर्भगः॒ सोमः॑ पुना॒नो अ॑र्षति । पति॒र्विश्व॑स्य॒ भूम॑नो॒ व्य॑ख्य॒द्रोद॑सी उ॒भे ॥
अ॒यं , पू॒षा , र॒यिः , भगः॑ , सोमः॑ , पु॒ना॒नः , अ॒र्ष॒ति॒ । पतिः॑ , विश्व॑स्य , भूम॑नः , वि , अ॒ख्य॒त् , रोद॑सी॒ इति॑ , उ॒भे इति॑ ॥
समु॑ प्रि॒या अ॑नूषत॒ गावो॒ मदा॑य॒ घृष्व॑यः । सोमा॑सः कृण्वते प॒थः पव॑मानास॒ इंद॑वः ॥
सं , ऊँ॒ इति॑ , प्रि॒याः , अ॒नू॒ष॒त॒ , गावः॑ , मदा॑य , घृष्व॑यः । सोमा॑सः , कृ॒ण्व॒ते॒ , प॒थः , पव॑मानासः , इंद॑वः ॥
य ओजि॑ष्ठ॒स्तमा भ॑र॒ पव॑मान श्र॒वाय्यं॑ । यः पंच॑ चर्ष॒णीर॒भि र॒यिं येन॒ वना॑महै ॥
यः , ओजि॑ष्ठः , तं , आ , भ॒र॒ , पव॑मान , श्र॒वाय्यं॑ । यः , पंच॑ , च॒र्ष॒णीः , अ॒भि , र॒यिं , येन॑ , वना॑महै ॥
सोमाः॑ पवंत॒ इंद॑वो॒ऽस्मभ्यं॑ गातु॒वित्त॑माः । मि॒त्राः सु॑वा॒ना अ॑रे॒पसः॑ स्वा॒ध्यः॑ स्व॒र्विदः॑ ॥
सोमाः॑ , प॒वं॒ते॒ , इंद॑वः , अ॒स्मभ्यं॑ , गा॒तु॒वित्ऽत॑माः । मि॒त्राः , सु॒वा॒नाः , अ॒रे॒पसः॑ , सु॒ऽआ॒ध्यः॑ , स्वः॒ऽविदः॑ ॥
सु॒ष्वा॒णासो॒ व्यद्रि॑भि॒श्चिता॑ना॒ गोरधि॑ त्व॒चि । इष॑म॒स्मभ्य॑म॒भितः॒ सम॑स्वरन्वसु॒विदः॑ ॥
सु॒स्वा॒णासः॑ , वि , अद्रि॑ऽभिः , चिता॑नाः , गोः , अधि॑ , त्व॒चि । इषं॑ , अ॒स्मभ्यं॑ , अ॒भितः॑ , सं , अ॒स्व॒र॒न् , व॒सु॒ऽविदः॑ ॥
ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा॑सो॒ दध्या॑शिरः । सूर्या॑सो॒ न द॑र्श॒तासो॑ जिग॒त्नवो॑ ध्रु॒वा घृ॒ते ॥
ए॒ते , पू॒ताः , वि॒पः॒ऽचितः॑ , सोमा॑सः , दधि॑ऽआशिरः । सूर्या॑सः , न , द॒र्श॒तासः॑ , जि॒ग॒त्नवः॑ , ध्रु॒वाः , घृ॒ते ॥
प्र सु॑न्वा॒नस्यांध॑सो॒ मर्तो॒ न वृ॑त॒ तद्वचः॑ । अप॒ श्वान॑मरा॒धसं॑ ह॒ता म॒खं न भृग॑वः ॥
प्र , सु॒न्वा॒नस्य॑ , अंध॑सः , मर्तः॑ , न , वृ॒त॒ , तत् , वचः॑ । अप॑ , श्वानं॑ , अ॒रा॒धसं॑ , ह॒त , म॒खं , न , भृग॑वः ॥
आ जा॒मिरत्के॑ अव्यत भु॒जे न पु॒त्र ओ॒ण्योः॑ । सर॑ज्जा॒रो न योष॑णां व॒रो न योनि॑मा॒सदं॑ ॥
आ , जा॒मिः , अत्के॑ , अ॒व्य॒त॒ , भु॒जे , न , पु॒त्रः , ओ॒ण्योः॑ । सर॑त् , जा॒रः , न , योष॑णां , व॒रः , न , योनिं॑ , आ॒ऽसदं॑ ॥
स वी॒रो द॑क्ष॒साध॑नो॒ वि यस्त॒स्तंभ॒ रोद॑सी । हरिः॑ प॒वित्रे॑ अव्यत वे॒धा न योनि॑मा॒सदं॑ ॥
सः , वी॒रः , द॒क्ष॒ऽसाध॑नः , वि , यः , त॒स्तंभ॑ , रोद॑सी॒ इति॑ । हरिः॑ , प॒वित्रे॑ , अ॒व्य॒त॒ , वे॒धाः , न , योनिं॑ , आ॒ऽसदं॑ ॥
अव्यो॒ वारे॑भिः पवते॒ सोमो॒ गव्ये॒ अधि॑ त्व॒चि । कनि॑क्रद॒द्वृषा॒ हरि॒रिंद्र॑स्या॒भ्ये॑ति निष्कृ॒तं ॥
अव्यः॑ , वारे॑भिः , प॒व॒ते॒ , सोमः॑ , गव्ये॑ , अधि॑ , त्व॒चि । कनि॑क्रदत् , वृषा॑ , हरिः॑ , इंद्र॑स्य , अ॒भि , ए॒ति॒ , निः॒ऽकृ॒तं ॥
[१०२] क्राणाशिशुरित्यष्टर्चस्य सूक्तस्याप्त्यस्त्रितः पवमानःसोमउष्णिक् |
क्रा॒णा शिशु॑र्म॒हीनां॑ हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं । विश्वा॒ परि॑ प्रि॒या भु॑व॒दध॑ द्वि॒ता ॥
क्रा॒णा , शिशुः॑ , म॒हीनां॑ , हि॒न्वन् , ऋ॒तस्य॑ , दीधि॑तिं । विश्वा॑ , परि॑ , प्रि॒या , भु॒व॒त् , अध॑ , द्वि॒ता ॥
उप॑ त्रि॒तस्य॑ पा॒ष्यो॒३॒॑रभ॑क्त॒ यद्गुहा॑ प॒दं । य॒ज्ञस्य॑ स॒प्त धाम॑भि॒रध॑ प्रि॒यं ॥
उप॑ , त्रि॒तस्य॑ , पा॒ष्योः॑ , अभ॑क्त , यत् , गुहा॑ , प॒दं । य॒ज्ञस्य॑ , स॒प्त , धाम॑ऽभिः , अध॑ , प्रि॒यं ॥
त्रीणि॑ त्रि॒तस्य॒ धार॑या पृ॒ष्ठेष्वेर॑या र॒यिं । मिमी॑ते अस्य॒ योज॑ना॒ वि सु॒क्रतुः॑ ॥
त्रीणि॑ , त्रि॒तस्य॑ , धार॑या , पृ॒ष्ठेषु॑ , आ , ई॒र॒य॒ , र॒यिं । मिमी॑ते , अ॒स्य॒ , योज॑ना , वि , सु॒ऽक्रतुः॑ ॥
ज॒ज्ञा॒नं स॒प्त मा॒तरो॑ वे॒धाम॑शासत श्रि॒ये । अ॒यं ध्रु॒वो र॑यी॒णां चिके॑त॒ यत् ॥
ज॒ज्ञा॒नं , स॒प्त , मा॒तरः॑ , वे॒धां , अ॒शा॒स॒त॒ , श्रि॒ये । अ॒यं , ध्रु॒वः , र॒यी॒णां , चिके॑त , यत् ॥
अ॒स्य व्र॒ते स॒जोष॑सो॒ विश्वे॑ दे॒वासो॑ अ॒द्रुहः॑ । स्पा॒र्हा भ॑वंति॒ रंत॑यो जु॒षंत॒ यत् ॥
अ॒स्य , व्र॒ते , स॒ऽजोष॑सः , विश्वे॑ , दे॒वासः॑ , अ॒द्रुहः॑ । स्पा॒र्हाः , भ॒वं॒ति॒ , रंत॑यः , जु॒षंत॑ , यत् ॥
यमी॒ गर्भ॑मृता॒वृधो॑ दृ॒शे चारु॒मजी॑जनन् । क॒विं मंहि॑ष्ठमध्व॒रे पु॑रु॒स्पृहं॑ ॥
यं , ई॒मिति॑ , गर्भं॑ , ऋ॒त॒ऽवृधः॑ , दृ॒शे , चारुं॑ , अजी॑जनन् । क॒विं , मंहि॑ष्ठं , अ॒ध्व॒रे , पु॒रु॒ऽस्पृहं॑ ॥
स॒मी॒ची॒ने अ॒भि त्मना॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ । त॒न्वा॒ना य॒ज्ञमा॑नु॒षग्यदं॑ज॒ते ॥
स॒मी॒ची॒ने इति॑ सं॒ऽई॒ची॒ने , अ॒भि , त्मना॑ , य॒ह्वी इति॑ , ऋ॒तस्य॑ , मा॒तरा॑ । त॒न्वा॒नाः , य॒ज्ञं , आ॒नु॒षक् , यत् , अं॒ज॒ते ॥
क्रत्वा॑ शु॒क्रेभि॑र॒क्षभि॑र्ऋ॒णोरप॑ व्र॒जं दि॒वः । हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे ॥
क्रत्वा॑ , शु॒क्रेभिः॑ , अ॒क्षऽभिः॑ , ऋ॒णोः , अप॑ , व्र॒जं , दि॒वः । हि॒न्वन् , ऋ॒तस्य॑ , दीदि॑तिं , प्र , अ॒ध्व॒रे ॥
[१०३] प्रपुनानायेति षडृचस्य सूक्तस्याप्त्योद्वितः पवमानःसोमउष्णिक् |
प्र पु॑ना॒नाय॑ वे॒धसे॒ सोमा॑य॒ वच॒ उद्य॑तं । भृ॒तिं न भ॑रा म॒तिभि॒र्जुजो॑षते ॥
प्र , पु॒ना॒नाय॑ , वे॒धसे॑ , सोमा॑य , वचः॑ , उत्ऽय॑तं । भृ॒तिं , न , भ॒र॒ , म॒तिऽभिः॑ , जुजो॑षते ॥
परि॒ वारा॑ण्य॒व्यया॒ गोभि॑रंजा॒नो अ॑र्षति । त्री ष॒धस्था॑ पुना॒नः कृ॑णुते॒ हरिः॑ ॥
परि॑ , वारा॑णि , अ॒व्यया॑ , गोभिः॑ , अं॒जा॒नः , अ॒र्ष॒ति॒ । त्री , स॒धऽस्था॑ , पु॒ना॒नः , कृ॒णु॒ते॒ , हरिः॑ ॥
परि॒ कोशं॑ मधु॒श्चुत॑म॒व्यये॒ वारे॑ अर्षति । अ॒भि वाणी॒र्ऋषी॑णां स॒प्त नू॑षत ॥
परि॑ , कोशं॑ , म॒धु॒ऽश्चुतं॑ , अ॒व्यये॑ , वारे॑ , अ॒र्ष॒ति॒ । अ॒भि , वाणीः॑ , ऋषी॑णां , स॒प्त , नू॒ष॒त॒ ॥
परि॑ णे॒ता म॑ती॒नां वि॒श्वदे॑वो॒ अदा॑भ्यः । सोमः॑ पुना॒नश्च॒म्वो॑र्विश॒द्धरिः॑ ॥
परि॑ , ने॒ता , म॒ती॒नां , वि॒श्वऽदे॑वः , अदा॑भ्यः । सोमः॑ , पु॒ना॒नः , च॒म्वोः॑ , वि॒श॒त् , हरिः॑ ॥
परि॒ दैवी॒रनु॑ स्व॒धा इंद्रे॑ण याहि स॒रथं॑ । पु॒ना॒नो वा॒घद्वा॒घद्भि॒रम॑र्त्यः ॥
परि॑ , दैवीः॑ , अनु॑ , स्व॒धाः , इंद्रे॑ण , या॒हि॒ , स॒ऽरथं॑ । पु॒ना॒नः , वा॒घत् , वा॒घत्ऽभिः॑ , अम॑र्त्यः ॥
परि॒ सप्ति॒र्न वा॑ज॒युर्दे॒वो दे॒वेभ्यः॑ सु॒तः । व्या॒न॒शिः पव॑मानो॒ वि धा॑वति ॥
परि॑ , सप्तिः॑ , न , वा॒ज॒ऽयुः , दे॒वः , दे॒वेभ्यः॑ , सु॒तः । वि॒ऽआ॒न॒शिः , पव॑मानः , वि , धा॒व॒ति॒ ॥
[१०४] सखायइति षडृचस्य सूक्तस्य काश्यपौपर्वतनारदौ पवमानः सोमउष्णिक् (शिखंडिन्यावप्सरसौऋषिकेत्रपाक्षिकं किंचपर्वतनारदौकाण्वावपि) |
सखा॑य॒ आ नि षी॑दत पुना॒नाय॒ प्र गा॑यत । शिशुं॒ न य॒ज्ञैः परि॑ भूषत श्रि॒ये ॥
सखा॑यः , आ , नि , सी॒द॒त॒ , पु॒ना॒नाय॑ , प्र , गा॒य॒त॒ । शिशुं॑ , न , य॒ज्ञैः , परि॑ , भू॒ष॒त॒ , श्रि॒ये ॥
समी॑ व॒त्सं न मा॒तृभिः॑ सृ॒जता॑ गय॒साध॑नं । दे॒वा॒व्यं१॒॑ मद॑म॒भि द्विश॑वसं ॥
सं , ई॒मिति॑ , व॒त्सं , न , मा॒तृऽभिः॑ , सृ॒जत॑ , ग॒य॒ऽसाध॑नं । दे॒व॒ऽअ॒व्यं॑ , मदं॑ , अ॒भि , द्विऽश॑वसं ॥
पु॒नाता॑ दक्ष॒साध॑नं॒ यथा॒ शर्धा॑य वी॒तये॑ । यथा॑ मि॒त्राय॒ वरु॑णाय॒ शंत॑मः ॥
पु॒नात॑ , द॒क्ष॒ऽसाध॑नं , यथा॑ , शर्धा॑य , वी॒तये॑ । यथा॑ , मि॒त्राय॑ , वरु॑णाय , शंऽत॑मः ॥
अ॒स्मभ्यं॑ त्वा वसु॒विद॑म॒भि वाणी॑रनूषत । गोभि॑ष्टे॒ वर्ण॑म॒भि वा॑सयामसि ॥
अ॒स्मभ्यं॑ , त्वा॒ , व॒सु॒ऽविदं॑ , अ॒भि , वाणीः॑ , अ॒नू॒ष॒त॒ । गोभिः॑ , ते॒ , वर्णं॑ , अ॒भि , वा॒स॒या॒म॒सि॒ ॥
स नो॑ मदानां पत॒ इंदो॑ दे॒वप्स॑रा असि । सखे॑व॒ सख्ये॑ गातु॒वित्त॑मो भव ॥
सः , नः॒ , म॒दा॒नां॒ , प॒ते॒ , इंदो॒ इति॑ , दे॒वऽप्स॑राः , अ॒सि॒ । सखा॑ऽइव , सख्ये॑ , गा॒तु॒वित्ऽत॑मः , भ॒व॒ ॥
सने॑मि कृ॒ध्य१॒॑स्मदा र॒क्षसं॒ कं चि॑द॒त्रिणं॑ । अपादे॑वं द्व॒युमंहो॑ युयोधि नः ॥
सने॑मि , कृ॒धि , अ॒स्मत् , आ , र॒क्षसं॑ , कं , चि॒त् , अ॒त्रिणं॑ । अप॑ , अदे॑वं , द्व॒युं , अंहः॑ , यु॒यो॒धि॒ , नः॒ ॥
[१०५] तंवइति षडृचस्य सूक्तस्य पर्वतनारदौ पवमानःसोमउष्णिक् |
तं वः॑ सखायो॒ मदा॑य पुना॒नम॒भि गा॑यत । शिशुं॒ न य॒ज्ञैः स्व॑दयंत गू॒र्तिभिः॑ ॥
तं , वः॒ , स॒खा॒यः॒ , मदा॑य , पु॒ना॒नं , अ॒भि , गा॒य॒त॒ । शिशुं॑ , न , य॒ज्ञैः , स्व॒द॒यं॒त॒ , गू॒र्तिऽभिः॑ ॥
सं व॒त्स इ॑व मा॒तृभि॒रिंदु॑र्हिन्वा॒नो अ॑ज्यते । दे॒वा॒वीर्मदो॑ म॒तिभिः॒ परि॑ष्कृतः ॥
सं , व॒त्सःऽइ॑व , मा॒तृऽभिः॑ , इंदुः॑ , हि॒न्वा॒नः , अ॒ज्य॒ते॒ । दे॒व॒ऽअ॒वीः , मदः॑ , म॒तिऽभिः॑ , परि॑ऽकृतः ॥
अ॒यं दक्षा॑य॒ साध॑नो॒ऽयं शर्धा॑य वी॒तये॑ । अ॒यं दे॒वेभ्यो॒ मधु॑मत्तमः सु॒तः ॥
अ॒यं , दक्षा॑य , साध॑नः , अ॒यं , शर्धा॑य , वी॒तये॑ । अ॒यं , दे॒वेभ्यः॑ , मधु॑मत्ऽतमः , सु॒तः ॥
गोम॑न्न इंदो॒ अश्व॑वत्सु॒तः सु॑दक्ष धन्व । शुचिं॑ ते॒ वर्ण॒मधि॒ गोषु॑ दीधरं ॥
गोऽम॑त् , नः॒ , इं॒दो॒ इति॑ , अश्व॑ऽवत् , सु॒तः , सु॒ऽद॒क्ष॒ , ध॒न्व॒ । शुचिं॑ , ते॒ , वर्णं॑ , अधि॑ , गोषु॑ , दी॒ध॒रं॒ ॥
स नो॑ हरीणां पत॒ इंदो॑ दे॒वप्स॑रस्तमः । सखे॑व॒ सख्ये॒ नर्यो॑ रु॒चे भ॑व ॥
सः , नः॒ , ह॒री॒णां॒ , प॒ते॒ , इंदो॒ इति॑ , दे॒वप्स॑रःऽतमः । सखा॑ऽइव , सख्ये॑ , नर्यः॑ , रु॒चे , भ॒व॒ ॥
सने॑मि॒ त्वम॒स्मदाँ अदे॑वं॒ कं चि॑द॒त्रिणं॑ । सा॒ह्वाँ इं॑दो॒ परि॒ बाधो॒ अप॑ द्व॒युं ॥
सने॑मि , त्वं , अ॒स्मत् , आ , अदे॑वं , कं , चि॒त् , अ॒त्रिणं॑ । सा॒ह्वान् , इं॒दो॒ इति॑ , परि॑ , बाधः॑ , अप॑ , द्व॒युं ॥
[१०६] इंद्रमच्छेति चतुर्दशर्चस्यसूक्तस्याद्यानांतिसृणां चाक्षुषोग्निः चतुर्थ्यादितिसृणां मानवश्चक्षुः सप्तम्यादितिसृणामाप्सवोमनुः दशम्यादिपंचानां चाक्षुषोग्निः पवमानः सोमउष्णिक् |
इंद्र॒मच्छ॑ सु॒ता इ॒मे वृष॑णं यंतु॒ हर॑यः । श्रु॒ष्टी जा॒तास॒ इंद॑वः स्व॒र्विदः॑ ॥
इंद्रं॑ , अच्छ॑ , सु॒ताः , इ॒मे , वृष॑णं , यं॒तु॒ , हर॑यः । श्रु॒ष्टी , जा॒तासः॑ , इंद॑वः , स्वः॒ऽविदः॑ ॥
अ॒यं भरा॑य सान॒सिरिंद्रा॑य पवते सु॒तः । सोमो॒ जैत्र॑स्य चेतति॒ यथा॑ वि॒दे ॥
अ॒यं , भरा॑य , सा॒न॒सिः , इंद्रा॑य , प॒व॒ते॒ , सु॒तः । सोमः॑ , जैत्र॑स्य , चे॒त॒ति॒ , यथा॑ , वि॒दे ॥
अ॒स्येदिंद्रो॒ मदे॒ष्वा ग्रा॒भं गृ॑भ्णीत सान॒सिं । वज्रं॑ च॒ वृष॑णं भर॒त्सम॑प्सु॒जित् ॥
अ॒स्य , इत् , इंद्रः॑ , मदे॑षु , आ , ग्रा॒भं , गृ॒भ्णी॒त॒ , सा॒न॒सिं । वज्रं॑ , च॒ , वृष॑णं , भ॒र॒त् , सं , अ॒प्सु॒ऽजित् ॥
प्र ध॑न्वा सोम॒ जागृ॑वि॒रिंद्रा॑येंदो॒ परि॑ स्रव । द्यु॒मंतं॒ शुष्म॒मा भ॑रा स्व॒र्विदं॑ ॥
प्र , ध॒न्व॒ , सो॒म॒ , जागृ॑विः , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ । द्यु॒ऽमंतं॑ , शुष्मं॑ , आ , भ॒र॒ , स्वः॒ऽविदं॑ ॥
इंद्रा॑य॒ वृष॑णं॒ मदं॒ पव॑स्व वि॒श्वद॑र्शतः । स॒हस्र॑यामा पथि॒कृद्वि॑चक्ष॒णः ॥
इंद्रा॑य , वृष॑णं , मदं॑ , पव॑स्व , वि॒श्वऽद॑र्शतः । स॒हस्र॑ऽयामा , प॒थि॒ऽकृत् , वि॒ऽच॒क्ष॒णः ॥
अ॒स्मभ्यं॑ गातु॒वित्त॑मो दे॒वेभ्यो॒ मधु॑मत्तमः । स॒हस्रं॑ याहि प॒थिभिः॒ कनि॑क्रदत् ॥
अ॒स्मभ्यं॑ , गा॒तु॒वित्ऽत॑मः , दे॒वेभ्यः॑ , मधु॑मत्ऽतमः । स॒हस्रं॑ , या॒हि॒ , प॒थिऽभिः॑ , कनि॑क्रदत् ॥
पव॑स्व दे॒ववी॑तय॒ इंदो॒ धारा॑भि॒रोज॑सा । आ क॒लशं॒ मधु॑मांत्सोम नः सदः ॥
पव॑स्व , दे॒वऽवी॑तये , इंदो॒ इति॑ , धारा॑भिः , ओज॑सा । आ , क॒लशं॑ , मधु॑ऽमान् , सो॒म॒ , नः॒ , स॒दः॒ ॥
तव॑ द्र॒प्सा उ॑द॒प्रुत॒ इंद्रं॒ मदा॑य वावृधुः । त्वां दे॒वासो॑ अ॒मृता॑य॒ कं प॑पुः ॥
तव॑ , द्र॒प्साः , उ॒द॒ऽप्रुतः॑ , इंद्रं॑ , मदा॑य , व॒वृ॒धुः॒ । त्वां , दे॒वासः॑ , अ॒मृता॑य , कं , प॒पुः॒ ॥
आ नः॑ सुतास इंदवः पुना॒ना धा॑वता र॒यिं । वृ॒ष्टिद्या॑वो रीत्यापः स्व॒र्विदः॑ ॥
आ , नः॒ , सु॒ता॒सः॒ , इं॒द॒वः॒ , पु॒ना॒नाः , धा॒व॒त॒ , र॒यिं । वृ॒ष्टिऽद्या॑वः , री॒ति॒ऽआ॒पः॒ , स्वः॒ऽविदः॑ ॥
सोमः॑ पुना॒न ऊ॒र्मिणाव्यो॒ वारं॒ वि धा॑वति । अग्रे॑ वा॒चः पव॑मानः॒ कनि॑क्रदत् ॥
सोमः॑ , पु॒ना॒नः , ऊ॒र्मिणा॑ , अव्यः॑ , वारं॑ , वि , धा॒व॒ति॒ । अग्रे॑ , वा॒चः , पव॑मानः , कनि॑क्रदत् ॥
धी॒भिर्हि॑न्वंति वा॒जिनं॒ वने॒ क्रीळं॑त॒मत्य॑विं । अ॒भि त्रि॑पृ॒ष्ठं म॒तयः॒ सम॑स्वरन् ॥
धी॒भिः , हि॒न्वं॒ति॒ , वा॒जिनं॑ , वने॑ , क्रीळं॑तं , अति॑ऽअविं । अ॒भि , त्रि॒ऽपृ॒ष्ठं , म॒तयः॑ , सं , अ॒स्व॒र॒न् ॥
अस॑र्जि क॒लशाँ॑ अ॒भि मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः । पु॒ना॒नो वाचं॑ ज॒नय॑न्नसिष्यदत् ॥
अस॑र्जि , क॒लशा॑न् , अ॒भि , मी॒ळ्हे , सप्तिः॑ , न , वा॒ज॒ऽयुः । पु॒ना॒नः , वाचं॑ , ज॒नय॑न् , अ॒सि॒स्य॒द॒त् ॥
पव॑ते हर्य॒तो हरि॒रति॒ ह्वरां॑सि॒ रंह्या॑ । अ॒भ्यर्षं॑त्स्तो॒तृभ्यो॑ वी॒रव॒द्यशः॑ ॥
पव॑ते , ह॒र्य॒तः , हरिः॑ , अति॑ , ह्वरां॑सि , रंह्या॑ । अ॒भि॒ऽअर्ष॑न् , स्तो॒तृऽभ्यः॑ , वी॒रऽव॑त् , यशः॑ ॥
अ॒या प॑वस्व देव॒युर्मधो॒र्धारा॑ असृक्षत । रेभ॑न्प॒वित्रं॒ पर्ये॑षि वि॒श्वतः॑ ॥
अ॒या , प॒व॒स्व॒ , दे॒व॒ऽयुः , मधोः॑ , धाराः॑ , अ॒सृ॒क्ष॒त॒ । रेभ॑न् , प॒वित्रं॑ , परि॑ , ए॒षि॒ , वि॒श्वतः॑ ॥
[१०७] परीतइति षड्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाजो मारीचः कश्यपो राहूगणो गोतमोभौमोत्रिर्गाथिनो विश्वामित्रो भार्गवोजमदग्निः मैत्रावरुणिर्वसिष्ट ऋषयः पवमानः सोमोदेवता आद्याचतुर्थीषष्ट्यष्टमी नवमीदशमी द्वादशी चतुर्दश्यः सप्तदश्यायश्चयुजः बृहत्यः द्वितीयापंचमी सप्तम्येकादशी त्रयोदशी पंचदश्योष्टादश्यादि युजश्चसतोबृहत्यः षोडशीचद्विपदाविराट् |
परी॒तो षिं॑चता सु॒तं सोमो॒ य उ॑त्त॒मं ह॒विः । द॒ध॒न्वाँ यो नर्यो॑ अ॒प्स्व१॒॑न्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ॥
परि॑ , इ॒तः , सिं॒च॒त॒ , सु॒तं , सोमः॑ , यः , उ॒त्ऽत॒मं , ह॒विः । द॒ध॒न्वान् , यः , नर्यः॑ , अ॒प्ऽसु , अं॒तः , आ , सु॒साव॑ , सोमं॑ , अद्रि॑ऽभिः ॥
नू॒नं पु॑ना॒नोऽवि॑भिः॒ परि॑ स्र॒वाद॑ब्धः सुर॒भिंत॑रः । सु॒ते चि॑त्त्वा॒प्सु म॑दामो॒ अंध॑सा श्री॒णंतो॒ गोभि॒रुत्त॑रं ॥
नू॒नं , पु॒ना॒नः , अवि॑ऽभिः , परि॑ , स्र॒व॒ , अद॑ब्धः , सु॒र॒भिंऽत॑रः । सु॒ते , चि॒त् , त्वा॒ , अ॒प्ऽसु , मा॒दा॒मः॒ , अंध॑सा , श्री॒णंतः॑ , गोभिः॑ , उत्ऽत॑रं ॥
परि॑ सुवा॒नश्चक्ष॑से देव॒माद॑नः॒ क्रतु॒रिंदु॑र्विचक्ष॒णः ॥
परि॑ , सु॒वा॒नः , चक्ष॑से , दे॒व॒ऽमाद॑नः , क्रतुः॑ , इंदुः॑ , वि॒ऽच॒क्ष॒णः ॥ ।
पु॒ना॒नः सो॑म॒ धार॑या॒पो वसा॑नो अर्षसि । आ र॑त्न॒धा योनि॑मृ॒तस्य॑ सीद॒स्युत्सो॑ देव हिर॒ण्ययः॑ ॥
पु॒ना॒नः , सो॒म॒ , धार॑या , अ॒पः , वसा॑नः , अ॒र्ष॒सि॒ । आ , र॒त्न॒ऽधाः , योनिं॑ , ऋ॒तस्य॑ , सी॒द॒सि॒ , उत्सः॑ , दे॒व॒ , हि॒र॒ण्ययः॑ ॥
दु॒हा॒न ऊध॑र्दि॒व्यं मधु॑ प्रि॒यं प्र॒त्नं स॒धस्थ॒मास॑दत् । आ॒पृच्छ्यं॑ ध॒रुणं॑ वा॒ज्य॑र्षति॒ नृभि॑र्धू॒तो वि॑चक्ष॒णः ॥
दु॒हा॒नः , ऊधः॑ , दि॒व्यं , मधु॑ , प्रि॒यं , प्र॒त्नं , स॒धऽस्थं॑ , आ , अ॒स॒द॒त् । आ॒ऽपृच्छ्यं॑ , ध॒रुणं॑ , वा॒जी , अ॒र्ष॒ति॒ , नृऽभिः॑ , धू॒तः , वि॒ऽच॒क्ष॒णः ॥
पु॒ना॒नः सो॑म॒ जागृ॑वि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः । त्वं विप्रो॑ अभ॒वोऽङ्गि॑रस्तमो॒ मध्वा॑ य॒ज्ञं मि॑मिक्ष नः ॥
पु॒ना॒नः , सो॒म॒ , जागृ॑विः , अव्यः॑ , वारे॑ , परि॑ , प्रि॒यः । त्वं , विप्रः॑ , अ॒भ॒वः॒ , अंगि॑रःऽतमः , मध्वा॑ , य॒ज्ञं , मि॒मि॒क्ष॒ , नः॒ ॥
सोमो॑ मी॒ढ्वान्प॑वते गातु॒वित्त॑म॒ ऋषि॒र्विप्रो॑ विचक्ष॒णः । त्वं क॒विर॑भवो देव॒वीत॑म॒ आ सूर्यं॑ रोहयो दि॒वि ॥
सोमः॑ , मी॒ढ्वान् , प॒व॒ते॒ , गा॒तु॒वित्ऽत॑मः , ऋषिः॑ , विप्रः॑ , वि॒ऽच॒क्ष॒णः । त्वं , क॒विः , अ॒भ॒वः॒ , दे॒व॒ऽवीत॑मः , आ , सूर्यं॑ , रो॒ह॒यः॒ , दि॒वि ॥
सोम॑ उ षुवा॒णः सो॒तृभि॒रधि॒ ष्णुभि॒रवी॑नां । अश्व॑येव ह॒रिता॑ याति॒ धार॑या मं॒द्रया॑ याति॒ धार॑या ॥
सोमः॑ , ऊँ॒ इति॑ , सु॒वा॒नः , सो॒तृऽभिः॑ , अधि॑ , स्नुऽभिः॑ , अवी॑नां । अश्व॑याऽइव , ह॒रिता॑ , या॒ति॒ , धार॑या , मं॒द्रया॑ , या॒ति॒ , धार॑या ॥
अ॒नू॒पे गोमा॒न्गोभि॑रक्षाः॒ सोमो॑ दु॒ग्धाभि॑रक्षाः । स॒मु॒द्रं न सं॒वर॑णान्यग्मन्मं॒दी मदा॑य तोशते ॥
अ॒नू॒पे , गोऽमा॑न् , गोभिः॑ , अ॒क्षा॒रिति॑ , सोमः॑ , दु॒ग्धाभिः॑ , अ॒क्षा॒रिति॑ । स॒मु॒द्रं , न , सं॒ऽवर॑णानि , अ॒ग्म॒न् , मं॒दी , मदा॑य , तो॒श॒ते॒ ॥
आ सो॑म सुवा॒नो अद्रि॑भिस्ति॒रो वारा॑ण्य॒व्यया॑ । जनो॒ न पु॒रि च॒म्वो॑र्विश॒द्धरिः॒ सदो॒ वने॑षु दधिषे ॥
आ , सो॒म॒ , सु॒वा॒नः , अद्रि॑ऽभिः , ति॒रः , वारा॑णि , अ॒व्यया॑ । जनः॑ , न , पु॒रि , च॒म्वोः॑ , वि॒श॒त् , हरिः॑ , सदः॑ , वने॑षु , द॒धि॒षे॒ ॥
स मा॑मृजे ति॒रो अण्वा॑नि मे॒ष्यो॑ मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः । अ॒नु॒माद्यः॒ पव॑मानो मनी॒षिभिः॒ सोमो॒ विप्रे॑भि॒र्ऋक्व॑भिः ॥
सः , म॒मृ॒जे॒ , ति॒रः , अण्वा॑नि , मे॒ष्यः॑ , मी॒ळ्हे , सप्तिः॑ , न , वा॒ज॒ऽयुः । अ॒नु॒ऽमाद्यः॑ , पव॑मानः , म॒नी॒षिऽभिः॑ , सोमः॑ , विप्रे॑भिः , ऋक्व॑ऽभिः ॥
प्र सो॑म दे॒ववी॑तये॒ सिंधु॒र्न पि॑प्ये॒ अर्ण॑सा । अं॒शोः पय॑सा मदि॒रो न जागृ॑वि॒रच्छा॒ कोशं॑ मधु॒श्चुतं॑ ॥
प्र , सो॒म॒ , दे॒वऽवी॑तये , सिंधुः॑ , न , पि॒प्ये॒ , अर्ण॑सा । अं॒शोः , पय॑सा , म॒दि॒रः , न , जागृ॑विः , अच्छ॑ , कोशं॑ , म॒धु॒ऽश्चुतं॑ ॥
आ ह॑र्य॒तो अर्जु॑ने॒ अत्के॑ अव्यत प्रि॒यः सू॒नुर्न मर्ज्यः॑ । तमीं॑ हिन्वंत्य॒पसो॒ यथा॒ रथं॑ न॒दीष्वा गभ॑स्त्योः ॥
आ , ह॒र्य॒तः , अर्जु॑ने , अत्के॑ , अ॒व्य॒त॒ , प्रि॒यः , सू॒नुः , न , मर्ज्यः॑ । तं , ईं॒ , हि॒न्वं॒ति॒ , अ॒पसः॑ , यथा॑ , रथं॑ , न॒दीषु॑ , आ , गभ॑स्त्योः ॥
अ॒भि सोमा॑स आ॒यवः॒ पवं॑ते॒ मद्यं॒ मदं॑ । स॒मु॒द्रस्याधि॑ वि॒ष्टपि॑ मनी॒षिणो॑ मत्स॒रासः॑ स्व॒र्विदः॑ ॥
अ॒भि , सोमा॑सः , आ॒यवः॑ , पवं॑ते , मद्यं॑ , मदं॑ । स॒मु॒द्रस्य॑ , अधि॑ , वि॒ष्टपि॑ , म॒नी॒षिणः॑ , म॒त्स॒रासः॑ , स्वः॒ऽविदः॑ ॥
तर॑त्समु॒द्रं पव॑मान ऊ॒र्मिणा॒ राजा॑ दे॒व ऋ॒तं बृ॒हत् । अर्ष॑न्मि॒त्रस्य॒ वरु॑णस्य॒ धर्म॑णा॒ प्र हि॑न्वा॒न ऋ॒तं बृ॒हत् ॥
तर॑त् , स॒मु॒द्रं , पव॑मानः , ऊ॒र्मिणा॑ , राजा॑ , दे॒वः , ऋ॒तं , बृ॒हत् । अर्ष॑त् , मि॒त्रस्य॑ , वरु॑णस्य , धर्म॑णा , प्र , हि॒न्वा॒नः , ऋ॒तं , बृ॒हत् ॥
नृभि॑र्येमा॒नो ह॑र्य॒तो वि॑चक्ष॒णो राजा॑ दे॒वः स॑मु॒द्रियः॑ ॥
नृऽभिः॑ , ये॒मा॒नः , ह॒र्य॒तः , वि॒ऽच॒क्ष॒णः , राजा॑ , दे॒वः , स॒मु॒द्रियः॑ ॥ ।
इंद्रा॑य पवते॒ मदः॒ सोमो॑ म॒रुत्व॑ते सु॒तः । स॒हस्र॑धारो॒ अत्यव्य॑मर्षति॒ तमी॑ मृजंत्या॒यवः॑ ॥
इंद्रा॑य , प॒व॒ते॒ , मदः॑ , सोमः॑ , म॒रुत्व॑ते , सु॒तः । स॒हस्र॑ऽधारः , अति॑ , अव्यं॑ , अ॒र्ष॒ति॒ , तं , ई॒मिति॑ , मृ॒जं॒ति॒ , आ॒यवः॑ ॥
पु॒ना॒नश्च॒मू ज॒नय॑न्म॒तिं क॒विः सोमो॑ दे॒वेषु॑ रण्यति । अ॒पो वसा॑नः॒ परि॒ गोभि॒रुत्त॑रः॒ सीद॒न्वने॑ष्वव्यत ॥
पु॒ना॒नः , च॒मू इति॑ , ज॒नय॑न् , म॒तिं , क॒विः , सोमः॑ , दे॒वेषु॑ , र॒ण्य॒ति॒ । अ॒पः , वसा॑नः , परि॑ , गोभिः॑ , उत्ऽत॑रः , सीद॑न् , वने॑षु , अ॒व्य॒त॒ ॥
तवा॒हं सो॑म रारण स॒ख्य इं॑दो दि॒वेदि॑वे । पु॒रूणि॑ बभ्रो॒ नि च॑रंति॒ मामव॑ परि॒धीँरति॒ ताँ इ॑हि ॥
तव॑ , अ॒हं , सो॒म॒ , र॒र॒ण॒ , स॒ख्ये , इं॒दो॒ इति॑ , दि॒वेऽदि॑वे । पु॒रूणि॑ , ब॒भ्रो॒ इति॑ , नि , च॒रं॒ति॒ , मां , अव॑ , प॒रि॒ऽधीन् , अति॑ , तान् , इ॒हि॒ ॥
उ॒ताहं नक्त॑मु॒त सो॑म ते॒ दिवा॑ स॒ख्याय॑ बभ्र॒ ऊध॑नि । घृ॒णा तपं॑त॒मति॒ सूर्यं॑ प॒रः श॑कु॒ना इ॑व पप्तिम ॥
उ॒त , अ॒हं , नक्तं॑ , उ॒त , सो॒म॒ , ते॒ , दिवा॑ , स॒ख्याय॑ , ब॒भ्रो॒ इति॑ , ऊध॑नि । घृ॒णा , तपं॑तं , अति॑ , सूर्यं॑ , प॒रः , श॒कु॒नाःऽइ॑व , प॒प्ति॒म॒ ॥
मृ॒ज्यमा॑नः सुहस्त्य समु॒द्रे वाच॑मिन्वसि । र॒यिं पि॒शंगं॑ बहु॒लं पु॑रु॒स्पृहं॒ पव॑माना॒भ्य॑र्षसि ॥
मृ॒ज्यमा॑नः , सु॒ऽह॒स्त्य॒ , स॒मु॒द्रे , वाचं॑ , इ॒न्व॒सि॒ । र॒यिं , पि॒शंगं॑ , ब॒हु॒लं , पु॒रु॒ऽस्पृहं॑ , पव॑मान , अ॒भि , अ॒र्ष॒सि॒ ॥
मृ॒जा॒नो वारे॒ पव॑मानो अ॒व्यये॒ वृषाव॑ चक्रदो॒ वने॑ । दे॒वानां॑ सोम पवमान निष्कृ॒तं गोभि॑रंजा॒नो अ॑र्षसि ॥
मृ॒जा॒नः , वारे॑ , पव॑मानः , अ॒व्यये॑ , वृषा॑ , अव॑ , च॒क्र॒दः॒ , वने॑ । दे॒वानां॑ , सो॒म॒ , प॒व॒मा॒न॒ , निः॒ऽकृ॒तं , गोभिः॑ , अं॒जा॒नः , अ॒र्ष॒सि॒ ॥
पव॑स्व॒ वाज॑सातये॒ऽभि विश्वा॑नि॒ काव्या॑ । त्वं स॑मु॒द्रं प्र॑थ॒मो वि धा॑रयो दे॒वेभ्यः॑ सोम मत्स॒रः ॥
पव॑स्व , वाज॑ऽसातये , अ॒भि , विश्वा॑नि , काव्या॑ । त्वं , स॒मु॒द्रं , प्र॒थ॒मः , वि , धा॒र॒यः॒ , दे॒वेभ्यः॑ , सो॒म॒ , म॒त्स॒रः ॥
स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजो॑ दि॒व्या च॑ सोम॒ धर्म॑भिः । त्वां विप्रा॑सो म॒तिभि॑र्विचक्षण शु॒भ्रं हि॑न्वंति धी॒तिभिः॑ ॥
सः , तु , प॒व॒स्व॒ , परि॑ , पार्थि॑वं , रजः॑ , दि॒व्या , च॒ , सो॒म॒ , धर्म॑ऽभिः । त्वां , विप्रा॑सः , म॒तिऽभिः॑ , वि॒ऽच॒क्ष॒ण॒ , शु॒भ्रं , हि॒न्वं॒ति॒ , धी॒तिऽभिः॑ ॥
पव॑माना असृक्षत प॒वित्र॒मति॒ धार॑या । म॒रुत्वं॑तो मत्स॒रा इं॑द्रि॒या हया॑ मे॒धाम॒भि प्रयां॑सि च ॥
पव॑मानाः , अ॒सृ॒क्ष॒त॒ , प॒वित्रं॑ , अति॑ , धार॑या । म॒रुत्वं॑तः , म॒त्स॒राः , इं॒द्रि॒याः , हयाः॑ , मे॒धां , अ॒भि , प्रयां॑सि , च॒ ॥
अ॒पो वसा॑नः॒ परि॒ कोश॑मर्ष॒तींदु॑र्हिया॒नः सो॒तृभिः॑ । ज॒नयं॒ज्योति॑र्मं॒दना॑ अवीवश॒द्गाः कृ॑ण्वा॒नो न नि॒र्णिजं॑ ॥
अ॒पः , वसा॑नः , परि॑ , कोशं॑ , अ॒र्ष॒ति॒ , इंदुः॑ , हि॒या॒नः , सो॒तृऽभिः॑ । ज॒नय॑न् , ज्योतिः॑ , मं॒दनाः॑ , अ॒वी॒व॒श॒त् , गाः , कृ॒ण्वा॒नः , न , निः॒ऽनिजं॑ ॥
[१०८] पवस्वेति षोळशर्चस्य सूक्तस्याद्ययोर्द्वयोः शाक्तयोगौरिवीतिः तृतीयायावसिष्ठःशक्तिः चतुर्थ्यादिद्वयोरांगिरसउरुः षष्ठ्यादिद्वयोर्भारद्वाजऋजिश्वः अष्टम्यादिद्वयोरांगिरस ऊर्ध्वसद्मः दशम्यादिद्वयोरांगिरसः कृतयशः द्वादश्यादिद्वयोरृणंचयः चतुर्दश्यादितिसृणांवासिष्ठःशक्तिः इत्य ऋषयः पवमानःसोमोदेवता अयुजः ककुभो युजःसतोबृहत्यः ससुन्वेय इति यवमध्यागायत्री |
पव॑स्व॒ मधु॑मत्तम॒ इंद्रा॑य सोम क्रतु॒वित्त॑मो॒ मदः॑ । महि॑ द्यु॒क्षत॑मो॒ मदः॑ ॥
पव॑स्व , मधु॑मत्ऽतमः , इंद्रा॑य , सो॒म॒ , क्र॒तु॒वित्ऽत॑मः , मदः॑ । महि॑ , द्यु॒क्षऽत॑मः , मदः॑ ॥
यस्य॑ ते पी॒त्वा वृ॑ष॒भो वृ॑षा॒यते॒ऽस्य पी॒ता स्व॒र्विदः॑ । स सु॒प्रके॑तो अ॒भ्य॑क्रमी॒दिषोऽच्छा॒ वाजं॒ नैत॑शः ॥
यस्य॑ , ते॒ , पी॒त्वा , वृ॒ष॒भः , वृ॒ष॒ऽयते॑ , अ॒स्य , पी॒ता , स्वः॒ऽविदः॑ । सः , सु॒ऽप्रके॑तः , अ॒भि , अ॒क्र॒मी॒त् , इषः॑ , अच्छ॑ , वाजं॑ , न , एत॑शः ॥
त्वं ह्य१॒॑ङ्ग दैव्या॒ पव॑मान॒ जनि॑मानि द्यु॒मत्त॑मः । अ॒मृ॒त॒त्वाय॑ घो॒षयः॑ ॥
त्वं , हि , अं॒ग , दैव्या॑ , पव॑मान , जनि॑मानि , द्यु॒मत्ऽत॑मः । अ॒मृ॒त॒ऽत्वाय॑ , घो॒षयः॑ ॥
येना॒ नव॑ग्वो द॒ध्यङ्ङ॑पोर्णु॒ते येन॒ विप्रा॑स आपि॒रे । दे॒वानां॑ सु॒म्ने अ॒मृत॑स्य॒ चारु॑णो॒ येन॒ श्रवां॑स्यान॒शुः ॥
येन॑ , नव॑ऽग्वः , द॒ध्यङ् , अ॒प॒ऽऊ॒र्णु॒ते , येन॑ , विप्रा॑सः , आ॒पि॒रे । दे॒वानां॑ , सु॒म्ने , अ॒मृत॑स्य , चारु॑णः , येन॑ , श्रवां॑सि , आ॒न॒शुः ॥
ए॒ष स्य धार॑या सु॒तोऽव्यो॒ वारे॑भिः पवते म॒दिंत॑मः । क्रीळ॑न्नू॒र्मिर॒पामि॑व ॥
ए॒षः , स्यः , धार॑या , सु॒तः , अव्यः॑ , वारे॑भिः , प॒व॒ते॒ , म॒दिन्ऽत॑मः । क्रीळ॑न् , ऊ॒र्मिः , अ॒पांऽइ॑व ॥
य उ॒स्रिया॒ अप्या॑ अं॒तरश्म॑नो॒ निर्गा अकृं॑त॒दोज॑सा । अ॒भि व्र॒जं त॑त्निषे॒ गव्य॒मश्व्यं॑ व॒र्मीव॑ धृष्ण॒वा रु॑ज ॥
यः , उ॒स्रियाः॑ , अप्याः॑ , अं॒तः , अश्म॑नः , निः , गाः , अकृं॑तत् , ओज॑सा । अ॒भि , व्र॒जं , त॒त्नि॒षे॒ , गव्यं॑ , अश्व्यं॑ , व॒र्मीऽइ॑व , धृ॒ष्णो॒ इति॑ , आ , रु॒ज॒ ॥
आ सो॑ता॒ परि॑ षिंच॒ताश्वं॒ न स्तोम॑म॒प्तुरं॑ रज॒स्तुरं॑ । व॒न॒क्र॒क्षमु॑द॒प्रुतं॑ ॥
आ , सो॒त॒ , परि॑ , सिं॒च॒त॒ , अश्वं॑ , न , स्तोमं॑ , अ॒प्ऽतुरं॑ , र॒जः॒ऽतुरं॑ । व॒न॒ऽक्र॒क्षं , उ॒द॒ऽप्रुतं॑ ॥
स॒हस्र॑धारं वृष॒भं प॑यो॒वृधं॑ प्रि॒यं दे॒वाय॒ जन्म॑ने । ऋ॒तेन॒ य ऋ॒तजा॑तो विवावृ॒धे राजा॑ दे॒व ऋ॒तं बृ॒हत् ॥
स॒हस्र॑ऽधारं , वृ॒ष॒भं , प॒यः॒ऽवृधं॑ , प्रि॒यं , दे॒वाय॑ , जन्म॑ने । ऋ॒तेन॑ , यः , ऋ॒तऽजा॑तः , वि॒ऽव॒वृ॒धे , राजा॑ , दे॒वः , ऋ॒तं , बृ॒हत् ॥
अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे॑व देव॒युः । वि कोशं॑ मध्य॒मं यु॑व ॥
अ॒भि , द्यु॒म्नं , बृ॒हत् , यशः॑ , इषः॑ , प॒ते॒ , दि॒दी॒हि , दे॒व॒ , दे॒व॒ऽयुः । वि , कोशं॑ , म॒ध्य॒मं , यु॒व॒ ॥
आ व॑च्यस्व सुदक्ष च॒म्वोः॑ सु॒तो वि॒शां वह्नि॒र्न वि॒श्पतिः॑ । वृ॒ष्टिं दि॒वः प॑वस्व री॒तिम॒पां जिन्वा॒ गवि॑ष्टये॒ धियः॑ ॥
आ , व॒च्य॒स्व॒ , सु॒ऽद॒क्ष॒ , च॒म्वोः॑ , सु॒तः , वि॒शां , वह्निः॑ , न , वि॒श्पतिः॑ । वृ॒ष्टिं , दि॒वः , प॒व॒स्व॒ , री॒तिं , अ॒पां , जिन्व॑ , गोऽइ॑ष्टये , धियः॑ ॥
ए॒तमु॒ त्यं म॑द॒च्युतं॑ स॒हस्र॑धारं वृष॒भं दिवो॑ दुहुः । विश्वा॒ वसू॑नि॒ बिभ्र॑तं ॥
ए॒तं , ऊँ॒ इति॑ , त्यं , म॒द॒ऽच्युतं॑ , स॒हस्र॑ऽधारं , वृ॒ष॒भं , दिवः॑ , दु॒हुः॒ । विश्वा॑ , वसू॑नि , बिभ्र॑तं ॥
वृषा॒ वि ज॑ज्ञे ज॒नय॒न्नम॑र्त्यः प्र॒तपं॒ज्योति॑षा॒ तमः॑ । स सुष्टु॑तः क॒विभि॑र्नि॒र्णिजं॑ दधे त्रि॒धात्व॑स्य॒ दंस॑सा ॥
वृषा॑ , वि , ज॒ज्ञे॒ , ज॒नय॑न् , अम॑र्त्यः , प्र॒ऽतप॑न् , ज्योति॑षा , तमः॑ । सः , सुऽस्तु॑तः , क॒विऽभिः॑ , निः॒ऽनिजं॑ , द॒धे॒ , त्रि॒ऽधातु॑ , अ॒स्य॒ , दंस॑सा ॥
स सु॑न्वे॒ यो वसू॑नां॒ यो रा॒यामा॑ने॒ता य इळा॑नां । सोमो॒ यः सु॑क्षिती॒नां ॥
सः , सु॒न्वे॒ , यः , वसू॑नां , यः , रा॒यां , आ॒ऽने॒ता , यः , इळा॑नां । सोमः॑ , यः , सु॒ऽक्षि॒ती॒नां ॥
यस्य॑ न॒ इंद्रः॒ पिबा॒द्यस्य॑ म॒रुतो॒ यस्य॑ वार्य॒मणा॒ भगः॑ । आ येन॑ मि॒त्रावरु॑णा॒ करा॑मह॒ एंद्र॒मव॑से म॒हे ॥
यस्य॑ , नः॒ , इंद्रः॑ , पिबा॑त् , यस्य॑ , म॒रुतः॑ , यस्य॑ , वा॒ , अ॒र्य॒मणा॑ , भगः॑ । आ , येन॑ , मि॒त्रावरु॑णा , करा॑महे , आ , इंद्रं॑ , अव॑से , म॒हे ॥
इंद्रा॑य सोम॒ पात॑वे॒ नृभि॑र्य॒तः स्वा॑यु॒धो म॒दिंत॑मः । पव॑स्व॒ मधु॑मत्तमः ॥
इंद्रा॑य , सो॒म॒ , पात॑वे , नृऽभिः॑ , य॒तः , सु॒ऽआ॒यु॒धः , म॒दिन्ऽत॑मः । पव॑स्व , मधु॑मत्ऽतमः ॥
इंद्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श समु॒द्रमि॑व॒ सिंध॑वः । जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ दि॒वो वि॑ष्टं॒भ उ॑त्त॒मः ॥
इंद्र॑स्य , हार्दि॑ , सो॒म॒ऽधानं॑ , आ , वि॒श॒ , स॒मु॒द्रंऽइ॑व , सिंध॑वः । जुष्टः॑ , मि॒त्राय॑ , वरु॑णाय , वा॒यवे॑ , दि॒वः , वि॒ष्टं॒भः , उ॒त्ऽत॒मः ॥
[१०९] परिप्रेतिद्वाविंशत्यृचस्य सूक्तस्यैश्वरयोधिष्ण्याग्नयः पवमानः सोमोद्विपदा विराट् |
परि॒ प्र ध॒न्वेंद्रा॑य सोम स्वा॒दुर्मि॒त्राय॑ पू॒ष्णे भगा॑य ॥
परि॑ , प्र , ध॒न्व॒ , इंद्रा॑य , सो॒म॒ , स्वा॒दुः , मि॒त्राय॑ , पू॒ष्णे , भगा॑य ॥ ।
इंद्र॑स्ते सोम सु॒तस्य॑ पेयाः॒ क्रत्वे॒ दक्षा॑य॒ विश्वे॑ च दे॒वाः ॥
इंद्रः॑ , ते॒ , सो॒म॒ , सु॒तस्य॑ , पे॒याः॒ , क्रत्वे॑ , दक्षा॑य , विश्वे॑ , च॒ , दे॒वाः ॥ ।
ए॒वामृता॑य म॒हे क्षया॑य॒ स शु॒क्रो अ॑र्ष दि॒व्यः पी॒यूषः॑ ॥
ए॒व , अ॒मृता॑य , म॒हे , क्षया॑य , सः , शु॒क्रः , अ॒र्ष॒ , दि॒व्यः , पी॒यूषः॑ ॥ ।
पव॑स्व सोम म॒हांत्स॑मु॒द्रः पि॒ता दे॒वानां॒ विश्वा॒भि धाम॑ ॥
पव॑स्व , सो॒म॒ , म॒हान् , स॒मु॒द्रः , पि॒ता , दे॒वानां॑ , विश्वा॑ , अ॒भि , धाम॑ ॥ ।
शु॒क्रः प॑वस्व दे॒वेभ्यः॑ सोम दि॒वे पृ॑थि॒व्यै शं च॑ प्र॒जायै॑ ॥
शु॒क्रः , प॒व॒स्व॒ , दे॒वेभ्यः॑ , सो॒म॒ , दि॒वे , पृ॒थि॒व्यै , शं , च॒ , प्र॒ऽजायै॑ ॥ ।
दि॒वो ध॒र्तासि॑ शु॒क्रः पी॒यूषः॑ स॒त्ये विध॑र्मन्वा॒जी प॑वस्व ॥
दि॒वः , ध॒र्ता , अ॒सि॒ , शु॒क्रः , पी॒यूषः॑ , स॒त्ये , विऽध॑र्मन् , वा॒जी , प॒व॒स्व॒ ॥ ।
पव॑स्व सोम द्यु॒म्नी सु॑धा॒रो म॒हामवी॑ना॒मनु॑ पू॒र्व्यः ॥
पव॑स्व , सो॒म॒ , द्यु॒म्नी , सु॒ऽधा॒रः , म॒हां , अवी॑नां , अनु॑ , पू॒र्व्यः ॥ ।
नृभि॑र्येमा॒नो ज॑ज्ञा॒नः पू॒तः क्षर॒द्विश्वा॑नि मं॒द्रः स्व॒र्वित् ॥
नृऽभिः॑ , ये॒मा॒नः , ज॒ज्ञा॒नः , पू॒तः , क्षर॑त् , विश्वा॑नि , मं॒द्रः , स्वः॒ऽवित् ॥ ।
इंदुः॑ पुना॒नः प्र॒जामु॑रा॒णः कर॒द्विश्वा॑नि॒ द्रवि॑णानि नः ॥
इंदुः॑ , पु॒ना॒नः , प्र॒ऽजां , उ॒रा॒णः , क॒र॒त् , विश्वा॑नि , द्रवि॑णानि , नः॒ ॥ ।
पव॑स्व सोम॒ क्रत्वे॒ दक्षा॒याश्वो॒ न नि॒क्तो वा॒जी धना॑य ॥
पव॑स्व , सो॒म॒ , क्रत्वे॑ , दक्षा॑य , अश्वः॑ , न , नि॒क्तः , वा॒जी , धना॑य ॥ ।
तं ते॑ सो॒तारो॒ रसं॒ मदा॑य पु॒नंति॒ सोमं॑ म॒हे द्यु॒म्नाय॑ ॥
तं , ते॒ , सो॒तारः॑ , रसं॑ , मदा॑य , पु॒नंति॑ , सोमं॑ , म॒हे , द्यु॒म्नाय॑ ॥ ।
शिशुं॑ जज्ञा॒नं हरिं॑ मृजंति प॒वित्रे॒ सोमं॑ दे॒वेभ्य॒ इंदुं॑ ॥
शिशुं॑ , ज॒ज्ञा॒नं , हरिं॑ , मृ॒जं॒ति॒ , प॒वित्रे॑ , सोमं॑ , दे॒वेभ्यः॑ , इंदुं॑ ॥ ।
इंदुः॑ पविष्ट॒ चारु॒र्मदा॑या॒पामु॒पस्थे॑ क॒विर्भगा॑य ॥
इंदुः॑ , प॒वि॒ष्ट॒ , चारुः॑ , मदा॑य , अ॒पां , उ॒पऽस्थे॑ , क॒विः , भगा॑य ॥ ।
बिभ॑र्ति॒ चार्विंद्र॑स्य॒ नाम॒ येन॒ विश्वा॑नि वृ॒त्रा ज॒घान॑ ॥
बिभ॑र्ति , चारु॑ , इंद्र॑स्य , नाम॑ , येन॑ , विश्वा॑नि , वृ॒त्रा , ज॒घान॑ ॥ ।
पिबं॑त्यस्य॒ विश्वे॑ दे॒वासो॒ गोभिः॑ श्री॒तस्य॒ नृभिः॑ सु॒तस्य॑ ॥
पिबं॑ति , अ॒स्य॒ , विश्वे॑ , दे॒वासः॑ , गोभिः॑ , श्री॒तस्य॑ , नृऽभिः॑ , सु॒तस्य॑ ॥ ।
प्र सु॑वा॒नो अ॑क्षाः स॒हस्र॑धारस्ति॒रः प॒वित्रं॒ वि वार॒मव्यं॑ ॥
प्र , सु॒वा॒नः , अ॒क्षा॒रिति॑ , स॒हस्र॑ऽधारः , ति॒रः , प॒वित्रं॑ , वि , वारं॑ , अव्यं॑ ॥ ।
स वा॒ज्य॑क्षाः स॒हस्र॑रेता अ॒द्भिर्मृ॑जा॒नो गोभिः॑ श्रीणा॒नः ॥
सः , वा॒जी , अ॒क्षा॒रिति॑ , स॒हस्र॑ऽरेताः , अ॒त्ऽभिः , मृ॒जा॒नः , गोभिः॑ , श्री॒णा॒नः ॥ ।
प्र सो॑म या॒हींद्र॑स्य कु॒क्षा नृभि॑र्येमा॒नो अद्रि॑भिः सु॒तः ॥
प्र , सो॒म॒ , या॒हि॒ , इंद्र॑स्य , कु॒क्षा , नृऽभिः॑ , ये॒मा॒नः , अद्रि॑ऽभिः , सु॒तः ॥ ।
अस॑र्जि वा॒जी ति॒रः प॒वित्र॒मिंद्रा॑य॒ सोमः॑ स॒हस्र॑धारः ॥
अस॑र्जि , वा॒जी , ति॒रः , प॒वित्रं॑ , इंद्रा॑य , सोमः॑ , स॒हस्र॑ऽधारः ॥ ।
अं॒जंत्ये॑नं॒ मध्वो॒ रसे॒नेंद्रा॑य॒ वृष्ण॒ इंदुं॒ मदा॑य ॥
अं॒जंति॑ , ए॒नं॒ , मध्वः॑ , रसे॑न , इंद्रा॑य , वृष्णे॑ , इंदुं॑ , मदा॑य ॥ ।
दे॒वेभ्य॑स्त्वा॒ वृथा॒ पाज॑से॒ऽपो वसा॑नं॒ हरिं॑ मृजंति ॥
दे॒वेभ्यः॑ , त्वा॒ , वृथा॑ , पाज॑से , अ॒पः , वसा॑नं , हरिं॑ , मृ॒जं॒ति॒ ॥ ।
इंदु॒रिंद्रा॑य तोशते॒ नि तो॑शते श्री॒णन्नु॒ग्रो रि॒णन्न॒पः ॥
इंदुः॑ , इंद्रा॑य , तो॒श॒ते॒ , नि , तो॒श॒ते॒ , श्री॒णन् , उ॒ग्रः , रि॒णन् , अ॒पः ॥ ।
[११०] पर्यूष्विति द्वादशर्चस्य सूक्तस्य त्र्यरुणत्रसदस्यू राजानौ पवमानः सोमः आद्यास्तिस्रोनुष्टुभः पिपीलिकमध्याः चतुर्थ्यादिषळूर्ध्व बृहत्योंऽत्यास्तिस्रोविराजः |
पर्यू॒ षु प्र ध॑न्व॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑ । द्वि॒षस्त॒रध्या॑ ऋण॒या न॑ ईयसे ॥
परि॑ , ऊँ॒ इति॑ , सु , प्र , ध॒न्व॒ , वाज॑ऽसातये , परि॑ , वृ॒त्राणि॑ , स॒क्षणिः॑ । द्वि॒षः , त॒रध्यै॑ , ऋ॒ण॒ऽयाः , नः॒ , ई॒य॒से॒ ॥
अनु॒ हि त्वा॑ सु॒तं सो॑म॒ मदा॑मसि म॒हे स॑मर्य॒राज्ये॑ । वाजाँ॑ अ॒भि प॑वमान॒ प्र गा॑हसे ॥
अनु॑ , हि , त्वा॒ , सु॒तं , सो॒म॒ , मदा॑मसि , म॒हे , स॒म॒र्य॒ऽराज्ये॑ । वाजा॑न् , अ॒भि , प॒व॒मा॒न॒ , प्र , गा॒ह॒से॒ ॥
अजी॑जनो॒ हि प॑वमान॒ सूर्यं॑ वि॒धारे॒ शक्म॑ना॒ पयः॑ । गोजी॑रया॒ रंह॑माणः॒ पुरं॑ध्या ॥
अजी॑जनः , हि , प॒व॒मा॒न॒ , सूर्यं॑ , वि॒ऽधारे॑ , शक्म॑ना , पयः॑ । गोऽजी॑रया , रंह॑माणः , पुरं॑ध्या ॥
अजी॑जनो अमृत॒ मर्त्ये॒ष्वाँ ऋ॒तस्य॒ धर्म॑न्न॒मृत॑स्य॒ चारु॑णः । सदा॑सरो॒ वाज॒मच्छा॒ सनि॑ष्यदत् ॥
अजी॑जनः , अ॒मृ॒त॒ , मर्त्ये॑षु , आ , ऋ॒तस्य॑ , धर्म॑न् , अ॒मृत॑स्य , चारु॑णः । सदा॑ , अ॒स॒रः॒ , वाजं॑ , अच्छ॑ , सनि॑स्यदत् ॥
अ॒भ्य॑भि॒ हि श्रव॑सा त॒तर्दि॒थोत्सं॒ न कं चि॑ज्जन॒पान॒मक्षि॑तं । शर्या॑भि॒र्न भर॑माणो॒ गभ॑स्त्योः ॥
अ॒भिऽअ॑भि , हि , श्रव॑सा , त॒तर्दि॑थ , उत्सं॑ , न , कं , चि॒त् , ज॒न॒ऽपानं॑ , अक्षि॑तं । शर्या॑भिः , न , भर॑माणः , गभ॑स्त्योः ॥
आदीं॒ के चि॒त्पश्य॑मानास॒ आप्यं॑ वसु॒रुचो॑ दि॒व्या अ॒भ्य॑नूषत । वारं॒ न दे॒वः स॑वि॒ता व्यू॑र्णुते ॥
आत् , ईं॒ , के , चि॒त् , पश्य॑मानासः , आप्यं॑ , व॒सु॒ऽरुचः॑ , दि॒व्याः , अ॒भि , अ॒नू॒ष॒त॒ । वारं॑ , न , दे॒वः , स॒वि॒ता , वि , ऊ॒र्णु॒ते॒ ॥
त्वे सो॑म प्रथ॒मा वृ॒क्तब॑र्हिषो म॒हे वाजा॑य॒ श्रव॑से॒ धियं॑ दधुः । स त्वं नो॑ वीर वी॒र्या॑य चोदय ॥
त्वे इति॑ , सो॒म॒ , प्र॒थ॒माः , वृ॒क्तऽब॑र्हिषः , म॒हे , वाजा॑य , श्रव॑से , धियं॑ , द॒धुः॒ । सः , त्वं , नः॒ , वी॒र॒ , वी॒र्या॑य , चो॒द॒य॒ ॥
दि॒वः पी॒यूषं॑ पू॒र्व्यं यदु॒क्थ्यं॑ म॒हो गा॒हाद्दि॒व आ निर॑धुक्षत । इंद्र॑म॒भि जाय॑मानं॒ सम॑स्वरन् ॥
दि॒वः , पी॒यूषं॑ , पू॒र्व्यं , यत् , उ॒क्थ्यं॑ , म॒हः , गा॒हात् , दि॒वः , आ , निः , अ॒धु॒क्ष॒त॒ । इंद्रं॑ , अ॒भि , जाय॑मानं , सं , अ॒स्व॒र॒न् ॥
अध॒ यदि॒मे प॑वमान॒ रोद॑सी इ॒मा च॒ विश्वा॒ भुव॑ना॒भि म॒ज्मना॑ । यू॒थे न नि॒ष्ठा वृ॑ष॒भो वि ति॑ष्ठसे ॥
अध॑ , यत् , इ॒मे इति॑ , प॒व॒मा॒न॒ , रोद॑सी॒ इति॑ , इ॒मा , च॒ , विश्वा॑ , भुव॑ना , अ॒भि , म॒ज्मना॑ । यू॒थे , न , निः॒ऽस्थाः , वृ॒ष॒भः , वि , ति॒ष्ठ॒से॒ ॥
सोमः॑ पुना॒नो अ॒व्यये॒ वारे॒ शिशु॒र्न क्रीळ॒न्पव॑मानो अक्षाः । स॒हस्र॑धारः श॒तवा॑ज॒ इंदुः॑ ॥
सोमः॑ , पु॒ना॒नः , अ॒व्यये॑ , वारे॑ , शिशुः॑ , न , क्रीळ॑न् , पव॑मानः , अ॒क्षा॒रिति॑ । स॒हस्र॑ऽधारः , श॒तऽवा॑जः , इंदुः॑ ॥
ए॒ष पु॑ना॒नो मधु॑माँ ऋ॒तावेंद्रा॒येंदुः॑ पवते स्वा॒दुरू॒र्मिः । वा॒ज॒सनि॑र्वरिवो॒विद्व॑यो॒धाः ॥
ए॒षः , पु॒ना॒नः , मधु॑ऽमान् , ऋ॒तऽवा॑ , इंद्रा॑य , इंदुः॑ , प॒व॒ते॒ , स्वा॒दुः , ऊ॒र्मिः । वा॒ज॒ऽसनिः॑ , व॒रि॒वः॒ऽवित् , व॒यः॒ऽधाः ॥
स प॑वस्व॒ सह॑मानः पृत॒न्यूंत्सेध॒न्रक्षां॒स्यप॑ दु॒र्गहा॑णि । स्वा॒यु॒धः सा॑स॒ह्वांत्सो॑म॒ शत्रू॑न् ॥
सः , प॒व॒स्व॒ , सह॑मानः , पृ॒त॒न्यून् , सेध॑न् , रक्षां॑सि , अप॑ , दुः॒ऽगहा॑णि । सु॒ऽआ॒यु॒धः , स॒स॒ह्वान् , सो॒म॒ , शत्रू॑न् ॥
[१११] अयारुचेति तृचस्य सूक्तस्य पारुच्छेपिरनानतः पवमानः सोमोत्यष्टिः |
अ॒या रु॒चा हरि॑ण्या पुना॒नो विश्वा॒ द्वेषां॑सि तरति स्व॒युग्व॑भिः॒ सूरो॒ न स्व॒युग्व॑भिः । धारा॑ सु॒तस्य॑ रोचते पुना॒नो अ॑रु॒षो हरिः॑ । विश्वा॒ यद्रू॒पा प॑रि॒यात्यृक्व॑भिः स॒प्तास्ये॑भि॒र्ऋक्व॑भिः ॥
अ॒या , रु॒चा , हरि॑ण्या , पु॒ना॒नः , विश्वा॑ , द्वेषां॑सि , त॒र॒ति॒ , स्व॒युग्व॑ऽभिः , सूरः॑ , न , स्व॒युग्व॑ऽभिः । धारा॑ , सु॒तस्य॑ , रो॒च॒ते॒ , पु॒ना॒नः , अ॒रु॒षः , हरिः॑ विश्वा॑ , यत् , रू॒पा , प॒रि॒ऽयाति॑ , ऋक्व॑ऽभिः , स॒प्तऽआ॑स्येभिः , ऋक्व॑ऽभिः ॥
त्वं त्यत्प॑णी॒नां वि॑दो॒ वसु॒ सं मा॒तृभि॑र्मर्जयसि॒ स्व आ दम॑ ऋ॒तस्य॑ धी॒तिभि॒र्दमे॑ । प॒रा॒वतो॒ न साम॒ तद्यत्रा॒ रणं॑ति धी॒तयः॑ । त्रि॒धातु॑भि॒ररु॑षीभि॒र्वयो॑ दधे॒ रोच॑मानो॒ वयो॑ दधे ॥
त्वं , त्यत् , प॒णी॒नां , वि॒दः॒ , वसु॑ , सं , मा॒तृऽभिः॑ , म॒र्ज॒य॒सि॒ , स्वे , आ , दमे॑ , ऋ॒तस्य॑ , धी॒तिऽभिः॑ , दमे॑ । प॒रा॒ऽवतः॑ , न , साम॑ , तत् , यत्र॑ , रणं॑ति , धी॒तयः॑ त्रि॒धातु॑ऽभिः , अरु॑षीभिः , वयः॑ , द॒धे॒ , रोच॑मानः , वयः॑ , द॒धे॒ ॥
पूर्वा॒मनु॑ प्र॒दिशं॑ याति॒ चेकि॑त॒त्सं र॒श्मिभि॑र्यतते दर्श॒तो रथो॒ दैव्यो॑ दर्श॒तो रथः॑ । अग्म॑न्नु॒क्थानि॒ पौंस्येंद्रं॒ जैत्रा॑य हर्षयन् । वज्र॑श्च॒ यद्भव॑थो॒ अन॑पच्युता स॒मत्स्वन॑पच्युता ॥
पूर्वां॑ , अनु॑ , प्र॒ऽदिशं॑ , या॒ति॒ , चेकि॑तत् , सं , र॒श्मिऽभिः॑ , य॒त॒ते॒ , द॒र्श॒तः , रथः॑ , दैव्यः॑ , द॒र्श॒तः , रथः॑ । अग्म॑न् , उ॒क्थानि॑ , पौंस्या॑ , इंद्रं॑ , जैत्रा॑य , ह॒र्ष॒य॒न् वज्रः॑ , च॒ , यत् , भव॑थः , अन॑पऽच्युता , स॒मत्ऽसु॑ , अन॑पऽच्युता ॥
[११२] नानानमिति चतुरृचस्य सूक्तस्यांगिरसः शिशुः पवमानःसोमःपंक्तिः |
ना॒ना॒नं वा उ॑ नो॒ धियो॒ वि व्र॒तानि॒ जना॑नां । तक्षा॑ रि॒ष्टं रु॒तं भि॒षग्ब्र॒ह्मा सु॒न्वंत॑मिच्छ॒तींद्रा॑येंदो॒ परि॑ स्रव ॥
ना॒ना॒नं , वै , ऊँ॒ इति॑ , नः॒ , धियः॑ , वि , व्र॒तानि॑ , जना॑नां । तक्षा॑ , रि॒ष्टं , रु॒तं , भि॒षक् , ब्र॒ह्मा , सु॒न्वंतं॑ , इ॒च्छ॒ति॒ , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
जर॑तीभि॒रोष॑धीभिः प॒र्णेभिः॑ शकु॒नानां॑ । का॒र्मा॒रो अश्म॑भि॒र्द्युभि॒र्हिर॑ण्यवंतमिच्छ॒तींद्रा॑येंदो॒ परि॑ स्रव ॥
जर॑तीभिः , ओष॑धीभिः , प॒र्णेभिः॑ , श॒कु॒नानां॑ । का॒र्मा॒रः , अश्म॑ऽभिः , द्युऽभिः॑ , हिर॑ण्यऽवंतं , इ॒च्छ॒ति॒ , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
का॒रुर॒हं त॒तो भि॒षगु॑पलप्र॒क्षिणी॑ न॒ना । नाना॑धियो वसू॒यवोऽनु॒ गा इ॑व तस्थि॒मेंद्रा॑येंदो॒ परि॑ स्रव ॥
का॒रुः , अ॒हं , त॒तः , भि॒षक् , उ॒प॒ल॒ऽप्र॒क्षिणी॑ , न॒ना । नाना॑ऽधियः , व॒सु॒ऽयवः॑ , अनु॑ , गाःऽइ॑व , त॒स्थि॒म॒ , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
अश्वो॒ वोळ्हा॑ सु॒खं रथं॑ हस॒नामु॑पमं॒त्रिणः॑ । शेपो॒ रोम॑ण्वंतौ भे॒दौ वारिन्मं॒डूक॑ इच्छ॒तींद्रा॑येंदो॒ परि॑ स्रव ॥
अश्वः॑ , वोळ्हा॑ , सु॒ऽखं , रथं॑ , ह॒स॒नां , उ॒प॒ऽमं॒त्रिणः॑ । शेपः॑ , रोम॑ण्ऽवंतौ , भे॒दौ , वाः , इत् , मं॒डूकः॑ , इ॒च्छ॒ति॒ , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
[११३] शर्यणावतीत्येकादशर्चस्य सूक्तस्य मारीचः कश्यपः पवमानःसोमः पंक्तिः |
श॒र्य॒णाव॑ति॒ सोम॒मिंद्रः॑ पिबतु वृत्र॒हा । बलं॒ दधा॑न आ॒त्मनि॑ करि॒ष्यन्वी॒र्यं॑ म॒हदिंद्रा॑येंदो॒ परि॑ स्रव ॥
श॒र्य॒णाऽव॑ति , सोमं॑ , इंद्रः॑ , पि॒ब॒तु॒ , वृ॒त्र॒ऽहा । बलं॑ , दधा॑नः , आ॒त्मनि॑ , क॒रि॒ष्यन् , वी॒र्यं॑ , म॒हत् , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
आ प॑वस्व दिशां पत आर्जी॒कात्सो॑म मीढ्वः । ऋ॒त॒वा॒केन॑ स॒त्येन॑ श्र॒द्धया॒ तप॑सा सु॒त इंद्रा॑येंदो॒ परि॑ स्रव ॥
आ , प॒व॒स्व॒ , दि॒शां॒ , प॒ते॒ , आ॒र्जी॒कात् , सोम॑ , मीढ्वः॑ । ऋ॒त॒ऽवा॒केन॑ , स॒त्येन॑ , श्र॒द्धया॑ , तप॑सा , सु॒तः , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
प॒र्जन्य॑वृद्धं महि॒षं तं सूर्य॑स्य दुहि॒ताभ॑रत् । तं गं॑ध॒र्वाः प्रत्य॑गृभ्णं॒तं सोमे॒ रस॒माद॑धु॒रिंद्रा॑येंदो॒ परि॑ स्रव ॥
प॒र्जन्य॑ऽवृद्धं , म॒हि॒षं , तं , सूर्य॑स्य , दु॒हि॒ता , आ , अ॒भ॒र॒त् । तं , गं॒ध॒र्वाः , प्रति॑ , अ॒गृ॒भ्ण॒न् , तं , सोमे॑ , रसं॑ , आ , अ॒द॒धुः॒ , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
ऋ॒तं वद॑न्नृतद्युम्न स॒त्यं वदं॑त्सत्यकर्मन् । श्र॒द्धां वदं॑त्सोम राजंधा॒त्रा सो॑म॒ परि॑ष्कृत॒ इंद्रा॑येंदो॒ परि॑ स्रव ॥
ऋ॒तं , वद॑न् , ऋ॒त॒ऽद्यु॒म्न॒ , स॒त्यं , वद॑न् , स॒त्य॒ऽक॒र्म॒न् । श्र॒द्धां , वद॑न् , सो॒म॒ , रा॒ज॒न् , धा॒त्रा , सो॒म॒ , परि॑ऽकृत , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
स॒त्यमु॑ग्रस्य बृह॒तः सं स्र॑वंति संस्र॒वाः । सं यं॑ति र॒सिनो॒ रसाः॑ पुना॒नो ब्रह्म॑णा हर॒ इंद्रा॑येंदो॒ परि॑ स्रव ॥
स॒त्यंऽउ॑ग्रस्य , बृ॒ह॒तः , सं , स्र॒वं॒ति॒ , सं॒ऽस्र॒वाः । सं , यं॒ति॒ , र॒सिनः॑ , रसाः॑ , पु॒ना॒नः , ब्रह्म॑णा , ह॒रे॒ , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
यत्र॑ ब्र॒ह्मा प॑वमान छंद॒स्यां॒३॒॑ वाचं॒ वद॑न् । ग्राव्णा॒ सोमे॑ मही॒यते॒ सोमे॑नानं॒दं ज॒नय॒न्निंद्रा॑येंदो॒ परि॑ स्रव ॥
यत्र॑ , ब्र॒ह्मा , प॒व॒मा॒न॒ , छं॒द॒स्यां॑ , वाचं॑ , वद॑न् । ग्राव्णा॑ , सोमे॑ , म॒ही॒यते॑ , सोमे॑न , आ॒ऽनं॒दं , ज॒नय॑न् , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
यत्र॒ ज्योति॒रज॑स्रं॒ यस्मिँ॑ल्लो॒के स्व॑र्हि॒तं । तस्मि॒न्मां धे॑हि पवमाना॒मृते॑ लो॒के अक्षि॑त॒ इंद्रा॑येंदो॒ परि॑ स्रव ॥
यत्र॑ , ज्योतिः॑ , अज॑स्रं , यस्मि॑न् , लो॒के , स्वः॑ , हि॒तं । तस्मि॑न् , मां , धे॒हि॒ , प॒व॒मा॒न॒ , अ॒मृते॑ , लो॒के , अक्षि॑ते , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
यत्र॒ राजा॑ वैवस्व॒तो यत्रा॑व॒रोध॑नं दि॒वः । यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒ माम॒मृतं॑ कृ॒धींद्रा॑येंदो॒ परि॑ स्रव ॥
यत्र॑ , राजा॑ , वै॒व॒स्व॒तः , यत्र॑ , अ॒व॒ऽरोध॑नं , दि॒वः । यत्र॑ , अ॒मूः , य॒ह्वतीः॑ , आपः॑ , तत्र॑ , मां , अ॒मृतं॑ , कृ॒धि॒ , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
यत्रा॑नुका॒मं चर॑णं त्रिना॒के त्रि॑दि॒वे दि॒वः । लो॒का यत्र॒ ज्योति॑ष्मंत॒स्तत्र॒ माम॒मृतं॑ कृ॒धींद्रा॑येंदो॒ परि॑ स्रव ॥
यत्र॑ , अ॒नु॒ऽका॒मं , चर॑णं , त्रि॒ऽना॒के , त्रि॒ऽदि॒वे , दि॒वः । लो॒काः , यत्र॑ , ज्योति॑ष्मंतः , तत्र॑ , मां , अ॒मृतं॑ , कृ॒धि॒ , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
यत्र॒ कामा॑ निका॒माश्च॒ यत्र॑ ब्र॒ध्नस्य॑ वि॒ष्टपं॑ । स्व॒धा च॒ यत्र॒ तृप्ति॑श्च॒ तत्र॒ माम॒मृतं॑ कृ॒धींद्रा॑येंदो॒ परि॑ स्रव ॥
यत्र॑ , कामाः॑ , नि॒ऽका॒माः , च॒ , यत्र॑ , ब्र॒ध्नस्य॑ , वि॒ष्टपं॑ । स्व॒धा , च॒ , यत्र॑ , तृप्तिः॑ , च॒ , तत्र॑ , मां , अ॒मृतं॑ , कृ॒धि॒ , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
यत्रा॑नं॒दाश्च॒ मोदा॑श्च॒ मुदः॑ प्र॒मुद॒ आस॑ते । काम॑स्य॒ यत्रा॒प्ताः कामा॒स्तत्र॒ माम॒मृतं॑ कृ॒धींद्रा॑येंदो॒ परि॑ स्रव ॥
यत्र॑ , आ॒ऽनं॒दाः , च॒ , मोदाः॑ , च॒ , मुदः॑ , प्र॒ऽमुदः॑ , आस॑ते । काम॑स्य , यत्र॑ , आ॒प्ताः , कामाः॑ , तत्र॑ , मां , अ॒मृतं॑ , कृ॒धि॒ , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
[११४] यइंदोरिति चतुरृचस्य सूक्तस्य मारीचः कश्यपः पवमानःसोमःपंक्तिः |
य इंदोः॒ पव॑मान॒स्यानु॒ धामा॒न्यक्र॑मीत् । तमा॑हुः सुप्र॒जा इति॒ यस्ते॑ सो॒मावि॑ध॒न्मन॒ इंद्रा॑येंदो॒ परि॑ स्रव ॥
यः , इंदोः॑ , पव॑मानस्य , अनु॑ , धामा॑नि , अक्र॑मीत् । तं , आ॒हुः॒ , सु॒ऽप्र॒जाः , इति॑ , यः , ते॒ , सो॒म॒ , अवि॑धत् , मनः॑ , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
ऋषे॑ मंत्र॒कृतां॒ स्तोमैः॒ कश्य॑पोद्व॒र्धय॒न्गिरः॑ । सोमं॑ नमस्य॒ राजा॑नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिंद्रा॑येंदो॒ परि॑ स्रव ॥
ऋषे॑ , मं॒त्र॒ऽकृतां॑ , स्तोमैः॑ , कश्य॑प , उ॒त्ऽव॒र्धय॑न् , गिरः॑ । सोमं॑ , न॒म॒स्य॒ , राजा॑नं , यः , ज॒ज्ञे , वी॒रुधां॑ , पतिः॑ , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
स॒प्त दिशो॒ नाना॑सूर्याः स॒प्त होता॑र ऋ॒त्विजः॑ । दे॒वा आ॑दि॒त्या ये स॒प्त तेभिः॑ सोमा॒भि र॑क्ष न॒ इंद्रा॑येंदो॒ परि॑ स्रव ॥
स॒प्त , दिशः॑ , नाना॑ऽसूर्याः , स॒प्त , होता॑रः , ऋ॒त्विजः॑ । दे॒वाः , आ॒दि॒त्याः , ये , स॒प्त , तेभिः॑ , सो॒म॒ , अ॒भि , र॒क्ष॒ , नः॒ , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
यत्ते॑ राजंछृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः । अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ नः॒ किं च॒नाम॑म॒दिंद्रा॑येंदो॒ परि॑ स्रव ॥
यत् , ते॒ , रा॒ज॒न् , शृ॒तं , ह॒विः , तेन॑ , सो॒म॒ , अ॒भि , र॒क्ष॒ , नः॒ । अ॒रा॒ति॒ऽवा , मा , नः॒ , ता॒री॒त् , मो इति॑ , च॒ , नः॒ , किं , च॒न , आ॒म॒म॒त् , इंद्रा॑य , इं॒दो॒ इति॑ , परि॑ , स्र॒व॒ ॥
[१] अग्नेबृहन्निति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् |
अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वांतम॑सो॒ ज्योति॒षागा॑त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वंग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥
अग्रे॑ , बृ॒हन् , उ॒षसां॑ , ऊ॒र्ध्वः , अ॒स्था॒त् , निः॒ऽज॒ग॒न्वान् , तम॑सः , ज्योति॑षा , आ , अ॒गा॒त् । अ॒ग्निः , भा॒नुना॑ , रुश॑ता , सु॒ऽअंगः॑ , आ , जा॒तः , विश्वा॑ , सद्मा॑नि , अ॒प्राः॒ ॥
स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु । चि॒त्रः शिशुः॒ परि॒ तमां॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥
सः , जा॒तः , गर्भः॑ , अ॒सि॒ , रोद॑स्योः , अग्ने॑ , चारुः॑ , विऽभृ॑तः , ओष॑धीषु । चि॒त्रः , शिशुः॑ , परि॑ , तमां॑सि , अ॒क्तून् , प्र , मा॒तृऽभ्यः॑ , अधि॑ , कनि॑क्रदत् , गाः॒ ॥
विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वांजा॒तो बृ॒हन्न॒भि पा॑ति तृ॒तीयं॑ । आ॒सा यद॑स्य॒ पयो॒ अक्र॑त॒ स्वं सचे॑तसो अ॒भ्य॑र्चं॒त्यत्र॑ ॥
विष्णुः॑ , इ॒त्था , प॒र॒मं , अ॒स्य॒ , वि॒द्वान् , जा॒तः , बृ॒हन् , अ॒भि , पा॒ति॒ , तृ॒तीयं॑ । आ॒सा , यत् , अ॒स्य॒ , पयः॑ , अक्र॑त , स्वं , सऽचे॑तसः , अ॒भि , अ॒र्चं॒ति॒ , अत्र॑ ॥
अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चरं॒त्यन्नैः॑ । ता ईं॒ प्रत्ये॑षि॒ पुन॑र॒न्यरू॑पा॒ असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता॑ ॥
अतः॑ , ऊँ॒ इति॑ , त्वा॒ , पि॒तु॒ऽभृतः॑ , जनि॑त्रीः , अ॒न्न॒ऽवृधं॑ , प्रति॑ , च॒रं॒ति॒ , अन्नैः॑ । ताः , ईं॒ , प्रति॑ , ए॒षि॒ , पुनः॑ , अ॒न्यऽरू॑पाः , असि॑ , त्वं , वि॒क्षु , मानु॑षीषु , होता॑ ॥
होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुशं॑तं । प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नां ॥
होता॑रं , चि॒त्रऽर॑थं , अ॒ध्व॒रस्य॑ , य॒ज्ञस्य॑ऽयज्ञस्य , के॒तुं , रुशं॑तं । प्रति॑ऽअर्धिं , दे॒वस्य॑ऽदेवस्य , म॒ह्ना , श्रि॒या , तु , अ॒ग्निं , अति॑थिं , जना॑नां ॥
स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा॑नो अ॒ग्निर्नाभा॑ पृथि॒व्याः । अ॒रु॒षो जा॒तः प॒द इळा॑याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ॥
सः , तु , वस्त्रा॑णि , अध॑ , पेश॑नानि , वसा॑नः , अ॒ग्निः , नाभा॑ , पृ॒थि॒व्याः । अ॒रु॒षः , जा॒तः , प॒दे , इळा॑याः , पु॒रःऽहि॑तः , रा॒ज॒न् , य॒क्षि॒ , इ॒ह , दे॒वान् ॥
आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरा॑ त॒तंथ॑ । प्र या॒ह्यच्छो॑श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥
आ , हि , द्यावा॑पृथि॒वी इति॑ , अ॒ग्ने॒ , उ॒भे इति॑ , सदा॑ , पु॒त्रः , न , मा॒तरा॑ , त॒तंथ॑ । प्र , या॒हि॒ , अच्छ॑ , उ॒श॒तः , य॒वि॒ष्ठ॒ , अथ॑ , आ , व॒ह॒ , स॒ह॒स्य॒ , इ॒ह , दे॒वान् ॥
[२] पिप्रीहीति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् | (१ नात्रस्वाहाकारः किंतुमंत्रांत एव हविः प्रक्षेपः)|
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ॑णाम॒स्याय॑जिष्ठः ॥
पि॒प्री॒हि , दे॒वान् , उ॒श॒तः , य॒वि॒ष्ठ॒ , वि॒द्वान् , ऋ॒तून् , ऋ॒तु॒ऽप॒ते॒ , य॒ज॒ , इ॒ह । ये , दैव्याः॑ , ऋ॒त्विजः॑ , तेभिः॑ , अ॒ग्ने॒ , त्वं , होतॄ॑णां , अ॒सि॒ , आऽय॑जिष्ठः ॥
वेषि॑ हो॒त्रमु॒त पो॒त्रं जना॑नां मंधा॒तासि॑ द्रविणो॒दा ऋ॒तावा॑ । स्वाहा॑ व॒यं कृ॒णवा॑मा ह॒वींषि॑ दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥
वेषि॑ , हो॒त्रं , उ॒त , पो॒त्रं , जना॑नां , मं॒धा॒ता , अ॒सि॒ , द्र॒वि॒णः॒ऽदाः , ऋ॒तऽवा॑ । स्वाहा॑ , व॒यं , कृ॒णवा॑म , ह॒वींषि॑ , दे॒वः , दे॒वान् , य॒ज॒तु॒ , अ॒ग्निः , अर्ह॑न् ॥
आ दे॒वाना॒मपि॒ पंथा॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ळ्हुं । अ॒ग्निर्वि॒द्वांत्स य॑जा॒त्सेदु॒ होता॒ सो अ॑ध्व॒रांत्स ऋ॒तून्क॑ल्पयाति ॥
आ , दे॒वानां॑ , अपि॑ , पंथां॑ , अ॒ग॒न्म॒ , यत् , श॒क्नवा॑म , तत् , अनु॑ , प्रऽवो॑ळ्हुं । अ॒ग्निः , वि॒द्वान् , सः , य॒जा॒त् , सः , इत् , ऊँ॒ इति॑ , होता॑ , सः , अ॒ध्व॒रान् , सः , ऋ॒तून् , क॒ल्प॒या॒ति॒ ॥
यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः । अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्येभि॑र्दे॒वाँ ऋ॒तुभिः॑ क॒ल्पया॑ति ॥
यत् , वः॒ , व॒यं , प्र॒ऽमि॒नाम॑ , व्र॒तानि॑ , वि॒दुषां॑ , दे॒वाः॒ , अवि॑दुःऽतरासः । अ॒ग्निः , तत् , विश्वं॑ , आ , पृ॒णा॒ति॒ , वि॒द्वान् , येभिः॑ , दे॒वान् , ऋ॒तुऽभिः॑ , क॒ल्पया॑ति ॥
यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या॑सः । अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥
यत् , पा॒क॒ऽत्रा , मन॑सा , दी॒नऽद॑क्षाः , न , य॒ज्ञस्य॑ , म॒न्व॒ते , मर्त्या॑सः । अ॒ग्निः , तत् , होता॑ , क्र॒तु॒ऽवित् , वि॒ऽजा॒नन् , यजि॑ष्ठः , दे॒वान् , ऋ॒तु॒ऽशः , य॒जा॒ति॒ ॥
विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ । स आ य॑जस्व नृ॒वती॒रनु॒ क्षाः स्पा॒र्हा इषः॑ क्षु॒मती॑र्वि॒श्वज॑न्याः ॥
विश्वे॑षां , हि , अ॒ध्व॒राणां॑ , अनी॑कं , चि॒त्रं , के॒तुं , जनि॑ता , त्वा॒ , ज॒जान॑ । सः , आ , य॒ज॒स्व॒ , नृ॒ऽवतीः॑ , अनु॑ , क्षाः , स्पा॒र्हाः , इषः॑ , क्षु॒ऽमतीः॑ , वि॒श्वऽज॑न्याः ॥
यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ । पंथा॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥
यं , त्वा॒ , द्यावा॑पृथि॒वी इति॑ , यं , त्वा॒ , आपः॑ , त्वष्टा॑ , यं , त्वा॒ , सु॒ऽजनि॑मा , ज॒जान॑ । पंथां॑ , अनु॑ , प्र॒ऽवि॒द्वान् , पि॒तृ॒ऽयानं॑ , द्यु॒ऽमत् , अ॒ग्ने॒ , सं॒ऽइ॒धा॒नः , वि , भा॒हि॒ ॥
[३] इनोराजन्निति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् |
इ॒नो रा॑जन्नर॒तिः समि॑द्धो॒ रौद्रो॒ दक्षा॑य सुषु॒माँ अ॑दर्शि । चि॒किद्वि भा॑ति भा॒सा बृ॑ह॒तासि॑क्नीमेति॒ रुश॑तीम॒पाज॑न् ॥
इ॒नः , रा॒ज॒न् , अ॒र॒तिः , संऽइ॑द्धः , रौद्रः॑ , दक्षा॑य , सु॒सु॒ऽमान् , अ॒द॒र्शि॒ । चि॒कित् , वि , भा॒ति॒ , भा॒सा , बृ॒ह॒ता , असि॑क्नीं , ए॒ति॒ , रुश॑तीं , अ॒प॒ऽअज॑न् ॥
कृ॒ष्णां यदेनी॑म॒भि वर्प॑सा॒ भूज्ज॒नय॒न्योषां॑ बृह॒तः पि॒तुर्जां । ऊ॒र्ध्वं भा॒नुं सूर्य॑स्य स्तभा॒यंदि॒वो वसु॑भिरर॒तिर्वि भा॑ति ॥
कृ॒ष्णां , यत् , एनीं॑ , अ॒भि , वर्प॑सा , भूत् , ज॒नय॑न् , योषां॑ , बृ॒ह॒तः , पि॒तुः , जां । ऊ॒र्ध्वं , भा॒नुं , सूर्य॑स्य , स्त॒भा॒यन् , दि॒वः , वसु॑ऽभिः , अ॒र॒तिः , वि , भा॒ति॒ ॥
भ॒द्रो भ॒द्रया॒ सच॑मान॒ आगा॒त्स्वसा॑रं जा॒रो अ॒भ्ये॑ति प॒श्चात् । सु॒प्र॒के॒तैर्द्युभि॑र॒ग्निर्वि॒तिष्ठ॒न्रुश॑द्भि॒र्वर्णै॑र॒भि रा॒मम॑स्थात् ॥
भ॒द्रः , भ॒द्रया॑ , सच॑मानः , आ , अ॒गा॒त् , स्वसा॑रं , जा॒रः , अ॒भि , ए॒ति॒ , प॒श्चात् । सु॒ऽप्र॒के॒तैः , द्युऽभिः॑ , अ॒ग्निः , वि॒ऽतिष्ठ॑न् , रुश॑त्ऽभिः , वर्णैः॑ , अ॒भि , रा॒मं , अ॒स्था॒त् ॥
अ॒स्य यामा॑सो बृह॒तो न व॒ग्नूनिंधा॑ना अ॒ग्नेः सख्युः॑ शि॒वस्य॑ । ईड्य॑स्य॒ वृष्णो॑ बृह॒तः स्वासो॒ भामा॑सो॒ याम॑न्न॒क्तव॑श्चिकित्रे ॥
अ॒स्य , यामा॑सः , बृ॒ह॒तः , न , व॒ग्नून् , इंधा॑नाः , अ॒ग्नेः , सख्युः॑ , शि॒वस्य॑ । ईड्य॑स्य , वृष्णः॑ , बृ॒ह॒तः , सु॒ऽआसः॑ , भामा॑सः , याम॑न् , अ॒क्तवः॑ , चि॒कि॒त्रे॒ ॥
स्व॒ना न यस्य॒ भामा॑सः॒ पवं॑ते॒ रोच॑मानस्य बृह॒तः सु॒दिवः॑ । ज्येष्ठे॑भि॒र्यस्तेजि॑ष्ठैः क्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒ द्यां ॥
स्व॒नाः , न , यस्य॑ , भामा॑सः , पवं॑ते , रोच॑मानस्य , बृ॒ह॒तः , सु॒ऽदिवः॑ । ज्येष्ठे॑भिः , यः , तेजि॑ष्ठैः , क्री॒ळु॒मत्ऽभिः॑ , वर्षि॑ष्ठेभिः , भा॒नुऽभिः॑ , नक्ष॑ति , द्यां ॥
अ॒स्य शुष्मा॑सो ददृशा॒नप॑वे॒र्जेह॑मानस्य स्वनयन्नि॒युद्भिः॑ । प्र॒त्नेभि॒र्यो रुश॑द्भिर्दे॒वत॑मो॒ वि रेभ॑द्भिरर॒तिर्भाति॒ विभ्वा॑ ॥
अ॒स्य , शुष्मा॑सः , द॒दृ॒शा॒नऽप॑वेः , जेह॑मानस्य , स्व॒न॒य॒न् , नि॒युत्ऽभिः॑ । प्र॒त्नेभिः॑ , यः , रुश॑त्ऽभिः , दे॒वऽत॑मः , वि , रेभ॑त्ऽभिः , अ॒र॒तिः , भाति॑ , विऽभ्वा॑ ॥
स आ व॑क्षि॒ महि॑ न॒ आ च॑ सत्सि दि॒वस्पृ॑थि॒व्योर॑र॒तिर्यु॑व॒त्योः । अ॒ग्निः सु॒तुकः॑ सु॒तुके॑भि॒रश्वै॒ रभ॑स्वद्भी॒ रभ॑स्वाँ॒ एह ग॑म्याः ॥
सः , आ , व॒क्षि॒ , महि॑ , नः॒ , आ , च॒ , स॒त्सि॒ , दि॒वःपृ॑थि॒व्योः , अ॒र॒तिः , यु॒व॒त्योः । अ॒ग्निः , सु॒ऽतुकः॑ , सु॒ऽतुके॑भिः , अश्वैः॑ , रभ॑स्वत्ऽभिः , रभ॑स्वान् , आ , इ॒ह , ग॒म्याः॒ ॥
[४] प्रतइति सप्तर्चस्य सूक्तस्याप्त्यस्त्रितोग्निस्त्रिष्टुप् |
प्र ते॑ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वंद्यो॑ नो॒ हवे॑षु । धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे॑ प्रत्न राजन् ॥
प्र , ते॒ , य॒क्षि॒ , प्र , ते॒ , इ॒य॒र्मि॒ , मन्म॑ , भुवः॑ , यथा॑ , वंद्यः॑ , नः॒ , हवे॑षु । धन्व॑न्ऽइव , प्र॒ऽपा , अ॒सि॒ , त्वं , अ॒ग्ने॒ , इ॒य॒क्षवे॑ , पू॒रवे॑ , प्र॒त्न॒ , रा॒ज॒न् ॥
यं त्वा॒ जना॑सो अ॒भि सं॒चरं॑ति॒ गाव॑ उ॒ष्णमि॑व व्र॒जं य॑विष्ठ । दू॒तो दे॒वाना॑मसि॒ मर्त्या॑नामं॒तर्म॒हाँश्च॑रसि रोच॒नेन॑ ॥
यं , त्वा॒ , जना॑सः , अ॒भि , सं॒ऽचरं॑ति , गावः॑ , उ॒ष्णंऽइ॑व , व्र॒जं , य॒वि॒ष्ठ॒ । दू॒तः , दे॒वानां॑ , अ॒सि॒ , मर्त्या॑नां , अं॒तः , म॒हान् , च॒र॒सि॒ , रो॒च॒नेन॑ ॥
शिशुं॒ न त्वा॒ जेन्यं॑ व॒र्धयं॑ती मा॒ता बि॑भर्ति सचन॒स्यमा॑ना । धनो॒रधि॑ प्र॒वता॑ यासि॒ हर्यं॒जिगी॑षसे प॒शुरि॒वाव॑सृष्टः ॥
शिशुं॑ , न , त्वा॒ , जेन्यं॑ , व॒र्धयं॑ती , मा॒ता , बि॒भ॒र्ति॒ , स॒च॒न॒स्यमा॑ना । धनोः॑ , अधि॑ , प्र॒ऽवता॑ , या॒सि॒ , हर्य॑न् , जिगी॑षसे , प॒शुःऽइ॑व , अव॑ऽसृष्टः ॥
मू॒रा अ॑मूर॒ न व॒यं चि॑कित्वो महि॒त्वम॑ग्ने॒ त्वमं॒ग वि॑त्से । शये॑ व॒व्रिश्चर॑ति जि॒ह्वया॒दन्रे॑रि॒ह्यते॑ युव॒तिं वि॒श्पतिः॒ सन् ॥
मू॒राः , अ॒मू॒र॒ , न , व॒यं , चि॒कि॒त्वः॒ , म॒हि॒ऽत्वं , अ॒ग्ने॒ , त्वं , अं॒ग , वि॒त्से॒ । शये॑ , व॒व्रिः , चर॑ति , जि॒ह्वया॑ , अ॒दन् , रे॒रि॒ह्यते॑ , यु॒व॒तिं , वि॒श्पतिः॑ , सन् ॥
कूचि॑ज्जायते॒ सन॑यासु॒ नव्यो॒ वने॑ तस्थौ पलि॒तो धू॒मके॑तुः । अ॒स्ना॒तापो॑ वृष॒भो न प्र वे॑ति॒ सचे॑तसो॒ यं प्र॒णयं॑त॒ मर्ताः॑ ॥
कूऽचि॑त् , जा॒य॒ते॒ , सन॑यासु , नव्यः॑ , वने॑ , त॒स्थौ॒ , प॒लि॒तः , धू॒मऽके॑तुः । अ॒स्ना॒ता , आपः॑ , वृ॒ष॒भः , न , प्र , वे॒ति॒ , सऽचे॑तसः , यं , प्र॒ऽनयं॑त , मर्ताः॑ ॥
त॒नू॒त्यजे॑व॒ तस्क॑रा वन॒र्गू र॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीतां । इ॒यं ते॑ अग्ने॒ नव्य॑सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय॑द्भि॒रंगैः॑ ॥
त॒नू॒त्यजा॑ऽइव , तस्क॑रा , व॒न॒र्गू इति॑ , र॒श॒नाभिः॑ , द॒शऽभिः॑ , अ॒भि , अ॒धी॒तां॒ । इ॒यं , ते॒ , अ॒ग्ने॒ , नव्य॑सी , म॒नी॒षा , यु॒क्ष्व , रथं॑ , न , शु॒चय॑त्ऽभिः , अंगैः॑ ॥
ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् । रक्षा॑ णो अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥
ब्रह्म॑ , च॒ , ते॒ , जा॒त॒ऽवे॒दः॒ , नमः॑ , च॒ , इ॒यं , च॒ , गीः , सदं॑ , इत् , वर्ध॑नी , भू॒त् । रक्ष॑ , नः॒ , अ॒ग्ने॒ , तन॑यानि , तो॒का , रक्ष॑ , उ॒त , नः॒ , त॒न्वः॑ , अप्र॑ऽयुच्छन् ॥
[५] एकःसमुद्रइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् |
एकः॑ समु॒द्रो ध॒रुणो॑ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे । सिष॒क्त्यूध॑र्नि॒ण्योरु॒पस्थ॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ॥
एकः॑ , स॒मु॒द्रः , ध॒रुणः॑ , र॒यी॒णां , अ॒स्मत् , हृ॒दः , भूरि॑ऽजन्मा , वि , च॒ष्टे॒ । सिस॑क्ति , ऊधः॑ , नि॒ण्योः , उ॒पऽस्थे॑ , उत्स॑स्य , मध्ये॑ , निऽहि॑तं , प॒दं , वेरिति॒ वेः ॥
स॒मा॒नं नी॒ळं वृष॑णो॒ वसा॑नाः॒ सं ज॑ग्मिरे महि॒षा अर्व॑तीभिः । ऋ॒तस्य॑ प॒दं क॒वयो॒ नि पां॑ति॒ गुहा॒ नामा॑नि दधिरे॒ परा॑णि ॥
स॒मा॒नं , नी॒ळं , वृष॑णः , वसा॑नाः , सं , ज॒ग्मि॒रे॒ , म॒हि॒षाः , अर्व॑तीभिः । ऋ॒तस्य॑ , प॒दं , क॒वयः॑ , नि , पां॒ति॒ , गुहा॑ , नामा॑नि , द॒धि॒रे॒ , परा॑णि ॥
ऋ॒ता॒यिनी॑ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं॑ जज्ञतुर्व॒र्धयं॑ती । विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तंतुं॒ मन॑सा वि॒यंतः॑ ॥
ऋ॒त॒यिनी॒ इत्यृ॑त॒ऽयिनी॑ , मा॒यिनी॒ इति॑ , सं , द॒धा॒ते॒ इति॑ , मि॒त्वा , शिशुं॑ , ज॒ज्ञ॒तुः॒ , व॒र्धयं॑ती॒ इति॑ । विश्व॑स्य , नाभिं॑ , चर॑तः , ध्रु॒वस्य॑ , क॒वेः , चि॒त् , तंतुं॑ , मन॑सा , वि॒ऽयंतः॑ ॥
ऋ॒तस्य॒ हि व॑र्त॒नयः॒ सुजा॑त॒मिषो॒ वाजा॑य प्र॒दिवः॒ सचं॑ते । अ॒धी॒वा॒सं रोद॑सी वावसा॒ने घृ॒तैरन्नै॑र्वावृधाते॒ मधू॑नां ॥
ऋ॒तस्य॑ , हि , व॒र्त॒नयः॑ , सुऽजा॑तं , इषः॑ , वाजा॑य , प्र॒ऽदिवः॑ , सचं॑ते । अ॒धी॒वा॒सं , रोद॑सी॒ इति॑ , व॒व॒सा॒ने इति॑ , घृ॒तैः , अन्नैः॑ , व॒वृ॒धा॒ते॒ इति॑ , मधू॑नां ॥
स॒प्त स्वसॄ॒ररु॑षीर्वावशा॒नो वि॒द्वान्मध्व॒ उज्ज॑भारा दृ॒शे कं । अं॒तर्ये॑मे अं॒तरि॑क्षे पुरा॒जा इ॒च्छन्व॒व्रिम॑विदत्पूष॒णस्य॑ ॥
स॒प्त , स्वसॄः॑ , अरु॑षीः , वा॒व॒शा॒नः , वि॒द्वान् , मध्वः॑ , उत् , ज॒भा॒र॒ , दृ॒शे , कं । अं॒तः , ये॒मे॒ , अं॒तरि॑क्षे , पु॒रा॒ऽजाः , इ॒च्छन् , व॒व्रिं , अ॒वि॒द॒त् , पू॒ष॒णस्य॑ ॥
स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं॑हु॒रो गा॑त् । आ॒योर्ह॑ स्कं॒भ उ॑प॒मस्य॑ नी॒ळे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥
स॒प्त , म॒र्यादाः॑ , क॒वयः॑ , त॒त॒क्षुः॒ , तासां॑ , एकां॑ , इत् , अ॒भि , अं॒हु॒रः , गा॒त् । आ॒योः , ह॒ , स्कं॒भः , उ॒प॒ऽमस्य॑ , नी॒ळे , प॒थां , वि॒ऽस॒र्गे , ध॒रुणे॑षु , त॒स्थौ॒ ॥
अस॑च्च॒ सच्च॑ पर॒मे व्यो॑मं॒दक्ष॑स्य॒ जन्म॒न्नदि॑तेरु॒पस्थे॑ । अ॒ग्निर्ह॑ नः प्रथम॒जा ऋ॒तस्य॒ पूर्व॒ आयु॑नि वृष॒भश्च॑ धे॒नुः ॥
अस॑त् , च॒ , स॒त् , च॒ , प॒र॒मे , विऽओ॑मन् , दक्ष॑स्य , जन्म॑न् , अदि॑तेः , उ॒पऽस्थे॑ । अ॒ग्निः , ह॒ , नः॒ , प्र॒थ॒म॒ऽजाः , ऋ॒तस्य॑ , पूर्वे॑ , आयु॑नि , वृ॒ष॒भः , च॒ , धे॒नुः ॥
[६] अयंसइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् |
अ॒यं स यस्य॒ शर्म॒न्नवो॑भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ॑ । ज्येष्ठे॑भि॒र्यो भा॒नुभि॑र्ऋषू॒णां प॒र्येति॒ परि॑वीतो वि॒भावा॑ ॥
अ॒यं , सः , यस्य॑ , शर्म॑न् , अवः॑ऽभिः , अ॒ग्नेः , एध॑ते , ज॒रि॒ता , अ॒भिष्टौ॑ । ज्येष्ठे॑भिः , यः , भा॒नुऽभिः॑ , ऋ॒षू॒णां , प॒रि॒ऽएति॑ , परि॑ऽवीतः , वि॒भाऽवा॑ ॥
यो भा॒नुभि॑र्वि॒भावा॑ वि॒भात्य॒ग्निर्दे॒वेभि॑र्ऋ॒तावाज॑स्रः । आ यो वि॒वाय॑ स॒ख्या सखि॒भ्योऽप॑रिह्वृतो॒ अत्यो॒ न सप्तिः॑ ॥
यः , भा॒नुऽभिः॑ , वि॒भाऽवा॑ , वि॒ऽभाति॑ , अ॒ग्निः , दे॒वेभिः॑ , ऋ॒तऽवा॑ , अज॑स्रः । आ , यः , वि॒वाय॑ , स॒ख्या , सखि॑ऽभ्यः , अप॑रिऽह्वृतः , अत्यः॑ , न , सप्तिः॑ ॥
ईशे॒ यो विश्व॑स्या दे॒ववी॑ते॒रीशे॑ वि॒श्वायु॑रु॒षसो॒ व्यु॑ष्टौ । आ यस्मि॑न्म॒ना ह॒वींष्य॒ग्नावरि॑ष्टरथः स्क॒भ्नाति॑ शू॒षैः ॥
ईशे॑ , यः , विश्व॑स्याः , दे॒वऽवी॑तेः , ईशे॑ , वि॒श्वऽआ॑युः , उ॒षसः॑ , विऽउ॑ष्टौ । आ , यस्मि॑न् , म॒ना , ह॒वींषि॑ , अ॒ग्नौ , अरि॑ष्टऽरथः , स्क॒भ्नाति॑ , शू॒षैः ॥
शू॒षेभि॑र्वृ॒धो जु॑षा॒णो अ॒र्कैर्दे॒वाँ अच्छा॑ रघु॒पत्वा॑ जिगाति । मं॒द्रो होता॒ स जु॒ह्वा॒३॒॑ यजि॑ष्ठः॒ संमि॑श्लो अ॒ग्निरा जि॑घर्ति दे॒वान् ॥
शू॒षेभिः॑ , वृ॒धः , जु॒षा॒णः , अ॒र्कैः , दे॒वान् , अच्छ॑ , र॒घु॒ऽपत्वा॑ , ज॒गा॒ति॒ । मं॒द्रः , होता॑ , सः , जु॒ह्वा॑ , यजि॑ष्ठः , संऽमि॑श्लः , अ॒ग्निः , आ , जि॒घ॒र्ति॒ , दे॒वान् ॥
तमु॒स्रामिंद्रं॒ न रेज॑मानम॒ग्निं गी॒र्भिर्नमो॑भि॒रा कृ॑णुध्वं । आ यं विप्रा॑सो म॒तिभि॑र्गृ॒णंति॑ जा॒तवे॑दसं जु॒ह्वं॑ स॒हानां॑ ॥
तं , उ॒स्रां , इंद्रं॑ , न , रेज॑मानं , अ॒ग्निं , गीः॒ऽभिः , नमः॑ऽभिः , आ , कृ॒णु॒ध्वं॒ । आ , यं , विप्रा॑सः , म॒तिऽभिः॑ , गृ॒णंति॑ , जा॒तऽवे॑दसं , जु॒ह्वं॑ , स॒हानां॑ ॥
सं यस्मि॒न्विश्वा॒ वसू॑नि ज॒ग्मुर्वाजे॒ नाश्वाः॒ सप्ती॑वंत॒ एवैः॑ । अ॒स्मे ऊ॒तीरिंद्र॑वाततमा अर्वाची॒ना अ॑ग्न॒ आ कृ॑णुष्व ॥
सं , यस्मि॑न् , विश्वा॑ , वसू॑नि , ज॒ग्मुः , वाजे॑ , न , अश्वाः॑ , सप्ति॑ऽवंतः , एवैः॑ । अ॒स्मे इति॑ , ऊ॒तीः , इंद्र॑वातऽतमाः , अ॒र्वा॒ची॒नाः , अ॒ग्ने॒ , आ , कृ॒णु॒ष्व॒ ॥
अधा॒ ह्य॑ग्ने म॒ह्ना नि॒षद्या॑ स॒द्यो ज॑ज्ञा॒नो हव्यो॑ ब॒भूथ॑ । तं ते॑ दे॒वासो॒ अनु॒ केत॑माय॒न्नधा॑वर्धंत प्रथ॒मास॒ ऊमाः॑ ॥
अध॑ , हि , अ॒ग्ने॒ , म॒ह्ना , नि॒ऽसद्य॑ , स॒द्यः , ज॒ज्ञा॒नः , हव्यः॑ , ब॒भूथ॑ । तं , ते॒ , दे॒वासः॑ , अनु॑ , केतं॑ , आ॒य॒न् , अध॑ , अ॒व॒र्धं॒त॒ , प्र॒थ॒मासः॑ , ऊमाः॑ ॥
[७] स्वस्तिनइति सप्तर्चस्य सूक्तस्यात्यस्त्रितोग्नित्रिष्टुप् |
स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव । सचे॑महि॒ तव॑ दस्म प्रके॒तैरु॑रु॒ष्या ण॑ उ॒रुभि॑र्देव॒ शंसैः॑ ॥
स्व॒स्ति , नः॒ , दि॒वः , अ॒ग्ने॒ , पृ॒थि॒व्याः , वि॒श्वऽआ॑युः , धे॒हि॒ , य॒जथा॑य , दे॒व॒ । सचे॑महि , तव॑ , द॒स्म॒ , प्र॒ऽके॒तैः , उ॒रु॒ष्य , नः॒ , उ॒रुऽभिः॑ , दे॒व॒ , शंसैः॑ ॥
इ॒मा अ॑ग्ने म॒तय॒स्तुभ्यं॑ जा॒ता गोभि॒रश्वै॑र॒भि गृ॑णंति॒ राधः॑ । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ड्वसो॒ दधा॑नो म॒तिभिः॑ सुजात ॥
इ॒माः , अ॒ग्ने॒ , म॒तयः॑ , तुभ्यं॑ , जा॒ताः , गोभिः॑ , अश्वैः॑ , अ॒भि , गृ॒णं॒ति॒ , राधः॑ । य॒दा , ते॒ , मर्तः॑ , अनु॑ , भोगं॑ , आन॑ट् , वसो॒ इति॑ , दधा॑नः , म॒तिऽभिः॑ , सु॒ऽजा॒त॒ ॥
अ॒ग्निं म॑न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा॑यं । अ॒ग्नेरनी॑कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ॥
अ॒ग्निं , म॒न्ये॒ , पि॒तरं॑ , अ॒ग्निं , आ॒पिं , अ॒ग्निं , भ्रात॑रं , सदं॑ , इत् , सखा॑यं । अ॒ग्नेः , अनी॑कं , बृ॒ह॒तः , स॒प॒र्यं॒ , दि॒वि , शु॒क्रं , य॒ज॒तं , सूर्य॑स्य ॥
सि॒ध्रा अ॑ग्ने॒ धियो॑ अ॒स्मे सनु॑त्री॒र्यं त्राय॑से॒ दम॒ आ नित्य॑होता । ऋ॒तावा॒ स रो॒हिद॑श्वः पुरु॒क्षुर्द्युभि॑रस्मा॒ अह॑भिर्वा॒मम॑स्तु ॥
सि॒ध्राः , अ॒ग्ने॒ , धियः॑ , अ॒स्मे इति॑ , सनु॑त्रीः , यं , त्राय॑से , दमे॑ , आ , नित्य॑ऽहोता । ऋ॒तऽवा॑ , सः , रो॒हित्ऽअ॑श्वः , पु॒रु॒ऽक्षुः , द्युऽभिः॑ , अ॒स्मै॒ , अह॑ऽभिः , वा॒मं , अ॒स्तु॒ ॥
द्युभि॑र्हि॒तं मि॒त्रमि॑व प्र॒योगं॑ प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑ जा॒रं । बा॒हुभ्या॑म॒ग्निमा॒यवो॑ऽजनंत वि॒क्षु होता॑रं॒ न्य॑सादयंत ॥
द्युऽभिः॑ , हि॒तं , मि॒त्रंऽइ॑व , प्र॒ऽयोगं॑ , प्र॒त्नं , ऋ॒त्विजं॑ , अ॒ध्व॒रस्य॑ , जा॒रं । बा॒हुऽभ्यां॑ , अ॒ग्निं , आ॒यवः॑ , अ॒ज॒नं॒त॒ , वि॒क्षु , होता॑रं , नि , अ॒सा॒द॒यं॒त॒ ॥
स्व॒यं य॑जस्व दि॒वि दे॑व दे॒वान्किं ते॒ पाकः॑ कृणव॒दप्र॑चेताः । यथाय॑ज ऋ॒तुभि॑र्देव दे॒वाने॒वा य॑जस्व त॒न्वं॑ सुजात ॥
स्व॒यं , य॒ज॒स्व॒ , दि॒वि , दे॒व॒ , दे॒वान् , किं , ते॒ , पाकः॑ , कृ॒ण॒व॒त् , अप्र॑ऽचेताः । यथा॑ , अय॑जः , ऋ॒तुऽभिः॑ , दे॒व॒ , दे॒वान् , ए॒व , य॒ज॒स्व॒ , त॒न्वं॑ , सु॒ऽजा॒त॒ ॥
भवा॑ नो अग्नेऽवि॒तोत गो॒पा भवा॑ वय॒स्कृदु॒त नो॑ वयो॒धाः । रास्वा॑ च नः सुमहो ह॒व्यदा॑तिं॒ त्रास्वो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥
भव॑ , नः॒ , अ॒ग्ने॒ , अ॒वि॒ता , उ॒त , गो॒पाः , भव॑ , व॒यः॒ऽकृत् , उ॒त , नः॒ , व॒यः॒ऽधाः । रास्व॑ , च॒ , नः॒ , सु॒ऽम॒हः॒ , ह॒व्यऽदा॑तिं , त्रास्व॑ , उ॒त , नः॒ , त॒न्वः॑ , अप्र॑ऽयुच्छन् ॥
[८] प्रकेतुनेति नवर्चस्य सूक्तस्यत्वाष्ट्रस्त्रिशिराअग्निः अंत्यतृचस्येंद्रस्त्रिष्टुप् |
प्र के॒तुना॑ बृह॒ता या॑त्य॒ग्निरा रोद॑सी वृष॒भो रो॑रवीति । दि॒वश्चि॒दंताँ॑ उप॒माँ उदा॑नळ॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ॥
प्र , के॒तुना॑ , बृ॒ह॒ता , या॒ति॒ , अ॒ग्निः , आ , रोद॑सी॒ इति॑ , वृ॒ष॒भः , रो॒र॒वी॒ति॒ । दि॒वः , चि॒त् , अंता॑न् , उ॒प॒ऽमान् , उत् , आ॒न॒ट् , अ॒पां , उ॒पऽस्थे॑ , म॒हि॒षः , व॒व॒र्ध॒ ॥
मु॒मोद॒ गर्भो॑ वृष॒भः क॒कुद्मा॑नस्रे॒मा व॒त्सः शिमी॑वाँ अरावीत् । स दे॒वता॒त्युद्य॑तानि कृ॒ण्वंत्स्वेषु॒ क्षये॑षु प्रथ॒मो जि॑गाति ॥
मु॒मोद॑ , गर्भः॑ , वृ॒ष॒भः , क॒कुत्ऽमा॑न् , अ॒स्रे॒मा , व॒त्सः , शिमी॑ऽवान् , अ॒रा॒वी॒त् । सः , दे॒वऽता॑ति , उत्ऽय॑तानि , कृ॒ण्वन् , स्वेषु॑ , क्षये॑षु , प्र॒थ॒मः , जि॒गा॒ति॒ ॥
आ यो मू॒र्धानं॑ पि॒त्रोरर॑ब्ध॒ न्य॑ध्व॒रे द॑धिरे॒ सूरो॒ अर्णः॑ । अस्य॒ पत्म॒न्नरु॑षी॒रश्व॑बुध्ना ऋ॒तस्य॒ योनौ॑ त॒न्वो॑ जुषंत ॥
आ , यः , मू॒र्धानं॑ , पि॒त्रोः , अर॑ब्ध , नि , अ॒ध्व॒रे , द॒धि॒रे॒ , सूरः॑ , अर्णः॑ । अस्य॑ , पत्म॑न् , अरु॑षीः , अश्व॑ऽबुध्नाः , ऋ॒तस्य॑ , योनौ॑ , त॒न्वः॑ , जु॒षं॒त॒ ॥
उ॒षउ॑षो॒ हि व॑सो॒ अग्र॒मेषि॒ त्वं य॒मयो॑रभवो वि॒भावा॑ । ऋ॒ताय॑ स॒प्त द॑धिषे प॒दानि॑ ज॒नय॑न्मि॒त्रं त॒न्वे॒३॒॑ स्वायै॑ ॥
उ॒षःऽउ॑षः , हि , व॒सो॒ इति॑ , अग्रं॑ , एषि॑ , त्वं , य॒मयोः॑ , अ॒भ॒वः॒ , वि॒भाऽवा॑ । ऋ॒ताय॑ , स॒प्त , द॒धि॒षे॒ , प॒दानि॑ , ज॒नय॑न् , मि॒त्रं , त॒न्वे॑ , स्वायै॑ ॥
भुव॒श्चक्षु॑र्म॒ह ऋ॒तस्य॑ गो॒पा भुवो॒ वरु॑णो॒ यदृ॒ताय॒ वेषि॑ । भुवो॑ अ॒पां नपा॑ज्जातवेदो॒ भुवो॑ दू॒तो यस्य॑ ह॒व्यं जुजो॑षः ॥
भुवः॑ , चक्षुः॑ , म॒हः , ऋ॒तस्य॑ , गो॒पाः , भुवः॑ , वरु॑णः , यत् , ऋ॒ताय॑ , वेषि॑ । भुवः॑ , अ॒पां , नपा॑त् , जा॒त॒ऽवे॒दः॒ , भुवः॑ , दू॒तः , यस्य॑ , ह॒व्यं , जुजो॑षः ॥
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाहं॑ ॥
भुवः॑ , य॒ज्ञस्य॑ , रज॑सः , च॒ , ने॒ता , यत्र॑ , नि॒युत्ऽभिः॑ , सच॑से , शि॒वाभिः॑ । दि॒वि , मू॒र्धानं॑ , द॒धि॒षे॒ , स्वः॒ऽसां , जि॒ह्वां , अ॒ग्ने॒ , च॒कृ॒षे॒ , ह॒व्य॒ऽवाहं॑ ॥
अ॒स्य त्रि॒तः क्रतु॑ना व॒व्रे अं॒तरि॒च्छंधी॒तिं पि॒तुरेवैः॒ पर॑स्य । स॒च॒स्यमा॑नः पि॒त्रोरु॒पस्थे॑ जा॒मि ब्रु॑वा॒ण आयु॑धानि वेति ॥
अ॒स्य , त्रि॒तः , क्रतु॑ना , व॒व्रे , अं॒तः , इ॒च्छन् , धी॒तिं , पि॒तुः , एवैः॑ , पर॑स्य । स॒च॒स्यमा॑नः , पि॒त्रोः , उ॒पऽस्थे॑ , जा॒मि , ब्रु॒वा॒णः , आयु॑धानि , वे॒ति॒ ॥
स पित्र्या॒ण्यायु॑धानि वि॒द्वानिंद्रे॑षित आ॒प्त्यो अ॒भ्य॑युध्यत् । त्रि॒शी॒र्षाणं॑ स॒प्तर॑श्मिं जघ॒न्वांत्वा॒ष्ट्रस्य॑ चि॒न्निः स॑सृजे त्रि॒तो गाः ॥
सः , पित्र्या॑णि , आयु॑धानि , वि॒द्वान् , इंद्र॑ऽइषितः , आ॒प्त्यः , अ॒भि , अ॒यु॒ध्य॒त् । त्रि॒ऽशी॒र्षाणं॑ , स॒प्तऽर॑श्मिं , ज॒घ॒न्वान् , त्वा॒ष्ट्रस्य॑ , चि॒त् , निः , स॒सृ॒जे॒ , त्रि॒तः , गाः ॥
भूरीदिंद्र॑ उ॒दिन॑क्षंत॒मोजोऽवा॑भिन॒त्सत्प॑ति॒र्मन्य॑मानं । त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू॑पस्य॒ गोना॑माचक्रा॒णस्त्रीणि॑ शी॒र्षा परा॑ वर्क् ॥
भूरि॑ , इत् , इंद्रः॑ , उ॒त्ऽइन॑क्षंतं , ओजः॑ , अव॑ , अ॒भि॒न॒त् , सत्ऽप॑तिः , मन्य॑मानं । त्वा॒ष्ट्रस्य॑ , चि॒त् , वि॒श्वऽरू॑पस्य , गोनां॑ , आ॒ऽच॒क्रा॒णः , त्रीणि॑ , शी॒र्षा , परा॑ , व॒र्गिति॑ वर्क् ॥
[९] आपोहिष्ठेति नवर्चस्य सूक्तस्य आंबरीषः सिंधुद्वीप आपो गायत्री पंचमीवर्धमाना सप्तमीप्रतिष्ठांत्येद्वेअनुष्टुभौ | आपोहिसिंधुद्वीपोवांबरीष इत्येवमनुक्रमण्यां सिंधुद्वीपस्य पाक्षिकत्व स्वीकारे पूर्वोक्तस्त्रिशिराः प्राप्नोतितथापि प्रयोक्तृभिः सिंधुद्वीप एवाद्रियते |
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥
आपः॑ , हि , स्थ , म॒यः॒ऽभुवः॑ , ताः , नः॒ , ऊ॒र्जे , द॒धा॒त॒न॒ । म॒हे , रणा॑य , चक्ष॑से ॥
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥
यः , वः॒ , शि॒वऽत॑मः , रसः॑ , तस्य॑ , भा॒ज॒य॒त॒ , इ॒ह , नः॒ । उ॒श॒तीःऽइ॑व , मा॒तरः॑ ॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥
तस्मै॑ , अरं॑ , ग॒मा॒म॒ , वः॒ , यस्य॑ , क्षया॑य , जिन्व॑थ । आपः॑ , ज॒नय॑थ , च॒ , नः॒ ॥
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवंतु पी॒तये॑ । शं योर॒भि स्र॑वंतु नः ॥
शं , नः॒ , दे॒वीः , अ॒भिष्ट॑ये , आपः॑ , भ॒वं॒तु॒ , पी॒तये॑ । शं , योः , अ॒भि , स्र॒वं॒तु॒ , नः॒ ॥
ईशा॑ना॒ वार्या॑णां॒ क्षयं॑तीश्चर्षणी॒नां । अ॒पो या॑चामि भेष॒जं ॥
ईशा॑नाः , वार्या॑णां , क्षयं॑तीः , च॒र्ष॒णी॒नां । अ॒पः , या॒चा॒मि॒ , भे॒ष॒जं ॥
अ॒प्सु मे॒ सोमो॑ अब्रवीदं॒तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वशं॑भुवं ॥
अ॒प्ऽसु , मे॒ , सोमः॑ , अ॒ब्र॒वी॒त् , अं॒तः , विश्वा॑नि , भे॒ष॒जा । अ॒ग्निं , च॒ , वि॒श्वऽशं॑भुवं ॥
आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑ । ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
आपः॑ , पृ॒णी॒त , भे॒ष॒जं , वरू॑थं , त॒न्वे॑ , मम॑ । ज्योक् , च॒ , सूर्यं॑ , दृ॒शे ॥
इ॒दमा॑पः॒ प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ । यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तं ॥
इ॒दं , आ॒पः॒ , प्र , व॒ह॒त॒ , यत् , किं , च॒ , दुः॒ऽइ॒तं , मयि॑ । यत् , वा॒ , अ॒हं , अ॒भि॒ऽदु॒द्रोह॑ , यत् , वा॒ , शे॒पे , उ॒त , अनृ॑तं ॥
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि । पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥
आपः॑ , अ॒द्य , अनु॑ , अ॒चा॒रि॒षं॒ , रसे॑न , सं , अ॒ग॒स्म॒हि॒ । पय॑स्वान् , अ॒ग्ने॒ , आ , ग॒हि॒ , तं , मा॒ , सं , सृ॒ज॒ , वर्च॑सा ॥
[१०] ओचिदिति चतुर्दशर्चस्य सूक्तस्य नवमी वर्ज्यानामयुजां षष्ठ्याश्च वैवस्वतीयमी ऋषिका यमोदेवता षष्ठीवर्ज्यानांयुजां नवम्याश्च वैवस्वतोयमीत्रिष्टुप् |
ओ चि॒त्सखा॑यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् । पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या॑नः ॥
ओ इति॑ , चि॒त् , सखा॑यं , स॒ख्या , व॒वृ॒त्यां॒ , ति॒रः , पु॒रु , चि॒त् , अ॒र्ण॒वं , ज॒ग॒न्वान् । पि॒तुः , नपा॑तं , आ , द॒धी॒त॒ , वे॒धाः , अधि॑ , क्षमि॑ , प्र॒ऽत॒रं , दीध्या॑नः ॥
न ते॒ सखा॑ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति । म॒हस्पु॒त्रासो॒ असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ॥
न , ते॒ , सखा॑ , स॒ख्यं , व॒ष्टि॒ , ए॒तत् , सऽल॑क्ष्मा , यत् , विषु॑ऽरूपा , भवा॑ति । म॒हः , पु॒त्रासः॑ , असु॑रस्य , वी॒राः , दि॒वः , ध॒र्तारः॑ , उ॒र्वि॒या , परि॑ , ख्य॒न् ॥
उ॒शंति॑ घा॒ ते अ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य । नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्युः॒ पति॑स्त॒न्व१॒॑मा वि॑विश्याः ॥
उ॒शंति॑ , घ॒ , ते , अ॒मृता॑सः , ए॒तत् , एक॑स्य , चि॒त् , त्य॒जसं॑ , मर्त्य॑स्य । नि , ते॒ , मनः॑ , मन॑सि , धा॒यि॒ , अ॒स्मे इति॑ , जन्युः॑ , पतिः॑ , त॒न्वं॑ , आ , वि॒वि॒श्याः॒ ॥
न यत्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒ता वदं॑तो॒ अनृ॑तं रपेम । गं॒ध॒र्वो अ॒प्स्वप्या॑ च॒ योषा॒ सा नो॒ नाभिः॑ पर॒मं जा॒मि तन्नौ॑ ॥
न , यत् , पु॒रा , च॒कृ॒म॒ , कत् , ह॒ , नू॒नं , ऋ॒ता , वदं॑तः , अनृ॑तं , र॒पे॒म॒ । गं॒ध॒र्वः , अ॒प्ऽसु , अप्या॑ , च॒ , योषा॑ , सा , नः॒ , नाभिः॑ , प॒र॒मं , जा॒मि , तत् , नौ॒ ॥
गर्भे॒ नु नौ॑ जनि॒ता दंप॑ती कर्दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः । नकि॑रस्य॒ प्र मि॑नंति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी उ॒त द्यौः ॥
गर्भे॑ , नु , नौ॒ , ज॒नि॒ता , दंप॑ती॒ इति॒ दंऽप॑ती , कः॒ , दे॒वः , त्वष्टा॑ , स॒वि॒ता , वि॒श्वऽरू॑पः । नकिः॑ , अ॒स्य॒ , प्र , मि॒नं॒ति॒ , व्र॒तानि॑ , वेद॑ , नौ॒ , अ॒स्य , पृ॒थि॒वी , उ॒त , द्यौः ॥
को अ॒स्य वे॑द प्रथ॒मस्याह्नः॒ क ईं॑ ददर्श॒ क इ॒ह प्र वो॑चत् । बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ॥
कः , अ॒स्य , वे॒द॒ , प्र॒थ॒मस्य॑ , अह्नः॑ , कः , ईं॒ , द॒द॒र्श॒ , कः , इ॒ह , प्र , वो॒च॒त् । बृ॒हत् , मि॒त्रस्य॑ , वरु॑णस्य , धाम॑ , कत् , ऊँ॒ इति॑ , ब्र॒वः॒ , आ॒ह॒नः॒ , वीच्या॑ , नॄन् ॥
य॒मस्य॑ मा य॒म्यं१॒॑ काम॒ आगं॑त्समा॒ने योनौ॑ सह॒शेय्या॑य । जा॒येव॒ पत्ये॑ त॒न्वं॑ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये॑व च॒क्रा ॥
य॒मस्य॑ , मा॒ , य॒म्यं॑ , कामः॑ , आ , अ॒ग॒न् , स॒मा॒ने , योनौ॑ , स॒ह॒ऽशेय्या॑य । जा॒याऽइ॑व , पत्ये॑ , त॒न्वं॑ , रि॒रि॒च्यां॒ , वि , चि॒त् , वृ॒हे॒व॒ , रथ्या॑ऽइव , च॒क्रा ॥
न ति॑ष्ठंति॒ न नि मि॑षंत्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये चरं॑ति । अ॒न्येन॒ मदा॑हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये॑व च॒क्रा ॥
न , ति॒ष्ठं॒ति॒ , न , नि , मि॒षं॒ति॒ , ए॒ते , दे॒वानां॑ , स्पशः॑ , इ॒ह , ये , चरं॑ति । अ॒न्येन॑ , मत् , आ॒ह॒नः॒ , या॒हि॒ , तूयं॑ , तेन॑ , वि , वृ॒ह॒ , रथ्या॑ऽइव , च॒क्रा ॥
रात्री॑भिरस्मा॒ अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् । दि॒वा पृ॑थि॒व्या मि॑थु॒ना सबं॑धू य॒मीर्य॒मस्य॑ बिभृया॒दजा॑मि ॥
रात्री॑भिः , अ॒स्मै॒ , अह॑ऽभिः , द॒श॒स्ये॒त् , सूर्य॑स्य , चक्षुः॑ , मुहुः॑ , उत् , मि॒मी॒या॒त् । दि॒वा , पृ॒थि॒व्या , मि॒थु॒ना , सबं॑धू॒ इति॒ सऽबं॑धू , य॒मीः , य॒मस्य॑ , बि॒भृ॒या॒त् , अजा॑मि ॥
आ घा॒ ता ग॑च्छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मयः॑ कृ॒णव॒न्नजा॑मि । उप॑ बर्बृहि वृष॒भाय॑ बा॒हुम॒न्यमि॑च्छस्व सुभगे॒ पतिं॒ मत् ॥
आ , घ॒ , ता , ग॒च्छा॒न् , उत्ऽत॑रा , यु॒गानि॑ , यत्र॑ , जा॒मयः॑ , कृ॒णव॑न् , अजा॑मि । उप॑ , ब॒र्बृ॒हि॒ , वृ॒ष॒भाय॑ , बा॒हुं , अ॒न्यं , इ॒च्छ॒स्व॒ , सु॒ऽभ॒गे॒ , पतिं॑ , मत् ॥
किं भ्राता॑स॒द्यद॑ना॒थं भवा॑ति॒ किमु॒ स्वसा॒ यन्निर्ऋ॑तिर्नि॒गच्छा॑त् । काम॑मूता ब॒ह्वे॒३॒॑तद्र॑पामि त॒न्वा॑ मे त॒न्वं१॒॑ सं पि॑पृग्धि ॥
किं , भ्राता॑ , अ॒स॒त् , यत् , अ॒ना॒थं , भवा॑ति , किं , ऊँ॒ इति॑ , स्वसा॑ , यत् , निःऽऋ॑तिः , नि॒ऽगच्छा॑त् । काम॑ऽमूता , ब॒हु , ए॒तत् , र॒पा॒मि॒ , त॒न्वा॑ , मे॒ , त॒न्वं॑ , सं , पि॒पृ॒ग्धि॒ ॥
न वा उ॑ ते त॒न्वा॑ त॒न्वं१॒॑ सं प॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गच्छा॑त् । अ॒न्येन॒ मत्प्र॒मुदः॑ कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ॥
न , वै , ऊँ॒ इति॑ , ते॒ , त॒न्वा॑ , त॒न्वं॑ , सं , प॒पृ॒च्यां॒ , पा॒पं , आ॒हुः॒ , यः , स्वसा॑रं , नि॒ऽगच्छा॑त् । अ॒न्येन॑ , मत् , प्र॒ऽमुदः॑ , क॒ल्प॒य॒स्व॒ , न , ते॒ , भ्राता॑ , सु॒ऽभ॒गे॒ , व॒ष्टि॒ , ए॒तत् ॥
ब॒तो ब॑तासि यम॒ नैव ते॒ मनो॒ हृद॑यं चाविदाम । अ॒न्या किल॒ त्वां क॒क्ष्ये॑व यु॒क्तं परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षं ॥
ब॒तः , ब॒त॒ , अ॒सि॒ , य॒म॒ , न , ए॒व , ते॒ , मनः॑ , हृद॑यं , च॒ , अ॒वि॒दा॒म॒ । अ॒न्या , किल॑ , त्वां , क॒क्ष्या॑ऽइव , यु॒क्तं , परि॑ , स्व॒जा॒ते॒ , लिबु॑जाऽइव , वृ॒क्षं ॥
अ॒न्यमू॒ षु त्वं य॑म्य॒न्य उ॒ त्वां परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षं । तस्य॑ वा॒ त्वं मन॑ इ॒च्छा स वा॒ तवाधा॑ कृणुष्व सं॒विदं॒ सुभ॑द्रां ॥
अ॒न्यं , ऊँ॒ इति॑ , सु , त्वं , य॒मि॒ , अ॒न्यः , ऊँ॒ इति॑ , त्वां , परि॑ , स्व॒जा॒ते॒ , लिबु॑जाऽइव , वृ॒क्षं । तस्य॑ , वा॒ , त्वं , मनः॑ , इ॒च्छ , सः , वा॒ , तव॑ , अध॑ , कृ॒णु॒ष्व॒ , सं॒ऽविदं॑ , सुऽभ॑द्रां ॥
[११] वृषावृष्ण इति नवर्चस्य सूक्तस्यांगिर्हविर्धानोऽग्निर्जगती अंत्यास्तिस्रत्रिष्टुभः |
वृषा॒ वृष्णे॑ दुदुहे॒ दोह॑सा दि॒वः पयां॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः । विश्वं॒ स वे॑द॒ वरु॑णो॒ यथा॑ धि॒या स य॒ज्ञियो॑ यजतु य॒ज्ञियाँ॑ ऋ॒तून् ॥
वृषा॑ , वृष्णे॑ , दु॒दु॒हे॒ , दोह॑सा , दि॒वः , पयां॑सि , य॒ह्वः , अदि॑तेः , अदा॑भ्यः । विश्वं॑ , सः , वे॒द॒ , वरु॑णः , यथा॑ , धि॒या , सः , य॒ज्ञियः॑ , य॒ज॒तु॒ , य॒ज्ञिया॑न् , ऋ॒तून् ॥
रप॑द्गंध॒र्वीरप्या॑ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु मे॒ मनः॑ । इ॒ष्टस्य॒ मध्ये॒ अदि॑ति॒र्नि धा॑तु नो॒ भ्राता॑ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो॑चति ॥
रप॑त् , गं॒ध॒र्वीः , अप्या॑ , च॒ , योष॑णा , न॒दस्य॑ , ना॒दे , परि॑ , पा॒तु॒ , मे॒ , मनः॑ । इ॒ष्टस्य॑ , मध्ये॑ , अदि॑तिः , नि , धा॒तु॒ , नः॒ , भ्राता॑ , नः॒ , ज्ये॒ष्ठः , प्र॒थ॒मः , वि , वो॒च॒ति॒ ॥
सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व॑र्वती । यदी॑मु॒शंत॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दथा॑य॒ जीज॑नन् ॥
सो इति॑ , चि॒त् , नु , भ॒द्रा , क्षु॒ऽमती॑ , यश॑स्वती , उ॒षाः , उ॒वा॒स॒ , मन॑वे , स्वः॑ऽवती । यत् , ईं॒ , उ॒शंतं॑ , उ॒श॒तां , अनु॑ , क्रतुं॑ , अ॒ग्निं , होता॑रं , वि॒दथा॑य , जीज॑नन् ॥
अध॒ त्यं द्र॒प्सं वि॒भ्वं॑ विचक्ष॒णं विराभ॑रदिषि॒तः श्ये॒नो अ॑ध्व॒रे । यदी॒ विशो॑ वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ॥
अध॑ , त्यं , द्र॒प्सं , वि॒ऽभ्वं॑ , वि॒ऽच॒क्ष॒णं , विः , आ , अ॒भ॒र॒त् , इ॒षि॒तः , श्ये॒नः , अ॒ध्व॒रे । यदि॑ , विशः॑ , वृ॒णते॑ , द॒स्मं , आर्याः॑ , अ॒ग्निं , होता॑रं , अध॑ , धीः , अ॒जा॒य॒त॒ ॥
सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः । विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यं१॒॑ वाजं॑ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ॥
सदा॑ , अ॒सि॒ , र॒ण्वः , यव॑साऽइव , पुष्य॑ते , होत्रा॑भिः , अ॒ग्ने॒ , मनु॑षः , सु॒ऽअ॒ध्व॒रः । विप्र॑स्य , वा॒ , यत् , श॒श॒मा॒नः , उ॒क्थ्यं॑ , वाजं॑ , स॒स॒ऽवान् , उ॒प॒ऽयासि॑ , भूरि॑ऽभिः ॥
उदी॑रय पि॒तरा॑ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति । विव॑क्ति॒ वह्निः॑ स्वप॒स्यते॑ म॒खस्त॑वि॒ष्यते॒ असु॑रो॒ वेप॑ते म॒ती ॥
उत् , ई॒र॒य॒ , पि॒तरा॑ , जा॒रः , आ , भगं॑ , इय॑क्षति , ह॒र्य॒तः , हृ॒त्तः , इ॒ष्य॒ति॒ । विव॑क्ति , वह्निः॑ , सु॒ऽअ॒प॒स्यते॑ , म॒खः , त॒वि॒ष्यते॑ , असु॑रः , वेप॑ते , म॒ती ॥
यस्ते॑ अग्ने सुम॒तिं मर्तो॒ अक्ष॒त्सह॑सः सूनो॒ अति॒ स प्र शृ॑ण्वे । इषं॒ दधा॑नो॒ वह॑मानो॒ अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ॥
यः , ते॒ , अ॒ग्ने॒ , सु॒ऽम॒तिं , मर्तः॑ , अक्ष॑त् , सह॑सः , सू॒नो॒ इति॑ , अति॑ , सः , प्र , शृ॒ण्वे॒ । इषं॑ , दधा॑नः , वह॑मानः , अश्वैः॑ , आ , सः , द्यु॒ऽमान् , अम॑ऽवान् , भू॒ष॒ति॒ , द्यून् ॥
यद॑ग्न ए॒षा समि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र । रत्ना॑ च॒ यद्वि॒भजा॑सि स्वधावो भा॒गं नो॒ अत्र॒ वसु॑मंतं वीतात् ॥
यत् , अ॒ग्ने॒ , ए॒षा , संऽइ॑तिः , भवा॑ति , दे॒वी , दे॒वेषु॑ , य॒ज॒ता , य॒ज॒त्र॒ । रत्ना॑ , च॒ , यत् , वि॒ऽभजा॑सि , स्व॒धा॒ऽवः॒ , भा॒गं , नः॒ , अत्र॑ , वसु॑ऽमंतं , वी॒ता॒त् ॥
श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुं । आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥
श्रु॒धि , नः॒ , अ॒ग्ने॒ , सद॑ने , स॒धऽस्थे॑ , यु॒क्ष्व , रथं॑ , अ॒मृत॑स्य , द्र॒वि॒त्नुं । आ , नः॒ , व॒ह॒ , रोद॑सी॒ इति॑ , दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे , माकिः॑ , दे॒वानां॑ , अप॑ , भूः॒ , इ॒ह , स्याः॒ ॥
[१२] द्यावाहेति नवर्चस्य सूक्तस्यहविर्धानोग्निस्त्रिष्टुप् |
द्यावा॑ ह॒ क्षामा॑ प्रथ॒मे ऋ॒तेना॑भिश्रा॒वे भ॑वतः सत्य॒वाचा॑ । दे॒वो यन्मर्ता॑न्य॒जथा॑य कृ॒ण्वंत्सीद॒द्धोता॑ प्र॒त्यङ्स्वमसुं॒ यन् ॥
द्यावा॑ , ह॒ , क्षामा॑ , प्र॒थ॒मे इति॑ , ऋ॒तेन॑ , अ॒भि॒ऽश्रा॒वे , भ॒व॒तः॒ , स॒त्य॒ऽवाचा॑ । दे॒वः , यत् , मर्ता॑न् , य॒जथा॑य , कृ॒ण्वन् , सीद॑त् , होता॑ , प्र॒त्यङ् , स्वं , असुं॑ , यन् ॥
दे॒वो दे॒वान्प॑रि॒भूर्ऋ॒तेन॒ वहा॑ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान् । धू॒मके॑तुः स॒मिधा॒ भाऋ॑जीको मं॒द्रो होता॒ नित्यो॑ वा॒चा यजी॑यान् ॥
दे॒वः , दे॒वान् , प॒रि॒ऽभूः , ऋ॒तेन॑ , वह॑ , नः॒ , ह॒व्यं , प्र॒थ॒मः , चि॒कि॒त्वान् । धू॒मऽके॑तुः , सं॒ऽइधा॑ , भाःऽऋ॑जीकः , मं॒द्रः , होता॑ , नित्यः॑ , वा॒चा , यजी॑यान् ॥
स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो॑ जा॒तासो॑ धारयंत उ॒र्वी । विश्वे॑ दे॒वा अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी॑ दि॒व्यं घृ॒तं वाः ॥
स्वावृ॑क् , दे॒वस्य॑ , अ॒मृतं॑ , यदि॑ , गोः , अतः॑ , जा॒तासः॑ , धा॒र॒यं॒ते॒ , उ॒र्वी इति॑ । विश्वे॑ , दे॒वाः , अनु॑ , तत् , ते॒ , यजुः॑ , गुः॒ , दु॒हे , यत् , एनी॑ , दि॒व्यं , घृ॒तं , वारिति॒ वाः ॥
अर्चा॑मि वां॒ वर्धा॒यापो॑ घृतस्नू॒ द्यावा॑भूमी शृणु॒तं रो॑दसी मे । अहा॒ यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा॑ नो॒ अत्र॑ पि॒तरा॑ शिशीतां ॥
अर्चा॑मि , वां॒ , वर्धा॑य , अपः॑ , घृ॒त॒स्नू॒ इति॑ घृतऽस्नू , द्यावा॑भूमी॒ इति॑ , शृ॒णु॒तं , रो॒द॒सी॒ इति॑ , मे॒ । अहा॑ , यत् , द्यावः॑ , असु॑ऽनीतिं , अय॑न् , मध्वा॑ , नः॒ , अत्र॑ , पि॒तरा॑ , शि॒शी॒तां॒ ॥
किं स्वि॑न्नो॒ राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द । मि॒त्रश्चि॒द्धि ष्मा॑ जुहुरा॒णो दे॒वांछ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ॥
किं , स्वि॒त् , नः॒ , राजा॑ , ज॒गृ॒हे॒ , कत् , अ॒स्य॒ , अति॑ , व्र॒तं , च॒कृ॒म॒ , कः , वि , वे॒द॒ । मि॒त्रः , चि॒त् , हि , स्म॒ , जु॒हु॒रा॒णः , दे॒वान् , श्लोकः॑ , न , या॒तां , अपि॑ , वाजः॑ , अस्ति॑ ॥
दु॒र्मंत्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति । य॒मस्य॒ यो म॒नव॑ते सु॒मंत्वग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ॥
दुः॒ऽमंतु॑ , अत्र॑ , अ॒मृत॑स्य , नाम॑ , सऽल॑क्ष्मा , यत् , विषु॑ऽरूपा , भवा॑ति । य॒मस्य॑ , यः , म॒नव॑ते , सु॒ऽमंतु॑ , अग्ने॑ , तं , ऋ॒ष्व॒ , पा॒हि॒ , अप्र॑ऽयुच्छन् ॥
यस्मिं॑दे॒वा वि॒दथे॑ मा॒दयं॑ते वि॒वस्व॑तः॒ सद॑ने धा॒रयं॑ते । सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य१॒॑क्तून्परि॑ द्योत॒निं च॑रतो॒ अज॑स्रा ॥
यस्मि॑न् , दे॒वाः , वि॒दथे॑ , मा॒दयं॑ते , वि॒वस्व॑तः , सद॑ने , धा॒रयं॑ते । सूर्ये॑ , ज्योतिः॑ , अद॑धुः , मा॒सि , अ॒क्तून् , परि॑ , द्यो॒त॒निं , च॒र॒तः॒ , अज॑स्रा ॥
यस्मिं॑दे॒वा मन्म॑नि सं॒चरं॑त्यपी॒च्ये॒३॒॑ न व॒यम॑स्य विद्म । मि॒त्रो नो॒ अत्रादि॑ति॒रना॑गांत्सवि॒ता दे॒वो वरु॑णाय वोचत् ॥
यस्मि॑न् , दे॒वाः , मन्म॑नि , सं॒ऽचरं॑ति , अ॒पी॒च्ये॑ , न , व॒यं , अ॒स्य॒ , वि॒द्म॒ । मि॒त्रः , नः॒ , अत्र॑ , अदि॑तिः , अना॑गान् , स॒वि॒ता , दे॒वः , वरु॑णाय , वो॒च॒त् ॥
श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुं । आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥
श्रु॒धि , नः॒ , अ॒ग्ने॒ , सद॑ने , स॒धऽस्थे॑ , यु॒क्ष्व , रथं॑ , अ॒मृत॑स्य , द्र॒वि॒त्नुं । आ , नः॒ , व॒ह॒ , रोद॑सी॒ इति॑ , दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे , माकिः॑ , दे॒वानां॑ , अप॑ , भूः॒ , इ॒ह , स्याः॒ ॥
[१३] युजेवामिति पंचर्चस्य सूक्तस्यादित्योविवस्वान्हविर्धानस्त्रिष्टुबंत्याजगती |
यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॑व सू॒रेः । शृ॒ण्वंतु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥
यु॒जे , वां॒ , ब्रह्म॑ , पू॒र्व्यं , नमः॑ऽभिः , वि , श्लोकः॑ , ए॒तु॒ , प॒थ्या॑ऽइव , सू॒रेः । शृ॒ण्वंतु॑ , विश्वे॑ , अ॒मृत॑स्य , पु॒त्राः , आ , ये , धामा॑नि , दि॒व्यानि॑ , त॒स्थुः ॥
य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां॑ भर॒न्मानु॑षा देव॒यंतः॑ । आ सी॑दतं॒ स्वमु॑ लो॒कं विदा॑ने स्वास॒स्थे भ॑वत॒मिंद॑वे नः ॥
य॒मे इ॒वेति॑ य॒मेऽइ॑व , यत॑माने॒ इति॑ , यत् , ऐतं॑ , प्र , वां॒ , भ॒र॒न् , मानु॑षाः , दे॒व॒ऽयंतः॑ । आ , सी॒द॒तं॒ , स्वं , ऊँ॒ इति॑ , लो॒कं , विदा॑ने॒ इति॑ , स्वा॒स॒स्थे इति॑ सु॒ऽआ॒स॒स्थे , भ॒व॒तं॒ , इंद॑वे , नः॒ ॥
पंच॑ प॒दानि॑ रु॒पो अन्व॑रोहं॒ चतु॑ष्पदी॒मन्वे॑मि व्र॒तेन॑ । अ॒क्षरे॑ण॒ प्रति॑ मिम ए॒तामृ॒तस्य॒ नाभा॒वधि॒ सं पु॑नामि ॥
पंच॑ , प॒दानि॑ , रु॒पः , अनु॑ , अ॒रो॒हं॒ , चतुः॑ऽपदीं , अनु॑ , ए॒मि॒ , व्र॒तेन॑ । अ॒क्षरे॑ण , प्रति॑ , मि॒मे॒ , ए॒तां , ऋ॒तस्य॑ , नाभौ॑ , अधि॑ , सं , पु॒ना॒मि॒ ॥
दे॒वेभ्यः॒ कम॑वृणीत मृ॒त्युं प्र॒जायै॒ कम॒मृतं॒ नावृ॑णीत । बृह॒स्पतिं॑ य॒ज्ञम॑कृण्वत॒ ऋषिं॑ प्रि॒यां य॒मस्त॒न्वं१॒॑ प्रारि॑रेचीत् ॥
दे॒वेभ्यः॑ , कं , अ॒वृ॒णी॒त॒ , मृ॒त्युं , प्र॒ऽजायै॑ , कं , अ॒मृतं॑ , न , अ॒वृ॒णी॒त॒ । बृह॒स्पतिं॑ , य॒ज्ञं , अ॒कृ॒ण्व॒त॒ , ऋषिं॑ , प्रि॒यां , य॒मः , त॒न्वं॑ , प्र , अ॒रि॒रे॒ची॒त् ॥
स॒प्त क्ष॑रंति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवतन्नृ॒तं । उ॒भे इद॑स्यो॒भय॑स्य राजत उ॒भे य॑तेते उ॒भय॑स्य पुष्यतः ॥
स॒प्त , क्ष॒रं॒ति॒ , शिश॑वे , म॒रुत्व॑ते , पि॒त्रे , पु॒त्रासः॑ , अपि॑ , अ॒वी॒व॒त॒न् , ऋ॒तं । उ॒भे इति॑ , इत् , अ॒स्य॒ , उ॒भय॑स्य , रा॒ज॒तः॒ , उ॒भे इति॑ , य॒ते॒ते॒ इति॑ , उ॒भय॑स्य , पु॒ष्य॒तः॒ ॥
[१४] परेयिवांसमिति षोळशर्चस्य सूक्तस्य वैवस्वतोयमऋषिः यमोदेवता षष्ठ्यांगिरःपित्रथर्वभृगुसोमाः दशम्यादितिसृणांश्वानौ त्रिष्टुप् त्रयोदशीचतुर्दशीषोडश्योनुष्टुभः पंचदशीबृहती ( प्रेहिप्रेहीत्यादितिसृणां पितृदेवतावैकल्पिकी ) |
प॒रे॒यि॒वांसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पंथा॑मनुपस्पशा॒नं । वै॒व॒स्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ दुवस्य ॥
प॒रे॒यि॒ऽवांसं॑ , प्र॒ऽवतः॑ , म॒हीः , अनु॑ , ब॒हुऽभ्यः॑ , पंथां॑ , अ॒नु॒ऽप॒स्प॒शा॒नं । वै॒व॒स्व॒तं , सं॒ऽगम॑नं , जना॑नां , य॒मं , राजा॑नं , ह॒विषा॑ , दु॒व॒स्य॒ ॥
य॒मो नो॑ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू॑ति॒रप॑भर्त॒वा उ॑ । यत्रा॑ नः॒ पूर्वे॑ पि॒तरः॑ परे॒युरे॒ना ज॑ज्ञा॒नाः प॒थ्या॒३॒॑ अनु॒ स्वाः ॥
य॒मः , नः॒ , गा॒तुं , प्र॒थ॒मः , वि॒वे॒द॒ , न , ए॒षा , गव्यू॑तिः , अप॑ऽभ॒र्त॒वै , ऊँ॒ इति॑ । यत्र॑ , नः॒ , पूर्वे॑ , पि॒तरः॑ , प॒रा॒ऽई॒युः , ए॒ना , ज॒ज्ञा॒नाः , प॒थ्याः॑ , अनु॑ , स्वाः ॥
मात॑ली क॒व्यैर्य॒मो अंगि॑रोभि॒र्बृह॒स्पति॒र्ऋक्व॑भिर्वावृधा॒नः । याँश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वांत्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दंति ॥
मात॑ली , क॒व्यैः , य॒मः , अंगि॑रःऽभिः , बृह॒स्पतिः॑ , ऋक्व॑ऽभिः , व॒वृ॒धा॒नः । यान् , च॒ , दे॒वाः , व॒वृ॒धुः , ये , च॒ , दे॒वान् , स्वाहा॑ , अ॒न्ये , स्व॒धया॑ , अ॒न्ये , म॒दं॒ति॒ ॥
इ॒मं य॑म प्रस्त॒रमा हि सीदांगि॑रोभिः पि॒तृभिः॑ संविदा॒नः । आ त्वा॒ मंत्राः॑ कविश॒स्ता व॑हंत्वे॒ना रा॑जन्ह॒विषा॑ मादयस्व ॥
इ॒मं , य॒म॒ , प्र॒ऽस्त॒रं , आ , हि , सीद॑ , अंगि॑रःऽभिः , पि॒तृऽभिः॑ , सं॒ऽवि॒दा॒नः । आ , त्वा॒ , मंत्राः॑ , क॒वि॒ऽश॒स्ताः , व॒हं॒तु॒ , ए॒ना , रा॒ज॒न् , ह॒विषा॑ , मा॒द॒य॒स्व॒ ॥
अंगि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व । विव॑स्वंतं हुवे॒ यः पि॒ता ते॒ऽस्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ॥
अंगि॑रःऽभिः , आ , ग॒हि॒ , य॒ज्ञिये॑भिः , यम॑ , वै॒रू॒पैः , इ॒ह , मा॒द॒य॒स्व॒ । विव॑स्वंतं , हु॒वे॒ , यः , पि॒ता , ते॒ , अ॒स्मिन् , य॒ज्ञे , ब॒र्हिषि॑ , आ , नि॒ऽसद्य॑ ॥
अंगि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑ । तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
अंगि॑रसः , नः॒ , पि॒तरः॑ , नव॑ऽग्वाः , अथ॑र्वाणः , भृग॑वः , सो॒म्यासः॑ । तेषां॑ , व॒यं , सु॒ऽम॒तौ , य॒ज्ञिया॑नां , अपि॑ , भ॒द्रे , सौ॒म॒न॒से , स्या॒म॒ ॥
प्रेहि॒ प्रेहि॑ प॒थिभिः॑ पू॒र्व्येभि॒र्यत्रा॑ नः॒ पूर्वे॑ पि॒तरः॑ परे॒युः । उ॒भा राजा॑ना स्व॒धया॒ मदं॑ता य॒मं प॑श्यासि॒ वरु॑णं च दे॒वं ॥
प्र , इ॒हि॒ , प्र , इ॒हि॒ , प॒थिऽभिः॑ , पू॒र्व्येभिः॑ , यत्र॑ , नः॒ , पूर्वे॑ , पि॒तरः॑ , प॒रा॒ऽई॒युः । उ॒भा , राजा॑ना , स्व॒धया॑ , मदं॑ता , य॒मं , प॒श्या॒सि॒ , वरु॑णं , च॒ , दे॒वं ॥
सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेने॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् । हि॒त्वाया॑व॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑च्छस्व त॒न्वा॑ सु॒वर्चाः॑ ॥
सं , ग॒च्छ॒स्व॒ , पि॒तृऽभिः॑ , सं , य॒मेन॑ , इ॒ष्टा॒पू॒र्तेन॑ , प॒र॒मे , विऽओ॑मन् । हि॒त्वाय॑ , अ॒व॒द्यं , पुनः॑ , अस्तं॑ , आ , इ॒हि॒ , सं , ग॒च्छ॒स्व॒ , त॒न्वा॑ , सु॒ऽवर्चाः॑ ॥
अपे॑त॒ वी॑त॒ वि च॑ सर्प॒तातो॒ऽस्मा ए॒तं पि॒तरो॑ लो॒कम॑क्रन् । अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्यव॒सान॑मस्मै ॥
अप॑ , इ॒त॒ , वि , इ॒त॒ , वि , च॒ , स॒र्प॒त॒ , अतः॑ , अ॒स्मै , ए॒तं , पि॒तरः॑ , लो॒कं , अ॒क्र॒न् । अहः॑ऽभिः , अ॒त्ऽभिः , अ॒क्तुऽभिः॑ , विऽअ॑क्तं , य॒मः , द॒दा॒ति॒ , अ॒व॒ऽसानं॑ , अ॒स्मै॒ ॥
अति॑ द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था । अथा॑ पि॒तॄंत्सु॑वि॒दत्राँ॒ उपे॑हि य॒मेन॒ ये स॑ध॒मादं॒ मदं॑ति ॥
अति॑ , द्र॒व॒ , सा॒र॒मे॒यौ , श्वानौ॑ , च॒तुः॒ऽअ॒क्षौ , श॒बलौ॑ , सा॒धुना॑ , प॒था । अथ॑ , पि॒तॄन् , सु॒ऽवि॒दत्रा॑न् , उप॑ , इ॒हि॒ , य॒मेन॑ , ये , स॒ध॒ऽमादं॑ , मदं॑ति ॥
यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सौ । ताभ्या॑मेनं॒ परि॑ देहि राजंत्स्व॒स्ति चा॑स्मा अनमी॒वं च॑ धेहि ॥
यौ , ते॒ , श्वानौ॑ , य॒म॒ , र॒क्षि॒तारौ॑ , च॒तुः॒ऽअ॒क्षौ , प॒थि॒रक्षी॒ इति॑ प॒थि॒ऽरक्षी॑ , नृ॒ऽचक्ष॑सौ । ताभ्यां॑ , ए॒नं॒ , परि॑ , दे॒हि॒ , रा॒ज॒न् , स्व॒स्ति , च॒ , अ॒स्मै॒ , अ॒न॒मी॒वं , च॒ , धे॒हि॒ ॥
उ॒रू॒ण॒साव॑सु॒तृपा॑ उदुंब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑ । ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रं ॥
उ॒रु॒ऽन॒सौ , अ॒सु॒ऽतृपौ॑ , उ॒दुं॒ब॒लौ , य॒मस्य॑ , दू॒तौ , च॒र॒तः॒ , जना॑न् , अनु॑ । तौ , अ॒स्मभ्यं॑ , दृ॒शये॑ , सूर्या॑य , पुनः॑ , दा॒तां॒ , असुं॑ , अ॒द्य , इ॒ह , भ॒द्रं ॥
य॒माय॒ सोमं॑ सुनुत य॒माय॑ जुहुता ह॒विः । य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ॥
य॒माय॑ , सोमं॑ , सु॒नु॒त॒ , य॒माय॑ , जु॒हु॒त॒ , ह॒विः । य॒मं , ह॒ , य॒ज्ञः , ग॒च्छ॒ति॒ , अ॒ग्निऽदू॑तः , अरं॑ऽकृतः ॥
य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत । स नो॑ दे॒वेष्वा य॑मद्दी॒र्घमायुः॒ प्र जी॒वसे॑ ॥
य॒माय॑ , घृ॒तऽव॑त् , ह॒विः , जु॒होत॑ , प्र , च॒ , ति॒ष्ठ॒त॒ । सः , नः॒ , दे॒वेषु॑ , आ , य॒म॒त् , दी॒र्घं , आयुः॑ , प्र , जी॒वसे॑ ॥
य॒माय॒ मधु॑मत्तमं॒ राज्ञे॑ ह॒व्यं जु॑होतन । इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे॑भ्यः पथि॒कृद्भ्यः॑ ॥
य॒माय॑ , मधु॑मत्ऽतमं , राज्ञे॑ , ह॒व्यं , जु॒हो॒त॒न॒ । इ॒दं , नमः॑ , ऋषि॑ऽभ्यः , पू॒र्व॒ऽजेभ्यः॑ , पूर्वे॑भ्यः , प॒थि॒कृत्ऽभ्यः॑ ॥
त्रिक॑द्रुकेभिः पतति॒ षळु॒र्वीरेक॒मिद्बृ॒हत् । त्रि॒ष्टुब्गा॑य॒त्री छंदां॑सि॒ सर्वा॒ ता य॒म आहि॑ता ॥
त्रिऽक॑द्रुकेभिः , प॒त॒ति॒ , षट् , उ॒र्वीः , एकं॑ , इत् , बृ॒हत् । त्रि॒ऽस्तुप् , गा॒य॒त्री , छंदां॑सि , सर्वा॑ , ता , य॒मे , आऽहि॑ता ॥
[१५] उदीरतामिति चतुर्दशर्चस्य सूक्तस्य यामायनः शंखः पितरस्त्रिष्टुप् एकादशीजगती |
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ । असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवंतु पि॒तरो॒ हवे॑षु ॥
उत् , ई॒र॒तां॒ , अव॑रे , उत् , परा॑सः , उत् , म॒ध्य॒माः , पि॒तरः॑ , सो॒म्यासः॑ । असुं॑ , ये , ई॒युः , अ॒वृ॒काः , ऋ॒त॒ऽज्ञाः , ते , नः॒ , अ॒वं॒तु॒ , पि॒तरः॑ , हवे॑षु ॥
इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः । ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु वि॒क्षु ॥
इ॒दं , पि॒तृऽभ्यः॑ , नमः॑ , अ॒स्तु॒ , अ॒द्य , ये , पूर्वा॑सः , ये , उप॑रासः , ई॒युः । ये , पार्थि॑वे , रज॑सि , आ , निऽस॑त्ताः , ये , वा॒ , नू॒नं , सु॒ऽवृ॒जना॑सु , वि॒क्षु ॥
आहं पि॒तॄंत्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑ । ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भजं॑त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥
आ , अ॒हं , पि॒तॄन् , सु॒ऽवि॒दत्रा॑न् , अ॒वि॒त्सि॒ , नपा॑तं , च॒ , वि॒ऽक्रम॑णं , च॒ , विष्णोः॑ । ब॒र्हि॒ऽसदः॑ , ये , स्व॒धया॑ , सु॒तस्य॑ , भजं॑त , पि॒त्वः , ते , इ॒ह , आऽग॑मिष्ठाः ॥
बर्हि॑षदः पितर ऊ॒त्य१॒॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्वं॑ । त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा॑ नः॒ शं योर॑र॒पो द॑धात ॥
बर्हि॑ऽसदः , पि॒त॒रः॒ , ऊ॒ती , अ॒र्वाक् , इ॒मा , वः॒ , ह॒व्या , च॒कृ॒म॒ , जु॒षध्वं॑ । ते , आ , ग॒त॒ , अव॑सा , शंऽत॑मेन , अथ॑ , नः॒ , शं , योः , अ॒र॒पः , द॒धा॒त॒ ॥
उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ । त आ ग॑मंतु॒ त इ॒ह श्रु॑वं॒त्वधि॑ ब्रुवंतु॒ ते॑ऽवंत्व॒स्मान् ॥
उप॑ऽहूताः , पि॒तरः॑ , सो॒म्यासः॑ , ब॒र्हि॒ष्ये॑षु , नि॒ऽधिषु॑ , प्रि॒येषु॑ । ते , आ , ग॒मं॒तु॒ , ते , इ॒ह , श्रु॒वं॒तु॒ , अधि॑ , ब्रु॒वं॒तु॒ , ते , अ॒वं॒तु॒ , अ॒स्मान् ॥
आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे॑ । मा हिं॑सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ॥
आ॒ऽअच्य॑ , जानु॑ , द॒क्षि॒ण॒तः , नि॒ऽसद्य॑ , इ॒मं , य॒ज्ञं , अ॒भि , गृ॒णी॒त॒ , विश्वे॑ । मा , हिं॒सि॒ष्ट॒ , पि॒त॒रः॒ , केन॑ , चि॒त् , नः॒ , यत् , वः॒ , आगः॑ , पु॒रु॒षता॑ , करा॑म ॥
आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य । पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं॑ दधात ॥
आसी॑नासः , अ॒रु॒णीनां॑ , उ॒पऽस्थे॑ , र॒यिं , ध॒त्त॒ , दा॒शुषे॑ , मर्त्या॑य । पु॒त्रेभ्यः॑ , पि॒त॒रः॒ , तस्य॑ , वस्वः॑ , प्र , य॒च्छ॒त॒ , ते , इ॒ह , ऊर्जं॑ , द॒धा॒त॒ ॥
ये नः॒ पूर्वे॑ पि॒तरः॑ सो॒म्यासो॑ऽनूहि॒रे सो॑मपी॒थं वसि॑ष्ठाः । तेभि॑र्य॒मः सं॑ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ॥
ये , नः॒ , पूर्वे॑ , पि॒तरः॑ , सो॒म्यासः॑ , अ॒नु॒ऽऊ॒हि॒रे , सो॒म॒ऽपी॒थं , वसि॑ष्ठाः । तेभिः॑ , य॒मः , सं॒ऽर॒रा॒णः , ह॒वींषि॑ , उ॒शन् , उ॒शत्ऽभिः॑ , प्र॒ति॒ऽका॒मं , अ॒त्तु॒ ॥
ये ता॑तृ॒षुर्दे॑व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो अ॒र्कैः । आग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाञ्त्स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥
ये , त॒तृ॒षुः , दे॒व॒ऽत्रा , जेह॑मानाः , हो॒त्रा॒ऽविदः॑ , स्तोम॑ऽतष्टासः , अ॒र्कैः । आ , अ॒ग्ने॒ , या॒हि॒ , सु॒ऽवि॒दत्रे॑भिः , अ॒र्वाङ् , स॒त्यैः , क॒व्यैः , पि॒तृऽभिः॑ , घ॒र्म॒सत्ऽभिः॑ ॥
ये स॒त्यासो॑ हवि॒रदो॑ हवि॒ष्पा इंद्रे॑ण दे॒वैः स॒रथं॒ दधा॑नाः । आग्ने॑ याहि स॒हस्रं॑ देववं॒दैः परैः॒ पूर्वैः॑ पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥
ये , स॒त्यासः॑ , ह॒विः॒ऽअदः॑ , ह॒विः॒ऽपाः , इंद्रे॑ण , दे॒वैः , स॒ऽरथं॑ , दधा॑नाः । आ , अ॒ग्ने॒ , या॒हि॒ , स॒हस्रं॑ , दे॒व॒ऽवं॒दैः , परैः॑ , पूर्वैः॑ , पि॒तृऽभिः॑ , घ॒र्म॒सत्ऽभिः॑ ॥
अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः । अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिं सर्व॑वीरं दधातन ॥
अग्नि॑ऽस्वात्ताः , पि॒त॒रः॒ , आ , इ॒ह , ग॒च्छ॒त॒ , सदः॑ऽसदः , स॒द॒त॒ , सु॒ऽप्र॒नी॒त॒यः॒ । अ॒त्त , ह॒वींषि॑ , प्रऽय॑तानि , ब॒र्हिषि॑ , अथ॑ , र॒यिं , सर्व॑ऽवीरं , द॒धा॒त॒न॒ ॥
त्वम॑ग्न ईळि॒तो जा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी । प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥
त्वं , अ॒ग्ने॒ , ई॒ळि॒तः , जा॒त॒ऽवे॒दः॒ , अवा॑ट् , ह॒व्यानि॑ , सु॒र॒भीणि॑ , कृ॒त्वी । प्र , अ॒दाः॒ , पि॒तृऽभ्यः॑ , स्व॒धया॑ , ते , अ॒क्ष॒न् , अ॒द्धि , त्वं , दे॒व॒ , प्रऽय॑ता , ह॒वींषि॑ ॥
ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म । त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञं सुकृ॑तं जुषस्व ॥
ये , च॒ , इ॒ह , पि॒तरः॑ , ये , च॒ , न , इ॒ह , यान् , च॒ , वि॒द्म , यान् , ऊँ॒ इति॑ , च॒ , न , प्र॒ऽवि॒द्म । त्वं , वे॒त्थ॒ , यति॑ , ते , जा॒त॒ऽवे॒दः॒ , स्व॒धाभिः॑ , य॒ज्ञं , सुऽकृ॑तं , जु॒ष॒स्व॒ ॥
ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दयं॑ते । तेभिः॑ स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं॑ कल्पयस्व ॥
ये , अ॒ग्नि॒ऽद॒ग्धाः , ये , अन॑ग्निऽदग्धाः , मध्ये॑ , दि॒वः , स्व॒धया॑ , मा॒दयं॑ते । तेभिः॑ , स्व॒ऽराट् , असु॑ऽनीतिं , ए॒तां , य॒था॒ऽव॒शं , त॒न्वं॑ , क॒ल्प॒य॒स्व॒ ॥
[१६] मैनमिति चतुर्दशर्चस्य सूक्तस्य यामायनोदमनोग्निस्त्रिष्टुबंत्यांचतस्रोनुष्टुभः |
मैन॑मग्ने॒ वि द॑हो॒ माभि शो॑चो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रं । य॒दा शृ॒तं कृ॒णवो॑ जातवे॒दोऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तृभ्यः॑ ॥
मा , ए॒नं॒ , अ॒ग्ने॒ , वि , द॒हः॒ , मा , अ॒भि , शो॒चः॒ , मा , अ॒स्य॒ , त्वचं॑ , चि॒क्षि॒पः॒ , मा , शरी॑रं । य॒दा , शृ॒तं , कृ॒णवः॑ , जा॒त॒ऽवे॒दः॒ , अथ॑ , ईं॒ , ए॒नं॒ , प्र , हि॒णु॒ता॒त् , पि॒तृऽभ्यः॑ ॥
शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे॑मेनं॒ परि॑ दत्तात्पि॒तृभ्यः॑ । य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानां॑ वश॒नीर्भ॑वाति ॥
शृ॒तं , य॒दा , कर॑सि , जा॒त॒ऽवे॒दः॒ , अथ॑ , ईं॒ , ए॒नं॒ , परि॑ , द॒त्ता॒त् , पि॒तृऽभ्यः॑ । य॒दा , गच्छा॑ति , असु॑ऽनीतिं , ए॒तां , अथ॑ , दे॒वानां॑ , व॒श॒ऽनीः , भ॒वा॒ति॒ ॥
सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥
सूर्यं॑ , चक्षुः॑ , ग॒च्छ॒तु॒ , वातं॑ , आ॒त्मा , द्यां , च॒ , ग॒च्छ॒ , पृ॒थि॒वीं , च॒ , धर्म॑णा । अ॒पः , वा॒ , ग॒च्छ॒ , यदि॑ , तत्र॑ , ते॒ , हि॒तं , ओष॑धीषु , प्रति॑ , ति॒ष्ठ॒ , शरी॑रैः ॥
अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः । यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कं ॥
अ॒जः , भा॒गः , तप॑सा॒ , तं , त॒प॒स्व॒ , तं , ते॒ , शो॒चिः , त॒प॒तु॒ , तं , ते॒ , अ॒र्चिः । याः , ते॒ , शि॒वाः , त॒न्वः॑ , जा॒त॒ऽवे॒दः॒ , ताभिः॑ , व॒ह॒ , ए॒नं॒ , सु॒ऽकृतां॑ , ऊँ॒ इति॑ , लो॒कं ॥
अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ । आयु॒र्वसा॑न॒ उप॑ वेतु॒ शेषः॒ सं ग॑च्छतां त॒न्वा॑ जातवेदः ॥
अव॑ , सृ॒ज॒ , पुनः॑ , अ॒ग्ने॒ , पि॒तृऽभ्यः॑ , यः , ते॒ , आऽहु॑तः , चर॑ति , स्व॒धाभिः॑ । आयुः॑ , वसा॑नः , उप॑ , वे॒तु॒ , शेषः॑ , सं , ग॒च्छ॒तां॒ , त॒न्वा॑ , जा॒त॒ऽवे॒दः॒ ॥
यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः । अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ॥
यत् , ते॒ , कृ॒ष्णः , श॒कु॒नः , आ॒ऽतु॒तोद॑ , पि॒पी॒लः , स॒र्पः , उ॒त , वा॒ , श्वाप॑दः । अ॒ग्निः , तत् , वि॒श्व॒ऽअत् , अ॒ग॒दं , कृ॒णो॒तु॒ , सोमः॑ , च॒ , यः , ब्रा॒ह्म॒णान् , आ॒ऽवि॒वेश॑ ॥
अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ पीव॑सा॒ मेद॑सा च । नेत्त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्ष्यन्प॑र्यं॒खया॑ते ॥
अ॒ग्नेः , वर्म॑ , परि॑ , गोभिः॑ , व्य॒य॒स्व॒ , सं , प्र , ऊ॒णु॒ष्व॒ , पीव॑सा , मेद॑सा , च॒ । न , इत् , त्वा॒ , धृ॒ष्णुः , हर॑सा , जर्हृ॑षाणः , द॒धृक् , वि॒ऽध॒क्ष्यन् , प॒रि॒ऽअं॒खया॑ते ॥
इ॒मम॑ग्ने चम॒सं मा वि जि॑ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्यानां॑ । ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मिं॑दे॒वा अ॒मृता॑ मादयंते ॥
इ॒मं , अ॒ग्ने॒ , च॒म॒सं , मा , वि , जि॒ह्व॒रः॒ , प्रि॒यः , दे॒वानां॑ , उ॒त , सो॒म्यानां॑ । ए॒षः , यः , च॒म॒सः , दे॒व॒ऽपानः॑ , तस्मि॑न् , दे॒वाः , अ॒मृताः॑ , मा॒द॒यं॒ते॒ ॥
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः । इ॒हैवायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥
क्र॒व्य॒ऽअदं॑ , अ॒ग्निं , प्र , हि॒णो॒मि॒ , दू॒रं , य॒मऽरा॑ज्ञः , ग॒च्छ॒तु॒ , रि॒प्र॒ऽवा॒हः । इ॒ह , ए॒व , अ॒यं , इत॑रः , जा॒तऽवे॑दाः , दे॒वेभ्यः॑ , ह॒व्यं , व॒ह॒तु॒ , प्र॒ऽजा॒नन् ॥
यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसं । तं ह॑रामि पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि॑न्वात्पर॒मे स॒धस्थे॑ ॥
यः , अ॒ग्निः , क्र॒व्य॒ऽअत् , प्र॒ऽवि॒वेश॑ , वः॒ , गृ॒हं , इ॒मं , पश्य॑न् , इत॑रं , जा॒तऽवे॑दसं । तं , ह॒रा॒मि॒ , पि॒तृ॒ऽय॒ज्ञाय॑ , दे॒वं , सः , घ॒र्मं , इ॒न्वा॒त् , प॒र॒मे , स॒धऽस्थे॑ ॥
यो अ॒ग्निः क्र॑व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृधः॑ । प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥
यः , अ॒ग्निः , क्र॒व्य॒ऽवाह॑नः , पि॒तॄन् , यक्ष॑त् , ऋ॒त॒ऽवृधः॑ । प्र , इत् , ऊँ॒ इति॑ , ह॒व्यानि॑ , वो॒च॒ति॒ , दे॒वेभ्यः॑ , च॒ , पि॒तृऽभ्यः॑ , आ ॥
उ॒शंत॑स्त्वा॒ नि धी॑मह्यु॒शंतः॒ समि॑धीमहि । उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ॥
उ॒शंतः॑ , त्वा॒ , नि , धी॒म॒हि॒ , उ॒शंतः॑ , सं , इ॒धी॒म॒हि॒ । उ॒शन् , उ॒श॒तः , आ , व॒ह॒ , पि॒तॄन् , ह॒विषे॑ , अत्त॑वे ॥
यं त्वम॑ग्ने स॒मद॑ह॒स्तमु॒ निर्वा॑पया॒ पुनः॑ । कि॒यांब्वत्र॑ रोहतु पाकदू॒र्वा व्य॑ल्कशा ॥
यं , त्वं , अ॒ग्ने॒ , सं॒ऽअद॑हः , तं , ऊँ॒ इति॑ , निः , वा॒प॒य॒ , पुन॒रिति॑ । कि॒यांबु॑ , अत्र॑ , रो॒ह॒तु॒ , पा॒क॒ऽदू॒र्वा , विऽअ॑ल्कशा ॥
शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति । मं॒डू॒क्या॒३॒॑ सु सं ग॑म इ॒मं स्व१॒॑ग्निं ह॑र्षय ॥
शीति॑के , शीति॑काऽवति , ह्लादि॑के , ह्लादि॑काऽवति । मं॒डू॒क्या॑ , सु , सं , ग॒मः॒ , इ॒मं , सु , अ॒ग्निं , ह॒र्ष॒य॒ ॥
[१७] त्वष्टादुहित्र इति चतुर्दशर्चस्य सूक्तस्य यामायनोवेदश्रवाऋषिः आद्ययोर्द्वयोः सरण्यूदेवता ततश्चतसृणांपूषा ततस्तिसृणांसरस्वती ततःपंचानामापस्त्रिष्टुप् अंत्येद्वेअनुष्टुभौ (द्रप्सश्चस्कंदेति तिसृणां सोमोदेवतावाउपांत्यापुरस्ताद्बृहतीवेतिच) |
त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे॑ति । य॒मस्य॑ मा॒ता प॑र्यु॒ह्यमा॑ना म॒हो जा॒या विव॑स्वतो ननाश ॥
त्वष्टा॑ , दु॒हि॒त्रे , व॒ह॒तुं , कृ॒णो॒ति॒ , इति॑ , इ॒दं , विश्वं॑ , भुव॑नं , सं , ए॒ति॒ । य॒मस्य॑ , मा॒ता , प॒रि॒ऽउ॒ह्यमा॑ना , म॒हः , जा॒या , विव॑स्वतः , न॒ना॒श॒ ॥
अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वी सव॑र्णामददु॒र्विव॑स्वते । उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥
अप॑ , अ॒गू॒ह॒न् , अ॒मृतां॑ , मर्त्ये॑भ्यः , कृ॒त्वी , सऽव॑र्णां , अ॒द॒दुः॒ , विव॑स्वते । उ॒त , अ॒श्विनौ॑ , अ॒भ॒र॒त् , यत् , तत् , आसी॑त् , अज॑हात् , ऊँ॒ इति॑ , द्वा , मि॒थु॒ना , स॒र॒ण्यूः ॥
पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः । स त्वै॒तेभ्यः॒ परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये॑भ्यः ॥
पू॒षा , त्वा॒ , इ॒तः , च्य॒व॒य॒तु॒ , प्र , वि॒द्वान् , अन॑ष्टऽपशुः , भुव॑नस्य , गो॒पाः । सः , त्वा॒ , ए॒तेभ्यः॑ , परि॑ , द॒द॒त् , पि॒तृऽभ्यः॑ , अ॒ग्निः , दे॒वेभ्यः॑ , सु॒ऽवि॒द॒त्रिये॑भ्यः ॥
आयु॑र्वि॒श्वायुः॒ परि॑ पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् । यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥
आयुः॑ , वि॒श्वऽआ॑युः , परि॑ , पा॒स॒ति॒ , त्वा॒ , पू॒षा , त्वा॒ , पा॒तु॒ , प्रऽप॑थे , पु॒रस्ता॑त् । यत्र॑ , आस॑ते , सु॒ऽकृतः॑ , यत्र॑ , ते , य॒युः , तत्र॑ , त्वा॒ , दे॒वः , स॒वि॒ता , द॒धा॒तु॒ ॥
पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वाः॒ सो अ॒स्माँ अभ॑यतमेन नेषत् । स्व॒स्ति॒दा आघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु प्रजा॒नन् ॥
पू॒षा , इ॒माः , आशाः॑ , अनु॑ , वे॒द॒ , सर्वाः॑ , सः , अ॒स्मान् , अभ॑यऽतमेन , ने॒ष॒त् । स्व॒स्ति॒ऽदाः , आघृ॑णिः , सर्व॑ऽवीरः , अप्र॑ऽयुच्छन् , पु॒रः , ए॒तु॒ , प्र॒ऽजा॒नन् ॥
प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः । उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॒ आ च॒ परा॑ च चरति प्रजा॒नन् ॥
प्रऽप॑थे , प॒थां , अ॒ज॒नि॒ष्ट॒ , पू॒षा , प्रऽप॑थे , दि॒वः , प्रऽप॑थे , पृ॒थि॒व्याः । उ॒भे इति॑ , अ॒भि , प्रि॒यत॑मे॒ इति॑ प्रि॒यऽत॑मे , स॒धस्थे॒ इति॑ स॒धऽस्थे॑ , आ , च॒ , परा॑ , च॒ , च॒र॒ति॒ , प्र॒ऽजा॒नन् ॥
सर॑स्वतीं देव॒यंतो॑ हवंते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने । सर॑स्वतीं सु॒कृतो॑ अह्वयंत॒ सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ॥
सर॑स्वतीं , दे॒व॒ऽयंतः॑ , ह॒वं॒ते॒ , सर॑स्वतीं , अ॒ध्व॒रे , ता॒यमा॑ने । सर॑स्वतीं , सु॒ऽकृतः॑ , अ॒ह्व॒यं॒त॒ , सर॑स्वती , दा॒शुषे॑ , वार्यं॑ , दा॒त् ॥
सर॑स्वति॒ या स॒रथं॑ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मदं॑ती । आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयस्वानमी॒वा इष॒ आ धे॑ह्य॒स्मे ॥
सर॑स्वति , या , स॒ऽरथं॑ , य॒याथ॑ , स्व॒धाभिः॑ , दे॒वि॒ , पि॒तृऽभिः॑ , मदं॑ती । आ॒ऽसद्य॑ , अ॒स्मिन् , ब॒र्हिषि॑ , मा॒द॒य॒स्व॒ , अ॒न॒मी॒वाः , इषः॑ , आ , धे॒हि॒ , अ॒स्मे इति॑ ॥
सर॑स्वतीं॒ यां पि॒तरो॒ हवं॑ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः । स॒ह॒स्रा॒र्घमि॒ळो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ॥
सर॑स्वतीं , यां , पि॒तरः॑ , हवं॑ते , द॒क्षि॒णा , य॒ज्ञं , अ॒भि॒ऽनक्ष॑माणाः । स॒ह॒स्र॒ऽअ॒र्घं , इ॒ळः , अत्र॑ , भा॒गं , रा॒यः , पोषं॑ , यज॑मानेषु , धे॒हि॒ ॥
आपो॑ अ॒स्मान्मा॒तरः॑ शुंधयंतु घृ॒तेन॑ नो घृत॒प्वः॑ पुनंतु । विश्वं॒ हि रि॒प्रं प्र॒वहं॑ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ॥
आपः॑ , अ॒स्मान् , मा॒तरः॑ , शुं॒ध॒यं॒तु॒ , घृ॒तेन॑ , नः॒ , घृ॒त॒ऽप्वः॑ , पु॒नं॒तु॒ । विश्वं॑ , हि , रि॒प्रं , प्र॒ऽवहं॑ति , दे॒वीः , उत् , इत् , आ॒भ्यः॒ , शुचिः॑ , आ , पू॒तः , ए॒मि॒ ॥
द्र॒प्सश्च॑स्कंद प्रथ॒माँ अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । स॒मा॒नं योनि॒मनु॑ सं॒चरं॑तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥
द्र॒प्सः , च॒स्कं॒द॒ , प्र॒थ॒मान् , अनु॑ , द्यून् , इ॒मं , च॒ , योनिं॑ , अनु॑ , यः , च॒ , पूर्वः॑ । स॒मा॒नं , योनिं॑ , अनु॑ , सं॒ऽचरं॑तं , द्र॒प्सं , जु॒हो॒मि॒ , अनु॑ , स॒प्त , होत्राः॑ ॥
यस्ते॑ द्र॒प्सः स्कंद॑ति॒ यस्ते॑ अं॒शुर्बा॒हुच्यु॑तो धि॒षणा॑या उ॒पस्था॑त् । अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृतं ॥
यः , ते॒ , द्र॒प्सः , स्कंद॑ति , यः , ते॒ , अं॒शुः , बा॒हुऽच्यु॑तः , धि॒षणा॑याः , उ॒पऽस्था॑त् । अ॒ध्व॒र्योः , वा॒ , परि॑ , वा॒ , यः , प॒वित्रा॑त् , तं , ते॒ , जु॒हो॒मि॒ , मन॑सा , वष॑ट्ऽकृतं ॥
यस्ते॑ द्र॒प्सः स्क॒न्नो यस्ते॑ अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा । अ॒यं दे॒वो बृह॒स्पतिः॒ सं तं सिं॑चतु॒ राध॑से ॥
यः , ते॒ , द्र॒प्सः , स्क॒न्नः , यः , ते॒ , अं॒शुः , अ॒वः , च॒ , यः , प॒रः , स्रु॒चा । अ॒यं , दे॒वः , बृह॒स्पतिः॑ , सं , तं , सिं॒च॒तु॒ , राध॑से ॥
पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ । अ॒पां पय॑स्व॒दित्पय॒स्तेन॑ मा स॒ह शुं॑धत ॥
पय॑स्वतीः , ओष॑धयः , पय॑स्वत् , मा॒म॒कं , वचः॑ । अ॒पां , पय॑स्वत् , इत् , पयः॑ , तेन॑ , मा॒ , स॒ह , शुं॒ध॒त॒ ॥
[१८] परंमृत्योइति चतुर्दशर्चस्य सूक्तस्य यामायनः संकुसुकः आद्यानांचतसृणांमृत्युः पंचम्याधाता षष्ठ्यास्त्वष्टा शिष्टानां पितृमेधास्त्रिष्टुप् एकादशीप्रस्तारपंक्तिः त्रयोदशीजगत्यंत्येनुष्टुभौ (अंत्यायाः प्रजापतिर्वादेवता) |
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पंथां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जां री॑रिषो॒ मोत वी॒रान् ॥
परं॑ , मृ॒त्यो॒ इति॑ , अनु॑ , परा॑ , इ॒हि॒ , पंथां॑ , यः , ते॒ , स्वः , इत॑रः , दे॒व॒ऽयाना॑त् । चक्षु॑ष्मते , शृ॒ण्व॒ते , ते॒ , ब्र॒वी॒मि॒ , मा , नः॒ , प्र॒ऽजां , रि॒रि॒षः॒ , मा , उ॒त , वी॒रान् ॥
मृ॒त्योः प॒दं यो॒पयं॑तो॒ यदैत॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः । आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ॥
मृ॒त्योः , प॒दं , यो॒पयं॑तः , यत् , ऐत॑ , द्राघी॑यः , आयुः॑ , प्र॒ऽत॒रं , दधा॑नाः । आ॒ऽप्याय॑मानाः , प्र॒ऽजया॑ , धने॑न , शु॒द्धाः , पू॒ताः , भ॒व॒त॒ , य॒ज्ञि॒या॒सः॒ ॥
इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य । प्रांचो॑ अगाम नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥
इ॒मे , जी॒वाः , वि , मृ॒तैः , आ , अ॒व॒वृ॒त्र॒न् , अभू॑त् , भ॒द्रा , दे॒वऽहू॑तिः , नः॒ , अ॒द्य । प्रांचः॑ , अ॒गा॒म॒ , नृ॒तये॑ , हसा॑य , द्राघी॑यः , आयुः॑ , प्र॒ऽत॒रं , दधा॑नाः ॥
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तं । श॒तं जी॑वंतु श॒रदः॑ पुरू॒चीरं॒तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥
इ॒मं , जी॒वेभ्यः॑ , प॒रि॒ऽधिं , दा॒धा॒मि॒ , मा , ए॒षां॒ , नु , गा॒त् , अप॑रः , अर्थं॑ , ए॒तं । श॒तं , जी॒वं॒तु॒ , श॒रदः॑ , पु॒रू॒चीः , अं॒तः , मृ॒त्युं , द॒ध॒तां॒ , पर्व॑तेन ॥
यथाहा॑न्यनुपू॒र्वं भवं॑ति॒ यथ॑ ऋ॒तव॑ ऋ॒तुभि॒र्यंति॑ सा॒धु । यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयैषां ॥
यथा॑ , अहा॑नि , अ॒नु॒ऽपू॒र्वं , भवं॑ति , यथा॑ , ऋ॒तवः॑ , ऋ॒तुऽभिः॑ , यं॒ति , सा॒धु । यथा॑ , न , पूर्वं॑ , अप॑रः , जहा॑ति , ए॒व , धा॒तः॒ , आयूं॑षि , क॒ल्प॒य॒ , ए॒षां ॥
आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ ष्ठ । इ॒ह त्वष्टा॑ सु॒जनि॑मा स॒जोषा॑ दी॒र्घमायुः॑ करति जी॒वसे॑ वः ॥
आ , रो॒ह॒त॒ , आयुः॑ , ज॒रसं॑ , वृ॒णा॒नाः , अ॒नु॒ऽपू॒र्वं , यत॑मानाः , यति॑ , स्थ । इ॒ह , त्वष्टा॑ , सु॒ऽजनि॑मा , स॒ऽजोषाः॑ , दी॒र्घं , आयुः॑ , क॒र॒ति॒ , जी॒वसे॑ , वः॒ ॥
इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒रांज॑नेन स॒र्पिषा॒ सं वि॑शंतु । अ॒न॒श्रवो॑ऽनमी॒वाः सु॒रत्ना॒ आ रो॑हंतु॒ जन॑यो॒ योनि॒मग्रे॑ ॥
इ॒माः , नारीः॑ , अ॒वि॒ध॒वाः , सु॒ऽपत्नीः॑ , आ॒ऽअंज॑नेन , स॒र्पिषा॑ , सं , वि॒शं॒तु॒ । अ॒न॒श्रवः॑ , अ॒न॒मी॒वाः , सु॒ऽरत्नाः॑ , आ , रो॒हं॒तु॒ , जन॑यः , योनिं॑ , अग्रे॑ ॥
उदी॑र्ष्व नार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ । ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ॥
उत् , ई॒र्ष्व॒ , ना॒रि॒ , अ॒भि , जी॒व॒ऽलो॒कं , ग॒तऽअ॑सुं , ए॒तं , उप॑ , शे॒षे॒ , आ , इ॒हि॒ । ह॒स्त॒ऽग्रा॒भस्य॑ , दि॒धि॒षोः , तव॑ , इ॒दं , पत्युः॑ , ज॒नि॒ऽत्वं , अ॒भि , सं , ब॒भू॒थ॒ ॥
धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वाः॒ स्पृधो॑ अ॒भिमा॑तीर्जयेम ॥
धनुः॑ , हस्ता॑त् , आ॒ऽददा॑नः , मृ॒तस्य॑ , अ॒स्मे इति॑ , क्ष॒त्राय॑ , वर्च॑से , बला॑य । अत्र॑ , ए॒व , त्वं , इ॒ह , व॒यं , सु॒ऽवीराः॑ , विश्वाः॑ , स्पृधः॑ , अ॒भिऽमा॑तीः , ज॒ये॒म॒ ॥
उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवां॑ । ऊर्ण॑म्रदा युव॒तिर्दक्षि॑णावत ए॒षा त्वा॑ पातु॒ निर्ऋ॑तेरु॒पस्था॑त् ॥
उप॑ , स॒र्प॒ , मा॒तरं॑ , भूमिं॑ , ए॒तां , उ॒रु॒ऽव्यच॑सं , पृ॒थि॒वीं , सु॒ऽशेवां॑ । ऊर्ण॑ऽम्रदाः , यु॒व॒तिः , दक्षि॑णाऽवते , ए॒षा , त्वा॒ , पा॒तु॒ , निःऽऋ॑तेः , उ॒पऽस्था॑त् ॥
उच्छ्वं॑चस्व पृथिवि॒ मा नि बा॑धथाः सूपाय॒नास्मै॑ भव सूपवंच॒ना । मा॒ता पु॒त्रं यथा॑ सि॒चाभ्ये॑नं भूम ऊर्णुहि ॥
उत् , श्वं॒च॒स्व॒ , पृ॒थि॒वि॒ , मा , नि , बा॒ध॒थाः॒ , सु॒ऽउ॒पा॒य॒ना , अ॒स्मै॒ , भ॒व॒ , सु॒ऽउ॒प॒वं॒च॒ना । मा॒ता , पु॒त्रं , यथा॑ , सि॒चा , अ॒भि , ए॒नं॒ , भू॒मे॒ , ऊ॒र्णु॒हि॒ ॥
उ॒च्छ्वंच॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रयं॑तां । ते गृ॒हासो॑ घृत॒श्चुतो॑ भवंतु वि॒श्वाहा॑स्मै शर॒णाः सं॒त्वत्र॑ ॥
उ॒त्ऽश्वंच॑माना , पृ॒थि॒वी , सु , ति॒ष्ठ॒तु॒ , स॒हस्रं॑ , मितः॑ , उप॑ , हि , श्रयं॑तां । ते , गृ॒हासः॑ , घृ॒त॒ऽश्चुतः॑ , भ॒वं॒तु॒ , वि॒श्वाहा॑ , अ॒स्मै॒ , श॒र॒णाः , सं॒तु॒ , अत्र॑ ॥
उत्ते॑ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षं । ए॒तां स्थूणां॑ पि॒तरो॑ धारयंतु॒ तेऽत्रा॑ य॒मः साद॑ना ते मिनोतु ॥
उत् , ते॒ , स्त॒भ्ना॒मि॒ , पृ॒थि॒वीं , त्वत् , परि॑ , इ॒मं , लो॒गं , नि॒ऽदध॑त् , मो इति॑ , अ॒हं , रि॒षं॒ । ए॒तां , स्थूणां॑ , पि॒तरः॑ , धा॒र॒यं॒तु॒ , ते॒ , अत्र॑ , य॒मः , सद॑ना , ते॒ , मि॒नो॒तु॒ ॥
प्र॒ती॒चीने॒ मामह॒नीष्वाः॑ प॒र्णमि॒वा द॑धुः । प्र॒तीचीं॑ जग्रभा॒ वाच॒मश्वं॑ रश॒नया॑ यथा ॥
प्र॒ती॒चीने॑ , मां , अह॑नि , इष्वाः॑ , प॒र्णंऽइ॑व , आ , द॒धुः॒ । प्र॒तीचीं॑ , ज॒ग्र॒भ॒ , वाचं॑ , अश्वं॑ , र॒श॒नया॑ , य॒था॒ ॥
[१९] निवर्तध्वमित्यष्टर्चस्य सूक्तस्य यामायनोमथितऋषिः आपोदेवताः आद्यायाअग्नीषोमा अनुष्टुप् षष्ठीगायत्री | (अत्रसूक्ते वारुणिर्भृगुर्भार्गवश्च यवनश्चेमौ पाक्षिकावृषीगौर्वादेवता) |
नि व॑र्तध्वं॒ मानु॑ गाता॒स्मांत्सि॑षक्त रेवतीः । अग्नी॑षोमा पुनर्वसू अ॒स्मे धा॑रयतं र॒यिं ॥
नि , व॒र्त॒ध्वं॒ , मा , अनु॑ , गा॒त॒ , अ॒स्मान् , सि॒स॒क्त॒ , रे॒व॒तीः॒ । अग्नी॑षोमा , पु॒न॒र्व॒सू॒ इति॑ पुनःऽवसू , अ॒स्मे इति॑ , धा॒र॒य॒तं॒ , र॒यिं ॥
पुन॑रेना॒ नि व॑र्तय॒ पुन॑रेना॒ न्या कु॑रु । इंद्र॑ एणा॒ नि य॑च्छत्व॒ग्निरे॑ना उ॒पाज॑तु ॥
पुनः॑ , ए॒नाः॒ , नि , व॒र्त॒य॒ , पुनः॑ , ए॒नाः॒ , नि , आ , कु॒रु॒ । इंद्र॑ , ए॒नाः॒ , नि , य॒च्छ॒तु॒ , अ॒ग्निः , ए॒नाः॒ , उ॒प॒ऽआज॑तु ॥
पुन॑रे॒ता नि व॑र्तंताम॒स्मिन्पु॑ष्यंतु॒ गोप॑तौ । इ॒हैवाग्ने॒ नि धा॑रये॒ह ति॑ष्ठतु॒ या र॒यिः ॥
पुनः॑ , ए॒ताः , नि , व॒र्तं॒तां॒ , अ॒स्मिन् , पु॒ष्यं॒तु॒ , गोऽप॑तौ । इ॒ह , ए॒व , अ॒ग्ने॒ , नि , धा॒र॒य॒ , इ॒ह , ति॒ष्ठ॒तु॒ , या , र॒यिः ॥
यन्नि॒यानं॒ न्यय॑नं सं॒ज्ञानं॒ यत्प॒राय॑णं । आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे ॥
यत् , नि॒ऽयानं॑ , नि॒ऽअय॑नं , सं॒ऽज्ञानं॑ , यत् , प॒रा॒ऽअय॑नं । आ॒ऽवर्त॑नं , नि॒ऽवर्त॑नं , यः , गो॒पाः , अपि॑ , तं , हु॒वे॒ ॥
य उ॒दान॒ड्व्यय॑नं॒ य उ॒दान॑ट् प॒राय॑णं । आ॒वर्त॑नं नि॒वर्त॑न॒मपि॑ गो॒पा नि व॑र्ततां ॥
यः , उ॒त्ऽआन॑ट् , वि॒ऽअय॑नं , यः , उ॒त्ऽआन॑ट् , प॒रा॒ऽअय॑नं । आ॒ऽवर्त॑नं , नि॒ऽवर्त॑नं , अपि॑ , गो॒पाः , नि , व॒र्त॒तां॒ ॥
आ नि॑वर्त॒ नि व॑र्तय॒ पुन॑र्न इंद्र॒ गा दे॑हि । जी॒वाभि॑र्भुनजामहै ॥
आ , नि॒ऽव॒र्त॒ , नि , व॒र्त॒य॒ , पुनः॑ , नः॒ , इं॒द्र॒ , गाः , दे॒हि॒ । जी॒वाभिः॑ , भु॒न॒जा॒म॒है॒ ॥
परि॑ वो वि॒श्वतो॑ दध ऊ॒र्जा घृ॒तेन॒ पय॑सा । ये दे॒वाः के च॑ य॒ज्ञिया॒स्ते र॒य्या सं सृ॑जंतु नः ॥
परि॑ , वः॒ , वि॒श्वतः॑ , द॒धे॒ , ऊ॒र्जा , घृ॒तेन॑ , पय॑सा । ये , दे॒वाः , के , च॒ , य॒ज्ञियाः॑ , ते , र॒य्या , सं , सृ॒जं॒तु॒ , नः॒ ॥
आ नि॑वर्तन वर्तय॒ नि नि॑वर्तन वर्तय । भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभ्य॑ एना॒ नि व॑र्तय ॥
आ , नि॒ऽव॒र्त॒न॒ , व॒र्त॒य॒ , नि , नि॒ऽव॒र्त॒न॒ , व॒र्त॒य॒ । भूम्याः॑ , चत॑स्रः , प्र॒ऽदिशः॑ , ताभ्यः॑ , ए॒नाः॒ , नि , व॒र्त॒य॒ ॥
[२०] भद्रमिति दशर्चस्य सूक्तस्यैंद्रो विमदोग्निर्गायत्री आद्यैकपदाविराट् द्वितीयानुष्टुबंत्येविराट् त्रिष्टुभौ (भद्रंनःप्रभृति सप्तसूक्तेषु य एंद्रोविमदः सप्राजापत्योर्वैकल्पिकः किंचवासुक्रोवसुकृद्वा) |
भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑ ॥
भ॒द्रं , नः॒ , अपि॑ , वा॒त॒य॒ , मनः॑ ॥ ।
अ॒ग्निमी॑ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी॑तुं । यस्य॒ धर्मं॒त्स्व१॒॑रेनीः॑ सप॒र्यंति॑ मा॒तुरूधः॑ ॥
अ॒ग्निं , ई॒ळे॒ , भु॒जां , यवि॑ष्ठं , शा॒सा , मि॒त्रं , दुः॒ऽधरी॑तुं । यस्य॑ , धर्म॑न् , स्वः॑ , एनीः॑ , स॒प॒र्यंति॑ , मा॒तुः , ऊधः॑ ॥
यमा॒सा कृ॒पनी॑ळं भा॒साके॑तुं व॒र्धयं॑ति । भ्राज॑ते॒ श्रेणि॑दन् ॥
यं , आ॒सा , कृ॒पऽनी॑ळं , भा॒साऽके॑तुं , व॒र्धयं॑ति । भ्राज॑ते , श्रेणि॑ऽदन् ॥
अ॒र्यो वि॒शां गा॒तुरे॑ति॒ प्र यदान॑ड्दि॒वो अंता॑न् । क॒विर॒भ्रं दीद्या॑नः ॥
अ॒र्यः , वि॒शां , गा॒तुः , ए॒ति॒ , प्र , यत् , आन॑ट् , दि॒वः , अंता॑न् । क॒विः , अ॒भ्रं , दीद्या॑नः ॥
जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा॑ य॒ज्ञे । मि॒न्वंत्सद्म॑ पु॒र ए॑ति ॥
जु॒षत् , ह॒व्या , मानु॑षस्य , ऊ॒र्ध्वः , त॒स्थौ॒ , ऋभ्वा॑ , य॒ज्ञे । मि॒न्वन् , सद्म॑ , पु॒रः , ए॒ति॒ ॥
स हि क्षेमो॑ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे॑ति । अ॒ग्निं दे॒वा वाशी॑मंतं ॥
सः , हि , क्षेमः॑ , ह॒विः , य॒ज्ञः , श्रु॒ष्टी , इत् , अ॒स्य॒ , गा॒तुः , ए॒ति॒ । अ॒ग्निं , दे॒वाः , वाशी॑ऽमंतं ॥
य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य । अद्रेः॑ सू॒नुमा॒युमा॑हुः ॥
य॒ज्ञ॒ऽसहं॑ , दुवः॑ , इ॒षे॒ , अ॒ग्निं , पूर्व॑स्य , शेव॑स्य । अद्रेः॑ , सू॒नुं , आ॒युं , आ॒हुः॒ ॥
नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्युः॑ । अ॒ग्निं ह॒विषा॒ वर्धं॑तः ॥
नरः॑ , ये , के , च॒ , अ॒स्मत् , आ , विश्वा॑ , इत् , ते , वा॒मे , आ , स्यु॒रिति॑ स्युः । अ॒ग्निं , ह॒विषा॑ , वर्धं॑तः ॥
कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् । हिर॑ण्यरूपं॒ जनि॑ता जजान ॥
कृ॒ष्णः , श्वे॒तः , अ॒रु॒षः , यामः॑ , अ॒स्य॒ , ब्र॒ध्नः , ऋ॒ज्रः , उ॒त , शोणः॑ , यश॑स्वान् । हिर॑ण्यऽरूपं , जनि॑ता , ज॒जा॒न॒ ॥
ए॒वा ते॑ अग्ने विम॒दो म॑नी॒षामूर्जो॑ नपाद॒मृते॑भिः स॒जोषाः॑ । गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥
ए॒व , ते॒ , अ॒ग्ने॒ , वि॒ऽम॒दः , म॒नी॒षां , ऊर्जः॑ , न॒पा॒त् , अ॒मृते॑भिः , स॒ऽजोषाः॑ । गिरः॑ , आ , व॒क्ष॒त् , सु॒ऽम॒तीः , इ॒या॒नः , इषं॑ , ऊर्जं॑ , सु॒ऽक्षि॒तिं , विश्वं॑ , आ , अ॒भा॒रित्य॑भाः ॥
[२१] आग्निंनेत्यष्टर्चस्य सूक्तस्यैंद्रो विमदोग्निरास्तारपंक्तिः |
आग्निं न स्ववृ॑क्तिभि॒र्होता॑रं त्वा वृणीमहे । य॒ज्ञाय॑ स्ती॒र्णब॑र्हिषे॒ वि वो॒ मदे॑ शी॒रं पा॑व॒कशो॑चिषं॒ विव॑क्षसे ॥
आ , अ॒ग्निं , न , स्ववृ॑क्तिऽभिः , होता॑रं , त्वा॒ , वृ॒णी॒म॒हे॒ । य॒ज्ञाय॑ , स्ती॒र्णऽब॑र्हिषे , वि , वः॒ , मदे॑ , शी॒रं , पा॒व॒कऽशो॑चिषं , विव॑क्षसे ॥
त्वामु॒ ते स्वा॒भुवः॑ शुं॒भंत्यश्व॑राधसः । वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी॑तिरग्न॒ आहु॑ति॒र्विव॑क्षसे ॥
त्वां , ऊँ॒ इति॑ , ते , सु॒ऽआ॒भुवः॑ , शुं॒भंति॑ , अश्व॑ऽराधसः । वेति॑ , त्वां , उ॒प॒ऽसेच॑नी , वि , वः॒ , मदे॑ , ऋजी॑तिः , अ॒ग्ने॒ , आऽहु॑तिः , विव॑क्षसे ॥
त्वे ध॒र्माण॑ आसते जु॒हूभिः॑ सिंच॒तीरि॑व । कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒ अधि॒ श्रियो॑ धिषे॒ विव॑क्षसे ॥
त्वे इति॑ , ध॒र्माणः॑ , आ॒स॒ते॒ , जु॒हूभिः॑ , सिं॒च॒तीःऽइ॑व । कृ॒ष्णा , रू॒पाणि॑ , अर्जु॑ना , वि , वः॒ , मदे॑ , विश्वाः॑ , अधि॑ , श्रियः॑ , धि॒षे॒ , विव॑क्षसे ॥
यम॑ग्ने॒ मन्य॑से र॒यिं सह॑सावन्नमर्त्य । तमा नो॒ वाज॑सातये॒ वि वो॒ मदे॑ य॒ज्ञेषु॑ चि॒त्रमा भ॑रा॒ विव॑क्षसे ॥
यं , अ॒ग्ने॒ , मन्य॑से , र॒यिं , सह॑साऽवन् , अ॒म॒र्त्य॒ । तं , आ , नः॒ , वाज॑ऽसातये , वि , वः॒ , मदे॑ , य॒ज्ञेषु॑ , चि॒त्रं , आ , भ॒र॒ , विव॑क्षसे ॥
अ॒ग्निर्जा॒तो अथ॑र्वणा वि॒दद्विश्वा॑नि॒ काव्या॑ । भुव॑द्दू॒तो वि॒वस्व॑तो॒ वि वो॒ मदे॑ प्रि॒यो य॒मस्य॒ काम्यो॒ विव॑क्षसे ॥
अ॒ग्निः , जा॒तः , अथ॑र्वणा , वि॒दत् , विश्वा॑नि , काव्या॑ । भुव॑त् , दू॒तः , वि॒वस्व॑तः , वि , वः॒ , मदे॑ , प्रि॒यः , य॒मस्य॑ , काम्यः॑ , विव॑क्षसे ॥
त्वां य॒ज्ञेष्वी॑ळ॒तेऽग्ने॑ प्रय॒त्य॑ध्व॒रे । त्वं वसू॑नि॒ काम्या॒ वि वो॒ मदे॒ विश्वा॑ दधासि दा॒शुषे॒ विव॑क्षसे ॥
त्वां , य॒ज्ञेषु॑ , ई॒ळ॒ते॒ , अग्ने॑ , प्र॒ऽय॒ति , अ॒ध्व॒रे । त्वं , वसू॑नि , काम्या॑ , वि , वः॒ , मदे॑ , विश्वा॑ , द॒धा॒सि॒ , दा॒शुषे॑ , विव॑क्षसे ॥
त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे॑दिरे । घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे॑ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे ॥
त्वां , य॒ज्ञेषु॑ , ऋ॒त्विजं॑ , चारुं॑ , अ॒ग्ने॒ , नि , से॒दि॒रे॒ । घृ॒तऽप्र॑तीकं , मनु॑षः , वि , वः॒ , मदे॑ , शु॒क्रं , चेति॑ष्ठं , अ॒क्षऽभिः॑ , विव॑क्षसे ॥
अग्ने॑ शु॒क्रेण॑ शो॒चिषो॒रु प्र॑थयसे बृ॒हत् । अ॒भि॒क्रंद॑न्वृषायसे॒ वि वो॒ मदे॒ गर्भं॑ दधासि जा॒मिषु॒ विव॑क्षसे ॥
अग्ने॑ , शु॒क्रेण॑ , शो॒चिषा॑ , उ॒रु , प्र॒थ॒य॒से॒ , बृ॒हत् । अ॒भि॒ऽक्रंद॑न् , वृ॒ष॒ऽय॒से॒ , वि , वः॒ , मदे॑ , गर्भं॑ , द॒धा॒सि॒ , जा॒मिषु॑ , विव॑क्षसे ॥
[२२] कुहश्रुतइति पंचदशर्चस्य सूक्तस्यैंद्रोविमदइंद्रः पुरस्ताद्बहती पंचमी सप्तमी नवम्योनुष्टुभोंत्यात्रिष्टुप् |
कुह॑ श्रु॒त इंद्रः॒ कस्मि॑न्न॒द्य जने॑ मि॒त्रो न श्रू॑यते । ऋषी॑णां वा॒ यः क्षये॒ गुहा॑ वा॒ चर्कृ॑षे गि॒रा ॥
कुह॑ , श्रु॒तः , इंद्रः॑ , कस्मि॑न् , अ॒द्य , जने॑ , मि॒त्रः , न , श्रू॒य॒ते॒ । ऋषी॑णां , वा॒ , यः , क्षये॑ , गुहा॑ , वा॒ , चर्कृ॑षे , गि॒रा ॥
इ॒ह श्रु॒त इंद्रो॑ अ॒स्मे अ॒द्य स्तवे॑ व॒ज्र्यृची॑षमः । मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे असा॒म्या ॥
इ॒ह , श्रु॒तः , इंद्रः॑ , अ॒स्मे इति॑ , अ॒द्य , स्तवे॑ , व॒ज्री , ऋची॑षमः । मि॒त्रः , न , यः , जने॑षु , आ , यशः॑ , च॒क्रे , असा॑मि , आ ॥
म॒हो यस्पतिः॒ शव॑सो॒ असा॒म्या म॒हो नृ॒म्णस्य॑ तूतु॒जिः । भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यं ॥
म॒हः , यः , पतिः॑ , शव॑सः , असा॑मि , आ , म॒हः , नृ॒म्णस्य॑ , तू॒तु॒जिः । भ॒र्ता , वज्र॑स्य , धृ॒ष्णोः , पि॒ता , पु॒त्रंऽइ॑व , प्रि॒यं ॥
यु॒जा॒नो अश्वा॒ वात॑स्य॒ धुनी॑ दे॒वो दे॒वस्य॑ वज्रिवः । स्यंता॑ प॒था वि॒रुक्म॑ता सृजा॒नः स्तो॒ष्यध्व॑नः ॥
यु॒जा॒नः , अश्वा॑ , वात॑स्य , धुनी॒ इति॑ , दे॒वः , दे॒वस्य॑ , व॒ज्रि॒ऽवः॒ । स्यंता॑ , प॒था , वि॒रुक्म॑ता , सृ॒जा॒नः , स्तो॒षि॒ , अध्व॑नः ॥
त्वं त्या चि॒द्वात॒स्याश्वागा॑ ऋ॒ज्रा त्मना॒ वह॑ध्यै । ययो॑र्दे॒वो न मर्त्यो॑ यं॒ता नकि॑र्वि॒दाय्यः॑ ॥
त्वं , त्या , चि॒त् , वात॑स्य , अश्वा॑ , आ , अ॒गाः॒ , ऋ॒ज्रा , त्मना॑ , वह॑ध्यै । ययोः॑ , दे॒वः , न , मर्त्यः॑ , यं॒ता , नकिः॑ , वि॒दाय्यः॑ ॥
अध॒ ग्मंतो॒शना॑ पृच्छते वां॒ कद॑र्था न॒ आ गृ॒हं । आ ज॑ग्मथुः परा॒काद्दि॒वश्च॒ ग्मश्च॒ मर्त्यं॑ ॥
अध॑ , ग्मंता॑ , उ॒शना॑ , पृ॒च्छ॒ते॒ , वां॒ , कत्ऽअ॑र्था , नः॒ , आ , गृ॒हं । आ , ज॒ग्म॒थुः॒ , प॒रा॒कात् , दि॒वः , च॒ , ग्मः , च॒ , मर्त्यं॑ ॥
आ न॑ इंद्र पृक्षसे॒ऽस्माकं॒ ब्रह्मोद्य॑तं । तत्त्वा॑ याचाम॒हेऽवः॒ शुष्णं॒ यद्धन्नमा॑नुषं ॥
आ , नः॒ , इं॒द्र॒ , पृ॒क्ष॒से॒ , अ॒स्माकं॑ , ब्रह्म॑ , उत्ऽय॑तं । तत् , त्वा॒ , या॒चा॒म॒हे॒ , अवः॑ , शुष्णं॑ , यत् , हन् , अमा॑नुषं ॥
अ॒क॒र्मा दस्यु॑र॒भि नो॑ अमं॒तुर॒न्यव्र॑तो॒ अमा॑नुषः । त्वं तस्या॑मित्रह॒न्वध॑र्दा॒सस्य॑ दंभय ॥
अ॒क॒र्मा , दस्युः॑ , अ॒भि , नः॒ , अ॒मं॒तुः , अ॒न्यऽव्र॑तः , अमा॑नुषः । त्वं , तस्य॑ , अ॒मि॒त्र॒ऽह॒न् , वधः॑ , दा॒सस्य॑ , दं॒भ॒य॒ ॥
त्वं न॑ इंद्र शूर॒ शूरै॑रु॒त त्वोता॑सो ब॒र्हणा॑ । पु॒रु॒त्रा ते॒ वि पू॒र्तयो॒ नवं॑त क्षो॒णयो॑ यथा ॥
त्वं , नः॒ , इं॒द्र॒ , शू॒र॒ , शूरैः॑ , उ॒त , त्वाऽऊ॑तासः , ब॒र्हणा॑ । पु॒रु॒ऽत्रा , ते॒ , वि , पू॒र्तयः॑ , नवं॑त , क्षो॒णयः॑ , य॒था॒ ॥
त्वं तान्वृ॑त्र॒हत्ये॑ चोदयो॒ नॄन्का॑र्पा॒णे शू॑र वज्रिवः । गुहा॒ यदी॑ कवी॒नां वि॒शां नक्ष॑त्रशवसां ॥
त्वं , तान् , वृ॒त्र॒ऽहत्ये॑ , चो॒द॒यः॒ , नॄन् , का॒र्पा॒णे , शू॒र॒ , व॒ज्रि॒ऽवः॒ । गुहा॑ , यदि॑ , क॒वी॒नां , वि॒शां , नक्ष॑त्रऽशवसां ॥
म॒क्षू ता त॑ इंद्र दा॒नाप्न॑स आक्षा॒णे शू॑र वज्रिवः । यद्ध॒ शुष्ण॑स्य दं॒भयो॑ जा॒तं विश्वं॑ स॒याव॑भिः ॥
म॒क्षु , ता , ते॒ , इं॒द्र॒ , दा॒नऽअ॑प्नसः , आ॒क्षा॒णे , शू॒र॒ , व॒ज्रि॒ऽवः॒ । यत् , ह॒ , शुष्ण॑स्य , दं॒भयः॑ , जा॒तं , विश्वं॑ , स॒याव॑ऽभिः ॥
माकु॒ध्र्य॑गिंद्र शूर॒ वस्वी॑र॒स्मे भू॑वन्न॒भिष्ट॑यः । व॒यंव॑यं त आसां सु॒म्ने स्या॑म वज्रिवः ॥
मा , अ॒कु॒ध्र्य॑क् , इं॒द्र॒ , शू॒र॒ , वस्वीः॑ , अ॒स्मे इति॑ , भू॒व॒न् , अ॒भिष्ट॑यः । व॒यंऽव॑यं , ते॒ , आ॒सां॒ , सु॒म्ने , स्या॒म॒ , व॒ज्रि॒ऽवः॒ ॥
अ॒स्मे ता त॑ इंद्र संतु स॒त्याहिं॑संतीरुप॒स्पृशः॑ । वि॒द्याम॒ यासां॒ भुजो॑ धेनू॒नां न व॑ज्रिवः ॥
अ॒स्मे इति॑ , ता , ते॒ , इं॒द्र॒ , सं॒तु॒ , स॒त्या , अहिं॑संतीः , उ॒प॒ऽस्पृषः॑ । वि॒द्याम॑ , यासां॑ , भुजः॑ , धे॒नू॒नां , न , व॒ज्रि॒ऽवः॒ ॥
अ॒ह॒स्ता यद॒पदी॒ वर्ध॑त॒ क्षाः शची॑भिर्वे॒द्यानां॑ । शुष्णं॒ परि॑ प्रदक्षि॒णिद्वि॒श्वाय॑वे॒ नि शि॑श्नथः ॥
अ॒ह॒स्ता , यत् , अ॒पदी॑ , वर्ध॑त , क्षाः , शची॑भिः , वे॒द्यानां॑ । शुष्णं॑ , परि॑ , प्र॒ऽद॒क्षि॒णित् , वि॒श्वऽआ॑यवे , नि , शि॒श्न॒थः॒ ॥
पिबा॑पि॒बेदिं॑द्र शूर॒ सोमं॒ मा रि॑षण्यो वसवान॒ वसुः॒ सन् । उ॒त त्रा॑यस्व गृण॒तो म॒घोनो॑ म॒हश्च॑ रा॒यो रे॒वत॑स्कृधी नः ॥
पिब॑ऽपिब , इत् , इं॒द्र॒ , शू॒र॒ , सोमं॑ , मा , रि॒ष॒ण्यः॒ , व॒स॒वा॒न॒ , वसुः॑ , सन् । उ॒त , त्रा॒य॒स्व॒ , गृ॒ण॒तः , म॒घोनः॑ , म॒हः , च॒ , रा॒यः , रे॒वतः॑ , कृ॒धि॒ , नः॒ ॥
[२३] यजामहइति सप्तर्चस्य सूक्तस्यैंद्रो विमदइंद्रोजगत्याद्यांत्येत्रिष्टुभौ पंचम्यभिसारिणी |
यजा॑मह॒ इंद्रं॒ वज्र॑दक्षिणं॒ हरी॑णां र॒थ्यं१॒॑ विव्र॑तानां । प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा॑ भू॒द्वि सेना॑भि॒र्दय॑मानो॒ वि राध॑सा ॥
यजा॑महे , इंद्रं॑ , वज्र॑ऽदक्षिणं , हरी॑नां , र॒थ्यं॑ , विऽव्र॑तानां । प्र , श्मश्रु॑ , दोधु॑वत् , ऊ॒र्ध्वऽथा॑ , भू॒त् , वि , सेना॑भिः , दय॑मानः , वि , राध॑सा ॥
हरी॒ न्व॑स्य॒ या वने॑ वि॒दे वस्विंद्रो॑ म॒घैर्म॒घवा॑ वृत्र॒हा भु॑वत् । ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ॥
हरी॒ इति॑ , नु , अ॒स्य॒ , या , वने॑ , वि॒दे , वसु॑ , इंद्रः॑ , म॒घैः , म॒घऽवा॑ , वृ॒त्र॒ऽहा , भु॒व॒त् । ऋ॒भुः , वाजः॑ , ऋ॒भु॒क्षाः , प॒त्य॒ते॒ , शवः॑ , अव॑ , क्ष्णौ॒मि॒ , दास॑स्य , नाम॑ , चि॒त् ॥
य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभिः॑ । आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इंद्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पतिः॑ ॥
य॒दा , वज्रं॑ , हिर॑ण्यं , इत् , अथ॑ , रथं॑ , हरी॒ इति॑ , यं , अ॒स्य॒ , वह॑तः , वि , सू॒रिऽभिः॑ । आ , ति॒ष्ठ॒ति॒ , म॒घऽवा॑ , सन॑ऽश्रुतः , इंद्रः॑ , वाज॑स्य , दी॒र्घऽश्र॑वसः , पतिः॑ ॥
सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॒॑ स्वा सचाँ॒ इंद्रः॒ श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते । अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वनं॑ ॥
सो इति॑ , चि॒त् , नु , वृ॒ष्टिः , यू॒थ्या॑ , स्वा , सचा॑ , इंद्रः॑ , श्मश्रू॑णि , हरि॑ता , अ॒भि , प्रु॒ष्णु॒ते॒ । अव॑ , वे॒ति॒ , सु॒ऽक्षयं॑ , सु॒ते , मधु॑ , उत् , इत् , धू॒नो॒ति॒ , वातः॑ , यथा॑ , वनं॑ ॥
यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ । तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ॥
यः , वा॒चा , विऽवा॑चः , मृ॒ध्रऽवा॑चः , पु॒रु , स॒हस्रा॑ , अशि॑वा , ज॒घान॑ । तत्ऽत॑त् , इत् , अ॒स्य॒ , पौंस्यं॑ , गृ॒णी॒म॒सि॒ , पि॒ताऽइ॑व , यः , तवि॑षीं , व॒वृ॒धे , शवः॑ ॥
स्तोमं॑ त इंद्र विम॒दा अ॑जीजन॒न्नपू॑र्व्यं पुरु॒तमं॑ सु॒दान॑वे । वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ॥
स्तोमं॑ , ते॒ , इं॒द्र॒ , वि॒ऽम॒दाः , अ॒जी॒ज॒न॒न् , अपू॑र्व्यं , पु॒रु॒ऽतमं॑ , सु॒ऽदान॑वे । वि॒द्म , हि , अ॒स्य॒ , भोज॑नं , इ॒नस्य॑ , यत् , आ , प॒शुं , न , गो॒पाः , क॒रा॒म॒हे॒ ॥
माकि॑र्न ए॒ना स॒ख्या वि यौ॑षु॒स्तव॑ चेंद्र विम॒दस्य॑ च॒ ऋषेः॑ । वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते॑ संतु स॒ख्या शि॒वानि॑ ॥
माकिः॑ , नः॒ , ए॒ना , स॒ख्या , वि , यौ॒षुः॒ , तव॑ , च॒ , इं॒द्र॒ , वि॒ऽम॒दस्य॑ , च॒ , ऋषेः॑ । वि॒द्म , हि , ते॒ , प्रऽम॑तिं , दे॒व॒ , जा॒मि॒ऽवत् , अ॒स्मे इति॑ , ते॒ , सं॒तु॒ , स॒ख्या , शि॒वानि॑ ॥
[२४] इंद्रसोममिति षडृचस्य सूक्तस्यैंद्रो विमदइंद्रोंत्यस्तिसृणामश्विनावास्तारपंक्तिः अंत्यास्तिस्रोनुष्टुभः |
इंद्र॒ सोम॑मि॒मं पि॑ब॒ मधु॑मंतं च॒मू सु॒तं । अ॒स्मे र॒यिं नि धा॑रय॒ वि वो॒ मदे॑ सह॒स्रिणं॑ पुरूवसो॒ विव॑क्षसे ॥
इंद्र॑ , सोमं॑ , इ॒मं , पि॒ब॒ , मधु॑ऽमंतं , च॒मू इति॑ , सु॒तं । अ॒स्मे इति॑ , र॒यिं , नि , धा॒र॒य॒ , वि , वः॒ , मदे॑ , स॒ह॒स्रिणं॑ , पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो , विव॑क्षसे ॥
त्वां य॒ज्ञेभि॑रु॒क्थैरुप॑ ह॒व्येभि॑रीमहे । शची॑पते शचीनां॒ वि वो॒ मदे॒ श्रेष्ठं॑ नो धेहि॒ वार्यं॒ विव॑क्षसे ॥
त्वां , य॒ज्ञेभिः॑ , उ॒क्थैः , उप॑ , ह॒व्येभिः॑ , ई॒म॒हे॒ । शची॑ऽपते , श॒ची॒नां॒ , वि , वः॒ , मदे॑ , श्रेष्ठं॑ , नः॒ , धे॒हि॒ , वार्यं॑ , विव॑क्षसे ॥
यस्पति॒र्वार्या॑णा॒मसि॑ र॒ध्रस्य॑ चोदि॒ता । इंद्र॑ स्तोतॄ॒णाम॑वि॒ता वि वो॒ मदे॑ द्वि॒षो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ॥
यः , पतिः॑ , वार्या॑णां , असि॑ , र॒ध्रस्य॑ , चो॒दि॒ता । इंद्र॑ , स्तो॒तॄ॒णां , अ॒वि॒ता , वि , वः॒ , मदे॑ , द्वि॒षः , नः॒ , पा॒हि॒ , अंह॑सः , विव॑क्षसे ॥
यु॒वं श॑क्रा माया॒विना॑ समी॒ची निर॑मंथतं । वि॒म॒देन॒ यदी॑ळि॒ता नास॑त्या नि॒रमं॑थतं ॥
यु॒वं , श॒क्रा॒ , मा॒या॒ऽविना॑ , स॒मी॒ची इति॑ सं॒ऽई॒ची , निः , अ॒मं॒थ॒तं॒ । वि॒ऽम॒देन॑ , यत् , ई॒ळि॒ता , नास॑त्या , निः॒ऽअमं॑थतं ॥
विश्वे॑ दे॒वा अ॑कृपंत समी॒च्योर्नि॒ष्पतं॑त्योः । नास॑त्यावब्रुवंदे॒वाः पुन॒रा व॑हता॒दिति॑ ॥
विश्वे॑ , दे॒वाः , अ॒कृ॒पं॒त॒ , सं॒ऽई॒च्योः , निः॒ऽपतं॑त्योः । नास॑त्यौ , अ॒ब्रु॒व॒न् , दे॒वाः , पुनः॑ , आ , व॒ह॒ता॒त् , इति॑ ॥
मधु॑मन्मे प॒राय॑णं॒ मधु॑म॒त्पुन॒राय॑नं । ता नो॑ देवा दे॒वत॑या यु॒वं मधु॑मतस्कृतं ॥
मधु॑ऽमत् , मे॒ , प॒रा॒ऽअय॑नं , मधु॑ऽमत् , पुनः॑ , आ॒ऽअय॑नं । ता , नः॒ , दे॒वा॒ , दे॒वत॑या , यु॒वं , मधु॑ऽमतः , कृ॒तं॒ ॥
[२५] भद्रमित्येकादशर्चस्य सूक्तस्यैंद्रोविमदः सोमआस्तारपंक्तिः |
भ॒द्रं नो॒ अपि॑ वातय॒ मनो॒ दक्ष॑मु॒त क्रतुं॑ । अधा॑ ते स॒ख्ये अंध॑सो॒ वि वो॒ मदे॒ रण॒न्गावो॒ न यव॑से॒ विव॑क्षसे ॥
भ॒द्रं , नः॒ , अपि॑ , वा॒त॒य॒ , मनः॑ , दक्षं॑ , उ॒त , क्रतुं॑ । अध॑ , ते॒ , स॒ख्ये , अंध॑सः , वि , वः॒ , मदे॑ , रण॑न् , गावः॑ , न , यव॑से , विव॑क्षसे ॥
हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे॑षु सोम॒ धाम॑सु । अधा॒ कामा॑ इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठंते वसू॒यवो॒ विव॑क्षसे ॥
हृ॒दि॒ऽस्पृशः॑ , ते॒ , आ॒स॒ते॒ , विश्वे॑षु , सो॒म॒ , धाम॑ऽसु । अध॑ , कामाः॑ , इ॒मे , मम॑ , वि , वः॒ , मदे॑ , वि , ति॒ष्ठं॒ते॒ , व॒सु॒ऽयवः॑ , विव॑क्षसे ॥
उ॒त व्र॒तानि॑ सोम ते॒ प्राहं मि॑नामि पा॒क्या॑ । अधा॑ पि॒तेव॑ सू॒नवे॒ वि वो॒ मदे॑ मृ॒ळा नो॑ अ॒भि चि॑द्व॒धाद्विव॑क्षसे ॥
उ॒त , व्र॒तानि॑ , सो॒म॒ , ते॒ , प्र , अ॒हं , मि॒ना॒मि॒ , पा॒क्या॑ । अध॑ , पि॒ताऽइ॑व , सू॒नवे॑ , वि , वः॒ , मदे॑ , मृ॒ळ , नः॒ , अ॒भि , चि॒त् , व॒धात् , विव॑क्षसे ॥
समु॒ प्र यं॑ति धी॒तयः॒ सर्गा॑सोऽव॒ताँ इ॑व । क्रतुं॑ नः सोम जी॒वसे॒ वि वो॒ मदे॑ धा॒रया॑ चम॒साँ इ॑व॒ विव॑क्षसे ॥
सं , ऊँ॒ इति॑ , प्र , यं॒ति॒ , धी॒तयः॑ , सर्गा॑सः , अ॒व॒तान्ऽइ॑व । क्रतुं॑ , नः॒ , सो॒म॒ , जी॒वसे॑ , वि , वः॒ , मदे॑ , धा॒रय॑ , च॒म॒सान्ऽइ॑व , विव॑क्षसे ॥
तव॒ त्ये सो॑म॒ शक्ति॑भि॒र्निका॑मासो॒ व्यृ॑ण्विरे । गृत्स॑स्य॒ धीरा॑स्त॒वसो॒ वि वो॒ मदे॑ व्र॒जं गोमं॑तम॒श्विनं॒ विव॑क्षसे ॥
तव॑ , त्ये , सो॒म॒ , शक्ति॑ऽभिः , निऽका॑मासः , वि , ऋ॒ण्वि॒रे॒ । गृत्स॑स्य , धीराः॑ , त॒वसः॑ , वि , वः॒ , मदे॑ , व्र॒जं , गोऽमं॑तं , अ॒श्विनं॑ , विव॑क्षसे ॥
प॒शुं नः॑ सोम रक्षसि पुरु॒त्रा विष्ठि॑तं॒ जग॑त् । स॒माकृ॑णोषि जी॒वसे॒ वि वो॒ मदे॒ विश्वा॑ सं॒पश्य॒न्भुव॑ना॒ विव॑क्षसे ॥
प॒शुं , नः॒ , सो॒म॒ , र॒क्ष॒सि॒ , पु॒रु॒ऽत्रा , विऽस्थि॑तं , जग॑त् । सं॒ऽआकृ॑णोषि , जी॒वसे॑ , वि , वः॒ , मदे॑ , विश्वा॑ , सं॒ऽपश्य॑न् , भुव॑ना , विव॑क्षसे ॥
त्वं नः॑ सोम वि॒श्वतो॑ गो॒पा अदा॑भ्यो भव । सेध॑ राज॒न्नप॒ स्रिधो॒ वि वो॒ मदे॒ मा नो॑ दुः॒शंस॑ ईशता॒ विव॑क्षसे ॥
त्वं , नः॒ , सो॒म॒ , वि॒श्वतः॑ , गो॒पाः , अदा॑भ्यः , भ॒व॒ । सेध॑ , रा॒ज॒न् , अप॑ , स्रिधः॑ , वि , वः॒ , मदे॑ , मा , नः॒ , दुः॒ऽशंसः॑ , ई॒श॒त॒ , विव॑क्षसे ॥
त्वं नः॑ सोम सु॒क्रतु॑र्वयो॒धेया॑य जागृहि । क्षे॒त्र॒वित्त॑रो॒ मनु॑षो॒ वि वो॒ मदे॑ द्रु॒हो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ॥
त्वं , नः॒ , सो॒म॒ , सु॒ऽक्रतुः॑ , व॒यः॒ऽधेया॑य , जा॒गृ॒हि॒ । क्षे॒त्र॒वित्ऽत॑रः , मनु॑षः , वि , वः॒ , मदे॑ , द्रु॒हः , नः॒ , पा॒हि॒ , अंह॑सः , विव॑क्षसे ॥
त्वं नो॑ वृत्रहंत॒मेंद्र॑स्येंदो शि॒वः सखा॑ । यत्सीं॒ हवं॑ते समि॒थे वि वो॒ मदे॒ युध्य॑मानास्तो॒कसा॑तौ॒ विव॑क्षसे ॥
त्वं , नः॒ , वृ॒त्र॒ह॒न्ऽत॒म॒ , इंद्र॑स्य , इं॒दो॒ इति॑ , शि॒वः , सखा॑ । यत् , सीं॒ , हवं॑ते , सं॒ऽइ॒थे , वि , वः॒ , मदे॑ , युध्य॑मानाः , तो॒कऽसा॑तौ , विव॑क्षसे ॥
अ॒यं घ॒ स तु॒रो मद॒ इंद्र॑स्य वर्धत प्रि॒यः । अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ मदे॑ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ॥
अ॒यं , घ॒ , सः , तु॒रः , मदः॑ , इंद्र॑स्य , व॒र्ध॒त॒ , प्रि॒यः । अ॒यं , क॒क्षीव॑तः , म॒हः , वि , वः॒ , मदे॑ , म॒तिं , विप्र॑स्य , व॒र्ध॒य॒त् , विव॑क्षसे ॥
अ॒यं विप्रा॑य दा॒शुषे॒ वाजाँ॑ इयर्ति॒ गोम॑तः । अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रांधं श्रो॒णं च॑ तारिष॒द्विव॑क्षसे ॥
अ॒यं , विप्रा॑य , दा॒शुषे॑ , वाजा॑न् , इ॒य॒र्ति॒ , गोऽम॑तः । अ॒यं , स॒प्तऽभ्यः॑ , आ , वरं॑ , वि , वः॒ , मदे॑ , प्र , अं॒धं , श्रो॒णं , च॒ , ता॒रि॒ष॒त् , विव॑क्षसे ॥
[२६] प्रह्यच्छेति नवर्चस्य सूक्तस्यैंद्रो विमदः पूषानुष्टुप् आद्याचतुर्थ्यावुष्णिहौ |
प्र ह्यच्छा॑ मनी॒षाः स्पा॒र्हा यंति॑ नि॒युतः॑ । प्र द॒स्रा नि॒युद्र॑थः पू॒षा अ॑विष्टु॒ माहि॑नः ॥
प्र , हि , अच्छ॑ , म॒नी॒षाः , स्पा॒र्हाः , यंति॑ , नि॒ऽयुतः॑ । प्र , द॒स्रा , नि॒युत्ऽर॑थः , पू॒षा , अ॒वि॒ष्टु॒ , माहि॑नः ॥
यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जनः॑ । विप्र॒ आ वं॑सद्धी॒तिभि॒श्चिके॑त सुष्टुती॒नां ॥
यस्य॑ , त्यत् , म॒हि॒ऽत्वं , वा॒ताप्यं॑ , अ॒यं , जनः॑ । विप्रः॑ , आ , वं॒स॒त् , धी॒तिऽभिः॑ , चिके॑त , सु॒ऽस्तु॒ती॒नां ॥
स वे॑द सुष्टुती॒नामिंदु॒र्न पू॒षा वृषा॑ । अ॒भि प्सुरः॑ प्रुषायति व्र॒जं न॒ आ प्रु॑षायति ॥
सः , वे॒द॒ , सु॒ऽस्तु॒ती॒नां , इंदुः॑ , न , पू॒षा , वृषा॑ । अ॒भि , प्सुरः॑ , प्रु॒षा॒य॒ति॒ , व्र॒जं , नः॒ , आ , प्रु॒षा॒य॒ति॒ ॥
मं॒सी॒महि॑ त्वा व॒यम॒स्माकं॑ देव पूषन् । म॒ती॒नां च॒ साध॑नं॒ विप्रा॑णां चाध॒वं ॥
मं॒सी॒महि॑ , त्वा॒ , व॒यं , अ॒स्माकं॑ , दे॒व॒ , पू॒ष॒न् । म॒ती॒नां , च॒ , साध॑नं , विप्रा॑णां , च॒ , आ॒ऽध॒वं ॥
प्रत्य॑र्धिर्य॒ज्ञाना॑मश्वह॒यो रथा॑नां । ऋषिः॒ स यो मनु॑र्हितो॒ विप्र॑स्य यावयत्स॒खः ॥
प्रति॑ऽअर्धिः , य॒ज्ञानां॑ , अ॒श्व॒ऽह॒यः , रथा॑नां । ऋषिः॑ , सः , यः , मनुः॑ऽहितः , विप्र॑स्य , य॒व॒य॒त्ऽस॒खः ॥
आ॒धीष॑माणायाः॒ पतिः॑ शु॒चाया॑श्च शु॒चस्य॑ च । वा॒सो॒वा॒योऽवी॑ना॒मा वासां॑सि॒ मर्मृ॑जत् ॥
आ॒ऽधीष॑माणायाः , पतिः॑ , शु॒चायाः॑ , च॒ , शु॒चस्य॑ , च॒ । वा॒सः॒ऽवा॒यः , अवी॑नां , आ , वासां॑सि , मर्मृ॑जत् ॥
इ॒नो वाजा॑नां॒ पति॑रि॒नः पु॑ष्टी॒नां सखा॑ । प्र श्मश्रु॑ हर्य॒तो दू॑धो॒द्वि वृथा॒ यो अदा॑भ्यः ॥
इ॒नः , वाजा॑नां , पतिः॑ , इ॒नः , पु॒ष्टी॒नां , सखा॑ । प्र , श्मश्रु॑ , ह॒र्य॒तः , दू॒धो॒त् , वि , वृथा॑ , यः , अदा॑भ्यः ॥
आ ते॒ रथ॑स्य पूषन्न॒जा धुरं॑ ववृत्युः । विश्व॑स्या॒र्थिनः॒ सखा॑ सनो॒जा अन॑पच्युतः ॥
आ , ते॒ , रथ॑स्य , पू॒ष॒न् , अ॒जाः , धुरं॑ , व॒वृ॒त्युः॒ । विश्व॑स्य , अ॒र्थिनः॑ , सखा॑ , स॒नः॒ऽजाः , अन॑पऽच्युतः ॥
अ॒स्माक॑मू॒र्जा रथं॑ पू॒षा अ॑विष्टु॒ माहि॑नः । भुव॒द्वाजा॑नां वृ॒ध इ॒मं नः॑ शृणव॒द्धवं॑ ॥
अ॒स्माकं॑ , ऊ॒र्जा , रथं॑ , पू॒षा , अ॒वि॒ष्टु॒ , माहि॑नः । भुव॑त् , वाजा॑नां , वृ॒धः , इ॒मं , नः॒ , शृ॒ण॒व॒त् , हवं॑ ॥
[२७] असत्स्विति चतुर्विंशत्यृचस्य सूक्तस्यैंद्रोवसुक्रइंद्रस्त्रिष्टुप् |
अस॒त्सु मे॑ जरितः॒ साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्षं॑ । अना॑शीर्दाम॒हम॑स्मि प्रहं॒ता स॑त्य॒ध्वृतं॑ वृजिना॒यंत॑मा॒भुं ॥
अस॑त् , सु , मे॒ , ज॒रि॒त॒रिति॑ , सः , अ॒भि॒ऽवे॒गः , यत् , सु॒न्व॒ते , यज॑मानाय , शिक्षं॑ । अना॑शीःऽदां , अ॒हं , अ॒स्मि॒ , प्र॒ऽहं॒ता , स॒त्य॒ऽध्वृतं॑ , वृ॒जि॒न॒ऽयंतं॑ , आ॒भुं ॥
यदीद॒हं यु॒धये॑ सं॒नया॒न्यदे॑वयूंत॒न्वा॒३॒॑ शूशु॑जानान् । अ॒मा ते॒ तुम्रं॑ वृष॒भं प॑चानि ती॒व्रं सु॒तं पं॑चद॒शं नि षिं॑चं ॥
यदि॑ , इत् , अ॒हं , यु॒धये॑ , सं॒ऽनया॑नि , अदे॑वऽयून् , त॒न्वा॑ , शूशु॑जानान् । अ॒मा , ते॒ , तुम्रं॑ , वृ॒ष॒भं , प॒चा॒नि॒ , ती॒व्रं , सु॒तं , पं॒च॒ऽद॒शं , नि , सिं॒चं॒ ॥
नाहं तं वे॑द॒ य इति॒ ब्रवी॒त्यदे॑वयूंत्स॒मर॑णे जघ॒न्वान् । य॒दावाख्य॑त्स॒मर॑ण॒मृघा॑व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वंति ॥
न , अ॒हं , तं , वे॒द॒ , यः , इति॑ , ब्रवी॑ति , अदे॑वऽयून् , सं॒ऽअर॑णे , ज॒घ॒न्वान् । य॒दा , अ॒व॒ऽअख्य॑त् , सं॒ऽअर॑णं , ऋघा॑वत् , आत् , इत् , ह॒ , मे॒ , वृ॒ष॒भा , प्र , ब्रु॒वं॒ति॒ ॥
यदज्ञा॑तेषु वृ॒जने॒ष्वासं॒ विश्वे॑ स॒तो म॒घवा॑नो म आसन् । जि॒नामि॒ वेत्क्षेम॒ आ संत॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ॥
यत् , अज्ञा॑तेषु , वृ॒जने॑षु , आसं॑ , विश्वे॑ , स॒तः , म॒घऽवा॑नः , मे॒ , आ॒स॒न् । जि॒नामि॑ , वा॒ , इत् , क्षेमे॑ , आ , संतं॑ , आ॒भुं , प्र , तं , क्षि॒णां॒ , पर्व॑ते , पा॒द॒ऽगृह्य॑ ॥
न वा उ॒ मां वृ॒जने॑ वारयंते॒ न पर्व॑तासो॒ यद॒हं म॑न॒स्ये । मम॑ स्व॒नात्कृ॑धु॒कर्णो॑ भयात ए॒वेदनु॒ द्यून्कि॒रणः॒ समे॑जात् ॥
न , वै , ऊँ॒ इति॑ , मां , वृ॒जने॑ , वा॒र॒यं॒ते॒ , न , पर्व॑तासः , यत् , अ॒हं , म॒न॒स्ये । मम॑ , स्व॒नात् , कृ॒धु॒ऽकर्णः॑ , भ॒या॒ते॒ , ए॒व , इत् , अनु॑ , द्यून् , कि॒रणः॑ , सं , ए॒जा॒त् ॥
दर्श॒न्न्वत्र॑ शृत॒पाँ अ॑निं॒द्रान्बा॑हु॒क्षदः॒ शर॑वे॒ पत्य॑मानान् । घृषुं॑ वा॒ ये नि॑नि॒दुः सखा॑य॒मध्यू॒ न्वे॑षु प॒वयो॑ ववृत्युः ॥
दर्श॑न् , नु , अत्र॑ , शृ॒त॒ऽपान् , अ॒निं॒द्रान् , बा॒हु॒ऽक्षदः॑ , शर॑वे , पत्य॑मानान् । घृषुं॑ , वा॒ , ये , नि॒नि॒दुः , सखा॑यं , अधि॑ , ऊँ॒ इति॑ , नु , ए॒षु॒ , प॒वयः॑ , व॒वृ॒त्युः॒ ॥
अभू॒र्वौक्षी॒र्व्यु१॒॑ आयु॑रान॒ड्दर्ष॒न्नु पूर्वो॒ अप॑रो॒ नु द॑र्षत् । द्वे प॒वस्ते॒ परि॒ तं न भू॑तो॒ यो अ॒स्य पा॒रे रज॑सो वि॒वेष॑ ॥
अभूः॑ , ऊँ॒ इति॑ , औक्षीः॑ , वि , ऊँ॒ इति॑ , आयुः॑ , आ॒न॒ट् , दर्ष॑त् , नु , पूर्वः॑ , अप॑रः , नु , द॒र्ष॒त् । द्वे इति॑ , प॒वस्ते॒ इति॑ , परि॑ , तं , न , भू॒तः॒ , यः , अ॒स्य , पा॒रे , रज॑सः , वि॒वेष॑ ॥
गावो॒ यवं॒ प्रयु॑ता अ॒र्यो अ॑क्षं॒ता अ॑पश्यं स॒हगो॑पा॒श्चरं॑तीः । हवा॒ इद॒र्यो अ॒भितः॒ समा॑य॒न्किय॑दासु॒ स्वप॑तिश्छंदयाते ॥
गावः॑ , यवं॑ , प्रऽयु॑ताः , अ॒र्यः , अ॒क्ष॒न् , ताः , अ॒प॒श्यं॒ , स॒हऽगो॑पाः , चरं॑तीः । हवाः॑ , इत् , अ॒र्यः , अ॒भितः॑ , सं , आ॒य॒न् , किय॑त् , आ॒सु॒ , स्वऽप॑तिः , छं॒द॒या॒ते॒ ॥
सं यद्वयं॑ यव॒सादो॒ जना॑नाम॒हं य॒वाद॑ उ॒र्वज्रे॑ अं॒तः । अत्रा॑ यु॒क्तो॑ऽवसा॒तार॑मिच्छा॒दथो॒ अयु॑क्तं युनजद्वव॒न्वान् ॥
सं , यत् , वयं॑ , य॒व॒स॒ऽअदः॑ , जना॑नां , अ॒हं , य॒व॒ऽअदः॑ , उ॒रु॒ऽअज्रे॑ , अं॒तरिति॑ । अत्र॑ , यु॒क्तः , अ॒व॒ऽसा॒तारं॑ , इ॒च्छा॒त् , अथो॒ इति॑ , अयु॑क्तं , यु॒न॒ज॒त् , व॒व॒न्वान् ॥
अत्रेदु॑ मे मंससे स॒त्यमु॒क्तं द्वि॒पाच्च॒ यच्चतु॑ष्पात्संसृ॒जानि॑ । स्त्री॒भिर्यो अत्र॒ वृष॑णं पृत॒न्यादयु॑द्धो अस्य॒ वि भ॑जानि॒ वेदः॑ ॥
अत्र॑ , इत् , ऊँ॒ इति॑ , मे॒ , मं॒स॒से॒ , स॒त्यं , उ॒क्तं , द्वि॒ऽपात् , च॒ , यत् , चतुः॑ऽपात् , सं॒ऽसृ॒जानि॑ । स्त्री॒भिः , यः , अत्र॑ , वृष॑णं , पृ॒त॒न्यात् , अयु॑द्धः , अ॒स्य॒ , वि , भ॒जा॒नि॒ , वेदः॑ ॥
यस्या॑न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ अ॒भि म॑न्याते अं॒धां । क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा॑ते॒ य ईं॑ वा वरे॒यात् ॥
यस्य॑ , अ॒न॒क्षा , दु॒हि॒ता , जातु॑ , आस॑ , कः , तां , वि॒द्वान् , अ॒भि , म॒न्या॒ते॒ , अं॒धां । क॒त॒रः , मे॒निं , प्रति॑ , तं , मु॒चा॒ते॒ , यः , ईं॒ , वहा॑ते , यः , ईं॒ , वा॒ , व॒रे॒ऽयात् ॥
किय॑ती॒ योषा॑ मर्य॒तो व॑धू॒योः परि॑प्रीता॒ पन्य॑सा॒ वार्ये॑ण । भ॒द्रा व॒धूर्भ॑वति॒ यत्सु॒पेशाः॑ स्व॒यं सा मि॒त्रं व॑नुते॒ जने॑ चित् ॥
किय॑ती , योषा॑ , म॒र्य॒तः , व॒धू॒ऽयोः , परि॑ऽप्रीता , पन्य॑सा , वार्ये॑ण । भ॒द्रा , व॒धूः , भ॒व॒ति॒ , यत् , सु॒ऽपेशाः॑ , स्व॒यं , सा , मि॒त्रं , व॒नु॒ते॒ , जने॑ , चि॒त् ॥
प॒त्तो ज॑गार प्र॒त्यंच॑मत्ति शी॒र्ष्णा शिरः॒ प्रति॑ दधौ॒ वरू॑थं । आसी॑न ऊ॒र्ध्वामु॒पसि॑ क्षिणाति॒ न्य॑ङ्ङुत्ता॒नामन्वे॑ति॒ भूमिं॑ ॥
प॒त्तः , ज॒गा॒र॒ , प्र॒त्यंचं॑ , अ॒त्ति॒ , शी॒र्ष्णा , शिरः॑ , प्रति॑ , द॒धौ॒ , वरू॑थं । आसी॑नः , ऊ॒र्ध्वां , उ॒पसि॑ , क्षि॒णा॒ति॒ , न्य॑ङ् , उ॒त्ता॒नां , अनु॑ , ए॒ति॒ , भूमिं॑ ॥
बृ॒हन्न॑च्छा॒यो अ॑पला॒शो अर्वा॑ त॒स्थौ मा॒ता विषि॑तो अत्ति॒ गर्भः॑ । अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूधः॑ ॥
बृ॒हन् , अ॒च्छा॒यः , अ॒प॒ला॒शः , अर्वा॑ , त॒स्थौ , मा॒ता , विऽसि॑तः , अ॒त्ति॒ , गर्भः॑ । अ॒न्यस्याः॑ , व॒त्सं , रि॒ह॒ती , मि॒मा॒य॒ , कया॑ , भु॒वा , नि , द॒धे॒ , धे॒नुः , ऊधः॑ ॥
स॒प्त वी॒रासो॑ अध॒रादुदा॑यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिरं॒ते । नव॑ प॒श्चाता॑त्स्थिवि॒मंत॑ आयं॒दश॒ प्राक्सानु॒ वि ति॑रं॒त्यश्नः॑ ॥
स॒प्त , वी॒रासः॑ , अ॒ध॒रात् , उत् , आ॒य॒न् , अ॒ष्ट , उ॒त्त॒रात्ता॑त् , सं , अ॒ज॒ग्मि॒र॒न् , ते । नव॑ , प॒श्चाता॑त् , स्थि॒वि॒ऽमंतः॑ , आ॒य॒न् , दश॑ , प्राक् , सानु॑ , वि , ति॒रं॒ति॒ , अश्नः॑ ॥
द॒शा॒नामेकं॑ कपि॒लं स॑मा॒नं तं हि॑न्वंति॒ क्रत॑वे॒ पार्या॑य । गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॒स्ववे॑नंतं तु॒षयं॑ती बिभर्ति ॥
द॒शा॒नां , एकं॑ , क॒पि॒लं , स॒मा॒नं , तं , हि॒न्वं॒ति॒ , क्रत॑वे , पार्या॑य । गर्भं॑ , मा॒ता , सुऽधि॑तं , व॒क्षणा॑सु , अवे॑नंतं , तु॒षयं॑ती , बि॒भ॒र्ति॒ ॥
पीवा॑नं मे॒षम॑पचंत वी॒रा न्यु॑प्ता अ॒क्षा अनु॑ दी॒व आ॑सन् । द्वा धनुं॑ बृह॒तीम॒प्स्व१॒॑न्तः प॒वित्र॑वंता चरतः पु॒नंता॑ ॥
पीवा॑नं , मे॒षं , अ॒प॒चं॒त॒ , वी॒राः , निऽउ॑प्ताः , अ॒क्षाः , अनु॑ , दी॒वे , आ॒स॒न् । द्वा , धनुं॑ , बृ॒ह॒तीं , अ॒प्ऽसु , अं॒तरिति॑ , प॒वित्र॑ऽवंता , च॒र॒तः॒ , पु॒नंता॑ ॥
वि क्रो॑श॒नासो॒ विष्वं॑च आय॒न्पचा॑ति॒ नेमो॑ न॒हि पक्ष॑द॒र्धः । अ॒यं मे॑ दे॒वः स॑वि॒ता तदा॑ह॒ द्र्व॑न्न॒ इद्व॑नवत्स॒र्पिर॑न्नः ॥
वि , क्रो॒श॒नासः॑ , विष्वं॑चः , आ॒य॒न् , पचा॑ति , नेमः॑ , न॒हि , पक्ष॑त् , अ॒र्धः । अ॒यं , मे॒ , दे॒वः , स॒वि॒ता , तत् , आ॒ह॒ , द्रुऽअ॑न्नः , इत् , व॒न॒व॒त् , स॒र्पिःऽअ॑न्नः ॥
अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया॑ स्व॒धया॒ वर्त॑मानं । सिष॑क्त्य॒र्यः प्र यु॒गा जना॑नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी॑यान् ॥
अप॑श्यं , ग्रामं॑ , वह॑मानं , आ॒रात् , अ॒च॒क्रया॑ , स्व॒धया॑ , वर्त॑मानं । सिस॑क्ति , अ॒र्यः , प्र , यु॒गा , जना॑नां , स॒द्यः , शि॒श्ना , प्र॒ऽमि॒ना॒नः , नवी॑यान् ॥
ए॒तौ मे॒ गावौ॑ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से॑धी॒र्मुहु॒रिन्म॑मंधि । आप॑श्चिदस्य॒ वि न॑शं॒त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ॥
ए॒तौ , मे॒ , गावौ॑ , प्र॒ऽम॒रस्य॑ , यु॒क्तौ , मो इति॑ , सु , प्र , से॒धीः॒ , मुहुः॑ , इत् , म॒मं॒धि॒ । आपः॑ , चि॒त् , अ॒स्य॒ , वि , न॒शं॒ति॒ , अर्थं॑ , सूरः॑ , च॒ , म॒र्कः , उप॑रः , ब॒भू॒वान् ॥
अ॒यं यो वज्रः॑ पुरु॒धा विवृ॑त्तो॒ऽवः सूर्य॑स्य बृह॒तः पुरी॑षात् । श्रव॒ इदे॒ना प॒रो अ॒न्यद॑स्ति॒ तद॑व्य॒थी ज॑रि॒माण॑स्तरंति ॥
अ॒यं , यः , वज्रः॑ , पु॒रु॒धा , विऽवृ॑त्तः , अ॒वः , सूर्य॑स्य , बृ॒ह॒तः , पुरी॑षात् । श्रवः॑ , इत् , ए॒ना , प॒रः , अ॒न्यत् , अ॒स्ति॒ , तत् , अ॒व्य॒थी , ज॒रि॒माणः॑ , त॒रं॒ति॒ ॥
वृ॒क्षेवृ॑क्षे॒ निय॑ता मीमय॒द्गौस्ततो॒ वयः॒ प्र प॑तान्पूरु॒षादः॑ । अथे॒दं विश्वं॒ भुव॑नं भयात॒ इंद्रा॑य सु॒न्वदृष॑ये च॒ शिक्ष॑त् ॥
वृ॒क्षेऽवृ॑क्षे , निऽय॑ता , मी॒म॒य॒त् , गौः , ततः॑ , वयः॑ , प्र , प॒ता॒न् , पु॒रु॒ष॒ऽअदः॑ । अथ॑ , इ॒दं , विश्वं॑ , भुव॑नं , भ॒या॒ते॒ , इंद्रा॑य , सु॒न्वत् , ऋष॑ये , च॒ , शिक्ष॑त् ॥
दे॒वानां॒ माने॑ प्रथ॒मा अ॑तिष्ठन्कृं॒तत्रा॑देषा॒मुप॑रा॒ उदा॑यन् । त्रय॑स्तपंति पृथि॒वीम॑नू॒पा द्वा बृबू॑कं वहतः॒ पुरी॑षं ॥
दे॒वानां॑ , माने॑ , प्र॒थ॒माः , अ॒ति॒ष्ठ॒न् , कृं॒तत्रा॑त् , ए॒षां॒ , उप॑राः , उत् , आ॒य॒न् । त्रयः॑ , त॒पं॒ति॒ , पृ॒थि॒वीं , अ॒नू॒पाः , द्वा , बृबू॑कं , व॒ह॒तः॒ , पुरी॑षं ॥
सा ते॑ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै॑ता॒दृगप॑ गूहः सम॒र्ये । आ॒विः स्वः॑ कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ॥
सा , ते॒ , जी॒वातुः॑ , उ॒त , तस्य॑ , वि॒द्धि॒ , मा , स्म॒ , ए॒ता॒दृक् , अप॑ , गू॒हः॒ , स॒म॒र्ये । आ॒विः , स्व१॒॑रिति॒ स्वः॑ , कृ॒णु॒ते , गूह॑ते , बु॒सं , सः , पा॒दुः , अ॒स्य॒ , निः॒ऽनिजः॑ , न , मु॒च्य॒ते॒ ॥
[२८] विश्वेहीति द्वादशर्चस्य सूक्तस्य आद्यायाइंद्रस्नुषाऋषिका द्वितीयादिचतुर्थीवर्जानां युजामिंद्रऋषिः चतुर्थीसहितानामयुजांवसुक्रऋषिः चतुर्थीवर्ज्यानांयुजांवसुक्रोदेवता शिष्टानामिंद्रस्त्रिष्टुप् | (अत्रसूक्तेप्रथमर्चींद्रस्नुषार्षत्वे विकल्पं शौनकोमन्यते तत्पक्षे तत्रवसुक्रोविज्ञेयः) |
विश्वो॒ ह्य१॒॑न्यो अ॒रिरा॑ज॒गाम॒ ममेदह॒ श्वशु॑रो॒ ना ज॑गाम । ज॒क्षी॒याद्धा॒ना उ॒त सोमं॑ पपीया॒त्स्वा॑शितः॒ पुन॒रस्तं॑ जगायात् ॥
विश्वः॑ , हि , अ॒न्यः , अ॒रिः , आ॒ऽज॒गाम॑ , मम॑ , इत् , अह॑ , श्वशु॑रः , न , आ , ज॒गा॒म॒ । ज॒क्षी॒यात् , धा॒नाः , उ॒त , सोमं॑ , प॒पी॒या॒त् , सुऽआ॑शितः , पुनः॑ , अस्तं॑ , ज॒गा॒या॒त् ॥
स रोरु॑वद्वृष॒भस्ति॒ग्मशृं॑गो॒ वर्ष्मं॑तस्थौ॒ वरि॑म॒न्ना पृ॑थि॒व्याः । विश्वे॑ष्वेनं वृ॒जने॑षु पामि॒ यो मे॑ कु॒क्षी सु॒तसो॑मः पृ॒णाति॑ ॥
सः , रोरु॑वत् , वृ॒ष॒भः , ति॒ग्मऽशृं॑गः , वर्ष्म॑न् , त॒स्थौ॒ , वरि॑मन् , आ , पृ॒थि॒व्याः । विश्वे॑षु , ए॒नं॒ , वृ॒जने॑षु , पा॒मि॒ , यः , मे॒ , कु॒क्षी इति॑ , सु॒तऽसो॑मः , पृ॒णाति॑ ॥
अद्रि॑णा ते मं॒दिन॑ इंद्र॒ तूयां॑त्सु॒न्वंति॒ सोमा॒न्पिब॑सि॒ त्वमे॑षां । पचं॑ति ते वृष॒भाँ अत्सि॒ तेषां॑ पृ॒क्षेण॒ यन्म॑घवन्हू॒यमा॑नः ॥
अद्रि॑णा , ते॒ , मं॒दिनः॑ , इं॒द्र॒ , तूया॑न् , सु॒न्वंति॑ , सोमा॑न् , पिब॑सि , त्वं , ए॒षां॒ । पचं॑ति , ते॒ , वृ॒ष॒भान् , अत्सि॑ , तेषां॑ , पृ॒क्षेण॑ , यत् , म॒घ॒ऽव॒न् , हू॒यमा॑नः ॥
इ॒दं सु मे॑ जरित॒रा चि॑किद्धि प्रती॒पं शापं॑ न॒द्यो॑ वहंति । लो॒पा॒शः सिं॒हं प्र॒त्यंच॑मत्साः क्रो॒ष्टा व॑रा॒हं निर॑तक्त॒ कक्षा॑त् ॥
इ॒दं , सु , मे॒ , ज॒रि॒तः॒ , आ , चि॒कि॒द्धि॒ , प्र॒ति॒ऽई॒पं , शापं॑ , न॒द्यः॑ , व॒हं॒ति॒ । लो॒पा॒शः , सिं॒हं , प्र॒त्यंचं॑ , अ॒त्सा॒रिति॑ , क्रो॒ष्टा , व॒रा॒हं , निः , अ॒त॒क्त॒ , कक्षा॑त् ॥
क॒था त॑ ए॒तद॒हमा चि॑केतं॒ गृत्स॑स्य॒ पाक॑स्त॒वसो॑ मनी॒षां । त्वं नो॑ वि॒द्वाँ ऋ॑तु॒था वि वो॑चो॒ यमर्धं॑ ते मघवन्क्षे॒म्या धूः ॥
क॒था , ते॒ , ए॒तत् , अ॒हं , आ , चि॒के॒तं॒ , गृत्स॑स्य , पाकः॑ , त॒वसः॑ , म॒नी॒षां । त्वं , नः॒ , वि॒द्वान् , ऋ॒तु॒ऽथा , वि , वो॒चः॒ , यं , अर्धं॑ , ते॒ , म॒घ॒ऽव॒न् , क्षे॒म्या , धूः ॥
ए॒वा हि मां त॒वसं॑ व॒र्धयं॑ति दि॒वश्चि॑न्मे बृह॒त उत्त॑रा॒ धूः । पु॒रू स॒हस्रा॒ नि शि॑शामि सा॒कम॑श॒त्रुं हि मा॒ जनि॑ता ज॒जान॑ ॥
ए॒व , हि , मां , त॒वसं॑ , व॒र्धयं॑ति , दि॒वः , चि॒त् , मे॒ , बृ॒ह॒तः , उत्ऽत॑रा , धूः । पु॒रु , स॒हस्रा॑ , नि , शि॒शा॒मि॒ , सा॒कं , अ॒श॒त्रुं , हि , मा॒ , जनि॑ता , ज॒जान॑ ॥
ए॒वा हि मां त॒वसं॑ ज॒ज्ञुरु॒ग्रं कर्म॑न्कर्म॒न्वृष॑णमिंद्र दे॒वाः । वधीं॑ वृ॒त्रं वज्रे॑ण मंदसा॒नोऽप॑ व्र॒जं म॑हि॒ना दा॒शुषे॑ वं ॥
ए॒व , हि , मां , त॒वसं॑ , ज॒ज्ञुः , उ॒ग्रं , कर्म॑न्ऽकर्मन् , वृष॑णं , इं॒द्र॒ , दे॒वाः । वधीं॑ , वृ॒त्रं , वज्रे॑ण , मं॒द॒सा॒नः , अप॑ , व्र॒जं , म॒हि॒ना , दा॒शुषे॑ , वं॒ ॥
दे॒वास॑ आयन्पर॒शूँर॑बिभ्र॒न्वना॑ वृ॒श्चंतो॑ अ॒भि वि॒ड्भिरा॑यन् । नि सु॒द्र्वं१॒॑ दध॑तो व॒क्षणा॑सु॒ यत्रा॒ कृपी॑ट॒मनु॒ तद्द॑हंति ॥
दे॒वासः॑ , आ॒य॒न् , प॒र॒शून् , अ॒बि॒भ्र॒न् , वना॑ , वृ॒श्चंतः॑ , अ॒भि , वि॒ट्ऽभिः , आ॒य॒न् । नि , सु॒ऽद्र्वं॑ , दध॑तः , व॒क्षणा॑सु , यत्र॑ , कृपी॑टं , अनु॑ , तत् , द॒हं॒ति॒ ॥
श॒शः क्षु॒रं प्र॒त्यंचं॑ जगा॒राद्रिं॑ लो॒गेन॒ व्य॑भेदमा॒रात् । बृ॒हंतं॑ चिदृह॒ते रं॑धयानि॒ वय॑द्व॒त्सो वृ॑ष॒भं शूशु॑वानः ॥
श॒शः , क्षु॒रं , प्र॒त्यंचं॑ , ज॒गा॒र॒ , अद्रिं॑ , लो॒गेन॑ , वि , अ॒भे॒दं॒ , आ॒रात् । बृ॒हंतं॑ , चि॒त् , ऋ॒ह॒ते , रं॒ध॒या॒नि॒ , वय॑त् , व॒त्सः , वृ॒ष॒भं , शूशु॑वानः ॥
सु॒प॒र्ण इ॒त्था न॒खमा सि॑षा॒याव॑रुद्धः परि॒पदं॒ न सिं॒हः । नि॒रु॒द्धश्चि॑न्महि॒षस्त॒र्ष्यावा॑न्गो॒धा तस्मा॑ अ॒यथं॑ कर्षदे॒तत् ॥
सु॒ऽप॒र्णः , इ॒त्था , न॒खं , आ , सि॒सा॒य॒ , अव॑ऽरुद्धः , प॒रि॒ऽपदं॑ , न , सिं॒हः । नि॒ऽरु॒द्धः , चि॒त् , म॒हि॒षः , त॒र्ष्याऽवा॑न् , गो॒धा , तस्मै॑ , अ॒यथं॑ , क॒र्ष॒त् , ए॒तत् ॥
तेभ्यो॑ गो॒धा अ॒यथं॑ कर्षदे॒तद्ये ब्र॒ह्मणः॑ प्रति॒पीयं॒त्यन्नैः॑ । सि॒म उ॒क्ष्णो॑ऽवसृ॒ष्टाँ अ॑दंति स्व॒यं बला॑नि त॒न्वः॑ शृणा॒नाः ॥
तेभ्यः॑ , गो॒धाः , अ॒यथं॑ , क॒र्ष॒त् , ए॒तत् , ये , ब्र॒ह्मणः॑ , प्र॒ति॒ऽपीयं॑ति , अन्नैः॑ । सि॒मः , उ॒क्ष्णः , अ॒व॒ऽसृ॒ष्टान् , अ॒दं॒ति॒ , स्व॒यं , बला॑नि , त॒न्वः॑ , शृ॒णा॒नाः ॥
ए॒ते शमी॑भिः सु॒शमी॑ अभूव॒न्ये हि॑न्वि॒रे त॒न्व१॒॑ः सोम॑ उ॒क्थैः । नृ॒वद्वद॒न्नुप॑ नो माहि॒ वाजां॑दि॒वि श्रवो॑ दधिषे॒ नाम॑ वी॒रः ॥
ए॒ते , शमी॑भिः , सु॒ऽशमी॑ , अ॒भू॒व॒न् , ये , हि॒न्वि॒रे , त॒न्वः॑ , सोमे॑ , उ॒क्थैः । नृ॒ऽवत् , वद॑न् , उप॑ , नः॒ , मा॒हि॒ , वाजा॑न् , दि॒वि , श्रवः॑ , द॒धि॒षे॒ , नाम॑ , वी॒रः ॥
[२९] वनेनेत्यष्टर्चस्य सूक्तस्यैंद्रोवसुक्रइंद्रस्त्रिष्टुप् |
वने॒ न वा॒ यो न्य॑धायि चा॒कंछुचि॑र्वां॒ स्तोमो॑ भुरणावजीगः । यस्येदिंद्रः॑ पुरु॒दिने॑षु॒ होता॑ नृ॒णां नर्यो॒ नृत॑मः क्ष॒पावा॑न् ॥
वने॑ , न , वा॒ , यः , नि , अ॒धा॒यि॒ , चा॒कन् , शुचिः॑ , वां॒ , स्तोमः॑ , भु॒र॒णौ॒ , अ॒जी॒ग॒रिति॑ । यस्य॑ , इत् , इंद्रः॑ , पु॒रु॒ऽदिने॑षु , होता॑ , नृ॒णां , नर्यः॑ , नृऽत॑मः , क्ष॒पाऽवा॑न् ॥
प्र ते॑ अ॒स्या उ॒षसः॒ प्राप॑रस्या नृ॒तौ स्या॑म॒ नृत॑मस्य नृ॒णां । अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन्कुत्से॑न॒ रथो॒ यो अस॑त्सस॒वान् ॥
प्र , ते॒ , अ॒स्याः , उ॒षसः॑ , प्र , अप॑रस्याः , नृ॒तौ , स्या॒म॒ , नृऽत॑मस्य , नृ॒णां । अनु॑ , त्रि॒ऽशोकः॑ , श॒तं , आ , अ॒व॒ह॒त् , नॄन् , कुत्से॑न , रथः॑ , यः , अस॑त् , स॒स॒ऽवान् ॥
कस्ते॒ मद॑ इंद्र॒ रंत्यो॑ भू॒द्दुरो॒ गिरो॑ अ॒भ्यु१॒॑ग्रो वि धा॑व । कद्वाहो॑ अ॒र्वागुप॑ मा मनी॒षा आ त्वा॑ शक्यामुप॒मं राधो॒ अन्नैः॑ ॥
कः , ते॒ , मदः॑ , इं॒द्र॒ , रंत्यः॑ , भू॒त् , दुरः॑ , गिरः॑ , अ॒भि , उ॒ग्रः , वि , धा॒व॒ । कत् , वाहः॑ , अ॒र्वाक् , उप॑ , मा॒ , म॒नी॒षा , आ , त्वा॒ , श॒क्यां॒ , उ॒प॒ऽमं , राधः॑ , अन्नैः॑ ॥
कदु॑ द्यु॒म्नमिं॑द्र॒ त्वाव॑तो॒ नॄन्कया॑ धि॒या क॑रसे॒ कन्न॒ आग॑न् । मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या अन्ने॑ समस्य॒ यदस॑न्मनी॒षाः ॥
कत् , ऊँ॒ इति॑ , द्यु॒म्नं , इं॒द्र॒ , त्वाऽव॑तः , नॄन् , कया॑ , धि॒या , क॒र॒से॒ , कत् , नः॒ , आ , अ॒ग॒न् । मि॒त्रः , न , स॒त्यः , उ॒रु॒ऽगा॒य॒ , भृ॒त्यै , अन्ने॑ , स॒म॒स्य॒ , यत् , अस॑न् , म॒नी॒षाः ॥
प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन् । गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इंद्र प्रति॒शिक्षं॒त्यन्नैः॑ ॥
प्र , ई॒र॒य॒ , सूरः॑ , अर्थं॑ , न , पा॒रं , ये , अ॒स्य॒ , कामं॑ , ज॒नि॒धाःऽइ॑व , ग्मन् । गिरः॑ , च॒ , ये , ते॒ , तु॒वि॒ऽजा॒त॒ , पू॒र्वीः , नरः॑ , इं॒द्र॒ , प्र॒ति॒ऽशिक्षं॑ति , अन्नैः॑ ॥
मात्रे॒ नु ते॒ सुमि॑ते इंद्र पू॒र्वी द्यौर्म॒ज्मना॑ पृथि॒वी काव्ये॑न । वरा॑य ते घृ॒तवं॑तः सु॒तासः॒ स्वाद्म॑न्भवंतु पी॒तये॒ मधू॑नि ॥
मात्रे॒ इति॑ , नु , ते॒ , सुमि॑ते॒ इति॒ सुऽमि॑ते , इं॒द्र॒ , पू॒र्वी इति॑ , द्यौः , म॒ज्मना॑ , पृ॒थि॒वी , काव्ये॑न । वरा॑य , ते॒ , घृ॒तऽवं॑तः , सु॒तासः॑ , स्वाद्म॑न् , भ॒वं॒तु॒ , पी॒तये॑ , मधू॑नि ॥
आ मध्वो॑ अस्मा असिच॒न्नम॑त्र॒मिंद्रा॑य पू॒र्णं स हि स॒त्यरा॑धाः । स वा॑वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या अ॒भि क्रत्वा॒ नर्यः॒ पौंस्यै॑श्च ॥
आ , मध्वः॑ , अ॒स्मै॒ , अ॒सि॒च॒न् , अम॑त्रं , इंद्रा॑य , पू॒र्णं , सः , हि , स॒त्यऽरा॑धाः । सः , व॒वृ॒धे॒ , वरि॑मन् , आ , पृ॒थि॒व्याः , अ॒भि , क्रत्वा॑ , नर्यः॑ , पौंस्यैः॑ , च॒ ॥
व्या॑न॒ळिंद्रः॒ पृत॑नाः॒ स्वोजा॒ आस्मै॑ यतंते स॒ख्याय॑ पू॒र्वीः । आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया॑ सुम॒त्या चो॒दया॑से ॥
वि , आ॒न॒ट् , इंद्रः॑ , पृत॑नाः , सु॒ऽओजाः॑ , आ , अ॒स्मै॒ , य॒तं॒ते॒ , स॒ख्याय॑ , पू॒र्वीः । आ , स्म॒ , रथं॑ , न , पृत॑नासु , ति॒ष्ठ॒ , यं , भ॒द्रया॑ , सु॒ऽम॒त्या , चो॒दया॑से ॥
[३०] प्रदेवत्रेति पंचदशर्चस्य सूक्तस्यैलूषः कवषआपस्त्रिष्टुप् |
प्र दे॑व॒त्रा ब्रह्म॑णे गा॒तुरे॑त्व॒पो अच्छा॒ मन॑सो॒ न प्रयु॑क्ति । म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिं ॥
प्र , दे॒व॒ऽत्रा , ब्रह्म॑णे , गा॒तुः , ए॒तु॒ , अ॒पः , अच्छ॑ , मन॑सः , न , प्रऽयु॑क्ति । म॒हीं , मि॒त्रस्य॑ , वरु॑णस्य , धा॒सिं , पृ॒थु॒ऽज्रय॑से , री॒र॒ध॒ , सु॒ऽवृ॒क्तिं ॥
अध्व॑र्यवो ह॒विष्मं॑तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शंतः । अव॒ याश्चष्टे॑ अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ॥
अध्व॑र्यवः , ह॒विष्मं॑तः , हि , भू॒त , अच्छ॑ , अ॒पः , इ॒त॒ , उ॒श॒तीः , उ॒शं॒तः॒ । अव॑ , याः , चष्टे॑ , अ॒रु॒णः , सु॒ऽप॒र्णः , तं , आ , अ॒स्य॒ध्वं॒ , ऊ॒र्मिं , अ॒द्य , सु॒ऽह॒स्ताः॒ ॥
अध्व॑र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा॑तं ह॒विषा॑ यजध्वं । स वो॑ दददू॒र्मिम॒द्या सुपू॑तं॒ तस्मै॒ सोमं॒ मधु॑मंतं सुनोत ॥
अध्व॑र्यवः , अ॒पः , इ॒त॒ , स॒मु॒द्रं , अ॒पां , नपा॑तं , ह॒विषा॑ , य॒ज॒ध्वं॒ । सः , वः॒ , द॒द॒त् , ऊ॒र्मिं , अ॒द्य , सुऽपू॑तं , तस्मै॑ , सोमं॑ , मधु॑ऽमंतं , सु॒नो॒त॒ ॥
यो अ॑नि॒ध्मो दीद॑यद॒प्स्व१॒॑न्तर्यं विप्रा॑स॒ ईळ॑ते अध्व॒रेषु॑ । अपां॑ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिंद्रो॑ वावृ॒धे वी॒र्या॑य ॥
यः , अ॒नि॒ध्मः , दीद॑यत् , अ॒प्ऽसु , अं॒तः , यं , विप्रा॑सः , ईळ॑ते , अ॒ध्व॒रेषु॑ । अपां॑ , न॒पा॒त् , मधु॑ऽमतीः , अ॒पः , दाः॒ , याभिः॑ , इंद्रः॑ , व॒वृ॒धे , वी॒र्या॑य ॥
याभिः॒ सोमो॒ मोद॑ते॒ हर्ष॑ते च कल्या॒णीभि॑र्युव॒तिभि॒र्न मर्यः॑ । ता अ॑ध्वर्यो अ॒पो अच्छा॒ परे॑हि॒ यदा॑सिं॒चा ओष॑धीभिः पुनीतात् ॥
याभिः॑ , सोमः॑ , मोद॑ते , हर्ष॑ते , च॒ , क॒ल्या॒णीभिः॑ , यु॒व॒तिऽभिः॑ , न , मर्यः॑ । ताः , अ॒ध्व॒र्यो॒ इति॑ , अ॒पः , अच्छ॑ , परा॑ , इ॒हि॒ , यत् , आ॒ऽसिं॒चाः , ओष॑धीभिः , पु॒नी॒ता॒त् ॥
ए॒वेद्यूने॑ युव॒तयो॑ नमंत॒ यदी॑मु॒शन्नु॑श॒तीरेत्यच्छ॑ । सं जा॑नते॒ मन॑सा॒ सं चि॑कित्रेऽध्व॒र्यवो॑ धि॒षणाप॑श्च दे॒वीः ॥
ए॒व , इत् , यूने॑ , यु॒व॒तयः॑ , न॒मं॒त॒ , यत् , ईं॒ , उ॒शन् , उ॒ष॒तीः , एति॑ , अच्छ॑ । सं , जा॒न॒ते॒ , मन॑सा , सं , चि॒कि॒त्रे॒ , अ॒ध्व॒र्यवः॑ , धि॒षणा॑ , आपः॑ , च॒ , दे॒वीः ॥
यो वो॑ वृ॒ताभ्यो॒ अकृ॑णोदु लो॒कं यो वो॑ म॒ह्या अ॒भिश॑स्ते॒रमुं॑चत् । तस्मा॒ इंद्रा॑य॒ मधु॑मंतमू॒र्मिं दे॑व॒माद॑नं॒ प्र हि॑णोतनापः ॥
यः , वः॒ , वृ॒ताभ्यः॑ , अकृ॑णोत् , ऊँ॒ इति॑ , लो॒कं , यः , वः॒ , म॒ह्याः , अ॒भिऽश॑स्तेः , अमुं॑चत् । तस्मै॑ , इंद्रा॑य , मधु॑ऽमंतं , ऊ॒र्मिं , दे॒व॒ऽमाद॑नं , प्र , हि॒णो॒त॒न॒ , आ॒पः ॥
प्रास्मै॑ हिनोत॒ मधु॑मंतमू॒र्मिं गर्भो॒ यो वः॑ सिंधवो॒ मध्व॒ उत्सः॑ । घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो॑ रेवतीः शृणु॒ता हवं॑ मे ॥
प्र , अ॒स्मै॒ , हि॒नो॒त॒ , मधु॑ऽमंतं , ऊ॒र्मिं , गर्भः॑ , यः , वः॒ , सिं॒ध॒वः॒ , मध्वः॑ , उत्सः॑ । घृ॒तऽपृ॑ष्ठं , ईड्यं॑ , अ॒ध्व॒रेषु॑ , आपः॑ , रे॒व॒तीः॒ , शृ॒णु॒त , हवं॑ , मे॒ ॥
तं सिं॑धवो मत्स॒रमिं॑द्र॒पान॑मू॒र्मिं प्र हे॑त॒ य उ॒भे इय॑र्ति । म॒द॒च्युत॑मौशा॒नं न॑भो॒जां परि॑ त्रि॒तंतुं॑ वि॒चरं॑त॒मुत्सं॑ ॥
तं , सिं॒ध॒वः॒ , म॒त्स॒रं , इं॒द्र॒ऽपानं॑ , ऊ॒र्मिं , प्र , हे॒त॒ , यः , उ॒भे इति॑ , इय॑र्ति । म॒द॒ऽच्युतं॑ , औ॒शा॒नं , न॒भः॒ऽजां , परि॑ , त्रि॒ऽतंतुं॑ , वि॒ऽचरं॑तं , उत्सं॑ ॥
आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा॑ गोषु॒युधो॒ न नि॑य॒वं चरं॑तीः । ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी॑र॒पो वं॑दस्व स॒वृधः॒ सयो॑नीः ॥
आ॒ऽवर्वृ॑ततीः , अध॑ , नु , द्वि॒ऽधाराः॑ , गो॒षु॒ऽयुधः॑ , न , नि॒ऽय॒वं , चरं॑तीः । ऋषे॑ , जनि॑त्रीः , भुव॑नस्य , पत्नीः॑ , अ॒पः , वं॒द॒स्व॒ , स॒ऽवृधः॑ , सऽयो॑नीः ॥
हि॒नोता॑ नो अध्व॒रं दे॑वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना॑नां । ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूधः॑ श्रुष्टी॒वरी॑र्भूतना॒स्मभ्य॑मापः ॥
हि॒नोत॑ , नः॒ , अ॒ध्व॒रं , दे॒व॒ऽय॒ज्या , हि॒नोत॑ , ब्रह्म॑ , स॒नये॑ , धना॑नां । ऋ॒तस्य॑ , योगे॑ , वि , स्य॒ध्वं॒ , ऊधः॑ , श्रु॒ष्टी॒ऽवरीः॑ , भू॒त॒न॒ , अ॒स्मभ्यं॑ , आ॒पः॒ ॥
आपो॑ रेवतीः॒ क्षय॑था॒ हि वस्वः॒ क्रतुं॑ च भ॒द्रं बि॑भृ॒थामृतं॑ च । रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नीः॒ सर॑स्वती॒ तद्गृ॑ण॒ते वयो॑ धात् ॥
आ॒पः , रे॒व॒तीः॒ , क्षय॑थ , हि , वस्वः॑ , क्रतुं॑ , च॒ , भ॒द्रं , बि॒भृ॒थ , अ॒मृतं॑ , च॒ । रा॒यः , च॒ , स्थ , सु॒ऽअ॒प॒त्यस्य॑ , पत्नीः॑ , सर॑स्वती , तत् , गृ॒ण॒ते , वयः॑ , धा॒त् ॥
प्रति॒ यदापो॒ अदृ॑श्रमाय॒तीर्घृ॒तं पयां॑सि॒ बिभ्र॑ती॒र्मधू॑नि । अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना इंद्रा॑य॒ सोमं॒ सुषु॑तं॒ भरं॑तीः ॥
प्रति॑ , यत् , आपः॑ , अदृ॑श्रं , आ॒ऽय॒तीः , घृ॒तं , पयां॑सि , बिभ्र॑तीः , मधू॑नि । अ॒ध्व॒र्युऽभिः॑ , मन॑सा , सं॒ऽवि॒दा॒नाः , इंद्रा॑य , सोमं॑ , सुऽसु॑तं , भरं॑तीः ॥
एमा अ॑ग्मन्रे॒वती॑र्जी॒वध॑न्या॒ अध्व॑र्यवः सा॒दय॑ता सखायः । नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा॑ संविदा॒नास॑ एनाः ॥
आ , इ॒माः , अ॒ग्म॒न् , रे॒वतीः॑ , जी॒वऽध॑न्याः , अध्व॑र्यवः , सा॒दय॑त , स॒खा॒यः॒ । नि , ब॒र्हिषि॑ , ध॒त्त॒न॒ , सो॒म्या॒सः॒ , अ॒पां , नप्त्रा॑ , सं॒ऽवि॒दा॒नासः॑ , ए॒नाः॒ ॥
आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे अ॑सदंदेव॒यंतीः॑ । अध्व॑र्यवः सुनु॒तेंद्रा॑य॒ सोम॒मभू॑दु वः सु॒शका॑ देवय॒ज्या ॥
आ , अ॒ग्म॒न् , आपः॑ , उ॒श॒तीः , ब॒र्हिः , आ , इ॒दं , नि , अ॒ध्व॒रे , अ॒स॒द॒न् , दे॒व॒ऽयंतीः॑ । अध्व॑र्यवः , सु॒नु॒त , इंद्रा॑य , सोमं॑ , अभू॑त् , ऊँ॒ इति॑ , वः॒ , सु॒ऽशका॑ , दे॒व॒ऽय॒ज्या ॥
[३१] आनोदेवानामित्येकादशर्चस्य सूक्तस्यैलूषःकवषो विश्वेदेवात्रिष्टुप् (भेदपक्षे- विश्वेदेवाः ९ अश्वत्थगर्भाशमी १ उषोग्नी १ एवं ११) |
आ नो॑ दे॒वाना॒मुप॑ वेतु॒ शंसो॒ विश्वे॑भिस्तु॒रैरव॑से॒ यज॑त्रः । तेभि॑र्व॒यं सु॑ष॒खायो॑ भवेम॒ तरं॑तो॒ विश्वा॑ दुरि॒ता स्या॑म ॥
आ , नः॒ , दे॒वानां॑ , उप॑ , वे॒तु॒ , शंसः॑ , विश्वे॑भिः , तु॒रैः , अव॑से , यज॑त्रः । तेभिः॑ , व॒यं , सु॒ऽस॒खायः॑ , भ॒वे॒म॒ , तरं॑तः , विश्वा॑ , दुः॒ऽइ॒ता , स्या॒म॒ ॥
परि॑ चि॒न्मर्तो॒ द्रवि॑णं ममन्यादृ॒तस्य॑ प॒था नम॒सा वि॑वासेत् । उ॒त स्वेन॒ क्रतु॑ना॒ सं व॑देत॒ श्रेयां॑सं॒ दक्षं॒ मन॑सा जगृभ्यात् ॥
परि॑ , चि॒त् , मर्तः॑ , द्रवि॑णं , म॒म॒न्या॒त् , ऋ॒तस्य॑ , प॒था , नम॑सा , आ , वि॒वा॒से॒त् । उ॒त , स्वेन॑ , क्रतु॑ना , सं , व॒दे॒त॒ , श्रेयां॑सं , दक्षं॑ , मन॑सा , ज॒गृ॒भ्या॒त् ॥
अधा॑यि धी॒तिरस॑सृग्र॒मंशा॑स्ती॒र्थे न द॒स्ममुप॑ यं॒त्यूमाः॑ । अ॒भ्या॑नश्म सुवि॒तस्य॑ शू॒षं नवे॑दसो अ॒मृता॑नामभूम ॥
अधा॑यि , धी॒तिः , अस॑सृग्रं , अंशाः॑ , ती॒र्थे , न , द॒स्मं , उप॑ , यं॒ति॒ , ऊमाः॑ । अ॒भि , आ॒न॒श्म॒ , सु॒वि॒तस्य॑ , शू॒षं , नवे॑दसः , अ॒मृता॑नां , अ॒भू॒म॒ ॥
नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू॑ना॒ यस्मा॑ उ दे॒वः स॑वि॒ता ज॒जान॑ । भगो॑ वा॒ गोभि॑रर्य॒मेम॑नज्या॒त्सो अ॑स्मै॒ चारु॑श्छदयदु॒त स्या॑त् ॥
नित्यः॑ , चा॒क॒न्या॒त् , स्वऽप॑तिः , दमू॑नाः , यस्मै॑ , ऊँ॒ इति॑ , दे॒वः , स॒वि॒ता , ज॒जान॑ । भगः॑ , वा॒ , गोभिः॑ , अ॒र्य॒मा , ईं॒ , अ॒न॒ज्या॒त् , सः , अ॒स्मै॒ , चारुः॑ , छ॒द॒य॒त् , उ॒त , स्या॒त् ॥
इ॒यं सा भू॑या उ॒षसा॑मिव॒ क्षा यद्ध॑ क्षु॒मंतः॒ शव॑सा स॒माय॑न् । अ॒स्य स्तु॒तिं ज॑रि॒तुर्भिक्ष॑माणा॒ आ नः॑ श॒ग्मास॒ उप॑ यंतु॒ वाजाः॑ ॥
इ॒यं , सा , भू॒याः॒ , उ॒षसां॑ऽइव , क्षाः , यत् , ह॒ , क्षु॒ऽमंतः॑ , शव॑सा , सं॒ऽआय॑न् । अ॒स्य , स्तु॒तिं , ज॒रि॒तुः , भिक्ष॑माणाः , आ , नः॒ , श॒ग्मासः॑ , उप॑ , यं॒तु॒ , वाजाः॑ ॥
अ॒स्येदे॒षा सु॑म॒तिः प॑प्रथा॒नाभ॑वत्पू॒र्व्या भूम॑ना॒ गौः । अ॒स्य सनी॑ळा॒ असु॑रस्य॒ योनौ॑ समा॒न आ भर॑णे॒ बिभ्र॑माणाः ॥
अ॒स्य , इत् , ए॒षा , सु॒ऽम॒तिः , प॒प्र॒था॒ना , अभ॑वत् , पू॒र्व्या , भूम॑ना , गौः । अ॒स्य , सऽनी॑ळाः , असु॑रस्य , योनौ॑ , स॒मा॒ने , आ , भर॑णे , बिभ्र॑माणाः ॥
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । सं॒त॒स्था॒ने अ॒जरे॑ इ॒तऊ॑ती॒ अहा॑नि पू॒र्वीरु॒षसो॑ जरंत ॥
किं , स्वि॒त् , वनं॑ , कः , ऊँ॒ इति॑ , सः , वृ॒क्षः , आ॒स॒ , यतः॑ , द्यावा॑पृथि॒वी इति॑ , निः॒ऽत॒त॒क्षुः । सं॒त॒स्था॒ने इति॑ सं॒ऽत॒स्था॒ने , अ॒जरे॒ इति॑ , इ॒तऊ॑ती॒ इती॒तःऽऊ॑ती , अहा॑नि , पू॒र्वीः , उ॒षसः॑ , ज॒रं॒त॒ ॥
नैताव॑दे॒ना प॒रो अ॒न्यद॑स्त्यु॒क्षा स द्यावा॑पृथि॒वी बि॑भर्ति । त्वचं॑ प॒वित्रं॑ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वहं॑ति ॥
न , ए॒ताव॑त् , ए॒ना , प॒रः , अ॒न्यत् , अ॒स्ति॒ , उ॒क्षा , सः , द्यावा॑पृथि॒वी इति॑ , बि॒भ॒र्ति॒ । त्वचं॑ , प॒वित्रं॑ , कृ॒णु॒त॒ , स्व॒धाऽवा॑न् , यत् , ईं॒ , सूर्यं॑ , न , ह॒रितः॑ , वहं॑ति ॥
स्ते॒गो न क्षामत्ये॑ति पृ॒थ्वीं मिहं॒ न वातो॒ वि ह॑ वाति॒ भूम॑ । मि॒त्रो यत्र॒ वरु॑णो अ॒ज्यमा॑नो॒ऽग्निर्वने॒ न व्यसृ॑ष्ट॒ शोकं॑ ॥
स्ते॒गः , न , क्षां , अति॑ , ए॒ति॒ , पृ॒थ्वीं , मिहं॑ , न , वातः॑ , वि , ह॒ , वाति॑ , भूम॑ । मि॒त्रः , यत्र॑ , वरु॑णः , अ॒ज्यमा॑नः , अ॒ग्निः , वने॑ , न , वि , असृ॑ष्ट , शोकं॑ ॥
स्त॒रीर्यत्सूत॑ स॒द्यो अ॒ज्यमा॑ना॒ व्यथि॑रव्य॒थीः कृ॑णुत॒ स्वगो॑पा । पु॒त्रो यत्पूर्वः॑ पि॒त्रोर्जनि॑ष्ट श॒म्यां गौर्ज॑गार॒ यद्ध॑ पृ॒च्छान् ॥
स्त॒रीः , यत् , सूत॑ , स॒द्यः , अ॒ज्यमा॑ना , व्यथिः॑ , अ॒व्य॒थीः , कृ॒णु॒त॒ , स्वऽगो॑पा । पु॒त्रः , यत् , पूर्वः॑ , पि॒त्रोः , जनि॑ष्ट , श॒म्यां , गौः , ज॒गा॒र॒ , यत् , ह॒ , पृ॒च्छान् ॥
उ॒त कण्वं॑ नृ॒षदः॑ पु॒त्रमा॑हुरु॒त श्या॒वो धन॒माद॑त्त वा॒जी । प्र कृ॒ष्णाय॒ रुश॑दपिन्व॒तोध॑र्ऋ॒तमत्र॒ नकि॑रस्मा अपीपेत् ॥
उ॒त , कण्वं॑ , नृ॒ऽसदः॑ , पु॒त्रं , आ॒हुः॒ , उ॒त , श्या॒वः , धनं॑ , आ , अ॒द॒त्त॒ , वा॒जी । प्र , कृ॒ष्णाय॑ , रुश॑त् , अ॒पि॒न्व॒त॒ , ऊधः॑ , ऋ॒तं , अत्र॑ , नकिः॑ , अ॒स्मै॒ , अ॒पी॒पे॒त् ॥
[३२] प्रसुग्मंतेति नवर्चस्य सूक्तस्यैलूषः कवषइंद्रोजगती अंत्याश्चतस्रस्त्रिष्टुभः |
प्र सु ग्मंता॑ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राँ अ॒भि षु प्र॒सीद॑तः । अ॒स्माक॒मिंद्र॑ उ॒भयं॑ जुजोषति॒ यत्सो॒म्यस्यांध॑सो॒ बुबो॑धति ॥
प्र , सु , ग्मंता॑ , धि॒य॒सा॒नस्य॑ , स॒क्षणि॑ , व॒रेभिः॑ , व॒रान् , अ॒भि , सु , प्र॒ऽसीद॑तः । अ॒स्माकं॑ , इंद्रः॑ , उ॒भयं॑ , जु॒जो॒ष॒ति॒ , यत् , सो॒म्यस्य॑ , अंध॑सः , बुबो॑धति ॥
वीं॑द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत । ये त्वा॒ वहं॑ति॒ मुहु॑रध्व॒राँ उप॒ ते सु व॑न्वंतु वग्व॒नाँ अ॑रा॒धसः॑ ॥
वि , इं॒द्र॒ , या॒सि॒ , दि॒व्यानि॑ , रो॒च॒ना , वि , पार्थि॑वानि , रज॑सा , पु॒रु॒ऽस्तु॒त॒ । ये , त्वा॒ , वहं॑ति , मुहुः॑ , अ॒ध्व॒रान् , उप॑ , ते , सु , व॒न्वं॒तु॒ , व॒ग्व॒नान् , अ॒रा॒धसः॑ ॥
तदिन्मे॑ छंत्स॒द्वपु॑षो॒ वपु॑ष्टरं पु॒त्रो यज्जानं॑ पि॒त्रोर॒धीय॑ति । जा॒या पतिं॑ वहति व॒ग्नुना॑ सु॒मत्पुं॒स इद्भ॒द्रो व॑ह॒तुः परि॑ष्कृतः ॥
तत् , इत् , मे॒ , छं॒त्स॒त् , वपु॑षः , वपुः॑ऽतरं , पु॒त्रः , यत् , जानं॑ , पि॒त्रोः , अ॒धि॒ऽइय॑ति । जा॒या , पतिं॑ , व॒ह॒ति॒ , व॒गुना॑ , सु॒ऽमत् , पुं॒सः , इत् , भ॒द्रः , व॒ह॒तुः , परि॑ऽकृतः ॥
तदित्स॒धस्थ॑म॒भि चारु॑ दीधय॒ गावो॒ यच्छास॑न्वह॒तुं न धे॒नवः॑ । मा॒ता यन्मंतु॑र्यू॒थस्य॑ पू॒र्व्याभि वा॒णस्य॑ स॒प्तधा॑तु॒रिज्जनः॑ ॥
तत् , इत् , स॒धऽस्थं॑ , अ॒भि , चारु॑ , दी॒ध॒य॒ , गावः॑ , यत् , शास॑न् , व॒ह॒तुं , न , धे॒नवः॑ । मा॒ता , यत् , मंतुः॑ , यू॒थस्य॑ , पू॒र्व्या , अ॒भि , वा॒णस्य॑ , स॒प्तऽधा॑तुः , इत् , जनः॑ ॥
प्र वोऽच्छा॑ रिरिचे देव॒युष्प॒दमेको॑ रु॒द्रेभि॑र्याति तु॒र्वणिः॑ । ज॒रा वा॒ येष्व॒मृते॑षु दा॒वने॒ परि॑ व॒ ऊमे॑भ्यः सिंचता॒ मधु॑ ॥
प्र , वः॒ , अच्छ॑ , रि॒रि॒चे॒ , दे॒व॒ऽयुः , प॒दं , एकः॑ , रु॒द्रेभिः॑ , या॒ति॒ , तु॒र्वणिः॑ । ज॒रा , वा॒ , येषु॑ , अ॒मृते॑षु , दा॒वने॑ , परि॑ , वः॒ , ऊमे॑भ्यः , सिं॒च॒त॒ , मधु॑ ॥
नि॒धी॒यमा॑न॒मप॑गूळ्हम॒प्सु प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच । इंद्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगां॑ ॥
नि॒ऽधी॒यमा॑नं , अप॑ऽगूळ्हं , अ॒प्ऽसु , प्र , मे॒ , दे॒वानां॑ , व्र॒त॒ऽपाः , उ॒वा॒च॒ । इंद्रः॑ , वि॒द्वान् , अनु॑ , हि , त्वा॒ , च॒चक्ष॑ , तेन॑ , अ॒हं , अ॒ग्ने॒ , अनु॑ऽशिष्टः , आ , अ॒गां॒ ॥
अक्षे॑त्रवित्क्षेत्र॒विदं॒ ह्यप्रा॒ट् स प्रैति॑ क्षेत्र॒विदानु॑शिष्टः । ए॒तद्वै भ॒द्रम॑नु॒शास॑नस्यो॒त स्रु॒तिं विं॑दत्यंज॒सीनां॑ ॥
अक्षे॑त्रऽवित् , क्षे॒त्र॒ऽविदं॑ , हि , अप्रा॑ट् , सः , प्र , ए॒ति॒ , क्षे॒त्र॒ऽविदा॑ , अनु॑ऽशिष्टः । ए॒तत् , वै॒ , भ॒द्रं , अ॒नु॒ऽशास॑नस्य , उ॒त , स्रु॒तिं , विं॒द॒ति॒ , अं॒ज॒सीनां॑ ॥
अ॒द्येदु॒ प्राणी॒दम॑मन्नि॒माहापी॑वृतो अधयन्मा॒तुरूधः॑ । एमे॑नमाप जरि॒मा युवा॑न॒महे॑ळ॒न्वसुः॑ सु॒मना॑ बभूव ॥
अ॒द्य , इत् , ऊँ॒ इति॑ , प्र , आ॒नी॒त् , अम॑मन् , इ॒मा , अहा॑ , अपि॑ऽवृतः , अ॒ध॒य॒त् , मा॒तुः , ऊधः॑ । आ , ईं॒ , ए॒नं॒ , आ॒प॒ , ज॒रि॒मा , युवा॑नं , अहे॑ळन् , वसुः॑ , सु॒ऽमनाः॑ , ब॒भू॒व॒ ॥
ए॒तानि॑ भ॒द्रा क॑लश क्रियाम॒ कुरु॑श्रवण॒ दद॑तो म॒घानि॑ । दा॒न इद्वो॑ मघवानः॒ सो अ॑स्त्व॒यं च॒ सोमो॑ हृ॒दि यं बिभ॑र्मि ॥
ए॒तानि॑ , भ॒द्रा , क॒ल॒श॒ , क्रि॒या॒म॒ , कुरु॑ऽश्रवण , दद॑तः , म॒घानि॑ । दा॒नः , इत् , वः॒ , म॒घ॒ऽवा॒नः॒ , सः , अ॒स्तु॒ , अ॒यं , च॒ , सोमः॑ , हृ॒दि , यं , बिभ॑र्मि ॥
[३३] प्रमायुयुज्रइति नवर्चस्य सूक्तस्यैलूषःकवषऋषिः आद्याया विश्वेदेवाः ततोद्वयोरिंद्रः चतुर्थीपंचम्योः कुरुश्रवणः षष्ठ्यदादिचतसृणामुपश्र वा आद्यात्रिष्टुप् द्वितीयाबृहती तृतीया सतोबृहती शेषाः षड्गायत्र्यः |
प्र मा॑ युयुज्रे प्र॒युजो॒ जना॑नां॒ वहा॑मि स्म पू॒षण॒मंत॑रेण । विश्वे॑ दे॒वासो॒ अध॒ माम॑रक्षंदुः॒शासु॒रागा॒दिति॒ घोष॑ आसीत् ॥
प्र , मा॒ , यु॒यु॒ज्रे॒ , प्र॒ऽयुजः॑ , जना॑नां , वहा॑मि , स्म॒ , पू॒षणं॑ , अंत॑रेण । विश्वे॑ , दे॒वासः॑ , अध॑ , मां , अ॒र॒क्ष॒न् , दुः॒ऽशासुः॑ , आ , अ॒गा॒त् , इति॑ , घोषः॑ , आ॒सी॒त् ॥
सं मा॑ तपंत्य॒भितः॑ स॒पत्नी॑रिव॒ पर्श॑वः । नि बा॑धते॒ अम॑तिर्न॒ग्नता॒ जसु॒र्वेर्न वे॑वीयते म॒तिः ॥
सं , मा॒ , त॒पं॒ति॒ , अ॒भितः॑ , स॒पत्नीः॑ऽइव , पर्श॑वः । नि , बा॒ध॒ते॒ , अम॑तिः , न॒ग्नता॑ , जसुः॑ , वेः , न , वे॒वी॒य॒ते॒ , म॒तिः ॥
मूषो॒ न शि॒श्ना व्य॑दंति मा॒ध्यः॑ स्तो॒तारं॑ ते शतक्रतो । स॒कृत्सु नो॑ मघवन्निंद्र मृळ॒याधा॑ पि॒तेव॑ नो भव ॥
मूषः॑ , न , शि॒श्ना , वि , अ॒दं॒ति॒ , मा॒ , आ॒ऽध्यः॑ , स्तो॒तारं॑ , ते॒ , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । स॒कृत् , सु , नः॒ , म॒घ॒ऽव॒न् , इं॒द्र॒ , मृ॒ळ॒य॒ , अध॑ , पि॒ताऽइ॑व , नः॒ , भ॒व॒ ॥
कु॒रु॒श्रव॑णमावृणि॒ राजा॑नं॒ त्रास॑दस्यवं । मंहि॑ष्ठं वा॒घता॒मृषिः॑ ॥
कु॒रु॒ऽश्रव॑णं , अ॒वृ॒णि॒ , राजा॑नं , त्रास॑दस्यवं । मंहि॑ष्ठं , वा॒घतां॑ , ऋषिः॑ ॥
यस्य॑ मा ह॒रितो॒ रथे॑ ति॒स्रो वहं॑ति साधु॒या । स्तवै॑ स॒हस्र॑दक्षिणे ॥
यस्य॑ , मा॒ , ह॒रितः॑ , रथे॑ , ति॒स्रः , वहं॑ति , सा॒धु॒ऽया । स्तवै॑ , स॒हस्र॑ऽदक्षिणे ॥
यस्य॒ प्रस्वा॑दसो॒ गिर॑ उप॒मश्र॑वसः पि॒तुः । क्षेत्रं॒ न र॒ण्वमू॒चुषे॑ ॥
यस्य॑ , प्रऽस्वा॑दसः , गिरः॑ , उ॒प॒मऽश्र॑वसः , पि॒तुः । क्षेत्रं॑ , न , र॒ण्वं , ऊ॒चुषे॑ ॥
अधि॑ पुत्रोपमश्रवो॒ नपा॑न्मित्रातिथेरिहि । पि॒तुष्टे॑ अस्मि वंदि॒ता ॥
अधि॑ , पु॒त्र॒ , उ॒प॒म॒ऽश्र॒वः॒ , नपा॑त् , मि॒त्र॒ऽअ॒ति॒थेः॒ , इ॒हि॒ । पि॒तुः , ते॒ , अ॒स्मि॒ , वं॒दि॒ता ॥
यदीशी॑या॒मृता॑नामु॒त वा॒ मर्त्या॑नां । जीवे॒दिन्म॒घवा॒ मम॑ ॥
यत् , ईशी॑य , अ॒मृता॑नां , उ॒त , वा॒ , मर्त्या॑नां । जीवे॑त् , इ॒त् , म॒घऽवा॑ , मम॑ ॥
न दे॒वाना॒मति॑ व्र॒तं श॒तात्मा॑ च॒न जी॑वति । तथा॑ यु॒जा वि वा॑वृते ॥
न , दे॒वानां॑ , अति॑ , व्र॒तं , श॒तऽआ॑त्मा , च॒न , जी॒व॒ति॒ । तथा॑ , यु॒जा , वि , व॒वृ॒ते॒ ॥
[३४] प्रावेपाइति चतुर्दशर्चस्य सूक्तस्य मौजवानक्ष ऋषिः आद्या सप्तमी नवमीद्वादशीनामक्षादेवताः त्रयोदश्याः कृषिः शिष्टानामक्षनिंदा देवता त्रिष्टुप् सप्तमी जगती |
प्रा॒वे॒पा मा॑ बृह॒तो मा॑दयंति प्रवाते॒जा इरि॑णे॒ वर्वृ॑तानाः । सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ॥
प्रा॒वे॒पाः , मा॒ , बृ॒ह॒तः , मा॒द॒यं॒ति॒ , प्र॒वा॒ते॒ऽजाः , इरि॑णे , वर्वृ॑तानाः । सोम॑स्यऽइव , मौ॒ज॒ऽव॒तस्य॑ , भ॒क्षः , वि॒ऽभीद॑कः , जागृ॑विः , मह्यं॑ , अ॒च्छा॒न् ॥
न मा॑ मिमेथ॒ न जि॑हीळ ए॒षा शि॒वा सखि॑भ्य उ॒त मह्य॑मासीत् । अ॒क्षस्या॒हमे॑कप॒रस्य॑ हे॒तोरनु॑व्रता॒मप॑ जा॒याम॑रोधं ॥
न , मा॒ , मि॒मे॒थ॒ , न , जि॒ही॒ळे॒ , ए॒षा , शि॒वा , सखि॑ऽभ्यः , उ॒त , मह्यं॑ , आ॒सी॒त् । अ॒क्षस्य॑ , अ॒हं , ए॒क॒ऽप॒रस्य॑ , हे॒तोः , अनु॑ऽव्रतां , अप॑ , जा॒यां , अ॒रो॒धं॒ ॥
द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना॑थि॒तो विं॑दते मर्डि॒तारं॑ । अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं विं॑दामि कित॒वस्य॒ भोगं॑ ॥
द्वेष्टि॑ , श्व॒श्रूः , अप॑ , जा॒या , रु॒ण॒द्धि॒ , न , ना॒थि॒तः , विं॒द॒ते॒ , म॒र्डि॒तारं॑ । अश्व॑स्यऽइव , जर॑तः , वस्न्य॑स्य , न , अ॒हं , विं॒दा॒मि॒ , कि॒त॒वस्य॑ , भोगं॑ ॥
अ॒न्ये जा॒यां परि॑ मृशंत्यस्य॒ यस्यागृ॑ध॒द्वेद॑ने वा॒ज्य१॒॑क्षः । पि॒ता मा॒ता भ्रात॑र एनमाहु॒र्न जा॑नीमो॒ नय॑ता ब॒द्धमे॒तं ॥
अ॒न्ये , जा॒यां , परि॑ , मृ॒शं॒ति॒ , अ॒स्य॒ , यस्य॑ , अगृ॑धत् , वेद॑ने , वा॒जी , अ॒क्षः । पि॒ता , मा॒ता , भ्रात॑रः , ए॒नं॒ , आ॒हुः॒ , न , जा॒नी॒मः॒ , नय॑त , ब॒द्धं , ए॒तं ॥
यदा॒दीध्ये॒ न द॑विषाण्येभिः परा॒यद्भ्योऽव॑ हीये॒ सखि॑भ्यः । न्यु॑प्ताश्च ब॒भ्रवो॒ वाच॒मक्र॑तँ॒ एमीदे॑षां निष्कृ॒तं जा॒रिणी॑व ॥
यत् , आ॒ऽदी॒ध्ये॒ , न , द॒वि॒षा॒णि॒ , ए॒भिः॒ , प॒रा॒यत्ऽभ्यः॑ , अव॑ , ही॒ये॒ , सखि॑ऽभ्यः । निऽउ॑प्ताः , च॒ , ब॒भ्रवः॑ , वाचं॑ , अक्र॑त , एमि॑ , इत् , ए॒षां॒ , निः॒ऽकृ॒तं , जा॒रिणी॑ऽइव ॥
स॒भामे॑ति कित॒वः पृ॒च्छमा॑नो जे॒ष्यामीति॑ त॒न्वा॒३॒॑ शूशु॑जानः । अ॒क्षासो॑ अस्य॒ वि ति॑रंति॒ कामं॑ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ॥
स॒भां , ए॒ति॒ , कि॒त॒वः , पृ॒च्छमा॑नः , जे॒ष्यामि॑ , इति॑ , त॒न्वा॑ , शूशु॑जानः । अ॒क्षासः॑ , अ॒स्य॒ , वि , ति॒रं॒ति॒ , कामं॑ , प्र॒ति॒ऽदीव्ने॑ , दध॑तः , आ , कृ॒तानि॑ ॥
अ॒क्षास॒ इदं॑कु॒शिनो॑ नितो॒दिनो॑ नि॒कृत्वा॑न॒स्तप॑नास्तापयि॒ष्णवः॑ । कु॒मा॒रदे॑ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ संपृ॑क्ताः कित॒वस्य॑ ब॒र्हणा॑ ॥
अ॒क्षासः॑ , इत् , अं॒कु॒शिनः॑ , नि॒ऽतो॒दिनः॑ , नि॒ऽकृत्वा॑नः , तप॑नाः , ता॒प॒यि॒ष्णवः॑ । कु॒मा॒रऽदे॑ष्णाः , जय॑तः , पु॒नः॒ऽहनः॑ , मध्वा॑ , संऽपृ॑क्ताः , कि॒त॒वस्य॑ , ब॒र्हणा॑ ॥
त्रि॒पं॒चा॒शः क्री॑ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा । उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मंते॒ राजा॑ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ॥
त्रि॒ऽपं॒चा॒शः , क्री॒ळ॒ति॒ , व्रातः॑ , ए॒षां॒ , दे॒वःऽइ॑व , स॒वि॒ता , स॒त्यऽध॑र्मा । उ॒ग्रस्य॑ , चि॒त् , म॒न्यवे॑ , न , न॒मं॒ते॒ , राजा॑ , चि॒त् , ए॒भ्यः॒ , नमः॑ , इत् , कृ॒णो॒ति॒ ॥
नी॒चा व॑र्तंत उ॒परि॑ स्फुरंत्यह॒स्तासो॒ हस्त॑वंतं सहंते । दि॒व्या अंगा॑रा॒ इरि॑णे॒ न्यु॑प्ताः शी॒ताः संतो॒ हृद॑यं॒ निर्द॑हंति ॥
नी॒चा , व॒र्तं॒ते॒ , उ॒परि॑ , स्फु॒रं॒ति॒ , अ॒ह॒स्तासः॑ , हस्त॑ऽवंतं , स॒हं॒ते॒ । दि॒व्याः , अंगा॑राः , इरि॑णे , निऽउ॑प्ताः , शी॒ताः , संतः॑ , हृद॑यं , निः , द॒हं॒ति॒ ॥
जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑तः॒ क्व॑ स्वित् । ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा॑नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ॥
जा॒या , त॒प्य॒ते॒ , कि॒त॒वस्य॑ , ही॒ना , मा॒ता , पु॒त्रस्य॑ , चर॑तः , क्व॑ , स्वि॒त् । ऋ॒ण॒ऽवा , बि॒भ्य॒त् , धनं॑ , इ॒च्छमा॑नः , अ॒न्येषां॑ , अस्तं॑ , उप॑ , नक्तं॑ , ए॒ति॒ ॥
स्त्रियं॑ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां॑ जा॒यां सुकृ॑तं च॒ योनिं॑ । पू॒र्वा॒ह्णे अश्वा॑न्युयु॒जे हि ब॒भ्रूंत्सो अ॒ग्नेरंते॑ वृष॒लः प॑पाद ॥
स्त्रियं॑ , दृ॒ष्ट्वाय॑ , कि॒त॒वं , त॒ता॒प॒ , अ॒न्येषां॑ , जा॒यां , सुऽकृ॑तं , च॒ , योनिं॑ । पू॒र्वा॒ह्णे , अश्वा॑न् , यु॒यु॒जे , हि , ब॒भ्रून् , सः , अ॒ग्नेः , अंते॑ , वृ॒ष॒लः , प॒पा॒द॒ ॥
यो वः॑ सेना॒नीर्म॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो ब॒भूव॑ । तस्मै॑ कृणोमि॒ न धना॑ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व॑दामि ॥
यः , वः॒ , से॒ना॒ऽनीः , म॒ह॒तः , ग॒णस्य॑ , राजा॑ , व्रात॑स्य , प्र॒थ॒मः , ब॒भूव॑ । तस्मै॑ , कृ॒णो॒मि॒ , न , धना॑ , रु॒ण॒ध्मि॒ , दश॑ , अ॒हं , प्राचीः॑ , तत् , ऋ॒तं , व॒दा॒मि॒ ॥
अ॒क्षैर्मा दी॑व्यः कृ॒षिमित्कृ॑षस्व वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः । तत्र॒ गावः॑ कितव॒ तत्र॑ जा॒या तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ॥
अ॒क्षैः , मा , दी॒व्यः॒ , कृ॒षिं , इत् , कृ॒ष॒स्व॒ , वि॒त्ते , र॒म॒स्व॒ , ब॒हु , मन्य॑मानः । तत्र॑ , गावः॑ , कि॒त॒व॒ , तत्र॑ , जा॒या , तत् , मे॒ , वि , च॒ष्टे॒ , स॒वि॒ता , अ॒यं , अ॒र्यः ॥
मि॒त्रं कृ॑णुध्वं॒ खलु॑ मृ॒ळता॑ नो॒ मा नो॑ घो॒रेण॑ चरता॒भि धृ॒ष्णु । नि वो॒ नु म॒न्युर्वि॑शता॒मरा॑तिर॒न्यो ब॑भ्रू॒णां प्रसि॑तौ॒ न्व॑स्तु ॥
मि॒त्रं , कृ॒णु॒ध्वं॒ , खलु॑ , मृ॒ळत॑ , नः॒ , मा , नः॒ , घो॒रेण॑ , च॒र॒त॒ , अ॒भि , धृ॒ष्णु । नि , वः॒ , नु , म॒न्युः , वि॒श॒तां॒ , अरा॑तिः , अ॒न्यः , ब॒भ्रू॒णां , प्रऽसि॑तौ , नु , अ॒स्तु॒ ॥
[३५] अबुध्रमिति चतुर्दशर्चस्य सूक्तस्य धानाकोलुशोविश्वेदेवाजगत्यंत्येद्वेत्रिष्टुभौ (भेद - विश्वेदेवाः ३ उषसोग्निः २ विश्वेदेवाः ९ एवं १४) |
अबु॑ध्रमु॒ त्य इंद्र॑वंतो अ॒ग्नयो॒ ज्योति॒र्भरं॑त उ॒षसो॒ व्यु॑ष्टिषु । म॒ही द्यावा॑पृथि॒वी चे॑तता॒मपो॒ऽद्या दे॒वाना॒मव॒ आ वृ॑णीमहे ॥
अबु॑ध्रं , ऊँ॒ इति॑ , त्ये , इंद्र॑ऽवंतः , अ॒ग्नयः॑ , ज्योतिः॑ , भरं॑तः , उ॒षसः॑ , विऽउ॑ष्टिषु । म॒ही इति॑ , द्यावा॑पृथि॒वी इति॑ , चे॒त॒तां॒ , अपः॑ , अ॒द्य , दे॒वानां॑ , अवः॑ , आ , वृ॒णी॒म॒हे॒ ॥
दि॒वस्पृ॑थि॒व्योरव॒ आ वृ॑णीमहे मा॒तॄंत्सिंधू॒न्पर्व॑तांछर्य॒णाव॑तः । अ॒ना॒गा॒स्त्वं सूर्य॑मु॒षास॑मीमहे भ॒द्रं सोमः॑ सुवा॒नो अ॒द्या कृ॑णोतु नः ॥
दि॒वःपृ॑थि॒व्योः , अवः॑ , आ , वृ॒णी॒म॒हे॒ , मा॒तॄन् , सिंधू॑न् , पर्व॑तान् , श॒र्य॒णाऽव॑तः । अ॒ना॒गाः॒ऽत्वं , सूर्यं॑ , उ॒षसं॑ , ई॒म॒हे॒ , भ॒द्रं , सोमः॑ , सु॒वा॒नः , अ॒द्य , कृ॒णो॒तु॒ , नः॒ ॥
द्यावा॑ नो अ॒द्य पृ॑थि॒वी अना॑गसो म॒ही त्रा॑येतां सुवि॒ताय॑ मा॒तरा॑ । उ॒षा उ॒च्छंत्यप॑ बाधताम॒घं स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
द्यावा॑ , नः॒ , अ॒द्य , पृ॒थि॒वी इति॑ , अना॑गसः , म॒ही इति॑ , त्रा॒ये॒तां॒ , सु॒वि॒ताय॑ , मा॒तरा॑ । उ॒षाः , उ॒च्छंती॑ , अप॑ , बा॒ध॒तां॒ , अ॒घं , स्व॒स्ति , अ॒ग्निं , सं॒ऽइ॒धा॒नं , ई॒म॒हे॒ ॥
इ॒यं न॑ उ॒स्रा प्र॑थ॒मा सु॑दे॒व्यं॑ रे॒वत्स॒निभ्यो॑ रे॒वती॒ व्यु॑च्छतु । आ॒रे म॒न्युं दु॑र्वि॒दत्र॑स्य धीमहि स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
इ॒यं , नः॒ , उ॒स्रा , प्र॒थ॒मा , सु॒ऽदे॒व्यं॑ , रे॒वत् , स॒निऽभ्यः॑ , रे॒वती॑ , वि , उ॒च्छ॒तु॒ । आ॒रे , म॒न्युं , दुः॒ऽवि॒दत्र॑स्य , धी॒म॒हि॒ , स्व॒स्ति , अ॒ग्निं , सं॒ऽइ॒धा॒नं , ई॒म॒हे॒ ॥
प्र याः सिस्र॑ते॒ सूर्य॑स्य र॒श्मिभि॒र्ज्योति॒र्भरं॑तीरु॒षसो॒ व्यु॑ष्टिषु । भ॒द्रा नो॑ अ॒द्य श्रव॑से॒ व्यु॑च्छत स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
प्र , याः , सिस्र॑ते , सूर्य॑स्य , र॒श्मिऽभिः॑ , ज्योतिः॑ , भरं॑तीः , उ॒षसः॑ , विऽउ॑ष्टिषु । भ॒द्राः , नः॒ , अ॒द्य , श्रव॑से , वि , उ॒च्छ॒त॒ , स्व॒स्ति , अ॒ग्निं , सं॒ऽइ॒धा॒नं , ई॒म॒हे॒ ॥
अ॒न॒मी॒वा उ॒षस॒ आ च॑रंतु न॒ उद॒ग्नयो॑ जिहतां॒ ज्योति॑षा बृ॒हत् । आयु॑क्षाताम॒श्विना॒ तूतु॑जिं॒ रथं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
अ॒न॒मी॒वाः , उ॒षसः॑ , आ , च॒रं॒तु॒ , नः॒ , उत् , अ॒ग्नयः॑ , जि॒ह॒तां॒ , ज्योति॑षा , बृ॒हत् । अयु॑क्षातां , अ॒श्विना॑ , तूतु॑जिं , रथं॑ , स्व॒स्ति , अ॒ग्निं , सं॒ऽइ॒धा॒नं , ई॒म॒हे॒ ॥
श्रेष्ठं॑ नो अ॒द्य स॑वित॒र्वरे॑ण्यं भा॒गमा सु॑व॒ स हि र॑त्न॒धा असि॑ । रा॒यो जनि॑त्रीं धि॒षणा॒मुप॑ ब्रुवे स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
श्रेष्ठं॑ , नः॒ , अ॒द्य , स॒वि॒तः॒ , वरे॑ण्यं , भा॒गं , आ , सु॒व॒ , सः , हि , र॒त्न॒ऽधाः , असि॑ । रा॒यः , जनि॑त्रीन् , धि॒षणां॑ , उप॑ , ब्रु॒वे॒ , स्व॒स्ति , अ॒ग्निं , सं॒ऽइ॒धा॒नं , ई॒म॒हे॒ ॥
पिप॑र्तु मा॒ तदृ॒तस्य॑ प्र॒वाच॑नं दे॒वानां॒ यन्म॑नु॒ष्या॒३॒॑ अम॑न्महि । विश्वा॒ इदु॒स्राः स्पळुदे॑ति॒ सूर्यः॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
पिप॑र्तु , मा॒ , तत् , ऋ॒तस्य॑ , प्र॒ऽवाच॑नं , दे॒वानां॑ , यत् , म॒नु॒ष्याः॑ , अम॑न्महि । विश्वाः॑ , इत् , उ॒स्राः , स्पट् , उत् , ए॒ति॒ , सूर्यः॑ , स्व॒स्ति , अ॒ग्निं , सं॒ऽइ॒धा॒नं , ई॒म॒हे॒ ॥
अ॒द्वे॒षो अ॒द्य ब॒र्हिषः॒ स्तरी॑मणि॒ ग्राव्णां॒ योगे॒ मन्म॑नः॒ साध॑ ईमहे । आ॒दि॒त्यानां॒ शर्म॑णि॒ स्था भु॑रण्यसि स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
अ॒द्वे॒षः , अ॒द्य , ब॒र्हिषः॑ , स्तरी॑मणि , ग्राव्णां॑ , योगे॑ , मन्म॑नः , साधे॑ , ई॒म॒हे॒ । आ॒दि॒त्यानां॑ , शर्म॑णि , स्थाः , भु॒र॒ण्य॒सि॒ , स्व॒स्ति , अ॒ग्निं , सं॒ऽइ॒धा॒नं , ई॒म॒हे॒ ॥
आ नो॑ ब॒र्हिः स॑ध॒मादे॑ बृ॒हद्दि॒वि दे॒वाँ ई॑ळे सा॒दया॑ स॒प्त होतॄ॑न् । इंद्रं॑ मि॒त्रं वरु॑णं सा॒तये॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
आ , नः॒ , ब॒र्हिः , स॒ध॒ऽमादे॑ , बृ॒हत् , दि॒वि , दे॒वान् , ई॒ळे॒ , सा॒दय॑ , स॒प्त , होतॄ॑न् । इंद्रं॑ , मि॒त्रं , वरु॑णं , सा॒तये॑ , भगं॑ , स्व॒स्ति , अ॒ग्निं , सं॒ऽइ॒धा॒नं , ई॒म॒हे॒ ॥
त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये वृ॒धे नो॑ य॒ज्ञम॑वता सजोषसः । बृह॒स्पतिं॑ पू॒षण॑म॒श्विना॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
ते , आ॒दि॒त्याः॒ , आ , ग॒त॒ , स॒र्वता॑तये , वृ॒धे , नः॒ , य॒ज्ञं , अ॒व॒त॒ , स॒ऽजो॒ष॒सः॒ । बृह॒स्पतिं॑ , पू॒षणं॑ , अ॒श्विना॑ , भगं॑ , स्व॒स्ति , अ॒ग्निं , सं॒ऽइ॒धा॒नं , ई॒म॒हे॒ ॥
तन्नो॑ देवा यच्छत सुप्रवाच॒नं छ॒र्दिरा॑दित्याः सु॒भरं॑ नृ॒पाय्यं॑ । पश्वे॑ तो॒काय॒ तन॑याय जी॒वसे॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
तत् , नः॒ , दे॒वाः॒ , य॒च्छ॒त॒ , सु॒ऽप्र॒वा॒च॒नं , छ॒र्दिः , आ॒दि॒त्याः॒ , सु॒ऽभरं॑ , नृ॒ऽपाय्यं॑ । पश्वे॑ , तो॒काय॑ , तन॑याय , जी॒वसे॑ , स्व॒स्ति , अ॒ग्निं , सं॒ऽइ॒धा॒नं , ई॒म॒हे॒ ॥
विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवंत्व॒ग्नयः॒ समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒सा ग॑मंतु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ॥
विश्वे॑ , अ॒द्य , म॒रुतः॑ , विश्वे॑ , ऊ॒ती , विश्वे॑ , भ॒वं॒तु॒ , अ॒ग्नयः॑ , संऽइ॑द्धाः । विश्वे॑ , नः॒ , दे॒वाः , अ॒व॒सा , आ , ग॒मं॒तु॒ , विश्वं॑ , अ॒स्तु॒ , द्रवि॑णं , वाजः॑ , अ॒स्मे इति॑ ॥
यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं त्राय॑ध्वे॒ यं पि॑पृ॒थात्यंहः॑ । यो वो॑ गोपी॒थे न भ॒यस्य॒ वेद॒ ते स्या॑म दे॒ववी॑तये तुरासः ॥
यं , दे॒वा॒सः॒ , अव॑थ , वाज॑ऽसातौ , यं , त्राय॑ध्वे , यं , पि॒पृ॒थ , अति॑ , अंहः॑ । यः , वः॒ , गो॒ऽपी॒थे , न , भ॒यस्य॑ , वेद॑ , ते , स्या॒म॒ , दे॒वऽवी॑तये , तु॒रा॒सः॒ ॥
[३६] उषासानक्तेति चतुर्दशर्चस्य सूक्तस्य धानाकोलुशोविश्वेदेवाजगत्यंत्येद्वे त्रिष्टुभौ (भेदपक्षे - विश्वेदेवाः १३ सविता १ एवं १४) |
उ॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । इंद्रं॑ हुवे म॒रुतः॒ पर्व॑ताँ अ॒प आ॑दि॒त्यांद्यावा॑पृथि॒वी अ॒पः स्वः॑ ॥
उ॒षसा॒नक्ता॑ , बृ॒ह॒ती इति॑ , सु॒ऽपेश॑सा , द्यावा॒क्षामा॑ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा । इंद्रं॑ , हु॒वे॒ , म॒रुतः॑ , पर्व॑तान् , अ॒पः , आ॒दि॒त्यान् , द्यावा॑पृथि॒वी इति॑ , अ॒पः , स्व१॒॑रिति॒ स्वः॑ ॥
द्यौश्च॑ नः पृथि॒वी च॒ प्रचे॑तस ऋ॒ताव॑री रक्षता॒मंह॑सो रि॒षः । मा दु॑र्वि॒दत्रा॒ निर्ऋ॑तिर्न ईशत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
द्यौः , च॒ , नः॒ , पृ॒थि॒वी , च॒ , प्रऽचे॑तसा , ऋ॒तव॑री॒ इत्यृ॒तऽव॑री , र॒क्ष॒तां॒ , अंह॑सः , रि॒षः । मा , दुः॒ऽवि॒दत्रा॑ , निःऽऋ॑तिः , नः॒ , ई॒श॒त॒ , तत् , दे॒वानां॑ , अवः॑ , अ॒द्य , वृ॒णी॒म॒हे॒ ॥
विश्व॑स्मान्नो॒ अदि॑तिः पा॒त्वंह॑सो मा॒ता मि॒त्रस्य॒ वरु॑णस्य रे॒वतः॑ । स्व॑र्व॒ज्ज्योति॑रवृ॒कं न॑शीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
विश्व॑स्मात् , नः॒ , अदि॑तिः , पा॒तु॒ , अंह॑सः , मा॒ता , मि॒त्रस्य॑ , वरु॑णस्य , रे॒वतः॑ । स्वः॑ऽवत् , ज्योतिः॑ , अ॒वृ॒कं , न॒शी॒म॒हि॒ , तत् , दे॒वानां॑ , अवः॑ , अ॒द्य , वृ॒णी॒म॒हे॒ ॥
ग्रावा॒ वद॒न्नप॒ रक्षां॑सि सेधतु दु॒ष्ष्वप्न्यं॒ निर्ऋ॑तिं॒ विश्व॑म॒त्रिणं॑ । आ॒दि॒त्यं शर्म॑ म॒रुता॑मशीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
ग्रावा॑ , वद॑न् , अप॑ , रक्षां॑सि , से॒ध॒तु॒ , दुः॒ऽस्वप्न्यं॑ , निःऽऋ॑तिं , विश्वं॑ , अ॒त्रिणं॑ । आ॒दि॒त्यं , शर्म॑ , म॒रुतां॑ , अ॒शी॒म॒हि॒ , तत् , दे॒वानां॑ , अवः॑ , अ॒द्य , वृ॒णी॒म॒हे॒ ॥
एंद्रो॑ ब॒र्हिः सीद॑तु॒ पिन्व॑ता॒मिळा॒ बृह॒स्पतिः॒ साम॑भिर्ऋ॒क्वो अ॑र्चतु । सु॒प्र॒के॒तं जी॒वसे॒ मन्म॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
आ , इंद्रः॑ , ब॒र्हिः , सीद॑तु , पिन्व॑तां , इळा॑ , बृह॒स्पतिः॑ , साम॑ऽभिः , ऋ॒क्वः , अ॒र्च॒तु॒ । सु॒ऽप्र॒के॒तं , जी॒वसे॑ , मन्म॑ , धी॒म॒हि॒ , तत् , दे॒वानां॑ , अवः॑ , अ॒द्य , वृ॒णी॒म॒हे॒ ॥
दि॒वि॒स्पृशं॑ य॒ज्ञम॒स्माक॑मश्विना जी॒राध्व॑रं कृणुतं सु॒म्नमि॒ष्टये॑ । प्रा॒चीन॑रश्मि॒माहु॑तं घृ॒तेन॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
दि॒वि॒ऽस्पृशं॑ , य॒ज्ञं , अ॒स्माकं॑ , अ॒श्वि॒ना॒ , जी॒रऽअ॑ध्वरं , कृ॒णु॒तं॒ , सु॒म्नं , इ॒ष्टये॑ । प्रा॒चीन॑ऽरश्मिं , आऽहु॑तं , घृ॒तेन॑ , तत् , दे॒वानां॑ , अवः॑ , अ॒द्य , वृ॒णी॒म॒हे॒ ॥
उप॑ ह्वये सु॒हवं॒ मारु॑तं ग॒णं पा॑व॒कमृ॒ष्वं स॒ख्याय॑ शं॒भुवं॑ । रा॒यस्पोषं॑ सौश्रव॒साय॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
उप॑ , ह्व॒ये॒ , सु॒ऽहवं॑ , मारु॑तं , ग॒णं , पा॒व॒कं , ऋ॒ष्वं , स॒ख्याय॑ , शं॒ऽभुवं॑ । रा॒यः , पोषं॑ , सौ॒श्र॒व॒साय॑ , धी॒म॒हि॒ , तत् , दे॒वानां॑ , अवः॑ , अ॒द्य , वृ॒णी॒म॒हे॒ ॥
अ॒पां पेरुं॑ जी॒वध॑न्यं भरामहे देवा॒व्यं॑ सु॒हव॑मध्वर॒श्रियं॑ । सु॒र॒श्मिं सोम॑मिंद्रि॒यं य॑मीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
अ॒पां , पेरुं॑ , जी॒वऽध॑न्यं , भ॒रा॒म॒हे॒ , दे॒व॒ऽअ॒व्यं॑ , सु॒ऽहवं॑ , अ॒ध्व॒र॒ऽश्रियं॑ । सु॒ऽर॒श्मिं , सोमं॑ , इं॒द्रि॒यं , य॒मी॒म॒हि॒ , तत् , दे॒वानां॑ , अवः॑ , अ॒द्य , वृ॒णी॒म॒हे॒ ॥
स॒नेम॒ तत्सु॑स॒निता॑ स॒नित्व॑भिर्व॒यं जी॒वा जी॒वपु॑त्रा॒ अना॑गसः । ब्र॒ह्म॒द्विषो॒ विष्व॒गेनो॑ भरेरत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
स॒नेम॑ , तत् , सु॒ऽस॒निता॑ , स॒नित्व॑ऽभिः , व॒यं , जी॒वाः , जी॒वऽपु॑त्राः , अना॑गसः । ब्र॒ह्म॒ऽद्विषः॑ , विष्व॑क् , एनः॑ , भ॒रे॒र॒त॒ , तत् , दे॒वानां॑ , अवः॑ , अ॒द्य , वृ॒णी॒म॒हे॒ ॥
ये स्था मनो॑र्य॒ज्ञिया॒स्ते शृ॑णोतन॒ यद्वो॑ देवा॒ ईम॑हे॒ तद्द॑दातन । जैत्रं॒ क्रतुं॑ रयि॒मद्वी॒रव॒द्यश॒स्तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
ये , स्थ , मनोः॑ , य॒ज्ञियाः॑ , ते , शृ॒णो॒त॒न॒ , यत् , वः॒ , दे॒वाः॒ , ईम॑हे , तत् , द॒दा॒त॒न॒ । जैत्रं॑ , क्रतुं॑ , र॒यि॒मत् , वी॒रऽव॑त् , यशः॑ , तत् , दे॒वानां॑ , अवः॑ , अ॒द्य , वृ॒णी॒म॒हे॒ ॥
म॒हद॒द्य म॑ह॒तामा वृ॑णीम॒हेऽवो॑ दे॒वानां॑ बृह॒ताम॑न॒र्वणां॑ । यथा॒ वसु॑ वी॒रजा॑तं॒ नशा॑महै॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
म॒हत् , अ॒द्य , म॒ह॒तां , आ , वृ॒णी॒म॒हे॒ , अवः॑ , दे॒वानां॑ , बृ॒ह॒तां , अ॒न॒र्वणां॑ । यथा॑ , वसु॑ , वी॒रऽजा॑तं , नशा॑महै , तत् , दे॒वानां॑ , अवः॑ , अ॒द्य , वृ॒णी॒म॒हे॒ ॥
म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑ । श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥
म॒हः , अ॒ग्नेः , सं॒ऽइ॒धा॒नस्य॑ , शर्म॑णि , अना॑गाः , मि॒त्रे , वरु॑णे , स्व॒स्तये॑ । श्रेष्ठे॑ , स्या॒म॒ , स॒वि॒तुः , सवी॑मनि , तत् , दे॒वानां॑ , अवः॑ , अ॒द्य , वृ॒णी॒म॒हे॒ ॥
ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे॑ मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः । ते सौभ॑गं वी॒रव॒द्गोम॒दप्नो॒ दधा॑तन॒ द्रवि॑णं चि॒त्रम॒स्मे ॥
ये , स॒वि॒तुः , स॒त्यऽस॑वस्य , विश्वे॑ , मि॒त्रस्य॑ , व्र॒ते , वरु॑णस्य , दे॒वाः । ते , सौभ॑गं , वी॒रऽव॑त् , गोऽम॑त् , अप्नः॑ , दधा॑तन , द्रवि॑णं , चि॒त्रं , अ॒स्मे इति॑ ॥
स॒वि॒ता प॒श्चाता॑त्सवि॒ता पु॒रस्ता॑त्सवि॒तोत्त॒रात्ता॑त्सवि॒ताध॒रात्ता॑त् । स॒वि॒ता नः॑ सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासतां दी॒र्घमायुः॑ ॥
स॒वि॒ता , प॒श्चाता॑त् , स॒वि॒ता , पु॒रस्ता॑त् , स॒वि॒ता , उ॒त्त॒रात्ता॑त् , स॒वि॒ता , अ॒ध॒रात्ता॑त् । स॒वि॒ता , नः॒ , सु॒व॒तु॒ , स॒र्वऽता॑तिं , स॒वि॒ता , नः॒ , रा॒स॒तां॒ , दी॒र्घं , आयुः॑ ॥
[३७] नमोमित्रस्येति द्वादशर्चस्य सूक्तस्य सौर्योभितपाः सूर्योजगती दशमी त्रिष्टुप् |
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत । दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शंसत ॥
नमः॑ , मि॒त्रस्य॑ , वरु॑णस्य , चक्ष॑से , म॒हः , दे॒वाय॑ , तत् , ऋ॒तं , स॒प॒र्य॒त॒ । दू॒रे॒ऽदृशे॑ , दे॒वऽजा॑ताय , के॒तवे॑ , दि॒वः , पु॒त्राय॑ , सूर्या॑य , शं॒स॒त॒ ॥
सा मा॑ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा॑ च॒ यत्र॑ त॒तन॒न्नहा॑नि च । विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो॑ वि॒श्वाहोदे॑ति॒ सूर्यः॑ ॥
सा , मा॒ , स॒त्यऽउ॑क्तिः , परि॑ , पा॒तु॒ , वि॒श्वतः॑ , द्यावा॑ , च॒ , यत्र॑ , त॒तन॑न् , अहा॑नि , च॒ । विश्वं॑ , अ॒न्यत् , नि , वि॒श॒ते॒ , यत् , एज॑ति , वि॒श्वाहा॑ , आपः॑ , वि॒श्वाहा॑ , उत् , ए॒ति॒ , सूर्यः॑ ॥
न ते॒ अदे॑वः प्र॒दिवो॒ नि वा॑सते॒ यदे॑त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ । प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ॥
न , ते॒ , अदे॑वः , प्र॒ऽदिवः॑ , नि , वा॒स॒ते॒ , यत् , ए॒त॒शेभिः॑ , प॒त॒रैः , र॒थ॒र्यसि॑ । प्रा॒चीनं॑ , अ॒न्यत् , अनु॑ , व॒र्त॒ते॒ , रजः॑ , उत् , अ॒न्येन॑ , ज्योति॑षा , या॒सि॒ , सू॒र्य॒ ॥
येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना॑ । तेना॒स्मद्विश्वा॒मनि॑रा॒मना॑हुति॒मपामी॑वा॒मप॑ दु॒ष्ष्वप्न्यं॑ सुव ॥
येन॑ , सू॒र्य॒ , ज्योति॑षा , बाध॑से , तमः॑ , जग॑त् , च॒ , विश्वं॑ , उ॒त्ऽइ॒यर्षि॑ , भा॒नुना॑ । तेन॑ , अ॒स्मत् , विश्वां॑ , अनि॑रां , अना॑हुतिं , अप॑ , अमी॑वां , अप॑ , दुः॒ऽस्वप्न्यं॑ , सु॒व॒ ॥
विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे॑ळयन्नु॒च्चर॑सि स्व॒धा अनु॑ । यद॒द्य त्वा॑ सूर्योप॒ब्रवा॑महै॒ तं नो॑ दे॒वा अनु॑ मंसीरत॒ क्रतुं॑ ॥
विश्व॑स्य , हि , प्रऽइ॑षितः , रक्ष॑सि , व्र॒तं , अहे॑ळयन् , उ॒त्ऽचर॑सि , स्व॒धाः , अनु॑ । यत् , अ॒द्य , त्वा॒ , सू॒र्य॒ , उ॒प॒ऽब्रवा॑महै , तं , नः॒ , दे॒वाः , अनु॑ , मं॒सी॒र॒त॒ , क्रतुं॑ ॥
तं नो॒ द्यावा॑पृथि॒वी तन्न॒ आप॒ इंद्रः॑ शृण्वंतु म॒रुतो॒ हवं॒ वचः॑ । मा शूने॑ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीवं॑तो जर॒णाम॑शीमहि ॥
तं , नः॒ , द्यावा॑पृथि॒वी इति॑ , तत् , नः॒ , आपः॑ , इंद्रः॑ , शृ॒ण्वं॒तु॒ , म॒रुतः॑ , हवं॑ , वचः॑ । मा , शूने॑ , भू॒म॒ , सूर्य॑स्य , सं॒ऽदृशि॑ , भ॒द्रं , जीवं॑तः , ज॒र॒णां , अ॒शी॒म॒हि॒ ॥
वि॒श्वाहा॑ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जावं॑तो अनमी॒वा अना॑गसः । उ॒द्यंतं॑ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥
वि॒श्वाहा॑ , त्वा॒ , सु॒ऽमन॑सः , सु॒ऽचक्ष॑सः , प्र॒जाऽवं॑तः , अ॒न॒मी॒वाः , अना॑गसः । उ॒त्ऽयंतं॑ , त्वा॒ , मि॒त्र॒ऽम॒हः॒ , दि॒वेऽदि॑वे , ज्योक् , जी॒वाः , प्रति॑ , प॒श्ये॒म॒ , सू॒र्य॒ ॥
महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्वं॑तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ । आ॒रोहं॑तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ॥
महि॑ , ज्योतिः॑ , बिभ्र॑तं , त्वा॒ , वि॒ऽच॒क्ष॒ण॒ , भास्वं॑तं , चक्षु॑षेऽचक्षुषे , मयः॑ । आ॒ऽरोहं॑तं , बृ॒ह॒तः , पाज॑सः , परि॑ , व॒यं , जी॒वाः , प्रति॑ , प॒श्ये॒म॒ , सू॒र्य॒ ॥
यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शंते॑ अ॒क्तुभिः॑ । अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना॑ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥
यस्य॑ , ते॒ , विश्वा॑ , भुव॑नानि , के॒तुना॑ , प्र , च॒ , ईर॑ते , नि , च॒ , वि॒शंते॑ , अ॒क्तुऽभिः॑ । अ॒ना॒गाः॒ऽत्वेन॑ , ह॒रि॒ऽके॒श॒ , सू॒र्य॒ , अह्ना॑ऽअह्ना , नः॒ , वस्य॑साऽवस्यसा , उत् , इ॒हि॒ ॥
शं नो॑ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ । यथा॒ शमध्वं॒छमस॑द्दुरो॒णे तत्सू॑र्य॒ द्रवि॑णं धेहि चि॒त्रं ॥
शं , नः॒ , भ॒व॒ , चक्ष॑सा , सं , नः॒ , अह्ना॑ , शं , भा॒नुना॑ , शं , हि॒मा , शं , घृ॒णेन॑ । यथा॑ , शं , अध्व॑न् , शं , अस॑त् , दु॒रो॒णे , तत् , सू॒र्य॒ , द्रवि॑णं , धे॒हि॒ , चि॒त्रं ॥
अ॒स्माकं॑ देवा उ॒भया॑य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे । अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ॥
अ॒स्माकं॑ , दे॒वाः॒ , उ॒भया॑य , जन्म॑ने , शर्म॑ , य॒च्छ॒त॒ , द्वि॒ऽपदे॑ , चतुः॑ऽपदे । अ॒दत् , पिब॑त् , ऊ॒र्जय॑मानं , आशि॑तं , तत् , अ॒स्मे इति॑ , शं , योः , अ॒र॒पः , द॒धा॒त॒न॒ ॥
यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नं । अरा॑वा॒ यो नो॑ अ॒भि दु॑च्छुना॒यते॒ तस्मिं॒तदेनो॑ वसवो॒ नि धे॑तन ॥
यत् , वः॒ , दे॒वाः॒ , च॒कृ॒म , जि॒ह्वया॑ , गु॒रु , मन॑सः , वा॒ , प्रऽयु॑ती , दे॒व॒ऽहेळ॑नं । अरा॑वा , यः , नः॒ , अ॒भि , दु॒च्छु॒न॒ऽयते॑ , तस्मि॑न् , तत् , एनः॑ , व॒स॒वः॒ , नि , धे॒त॒न॒ ॥
[३८] अस्मिन्नइति पंचर्चस्य सूक्तस्य मुष्कवानिंद्रइंद्रोजगती |
अ॒स्मिन्न॑ इंद्र पृत्सु॒तौ यश॑स्वति॒ शिमी॑वति॒ क्रंद॑सि॒ प्राव॑ सा॒तये॑ । यत्र॒ गोषा॑ता धृषि॒तेषु॑ खा॒दिषु॒ विष्व॒क्पतं॑ति दि॒द्यवो॑ नृ॒षाह्ये॑ ॥
अ॒स्मिन् , नः॒ , इं॒द्र॒ , पृ॒त्सु॒तौ , यश॑स्वति , शिमी॑ऽवति , क्रंद॑सि , प्र , अ॒व॒ , सा॒तये॑ । यत्र॑ , गोऽसा॑ता , धृ॒षि॒तेषु॑ , खा॒दिषु॑ , विष्व॑क् , पतं॑ति , दि॒द्यवः॑ , नृ॒ऽसह्ये॑ ॥
स नः॑ क्षु॒मंतं॒ सद॑ने॒ व्यू॑र्णुहि॒ गोअ॑र्णसं र॒यिमिं॑द्र श्र॒वाय्यं॑ । स्याम॑ ते॒ जय॑तः शक्र मे॒दिनो॒ यथा॑ व॒यमु॒श्मसि॒ तद्व॑सो कृधि ॥
सः , नः॒ , क्षु॒ऽमंतं॑ , सद॑ने , वि , ऊ॒र्णु॒हि॒ , गोऽअ॑र्णसं , र॒यिं , इं॒द्र॒ , श्र॒वाय्यं॑ । स्याम॑ , ते॒ , जय॑तः , श॒क्र॒ , मे॒दिनः॑ , यथा॑ , व॒यं , उ॒श्मसि॑ , तत् , व॒सो॒ इति॑ , कृ॒धि॒ ॥
यो नो॒ दास॒ आर्यो॑ वा पुरुष्टु॒तादे॑व इंद्र यु॒धये॒ चिके॑तति । अ॒स्माभि॑ष्टे सु॒षहाः॑ संतु॒ शत्र॑व॒स्त्वया॑ व॒यं तान्व॑नुयाम संग॒मे ॥
यः , नः॒ , दासः॑ , आर्यः॑ , वा॒ , पु॒रु॒ऽस्तु॒त॒ , अदे॑वः , इं॒द्र॒ , यु॒धये॑ , चिके॑तति । अ॒स्माभिः॑ , ते॒ , सु॒ऽसहाः॑ , सं॒तु॒ , शत्र॑वः , त्वया॑ , व॒यं , तान् , व॒नु॒या॒म॒ , सं॒ऽग॒मे ॥
यो द॒भ्रेभि॒र्हव्यो॒ यश्च॒ भूरि॑भि॒र्यो अ॒भीके॑ वरिवो॒विन्नृ॒षाह्ये॑ । तं वि॑खा॒दे सस्नि॑म॒द्य श्रु॒तं नर॑म॒र्वांच॒मिंद्र॒मव॑से करामहे ॥
यः , द॒भ्रेभिः॑ , हव्यः॑ , यः , च॒ , भूरि॑ऽभिः , यः , अ॒भीके॑ , व॒रि॒वः॒ऽवित् , नृ॒ऽसह्ये॑ । तं , वि॒ऽखा॒दे , सस्निं॑ , अ॒द्य , श्रु॒तं , नरं॑ , अ॒र्वांचं॑ , इंद्रं॑ , अव॑से , क॒रा॒म॒हे॒ ॥
स्व॒वृजं॒ हि त्वाम॒हमिं॑द्र शु॒श्रवा॑नानु॒दं वृ॑षभ रध्र॒चोद॑नं । प्र मुं॑चस्व॒ परि॒ कुत्सा॑दि॒हा ग॑हि॒ किमु॒ त्वावा॑न्मु॒ष्कयो॑र्ब॒द्ध आ॑सते ॥
स्व॒ऽवृजं॑ , हि , त्वां , अ॒हं , इं॒द्र॒ , शु॒श्रव॑ , अ॒न॒नु॒ऽदं , वृ॒ष॒भ॒ , र॒ध्र॒ऽचोद॑नं । प्र , मुं॒च॒स्व॒ , परि॑ , कुत्सा॑त् , इ॒ह , आ , ग॒हि॒ , किं , ऊँ॒ इति॑ , त्वाऽवा॑न् , मु॒ष्कयोः॑ , ब॒द्धः , आ॒स॒ते॒ ॥
[३९] योवामिति चतुर्दशर्चस्य सूक्तस्य काक्षीवतीघोषाश्विनौ जगत्यंत्यात्रिष्टुप् |
यो वां॒ परि॑ज्मा सु॒वृद॑श्विना॒ रथो॑ दो॒षामु॒षासो॒ हव्यो॑ ह॒विष्म॑ता । श॒श्व॒त्त॒मास॒स्तमु॑ वामि॒दं व॒यं पि॒तुर्न नाम॑ सु॒हवं॑ हवामहे ॥
यः , वां॒ , परि॑ऽज्मा , सु॒ऽवृत् , अ॒श्वि॒ना॒ , रथः॑ , दो॒षां , उ॒षसः॑ , हव्यः॑ , ह॒विष्म॑ता । श॒श्व॒त्ऽत॒मासः॑ , तं , ऊँ॒ इति॑ , वां॒ , इ॒दं , व॒यं , पि॒तुः , न , नाम॑ , सु॒ऽहवं॑ , ह॒वा॒म॒हे॒ ॥
चो॒दय॑तं सू॒नृताः॒ पिन्व॑तं॒ धिय॒ उत्पुरं॑धीरीरयतं॒ तदु॑श्मसि । य॒शसं॑ भा॒गं कृ॑णुतं नो अश्विना॒ सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतं ॥
चो॒दय॑तं , सू॒नृताः॑ , पिन्व॑तं , धियः॑ , उत् , पुरं॑ऽधीः , ई॒र॒य॒तं॒ , तत् , उ॒श्म॒सि॒ । य॒शसं॑ , भा॒गं , कृ॒णु॒तं॒ , नः॒ , अ॒श्वि॒ना॒ , सोमं॑ , न , चारुं॑ , म॒घव॑त्ऽसु , नः॒ , कृ॒तं॒ ॥
अ॒मा॒जुर॑श्चिद्भवथो यु॒वं भगो॑ऽना॒शोश्चि॑दवि॒तारा॑प॒मस्य॑ चित् । अं॒धस्य॑ चिन्नासत्या कृ॒शस्य॑ चिद्यु॒वामिदा॑हुर्भि॒षजा॑ रु॒तस्य॑ चित् ॥
अ॒मा॒ऽजुरः॑ , चि॒त् , भ॒व॒थः॒ , यु॒वं , भगः॑ , अ॒ना॒शोः , चि॒त् , अ॒वि॒तारा॑ , अ॒प॒मस्य॑ , चि॒त् । अं॒धस्य॑ , चि॒त् , ना॒स॒त्या॒ , कृ॒शस्य॑ , चि॒त् , यु॒वां , इत् , आ॒हुः॒ , भि॒षजा॑ , रु॒तस्य॑ , चि॒त् ॥
यु॒वं च्यवा॑नं स॒नयं॒ यथा॒ रथं॒ पुन॒र्युवा॑नं च॒रथा॑य तक्षथुः । निष्टौ॒ग्र्यमू॑हथुर॒द्भ्यस्परि॒ विश्वेत्ता वां॒ सव॑नेषु प्र॒वाच्या॑ ॥
यु॒वं , च्यवा॑नं , स॒नयं॑ , यथा॑ , रथं॑ , पुनः॑ , युवा॑नं , च॒रथा॑य , त॒क्ष॒थुः॒ । निः , तौ॒ग्र्यं , ऊ॒ह॒थुः॒ , अ॒त्ऽभ्यः , परि॑ , विश्वा॑ , इत् , ता , वां॒ , सव॑नेषु , प्र॒ऽवाच्या॑ ॥
पु॒रा॒णा वां॑ वी॒र्या॒३॒॑ प्र ब्र॑वा॒ जनेऽथो॑ हासथुर्भि॒षजा॑ मयो॒भुवा॑ । ता वां॒ नु नव्या॒वव॑से करामहे॒ऽयं ना॑सत्या॒ श्रद॒रिर्यथा॒ दध॑त् ॥
पु॒रा॒णा , वां॒ , वी॒र्या॑ , प्र , ब्र॒व॒ , जने॑ , अथो॒ इति॑ , ह॒ , आ॒स॒थुः॒ , भि॒षजा॑ , म॒यः॒ऽभुवा॑ । ता , वां॒ , नु , नव्यौ॑ , अव॑से , क॒रा॒म॒हे॒ , अ॒यं , ना॒स॒त्या॒ , श्रत् , अ॒रिः , यथा॑ , दध॑त् ॥
इ॒यं वा॑मह्वे शृणु॒तं मे॑ अश्विना पु॒त्राये॑व पि॒तरा॒ मह्यं॑ शिक्षतं । अना॑पि॒रज्ञा॑ असजा॒त्याम॑तिः पु॒रा तस्या॑ अ॒भिश॑स्ते॒रव॑ स्पृतं ॥
इ॒यं , वां॒ , अ॒ह्वे॒ , शृ॒णु॒तं , मे॒ , अ॒श्वि॒ना॒ , पु॒त्राय॑ऽइव , पि॒तरा॑ , मह्यं॑ , शि॒क्ष॒तं॒ । अना॑पिः , अज्ञाः॑ , अ॒स॒जा॒त्या , अम॑तिः , पु॒रा , तस्याः॑ , अ॒भिऽश॑स्तेः , अव॑ , स्पृ॒तं॒ ॥
यु॒वं रथे॑न विम॒दाय॑ शुं॒ध्युवं॒ न्यू॑हथुः पुरुमि॒त्रस्य॒ योष॑णां । यु॒वं हवं॑ वध्रिम॒त्या अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथुः॒ पुरं॑धये ॥
यु॒वं , रथे॑न , वि॒ऽम॒दाय॑ , शुं॒ध्युवं॑ , नि , ऊ॒ह॒थुः॒ , पु॒रु॒ऽमि॒त्रस्य॑ , योष॑णां । यु॒वं , हवं॑ , व॒ध्रि॒ऽम॒त्याः , अ॒ग॒च्छ॒तं॒ , यु॒वं , सुऽसु॑तिं , च॒क्र॒थुः॒ , पुरं॑ऽधये ॥
यु॒वं विप्र॑स्य जर॒णामु॑पे॒युषः॒ पुनः॑ क॒लेर॑कृणुतं॒ युव॒द्वयः॑ । यु॒वं वंद॑नमृश्य॒दादुदू॑पथुर्यु॒वं स॒द्यो वि॒श्पला॒मेत॑वे कृथः ॥
यु॒वं , विप्र॑स्य , ज॒र॒णां , उ॒प॒ऽई॒युषः॑ , पुन॒रिति॑ , क॒लेः , अ॒कृ॒णु॒तं॒ , यु॒व॒त् , वयः॑ । यु॒वं , वंद॑नं , ऋ॒श्य॒ऽदात् , उत् , ऊ॒प॒थुः॒ , यु॒वं , स॒द्यः , वि॒श्पलां॑ , एत॑वे , कृ॒थः॒ ॥
यु॒वं ह॑ रे॒भं वृ॑षणा॒ गुहा॑ हि॒तमुदै॑रयतं ममृ॒वांस॑मश्विना । यु॒वमृ॒बीस॑मु॒त त॒प्तमत्र॑य॒ ओम॑न्वंतं चक्रथुः स॒प्तव॑ध्रये ॥
यु॒वं , ह॒ , रे॒भं , वृ॒ष॒णा॒ , गुहा॑ , हि॒तं , उत् , ऐ॒र॒य॒तं॒ , म॒मृ॒ऽवांसं॑ , अ॒श्वि॒ना॒ । यु॒वं , ऋ॒बीसं॑ , उ॒त , त॒प्तं , अत्र॑ये , ओम॑न्ऽवंतं , च॒क्र॒थुः॒ , स॒प्तऽव॑ध्रये ॥
यु॒वं श्वे॒तं पे॒दवे॑ऽश्वि॒नाश्वं॑ न॒वभि॒र्वाजै॑र्नव॒ती च॑ वा॒जिनं॑ । च॒र्कृत्यं॑ ददथुर्द्राव॒यत्स॑खं॒ भगं॒ न नृभ्यो॒ हव्यं॑ मयो॒भुवं॑ ॥
यु॒वं , श्वे॒तं , पे॒दवे॑ , अ॒श्वि॒ना॒ , अश्वं॑ , न॒वऽभिः॑ , वाजैः॑ , न॒व॒ती , च॒ , वा॒जिनं॑ । च॒र्कृत्यं॑ , द॒द॒थुः॒ , द्र॒व॒यत्ऽस॑खं , भगं॑ , न , नृऽभ्यः॑ , हव्यं॑ , म॒यः॒ऽभुवं॑ ॥
न तं रा॑जानावदिते॒ कुत॑श्च॒न नांहो॑ अश्नोति दुरि॒तं नकि॑र्भ॒यं । यम॑श्विना सुहवा रुद्रवर्तनी पुरोर॒थं कृ॑णु॒थः पत्न्या॑ स॒ह ॥
न , तं , रा॒जा॒नौ॒ , अ॒दि॒ते॒ , कुतः॑ , च॒न , न , अंहः॑ , अ॒श्नो॒ति॒ , दुः॒ऽइ॒तं , नकिः॑ , भ॒यं । यं , अ॒श्वि॒ना॒ , सु॒ऽह॒वा॒ , रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी , पु॒रः॒ऽर॒थं , कृ॒णु॒थः , पत्न्या॑ , स॒ह ॥
आ तेन॑ यातं॒ मन॑सो॒ जवी॑यसा॒ रथं॒ यं वा॑मृ॒भव॑श्च॒क्रुर॑श्विना । यस्य॒ योगे॑ दुहि॒ता जाय॑ते दि॒व उ॒भे अह॑नी सु॒दिने॑ वि॒वस्व॑तः ॥
आ , तेन॑ , या॒तं॒ , मन॑सः , जवी॑यसा , रथं॑ , यं , वां॒ , ऋ॒भवः॑ , च॒क्रुः , अ॒श्वि॒ना॒ । यस्य॑ , योगे॑ , दु॒हि॒ता , जाय॑ते , दि॒वः , उ॒भे इति॑ , अह॑नी॒ इति॑ , सु॒दिने॒ इति॑ सु॒ऽदिने॑ , वि॒वस्व॑तः ॥
ता व॒र्तिर्या॑तं ज॒युषा॒ वि पर्व॑त॒मपि॑न्वतं श॒यवे॑ धे॒नुम॑श्विना । वृक॑स्य चि॒द्वर्ति॑कामं॒तरा॒स्या॑द्यु॒वं शची॑भिर्ग्रसि॒ताम॑मुंचतं ॥
ता , व॒र्तिः , या॒तं॒ , ज॒युषा॑ , वि , पर्व॑तं , अपि॑न्वतं , श॒यवे॑ , धे॒नुं , अ॒श्वि॒ना॒ । वृक॑स्य , चि॒त् , वर्ति॑कां , अं॒तः , आ॒स्या॑त् , यु॒वं , शची॑भिः , ग्र॒सि॒तां , अ॒मुं॒च॒तं॒ ॥
ए॒तं वां॒ स्तोम॑मश्विनावक॒र्मात॑क्षाम॒ भृग॑वो॒ न रथं॑ । न्य॑मृक्षाम॒ योष॑णां॒ न मर्ये॒ नित्यं॒ न सू॒नुं तन॑यं॒ दधा॑नाः ॥
ए॒तं , वां॒ , स्तोमं॑ , अ॒श्वि॒नौ॒ , अ॒क॒र्म॒ , अत॑क्षाम , भृग॑वः , न , रथं॑ । नि , अ॒मृ॒क्षा॒म॒ , योष॑णां , न , मर्ये॑ , नित्यं॑ , न , सू॒नुं , तन॑यं , दधा॑नाः ॥
[४०] रथंयांतमिति चतुर्दशर्चस्य सूक्तस्य काक्षीवतीघोषाश्विनौजगती |
रथं॒ यांतं॒ कुह॒ को ह॑ वां नरा॒ प्रति॑ द्यु॒मंतं॑ सुवि॒ताय॑ भूषति । प्रा॒त॒र्यावा॑णं वि॒भ्वं॑ वि॒शेवि॑शे॒ वस्तो॑र्वस्तो॒र्वह॑मानं धि॒या शमि॑ ॥
रथं॑ , यांतं॑ , कुह॑ , कः , ह॒ , वां॒ , न॒रा॒ , प्रति॑ , द्यु॒ऽमंतं॑ , सु॒वि॒ताय॑ , भू॒ष॒ति॒ । प्रा॒तः॒ऽयावा॑नं , वि॒ऽभ्वं॑ , वि॒शेऽवि॑शे , वस्तोः॑ऽवस्तोः , वह॑मानं , धि॒या , शमि॑ ॥
कुह॑ स्विद्दो॒षा कुह॒ वस्तो॑र॒श्विना॒ कुहा॑भिपि॒त्वं क॑रतः॒ कुहो॑षतुः । को वां॑ शयु॒त्रा वि॒धवे॑व दे॒वरं॒ मर्यं॒ न योषा॑ कृणुते स॒धस्थ॒ आ ॥
कुह॑ , स्वि॒त् , दो॒षा , कुह॑ , वस्तोः॑ , अ॒श्विना॑ , कुह॑ , अ॒भि॒ऽपि॒त्वं , क॒र॒तः॒ , कुह॑ , ऊ॒ष॒तुः॒ । कः , वां॒ , श॒यु॒ऽत्रा , वि॒धवा॑ऽइव , दे॒वरं॑ , मर्यं॑ , न , योषा॑ , कृ॒णु॒ते॒ , स॒धऽस्थे॑ , आ ॥
प्रा॒तर्ज॑रेथे जर॒णेव॒ काप॑या॒ वस्तो॑र्वस्तोर्यज॒ता ग॑च्छथो गृ॒हं । कस्य॑ ध्व॒स्रा भ॑वथः॒ कस्य॑ वा नरा राजपु॒त्रेव॒ सव॒नाव॑ गच्छथः ॥
प्रा॒तः , ज॒रे॒थे॒ इति॑ , ज॒र॒णाऽइ॑व , काप॑या , वस्तोः॑ऽवस्तोः , य॒ज॒ता , ग॒च्छ॒थः॒ , गृ॒हं । कस्य॑ , ध्व॒स्रा , भ॒व॒थः॒ , कस्य॑ , वा॒ , न॒रा॒ , रा॒ज॒पु॒त्राऽइ॑व , सव॑ना , अव॑ , ग॒च्छ॒थः॒ ॥
यु॒वां मृ॒गेव॑ वार॒णा मृ॑ग॒ण्यवो॑ दो॒षा वस्तो॑र्ह॒विषा॒ नि ह्व॑यामहे । यु॒वं होत्रा॑मृतु॒था जुह्व॑ते न॒रेषं॒ जना॑य वहथः शुभस्पती ॥
यु॒वां , मृ॒गाऽइ॑व , वा॒र॒णा , मृ॒ग॒ण्यवः॑ , दो॒षा , वस्तोः॑ , ह॒विषा॑ , नि , ह्व॒या॒म॒हे॒ । यु॒वं , होत्रां॑ , ऋ॒तु॒ऽथा , जुह्व॑ते , न॒रा॒ , इषं॑ , जना॑य , व॒ह॒थः॒ , शु॒भः॒ , प॒ती॒ इति॑ ॥
यु॒वां ह॒ घोषा॒ पर्य॑श्विना य॒ती राज्ञ॑ ऊचे दुहि॒ता पृ॒च्छे वां॑ नरा । भू॒तं मे॒ अह्न॑ उ॒त भू॑तम॒क्तवेऽश्वा॑वते र॒थिने॑ शक्त॒मर्व॑ते ॥
यु॒वां , ह॒ , घोषा॑ , परि॑ , अ॒श्वि॒ना॒ , य॒ती , राज्ञः॑ , ऊ॒चे॒ , दु॒हि॒ता , पृ॒च्छे , वां॒ , न॒रा॒ । भू॒तं , मे॒ , अह्ने॑ , उ॒त , भू॒तं॒ , अ॒क्तवे॑ , अश्व॑ऽवते , र॒थिने॑ , शक्तं॑ , अर्व॑ते ॥
यु॒वं क॒वी ष्ठः॒ पर्य॑श्विना॒ रथं॒ विशो॒ न कुत्सो॑ जरि॒तुर्न॑शायथः । यु॒वोर्ह॒ मक्षा॒ पर्य॑श्विना॒ मध्वा॒सा भ॑रत निष्कृ॒तं न योष॑णा ॥
यु॒वं , क॒वी इति॑ , स्थः॒ , परि॑ , अ॒श्वि॒ना॒ , रथं॑ , विशः॑ , न , कुत्सः॑ , ज॒रि॒तुः , न॒शा॒य॒थः॒ । यु॒वोः , ह॒ , मक्षा॑ , परि॑ , अ॒श्वि॒ना॒ , मधु॑ , आ॒सा , भ॒र॒त॒ , निः॒ऽकृ॒तं , न , योष॑णा ॥
यु॒वं ह॑ भु॒ज्युं यु॒वम॑श्विना॒ वशं॑ यु॒वं शिं॒जार॑मु॒शना॒मुपा॑रथुः । यु॒वो ररा॑वा॒ परि॑ स॒ख्यमा॑सते यु॒वोर॒हमव॑सा सु॒म्नमा च॑के ॥
यु॒वं , ह॒ , भु॒ज्युं , यु॒वं , अ॒श्वि॒ना॒ , वशं॑ , यु॒वं , शिं॒जारं॑ , उ॒शनां॑ , उप॑ , आ॒र॒थुः॒ । यु॒वोः , ररा॑वा , परि॑ , स॒ख्यं , आ॒स॒ते॒ , यु॒वोः , अ॒हं , अव॑सा , सु॒म्नं , आ , च॒के॒ ॥
यु॒वं ह॑ कृ॒शं यु॒वम॑श्विना श॒युं यु॒वं वि॒धंतं॑ वि॒धवा॑मुरुष्यथः । यु॒वं स॒निभ्यः॑ स्त॒नयं॑तमश्वि॒नाप॑ व्र॒जमू॑र्णुथः स॒प्तास्यं॑ ॥
यु॒वं , ह॒ , कृ॒शं , यु॒वं , अ॒श्वि॒ना॒ , श॒युं , यु॒वं , वि॒धंतं॑ , वि॒धवां॑ , उ॒रु॒ष्य॒थः॒ । यु॒वं , स॒निऽभ्यः॑ , स्त॒नयं॑तं , अ॒श्वि॒ना॒ , अप॑ , व्र॒जं , ऊ॒र्णु॒थः॒ , स॒प्तऽआ॑स्यं ॥
जनि॑ष्ट॒ योषा॑ प॒तय॑त्कनीन॒को वि चारु॑हन्वी॒रुधो॑ दं॒सना॒ अनु॑ । आस्मै॑ रीयंते निव॒नेव॒ सिंध॑वो॒ऽस्मा अह्ने॑ भवति॒ तत्प॑तित्व॒नं ॥
जनि॑ष्ट , योषा॑ , प॒तय॑त् , क॒नी॒न॒कः , वि , च॒ , अरु॑हन् , वी॒रुधः॑ , दं॒सनाः॑ , अनु॑ । आ , अ॒स्मै॒ , री॒यं॒ते॒ , नि॒व॒नाऽइ॑व , सिंध॑वः , अ॒स्मै , अह्ने॑ , भ॒व॒ति॒ , तत् , प॒ति॒ऽत्व॒नं ॥
जी॒वं रु॑दंति॒ वि म॑यंते अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ । वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मेरि॒रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ ॥
जी॒वं , रु॒दं॒ति॒ , वि , म॒यं॒ते॒ , अ॒ध्व॒रे , दी॒र्घां , अनु॑ , प्रऽसि॑तिं , दी॒धि॒युः॒ , नरः॑ । वा॒मं , पि॒तृऽभ्यः॑ , ये , इ॒दं , सं॒ऽए॒रि॒रे , मयः॑ , पति॑ऽभ्यः , जन॑यः , प॒रि॒ऽस्वजे॑ ॥
न तस्य॑ विद्म॒ तदु॒ षु प्र वो॑चत॒ युवा॑ ह॒ यद्यु॑व॒त्याः क्षेति॒ योनि॑षु । प्रि॒योस्रि॑यस्य वृष॒भस्य॑ रे॒तिनो॑ गृ॒हं ग॑मेमाश्विना॒ तदु॑श्मसि ॥
न , तस्य॑ , वि॒द्म॒ , तत् , ऊँ॒ इति॑ , सु , प्र , वो॒च॒त॒ , युवा॑ , ह॒ , यत् , यु॒व॒त्याः , क्षेति॑ , योनि॑षु । प्रि॒यऽउ॑स्रियस्य , वृ॒ष॒भस्य॑ , रे॒तिनः॑ , गृ॒हं , ग॒मे॒म॒ , अ॒श्वि॒ना॒ , तत् , उ॒श्म॒सि॒ ॥
आ वा॑मगंत्सुम॒तिर्वा॑जिनीवसू॒ न्य॑श्विना हृ॒त्सु कामा॑ अयंसत । अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्याँ॑ अशीमहि ॥
आ , वां॒ , अ॒ग॒न् , सु॒ऽम॒तिः , वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू , नि , अ॒श्वि॒ना॒ , हृ॒त्ऽसु , कामाः॑ , अ॒यं॒स॒त॒ । अभू॑तं , गो॒पा , मि॒थु॒ना , शु॒भः॒ , प॒ती॒ इति॑ , प्रि॒याः , अ॒र्य॒म्णः , दुर्या॑न् , अ॒शी॒म॒हि॒ ॥
ता मं॑दसा॒ना मनु॑षो दुरो॒ण आ ध॒त्तं र॒यिं स॒हवी॑रं वच॒स्यवे॑ । कृ॒तं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिं ह॑तं ॥
ता , मं॒द॒सा॒ना , मनु॑षः , दु॒रो॒णे , आ , ध॒त्तं , र॒यिं , स॒हऽवी॑रं , व॒च॒स्यवे॑ । कृ॒तं , ती॒र्थं , सु॒ऽप्र॒पा॒नं , शु॒भः॒ , प॒ती॒ इति॑ , स्था॒णुं , प॒थे॒ऽस्थां , अप॑ , दुः॒ऽम॒तिं , ह॒तं॒ ॥
क्व॑ स्विद॒द्य क॑त॒मास्व॒श्विना॑ वि॒क्षु द॒स्रा मा॑दयेते शु॒भस्पती॑ । क ईं॒ नि ये॑मे कत॒मस्य॑ जग्मतु॒र्विप्र॑स्य वा॒ यज॑मानस्य वा गृ॒हं ॥
क्व॑ , स्वि॒त् , अ॒द्य , क॒त॒मासु॑ , अ॒श्विना॑ , वि॒क्षु , द॒स्रा , मा॒द॒ये॒ते॒ इति॑ , शु॒भः , पती॒ इति॑ । कः , ईं॒ , नि , ये॒मे॒ , क॒त॒मस्य॑ , ज॒ग्म॒तुः॒ , विप्र॑स्य , वा॒ , यज॑मानस्य , वा॒ , गृ॒हं ॥
[४१] समानमिति तृचस्य सूक्तस्य घौषेयः सुहस्त्योश्विनौजगती |
स॒मा॒नमु॒ त्यं पु॑रुहू॒तमु॒क्थ्यं१॒॑ रथं॑ त्रिच॒क्रं सव॑ना॒ गनि॑ग्मतं । परि॑ज्मानं विद॒थ्यं॑ सुवृ॒क्तिभि॑र्व॒यं व्यु॑ष्टा उ॒षसो॑ हवामहे ॥
स॒मा॒नं , ऊँ॒ इति॑ , त्यं , पु॒रु॒ऽहू॒तं , उ॒क्थ्यं॑ , रथं॑ , त्रि॒ऽच॒क्रं , सव॑ना , गनि॑ग्मतं । परि॑ऽज्मानं , वि॒द॒थ्यं॑ , सु॒वृ॒क्तिऽभिः॑ , व॒यं , विऽउ॑ष्टौ , उ॒षसः॑ , ह॒वा॒म॒हे॒ ॥
प्रा॒त॒र्युजं॑ नास॒त्याधि॑ तिष्ठथः प्रात॒र्यावा॑णं मधु॒वाह॑नं॒ रथं॑ । विशो॒ येन॒ गच्छ॑थो॒ यज्व॑रीर्नरा की॒रेश्चि॑द्य॒ज्ञं होतृ॑मंतमश्विना ॥
प्रा॒तः॒ऽयुजं॑ , ना॒स॒त्या॒ , अधि॑ , ति॒ष्ठ॒थः॒ , प्रा॒तः॒ऽयावा॑नं , म॒धु॒ऽवाह॑नं , रथं॑ । विशः॑ , येन॑ , गच्छ॑तः , यज्व॑रीः , न॒रा॒ , की॒रेः , चि॒त् , य॒ज्ञं , होतृ॑ऽमंतं , अ॒श्वि॒ना॒ ॥
अ॒ध्व॒र्युं वा॒ मधु॑पाणिं सु॒हस्त्य॑म॒ग्निधं॑ वा धृ॒तद॑क्षं॒ दमू॑नसं । विप्र॑स्य वा॒ यत्सव॑नानि॒ गच्छ॒थोऽत॒ आ या॑तं मधु॒पेय॑मश्विना ॥
अ॒ध्व॒र्युं , वा॒ , मधु॑ऽपाणिं , सु॒ऽहस्त्यं॑ , अ॒ग्निधं॑ , वा॒ , धृ॒तऽद॑क्षं , दमू॑नसं । विप्र॑स्य , वा॒ , यत् , सव॑नानि , गच्छ॑थः , अतः॑ , आ , या॒तं॒ , म॒धु॒ऽपेयं॑ , अ॒श्वि॒ना॒ ॥
[४२] अस्तेवेत्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रस्त्रिष्टुप् |
अस्ते॑व॒ सु प्र॑त॒रं लाय॒मस्य॒न्भूष॑न्निव॒ प्र भ॑रा॒ स्तोम॑मस्मै । वा॒चा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा॑मय जरितः॒ सोम॒ इंद्रं॑ ॥
अस्ता॑ऽइव , सु , प्र॒ऽत॒रं , लायं॑ , अस्य॑न् , भूष॑न्ऽइव , प्र , भ॒र॒ , स्तोमं॑ , अ॒स्मै॒ । वा॒चा , वि॒प्राः॒ , त॒र॒त॒ , वाचं॑ , अ॒र्यः , नि , र॒म॒य॒ , ज॒रि॒त॒रिति॑ , सोमे॑ , इंद्रं॑ ॥
दोहे॑न॒ गामुप॑ शिक्षा॒ सखा॑यं॒ प्र बो॑धय जरितर्जा॒रमिंद्रं॑ । कोशं॒ न पू॒र्णं वसु॑ना॒ न्यृ॑ष्ट॒मा च्या॑वय मघ॒देया॑य॒ शूरं॑ ॥
दोहे॑न , गां , उप॑ , शि॒क्ष॒ , सखा॑यं , प्र , बो॒ध॒य॒ , ज॒रि॒तः॒ , जा॒रं , इंद्रं॑ । कोशं॑ , न , पू॒र्णं , वसु॑ना , निऽऋ॑ष्टं , आ , च्य॒व॒य॒ , म॒घ॒ऽदेया॑य , शूरं॑ ॥
किमं॒ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि । अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मिं॒द्रा भ॑रा नः ॥
किं , अं॒ग , त्वा॒ , म॒घ॒ऽव॒न् , भो॒जं , आ॒हुः॒ , शि॒शी॒हि , मा॒ , शि॒श॒यं , त्वा॒ , शृ॒णो॒मि॒ । अप्न॑स्वती , मम॑ , धीः , अ॒स्तु॒ , श॒क्र॒ , व॒सु॒ऽविदं॑ , भगं॑ , इं॒द्र॒ , आ , भ॒र॒ , नः॒ ॥
त्वां जना॑ ममस॒त्येष्विं॑द्र संतस्था॒ना वि ह्व॑यंते समी॒के । अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॒न्नासु॑न्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ॥
त्वां , जनाः॑ , म॒म॒ऽस॒त्येषु॑ , इं॒द्र॒ , सं॒ऽत॒स्था॒नाः , वि , ह्व॒यं॒ते॒ , सं॒ऽई॒के । अत्र॑ , युजं॑ , कृ॒णु॒ते॒ , यः , ह॒विष्मा॑न् , न , असु॑न्वता , स॒ख्यं , व॒ष्टि॒ , शूरः॑ ॥
धनं॒ न स्पं॒द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रांत्सोमाँ॑ आसु॒नोति॒ प्रय॑स्वान् । तस्मै॒ शत्रूं॑त्सु॒तुका॑न्प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न्यु॒वति॒ हंति॑ वृ॒त्रं ॥
धनं॑ , न , स्पं॒द्रं , ब॒हु॒लं , यः , अ॒स्मै॒ , ती॒व्रान् , सोमा॑न् , आ॒ऽसु॒नोति॑ , प्रय॑स्वान् । तस्मै॑ , शत्रू॑न् , सु॒ऽतुका॑न् , प्रा॒तः , अह्नः॑ , नि , सु॒ऽअष्ट्रा॑न् , यु॒वति॑ , हंति॑ , वृ॒त्रं ॥
यस्मि॑न्व॒यं द॑धि॒मा शंस॒मिंद्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे । आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्य॑स्मै द्यु॒म्ना जन्या॑ नमंतां ॥
यस्मि॑न् , व॒यं , द॒धि॒म , शंसं॑ , इंद्रे॑ , यः , शि॒श्राय॑ , म॒घऽवा॑ , कामं॑ , अ॒स्मे इति॑ । आ॒रात् , चि॒त् , सन् , भ॒य॒तां॒ , अ॒स्य॒ , शत्रुः॑ , नि , अ॒स्मै॒ , द्यु॒म्ना , जन्या॑ , न॒मं॒तां॒ ॥
आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शंबः॑ पुरुहूत॒ तेन॑ । अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिंद्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नां ॥
आ॒रात् , शत्रुं॑ , अप॑ , बा॒ध॒स्व॒ , दू॒रं , उ॒ग्रः , यः , शंबः॑ , पु॒रु॒ऽहू॒त॒ , तेन॑ । अ॒स्मे इति॑ , धे॒हि॒ , यव॑ऽमत् , गोऽम॑त् , इं॒द्र॒ , कृ॒धि , धियं॑ , ज॒रि॒त्रे , वाज॑ऽरत्नां ॥
प्र यमं॒तर्वृ॑षस॒वासो॒ अग्मं॑ती॒व्राः सोमा॑ बहु॒लांता॑स॒ इंद्रं॑ । नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मं ॥
प्र , यं , अं॒तः , वृ॒ष॒ऽस॒वासः॑ , अग्म॑न् , ती॒व्राः , सोमाः॑ , ब॒हु॒लऽअं॑तासः , इंद्रं॑ । न , अह॑ , दा॒मानं॑ , म॒घऽवा॑ , नि , यं॒स॒त् , नि , सु॒न्व॒ते , व॒ह॒ति॒ , भूरि॑ , वा॒मं ॥
उ॒त प्र॒हाम॑ति॒दीव्या॑ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑चि॒नोति॑ का॒ले । यो दे॒वका॑मो॒ न धना॑ रुणद्धि॒ समित्तं रा॒या सृ॑जति स्व॒धावा॑न् ॥
उ॒त , प्र॒ऽहां , अ॒ति॒ऽदीव्य॑ , ज॒या॒ति॒ , कृ॒तं , यत् , श्व॒ऽघ्नी , वि॒ऽचि॒नोति॑ , का॒ले । यः , दे॒वऽका॑मः , न , धना॑ , रु॒ण॒द्धि॒ , सं , इत् , तं , रा॒या , सृ॒ज॒ति॒ , स्व॒धाऽवा॑न् ॥
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वां॑ । व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥
गोभिः॑ , त॒रे॒म॒ , अम॑तिं , दुः॒ऽएवां॑ , यवे॑न , क्षुधं॑ , पु॒रु॒ऽहू॒त॒ , विश्वां॑ । व॒यं , राज॑ऽभिः , प्र॒थ॒माः , धना॑नि , अ॒स्माके॑न , वृ॒जने॑न , ज॒ये॒म॒ ॥
बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः । इंद्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥
बृह॒स्पतिः॑ , नः॒ , परि॑ , पा॒तु॒ , प॒श्चात् , उ॒त , उत्ऽत॑रस्मात् , अध॑रात् , अ॒घ॒ऽयोः । इंद्रः॑ , पु॒रस्ता॑त् , उ॒त , म॒ध्य॒तः , नः॒ , सखा॑ , सखि॑ऽभ्यः , वरि॑वः , कृ॒णो॒तु॒ ॥
[४३] अच्छामइत्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रोजगत्यंत्येद्वेत्रिष्टुभौ |
अच्छा॑ म॒ इंद्रं॑ म॒तयः॑ स्व॒र्विदः॑ स॒ध्रीची॒र्विश्वा॑ उश॒तीर॑नूषत । परि॑ ष्वजंते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शुं॒ध्युं म॒घवा॑नमू॒तये॑ ॥
अच्छ॑ , मे॒ , इंद्रं॑ , म॒तयः॑ , स्वः॒ऽविदः॑ , स॒ध्रीचीः॑ , विश्वाः॑ , उ॒श॒तीः , अ॒नू॒ष॒त॒ । परि॑ , स्व॒जं॒ते॒ , जन॑यः , यथा॑ , पतिं॑ , मर्यं॑ , न , शुं॒ध्युं , म॒घऽवा॑नं , ऊ॒तये॑ ॥
न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं॑ पुरुहूत शिश्रय । राजे॑व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिंत्सु सोमे॑ऽव॒पान॑मस्तु ते ॥
न , घ॒ , त्व॒द्रिक् , अप॑ , वे॒ति॒ , मे॒ , मनः॑ , त्वे इति॑ , इत् , कामं॑ , पु॒रु॒ऽहू॒त॒ , शि॒श्र॒य॒ । राजा॑ऽइव , द॒स्म॒ , नि , स॒दः॒ , अधि॑ , ब॒र्हिषि॑ , अ॒स्मिन् , सु , सोमे॑ , अ॒व॒ऽपानं॑ , अ॒स्तु॒ , ते॒ ॥
वि॒षू॒वृदिंद्रो॒ अम॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते । तस्येदि॒मे प्र॑व॒णे स॒प्त सिंध॑वो॒ वयो॑ वर्धंति वृष॒भस्य॑ शु॒ष्मिणः॑ ॥
वि॒षु॒ऽवृत् , इंद्रः॑ , अम॑तेः , उ॒त् , क्षु॒धः , सः , इत् , रा॒यः , म॒घऽवा॑ , वस्वः॑ , ई॒श॒ते॒ । तस्य॑ , इत् , इ॒मे , प्र॒व॒णे , स॒प्त , सिंध॑वः , वयः॑ , व॒र्धं॒ति॒ , वृ॒ष॒भस्य॑ , शु॒ष्मिणः॑ ॥
वयो॒ न वृ॒क्षं सु॑पला॒शमास॑दं॒त्सोमा॑स॒ इंद्रं॑ मं॒दिन॑श्चमू॒षदः॑ । प्रैषा॒मनी॑कं॒ शव॑सा॒ दवि॑द्युतद्वि॒दत्स्व१॒॑र्मन॑वे॒ ज्योति॒रार्यं॑ ॥
वयः॑ , न , वृ॒क्षं , सु॒ऽप॒ला॒शं , आ , अ॒स॒द॒न् , सोमा॑सः , इंद्रं॑ , मं॒दिनः॑ , च॒मू॒ऽसदः॑ । प्र , ए॒षां॒ , अनी॑कं , शव॑सा , दवि॑द्युतत् , वि॒दत् , स्वः॑ , मन॑वे , ज्योतिः॑ , आर्यं॑ ॥
कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् । न तत्ते॑ अ॒न्यो अनु॑ वी॒र्यं॑ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ॥
कृ॒तं , न , श्व॒ऽघ्नी , वि , चि॒नो॒ति॒ , देव॑ने , सं॒ऽवर्गं॑ , यत् , म॒घऽवा॑ , सूर्यं॑ , जय॑त् । न , तत् , ते॒ , अ॒न्यः , अनु॑ , वी॒र्यं॑ , श॒क॒त् , न , पु॒रा॒णः , म॒घ॒ऽव॒न् , न , उ॒त , नूत॑नः ॥
विशं॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द्वृषा॑ । यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमैः॑ सहते पृतन्य॒तः ॥
विशं॑ऽविशं , म॒घऽवा॑ , परि॑ , अ॒शा॒य॒त॒ , जना॑नां , धेनाः॑ , अ॒व॒ऽचाक॑शत् , वृषा॑ । यस्य॑ , अह॑ , श॒क्रः , सव॑नेषु , रण्य॑ति , सः , ती॒व्रैः , सोमैः॑ , स॒ह॒ते॒ , पृ॒त॒न्य॒तः ॥
आपो॒ न सिंधु॑म॒भि यत्स॒मक्ष॑रं॒त्सोमा॑स॒ इंद्रं॑ कु॒ल्या इ॑व ह्र॒दं । वर्धं॑ति॒ विप्रा॒ महो॑ अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ॥
आपः॑ , न , सिंधुं॑ , अ॒भि , यत् , सं॒ऽअक्ष॑रन् , सोमा॑सः , इंद्रं॑ , कु॒ल्याःऽइ॑व , ह्र॒दं । वर्धं॑ति , विप्राः॑ , महः॑ , अ॒स्य॒ , सद॑ने , यवं॑ , न , वृ॒ष्टिः , दि॒व्येन॑ , दानु॑ना ॥
वृषा॒ न क्रु॒द्धः प॑तय॒द्रजः॒स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः । स सु॑न्व॒ते म॒घवा॑ जी॒रदा॑न॒वेऽविं॑द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥
वृषा॑ , न , क्रु॒द्धः , प॒त॒य॒त् , रजः॑ऽसु , आ , यः , अ॒र्यऽप॑त्नीः , अकृ॑णोत् , इ॒माः , अ॒पः । सः , सु॒न्व॒ते , म॒घऽवा॑ , जी॒रऽदा॑नवे , अविं॑दत् , ज्योतिः॑ , मन॑वे , ह॒विष्म॑ते ॥
उज्जा॑यतां पर॒शुर्ज्योति॑षा स॒ह भू॒या ऋ॒तस्य॑ सु॒दुघा॑ पुराण॒वत् । वि रो॑चतामरु॒षो भा॒नुना॒ शुचिः॒ स्व१॒॑र्ण शु॒क्रं शु॑शुचीत॒ सत्प॑तिः ॥
उत् , जा॒य॒तां॒ , प॒र॒शुः , ज्योति॑षा , स॒ह , भू॒याः , ऋ॒तस्य॑ , सु॒ऽदुघा॑ , पु॒रा॒ण॒ऽवत् । वि , रो॒च॒तां॒ , अ॒रु॒षः , भा॒नुना॑ , शुचिः॑ , स्वः॑ , न , शु॒क्रं , शु॒शु॒ची॒त॒ , सत्ऽप॑तिः ॥
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वां॑ । व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥
गोभिः॑ , त॒रे॒म॒ , अम॑तिं , दुः॒ऽएवां॑ , यवे॑न , क्षुधं॑ , पु॒रु॒ऽहू॒त॒ , विश्वां॑ । व॒यं , राज॑ऽभिः , प्र॒थ॒माः , धना॑नि , अ॒स्माके॑न , वृ॒जने॑न , ज॒ये॒म॒ ॥
बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः । इंद्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥
बृह॒स्पतिः॑ , नः॒ , परि॑ , पा॒तु॒ , प॒श्चात् , उ॒त , उत्ऽत॑रस्मात् , अध॑रात् , अ॒घ॒ऽयोः । इंद्रः॑ , पु॒रस्ता॑त् , उ॒त , म॒ध्य॒तः , नः॒ , सखा॑ , सखि॑ऽभ्यः , वरि॑वः , कृ॒णो॒तु॒ ॥
[४४] आयात्वित्येकादशर्चस्य सूक्तस्यांगिरसः कृष्णइंद्रोजगती आद्यास्तिस्रोंत्येद्वेचत्रिष्टुभः |
आ या॒त्विंद्रः॒ स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान् । प्र॒त्व॒क्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वृष्ण्ये॑न ॥
आ , या॒तु॒ , इंद्रः॑ , स्वऽप॑तिः , मदा॑य , यः , धर्म॑णा , तू॒तु॒जा॒नः , तुवि॑ष्मान् । प्र॒ऽत्व॒क्षा॒णः , अति॑ , विश्वा॑ , सहां॑सि , अ॒पा॒रेण॑ , म॒ह॒ता , वृष्ण्ये॑न ॥
सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॑ नृपते॒ गभ॑स्तौ । शीभं॑ राजंत्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुषो॒ वृष्ण्या॑नि ॥
सु॒ऽस्थामा॑ , रथः॑ , सु॒ऽयमा॑ , हरी॒ इति॑ , ते॒ , मि॒म्यक्ष॑ , वज्रः॑ , नृ॒ऽप॒ते॒ , गभ॑स्तौ । शीभं॑ , रा॒ज॒न् , सु॒ऽपथा॑ , आ , या॒हि॒ , अ॒र्वाङ् , वर्धा॑म , ते॒ , प॒पुषः॑ , वृष्ण्या॑नि ॥
एंद्र॒वाहो॑ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनं । प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहंतु ॥
आ , इं॒द्र॒ऽवाहः॑ , नृ॒ऽपतिं॑ , वज्र॑ऽबाहुं , उ॒ग्रं , उ॒ग्रासः॑ , त॒वि॒षासः॑ , ए॒नं॒ । प्रऽत्व॑क्षसं , वृ॒ष॒भं , स॒त्यऽशु॑ष्मं , आ , ईं॒ , अ॒स्म॒ऽत्रा , स॒ध॒ऽमादः॑ , व॒हं॒तु॒ ॥
ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्जः स्कं॒भं ध॒रुण॒ आ वृ॑षायसे । ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ॥
ए॒व , पतिं॑ , द्रो॒ण॒ऽसाचं॑ , सऽचे॑तसं , ऊ॒र्जः , स्कं॒भं , ध॒रुणे॑ , आ , वृ॒ष॒ऽय॒से॒ । ओजः॑ , कृ॒ष्व॒ , सं , गृ॒भा॒य॒ , त्वे इति॑ , अपि॑ , असः॑ , यथा॑ , के॒ऽनि॒पानां॑ , इ॒नः , वृ॒धे ॥
गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑ । त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥
गम॑न् , अ॒स्मे इति॑ , वसू॑नि , आ , हि , शंसि॑षं , सु॒ऽआ॒शिषं॑ , भरं॑ , आ , या॒हि॒ , सो॒मिनः॑ । त्वं , ई॒शि॒षे॒ , सः , अ॒स्मिन् , आ , स॒त्सि॒ , ब॒र्हिषि॑ , अ॒ना॒धृ॒ष्या , तव॑ , पात्रा॑णि , धर्म॑णा ॥
पृथ॒क्प्राय॑न्प्रथ॒मा दे॒वहू॑त॒योऽकृ॑ण्वत श्रव॒स्या॑नि दु॒ष्टरा॑ । न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशंत॒ केप॑यः ॥
पृथ॑क् , प्र , आ॒य॒न् , प्र॒थ॒माः , दे॒वऽहू॑तयः , अकृ॑ण्वत , श्र॒व॒स्या॑नि , दु॒स्तरा॑ । न , ये , शे॒कुः , य॒ज्ञियां॑ , नावं॑ , आ॒ऽरुहं॑ , ई॒र्मा , ए॒व , ते , नि , अ॒वि॒शं॒त॒ , केप॑यः ॥
ए॒वैवापा॒गप॑रे संतु दू॒ढ्योऽश्वा॒ येषां॑ दु॒र्युज॑ आयुयु॒ज्रे । इ॒त्था ये प्रागुप॑रे॒ संति॑ दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥
ए॒व , ए॒व , अपा॑क् , अप॑रे , सं॒तु॒ , दुः॒ऽध्यः॑ , अश्वाः॑ , येषां॑ , दुः॒ऽयुजः॑ , आ॒ऽयु॒यु॒ज्रे । इ॒त्था , ये , प्राक् , उप॑रे , संति॑ , दा॒वने॑ , पु॒रूणि॑ , यत्र॑ , व॒युना॑नि , भोज॑ना ॥
गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्रं॑ददं॒तरि॑क्षाणि कोपयत् । स॒मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥
गि॒रीन् , अज्रा॑न् , रेज॑मानान् , अ॒धा॒र॒य॒त् , द्यौः , क्रं॒द॒त् , अं॒तरि॑क्षाणि , को॒प॒य॒त् । स॒मी॒ची॒ने इति॑ सं॒ऽई॒ची॒ने , धि॒षणे॒ इति॑ , वि , स्क॒भा॒य॒ति॒ , वृष्णः॑ , पी॒त्वा , मदे॑ , उ॒क्थानि॑ , शं॒स॒ति॒ ॥
इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अंकु॒शं येना॑रु॒जासि॑ मघवंछफा॒रुजः॑ । अ॒स्मिंत्सु ते॒ सव॑ने अस्त्वो॒क्यं॑ सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ॥
इ॒मं , बि॒भ॒र्मि॒ , सुऽकृ॑तं , ते॒ , अं॒कु॒शं , येन॑ , आ॒ऽरु॒जासि॑ , म॒घ॒ऽव॒न् , श॒फ॒ऽआ॒रुजः॑ । अ॒स्मिन् , सु , ते॒ , सव॑ने , अ॒स्तु॒ , ओ॒क्यं॑ , सु॒ते , इ॒ष्टौ , म॒घ॒ऽव॒न् , बो॒धि॒ , आऽभ॑गः ॥
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वां॑ । व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥
गोभिः॑ , त॒रे॒म॒ , अम॑तिं , दुः॒ऽएवां॑ , यवे॑न , क्षुधं॑ , पु॒रु॒ऽहू॒त॒ , विश्वां॑ । व॒यं , राज॑ऽभिः , प्र॒थ॒माः , धना॑नि , अ॒स्माके॑न , वृ॒जने॑न , ज॒ये॒म॒ ॥
बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः । इंद्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥
बृह॒स्पतिः॑ , नः॒ , परि॑ , पा॒तु॒ , प॒श्चात् , उ॒त , उत्ऽत॑रस्मात् , अध॑रात् , अ॒घ॒ऽयोः । इंद्रः॑ , पु॒रस्ता॑त् , उ॒त , म॒ध्य॒तः , नः॒ , सखा॑ , सखि॑ऽभ्यः , वरि॑वः , कृ॒णो॒तु॒ ॥
[४५] दिवस्परीति द्वादशर्चस्य सूक्तस्य भालंदनो वत्सप्रिरग्निस्त्रिष्टुप् |
दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिंधा॑न एनं जरते स्वा॒धीः ॥
दि॒वः , परि॑ , प्र॒थ॒मं , ज॒ज्ञे॒ , अ॒ग्निः , अ॒स्मत् , द्वि॒तीयं॑ , परि॑ , जा॒तऽवे॑दाः । तृ॒तीयं॑ , अ॒प्ऽसु , नृ॒ऽमनाः॑ , अज॑स्रं , इंधा॑नः , ए॒नं॒ , ज॒र॒ते॒ , सु॒ऽआ॒धीः ॥
वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा । वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गंथ॑ ॥
वि॒द्म , ते॒ , अ॒ग्ने॒ , त्रे॒धा , त्र॒याणि॑ , वि॒द्म , ते॒ , धाम॑ , विऽभृ॑ता , पु॒रु॒ऽत्रा । वि॒द्म , ते॒ , नाम॑ , प॒र॒मं , गुहा॑ , यत् , वि॒द्म , तं , उत्सं॑ , यतः॑ , आ॒ऽज॒गंथ॑ ॥
स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व१॒॑न्तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् । तृ॒तीये॑ त्वा॒ रज॑सि तस्थि॒वांस॑म॒पामु॒पस्थे॑ महि॒षा अ॑वर्धन् ॥
स॒मु॒द्रे , त्वा॒ , नृ॒ऽमनाः॑ , अ॒प्ऽसु , अं॒तः , नृ॒ऽचक्षाः॑ , ई॒धे॒ , दि॒वः , अ॒ग्ने॒ , ऊध॑न् । तृ॒तीये॑ , त्वा॒ , रज॑सि , त॒स्थि॒ऽवांसं॑ , अ॒पां , उ॒पऽस्थे॑ , म॒हि॒षाः , अ॒व॒र्ध॒न् ॥
अक्रं॑दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ समं॒जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्यं॒तः ॥
अक्रं॑दत् , अ॒ग्निः , स्त॒नय॑न्ऽइव , द्यौः , क्षाम॑ , रेरि॑हत् , वी॒रुधः॑ , सं॒ऽअं॒जन् । स॒द्यः , ज॒ज्ञा॒नः , वि , हि , ईं॒ , इ॒द्धः , अख्य॑त् , आ , रोद॑सी॒ इति॑ , भा॒नुना॑ , भा॒ति॒ , अं॒तरिति॑ ॥
श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः । वसुः॑ सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः ॥
श्री॒णां , उ॒त्ऽआ॒रः , ध॒रुणः॑ , र॒यी॒णां , म॒नी॒षाणां॑ , प्र॒ऽअर्प॑णः , सोम॑ऽगोपाः । वसुः॑ , सू॒नुः , सह॑सः , अ॒प्ऽसु , राजा॑ , वि , भा॒ति॒ , अग्रे॑ , उ॒षसां॑ , इ॒धा॒नः ॥
विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः । वी॒ळुं चि॒दद्रि॑मभिनत्परा॒यंजना॒ यद॒ग्निमय॑जंत॒ पंच॑ ॥
विश्व॑स्य , के॒तुः , भुव॑नस्य , गर्भः॑ , आ , रोद॑सी॒ इति॑ , अ॒पृ॒णा॒त् , जाय॑मानः । वी॒ळुं , चि॒त् , अद्रिं॑ , अ॒भि॒न॒त् , प॒रा॒ऽयन् , जनाः॑ , यत् , अ॒ग्निं , अय॑जंत , पंच॑ ॥
उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि । इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ॥
उ॒शिक् , पा॒व॒कः , अ॒र॒तिः , सु॒ऽमे॒धाः , मर्ते॑षु , अ॒ग्निः , अ॒मृतः॑ , नि , धा॒यि॒ । इय॑र्ति , धू॒मं , अ॒रु॒षं , भरि॑भ्रत् , उत् , शु॒क्रेण॑ , शो॒चिषा॑ , द्यां , इन॑क्षन् ॥
दृ॒शा॒नो रु॒क्म उ॑र्वि॒या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौर्ज॒नय॑त्सु॒रेताः॑ ॥
दृ॒शा॒नः , रु॒क्मः , उ॒र्वि॒या , वि , अ॒द्यौ॒त् , दुः॒ऽमर्षं॑ , आयुः॑ , श्रि॒ये , रु॒चा॒नः । अ॒ग्निः , अ॒मृतः॑ , अ॒भ॒व॒त् , वयः॑ऽभिः , यत् , ए॒नं॒ , द्यौः , ज॒नय॑त् , सु॒ऽरेताः॑ ॥
यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व घृ॒तवं॑तमग्ने । प्र तं न॑य प्रत॒रं वस्यो॒ अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ॥
यः , ते॒ , अ॒द्य , कृ॒णव॑त् , भ॒द्र॒ऽशो॒चे॒ , अ॒पू॒पं , दे॒व॒ , घृ॒तऽवं॑तं , अ॒ग्ने॒ । प्र , तं , न॒य॒ , प्र॒ऽत॒रं , वस्यः॑ , अच्छ॑ , अ॒भि , सु॒म्नं , दे॒वऽभ॑क्तं , य॒वि॒ष्ठ॒ ॥
आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थउ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने । प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ॥
आ , तं , भ॒ज॒ , सौ॒श्र॒व॒सेषु॑ , अ॒ग्ने॒ , उ॒क्थेऽउ॑क्थे , आ , भ॒ज॒ , श॒स्यमा॑ने । प्रि॒यः , सूर्ये॑ , प्रि॒यः , अ॒ग्ना , भ॒वा॒ति॒ , उत् , जा॒तेन॑ , भि॒नद॑त् , उत् , जनि॑ऽत्वैः ॥
त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि । त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोमं॑तमु॒शिजो॒ वि व॑व्रुः ॥
त्वां , अ॒ग्ने॒ , यज॑मानाः , अनु॑ , द्यून् , विश्वा॑ , वसु॑ , द॒धि॒रे॒ , वार्या॑णि । त्वया॑ , स॒ह , द्रवि॑णं , इ॒च्छमा॑नाः , व्र॒जं , गोऽमं॑तं , उ॒शिजः॑ , वि , व॒व्रुः॒ ॥
अस्ता॑व्य॒ग्निर्न॒रां सु॒शेवो॑ वैश्वान॒र ऋषि॑भिः॒ सोम॑गोपाः । अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीरं॑ ॥
अस्ता॑वि , अ॒ग्निः , न॒रां , सु॒ऽशेवः॑ , वै॒श्वा॒न॒रः , ऋषि॑ऽभिः , सोम॑ऽगोपाः । अ॒द्वे॒षे इति॑ , द्यावा॑पृथि॒वी इति॑ , हु॒वे॒म॒ , देवाः॑ , ध॒त्त , र॒यिं , अ॒स्मे इति॑ , सु॒ऽवीरं॑ ॥
[४६] प्रहोतेति दशर्चस्य सूक्तस्य भालंदनो वत्सप्रिरग्निस्त्रिष्टुप् |
प्र होता॑ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा॑ सीदद॒पामु॒पस्थे॑ । दधि॒र्यो धायि॒ स ते॒ वयां॑सि यं॒ता वसू॑नि विध॒ते त॑नू॒पाः ॥
प्र , होता॑ , जा॒तः , म॒हान् , न॒भः॒ऽवित् , नृ॒ऽसद्वा॑ , सी॒द॒त् , अ॒पां , उ॒पऽस्थे॑ । दधिः॑ , यः , धायि॑ , सः , ते॒ , वयां॑सि , यं॒ता , वसू॑नि , वि॒ध॒ते , त॒नू॒ऽपाः ॥
इ॒मं वि॒धंतो॑ अ॒पां स॒धस्थे॑ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् । गुहा॒ चतं॑तमु॒शिजो॒ नमो॑भिरि॒च्छंतो॒ धीरा॒ भृग॑वोऽविंदन् ॥
इ॒मं , वि॒धंतः॑ , अ॒पां , स॒धऽस्थे॑ , प॒शुं , न , न॒ष्टं , प॒दैः , अनु॑ , ग्म॒न् । गुहा॑ , चतं॑तं , उ॒शिजः॑ , नमः॑ऽभिः , इ॒च्छंतः॑ , धीराः॑ , भृग॑वः , अ॒विं॒द॒न् ॥
इ॒मं त्रि॒तो भूर्य॑विंददि॒च्छन्वै॑भूव॒सो मू॒र्धन्यघ्न्या॑याः । स शेवृ॑धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा॑ भवति रोच॒नस्य॑ ॥
इ॒मं , त्रि॒तः , भूरि॑ , अ॒विं॒द॒त् , इ॒च्छन् , वै॒भु॒ऽव॒सः , मू॒र्धनि॑ , अघ्न्या॑याः । सः , शेऽवृ॑धः , जा॒तः , आ , ह॒र्म्येषु॑ , नाभिः॑ , युवा॑ , भ॒व॒ति॒ , रो॒च॒नस्य॑ ॥
मं॒द्रं होता॑रमु॒शिजो॒ नमो॑भिः॒ प्रांचं॑ य॒ज्ञं ने॒तार॑मध्व॒राणां॑ । वि॒शाम॑कृण्वन्नर॒तिं पा॑व॒कं ह॑व्य॒वाहं॒ दध॑तो॒ मानु॑षेषु ॥
मं॒द्रं , होता॑रं , उ॒शिजः॑ , नमः॑ऽभिः , प्रांचं॑ , य॒ज्ञं , ने॒तारं॑ , अ॒ध्व॒राणां॑ । वि॒शां , अ॒कृ॒ण्व॒न् , अ॒र॒तिं , पा॒व॒कं , ह॒व्य॒ऽवाहं॑ , दध॑तः , मानु॑षेषु ॥
प्र भू॒र्जयं॑तं म॒हां वि॑पो॒धां मू॒रा अमू॑रं पु॒रां द॒र्माणं॑ । नयं॑तो॒ गर्भं॑ व॒नां धियं॑ धु॒र्हिरि॑श्मश्रुं॒ नार्वा॑णं॒ धन॑र्चं ॥
प्र , भूः॒ , जयं॑तं , म॒हां , वि॒पः॒ऽधां , मू॒राः , अमू॑रं , पु॒रां , द॒र्माणं॑ । नयं॑तः , गर्भं॑ , व॒नां , धियं॑ , धुः॒ , हिरि॑ऽश्मश्रुं , न , अर्वा॑णं , धन॑ऽअर्चं ॥
नि प॒स्त्या॑सु त्रि॒तः स्त॑भू॒यन्परि॑वीतो॒ योनौ॑ सीददं॒तः । अतः॑ सं॒गृभ्या॑ वि॒शां दमू॑ना॒ विध॑र्मणायं॒त्रैरी॑यते॒ नॄन् ॥
नि , प॒स्त्या॑सु , त्रि॒तः , स्त॒भु॒ऽयन् , परि॑ऽवीतः , योनौ॑ , सी॒द॒त् , अं॒तरिति॑ । अतः॑ , सं॒ऽगृभ्य॑ , वि॒शां , दमू॑नाः , विऽध॑र्मणा , अ॒यं॒त्रैः , ई॒य॒ते॒ , नॄन् ॥
अ॒स्याजरा॑सो द॒माम॒रित्रा॑ अ॒र्चद्धू॑मासो अ॒ग्नयः॑ पाव॒काः । श्वि॒ती॒चयः॑ श्वा॒त्रासो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमाः॑ ॥
अ॒स्य , अ॒जरा॑सः , द॒मां , अ॒रित्राः॑ , अ॒र्चत्ऽधू॑मासः , अ॒ग्नयः॑ , पा॒व॒काः । श्वि॒ती॒चयः॑ , श्वा॒त्रासः॑ , भु॒र॒ण्यवः॑ , व॒न॒ऽसदः॑ , वा॒यवः॑ , न , सोमाः॑ ॥
प्र जि॒ह्वया॑ भरते॒ वेपो॑ अ॒ग्निः प्र व॒युना॑नि॒ चेत॑सा पृथि॒व्याः । तमा॒यवः॑ शु॒चयं॑तं पाव॒कं मं॒द्रं होता॑रं दधिरे॒ यजि॑ष्ठं ॥
प्र , जि॒ह्वया॑ , भ॒र॒ते॒ , वेपः॑ , अ॒ग्निः , प्र , व॒युना॑नि , चेत॑सा , पृ॒थि॒व्याः । तं , आ॒यवः॑ , शु॒चयं॑तं , पा॒व॒कं , मं॒द्रं , होता॑रं , द॒धि॒रे॒ , यजि॑ष्ठं ॥
द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो॑भिः । ई॒ळेन्यं॑ प्रथ॒मं मा॑त॒रिश्वा॑ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रं ॥
द्यावा॑ , यं , अ॒ग्निं , पृ॒थि॒वी इति॑ , जनि॑ष्टां , आपः॑ , त्वष्टा॑ , भृग॑वः , यं , सहः॑ऽभिः । ई॒ळेन्यं॑ , प्र॒थ॒मं , मा॒त॒रिश्वा॑ , दे॒वाः , त॒त॒क्षुः॒ , मन॑वे , यज॑त्रं ॥
यं त्वा॑ दे॒वा द॑धि॒रे ह॑व्य॒वाहं॑ पुरु॒स्पृहो॒ मानु॑षासो॒ यज॑त्रं । स याम॑न्नग्ने स्तुव॒ते वयो॑ धाः॒ प्र दे॑व॒यन्य॒शसः॒ सं हि पू॒र्वीः ॥
यं , त्वा॒ , दे॒वाः , द॒धि॒रे , ह॒व्य॒ऽवाहं॑ , पु॒रु॒ऽस्पृहः॑ , मानु॑षासः , यज॑त्रं । सः , याम॑न् , अ॒ग्ने॒ , स्तु॒व॒ते , वयः॑ , धाः॒ , प्र , दे॒व॒ऽयन् , य॒शसः॑ , सं , हि , पू॒र्वीः ॥
[४७] जगृभ्मेत्यष्टर्चस्य सूक्तस्य सप्तगुर्वैकुंठइंद्रत्रिष्टुप् |
ज॒गृ॒भ्मा ते॒ दक्षि॑णमिंद्र॒ हस्तं॑ वसू॒यवो॑ वसुपते॒ वसू॑नां । वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
ज॒गृ॒भ्म , ते॒ , दक्षि॑णं , इं॒द्र॒ , हस्तं॑ , व॒सु॒ऽयवः॑ , व॒सु॒ऽप॒ते॒ , वसू॑नां । वि॒द्म , हि , त्वा॒ , गोऽप॑तिं , शू॒र॒ , गोनां॑ , अ॒स्मभ्यं॑ , चि॒त्रं , वृष॑णं , र॒यिं , दाः॒ ॥
स्वा॒यु॒धं स्वव॑सं सुनी॒थं चतुः॑समुद्रं ध॒रुणं॑ रयी॒णां । च॒र्कृत्यं॒ शंस्यं॒ भूरि॑वारम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
सु॒ऽआ॒यु॒धं , सु॒ऽअव॑सं , सु॒ऽनी॒थं , चतुः॑ऽसमुद्रं , ध॒रुणं॑ , र॒यी॒णां । च॒र्कृत्यं॑ , शंस्यं॑ , भूरि॑ऽवारं , अ॒स्मभ्यं॑ , चि॒त्रं , वृष॑णं , र॒यिं , दाः॒ ॥
सु॒ब्रह्मा॑णं दे॒ववं॑तं बृ॒हंत॑मु॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिंद्र । श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
सु॒ऽब्रह्मा॑णं , दे॒वऽवं॑तं , बृ॒हंतं॑ , उ॒रुं , ग॒भी॒रं , पृ॒थुऽबु॑ध्नं , इं॒द्र॒ । श्रु॒तऽऋ॑षिं , उ॒ग्रं , अ॒भि॒मा॒ति॒ऽसहं॑ , अ॒स्मभ्यं॑ , चि॒त्रं , वृष॑णं , र॒यिं , दाः॒ ॥
स॒नद्वा॑जं॒ विप्र॑वीरं॒ तरु॑त्रं धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्षं॑ । द॒स्यु॒हनं॑ पू॒र्भिद॑मिंद्र स॒त्यम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
स॒नत्ऽवा॑जं , विप्र॑ऽवीरं , तरु॑त्रं , ध॒न॒ऽस्पृतं॑ , शू॒शु॒ऽवांसं॑ , सु॒ऽदक्षं॑ । द॒स्यु॒हनं॑ , पूः॒ऽभिदं॑ , इं॒द्र॒ , स॒त्यं , अ॒स्मभ्यं॑ , चि॒त्रं , वृष॑णं , र॒यिं , दाः॒ ॥
अश्वा॑वंतं र॒थिनं॑ वी॒रवं॑तं सह॒स्रिणं॑ श॒तिनं॒ वाज॑मिंद्र । भ॒द्रव्रा॑तं॒ विप्र॑वीरं स्व॒र्षाम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
अश्व॑ऽवंतं , र॒थिनं॑ , वी॒रऽवं॑तं , स॒ह॒स्रिणं॑ , श॒तिनं॑ , वाजं॑ , इं॒द्र॒ । भ॒द्रऽव्रा॑तं , विप्र॑ऽवीरं , स्वः॒ऽसां , अ॒स्मभ्यं॑ , चि॒त्रं , वृष॑णं , र॒यिं , दाः॒ ॥
प्र स॒प्तगु॑मृ॒तधी॑तिं सुमे॒धां बृह॒स्पतिं॑ म॒तिरच्छा॑ जिगाति । य आं॑गिर॒सो नम॑सोप॒सद्यो॒ऽस्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
प्र , स॒प्तऽगुं॑ , ऋ॒तऽधी॑तिं , सु॒ऽमे॒धां , बृह॒स्पतिं॑ , म॒तिः , अच्छ॑ , जि॒गा॒ति॒ । यः , आं॒गि॒र॒सः , नम॑सा , उ॒प॒ऽसद्यः॑ , अ॒स्मभ्यं॑ , चि॒त्रं , वृष॑णं , र॒यिं , दाः॒ ॥
वनी॑वानो॒ मम॑ दू॒तास॒ इंद्रं॒ स्तोमा॑श्चरंति सुम॒तीरि॑या॒नाः । हृ॒दि॒स्पृशो॒ मन॑सा व॒च्यमा॑ना अ॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
वनी॑वानः , मम॑ , दू॒तासः॑ , इंद्रं॑ , स्तोमाः॑ , च॒रं॒ति॒ , सु॒ऽम॒तीः , इ॒या॒नाः । हृ॒दि॒ऽस्पृशः॑ , मन॑सा , व॒च्यमा॑नाः , अ॒स्मभ्यं॑ , चि॒त्रं , वृष॑णं , र॒यिं , दाः॒ ॥
यत्त्वा॒ यामि॑ द॒द्धि तन्न॑ इंद्र बृ॒हंतं॒ क्षय॒मस॑मं॒ जना॑नां । अ॒भि तद्द्यावा॑पृथि॒वी गृ॑णीताम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
यत् , त्वा॒ , यामि॑ , द॒द्धि , तत् , नः॒ , इं॒द्र॒ , बृ॒हंतं॑ , क्षयं॑ , अस॑मं , जना॑नां । अ॒भि , तत् , द्यावा॑पृथि॒वी इति॑ , गृ॒णी॒तां॒ , अ॒स्मभ्यं॑ , चि॒त्रं , वृष॑णं , र॒यिं , दाः॒ ॥
[४८] अहंभुवमित्येकादशर्चस्य सूक्तस्य वैकुंठइंद्रो वैकुंठइंद्रो जगती सप्तमीदशम्येकादश्यस्त्रिष्टुभः |
अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना॑नि॒ सं ज॑यामि॒ शश्व॑तः । मां ह॑वंते पि॒तरं॒ न जं॒तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नं ॥
अ॒हं , भु॒वं॒ , वसु॑नः , पू॒र्व्यः , पतिः॑ , अ॒हं , धना॑नि , सं , ज॒या॒मि॒ , शश्व॑तः । मां , ह॒वं॒ते॒ , पि॒तरं॑ , न , जं॒तवः॑ , अ॒हं , दा॒शुषे॑ , वि , भ॒जा॒मि॒ , भोज॑नं ॥
अ॒हमिंद्रो॒ रोधो॒ वक्षो॒ अथ॑र्वणस्त्रि॒ताय॒ गा अ॑जनय॒महे॒रधि॑ । अ॒हं दस्यु॑भ्यः॒ परि॑ नृ॒म्णमा द॑दे गो॒त्रा शिक्षं॑दधी॒चे मा॑त॒रिश्व॑ने ॥
अ॒हं , इंद्रः॑ , रोधः॑ , वक्षः॑ , अथ॑र्वणः , त्रि॒ताय॑ , गाः , अ॒ज॒न॒यं॒ , अहेः॑ , अधि॑ । अ॒हं , दस्यु॑ऽभ्यः , परि॑ , नृ॒म्णं , आ , द॒दे॒ , गो॒त्रा , शिक्ष॑न् , द॒धी॒चे , मा॒त॒रिश्व॑ने ॥
मह्यं॒ त्वष्टा॒ वज्र॑मतक्षदाय॒सं मयि॑ दे॒वासो॑ऽवृज॒न्नपि॒ क्रतुं॑ । ममानी॑कं॒ सूर्य॑स्येव दु॒ष्टरं॒ मामार्यं॑ति कृ॒तेन॒ कर्त्वे॑न च ॥
मह्यं॑ , त्वष्टा॑ , वज्रं॑ , अ॒त॒क्ष॒त् , आ॒य॒सं , मयि॑ , दे॒वासः॑ , अ॒वृ॒ज॒न् , अपि॑ , क्रतुं॑ । मम॑ , अनी॑कं , सूर्य॑स्यऽइव , दु॒स्तरं॑ , मां , आर्यं॑ति , कृ॒तेन॑ , कर्त्वे॑न , च॒ ॥
अ॒हमे॒तं ग॒व्यय॒मश्व्यं॑ प॒शुं पु॑री॒षिणं॒ साय॑केना हिर॒ण्ययं॑ । पु॒रू स॒हस्रा॒ नि शि॑शामि दा॒शुषे॒ यन्मा॒ सोमा॑स उ॒क्थिनो॒ अमं॑दिषुः ॥
अ॒हं , ए॒तं , ग॒व्ययं॑ , अश्व्यं॑ , प॒शुं , पु॒री॒षिणं॑ , साय॑केन , हि॒र॒ण्ययं॑ । पु॒रु , स॒हस्रा॑ , नि , शि॒शा॒मि॒ , दा॒शुषे॑ , यत् , मा॒ , सोमा॑सः , उ॒क्थिनः॑ , अमं॑दिषुः ॥
अ॒हमिंद्रो॒ न परा॑ जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑ तस्थे॒ कदा॑ च॒न । सोम॒मिन्मा॑ सु॒न्वंतो॑ याचता॒ वसु॒ न मे॑ पूरवः स॒ख्ये रि॑षाथन ॥
अ॒हं , इंद्रः॑ , न , परा॑ , जि॒ग्ये॒ , इत् , धनं॑ , न , मृ॒त्यवे॑ , अव॑ , त॒स्थे॒ , कदा॑ , च॒न । सोमं॑ , इत् , मा॒ , सु॒न्वंतः॑ , या॒च॒त॒ , वसु॑ , न , मे॒ , पू॒र॒वः॒ , स॒ख्ये , रि॒षा॒थ॒न॒ ॥
अ॒हमे॒तांछाश्व॑सतो॒ द्वाद्वेंद्रं॒ ये वज्रं॑ यु॒धयेऽकृ॑ण्वत । आ॒ह्वय॑मानाँ॒ अव॒ हन्म॑नाहनं दृ॒ळ्हा वद॒न्नन॑मस्युर्नम॒स्विनः॑ ॥
अ॒हं , ए॒तान् , शाश्व॑सतः , द्वाऽद्वा॑ , इंद्रं॑ , ये , वज्रं॑ , यु॒धये॑ , अकृ॑ण्वत । आ॒ऽह्वय॑मानान् , अव॑ , हन्म॑ना , अ॒ह॒नं॒ , दृ॒ळ्हा , वद॑न् , अन॑मस्युः , न॒म॒स्विनः॑ ॥
अ॒भी॒३॒॑दमेक॒मेको॑ अस्मि नि॒ष्षाळ॒भी द्वा किमु॒ त्रयः॑ करंति । खले॒ न प॒र्षान्प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निंदंति॒ शत्र॑वोऽनिं॒द्राः ॥
अ॒भि , इ॒दं , एकं॑ , एकः॑ , अ॒स्मि॒ , नि॒ष्षाट् , अ॒भि , द्वा , किं , ऊँ॒ इति॑ , त्रयः॑ , क॒रं॒ति॒ । खले॑ , न , प॒र्षान् , प्रति॑ , ह॒न्मि॒ , भूरि॑ , किं , मा॒ , निं॒दं॒ति॒ , शत्र॑वः , अ॒निं॒द्राः ॥
अ॒हं गुं॒गुभ्यो॑ अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं॑ वि॒क्षु धा॑रयं । यत्प॑र्णय॒घ्न उ॒त वा॑ करंज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒ अशु॑श्रवि ॥
अ॒हं , गुं॒गुऽभ्यः॑ , अ॒ति॒थि॒ऽग्वं , इष्क॑रं , इषं॑ , न , वृ॒त्र॒ऽतुरं॑ , वि॒क्षु , धा॒र॒यं॒ । यत् , प॒र्ण॒य॒ऽघ्ने , उ॒त , वा॒ , क॒रं॒ज॒ऽहे , प्र , अ॒हं , म॒हे , वृ॒त्र॒ऽहत्ये॑ , अशु॑श्रवि ॥
प्र मे॒ नमी॑ सा॒प्य इ॒षे भु॒जे भू॒द्गवा॒मेषे॑ स॒ख्या कृ॑णुत द्वि॒ता । दि॒द्युं यद॑स्य समि॒थेषु॑ मं॒हय॒मादिदे॑नं॒ शंस्य॑मु॒क्थ्यं॑ करं ॥
प्र , मे॒ , नमी॑ , सा॒प्यः , इ॒षे , भु॒जे , भू॒त् , गवां॑ , एषे॑ , स॒ख्या , कृ॒णु॒त॒ , द्वि॒ता । दि॒द्युं , यत् , अ॒स्य॒ , सं॒ऽइ॒थेषु॑ , मं॒हयं॑ , आत् , इत् , ए॒नं॒ , शंस्यं॑ , उ॒क्थ्यं॑ , क॒रं॒ ॥
प्र नेम॑स्मिंददृशे॒ सोमो॑ अं॒तर्गो॒पा नेम॑मा॒विर॒स्था कृ॑णोति । स ति॒ग्मशृं॑गं वृष॒भं युयु॑त्संद्रु॒हस्त॑स्थौ बहु॒ले ब॒द्धो अं॒तः ॥
प्र , नेम॑स्मिन् , द॒दृ॒शे॒ , सोमः॑ , अं॒तः , गो॒पाः , नेमं॑ , आ॒विः , अ॒स्था , कृ॒णो॒ति॒ । सः , ति॒ग्मऽशृं॑गं , वृ॒ष॒भं , युयु॑त्सन् , द्रु॒हः , त॒स्थौ॒ , ब॒हु॒ले , ब॒द्धः , अं॒तरिति॑ ॥
आ॒दि॒त्यानां॒ वसू॑नां रु॒द्रिया॑णां दे॒वो दे॒वानां॒ न मि॑नामि॒ धाम॑ । ते मा॑ भ॒द्राय॒ शव॑से ततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा॑ळ्हं ॥
आ॒दि॒त्यानां॑ , वसू॑नां , रु॒द्रिया॑णां , दे॒वः , दे॒वानां॑ , न , मि॒ना॒मि॒ , धाम॑ । ते , मा॒ , भ॒द्राय॑ , शव॑से , त॒त॒क्षुः॒ , अप॑राऽजितं , अस्तृ॑तं , अषा॑ळ्हं ॥
[४९] अहंदामित्येकादशर्चस्य सूक्तस्य वैकुंठ इंद्रो वैकुंठइंद्रो जगती द्वितीयांत्येत्रिष्टुभौ |
अ॒हं दां॑ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नं । अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्भरे॑ ॥
अ॒हं , दां॒ , गृ॒ण॒ते , पूर्व्यं॑ , वसु॑ , अ॒हं , ब्रह्म॑ , कृ॒ण॒वं॒ , मह्यं॑ , वर्ध॑नं । अ॒हं , भु॒वं॒ , यज॑मानस्य , चो॒दि॒ता , अय॑ज्वनः , सा॒क्षि॒ , विश्व॑स्मिन् , भरे॑ ॥
मां धु॒रिंद्रं॒ नाम॑ दे॒वता॑ दि॒वश्च॒ ग्मश्चा॒पां च॑ जं॒तवः॑ । अ॒हं हरी॒ वृष॑णा॒ विव्र॑ता र॒घू अ॒हं वज्रं॒ शव॑से धृ॒ष्ण्वा द॑दे ॥
मां , धुः॒ , इंद्रं॑ , नाम॑ , दे॒वता॑ , दि॒वः , च॒ , ग्मः , च॒ , अ॒पां , च॒ , जं॒तवः॑ । अ॒हं , हरी॒ इति॑ , वृष॑णा , विऽव्र॑ता , र॒घू इति॑ , अ॒हं , वज्रं॑ , शव॑से , धृ॒ष्णु , आ , द॒दे॒ ॥
अ॒हमत्कं॑ क॒वये॑ शिश्नथं॒ हथै॑र॒हं कुत्स॑मावमा॒भिरू॒तिभिः॑ । अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध॑र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ॥
अ॒हं , अत्कं॑ , क॒वये॑ , शि॒श्न॒थं॒ , हथैः॑ , अ॒हं , कुत्सं॑ , आ॒वं॒ , आ॒भिः , ऊ॒तिऽभिः॑ । अ॒हं , शुष्ण॑स्य , श्नथि॑ता , वधः॑ , यमं॑ , न , यः , र॒रे , आर्यं॑ , नाम॑ , दस्य॑वे ॥
अ॒हं पि॒तेव॑ वेत॒सूँर॒भिष्ट॑ये॒ तुग्रं॒ कुत्सा॑य॒ स्मदि॑भं च रंधयं । अ॒हं भु॑वं॒ यज॑मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज॑ये॒ न प्रि॒याधृषे॑ ॥
अ॒हं , पि॒ताऽइ॑व , वे॒त॒सून् , अ॒भिष्ट॑ये , तुग्रं॑ , कुत्सा॑य , स्मत्ऽइ॑भं , च॒ , रं॒ध॒यं॒ । अ॒हं , भु॒वं॒ , यज॑मानस्य , रा॒जनि॑ , प्र , यत् , भ॒रे॒ , तुज॑ये , न , प्रि॒या , आ॒ऽधृषे॑ ॥
अ॒हं रं॑धयं॒ मृग॑यं श्रु॒तर्व॑णे॒ यन्माजि॑हीत व॒युना॑ च॒नानु॒षक् । अ॒हं वे॒शं न॒म्रमा॒यवे॑ऽकरम॒हं सव्या॑य॒ पड्गृ॑भिमरंधयं ॥
अ॒हं , रं॒ध॒यं॒ , मृग॑यं , श्रु॒तर्व॑णे , यत् , मा॒ , अजि॑हीत , व॒युना॑ , च॒न , आ॒नु॒षक् । अ॒हं , वे॒शं , न॒म्रं , आ॒यवे॑ , अ॒क॒रं॒ , अ॒हं , सव्या॑य , पट्ऽगृ॑भिं , अ॒रं॒ध॒यं॒ ॥
अ॒हं स यो नव॑वास्त्वं बृ॒हद्र॑थं॒ सं वृ॒त्रेव॒ दासं॑ वृत्र॒हारु॑जं । यद्व॒र्धयं॑तं प्र॒थयं॑तमानु॒षग्दू॒रे पा॒रे रज॑सो रोच॒नाक॑रं ॥
अ॒हं , सः , यः , नव॑ऽवास्त्वं , बृ॒हत्ऽर॑थं , सं , वृ॒त्राऽइ॑व , दासं॑ , वृ॒त्र॒ऽहा , अरु॑जं । यत् , व॒र्धयं॑तं , प्र॒थयं॑तं , आ॒नु॒षक् , दू॒रे , पा॒रे , रज॑सः , रो॒च॒ना , अक॑रं ॥
अ॒हं सूर्य॑स्य॒ परि॑ याम्या॒शुभिः॒ प्रैत॒शेभि॒र्वह॑मान॒ ओज॑सा । यन्मा॑ सा॒वो मनु॑ष॒ आह॑ नि॒र्णिज॒ ऋध॑क्कृषे॒ दासं॒ कृत्व्यं॒ हथैः॑ ॥
अ॒हं , सूर्य॑स्य , परि॑ , या॒मि॒ , आ॒शुऽभिः॑ , प्र , ए॒त॒शेभिः॑ , वह॑मानः , ओज॑सा । यत् , मा॒ , सा॒वः , मनु॑षः , आह॑ , निः॒ऽनिजे॑ , ऋध॑क् , कृ॒षे॒ , दासं॑ , कृत्व्यं॑ , हथैः॑ ॥
अ॒हं स॑प्त॒हा नहु॑षो॒ नहु॑ष्टरः॒ प्राश्रा॑वयं॒ शव॑सा तु॒र्वशं॒ यदुं॑ । अ॒हं न्य१॒॑न्यं सह॑सा॒ सह॑स्करं॒ नव॒ व्राध॑तो नव॒तिं च॑ वक्षयं ॥
अ॒हं , स॒प्त॒ऽहा , नहु॑षः , नहुः॑ऽतरः , प्र , अ॒श्र॒व॒यं॒ , शव॑सा , तु॒र्वशं॑ , यदुं॑ । अ॒हं , नि , अ॒न्यं , सह॑सा , सहः॑ , क॒रं॒ , नव॑ , व्राध॑तः , न॒व॒तिं , च॒ , व॒क्ष॒यं॒ ॥
अ॒हं स॒प्त स्र॒वतो॑ धारयं॒ वृषा॑ द्रवि॒त्न्वः॑ पृथि॒व्यां सी॒रा अधि॑ । अ॒हमर्णां॑सि॒ वि ति॑रामि सु॒क्रतु॑र्यु॒धा वि॑दं॒ मन॑वे गा॒तुमि॒ष्टये॑ ॥
अ॒हं , स॒प्त , स्र॒वतः॑ , धा॒र॒यं॒ , वृषा॑ , द्र॒वि॒त्न्वः॑ , पृ॒थि॒व्यां , सी॒राः , अधि॑ । अ॒हं , अर्णां॑सि , वि , ति॒रा॒मि॒ , सु॒ऽक्रतुः॑ , यु॒धा , वि॒दं॒ , मन॑वे , गा॒तुं , इ॒ष्टये॑ ॥
अ॒हं तदा॑सु धारयं॒ यदा॑सु॒ न दे॒वश्च॒न त्वष्टाधा॑रय॒द्रुश॑त् । स्पा॒र्हं गवा॒मूधः॑सु व॒क्षणा॒स्वा मधो॒र्मधु॒ श्वात्र्यं॒ सोम॑मा॒शिरं॑ ॥
अ॒हं , तत् , आ॒सु॒ , धा॒र॒यं॒ , यत् , आ॒सु॒ , न , दे॒वः , च॒न , त्वष्टा॑ , अधा॑रयत् , रुश॑त् । स्पा॒र्हं , गवां॑ , ऊधः॑ऽसु , व॒क्षणा॑सु , आ , मधोः॑ , मधु॑ , श्वात्र्यं॑ , सोमं॑ , आ॒ऽशिरं॑ ॥
ए॒वा दे॒वाँ इंद्रो॑ विव्ये॒ नॄन्प्र च्यौ॒त्नेन॑ म॒घवा॑ स॒त्यरा॑धाः । विश्वेत्ता ते॑ हरिवः शचीवो॒ऽभि तु॒रासः॑ स्वयशो गृणंति ॥
ए॒व , दे॒वान् , इंद्रः॑ , वि॒व्ये॒ , नॄन् , प्र , च्यौ॒त्नेन॑ , म॒घऽवा॑ , स॒त्यऽरा॑धाः । विश्वा॑ , इत् , ता , ते॒ , ह॒रि॒ऽवः॒ , श॒ची॒ऽवः॒ , अ॒भि , तु॒रासः॑ , स्व॒ऽय॒शः॒ , गृ॒णं॒ति॒ ॥
[५०] प्रवोमहइति सप्तर्चस्य सूक्तस्य वैकुंठ इंद्रो वैकुंठ इंद्रो जगती तृतीया चतुर्थ्यावभिसारिण्यौ पंचमीत्रिष्टुप् |
प्र वो॑ म॒हे मंद॑माना॒यांध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ । इंद्र॑स्य॒ यस्य॒ सुम॑खं॒ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यतः॑ ॥
प्र , वः॒ , म॒हे , मंद॑मानाय , अंध॑सः , अर्च॑ , वि॒श्वान॑राय , वि॒श्व॒ऽभुवे॑ । इंद्र॑स्य , यस्य॑ , सुऽम॑खं , सहः॑ , महि॑ , श्रवः॑ , नृ॒म्णं , च॒ , रोद॑सी॒ इति॑ , स॒प॒र्यतः॑ ॥
सो चि॒न्नु सख्या॒ नर्य॑ इ॒नः स्तु॒तश्च॒र्कृत्य॒ इंद्रो॒ माव॑ते॒ नरे॑ । विश्वा॑सु धू॒र्षु वा॑ज॒कृत्ये॑षु सत्पते वृ॒त्रे वा॒प्स्व१॒॑भि शू॑र मंदसे ॥
सः , चि॒त् , नु , सख्या॑ , नर्यः॑ , इ॒नः , स्तु॒तः , च॒र्कृत्यः॑ , इंद्रः॑ , माऽव॑ते , नरे॑ । विश्वा॑सु , धूः॒ऽसु , वा॒ज॒ऽकृत्ये॑षु , स॒त्ऽप॒ते॒ , वृ॒त्रे , वा॒ , अ॒प्ऽसु , अ॒भि , शू॒र॒ , मं॒द॒से॒ ॥
के ते नर॑ इंद्र॒ ये त॑ इ॒षे ये ते॑ सु॒म्नं स॑ध॒न्य१॒॑मिय॑क्षान् । के ते॒ वाजा॑यासु॒र्या॑य हिन्विरे॒ के अ॒प्सु स्वासू॒र्वरा॑सु॒ पौंस्ये॑ ॥
के , ते , नरः॑ , इं॒द्र॒ , ये , ते॒ , इ॒षे , ये , ते॒ , सु॒म्नं , स॒ऽध॒न्यं॑ , इय॑क्षान् । के , ते॒ , वाजा॑य , अ॒सु॒र्या॑य , हि॒न्वि॒रे॒ , के , अ॒प्ऽसु , स्वासु॑ , उ॒र्वरा॑सु , पौंस्ये॑ ॥
भुव॒स्त्वमिं॑द्र॒ ब्रह्म॑णा म॒हान्भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑ । भुवो॒ नॄँश्च्यौ॒त्नो विश्व॑स्मि॒न्भरे॒ ज्येष्ठ॑श्च॒ मंत्रो॑ विश्वचर्षणे ॥
भुवः॑ , त्वं , इं॒द्र॒ , ब्रह्म॑णा , म॒हान् , भुवः॑ , विश्वे॑षु , सव॑नेषु , य॒ज्ञियः॑ । भुवः॑ , नॄन् , च्यौ॒त्नः , विश्व॑स्मिन् , भरे॑ , ज्येष्ठः॑ , च॒ , मंत्रः॑ , वि॒श्व॒ऽच॒र्ष॒णे॒ ॥
अवा॒ नु कं॒ ज्याया॑न्य॒ज्ञव॑नसो म॒हीं त॒ ओमा॑त्रां कृ॒ष्टयो॑ विदुः । असो॒ नु क॑म॒जरो॒ वर्धा॑श्च॒ विश्वेदे॒ता सव॑ना तूतु॒मा कृ॑षे ॥
अव॑ , नु , कं॒ , ज्याया॑न् , य॒ज्ञऽव॑नसः , म॒हीं , ते॒ , ओमा॑त्रां , कृ॒ष्टयः॑ , वि॒दुः॒ । असः॑ , नु , कं॒ , अ॒जरः॑ , वर्धाः॑ , च॒ , विश्वा॑ , इत् , ए॒ता , सव॑ना , तू॒तु॒मा , कृ॒षे॒ ॥
ए॒ता विश्वा॒ सव॑ना तूतु॒मा कृ॑षे स्व॒यं सू॑नो सहसो॒ यानि॑ दधि॒षे । वरा॑य ते॒ पात्रं॒ धर्म॑णे॒ तना॑ य॒ज्ञो मंत्रो॒ ब्रह्मोद्य॑तं॒ वचः॑ ॥
ए॒ता , विश्वा॑ , सव॑ना , तू॒तु॒मा , कृ॒षे॒ , स्व॒यं , सू॒नो॒ इति॑ , स॒ह॒सः॒ , यानि॑ , द॒धि॒षे । वरा॑य , ते॒ , पात्रं॑ , धर्म॑णे , तना॑ , य॒ज्ञः , मंत्रः॒ , ब्रह्म॑ , उत्ऽय॑तं , वचः॑ ॥
ये ते॑ विप्र ब्रह्म॒कृतः॑ सु॒ते सचा॒ वसू॑नां च॒ वसु॑नश्च दा॒वने॑ । प्र ते सु॒म्नस्य॒ मन॑सा प॒था भु॑व॒न्मदे॑ सु॒तस्य॑ सो॒म्यस्यांध॑सः ॥
ये , ते॒ , वि॒प्र॒ , ब्र॒ह्म॒ऽकृतः॑ , सु॒ते , सचा॑ , वसू॑नां , च॒ , वसु॑नः , च॒ , दा॒वने॑ । प्र , ते , सु॒म्नस्य॑ , मन॑सा , प॒था , भु॒व॒न् , मदे॑ , सु॒तस्य॑ , सो॒म्यस्य॑ , अंध॑सः ॥
[५१] महत्तदिति नवर्चस्य सूक्तस्य द्वितीयादियुगृचां सौचीकोग्निऋषिः अयुजांदेवाऋषयः युजांदेवादेवताः अयुजामग्निर्देवतात्रिष्टुप् |
म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा॑सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः । विश्वा॑ अपश्यद्बहु॒धा ते॑ अग्ने॒ जात॑वेदस्त॒न्वो॑ दे॒व एकः॑ ॥
म॒हत् , तत् , उल्बं॑ , स्थवि॑रं , तत् , आ॒सी॒त् , येन॑ , आऽवि॑ष्टितः , प्र॒ऽवि॒वेशि॑थ , अ॒पः । विश्वाः॑ , अ॒प॒श्य॒त् , ब॒हु॒धा , ते॒ , अ॒ग्ने॒ , जात॑ऽवेदः , त॒न्वः॑ , दे॒वः , एकः॑ ॥
को मा॑ ददर्श कत॒मः स दे॒वो यो मे॑ त॒न्वो॑ बहु॒धा प॒र्यप॑श्यत् । क्वाह॑ मित्रावरुणा क्षियंत्य॒ग्नेर्विश्वाः॑ स॒मिधो॑ देव॒यानीः॑ ॥
कः , मा॒ , द॒द॒र्श॒ , क॒त॒मः , सः , दे॒वः , यः , मे॒ , त॒न्वः॑ , ब॒हु॒धा , प॒रि॒ऽअप॑श्यत् । क्व॑ , अह॑ , मि॒त्रा॒व॒रु॒णा॒ , क्षि॒यं॒ति॒ , अ॒ग्नेः , विश्वाः॑ , सं॒ऽइधः॑ , दे॒व॒ऽयानीः॑ ॥
ऐच्छा॑म त्वा बहु॒धा जा॑तवेदः॒ प्रवि॑ष्टमग्ने अ॒प्स्वोष॑धीषु । तं त्वा॑ य॒मो अ॑चिकेच्चित्रभानो दशांतरु॒ष्याद॑ति॒रोच॑मानं ॥
ऐच्छा॑म , त्वा॒ , ब॒हु॒धा , जा॒त॒ऽवे॒दः॒ , प्रऽवि॑ष्टं , अ॒ग्ने॒ , अ॒प्ऽसु , ओष॑धीषु । तं , त्वा॒ , य॒मः , अ॒चि॒के॒त् , चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो , द॒श॒ऽअं॒त॒रु॒ष्यात् , अ॒ति॒ऽरोच॑मानं ॥
हो॒त्राद॒हं व॑रुण॒ बिभ्य॑दायं॒ नेदे॒व मा॑ यु॒नज॒न्नत्र॑ दे॒वाः । तस्य॑ मे त॒न्वो॑ बहु॒धा निवि॑ष्टा ए॒तमर्थं॒ न चि॑केता॒हम॒ग्निः ॥
हो॒त्रात् , अ॒हं , व॒रु॒ण॒ , बिभ्य॑त् , आ॒यं॒ , न , इत् , ए॒व , मा॒ , यु॒नज॑न् , अत्र॑ , दे॒वाः । तस्य॑ , मे॒ , त॒न्वः॑ , ब॒हु॒धा , निऽवि॑ष्टाः , ए॒तं , अर्थं॑ , न , चि॒के॒त॒ , अ॒हं , अ॒ग्निः ॥
एहि॒ मनु॑र्देव॒युर्य॒ज्ञका॑मोऽरं॒कृत्या॒ तम॑सि क्षेष्यग्ने । सु॒गान्प॒थः कृ॑णुहि देव॒याना॒न्वह॑ ह॒व्यानि॑ सुमन॒स्यमा॑नः ॥
आ , इ॒हि॒ , मनुः॑ , दे॒व॒ऽयुः , य॒ज्ञऽका॑मः , अ॒रं॒ऽकृत्य॑ , तम॑सि , क्षे॒षि॒ , अ॒ग्ने॒ । सु॒ऽगान् , प॒थः , कृ॒णु॒हि॒ , दे॒व॒ऽयाना॑न् , वह॑ , ह॒व्यानि॑ , सु॒ऽम॒न॒स्यमा॑नः ॥
अ॒ग्नेः पूर्वे॒ भ्रात॑रो॒ अर्थ॑मे॒तं र॒थीवाध्वा॑न॒मन्वाव॑रीवुः । तस्मा॑द्भि॒या व॑रुण दू॒रमा॑यं गौ॒रो न क्षे॒प्नोर॑विजे॒ ज्यायाः॑ ॥
अ॒ग्नेः , पूर्वे॑ , भ्रात॑रः , अर्थं॑ , ए॒तं , र॒थीऽइ॑व , अध्वा॑नं , अनु॑ , आ , अ॒व॒री॒वु॒रिति॑ । तस्मा॑त् , भि॒या , व॒रु॒ण॒ , दू॒रं , आ॒यं॒ , गौ॒रः , न , क्षे॒प्नोः , अ॒वि॒जे॒ , ज्यायाः॑ ॥
कु॒र्मस्त॒ आयु॑र॒जरं॒ यद॑ग्ने॒ यथा॑ यु॒क्तो जा॑तवेदो॒ न रिष्याः॑ । अथा॑ वहासि सुमन॒स्यमा॑नो भा॒गं दे॒वेभ्यो॑ ह॒विषः॑ सुजात ॥
कु॒र्मः , ते॒ , आयुः॑ , अ॒जरं॑ , यत् , अ॒ग्ने॒ , यथा॑ , यु॒क्तः , जा॒त॒ऽवे॒दः॒ , न , रिष्याः॑ । अथ॑ , व॒हा॒सि॒ , सु॒ऽम॒न॒स्यमा॑नः , भा॒गं , दे॒वेभ्यः॑ , ह॒विषः॑ , सु॒ऽजा॒त॒ ॥
प्र॒या॒जान्मे॑ अनुया॒जाँश्च॒ केव॑ला॒नूर्ज॑स्वंतं ह॒विषो॑ दत्त भा॒गं । घृ॒तं चा॒पां पुरु॑षं॒ चौष॑धीनाम॒ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ॥
प्र॒ऽया॒जान् , मे॒ , अ॒नु॒ऽया॒जान् , च॒ , केव॑लान् , ऊर्ज॑स्वंतं , ह॒विषः॑ , द॒त्त॒ , भा॒गं । घृ॒तं , च॒ , अ॒पां , पुरु॑षं , च॒ , ओष॑धीनां , अ॒ग्नेः , च॒ , दी॒र्घं , आयुः॑ , अ॒स्तु॒ , दे॒वाः॒ ॥
तव॑ प्रया॒जा अ॑नुया॒जाश्च॒ केव॑ल॒ ऊर्ज॑स्वंतो ह॒विषः॑ संतु भा॒गाः । तवा॑ग्ने य॒ज्ञो॒३॒॑ऽयम॑स्तु॒ सर्व॒स्तुभ्यं॑ नमंतां प्र॒दिश॒श्चत॑स्रः ॥
तव॑ , प्र॒ऽया॒जाः , अ॒नु॒ऽया॒जाः , च॒ , केव॑ले , ऊर्ज॑स्वंतः , ह॒विषः॑ , सं॒तु॒ , भा॒गाः । तव॑ , अ॒ग्ने॒ , य॒ज्ञः , अ॒यं , अ॒स्तु॒ , सर्वः॑ , तुभ्यं॑ , न॒मं॒तां॒ , प्र॒ऽदिशः॑ , चत॑स्रः ॥
[५२] विश्वेदेवाइति षडृचस्य सूक्तस्यसौचीकोग्निर्देवास्त्रिष्टुप् |
विश्वे॑ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता॑ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ । प्र मे॑ ब्रूत भाग॒धेयं॒ यथा॑ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा॑नि ॥
विश्वे॑ , दे॒वाः॒ , शा॒स्तन॑ , मा॒ , यथा॑ , इ॒ह , होता॑ , वृ॒तः , म॒नवै॑ , यत् , नि॒ऽसद्य॑ । प्र , मे॒ , ब्रू॒त॒ , भा॒ग॒ऽधेयं॑ , यथा॑ , वः॒ , येन॑ , प॒था , ह॒व्यं , आ , वः॒ , वहा॑नि ॥
अ॒हं होता॒ न्य॑सीदं॒ यजी॑या॒न्विश्वे॑ दे॒वा म॒रुतो॑ मा जुनंति । अह॑रहरश्वि॒नाध्व॑र्यवं वां ब्र॒ह्मा स॒मिद्भ॑वति॒ साहु॑तिर्वां ॥
अ॒हं , होता॑ , नि , अ॒सी॒दं॒ , यजी॑यान् , विश्वे॑ , दे॒वाः , म॒रुतः॑ , मा॒ , जु॒नं॒ति॒ । अहः॑ऽअहः , अ॒श्वि॒ना॒ , आध्व॑र्यवं , वां॒ , ब्र॒ह्मा , सं॒ऽइत् , भ॒व॒ति॒ , सा , आऽहु॑तिः , वां॒ ॥
अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू॑हे॒ यत्स॑मं॒जंति॑ दे॒वाः । अह॑रहर्जायते मा॒सिमा॒स्यथा॑ दे॒वा द॑धिरे हव्य॒वाहं॑ ॥
अ॒यं , यः , होता॑ , किः , ऊँ॒ इति॑ , सः , य॒मस्य॑ , कं , अपि॑ , ऊ॒हे॒ , यत् , सं॒ऽअं॒जंति॑ , दे॒वाः । अहः॑ऽअहः , जा॒य॒ते॒ , मा॒सिऽमा॑सि , अथ॑ , दे॒वाः , द॒धि॒रे॒ , ह॒व्य॒ऽवाहं॑ ॥
मां दे॒वा द॑धिरे हव्य॒वाह॒मप॑म्लुक्तं ब॒हु कृ॒च्छ्रा चरं॑तं । अ॒ग्निर्वि॒द्वान्य॒ज्ञं नः॑ कल्पयाति॒ पंच॑यामं त्रि॒वृतं॑ स॒प्ततं॑तुं ॥
मां , दे॒वाः , द॒धि॒रे॒ , ह॒व्य॒ऽवाहं॑ , अप॑ऽम्लुक्तं , ब॒हु , कृ॒च्छ्रा , चरं॑तं । अ॒ग्निः , वि॒द्वान् , य॒ज्ञं , नः॒ , क॒ल्प॒या॒ति॒ , पंच॑ऽयामं , त्रि॒ऽवृतं॑ , स॒प्तऽतं॑तुं ॥
आ वो॑ यक्ष्यमृत॒त्वं सु॒वीरं॒ यथा॑ वो देवा॒ वरि॑वः॒ करा॑णि । आ बा॒ह्वोर्वज्र॒मिंद्र॑स्य धेया॒मथे॒मा विश्वाः॒ पृत॑ना जयाति ॥
आ , वः॒ , य॒क्षि॒ , अ॒मृ॒त॒ऽत्वं , सु॒ऽवीरं॑ , यथा॑ , वः॒ , दे॒वाः॒ , वरि॑वः , करा॑णि । आ , बा॒ह्वोः , वज्रं॑ , इंद्र॑स्य , धेयां॑ , अथ॑ , इ॒माः , विश्वाः॑ , पृत॑नाः , ज॒या॒ति॒ ॥
त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् । औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयंत ॥
त्रीणि॑ , श॒ता , त्री , स॒हस्रा॑णि , अ॒ग्निं , त्रिं॒शत् , च॒ , दे॒वाः , नव॑ , च॒ , अ॒स॒प॒र्य॒न् । औक्ष॑न् , घृ॒तैः , अस्तृ॑णन् , ब॒र्हिः , अ॒स्मै॒ , आत् , इत् , होता॑रं , नि , अ॒सा॒द॒यं॒त॒ ॥
[५३] यमैच्छामेत्येकादशर्चस्य सूक्तस्य देवाऋषयः चतुर्थीपंचम्योः सौचीकोग्निरृषिः अग्निर्देवता चतुर्थीपंचम्योर्देवादेवता जगती अश्मन्वतीरितित्रिष्टुप् |
यमैच्छा॑म॒ मन॑सा॒ सो॒३॒॑ऽयमागा॑द्य॒ज्ञस्य॑ वि॒द्वान्परु॑षश्चिकि॒त्वान् । स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑या॒न्नि हि षत्स॒दंत॑रः॒ पूर्वो॑ अ॒स्मत् ॥
यं , ऐच्छा॑म , मन॑सा , सः , अ॒यं , आ , अ॒गा॒त् , य॒ज्ञस्य॑ , वि॒द्वान् , परु॑षः , चि॒कि॒त्वान् । सः , नः॒ , य॒क्ष॒त् , दे॒वऽता॑ता , यजी॑यान् , नि , हि , स॒त्स॒त् , अंत॑रः , पूर्वः॑ , अ॒स्मत् ॥
अरा॑धि॒ होता॑ नि॒षदा॒ यजी॑यान॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यत् । यजा॑महै य॒ज्ञिया॒न्हंत॑ दे॒वाँ ईळा॑महा॒ ईड्याँ॒ आज्ये॑न ॥
अरा॑धि , होता॑ , नि॒ऽसदा॑ , यजी॑यान् , अ॒भि , प्रयां॑सि , सुऽधि॑तानि , हि , ख्यत् । यजा॑महै , य॒ज्ञिया॑न् , हंत॑ , दे॒वान् , ईळा॑महै , ईड्या॑न् , आज्ये॑न ॥
सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्यां॑ । स आयु॒रागा॑त्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ॥
सा॒ध्वीं , अ॒कः॒ , दे॒वऽवी॑तिं , नः॒ , अ॒द्य , य॒ज्ञस्य॑ , जि॒ह्वां , अ॒वि॒दा॒म॒ , गुह्यां॑ । सः , आयुः॑ , आ , अ॒गा॒त् , सु॒र॒भिः , वसा॑नः , भ॒द्रां , अ॒कः॒ , दे॒वऽहू॑तिं , नः॒ , अ॒द्य ॥
तद॒द्य वा॒चः प्र॑थ॒मं म॑सीय॒ येनासु॑राँ अ॒भि दे॒वा असा॑म । ऊर्जा॑द उ॒त य॑ज्ञियासः॒ पंच॑ जना॒ मम॑ हो॒त्रं जु॑षध्वं ॥
तत् , अ॒द्य , वा॒चः , प्र॒थ॒मं , म॒सी॒य॒ , येन॑ , असु॑रान् , अ॒भि , दे॒वाः , असा॑म । ऊर्ज॑ऽअदः , उ॒त , य॒ज्ञि॒या॒सः॒ , पंच॑ , ज॒नाः॒ , मम॑ , हो॒त्रं , जु॒ष॒ध्वं॒ ॥
पंच॒ जना॒ मम॑ हो॒त्रं जु॑षंतां॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः । पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥
पंच॑ , जनाः॑ , मम॑ , हो॒त्रं , जु॒षं॒तां॒ , गोऽजा॑ताः , उ॒त , ये , य॒ज्ञिया॑सः । पृ॒थि॒वी , नः॒ , पार्थि॑वात् , पा॒तु॒ , अंह॑सः , अं॒तरि॑क्षं , दि॒व्यात् , पा॒तु॒ , अ॒स्मान् ॥
तंतुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् । अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जनं॑ ॥
तंतुं॑ , त॒न्वन् , रज॑सः , भा॒नुं , अनु॑ , इ॒हि॒ , ज्योति॑ष्मतः , प॒थः , र॒क्ष॒ , धि॒या , कृ॒तान् । अ॒नु॒ल्ब॒णं , व॒य॒त॒ , जोगु॑वां , अपः॑ , मनुः॑ , भ॒व॒ , ज॒नय॑ , दैव्यं॑ , जनं॑ ॥
अ॒क्षा॒नहो॑ नह्यतनो॒त सो॑म्या॒ इष्कृ॑णुध्वं रश॒ना ओत पिं॑शत । अ॒ष्टावं॑धुरं वहता॒भितो॒ रथं॒ येन॑ दे॒वासो॒ अन॑यन्न॒भि प्रि॒यं ॥
अ॒क्ष॒ऽनहः॑ , न॒ह्य॒त॒न॒ , उ॒त , सो॒म्याः॒ , इष्कृ॑णुध्वं , र॒श॒नाः , आ , उ॒त , पिं॒श॒त॒ । अ॒ष्टाऽवं॑धुरं , व॒ह॒त॒ , अ॒भितः॑ , रथं॑ , येन॑ , दे॒वासः॑ , अन॑यन् , अ॒भि , प्रि॒यं ॥
अश्म॑न्वती रीयते॒ सं र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः । अत्रा॑ जहाम॒ ये अस॒न्नशे॑वाः शि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ॥
अश्म॑न्ऽवती , री॒य॒ते॒ , सं , र॒भ॒ध्वं॒ , उत् , ति॒ष्ठ॒त॒ , प्र , त॒र॒त॒ , स॒खा॒यः॒ । अत्र॑ , ज॒हा॒म॒ , ये , अस॑न् , अशे॑वाः , शि॒वान् , व॒यं , उत् , त॒रे॒म॒ , अ॒भि , वाजा॑न् ॥
त्वष्टा॑ मा॒या वे॑द॒पसा॑म॒पस्त॑मो॒ बिभ्र॒त्पात्रा॑ देव॒पाना॑नि॒ शंत॑मा । शिशी॑ते नू॒नं प॑र॒शुं स्वा॑य॒सं येन॑ वृ॒श्चादेत॑शो॒ ब्रह्म॑ण॒स्पतिः॑ ॥
त्वष्टा॑ , मा॒या , वे॒त् , अ॒पसां॑ , अ॒पःऽत॑मः , बिभ्र॑त् , पात्रा॑ , दे॒व॒ऽपाना॑नि , शंऽत॑मा । शिशी॑ते , नू॒नं , प॒र॒शुं , सु॒ऽआ॒य॒सं , येन॑ , वृ॒श्चात् , एत॑शः , ब्रह्म॑णः , पतिः॑ ॥
स॒तो नू॒नं क॑वयः॒ सं शि॑शीत॒ वाशी॑भि॒र्याभि॑र॒मृता॑य॒ तक्ष॑थ । वि॒द्वांसः॑ प॒दा गुह्या॑नि कर्तन॒ येन॑ दे॒वासो॑ अमृत॒त्वमा॑न॒शुः ॥
स॒तः , नू॒नं , क॒व॒यः॒ , सं , शि॒शी॒त॒ , वाशी॑भिः , याभिः॑ , अ॒मृता॑य , तक्ष॑थ । वि॒द्वांसः॑ , प॒दा , गुह्या॑नि , क॒र्त॒न॒ , येन॑ , दे॒वासः॑ , अ॒मृ॒त॒ऽत्वं , आ॒न॒शुः ॥
गर्भे॒ योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये॑न॒ मन॑सो॒त जि॒ह्वया॑ । स वि॒श्वाहा॑ सु॒मना॑ यो॒ग्या अ॒भि सि॑षा॒सनि॑र्वनते का॒र इज्जितिं॑ ॥
गर्भे॑ , योषां॑ , अद॑धुः , व॒त्सं , आ॒सनि॑ , अ॒पी॒च्ये॑न , मन॑सा , उ॒त , जि॒ह्वया॑ । सः , वि॒श्वाहा॑ , सु॒ऽमनाः॑ , यो॒ग्याः , अ॒भि , सि॒सा॒सनिः॑ , व॒न॒ते॒ , का॒रः , इत् , जितिं॑ ॥
[५४] तांसुतइति षडृचस्य सूक्तस्य वामदेव्यो बृहदुक्थ इंद्रस्त्रिष्टुप् |
तां सु ते॑ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा॑ भी॒ते रोद॑सी॒ अह्व॑येतां । प्रावो॑ दे॒वाँ आति॑रो॒ दास॒मोजः॑ प्र॒जायै॑ त्वस्यै॒ यदशि॑क्ष इंद्र ॥
तां , सु , ते॒ , की॒र्तिं , म॒घ॒ऽव॒न् , म॒हि॒ऽत्वा , यत् , त्वा॒ , भी॒ते इति॑ , रोद॑सी॒ इति॑ , अह्व॑येतां । प्र , आ॒वः॒ , दे॒वान् , आ , अ॒ति॒रः॒ , दासं॑ , ओजः॑ , प्र॒ऽजायै॑ , त्व॒स्यै॒ , यत् , अशि॑क्षः , इं॒द्र॒ ॥
यदच॑रस्त॒न्वा॑ वावृधा॒नो बला॑नींद्र प्रब्रुवा॒णो जने॑षु । मा॒येत्सा ते॒ यानि॑ यु॒द्धान्या॒हुर्नाद्य शत्रुं॑ न॒नु पु॒रा वि॑वित्से ॥
यत् , अच॑रः , त॒न्वा॑ , व॒वृ॒धा॒नः , बला॑नि , इं॒द्र॒ , प्र॒ऽब्रु॒वा॒णः , जने॑षु । मा॒या , इत् , सा , ते॒ , यानि॑ , यु॒द्धानि॑ , आ॒हुः , न , अ॒द्य , शत्रुं॑ , न॒नु , पु॒रा , वि॒वि॒त्से॒ ॥
क उ॒ नु ते॑ महि॒मनः॑ समस्या॒स्मत्पूर्व॒ ऋष॒योऽन्त॑मापुः । यन्मा॒तरं॑ च पि॒तरं॑ च सा॒कमज॑नयथास्त॒न्व१॒॑ः स्वायाः॑ ॥
के , ऊँ॒ इति॑ , नु , ते॒ , म॒हि॒मनः॑ , स॒म॒स्य॒ , अ॒स्मत् , पूर्वे॑ , ऋष॑यः , अंतं॑ , आ॒पुः॒ । यत् , मा॒तरं॑ , च॒ , पि॒तरं॑ , च॒ , सा॒कं , अज॑नयथाः , त॒न्वः॑ , स्वायाः॑ ॥
च॒त्वारि॑ ते असु॒र्या॑णि॒ नामादा॑भ्यानि महि॒षस्य॑ संति । त्वमं॒ग तानि॒ विश्वा॑नि वित्से॒ येभिः॒ कर्मा॑णि मघवंच॒कर्थ॑ ॥
च॒त्वारि॑ , ते॒ , अ॒सु॒र्या॑णि , नाम॑ , अदा॑भ्यानि , म॒हि॒षस्य॑ , सं॒ति॒ । त्वं , अं॒ग , तानि॑ , विश्वा॑नि , वि॒त्से॒ , येभिः॑ , कर्मा॑णि , म॒घ॒ऽव॒न् , च॒कर्थ॑ ॥
त्वं विश्वा॑ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू॑नि । काम॒मिन्मे॑ मघव॒न्मा वि ता॑री॒स्त्वमा॑ज्ञा॒ता त्वमिं॑द्रासि दा॒ता ॥
त्वं , विश्वा॑ , द॒धि॒षे॒ , केव॑लानि , यानि॑ , आ॒विः , या , च॒ , गुहा॑ , वसू॑नि । कामं॑ , इत् , मे॒ , म॒घ॒ऽव॒न् , मा , वि , ता॒रीः॒ , त्वं , आ॒ऽज्ञा॒ता , त्वं , इं॒द्र॒ , अ॒सि॒ , दा॒ता ॥
यो अद॑धा॒ज्ज्योति॑षि॒ ज्योति॑रं॒तर्यो असृ॑ज॒न्मधु॑ना॒ सं मधू॑नि । अध॑ प्रि॒यं शू॒षमिंद्रा॑य॒ मन्म॑ ब्रह्म॒कृतो॑ बृ॒हदु॑क्थादवाचि ॥
यः , अद॑धात् , ज्योति॑षि , ज्योतिः॑ , अं॒तः , यः , असृ॑जत् , मधु॑ना , सं , मधू॑नि । अध॑ , प्रि॒यं , शू॒षं , इंद्रा॑य , मन्म॑ , ब्र॒ह्म॒ऽकृतः॑ , बृ॒हत्ऽउ॑क्थात् , अ॒वा॒चि॒ ॥
[५५] दूरेतदित्यष्टर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थइंद्रत्रिष्टुप् |
दू॒रे तन्नाम॒ गुह्यं॑ परा॒चैर्यत्त्वा॑ भी॒ते अह्व॑येतां वयो॒धै । उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातुः॑ पु॒त्रान्म॑घवंतित्विषा॒णः ॥
दू॒रे , तत् , नाम॑ , गुह्यं॑ , प॒रा॒चैः , यत् , त्वा॒ , भी॒ते इति॑ , अह्व॑येतां , व॒यः॒ऽधै । उत् , अ॒स्त॒भ्नाः॒ , पृ॒थि॒वीं , द्यां , अ॒भीके॑ , भ्रातुः॑ , पु॒त्रान् , म॒घ॒ऽव॒न् , ति॒त्वि॒षा॒णः ॥
म॒हत्तन्नाम॒ गुह्यं॑ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्यं॑ । प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशंत॒ पंच॑ ॥
म॒हत् , तत् , नाम॑ , गुह्यं॑ , पु॒रु॒ऽस्पृक् , येन॑ , भू॒तं , ज॒नयः॑ , येन॑ , भव्यं॑ । प्र॒त्नं , जा॒तं , ज्योतिः॑ , यत् , अ॒स्य॒ , प्रि॒यं , प्रि॒याः , सं , अ॒वि॒शं॒त॒ , पंच॑ ॥
आ रोद॑सी अपृणा॒दोत मध्यं॒ पंच॑ दे॒वाँ ऋ॑तु॒शः स॒प्तस॑प्त । चतु॑स्त्रिंशता पुरु॒धा वि च॑ष्टे॒ सरू॑पेण॒ ज्योति॑षा॒ विव्र॑तेन ॥
आ , रोद॑सी॒ इति॑ , अ॒पृ॒णा॒त् , आ , उ॒त , मध्यं॑ , पंच॑ , दे॒वान् , ऋ॒तु॒ऽशः , स॒प्तऽस॑प्त । चतुः॑ऽत्रिंशता , पु॒रु॒धा , वि , च॒ष्टे॒ , सऽरू॑पेण , ज्योति॑षा , विऽव्र॑तेन ॥
यदु॑ष॒ औच्छः॑ प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टं । यत्ते॑ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या अ॑सुर॒त्वमेकं॑ ॥
यत् , उ॒षः॒ , औच्छः॑ , प्र॒थ॒मा , वि॒ऽभानां॑ , अज॑नयः , येन॑ , पु॒ष्टस्य॑ , पु॒ष्टं । यत् , ते॒ , जा॒मि॒ऽत्वं , अव॑रं , पर॑स्याः , म॒हत् , म॒ह॒त्याः , अ॒सु॒र॒ऽत्वं , एकं॑ ॥
वि॒धुं द॑द्रा॒णं सम॑ने बहू॒नां युवा॑नं॒ संतं॑ पलि॒तो ज॑गार । दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्या म॒मार॒ स ह्यः समा॑न ॥
वि॒ऽधुं , द॒द्रा॒णं , सम॑ने , ब॒हू॒नां , युवा॑नं , संतं॑ , प॒लि॒तः , ज॒गा॒र॒ । दे॒वस्य॑ , प॒श्य॒ , काव्यं॑ , म॒हि॒ऽत्वा , अ॒द्य , म॒मार॑ , सः , ह्यः , सं , आ॒न॒ ॥
शाक्म॑ना शा॒को अ॑रु॒णः सु॑प॒र्ण आ यो म॒हः शूरः॑ स॒नादनी॑ळः । यच्चि॒केत॑ स॒त्यमित्तन्न मोघं॒ वसु॑ स्पा॒र्हमु॒त जेतो॒त दाता॑ ॥
शाक्म॑ना , शा॒कः , अ॒रु॒णः , सु॒ऽप॒र्णः , आ , यः , म॒हः , शूरः॑ , स॒नात् , अनी॑ळः । यत् , चि॒केत॑ , स॒त्यं , इत् , तत् , न , मोघं॑ , वसु॑ , स्पा॒र्हं , उ॒त , जेता॑ , उ॒त , दाता॑ ॥
ऐभि॑र्ददे॒ वृष्ण्या॒ पौंस्या॑नि॒ येभि॒रौक्ष॑द्वृत्र॒हत्या॑य व॒ज्री । ये कर्म॑णः क्रि॒यमा॑णस्य म॒ह्न ऋ॑तेक॒र्ममु॒दजा॑यंत दे॒वाः ॥
आ , ए॒भिः॒ , द॒दे॒ , वृष्ण्या॑ , पौंस्या॑नि , येभिः॑ , औक्ष॑त् , वृ॒त्र॒ऽहत्या॑य , व॒ज्री । ये , कर्म॑णः , क्रि॒यमा॑णस्य , म॒ह्ना , ऋ॒ते॒ऽक॒र्मं , उ॒त्ऽअजा॑यंत , दे॒वाः ॥
यु॒जा कर्मा॑णि ज॒नय॑न्वि॒श्वौजा॑ अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् । पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ॥
यु॒जा , कर्मा॑णि , ज॒नय॑न् , वि॒श्वऽओ॑जाः , अ॒श॒स्ति॒ऽहा , वि॒श्वऽम॑नाः , तु॒रा॒षाट् । पी॒त्वी , सोम॑स्य , दि॒वः , आ , वृ॒धा॒नः , शूरः॑ , निः , यु॒धा , अ॒ध॒म॒त् , दस्यू॑न् ॥
[५६] इदंतइति सप्तर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थो विश्वेदेवास्त्रिष्टुप् चतुर्थ्यादितिस्रोजगत्यः |
इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व । सं॒वेश॑ने त॒न्व१॒॑श्चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे ज॒नित्रे॑ ॥
इ॒दं , ते॒ , एकं॑ , प॒रः , ऊँ॒ इति॑ , ते॒ , एकं॑ , तृ॒तीये॑न , ज्योति॑षा , सं , वि॒श॒स्व॒ । सं॒ऽवेश॑ने , त॒न्वः॑ , चारुः॑ , ए॒धि॒ , प्रि॒यः , दे॒वानां॑ , प॒र॒मे , ज॒नित्रे॑ ॥
त॒नूष्टे॑ वाजिंत॒न्वं१॒॑ नयं॑ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्यं॑ । अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वांदि॒वी॑व॒ ज्योतिः॒ स्वमा मि॑मीयाः ॥
त॒नूः , ते॒ , वा॒जि॒न् , त॒न्वं॑ , नयं॑ती , वा॒मं , अ॒स्मभ्यं॑ , धातु॑ , शर्म॑ , तुभ्यं॑ । अह्रु॑तः , म॒हः , ध॒रुणा॑य , दे॒वान् , दि॒विऽइ॑व , ज्योतिः॑ , स्वं , आ , मि॒मी॒याः॒ ॥
वा॒ज्य॑सि॒ वाजि॑नेना सुवे॒नीः सु॑वि॒तः स्तोमं॑ सुवि॒तो दिवं॑ गाः । सु॒वि॒तो धर्म॑ प्रथ॒मानु॑ स॒त्या सु॑वि॒तो दे॒वांत्सु॑वि॒तोऽनु॒ पत्म॑ ॥
वा॒जी , अ॒सि॒ , वाजि॑नेन , सु॒ऽवे॒नीः , सु॒वि॒तः , स्तोमं॑ , सु॒वि॒तः , दिवं॑ , गाः॒ । सु॒वि॒तः , धर्म॑ , प्र॒थ॒मा , अनु॑ , स॒त्या , सु॒वि॒तः , दे॒वान् , सु॒वि॒तः , अनु॑ , पत्म॑ ॥
म॒हि॒म्न ए॑षां पि॒तर॑श्च॒नेशि॑रे दे॒वा दे॒वेष्व॑दधु॒रपि॒ क्रतुं॑ । सम॑विव्यचुरु॒त यान्यत्वि॑षु॒रैषां॑ त॒नूषु॒ नि वि॑विशुः॒ पुनः॑ ॥
म॒हि॒म्नः , ए॒षां॒ , पि॒तरः॑ , च॒न , ई॒शि॒रे॒ , दे॒वाः , दे॒वेषु॑ , अ॒द॒धुः॒ , अपि॑ , क्रतुं॑ । सं , अ॒वि॒व्य॒चुः॒ , उ॒त , यानि॑ , अत्वि॑षुः , आ , ए॒षां॒ , त॒नूषु॑ , नि , वि॒वि॒शुः॒ , पुन॒रिति॑ ॥
सहो॑भि॒र्विश्वं॒ परि॑ चक्रमू॒ रजः॒ पूर्वा॒ धामा॒न्यमि॑ता॒ मिमा॑नाः । त॒नूषु॒ विश्वा॒ भुव॑ना॒ नि ये॑मिरे॒ प्रासा॑रयंत पुरु॒ध प्र॒जा अनु॑ ॥
सहः॑ऽभिः , विश्वं॑ , परि॑ , च॒क्र॒मुः॒ , रजः॑ , पूर्वा॑ , धा॒मानि॑ , अमि॑ता , मिमा॑नाः । त॒नूषु॑ , विश्वा॑ , भुव॑ना , नि , ये॒मि॒रे॒ , प्र , अ॒सा॒र॒यं॒त॒ , पु॒रु॒ध , प्र॒ऽजाः , अनु॑ ॥
द्विधा॑ सू॒नवोऽसु॑रं स्व॒र्विद॒मास्था॑पयंत तृ॒तीये॑न॒ कर्म॑णा । स्वां प्र॒जां पि॒तरः॒ पित्र्यं॒ सह॒ आव॑रेष्वदधु॒स्तंतु॒मात॑तं ॥
द्विधा॑ , सू॒नवः॑ , असु॑रं , स्वः॒ऽविदं॑ , आ , अ॒स्था॒प॒यं॒त॒ , तृ॒तीये॑न , कर्म॑णा । स्वां , प्र॒ऽजां , पि॒तरः॑ , पित्र्यं॑ , सहः॑ , आ , अव॑रेषु , अ॒द॒धुः॒ , तंतुं॑ , आऽत॑तं ॥
ना॒वा न क्षोदः॑ प्र॒दिशः॑ पृथि॒व्याः स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ । स्वां प्र॒जां बृ॒हदु॑क्थो महि॒त्वाव॑रेष्वदधा॒दा परे॑षु ॥
ना॒वा , न , क्षोदः॑ , प्र॒ऽदिशः॑ , पृ॒थि॒व्याः , स्व॒स्तिऽभिः॑ , अति॑ , दुः॒ऽगानि॑ , विश्वा॑ । स्वां , प्र॒ऽजां , बृ॒हत्ऽउ॑क्थः , म॒हि॒ऽत्वा , आ , अव॑रेषु , अ॒द॒धा॒त् , आ , परे॑षु ॥
[५७] माप्रगामेति षडृचस्य सूक्तस्य गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुर्विश्वेदेवागायत्री | (भेदपक्षे - इंद्रः १ अग्निस्तंतुः १ विश्वेदेवाः ३ सोमः १ एवं ६ माप्रगामेति सूक्तानां बंध्वाध्याऋषयइत्यार्षानुक्रमण्यां शौनकः) | (अत्रैषांगौपायनत्वमेवनलौपायनत्वं तथासुबंधोर्लोपश्च सर्वा । भा। ) |
मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादिं॑द्र सो॒मिनः॑ । मांतः स्थु॑र्नो॒ अरा॑तयः ॥
मा , प्र , गा॒म॒ , प॒थः , व॒यं , मा , य॒ज्ञात् , इं॒द्र॒ , सो॒मिनः॑ । मा , अं॒तरिति॑ , स्थुः॒ , नः॒ , अरा॑तयः ॥
यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तंतु॑र्दे॒वेष्वात॑तः । तमाहु॑तं नशीमहि ॥
यः , य॒ज्ञस्य॑ , प्र॒ऽसाध॑नः , तंतुः॑ , दे॒वेषु॑ , आऽत॑तः । तं , आऽहु॑तं , न॒शी॒म॒हि॒ ॥
मनो॒ न्वा हु॑वामहे नाराशं॒सेन॒ सोमे॑न । पि॒तॄ॒णां च॒ मन्म॑भिः ॥
मनः॑ , नु , आ , हु॒वा॒म॒हे॒ , ना॒रा॒शं॒सेन॑ , सोमे॑न । पि॒तॄ॒णां , च॒ , मन्म॑ऽभिः ॥
आ त॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑ । ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
आ , ते॒ , ए॒तु॒ , मनः॑ , पुन॒रिति॑ , क्रत्वे॑ , दक्षा॑य , जी॒वसे॑ । ज्योक् , च॒ , सूर्यं॑ , दृ॒शे ॥
पुन॑र्नः पितरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑ । जी॒वं व्रातं॑ सचेमहि ॥
पुनः॑ , नः॒ , पि॒त॒रः॒ , मनः॑ , ददा॑तु , दैव्यः॑ , जनः॑ । जी॒वं , व्रातं॑ , स॒चे॒म॒हि॒ ॥
व॒यं सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जावं॑तः सचेमहि ॥
व॒यं , सो॒म॒ , व्र॒ते , तव॑ , मनः॑ , त॒नूषु॑ , बिभ्र॑तः । प्र॒जाऽवं॑तः , स॒चे॒म॒हि॒ ॥
[५८] यत्तेयममिति द्वादशर्चस्य सूक्तस्य गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुर्मनोनुष्टुप् |
यत्ते॑ य॒मं वै॑वस्व॒तं मनो॑ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
यत् , ते॒ , य॒मं , वै॒व॒स्व॒तं , मनः॑ , ज॒गाम॑ , दू॒र॒कं । तत् , ते॒ , आ , व॒र्त॒या॒म॒सि॒ , इ॒ह , क्षया॑य , जी॒वसे॑ ॥
यत्ते॒ दिवं॒ यत्पृ॑थि॒वीं मनो॑ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
यत् , ते॒ , दिवं॑ , यत् , पृ॒थि॒वीं , मनः॑ , ज॒गाम॑ , दू॒र॒कं । तत् , ते॒ , आ , व॒र्त॒या॒म॒सि॒ , इ॒ह , क्षया॑य , जी॒वसे॑ ॥
यत्ते॒ भूमिं॒ चतु॑र्भृष्टिं॒ मनो॑ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
यत् , ते॒ , भूमिं॑ , चतुः॑ऽभृष्टिं , मनः॑ , ज॒गाम॑ , दू॒र॒कं । तत् , ते॒ , आ , व॒र्त॒या॒म॒सि॒ , इ॒ह , क्षया॑य , जी॒वसे॑ ॥
यत्ते॒ चत॑स्रः प्र॒दिशो॒ मनो॑ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
यत् , ते॒ , चत॑स्रः , प्र॒ऽदिशः॑ , मनः॑ , ज॒गाम॑ , दू॒र॒कं । तत् , ते॒ , आ , व॒र्त॒या॒म॒सि॒ , इ॒ह , क्षया॑य , जी॒वसे॑ ॥
यत्ते॑ समु॒द्रम॑र्ण॒वं मनो॑ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
यत् , ते॒ , स॒मु॒द्रं , अ॒र्ण॒वं , मनः॑ , ज॒गाम॑ , दू॒र॒कं । तत् , ते॒ , आ , व॒र्त॒या॒म॒सि॒ , इ॒ह , क्षया॑य , जी॒वसे॑ ॥
यत्ते॒ मरी॑चीः प्र॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
यत् , ते॒ , मरी॑चीः , प्र॒ऽवतः॑ , मनः॑ , ज॒गाम॑ , दू॒र॒कं । तत् , ते॒ , आ , व॒र्त॒या॒म॒सि॒ , इ॒ह , क्षया॑य , जी॒वसे॑ ॥
यत्ते॑ अ॒पो यदोष॑धी॒र्मनो॑ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
यत् , ते॒ , अ॒पः , यत् , ओष॑धीः , मनः॑ , ज॒गाम॑ , दू॒र॒कं । तत् , ते॒ , आ , व॒र्त॒या॒म॒सि॒ , इ॒ह , क्षया॑य , जी॒वसे॑ ॥
यत्ते॒ सूर्यं॒ यदु॒षसं॒ मनो॑ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
यत् , ते॒ , सूर्यं॑ , यत् , उ॒षसं॑ , मनः॑ , ज॒गाम॑ , दू॒र॒कं । तत् , ते॒ , आ , व॒र्त॒या॒म॒सि॒ , इ॒ह , क्षया॑य , जी॒वसे॑ ॥
यत्ते॒ पर्व॑तान्बृह॒तो मनो॑ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
यत् , ते॒ , पर्व॑तान् , बृ॒ह॒तः , मनः॑ , ज॒गाम॑ , दू॒र॒कं । तत् , ते॒ , आ , व॒र्त॒या॒म॒सि॒ , इ॒ह , क्षया॑य , जी॒वसे॑ ॥
यत्ते॒ विश्व॑मि॒दं जग॒न्मनो॑ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
यत् , ते॒ , विश्वं॑ , इ॒दं , जग॑त् , मनः॑ , ज॒गाम॑ , दू॒र॒कं । तत् , ते॒ , आ , व॒र्त॒या॒म॒सि॒ , इ॒ह , क्षया॑य , जी॒वसे॑ ॥
यत्ते॒ पराः॑ परा॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
यत् , ते॒ , पराः॑ , प॒रा॒ऽवतः॑ , मनः॑ , ज॒गाम॑ , दू॒र॒कं । तत् , ते॒ , आ , व॒र्त॒या॒म॒सि॒ , इ॒ह , क्षया॑य , जी॒वसे॑ ॥
यत्ते॑ भू॒तं च॒ भव्यं॑ च॒ मनो॑ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
यत् , ते॒ , भू॒तं , च॒ , भव्यं॑ , च॒ , मनः॑ , ज॒गाम॑ , दू॒र॒कं । तत् , ते॒ , आ , व॒र्त॒या॒म॒सि॒ , इ॒ह , क्षया॑य , जी॒वसे॑ ॥
[५९] प्रतार्यायुरिति दशर्चस्य सूक्तस्य गौपायनाबंध्वादय ऋषयः आद्यानांचतसृणां निरृतिर्देवता चतुर्थ्यानिरृतिसोमौ पंचमीषष्ठयोरसुनीतिदेवी सप्तम्याः पृथिवीद्यावंतरिक्षसोमपूषपथ्यास्वस्तयोदेवताः अंत्यानांतिसृणां द्यावापृथिव्यौत्रिष्टुप् अंत्यार्धर्चस्येंद्रः अंत्यास्तिस्रःक्रमेणपंक्तिमहा पंक्तिपंक्त्युत्तराः ।
प्र ता॒र्यायुः॑ प्रत॒रं नवी॑यः॒ स्थाता॑रेव॒ क्रतु॑मता॒ रथ॑स्य । अध॒ च्यवा॑न॒ उत्त॑वी॒त्यर्थं॑ परात॒रं सु निर्ऋ॑तिर्जिहीतां ॥
प्र , ता॒रि॒ , आयुः॑ , प्र॒ऽत॒रं , नवी॑यः , स्थाता॑राऽइव , क्रतु॑ऽमता , रथ॑स्य । अध॑ , च्यवा॑नः , उत् , त॒वी॒ति॒ , अर्थं॑ , प॒रा॒ऽत॒रं , सु , निःऽऋ॑तिः , जि॒ही॒तां॒ ॥
साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा॑महे॒ सु पु॑रु॒ध श्रवां॑सि । ता नो॒ विश्वा॑नि जरि॒ता म॑मत्तु परात॒रं सु निर्ऋ॑तिर्जिहीतां ॥
साम॑न् , नु , रा॒ये , नि॒धि॒ऽमत् , नु , अन्नं॑ , करा॑महे , सु , पु॒रु॒ध , श्रवां॑सि । ता , नः॒ , विश्वा॑नि , ज॒रि॒ता , म॒म॒त्तु॒ , प॒रा॒ऽत॒रं , सु , निःऽऋ॑तिः , जि॒ही॒तां॒ ॥
अ॒भी ष्व१॒॑र्यः पौंस्यै॑र्भवेम॒ द्यौर्न भूमिं॑ गि॒रयो॒ नाज्रा॑न् । ता नो॒ विश्वा॑नि जरि॒ता चि॑केत परात॒रं सु निर्ऋ॑तिर्जिहीतां ॥
अ॒भि , सु , अ॒र्यः , पौंस्यैः॑ , भ॒वे॒म॒ , द्यौः , न , भूमिं॑ , गि॒रयः॑ , न , अज्रा॑न् । ता , नः॒ , विश्वा॑नि , ज॒रि॒ता , चि॒के॒त॒ , प॒रा॒ऽत॒रं , सु , निःऽऋ॑तिः , जि॒ही॒तां॒ ॥
मो षु णः॑ सोम मृ॒त्यवे॒ परा॑ दाः॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चरं॑तं । द्युभि॑र्हि॒तो ज॑रि॒मा सू नो॑ अस्तु परात॒रं सु निर्ऋ॑तिर्जिहीतां ॥
मो इति॑ , सु , नः॒ , सो॒म॒ , मृ॒त्यवे॑ , परा॑ , दाः॒ , पश्ये॑म , नु , सूर्यं॑ , उ॒त्ऽचरं॑तं । द्युऽभिः॑ , हि॒तः , ज॒रि॒मा , सु , नः॒ , अ॒स्तु॒ , प॒रा॒ऽत॒रं , सु , निःऽऋ॑तिः , जि॒ही॒तां॒ ॥
असु॑नीते॒ मनो॑ अ॒स्मासु॑ धारय जी॒वात॑वे॒ सु प्र ति॑रा न॒ आयुः॑ । रा॒रं॒धि नः॒ सूर्य॑स्य सं॒दृशि॑ घृ॒तेन॒ त्वं त॒न्वं॑ वर्धयस्व ॥
असु॑ऽनीते , मनः॑ , अ॒स्मासु॑ , धा॒र॒य॒ , जी॒वात॑वे , सु , प्र , ति॒र॒ , नः॒ , आयुः॑ । र॒रं॒धि , नः॒ , सूर्य॑स्य , सं॒ऽदृशि॑ , घृ॒तेन॑ , त्वं , त॒न्वं॑ , व॒र्ध॒य॒स्व॒ ॥
असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो॑ धेहि॒ भोगं॑ । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चरं॑त॒मनु॑मते मृ॒ळया॑ नः स्व॒स्ति ॥
असु॑ऽनीते , पुनः॑ , अ॒स्मासु॑ , चक्षुः॑ , पुन॒रिति॑ , प्रा॒णं , इ॒ह , नः॒ , धे॒हि॒ , भोगं॑ । ज्योक् , प॒श्ये॒म॒ , सूर्यं॑ , उ॒त्ऽचरं॑तं , अनु॑ऽमते , मृ॒ळय॑ , नः॒ , स्व॒स्ति ॥
पुन॑र्नो॒ असुं॑ पृथि॒वी द॑दातु॒ पुन॒र्द्यौर्दे॒वी पुन॑रं॒तरि॑क्षं । पुन॑र्नः॒ सोम॑स्त॒न्वं॑ ददातु॒ पुनः॑ पू॒षा प॒थ्यां॒३॒॑ या स्व॒स्तिः ॥
पुनः॑ , नः॒ , असुं॑ , पृ॒थि॒वी , द॒दा॒तु॒ , पुनः॑ , द्यौः , दे॒वी , पुनः॑ , अं॒तरि॑क्षं । पुनः॑ , नः॒ , सोमः॑ , त॒न्वं॑ , द॒दा॒तु॒ , पुन॒रिति॑ , पू॒षा , प॒थ्यां॑ , या , स्व॒स्तिः ॥
शं रोद॑सी सु॒बंध॑वे य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ । भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥
शं , रोद॑सी॒ इति॑ , सु॒ऽबंध॑वे , य॒ह्वी इति॑ , ऋ॒तस्य॑ , मा॒तरा॑ । भर॑तां , अप॑ , यत् , रपः॑ , द्यौः , पृ॒थि॒वि॒ , क्ष॒मा , रपः॑ , मो इति॑ , सु , ते॒ , किं , च॒न , आ॒म॒म॒त् ॥
अव॑ द्व॒के अव॑ त्रि॒का दि॒वश्च॑रंति भेष॒जा । क्ष॒मा च॑रि॒ष्ण्वे॑क॒कं भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥
अव॑ , द्व॒के इति॑ , अव॑ , त्रि॒का , दि॒वः , च॒रं॒ति॒ , भे॒ष॒जा । क्ष॒मा , च॒रि॒ष्णु , ए॒क॒कं , भर॑तां , अप॑ , यत् , रपः॑ , द्यौः , पृ॒थि॒वि॒ , क्ष॒मा , रपः॑ , मो इति॑ , सु , ते॒ , किं , च॒न , आ॒म॒म॒त् ॥
समिं॑द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा॑ण्या॒ अनः॑ । भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥
सं , इं॒द्र॒ , ई॒र॒य॒ , गां , अ॒न॒ड्वाहं॑ , यः , आ , अव॑हत् , उ॒शी॒नरा॑ण्याः , अनः॑ । भर॑तां , अप॑ , यत् , रपः॑ , द्यौः , पृ॒थि॒वि॒ , क्ष॒मा , रपः॑ , मो इति॑ , सु , ते॒ , किं , च॒न , आ॒म॒म॒त् ॥
[६०] आजमिति द्वादशर्चस्य सूक्तस्य गौपायनाबंध्वादय ऋषयः षष्ठ्याअगस्त्यस्वसा ऋषिका आद्यानांचतसृणांषष्ठ्याश्च समातिर्देवता पंचम्याइंद्रः सप्तम्यादिपंचानांजीवः द्वादश्याहस्तोऽनुष्टुप् आद्याःपंचगायत्र्यः अष्टमीनवम्यौपंक्ती |
आ जनं॑ त्वे॒षसं॑दृशं॒ माही॑नाना॒मुप॑स्तुतं । अग॑न्म॒ बिभ्र॑तो॒ नमः॑ ॥
आ , जनं॑ , त्वे॒षऽसं॑दृशं , माही॑नानां , उप॑ऽस्तुतं । अग॑न्म , बिभ्र॑तः , नमः॑ ॥
अस॑मातिं नि॒तोश॑नं त्वे॒षं नि॑य॒यिनं॒ रथं॑ । भ॒जेर॑थस्य॒ सत्प॑तिं ॥
अस॑मातिं , नि॒ऽतोश॑नं , त्वे॒षं , नि॒ऽय॒यिनं॑ , रथं॑ । भ॒जेऽर॑थस्य , सत्ऽप॑तिं ॥
यो जना॑न्महि॒षाँ इ॑वातित॒स्थौ पवी॑रवान् । उ॒ताप॑वीरवान्यु॒धा ॥
यः , जना॑न् , म॒हि॒षान्ऽइ॑व , अ॒ति॒ऽत॒स्थौ , पवी॑रवान् । उ॒त , अप॑वीरवान् , यु॒धा ॥
यस्ये॑क्ष्वा॒कुरुप॑ व्र॒ते रे॒वान्म॑रा॒य्येध॑ते । दि॒वी॑व॒ पंच॑ कृ॒ष्टयः॑ ॥
यस्य॑ , इ॒क्ष्वा॒कुः , उप॑ , व्र॒ते , रे॒वान् , म॒रा॒यी , एध॑ते । दि॒विऽइ॑व , पंच॑ , कृ॒ष्टयः॑ ॥
इंद्र॑ क्ष॒त्रास॑मातिषु॒ रथ॑प्रोष्ठेषु धारय । दि॒वी॑व॒ सूर्यं॑ दृ॒शे ॥
इंद्र॑ , क्ष॒त्रा , अस॑मातिषु , रथ॑ऽप्रोष्ठेषु , धा॒र॒य॒ । दि॒विऽइ॑व , सूर्यं॑ , दृ॒शे ॥
अ॒गस्त्य॑स्य॒ नद्भ्यः॒ सप्ती॑ युनक्षि॒ रोहि॑ता । प॒णीन्न्य॑क्रमीर॒भि विश्वा॑न्राजन्नरा॒धसः॑ ॥
अ॒गस्त्य॑स्य , नत्ऽभ्यः॑ , सप्ती॒ इति॑ , यु॒न॒क्षि॒ , रोहि॑ता । प॒णीन् , नि , अ॒क्र॒मीः॒ , अ॒भि , विश्वा॑न् , रा॒ज॒न् , अ॒रा॒धसः॑ ॥
अ॒यं मा॒तायं पि॒तायं जी॒वातु॒राग॑मत् । इ॒दं तव॑ प्र॒सर्प॑णं॒ सुबं॑ध॒वेहि॒ निरि॑हि ॥
अ॒यं , मा॒ता , अ॒यं , पि॒ता , अ॒यं , जी॒वातुः॑ , आ , अ॒ग॒म॒त् । इ॒दं , तव॑ , प्र॒ऽसर्प॑णं , सुबं॑धो॒ इति॒ सुऽबं॑धो , आ , इ॒हि॒ , निः , इ॒हि॒ ॥
यथा॑ यु॒गं व॑र॒त्रया॒ नह्यं॑ति ध॒रुणा॑य॒ कं । ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥
यथा॑ , यु॒गं , व॒र॒त्रया॑ , नह्यं॑ति , ध॒रुणा॑य , कं । ए॒व , दा॒धा॒र॒ , ते॒ , मनः॑ , जी॒वात॑वे , न , मृ॒त्यवे॑ , अथो॒ इति॑ , अ॒रि॒ष्टऽता॑तये ॥
यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती॑न् । ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥
यथा॑ , इ॒यं , पृ॒थि॒वी , म॒ही , दा॒धार॑ , इ॒मान् , वन॒स्पती॑न् । ए॒व , दा॒धा॒र॒ , ते॒ , मनः॑ , जी॒वात॑वे , न , मृ॒त्यवे॑ , अथो॒ इति॑ , अ॒रि॒ष्टऽता॑तये ॥
य॒माद॒हं वै॑वस्व॒तात्सु॒बंधो॒र्मन॒ आभ॑रं । जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥
य॒मात् , अ॒हं , वै॒व॒स्व॒तात् , सु॒ऽबंधोः॑ , मनः॑ , आ , अ॒भ॒रं॒ । जी॒वात॑वे , न , मृ॒त्यवे॑ , अथो॒ इति॑ , अ॒रि॒ष्टऽता॑तये ॥
न्य१॒॑ग्वातोऽव॑ वाति॒ न्य॑क्तपति॒ सूर्यः॑ । नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रपः॑ ॥
न्य॑क् , वातः॑ , अव॑ , वा॒ति॒ , न्य॑क् , त॒प॒ति॒ , सूर्यः॑ । नी॒चीनं॑ , अ॒घ्न्या , दु॒हे॒ , न्य॑क् , भ॒व॒तु॒ , ते॒ , रपः॑ ॥
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः । अ॒यं मे॑ वि॒श्वभे॑षजो॒ऽयं शि॒वाभि॑मर्शनः ॥
अ॒यं , मे॒ , हस्तः॑ , भग॑ऽवान् , अ॒यं , मे॒ , भग॑वत्ऽतरः । अ॒यं , मे॒ , वि॒श्वऽभे॑षजः , अ॒यं , शि॒वऽअ॑भिमर्शनः ॥
[६१] इदमित्थेति सप्तविंशत्यृचस्य सूक्तस्य मानवो नाभानेदिष्ठो विश्वेदेवास्त्रिष्टुप् (भेदपक्षे - रुद्रः २ अश्विनौ २ रुद्रः २ विश्वेदेवाः १ वास्तोष्पतिरुद्रौ १ वास्तोष्पत्यग्नी १ अंगिरसः १ इंद्रः ३ अग्निः १ नासत्येंद्राः १ सोमः १ अग्निः १ आदित्यनाभानेदिष्ठौ १ नाभानेदिष्ठथेनू १ अग्निः १ इंद्राग्नी १ इंद्र: १ मित्रावरुणनाभानेदिष्ठाः १ वरुणः १ मित्रावरुणौ १वरुणः १ देवाः १ एवं २७ ) |
इ॒दमि॒त्था रौद्रं॑ गू॒र्तव॑चा॒ ब्रह्म॒ क्रत्वा॒ शच्या॑मं॒तरा॒जौ । क्रा॒णा यद॑स्य पि॒तरा॑ मंहने॒ष्ठाः पर्ष॑त्प॒क्थे अह॒न्ना स॒प्त होतॄ॑न् ॥
इ॒दं , इ॒त्था , रौद्रं॑ , गू॒र्तऽव॑चाः , ब्रह्म॑ , क्रत्वा॑ , शच्यां॑ , अं॒तः , आ॒जौ । क्रा॒णा , यत् , अ॒स्य॒ , पि॒तरा॑ , मं॒ह॒ने॒ऽस्थाः , पर्ष॑त् , प॒क्थे , अह॑न् , आ , स॒प्त , होतॄ॑न् ॥
स इद्दा॒नाय॒ दभ्या॑य व॒न्वंच्यवा॑नः॒ सूदै॑रमिमीत॒ वेदिं॑ । तूर्व॑याणो गू॒र्तव॑चस्तमः॒ क्षोदो॒ न रेत॑ इ॒तऊ॑ति सिंचत् ॥
सः , इत् , दा॒नाय॑ , दभ्या॑य , व॒न्वन् , च्यवा॑नः , सूदैः॑ , अ॒मि॒मी॒त॒ , वेदिं॑ । तूर्व॑याणः , गू॒र्तव॑चःऽतमः , क्षोदः॑ , न , रेतः॑ , इ॒तःऽऊ॑ति , सिं॒च॒त् ॥
मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या॑ वनु॒थो द्रवं॑ता । आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तौ ॥
मनः॑ , न , येषु॑ , हव॑नेषु , ति॒ग्मं , विपः॑ , शच्या॑ , व॒नु॒थः , द्रवं॑ता । आ , यः , शर्या॑भिः , तु॒वि॒ऽनृ॒म्णः , अ॒स्य॒ , अश्री॑णीत , आ॒ऽदिशं॑ , गभ॑स्तौ ॥
कृ॒ष्णा यद्गोष्व॑रु॒णीषु॒ सीद॑द्दि॒वो नपा॑ताश्विना हुवे वां । वी॒तं मे॑ य॒ज्ञमा ग॑तं मे॒ अन्नं॑ वव॒न्वांसा॒ नेष॒मस्मृ॑तध्रू ॥
कृ॒ष्णा , यत् , गोषु॑ , अ॒रु॒णीषु॑ , सीद॑त् , दि॒वः , नपा॑ता , अ॒श्वि॒ना॒ , हु॒वे॒ , वां॒ । वी॒तं , मे॒ , य॒ज्ञं , आ , ग॒तं॒ , मे॒ , अन्नं॑ , व॒व॒न्वांसा॑ , न , इषं॑ , अस्मृ॑तध्रू॒ इत्यस्मृ॑तऽध्रू ॥
प्रथि॑ष्ट॒ यस्य॑ वी॒रक॑र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒ अपौ॑हत् । पुन॒स्तदा वृ॑हति॒ यत्क॒नाया॑ दुहि॒तुरा अनु॑भृतमन॒र्वा ॥
प्रथि॑ष्ट , यस्य॑ , वी॒रऽक॑र्मं , इ॒ष्णत् , अनु॑ऽस्थितं , नु , नर्यः॑ , अप॑ , औ॒ह॒त् । पुन॒रिति॑ , तत् , आ , वृ॒ह॒ति॒ , यत् , क॒नायाः॑ , दु॒हि॒तुः , आः , अनु॑ऽभृतं , अ॒न॒र्वा ॥
म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं॑ कृण्वा॒ने पि॒तरि॑ युव॒त्यां । म॒ना॒नग्रेतो॑ जहतुर्वि॒यंता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ॑ ॥
म॒ध्या , यत् , कर्त्वं॑ , अभ॑वत् , अ॒भीके॑ , कामं॑ , कृ॒ण्वा॒ने , पि॒तरि॑ , यु॒व॒त्यां । म॒ना॒नक् , रेतः॑ , ज॒ह॒तुः॒ , वि॒ऽयंता॑ , सानौ॑ , निऽसि॑क्तं , सु॒ऽकृ॒तस्य॑ , योनौ॑ ॥
पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेतः॑ संजग्मा॒नो नि षिं॑चत् । स्वा॒ध्यो॑ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं॑ व्रत॒पां निर॑तक्षन् ॥
पि॒ता , यत् , स्वां , दु॒हि॒तरं॑ , अ॒धि॒ऽस्कन् , क्ष्म॒या , रेतः॑ , सं॒ऽज॒ग्मा॒नः , नि , सिं॒च॒त् । सु॒ऽआ॒ध्यः॑ , अ॒ज॒न॒य॒न् , ब्रह्म॑ , दे॒वाः , वास्तोः॑ , पतिं॑ , व्र॒त॒ऽपां , निः , अ॒त॒क्ष॒न् ॥
स ईं॒ वृषा॒ न फेन॑मस्यदा॒जौ स्मदा परै॒दप॑ द॒भ्रचे॑ताः । सर॑त्प॒दा न दक्षि॑णा परा॒वृङ्न ता नु मे॑ पृश॒न्यो॑ जगृभ्रे ॥
सः , ईं॒ , वृषा॑ , न , फेनं॑ , अ॒स्य॒त् , आ॒जौ , स्मत् , आ , परा॑ , ऐ॒त् , अप॑ , द॒भ्रऽचे॑ताः । सर॑त् , प॒दा , न , दक्षि॑णा , प॒रा॒ऽवृक् , न , ताः , नु , मे॒ , पृ॒श॒न्यः॑ , ज॒गृ॒भ्रे॒ ॥
म॒क्षू न वह्निः॑ प्र॒जाया॑ उप॒ब्दिर॒ग्निं न न॒ग्न उप॑ सीद॒दूधः॑ । सनि॑ते॒ध्मं सनि॑तो॒त वाजं॒ स ध॒र्ता ज॑ज्ञे॒ सह॑सा यवी॒युत् ॥
म॒क्षु , न , वह्निः॑ , प्र॒ऽजायाः॑ , उ॒प॒ब्दिः , अ॒ग्निं , न , न॒ग्नः , उप॑ , सीद॑त् , ऊधः॑ । सनि॑ता , इ॒ध्मं , सनि॑ता , उ॒त , वाजं॑ , सः , ध॒र्ता , ज॒ज्ञे॒ , सह॑सा , य॒वि॒ऽयुत् ॥
म॒क्षू क॒नायाः॑ स॒ख्यं नव॑ग्वा ऋ॒तं वदं॑त ऋ॒तयु॑क्तिमग्मन् । द्वि॒बर्ह॑सो॒ य उप॑ गो॒पमागु॑रदक्षि॒णासो॒ अच्यु॑ता दुदुक्षन् ॥
म॒क्षु , क॒नायाः॑ , स॒ख्यं , नव॑ऽग्वाः , ऋ॒तं , वदं॑तः , ऋ॒तऽयु॑क्तिं , अ॒ग्म॒न् । द्वि॒ऽबर्ह॑सः , ये , उप॑ , गो॒पं , आ , अगुः॑ , अ॒द॒क्षि॒णासः॑ , अच्यु॑ता , दु॒धु॒क्ष॒न् ॥
म॒क्षू क॒नायाः॑ स॒ख्यं नवी॑यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् । शुचि॒ यत्ते॒ रेक्ण॒ आय॑जंत सब॒र्दुघा॑याः॒ पय॑ उ॒स्रिया॑याः ॥
म॒क्षु , क॒नायाः॑ , स॒ख्यं , नवी॑यः , राधः॑ , न , रेतः॑ , ऋ॒तं , इत् , तु॒र॒ण्य॒न् । शुचि॑ , यत् , ते॒ , रेक्णः॑ , आ , अय॑जंत , स॒बः॒ऽदुघा॑याः , पयः॑ , उ॒स्रिया॑याः ॥
प॒श्वा यत्प॒श्चा वियु॑ता बु॒धंतेति॑ ब्रवीति व॒क्तरी॒ ररा॑णः । वसो॑र्वसु॒त्वा का॒रवो॑ऽने॒हा विश्वं॑ विवेष्टि॒ द्रवि॑ण॒मुप॒ क्षु ॥
प॒श्वा , यत् , प॒श्चा , विऽयु॑ता , बु॒धंत॑ , इति॑ , ब्र॒वी॒ति॒ , व॒क्तरि॑ , ररा॑णः । वसोः॑ , व॒सु॒ऽत्वा , का॒रवः॑ , अ॒ने॒हा , विश्वं॑ , वि॒वे॒ष्टि॒ , द्रवि॑णं , उप॑ , क्षु ॥
तदिन्न्व॑स्य परि॒षद्वा॑नो अग्मन्पु॒रू सदं॑तो नार्ष॒दं बि॑भित्सन् । वि शुष्ण॑स्य॒ संग्र॑थितमन॒र्वा वि॒दत्पु॑रुप्रजा॒तस्य॒ गुहा॒ यत् ॥
तत् , इत् , नु , अ॒स्य॒ , प॒रि॒ऽसद्वा॑नः , अ॒ग्म॒न् , पु॒रु , सदं॑तः , ना॒र्ष॒दं , बि॒भि॒त्सन् । वि , शुष्ण॑स्य , संऽग्र॑थितं , अ॒न॒र्वा , वि॒दत् , पु॒रु॒ऽप्र॒जा॒तस्य॑ , गुहा॑ , यत् ॥
भर्गो॑ ह॒ नामो॒त यस्य॑ दे॒वाः स्व१॒॑र्ण ये त्रि॑षध॒स्थे नि॑षे॒दुः । अ॒ग्निर्ह॒ नामो॒त जा॒तवे॑दाः श्रु॒धी नो॑ होतर्ऋ॒तस्य॒ होता॒ध्रुक् ॥
भर्गः॑ , ह॒ , नाम॑ , उ॒त , यस्य॑ , दे॒वाः , स्वः॑ , न , ये , त्रि॒ऽस॒ध॒स्थे , नि॒ऽसे॒दुः । अ॒ग्निः , ह॒ , नाम॑ , उ॒त , जा॒तऽवे॑दाः , श्रु॒धि , नः॒ , हो॒तः॒ , ऋ॒तस्य॑ , होता॑ , अ॒ध्रुक् ॥
उ॒त त्या मे॒ रौद्रा॑वर्चि॒मंता॒ नास॑त्याविंद्र गू॒र्तये॒ यज॑ध्यै । म॒नु॒ष्वद्वृ॒क्तब॑र्हिषे॒ ररा॑णा मं॒दू हि॒तप्र॑यसा वि॒क्षु यज्यू॑ ॥
उ॒त , त्या , मे॒ , रौद्रौ॑ , अ॒र्चि॒ऽमंता॑ , नास॑त्यौ , इं॒द्र॒ , गू॒र्तये॑ , यज॑ध्यै । म॒नु॒ष्वत् , वृ॒क्तऽब॑र्हिषे , ररा॑णा , मं॒दू इति॑ , हि॒तऽप्र॑यसा , वि॒क्षु , यज्यू॒ इति॑ ॥
अ॒यं स्तु॒तो राजा॑ वंदि वे॒धा अ॒पश्च॒ विप्र॑स्तरति॒ स्वसे॑तुः । स क॒क्षीवं॑तं रेजय॒त्सो अ॒ग्निं ने॒मिं न च॒क्रमर्व॑तो रघु॒द्रु ॥
अ॒यं , स्तु॒तः , राजा॑ , वं॒दि॒ , वे॒धाः , अ॒पः , च॒ , विप्रः॑ , त॒र॒ति॒ , स्वऽसे॑तुः । सः , क॒क्षीवं॑तं , रे॒ज॒य॒त् , सः , अ॒ग्निं , ने॒मिं , न , च॒क्रं , अर्व॑तः , र॒घु॒ऽद्रु ॥
स द्वि॒बंधु॑र्वैतर॒णो यष्टा॑ सब॒र्धुं धे॒नुम॒स्वं॑ दु॒हध्यै॑ । सं यन्मि॒त्रावरु॑णा वृं॒ज उ॒क्थैर्ज्येष्ठे॑भिरर्य॒मणं॒ वरू॑थैः ॥
सः , द्वि॒ऽबंधुः॑ , वै॒त॒र॒णः , यष्टा॑ , स॒बः॒ऽधुं , धे॒नुं , अ॒स्वं॑ , दु॒हध्यै॑ । सं , यत् , मि॒त्रावरु॑णा , वृं॒जे , उ॒क्थैः , ज्येष्ठे॑भिः , अ॒र्य॒मणं॑ , वरू॑थैः ॥
तद्बं॑धुः सू॒रिर्दि॒वि ते॑ धियं॒धा नाभा॒नेदि॑ष्ठो रपति॒ प्र वेन॑न् । सा नो॒ नाभिः॑ पर॒मास्य वा॑ घा॒हं तत्प॒श्चा क॑ति॒थश्चि॑दास ॥
तत्ऽबं॑धुः , सू॒रिः , दि॒वि , ते॒ , धि॒यं॒ऽधाः , नाभा॒नेदि॑ष्ठः , र॒प॒ति॒ , प्र , वेन॑न् । सा , नः॒ , नाभिः॑ , प॒र॒मा , अ॒स्य , वा॒ , घ॒ , अ॒हं , तत् , प॒श्चा , क॒ति॒थः , चि॒त् , आ॒स॒ ॥
इ॒यं मे॒ नाभि॑रि॒ह मे॑ स॒धस्थ॑मि॒मे मे॑ दे॒वा अ॒यम॑स्मि॒ सर्वः॑ । द्वि॒जा अह॑ प्रथम॒जा ऋ॒तस्ये॒दं धे॒नुर॑दुह॒ज्जाय॑माना ॥
इ॒यं , मे॒ , नाभिः॑ , इ॒ह , मे॒ , स॒धऽस्थं॑ , इ॒मे , मे॒ , दे॒वाः , अ॒यं , अ॒स्मि॒ , सर्वः॑ । द्वि॒ऽजाः , अह॑ , प्र॒थ॒म॒ऽजाः , ऋ॒तस्य॑ , इ॒दं , धे॒नुः , अ॒दु॒ह॒त् , जाय॑माना ॥
अधा॑सु मं॒द्रो अ॑र॒तिर्वि॒भावाव॑ स्यति द्विवर्त॒निर्व॑ने॒षाट् । ऊ॒र्ध्वा यच्छ्रेणि॒र्न शिशु॒र्दन्म॒क्षू स्थि॒रं शे॑वृ॒धं सू॑त मा॒ता ॥
अध॑ , आ॒सु॒ , मं॒द्रः , अ॒र॒तिः , वि॒भाऽवा॑ , अव॑ , स्य॒ति॒ , द्वि॒ऽव॒र्त॒निः , व॒ने॒षाट् । ऊ॒र्ध्वा , यत् , श्रेणिः॑ , न , शिशुः॑ , दन् , म॒क्षु , स्थि॒रं , शे॒ऽवृ॒धं , सू॒त॒ , मा॒ता ॥
अधा॒ गाव॒ उप॑मातिं क॒नाया॒ अनु॑ श्वां॒तस्य॒ कस्य॑ चि॒त्परे॑युः । श्रु॒धि त्वं सु॑द्रविणो न॒स्त्वं या॑ळाश्व॒घ्नस्य॑ वावृधे सू॒नृता॑भिः ॥
अध॑ , गावः॑ , उप॑ऽमातिं , क॒नायाः॑ , अनु॑ , श्वां॒तस्य॑ , कस्य॑ , चि॒त् , परा॑ , ई॒युः॒ । श्रु॒धि , त्वं , सु॒ऽद्र॒वि॒णः॒ , नः॒ , त्वं , या॒ट् , आ॒श्व॒ऽघ्नस्य॑ , व॒वृ॒धे॒ , सू॒नृता॑भिः ॥
अध॒ त्वमिं॑द्र वि॒द्ध्य१॒॑स्मान्म॒हो रा॒ये नृ॑पते॒ वज्र॑बाहुः । रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन॑ने॒हस॑स्ते हरिवो अ॒भिष्टौ॑ ॥
अध॑ , त्वं , इं॒द्र॒ , वि॒द्धि , अ॒स्मान् , म॒हः , रा॒ये , नृ॒ऽप॒ते॒ , वज्र॑ऽबाहुः । रक्ष॑ , च॒ , नः॒ , म॒घोनः॑ , पा॒हि , सू॒रीन् , अ॒ने॒हसः॑ , ते॒ , ह॒रि॒ऽवः॒ , अ॒भिष्टौ॑ ॥
अध॒ यद्रा॑जाना॒ गवि॑ष्टौ॒ सर॑त्सर॒ण्युः का॒रवे॑ जर॒ण्युः । विप्रः॒ प्रेष्ठः॒ स ह्ये॑षां ब॒भूव॒ परा॑ च॒ वक्ष॑दु॒त प॑र्षदेनान् ॥
अध॑ , यत् , रा॒जा॒ना॒ , गोऽइ॑ष्टौ , सर॑त् , स॒र॒ण्युः , का॒रवे॑ , ज॒र॒ण्युः । विप्रः॑ , प्रेष्ठः॑ , सः , हि , ए॒षां॒ , ब॒भूव॑ , परा॑ , च॒ , वक्ष॑त् , उ॒त , प॒र्ष॒त् , ए॒ना॒न् ॥
अधा॒ न्व॑स्य॒ जेन्य॑स्य पु॒ष्टौ वृथा॒ रेभं॑त ईमहे॒ तदू॒ नु । स॒र॒ण्युर॑स्य सू॒नुरश्वो॒ विप्र॑श्चासि॒ श्रव॑सश्च सा॒तौ ॥
अध॑ , नु , अ॒स्य॒ , जेन्य॑स्य , पु॒ष्टौ , वृथा॑ , रेभं॑तः , ई॒म॒हे॒ , तत् , ऊँ॒ इति॑ , नु । स॒र॒ण्युः , अ॒स्य॒ , सू॒नुः , अश्वः॑ , विप्रः॑ , च॒ , अ॒सि॒ , श्रव॑सः , च॒ , सा॒तौ ॥
यु॒वोर्यदि॑ स॒ख्याया॒स्मे शर्धा॑य॒ स्तोमं॑ जुजु॒षे नम॑स्वान् । वि॒श्वत्र॒ यस्मि॒न्ना गिरः॑ समी॒चीः पू॒र्वीव॑ गा॒तुर्दाश॑त्सू॒नृता॑यै ॥
यु॒वोः , यदि॑ , स॒ख्याय॑ , अ॒स्मे इति॑ , शर्धा॑य , स्तोमं॑ , जु॒जु॒षे , नम॑स्वान् । वि॒श्वत्र॑ , यस्मि॑न् , आ , गिरः॑ , सं॒ऽई॒चीः , पू॒र्वीऽइ॑व , गा॒तुः , दाश॑त् , सू॒नृता॑यै ॥
स गृ॑णा॒नो अ॒द्भिर्दे॒ववा॒निति॑ सु॒बंधु॒र्नम॑सा सू॒क्तैः । वर्ध॑दु॒क्थैर्वचो॑भि॒रा हि नू॒नं व्यध्वै॑ति॒ पय॑स उ॒स्रिया॑याः ॥
सः , गृ॒णा॒नः , अ॒त्ऽभिः , दे॒वऽवा॑न् , इति॑ , सु॒ऽबंधुः॑ , नम॑सा , सु॒ऽउ॒क्तैः । वर्ध॑त् , उ॒क्थैः , वचः॑ऽभिः , आ , हि , नू॒नं , वि , अध्वा॑ , ए॒ति॒ , पय॑सः , उ॒स्रिया॑याः ॥
त ऊ॒ षु णो॑ म॒हो य॑जत्रा भू॒त दे॑वास ऊ॒तये॑ स॒जोषाः॑ । ये वाजाँ॒ अन॑यता वि॒यंतो॒ ये स्था नि॑चे॒तारो॒ अमू॑राः ॥
ते , ऊँ॒ इति॑ , सु , नः॒ , म॒हः , य॒ज॒त्राः॒ , भू॒त , दे॒वा॒सः॒ , ऊ॒तये॑ , स॒ऽजोषाः॑ । ये , वाजा॑न् , अन॑यत , वि॒ऽयंतः॑ , ये , स्थ , नि॒ऽचे॒तारः॑ , अमू॑राः ॥
[६२] येयज्ञेनेत्येकादशर्चस्य सूक्तस्य मानवोनाभानेदिष्ठो विश्वेदेवाः प्रनूनमित्यादिचतसृणां सावर्णिर्जगती पंचम्यष्टमीनवम्योनुष्टुभः षष्टी बृहती सप्तमीसतोबृहती दशमीगायत्री अंत्यात्रिष्टुप् (भेदपक्षे - अंगिरसः ६ विश्वेदेवाः १ सावर्णिः ४ एवं ११ | अंगिरसोनुक्रमण्यांपाक्षिकाउक्ताः) | येयज्ञेनेतिचतसृणां त्रिष्टुप् छंदस्त्वं कश्चिद्भूतेतद्बहुविरुद्धं | विरोधास्तु - षळंगिरसां स्तुतिर्वांत्यात्रिष्टुबित्यनुक्रमाच्छेष जगत्यइति परिभाषाव्याघात एकः । तासां त्रिष्टुप् छंदस्त्वेनादेशपरिभाषयातासामंत्यायाश्चत्रिष्टुब्वे सिद्धेत्यात्रिष्टुबिति सिद्धानुवादलक्षणदोषा विष्करणद्वितीयः | दशमीत्वस्य गायत्री जगत्यन्याविनोत्तमामिति शौनकवचनाज्ञानेनस्वेच्छयाव्याख्यानमिति तृतीयश्चेति) |
ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒ इंद्र॑स्य स॒ख्यम॑मृत॒त्वमा॑न॒श । तेभ्यो॑ भ॒द्रमं॑गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
ये , य॒ज्ञेन॑ , दक्षि॑णया , संऽअ॑क्ताः , इंद्र॑स्य , स॒ख्यं , अ॒मृ॒त॒ऽत्वं , आ॒न॒श । तेभ्यः॑ , भ॒द्रं , अं॒गि॒र॒सः॒ , वः॒ , अ॒स्तु॒ , प्रति॑ , गृ॒भ्णी॒त॒ , मा॒न॒वं , सु॒ऽमे॒ध॒सः॒ ॥
य उ॒दाज॑न्पि॒तरो॑ गो॒मयं॒ वस्वृ॒तेनाभिं॑दन्परिवत्स॒रे व॒लं । दी॒र्घा॒यु॒त्वमं॑गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
ये , उ॒त्ऽआज॑न् , पि॒तरः॑ , गो॒ऽमयं॑ , वसु॑ , ऋ॒तेन॑ , अभिं॑दन् , प॒रि॒व॒त्स॒रे , व॒लं । दी॒र्घा॒यु॒ऽत्वं , अं॒गि॒र॒सः॒ , वः॒ , अ॒स्तु॒ , प्रति॑ , गृ॒भ्णी॒त॒ , मा॒न॒वं , सु॒ऽमे॒ध॒सः॒ ॥
य ऋ॒तेन॒ सूर्य॒मारो॑हयंदि॒व्यप्र॑थयन्पृथि॒वीं मा॒तरं॒ वि । सु॒प्र॒जा॒स्त्वमं॑गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
ये , ऋ॒तेन॑ , सूर्यं॑ , आ , अरो॑हयन् , दि॒वि , अप्र॑थयन् , पृ॒थि॒वीं , मा॒तरं॑ , वि । सु॒प्र॒जाः॒ऽत्वं , अं॒गि॒र॒सः॒ , वः॒ , अ॒स्तु॒ , प्रति॑ , गृ॒भ्णी॒त॒ , मा॒न॒वं , सु॒ऽमे॒ध॒सः॒ ॥
अ॒यं नाभा॑ वदति व॒ल्गु वो॑ गृ॒हे देव॑पुत्रा ऋषय॒स्तच्छृ॑णोतन । सु॒ब्र॒ह्म॒ण्यमं॑गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
अ॒यं , नाभा॑ , व॒द॒ति॒ , व॒ल्गु , वः॒ , गृ॒हे , देव॑ऽपुत्राः , ऋ॒ष॒यः॒ , तत् , शृ॒णो॒त॒न॒ । सु॒ऽब्र॒ह्म॒ण्यं , अं॒गि॒र॒सः॒ , वः॒ , अ॒स्तु॒ , प्रति॑ , गृ॒भ्णी॒त॒ , मा॒न॒वं , सु॒ऽमे॒ध॒सः॒ ॥
विरू॑पास॒ इदृष॑य॒स्त इद्गं॑भी॒रवे॑पसः । ते अंगि॑रसः सू॒नव॒स्ते अ॒ग्नेः परि॑ जज्ञिरे ॥
विऽरू॑पासः , इत् , ऋष॑यः , ते , इत् , गं॒भी॒रऽवे॑पसः । ते , अंगि॑रसः , सू॒नवः॑ , ते , अ॒ग्नेः , परि॑ , ज॒ज्ञि॒रे॒ ॥
ये अ॒ग्नेः परि॑ जज्ञि॒रे विरू॑पासो दि॒वस्परि॑ । नव॑ग्वो॒ नु दश॑ग्वो॒ अंगि॑रस्तमः॒ सचा॑ दे॒वेषु॑ मंहते ॥
ये , अ॒ग्नेः , परि॑ , ज॒ज्ञि॒रे , विऽरू॑पासः , दि॒वः , परि॑ । नव॑ऽग्वः , नु , दश॑ऽग्वः , अंगि॑रःऽतमः , सचा॑ , दे॒वेषु॑ , मं॒ह॒ते॒ ॥
इंद्रे॑ण यु॒जा निः सृ॑जंत वा॒घतो॑ व्र॒जं गोमं॑तम॒श्विनं॑ । स॒हस्रं॑ मे॒ दद॑तो अष्टक॒र्ण्य१॒॑ः श्रवो॑ दे॒वेष्व॑क्रत ॥
इंद्रे॑ण , यु॒जा , निः , सृ॒जं॒त॒ , वा॒घतः॑ , व्र॒जं , गोऽमं॑तं , अ॒श्विनं॑ । स॒हस्रं॑ , मे॒ , दद॑तः , अ॒ष्ट॒ऽक॒र्ण्यः॑ , श्रवः॑ , दे॒वेषु॑ , अ॒क्र॒त॒ ॥
प्र नू॒नं जा॑यताम॒यं मनु॒स्तोक्मे॑व रोहतु । यः स॒हस्रं॑ श॒ताश्वं॑ स॒द्यो दा॒नाय॒ मंह॑ते ॥
प्र , नू॒नं , जा॒य॒तां॒ , अ॒यं , मनुः॑ , तोक्म॑ऽइव , रो॒ह॒तु॒ । यः , स॒हस्रं॑ , श॒तऽअ॑श्वं , स॒द्यः , दा॒नाय॑ , मंह॑ते ॥
न तम॑श्नोति॒ कश्च॒न दि॒व इ॑व॒ सान्वा॒रभं॑ । सा॒व॒र्ण्यस्य॒ दक्षि॑णा॒ वि सिंधु॑रिव पप्रथे ॥
न , तं , अ॒श्नो॒ति॒ , कः , च॒न , दि॒वःऽइ॑व , सानु॑ , आ॒ऽरभं॑ । सा॒व॒र्ण्यस्य॑ , दक्षि॑णा , वि , सिंधुः॑ऽइव , प॒प्र॒थे॒ ॥
उ॒त दा॒सा प॑रि॒विषे॒ स्मद्दि॑ष्टी॒ गोप॑रीणसा । यदु॑स्तु॒र्वश्च॑ मामहे ॥
उ॒त , दा॒सा , प॒रि॒ऽविषे॑ , स्मद्दि॑ष्टी॒ इति॒ स्मत्ऽदि॑ष्टी , गोऽप॑रीणसा । यदुः॑ , तु॒र्वः , च॒ , म॒म॒हे॒ ॥
स॒ह॒स्र॒दा ग्रा॑म॒णीर्मा रि॑ष॒न्मनुः॒ सूर्ये॑णास्य॒ यत॑मानैतु॒ दक्षि॑णा । साव॑र्णेर्दे॒वाः प्र ति॑रं॒त्वायु॒र्यस्मि॒न्नश्रां॑ता॒ अस॑नाम॒ वाजं॑ ॥
स॒ह॒स्र॒ऽदाः , ग्रा॒म॒ऽनीः , मा , रि॒ष॒त् , मनुः॑ , सूर्ये॑ण , अ॒स्य॒ , यत॑माना , ए॒तु॒ , दक्षि॑णा । साव॑र्णेः , दे॒वाः , प्र , ति॒रं॒तु॒ , आयुः॑ , यस्मि॑न् , अश्रां॑ताः , अस॑नाम , वाजं॑ ॥
[६३] परावतइति सप्तदशर्चस्य सूक्तस्य गयःप्लातो विश्वेदेवाः पंचदशीषोडश्योः पथ्यास्वस्तिर्जगत्यंत्येद्वेत्रिष्टुभौ स्वस्तिस्त्रिष्टुब्वा | (भेदपक्षे - विश्वेदेवाः९ दिवः १ विश्वेदेवाः४ पथ्यास्वस्ति २ विश्वेदेवाः १ एवं १७) । गयः प्लातइत्यत्र प्लातोगयो विश्वेदेवा इत्यपिकचित्प्रयुंजते ) |
प॒रा॒वतो॒ ये दिधि॑षंत॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः । य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा आस॑ते॒ ते अधि॑ ब्रुवंतु नः ॥
प॒रा॒ऽवतः॑ , ये , दिधि॑षंते , आप्यं॑ , मनु॑ऽप्रीतासः , जनि॑म , वि॒वस्व॑तः । य॒यातेः॑ , ये , न॒हु॒ष्य॑स्य , ब॒र्हिषि॑ , दे॒वाः , आस॑ते , ते , अधि॑ , ब्रु॒वं॒तु॒ , नः॒ ॥
विश्वा॒ हि वो॑ नम॒स्या॑नि॒ वंद्या॒ नामा॑नि देवा उ॒त य॒ज्ञिया॑नि वः । ये स्थ जा॒ता अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हवं॑ ॥
विश्वा॑ , हि , वः॒ , न॒म॒स्या॑नि , वंद्या॑ , नामा॑नि , दे॒वाः॒ , उ॒त , य॒ज्ञिया॑नि , वः॒ । ये , स्थ , जा॒ताः , अदि॑तेः , अ॒त्ऽभ्यः , परि॑ , ये , पृ॒थि॒व्याः , ते , मे॒ , इ॒ह , श्रु॒त॒ , हवं॑ ॥
येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः॑ पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः । उ॒क्थशु॑ष्मान्वृषभ॒रांत्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥
येभ्यः॑ , मा॒ता , मधु॑ऽमत् , पिन्व॑ते , पयः॑ , पी॒यूषं॑ , द्यौः , अदि॑तिः , अद्रि॑ऽबर्हाः । उ॒क्थऽशु॑ष्मान् , वृ॒ष॒ऽभ॒रान् , सु॒ऽअप्न॑सः , तान् , आ॒दि॒त्यान् , अनु॑ , म॒द॒ , स्व॒स्तये॑ ॥
नृ॒चक्ष॑सो॒ अनि॑मिषंतो अ॒र्हणा॑ बृ॒हद्दे॒वासो॑ अमृत॒त्वमा॑नशुः । ज्यो॒तीर॑था॒ अहि॑माया॒ अना॑गसो दि॒वो व॒र्ष्माणं॑ वसते स्व॒स्तये॑ ॥
नृ॒ऽचक्ष॑सः , अनि॑ऽमिषंतः , अ॒र्हणा॑ , बृ॒हत् , दे॒वासः॑ , अ॒मृ॒त॒ऽत्वं , आ॒न॒शुः॒ । ज्यो॒तिःऽर॑थाः , अहि॑ऽमायाः , अना॑गसः , दि॒वः , व॒र्ष्माणं॑ , व॒स॒ते॒ , स्व॒स्तये॑ ॥
स॒म्राजो॒ ये सु॒वृधो॑ य॒ज्ञमा॑य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षयं॑ । ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि॑र्म॒हो आ॑दि॒त्याँ अदि॑तिं स्व॒स्तये॑ ॥
सं॒ऽराजः॑ , ये , सु॒ऽवृधः॑ , य॒ज्ञं , आ॒ऽय॒युः , अप॑रिऽह्वृताः , द॒धि॒रे , दि॒वि , क्षयं॑ । तान् , आ , वि॒वा॒स॒ , नम॑सा , सु॒वृ॒क्तिऽभिः॑ , म॒हः , आ॒दि॒त्यान् , अदि॑तिं , स्व॒स्तये॑ ॥
को वः॒ स्तोमं॑ राधति॒ यं जुजो॑षथ॒ विश्वे॑ देवासो मनुषो॒ यति॒ ष्ठन॑ । को वो॑ऽध्व॒रं तु॑विजाता॒ अरं॑ कर॒द्यो नः॒ पर्ष॒दत्यंहः॑ स्व॒स्तये॑ ॥
कः , वः॒ , स्तोमं॑ , रा॒ध॒ति॒ , यं , जुजो॑षथ , विश्वे॑ , दे॒वा॒सः॒ , म॒नु॒षः॒ , यति॑ , स्थन॑ । कः , वः॒ , अ॒ध्व॒रं , तु॒वि॒ऽजा॒ताः॒ , अरं॑ , क॒र॒त् , यः , नः॒ , पर्ष॑त् , अति॑ , अंहः॑ , स्व॒स्तये॑ ॥
येभ्यो॒ होत्रां॑ प्रथ॒मामा॑ये॒जे मनुः॒ समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः । त आ॑दित्या॒ अभ॑यं॒ शर्म॑ यच्छत सु॒गा नः॑ कर्त सु॒पथा॑ स्व॒स्तये॑ ॥
येभ्यः॑ , होत्रां॑ , प्र॒थ॒मां , आ॒ऽये॒जे , मनुः॑ , समि॑द्धऽअग्निः , मन॑सा , स॒प्त , होतृ॑ऽभिः । ते , आ॒दि॒त्याः॒ , अभ॑यं , शर्म॑ , य॒च्छ॒त॒ , सु॒ऽगा , नः॒ , क॒र्त॒ , सु॒ऽपथा॑ , स्व॒स्तये॑ ॥
य ईशि॑रे॒ भुव॑नस्य॒ प्रचे॑तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मंत॑वः । ते नः॑ कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे॑वासः पिपृता स्व॒स्तये॑ ॥
ये , ईशि॑रे , भुव॑नस्य , प्रऽचे॑तसः , विश्व॑स्य , स्था॒तुः , जग॑तः , च॒ , मंत॑वः । ते , नः॒ , कृ॒तात् , अकृ॑तात् , एन॑सः , परि॑ , अ॒द्य , दे॒वा॒सः॒ , पि॒पृ॒त॒ , स्व॒स्तये॑ ॥
भरे॒ष्विंद्रं॑ सु॒हवं॑ हवामहेंऽहो॒मुचं॑ सु॒कृतं॒ दैव्यं॒ जनं॑ । अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये॑ ॥
भरे॑षु , इंद्रं॑ , सु॒ऽहवं॑ , ह॒वा॒म॒हे॒ , अं॒हः॒ऽमुचं॑ , सु॒ऽकृतं॑ , दैव्यं॑ , जनं॑ । अ॒ग्निं , मि॒त्रं , वरु॑णं , सा॒तये॑ , भगं॑ , द्यावा॑पृथि॒वी इति॑ , म॒रुतः॑ , स्व॒स्तये॑ ॥
सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिं । दैवीं॒ नावं॑ स्वरि॒त्रामना॑गस॒मस्र॑वंती॒मा रु॑हेमा स्व॒स्तये॑ ॥
सु॒ऽत्रामा॑णं , पृ॒थि॒वीं , द्यां , अ॒ने॒हसं॑ , सु॒ऽशर्मा॑णं , अदि॑तिं , सु॒ऽप्रनी॑तिं । दैवीं॑ , नावं॑ , सु॒ऽअ॒रि॒त्रां , अना॑गसं , अस्र॑वंतीं , आ , रु॒हे॒म॒ , स्व॒स्तये॑ ॥
विश्वे॑ यजत्रा॒ अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा॑या अभि॒ह्रुतः॑ । स॒त्यया॑ वो दे॒वहू॑त्या हुवेम शृण्व॒तो दे॑वा॒ अव॑से स्व॒स्तये॑ ॥
विश्वे॑ , य॒ज॒त्राः॒ , अधि॑ , वो॒च॒त॒ , ऊ॒तये॑ , त्राय॑ध्वं , नः॒ , दुः॒ऽएवा॑याः , अ॒भि॒ऽह्रुतः॑ । स॒त्यया॑ , वः॒ , दे॒वऽहू॑त्या , हु॒वे॒म॒ , शृ॒ण्व॒तः , दे॒वाः॒ , अव॑से , स्व॒स्तये॑ ॥
अपामी॑वा॒मप॒ विश्वा॒मना॑हुति॒मपारा॑तिं दुर्वि॒दत्रा॑मघाय॒तः । आ॒रे दे॑वा॒ द्वेषो॑ अ॒स्मद्यु॑योतनो॒रु णः॒ शर्म॑ यच्छता स्व॒स्तये॑ ॥
अप॑ , अमी॑वां , अप॑ , विश्वां॑ , अना॑हुतिं , अप॑ , अरा॑तिं , दुः॒ऽवि॒दत्रां॑ , अ॒घ॒ऽय॒तः । आ॒रे , दे॒वाः॒ , द्वेषः॑ , अ॒स्मत् , यु॒यो॒त॒न॒ , उ॒रु , नः॒ , शर्म॑ , य॒च्छ॒त॒ , स्व॒स्तये॑ ॥
अरि॑ष्टः॒ स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ । यमा॑दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा॑नि दुरि॒ता स्व॒स्तये॑ ॥
अरि॑ष्टः , सः , मर्तः॑ , विश्वः॑ , ए॒ध॒ते॒ , प्र , प्र॒ऽजाभिः॑ , जा॒य॒ते॒ , धर्म॑णः , परि॑ । यं , आ॒दि॒त्या॒सः॒ , नय॑थ , सु॒नी॒तिऽभिः॑ , अति॑ , विश्वा॑नि , दुः॒ऽइ॒ता , स्व॒स्तये॑ ॥
यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने॑ । प्रा॒त॒र्यावा॑णं॒ रथ॑मिंद्र सान॒सिमरि॑ष्यंत॒मा रु॑हेमा स्व॒स्तये॑ ॥
यं , दे॒वा॒सः॒ , अव॑थ , वाज॑ऽसातौ , यं , शूर॑ऽसाता , म॒रु॒तः॒ , हि॒ते , धने॑ । प्रा॒तः॒ऽयावा॑नं , रथं॑ , इं॒द्र॒ , सा॒न॒सिं , अरि॑ष्यंतं , आ , रु॒हे॒म॒ , स्व॒स्तये॑ ॥
स्व॒स्ति नः॑ प॒थ्या॑सु॒ धन्व॑सु स्व॒स्त्य१॒॑प्सु वृ॒जने॒ स्व॑र्वति । स्व॒स्ति नः॑ पुत्रकृ॒थेषु॒ योनि॑षु स्व॒स्ति रा॒ये म॑रुतो दधातन ॥
स्व॒स्ति , नः॒ , प॒थ्या॑सु , धन्व॑ऽसु , स्व॒स्ति , अ॒प्ऽसु , वृ॒जने॑ , स्वः॑ऽवति । स्व॒स्ति , नः॒ , पु॒त्र॒ऽकृ॒थेषु॑ , योनि॑षु , स्व॒स्ति , रा॒ये , म॒रु॒तः॒ , द॒धा॒त॒न॒ ॥
स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ । सा नो॑ अ॒मा सो अर॑णे॒ नि पा॑तु स्वावे॒शा भ॑वतु दे॒वगो॑पा ॥
स्व॒स्तिः , इत् , हि , प्रऽप॑थे , श्रेष्ठा॑ , रेक्ण॑स्वती , अ॒भि , या , वा॒मं , एति॑ । सा , नः॒ , अ॒मा , सो इति॑ , अर॑णे , नि , पा॒तु॒ , सु॒ऽआ॒वे॒शा , भ॒व॒तु॒ , दे॒वऽगो॑पा ॥
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी । ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥
ए॒व , प्ल॒तेः , सू॒नुः , अ॒वी॒वृ॒ध॒त् , वः॒ , विश्वे॑ , आ॒दि॒त्याः॒ , अ॒दि॒ते॒ , म॒नी॒षी । ई॒शा॒नासः॑ , नरः॑ , अम॑र्त्येन , अस्ता॑वि , जनः॑ , दि॒व्यः , गये॑न ॥
[६४] कथादेवानामिति सप्तदशर्चस्य सूक्तस्य गयःप्लातोविश्वेदेवाजगती द्वादशीषोडशीसप्तदृश्यस्त्रिष्टुभः ( भेदपक्षे - विश्वे - देवाः ४ आदित्यार्यमणः १ विश्वेदेवाः ३ नद्यः १ विश्वेदेवाः ४ द्यावापृथिव्यौ १ विश्वेदेवाः ३ एवं १७ ) |
क॒था दे॒वानां॑ कत॒मस्य॒ याम॑नि सु॒मंतु॒ नाम॑ शृण्व॒तां म॑नामहे । को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती अ॒भ्या व॑वर्तति ॥
क॒था , दे॒वानां॑ , क॒त॒मस्य॑ , याम॑नि , सु॒ऽमंतु॑ , नाम॑ , शृ॒ण्व॒तां , म॒ना॒म॒हे॒ । कः , मृ॒ळा॒ति॒ , क॒त॒मः , नः॒ , मयः॑ , क॒र॒त् , क॒त॒मः , ऊ॒ती , अ॒भि , आ , व॒व॒र्त॒ति॒ ॥
क्र॒तू॒यंति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेनं॑ति वे॒नाः प॒तयं॒त्या दिशः॑ । न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ॥
क्र॒तु॒ऽयंति॑ , क्रत॑वः , हृ॒त्ऽसु , धी॒तयः॑ , वेनं॑ति , वे॒नाः , प॒तयं॑ति , आ , दिशः॑ । न , म॒र्डि॒ता , वि॒द्य॒ते॒ , अ॒न्यः , ए॒भ्यः॒ , दे॒वेषु॑ , मे॒ , अधि॑ , कामाः॑ , अ॒यं॒स॒त॒ ॥
नरा॑ वा॒ शंसं॑ पू॒षण॒मगो॑ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा । सूर्या॒मासा॑ चं॒द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना॑ ॥
नरा॒शंसं॑ , वा॒ , पू॒षणं॑ , अगो॑ह्यं , अ॒ग्निं , दे॒वऽइ॑द्धं , अ॒भि , अ॒र्च॒से॒ , गि॒रा । सूर्या॒मासा॑ , चं॒द्रम॑सा , य॒मं , दि॒वि , त्रि॒तं , वातं॑ , उ॒षसं॑ , अ॒क्तुं , अ॒श्विना॑ ॥
क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभिः॑ । अ॒ज एक॑पात्सु॒हवे॑भि॒र्ऋक्व॑भि॒रहिः॑ शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ॥
क॒था , क॒विः , तु॒वि॒ऽरवा॑न् , कया॑ , गि॒रा , बृह॒स्पतिः॑ , व॒वृ॒ध॒ते॒ , सु॒वृ॒क्तिऽभिः॑ । अ॒जः , एक॑ऽपात् , सु॒ऽहवे॑भिः , ऋक्व॑ऽभिः , अहिः॑ , शृ॒णो॒तु॒ , बु॒ध्न्यः॑ , हवी॑मनि ॥
दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा॑ना मि॒त्रावरु॒णा वि॑वाससि । अतू॑र्तपंथाः पुरु॒रथो॑ अर्य॒मा स॒प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ॥
दक्ष॑स्य , वा॒ , अ॒दि॒ते॒ , जन्म॑नि , व्र॒ते , राजा॑ना , मि॒त्रावरु॑णा , आ , वि॒वा॒स॒सि॒ । अतू॑र्तऽपंथाः , पु॒रु॒ऽरथः॑ , अ॒र्य॒मा , स॒प्तऽहो॑ता , विषु॑ऽरूपेषु , जन्म॑ऽसु ॥
ते नो॒ अर्वं॑तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वंतु वा॒जिनो॑ मि॒तद्र॑वः । स॒ह॒स्र॒सा मे॒धसा॑ताविव॒ त्मना॑ म॒हो ये धनं॑ समि॒थेषु॑ जभ्रि॒रे ॥
ते , नः॒ , अर्वं॑तः , ह॒व॒न॒ऽश्रुतः॑ , हवं॑ , विश्वे॑ , शृ॒ण्वं॒तु॒ , वा॒जिनः॑ , मि॒तऽद्र॑वः । स॒ह॒स्र॒ऽसाः , मे॒धसा॑तौऽइव , त्मना॑ , म॒हः , ये , धनं॑ , सं॒ऽइ॒थेषु॑ , ज॒भ्रि॒रे ॥
प्र वो॑ वा॒युं र॑थ॒युजं॒ पुरं॑धिं॒ स्तोमैः॑ कृणुध्वं स॒ख्याय॑ पू॒षणं॑ । ते हि दे॒वस्य॑ सवि॒तुः सवी॑मनि॒ क्रतुं॒ सचं॑ते स॒चितः॒ सचे॑तसः ॥
प्र , वः॒ , वा॒युं , र॒थ॒ऽयुजं॑ , पुरं॑ऽधिं , स्तोमैः॑ , कृ॒णु॒ध्वं॒ , स॒ख्याय॑ , पू॒षणं॑ । ते , हि , दे॒वस्य॑ , स॒वि॒तुः , सवी॑मनि , क्रतुं॑ , सचं॑ते , स॒ऽचितः॑ , सऽचे॑तसः ॥
त्रिः स॒प्त स॒स्रा न॒द्यो॑ म॒हीर॒पो वन॒स्पती॒न्पर्व॑ताँ अ॒ग्निमू॒तये॑ । कृ॒शानु॒मस्तॄं॑ति॒ष्यं॑ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं॑ हवामहे ॥
त्रिः , स॒प्त , स॒स्राः , न॒द्यः॑ , म॒हीः , अ॒पः , वन॒स्पती॑न् , पर्व॑तान् , अ॒ग्निं , ऊ॒तये॑ । कृ॒शानुं॑ , अस्तॄ॑न् , ति॒ष्यं॑ , स॒धऽस्थे॑ , आ , रु॒द्रं , रु॒द्रेषु॑ , रु॒द्रियं॑ , ह॒वा॒म॒हे॒ ॥
सर॑स्वती स॒रयुः॒ सिंधु॑रू॒र्मिभि॑र्म॒हो म॒हीरव॒सा यं॑तु॒ वक्ष॑णीः । दे॒वीरापो॑ मा॒तरः॑ सूदयि॒त्न्वो॑ घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ॥
सर॑स्वती , स॒रयुः॑ , सिंधुः॑ , ऊ॒र्मिऽभिः॑ , म॒हः , म॒हीः , अव॑सा , आ , यं॒तु॒ , वक्ष॑णीः । दे॒वीः , आपः॑ , मा॒तरः॑ , सू॒द॒यि॒त्न्वः॑ , घृ॒तऽव॑त् , पयः॑ , मधु॑ऽमत् , नः॒ , अ॒र्च॒त॒ ॥
उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ । ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो॑ र॒ण्वः शंसः॑ शशमा॒नस्य॑ पातु नः ॥
उ॒त , मा॒ता , बृ॒ह॒त्ऽदि॒वा , शृ॒णो॒तु॒ , नः॒ , त्वष्टा॑ , दे॒वेभिः॑ , जनि॑ऽभिः , पिता॑ , वचः॑ । ऋ॒भु॒क्षाः , वाजः॑ , रथः॒पतिः॑ , भगः॑ , र॒ण्वः , शंसः॑ , श॒श॒मा॒नस्य॑ , पा॒तु॒ , नः॒ ॥
र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः । गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥
र॒ण्वः , संऽदृ॑ष्टौ , पि॒तु॒मान्ऽइ॑व , क्षयः॑ , भ॒द्रा , रु॒द्राणां॑ , म॒रुतां॑ , उप॑ऽस्तुतिः । गोभिः॑ , स्या॒म॒ , य॒शसः॑ , जने॑षु , आ , सदा॑ , दे॒वा॒सः॒ , इळ॑या , स॒चे॒म॒हि॒ ॥
यां मे॒ धियं॒ मरु॑त॒ इंद्र॒ देवा॒ अद॑दात वरुण मित्र यू॒यं । तां पी॑पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒ अधि॒ रथे॒ वहा॑थ ॥
यां , मे॒ , धियं॑ , मरु॑तः , इंद्र॑ , देवाः॑ , अद॑दात , व॒रु॒ण॒ , मि॒त्र॒ , यू॒यं । तां , पी॒प॒य॒त॒ , पय॑साऽइव , धे॒नुं , कु॒वित् , गिरः॑ , अधि॑ , रथे॑ , वहा॑थ ॥
कु॒विदं॒ग प्रति॒ यथा॑ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ । नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ॥
कु॒वित् , अं॒ग , प्रति॑ , यथा॑ , चि॒त् , अ॒स्य , नः॒ , स॒ऽजा॒त्य॑स्य , म॒रु॒तः॒ , बुबो॑धथ । नाभा॑ , यत्र॑ , प्र॒थ॒मं , सं॒ऽनसा॑महे , तत्र॑ , जा॒मि॒ऽत्वं , अदि॑तिः , द॒धा॒तु॒ , नः॒ ॥
ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वांजन्म॑ना य॒ज्ञिये॑ इ॒तः । उ॒भे बि॑भृत उ॒भयं॒ भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिंचतः ॥
ते इति॑ , हि , द्यावा॑पृथि॒वी इति॑ , मा॒तरा॑ , म॒ही इति॑ , दे॒वी इति॑ , दे॒वान् , जन्म॑ना , य॒ज्ञिये॒ इति॑ , इ॒तः । उ॒भे इति॑ , बि॒भृ॒तः॒ , उ॒भयं॑ , भरी॑मऽभिः , पु॒रु , रेतां॑सि , पि॒तृऽभिः॑ , च॒ , सिं॒च॒तः॒ ॥
वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑तिः॒ पनी॑यसी । ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदवी॑वशंत म॒तिभि॑र्मनी॒षिणः॑ ॥
वि , सा , होत्रा॑ , विश्वं॑ , अ॒श्नो॒ति॒ , वार्यं॑ , बृह॒स्पतिः॑ , अ॒रम॑तिः , पनी॑यसी । ग्रावा॑ , यत्र॑ , म॒धु॒ऽसुत् , उ॒च्यते॑ , बृ॒हत् , अवी॑वशंत , म॒तिऽभिः॑ , म॒नी॒षिणः॑ ॥
ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः । उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ॥
ए॒व , क॒विः , तु॒वि॒ऽरवा॑न् , ऋ॒त॒ऽज्ञाः , द्र॒वि॒ण॒स्युः , द्रवि॑णसः , च॒का॒नः । उ॒क्थेभिः॑ , अत्र॑ , म॒तिऽभिः॑ , च॒ , विप्रः॑ , अपी॑पयत् , गयः॑ , दि॒व्यानि॑ , जन्म॑ ॥
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी । ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥
ए॒व , प्ल॒तेः , सू॒नुः , अ॒वी॒वृ॒ध॒त् , वः॒ , विश्वे॑ , आ॒दि॒त्याः॒ , अ॒दि॒ते॒ , म॒नी॒षी । ई॒शा॒नासः॑ , नरः॑ , अम॑र्त्येन , अस्ता॑वि , जनः॑ , दि॒व्यः , गये॑न ॥
[६५] अग्निरिंद्रइति पंचदशर्चस्य सूक्तस्य वासुक्रोव सुकर्णो विश्वेदेवाजगत्यंव्यात्रिष्टुप् | ( भेदपक्षे –विश्वेदेवाः ४ मित्रावरुणौ १ गौः१ विश्वेदेवाः १ द्यावापृथिव्यौ १ विश्वेदेवाः ३ अश्विनौ १ विश्वेदेवाः ३ एवं १५ ) |
अ॒ग्निरिंद्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः । आ॒दि॒त्या विष्णु॑र्म॒रुतः॒ स्व॑र्बृ॒हत्सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ ॥
अ॒ग्निः , इंद्रः॑ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा , वा॒युः , पू॒षा , सर॑स्वती , स॒ऽजोष॑सः । आ॒दि॒त्याः , विष्णुः॑ , म॒रुतः॑ , स्वः॑ , बृ॒हत् , सोमः॑ , रु॒द्रः , अदि॑तिः , ब्रह्म॑णः , पतिः॑ ॥
इं॒द्रा॒ग्नी वृ॑त्र॒हत्ये॑षु॒ सत्प॑ती मि॒थो हि॑न्वा॒ना त॒न्वा॒३॒॑ समो॑कसा । अं॒तरि॑क्षं॒ मह्या प॑प्रु॒रोज॑सा॒ सोमो॑ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ॥
इं॒द्रा॒ग्नी इति॑ , वृ॒त्र॒ऽहत्ये॑षु , सत्प॑ती॒ इति॒ सत्ऽप॑ती , मि॒थः , हि॒न्वा॒ना , त॒न्वा॑ , संऽओ॑कसा । अं॒तरि॑क्षं , महि॑ , आ , प॒प्रुः॒ , ओज॑सा , सोमः॑ , घृ॒त॒ऽश्रीः , म॒हि॒मानं॑ , ई॒रय॑न् ॥
तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒ इय॑र्म्यृत॒ज्ञा ऋ॑ता॒वृधां॑ । ये अ॑प्स॒वम॑र्ण॒वं चि॒त्ररा॑धस॒स्ते नो॑ रासंतां म॒हये॑ सुमि॒त्र्याः ॥
तेषां॑ , हि , म॒ह्ना , म॒ह॒तां , अ॒न॒र्वणां॑ , स्तोमा॑न् , इय॑र्मि , ऋ॒त॒ऽज्ञाः , ऋ॒त॒ऽवृधां॑ । ये , अ॒प्स॒वं , अ॒र्ण॒वं , चि॒त्रऽरा॑धसः , ते , नः॒ , रा॒सं॒तां॒ , म॒हये॑ , सु॒ऽमि॒त्र्याः ॥
स्व॑र्णरमं॒तरि॑क्षाणि रोच॒ना द्यावा॒भूमी॑ पृथि॒वीं स्कं॑भु॒रोज॑सा । पृ॒क्षा इ॑व म॒हयं॑तः सुरा॒तयो॑ दे॒वाः स्त॑वंते॒ मनु॑षाय सू॒रयः॑ ॥
स्वः॑ऽनरं , अं॒तरि॑क्षाणि , रो॒च॒ना , द्यावा॒भूमी॒ इति॑ , पृ॒थि॒वीं , स्कं॒भुः॒ , ओज॑सा । पृ॒क्षाःऽइ॑व , म॒हयं॑तः , सु॒ऽरा॒तयः॑ , दे॒वाः , स्त॒वं॒ते॒ , मनु॑षाय , सू॒रयः॑ ॥
मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युच्छ॑तः । ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो॑रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ॑ ॥
मि॒त्राय॑ , शि॒क्ष॒ , वरु॑णाय , दा॒शुषे॑ , या , सं॒ऽराजा॑ , मन॑सा , न , प्र॒ऽयुच्छ॑तः । ययोः॑ , धाम॑ , धर्म॑णा , रोच॑ते , बृ॒हत् , ययोः॑ , उ॒भे इति॑ , रोद॑सी॒ इति॑ , नाध॑सी॒ इति॑ , वृतौ॑ ॥
या गौर्व॑र्त॒निं प॒र्येति॑ निष्कृ॒तं पयो॒ दुहा॑ना व्रत॒नीर॑वा॒रतः॑ । सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे॑ दे॒वेभ्यो॑ दाशद्ध॒विषा॑ वि॒वस्व॑ते ॥
या , गौः , व॒र्त॒निं , प॒रि॒ऽएति॑ , निः॒ऽकृ॒तं , पयः॑ , दुहा॑ना , व्र॒त॒ऽनीः , अ॒वा॒रतः॑ । सा , प्र॒ऽब्रु॒वा॒णा , वरु॑णाय , दा॒शुषे॑ , दे॒वेभ्यः॑ , दा॒श॒त् , ह॒विषा॑ , वि॒वस्व॑ते ॥
दि॒वक्ष॑सो अग्निजि॒ह्वा ऋ॑ता॒वृध॑ ऋ॒तस्य॒ योनिं॑ विमृ॒शंत॑ आसते । द्यां स्क॑भि॒त्व्य१॒॑प आ च॑क्रु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒३॒॑ नि मा॑मृजुः ॥
दि॒वक्ष॑सः , अ॒ग्नि॒ऽजि॒ह्वाः , ऋ॒त॒ऽवृधः॑ , ऋ॒तस्य॑ , योनिं॑ , वि॒ऽमृ॒शंतः॑ , आ॒स॒ते॒ । द्यां , स्क॒भि॒त्वी , अ॒पः , आ , च॒क्रुः॒ , ओज॑सा , य॒ज्ञं , ज॒नि॒त्वी , त॒न्वि॑ , नि , म॒मृ॒जुः॒ ॥
प॒रि॒क्षिता॑ पि॒तरा॑ पूर्व॒जाव॑री ऋ॒तस्य॒ योना॑ क्षयतः॒ समो॑कसा । द्यावा॑पृथि॒वी वरु॑णाय॒ सव्र॑ते घृ॒तव॒त्पयो॑ महि॒षाय॑ पिन्वतः ॥
प॒रि॒ऽक्षिता॑ , पि॒तरा॑ , पू॒र्व॒जाव॑री॒ इति॑ पू॒र्व॒ऽजाव॑री , ऋ॒तस्य॑ , योना॑ , क्ष॒य॒तः॒ , संऽओ॑कसा । द्यावा॑पृथि॒वी इति॑ , वरु॑णाय , सव्र॑ते॒ इति॒ सऽव्र॑ते , घृ॒तऽव॑त् , पयः॑ , म॒हि॒षाय॑ , पि॒न्व॒तः॒ ॥
प॒र्जन्या॒वाता॑ वृष॒भा पु॑री॒षिणें॑द्रवा॒यू वरु॑णो मि॒त्रो अ॑र्य॒मा । दे॒वाँ आ॑दि॒त्याँ अदि॑तिं हवामहे॒ ये पार्थि॑वासो दि॒व्यासो॑ अ॒प्सु ये ॥
प॒र्जन्या॒वाता॑ , वृ॒ष॒भा , पु॒री॒षिणा॑ , इं॒द्र॒वा॒यू इति॑ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा । दे॒वान् , आ॒दि॒त्यान् , अदि॑तिं , ह॒वा॒म॒हे॒ , ये , पार्थि॑वासः , दि॒व्यासः॑ , अ॒प्ऽसु , ये ॥
त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ । बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑मिंद्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे ॥
त्वष्टा॑रं , वा॒युं , ऋ॒भ॒वः॒ , यः , ओह॑ते , दैव्या॑ , होता॑रौ , उ॒षसं॑ , स्व॒स्तये॑ । बृह॒स्पतिं॑ , वृ॒त्र॒ऽखा॒दं , सु॒ऽमे॒धसं॑ , इं॒द्रि॒यं , सोमं॑ , ध॒न॒ऽसाः , ऊँ॒ इति॑ , ई॒म॒हे॒ ॥
ब्रह्म॒ गामश्वं॑ ज॒नयं॑त॒ ओष॑धी॒र्वन॒स्पती॑न्पृथि॒वीं पर्व॑ताँ अ॒पः । सूर्यं॑ दि॒वि रो॒हयं॑तः सु॒दान॑व॒ आर्या॑ व्र॒ता वि॑सृ॒जंतो॒ अधि॒ क्षमि॑ ॥
ब्रह्म॑ , गां , अश्वं॑ , ज॒नयं॑तः , ओष॑धीः , वन॒स्पती॑न् , पृ॒थि॒वीं , पर्व॑तान् , अ॒पः । सूर्यं॑ , दि॒वि , रो॒हयं॑तः , सु॒ऽदान॑वः , आर्या॑ , व्र॒ता , वि॒ऽसृ॒जंतः॑ , अधि॑ , क्षमि॑ ॥
भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्यावं॑ पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतं । क॒म॒द्युवं॑ विम॒दायो॑हथुर्यु॒वं वि॑ष्णा॒प्वं१॒॑ विश्व॑का॒याव॑ सृजथः ॥
भु॒ज्युं , अंह॑सः , पि॒पृ॒थः॒ , निः , अ॒श्वि॒ना॒ , श्यावं॑ , पु॒त्रं , व॒ध्रि॒ऽम॒त्याः , अ॒जि॒न्व॒तं॒ । क॒म॒ऽद्युवं॑ , वि॒ऽम॒दाय॑ , ऊ॒ह॒थुः॒ , यु॒वं , वि॒ष्णा॒प्वं॑ , विश्व॑काय , अव॑ , सृ॒ज॒थः॒ ॥
पावी॑रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिंधु॒रापः॑ समु॒द्रियः॑ । विश्वे॑ दे॒वासः॑ शृणव॒न्वचां॑सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं॑ध्या ॥
पावी॑रवी , त॒न्य॒तुः , एक॑ऽपात् , अ॒जः , दि॒वः , ध॒र्ता , सिंधुः॑ , आपः॑ , स॒मु॒द्रियः॑ । विश्वे॑ , दे॒वासः॑ , शृ॒ण॒व॒न् , वचां॑सि , मे॒ , सर॑स्वती , स॒ह , धी॒भिः , पुरं॑ऽध्या ॥
विश्वे॑ दे॒वाः स॒ह धी॒भिः पुरं॑ध्या॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः । रा॒ति॒षाचो॑ अभि॒षाचः॑ स्व॒र्विदः॒ स्व१॒॑र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ॥
विश्वे॑ , दे॒वाः , स॒ह , धी॒भिः , पुरं॑ऽध्या , मनोः॑ , यज॑त्राः , अ॒मृताः॑ , ऋ॒त॒ऽज्ञाः । रा॒ति॒ऽसाचः॑ , अ॒भि॒ऽसाचः॑ , स्वः॒ऽविदः॑ , स्वः॑ , गिरः॑ , ब्रह्म॑ , सु॒ऽउ॒क्तं , जु॒षे॒र॒त॒ ॥
दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववंदे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः । ते नो॑ रासंतामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
दे॒वान् , वसि॑ष्ठः , अ॒मृता॑न् , व॒वं॒दे॒ , ये , विश्वा॑ , भुव॑ना , अ॒भि , प्र॒ऽत॒स्थुः । ते , नः॒ , रा॒सं॒तां॒ , उ॒रु॒ऽगा॒यं , अ॒द्य , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[६६] देवान्हुवइति पंचदशर्चस्य सूक्तस्य वासुक्रोवसुकर्णो विश्वेदेवाजगत्यंत्यात्रिष्टुप् (पक्षे-विश्वेदेवाः ६ अग्नीषोमौ १ विश्वेदेवाः ८ एवं १५) |
दे॒वान्हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये॑ ज्योति॒ष्कृतो॑ अध्व॒रस्य॒ प्रचे॑तसः । ये वा॑वृ॒धुः प्र॑त॒रं वि॒श्ववे॑दस॒ इंद्र॑ज्येष्ठासो अ॒मृता॑ ऋता॒वृधः॑ ॥
दे॒वान् , हु॒वे॒ , बृ॒हत्ऽश्र॑वसः , स्व॒स्तये॑ , ज्यो॒तिः॒ऽकृतः॑ , अ॒ध्व॒रस्य॑ , प्रऽचे॑तसः । ये , व॒वृ॒धुः , प्र॒ऽत॒रं , वि॒श्वऽवे॑दसः , इंद्र॑ऽज्येष्ठासः , अ॒मृताः॑ , ऋ॒त॒ऽवृधः॑ ॥
इंद्र॑प्रसूता॒ वरु॑णप्रशिष्टा॒ ये सूर्य॑स्य॒ ज्योति॑षो भा॒गमा॑न॒शुः । म॒रुद्ग॑णे वृ॒जने॒ मन्म॑ धीमहि॒ माघो॑ने य॒ज्ञं ज॑नयंत सू॒रयः॑ ॥
इंद्र॑ऽप्रसूताः , वरु॑णऽप्रशिष्टाः , ये , सूर्य॑स्य , ज्योति॑षः , भा॒गं , आ॒न॒शुः । म॒रुत्ऽग॑णे , वृ॒जने॑ , मन्म॑ , धी॒म॒हि॒ , माघो॑ने , य॒ज्ञं , ज॒न॒यं॒त॒ , सू॒रयः॑ ॥
इंद्रो॒ वसु॑भिः॒ परि॑ पातु नो॒ गय॑मादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यच्छतु । रु॒द्रो रु॒द्रेभि॑र्दे॒वो मृ॑ळयाति न॒स्त्वष्टा॑ नो॒ ग्नाभिः॑ सुवि॒ताय॑ जिन्वतु ॥
इंद्रः॑ , वसु॑ऽभिः , परि॑ , पा॒तु॒ , नः॒ , गयं॑ , आ॒दि॒त्यैः , नः॒ , अदि॑तिः , शर्म॑ , य॒च्छ॒तु॒ । रु॒द्रः , रु॒द्रेभिः॑ , दे॒वः , मृ॒ळ॒या॒ति॒ , नः॒ , त्वष्टा॑ , नः॒ , ग्नाभिः॑ , सु॒वि॒ताय॑ , जि॒न्व॒तु॒ ॥
अदि॑ति॒र्द्यावा॑पृथि॒वी ऋ॒तं म॒हदिंद्रा॒विष्णू॑ म॒रुतः॒ स्व॑र्बृ॒हत् । दे॒वाँ आ॑दि॒त्याँ अव॑से हवामहे॒ वसू॑न्रु॒द्रांत्स॑वि॒तारं॑ सु॒दंस॑सं ॥
अदि॑तिः , द्यावा॑पृथि॒वी इति॑ , ऋ॒तं , म॒हत् , इंद्रा॒विष्णू॒ इति॑ , म॒रुतः॑ , स्वः॑ , बृ॒हत् । दे॒वान् , आ॒दि॒त्यान् , अव॑से , ह॒वा॒म॒हे॒ , वसू॑न् , रु॒द्रान् , स॒वि॒तारं॑ , सु॒ऽदंस॑सं ॥
सर॑स्वांधी॒भिर्वरु॑णो धृ॒तव्र॑तः पू॒षा विष्णु॑र्महि॒मा वा॒युर॒श्विना॑ । ब्र॒ह्म॒कृतो॑ अ॒मृता॑ वि॒श्ववे॑दसः॒ शर्म॑ नो यंसंत्रि॒वरू॑थ॒मंह॑सः ॥
सर॑स्वान् , धी॒भिः , वरु॑णः , धृ॒तऽव्र॑तः , पू॒षा , विष्णुः॑ , म॒हि॒मा , वा॒युः , अ॒श्विना॑ । ब्र॒ह्म॒ऽकृतः॑ , अ॒मृताः॑ , वि॒श्वऽवे॑दसः , शर्म॑ , नः॒ , यं॒स॒न् , त्रि॒ऽवरू॑थं , अंह॑सः ॥
वृषा॑ य॒ज्ञो वृष॑णः संतु य॒ज्ञिया॒ वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृतः॑ । वृष॑णा॒ द्यावा॑पृथि॒वी ऋ॒ताव॑री॒ वृषा॑ प॒र्जन्यो॒ वृष॑णो वृष॒स्तुभः॑ ॥
वृषा॑ , य॒ज्ञः , वृष॑णः , सं॒तु॒ , य॒ज्ञियाः॑ , वृष॑णः , दे॒वाः , वृष॑णः , ह॒विः॒ऽकृतः॑ । वृष॑णा , द्यावा॑पृथि॒वी इति॑ , ऋ॒तव॑री॒ इत्यृ॒तऽव॑री , वृषा॑ , प॒र्जन्यः॑ , वृष॑णः , वृ॒ष॒ऽस्तुभः॑ ॥
अ॒ग्नीषोमा॒ वृष॑णा॒ वाज॑सातये पुरुप्रश॒स्ता वृष॑णा॒ उप॑ ब्रुवे । यावी॑जि॒रे वृष॑णो देवय॒ज्यया॒ ता नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सतः ॥
अ॒ग्नीषोमा॑ , वृष॑णा , वाज॑ऽसातये , पु॒रु॒ऽप्र॒श॒स्ता , वृष॑णौ , उप॑ , ब्रु॒वे॒ । यौ , ई॒जि॒रे , वृष॑णः , दे॒व॒ऽय॒ज्यया॑ , ता , नः॒ , शर्म॑ , त्रि॒ऽवरू॑थं , वि , यां॒स॒तः॒ ॥
धृ॒तव्र॑ताः क्ष॒त्रिया॑ यज्ञनि॒ष्कृतो॑ बृहद्दि॒वा अ॑ध्व॒राणा॑मभि॒श्रियः॑ । अ॒ग्निहो॑तार ऋत॒सापो॑ अ॒द्रुहो॒ऽपो अ॑सृज॒न्ननु॑ वृत्र॒तूर्ये॑ ॥
धृ॒तऽव्र॑ताः , क्ष॒त्रियाः॑ , य॒ज्ञ॒निः॒ऽकृतः॑ , बृ॒ह॒त्ऽदि॒वाः , अ॒ध्व॒राणां॑ , अ॒भि॒ऽश्रियः॑ । अ॒ग्निऽहो॑तारः , ऋ॒त॒ऽसापः॑ , अ॒द्रुहः॑ , अ॒पः , अ॒सृज॒न् , अनु॑ , वृ॒त्र॒ऽतूर्ये॑ ॥
द्यावा॑पृथि॒वी ज॑नयन्न॒भि व्र॒ताप॒ ओष॑धीर्व॒निना॑नि य॒ज्ञिया॑ । अं॒तरि॑क्षं॒ स्व१॒॑रा प॑प्रुरू॒तये॒ वशं॑ दे॒वास॑स्त॒न्वी॒३॒॑ नि मा॑मृजुः ॥
द्यावा॑पृथि॒वी इति॑ , ज॒न॒य॒न् , अ॒भि , व्र॒ता , आपः॑ , ओष॑धीः , व॒निना॑नि , य॒ज्ञिया॑ । अं॒तरि॑क्षं , स्वः॑ , आ , प॒प्रुः॒ , ऊ॒तये॑ , वशं॑ , दे॒वासः॑ , त॒न्वि॑ , नि , म॒मृ॒जुः॒ ॥
ध॒र्तारो॑ दि॒व ऋ॒भवः॑ सु॒हस्ता॑ वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः । आप॒ ओष॑धीः॒ प्र ति॑रंतु नो॒ गिरो॒ भगो॑ रा॒तिर्वा॒जिनो॑ यंतु मे॒ हवं॑ ॥
ध॒र्तारः॑ , दि॒वः , ऋ॒भवः॑ , सु॒ऽहस्ताः॑ , वा॒ता॒प॒र्ज॒न्या , म॒हि॒षस्य॑ , त॒न्य॒तोः । आपः॑ , ओष॑धीः , प्र , ति॒रं॒तु॒ , नः॒ , गिरः॑ , भगः॑ , रा॒तिः , वा॒जिनः॑ , यं॒तु॒ , मे॒ , हवं॑ ॥
स॒मु॒द्रः सिंधू॒ रजो॑ अं॒तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर॑र्ण॒वः । अहि॑र्बु॒ध्न्यः॑ शृणव॒द्वचां॑सि मे॒ विश्वे॑ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ॥
स॒मु॒द्रः , सिंधुः॑ , रजः॑ , अं॒तरि॑क्षं , अ॒जः , एक॑ऽपात् , त॒न॒यि॒त्नुः , अ॒र्ण॒वः । अहिः॑ , बु॒ध्न्यः॑ , शृ॒ण॒व॒त् , वचां॑सि , मे॒ , विश्वे॑ , दे॒वासः॑ , उ॒त , सू॒रयः॑ , मम॑ ॥
स्याम॑ वो॒ मन॑वो दे॒ववी॑तये॒ प्रांचं॑ नो य॒ज्ञं प्र ण॑यत साधु॒या । आदि॑त्या॒ रुद्रा॒ वस॑वः॒ सुदा॑नव इ॒मा ब्रह्म॑ श॒स्यमा॑नानि जिन्वत ॥
स्याम॑ , वः॒ , मन॑वः , दे॒वऽवी॑तये , प्रांचं॑ , नः॒ , य॒ज्ञं , प्र , न॒य॒त॒ , सा॒धु॒ऽया । आदि॑त्याः , रुद्राः॑ , वस॑वः , सुऽदा॑नवः , इ॒मा , ब्रह्म॑ , श॒स्यमा॑नानि , जि॒न्व॒त॒ ॥
दैव्या॒ होता॑रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पंथा॒मन्वे॑मि साधु॒या । क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशमीमहे॒ विश्वां॑दे॒वाँ अ॒मृताँ॒ अप्र॑युच्छतः ॥
दैव्या॑ , होता॑रा , प्र॒थ॒मा , पु॒रःऽहि॑ता , ऋ॒तस्य॑ , पंथां॑ , अनु॑ , ए॒मि॒ , सा॒धु॒ऽया । क्षेत्र॑स्य , पतिं॑ , प्रति॑ऽवेशं , ई॒म॒हे॒ , विश्वा॑न् , दे॒वान् , अ॒मृता॑न् , अप्र॑ऽयुच्छतः ॥
वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ ईळा॑ना ऋषि॒वत्स्व॒स्तये॑ । प्री॒ता इ॑व ज्ञा॒तयः॒ काम॒मेत्या॒स्मे दे॑वा॒सोऽव॑ धूनुता॒ वसु॑ ॥
वसि॑ष्ठासः , पि॒तृ॒ऽवत् , वाचं॑ , अ॒क्र॒त॒ , दे॒वान् , ईळा॑नाः , ऋ॒षि॒ऽवत् , स्व॒स्तये॑ । प्री॒ताःऽइ॑व , ज्ञा॒तयः॑ , कामं॑ , आ॒ऽइत्य॑ , अ॒स्मे इति॑ , दे॒वा॒सः॒ , अव॑ , धू॒नु॒त॒ , वसु॑ ॥
दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववंदे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः । ते नो॑ रासंतामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
दे॒वान् , वसि॑ष्ठः , अ॒मृता॑न् , व॒वं॒दे॒ , ये , विश्वा॑ , भुव॑ना , अ॒भि , प्र॒ऽत॒स्थुः । ते , नः॒ , रा॒सं॒तां॒ , उ॒रु॒ऽगा॒यं , अ॒द्य , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[६७] इमांधियमिति द्वादशर्चस्य सूक्तस्यांगिरसोऽयास्यो बृहस्पतिस्त्रिष्टुप् |
इ॒मां धियं॑ स॒प्तशी॑र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विंदत् । तु॒रीयं॑ स्विज्जनयद्वि॒श्वज॑न्यो॒ऽयास्य॑ उ॒क्थमिंद्रा॑य॒ शंस॑न् ॥
इ॒मां , धियं॑ , स॒प्तऽशी॑र्ष्णीं , पि॒ता , नः॒ , ऋ॒तऽप्र॑जातां , बृ॒ह॒तीं , अ॒विं॒द॒त् । तु॒रीयं॑ , स्वि॒त् , ज॒न॒य॒त् , वि॒श्वऽज॑न्यः , अ॒यास्यः॑ , उ॒क्थं , इंद्रा॑य , शंस॑न् ॥
ऋ॒तं शंसं॑त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः । विप्रं॑ प॒दमंगि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नंत ॥
ऋ॒तं , शंसं॑तः , ऋ॒जु , दीध्या॑नाः , दि॒वः , पु॒त्रासः॑ , असु॑रस्य , वी॒राः । विप्रं॑ , प॒दं , अंगि॑रसः , दधा॑नाः , य॒ज्ञस्य॑ , धाम॑ , प्र॒थ॒मं , म॒नं॒त॒ ॥
हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् । बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ॥
हं॒सैःऽइ॑व , सखि॑ऽभिः , वाव॑दत्ऽभिः , अ॒श्म॒न्ऽमया॑नि , नह॑ना , वि॒ऽअस्य॑न् । बृह॒स्पतिः॑ , अ॒भि॒ऽकनि॑क्रदत् , गाः , उ॒त , प्र , अ॒स्तौ॒त् , उत् , च॒ , वि॒द्वान् , अ॒गा॒य॒त् ॥
अ॒वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठं॑ती॒रनृ॑तस्य॒ सेतौ॑ । बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ॥
अ॒वः , द्वाभ्यां॑ , प॒रः , एक॑या , गाः , गुहा॑ , तिष्ठं॑तीः , अनृ॑तस्य , सेतौ॑ । बृह॒स्पतिः॑ , तम॑सि , ज्योतिः॑ , इ॒च्छन् , उत् , उ॒स्राः , आ , अ॒कः॒ , वि , हि , ति॒श्रः , आव॒रित्यावः॑ ॥
वि॒भिद्या॒ पुरं॑ श॒यथे॒मपा॑चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृंतत् । बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय॑न्निव॒ द्यौः ॥
वि॒ऽभिद्य॑ , पुरं॑ , श॒यथा॑ , ईं॒ , अपा॑चीं , निः , त्रीणि॑ , सा॒कं , उ॒द॒ऽधेः , अ॒कृं॒त॒त् । बृह॒स्पतिः॑ , उ॒षसं॑ , सूर्यं॑ , गां , अ॒र्कं , वि॒वे॒द॒ , स्त॒नय॑न्ऽइव , द्यौः ॥
इंद्रो॑ व॒लं र॑क्षि॒तारं॒ दुघा॑नां क॒रेणे॑व॒ वि च॑कर्ता॒ रवे॑ण । स्वेदां॑जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो॑दयत्प॒णिमा गा अ॑मुष्णात् ॥
इंद्रः॑ , व॒लं , र॒क्षि॒तारं॑ , दुघा॑नां , क॒रेण॑ऽइव , वि , च॒क॒र्त॒ , रवे॑ण । स्वेदां॑जिऽभिः , आ॒ऽशिरं॑ , इ॒च्छमा॑नः , अरो॑दयत् , प॒णिं , आ , गाः , अ॒मु॒ष्णा॒त् ॥
स ईं॑ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः । ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट् ॥
सः , ईं॒ , स॒त्येभिः॑ , सखि॑ऽभिः , शु॒चत्ऽभिः॑ , गोऽधा॑यसं , वि , ध॒न॒ऽसैः , अ॒द॒र्द॒रित्य॑दर्दः । ब्रह्म॑णः , पतिः॑ , वृष॑ऽभिः , व॒राहैः॑ , घ॒र्मऽस्वे॑देभिः , द्रवि॑णं , वि , आ॒न॒ट् ॥
ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा इ॑या॒नास॑ इषणयंत धी॒भिः । बृह॒स्पति॑र्मि॒थोअ॑वद्यपेभि॒रुदु॒स्रिया॑ असृजत स्व॒युग्भिः॑ ॥
ते , स॒त्येन॑ , मन॑सा , गोऽप॑तिं , गाः , इ॒या॒नासः॑ , इ॒ष॒ण॒यं॒त॒ , धी॒भिः । बृह॒स्पतिः॑ , मि॒थःऽअ॑वद्यपेभिः , उत् , उ॒स्रियाः॑ , अ॒सृ॒ज॒त॒ , स्व॒युक्ऽभिः॑ ॥
तं व॒र्धयं॑तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑ । बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुं ॥
तं , व॒र्धयं॑तः , म॒तिऽभिः॑ , शि॒वाभिः॑ , सिं॒हंऽइ॑व , नान॑दतं , स॒धऽस्थे॑ । बृह॒स्पतिं॑ , वृष॑णं , शूर॑ऽसातौ , भरे॑ऽभरे , अनु॑ , म॒दे॒म॒ , जि॒ष्णुं ॥
य॒दा वाज॒मस॑नद्वि॒श्वरू॑प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ । बृह॒स्पतिं॒ वृष॑णं व॒र्धयं॑तो॒ नाना॒ संतो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ॥
य॒दा , वाजं॑ , अस॑नत् , वि॒श्वऽरू॑पं , आ , द्यां , अरु॑क्षत् , उत्ऽत॑राणि , सद्म॑ । बृह॒स्पतिं॑ , वृष॑णं , व॒र्धयं॑तः , नाना॑ , संतः॑ , बिभ्र॑तः , ज्योतिः॑ , आ॒सा ॥
स॒त्यामा॒शिषं॑ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः॑ । प॒श्चा मृधो॒ अप॑ भवंतु॒ विश्वा॒स्तद्रो॑दसी शृणुतं विश्वमि॒न्वे ॥
स॒त्यां , आ॒ऽशिषं॑ , कृ॒णु॒त॒ , व॒यः॒ऽधै , की॒रिं , चि॒त् , हि , अव॑थ , स्वेभिः॑ , एवैः॑ । प॒श्चा , मृधः॑ , अप॑ , भ॒वं॒तु॒ , विश्वाः॑ , तत् , रो॒द॒सी॒ इति॑ , शृ॒णु॒तं॒ , वि॒श्व॒मि॒न्वे इति॑ वि॒श्वं॒ऽइ॒न्वे ॥
इंद्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ । अह॒न्नहि॒मरि॑णात्स॒प्त सिंधूं॑दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥
इंद्रः॑ , म॒ह्ना , म॒ह॒तः , अ॒र्ण॒वस्य॑ , वि , मू॒र्धानं॑ , अ॒भि॒न॒त् , अ॒र्बु॒दस्य॑ । अह॑न् , अहिं॑ , अरि॑णात् , स॒प्त , सिंधू॑न् , दे॒वैः , द्या॒वा॒पृ॒थि॒वी॒ इति॑ , प्र , अ॒व॒तं॒ , नः॒ ॥
[६८] उदप्रुतइति द्वादशर्चस्य सूक्तस्यांगिरसोयास्योबृहस्पतिस्त्रिष्टुप् |
उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः॑ । गि॒रि॒भ्रजो॒ नोर्मयो॒ मदं॑तो॒ बृह॒स्पति॑म॒भ्य१॒॑र्का अ॑नावन् ॥
उ॒द॒ऽप्रुतः॑ , न , वयः॑ , रक्ष॑माणाः , वाव॑दतः , अ॒भ्रिय॑स्यऽइव , घोषाः॑ । गि॒रि॒ऽभ्रजः॑ , न , ऊ॒र्मयः॑ , मदं॑तः , बृह॒स्पतिं॑ , अ॒भि , अ॒र्काः , अ॒ना॒व॒न् ॥
सं गोभि॑रांगिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय । जने॑ मि॒त्रो न दंप॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ॥
सं , गोभिः॑ , आं॒गि॒र॒सः , नक्ष॑माणः , भगः॑ऽइव , इत् , अ॒र्य॒मणं॑ , नि॒ना॒य॒ । जने॑ , मि॒त्रः , न , दंप॑ती॒ इति॒ दंऽप॑ती , अ॒न॒क्ति॒ , बृह॑स्पते , वा॒जय॑ , आ॒शून्ऽइ॑व , आ॒जौ ॥
सा॒ध्व॒र्या अ॑ति॒थिनी॑रिषि॒राः स्पा॒र्हाः सु॒वर्णा॑ अनव॒द्यरू॑पाः । बृह॒स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा ऊ॑पे॒ यव॑मिव स्थि॒विभ्यः॑ ॥
सा॒धु॒ऽअ॒र्याः , अ॒ति॒थिनीः॑ , इ॒षि॒राः , स्पा॒र्हाः , सु॒ऽवर्णाः॑ , अ॒न॒व॒द्यऽरू॑पाः । बृह॒स्पतिः॑ , पर्व॑तेभ्यः , वि॒ऽतूर्य॑ , निः , गाः , ऊ॒पे॒ , यवं॑ऽइव , स्थि॒विऽभ्यः॑ ॥
आ॒प्रु॒षा॒यन्मधु॑न ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः । बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या॑ उ॒द्नेव॒ वि त्वचं॑ बिभेद ॥
आ॒ऽप्रु॒षा॒यन् , मधु॑ना , ऋ॒तस्य॑ , योनिं॑ , अ॒व॒ऽक्षि॒पन् , अ॒र्कः , उ॒ल्कांऽइ॑व , द्योः । बृह॒स्पतिः॑ , उ॒द्धर॑न् , अश्म॑नः , गाः , भूम्याः॑ , उ॒द्नाऽइ॑व , वि , त्वचं॑ , बि॒भे॒द॒ ॥
अप॒ ज्योति॑षा॒ तमो॑ अं॒तरि॑क्षादु॒द्नः शीपा॑लमिव॒ वात॑ आजत् । बृह॒स्पति॑रनु॒मृश्या॑ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ॥
अप॑ , ज्योति॑षा , तमः॑ , अं॒तरि॑क्षात् , उ॒द्नः , शीपा॑लंऽइव , वातः॑ , आ॒ज॒त् । बृह॒स्पतिः॑ , अ॒नु॒ऽमृश्य॑ , व॒लस्य॑ , अ॒भ्रंऽइ॑व , वातः॑ , आ , च॒क्रे॒ , आ , गाः ॥
य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः । द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णां ॥
य॒दा , व॒लस्य॑ , पीय॑तः , जसुं॑ , भेत् , बृह॒स्पतिः॑ , अ॒ग्नि॒तपः॑ऽभिः , अ॒र्कैः । द॒त्ऽभिः , न , जि॒ह्वा , परि॑ऽविष्टं , आद॑त् , आ॒विः , नि॒ऽधीन् , अ॒कृ॒णो॒त् , उ॒स्रिया॑णां ॥
बृह॒स्पति॒रम॑त॒ हि त्यदा॑सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत् । आं॒डेव॑ भि॒त्त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना॑जत् ॥
बृह॒स्पतिः॑ , अम॑त , हि , त्यत् , आ॒सां॒ , नाम॑ , स्व॒रीणां॑ , सद॑ने , गुहा॑ , यत् । आं॒डाऽइ॑व , भि॒त्त्वा , श॒कु॒नस्य॑ , गर्भं॑ , उत् , उ॒स्रियाः॑ , पर्व॑तस्य , त्मना॑ , आ॒ज॒त् ॥
अश्नापि॑नद्धं॒ मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यंतं॑ । निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्बृह॒स्पति॑र्विर॒वेणा॑ वि॒कृत्य॑ ॥
अश्ना॑ , अपि॑ऽनद्धं , मधु॑ , परि॑ , अ॒प॒श्य॒त् , मत्स्यं॑ , न , दी॒ने , उ॒दनि॑ , क्षि॒यंतं॑ । निः , तत् , ज॒भा॒र॒ , च॒म॒सं , न , वृ॒क्षात् , बृह॒स्पतिः॑ , वि॒ऽर॒वेण॑ , वि॒ऽकृत्य॑ ॥
सोषाम॑विंद॒त्स स्व१॒॑ः सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि । बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ॥
सः , उ॒षां , अ॒विं॒द॒त् , सः , स्व१॒॑रिति॒ स्वः॑ , सः , अ॒ग्निं , सः , अ॒र्केण॑ , वि , ब॒बा॒धे॒ , तमां॑सि । बृह॒स्पतिः॑ , गोऽव॑पुषः , व॒लस्य॑ , निः , म॒ज्जानं॑ , न , पर्व॑णः , ज॒भा॒र॒ ॥
हि॒मेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः । अ॒ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा॑ मि॒थ उ॒च्चरा॑तः ॥
हि॒माऽइ॑व , प॒र्णा , मु॒षि॒ता , वना॑नि , बृह॒स्पति॑ना , अ॒कृ॒प॒य॒त् , व॒लः , गाः । अ॒न॒नु॒ऽकृ॒त्यं , अ॒पु॒नरिति॑ , च॒का॒र॒ , यात् , सूर्या॒मासा॑ , मि॒थः , उ॒त्ऽचरा॑तः ॥
अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन् । रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न्बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः ॥
अ॒भि , श्या॒वं , न , कृश॑नेभिः , अश्वं॑ , नक्ष॑त्रेभिः , पि॒तरः॑ , द्यां , अ॒पिं॒श॒न् । रात्र्यां॑ , तमः॑ , अद॑धुः , ज्योतिः॑ , अह॑न् , बृह॒स्पतिः॑ , भि॒नत् , अद्रिं॑ , वि॒दत् , गाः ॥
इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति । बृह॒स्पतिः॒ स हि गोभिः॒ सो अश्वैः॒ स वी॒रेभिः॒ स नृभि॑र्नो॒ वयो॑ धात् ॥
इ॒दं , अ॒क॒र्म॒ , नमः॑ , अ॒भ्रि॒याय॑ , यः , पू॒र्वीः , अनु॑ , आ॒ऽनोन॑वीति । बृह॒स्पतिः॑ , सः , हि , गोभिः॑ , सः , अश्वैः॑ , सः , वी॒रेभिः॑ , सः , नृऽभिः॑ , नः॒ , वयः॑ , धा॒त् ॥
[६९] भद्राअग्नेरिति द्वादशर्चस्य सूक्तस्य वाध्र्यश्वः सुमित्रोग्निस्त्रिष्टुबाद्येद्वेजगत्यौ |
भ॒द्रा अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो॑ वा॒मी प्रणी॑तिः सु॒रणा॒ उपे॑तयः । यदीं॑ सुमि॒त्रा विशो॒ अग्र॑ इं॒धते॑ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ॥
भ॒द्राः , अ॒ग्नेः , व॒ध्रि॒ऽअ॒श्वस्य॑ , सं॒ऽदृशः॑ , वा॒मी , प्रऽनी॑तिः , सु॒ऽरणाः॑ , उप॑ऽइतयः । यत् , ईं॒ , सु॒ऽमि॒त्राः , विशः॑ , अग्रे॑ , इं॒धते॑ , घृ॒तेन॑ , आऽहु॑तः , ज॒र॒ते॒ , दवि॑द्युतत् ॥
घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं घृ॒तमन्नं॑ घृ॒तम्व॑स्य॒ मेद॑नं । घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे॒ सूर्य॑ इव रोचते स॒र्पिरा॑सुतिः ॥
घृ॒तं , अ॒ग्नेः , व॒ध्रि॒ऽअ॒श्वस्य॑ , वर्ध॑नं , घृ॒तं , अन्नं॑ , घृ॒तं , ऊँ॒ इति॑ , अ॒स्य॒ , मेद॑नं । घृ॒तेन॑ , आऽहु॑तः , उ॒र्वि॒या , वि , प॒प्र॒थे॒ , सूर्यः॑ऽइव , रो॒च॒ते॒ , स॒र्पिःऽआ॑सुतिः ॥
यत्ते॒ मनु॒र्यदनी॑कं सुमि॒त्रः स॑मी॒धे अ॑ग्ने॒ तदि॒दं नवी॑यः । स रे॒वच्छो॑च॒ स गिरो॑ जुषस्व॒ स वाजं॑ दर्षि॒ स इ॒ह श्रवो॑ धाः ॥
यत् , ते॒ , मनुः॑ , यत् , अनी॑कं , सु॒ऽमि॒त्रः , सं॒ऽई॒धे , अ॒ग्ने॒ , तत् , इ॒दं , नवी॑यः । सः , रे॒वत् , शो॒च॒ , सः , गिरः॑ , जु॒ष॒स्व॒ , सः , वाजं॑ , द॒र्षि॒ , सः , इ॒ह , श्रवः॑ , धाः॒ ॥
यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः स॑मी॒धे अ॑ग्ने॒ स इ॒दं जु॑षस्व । स नः॑ स्ति॒पा उ॒त भ॑वा तनू॒पा दा॒त्रं र॑क्षस्व॒ यदि॒दं ते॑ अ॒स्मे ॥
यं , त्वा॒ , पूर्वं॑ , ई॒ळि॒तः , व॒ध्रि॒ऽअ॒श्वः , सं॒ऽई॒धे , अ॒ग्ने॒ , सः , इ॒दं , जु॒ष॒स्व॒ । सः , नः॒ , स्ति॒ऽपाः , उ॒त , भ॒व॒ , त॒नू॒ऽपाः , दा॒त्रं , र॒क्ष॒स्व॒ , यत् , इ॒दं , ते॒ , अ॒स्मे इति॑ ॥
भवा॑ द्यु॒म्नी वा॑ध्र्यश्वो॒त गो॒पा मा त्वा॑ तारीद॒भिमा॑ति॒र्जना॑नां । शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः प्र नु वो॑चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ॥
भव॑ , द्यु॒म्नी , वा॒ध्रि॒ऽअ॒श्व॒ , उ॒त , गो॒पाः , मा , त्वा॒ , ता॒री॒त् , अ॒भिऽमा॑तिः , जना॑नां । शूरः॑ऽइव , घृ॒ष्णुः , च्यव॑नः , सु॒ऽमि॒त्रः , प्र , नु , वो॒चं॒ , वाध्रि॑ऽअश्वस्य , नाम॑ ॥
सम॒ज्र्या॑ पर्व॒त्या॒३॒॑ वसू॑नि॒ दासा॑ वृ॒त्राण्यार्या॑ जिगेथ । शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना॑नां॒ त्वम॑ग्ने पृतना॒यूँर॒भि ष्याः॑ ॥
सं , अ॒ज्र्या॑ , प॒र्व॒त्या॑ , वसू॑नि , दासा॑ , वृ॒त्राणि॑ , आर्या॑ , जि॒गे॒थ॒ । शूरः॑ऽइव , घृ॒ष्णुः , च्यव॑नः , जना॑नां , त्वं , अ॒ग्ने॒ , पृ॒त॒ना॒ऽयून् , अ॒भि , स्याः॒ ॥
दी॒र्घतं॑तुर्बृ॒हदु॑क्षा॒यम॒ग्निः स॒हस्र॑स्तरीः श॒तनी॑थ॒ ऋभ्वा॑ । द्यु॒मांद्यु॒मत्सु॒ नृभि॑र्मृ॒ज्यमा॑नः सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ॥
दी॒र्घऽतं॑तुः , बृ॒हत्ऽउ॑क्षा , अ॒यं , अ॒ग्निः , स॒हस्र॑ऽस्तरीः , श॒तऽनी॑थः , ऋभ्वा॑ । द्यु॒ऽमान् , द्यु॒मत्ऽसु॑ , नृऽभिः॑ , मृ॒ज्यमा॑नः , सु॒ऽमि॒त्रेषु॑ , दी॒द॒यः॒ , दे॒व॒यत्ऽसु॑ ॥
त्वे धे॒नुः सु॒दुघा॑ जातवेदोऽस॒श्चते॑व सम॒ना स॑ब॒र्धुक् । त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने सुमि॒त्रेभि॑रिध्यसे देव॒यद्भिः॑ ॥
त्वे इति॑ , धे॒नुः , सु॒ऽदुघा॑ , जा॒त॒ऽवे॒दः॒ , अ॒स॒श्चता॑ऽइव , स॒म॒ना , स॒बः॒ऽधुक् । त्वं , नृऽभिः॑ , दक्षि॑णावत्ऽभिः , अ॒ग्ने॒ , सु॒ऽमि॒त्रेभिः॑ , इ॒ध्य॒से॒ , दे॒व॒यत्ऽभिः॑ ॥
दे॒वाश्चि॑त्ते अ॒मृता॑ जातवेदो महि॒मानं॑ वाध्र्यश्व॒ प्र वो॑चन् । यत्सं॒पृच्छं॒ मानु॑षी॒र्विश॒ आयं॒त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ॥
दे॒वाः , चि॒त् , ते॒ , अ॒मृताः॑ , जा॒त॒ऽवे॒दः॒ , म॒हि॒मानं॑ , वा॒ध्रि॒ऽअ॒श्व॒ , प्र , वो॒च॒न् । यत् , सं॒ऽपृच्छं॑ , मानु॑षीः , विशः॑ , आय॑न् , त्वं , नृऽभिः॑ , अ॒ज॒यः॒ , त्वाऽवृ॑धेभिः ॥
पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे॒ त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् । जु॒षा॒णो अ॑स्य स॒मिधं॑ यविष्ठो॒त पूर्वाँ॑ अवनो॒र्व्राध॑तश्चित् ॥
पि॒ताऽइ॑व , पु॒त्रं , अ॒बि॒भः॒ , उ॒पऽस्थे॑ , त्वां , अ॒ग्ने॒ , व॒ध्रि॒ऽअ॒श्वः , स॒प॒र्यन् । जु॒षा॒णः , अ॒स्य॒ , सं॒ऽइधं॑ , य॒वि॒ष्ठ॒ , उ॒त , पूर्वा॑न् , अ॒व॒नोः॒ , व्राध॑तः , चि॒त् ॥
शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि॑र्जिगाय सु॒तसो॑मवद्भिः । सम॑नं चिददहश्चित्रभा॒नोऽव॒ व्राधं॑तमभिनद्वृ॒धश्चि॑त् ॥
शश्व॑त् , अ॒ग्निः , व॒ध्रि॒ऽअ॒श्वस्य॑ , शत्रू॑न् , नृऽभिः॑ , जि॒गा॒य॒ , सु॒तसो॑मवत्ऽभिः । सम॑नं , चि॒त् , अ॒द॒हः॒ , चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो , अव॑ , व्राधं॑तं , अ॒भि॒न॒त् , वृ॒धः , चि॒त् ॥
अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्यः॑ । स नो॒ अजा॑मीँरु॒त वा॒ विजा॑मीन॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ॥
अ॒यं , अ॒ग्निः , व॒ध्रि॒ऽअ॒श्वस्य॑ , वृ॒त्र॒ऽहा , स॒न॒कात् , प्रऽइ॑द्धः , नम॑सा , उ॒प॒ऽवा॒क्यः॑ । सः , नः॒ , अजा॑मीन् , उ॒त , वा॒ , विऽजा॑मीन् , अ॒भि , ति॒ष्ठ॒ , शर्ध॑तः , वा॒ध्रि॒ऽअ॒श्व॒ ॥
[७०] इमांमइत्येकादशर्चस्य सूक्तस्य वाध्र्यश्वः सुमित्रइध्मोनराशंस इळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौप्रचेतसौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयस्त्रिष्टुप् |
इ॒मां मे॑ अग्ने स॒मिधं॑ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताचीं॑ । वर्ष्म॑न्पृथि॒व्याः सु॑दिन॒त्वे अह्ना॑मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ॥
इ॒मां , मे॒ , अ॒ग्ने॒ , सं॒ऽइधं॑ , जु॒ष॒स्व॒ , इ॒ळः , प॒दे , प्रति॑ , ह॒र्य॒ , घृ॒ताचीं॑ । वर्ष्म॑न् , पृ॒थि॒व्याः , सु॒दि॒न॒ऽत्वे , अह्नां॑ , ऊ॒र्ध्वः , भ॒व॒ , सु॒क्र॒तो॒ इति॑ सुऽक्रतो , दे॒व॒ऽय॒ज्या ॥
आ दे॒वाना॑मग्र॒यावे॒ह या॑तु॒ नरा॒शंसो॑ वि॒श्वरू॑पेभि॒रश्वैः॑ । ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो॑ दे॒वेभ्यो॑ दे॒वत॑मः सुषूदत् ॥
आ , दे॒वानां॑ , अ॒ग्र॒ऽयावा॑ , इ॒ह , या॒तु॒ , नरा॒शंसः॑ , वि॒श्वऽरू॑पेभिः , अश्वैः॑ । ऋ॒तस्य॑ , प॒था , नम॑सा , मि॒येधः॑ , दे॒वेभ्यः॑ , दे॒वऽत॑मः , सु॒सू॒द॒त् ॥
श॒श्व॒त्त॒ममी॑ळते दू॒त्या॑य ह॒विष्मं॑तो मनु॒ष्या॑सो अ॒ग्निं । वहि॑ष्ठै॒रश्वैः॑ सु॒वृता॒ रथे॒ना दे॒वान्व॑क्षि॒ नि ष॑दे॒ह होता॑ ॥
श॒श्व॒त्ऽत॒मं , ई॒ळ॒ते॒ , दू॒त्या॑य , ह॒विष्मं॑तः , म॒नु॒ष्या॑सः , अ॒ग्निं । वहि॑ष्ठैः , अश्वैः॑ , सु॒ऽवृता॑ , रथे॑न , आ , दे॒वान् , व॒क्षि॒ , नि , स॒द॒ , इ॒ह , होता॑ ॥
वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू॑त्व॒स्मे । अहे॑ळता॒ मन॑सा देव बर्हि॒रिंद्र॑ज्येष्ठाँ उश॒तो य॑क्षि दे॒वान् ॥
वि , प्र॒थ॒तां॒ , दे॒वऽजु॑ष्टं , ति॒र॒श्चा , दी॒र्घं , द्रा॒घ्मा , सु॒र॒भि , भू॒तु॒ , अ॒स्मे इति॑ । अहे॑ळता , मन॑सा , दे॒व॒ , ब॒र्हिः॒ , इंद्र॑ऽज्येष्ठान् , उ॒श॒तः , य॒क्षि॒ , दे॒वान् ॥
दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी॑यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वं । उ॒श॒तीर्द्वा॑रो महि॒ना म॒हद्भि॑र्दे॒वं रथं॑ रथ॒युर्धा॑रयध्वं ॥
दि॒वः , वा॒ , सानु॑ , स्पृ॒शत॑ , वरी॑यः , पृ॒थि॒व्या , वा॒ , मात्र॑या , वि , श्र॒य॒ध्वं॒ । उ॒श॒तीः , द्वा॒रः॒ , म॒हि॒ना , म॒हत्ऽभिः॑ , दे॒वं , रथं॑ , र॒थ॒ऽयुः , धा॒र॒य॒ध्वं॒ ॥
दे॒वी दि॒वो दु॑हि॒तरा॑ सुशि॒ल्पे उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ । आ वां॑ दे॒वास॑ उशती उ॒शंत॑ उ॒रौ सी॑दंतु सुभगे उ॒पस्थे॑ ॥
दे॒वी इति॑ , दि॒वः , दु॒हि॒तरा॑ , सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे , उ॒षसा॒नक्ता॑ , स॒द॒तां॒ , नि , योनौ॑ । आ , वां॒ , दे॒वासः॑ , उ॒श॒ती॒ इति॑ , उ॒शंतः॑ , उ॒रौ , सी॒दं॒तु॒ , सु॒भ॒गे॒ इति॑ सुऽभगे , उ॒पऽस्थे॑ ॥
ऊ॒र्ध्वो ग्रावा॑ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे॑ । पु॒रोहि॑तावृत्विजा य॒ज्ञे अ॒स्मिन्वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथां ॥
ऊ॒र्ध्वः , ग्रावा॑ , बृ॒हत् , अ॒ग्निः , संऽइ॑द्धः , प्रि॒या , धामा॑नि , अदि॑तेः , उ॒पऽस्थे॑ । पु॒रःऽहि॑तौ , ऋ॒त्वि॒जा॒ , य॒ज्ञे , अ॒स्मिन् , वि॒दुःऽत॑रा , द्रवि॑णं , आ , य॒जे॒थां॒ ॥
तिस्रो॑ देवीर्ब॒र्हिरि॒दं वरी॑य॒ आ सी॑दत चकृ॒मा वः॑ स्यो॒नं । म॒नु॒ष्वद्य॒ज्ञं सुधि॑ता ह॒वींषीळा॑ दे॒वी घृ॒तप॑दी जुषंत ॥
तिस्रः॑ , दे॒वीः॒ , ब॒र्हिः , इ॒दं , वरी॑यः , आ , सी॒द॒त॒ , च॒कृ॒म , वः॒ , स्यो॒नं । म॒नु॒ष्वत् , य॒ज्ञं , सुऽधि॑ता , ह॒वींषि॑ , इळा॑ , दे॒वी , घृ॒तऽप॑दी , जु॒षं॒त॒ ॥
देव॑ त्वष्ट॒र्यद्ध॑ चारु॒त्वमान॒ड्यदंगि॑रसा॒मभ॑वः सचा॒भूः । स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वानु॒शन्य॑क्षि द्रविणोदः सु॒रत्नः॑ ॥
देव॑ , त्व॒ष्टः॒ , यत् , ह॒ , चा॒रु॒ऽत्वं , आन॑ट् , यत् , अंगि॑रसां , अभ॑वः , स॒चा॒ऽभूः । सः , दे॒वानां॑ , पाथः॑ , उप॑ , प्र , वि॒द्वान् , उ॒शन् , य॒क्षि॒ , द्र॒वि॒णः॒ऽदः॒ , सु॒ऽरत्नः॑ ॥
वन॑स्पते रश॒नया॑ नि॒यूया॑ दे॒वानां॒ पाथ॒ उप॑ वक्षि वि॒द्वान् । स्वदा॑ति दे॒वः कृ॒णव॑द्ध॒वींष्यव॑तां॒ द्यावा॑पृथि॒वी हवं॑ मे ॥
वन॑स्पते , र॒श॒नया॑ , नि॒ऽयूय॑ , दे॒वानां॑ , पाथः॑ , उप॑ , व॒क्षि॒ , वि॒द्वान् । स्वदा॑ति , दे॒वः , कृ॒णव॑त् , ह॒वींषि॑ , अव॑तां , द्यावा॑पृथि॒वी इति॑ , हवं॑ , मे॒ ॥
आग्ने॑ वह॒ वरु॑णमि॒ष्टये॑ न॒ इंद्रं॑ दि॒वो म॒रुतो॑ अं॒तरि॑क्षात् । सीदं॑तु ब॒र्हिर्विश्व॒ आ यज॑त्राः॒ स्वाहा॑ दे॒वा अ॒मृता॑ मादयंतां ॥
आ , अ॒ग्ने॒ , व॒ह॒ , वरु॑णं , इ॒ष्टये॑ , नः॒ , इंद्रं॑ , दि॒वः , म॒रुतः॑ , अं॒तरि॑क्षात् । सीदं॑तु , ब॒र्हिः , विश्वे॑ , आ , यज॑त्राः , स्वाहा॑ , दे॒वाः , अ॒मृताः॑ , मा॒द॒यं॒तां॒ ॥
[७१] बृहस्पतइत्येकादशर्चस्य सूक्तस्यांगिरसो बृहस्पतिर्ज्ञानंत्रिष्टुप् नवमी जगती |
बृह॑स्पते प्रथ॒मं वा॒चो अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा॑नाः । यदे॑षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी॑त्प्रे॒णा तदे॑षां॒ निहि॑तं॒ गुहा॒विः ॥
बृह॑स्पते , प्र॒थ॒मं , वा॒चः , अग्रं॑ , यत् , प्र , ऐर॑त , ना॒म॒ऽधेयं॑ , दधा॑नाः । यत् , ए॒षां॒ , श्रेष्ठं॑ , यत् , अ॒रि॒प्रं , आसी॑त् , प्रे॒णा , तत् , ए॒षां॒ , निऽहि॑तं , गुहा॑ , आ॒विः ॥
सक्तु॑मिव॒ तित॑उना पु॒नंतो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त । अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥
सक्तुं॑ऽइव , तित॑उना , पु॒नंतः॑ , यत्र॑ , धीराः॑ , मन॑सा , वाचं॑ , अक्र॑त । अत्र॑ , सखा॑यः , स॒ख्यानि॑ , जा॒न॒ते॒ , भ॒द्रा , ए॒षां॒ , ल॒क्ष्मीः , निऽहि॑ता , अधि॑ , वा॒चि ॥
य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑मायं॒तामन्व॑विंद॒न्नृषि॑षु॒ प्रवि॑ष्टां । तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा अ॒भि सं न॑वंते ॥
य॒ज्ञेन॑ , वा॒चः , प॒द॒ऽवीयं॑ , आ॒य॒न् , तां , अनु॑ , अ॒विं॒द॒न् , ऋषि॑षु , प्रऽवि॑ष्टां । तां , आ॒ऽभृत्य॑ , वि , अ॒द॒धुः॒ , पु॒रु॒ऽत्रा , तां , स॒प्त , रे॒भाः , अ॒भि , सं , न॒वं॒ते॒ ॥
उ॒त त्वः॒ पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्वः॑ शृ॒ण्वन्न शृ॑णोत्येनां । उ॒तो त्व॑स्मै त॒न्वं१॒॑ वि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ॥
उ॒त , त्वः॒ , पश्य॑न् , न , द॒द॒र्श॒ , वाचं॑ , उ॒त , त्वः॒ , शृ॒ण्वन् , न , शृ॒णो॒ति॒ , ए॒नां॒ । उ॒तो इति॑ , त्व॒स्मै॒ , त॒न्वं॑ , वि , स॒स्रे॒ , जा॒याऽइ॑व , पत्ये॑ , उ॒श॒ती , सु॒ऽवासाः॑ ॥
उ॒त त्वं॑ स॒ख्ये स्थि॒रपी॑तमाहु॒र्नैनं॑ हिन्वं॒त्यपि॒ वाजि॑नेषु । अधे॑न्वा चरति मा॒ययै॒ष वाचं॑ शुश्रु॒वाँ अ॑फ॒लाम॑पु॒ष्पां ॥
उ॒त , त्वं॒ , स॒ख्ये , स्थि॒रऽपी॑तं , आ॒हुः॒ , न , ए॒नं॒ , हि॒न्वं॒ति॒ , अपि॑ , वाजि॑नेषु । अधे॑न्वा , च॒र॒ति॒ , मा॒यया॑ , ए॒षः , वाचं॑ , शु॒श्रु॒ऽवान् , अ॒फ॒लां , आ॒पु॒ष्पां ॥
यस्ति॒त्याज॑ सचि॒विदं॒ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदीं॑ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पंथां॑ ॥
यः , ति॒त्याज॑ , स॒चि॒ऽविदं॑ , सखा॑यं , न , तस्य॑ , वा॒चि , अपि॑ , भा॒गः , अ॒स्ति॒ । यत् , ईं॒ , शृ॒णोति॑ , अल॑कं , शृ॒णो॒ति॒ , न॒हि , प्र॒ऽवेद॑ , सु॒ऽकृ॒तस्य॑ , पंथां॑ ॥
अ॒क्ष॒ण्वंतः॒ कर्ण॑वंतः॒ सखा॑यो मनोज॒वेष्वस॑मा बभूवुः । आ॒द॒घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा इ॑व॒ स्नात्वा॑ उ त्वे ददृश्रे ॥
अ॒क्ष॒ण्ऽवंतः॑ , कर्ण॑ऽवंतः , सखा॑यः , म॒नः॒ऽज॒वेषु॑ , अस॑माः , ब॒भू॒वुः॒ । आ॒द॒घ्नासः॑ , उ॒प॒ऽक॒क्षासः॑ , ऊँ॒ इति॑ , त्वे॒ , ह्र॒दाःऽइ॑व , स्नात्वाः॑ , ऊँ॒ इति॑ , त्वे॒ , द॒दृ॒श्रे॒ ॥
हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा॑ह्म॒णाः सं॒यजं॑ते॒ सखा॑यः । अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रंत्यु त्वे ॥
हृ॒दा , त॒ष्टेषु॑ , मन॑सः , ज॒वेषु॑ , यत् , ब्रा॒ह्म॒णाः , सं॒ऽयजं॑ते , सखा॑यः । अत्र॑ , अह॑ , त्वं॒ , वि , ज॒हुः॒ , वे॒द्याभिः॑ , ओह॑ऽब्रह्माणः , वि , च॒रं॒ति॒ , ऊँ॒ इति॑ , त्वे॒ ॥
इ॒मे ये नार्वाङ्न प॒रश्चरं॑ति॒ न ब्रा॑ह्म॒णासो॒ न सु॒तेक॑रासः । त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया॑ सि॒रीस्तंत्रं॑ तन्वते॒ अप्र॑जज्ञयः ॥
इ॒मे , ये , न , अ॒र्वाक् , न , प॒रः , चरं॑ति , न , ब्रा॒ह्म॒णासः॑ , न , सु॒तेऽक॑रासः । ते , ए॒ते , वाचं॑ , अ॒भि॒ऽपद्य॑ , पा॒पया॑ , सि॒रीः , तंत्रं॑ , त॒न्व॒ते॒ , अप्र॑ऽजज्ञयः ॥
सर्वे॑ नंदंति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा॑यः । कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये॑षा॒मरं॑ हि॒तो भव॑ति॒ वाजि॑नाय ॥
सर्वे॑ , नं॒दं॒ति॒ , य॒शसा॑ , आऽग॑तेन , स॒भा॒ऽस॒हेन॑ , सख्या॑ , सखा॑यः । कि॒ल्बि॒ष॒ऽस्पृत् , पि॒तु॒ऽसनिः॑ , हि , ए॒षां॒ , अरं॑ , हि॒तः , भव॑ति , वाजि॑नाय ॥
ऋ॒चां त्वः॒ पोष॑मास्ते पुपु॒ष्वान्गा॑य॒त्रं त्वो॑ गायति॒ शक्व॑रीषु । ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ॥
ऋ॒चां , त्वः॒ , पोषं॑ , आ॒स्ते॒ , पु॒पु॒ष्वान् , गा॒य॒त्रं , त्वः॒ , गा॒य॒ति॒ , शक्व॑रीषु । ब्र॒ह्मा , त्वः॒ , वद॑ति , जा॒त॒ऽवि॒द्यां , य॒ज्ञस्य॑ , मात्रां॑ , वि , मि॒मी॒ते॒ , ऊँ॒ इति॑ , त्वः॒ ॥
[७२] देवानामिति नवर्चस्य सूक्तस्य लौक्योबृहस्पतिर्देवाअनुष्टुप् | (आंगिरसोवा बृहस्पतिऋषिर्दाक्षायण्यदितिर्वाऋषिका)|
दे॒वानां॒ नु व॒यं जाना॒ प्र वो॑चाम विप॒न्यया॑ । उ॒क्थेषु॑ श॒स्यमा॑नेषु॒ यः पश्या॒दुत्त॑रे यु॒गे ॥
दे॒वानां॑ , नु , व॒यं , जाना॑ , प्र , वो॒चा॒म॒ , वि॒प॒न्यया॑ । उ॒क्थेषु॑ , श॒स्यमा॑नेषु , यः , पश्या॑त् , उत्ऽत॑रे , यु॒गे ॥
ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् । दे॒वानां॑ पू॒र्व्ये यु॒गेऽस॑तः॒ सद॑जायत ॥
ब्रह्म॑णः , पतिः॑ , ए॒ता , सं , क॒र्मारः॑ऽइव , अ॒ध॒म॒त् । दे॒वानां॑ , पू॒र्व्ये , यु॒गे , अस॑तः , सत् , अ॒जा॒य॒त॒ ॥
दे॒वानां॑ यु॒गे प्र॑थ॒मेऽस॑तः॒ सद॑जायत । तदाशा॒ अन्व॑जायंत॒ तदु॑त्ता॒नप॑द॒स्परि॑ ॥
दे॒वानां॑ , यु॒गे , प्र॒थ॒मे , अस॑तः , सत् , अ॒जा॒य॒त॒ । तत् , आशाः॑ , अनु॑ , अ॒जा॒यं॒त॒ , तत् , उ॒त्ता॒नऽप॑दः , परि॑ ॥
भूर्ज॑ज्ञ उत्ता॒नप॑दो भु॒व आशा॑ अजायंत । अदि॑ते॒र्दक्षो॑ अजायत॒ दक्षा॒द्वदि॑तिः॒ परि॑ ॥
भूः , ज॒ज्ञे॒ , उ॒त्ता॒नऽप॑दः , भु॒वः , आशाः॑ , अ॒जा॒यं॒त॒ । अदि॑तेः , दक्षः॑ , अ॒जा॒य॒त॒ , दक्षा॑त् , ऊँ॒ इति॑ , अदि॑तिः , परि॑ ॥
अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ । तां दे॒वा अन्व॑जायंत भ॒द्रा अ॒मृत॑बंधवः ॥
अदि॑तिः , हि , अज॑निष्ट , दक्ष॑ , या , दु॒हि॒ता , तव॑ । तां , दे॒वाः , अनु॑ , अ॒जा॒यं॒त॒ , भ॒द्राः , अ॒मृत॑ऽबंधवः ॥
यद्दे॑वा अ॒दः स॑लि॒ले सुसं॑रब्धा॒ अति॑ष्ठत । अत्रा॑ वो॒ नृत्य॑तामिव ती॒व्रो रे॒णुरपा॑यत ॥
यत् , दे॒वाः॒ , अ॒दः , स॒लि॒ले , सुऽसं॑रब्धाः , अति॑ष्ठत । अत्र॑ , वः॒ , नृत्य॑तांऽइव , ती॒व्रः , रे॒णुः , अप॑ , आ॒य॒त॒ ॥
यद्दे॑वा॒ यत॑यो यथा॒ भुव॑ना॒न्यपि॑न्वत । अत्रा॑ समु॒द्र आ गू॒ळ्हमा सूर्य॑मजभर्तन ॥
यत् , दे॒वाः॒ , यत॑यः , य॒था॒ , भुव॑नानि , अपि॑न्वत । अत्र॑ , स॒मु॒द्रे , आ , गू॒ळ्हं , आ , सूर्यं॑ , अ॒ज॒भ॒र्त॒न॒ ॥
अ॒ष्टौ पु॒त्रासो॒ अदि॑ते॒र्ये जा॒तास्त॒न्व१॒॑स्परि॑ । दे॒वाँ उप॒ प्रैत्स॒प्तभिः॒ परा॑ मार्तां॒डमा॑स्यत् ॥
अ॒ष्टौ , पु॒त्रासः॑ , अदि॑तेः , ये , जा॒ताः , त॒न्वः॑ , परि॑ । दे॒वान् , उप॑ , प्र , ऐ॒त् , स॒प्तऽभिः॑ , परा॑ , मा॒र्तां॒डं , आ॒स्य॒त् ॥
स॒प्तभिः॑ पु॒त्रैरदि॑ति॒रुप॒ प्रैत्पू॒र्व्यं यु॒गं । प्र॒जायै॑ मृ॒त्यवे॑ त्व॒त्पुन॑र्मार्तां॒डमाभ॑रत् ॥
स॒प्तऽभिः॑ , पु॒त्रैः , अदि॑तिः , उप॑ , प्र , ऐ॒त् , पू॒र्व्यं , यु॒गं । प्र॒ऽजायै॑ , मृ॒त्यवे॑ , त्व॒त् , पुनः॑ , मा॒र्तां॒डं , आ , अ॒भ॒र॒त् ॥
[७३] जनिष्ठाइत्येकादशर्चस्य सूक्तस्य शाक्त्यो गौरिवीतिरिंद्रस्त्रिष्टुप् |
जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ मं॒द्र ओजि॑ष्ठो बहु॒लाभि॑मानः । अव॑र्ध॒न्निंद्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥
जनि॑ष्ठाः , उ॒ग्रः , सह॑से , तु॒राय॑ , मं॒द्रः , ओजि॑ष्ठः , ब॒हु॒लऽअ॑भिमानः । अव॑र्धन् , इंद्रं॑ , म॒रुतः॑ , चि॒त् , अत्र॑ , मा॒ता , यत् , वी॒रं , द॒धन॑त् , धनि॑ष्ठा ॥
द्रु॒हो निष॑त्ता पृश॒नी चि॒देवैः॑ पु॒रू शंसे॑न वावृधु॒ष्ट इंद्रं॑ । अ॒भीवृ॑तेव॒ ता म॑हाप॒देन॑ ध्वां॒तात्प्र॑पि॒त्वादुद॑रंत॒ गर्भाः॑ ॥
द्रु॒हः , निऽस॑त्ता , पृ॒श॒नी , चि॒त् , एवैः॑ , पु॒रु , शंसे॑न , व॒वृ॒धुः॒ , ते , इंद्रं॑ । अ॒भिवृ॑ताऽइव , ता , म॒हा॒ऽप॒देन॑ , ध्वां॒तात् , प्र॒ऽपि॒त्वात् , उत् , अ॒रं॒त॒ , गर्भाः॑ ॥
ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॒स्यव॑र्ध॒न्वाजा॑ उ॒त ये चि॒दत्र॑ । त्वमिं॑द्र सालावृ॒कांत्स॒हस्र॑मा॒संद॑धिषे अ॒श्विना व॑वृत्याः ॥
ऋ॒ष्वा , ते॒ , पादा॑ , प्र , यत् , जिगा॑सि , अव॑र्धन् , वाजाः॑ , उ॒त , ये , चि॒त् , अत्र॑ । त्वं , इं॒द्र॒ , सा॒ला॒वृ॒कान् , स॒हस्रं॑ , आ॒सन् , द॒धि॒षे॒ , अ॒श्विना॑ , आ , व॒वृ॒त्याः॒ ॥
स॒म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञमा नास॑त्या स॒ख्याय॑ वक्षि । व॒साव्या॑मिंद्र धारयः स॒हस्रा॒श्विना॑ शूर ददतुर्म॒घानि॑ ॥
स॒म॒ना , तूर्णिः॑ , उप॑ , या॒सि॒ , य॒ज्ञं , आ , नास॑त्या , स॒ख्याय॑ , व॒क्षि॒ । व॒साव्यां॑ , इं॒द्र॒ , धा॒र॒यः॒ , स॒हस्रा॑ , अ॒श्विना॑ , शू॒र॒ , द॒द॒तुः॒ , म॒घानि॑ ॥
मंद॑मान ऋ॒तादधि॑ प्र॒जायै॒ सखि॑भि॒रिंद्र॑ इषि॒रेभि॒रर्थं॑ । आभि॒र्हि मा॒या उप॒ दस्यु॒मागा॒न्मिहः॒ प्र त॒म्रा अ॑वप॒त्तमां॑सि ॥
मंद॑मानः , ऋ॒तात् , अधि॑ , प्र॒ऽजायै॑ , सखि॑ऽभिः , इंद्रः॑ , इ॒षि॒रेभिः॑ , अर्थं॑ । आ , आ॒भिः॒ , हि , मा॒याः , उप॑ , दस्युं॑ , आ , अगा॑त् , मिहः॑ , प्र , त॒म्राः , अ॒व॒प॒त् , तमां॑सि ॥
सना॑माना चिद्ध्वसयो॒ न्य॑स्मा॒ अवा॑ह॒न्निंद्र॑ उ॒षसो॒ यथानः॑ । ऋ॒ष्वैर॑गच्छः॒ सखि॑भि॒र्निका॑मैः सा॒कं प्र॑ति॒ष्ठा हृद्या॑ जघंथ ॥
सऽना॑माना , चि॒त् , ध्व॒स॒यः॒ , नि , अ॒स्मै॒ , अव॑ , अ॒ह॒न् , इंद्रः॑ , उ॒षसः॑ , यथा॑ , अनः॑ । ऋ॒ष्वैः , अ॒ग॒च्छः॒ , सखि॑ऽभिः , निऽका॑मैः , सा॒कं , प्र॒ति॒ऽस्था , हृद्या॑ , ज॒घं॒थ॒ ॥
त्वं ज॑घंथ॒ नमु॑चिं मख॒स्युं दासं॑ कृण्वा॒न ऋष॑ये॒ विमा॑यं । त्वं च॑कर्थ॒ मन॑वे स्यो॒नान्प॒थो दे॑व॒त्रांज॑सेव॒ याना॑न् ॥
त्वं , ज॒घं॒थ॒ , नमु॑चिं , म॒ख॒स्युं , दासं॑ , कृ॒ण्वा॒नः , ऋष॑ये , विऽमा॑यं । त्वं , च॒क॒र्थ॒ , मन॑वे , स्यो॒नान् , प॒थः , दे॒व॒ऽत्रा , अंज॑साऽइव , याना॑न् ॥
त्वमे॒तानि॑ पप्रिषे॒ वि नामेशा॑न इंद्र दधिषे॒ गभ॑स्तौ । अनु॑ त्वा दे॒वाः शव॑सा मदंत्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ ॥
त्वं , ए॒तानि॑ , प॒प्रि॒षे॒ , वि , नाम॑ , ईशा॑नः , इं॒द्र॒ , द॒धि॒षे॒ , गभ॑स्तौ । अनु॑ , त्वा॒ , दे॒वाः , शव॑सा , म॒दं॒ति॒ , उ॒परि॑ऽबुध्नान् , व॒निनः॑ , च॒क॒र्थ॒ ॥
च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑च्छद्यात् । पृ॒थि॒व्यामति॑षितं॒ यदूधः॒ पयो॒ गोष्वद॑धा॒ ओष॑धीषु ॥
च॒क्रं , यत् , अ॒स्य॒ , अ॒प्ऽसु , आ , निऽस॑त्तं , उ॒तो इति॑ , तत् , अ॒स्मै॒ , मधु॑ , इत् , च॒च्छ॒द्या॒त् । पृ॒थि॒व्यां , अति॑ऽसितं , यत् , ऊधः॑ , पयः॑ , गोषु॑ , अद॑धाः , ओष॑धीषु ॥
अश्वा॑दिया॒येति॒ यद्वदं॒त्योज॑सो जा॒तमु॒त म॑न्य एनं । म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यतः॑ प्रज॒ज्ञ इंद्रो॑ अस्य वेद ॥
अश्वा॑त् , इ॒या॒य॒ , इति॑ , यत् , वदं॑ति , ओज॑सः , जा॒तं , उ॒त , म॒न्ये॒ , ए॒नं॒ । म॒न्योः , इ॒या॒य॒ , ह॒र्म्येषु॑ , त॒स्थौ॒ , यतः॑ , प्र॒ऽज॒ज्ञे , इंद्रः॑ , अ॒स्य॒ , वे॒द॒ ॥
वयः॑ सुप॒र्णा उप॑ सेदु॒रिंद्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑ ध्वां॒तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य१॒॑स्मान्नि॒धये॑व ब॒द्धान् ॥
वयः॑ , सु॒ऽप॒र्णाः , उप॑ , से॒दुः॒ , इंद्रं॑ , प्रि॒यऽमे॑धाः , ऋष॑यः , नाध॑मानाः । अप॑ , ध्वां॒तं , ऊ॒र्णु॒हि , पू॒र्धि , चक्षुः॑ , मु॒मु॒ग्धि , अ॒स्मान् , नि॒धया॑ऽइव , ब॒द्धान् ॥
[७४] वसूनामिति षडृचस्य सूक्तस्य शाक्त्यो गौरिवीतिरिंद्रस्त्रिष्टुप् |
वसू॑नां वा चर्कृष॒ इय॑क्षंधि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः । अर्वं॑तो वा॒ ये र॑यि॒मंतः॑ सा॒तौ व॒नुं वा॒ ये सु॒श्रुणं॑ सु॒श्रुतो॒ धुः ॥
वसू॑नां , वा॒ , च॒र्कृ॒षे॒ , इय॑क्षन् , धि॒या , वा॒ , य॒ज्ञैः , वा॒ , रोद॑स्योः । अर्वं॑तः , वा॒ , ये , र॒यि॒ऽमंतः॑ , सा॒तौ , व॒नुं , वा॒ , ये , सु॒ऽश्रुणं॑ , सु॒ऽश्रुतः॑ , धुरिति॒ धुः ॥
हव॑ एषा॒मसु॑रो नक्षत॒ द्यां श्र॑वस्य॒ता मन॑सा निंसत॒ क्षां । चक्षा॑णा॒ यत्र॑ सुवि॒ताय॑ दे॒वा द्यौर्न वारे॑भिः कृ॒णवं॑त॒ स्वैः ॥
हवः॑ , ए॒षां॒ , असु॑रः , न॒क्ष॒त॒ , द्यां , श्र॒व॒स्य॒ता , मन॑सा , निं॒स॒त॒ , क्षां । चक्षा॑णाः , यत्र॑ , सु॒वि॒ताय॑ , दे॒वाः , द्यौः , न , वारे॑भिः , कृ॒णवं॑त , स्वैः ॥
इ॒यमे॑षाम॒मृता॑नां॒ गीः स॒र्वता॑ता॒ ये कृ॒पणं॑त॒ रत्नं॑ । धियं॑ च य॒ज्ञं च॒ साधं॑त॒स्ते नो॑ धांतु वस॒व्य१॒॑मसा॑मि ॥
इ॒यं , ए॒षां॒ , अ॒मृता॑नां , गीः , स॒र्वऽता॑ता , ये , कृ॒पणं॑त , रत्नं॑ । धियं॑ , च॒ , य॒ज्ञं , च॒ , साधं॑तः , ते , नः॒ , धां॒तु॒ , व॒स॒व्यं॑ , असा॑मि ॥
आ तत्त॑ इंद्रा॒यवः॑ पनंता॒भि य ऊ॒र्वं गोमं॑तं॒ तितृ॑त्सान् । स॒कृ॒त्स्वं१॒॑ ये पु॑रुपु॒त्रां म॒हीं स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ॥
आ , तत् , ते॒ , इं॒द्र॒ , आ॒यवः॑ , प॒नं॒त॒ , अ॒भि , ये , ऊ॒र्वं , गोऽमं॑तं , तितृ॑त्सान् । स॒कृ॒त्ऽस्वं॑ , ये , पु॒रु॒ऽपु॒त्रां , म॒हीं , स॒हस्र॑ऽधारां , बृ॒ह॒तीं , दुधु॑क्षन् ॥
शची॑व॒ इंद्र॒मव॑से कृणुध्व॒मना॑नतं द॒मयं॑तं पृत॒न्यून् । ऋ॒भु॒क्षणं॑ म॒घवा॑नं सुवृ॒क्तिं भर्ता॒ यो वज्रं॒ नर्यं॑ पुरु॒क्षुः ॥
शची॑ऽवः , इंद्रं॑ , अव॑से , कृ॒णु॒ध्वं॒ , अना॑नतं , द॒मयं॑तं , पृ॒त॒न्यून् । ऋ॒भु॒क्षणं॑ , म॒घऽवा॑नं , सु॒ऽवृ॒क्तिं , भर्ता॑ , यः , वज्रं॑ , नर्यं॑ , पु॒रु॒ऽक्षुः ॥
यद्वा॒वान॑ पुरु॒तमं॑ पुरा॒षाळा वृ॑त्र॒हेंद्रो॒ नामा॑न्यप्राः । अचे॑ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी॑मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ॥
यत् , व॒वान॑ , पु॒रु॒ऽतमं॑ , पु॒रा॒षाट् , आ , वृ॒त्र॒ऽहा , इंद्रः॑ , नामा॑नि , अ॒प्राः॒ । अचे॑ति , प्र॒ऽसहः॑ , पतिः॑ , तुवि॑ष्मान् , यत् , ईं॒ , उ॒श्मसि॑ , कर्त॑वे , कर॑त् , तत् ॥
[७५] प्रसुवइति नवर्चस्य सूक्तस्य प्रैयमेधः सिंधुक्षिन्नद्योजगती |
प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः । प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिंधु॒रोज॑सा ॥
प्र , सु , वः॒ , आ॒पः॒ , म॒हि॒मानं॑ , उ॒त्ऽत॒मं , का॒रुः , वो॒चा॒ति॒ , सद॑ने , वि॒वस्व॑तः । प्र , स॒प्तऽस॑प्त , त्रे॒धा , हि , च॒क्र॒मुः , प्र , सृत्व॑रीणां , अति॑ , सिंधुः॑ , ओज॑सा ॥
प्र ते॑ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः सिंधो॒ यद्वाजाँ॑ अ॒भ्यद्र॑व॒स्त्वं । भूम्या॒ अधि॑ प्र॒वता॑ यासि॒ सानु॑ना॒ यदे॑षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑ ॥
प्र , ते॒ , अ॒र॒द॒त् , वरु॑णः , यात॑वे , प॒थः , सिंधो॒ इति॑ , यत् , वाजा॑न् , अ॒भि , अद्र॑वः , त्वं । भूम्याः॑ , अधि॑ , प्र॒ऽवता॑ , या॒सि॒ , सानु॑ना , यत् , ए॒षां॒ , अग्रं॑ , जग॑तां , इ॒र॒ज्यसि॑ ॥
दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑नं॒तं शुष्म॒मुदि॑यर्ति भा॒नुना॑ । अ॒भ्रादि॑व॒ प्र स्त॑नयंति वृ॒ष्टयः॒ सिंधु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ॥
दि॒वि , स्व॒नः , य॒त॒ते॒ , भूम्या॑ , उ॒परि॑ , अ॒नं॒तं , शुष्मं॑ , उत् , इ॒य॒र्ति॒ , भा॒नुना॑ । अ॒भ्रात्ऽइ॑व , प्र , स्त॒न॒यं॒ति॒ , वृ॒ष्टयः॑ , सिंधुः॑ , यत् , एति॑ , वृ॒ष॒भः , न , रोरु॑वत् ॥
अ॒भि त्वा॑ सिंधो॒ शिशु॒मिन्न मा॒तरो॑ वा॒श्रा अ॑र्षंति॒ पय॑सेव धे॒नवः॑ । राजे॑व॒ युध्वा॑ नयसि॒ त्वमित्सिचौ॒ यदा॑सा॒मग्रं॑ प्र॒वता॒मिन॑क्षसि ॥
अ॒भि , त्वा॒ , सिं॒धो॒ इति॑ , शिशुं॑ , इत् , न , मा॒तरः॑ , वा॒श्राः , अ॒र्षं॒ति॒ , पय॑साऽइव , धे॒नवः॑ । राजा॑ऽइव , युध्वा॑ , न॒य॒सि॒ , त्वं , इत् , सिचौ॑ , यत् , आ॒सां॒ , अग्रं॑ , प्र॒ऽवतां॑ , इन॑क्षसि ॥
इ॒मं मे॑ गंगे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या । अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या ॥
इ॒मं , मे॒ , गं॒गे॒ , य॒मु॒ने॒ , स॒र॒स्व॒ति॒ , शुतु॑द्रि , स्तोमं॑ , स॒च॒त॒ , परु॑ष्णि , आ । अ॒सि॒क्न्या , म॒रु॒त्ऽवृ॒धे॒ , वि॒तस्त॑या , आर्जी॑कीये , शृ॒णु॒हि , आ , सु॒ऽसोम॑या ॥
तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सर्त्वा॑ र॒सया॑ श्वे॒त्या त्या । त्वं सिं॑धो॒ कुभ॑या गोम॒तीं क्रुमुं॑ मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से ॥
तृ॒ष्टऽअ॑मया , प्र॒थ॒मं , यात॑वे , स॒ऽजूः , सु॒ऽसर्त्वा॑ , र॒सया॑ , श्वे॒त्या , त्या । त्वं , सिं॒धो॒ इति॑ , कुभ॑या , गो॒ऽम॒तीं , क्रुमुं॑ , मे॒ह॒त्न्वा , स॒ऽरथं॑ , याभिः॑ , ईय॑से ॥
ऋजी॒त्येनी॒ रुश॑ती महि॒त्वा परि॒ ज्रयां॑सि भरते॒ रजां॑सि । अद॑ब्धा॒ सिंधु॑र॒पसा॑म॒पस्त॒माश्वा॒ न चि॒त्रा वपु॑षीव दर्श॒ता ॥
ऋजी॑ती , एनी॑ , रुश॑ती , म॒हि॒ऽत्वा , परि॑ , ज्रयां॑सि , भ॒र॒ते॒ , रजां॑सि । अद॑ब्धा , सिंधुः॑ , अ॒पसां॑ , अ॒पःऽत॑मा , अश्वा॑ , न , चि॒त्रा , वपु॑षीऽइव , द॒र्श॒ता ॥
स्वश्वा॒ सिंधुः॑ सु॒रथा॑ सु॒वासा॑ हिर॒ण्ययी॒ सुकृ॑ता वा॒जिनी॑वती । ऊर्णा॑वती युव॒तिः सी॒लमा॑वत्यु॒ताधि॑ वस्ते सु॒भगा॑ मधु॒वृधं॑ ॥
सु॒ऽअश्वा॑ , सिंधुः॑ , सु॒ऽरथा॑ , सु॒ऽवासाः॑ , हि॒र॒ण्ययी॑ , सुऽकृ॑ता , वा॒जिनी॑ऽवती । ऊर्णा॑ऽवती , यु॒व॒तिः , सी॒लमा॑ऽवती , उ॒त , अधि॑ , व॒स्ते॒ , सु॒ऽभगा॑ , म॒धु॒ऽवृधं॑ ॥
सु॒खं रथं॑ युयुजे॒ सिंधु॑र॒श्विनं॒ तेन॒ वाजं॑ सनिषद॒स्मिन्ना॒जौ । म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यतेऽद॑ब्धस्य॒ स्वय॑शसो विर॒प्शिनः॑ ॥
सु॒ऽखं , रथं॑ , यु॒यु॒जे॒ , सिंधुः॑ , अ॒श्विनं॑ , तेन॑ , वाजं॑ , स॒नि॒ष॒त् , अ॒स्मिन् , आ॒जौ । म॒हान् , हि , अ॒स्य॒ , म॒हि॒मा , प॒न॒स्यते॑ , अद॑ब्धस्य , स्वऽय॑शसः , वि॒ऽर॒प्शिनः॑ ॥
[७६] आवऋंजसइत्यष्टर्चस्य सूक्तस्यैरावतो जरत्कर्णः सर्पोग्रावाणोजगती |
आ व॑ ऋंजस ऊ॒र्जां व्यु॑ष्टि॒ष्विंद्रं॑ म॒रुतो॒ रोद॑सी अनक्तन । उ॒भे यथा॑ नो॒ अह॑नी सचा॒भुवा॒ सदः॑सदो वरिव॒स्यात॑ उ॒द्भिदा॑ ॥
आ , वः॒ , ऋं॒ज॒से॒ , ऊ॒र्जां , विऽउ॑ष्टिषु , इंद्रं॑ , म॒रुतः॑ , रोद॑सी॒ इति॑ , अ॒न॒क्त॒न॒ । उ॒भे इति॑ , यथा॑ , नः॒ , अह॑नी॒ इति॑ , स॒चा॒ऽभुवा॑ , सदः॑ऽसदः , व॒रि॒व॒स्यातः॑ , उ॒त्ऽभिदा॑ ॥
तदु॒ श्रेष्ठं॒ सव॑नं सुनोत॒नात्यो॒ न हस्त॑यतो॒ अद्रिः॑ सो॒तरि॑ । वि॒दद्ध्य१॒॑र्यो अ॒भिभू॑ति॒ पौंस्यं॑ म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ॥
तत् , ऊँ॒ इति॑ , श्रेष्ठं॑ , सव॑नं , सु॒नो॒त॒न॒ , अत्यः॑ , न , हस्त॑ऽयतः , अद्रिः॑ , सो॒तरि॑ । वि॒दत् , हि , अ॒र्यः , अ॒भिऽभू॑ति , पौंस्यं॑ , म॒हः , रा॒ये , चि॒त् , त॒रु॒ते॒ , यत् , अर्व॑तः ॥
तदिद्ध्य॑स्य॒ सव॑नं वि॒वेर॒पो यथा॑ पु॒रा मन॑वे गा॒तुमश्रे॑त् । गोअ॑र्णसि त्वा॒ष्ट्रे अश्व॑निर्णिजि॒ प्रेम॑ध्व॒रेष्व॑ध्व॒राँ अ॑शिश्रयुः ॥
तत् , इत् , हि , अ॒स्य॒ , सव॑नं , वि॒वेः , अ॒पः , यथा॑ , पु॒रा , मन॑वे , गा॒तुं , अश्रे॑त् । गोऽअ॑र्णसि , त्वा॒ष्ट्रे , अश्व॑ऽनिर्निजि , प्र , ईं॒ , अ॒ध्व॒रेषु॑ , अ॒ध्व॒रान् , अ॒शि॒श्र॒युः॒ ॥
अप॑ हत र॒क्षसो॑ भंगु॒राव॑तः स्कभा॒यत॒ निर्ऋ॑तिं॒ सेध॒ताम॑तिं । आ नो॑ र॒यिं सर्व॑वीरं सुनोतन देवा॒व्यं॑ भरत॒ श्लोक॑मद्रयः ॥
अप॑ , ह॒त॒ , र॒क्षसः॑ , भं॒गु॒रऽव॑तः , स्क॒भा॒यत॑ , निःऽऋ॑तिं , सेध॑त , अम॑तिं । आ , नः॒ , र॒यिं , सर्व॑ऽवीरं , सु॒नो॒त॒न॒ , दे॒व॒ऽअ॒व्यं॑ , भ॒र॒त॒ , श्लोकं॑ , अ॒द्र॒यः॒ ॥
दि॒वश्चि॒दा वोऽम॑वत्तरेभ्यो वि॒भ्वना॑ चिदा॒श्व॑पस्तरेभ्यः । वा॒योश्चि॒दा सोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्च पितु॒कृत्त॑रेभ्यः ॥
दि॒वः , चि॒त् , आ , वः॒ , अम॑वत्ऽतरेभ्यः , वि॒ऽभ्वना॑ , चि॒त् , आ॒श्व॑पःऽतरेभ्यः । वा॒योः , चि॒त् , आ , सोम॑रभःऽतरेभ्यः , अ॒ग्नेः , चि॒त् , अ॒र्च॒ , पि॒तु॒कृत्ऽत॑रेभ्यः ॥
भु॒रंतु॑ नो य॒शसः॒ सोत्वंध॑सो॒ ग्रावा॑णो वा॒चा दि॒विता॑ दि॒वित्म॑ता । नरो॒ यत्र॑ दुह॒ते काम्यं॒ मध्वा॑घो॒षयं॑तो अ॒भितो॑ मिथ॒स्तुरः॑ ॥
भु॒रंतु॑ , नः॒ , य॒शसः॑ , सोतु॑ , अंध॑सः , ग्रावा॑णः , वा॒चा , दि॒विता॑ , दि॒वित्म॑ता । नरः॑ , यत्र॑ , दु॒ह॒ते , काम्यं॑ , मधु॑ , आ॒ऽघो॒षयं॑तः , अ॒भितः॑ , मि॒थः॒ऽतुरः॑ ॥
सु॒न्वंति॒ सोमं॑ रथि॒रासो॒ अद्र॑यो॒ निर॑स्य॒ रसं॑ ग॒विषो॑ दुहंति॒ ते । दु॒हंत्यूध॑रुप॒सेच॑नाय॒ कं नरो॑ ह॒व्या न म॑र्जयंत आ॒सभिः॑ ॥
सु॒न्वंति॑ , सोमं॑ , र॒थि॒रासः॑ , अद्र॑यः , निः , अ॒स्य॒ , रसं॑ , गो॒ऽइषः॑ , दु॒हं॒ति॒ , ते । दु॒हंति॑ , ऊधः॑ , उ॒प॒ऽसेच॑नाय , कं , नरः॑ , ह॒व्या , न , म॒र्ज॒यं॒ते॒ , आ॒सऽभिः॑ ॥
ए॒ते न॑रः॒ स्वप॑सो अभूतन॒ य इंद्रा॑य सुनु॒थ सोम॑मद्रयः । वा॒मंवा॑मं वो दि॒व्याय॒ धाम्ने॒ वसु॑वसु वः॒ पार्थि॑वाय सुन्व॒ते ॥
ए॒ते , न॒रः॒ , सु॒ऽअप॑सः , अ॒भू॒त॒न॒ , ये , इंद्रा॑य , सु॒नु॒थ , सोमं॑ , अ॒द्र॒यः॒ । वा॒मंऽवा॑मं , वः॒ , दि॒व्याय॑ , धाम्ने॑ , वसु॑ऽवसु , वः॒ , पार्थि॑वाय , सु॒न्व॒ते ॥
[७७] अभ्रप्रुषइत्यष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिर्मरुतस्त्रिष्टुप् पंचमी जगती |
अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्मं॑तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ । सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे॑ ग॒णम॑स्तोष्येषां॒ न शो॒भसे॑ ॥
अ॒भ्र॒ऽप्रुषः॑ , न , वा॒चा , प्रु॒ष॒ , वसु॑ , ह॒विष्मं॑तः , न , य॒ज्ञाः , वि॒ऽजा॒नुषः॑ । सु॒ऽमारु॑तं , न , ब्र॒ह्माणं॑ , अ॒र्हसे॑ , ग॒णं , अ॒स्तो॒षि॒ , ए॒षां॒ , न , शो॒भसे॑ ॥
श्रि॒ये मर्या॑सो अं॒जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ । दि॒वस्पु॒त्रास॒ एता॒ न ये॑तिर आदि॒त्यास॒स्ते अ॒क्रा न वा॑वृधुः ॥
श्रि॒ये , मर्या॑सः , अं॒जीन् , अ॒कृ॒ण्व॒त॒ , सु॒ऽमारु॑तं , न , पू॒र्वीः , अति॑ , क्षपः॑ । दि॒वः , पु॒त्रासः॑ , एताः॑ , न , ये॒ति॒रे॒ , आ॒दि॒त्यासः॑ , ते , अ॒क्राः , न , व॒वृ॒धुः॒ ॥
प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना॑ रिरि॒च्रे अ॒भ्रान्न सूर्यः॑ । पाज॑स्वंतो॒ न वी॒राः प॑न॒स्यवो॑ रि॒शाद॑सो॒ न मर्या॑ अ॒भिद्य॑वः ॥
प्र , ये , दि॒वः , पृ॒थि॒व्याः , न , ब॒र्हणा॑ , त्मना॑ , रि॒रि॒च्रे , अ॒भ्रात् , न , सूर्यः॑ । पाज॑स्वंतः , न , वी॒राः , प॒न॒स्यवः॑ , रि॒शाद॑सः , न , मर्याः॑ , अ॒भिऽद्य॑वः ॥
यु॒ष्माकं॑ बु॒ध्ने अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ । वि॒श्वप्सु॑र्य॒ज्ञो अ॒र्वाग॒यं सु वः॒ प्रय॑स्वंतो॒ न स॒त्राच॒ आ ग॑त ॥
यु॒ष्माकं॑ , बु॒ध्ने , अ॒पां , न , याम॑नि , वि॒थु॒र्यति॑ , न , म॒ही , श्र॒थ॒र्यति॑ । वि॒श्वऽप्सुः॑ , य॒ज्ञः , अ॒र्वाक् , अ॒यं , सु , वः॒ , प्रय॑स्वंतः , न , स॒त्राचः॑ , आ , ग॒त॒ ॥
यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मंतो॒ न भा॒सा व्यु॑ष्टिषु । श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुषः॑ ॥
यू॒यं , धूः॒ऽसु , प्र॒ऽयुजः॑ , न , र॒श्मिऽभिः॑ , ज्योति॑ष्मंतः , न , भा॒सा , विऽउ॑ष्टिषु । श्ये॒नासः॑ , न , स्वऽय॑शसः , रि॒शाद॑सः , प्र॒वासः॑ , न , प्रऽसि॑तासः , प॒रि॒ऽप्रुषः॑ ॥
प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्वः॑ । वि॒दा॒नासो॑ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योत ॥
प्र , यत् , वह॑ध्वे , म॒रु॒तः॒ , प॒रा॒कात् , यू॒यं , म॒हः , सं॒ऽवर॑णस्य , वस्वः॑ । वि॒दा॒नासः॑ , व॒स॒वः॒ , राध्य॑स्य , आ॒रात् , चि॒त् , द्वेषः॑ , स॒नु॒तः , यु॒यो॒त॒ ॥
य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् । रे॒वत्स वयो॑ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ॥
यः , उ॒त्ऽऋचि॑ , य॒ज्ञे , अ॒ध्व॒रे॒ऽस्थाः , म॒रुत्ऽभ्यः॑ , न , मानु॑षः , ददा॑शत् । रे॒वत् , सः , वयः॑ , द॒ध॒ते॒ , सु॒ऽवीरं॑ , सः , दे॒वानां॑ , अपि॑ , गो॒ऽपी॒थे , अ॒स्तु॒ ॥
ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ आदि॒त्येन॒ नाम्ना॒ शंभ॑विष्ठाः । ते नो॑ऽवंतु रथ॒तूर्म॑नी॒षां म॒हश्च॒ याम॑न्नध्व॒रे च॑का॒नाः ॥
ते , हि , य॒ज्ञेषु॑ , य॒ज्ञिया॑सः , ऊमाः॑ , आ॒दि॒त्येन॑ , नाम्ना॑ , शंऽभ॑विष्ठाः । ते , नः॒ , अ॒वं॒तु॒ , र॒थ॒ऽतूः , म॒नी॒षां , म॒हः , च॒ , याम॑न् , अ॒ध्व॒रे , च॒का॒नाः ॥
[७८] विप्रासइत्यष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिर्मरुतस्त्रिष्टुप् द्वितीयापंचम्याद्याश्चतस्रश्चजगत्यः |
विप्रा॑सो॒ न मन्म॑भिः स्वा॒ध्यो॑ देवा॒व्यो॒३॒॑ न य॒ज्ञैः स्वप्न॑सः । राजा॑नो॒ न चि॒त्राः सु॑सं॒दृशः॑ क्षिती॒नां न मर्या॑ अरे॒पसः॑ ॥
विप्रा॑सः , न , मन्म॑ऽभिः , सु॒ऽआ॒ध्यः॑ , दे॒व॒ऽअ॒व्यः॑ , न , य॒ज्ञैः , सु॒ऽअप्न॑सः । राजा॑नः , न , चि॒त्राः , सु॒ऽसं॒दृशः॑ , क्षि॒ती॒नां , न , मर्याः॑ , अ॒रे॒पसः॑ ॥
अ॒ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसो॒ वाता॑सो॒ न स्व॒युजः॑ स॒द्यऊ॑तयः । प्र॒ज्ञा॒तारो॒ न ज्येष्ठाः॑ सुनी॒तयः॑ सु॒शर्मा॑णो॒ न सोमा॑ ऋ॒तं य॒ते ॥
अ॒ग्निः , न , ये , भ्राज॑सा , रु॒क्मऽव॑क्षसः , वाता॑सः , न , स्व॒ऽयुजः॑ , स॒द्यःऽऊ॑तयः । प्र॒ऽज्ञा॒तारः॑ , न , ज्येष्ठाः॑ , सु॒ऽनी॒तयः॑ , सु॒ऽशर्मा॑णः , न , सोमाः॑ , ऋ॒तं , य॒ते ॥
वाता॑सो॒ न ये धुन॑यो जिग॒त्नवो॑ऽग्नी॒नां न जि॒ह्वा वि॑रो॒किणः॑ । वर्म॑ण्वंतो॒ न यो॒धाः शिमी॑वंतः पितॄ॒णां न शंसाः॑ सुरा॒तयः॑ ॥
वाता॑सः , न , ये , धुन॑यः , जि॒ग॒त्नवः॑ , अ॒ग्नी॒नां , न , जि॒ह्वाः , वि॒ऽरो॒किणः॑ । वर्म॑ण्ऽवंतः , न , यो॒धाः , शिमी॑ऽवंतः , पि॒तॄ॒णां , न , शंसाः॑ , सु॒ऽरा॒तयः॑ ॥
रथा॑नां॒ न ये१॒॑ऽराः सना॑भयो जिगी॒वांसो॒ न शूरा॑ अ॒भिद्य॑वः । व॒रे॒यवो॒ न मर्या॑ घृत॒प्रुषो॑ऽभिस्व॒र्तारो॑ अ॒र्कं न सु॒ष्टुभः॑ ॥
रथा॑नां , न , ये , अ॒राः , सऽना॑भयः , जि॒गी॒वांसः॑ , न , शूराः॑ , अ॒भिऽद्य॑वः । व॒रे॒ऽयवः॑ , न , मर्याः॑ , घृ॒त॒ऽप्रुषः॑ , अ॒भि॒ऽस्व॒र्तारः॑ , अ॒र्कं , न , सु॒ऽस्तुभः॑ ॥
अश्वा॑सो॒ न ये ज्येष्ठा॑स आ॒शवो॑ दिधि॒षवो॒ न र॒थ्यः॑ सु॒दान॑वः । आपो॒ न नि॒म्नैरु॒दभि॑र्जिग॒त्नवो॑ वि॒श्वरू॑पा॒ अंगि॑रसो॒ न साम॑भिः ॥
अश्वा॑सः , न , ये , ज्येष्ठा॑सः , आ॒शवः॑ , दि॒धि॒षवः॑ , न , र॒थ्यः॑ , सु॒ऽदान॑वः । आपः॑ , न , नि॒म्नैः , उ॒दऽभिः॑ , जि॒ग॒त्नवः॑ , वि॒श्वऽरू॑पाः , अंगि॑रसः , न , साम॑ऽभिः ॥
ग्रावा॑णो॒ न सू॒रयः॒ सिंधु॑मातर आदर्दि॒रासो॒ अद्र॑यो॒ न वि॒श्वहा॑ । शि॒शूला॒ न क्री॒ळयः॑ सुमा॒तरो॑ महाग्रा॒मो न याम॑न्नु॒त त्वि॒षा ॥
ग्रावा॑णः , न , सू॒रयः॑ , सिंधु॑ऽमातरः , आ॒ऽद॒र्दि॒रासः॑ , अद्र॑यः , न , वि॒श्वहा॑ । शि॒शूलाः॑ , न , क्री॒ळयः॑ , सु॒ऽमा॒तरः॑ , म॒हा॒ऽग्रा॒मः , न , याम॑न् , उ॒त , त्वि॒षा ॥
उ॒षसां॒ न के॒तवो॑ऽध्वर॒श्रियः॑ शुभं॒यवो॒ नांजिभि॒र्व्य॑श्वितन् । सिंध॑वो॒ न य॒यियो॒ भ्राज॑दृष्टयः परा॒वतो॒ न योज॑नानि ममिरे ॥
उ॒षसां॑ , न , के॒तवः॑ , अ॒ध्व॒र॒ऽश्रियः॑ , शु॒भं॒ऽयवः॑ , न , अं॒जिऽभिः॑ , वि , अ॒श्वि॒त॒न् । सिंध॑वः , न , य॒यियः॑ , भ्राज॑त्ऽऋष्टयः , प॒रा॒ऽवतः॑ , न , योज॑नानि , म॒मि॒रे॒ ॥
सु॒भा॒गान्नो॑ देवाः कृणुता सु॒रत्ना॑न॒स्मांत्स्तो॒तॄन्म॑रुतो वावृधा॒नाः । अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात स॒नाद्धि वो॑ रत्न॒धेया॑नि॒ संति॑ ॥
सु॒ऽभा॒गान् , नः॒ , दे॒वाः॒ , कृ॒णु॒त॒ , सु॒ऽरत्ना॑न् , अ॒स्मान् , स्तो॒तॄन् , म॒रु॒तः॒ , व॒वृ॒धा॒नाः । अधि॑ , स्तो॒त्रस्य॑ , स॒ख्यस्य॑ , गा॒त॒ , स॒नात् , हि , वः॒ , र॒त्न॒ऽधेया॑नि , संति॑ ॥
[७९] अपश्यमिति सप्तर्चस्य सूक्तस्य सौचीकोग्निरग्नित्रिष्टुप् (वैश्वानरोग्निर्वाजंभरः सप्तिरितीमावृषीपाक्षिकौ) |
अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या॑सु वि॒क्षु । नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒ असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ॥
अप॑श्यं , अ॒स्य॒ , म॒ह॒तः , म॒हि॒ऽत्वं , अम॑र्त्यस्य , मर्त्या॑सु , वि॒क्षु । नाना॑ , हनू॒ इति॑ , विभृ॑ते॒ इति॒ विऽभृ॑ते , सं , भ॒रे॒ते॒ इति॑ , असि॑न्वती॒ इति॑ , बप्स॑ती॒ इति॑ , भूरि॑ , अ॒त्तः॒ ॥
गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी असि॑न्वन्नत्ति जि॒ह्वया॒ वना॑नि । अत्रा॑ण्यस्मै प॒ड्भिः सं भ॑रंत्युत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ॥
गुहा॑ , शिरः॑ , निऽहि॑तं , ऋध॑क् , अ॒क्षी इति॑ , असि॑न्वन् , अ॒त्ति॒ , जि॒ह्वया॑ , वना॑नि । अत्रा॑णि , अ॒स्मै॒ , प॒ट्ऽभिः , सं , भ॒रं॒ति॒ , उ॒त्ता॒नऽह॑स्ताः , नम॑सा , अधि॑ , वि॒क्षु ॥
प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒च्छन्कु॑मा॒रो न वी॒रुधः॑ सर्पदु॒र्वीः । स॒सं न प॒क्वम॑विदच्छु॒चंतं॑ रिरि॒ह्वांसं॑ रि॒प उ॒पस्थे॑ अं॒तः ॥
प्र , मा॒तुः , प्र॒ऽत॒रं , गुह्यं॑ , इ॒च्छन् , कु॒मा॒रः , न , वी॒रुधः॑ , स॒र्प॒त् , उ॒र्वीः । स॒सं , न , प॒क्वं , अ॒वि॒द॒त् , शु॒चंतं॑ , रि॒रि॒ह्वांसं॑ , रि॒पः , उ॒पऽस्थे॑ , अं॒तरिति॑ ॥
तद्वा॑मृ॒तं रो॑दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो॑ अत्ति । नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निरं॒ग विचे॑ताः॒ स प्रचे॑ताः ॥
तत् , वां॒ , ऋ॒तं , रो॒द॒सी॒ इति॑ , प्र , ब्र॒वी॒मि॒ , जाय॑मानः , मा॒तरा॑ , गर्भः॑ , अ॒त्ति॒ । न , अ॒हं , दे॒वस्य॑ , मर्त्यः॑ , चि॒के॒त॒ , अ॒ग्निः , अं॒ग , विऽचे॑ताः , सः , प्रऽचे॑ताः ॥
यो अ॑स्मा॒ अन्नं॑ तृ॒ष्वा॒३॒॑दधा॒त्याज्यै॑र्घृ॒तैर्जु॒होति॒ पुष्य॑ति । तस्मै॑ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षेऽग्ने॑ वि॒श्वतः॑ प्र॒त्यङ्ङ॑सि॒ त्वं ॥
यः , अ॒स्मै॒ , अन्नं॑ , तृ॒षु , आ॒ऽदधा॑ति , आज्यैः॑ , घृ॒तैः , जु॒होति॑ , पुष्य॑ति । तस्मै॑ , स॒हस्रं॑ , अ॒क्षऽभिः॑ , वि , च॒क्षे॒ , अग्ने॑ , वि॒श्वतः॑ , प्र॒त्यङ् , अ॒सि॒ , त्वं ॥
किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्थाग्ने॑ पृ॒च्छामि॒ नु त्वामवि॑द्वान् । अक्री॑ळ॒न्क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्वि प॑र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ॥
किं , दे॒वेषु॑ , त्यजः॑ , एनः॑ , च॒क॒र्थ॒ , अग्ने॑ , पृ॒च्छामि॑ , नु , त्वां , अवि॑द्वान् । अक्री॑ळन् , क्रीळ॑न् , हरिः॑ , अत्त॑वे , अ॒दन् , वि , प॒र्व॒ऽशः , च॒क॒र्त॒ , गांऽइ॑व , अ॒सिः ॥
विषू॑चो॒ अश्वा॑न्युयुजे वने॒जा ऋजी॑तिभी रश॒नाभि॑र्गृभी॒तान् । च॒क्ष॒दे मि॒त्रो वसु॑भिः॒ सुजा॑तः॒ समा॑नृधे॒ पर्व॑भिर्वावृधा॒नः ॥
विषू॑चः , अश्वा॑न् , यु॒यु॒जे॒ , व॒ने॒ऽजाः , ऋजी॑तिऽभिः , र॒श॒नाभिः॑ , गृ॒भी॒तान् । च॒क्ष॒दे , मि॒त्रः , वसु॑ऽभिः , सुऽजा॑तः , सं , आ॒नृ॒धे॒ , पर्व॑ऽभिः , व॒वृ॒धा॒नः ॥
[८०] अग्निःसप्तिमिति सप्तर्चस्य सूक्तस्य सौचीकोग्निरग्नित्रिष्टुप् (वैश्वानरोग्निर्वाजंभरः सप्तिरितीमावृषीपाक्षिकौ) |
अ॒ग्निः सप्तिं॑ वाजंभ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं॑ कर्मनिः॒ष्ठां । अ॒ग्नी रोद॑सी॒ वि च॑रत्समं॒जन्न॒ग्निर्नारीं॑ वी॒रकु॑क्षिं॒ पुरं॑धिं ॥
अ॒ग्निः , सप्तिं॑ , वा॒जं॒ऽभ॒रं , द॒दा॒ति॒ , अ॒ग्निः , वी॒रं , श्रुत्यं॑ , क॒र्म॒निः॒ऽस्थां । अ॒ग्निः , रोद॑सी॒ इति॑ , वि , च॒र॒त् , सं॒ऽअं॒जन् , अ॒ग्निः , नारीं॑ , वी॒रऽकु॑क्षिं , पुरं॑ऽधिं ॥
अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राग्निर्म॒ही रोद॑सी॒ आ वि॑वेश । अ॒ग्निरेकं॑ चोदयत्स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ॥
अ॒ग्नेः , अप्न॑सः , सं॒ऽइत् , अ॒स्तु॒ , भ॒द्रा , अ॒ग्निः , म॒ही इति॑ , रोद॑सी॒ इति॑ , आ , वि॒वे॒श॒ । अ॒ग्निः , एकं॑ , चो॒द॒य॒त् , स॒मत्ऽसु॑ , अ॒ग्निः , वृ॒त्राणि॑ , द॒य॒ते॒ , पु॒रूणि॑ ॥
अ॒ग्निर्ह॒ त्यं जर॑तः॒ कर्ण॑मावा॒ग्निर॒द्भ्यो निर॑दह॒ज्जरू॑थं । अ॒ग्निरत्रिं॑ घ॒र्म उ॑रुष्यदं॒तर॒ग्निर्नृ॒मेधं॑ प्र॒जया॑सृज॒त्सं ॥
अ॒ग्निः , ह॒ , त्यं , जर॑तः , कर्णं॑ , आ॒व॒ , अ॒ग्निः , अ॒त्ऽभ्यः , निः , अ॒द॒ह॒त् , जरू॑थं । अ॒ग्निः , अत्रिं॑ , घ॒र्मे , उ॒रु॒ष्य॒त् , अं॒तः , अ॒ग्निः , नृ॒ऽमेधं॑ , प्र॒ऽजया॑ , अ॒सृ॒ज॒त् , सं ॥
अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे॑शा अ॒ग्निर्ऋषिं॒ यः स॒हस्रा॑ स॒नोति॑ । अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ॥
अ॒ग्निः , दा॒त् , द्रवि॑णं , वी॒रऽपे॑शाः , अ॒ग्निः , ऋषिं॑ , यः , स॒हस्रा॑ , स॒नोति॑ । अ॒ग्निः , दि॒वि , ह॒व्यं , आ , त॒ता॒न॒ , अ॒ग्नेः , धामा॑नि , विऽभृ॑ता , पु॒रु॒ऽत्रा ॥
अ॒ग्निमु॒क्थैर्ऋष॑यो॒ वि ह्व॑यंते॒ऽग्निं नरो॒ याम॑नि बाधि॒तासः॑ । अ॒ग्निं वयो॑ अं॒तरि॑क्षे॒ पतं॑तो॒ऽग्निः स॒हस्रा॒ परि॑ याति॒ गोनां॑ ॥
अ॒ग्निं , उ॒क्थैः , ऋष॑यः , वि , ह्व॒यं॒ते॒ , अ॒ग्निं , नरः॑ , याम॑नि , बा॒धि॒तासः॑ । अ॒ग्निं , वयः॑ , अं॒तरि॑क्षे , पतं॑तः , अ॒ग्निः , स॒हस्रा॑ , परि॑ , या॒ति॒ , गोनां॑ ॥
अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः । अ॒ग्निर्गांध॑र्वीं प॒थ्या॑मृ॒तस्या॒ग्नेर्गव्यू॑तिर्घृ॒त आ निष॑त्ता ॥
अ॒ग्निं , विशः॑ , ई॒ळ॒ते॒ , मानु॑षीः , याः , अ॒ग्निं , मनु॑षः , नहु॑षः , वि , जा॒ताः । अ॒ग्निः , गांध॑र्वीं , प॒थ्यां॑ , ऋ॒तस्य॑ , अ॒ग्नेः , गव्यू॑तिः , घृ॒ते , आ , निऽस॑त्ता ॥
अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर॒ग्निं म॒हाम॑वोचामा सुवृ॒क्तिं । अग्ने॒ प्राव॑ जरि॒तारं॑ यवि॒ष्ठाग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥
अ॒ग्नये॑ , ब्रह्म॑ , ऋ॒भवः॑ , त॒त॒क्षुः॒ , अ॒ग्निं , म॒हां , अ॒वो॒चा॒म॒ , सु॒ऽवृ॒क्तिं । अग्ने॑ , प्र , अ॒व॒ , ज॒रि॒तारं॑ , य॒वि॒ष्ठ॒ , अग्ने॑ , महि॑ , द्रवि॑णं , आ , य॒ज॒स्व॒ ॥
[८१] यइमाविश्वेति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप् द्वितीयाविराड्रूपा |
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता नः॑ । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒ आ वि॑वेश ॥
यः , इ॒मा , विश्वा॑ , भुव॑नानि , जुह्व॑त् , ऋषिः॑ , होता॑ , नि , असी॑दत् , पि॒ता , नः॒ । सः , आ॒ऽशिषा॑ , द्रवि॑णं , इ॒च्छमा॑नः , प्र॒थ॒म॒ऽछत् , अव॑रान् , आ , वि॒वे॒श॒ ॥
किं स्वि॑दासीदधि॒ष्ठान॑मा॒रंभ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् । यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥
किं , स्वि॒त् , आ॒सी॒त् , अ॒धि॒ऽस्थानं॑ , आ॒ऽरंभ॑णं , क॒त॒मत् , स्वि॒त् , क॒था , आ॒सी॒त् । यतः॑ , भूमिं॑ , ज॒नय॑न् , वि॒श्वऽक॑र्मा , वि , द्यां , और्णो॑त् , म॒हि॒ना , वि॒श्वऽच॑क्षाः ॥
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नयं॑दे॒व एकः॑ ॥
वि॒श्वतः॑ऽचक्षुः , उ॒त , वि॒श्वतः॑ऽमुखः , वि॒श्वतः॑ऽबाहुः , उ॒त , वि॒श्वतः॑ऽपात् । सं , बा॒हुऽभ्यां॑ , धम॑ति , सं , पत॑त्रैः , द्यावा॒भूमी॒ इति॑ , ज॒नय॑न् , दे॒वः , एकः॑ ॥
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥
किं , स्वि॒त् , वनं॑ , कः , ऊँ॒ इति॑ , सः , वृ॒क्षः , आ॒स॒ , यतः॑ , द्यावा॑पृथि॒वी इति॑ , निः॒ऽत॒त॒क्षुः । मनी॑षिणः , मन॑सा , पृ॒च्छत॑ , इत् , ऊँ॒ इति॑ , तत् , यत् , अ॒धि॒ऽअति॑ष्ठत् , भुव॑नानि , धा॒रय॑न् ॥
या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः ॥
या , ते॒ , धामा॑नि , प॒र॒माणि॑ , या , अ॒व॒मा , या , म॒ध्य॒मा , वि॒श्व॒ऽक॒र्म॒न् , उ॒त , इ॒मा । शिक्ष॑ , सखि॑ऽभ्यः , ह॒विषि॑ , स्व॒धा॒ऽवः॒ , स्व॒यं , य॒ज॒स्व॒ , त॒न्वं॑ , वृ॒धा॒नः ॥
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्यां । मुह्यं॑त्व॒न्ये अ॒भितो॒ जना॑स इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥
विश्व॑ऽकर्मन् , ह॒विषा॑ , व॒वृ॒धा॒नः , स्व॒यं , य॒ज॒स्व॒ , पृ॒थि॒वीं , उ॒त , द्यां । मुह्यं॑तु , अ॒न्ये , अ॒भितः॑ , जना॑सः , इ॒ह , अ॒स्माकं॑ , म॒घऽवा॑ , सू॒रिः , अ॒स्तु॒ ॥
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वशं॑भू॒रव॑से सा॒धुक॑र्मा ॥
वा॒चः , पतिं॑ , वि॒श्वऽक॑र्माणं , ऊ॒तये॑ , म॒नः॒ऽजुवं॑ , वाजे॑ , अ॒द्य , हु॒वे॒म॒ । सः , नः॒ , विश्वा॑नि , हव॑नानि , जो॒ष॒त् , वि॒श्वऽशं॑भूः , अव॑से , सा॒धुऽक॑र्मा ॥
[८२] चक्षुषइति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप् |
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने । य॒देदंता॒ अद॑दृहंत॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेतां ॥
चक्षु॑षः , पि॒ता , मन॑सा , हि , धीरः॑ , घृ॒तं , ए॒ने॒ इति॑ , अ॒ज॒न॒त् , नम्न॑माने॒ इति॑ । य॒दा , इत् , अंताः॑ , अद॑दृहंत , पूर्वे॑ , आत् , इत् , द्यावा॑पृथि॒वी इति॑ , अ॒प्र॒थे॒तां॒ ॥
वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दंति॒ यत्रा॑ सप्तऋ॒षीन्प॒र एक॑मा॒हुः ॥
वि॒श्वऽक॑र्मा , विऽम॑नाः , आत् , विऽहा॑याः , धा॒ता , वि॒ऽधा॒ता , प॒र॒मा , उ॒त , सं॒ऽदृक् । तेषां॑ , इ॒ष्टानि॑ , सं , इ॒षा , म॒दं॒ति॒ , यत्र॑ , स॒प्त॒ऽऋ॒षीन् , प॒रः , एकं॑ , आ॒हुः ॥
यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ । यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तं सं॑प्र॒श्नं भुव॑ना यंत्य॒न्या ॥
यः , नः॒ , पि॒ता , ज॒नि॒ता , यः , वि॒ऽधा॒ता , धामा॑नि , वेद॑ , भुव॑नानि , विश्वा॑ । यः , दे॒वानां॑ , ना॒म॒ऽधाः , एकः॑ , ए॒व , तं , सं॒ऽप्र॒श्नं , भुव॑ना , यं॒ति॒ , अ॒न्या ॥
त आय॑जंत॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥
ते , आ , अ॒य॒जं॒त॒ , द्रवि॑णं , सं , अ॒स्मै॒ , ऋष॑यः , पूर्वे॑ , ज॒रि॒तारः॑ , न , भू॒ना । अ॒सूर्ते॑ , सूर्ते॑ , रज॑सि , नि॒ऽस॒त्ते , ये , भू॒तानि॑ , सं॒ऽअकृ॑ण्वन् , इ॒मानि॑ ॥
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ । कं स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यंत॒ विश्वे॑ ॥
प॒रः , दि॒वा , प॒रः , ए॒ना , पृ॒थि॒व्या , प॒रः , दे॒वेभिः॑ , असु॑रैः , यत् , अस्ति॑ । कं , स्वि॒त् , गर्भं॑ , प्र॒थ॒मं , द॒ध्रे॒ , आपः॑ , यत्र॑ , दे॒वाः , सं॒ऽअप॑श्यंत , विश्वे॑ ॥
तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छंत॒ विश्वे॑ । अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुः ॥
तं , इत् , गर्भं॑ , प्र॒थ॒मं , द॒ध्रे॒ , आपः॑ , यत्र॑ , दे॒वाः , सं॒ऽअग॑च्छंत , विश्वे॑ । अ॒जस्य॑ , नाभौ॑ , अधि॑ , एकं॑ , अर्पि॑तं , यस्मि॑न् , विश्वा॑नि , भुव॑नानि , त॒स्थुः ॥
न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मंत॑रं बभूव । नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरंति ॥
न , तं , वि॒दा॒थ॒ , यः , इ॒मा , ज॒जान॑ , अ॒न्यत् , यु॒ष्माकं॑ , अंत॑रं , ब॒भू॒व॒ । नी॒हा॒रेण॑ , प्रावृ॑ताः , जल्प्या॑ , च॒ , अ॒सु॒ऽतृपः॑ , उ॒क्थ॒ऽशसः॑ , च॒रं॒ति॒ ॥
[८३] यस्तेमन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युस्त्रिष्टुबाद्याजगती |
यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥
यः , ते॒ , म॒न्यो॒ इति॑ , अवि॑धत् , व॒ज्र॒ , सा॒य॒क॒ , सहः॑ , ओजः॑ , पु॒ष्य॒ति॒ , विश्वं॑ , आ॒नु॒षक् । स॒ह्याम॑ , दासं॑ , आर्यं॑ , त्वया॑ , यु॒जा , सहः॑ऽकृतेन , सह॑सा , सह॑स्वता ॥
म॒न्युरिंद्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः । म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषाः॑ ॥
म॒न्युः , इंद्रः॑ , म॒न्युः , ए॒व , आ॒स॒ , दे॒वः , म॒न्युः , होता॑ , वरु॑णः , जा॒तऽवे॑दाः । म॒न्युं , विशः॑ , ई॒ळ॒ते॒ , मानु॑षीः , याः , पा॒हि , नः॒ , म॒न्यो॒ इति॑ , तप॑सा , स॒ऽजोषाः॑ ॥
अ॒भी॑हि मन्यो त॒वस॒स्तवी॑यां॒तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् । अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥
अ॒भि , इ॒हि॒ , म॒न्यो॒ इति॑ , त॒वसः॑ , तवी॑यान् , तप॑सा , यु॒जा , वि , ज॒हि॒ , शत्रू॑न् । अ॒मि॒त्र॒ऽहा , वृ॒त्र॒ऽहा , द॒स्यु॒ऽहा , च॒ , विश्वा॑ , वसू॑नि , आ , भ॒र॒ , त्वं , नः॒ ॥
त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वयं॒भूर्भामो॑ अभिमातिषा॒हः । वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सहा॑वान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥
त्वं , हि , म॒न्यो॒ इति॑ , अ॒भिभू॑तिऽओजाः , स्व॒यं॒ऽभूः , भामः॑ , अ॒भि॒मा॒ति॒ऽस॒हः । वि॒श्वऽच॑र्षणिः , सहु॑रिः , सहा॑वान् , अ॒स्मासु॑ , ओजः॑ , पृत॑नासु , धे॒हि॒ ॥
अ॒भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः । तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया॑य॒ मेहि॑ ॥
अ॒भा॒गः , सन् , अप॑ , परा॑ऽइतः , अ॒स्मि॒ , तव॑ , क्रत्वा॑ , त॒वि॒षस्य॑ , प्र॒चे॒त॒ इति॑ प्रऽचेतः । तं , त्वा॒ , म॒न्यो॒ इति॑ , अ॒क्र॒तुः , जि॒ही॒ळ॒ , अ॒हं , स्वा , त॒नूः , ब॒ल॒ऽदेया॑य , मा॒ , आ , इ॒हि॒ ॥
अ॒यं ते॑ अ॒स्म्युप॒ मेह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वधायः । मन्यो॑ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना॑व॒ दस्यूँ॑रु॒त बो॑ध्या॒पेः ॥
अ॒यं , ते॒ , अ॒स्मि॒ , उप॑ , मा॒ , आ , इ॒हि॒ , अ॒र्वाङ् , प्र॒ती॒ची॒नः , स॒हु॒रे॒ , वि॒श्व॒ऽधा॒यः॒ । मन्यो॒ इति॑ , व॒ज्रि॒न् , अ॒भि , मां , आ , व॒वृ॒त्स्व॒ , हना॑व , दस्यू॑न् , उ॒त , बो॒धि॒ , आ॒पेः ॥
अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा॑ वृ॒त्राणि॑ जंघनाव॒ भूरि॑ । जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ॥
अ॒भि , प्र , इ॒हि॒ , द॒क्षि॒ण॒तः , भ॒व॒ , मे॒ , अध॑ , वृ॒त्राणि॑ , जं॒घ॒ना॒व॒ , भूरि॑ । जु॒होमि॑ , ते॒ , ध॒रुणं॑ , मध्वः॑ , अग्रं॑ , उ॒भौ , उ॒प॒ऽअं॒शु , प्र॒थ॒मा , पि॒बा॒व॒ ॥
[८४] त्वयामन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युर्जगती आद्यास्तिस्रस्त्रिष्टुभः |
त्वया॑ मन्यो स॒रथ॑मारु॒जंतो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः । ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना अ॒भि प्र यं॑तु॒ नरो॑ अ॒ग्निरू॑पाः ॥
त्वया॑ , म॒न्यो॒ इति॑ , स॒ऽरथं॑ , आ॒ऽरु॒जंतः॑ , हर्ष॑माणासः , धृ॒षि॒ताः , म॒रु॒त्वः॒ । ति॒ग्मऽइ॑षवः , आयु॑धा , सं॒ऽशिशा॑नाः , अ॒भि , प्र , यं॒तु॒ , नरः॑ , अ॒ग्निऽरू॑पाः ॥
अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए॑धि । ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ॥
अ॒ग्निःऽइ॑व , म॒न्यो॒ इति॑ , त्वि॒षि॒तः , स॒ह॒स्व॒ , से॒ना॒ऽनीः , नः॒ , स॒हु॒रे॒ , हू॒तः , ए॒धि॒ । ह॒त्वाय॑ , शत्रू॑न् , वि , भ॒ज॒स्व॒ , वेदः॑ , ओजः॑ , मिमा॑नः , वि , मृधः॑ , नु॒द॒स्व॒ ॥
सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मे रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न् । उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयस एकज॒ त्वं ॥
सह॑स्व , म॒न्यो॒ इति॑ , अ॒भिऽमा॑तिं , अ॒स्मे इति॑ , रु॒जन् , मृ॒णन् , प्र॒ऽमृ॒णन् , प्र , इ॒हि॒ , शत्रू॑न् । उ॒ग्रं , ते॒ , पाजः॑ , न॒नु , आ , रु॒रु॒ध्रे॒ , व॒शी , वशं॑ , न॒य॒से॒ , ए॒क॒ऽज॒ , त्वं ॥
एको॑ बहू॒नाम॑सि मन्यवीळि॒तो विशं॑विशं यु॒धये॒ सं शि॑शाधि । अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं द्यु॒मंतं॒ घोषं॑ विज॒याय॑ कृण्महे ॥
एकः॑ , ब॒हू॒नां , अ॒सि॒ , म॒न्यो॒ इति॑ , ई॒ळि॒तः , विशं॑ऽविशं , यु॒धये॑ , सं , शि॒शा॒धि॒ । अकृ॑त्तऽरुक् , त्वया॑ , यु॒जा , व॒यं , द्यु॒ऽमंतं॑ , घोषं॑ , वि॒ऽज॒याय॑ , कृ॒ण्म॒हे॒ ॥
वि॒जे॒ष॒कृदिंद्र॑ इवानवब्र॒वो॒३॒॑ऽस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह । प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥
वि॒जे॒ष॒ऽकृत् , इंद्रः॑ऽइव , अ॒न॒व॒ऽब्र॒वः , अ॒स्माकं॑ , म॒न्यो॒ इति॑ , अ॒धि॒ऽपाः , भ॒व॒ , इ॒ह । प्रि॒यं , ते॒ , नाम॑ , स॒हु॒रे॒ , गृ॒णी॒म॒सि॒ , वि॒द्म , तं , उत्सं॑ , यतः॑ , आ॒ऽब॒भूथ॑ ॥
आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्ष्यभिभूत॒ उत्त॑रं । क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥
आऽभू॑त्या , स॒ह॒ऽजाः , व॒ज्र॒ , सा॒य॒क॒ , सहः॑ , बि॒भ॒र्षि॒ , अ॒भि॒ऽभू॒ते॒ , उत्ऽत॑रं । क्रत्वा॑ , नः॒ , म॒न्यो॒ इति॑ , स॒ह , मे॒दी , ए॒धि॒ , म॒हा॒ऽध॒नस्य॑ , पु॒रु॒ऽहू॒त॒ , सं॒ऽसृजि॑ ॥
संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः । भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॑जितासो॒ अप॒ नि ल॑यंतां ॥
संऽसृ॑ष्टं , धनं॑ , उ॒भयं॑ , सं॒ऽआकृ॑तं , अ॒स्मभ्यं॑ , द॒त्तां॒ , वरु॑णः , च॒ , म॒न्युः । भियं॑ , दधा॑नाः , हृद॑येषु , शत्र॑वः , परा॑ऽजितासः , अप॑ , नि , ल॒यं॒तां॒ ॥
[८५] सत्येनेति सप्तचत्वारिंशदृचस्य सूक्तस्य सूर्यासावित्रीऋषिका पंचानांसोमोदेवता ततएकादशानां सूर्याविवाहः सप्तदश्यादेवाः अष्टादश्याः सोमार्कौ एकोनविंश्याश्चंद्रमाः ततोनवानांनृणां विवाह मंत्राआशीः प्रायाः ततोद्वयोर्वधूर्वासोदेवता एकत्रिंश्यायक्ष्महा शिष्टानामृचसूर्यांसावित्री अनुष्टुप्चतुर्दशीएकोनविंश्यादि तिस्रस्रयोविंशी चतुर्विंशीषड्विंशी षट्त्रिंशी सप्तत्रिंशी चतुश्चत्वारिंश्यश्चत्रिष्टुभः अष्टादशी सप्तविंशीत्रिचत्वारिंश्यश्च जगत्यः चतुस्त्रिंश्युरोबृहती |
स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः । ऋ॒तेना॑दि॒त्यास्ति॑ष्ठंति दि॒वि सोमो॒ अधि॑ श्रि॒तः ॥
स॒त्येन॑ , उत्त॑भिता , भूमिः॑ , सूर्ये॑ण , उत्त॑भिता , द्यौः । ऋ॒तेन॑ , आ॒दि॒त्याः , ति॒ष्ठं॒ति॒ , दि॒वि , सोमः॑ , अधि॑ , श्रि॒तः ॥
सोमे॑नादि॒त्या ब॒लिनः॒ सोमे॑न पृथि॒वी म॒ही । अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ॥
सोमे॑न , आ॒दि॒त्याः , ब॒लिनः॑ , सोमे॑न , पृ॒थि॒वी , म॒ही । अथो॒ इति॑ , नक्ष॑त्राणां , ए॒षां , उ॒पऽस्थे॑ , सोमः॑ , आऽहि॑तः ॥
सोमं॑ मन्यते पपि॒वान्यत्सं॑पिं॒षंत्योष॑धिं । सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ कश्च॒न ॥
सोमं॑ , म॒न्य॒ते॒ , प॒पि॒ऽवान् , यत् , सं॒ऽपिं॒षंति॑ , ओष॑धिं । सोमं॑ , यं , ब्र॒ह्माणः॑ , वि॒दुः , न , तस्य॑ , अ॒श्ना॒ति॒ , कः , च॒न ॥
आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः । ग्राव्णा॒मिच्छृ॒ण्वंति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः ॥
आ॒च्छत्ऽवि॑धानैः , गु॒पि॒तः , बार्ह॑तैः , सो॒म॒ , र॒क्षि॒तः । ग्राव्णां॑ , इत् , शृ॒ण्वन् , ति॒ष्ठ॒सि॒ , न , ते॒ , अ॒श्ना॒ति॒ , पार्थि॑वः ॥
यत्त्वा॑ देव प्र॒पिबं॑ति॒ तत॒ आ प्या॑यसे॒ पुनः॑ । वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ॥
यत् , त्वा॒ , दे॒व॒ , प्र॒ऽपिबं॑ति , ततः॑ , आ , प्या॒य॒से॒ , पुन॒रिति॑ । वा॒युः , सोम॑स्य , र॒क्षि॒ता , समा॑नां , मासः॑ , आऽकृ॑तिः ॥
रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी । सू॒र्याया॑ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतं ॥
रैभी॑ , आ॒सी॒त् , अ॒नु॒ऽदेयी॑ , ना॒रा॒शं॒सी , नि॒ऽओच॑नी । सू॒र्यायाः॑ , भ॒द्रं , इत् , वासः॑ , गाथ॑या , ए॒ति॒ , परि॑ऽकृतं ॥
चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यंज॑नं । द्यौर्भूमिः॒ कोश॑ आसी॒द्यदया॑त्सू॒र्या पतिं॑ ॥
चित्तिः॑ , आः॒ , उ॒प॒ऽबर्ह॑णं , चक्षुः॑ , आः॒ , अ॒भि॒ऽअंज॑नं । द्यौः , भूमिः॑ , कोशः॑ , आ॒सी॒त् , यत् , अया॑त् , सू॒र्या , पतिं॑ ॥
स्तोमा॑ आसन्प्रति॒धयः॑ कु॒रीरं॒ छंद॑ ओप॒शः । सू॒र्याया॑ अ॒श्विना॑ व॒राग्निरा॑सीत्पुरोग॒वः ॥
स्तोमाः॑ , आ॒स॒न् , प्र॒ति॒ऽधयः॑ , कु॒रीरं॑ , छंदः॑ , ओ॒प॒शः । सू॒र्यायाः॑ , अ॒श्विना॑ , व॒रा , अ॒ग्निः , आ॒सी॒त् , पु॒रः॒ऽग॒वः ॥
सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा । सू॒र्यां यत्पत्ये॒ शंसं॑तीं॒ मन॑सा सवि॒ताद॑दात् ॥
सोमः॑ , व॒धू॒ऽयुः , अ॒भ॒व॒त् , अ॒श्विना॑ , आ॒स्तां॒ , उ॒भा , व॒रा । सू॒र्यां , यत् , पत्ये॑ , शंसं॑तीं , मन॑सा , स॒वि॒ता , अद॑दात् ॥
मनो॑ अस्या॒ अन॑ आसी॒द्द्यौरा॑सीदु॒त च्छ॒दिः । शु॒क्राव॑न॒ड्वाहा॑वास्तां॒ यदया॑त्सू॒र्या गृ॒हं ॥
मनः॑ , अ॒स्याः॒ , अनः॑ , आ॒सी॒त् , द्यौः , आ॒सी॒त् , उ॒त , छ॒दिः । शु॒क्रौ , अ॒न॒ड्वाहौ॑ , आ॒स्तां॒ , यत् , अया॑त् , सू॒र्या , गृ॒हं ॥
ऋ॒क्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावि॑तः । श्रोत्रं॑ ते च॒क्रे आ॑स्तां दि॒वि पंथा॑श्चराचा॒रः ॥
ऋ॒क्ऽसा॒माभ्यां॑ , अ॒भिऽहि॑तौ , गावौ॑ , ते॒ , सा॒म॒नौ , इ॒तः॒ । श्रोत्रं॑ , ते॒ , च॒क्रे इति॑ , आ॒स्तां॒ , दि॒वि , पंथाः॑ , च॒रा॒च॒रः ॥
शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः । अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पतिं॑ ॥
शुची॒ इति॑ , ते॒ , च॒क्रे इति॑ , या॒त्याः , वि॒ऽआ॒नः , अक्षः॑ , आऽह॑तः । अनः॑ , म॒न॒स्मयं॑ , सू॒र्या , आ , अ॒रो॒ह॒त् , प्र॒ऽय॒ती , पतिं॑ ॥
सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत् । अ॒घासु॑ हन्यंते॒ गावोऽर्जु॑न्योः॒ पर्यु॑ह्यते ॥
सू॒र्यायाः॑ , व॒ह॒तुः , प्र , अ॒गा॒त् , स॒वि॒ता , यं , अ॒व॒ऽअसृ॑जत् । अ॒घासु॑ , ह॒न्यं॒ते॒ , गावः॑ , अर्जु॑न्योः , परि॑ , उ॒ह्य॒ते॒ ॥
यद॑श्विना पृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः॑ । विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तरा॑ववृणीत पू॒षा ॥
यत् , अ॒श्वि॒ना॒ , पृ॒च्छमा॑नौ , अया॑तं , त्रि॒ऽच॒क्रेण॑ , व॒ह॒तुं , सू॒र्यायाः॑ । विश्वे॑ , दे॒वाः , अनु॑ , तत् , वां॒ , अ॒जा॒न॒न् , पु॒त्रः , पि॒तरौ॑ , अ॒वृ॒णी॒त॒ , पू॒षा ॥
यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑ । क्वैकं॑ च॒क्रं वा॑मासी॒त्क्व॑ दे॒ष्ट्राय॑ तस्थथुः ॥
यत् , अया॑तं , शु॒भः॒ , प॒ती॒ इति॑ , व॒रे॒ऽयं , सू॒र्यां , उप॑ । क्व॑ , एकं॑ , च॒क्रं , वां॒ , आ॒सी॒त् , क्व॑ , दे॒ष्ट्राय॑ , त॒स्थ॒थुः॒ ॥
द्वे ते॑ च॒क्रे सू॑र्ये ब्र॒ह्माण॑ ऋतु॒था वि॑दुः । अथैकं॑ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॑दुः ॥
द्वे इति॑ , ते॒ , च॒क्रे इति॑ , सू॒र्ये॒ , ब्र॒ह्माणः॑ , ऋ॒तु॒ऽथा , वि॒दुः॒ । अथ॑ , एकं॑ , च॒क्रं , यत् , गुहा॑ , तत् , अ॒द्धा॒तयः॑ , इत् , वि॒दुः॒ ॥
सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च । ये भू॒तस्य॒ प्रचे॑तस इ॒दं तेभ्यो॑ऽकरं॒ नमः॑ ॥
सू॒र्यायै॑ , दे॒वेभ्यः॑ , मि॒त्राय॑ , वरु॑णाय , च॒ । ये , भू॒तस्य॑ , प्रऽचे॑तसः , इ॒दं , तेभ्यः॑ , अ॒क॒रं॒ , नमः॑ ॥
पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळं॑तौ॒ परि॑ यातो अध्व॒रं । विश्वा॑न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ॥
पू॒र्व॒ऽअ॒प॒रं , च॒र॒तः॒ , मा॒यया॑ , ए॒तौ , शिशू॒ इति॑ , क्रीळं॑तौ , परि॑ , या॒तः॒ , अ॒ध्व॒रं । विश्वा॑नि , अ॒न्यः , भुव॑ना , अ॒भि॒ऽचष्टे॑ , ऋ॒तून् , अ॒न्यः , वि॒ऽदध॑त् , जा॒य॒ते॒ , पुन॒रिति॑ ॥
नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒त्यग्रं॑ । भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र चं॒द्रमा॑स्तिरते दी॒र्घमायुः॑ ॥
नवः॑ऽनवः , भ॒व॒ति॒ , जाय॑मानः , अह्नां॑ , के॒तुः , उ॒षसां॑ , ए॒ति॒ , अग्रं॑ । भा॒गं , दे॒वेभ्यः॑ , वि , द॒धा॒ति॒ , आ॒ऽयन् , प्र , चं॒द्रमाः॑ , ति॒र॒ते॒ , दी॒र्घं , आयुः॑ ॥
सु॒किं॒शु॒कं श॑ल्म॒लिं वि॒श्वरू॑पं॒ हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रं । आ रो॑ह सूर्ये अ॒मृत॑स्य लो॒कं स्यो॒नं पत्ये॑ वह॒तुं कृ॑णुष्व ॥
सु॒ऽकिं॒शु॒कं , श॒ल्म॒लिं , वि॒श्वऽरू॑पं , हिर॑ण्यऽवर्णं , सु॒ऽवृतं॑ , सु॒ऽच॒क्रं । आ , रो॒ह॒ , सू॒र्ये॒ , अ॒मृत॑स्य , लो॒कं , स्यो॒नं , पत्ये॑ , व॒ह॒तुं , कृ॒णु॒ष्व॒ ॥
उदी॒र्ष्वातः॒ पति॑वती॒ ह्ये॒३॒॑षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी॑ळे । अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥
उत् , ई॒र्ष्व॒ , अतः॑ , पति॑ऽवती , हि , ए॒षा , वि॒श्वऽव॑सुं , नम॑सा , गीः॒ऽभिः , ई॒ळे॒ । अ॒न्यां , इ॒च्छ॒ , पि॒तृ॒ऽसदं॑ , विऽअ॑क्तां , सः , ते॒ , भा॒गः , ज॒नुषा॑ , तस्य॑ , वि॒द्धि॒ ॥
उदी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेळामहे त्वा । अ॒न्यामि॑च्छ प्रफ॒र्व्यं१॒॑ सं जा॒यां पत्या॑ सृज ॥
उत् , ई॒र्ष्व॒ , अतः॑ , वि॒श्व॒व॒सो॒ इति॑ विश्वऽवसो , नम॑सा , ई॒ळा॒म॒हे॒ , त्वा॒ । अ॒न्यां , इ॒च्छ॒ , प्र॒ऽफ॒र्व्यं॑ , सं , जा॒यां , पत्या॑ , सृ॒ज॒ ॥
अ॒नृ॒क्ष॒रा ऋ॒जवः॑ संतु॒ पंथा॒ येभिः॒ सखा॑यो॒ यंति॑ नो वरे॒यं । सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सं जा॑स्प॒त्यं सु॒यम॑मस्तु देवाः ॥
अ॒नृ॒क्ष॒राः , ऋ॒जवः॑ , सं॒तु॒ , पंथाः॑ , येभिः॑ , सखा॑यः , यंति॑ , नः॒ , व॒रे॒ऽयं । सं , अ॒र्य॒मा , सं , भगः॑ , नः॒ , नि॒नी॒या॒त् , सं , जाः॒प॒त्यं , सु॒ऽयमं॑ , अ॒स्तु॒ , दे॒वाः॒ ॥
प्र त्वा॑ मुंचामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेवः॑ । ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ॥
प्र , त्वा॒ , मुं॒चा॒मि॒ , वरु॑णस्य , पाशा॑त् , येन॑ , त्वा॒ , अब॑ध्नात् , स॒वि॒ता , सु॒ऽशेवः॑ । ऋ॒तस्य॑ , योनौ॑ , सु॒ऽकृ॒तस्य॑ , लो॒के , अरि॑ष्टां , त्वा॒ , स॒ह , पत्या॑ , द॒धा॒मि॒ ॥
प्रेतो मुं॒चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करं । यथे॒यमिं॑द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ॥
प्र , इ॒तः , मुं॒चामि॑ , न , अ॒मुतः॑ , सु॒ऽब॒द्धां , अ॒मुतः॑ , क॒रं॒ । यथा॑ , इ॒यं , इं॒द्र॒ , मी॒ढ्वः॒ , सु॒ऽपु॒त्रा , सु॒ऽभगा॑ , अस॑ति ॥
पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न । गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ॥
पू॒षा , त्वा॒ , इ॒तः , न॒य॒तु॒ , ह॒स्त॒ऽगृह्य॑ , अ॒श्विना॑ , त्वा॒ , प्र , व॒ह॒तां॒ , रथे॑न । गृ॒हान् , ग॒च्छ॒ , गृ॒हऽप॑त्नी , यथा॑ , असः॑ , व॒शिनी॑ , त्वं , वि॒दथं॑ , आ , व॒दा॒सि॒ ॥
इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि । ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥
इ॒ह , प्रि॒यं , प्र॒ऽजया॑ , ते॒ , सं , ऋ॒ध्य॒तां॒ , अ॒स्मिन् , गृ॒हे , गार्ह॑ऽपत्याय , जा॒गृ॒हि॒ । ए॒ना , पत्या॑ , त॒न्वं॑ , सं , सृ॒ज॒स्व॒ , अध॑ , जिव्री॒ इति॑ , वि॒दथं॑ , आ , व॒दा॒थः॒ ॥
नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते । एधं॑ते अस्या ज्ञा॒तयः॒ पति॑र्बं॒धेषु॑ बध्यते ॥
नी॒ल॒ऽलो॒हि॒तं , भ॒व॒ति॒ , कृ॒त्या , आ॒स॒क्तिः , वि , अ॒ज्य॒ते॒ । एधं॑ते , अ॒स्याः॒ , ज्ञा॒तयः॑ , पतिः॑ , बं॒धेषु॑ , ब॒ध्य॒ते॒ ॥
परा॑ देहि शामु॒ल्यं॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ । कृ॒त्यैषा प॒द्वती॑ भू॒त्व्या जा॒या वि॑शते॒ पतिं॑ ॥
परा॑ , दे॒हि॒ , शा॒मु॒ल्यं॑ , ब्र॒ह्मऽभ्यः॑ , वि , भ॒ज॒ , वसु॑ । कृ॒त्या , ए॒षा , प॒त्ऽवती॑ , भू॒त्वी , आ , जा॒या , वि॒श॒ते॒ , पतिं॑ ॥
अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या । पति॒र्यद्व॒ध्वो॒३॒॑ वास॑सा॒ स्वमंग॑मभि॒धित्स॑ते ॥
अ॒श्री॒रा , त॒नूः , भ॒व॒ति॒ , रुश॑ती , पा॒पया॑ , अ॒मु॒या । पतिः॑ , यत् , व॒ध्वः॑ , वास॑सा , स्वं , अंगं॑ , अ॒भि॒ऽधित्स॑ते ॥
ये व॒ध्व॑श्चं॒द्रं व॑ह॒तुं यक्ष्मा॒ यंति॒ जना॒दनु॑ । पुन॒स्तान्य॒ज्ञिया॑ दे॒वा नयं॑तु॒ यत॒ आग॑ताः ॥
ये , व॒ध्वः॑ , चं॒द्रं , व॒ह॒तुं , यक्ष्माः॑ , यंति॑ , जना॑त् , अनु॑ । पुन॒रिति॑ , तान् , य॒ज्ञियाः॑ , दे॒वाः , नयं॑तु , यतः॑ , आऽग॑ताः ॥
मा वि॑दन्परिपं॒थिनो॒ य आ॒सीदं॑ति॒ दंप॑ती । सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑ द्रां॒त्वरा॑तयः ॥
मा , वि॒द॒न् , प॒रि॒ऽपं॒थिनः॑ , ये , आ॒ऽसीदं॑ति , दंप॑ती॒ इति॒ दंऽप॑ती । सु॒ऽगेभिः॑ , दुः॒ऽगं , अति॑ , इ॒तां॒ , अप॑ , द्रां॒तु॒ , अरा॑तयः ॥
सु॒मं॒ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त । सौभा॑ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे॑तन ॥
सु॒ऽमं॒ग॒लीः , इ॒यं , व॒धूः , इ॒मां , सं॒ऽएत॑ , पश्य॑त । सौभा॑ग्यं , अ॒स्यै॒ , द॒त्त्वाय॑ , अथ॑ , अस्तं॑ , वि , परा॑ , इ॒त॒न॒ ॥
तृ॒ष्टमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे । सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू॑यमर्हति ॥
तृ॒ष्टं , ए॒तत् , कटु॑कं , ए॒तत् , अ॒पा॒ष्ठऽव॑त् , वि॒षऽव॑त् , न , ए॒तत् , अत्त॑वे । सू॒र्यां , यः , ब्र॒ह्मा , वि॒द्यात् , सः , इत् , वाधू॑ऽयं , अ॒र्ह॒ति॒ ॥
आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नं । सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शुं॑धति ॥
आ॒ऽशस॑नं , वि॒ऽशस॑नं , अथो॒ इति॑ , अ॒धि॒ऽवि॒कर्त॑नं । सू॒र्यायाः॑ , प॒श्य॒ , रू॒पाणि॑ , तानि॑ , ब्र॒ह्मा , तु , शुं॒ध॒ति॒ ॥
गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑ । भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥
गृ॒भ्णामि॑ , ते॒ , सौ॒भ॒ग॒ऽत्वाय॑ , हस्तं॑ , मया॑ , पत्या॑ , ज॒रत्ऽअ॑ष्टिः , यथा॑ , असः॑ । भगः॑ , अ॒र्य॒मा , स॒वि॒ता , पुरं॑ऽधिः , मह्यं॑ , त्वा॒ , अ॒दुः॒ , गार्ह॑ऽपत्याय , दे॒वाः ॥
तां पू॑षंछि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒३॒॑ वपं॑ति । या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ते॒ यस्या॑मु॒शंतः॑ प्र॒हरा॑म॒ शेपं॑ ॥
तां , पू॒ष॒न् , शि॒वऽत॑मां , आ , ई॒र॒य॒स्व॒ , यस्यां॑ , बीजं॑ , म॒नु॒ष्याः॑ , वपं॑ति । या , नः॒ , ऊ॒रू इति॑ , उ॒श॒ती , वि॒ऽश्रया॑ते , यस्यां॑ , उ॒शंतः॑ , प्र॒ऽहरा॑म , शेपं॑ ॥
तुभ्य॒मग्रे॒ पर्य॑वहंत्सू॒र्यां व॑ह॒तुना॑ स॒ह । पुनः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह ॥
तुभ्यं॑ , अग्रे॑ , परि॑ , अ॒व॒ह॒न् , सू॒र्यां , व॒ह॒तुना॑ , स॒ह । पुन॒रिति॑ , पति॑ऽभ्यः , जा॒यां , दाः , अ॒ग्ने॒ , प्र॒ऽजया॑ , स॒ह ॥
पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा । दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रदः॑ श॒तं ॥
पुन॒रिति॑ , पत्नीं॑ , अ॒ग्निः , अ॒दा॒त् , आयु॑षा , स॒ह , वर्च॑सा । दी॒र्घऽआ॑युः , अ॒स्याः॒ , यः , पतिः॑ , जीवा॑ति , श॒रदः॑ , श॒तं ॥
सोमः॑ प्रथ॒मो वि॑विदे गंध॒र्वो वि॑विद॒ उत्त॑रः । तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ॥
सोमः॑ , प्र॒थ॒मः , वि॒वि॒दे॒ , गं॒ध॒र्वः , वि॒वि॒दे॒ , उत्ऽत॑रः । तृ॒तीयः॑ , अ॒ग्निः , ते॒ , पतिः॑ , तु॒रीयः॑ , ते॒ , म॒नु॒ष्य॒ऽजाः ॥
सोमो॑ ददद्गंध॒र्वाय॑ गंध॒र्वो द॑दद॒ग्नये॑ । र॒यिं च॑ पु॒त्राँश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒मां ॥
सोमः॑ , द॒द॒त् , गं॒ध॒र्वाय॑ , गं॒ध॒र्वः , द॒द॒त् , अ॒ग्नये॑ । र॒यिं , च॒ , पु॒त्रान् , च॒ , अ॒दा॒त् , अ॒ग्निः , मह्यं॑ , अथो॒ इति॑ , इ॒मां ॥
इ॒हैव स्तं॒ मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतं । क्रीळं॑तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ॥
इ॒ह , ए॒व , स्तं॒ , मा , वि , यौ॒ष्टं॒ , विश्वं॑ , आयुः॑ , वि , अ॒श्नु॒तं॒ । क्रीळं॑तौ , पु॒त्रैः , नप्तृ॑ऽभिः , मोद॑मानौ , स्वे , गृ॒हे ॥
आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा । अदु॑र्मंगलीः पतिलो॒कमा वि॑श॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥
आ , नः॒ , प्र॒ऽजां , ज॒न॒य॒तु॒ , प्र॒जाऽप॑तिः , आ॒ऽज॒र॒साय॑ , सं , अ॒न॒क्तु॒ , अ॒र्य॒मा । अदुः॑ऽमंगलीः , प॒ति॒ऽलो॒कं , आ , वि॒श॒ , शं , नः॒ , भ॒व॒ , द्वि॒ऽपदे॑ , शं , चतुः॑ऽपदे ॥
अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑ । वी॒र॒सूर्दे॒वका॑मा स्यो॒ना शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥
अघो॑रऽचक्षुः , अप॑तिऽघ्नी , ए॒धि॒ , शि॒वा , प॒शुऽभ्यः॑ , सु॒ऽमनाः॑ , सु॒ऽवर्चाः॑ । वी॒र॒ऽसूः , दे॒वऽका॑मा , स्यो॒ना , शं , नः॒ , भ॒व॒ , द्वि॒ऽपदे॑ , शं , चतुः॑ऽपदे ॥
इ॒मां त्वमिं॑द्र मीढ्वः सुपु॒त्रां सु॒भगां॑ कृणु । दशा॑स्यां पु॒त्राना धे॑हि॒ पति॑मेकाद॒शं कृ॑धि ॥
इ॒मां , त्वं , इं॒द्र॒ , मी॒ढ्वः॒ , सु॒ऽपु॒त्रां , सु॒ऽभगां॑ , कृ॒णु॒ । दश॑ , अ॒स्यां॒ , पु॒त्रान् , आ , धे॒हि॒ , पतिं॑ , ए॒का॒द॒शं , कृ॒धि॒ ॥
स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी॑ श्व॒श्र्वां भ॑व । ननां॑दरि स॒म्राज्ञी॑ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ॥
सं॒ऽराज्ञी॑ , श्वशु॑रे , भ॒व॒ , सं॒ऽराज्ञी॑ , श्व॒श्र्वां , भ॒व॒ । ननां॑दरि , सं॒ऽराज्ञी॑ , भ॒व॒ , सं॒ऽराज्ञी॑ , अधि॑ , दे॒वृषु॑ ॥
समं॑जंतु॒ विश्वे॑ दे॒वाः समापो॒ हृद॑यानि नौ । सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दधातु नौ ॥
सं , अं॒जं॒तु॒ , विश्वे॑ , दे॒वाः , सं , आपः॑ , हृद॑यानि , नौ॒ । सं , मा॒त॒रिश्वा॑ , सं , धा॒ता , सं , ऊँ॒ इति॑ , देष्ट्री॑ , द॒धा॒तु॒ , नौ॒ ॥
[८६] विहिसोतोरिति त्रयोविंशत्यृचस्य सूक्तस्य आद्याष्टम्येकादशी द्वादशीचतुर्दशीनामेकोनविंश्यादिचतसृणांचेंद्र ऋषिः सप्तमीत्रयोदशीत्रयोविंशीनामैंद्रो वृषाकपि ऋषिः शिष्टानामेकादशर्चामिंद्राणी ऋषिकाइंद्रः पंक्तिः | (अत्रयस्य वाक्यमिति परिभाषां स्वीकृत्य इंद्रेंद्राणी वृषाकपीनांविभागशोदेवतात्वं केचिन्मन्यंते तद्भाष्यकारादिविरुद्धं) |
वि हि सोतो॒रसृ॑क्षत॒ नेंद्रं॑ दे॒वम॑मंसत । यत्राम॑दद्वृ॒षाक॑पिर॒र्यः पु॒ष्टेषु॒ मत्स॑खा॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
वि , हि , सोतोः॑ , असृ॑क्षत , न , इंद्रं॑ , दे॒वं , अ॒मं॒स॒त॒ । यत्र॑ , अम॑दत् , वृ॒षाक॑पिः , अ॒र्यः , पु॒ष्टेषु॑ , मत्ऽस॑खा , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
परा॒ हीं॑द्र॒ धाव॑सि वृ॒षाक॑पे॒रति॒ व्यथिः॑ । नो अह॒ प्र विं॑दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
परा॑ , हि , इं॒द्र॒ , धाव॑सि , वृ॒षाक॑पेः , अति॑ , व्यथिः॑ । नो इति॑ , अह॑ , प्र , विं॒द॒सि॒ , अ॒न्यत्र॑ , सोम॑ऽपीतये , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
किम॒यं त्वां वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः । यस्मा॑ इर॒स्यसीदु॒ न्व१॒॑र्यो वा॑ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
किं , अ॒यं , त्वां , वृ॒षाक॑पिः , च॒कार॑ , हरि॑तः , मृ॒गः । यस्मै॑ , इ॒र॒स्यसि॑ , इत् , ऊँ॒ इति॑ , नु , अ॒र्यः , वा॒ , पु॒ष्टि॒ऽमत् , वसु॑ , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
यमि॒मं त्वं वृ॒षाक॑पिं प्रि॒यमिं॑द्राभि॒रक्ष॑सि । श्वा न्व॑स्य जंभिष॒दपि॒ कर्णे॑ वराह॒युर्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
यं , इ॒मं , त्वं , वृ॒षाक॑पिं , प्रि॒यं , इं॒द्र॒ , अ॒भि॒ऽरक्ष॑सि । श्वा , नु , अ॒स्य॒ , जं॒भि॒ष॒त् , अपि॑ , कर्णे॑ , व॒रा॒ह॒ऽयुः , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
प्रि॒या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्य॑दूदुषत् । शिरो॒ न्व॑स्य राविषं॒ न सु॒गं दु॒ष्कृते॑ भुवं॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
प्रि॒या , त॒ष्टानि॑ , मे॒ , क॒पिः , विऽअ॑क्ता , वि , अ॒दू॒दु॒ष॒त् । शिरः॑ , नु , अ॒स्य॒ , रा॒वि॒षं॒ , न , सु॒ऽगं , दुः॒ऽकृते॑ , भु॒वं॒ , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
न मत्स्त्री सु॑भ॒सत्त॑रा॒ न सु॒याशु॑तरा भुवत् । न मत्प्रति॑च्यवीयसी॒ न सक्थ्युद्य॑मीयसी॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
न , मत् , स्त्री , सु॒भ॒सत्ऽत॑रा , न , सु॒याशु॑ऽतरा , भु॒व॒त् । न , मत् , प्रति॑ऽच्यवीयसी , न , सक्थि॑ , उत्ऽय॑मीयसी , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
उ॒वे अं॑ब सुलाभिके॒ यथे॑वां॒ग भ॑वि॒ष्यति॑ । भ॒सन्मे॑ अंब॒ सक्थि॑ मे॒ शिरो॑ मे॒ वी॑व हृष्यति॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
उ॒वे , अं॒ब॒ , सु॒ला॒भि॒के॒ , यथा॑ऽइव , अं॒ग , भ॒वि॒ष्यति॑ । भ॒सत् , मे॒ , अं॒ब॒ , सक्थि॑ , मे॒ , शिरः॑ , मे॒ , विऽइ॑व , हृ॒ष्य॒ति॒ , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
किं सु॑बाहो स्वंगुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने । किं शू॑रपत्नि न॒स्त्वम॒भ्य॑मीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
किं , सु॒बा॒हो॒ इति॑ सुऽबाहो , सु॒ऽअं॒गु॒रे॒ , पृथु॑स्तो॒ इति॒ पृथु॑ऽस्तो , पृथु॑ऽजघने । किं , शू॒र॒ऽप॒त्नि॒ , नः॒ , त्वं , अ॒भि , अ॒मी॒षि॒ , वृ॒षाक॑पिं , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
अ॒वीरा॑मिव॒ माम॒यं श॒रारु॑र॒भि म॑न्यते । उ॒ताहम॑स्मि वी॒रिणींद्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
अ॒वीरां॑ऽइव , मां , अ॒यं , श॒रारुः॑ , अ॒भि , म॒न्य॒ते॒ । उ॒त , अ॒हं , अ॒स्मि॒ , वी॒रिणी॑ , इंद्र॑ऽपत्नी , म॒रुत्ऽस॑खा , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
सं॒हो॒त्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गच्छति । वे॒धा ऋ॒तस्य॑ वी॒रिणींद्र॑पत्नी महीयते॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
सं॒ऽहो॒त्रं , स्म॒ , पु॒रा , नारी॑ , सम॑नं , वा॒ , अव॑ , ग॒च्छ॒ति॒ । वे॒धाः , ऋ॒तस्य॑ , वी॒रिणी॑ , इंद्र॑ऽपत्नी , म॒ही॒य॒ते॒ , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
इं॒द्रा॒णीमा॒सु नारि॑षु सु॒भगा॑म॒हम॑श्रवं । न॒ह्य॑स्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
इं॒द्रा॒णीं , आ॒सु , नारि॑षु , सु॒ऽभगां॑ , अ॒हं , अ॒श्र॒वं॒ । न॒हि , अ॒स्याः॒ , अ॒प॒रं , च॒न , ज॒रसा॑ , मर॑ते , पतिः॑ , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
नाहमिं॑द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेर्ऋ॒ते । यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
न , अ॒हं , इं॒द्रा॒णि॒ , र॒र॒ण॒ , सख्युः॑ , वृ॒षाक॑पेः , ऋ॒ते । यस्य॑ , इ॒दं , अप्यं॑ , ह॒विः , प्रि॒यं , दे॒वेषु॑ , गच्छ॑ति , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
वृषा॑कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे । घस॑त्त॒ इंद्र॑ उ॒क्षणः॑ प्रि॒यं का॑चित्क॒रं ह॒विर्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
वृषा॑कपायि , रेव॑ति , सुऽपु॑त्रे , आत् , ऊँ॒ इति॑ , सुऽस्नु॑षे । घस॑त् , ते॒ , इंद्रः॑ , उ॒क्षणः॑ , प्रि॒यं , का॒चि॒त्ऽक॒रं , ह॒विः , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
उ॒क्ष्णो हि मे॒ पंच॑दश सा॒कं पचं॑ति विंश॒तिं । उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णंति मे॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
उ॒क्ष्णः , हि , मे॒ , पंच॑ऽदश , सा॒कं , पचं॑ति , विं॒श॒तिं । उ॒त , अ॒हं , अ॒द्मि॒ , पीवः॑ , इत् , उ॒भा , कु॒क्षी इति॑ , पृ॒णं॒ति॒ , मे॒ , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
वृ॒ष॒भो न ति॒ग्मशृं॑गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत् । मं॒थस्त॑ इंद्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
वृ॒ष॒भः , न , ति॒ग्मऽशृं॑गः , अं॒तः , यू॒थेषु॑ , रोरु॑वत् । मं॒थः , ते॒ , इं॒द्र॒ , शं , हृ॒दे , यं , ते॒ , सु॒नोति॑ , भा॒व॒युः , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
न सेशे॒ यस्य॒ रंब॑तेऽन्त॒रा स॒क्थ्या॒३॒॑ कपृ॑त् । सेदी॑शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृंभ॑ते॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
न , सः , ई॒शे॒ , यस्य॑ , रंब॑ते , अं॒त॒रा , स॒क्थ्या॑ , कपृ॑त् । सः , इत् , ई॒शे॒ , यस्य॑ , रो॒म॒शं , नि॒ऽसे॒दुषः॑ , वि॒ऽजृंभ॑ते , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
न सेशे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृंभ॑ते । सेदी॑शे॒ यस्य॒ रंब॑तेऽन्त॒रा स॒क्थ्या॒३॒॑ कपृ॒द्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
न , सः , ई॒शे॒ , यस्य॑ , रो॒म॒शं , नि॒ऽसे॒दुषः॑ , वि॒ऽजृंभ॑ते । सः , इत् , ई॒शे॒ , यस्य॑ , रंब॑ते , अं॒त॒रा , स॒क्थ्या॑ , कपृ॑त् , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
अ॒यमिं॑द्र वृ॒षाक॑पिः॒ पर॑स्वंतं ह॒तं वि॑दत् । अ॒सिं सू॒नां नवं॑ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
अ॒यं , इं॒द्र॒ , वृ॒षाक॑पिः , पर॑स्वंतं , ह॒तं , वि॒द॒त् । अ॒सिं , सू॒नां , नवं॑ , च॒रुं , आत् , एध॑स्य , अनः॑ , आऽचि॑तं , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
अ॒यमे॑मि वि॒चाक॑शद्विचि॒न्वंदास॒मार्यं॑ । पिबा॑मि पाक॒सुत्व॑नो॒ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
अ॒यं , ए॒मि॒ , वि॒ऽचाक॑शत् , वि॒ऽचि॒न्वन् , दासं॑ , आर्यं॑ । पिबा॑मि , पा॒क॒ऽसुत्व॑नः , अ॒भि , धीरं॑ , अ॒चा॒क॒शं॒ , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
धन्व॑ च॒ यत्कृं॒तत्रं॑ च॒ कति॑ स्वि॒त्ता वि योज॑ना । नेदी॑यसो वृषाक॒पेऽस्त॒मेहि॑ गृ॒हाँ उप॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
धन्व॑ , च॒ , यत् , कृं॒तत्रं॑ , च॒ , कति॑ , स्वि॒त् , ता , वि , योज॑ना । नेदी॑यसः , वृ॒षा॒क॒पे॒ , अस्तं॑ , आ , इ॒हि॒ , गृ॒हान् , उप॑ , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
पुन॒रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै । य ए॒ष स्व॑प्न॒नंश॒नोऽस्त॒मेषि॑ प॒था पुन॒र्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
पुनः॑ , आ , इ॒हि॒ , वृ॒षा॒क॒पे॒ , सु॒वि॒ता , क॒ल्प॒या॒व॒है॒ । यः , ए॒षः , स्व॒प्न॒ऽनंश॑नः , अस्तं॑ , एषि॑ , प॒था , पुनः॑ , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
यदुदं॑चो वृषाकपे गृ॒हमिं॒द्राज॑गंतन । क्व१॒॑ स्य पु॑ल्व॒घो मृ॒गः कम॑गंजन॒योप॑नो॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
यत् , उदं॑चः , वृ॒षा॒क॒पे॒ , गृ॒हं , इं॒द्र॒ , अज॑गंतन । क्व॑ , स्यः , पु॒ल्व॒घः , मृ॒गः , कं , अ॒ग॒न् , ज॒न॒ऽयोप॑नः , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
पर्शु॑र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिं । भ॒द्रं भ॑ल॒ त्यस्या॑ अभू॒द्यस्या॑ उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥
पशुः॑ , ह॒ , नाम॑ , मा॒न॒वी , सा॒कं , स॒सू॒व॒ , विं॒श॒तिं । भ॒द्रं , भ॒ल॒ , त्यस्यै॑ , अ॒भू॒त् , यस्याः॑ , उ॒दरं॑ , आम॑यत् , विश्व॑स्मात् , इंद्रः॑ , उत्ऽत॑रः ॥
[८७] रक्षोहणमिति पंचविंशत्यृचस्य सूक्तस्य भारद्वाजःपायूरक्षोहाग्निस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः |
र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्तं॑ ॥
र॒क्षः॒ऽहनं॑ , वा॒जिनं॑ , आ , जि॒घ॒र्मि॒ , मि॒त्रं , प्रथि॑ष्ठं , उप॑ , या॒मि॒ , शर्म॑ । शिशा॑नः , अ॒ग्निः , क्रतु॑ऽभिः , संऽइ॑द्धः , सः , नः॒ , दिवा॑ , सः , रि॒षः , पा॒तु॒ , नक्तं॑ ॥
अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः । आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो॑ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ॥
अयः॑ऽदंष्ट्रः , अ॒र्चिषा॑ , या॒तु॒ऽधाना॑न् , उप॑ , स्पृ॒श॒ , जा॒त॒ऽवे॒दः॒ , संऽइ॑द्धः । आ , जि॒ह्वया॑ , मूर॑ऽदेवान् , र॒भ॒स्व॒ , क्र॒व्य॒ऽअदः॑ , वृ॒क्त्वी , अपि॑ , ध॒त्स्व॒ , आ॒सन् ॥
उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा॑ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं॑ च । उ॒तांतरि॑क्षे॒ परि॑ याहि राजं॒जंभैः॒ सं धे॑ह्य॒भि या॑तु॒धाना॑न् ॥
उ॒भा , उ॒भ॒या॒वि॒न् , उप॑ , धे॒हि॒ , दंष्ट्रा॑ , हिं॒स्रः , शिशा॑नः , अव॑रं , परं॑ , च॒ । उ॒त , अं॒तरि॑क्षे , परि॑ , या॒हि॒ , रा॒ज॒न् , जंभैः॑ , सं , धे॒हि॒ , अ॒भि , या॒तु॒ऽधाना॑न् ॥
य॒ज्ञैरिषूः॑ सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः । ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ध्येषां ॥
य॒ज्ञैः , इषूः॑ , सं॒ऽनम॑मानः , अ॒ग्ने॒ , वा॒चा , श॒ल्यान् , अ॒शनि॑ऽभिः , दि॒हा॒नः । ताभिः॑ , वि॒ध्य॒ , हृद॑ये , या॒तु॒ऽधाना॑न् , प्र॒ती॒चः , बा॒हून् , प्रति॑ , भ॒ङ्धि॒ , ए॒षां॒ ॥
अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिंधि हिं॒स्राशनि॒र्हर॑सा हंत्वेनं । प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णं ॥
अग्ने॑ , त्वचं॑ , या॒तु॒ऽधान॑स्य , भिं॒धि॒ , हिं॒स्रा , अ॒शनिः॑ , हर॑सा , हं॒तु॒ , ए॒नं॒ । प्र , पर्वा॑णि , जा॒त॒ऽवे॒दः॒ , शृ॒णी॒हि॒ , क्र॒व्य॒ऽअत् , क्र॒वि॒ष्णुः , वि , चि॒नो॒तु॒ , वृ॒क्णं ॥
यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठं॑तमग्न उ॒त वा॒ चरं॑तं । यद्वां॒तरि॑क्षे प॒थिभिः॒ पतं॑तं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥
यत्र॑ , इ॒दानीं॑ , पश्य॑सि , जा॒त॒ऽवे॒दः॒ , तिष्ठं॑तं , अ॒ग्ने॒ , उ॒त , वा॒ , चरं॑तं । यत् , वा॒ , अं॒तरि॑क्षे , प॒थिऽभिः॑ , पतं॑तं , तं , अस्ता॑ , वि॒ध्य॒ , शर्वा॑ , शिशा॑नः ॥
उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि॑र्यातु॒धाना॑त् । अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒ क्ष्विंका॒स्तम॑दं॒त्वेनीः॑ ॥
उ॒त , आऽल॑ब्धं , स्पृ॒णु॒हि॒ , जा॒त॒ऽवे॒दः॒ , आ॒ऽले॒भा॒नात् , ऋ॒ष्टिऽभिः॑ , या॒तु॒ऽधाना॑त् । अग्ने॑ , पूर्वः॑ , नि , ज॒हि॒ , शोशु॑चानः , आ॒म॒ऽअदः॑ , क्ष्विंकाः॑ , तं , अ॒दं॒तु॒ , एनीः॑ ॥
इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने॒ यो या॑तु॒धानो॒ य इ॒दं कृ॒णोति॑ । तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रंधयैनं ॥
इ॒ह , प्र , ब्रू॒हि॒ , य॒त॒मः , सः , अ॒ग्ने॒ , यः , या॒तु॒ऽधानः॑ , यः , इ॒दं , कृ॒णोति॑ । तं , आ , र॒भ॒स्व॒ , सं॒ऽइधा॑ , य॒वि॒ष्ठ॒ , नृ॒ऽचक्ष॑सः , चक्षु॑षे , रं॒ध॒य॒ , ए॒नं॒ ॥
ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्रांचं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः । हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ॥
ती॒क्ष्णेन॑ , अ॒ग्ने॒ , चक्षु॑षा , र॒क्ष॒ , य॒ज्ञं , प्रांचं॑ , वसु॑ऽभ्यः , प्र , न॒य॒ , प्र॒ऽचे॒तः॒ । हिं॒स्रं , रक्षां॑सि , अ॒भि , शोशु॑चानं , मा , त्वा॒ , द॒भ॒न् , या॒तु॒ऽधानाः॑ , नृ॒ऽच॒क्षः॒ ॥
नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑ । तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ॥
नृ॒ऽचक्षाः॑ , रक्षः॑ , परि॑ , प॒श्य॒ , वि॒क्षु , तस्य॑ , त्रीणि॑ , प्रति॑ , शृ॒णी॒हि॒ , अग्रा॑ । तस्य॑ , अ॒ग्ने॒ , पृ॒ष्टीः , हर॑सा , शृ॒णी॒हि॒ , त्रे॒धा , मूलं॑ , या॒तु॒ऽधान॑स्य , वृ॒श्च॒ ॥
त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हंति॑ । तम॒र्चिषा॑ स्फू॒र्जयं॑जातवेदः सम॒क्षमे॑नं गृण॒ते नि वृ॑ङ्धि ॥
त्रिः , या॒तु॒ऽधानः॑ , प्रऽसि॑तिं , ते॒ , ए॒तु॒ , ऋ॒तं , यः , अ॒ग्ने॒ , अनृ॑तेन , हंति॑ । तं , अ॒र्चिषा॑ , स्फू॒र्जय॑न् , जा॒त॒ऽवे॒दः॒ , सं॒ऽअ॒क्षं , ए॒नं॒ , गृ॒ण॒ते , नि , वृ॒ङ्धि॒ ॥
तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धानं॑ । अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्वं॑तम॒चितं॒ न्यो॑ष ॥
तत् , अ॒ग्ने॒ , चक्षुः॑ , प्रति॑ , धे॒हि॒ , रे॒भे , श॒फ॒ऽआ॒रुजं॑ , येन॑ , पश्य॑सि , या॒तु॒ऽधानं॑ । अ॒थ॒र्व॒ऽवत् , ज्योति॑षा , दैव्ये॑न , स॒त्यं , धूर्वं॑तं , अ॒चितं॑ , नि , ओ॒ष॒ ॥
यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नयं॑त रे॒भाः । म॒न्योर्मन॑सः शर॒व्या॒३॒॑ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥
यत् , अ॒ग्ने॒ , अ॒द्य , मि॒थु॒ना , शपा॑तः , यत् , वा॒चः , तृ॒ष्टं , ज॒नयं॑त , रे॒भाः । म॒न्योः , मन॑सः , श॒र॒व्या॑ , जाय॑ते , या , तया॑ , वि॒ध्य॒ , हृद॑ये , या॒तु॒ऽधाना॑न् ॥
परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न्परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि । परा॒र्चिषा॒ मूर॑देवांछृणीहि॒ परा॑सु॒तृपो॑ अ॒भि शोशु॑चानः ॥
परा॑ , शृ॒णी॒हि॒ , तप॑सा , या॒तु॒ऽधाना॑न् , परा॑ , अ॒ग्ने॒ , रक्षः॑ , हर॑सा , शृ॒णी॒हि॒ । परा॑ , अ॒र्चिषा॑ , मूर॑ऽदेवान् , शृ॒णी॒हि॒ , परा॑ , अ॒सु॒ऽतृपः॑ , अ॒भि , शोशु॑चानः ॥
परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णंतु प्र॒त्यगे॑नं श॒पथा॑ यंतु तृ॒ष्टाः । वा॒चास्ते॑नं॒ शर॑व ऋच्छंतु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ॥
परा॑ , अ॒द्य , दे॒वाः , वृ॒जि॒नं , शृ॒णं॒तु॒ , प्र॒त्यक् , ए॒नं॒ , श॒पथाः॑ , यं॒तु॒ , तृ॒ष्टाः । वा॒चाऽस्ते॑नं , शर॑वः , ऋ॒च्छं॒तु॒ , मर्म॑न् , विश्व॑स्य , ए॒तु॒ , प्रऽसि॑तिं , या॒तु॒ऽधानः॑ ॥
यः पौरु॑षेयेण क्र॒विषा॑ समं॒क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धानः॑ । यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥
यः , पौरु॑षेयेण , क्र॒विषा॑ , सं॒ऽअं॒क्ते , यः , अश्व्ये॑न , प॒शुना॑ , या॒तु॒ऽधानः॑ । यः , अ॒घ्न्यायाः॑ , भर॑ति , क्षी॒रं , अ॒ग्ने॒ , तेषां॑ , शी॒र्षाणि॑ , हर॑सा , अपि॑ , वृ॒श्च॒ ॥
सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः । पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यंच॑म॒र्चिषा॑ विध्य॒ मर्म॑न् ॥
सं॒व॒त्स॒रीणं॑ , पयः॑ , उ॒स्रिया॑याः , तस्य॑ , मा , अ॒शी॒त् , या॒तु॒ऽधानः॑ , नृ॒ऽच॒क्षः॒ । पी॒यूषं॑ , अ॒ग्ने॒ , य॒त॒मः , तितृ॑प्सात् , तं , प्र॒त्यंचं॑ , अ॒र्चिषा॑ , वि॒ध्य॒ , मर्म॑न् ॥
वि॒षं गवां॑ यातु॒धानाः॑ पिबं॒त्वा वृ॑श्च्यंता॒मदि॑तये दु॒रेवाः॑ । परै॑नांदे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयंतां ॥
वि॒षं , गवां॑ , या॒तु॒ऽधानाः॑ , पि॒बं॒तु॒ , आ , वृ॒श्च्यं॒तां॒ , अदि॑तये , दुः॒ऽएवाः॑ । परा॑ , ए॒ना॒न् , दे॒वः , स॒वि॒ता , द॒दा॒तु॒ , परा॑ , भा॒गं , ओष॑धीनां , ज॒यं॒तां॒ ॥
स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः । अनु॑ दह स॒हमू॑रान्क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥
स॒नात् , अ॒ग्ने॒ , मृ॒ण॒सि॒ , या॒तु॒ऽधाना॑न् , न , त्वा॒ , रक्षां॑सि , पृत॑नासु , जि॒ग्युः॒ । अनु॑ , द॒ह॒ , स॒हऽमू॑रान् , क्र॒व्य॒ऽअदः॑ , मा , ते॒ , हे॒त्याः , मु॒क्ष॒त॒ , दैव्या॑याः ॥
त्वं नो॑ अग्ने अध॒रादुद॑क्ता॒त्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त् । प्रति॒ ते ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहंतु ॥
त्वं , नः॒ , अ॒ग्ने॒ , अ॒ध॒रात् , उद॑क्तात् , त्वं , प॒श्चात् , उ॒त , र॒क्ष॒ , पु॒रस्ता॑त् । प्रति॑ , ते , ते॒ , अ॒जरा॑सः , तपि॑ष्ठाः , अ॒घऽशं॑सं , शोशु॑चतः , द॒हं॒तु॒ ॥
प॒श्चात्पु॒रस्ता॑दध॒रादुद॑क्तात्क॒विः काव्ये॑न॒ परि॑ पाहि राजन् । सखे॒ सखा॑यम॒जरो॑ जरि॒म्णेऽग्ने॒ मर्ताँ॒ अम॑र्त्य॒स्त्वं नः॑ ॥
प॒श्चात् , पु॒रस्ता॑त् , अ॒ध॒रात् , उद॑क्तात् , क॒विः , काव्ये॑न , परि॑ , पा॒हि॒ , रा॒ज॒न् । सखे॑ , सखा॑यं , अ॒जरः॑ , ज॒रि॒म्णे , अग्ने॑ , मर्ता॑न् , अम॑र्त्यः , त्वं , नः॒ ॥
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे हं॒तारं॑ भंगु॒राव॑तां ॥
परि॑ , त्वा॒ , अ॒ग्ने॒ , पुरं॑ , व॒यं , विप्रं॑ , स॒ह॒स्य॒ , धी॒म॒हि॒ । धृ॒षत्ऽव॑र्णं , दि॒वेऽदि॑वे , हं॒तारं॑ , भं॒गु॒रऽव॑तां ॥
वि॒षेण॑ भंगु॒राव॑तः॒ प्रति॑ ष्म र॒क्षसो॑ दह । अग्ने॑ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिर्ऋ॒ष्टिभिः॑ ॥
वि॒षेण॑ , भं॒गु॒रऽव॑तः , प्रति॑ , स्म॒ , र॒क्षसः॑ , द॒ह॒ । अग्ने॑ , ति॒ग्मेन॑ , शो॒चिषा॑ , तपुः॑ऽअग्राभिः , ऋ॒ष्टिऽभिः॑ ॥
प्रत्य॑ग्ने मिथु॒ना द॑ह यातु॒धाना॑ किमी॒दिना॑ । सं त्वा॑ शिशामि जागृ॒ह्यद॑ब्धं विप्र॒ मन्म॑भिः ॥
प्रति॑ , अ॒ग्ने॒ , मि॒थु॒ना , द॒ह॒ , या॒तु॒ऽधाना॑ , कि॒मी॒दिना॑ । सं , त्वा॒ , शि॒शा॒मि॒ , जा॒गृ॒हि , अद॑ब्धं , वि॒प्र॒ , मन्म॑ऽभिः ॥
प्रत्य॑ग्ने॒ हर॑सा॒ हरः॑ शृणी॒हि वि॒श्वतः॒ प्रति॑ । या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्यं॑ ॥
प्रति॑ , अ॒ग्ने॒ , हर॑सा , हरः॑ , शृ॒णी॒हि , वि॒श्वतः॑ , प्रति॑ । या॒तु॒ऽधान॑स्य , र॒क्षसः॑ , बलं॑ , वि , रु॒ज॒ , वी॒र्यं॑ ॥
[८८] हनिष्पांतमित्येकोन विंशत्यृचस्य सूक्तस्यांगिरसोमूर्धन्वान्सूर्यवैश्वानरौत्रिष्टुप् | (मरीचिः - हविष्पांतद्विदैवत्यं सौर्यवैश्वानरी यकमितिद्वेदेवतेअत्र । तेनसूर्यवैश्वानरइत्यग्नेर्गुणइतिवदंतः परास्ताः ) |
ह॒विष्पांत॑म॒जरं॑ स्व॒र्विदि॑ दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ । तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा धर्म॑णे॒ कं स्व॒धया॑ पप्रथंत ॥
ह॒विः , पांतं॑ , अ॒जरं॑ , स्वः॒ऽविदि॑ , दि॒वि॒ऽस्पृशि॑ , आऽहु॑तं , जुष्टं॑ , अ॒ग्नौ । तस्य॑ , भर्म॑णे , भुव॑नाय , दे॒वाः , धर्म॑णे , कं , स्व॒धया॑ , प॒प्र॒थं॒त॒ ॥
गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ । तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये अ॑स्य ॥
गी॒र्णं , भुव॑नं , तम॑सा , अप॑ऽगूळ्हं , आ॒विः , स्वः॑ , अ॒भ॒व॒त् , जा॒ते , अ॒ग्नौ । तस्य॑ , दे॒वाः , पृ॒थि॒वी , द्यौः , उ॒त , आपः॑ , अर॑णयन् , ओष॑धीः , स॒ख्ये , अ॒स्य॒ ॥
दे॒वेभि॒र्न्वि॑षि॒तो य॒ज्ञिये॑भिर॒ग्निं स्तो॑षाण्य॒जरं॑ बृ॒हंतं॑ । यो भा॒नुना॑ पृथि॒वीं द्यामु॒तेमामा॑त॒तान॒ रोद॑सी अं॒तरि॑क्षं ॥
दे॒वेभिः॑ , नु , इ॒षि॒तः , य॒ज्ञिये॑भिः , अ॒ग्निं , स्तो॒षा॒णि॒ , अ॒जरं॑ , बृ॒हंतं॑ । यः , भा॒नुना॑ , पृ॒थि॒वीं , द्यां , उ॒त , इ॒मां , आ॒ऽत॒तान॑ , रोद॑सी॒ इति॑ , अं॒तरि॑क्षं ॥
यो होतासी॑त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒मांज॒न्नाज्ये॑ना वृणा॒नाः । स प॑त॒त्री॑त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे॑दाः ॥
यः , होता॑ , आसी॑त् , प्र॒थ॒मः , दे॒वऽजु॑ष्टः , यं , सं॒ऽआंज॑न् , आज्ये॑न , वृ॒णा॒नाः । सः , प॒त॒त्रि , इ॒त्व॒रं , स्थाः , जग॑त् , यत् , श्वा॒त्रं , अ॒ग्निः , अ॒कृ॒णो॒त् , जा॒तऽवे॑दाः ॥
यज्जा॑तवेदो॒ भुव॑नस्य मू॒र्धन्नति॑ष्ठो अग्ने स॒ह रो॑च॒नेन॑ । तं त्वा॑हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो॑ अभवो रोदसि॒प्राः ॥
यत् , जा॒त॒ऽवे॒दः॒ , भुव॑नस्य , मू॒र्धन् , अति॑ष्ठः , अ॒ग्ने॒ , स॒ह , रो॒च॒नेन॑ । तं , त्वा॒ , अ॒हे॒म॒ , म॒तिऽभिः॑ , गीः॒ऽभिः , उ॒क्थैः , सः , य॒ज्ञियः॑ , अ॒भ॒वः॒ , रो॒द॒सि॒ऽप्राः ॥
मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्ततः॒ सूर्यो॑ जायते प्रा॒तरु॒द्यन् । मा॒यामू॒ तु य॒ज्ञिया॑नामे॒तामपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ॥
मू॒र्धा , भु॒वः , भ॒व॒ति॒ , नक्तं॑ , अ॒ग्निः , ततः॑ , सूर्यः॑ , जा॒य॒ते॒ , प्रा॒तः , उ॒त्ऽयन् । मा॒यां , ऊँ॒ इति॑ , तु , य॒ज्ञिया॑नां , ए॒तां , अपः॑ , यत् , तूर्णिः॑ , चर॑ति , प्र॒ऽजा॒नन् ॥
दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धोऽरो॑चत दि॒वियो॑निर्वि॒भावा॑ । तस्मि॑न्न॒ग्नौ सू॑क्तवा॒केन॑ दे॒वा ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ॥
दृ॒शेन्यः॑ , यः , म॒हि॒ना , संऽइ॑द्धः , अरो॑चत , दि॒विऽयो॑निः , वि॒भाऽवा॑ । तस्मि॑न् , अ॒ग्नौ , सू॒क्त॒ऽवा॒केन॑ , दे॒वाः , ह॒विः , विश्वे॑ , आ , अ॒जु॒ह॒वुः॒ , त॒नू॒ऽपाः ॥
सू॒क्त॒वा॒कं प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयंत दे॒वाः । स ए॑षां य॒ज्ञो अ॑भवत्तनू॒पास्तं द्यौर्वे॑द॒ तं पृ॑थि॒वी तमापः॑ ॥
सू॒क्त॒ऽवा॒कं , प्र॒थ॒मं , आत् , इत् , अ॒ग्निं , आत् , इत् , ह॒विः , अ॒ज॒न॒यं॒त॒ , दे॒वाः । सः , ए॒षां॒ , य॒ज्ञः , अ॒भ॒व॒त् , त॒नू॒ऽपाः , तं , द्यौः , वे॒द॒ , तं , पृ॒थि॒वी , तं , आपः॑ ॥
यं दे॒वासोऽज॑नयंता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा॑ । सो अ॒र्चिषा॑ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा॑नो अतपन्महि॒त्वा ॥
यं , दे॒वासः॑ , अज॑नयंत , अ॒ग्निं , यस्मि॑न् , आ , अजु॑हवुः , भुव॑नानि , विश्वा॑ । सः , अ॒र्चिषा॑ , पृ॒थि॒वीं , द्यां , उ॒त , इ॒मां , ऋ॒जु॒ऽयमा॑नः , अ॒त॒प॒त् , म॒हि॒ऽत्वा ॥
स्तोमे॑न॒ हि दि॒वि दे॒वासो॑ अ॒ग्निमजी॑जनं॒छक्ति॑भी रोदसि॒प्रां । तमू॑ अकृण्वंत्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू॑पाः ॥
स्तोमे॑न , हि , दि॒वि , दे॒वासः॑ , अ॒ग्निं , अजी॑जनन् , शक्ति॑ऽभिः , रो॒द॒सि॒ऽप्रां । तं , ऊँ॒ इति॑ , अ॒कृ॒ण्व॒न् , त्रे॒धा , भु॒वे , कं , सः , ओष॑धीः , प॒च॒ति॒ , वि॒श्वऽरू॑पाः ॥
य॒देदे॑न॒मद॑धुर्य॒ज्ञिया॑सो दि॒वि दे॒वाः सूर्य॑मादिते॒यं । य॒दा च॑रि॒ष्णू मि॑थु॒नावभू॑ता॒मादित्प्राप॑श्य॒न्भुव॑नानि॒ विश्वा॑ ॥
य॒दा , इत् , ए॒नं॒ , अद॑धुः , य॒ज्ञिया॑सः , दि॒वि , दे॒वाः , सूर्यं॑ , आ॒दि॒ते॒यं । य॒दा , च॒रि॒ष्णू इति॑ , मि॒थु॒नौ , अभू॑तां , आत् , इत् , प्र , अ॒प॒श्य॒न् , भुव॑नानि , विश्वा॑ ॥
विश्व॑स्मा अ॒ग्निं भुव॑नाय दे॒वा वै॑श्वान॒रं के॒तुमह्ना॑मकृण्वन् । आ यस्त॒तानो॒षसो॑ विभा॒तीरपो॑ ऊर्णोति॒ तमो॑ अ॒र्चिषा॒ यन् ॥
विश्व॑स्मै , अ॒ग्निं , भुव॑नाय , दे॒वाः , वै॒श्वा॒न॒रं , के॒तुं , अह्नां॑ , अ॒कृ॒ण्व॒न् । आ , यः , त॒तान॑ , उ॒षसः॑ , वि॒ऽभा॒तीः , अपो॒ इति॑ , ऊ॒र्णो॒ति॒ , तमः॑ , अ॒र्चिषा॑ , यन् ॥
वै॒श्वा॒न॒रं क॒वयो॑ य॒ज्ञिया॑सो॒ऽग्निं दे॒वा अ॑जनयन्नजु॒र्यं । नक्ष॑त्रं प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हंतं॑ ॥
वै॒श्वा॒न॒रं , क॒वयः॑ , य॒ज्ञिया॑सः , अ॒ग्निं , दे॒वाः , अ॒ज॒न॒य॒न् , अ॒जु॒र्यं । नक्ष॑त्रं , प्र॒त्नं , अमि॑नत् , च॒रि॒ष्णु , य॒क्षस्य॑ , अधि॑ऽअक्षं , त॒वि॒षं , बृ॒हंतं॑ ॥
वै॒श्वा॒न॒रं वि॒श्वहा॑ दीदि॒वांसं॒ मंत्रै॑र॒ग्निं क॒विमच्छा॑ वदामः । यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी उ॒तावस्ता॑दु॒त दे॒वः प॒रस्ता॑त् ॥
वै॒श्वा॒न॒रं , वि॒श्वहा॑ , दी॒दि॒ऽवांसं॑ , मंत्रैः॑ , अ॒ग्निं , क॒विं , अच्छ॑ , व॒दा॒मः॒ । यः , म॒हि॒म्ना , प॒रि॒ऽब॒भूव॑ , उ॒र्वी इति॑ , उ॒त , अ॒वस्ता॑त् , उ॒त , दे॒वः , प॒रस्ता॑त् ॥
द्वे स्रु॒ती अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नां । ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यदं॑त॒रा पि॒तरं॑ मा॒तरं॑ च ॥
द्वे इति॑ , स्रु॒ती इति॑ , अ॒शृ॒ण॒वं॒ , पि॒तॄ॒णां , अ॒हं , दे॒वानां॑ , उ॒त , मर्त्या॑नां । ताभ्यां॑ , इ॒दं , विश्वं॑ , एज॑त् , सं , ए॒ति॒ , यत् , अं॒त॒रा , पि॒तरं॑ , मा॒तरं॑ , च॒ ॥
द्वे स॑मी॒ची बि॑भृत॒श्चरं॑तं शीर्ष॒तो जा॒तं मन॑सा॒ विमृ॑ष्टं । स प्र॒त्यङ्विश्वा॒ भुव॑नानि तस्था॒वप्र॑युच्छंत॒रणि॒र्भ्राज॑मानः ॥
द्वे इति॑ , स॒मी॒ची इति॑ सं॒ऽई॒ची , बि॒भृ॒तः॒ , चरं॑तं , शी॒र्ष॒तः , जा॒तं , मन॑सा , विऽमृ॑ष्टं । सः , प्र॒त्यङ् , विश्वा॑ , भुव॑नानि , त॒स्थौ॒ , अप्र॑ऽयुच्छन् , त॒रणिः॑ , भ्राज॑मानः ॥
यत्रा॒ वदे॑ते॒ अव॑रः॒ पर॑श्च यज्ञ॒न्योः॑ कत॒रो नौ॒ वि वे॑द । आ शे॑कु॒रित्स॑ध॒मादं॒ सखा॑यो॒ नक्षं॑त य॒ज्ञं क इ॒दं वि वो॑चत् ॥
यत्र॑ , वदे॑ते॒ इति॑ , अव॑रः , परः॑ , च॒ , य॒ज्ञ॒ऽन्योः॑ , क॒त॒रः , नौ॒ , वि , वे॒द॒ । आ , शे॒कुः॒ , इत् , स॒ध॒ऽमादं॑ , सखा॑यः , नक्षं॑त , य॒ज्ञं , कः , इ॒दं , वि , वो॒च॒त् ॥
कत्य॒ग्नयः॒ कति॒ सूर्या॑सः॒ कत्यु॒षासः॒ कत्यु॑ स्वि॒दापः॑ । नोप॒स्पिजं॑ वः पितरो वदामि पृ॒च्छामि॑ वः कवयो वि॒द्मने॒ कं ॥
कति॑ , अ॒ग्नयः॑ , कति॑ , सूर्या॑सः , कति॑ , उ॒षसः॑ , कति॑ , ऊँ॒ इति॑ , स्वि॒त् , आपः॑ । न , उ॒प॒ऽस्पिजं॑ , वः॒ , पि॒त॒रः॒ , व॒दा॒मि॒ , पृ॒च्छामि॑ , वः॒ , क॒व॒यः॒ , वि॒द्मने॑ , कं ॥
या॒व॒न्मा॒त्रमु॒षसो॒ न प्रती॑कं सुप॒र्ण्यो॒३॒॑ वस॑ते मातरिश्वः । ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन्ब्रा॑ह्म॒णो होतु॒रव॑रो नि॒षीद॑न् ॥
या॒व॒त्ऽमा॒त्रं , उ॒षसः॑ , न , प्रती॑कं , सु॒ऽप॒र्ण्यः॑ , वस॑ते , मा॒त॒रि॒श्वः॒ । ताव॑त् , द॒धा॒ति॒ , उप॑ , य॒ज्ञं , आ॒ऽयन् , ब्रा॒ह्म॒णः , होतुः॑ , अव॑रः , नि॒ऽसीद॑न् ॥
[८९] इंद्रस्तवेत्यष्टादशर्चस्य सूक्तस्य वैश्वामित्रोरेणुरिंद्रः पंचम्याइंद्रासोमौत्रिष्टुप् |
इंद्रं॑ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो॑च॒ना वि ज्मो अंता॑न् । आ यः प॒प्रौ च॑र्षणी॒धृद्वरो॑भिः॒ प्र सिंधु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ॥
इंद्रं॑ , स्त॒व॒ , नृऽत॑मं , यस्य॑ , म॒ह्ना , वि॒ऽब॒बा॒धे , रो॒च॒ना , वि , ज्मः , अंता॑न् । आ , यः , प॒प्रौ , च॒र्ष॒णि॒ऽधृत् , वरः॑ऽभिः , प्र , सिंधु॑ऽभ्यः , रि॒रि॒चा॒नः , म॒हि॒ऽत्वा ॥
स सूर्यः॒ पर्यु॒रू वरां॒स्येंद्रो॑ ववृत्या॒द्रथ्ये॑व च॒क्रा । अति॑ष्ठंतमप॒स्यं१॒॑ न सर्गं॑ कृ॒ष्णा तमां॑सि॒ त्विष्या॑ जघान ॥
सः , सूर्यः॑ , परि॑ , उ॒रु , वरां॑सि , आ , इंद्रः॑ , व॒वृ॒त्या॒त् , रथ्या॑ऽइव , च॒क्रा । अति॑ष्ठंतं , अ॒प॒स्यं॑ , न , सर्गं॑ , कृ॒ष्णा , तमां॑सि , त्विष्या॑ , ज॒घा॒न॒ ॥
स॒मा॒नम॑स्मा॒ अन॑पावृदर्च क्ष्म॒या दि॒वो अस॑मं॒ ब्रह्म॒ नव्यं॑ । वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इंद्र॑श्चि॒काय॒ न सखा॑यमी॒षे ॥
स॒मा॒नं , अ॒स्मै॒ , अन॑पऽवृत् , अ॒र्च॒ , क्ष्म॒या , दि॒वः , अस॑मं , ब्रह्म॑ , नव्यं॑ । वि , यः , पृ॒ष्ठाऽइ॑व , जनि॑मानि , अ॒र्यः , इंद्रः॑ , चि॒काय॑ , न , सखा॑यं , ई॒षे ॥
इंद्रा॑य॒ गिरो॒ अनि॑शितसर्गा अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् । यो अक्षे॑णेव च॒क्रिया॒ शची॑भि॒र्विष्व॑क्त॒स्तंभ॑ पृथि॒वीमु॒त द्यां ॥
इंद्रा॑य , गिरः॑ , अनि॑शितऽसर्गाः , अ॒पः , प्र , ई॒र॒यं॒ , सग॑रस्य , बु॒ध्नात् । यः , अक्षे॑णऽइव , च॒क्रिया॑ , शची॑भिः , विष्व॑क् , त॒स्तंभ॑ , पृ॒थि॒वीं , उ॒त , द्यां ॥
आपां॑तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी॑वां॒छरु॑माँ ऋजी॒षी । सोमो॒ विश्वा॑न्यत॒सा वना॑नि॒ नार्वागिंद्रं॑ प्रति॒माना॑नि देभुः ॥
आपां॑तऽमन्युः , तृ॒पल॑ऽप्रभर्मा , धुनिः॑ , शिमी॑ऽवान् , शरु॑ऽमान् , ऋ॒जी॒षी । सोमः॑ , विश्वा॑नि , अ॒त॒सा , वना॑नि , न , अ॒र्वाक् , इंद्रं॑ , प्र॒ति॒ऽमाना॑नि , दे॒भुः॒ ॥
न यस्य॒ द्यावा॑पृथि॒वी न धन्व॒ नांतरि॑क्षं॒ नाद्र॑यः॒ सोमो॑ अक्षाः । यद॑स्य म॒न्युर॑धिनी॒यमा॑नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ॥
न , यस्य॑ , द्यावा॑पृथि॒वी इति॑ , न , धन्व॑ , न , अं॒तरि॑क्षं , न , अद्र॑यः , सोमः॑ , अ॒क्षा॒रिति॑ । यत् , अ॒स्य॒ , म॒न्युः , अ॒धि॒ऽनी॒यमा॑नः , शृ॒णाति॑ , वी॒ळु , रु॒जति॑ , स्थि॒राणि॑ ॥
ज॒घान॑ वृ॒त्रं स्वधि॑ति॒र्वने॑व रु॒रोज॒ पुरो॒ अर॑द॒न्न सिंधू॑न् । बि॒भेद॑ गि॒रिं नव॒मिन्न कुं॒भमा गा इंद्रो॑ अकृणुत स्व॒युग्भिः॑ ॥
ज॒घान॑ , वृ॒त्रं , स्वऽधि॑तिः , वना॑ऽइव , रु॒रोज॑ , पुरः॑ , अर॑दत् , न , सिंधू॑न् । बि॒भेद॑ , गि॒रिं , नवं॑ , इत् , न , कुं॒भं , आ , गाः , इंद्रः॑ , अ॒कृ॒णु॒त॒ , स्व॒युक्ऽभिः॑ ॥
त्वं ह॒ त्यदृ॑ण॒या इं॑द्र॒ धीरो॒ऽसिर्न पर्व॑ वृजि॒ना शृ॑णासि । प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं॒ न जना॑ मि॒नंति॑ मि॒त्रं ॥
त्वं , ह॒ , त्यत् , ऋ॒ण॒ऽयाः , इं॒द्र॒ , धीरः॑ , अ॒सिः , न , पर्व॑ , वृ॒जि॒ना , शृ॒णा॒सि॒ । प्र , ये , मि॒त्रस्य॑ , वरु॑णस्य , धाम॑ , युजं॑ , न , जनाः॑ , मि॒नंति॑ , मि॒त्रं ॥
प्र ये मि॒त्रं प्रार्य॒मणं॑ दु॒रेवाः॒ प्र सं॒गिरः॒ प्र वरु॑णं मि॒नंति॑ । न्य१॒॑मित्रे॑षु व॒धमिं॑द्र॒ तुम्रं॒ वृष॒न्वृषा॑णमरु॒षं शि॑शीहि ॥
प्र , ये , मि॒त्रं , प्र , अ॒र्य॒मणं॑ , दुः॒ऽएवाः॑ , प्र , सं॒ऽगिरः॑ , प्र , वरु॑णं , मि॒नंति॑ । नि , अ॒मित्रे॑षु , व॒धं , इं॒द्र॒ , तुम्रं॑ , वृष॑न् , वृषा॑णं , अ॒रु॒षं , शि॒शी॒हि॒ ॥
इंद्रो॑ दि॒व इंद्र॑ ईशे पृथि॒व्या इंद्रो॑ अ॒पामिंद्र॒ इत्पर्व॑तानां । इंद्रो॑ वृ॒धामिंद्र॒ इन्मेधि॑राणा॒मिंद्रः॒ क्षेमे॒ योगे॒ हव्य॒ इंद्रः॑ ॥
इंद्रः॑ , दि॒वः , इंद्रः॑ , ई॒शे॒ , पृ॒थि॒व्याः , इंद्रः॑ , अ॒पां , इंद्रः॑ , इत् , पर्व॑तानां । इंद्रः॑ , वृ॒धां , इंद्रः॑ , इत् , मेधि॑राणां , इंद्रः॑ , क्षेमे॑ , योगे॑ , हव्यः॑ , इंद्रः॑ ॥
प्राक्तुभ्य॒ इंद्रः॒ प्र वृ॒धो अह॑भ्यः॒ प्रांतरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः । प्र वात॑स्य॒ प्रथ॑सः॒ प्र ज्मो अंता॒त्प्र सिंधु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्यः॑ ॥
प्र , अ॒क्तुऽभ्यः॑ , इंद्रः॑ , प्र , वृ॒धः , अह॑ऽभ्यः , प्र , अं॒तरि॑क्षात् , प्र , स॒मु॒द्रस्य॑ , धा॒सेः । प्र , वात॑स्य , प्रथ॑सः , प्र , ज्मः , अंता॑त् , प्र , सिंधु॑ऽभ्यः , रि॒रि॒चे॒ , प्र , क्षि॒तिऽभ्यः॑ ॥
प्र शोशु॑चत्या उ॒षसो॒ न के॒तुर॑सि॒न्वा ते॑ वर्ततामिंद्र हे॒तिः । अश्मे॑व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ॥
प्र , शोशु॑चत्याः , उ॒षसः॑ , न , के॒तुः , अ॒सि॒न्वा , ते॒ , व॒र्त॒तां॒ , इं॒द्र॒ , हे॒तिः । अश्मा॑ऽइव , वि॒ध्य॒ , दि॒वः , आ , सृ॒जा॒नः , तपि॑ष्ठेन , हेष॑सा , द्रोघ॑ऽमित्रान् ॥
अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः । अन्विंद्रं॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानं ॥
अनु॑ , अह॑ , मासाः॑ , अनु॑ , इत् , वना॑नि , अनु॑ , ओष॑धीः , अनु॑ , पर्व॑तासः । अनु॑ , इंद्रं॑ , रोद॑सी॒ इति॑ , वा॒व॒शा॒ने इति॑ , अनु॑ , आपः॑ , अ॒जि॒ह॒त॒ , जाय॑मानं ॥
कर्हि॑ स्वि॒त्सा त॑ इंद्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् । मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गावः॑ पृथि॒व्या आ॒पृग॑मु॒या शयं॑ते ॥
कर्हि॑ , स्वि॒त् , सा , ते॒ , इं॒द्र॒ , चे॒त्या , अ॒स॒त् , अ॒घस्य॑ , यत् , भि॒नदः॑ , रक्षः॑ , आ॒ऽईष॑त् । मि॒त्र॒ऽक्रुवः॑ , यत् , शस॑ने , न , गावः॑ , पृ॒थि॒व्याः , आ॒ऽपृक् , अ॒मु॒या , शयं॑ते ॥
श॒त्रू॒यंतो॑ अ॒भि ये न॑स्तत॒स्रे महि॒ व्राधं॑त ओग॒णास॑ इंद्र । अं॒धेना॒मित्रा॒स्तम॑सा सचंतां सुज्यो॒तिषो॑ अ॒क्तव॒स्ताँ अ॒भि ष्युः॑ ॥
श॒त्रु॒ऽयंतः॑ , अ॒भि , ये , नः॒ , त॒त॒स्रे , महि॑ , व्राधं॑तः , ओ॒ग॒णासः॑ , इं॒द्र॒ । अं॒धेन॑ , अ॒मित्राः॑ , तम॑सा , स॒चं॒तां॒ , सु॒ऽज्यो॒तिषः॑ , अ॒क्तवः॑ , तान् , अ॒भि , स्यु॒रिति॑ स्युः ॥
पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना॑नां॒ ब्रह्मा॑णि॒ मंद॑न्गृण॒तामृषी॑णां । इ॒मामा॒घोष॒न्नव॑सा॒ सहू॑तिं ति॒रो विश्वाँ॒ अर्च॑तो याह्य॒र्वाङ् ॥
पु॒रूणि॑ , हि , त्वा॒ , सव॑ना , जना॑नां , ब्रह्मा॑णि , मंद॑न् , गृ॒ण॒तां , ऋषी॑णां । इ॒मां , आ॒ऽघोष॑न् , अव॑सा , सऽहू॑तिं , ति॒रः , विश्वा॑न् , अर्च॑तः , या॒हि॒ , अ॒र्वाङ् ॥
ए॒वा ते॑ व॒यमिं॑द्र भुंजती॒नां वि॒द्याम॑ सुमती॒नां नवा॑नां । वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णंतो॑ वि॒श्वामि॑त्रा उ॒त त॑ इंद्र नू॒नं ॥
ए॒व , ते॒ , व॒यं , इं॒द्र॒ , भुं॒ज॒ती॒नां , वि॒द्याम॑ , सु॒ऽम॒ती॒नां , नवा॑नां । वि॒द्याम॑ , वस्तोः॑ , अव॑सा , गृ॒णंतः॑ , वि॒श्वामि॑त्राः , उ॒त , ते॒ , इं॒द्र॒ , नू॒नं ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥
शु॒नं , हु॒वे॒म॒ , म॒घऽवा॑नं , इंद्रं॑ , अ॒स्मिन् , भरे॑ , नृऽत॑मं , वाज॑ऽसातौ । शृ॒ण्वंतं॑ , उ॒ग्रं , ऊ॒तये॑ , स॒मत्ऽसु॑ , घ्नंतं॑ , वृ॒त्राणि॑ , सं॒ऽजितं॑ , धना॑नां ॥
[९०] सहस्रशीर्षेति षोळशर्चस्य सूक्तस्य नारायणः पुरुषोनुष्टुबंत्यात्रिष्टुप् |
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशांगु॒लं ॥
स॒हस्र॑ऽशीर्षा , पुरु॑षः , स॒ह॒स्र॒ऽअ॒क्षः , स॒हस्र॑ऽपात् । सः , भूमिं॑ , वि॒श्वतः॑ , वृ॒त्वा , अति॑ , अ॒ति॒ष्ठ॒त् , द॒श॒ऽअं॒गु॒लं ॥
पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्यं॑ । उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥
पुरु॑षः , ए॒व , इ॒दं , सर्वं॑ , यत् , भू॒तं , यत् , च॒ , भव्यं॑ । उ॒त , अ॒मृ॒त॒ऽत्वस्य॑ , ईशा॑नः , यत् , अन्ने॑न , अ॒ति॒ऽरोह॑ति ॥
ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः । पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥
ए॒तावा॑न् , अ॒स्य॒ , म॒हि॒मा , अतः॑ , ज्याया॑न् , च॒ , पुरु॑षः । पादः॑ , अ॒स्य॒ , विश्वा॑ , भू॒तानि॑ , त्रि॒ऽपात् , अ॒स्य॒ , अ॒मृतं॑ , दि॒वि ॥
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादो॑ऽस्ये॒हाभ॑व॒त्पुनः॑ । ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ॥
त्रि॒ऽपात् , ऊ॒र्ध्व , उत् , ऐ॒त् , पुरु॑षः , पादः॑ , अ॒स्य॒ , इ॒ह , अ॒भ॒व॒त् , पुन॒रिति॑ । ततः॑ , विष्व॑ङ् , वि , अ॒क्रा॒म॒त् , सा॒श॒ना॒न॒श॒ने इति॑ , अ॒भि ॥
तस्मा॑द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥
तस्मा॑त् , वि॒ऽराट् , अ॒जा॒य॒त॒ , वि॒ऽराजः॑ , अधि॑ , पुरु॑षः । सः , जा॒तः , अति॑ , अ॒रि॒च्य॒त॒ , प॒श्चात् , भूमिं॑ , अथो॒ इति॑ , पु॒रः ॥
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत । व॒सं॒तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥
यत् , पुरु॑षेण , ह॒विषा॑ , दे॒वाः , य॒ज्ञं , अत॑न्वत । व॒सं॒तः , अ॒स्य॒ , आ॒सी॒त् , आज्यं॑ , ग्री॒ष्मः , इ॒द्मः , श॒रत् , ह॒विः ॥
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अ॑यजंत सा॒ध्या ऋष॑यश्च॒ ये ॥
तं , य॒ज्ञं , ब॒र्हिषि॑ , प्र , औ॒क्ष॒न् , पुरु॑षं , जा॒तं , अ॒ग्र॒तः । तेन॑ , दे॒वाः , अ॒य॒जं॒त॒ , सा॒ध्याः , ऋष॑यः , च॒ , ये ॥
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ संभृ॑तं पृषदा॒ज्यं । प॒शूंताँश्च॑क्रे वाय॒व्या॑नार॒ण्यान्ग्रा॒म्याश्च॒ ये ॥
तस्मा॑त् , य॒ज्ञात् , स॒र्व॒ऽहुतः॑ , संऽभृ॑तं , पृ॒ष॒त्ऽआ॒ज्यं । प॒शून् , तान् , च॒क्रे॒ , वा॒य॒व्या॑न् , आ॒र॒ण्यान् , ग्रा॒म्याः , च॒ , ये ॥
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे । छंदां॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥
तस्मा॑त् , य॒ज्ञात् , स॒र्व॒ऽहुतः॑ , ऋचः॑ , सामा॑नि , ज॒ज्ञि॒रे॒ । छंदां॑सि , ज॒ज्ञि॒रे॒ , तस्मा॑त् , यजुः॑ , तस्मा॑त् , अ॒जा॒य॒त॒ ॥
तस्मा॒दश्वा॑ अजायंत॒ ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥
तस्मा॑त् , अश्वाः॑ , अ॒जा॒यं॒त॒ , ये , के , च॒ , उ॒भ॒याद॑तः । गावः॑ , ह॒ , ज॒ज्ञि॒रे॒ , तस्मा॑त् , तस्मा॑त् , जा॒ताः , अ॒जा॒वयः॑ ॥
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्य॒ कौ बा॒हू का ऊ॒रू पादा॑ उच्येते ॥
यत् , पुरु॑षं , वि , अद॑धुः , क॒ति॒धा , वि , अ॒क॒ल्प॒य॒न् । मुखं॑ , किं , अ॒स्य॒ , कौ , बा॒हू इति॑ , कौ , ऊ॒रू इति॑ , पादौ॑ , उ॒च्ये॒ते॒ इति॑ ॥
ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ॥
ब्रा॒ह्म॒णः , अ॒स्य॒ , मुखं॑ , आ॒सी॒त् , बा॒हू इति॑ , रा॒ज॒न्यः॑ , कृ॒तः । ऊ॒रू इति॑ , तत् , अ॒स्य॒ , यत् , वैश्यः॑ , प॒त्ऽभ्यां , शू॒द्रः , अ॒जा॒य॒त॒ ॥
चं॒द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत । मुखा॒दिंद्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥
चं॒द्रमाः॑ , मन॑सः , जा॒तः , चक्षोः॑ , सूर्यः॑ , अ॒जा॒य॒त॒ । मुखा॑त् , इंद्रः॑ , च॒ , अ॒ग्निः , च॒ , प्रा॒णात् , वा॒युः , अ॒जा॒य॒त॒ ॥
नाभ्या॑ आसीदं॒तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥
नाभ्याः॑ , आ॒सी॒त् , अं॒तरि॑क्षं , शी॒र्ष्णः , द्यौः , सं , अ॒व॒र्त॒त॒ । प॒त्ऽभ्यां , भूमिः॑ , दिशः॑ , श्रोत्रा॑त् , तथा॑ , लो॒कान् , अ॒क॒ल्प॒य॒न् ॥
स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुं ॥
स॒प्त , अ॒स्य॒ , आ॒स॒न् , प॒रि॒ऽधयः॑ , त्रिः , स॒प्त , सं॒ऽइधः॑ , कृ॒ताः । दे॒वाः , यत् , य॒ज्ञं , त॒न्वा॒नाः , अब॑ध्नन् , पुरु॑षं , प॒शुं ॥
य॒ज्ञेन॑ य॒ज्ञम॑यजंत दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मानः॑ सचंत॒ यत्र॒ पूर्वे॑ सा॒ध्याः संति॑ दे॒वाः ॥
य॒ज्ञेन॑ , य॒ज्ञं , अ॒य॒जं॒त॒ , दे॒वाः , तानि॑ , धर्मा॑णि , प्र॒थ॒मानि॑ , आ॒स॒न् । ते , ह॒ , नाकं॑ , म॒हि॒मानः॑ , स॒चं॒त॒ , यत्र॑ , पूर्वे॑ , सा॒ध्याः , संति॑ , दे॒वाः ॥
[९१] संजागृवद्भिरिति पंचदशर्चस्य सूक्तस्य वैतहव्योरुणोग्निर्जगत्यंयात्रिष्टुप् |
सं जा॑गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू॑ना इ॒षय॑न्नि॒ळस्प॒दे । विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो वि॒भुर्वि॒भावा॑ सु॒षखा॑ सखीय॒ते ॥
सं , जा॒गृ॒वत्ऽभिः॑ , जर॑माणः , इ॒ध्य॒ते॒ , दमे॑ , दमू॑नाः , इ॒षय॑न् , इ॒ळः , प॒दे । विश्व॑स्य , होता॑ , ह॒विषः॑ , वरे॑ण्यः , वि॒ऽभुः , वि॒भाऽवा॑ , सु॒ऽसखा॑ , स॒खि॒ऽय॒ते ॥
स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने॑वने शिश्रिये तक्व॒वीरि॑व । जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे॑ति वि॒श्यो॒३॒॑ विशं॑विशं ॥
सः , द॒र्श॒त॒ऽश्रीः , अति॑थिः , गृ॒हेऽगृ॑हे , वने॑ऽवने , शि॒श्रि॒ये॒ , त॒क्व॒वीःऽइ॑व । जनं॑ऽजनं , जन्यः॑ , न , अति॑ , म॒न्य॒ते॒ , विशः॑ , आ , क्षे॒ति॒ , वि॒श्यः॑ , विशं॑ऽविशं ॥
सु॒दक्षो॒ दक्षैः॒ क्रतु॑नासि सु॒क्रतु॒रग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् । वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद्द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ॥
सु॒ऽदक्षः॑ , दक्षैः॑ , क्रतु॑ना , अ॒सि॒ , सु॒ऽक्रतुः॑ , अग्ने॑ , क॒विः , काव्ये॑न , अ॒सि॒ , वि॒श्व॒ऽवित् । वसुः॑ , वसू॑नां , क्ष॒य॒सि॒ , त्वं , एकः॑ , इत् , द्यावा॑ , च॒ , यानि॑ , पृ॒थि॒वी इति॑ , च॒ , पुष्य॑तः ॥
प्र॒जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा॑यास्प॒दे घृ॒तवं॑त॒मास॑दः । आ ते॑ चिकित्र उ॒षसा॑मि॒वेत॑योऽरे॒पसः॒ सूर्य॑स्येव र॒श्मयः॑ ॥
प्र॒ऽजा॒नन् , अ॒ग्ने॒ , तव॑ , योनिं॑ , ऋ॒त्वियं॑ , इळा॑याः , प॒दे , घृ॒तऽवं॑तं , आ , अ॒स॒दः॒ । आ , ते॒ , चि॒कि॒त्रे॒ , उ॒षसां॑ऽइव , एत॑यः , अ॒रे॒पसः॑ , सूर्य॑स्यऽइव , र॒श्मयः॑ ॥
तव॒ श्रियो॑ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तवः॑ । यदोष॑धीर॒भिसृ॑ष्टो॒ वना॑नि च॒ परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये॑ ॥
तव॑ , श्रियः॑ , व॒र्ष्य॑स्यऽइव , वि॒ऽद्युतः॑ , चि॒त्राः , चि॒कि॒त्रे॒ , उ॒षसां॑ , न , के॒तवः॑ । यत् , ओष॑धीः , अ॒भिऽसृ॑ष्टः , वना॑नि , च॒ , परि॑ , स्व॒यं , चि॒नु॒षे , अन्नं॑ , आ॒स्ये॑ ॥
तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो॑ अ॒ग्निं ज॑नयंत मा॒तरः॑ । तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ऽन्तर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा॑ ॥
तं , ओष॑धीः , द॒धि॒रे॒ , गर्भं॑ , ऋ॒त्वियं॑ , तं , आपः॑ , अ॒ग्निं , ज॒न॒यं॒त॒ , मा॒तरः॑ । तं , इत् , स॒मा॒नं , व॒निनः॑ , च॒ , वी॒रुधः॑ , अं॒तःऽव॑तीः , च॒ , सुव॑ते , च॒ , वि॒श्वहा॑ ॥
वातो॑पधूत इषि॒तो वशाँ॒ अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से । आ ते॑ यतंते र॒थ्यो॒३॒॑ यथा॒ पृथ॒क्छर्धां॑स्यग्ने अ॒जरा॑णि॒ धक्ष॑तः ॥
वात॑ऽउपधूतः , इ॒षि॒तः , वशा॑न् , अनु॑ , तृ॒षु , यत् , अन्ना॑ , वेवि॑षत् , वि॒ऽतिष्ठ॑से । आ , ते॒ , य॒तं॒ते॒ , र॒थ्यः॑ , यथा॑ , पृथ॑क् , शर्धां॑सि , अ॒ग्ने॒ , अ॒जरा॑णि , धक्ष॑तः ॥
मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता॑रं परि॒भूत॑मं म॒तिं । तमिदर्भे॑ ह॒विष्या स॑मा॒नमित्तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ॥
मे॒धा॒ऽका॒रं , वि॒दथ॑स्य , प्र॒ऽसाध॑नं , अ॒ग्निं , होता॑रं , प॒रि॒ऽभूत॑मं , म॒तिं । तं , इत् , अर्भे॑ , ह॒विषि॑ , आ , स॒मा॒नं , इत् , तं , इत् , म॒हे , वृ॒ण॒ते॒ , न , अ॒न्यं , त्वत् ॥
त्वामिदत्र॑ वृणते त्वा॒यवो॒ होता॑रमग्ने वि॒दथे॑षु वे॒धसः॑ । यद्दे॑व॒यंतो॒ दध॑ति॒ प्रयां॑सि ते ह॒विष्मं॑तो॒ मन॑वो वृ॒क्तब॑र्हिषः ॥
त्वां , इत् , अत्र॑ , वृ॒ण॒ते॒ , त्वा॒ऽयवः॑ , होता॑रं , अ॒ग्ने॒ , वि॒दथे॑षु , वे॒धसः॑ । यत् , दे॒व॒ऽयंतः॑ , दध॑ति , प्रयां॑सि , ते॒ , ह॒विष्मं॑तः , मन॑वः , वृ॒क्तऽब॑र्हिषः ॥
तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः । तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥
तव॑ , अ॒ग्ने॒ , हो॒त्रं , तव॑ , पो॒त्रं , ऋ॒त्वियं॑ , तव॑ , ने॒ष्ट्रं , त्वं , अ॒ग्नित् , ऋ॒त॒ऽय॒तः । तव॑ , प्र॒ऽशा॒स्त्रं , त्वं , अ॒ध्व॒रि॒ऽय॒सि॒ , ब्र॒ह्मा , च॒ , असि॑ , गृ॒हऽप॑तिः , च॒ , नः॒ , दमे॑ ॥
यस्तुभ्य॑मग्ने अ॒मृता॑य॒ मर्त्यः॑ स॒मिधा॒ दाश॑दु॒त वा॑ ह॒विष्कृ॑ति । तस्य॒ होता॑ भवसि॒ यासि॑ दू॒त्य१॒॑मुप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ॥
यः , तुभ्यं॑ , अ॒ग्ने॒ , अ॒मृता॑य , मर्त्यः॑ , सं॒ऽइधा॑ , दाश॑त् , उ॒त , वा॒ , ह॒विःऽकृ॑ति । तस्य॑ , होता॑ , भ॒व॒सि॒ , यासि॑ , दू॒त्यं॑ , उप॑ , ब्रू॒षे॒ , यज॑सि , अ॒ध्व॒रि॒ऽयसि॑ ॥
इ॒मा अ॑स्मै म॒तयो॒ वाचो॑ अ॒स्मदाँ ऋचो॒ गिरः॑ सुष्टु॒तयः॒ सम॑ग्मत । व॒सू॒यवो॒ वस॑वे जा॒तवे॑दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ॥
इ॒माः , अ॒स्मै॒ , म॒तयः॑ , वाचः॑ , अ॒स्मत् , आ , ऋचः॑ , गिरः॑ , सु॒ऽस्तु॒तयः॑ , सं , अ॒ग्म॒त॒ । व॒सु॒ऽयवः॑ , वस॑वे , जा॒तऽवे॑दसे , वृ॒द्धासु॑ , चि॒त् , वर्ध॑नः , यासु॑ , चा॒कन॑त् ॥
इ॒मां प्र॒त्नाय॑ सुष्टु॒तिं नवी॑यसीं वो॒चेय॑मस्मा उश॒ते शृ॒णोतु॑ नः । भू॒या अंत॑रा हृ॒द्य॑स्य नि॒स्पृशे॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ॥
इ॒मां , प्र॒त्नाय॑ , सु॒ऽस्तु॒तिं , नवी॑यसीं , वो॒चेयं॑ , अ॒स्मै॒ , उ॒श॒ते , शृ॒णोतु॑ , नः॒ । भू॒याः , अंत॑रा , हृ॒दि , अ॒स्य॒ , नि॒ऽस्पृशे॑ , जा॒याऽइ॑व , पत्ये॑ , उ॒श॒ती , सु॒ऽवासाः॑ ॥
यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो॑ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः । की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ॥
यस्मि॑न् , अश्वा॑सः , ऋ॒ष॒भासः॑ , उ॒क्षणः॑ , व॒शाः , मे॒षाः , अ॒व॒ऽसृ॒ष्टासः॑ , आऽहु॑ताः । की॒ला॒ल॒ऽपे , सोम॑ऽपृष्ठाय , वे॒धसे॑ , हृ॒दा , म॒तिं , ज॒न॒ये॒ , चारुं॑ , अ॒ग्नये॑ ॥
अहा॑व्यग्ने ह॒विरा॒स्ये॑ ते स्रु॒ची॑व घृ॒तं च॒म्वी॑व॒ सोमः॑ । वा॒ज॒सनिं॑ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धे॑हि य॒शसं॑ बृ॒हंतं॑ ॥
अहा॑वि , अ॒ग्ने॒ , ह॒विः , आ॒स्ये॑ , ते॒ , स्रु॒चिऽइ॑व , घृ॒तं , च॒म्वि॑ऽइव , सोमः॑ । वा॒ज॒ऽसनिं॑ , र॒यिं , अ॒स्मे इति॑ , सु॒ऽवीरं॑ , प्र॒ऽश॒स्तं , धे॒हि॒ , य॒शसं॑ , बृ॒हंतं॑ ॥
[९२] यज्ञस्येति पंचदशर्चस्य सूक्तस्य मानवःशार्यातोविश्वेदेवाजगती |
य॒ज्ञस्य॑ वो र॒थ्यं॑ वि॒श्पतिं॑ वि॒शां होता॑रम॒क्तोरति॑थिं वि॒भाव॑सुं । शोचं॒छुष्का॑सु॒ हरि॑णीषु॒ जर्भु॑र॒द्वृषा॑ के॒तुर्य॑ज॒तो द्याम॑शायत ॥
य॒ज्ञस्य॑ , वः॒ , र॒थ्यं॑ , वि॒श्पतिं॑ , वि॒शां , होता॑रं , अ॒क्तोः , अति॑थिं , वि॒भाऽव॑सुं । शोच॑न् , शुष्का॑सु , हरि॑णीषु , जर्भु॑रत् , वृषा॑ , के॒तुः , य॒ज॒तः , द्यां , अ॒शा॒य॒त॒ ॥
इ॒ममं॑ज॒स्पामु॒भये॑ अकृण्वत ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नं । अ॒क्तुं न य॒ह्वमु॒षसः॑ पु॒रोहि॑तं॒ तनू॒नपा॑तमरु॒षस्य॑ निंसते ॥
इ॒मं , अं॒जः॒ऽपां , उ॒भये॑ , अ॒कृ॒ण्व॒त॒ , ध॒र्माणं॑ , अ॒ग्निं , वि॒दथ॑स्य , साध॑नं । अ॒क्तुं , न , य॒ह्वं , उ॒षसः॑ , पु॒रःऽहि॑तं , तनू॒३॒॑ऽनपा॑तं , अ॒रु॒षस्य॑ , निं॒स॒ते॒ ॥
बळ॑स्य नी॒था वि प॒णेश्च॑ मन्महे व॒या अ॑स्य॒ प्रहु॑ता आसु॒रत्त॑वे । य॒दा घो॒रासो॑ अमृत॒त्वमाश॒तादिज्जन॑स्य॒ दैव्य॑स्य चर्किरन् ॥
बट् , अ॒स्य॒ , नी॒था , वि , प॒णेः , च॒ , म॒न्म॒हे॒ , व॒याः , अ॒स्य॒ , प्रऽहु॑ताः , आ॒सुः॒ , अत्त॑वे । य॒दा , घो॒रासः॑ , अ॒मृ॒त॒ऽत्वं , आश॑त , आत् , इत् , जन॑स्य , दैव्य॑स्य , च॒र्कि॒र॒न् ॥
ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो॒ नमो॑ म॒ह्य१॒॑रम॑तिः॒ पनी॑यसी । इंद्रो॑ मि॒त्रो वरु॑णः॒ सं चि॑कित्रि॒रेऽथो॒ भगः॑ सवि॒ता पू॒तद॑क्षसः ॥
ऋ॒तस्य॑ , हि , प्रऽसि॑तिः , द्यौः , उ॒रु , व्यचः॑ , नमः॑ , म॒ही , अ॒रम॑तिः , पनी॑यसी । इंद्रः॑ , मि॒त्रः , वरु॑णः , सं , चि॒कि॒त्रि॒रे॒ , अथो॒ इति॑ , भगः॑ , स॒वि॒ता , पू॒तऽद॑क्षसः ॥
प्र रु॒द्रेण॑ य॒यिना॑ यंति॒ सिंध॑वस्ति॒रो म॒हीम॒रम॑तिं दधन्विरे । येभिः॒ परि॑ज्मा परि॒यन्नु॒रु ज्रयो॒ वि रोरु॑वज्ज॒ठरे॒ विश्व॑मु॒क्षते॑ ॥
प्र , रु॒द्रेण॑ , य॒यिना॑ , यं॒ति॒ , सिंध॑वः , ति॒रः , म॒हीं , अ॒रम॑तिं , द॒ध॒न्वि॒रे॒ । येभिः॑ , परि॑ऽज्मा , प॒रि॒ऽयन् , उ॒रु , ज्रयः॑ , वि , रोरु॑वत् , ज॒ठरे॑ , विश्वं॑ , उ॒क्षते॑ ॥
क्रा॒णा रु॒द्रा म॒रुतो॑ वि॒श्वकृ॑ष्टयो दि॒वः श्ये॒नासो॒ असु॑रस्य नी॒ळयः॑ । तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मेंद्रो॑ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ॥
क्रा॒णाः , रु॒द्राः , म॒रुतः॑ , वि॒श्वऽकृ॑ष्टयः , दि॒वः , श्ये॒नासः॑ , असु॑रस्य , नी॒ळयः॑ । तेभिः॑ , च॒ष्टे॒ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा , इंद्रः॑ , दे॒वेभिः॑ , अ॒र्व॒शेभिः॑ , अर्व॑शः ॥
इंद्रे॒ भुजं॑ शशमा॒नास॑ आशत॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ । प्र ये न्व॑स्या॒र्हणा॑ ततक्षि॒रे युजं॒ वज्रं॑ नृ॒षद॑नेषु का॒रवः॑ ॥
इंद्रे॑ , भुजं॑ , श॒श॒मा॒नासः॑ , आ॒श॒त॒ , सूरः॑ , दृशी॑के , वृष॑णः , च॒ , पौंस्ये॑ । प्र , ये , नु , अ॒स्य॒ , अ॒र्हणा॑ , त॒त॒क्षि॒रे , युजं॑ , वज्रं॑ , नृ॒ऽसद॑नेषु , का॒रवः॑ ॥
सूर॑श्चि॒दा ह॒रितो॑ अस्य रीरम॒दिंद्रा॒दा कश्चि॑द्भयते॒ तवी॑यसः । भी॒मस्य॒ वृष्णो॑ ज॒ठरा॑दभि॒श्वसो॑ दि॒वेदि॑वे॒ सहु॑रिः स्त॒न्नबा॑धितः ॥
सूरः॑ , चि॒त् , आ , ह॒रितः॑ , अ॒स्य॒ , री॒र॒म॒त् , इंद्रा॑त् , आ , कः , चि॒त् , भ॒य॒ते॒ , तवी॑यसः । भी॒मस्य॑ , वृष्णः॑ , ज॒ठरा॑त् , अ॒भि॒ऽश्वसः॑ , दि॒वेऽदि॑वे , सहु॑रिः , स्त॒न् , अबा॑धितः ॥
स्तोमं॑ वो अ॒द्य रु॒द्राय॒ शिक्व॑से क्ष॒यद्वी॑राय॒ नम॑सा दिदिष्टन । येभिः॑ शि॒वः स्ववाँ॑ एव॒याव॑भिर्दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका॑मभिः ॥
स्तोमं॑ , वः॒ , अ॒द्य , रु॒द्राय॑ , शिक्व॑से , क्ष॒यत्ऽवी॑राय , नम॑सा , दि॒दि॒ष्ट॒न॒ । येभिः॑ , शि॒वः , स्वऽवा॑न् , ए॒व॒याव॑ऽभिः , दि॒वः , सिस॑क्ति , स्वऽय॑शाः , निका॑मऽभिः ॥
ते हि प्र॒जाया॒ अभ॑रंत॒ वि श्रवो॒ बृह॒स्पति॑र्वृष॒भः सोम॑जामयः । य॒ज्ञैरथ॑र्वा प्रथ॒मो वि धा॑रयद्दे॒वा दक्षै॒र्भृग॑वः॒ सं चि॑कित्रिरे ॥
ते , हि , प्र॒ऽजायाः॑ , अभ॑रंत , वि , श्रवः॑ , बृह॒स्पतिः॑ , वृ॒ष॒भः , सोम॑ऽजामयः । य॒ज्ञैः , अथ॑र्वा , प्र॒थ॒मः , वि , धा॒र॒य॒त् , दे॒वाः , दक्षैः॑ , भृग॑वः , सं , चि॒कि॒त्रि॒रे॒ ॥
ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रंगो य॒मोऽदि॑तिः । दे॒वस्त्वष्टा॑ द्रविणो॒दा ऋ॑भु॒क्षणः॒ प्र रो॑द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ॥
ते , हि , द्यावा॑पृथि॒वी इति॑ , भूरि॑ऽरेतसा , नरा॒शंसः॑ , चतुः॑ऽअंगः , य॒मः , अदि॑तिः । दे॒वः , त्वष्टा॑ , द्र॒वि॒णः॒ऽदाः , ऋ॒भु॒क्षणः॑ , प्र , रो॒द॒सी इति॑ , म॒रुतः॑ , विष्णुः॑ , अ॒र्हि॒रे॒ ॥
उ॒त स्य न॑ उ॒शिजा॑मुर्वि॒या क॒विरहिः॑ शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि । सूर्या॒मासा॑ वि॒चरं॑ता दिवि॒क्षिता॑ धि॒या श॑मीनहुषी अ॒स्य बो॑धतं ॥
उ॒त , स्यः , नः॒ , उ॒शिजां॑ , उ॒र्वि॒या , क॒विः , अहिः॑ , शृ॒णो॒तु॒ , बु॒ध्न्यः॑ , हवी॑मनि । सूर्या॒मासा॑ , वि॒ऽचरं॑ता , दि॒वि॒ऽक्षिता॑ , धि॒या , श॒मी॒न॒हु॒षी॒ इति॑ , अ॒स्य , बो॒ध॒तं॒ ॥
प्र नः॑ पू॒षा च॒रथं॑ वि॒श्वदे॑व्यो॒ऽपां नपा॑दवतु वा॒युरि॒ष्टये॑ । आ॒त्मानं॒ वस्यो॑ अ॒भि वात॑मर्चत॒ तद॑श्विना सुहवा॒ याम॑नि श्रुतं ॥
प्र , नः॒ , पू॒षा , च॒रथं॑ , वि॒श्वऽदे॑व्यः , अ॒पां , नपा॑त् , अ॒व॒तु॒ , वा॒युः , इ॒ष्टये॑ । आ॒त्मानं॑ , वस्यः॑ , अ॒भि , वातं॑ , अ॒र्च॒त॒ , तत् , अ॒श्वि॒ना॒ , सु॒ऽह॒वा॒ , याम॑नि , श्रु॒तं॒ ॥
वि॒शामा॒सामभ॑यानामधि॒क्षितं॑ गी॒र्भिरु॒ स्वय॑शसं गृणीमसि । ग्नाभि॒र्विश्वा॑भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा॑नं नृ॒मणा॒ अधा॒ पतिं॑ ॥
वि॒शां , आ॒सां , अभ॑यानां , अ॒धि॒ऽक्षितं॑ , गीः॒ऽभिः , ऊँ॒ इति॑ , स्वऽय॑शसं , गृ॒णी॒म॒सि॒ । ग्नाभिः॑ , विश्वा॑भिः , अदि॑तिं , अ॒न॒र्वणं॑ , अ॒क्तोः , युवा॑नं , नृ॒ऽमनाः॑ , अध॑ , पतिं॑ ॥
रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अंगि॑रा॒ ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रं । येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः पाथः॑ सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ॥
रेभ॑त् , अत्र॑ , ज॒नुषा॑ , पूर्वः॑ , अंगि॑राः , ग्रावा॑णः , ऊ॒र्ध्वाः , अ॒भि , च॒क्षुः॒ , अ॒ध्व॒रं । येभिः॑ , विऽहा॑याः , अभ॑वत् , वि॒ऽच॒क्ष॒णः , पाथः॑ , सु॒ऽमेकं॑ , स्वऽधि॑तिः , वन॑न्ऽवति ॥
[९३] महीति पंचदशर्चस्य सूक्तस्य पार्थ्यस्तान्वो विश्वेदेवाः प्रस्तारपंक्तिर्द्वितीयात्रयोदश्यनुष्टुभौ नवम्यक्षरौपंक्तिरेकादशीन्यं कुसारिण्यंत्यापुरस्ताद्बृहती |
महि॑ द्यावापृथिवी भूतमु॒र्वी नारी॑ य॒ह्वी न रोद॑सी॒ सदं॑ नः । तेभि॑र्नः पातं॒ सह्य॑स ए॒भिर्नः॑ पातं शू॒षणि॑ ॥
महि॑ , द्या॒वा॒पृ॒थि॒वी॒ इति॑ , भू॒तं॒ , उ॒र्वी इति॑ , नारी॒ इति॑ , य॒ह्वी इति॑ , न , रोद॑सी॒ इति॑ , सदं॑ , नः॒ । तेभिः॑ , नः॒ , पा॒तं॒ , सह्य॑सः , ए॒भिः , नः॒ , पा॒तं॒ , शू॒षणि॑ ॥
य॒ज्ञेय॑ज्ञे॒ स मर्त्यो॑ दे॒वांत्स॑पर्यति । यः सु॒म्नैर्दी॑र्घ॒श्रुत्त॑म आ॒विवा॑सत्येनान् ॥
य॒ज्ञेऽय॑ज्ञे , सः , मर्त्यः॑ , दे॒वान् , स॒प॒र्य॒ति॒ । यः , सु॒म्नैः , दी॒र्घ॒श्रुत्ऽत॑मः , आ॒ऽविवा॑साति , ए॒ना॒न् ॥
विश्वे॑षामिरज्यवो दे॒वानां॒ वार्म॒हः । विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे॑ य॒ज्ञेषु॑ य॒ज्ञियाः॑ ॥
विश्वे॑षां , इ॒र॒ज्य॒वः॒ , दे॒वानां॑ , वाः , म॒हः । विश्वे॑ , हि , वि॒श्वऽम॑हसः , विश्वे॑ , य॒ज्ञेषु॑ , य॒ज्ञियाः॑ ॥
ते घा॒ राजा॑नो अ॒मृत॑स्य मं॒द्रा अ॑र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा । कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुतः॑ पू॒षणो॒ भगः॑ ॥
ते , घ॒ , राजा॑नः , अ॒मृत॑स्य , मं॒द्राः , अ॒र्य॒मा , मि॒त्रः , वरु॑णः , परि॑ऽज्मा । कत् , रु॒द्रः , नृ॒णां , स्तु॒तः , म॒रुतः॑ , पू॒षणः॑ , भगः॑ ॥
उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या॑ । सचा॒ यत्साद्ये॑षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्यः॑ ॥
उ॒त , नः॒ , नक्तं॑ , अ॒पां , वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू , सूर्या॒मासा॑ , सद॑नाय , स॒ऽध॒न्या॑ । सचा॑ , यत् , सादि॑ , ए॒षां॒ , अहिः॑ , बु॒ध्नेषु॑ , बु॒ध्न्यः॑ ॥
उ॒त नो॑ दे॒वाव॒श्विना॑ शु॒भस्पती॒ धाम॑भिर्मि॒त्रावरु॑णा उरुष्यतां । म॒हः स रा॒य एष॒तेऽति॒ धन्वे॑व दुरि॒ता ॥
उ॒त , नः॒ , दे॒वौ , अ॒श्विना॑ , शु॒भः , पती॒ इति॑ , धाम॑ऽभिः , मि॒त्रावरु॑णौ , उ॒रु॒ष्य॒तां॒ । म॒हः , सः , रा॒यः , आ , ई॒ष॒ते॒ , अति॑ , धन्व॑ऽइव , दुः॒ऽइ॒ता ॥
उ॒त नो॑ रु॒द्रा चि॑न्मृळताम॒श्विना॒ विश्वे॑ दे॒वासो॒ रथ॒स्पति॒र्भगः॑ । ऋ॒भुर्वाज॑ ऋभुक्षणः॒ परि॑ज्मा विश्ववेदसः ॥
उ॒त , नः॒ , रु॒द्रा , चि॒त् , मृ॒ळ॒तां॒ , अ॒श्विना॑ , विश्वे॑ , दे॒वासः॑ , रथः॒पतिः॑ , भगः॑ । ऋ॒भुः , वाजः॑ , ऋ॒भु॒क्ष॒णः॒ , परि॑ऽज्मा , वि॒श्व॒ऽवे॒द॒सः॒ ॥
ऋ॒भुर्ऋ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिना॑ । दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ॥
ऋ॒भुः , ऋ॒भु॒क्षाः , ऋ॒भुः , वि॒ध॒तः , मदः॑ , आ , ते॒ , हरी॒ इति॑ , जू॒जु॒वा॒नस्य॑ , वा॒जिना॑ । दु॒स्तरं॑ , यस्य॑ , साम॑ , चि॒त् , ऋध॑क् , य॒ज्ञः , न , मानु॑षः ॥
कृ॒धी नो॒ अह्र॑यो देव सवितः॒ स च॑ स्तुषे म॒घोनां॑ । स॒हो न॒ इंद्रो॒ वह्नि॑भि॒र्न्ये॑षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो॑युवे ॥
कृ॒धि , नः॒ , अह्र॑यः , दे॒व॒ , स॒वि॒त॒रिति॑ , सः , च॒ , स्तु॒षे॒ , म॒घोनां॑ । स॒हो इति॑ , नः॒ , इंद्रः॑ , वह्नि॑ऽभिः , नि , ए॒षां॒ , च॒र्ष॒णी॒नां , च॒क्रं , र॒श्मिं , न , यो॒यु॒वे॒ ॥
ऐषु॑ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रवः॑ । पृ॒क्षं वाज॑स्य सा॒तये॑ पृ॒क्षं रा॒योत तु॒र्वणे॑ ॥
आ , ए॒षु॒ , द्या॒वा॒पृ॒थि॒वी॒ इति॑ , धा॒तं॒ , म॒हत् , अ॒स्मे इति॑ , वी॒रेषु॑ , वि॒श्वऽच॑र्षणि , श्रवः॑ । पृ॒क्षं , वाज॑स्य , सा॒तये॑ , पृ॒क्षं , रा॒या , उ॒त , तु॒र्वणे॑ ॥
ए॒तं शंस॑मिंद्रास्म॒युष्ट्वं कूचि॒त्संतं॑ सहसावन्न॒भिष्ट॑ये । सदा॑ पाह्य॒भिष्ट॑ये मे॒दतां॑ वे॒दता॑ वसो ॥
ए॒तं , शंसं॑ , इं॒द्र॒ , अ॒स्म॒ऽयुः , त्वं , कूऽचि॑त् , संतं॑ , स॒ह॒सा॒ऽव॒न् , अ॒भिष्ट॑ये , सदा॑ , पा॒हि॒ , अ॒भिष्ट॑ये । मे॒दतां॑ , वे॒दता॑ , व॒सो॒ इति॑ ॥
ए॒तं मे॒ स्तोमं॑ त॒ना न सूर्ये॑ द्यु॒तद्या॑मानं वावृधंत नृ॒णां । सं॒वन॑नं॒ नाश्व्यं॒ तष्टे॒वान॑पच्युतं ॥
ए॒तं , मे॒ , स्तोमं॑ , त॒ना , न , सूर्ये॑ , द्यु॒तत्ऽया॑मानं , व॒वृ॒धं॒त॒ , नृ॒णां । सं॒ऽवन॑नं , न , अश्व्यं॑ , तष्टा॑ऽइव , अन॑पऽच्युतं ॥
वा॒वर्त॒ येषां॑ रा॒या यु॒क्तैषां॑ हिर॒ण्ययी॑ । ने॒मधि॑ता॒ न पौंस्या॒ वृथे॑व वि॒ष्टांता॑ ॥
व॒वर्त॑ , येषां॑ , रा॒या , यु॒क्ता , ए॒षां॒ , हि॒र॒ण्ययी॑ । ने॒मऽधि॑ता , न , पौंस्या॑ , वृथा॑ऽइव , वि॒ष्टऽअं॑ता ॥
प्र तद्दुः॒शीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो॑च॒मसु॑रे म॒घव॑त्सु । ये यु॒क्त्वाय॒ पंच॑ श॒तास्म॒यु प॒था वि॒श्राव्ये॑षां ॥
प्र , तत् , दुः॒ऽशीमे॑ , पृथ॑वाने , वे॒ने , प्र , रा॒मे , वो॒चं॒ , असु॑रे , म॒घव॑त्ऽसु । ये , यु॒क्त्वाय॑ , पंच॑ , श॒ता , अ॒स्म॒ऽयु , प॒था , वि॒ऽश्रावि॑ , ए॒षां॒ ॥
अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ । स॒द्यो दि॑दिष्ट॒ तान्वः॑ स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥
अधि॑ , इत् , नु , अत्र॑ , स॒प्त॒तिं , च॒ , स॒प्त , च॒ । स॒द्यः , दि॒दि॒ष्ट॒ , तान्वः॑ , स॒द्यः , दि॒दि॒ष्ट॒ , पा॒र्थ्यः , स॒द्यः , दि॒दि॒ष्ट॒ , मा॒य॒वः ॥
[९४] प्रैतइति चतुर्दशर्चस्य सूक्तस्य काद्रवेयोर्बुदः सर्पोग्रावाणोजगती पंचमीसप्तमीचर्तुदृश्यस्त्रिष्टुभः |
प्रैते व॑दंतु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः । यद॑द्रयः पर्वताः सा॒कमा॒शवः॒ श्लोकं॒ घोषं॒ भर॒थेंद्रा॑य सो॒मिनः॑ ॥
प्र , ए॒ते , व॒दं॒तु॒ , प्र , व॒यं , व॒दा॒म॒ , ग्राव॑ऽभ्यः , वाचं॑ , व॒द॒त॒ , वद॑त्ऽभ्यः । यत् , अ॒द्र॒यः॒ , प॒र्व॒ताः॒ , सा॒कं , आ॒शवः॒ , श्लोकं॑ , घोषं॑ , भर॑थ , इंद्रा॑य , सो॒मिनः॑ ॥
ए॒ते व॑दंति श॒तव॑त्स॒हस्र॑वद॒भि क्रं॑दंति॒ हरि॑तेभिरा॒सभिः॑ । वि॒ष्ट्वी ग्रावा॑णः सु॒कृतः॑ सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत ॥
ए॒ते , व॒दं॒ति॒ , श॒तऽव॑त् , स॒हस्र॑ऽवत् , अ॒भि , क्रं॒दं॒ति॒ , हरि॑तेभिः , आ॒सऽभिः॑ । वि॒ष्ट्वी , ग्रावा॑णः , सु॒ऽकृतः॑ , सु॒ऽकृ॒त्यया॑ , होतुः॑ , चि॒त् , पूर्वे॑ , ह॒विः॒ऽअद्यं॑ , आ॒श॒त॒ ॥
ए॒ते व॑दं॒त्यवि॑दन्न॒ना मधु॒ न्यूं॑खयंते॒ अधि॑ प॒क्व आमि॑षि । वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑त॒स्ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ॥
ए॒ते , व॒दं॒ति॒ , अवि॑दन् , अ॒ना , मधु॑ , नि , ऊं॒ख॒यं॒ते॒ , अधि॑ , प॒क्वे , आमि॑षि । वृ॒क्षस्य॑ , शाखां॑ , अ॒रु॒णस्य॑ , बप्स॑तः , ते॒ , सूभ॑र्वाः , वृ॒ष॒भाः , प्र , ईं॒ , अ॒रा॒वि॒षुः॒ ॥
बृ॒हद्व॑दंति मदि॒रेण॑ मं॒दिनेंद्रं॒ क्रोशं॑तोऽविदन्न॒ना मधु॑ । सं॒रभ्या॒ धीराः॒ स्वसृ॑भिरनर्तिषुराघो॒षयं॑तः पृथि॒वीमु॑प॒ब्दिभिः॑ ॥
बृ॒हत् , व॒दं॒ति॒ , म॒दि॒रेण॑ , मं॒दिना॑ , इंद्रं॑ , क्रोशं॑तः , अ॒वि॒द॒न् , अ॒ना , मधु॑ । सं॒ऽरभ्य॑ , धीराः॑ , स्वसृ॑ऽभिः , अ॒न॒र्ति॒षुः॒ , आ॒ऽघो॒षयं॑तः , पृ॒थि॒वीं , उ॒प॒ब्दिऽभिः॑ ॥
सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः । न्य१॒॑ङ्नि यं॒त्युप॑रस्य निष्कृ॒तं पु॒रू रेतो॑ दधिरे सूर्य॒श्वितः॑ ॥
सु॒ऽप॒र्णाः , वाचं॑ , अ॒क्र॒त॒ , उप॑ , द्यवि॑ , आ॒ऽख॒रे , कृष्णाः॑ , इ॒षि॒राः , अ॒न॒र्ति॒षुः॒ । न्य॑क् , नि , यं॒ति॒ , उप॑रस्य , निः॒ऽकृ॒तं , पु॒रु , रेतः॑ , द॒धि॒रे॒ , सू॒र्य॒ऽश्वितः॑ ॥
उ॒ग्रा इ॑व प्र॒वहं॑तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ । यच्छ्व॒संतो॑ जग्रसा॒ना अरा॑विषुः शृ॒ण्व ए॑षां प्रो॒थथो॒ अर्व॑तामिव ॥
उ॒ग्राःऽइ॑व , प्र॒ऽवहं॑तः , सं॒ऽआय॑मुः , सा॒कं , यु॒क्ताः , वृष॑णः , बिभ्र॑तः , धुरः॑ । यत् , श्व॒संतः॑ , ज॒ग्र॒सा॒नाः , अरा॑विषुः , शृ॒ण्वे , ए॒षां॒ , प्रो॒थथः॑ , अर्व॑तांऽइव ॥
दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः । दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ॥
दशा॑वनिऽभ्यः , दश॑ऽकक्ष्येभ्यः , दश॑ऽयोक्त्रेभ्यः , दश॑ऽयोजनेभ्यः । दशा॑भीशुऽभ्यः , अ॒र्च॒त॒ , अ॒जरे॑भ्यः , दश॑ , धुरः॑ , दश॑ , यु॒क्ताः , वह॑त्ऽभ्यः ॥
ते अद्र॑यो॒ दश॑यंत्रास आ॒शव॒स्तेषा॑मा॒धानं॒ पर्ये॑ति हर्य॒तं । त ऊ॑ सु॒तस्य॑ सो॒म्यस्यांध॑सों॒ऽशोः पी॒यूषं॑ प्रथ॒मस्य॑ भेजिरे ॥
ते , अद्र॑यः , दश॑ऽयंत्रासः , आ॒शवः॑ , तेषां॑ , आ॒ऽधानं॑ , परि॑ , ए॒ति॒ , ह॒र्य॒तं । ते , ऊँ॒ इति॑ , सु॒तस्य॑ , सो॒म्यस्य॑ , अंध॑सः , अं॒शोः , पी॒यूषं॑ , प्र॒थ॒मस्य॑ , भे॒जि॒रे॒ ॥
ते सो॒मादो॒ हरी॒ इंद्र॑स्य निंसतें॒ऽशुं दु॒हंतो॒ अध्या॑सते॒ गवि॑ । तेभि॑र्दु॒ग्धं प॑पि॒वांत्सो॒म्यं मध्विंद्रो॑ वर्धते॒ प्रथ॑ते वृषा॒यते॑ ॥
ते , सो॒म॒ऽअदः॑ , हरी॒ इति॑ , इंद्र॑स्य , निं॒स॒ते॒ , अं॒शुं , दु॒हंतः॑ , अधि॑ , आ॒स॒ते॒ , गवि॑ । तेभिः॑ , दु॒ग्धं , प॒पि॒ऽवान् , सो॒म्यं , मधु॑ , इंद्रः॑ , व॒र्ध॒ते॒ , प्रथ॑ते , वृ॒ष॒ऽयते॑ ॥
वृषा॑ वो अं॒शुर्न किला॑ रिषाथ॒नेळा॑वंतः॒ सद॒मित्स्थ॒नाशि॑ताः । रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रं ॥
वृषा॑ , वः॒ , अं॒शुः , न , किल॑ , रि॒षा॒थ॒न॒ , इळा॑ऽवंतः , सदं॑ , इत् , स्थ॒न॒ , आशि॑ताः । रै॒व॒त्याऽइ॑व , मह॑सा , चार॑वः , स्थ॒न॒ , यस्य॑ , ग्रा॒वा॒णः॒ , अजु॑षध्वं , अ॒ध्व॒रं ॥
तृ॒दि॒ला अतृ॑दिलासो॒ अद्र॑योऽश्रम॒णा अशृ॑थिता॒ अमृ॑त्यवः । अ॒ना॒तु॒रा अ॒जराः॒ स्थाम॑विष्णवः सुपी॒वसो॒ अतृ॑षिता॒ अतृ॑ष्णजः ॥
तृ॒दि॒लाः , अतृ॑दिलासः , अद्र॑यः , अ॒श्र॒म॒णाः , अशृ॑थिताः , अमृ॑त्यवः । अ॒ना॒तु॒राः , अ॒जराः॑ , स्थ॒ , अम॑विष्णवः , सु॒ऽपी॒वसः॑ , अतृ॑षिताः , अतृ॑ष्णऽजः ॥
ध्रु॒वा ए॒व वः॑ पि॒तरो॑ यु॒गेयु॑गे॒ क्षेम॑कामासः॒ सद॑सो॒ न युं॑जते । अ॒जु॒र्यासो॑ हरि॒षाचो॑ ह॒रिद्र॑व॒ आ द्यां रवे॑ण पृथि॒वीम॑शुश्रवुः ॥
ध्रु॒वाः , ए॒व , वः॒ , पि॒तरः॑ , यु॒गेऽयु॑गे , क्षेम॑ऽकामासः , सद॑सः , न , युं॒ज॒ते॒ । अ॒जु॒र्यासः॑ , ह॒रि॒ऽसाचः॑ , ह॒रिद्र॑वः , आ , द्यां , रवे॑ण , पृ॒थि॒वीं , अ॒शु॒श्र॒वुः॒ ॥
तदिद्व॑दं॒त्यद्र॑यो वि॒मोच॑ने॒ याम॑न्नंज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभिः॑ । वपं॑तो॒ बीज॑मिव धान्या॒कृतः॑ पृं॒चंति॒ सोमं॒ न मि॑नंति॒ बप्स॑तः ॥
तत् , इत् , व॒दं॒ति॒ , अद्र॑यः , वि॒ऽमोच॑ने , याम॑न् , अं॒जः॒पाःऽइ॑व , घ॒ , इत् , उ॒प॒ब्दिऽभिः॑ । वपं॑तः , बीजं॑ऽइव , धा॒न्य॒ऽकृतः॑ , पृं॒चंति॑ , सोमं॑ , न , मि॒नं॒ति॒ , बप्स॑तः ॥
सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं॑ तु॒दंतः॑ । वि षू मुं॑चा सुषु॒वुषो॑ मनी॒षां वि व॑र्तंता॒मद्र॑य॒श्चाय॑मानाः ॥
सु॒ते , अ॒ध्व॒रे , अधि॑ , वाचं॑ , अ॒क्र॒त॒ , आ , क्री॒ळयः॑ , न , मा॒तरं॑ , तु॒दंतः॑ । वि , सु , मुं॒च॒ , सु॒सु॒ऽवुषः॑ , म॒नी॒षां , वि , व॒र्तं॒तां॒ , अद्र॑यः , चाय॑मानाः ॥
[९५] हयेजाये इत्यष्टादशर्चस्य सूक्तस्य आद्यातृतीयाषष्ठीनवम्यादिचतसृणां चतुर्दशी सप्तदशीत्येवं नवानामैलः पुरूरवाऋषिरुर्वशी देवता शिष्टानामुर्वशीऋषिका पुरूरवादेवतात्रिष्टुप् |
ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे॒ वचां॑सि मि॒श्रा कृ॑णवावहै॒ नु । न नौ॒ मंत्रा॒ अनु॑दितास ए॒ते मय॑स्कर॒न्पर॑तरे च॒नाह॑न् ॥
ह॒ये , जाये॑ , मन॑सा , तिष्ठ॑ , घो॒रे॒ , वचां॑सि , मि॒श्रा , कृ॒ण॒वा॒व॒है॒ , नु । न , नौ॒ , मंत्राः॑ , अनु॑दितासः , ए॒ते , मयः॑ , क॒र॒न् , पर॑ऽतरे , च॒न , अह॑न् ॥
किमे॒ता वा॒चा कृ॑णवा॒ तवा॒हं प्राक्र॑मिषमु॒षसा॑मग्रि॒येव॑ । पुरू॑रवः॒ पुन॒रस्तं॒ परे॑हि दुराप॒ना वात॑ इवा॒हम॑स्मि ॥
किं , ए॒ता , वा॒चा , कृ॒ण॒व॒ , तव॑ , अ॒हं , प्र , अ॒क्र॒मि॒षं॒ , उ॒षसां॑ , अ॒ग्रि॒याऽइ॑व । पुरू॑रवः , पुनः॑ , अस्तं॑ , परा॑ , इ॒हि॒ , दुः॒ऽआ॒प॒ना , वातः॑ऽइव , अ॒हं , अ॒स्मि॒ ॥
इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहिः॑ । अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयंत॒ धुन॑यः ॥
इषुः॑ , न , श्रि॒ये , इ॒षु॒ऽधेः , अ॒स॒ना , गो॒ऽसाः , श॒त॒ऽसाः , न , रंहिः॑ । अ॒वीरे॑ , क्रतौ॑ , वि , द॒वि॒द्यु॒त॒त् , न , उरा॑ , न , मा॒युं , चि॒त॒यं॒त॒ , धुन॑यः ॥
सा वसु॒ दध॑ती॒ श्वशु॑राय॒ वय॒ उषो॒ यदि॒ वष्ट्यंति॑गृहात् । अस्तं॑ ननक्षे॒ यस्मिं॑चा॒कंदिवा॒ नक्तं॑ श्नथि॒ता वै॑त॒सेन॑ ॥
सा , वसु॑ , दध॑ती , श्वशु॑राय , वयः॑ , उषः॑ , यदि॑ , वष्टि॑ , अंति॑ऽगृहात् । अस्तं॑ , न॒न॒क्षे॒ , यस्मि॑न् , चा॒कन् , दिवा॑ , नक्तं॑ , श्न॒थि॒ता , वै॒त॒सेन॑ ॥
त्रिः स्म॒ माह्नः॑ श्नथयो वैत॒सेनो॒त स्म॒ मेऽव्य॑त्यै पृणासि । पुरू॑र॒वोऽनु॑ ते॒ केत॑मायं॒ राजा॑ मे वीर त॒न्व१॒॑स्तदा॑सीः ॥
त्रिः , स्म॒ , मा॒ , अह्नः॑ , श्न॒थ॒यः॒ , वै॒त॒सेन॑ , उ॒त , स्म॒ , मे॒ , अव्य॑त्यै , पृ॒णा॒सि॒ । पुरू॑रवः , अनु॑ , ते॒ , केतं॑ , आ॒यं॒ , राजा॑ , मे॒ , वी॒र॒ , त॒न्वः॑ , तत् , आ॒सीः॒ ॥
या सु॑जू॒र्णिः श्रेणिः॑ सु॒म्नआ॑पिर्ह्र॒देच॑क्षु॒र्न ग्रं॒थिनी॑ चर॒ण्युः । ता अं॒जयो॑ऽरु॒णयो॒ न स॑स्रुः श्रि॒ये गावो॒ न धे॒नवो॑ऽनवंत ॥
या , सु॒ऽजू॒र्णिः , श्रेणिः॑ , सु॒म्नेऽआ॑पिः , ह्र॒देऽच॑क्षुः , न , ग्रं॒थिनी॑ , च॒र॒ण्युः । ताः , अं॒जयः॑ , अ॒रु॒णयः॑ , न , स॒स्रुः॒ , श्रि॒ये , गावः॑ , न , धे॒नवः॑ , अ॒न॒वं॒त॒ ॥
सम॑स्मिं॒जाय॑मान आसत॒ ग्ना उ॒तेम॑वर्धन्न॒द्य१॒॑ः स्वगू॑र्ताः । म॒हे यत्त्वा॑ पुरूरवो॒ रणा॒याव॑र्धयंदस्यु॒हत्या॑य दे॒वाः ॥
सं , अ॒स्मि॒न् , जाय॑माने , आ॒स॒त॒ , ग्नाः , उ॒त , ईं॒ , अ॒व॒र्ध॒न् , न॒द्यः॑ , स्वऽगू॑र्ताः । म॒हे , यत् , त्वा॒ , पु॒रू॒र॒वः॒ , रणा॑य , अव॑र्धयन् , द॒स्यु॒ऽहत्या॑य , दे॒वाः ॥
सचा॒ यदा॑सु॒ जह॑ती॒ष्वत्क॒ममा॑नुषीषु॒ मानु॑षो नि॒षेवे॑ । अप॑ स्म॒ मत्त॒रसं॑ती॒ न भु॒ज्युस्ता अ॑त्रसन्रथ॒स्पृशो॒ नाश्वाः॑ ॥
सचा॑ , यत् , आ॒सु॒ , जह॑तीषु , अत्कं॑ , अमा॑नुषीषु , मानु॑षः , नि॒ऽसेवे॑ । अप॑ , स्म॒ , मत् , त॒रसं॑ती , न , भु॒ज्युः , ताः , अ॒त्र॒स॒न् , र॒थ॒ऽस्पृशः॑ , न , अश्वाः॑ ॥
यदा॑सु॒ मर्तो॑ अ॒मृता॑सु नि॒स्पृक्सं क्षो॒णीभिः॒ क्रतु॑भि॒र्न पृं॒क्ते । ता आ॒तयो॒ न त॒न्वः॑ शुंभत॒ स्वा अश्वा॑सो॒ न क्री॒ळयो॒ दंद॑शानाः ॥
यत् , आ॒सु॒ , मर्तः॑ , अ॒मृता॑सु , नि॒ऽस्पृक् , सं , क्षो॒णीभिः॑ , क्रतु॑ऽभिः , न , पृं॒क्ते । ताः , आ॒तयः॑ , न , त॒न्वः॑ , शुं॒भ॒त॒ , स्वाः , अश्वा॑सः , न , क्री॒ळयः॑ , दंद॑शानाः ॥
वि॒द्युन्न या पतं॑ती॒ दवि॑द्यो॒द्भरं॑ती मे॒ अप्या॒ काम्या॑नि । जनि॑ष्टो अ॒पो नर्यः॒ सुजा॑तः॒ प्रोर्वशी॑ तिरत दी॒र्घमायुः॑ ॥
वि॒ऽद्युत् , न , या , पतं॑ती , दवि॑द्योत् , भरं॑ती , मे॒ , अप्या॑ , काम्या॑नि । जनि॑ष्टो॒ इति॑ , अ॒पः , नर्यः॑ , सुऽजा॑तः , प्र , उ॒र्वशी॑ , ति॒र॒त॒ , दी॒र्घं , आयुः॑ ॥
ज॒ज्ञि॒ष इ॒त्था गो॒पीथ्या॑य॒ हि द॒धाथ॒ तत्पु॑रूरवो म॒ ओजः॑ । अशा॑सं त्वा वि॒दुषी॒ सस्मि॒न्नह॒न्न म॒ आशृ॑णोः॒ किम॒भुग्व॑दासि ॥
ज॒ज्ञि॒षे , इ॒त्था , गो॒ऽपीथ्या॑य , हि , द॒धाथ॑ , तत् , पु॒रू॒र॒वः॒ , मे॒ , ओजः॑ । अशा॑सं , त्वा॒ , वि॒दुषी॑ , सस्मि॑न् , अह॑न् , न , मे॒ , आ , अ॒शृ॒णोः॒ , किं , अ॒भुक् , व॒दा॒सि॒ ॥
क॒दा सू॒नुः पि॒तरं॑ जा॒त इ॑च्छाच्च॒क्रन्नाश्रु॑ वर्तयद्विजा॒नन् । को दंप॑ती॒ सम॑नसा॒ वि यू॑यो॒दध॒ यद॒ग्निः श्वशु॑रेषु॒ दीद॑यत् ॥
क॒दा , सू॒नुः , पि॒तरं॑ , जा॒तः , इ॒च्छा॒त् , च॒क्रन् , न , अश्रु॑ , व॒र्त॒य॒त् , वि॒ऽजा॒नन् । कः , दंप॑ती॒ इति॒ दंऽप॑ती , सऽम॑नसा , वि , यू॒यो॒त् , अध॑ , यत् , अ॒ग्निः , श्वशु॑रेषु , दीद॑यत् ॥
प्रति॑ ब्रवाणि व॒र्तय॑ते॒ अश्रु॑ च॒क्रन्न क्रं॑ददा॒ध्ये॑ शि॒वायै॑ । प्र तत्ते॑ हिनवा॒ यत्ते॑ अ॒स्मे परे॒ह्यस्तं॑ न॒हि मू॑र॒ मापः॑ ॥
प्रति॑ , ब्र॒वा॒णि॒ , व॒र्तय॑ते , अश्रु॑ , च॒क्रन् , न , क्रं॒द॒त् , आ॒ऽध्ये॑ , शि॒वायै॑ । प्र , तत् , ते॒ , हि॒न॒व॒ , यत् , ते॒ , अ॒स्मे इति॑ , परा॑ , इ॒हि॒ , अस्तं॑ , न॒हि , मू॒र॒ , मा॒ , आपः॑ ॥
सु॒दे॒वो अ॒द्य प्र॒पते॒दना॑वृत्परा॒वतं॑ पर॒मां गंत॒वा उ॑ । अधा॒ शयी॑त॒ निर्ऋ॑तेरु॒पस्थेऽधै॑नं॒ वृका॑ रभ॒सासो॑ अ॒द्युः ॥
सु॒ऽदे॒वः , अ॒द्य , प्र॒ऽपते॑त् , अना॑वृत् , प॒रा॒ऽवतं॑ , प॒र॒मां , गंत॒वै , ऊँ॒ इति॑ । अध॑ , शयी॑त , निःऽऋ॑तेः , उ॒पऽस्थे॑ , अध॑ , ए॒नं॒ , वृकाः॑ , र॒भ॒सासः॑ , अ॒द्युः ॥
पुरू॑रवो॒ मा मृ॑था॒ मा प्र प॑प्तो॒ मा त्वा॒ वृका॑सो॒ अशि॑वास उ क्षन् । न वै स्त्रैणा॑नि स॒ख्यानि॑ संति सालावृ॒काणां॒ हृद॑यान्ये॒ता ॥
पुरू॑रवः , मा , मृ॒थाः॒ , मा , प्र , प॒प्तः॒ , मा , त्वा॒ , वृका॑सः , अशि॑वासः , ऊँ॒ इति॑ , क्ष॒न् । न , वै , स्त्रैणा॑नि , स॒ख्यानि॑ , सं॒ति॒ , सा॒ला॒वृ॒काणां॑ , हृद॑यानि , ए॒ता ॥
यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्रीः॑ श॒रद॒श्चत॑स्रः । घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता॑तृपा॒णा च॑रामि ॥
यत् , विऽरू॑पा , अच॑रं , मर्त्ये॑षु , अव॑सं , रात्रीः॑ , श॒रदः॑ , चत॑स्रः । घृ॒तस्य॑ , स्तो॒कं , स॒कृत् , अह्नः॑ , आ॒श्नां॒ , तात् , ए॒व , इ॒दं , त॒तृ॒पा॒णा , च॒रा॒मि॒ ॥
अं॒त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः । उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ॥
अं॒त॒रि॒क्ष॒ऽप्रां , रज॑सः , वि॒ऽमानीं॑ , उप॑ , शि॒क्षा॒मि॒ , उ॒र्वशीं॑ , वसि॑ष्ठः । उप॑ , त्वा॒ , रा॒तिः , सु॒ऽकृ॒तस्य॑ , तिष्ठा॑त् , नि , व॒र्त॒स्व॒ , हृद॑यं , त॒प्य॒ते॒ , मे॒ ॥
इति॑ त्वा दे॒वा इ॒म आ॑हुरैळ॒ यथे॑मे॒तद्भव॑सि मृ॒त्युबं॑धुः । प्र॒जा ते॑ दे॒वान्ह॒विषा॑ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ॥
इति॑ , त्वा॒ , दे॒वाः , इ॒मे , आ॒हुः॒ , ऐ॒ळ॒ , यथा॑ , ईं॒ , ए॒तत् , भव॑सि , मृ॒त्युऽबं॑धुः । प्र॒ऽजा , ते॒ , दे॒वान् , ह॒विषा॑ , य॒जा॒ति॒ , स्वः॒ऽगे , ऊँ॒ इति॑ , त्वं , अपि॑ , मा॒द॒या॒से॒ ॥
[९६] प्रतइति त्रयोदशर्चस्य सूक्तस्यांगिरसोबरुर्हरिर्जगत्यंत्येद्वेत्रिष्टुभौ ( ऐंद्रः सर्वहरिर्वर्षिरत्र | हरिरितींद्रनाम | शौनकस्तु मुखतएवैतत्सूक्तर्मेंद्रमित्याह । हरिरितींद्राश्वनामेतिचकश्चित् । एवंहरिशब्दार्थे विप्रतिपत्तावप्याकरो दितरिशब्दोच्चारणंयुक्तमुत्पश्यामः) |
प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मदं॑ । घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशंतु॒ हरि॑वर्पसं॒ गिरः॑ ॥
प्र , ते॒ , म॒हे , वि॒दथे॑ , शं॒सि॒षं॒ , हरी॒ इति॑ , प्र , ते॒ , व॒न्वे॒ , व॒नुषः॑ , ह॒र्य॒तं , मदं॑ । घृ॒तं , न , यः , हरि॑ऽभिः , चारु॑ , सेच॑ते , आ , त्वा॒ , वि॒शं॒तु॒ , हरि॑ऽवर्पसं , गिरः॑ ॥
हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वंतो॒ हरी॑ दि॒व्यं यथा॒ सदः॑ । आ यं पृ॒णंति॒ हरि॑भि॒र्न धे॒नव॒ इंद्रा॑य शू॒षं हरि॑वंतमर्चत ॥
हरिं॑ , हि , योनिं॑ , अ॒भि , ये , सं॒ऽअस्व॑रन् , हि॒न्वंतः॑ , हरी॒ इति॑ , दि॒व्यं , यथा॑ , सदः॑ । आ , यं , पृ॒णंति॑ , हरि॑ऽभिः , न , धे॒नवः॑ , इंद्रा॑य , शू॒षं , हरि॑ऽवंतं , अ॒र्च॒त॒ ॥
सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः । द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इंद्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥
सः , अ॒स्य॒ , वज्रः॑ , हरि॑तः , यः , आ॒य॒सः , हरिः॑ , निऽका॑मः , हरिः॑ , आ , गभ॑स्त्योः । द्यु॒म्नी , सु॒ऽशि॒प्रः , हरि॑मन्युऽसायकः , इंद्रे॑ , नि , रू॒पा , हरि॑ता , मि॒मि॒क्षि॒रे॒ ॥
दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑ । तु॒ददहिं॒ हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिंभ॒रः ॥
दि॒वि , न , के॒तुः , अधि॑ , धा॒यि॒ , ह॒र्य॒तः , वि॒व्यच॑त् , वज्रः॑ , हरि॑तः , न , रंह्या॑ । तु॒दत् , अहिं॑ , हरि॑ऽशिप्रः , यः , आ॒य॒सः , स॒हस्र॑ऽशोकाः , अ॒भ॒व॒त् , ह॒रिं॒ऽभ॒रः ॥
त्वंत्व॑महर्यथा॒ उप॑स्तुतः॒ पूर्वे॑भिरिंद्र हरिकेश॒ यज्व॑भिः । त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॒॑मसा॑मि॒ राधो॑ हरिजात हर्य॒तं ॥
त्वंऽत्वं॑ , अ॒ह॒र्य॒थाः॒ , उप॑ऽस्तुतः , पूर्वे॑भिः , इं॒द्र॒ , ह॒रि॒ऽके॒श॒ , यज्व॑ऽभिः । त्वं , ह॒र्य॒सि॒ , तव॑ , विश्वं॑ , उ॒क्थ्यं॑ , असा॑मि , राधः॑ , ह॒रि॒ऽजा॒त॒ , ह॒र्य॒तं ॥
ता व॒ज्रिणं॑ मं॒दिनं॒ स्तोम्यं॒ मद॒ इंद्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ । पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इंद्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥
ता , व॒ज्रिणं॑ , मं॒दिनं॑ , स्तोम्यं॑ , मदे॑ , इंद्रं॑ , रथे॑ , व॒ह॒तः॒ , ह॒र्य॒ता , हरी॒ इति॑ । पु॒रूणि॑ , अ॒स्मै॒ , सव॑नानि , हर्य॑ते , इंद्रा॑य , सोमाः॑ , हर॑यः , द॒ध॒न्वि॒रे॒ ॥
अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा । अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वंतमानशे ॥
अरं॑ , कामा॑य , हर॑यः , द॒ध॒न्वि॒रे॒ , स्थि॒राय॑ , हि॒न्व॒न् , हर॑यः , हरी॒ इति॑ , तु॒रा । अर्व॑त्ऽभिः , यः , हरि॑ऽभिः , जोषं॑ , ईय॑ते , सः , अ॒स्य॒ , कामं॑ , हरि॑ऽवंतं , आ॒न॒शे॒ ॥
हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत । अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥
हरि॑ऽश्मशारुः , हरि॑ऽकेशः , आ॒य॒सः , तु॒रः॒ऽपेये॑ , यः , ह॒रि॒ऽपाः , अव॑र्धत । अर्व॑त्ऽभिः , यः , हरि॑ऽभिः , वा॒जिनी॑ऽवसुः , अति॑ , विश्वा॑ , दुः॒ऽइ॒ता , पारि॑षत् , हरी॒ इति॑ ॥
स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः । प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यांध॑सः ॥
स्रुवा॑ऽइव , यस्य॑ , हरि॑णी॒ इति॑ , वि॒ऽपे॒ततुः॑ , शिप्रे॒ इति॑ , वाजा॑य , हरि॑णी॒ इति॑ , दवि॑ध्वतः । प्र , यत् , कृ॒ते , च॒म॒से , मर्मृ॑जत् , हरी॒ इति॑ , पी॒त्वा , मद॑स्य , ह॒र्य॒तस्य॑ , अंध॑सः ॥
उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॒॑रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् । म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बृ॒हद्वयो॑ दधिषे हर्य॒तश्चि॒दा ॥
उ॒त , स्म॒ , सद्म॑ , ह॒र्य॒तस्य॑ , प॒स्त्योः॑ , अत्यः॑ , न , वाजं॑ , हरि॑ऽवान् , अ॒चि॒क्र॒द॒त् । म॒ही , चि॒त् , हि , धि॒षणा॑ , अह॑र्यत् , ओज॑सा , बृ॒हत् , वयः॑ , द॒धि॒षे॒ , ह॒र्य॒तः , चि॒त् , आ ॥
आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यं । प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ॥
आ , रोद॑सी॒ इति॑ , हर्य॑माणः , म॒हि॒ऽत्वा , नव्यं॑ऽनव्यं , ह॒र्य॒सि॒ , मन्म॑ , नु , प्रि॒यं । प्र , प॒स्त्यं॑ , अ॒सु॒र॒ , ह॒र्य॒तं , गोः , आ॒विः , कृ॒धि॒ , हर॑ये , सूर्या॑य ॥
आ त्वा॑ ह॒र्यंतं॑ प्र॒युजो॒ जना॑नां॒ रथे॑ वहंतु॒ हरि॑शिप्रमिंद्र । पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिं ॥
आ , त्वा॒ , ह॒र्यंतं॑ , प्र॒ऽयुजः॑ , जना॑नां , रथे॑ , व॒हं॒तु॒ , हरि॑ऽशिप्रं , इं॒द्र॒ । पिब॑ , यथा॑ , प्रति॑ऽभृतस्य , मध्वः॑ , हर्य॑न् , य॒ज्ञं , स॒ध॒ऽमादे॑ , दश॑ऽओणिं ॥
अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते । म॒म॒द्धि सोमं॒ मधु॑मंतमिंद्र स॒त्रा वृ॑षंज॒ठर॒ आ वृ॑षस्व ॥
अपाः॑ , पूर्वे॑षां , ह॒रि॒ऽवः॒ , सु॒तानां॑ , अथो॒ इति॑ , इ॒दं , सव॑नं , केव॑लं , ते॒ । म॒म॒द्धि , सोमं॑ , मधु॑ऽमंतं , इं॒द्र॒ , स॒त्रा , वृ॒ष॒न् , ज॒ठरे॑ , आ , वृ॒ष॒स्व॒ ॥
[९७] याओषधीरिति त्रयोविंशत्यृचस्य सूक्तस्याथर्वणोभिषगोषधयोनुष्टुप् |
या ओष॑धीः॒ पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । मनै॒ नु ब॒भ्रूणा॑म॒हं श॒तं धामा॑नि स॒प्त च॑ ॥
याः , ओष॑धीः , पूर्वाः॑ , जा॒ताः , दे॒वेभ्यः॑ , त्रि॒ऽयु॒गं , पु॒रा । मनै॑ , नु , ब॒भ्रूणां॑ , अ॒हं , श॒तं , धामा॑नि , स॒प्त , च॒ ॥
श॒तं वो॑ अंब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ । अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥
श॒तं , वः॒ , अं॒ब॒ , धामा॑नि , स॒हस्रं॑ , उ॒त , वः॒ , रुहः॑ । अध॑ , श॒त॒ऽक्र॒त्वः॒ , यू॒यं , इ॒मं , मे॒ , अ॒ग॒दं , कृ॒त॒ ॥
ओष॑धीः॒ प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः । अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः॑ ॥
ओष॑धीः , प्रति॑ , मो॒द॒ध्वं॒ , पुष्प॑ऽवतीः , प्र॒ऽसूव॑रीः । अश्वाः॑ऽइव , स॒ऽजित्व॑रीः , वी॒रुधः॑ , पा॒र॒यि॒ष्ण्वः॑ ॥
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे । स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ॥
ओष॑धीः , इति॑ , मा॒त॒रः॒ , तत् , वः॒ , दे॒वीः॒ , उप॑ , ब्रु॒वे॒ । स॒नेयं॑ , अश्वं॑ , गां , वासः॑ , आ॒त्मानं॑ , तव॑ , पु॒रु॒ष॒ ॥
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता । गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षं ॥
अ॒श्व॒त्थे , वः॒ , नि॒ऽसद॑नं , प॒र्णे , वः॒ , व॒स॒तिः , कृ॒ता । गो॒ऽभाजः॑ , इत् , किल॑ , अ॒स॒थ॒ , यत् , स॒नव॑थ , पुरु॑षं ॥
यत्रौष॑धीः स॒मग्म॑त॒ राजा॑नः॒ समि॑ताविव । विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥
यत्र॑ , ओष॑धीः , सं॒ऽअग्म॑त , राजा॑नः , समि॑तौऽइव । विप्रः॑ , सः , उ॒च्य॒ते॒ , भि॒षक् , र॒क्षः॒ऽहा , अ॒मी॒व॒ऽचात॑नः ॥
अ॒श्वा॒व॒तीं सो॑माव॒तीमू॒र्जयं॑ती॒मुदो॑जसं । आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥
अ॒श्व॒ऽव॒तीं , सो॒म॒ऽव॒तीं , ऊ॒र्जयं॑तीं , उत्ऽओ॑जसं । आ , अ॒वि॒त्सि॒ , सर्वाः॑ , ओष॑धीः , अ॒स्मै , अ॒रि॒ष्टऽता॑तये ॥
उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते । धनं॑ सनि॒ष्यंती॑नामा॒त्मानं॒ तव॑ पूरुष ॥
उत् , शुष्माः॑ , ओष॑धीनां , गावः॑ , गो॒स्थात्ऽइ॑व , ई॒र॒ते॒ । धनं॑ , स॒नि॒ष्यंती॑नां , आ॒त्मानं॑ , तव॑ , पु॒रु॒ष॒ ॥
इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒यं स्थ॒ निष्कृ॑तीः । सी॒राः प॑त॒त्रिणीः॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥
इष्कृ॑तिः , नाम॑ , वः॒ , मा॒ता , अथो॒ इति॑ , यू॒यं , स्थ॒ , निःऽकृ॑तीः । सी॒राः , प॒त॒त्रिणीः॑ , स्थ॒न॒ , यत् , आ॒मय॑ति , निः , कृ॒थ॒ ॥
अति॒ विश्वाः॑ परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३॒॑ रपः॑ ॥
अति॑ , विश्वाः॑ , प॒रि॒ऽस्थाः , स्ते॒नःऽइ॑व , व्र॒जं , अ॒क्र॒मुः॒ । ओष॑धीः , प्र , अ॒चु॒च्य॒वुः॒ , यत् , किं , च॒ , त॒न्वः॑ , रपः॑ ॥
यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥
यत् , इ॒माः , वा॒जय॑न् , अ॒हं , ओष॑धीः , हस्ते॑ , आ॒ऽद॒धे । आ॒त्मा , यक्ष्म॑स्य , न॒श्य॒ति॒ , पु॒रा , जी॒व॒ऽगृभः॑ , य॒था॒ ॥
यस्यौ॑षधीः प्र॒सर्प॒थांग॑मंगं॒ परु॑ष्परुः । ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ॥
यस्य॑ , ओ॒ष॒धीः॒ , प्र॒ऽसर्प॑थ , अंगं॑ऽअंगं , परुः॑ऽपरुः । ततः॑ , यक्ष्मं॑ , वि , बा॒ध॒ध्वे॒ , उ॒ग्रः , म॒ध्य॒म॒शीःऽइ॑व ॥
सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकिदी॒विना॑ । सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥
सा॒कं , य॒क्ष्म॒ , प्र , प॒त॒ , चाषे॑ण , कि॒कि॒दी॒विना॑ । सा॒कं , वात॑स्य , ध्राज्या॑ , सा॒कं , न॒श्य॒ , नि॒ऽहाक॑या ॥
अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत । ताः सर्वाः॑ संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥
अ॒न्या , वः॒ , अ॒न्यां , अ॒व॒तु॒ , अ॒न्या , अ॒न्यस्याः॑ , उप॑ , अ॒व॒त॒ । ताः , सर्वाः॑ , सं॒ऽवि॒दा॒नाः , इ॒दं , मे॒ , प्र , अ॒व॒त॒ , वचः॑ ॥
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑ । बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुंचं॒त्वंह॑सः ॥
याः , फ॒लिनीः॑ , याः , अ॒फ॒लाः , अ॒पु॒ष्पाः , याः , च॒ , पु॒ष्पिणीः॑ । बृह॒स्पति॑ऽप्रसूताः , ताः , नः॒ , मुं॒चं॒तु॒ , अंह॑सः ॥
मुं॒चंतु॑ मा शप॒थ्या॒३॒॑दथो॑ वरु॒ण्या॑दु॒त । अथो॑ य॒मस्य॒ पड्बी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ॥
मुं॒चंतु॑ , मा॒ , श॒प॒थ्या॑त् , अथो॒ इति॑ , व॒रु॒ण्या॑त् , उ॒त । अथो॒ इति॑ , य॒मस्य॑ , पड्बी॑शात् , सर्व॑स्मात् , दे॒व॒ऽकि॒ल्बि॒षात् ॥
अ॒व॒पतं॑तीरवदंदि॒व ओष॑धय॒स्परि॑ । यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥
अ॒व॒ऽपतं॑तीः , अ॒व॒द॒न् , दि॒वः , ओष॑धयः , परि॑ । यं , जी॒वं , अ॒श्नवा॑महै , न , सः , रि॒ष्या॒ति॒ , पुरु॑षः ॥
या ओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः । तासां॒ त्वम॑स्युत्त॒मारं॒ कामा॑य॒ शं हृ॒दे ॥
याः , ओष॑धीः , सोम॑ऽराज्ञीः , ब॒ह्वीः , श॒तऽवि॑चक्षणाः । तासां॑ , त्वं , अ॒सि॒ , उ॒त्ऽत॒मा , अरं॑ , कामा॑य , शं , हृ॒दे ॥
या ओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ । बृह॒स्पति॑प्रसूता अ॒स्यै सं द॑त्त वी॒र्यं॑ ॥
याः , ओष॑धीः , सोम॑ऽराज्ञीः , विऽस्थि॑ताः , पृ॒थि॒वीं , अनु॑ । बृह॒स्पति॑ऽप्रसूताः , अ॒स्यै , सं , द॒त्त॒ , वी॒र्यं॑ ॥
मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑मि वः । द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रं ॥
मा , वः॒ , रि॒ष॒त् , ख॒नि॒ता , यस्मै॑ , च॒ , अ॒हं , खना॑मि , वः॒ । द्वि॒ऽपत् , चतुः॑ऽपत् , अ॒स्माकं॑ , सर्वं॑ , अ॒स्तु॒ , अ॒ना॒तु॒रं ॥
याश्चे॒दमु॑पशृ॒ण्वंति॒ याश्च॑ दू॒रं परा॑गताः । सर्वाः॑ सं॒गत्य॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्यं॑ ॥
याः , च॒ , इ॒दं , उ॒प॒ऽशृ॒ण्वंति॑ , याः , च॒ , दू॒रं , परा॑ऽगताः । सर्वाः॑ , सं॒ऽगत्य॑ , वी॒रु॒धः॒ , अ॒स्यै , सं , द॒त्त॒ , वी॒र्यं॑ ॥
ओष॑धयः॒ सं व॑दंते॒ सोमे॑न स॒ह राज्ञा॑ । यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन्पारयामसि ॥
ओष॑धयः , सं , व॒दं॒ते॒ , सोमे॑न , स॒ह , राज्ञा॑ । यस्मै॑ , कृ॒णोति॑ , ब्रा॒ह्म॒णः , तं , रा॒ज॒न् , पा॒र॒या॒म॒सि॒ ॥
त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः । उप॑स्तिरस्तु॒ सो॒३॒॑ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥
त्वं , उ॒त्ऽत॒मा , अ॒सि॒ , ओ॒ष॒धे॒ , तव॑ , वृ॒क्षाः , उप॑स्तयः । उप॑स्तिः , अ॒स्तु॒ , सः , अ॒स्माकं॑ , यः , अ॒स्मान् , अ॒भि॒ऽदास॑ति ॥
[९८] बृहस्पत इति द्वादशर्चस्य सूक्तस्यार्ष्टिषेणो देवापिर्देवास्त्रिष्टुप् | (शौनकस्त्वस्मिन्सूक्ते आद्यानांचतसृणां बृहस्पतिस्ततश्चतसृणां देवास्ततः पंचानामग्निरित्येवं देवताव्यवस्थामाह) |
बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा । आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वां॒त्स प॒र्जन्यं॒ शंत॑नवे वृषाय ॥
बृह॑स्पते , प्रति॑ , मे॒ , दे॒वतां॑ , इ॒हि॒ , मि॒त्रः , वा॒ , यत् , वरु॑णः , वा॒ , असि॑ , पू॒षा । आ॒दि॒त्यैः , वा॒ , यत् , वसु॑ऽभिः , म॒रुत्वा॑न् , सः , प॒र्जन्यं॑ , शंऽत॑नवे , वृ॒ष॒य॒ ॥
आ दे॒वो दू॒तो अ॑जि॒रश्चि॑कि॒त्वांत्वद्दे॑वापे अ॒भि माम॑गच्छत् । प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा॑मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ॥
आ , दे॒वः , दू॒तः , अ॒जि॒रः , चि॒कि॒त्वान् , त्वत् , दे॒व॒ऽआ॒पे॒ , अ॒भि , मां , अ॒ग॒च्छ॒त् । प्र॒ती॒ची॒नः , प्रति॑ , मां , आ , व॒वृ॒त्स्व॒ , दधा॑मि , ते॒ , द्यु॒ऽमतीं॑ , वाचं॑ , आ॒सन् ॥
अ॒स्मे धे॑हि द्यु॒मतीं॒ वाच॑मा॒सन्बृह॑स्पते अनमी॒वामि॑षि॒रां । यया॑ वृ॒ष्टिं शंत॑नवे॒ वना॑व दि॒वो द्र॒प्सो मधु॑माँ॒ आ वि॑वेश ॥
अ॒स्मे इति॑ , धे॒हि॒ , द्यु॒ऽमतीं॑ , वाचं॑ , आ॒सन् , बृह॑स्पते , अ॒न॒मी॒वां , इ॒षि॒रां । यया॑ , वृ॒ष्टिं , शंऽत॑नवे , वना॑व , दि॒वः , द्र॒प्सः , मधु॑ऽमान् , आ , वि॒वे॒श॒ ॥
आ नो॑ द्र॒प्सा मधु॑मंतो विशं॒त्विंद्र॑ दे॒ह्यधि॑रथं स॒हस्रं॑ । नि षी॑द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वांदे॑वापे ह॒विषा॑ सपर्य ॥
आ , नः॒ , द्र॒प्साः , मधु॑ऽमंतः , वि॒शं॒तु॒ , इंद्र॑ , दे॒हि , अधि॑ऽरथं , स॒हस्रं॑ । नि , सी॒द॒ , हो॒त्रं , ऋ॒तु॒ऽथा , य॒ज॒स्व॒ , दे॒वान् , दे॒व॒ऽआ॒पे॒ , ह॒विषा॑ , स॒प॒र्य॒ ॥
आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि॑र्नि॒षीदं॑दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् । स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या अ॑सृजद्व॒र्ष्या॑ अ॒भि ॥
आ॒र्ष्टि॒षे॒णः , हो॒त्रं , ऋषिः॑ , नि॒ऽसीद॑न् , दे॒वऽआ॑पिः , दे॒व॒ऽसु॒म॒तिं , चि॒कि॒त्वान् । सः , उत्ऽत॑रस्मात् , अध॑रं , स॒मु॒द्रं , अ॒पः , दि॒व्याः , अ॒सृ॒ज॒त् , व॒र्ष्याः॑ , अ॒भि ॥
अ॒स्मिंत्स॑मु॒द्रे अध्युत्त॑रस्मि॒न्नापो॑ दे॒वेभि॒र्निवृ॑ता अतिष्ठन् । ता अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी॑षु ॥
अ॒स्मिन् , स॒मु॒द्रे , अधि॑ , उत्ऽत॑रस्मिन् , आपः॑ , दे॒वेभिः॑ , निऽवृ॑ताः , अ॒ति॒ष्ठ॒न् । ताः , अ॒द्र॒व॒न् , आ॒र्ष्टि॒षे॒णेन॑ , सृ॒ष्टाः , दे॒वऽआ॑पिना , प्रऽइ॑षिताः , मृ॒क्षिणी॑षु ॥
यद्दे॒वापिः॒ शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी॑धेत् । दे॒व॒श्रुतं॑ वृष्टि॒वनिं॒ ररा॑णो॒ बृह॒स्पति॒र्वाच॑मस्मा अयच्छत् ॥
यत् , दे॒वऽआ॑पिः , शंऽत॑नवे , पु॒रःऽहि॑तः , हो॒त्राय॑ , वृ॒तः , कृ॒पय॑न् , अदी॑धेत् । दे॒व॒ऽश्रुतं॑ , वृ॒ष्टि॒ऽवनिं॑ , ररा॑णः , बृह॒स्पतिः॑ , वाचं॑ , अ॒स्मै॒ , अ॒य॒च्छ॒त् ॥
यं त्वा॑ दे॒वापिः॑ शुशुचा॒नो अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्यः॑ समी॒धे । विश्वे॑भिर्दे॒वैर॑नुम॒द्यमा॑नः॒ प्र प॒र्जन्य॑मीरया वृष्टि॒मंतं॑ ॥
यं , त्वा॒ , दे॒वऽआ॑पिः , शु॒शु॒चा॒नः , अ॒ग्ने॒ , आ॒र्ष्टि॒षे॒णः , म॒नु॒ष्यः॑ , सं॒ऽई॒धे । विश्वे॑भिः , दे॒वैः , अ॒नु॒ऽम॒द्यमा॑नः , प्र , प॒र्जन्यं॑ , ई॒र॒य॒ , वृ॒ष्टि॒ऽमंतं॑ ॥
त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा॑यं॒त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे॑ । स॒हस्रा॒ण्यधि॑रथान्य॒स्मे आ नो॑ य॒ज्ञं रो॑हिद॒श्वोप॑ याहि ॥
त्वां , पूर्वे॑ , ऋष॑यः , गीः॒ऽभिः , आ॒य॒न् , त्वां , अ॒ध्व॒रेषु॑ , पु॒रु॒ऽहू॒त॒ , विश्वे॑ । स॒हस्रा॑णि , अधि॑ऽरथानि , अ॒स्मे इति॑ , आ , नः॒ , य॒ज्ञं , रो॒हि॒त्ऽअ॒श्व॒ , उप॑ , या॒हि॒ ॥
ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे आहु॑ता॒न्यधि॑रथा स॒हस्रा॑ । तेभि॑र्वर्धस्व त॒न्वः॑ शूर पू॒र्वीर्दि॒वो नो॑ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ॥
ए॒तानि॑ , अ॒ग्ने॒ , न॒व॒तिः , नव॑ , त्वे इति॑ , आऽहु॑तानि , अधि॑ऽरथा , स॒हस्रा॑ । तेभिः॑ , व॒र्ध॒स्व॒ , त॒न्वः॑ , शू॒र॒ , पू॒र्वीः , दि॒वः , नः॒ , वृ॒ष्टिं , इ॒षि॒तः , रि॒री॒हि॒ ॥
ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इंद्रा॑य भा॒गं । वि॒द्वान्प॒थ ऋ॑तु॒शो दे॑व॒याना॒नप्यौ॑ला॒नं दि॒वि दे॒वेषु॑ धेहि ॥
ए॒तानि॑ , अ॒ग्ने॒ , न॒व॒तिं , स॒हस्रा॑ , सं , प्र , य॒च्छ॒ , वृष्णे॑ , इंद्रा॑य , भा॒गं । वि॒द्वान् , प॒थः , ऋ॒तु॒ऽशः , दे॒व॒ऽयाना॑न् , अपि॑ , औ॒ला॒नं , दि॒वि , दे॒वेषु॑ , धे॒हि॒ ॥
अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी॑वा॒मप॒ रक्षां॑सि सेध । अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ॥
अग्ने॑ , बाध॑स्व , वि , मृधः॑ , वि , दुः॒ऽगहा॑ , अप॑ , अमी॑वां , अप॑ , रक्षां॑सि , से॒ध॒ । अ॒स्मात् , स॒मु॒द्रात् , बृ॒ह॒तः , दि॒वः , नः॒ , अ॒पां , भू॒मानं॑ , उप॑ , नः॒ , सृ॒ज॒ , इ॒ह ॥
[९९] कन्नइति द्वादशर्चस्य सूक्तस्य वैखानसोवम्र इंद्रस्त्रिष्टुप् |
कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ । कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥
कं , नः॒ , चि॒त्रं , इ॒ष॒ण्य॒सि॒ , चि॒कि॒त्वान् , पृ॒थु॒ऽग्मानं॑ , वा॒श्रं , व॒वृ॒धध्यै॑ । कत् , तस्य॑ , दातु॑ , शव॑सः , विऽउ॑ष्टौ , तक्ष॑त् , वज्रं॑ , वृ॒त्र॒ऽतुरं॑ , अपि॑न्वत् ॥
स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद । स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ॥
सः , हि , द्यु॒ता , वि॒ऽद्युता॑ , वेति॑ , साम॑ , पृ॒थुं , योनिं॑ , अ॒सु॒र॒ऽत्वा , आ , स॒सा॒द॒ । सः , सऽनी॑ळेभिः , प्र॒ऽस॒हा॒नः , अ॒स्य॒ , भ्रातुः॑ , न , ऋ॒ते , स॒प्तथ॑स्य , मा॒याः ॥
स वाजं॒ याताप॑दुष्पदा॒ यंत्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् । अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नंछि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ॥
सः , वाजं॑ , याता॑ , अप॑दुःऽपदा , यन् , स्वः॑ऽसाता , परि॑ , स॒द॒त् , स॒नि॒ष्यन् । अ॒न॒र्वा , यत् , श॒तऽदु॑रस्य , वेदः॑ , घ्नन् , शि॒श्नऽदे॑वान् , अ॒भि , वर्प॑सा , भूत् ॥
स य॒ह्व्यो॒३॒॑ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु॒ सस्रिः॑ । अ॒पादो॒ यत्र॒ युज्या॑सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ॥
सः , य॒ह्व्यः॑ , अ॒वनीः॑ , गोषु॑ , अर्वा॑ , आ , जु॒हो॒ति॒ , प्र॒ऽध॒न्या॑सु , सस्रिः॑ । अ॒पादः॑ , यत्र॑ , युज्या॑सः , अ॒र॒थाः , द्रो॒णिऽअ॑श्वासः , ईर॑ते , घृ॒तं , वारिति॒ वाः ॥
स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मा॒रेअ॑वद्य॒ आगा॑त् । व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ॥
सः , रु॒द्रेभिः॑ , अश॑स्तऽवारः , ऋभ्वा॑ , हि॒त्वी , गयं॑ , आ॒रेऽअ॑वद्यः , आ , अ॒गा॒त् । व॒म्रस्य॑ , म॒न्ये॒ , मि॒थु॒ना , विव॑व्री॒ इति॒ विऽव॑व्री , अन्नं॑ , अ॒भि॒ऽइत्य॑ , अ॒रो॒द॒य॒त् , मु॒षा॒यन् ॥
स इद्दासं॑ तुवी॒रवं॒ पति॒र्दंत्श॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् । अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो॑अग्रया हन् ॥
सः , इत् , दासं॑ , तु॒वि॒ऽरवं॑ , पतिः॑ , दन् , ष॒ट्ऽअ॒क्षं , त्रि॒ऽशी॒र्षाणं॑ , द॒म॒न्य॒त् । अ॒स्य , त्रि॒तः , नु , ओज॑सा , वृ॒धा॒नः , वि॒पा , व॒रा॒हं , अयः॑ऽअग्रया , ह॒न्निति॑ हन् ॥
स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा॑विषदर्शसा॒नाय॒ शरुं॑ । स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा॑तः॒ पुरो॑ऽभिन॒दर्हं॑दस्यु॒हत्ये॑ ॥
सः , द्रुह्व॑णे , मनु॑षे , ऊ॒र्ध्व॒सा॒नः , आ , सा॒वि॒ष॒त् , अ॒र्श॒सा॒नाय॑ , शरुं॑ । सः , नृऽत॑मः , नहु॑षः , अ॒स्मत् , सुऽजा॑तः , पुरः॑ , अ॒भि॒न॒त् , अर्ह॑न् , द॒स्यु॒ऽहत्ये॑ ॥
सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे । उप॒ यत्सीद॒दिंदुं॒ शरी॑रैः श्ये॒नोऽयो॑पाष्टिर्हंति॒ दस्यू॑न् ॥
सः , अ॒भ्रियः॑ , न , यव॑से , उ॒द॒न्यन् , क्षया॑य , गा॒तुं , वि॒दत् , नः॒ , अ॒स्मे इति॑ । उप॑ , यत् , सीद॑त् , इंदुं॑ , शरी॑रैः , श्ये॒नः , अयः॑ऽअपाष्टिः , हं॒ति॒ , दस्यू॑न् ॥
स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् । अ॒यं क॒विम॑नयच्छ॒स्यमा॑न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णां ॥
सः , व्राध॑तः , श॒व॒सा॒नेभिः॑ , अ॒स्य॒ , कुत्सा॑य , शुष्णं॑ , कृ॒पणे॑ , परा॑ , अ॒दा॒त् । अ॒यं , क॒विं , अ॒न॒य॒त् , श॒स्यमा॑नं , अत्कं॑ , यः , अ॒स्य॒ , सनि॑ता , उ॒त , नृ॒णां ॥
अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी । अ॒यं क॒नीन॑ ऋतु॒पा अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ॥
अ॒यं , द॒श॒स्यन् , नर्ये॑भिः , अ॒स्य॒ , द॒स्मः , दे॒वेभिः॑ , वरु॑णः , न , मा॒यी । अ॒यं , क॒नीनः॑ , ऋ॒तु॒ऽपाः , अ॒वे॒दि॒ , अमि॑मीत , अ॒ररुं॑ , यः , चतुः॑ऽपात् ॥
अ॒स्य स्तोमे॑भिरौशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः॑ । सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ॥
अ॒स्य , स्तोमे॑भिः , औ॒शि॒जः , ऋ॒जिश्वा॑ , व्र॒जं , द॒र॒य॒त् , वृ॒ष॒भेण॑ , पिप्रोः॑ । सुत्वा॑ , यत् , य॒ज॒तः , दी॒दय॑त् , गीः , पुरः॑ , इ॒या॒नः , अ॒भि , वर्प॑सा , भूत् ॥
ए॒वा म॒हो अ॑सुर व॒क्षथा॑य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिंद्रं॑ । स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥
ए॒व , म॒हः , अ॒सु॒र॒ , व॒क्षथा॑य , व॒म्र॒कः , प॒ट्ऽभिः , उप॑ , स॒र्प॒त् , इंद्रं॑ । सः , इ॒या॒नः , क॒र॒ति॒ , स्व॒स्तिं , अ॒स्मै॒ , इषं॑ , ऊर्जं॑ , सु॒ऽक्षि॒तिं , विश्वं॑ , आ , अ॒भा॒रित्य॑भाः ॥
[१००] इंद्रदृह्येति द्वादशर्चस्य सूक्तस्य वांदनोदुवस्युर्विश्वेदेवाजगत्यंत्यात्रिष्टुप् (भेदपक्षे - विश्वेदेवाः १० इंद्रादिती १ इंद्र: १ एवं १२) |
इंद्र॒ दृह्य॑ मघवं॒त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे । दे॒वेभि॑र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
इंद्र॑ , दृह्य॑ , म॒घ॒ऽव॒न् , त्वाऽव॑त् , इत् , भु॒जे , इ॒ह , स्तु॒तः , सु॒त॒ऽपाः , बो॒धि॒ , नः॒ , वृ॒धे । दे॒वेभिः॑ , नः॒ , स॒वि॒ता , प्र , अ॒व॒तु॒ , श्रु॒तं , आ , स॒र्वऽता॑तिं , अदि॑तिं , वृ॒णी॒म॒हे॒ ॥
भरा॑य॒ सु भ॑रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे॑ शुचि॒पे क्रं॒ददि॑ष्टये । गौ॒रस्य॒ यः पय॑सः पी॒तिमा॑न॒श आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
भरा॑य , सु , भ॒र॒त॒ , भा॒गं , ऋ॒त्वियं॑ , प्र , वा॒यवे॑ , शु॒चि॒ऽपे , क्रं॒दत्ऽइ॑ष्टये । गौ॒रस्य॑ , यः , पय॑सः , पी॒तिं , आ॒न॒शे , आ , स॒र्वऽता॑तिं , अदि॑तिं , वृ॒णी॒म॒हे॒ ॥
आ नो॑ दे॒वः स॑वि॒ता सा॑विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते । यथा॑ दे॒वान्प्र॑ति॒भूषे॑म पाक॒वदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
आ , नः॒ , दे॒वः , स॒वि॒ता , सा॒वि॒ष॒त् , वयः॑ , ऋ॒जु॒ऽय॒ते , यज॑मानाय , सु॒न्व॒ते । यथा॑ , दे॒वान् , प्र॒ति॒ऽभूषे॑म , पा॒क॒ऽवत् , आ , स॒र्वऽता॑तिं , अदि॑तिं , वृ॒णी॒म॒हे॒ ॥
इंद्रो॑ अ॒स्मे सु॒मना॑ अस्तु वि॒श्वहा॒ राजा॒ सोमः॑ सुवि॒तस्याध्ये॑तु नः । यथा॑यथा मि॒त्रधि॑तानि संद॒धुरा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
इंद्रः॑ , अ॒स्मे इति॑ , सु॒ऽमनाः॑ , अ॒स्तु॒ , वि॒श्वहा॑ , राजा॑ , सोमः॑ , सु॒वि॒तस्य॑ , अधि॑ , ए॒तु॒ , नः॒ । यथा॑ऽयथा , मि॒त्रऽधि॑तानि , सं॒ऽद॒धुः , आ , स॒र्वऽता॑तिं , अदि॑तिं , वृ॒णी॒म॒हे॒ ॥
इंद्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे॒ बृह॑स्पते प्रतरी॒तास्यायु॑षः । य॒ज्ञो मनुः॒ प्रम॑तिर्नः पि॒ता हि क॒मा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
इंद्रः॑ , उ॒क्थेन॑ , शव॑सा , परुः॑ , द॒धे॒ , बृह॑स्पते , प्र॒ऽत॒री॒ता , अ॒सि॒ , आयु॑षः । य॒ज्ञः , मनुः॑ , प्रऽम॑तिः , नः॒ , पि॒ता , हि , कं॒ , आ , स॒र्वऽता॑तिं , अदि॑तिं , वृ॒णी॒म॒हे॒ ॥
इंद्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः । य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रंत॑म॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
इंद्र॑स्य , नु , सुऽकृ॑तं , दैव्यं॑ , सहः॑ , अ॒ग्निः , गृ॒हे , ज॒रि॒ता , मेधि॑रः , क॒विः । य॒ज्ञः , च॒ , भू॒त् , वि॒दथे॑ , चारुः॑ , अंत॑मः , आ , स॒र्वऽता॑तिं , अदि॑तिं , वृ॒णी॒म॒हे॒ ॥
न वो॒ गुहा॑ चकृम॒ भूरि॑ दुष्कृ॒तं नाविष्ट्यं॑ वसवो देव॒हेळ॑नं । माकि॑र्नो देवा॒ अनृ॑तस्य॒ वर्प॑स॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
न , वः॒ , गुहा॑ , च॒कृ॒म॒ , भूरि॑ , दुः॒ऽकृ॒तं , न , आ॒विःऽत्यं॑ , व॒स॒वः॒ , दे॒व॒ऽहेळ॑नं । माकिः॑ , नः॒ , दे॒वाः॒ , अनृ॑तस्य , वर्प॑सः , आ , स॒र्वऽता॑तिं , अदि॑तिं , वृ॒णी॒म॒हे॒ ॥
अपामी॑वां सवि॒ता सा॑विष॒न्न्य१॒॑ग्वरी॑य॒ इदप॑ सेधं॒त्वद्र॑यः । ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
अप॑ , अमी॑वां , स॒वि॒ता , सा॒वि॒ष॒त् , न्य॑क् , वरी॑यः , इत् , अप॑ , से॒धं॒तु॒ , अद्र॑यः । ग्रावा॑ , यत्र॑ , म॒धु॒ऽसुत् , उ॒च्यते॑ , बृ॒हत् , आ , स॒र्वऽता॑तिं , अदि॑तिं , वृ॒णी॒म॒हे॒ ॥
ऊ॒र्ध्वो ग्रावा॑ वसवोऽस्तु सो॒तरि॒ विश्वा॒ द्वेषां॑सि सनु॒तर्यु॑योत । स नो॑ दे॒वः स॑वि॒ता पा॒युरीड्य॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
ऊ॒र्ध्वः , ग्रावा॑ , व॒स॒वः॒ , अ॒स्तु॒ , सो॒तरि॑ , विश्वा॑ , द्वेषां॑सि , स॒नु॒तः , यु॒यो॒त॒ । सः , नः॒ , दे॒वः , स॒वि॒ता , पा॒युः , ईड्यः॑ , आ , स॒र्वऽता॑तिं , अदि॑तिं , वृ॒णी॒म॒हे॒ ॥
ऊर्जं॑ गावो॒ यव॑से॒ पीवो॑ अत्तन ऋ॒तस्य॒ याः सद॑ने॒ कोशे॑ अं॒ग्ध्वे । त॒नूरे॒व त॒न्वो॑ अस्तु भेष॒जमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
ऊर्जं॑ , गा॒वः॒ , यव॑से , पीवः॑ , अ॒त्त॒न॒ , ऋ॒तस्य॑ , याः , सद॑ने , कोशे॑ , अं॒ग्ध्वे । त॒नूः , ए॒व , त॒न्वः॑ , अ॒स्तु॒ , भे॒ष॒जं , आ , स॒र्वऽता॑तिं , अदि॑तिं , वृ॒णी॒म॒हे॒ ॥
क्र॒तु॒प्रावा॑ जरि॒ता शश्व॑ता॒मव॒ इंद्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑तां । पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
क्र॒तु॒ऽप्रावा॑ , ज॒रि॒ता , शश्व॑तां , अवः॑ , इंद्रः॑ , इत् , भ॒द्रा , प्रऽम॑तिः , सु॒तऽव॑तां । पू॒र्णं , ऊधः॑ , दि॒व्यं , यस्य॑ , सि॒क्तये॑ , आ , स॒र्वऽता॑तिं , अदि॑तिं , वृ॒णी॒म॒हे॒ ॥
चि॒त्रस्ते॑ भा॒नुः क्र॑तु॒प्रा अ॑भि॒ष्टिः संति॒ स्पृधो॑ जरणि॒प्रा अधृ॑ष्टाः । रजि॑ष्ठया॒ रज्या॑ प॒श्व आ गोस्तूतू॑र्षति॒ पर्यग्रं॑ दुव॒स्युः ॥
चि॒त्रः , ते॒ , भा॒नुः , क्र॒तु॒ऽप्राः , अ॒भि॒ष्टिः , संति॑ , स्पृधः॑ , ज॒र॒णि॒ऽप्राः , अधृ॑ष्टाः । रजि॑ष्ठया , रज्या॑ , प॒श्वः , आ , गोः , तूतू॑र्षति , परि॑ , अग्रं॑ , दु॒व॒स्युः ॥
[१०१] उद्बुध्यध्वमिति द्वादशर्चस्य सूक्तस्य सौम्योबुधो विश्वेदेवास्त्रिप् चतुर्थीषष्ठ्यौगायत्र्यौ पंचमीबृहती नवमीद्वादश्यौजगत्यौ (ऋत्विजोदेवतावा) |
उद्बु॑ध्यध्वं॒ सम॑नसः सखायः॒ सम॒ग्निमिं॑ध्वं ब॒हवः॒ सनी॑ळाः । द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीमिंद्रा॑व॒तोऽव॑से॒ नि ह्व॑ये वः ॥
उत् , बु॒ध्य॒ध्वं॒ , सऽम॑नसः , स॒खा॒यः॒ , सं , अ॒ग्निं , इं॒ध्वं॒ , ब॒हवः॑ , सऽनी॑ळाः । द॒धि॒ऽक्रां , अ॒ग्निं , उ॒षसं॑ , च॒ , दे॒वीं , इंद्र॑ऽव॒तः॒ , अव॑से , नि , ह्व॒ये॒ , वः॒ ॥
मं॒द्रा कृ॑णुध्वं॒ धिय॒ आ त॑नुध्वं॒ नाव॑मरित्र॒पर॑णीं कृणुध्वं । इष्कृ॑णुध्व॒मायु॒धारं॑ कृणुध्वं॒ प्रांचं॑ य॒ज्ञं प्र ण॑यता सखायः ॥
मं॒द्रा , कृ॒णु॒ध्वं॒ , धियः॑ , आ , त॒नु॒ध्वं॒ , नावं॑ , अ॒रि॒त्र॒ऽपर॑णीं , कृ॒णु॒ध्वं॒ । इष्कृ॑णुध्वं , आयु॑धा , अरं॑ , कृ॒णु॒ध्वं॒ , प्रांचं॑ , य॒ज्ञं , प्र , न॒य॒त॒ , स॒खा॒यः॒ ॥
यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीजं॑ । गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्यः॑ प॒क्वमेया॑त् ॥
यु॒नक्त॑ , सीरा॑ , वि , यु॒गा , त॒नु॒ध्वं॒ , कृ॒ते , योनौ॑ , व॒प॒त॒ , इ॒ह , बीजं॑ । गि॒रा , च॒ , श्रु॒ष्टिः , सऽभ॑राः , अस॑त् , नः॒ , नेदी॑यः , इत् , सृ॒ण्यः॑ , प॒क्वं , आ , इ॒या॒त् ॥
सीरा॑ युंजंति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या ॥
सीरा॑ , युं॒जं॒ति॒ , क॒वयः॑ , यु॒गा , वि , त॒न्व॒ते॒ , पृथ॑क् । धीराः॑ , दे॒वेषु॑ , सु॒म्न॒ऽया ॥
निरा॑हा॒वान्कृ॑णोतन॒ सं व॑र॒त्रा द॑धातन । सिं॒चाम॑हा अव॒तमु॒द्रिणं॑ व॒यं सु॒षेक॒मनु॑पक्षितं ॥
निः , आ॒ऽहा॒वान् , कृ॒णो॒त॒न॒ , सं , व॒र॒त्राः , द॒धा॒त॒न॒ । सिं॒चाम॑है , अ॒व॒तं , उ॒द्रिणं॑ , व॒यं , सु॒ऽसेकं॑ , अनु॑पऽक्षितं ॥
इष्कृ॑ताहावमव॒तं सु॑वर॒त्रं सु॑षेच॒नं । उ॒द्रिणं॑ सिंचे॒ अक्षि॑तं ॥
इष्कृ॑तऽआहावं , अ॒व॒तं , सु॒ऽव॒र॒त्रं , सु॒ऽसे॒च॒नं । उ॒द्रिणं॑ , सिं॒चे॒ , अक्षि॑तं ॥
प्री॒णी॒ताश्वा॑न्हि॒तं ज॑याथ स्वस्ति॒वाहं॒ रथ॒मित्कृ॑णुध्वं । द्रोणा॑हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशं सिंचता नृ॒पाणं॑ ॥
प्री॒णी॒त , अश्वा॑न् , हि॒तं , ज॒या॒थ॒ , स्व॒स्ति॒ऽवाहं॑ , रथं॑ , इत् , कृ॒णु॒ध्वं॒ । द्रोण॑ऽआहावं , अ॒व॒तं , अश्म॑ऽचक्रं , अंस॑त्रऽकोशं , सिं॒च॒त॒ , नृ॒ऽपानं॑ ॥
व्र॒जं कृ॑णुध्वं॒ स हि वो॑ नृ॒पाणो॒ वर्म॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑ । पुरः॑ कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा वः॑ सुस्रोच्चम॒सो दृंह॑ता॒ तं ॥
व्र॒जं , कृ॒णु॒ध्वं॒ , सः , हि , वः॒ , नृ॒ऽपानः॑ , वर्म॑ , सी॒व्य॒ध्वं॒ , ब॒हु॒ला , पृ॒थूनि॑ । पुरः॑ , कृ॒णु॒ध्वं॒ , आय॑सीः , अधृ॑ष्टाः , मा , वः॒ , सु॒स्रो॒त् , च॒म॒सः , दृंह॑त , तं ॥
आ वो॒ धियं॑ य॒ज्ञियां॑ वर्त ऊ॒तये॒ देवा॑ दे॒वीं य॑ज॒तां य॒ज्ञिया॑मि॒ह । सा नो॑ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥
आ , वः॒ , धियं॑ , य॒ज्ञियां॑ , व॒र्ते॒ , ऊ॒तये॑ , देवाः॑ , दे॒वीं , य॒ज॒तां , य॒ज्ञियां॑ , इ॒ह । सा , नः॒ , दु॒ही॒य॒त् , यव॑साऽइव , ग॒त्वी , स॒हस्र॑ऽधारा , पय॑सा , म॒ही , गौः ॥
आ तू षिं॑च॒ हरि॑मीं॒ द्रोरु॒पस्थे॒ वाशी॑भिस्तक्षताश्म॒न्मयी॑भिः । परि॑ ष्वजध्वं॒ दश॑ क॒क्ष्या॑भिरु॒भे धुरौ॒ प्रति॒ वह्निं॑ युनक्त ॥
आ , तु , सिं॒च॒ , हरिं॑ , ईं॒ , द्रोः , उ॒पऽस्थे॑ , वाशी॑भिः , त॒क्ष॒त॒ , अ॒श्म॒न्ऽमयी॑भिः । परि॑ , स्व॒ज॒ध्वं॒ , दश॑ , क॒क्ष्या॑भिः , उ॒भे इति॑ , धुरौ॑ , प्रति॑ , वह्निं॑ , यु॒न॒क्त॒ ॥
उ॒भे धुरौ॒ वह्नि॑रा॒पिब्द॑मानो॒ऽन्तर्योने॑व चरति द्वि॒जानिः॑ । वन॒स्पतिं॒ वन॒ आस्था॑पयध्वं॒ नि षू द॑धिध्व॒मख॑नंत॒ उत्सं॑ ॥
उ॒भे इति॑ , धुरौ॑ , वह्निः॑ , आ॒ऽपिब्द॑मानः , अं॒तः , योना॑ऽइव , च॒र॒ति॒ , द्वि॒ऽजानिः॑ । वन॒स्पतिं॑ , वने॑ , आ , अ॒स्था॒प॒य॒ध्वं॒ , नि , सु , द॒धि॒ध्वं॒ , अख॑नंतः , उत्सं॑ ॥
कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये । नि॒ष्टि॒ग्र्यः॑ पु॒त्रमा च्या॑वयो॒तय॒ इंद्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥
कपृ॑त् , न॒रः॒ , क॒पृ॒थं , उत् , द॒धा॒त॒न॒ , चो॒दय॑त , खु॒दत॑ , वाज॑ऽसातये । नि॒ष्टि॒ग्र्यः॑ , पु॒त्रं , आ , च्य॒व॒य॒ , ऊ॒तये॑ , इंद्रं॑ , स॒ऽबाधः॑ , इ॒ह , सोम॑ऽपीतये ॥
[१०२] प्रतेरथमिति द्वादशर्चस्य सूक्तस्य भार्म्यश्वो मुद्गलो द्रुघणस्त्रिष्टुप् आद्यातृतीयांत्याबृहत्यः | (प्रतेरथमिति सूक्तदेवतात्वे विप्रतिपत्तिः परस्परमाचार्याणां | उक्तंचशौनकेन - प्रेतीतिहाससूक्तंतुमन्यतेशाकटायनः | यास्कोद्रौघणमैंद्रंवा वैश्वदेवंतुशौनकः | आजानवेनंभार्म्यश्व इंद्रासोमौतुमुद्गलइति) |
प्र ते॒ रथं॑ मिथू॒कृत॒मिंद्रो॑ऽवतु धृष्णु॒या । अ॒स्मिन्ना॒जौ पु॑रुहूत श्र॒वाय्ये॑ धनभ॒क्षेषु॑ नोऽव ॥
प्र , ते॒ , रथं॑ , मि॒थु॒ऽकृतं॑ , इंद्रः॑ , अ॒व॒तु॒ , धृ॒ष्णु॒ऽया । अ॒स्मिन् , आ॒जौ , पु॒रु॒ऽहू॒त॒ , श्र॒वाय्ये॑ , ध॒न॒ऽभ॒क्षेषु॑ , नः॒ , अ॒व॒ ॥
उत्स्म॒ वातो॑ वहति॒ वासो॑ अस्या॒ अधि॑रथं॒ यदज॑यत्स॒हस्रं॑ । र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे॑ कृ॒तं व्य॑चेदिंद्रसे॒ना ॥
उत् , स्म॒ , वातः॑ , व॒ह॒ति॒ , वासः॑ , अ॒स्याः॒ , अधि॑ऽरथं , यत् , अज॑यत् , स॒हस्रं॑ । र॒थीः , अ॒भू॒त् , मु॒द्ग॒लानी॑ , गोऽइ॑ष्टौ , भरे॑ , कृ॒तं , वि , अ॒चे॒त् , इं॒द्र॒ऽसे॒ना ॥
अं॒तर्य॑च्छ॒ जिघां॑सतो॒ वज्र॑मिंद्राभि॒दास॑तः । दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धं ॥
अं॒तः , य॒च्छ॒ , जिघां॑सतः , वज्रं॑ , इं॒द्र॒ , अ॒भि॒ऽदास॑तः । दास॑स्य , वा॒ , म॒घ॒ऽव॒न् , आर्य॑स्य , वा॒ , स॒नु॒तः , य॒व॒य॒ , व॒धं ॥
उ॒द्नो ह्र॒दम॑पिब॒ज्जर्हृ॑षाणः॒ कूटं॑ स्म तृं॒हद॒भिमा॑तिमेति । प्र मु॒ष्कभा॑रः॒ श्रव॑ इ॒च्छमा॑नोऽजि॒रं बा॒हू अ॑भर॒त्सिषा॑सन् ॥
उ॒द्नः , ह्र॒दं , अ॒पि॒ब॒त् , जर्हृ॑षाणः , कूटं॑ , स्म॒ , तृं॒हत् , अ॒भिऽमा॑तिं , ए॒ति॒ । प्र , मु॒ष्कऽभा॑रः , श्रवः॑ , इ॒च्छमा॑नः , अ॒जि॒रं , बा॒हू इति॑ , अ॒भ॒र॒त् , सिसा॑सन् ॥
न्य॑क्रंदयन्नुप॒यंत॑ एन॒ममे॑हयन्वृष॒भं मध्य॑ आ॒जेः । तेन॒ सूभ॑र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने॑ जिगाय ॥
नि , अ॒क्रं॒द॒य॒न् , उ॒प॒ऽयंतः॑ , ए॒नं॒ , अमे॑हयन् , वृ॒ष॒भं , मध्ये॑ , आ॒जेः । तेन॑ , सूभ॑र्वं , श॒तऽव॑त् , स॒हस्रं॑ , गवां॑ , मुद्ग॑लः , प्र॒ऽधने॑ , जि॒गा॒य॒ ॥
क॒कर्द॑वे वृष॒भो यु॒क्त आ॑सी॒दवा॑वची॒त्सार॑थिरस्य के॒शी । दुधे॑र्यु॒क्तस्य॒ द्रव॑तः स॒हान॑स ऋ॒च्छंति॑ ष्मा नि॒ष्पदो॑ मुद्ग॒लानीं॑ ॥
क॒कर्द॑वे , वृ॒ष॒भः , यु॒क्तः , आ॒सी॒त् , अवा॑वचीत् , सार॑थिः , अ॒स्य॒ , के॒शी । दुधेः॑ , यु॒क्तस्य॑ , द्रव॑तः , स॒ह , अन॑सा , ऋ॒च्छंति॑ , स्म॒ , निः॒ऽपदः॑ , मु॒द्ग॒लानीं॑ ॥
उ॒त प्र॒धिमुद॑हन्नस्य वि॒द्वानुपा॑युन॒ग्वंस॑ग॒मत्र॒ शिक्ष॑न् । इंद्र॒ उदा॑व॒त्पति॒मघ्न्या॑ना॒मरं॑हत॒ पद्या॑भिः क॒कुद्मा॑न् ॥
उ॒त , प्र॒ऽधिं , उत् , अ॒ह॒न् , अ॒स्य॒ , वि॒द्वान् , उप॑ , अ॒यु॒न॒क् , वंस॑गं , अत्र॑ , शिक्ष॑न् । इंद्रः॑ , उत् , आ॒व॒त् , पतिं॑ , अघ्न्या॑नां , अरं॑हत , पद्या॑भिः , क॒कुत्ऽमा॑न् ॥
शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दी व॑र॒त्रायां॒ दार्वा॒नह्य॑मानः । नृ॒म्णानि॑ कृ॒ण्वन्ब॒हवे॒ जना॑य॒ गाः प॑स्पशा॒नस्तवि॑षीरधत्त ॥
शु॒नं , अ॒ष्ट्रा॒ऽवी , अ॒च॒र॒त् , क॒प॒र्दी , व॒र॒त्रायां॑ , दारु॑ , आ॒ऽनह्य॑मानः । नृ॒म्णानि॑ , कृ॒ण्वन् , ब॒हवे॑ , जना॑य , गाः , प॒स्प॒शा॒नः , तवि॑षीः , अ॒ध॒त्त॒ ॥
इ॒मं तं प॑श्य वृष॒भस्य॒ युंजं॒ काष्ठा॑या॒ मध्ये॑ द्रुघ॒णं शया॑नं । येन॑ जि॒गाय॑ श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः पृत॒नाज्ये॑षु ॥
इ॒मं , तं , प॒श्य॒ , वृ॒ष॒भस्य॑ , युंजं॑ , काष्ठा॑याः , मध्ये॑ , द्रु॒ऽघ॒नं , शया॑नं । येन॑ , जि॒गाय॑ , श॒तऽव॑त् , स॒हस्रं॑ , गवां॑ , मुद्ग॑लः , पृ॒त॒नाज्ये॑षु ॥
आ॒रे अ॒घा को न्वि१॒॑त्था द॑दर्श॒ यं युं॒जंति॒ तम्वा स्था॑पयंति । नास्मै॒ तृणं॒ नोद॒कमा भ॑रं॒त्युत्त॑रो धु॒रो व॑हति प्र॒देदि॑शत् ॥
आ॒रे , अ॒घा , कः , नु , इ॒त्था , द॒द॒र्श॒ , यं , युं॒जंति॑ , तं , ऊँ॒ इति॑ , आ , स्था॒प॒यं॒ति॒ । न , अ॒स्मै॒ , तृणं॑ , न , उ॒द॒कं , आ , भ॒रं॒ति॒ , उत्ऽत॑रः , धु॒रः , व॒ह॒ति॒ , प्र॒ऽदेदि॑शत् ॥
प॒रि॒वृ॒क्तेव॑ पति॒विद्य॑मान॒ट् पीप्या॑ना॒ कूच॑क्रेणेव सिं॒चन् । ए॒षै॒ष्या॑ चिद्र॒थ्या॑ जयेम सुमं॒गलं॒ सिन॑वदस्तु सा॒तं ॥
प॒रि॒वृ॒क्ताऽइ॑व , प॒ति॒ऽविद्यं॑ , आ॒न॒ट् , पीप्या॑ना , कूच॑क्रेणऽइव , सिं॒चन् । ए॒ष॒ऽए॒ष्या॑ , चि॒त् , र॒थ्या॑ , ज॒ये॒म॒ , सु॒ऽमं॒गलं॑ , सिन॑ऽवत् , अ॒स्तु॒ , सा॒तं ॥
त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिंद्रासि॒ चक्षु॑षः । वृषा॒ यदा॒जिं वृष॑णा॒ सिषा॑ससि चो॒दय॒न्वध्रि॑णा यु॒जा ॥
त्वं , विश्व॑स्य , जग॑तः , चक्षुः॑ , इं॒द्र॒ , अ॒सि॒ , चक्षु॑षः । वृषा॑ , यत् , आ॒जिं , वृष॑णा , सिसा॑ससि , चो॒दय॑न् , वध्रि॑णा , यु॒जा ॥
[१०३] आशुःशिशानइति त्रयोदशर्चस्य सूक्तस्यैंद्रो प्रतिरथइंद्रश्चतुर्थ्यां बृहस्पतिर्द्वादश्याअप्वादेव्यंत्यायामरुतस्त्रिष्टुबंत्यानुष्टुप् | (आशुः शिशानः सूक्तोपांत्यायाआप्वादेवीत्यनुक्रमण्यां मप्वादेवीतिशौनकीये)
आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नां । सं॒क्रंद॑नोऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिंद्रः॑ ॥
आ॒शुः , शिशा॑नः , वृ॒ष॒भः , न , भी॒मः , घ॒ना॒घ॒नः , क्षोभ॑णः , च॒र्ष॒णी॒नां । सं॒ऽक्रंद॑नः , अ॒नि॒ऽमि॒षः , ए॒क॒ऽवी॒रः , श॒तं , सेनाः॑ , अ॒ज॒य॒त् , सा॒कं , इंद्रः॑ ॥
सं॒क्रंद॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ । तदिंद्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥
सं॒ऽक्रंद॑नेन , अ॒नि॒ऽमि॒षेण॑ , जि॒ष्णुना॑ , यु॒त्ऽका॒रेण॑ , दुः॒ऽच्य॒व॒नेन॑ , धृ॒ष्णुना॑ । तत् , इंद्रे॑ण , ज॒य॒त॒ , तत् , स॒ह॒ध्वं॒ , युधः॑ , न॒रः॒ , इषु॑ऽहस्तेन , वृष्णा॑ ॥
स इषु॑हस्तैः॒ स नि॑षं॒गिभि॑र्व॒शी संस्र॑ष्टा॒ स युध॒ इंद्रो॑ ग॒णेन॑ । सं॒सृ॒ष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु१॒॑ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥
सः , इषु॑ऽहस्तैः , सः , नि॒षं॒गिऽभिः॑ , व॒शी , संऽस्र॑ष्टा , सः , युधः॑ , इंद्रः॑ , ग॒णेन॑ । सं॒सृ॒ष्ट॒ऽजित् , सो॒म॒ऽपाः , बा॒हु॒ऽश॒र्धी , उ॒ग्रऽध॑न्वा , प्रति॑ऽहिताभिः , अस्ता॑ ॥
बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्राँ॑ अप॒बाध॑मानः । प्र॒भं॒जंत्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नां ॥
बृह॑स्पते , परि॑ , दी॒य॒ , रथे॑न , र॒क्षः॒ऽहा , अ॒मित्रा॑न् , अ॒प॒ऽबाध॑मानः । प्र॒ऽभं॒जन् , सेनाः॑ , प्र॒ऽमृ॒णः , यु॒धा , जय॑न् , अ॒स्माकं॑ , ए॒धि॒ , अ॒वि॒ता , रथा॑नां ॥
ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिंद्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥
ब॒ल॒ऽवि॒ज्ञा॒यः , स्थवि॑रः , प्रऽवी॑रः , सह॑स्वान् , वा॒जी , सह॑मानः , उ॒ग्रः । अ॒भिऽवी॑रः , अ॒भिऽस॑त्वा , स॒हः॒ऽजाः , जैत्रं॑ , इं॒द्र॒ , रथं॑ , आ , ति॒ष्ठ॒ , गो॒ऽवित् ॥
गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जयं॑त॒मज्म॑ प्रमृ॒णंत॒मोज॑सा । इ॒मं स॑जाता॒ अनु॑ वीरयध्व॒मिंद्रं॑ सखायो॒ अनु॒ सं र॑भध्वं ॥
गो॒त्र॒ऽभिदं॑ , गो॒ऽविदं॑ , वज्र॑ऽबाहुं , जयं॑तं , अज्म॑ , प्र॒ऽमृ॒णंतं॑ , ओज॑सा । इ॒मं , स॒ऽजा॒ताः॒ , अनु॑ , वी॒र॒य॒ध्वं॒ , इंद्रं॑ , स॒खा॒यः॒ , अनु॑ , सं , र॒भ॒ध्वं॒ ॥
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिंद्रः॑ । दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒३॒॑ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥
अ॒भि , गो॒त्राणि॑ , सह॑सा , गाह॑मानः , अ॒द॒यः , वी॒रः , श॒तऽम॑न्युः , इंद्रः॑ । दुः॒ऽच्य॒व॒नः , पृ॒त॒ना॒षाट् , अ॒यु॒ध्यः , अ॒स्माकं॑ , सेनाः॑ , अ॒व॒तु॒ , प्र , यु॒त्ऽसु ॥
इंद्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑मभिभंजती॒नां जयं॑तीनां म॒रुतो॑ यं॒त्वग्रं॑ ॥
इंद्रः॑ , आ॒सां॒ , ने॒ता , बृह॒स्पतिः॑ , दक्षि॑णा , य॒ज्ञः , पु॒रः , ए॒तु॒ , सोमः॑ । दे॒व॒ऽसे॒नानां॑ , अ॒भि॒ऽभं॒ज॒ती॒नां , जयं॑तीनां , म॒रुतः॑ , यं॒तु॒ , अग्रं॑ ॥
इंद्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रं । म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥
इंद्र॑स्य , वृष्णः॑ , वरु॑णस्य , राज्ञः॑ , आ॒दि॒त्यानां॑ , म॒रुतां॑ , शर्धः॑ , उ॒ग्रं । म॒हाऽम॑नसां , भु॒व॒न॒ऽच्य॒वानां॑ , घोषः॑ , दे॒वानां॑ , जय॑तां , उत् , अ॒स्था॒त् ॥
उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनां॑सि । उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यंतु॒ घोषाः॑ ॥
उत् , ह॒र्ष॒य॒ , म॒घ॒ऽव॒न् , आयु॑धानि , उत् , सत्व॑नां , मा॒म॒कानां॑ , मनां॑सि । उत् , वृ॒त्र॒ऽह॒न् , वा॒जिनां॑ , वाजि॑नानि , उत् , रथा॑नां , जय॑तां , यं॒तु॒ , घोषाः॑ ॥
अ॒स्माक॒मिंद्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यंतु । अ॒स्माकं॑ वी॒रा उत्त॑रे भवंत्व॒स्माँ उ॑ देवा अवता॒ हवे॑षु ॥
अ॒स्माकं॑ , इंद्रः॑ , संऽऋ॑तेषु , ध्व॒जेषु॑ , अ॒स्माकं॑ , याः , इष॑वः , ताः , ज॒यं॒तु॒ । अ॒स्माकं॑ , वी॒राः , उत्ऽत॑रे , भ॒वं॒तु॒ , अ॒स्मान् , ऊँ॒ इति॑ , दे॒वाः॒ , अ॒व॒त॒ , हवे॑षु ॥
अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भयं॑ती गृहा॒णांगा॑न्यप्वे॒ परे॑हि । अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑रं॒धेना॒मित्रा॒स्तम॑सा सचंतां ॥
अ॒मीषां॑ , चि॒त्तं , प्र॒ति॒ऽलो॒भयं॑ती , गृ॒हा॒ण , अंगा॑नि , अ॒प्वे॒ , परा॑ , इ॒हि॒ । अ॒भि , प्र , इ॒हि॒ , निः , द॒ह॒ , हृ॒त्ऽसु , शोकैः॑ , अं॒धेन॑ , अ॒मित्राः॑ , तम॑सा , स॒चं॒तां॒ ॥
प्रेता॒ जय॑ता नर॒ इंद्रो॑ वः॒ शर्म॑ यच्छतु । उ॒ग्रा वः॑ संतु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ ॥
प्र , इ॒त॒ , जय॑त , न॒रः॒ , इंद्रः॑ , वः॒ , शर्म॑ , य॒च्छ॒तु॒ । उ॒ग्राः , वः॒ , सं॒तु॒ , बा॒हवः॑ , अ॒ना॒धृ॒ष्याः , यथा॑ , अस॑थ ॥
[१०४] असावीत्येकादशर्चस्य सूक्तस्य वैश्वामित्रोष्टकइंद्रस्त्रिष्टुप् |
असा॑वि॒ सोमः॑ पुरुहूत॒ तुभ्यं॒ हरि॑भ्यां य॒ज्ञमुप॑ याहि॒ तूयं॑ । तुभ्यं॒ गिरो॒ विप्र॑वीरा इया॒ना द॑धन्वि॒र इं॑द्र॒ पिबा॑ सु॒तस्य॑ ॥
असा॑वि , सोमः॑ , पु॒रु॒ऽहू॒त॒ , तुभ्यं॑ , हरि॑ऽभ्यां , य॒ज्ञं , उप॑ , या॒हि॒ , तूयं॑ । तुभ्यं॑ , गिरः॑ , विप्र॑ऽवीराः , इ॒या॒नाः , द॒ध॒न्वि॒रे , इं॒द्र॒ , पिब॑ , सु॒तस्य॑ ॥
अ॒प्सु धू॒तस्य॑ हरिवः॒ पिबे॒ह नृभिः॑ सु॒तस्य॑ ज॒ठरं॑ पृणस्व । मि॒मि॒क्षुर्यमद्र॑य इंद्र॒ तुभ्यं॒ तेभि॑र्वर्धस्व॒ मद॑मुक्थवाहः ॥
अ॒प्ऽसु , धू॒तस्य॑ , ह॒रि॒ऽवः॒ , पिब॑ , इ॒ह , नृऽभिः॑ , सु॒तस्य॑ , ज॒ठरं॑ , पृ॒ण॒स्व॒ । मि॒मि॒क्षुः , यं , अद्र॑यः , इं॒द्र॒ , तुभ्यं॑ , तेभिः॑ , व॒र्ध॒स्व॒ , मदं॑ , उ॒क्थ॒ऽवा॒हः॒ ॥
प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्यं॑ । इंद्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भिः॒ शच्या॑ गृणा॒नः ॥
प्र , उ॒ग्रां , पी॒तिं , वृष्णे॑ , इ॒य॒र्मि॒ , स॒त्यां , प्र॒ऽयै , सु॒तस्य॑ , ह॒रि॒ऽअ॒श्व॒ , तुभ्यं॑ । इंद्र॑ , धेना॑भिः , इ॒ह , मा॒द॒य॒स्व॒ , धी॒भिः , विश्वा॑भिः , शच्या॑ , गृ॒णा॒नः ॥
ऊ॒ती श॑चीव॒स्तव॑ वी॒र्ये॑ण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः । प्र॒जाव॑दिंद्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णंतः॑ सध॒माद्या॑सः ॥
ऊ॒ती , श॒ची॒ऽवः॒ , तव॑ , वी॒र्ये॑ण , वयः॑ , दधा॑नाः , उ॒शिजः॑ , ऋ॒त॒ऽज्ञाः । प्र॒जाऽव॑त् , इं॒द्र॒ , मनु॑षः , दु॒रो॒णे , त॒स्थुः , गृ॒णंतः॑ , स॒ध॒ऽमाद्या॑सः ॥
प्रणी॑तिभिष्टे हर्यश्व सु॒ष्टोः सु॑षु॒म्नस्य॑ पुरु॒रुचो॒ जना॑सः । मंहि॑ष्ठामू॒तिं वि॒तिरे॒ दधा॑नाः स्तो॒तार॑ इंद्र॒ तव॑ सू॒नृता॑भिः ॥
प्रनी॑तिऽभिः , ते॒ , ह॒रि॒ऽअ॒श्व॒ , सु॒ऽस्तोः , सु॒ऽसु॒म्नस्य॑ , पु॒रु॒ऽरुचः॑ , जना॑सः । मंहि॑ष्ठां , ऊ॒तिं , वि॒ऽतिरे॑ , दधा॑नाः , स्तो॒तारः॑ , इं॒द्र॒ , तव॑ , सू॒नृता॑भिः ॥
उप॒ ब्रह्मा॑णि हरिवो॒ हरि॑भ्यां॒ सोम॑स्य याहि पी॒तये॑ सु॒तस्य॑ । इंद्र॑ त्वा य॒ज्ञः क्षम॑माणमानड्दा॒श्वाँ अ॑स्यध्व॒रस्य॑ प्रके॒तः ॥
उप॑ , ब्रह्मा॑णि , ह॒रि॒ऽवः॒ , हरि॑ऽभ्यां , सोम॑स्य , या॒हि॒ , पी॒तये॑ , सु॒तस्य॑ । इंद्र॑ , त्वा॒ , य॒ज्ञः , क्षम॑माणं , आ॒न॒ट् , दा॒श्वान् , अ॒सि॒ , अ॒ध्व॒रस्य॑ , प्र॒ऽके॒तः ॥
स॒हस्र॑वाजमभिमाति॒षाहं॑ सु॒तेर॑णं म॒घवा॑नं सुवृ॒क्तिं । उप॑ भूषंति॒ गिरो॒ अप्र॑तीत॒मिंद्रं॑ नम॒स्या ज॑रि॒तुः प॑नंत ॥
स॒हस्र॑ऽवाजं , अ॒भि॒मा॒ति॒ऽसहं॑ , सु॒तेऽर॑णं , म॒घऽवा॑नं , सु॒ऽवृ॒क्तिं । उप॑ , भू॒षं॒ति॒ , गिरः॑ , अप्र॑तिऽइतं , इंद्रं॑ , न॒म॒स्याः , ज॒रि॒तुः , प॒नं॒त॒ ॥
स॒प्तापो॑ दे॒वीः सु॒रणा॒ अमृ॑क्ता॒ याभिः॒ सिंधु॒मत॑र इंद्र पू॒र्भित् । न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रवं॑तीर्दे॒वेभ्यो॑ गा॒तुं मनु॑षे च विंदः ॥
स॒प्त , आपः॑ , दे॒वीः , सु॒ऽरणाः॑ , अमृ॑क्ताः , याभिः॑ , सिंधुं॑ , अत॑रः , इं॒द्र॒ , पूः॒ऽभित् । न॒व॒तिं , स्रो॒त्याः , नव॑ , च॒ , स्रवं॑तीः , दे॒वेभ्यः॑ , गा॒तुं , मनु॑षे , च॒ , विं॒दः॒ ॥
अ॒पो म॒हीर॒भिश॑स्तेरमुं॒चोऽजा॑गरा॒स्वधि॑ दे॒व एकः॑ । इंद्र॒ यास्त्वं वृ॑त्र॒तूर्ये॑ च॒कर्थ॒ ताभि॑र्वि॒श्वायु॑स्त॒न्वं॑ पुपुष्याः ॥
अ॒पः , म॒हीः , अ॒भिऽश॑स्तेः , अ॒मुं॒चः॒ , अजा॑गः , आ॒सु॒ , अधि॑ , दे॒वः , एकः॑ । इंद्र॑ , याः , त्वं , वृ॒त्र॒ऽतूर्ये॑ , च॒कर्थ॑ , ताभिः॑ , वि॒श्वऽआ॑युः , त॒न्वं॑ , पु॒पु॒ष्याः॒ ॥
वी॒रेण्यः॒ क्रतु॒रिंद्रः॑ सुश॒स्तिरु॒तापि॒ धेना॑ पुरुहू॒तमी॑ट्टे । आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना अभि॒ष्टिः ॥
वी॒रेण्यः॑ , क्रतुः॑ , इंद्रः॑ , सु॒ऽश॒स्तिः , उ॒त , अपि॑ , धेना॑ , पु॒रु॒ऽहू॒तं , ई॒ट्टे॒ । आर्द॑यत् , वृ॒त्रं , अकृ॑णोत् , ऊँ॒ इति॑ , लोकं॑ , स॒स॒हे , श॒क्रः , पृत॑नाः , अ॒भि॒ष्टिः ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥
शु॒नं , हु॒वे॒म॒ , म॒घऽवा॑नं , इंद्रं॑ , अ॒स्मिन् , भरे॑ , नृऽत॑मं , वाज॑ऽसातौ । शृ॒ण्वंतं॑ , उ॒ग्रं , ऊ॒तये॑ , स॒मत्ऽसु॑ , घ्नंतं॑ , वृ॒त्राणि॑ , सं॒ऽजितं॑ , धना॑नां ॥
[१०५] कदेत्येकादशर्चस्य सूक्तस्य कौत्सोदुर्मित्र इंद्र उष्णिक् आद्यागायत्रीवा द्वितीयासप्तम्यौपिपीलिकमध्येअंत्यात्रिष्टुप् |
क॒दा व॑सो स्तो॒त्रं हर्य॑त॒ आव॑ श्म॒शा रु॑ध॒द्वाः । दी॒र्घं सु॒तं वा॒ताप्या॑य ॥
क॒दा , व॒सो॒ इति॑ , स्तो॒त्रं , हर्य॑ते , आ , अव॑ , श्म॒शा , रु॒ध॒त् , वारिति॒ वाः । दी॒र्घं , सु॒तं , वा॒ताप्या॑य ॥
हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्वं॒तानु॒ शेपा॑ । उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ॥
हरी॒ इति॑ , यस्य॑ , सु॒ऽयुजा॑ , विऽव्र॑ता , वेः , अर्वं॑ता , अनु॑ , शेपा॑ । उ॒भा , र॒जी इति॑ , न , के॒शिना॑ , पतिः॑ , द॒न् ॥
अप॒ योरिंद्रः॒ पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् । शु॒भे यद्यु॑यु॒जे तवि॑षीवान् ॥
अप॑ , योः , इंद्रः॑ , पाप॑जे , आ , मर्तः॑ , न , श॒श्र॒मा॒णः , बि॒भी॒वान् । शु॒भे , यत् , यु॒यु॒जे , तवि॑षीऽवान् ॥
सचा॒योरिंद्र॒श्चर्कृ॑ष॒ आँ उ॑पान॒सः स॑प॒र्यन् । न॒दयो॒र्विव्र॑तयोः॒ शूर॒ इंद्रः॑ ॥
सचा॑ , आ॒योः , इंद्रः॑ , चर्कृ॑षे , आ , उ॒पा॒न॒सः , स॒प॒र्यन् । न॒दयोः॑ , विऽव्र॑तयोः , शूरः॑ , इंद्रः॑ ॥
अधि॒ यस्त॒स्थौ केश॑वंता॒ व्यच॑स्वंता॒ न पु॒ष्ट्यै । व॒नोति॒ शिप्रा॑भ्यां शि॒प्रिणी॑वान् ॥
अधि॑ , यः , त॒स्थौ , केष॑ऽवंता , व्यच॑स्वंता , न , पु॒ष्ट्यै । व॒नोति॑ , शिप्रा॑भ्यां , शि॒प्रिणी॑ऽवान् ॥
प्रास्तौ॑दृ॒ष्वौजा॑ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूरः॒ शव॑सा । ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा॑ ॥
प्र , अ॒स्तौ॒त् , ऋ॒ष्वऽओ॑जाः॒ , ऋ॒ष्वेभिः॑ , त॒तक्ष॑ , शूरः॑ , शव॑सा । ऋ॒भुः , न , क्रतु॑ऽभिः , मा॒त॒रिश्वा॑ ॥
वज्रं॒ यश्च॒क्रे सु॒हना॑य॒ दस्य॑वे हिरीम॒शो हिरी॑मान् । अरु॑तहनु॒रद्भु॑तं॒ न रजः॑ ॥
वज्रं॑ , यः , च॒क्रे , सु॒ऽहना॑य , दस्य॑वे , हि॒री॒म॒शः , हिरी॑मान् । अरु॑तऽहनुः , अद्भु॑तं , न , रजः॑ ॥
अव॑ नो वृजि॒ना शि॑शीह्यृ॒चा व॑नेमा॒नृचः॑ । नाब्र॑ह्मा य॒ज्ञ ऋध॒ग्जोष॑ति॒ त्वे ॥
अव॑ , नः॒ , वृ॒जि॒ना , शि॒शी॒हि॒ , ऋ॒चा , व॒ने॒म॒ , अ॒नृचः॑ । न , अब्र॑ह्मा , य॒ज्ञः , ऋध॑क् , जोष॑ति , त्वे इति॑ ॥
ऊ॒र्ध्वा यत्ते॑ त्रे॒तिनी॒ भूद्य॒ज्ञस्य॑ धू॒र्षु सद्म॑न् । स॒जूर्नावं॒ स्वय॑शसं॒ सचा॒योः ॥
ऊ॒र्ध्वा , यत् , ते॒ , त्रे॒तिनी॑ , भूत् , य॒ज्ञस्य॑ , धूः॒ऽसु , सद्म॑न् । स॒ऽजूः , नावं॑ , स्वऽय॑शसं , सचा॑ , आ॒योः ॥
श्रि॒ये ते॒ पृश्नि॑रुप॒सेच॑नी भूच्छ्रि॒ये दर्वि॑ररे॒पाः । यया॒ स्वे पात्रे॑ सिं॒चस॒ उत् ॥
श्रि॒ये , ते॒ , पृश्निः॑ , उ॒प॒ऽसेच॑नी , भू॒त् , श्रि॒ये , दर्विः॑ , अ॒रे॒पाः । यया॑ , स्वे , पात्रे॑ , सिं॒चसे॑ , उत् ॥
श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् । आवो॒ यद्द॑स्यु॒हत्ये॑ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये॑ कुत्सव॒त्सं ॥
श॒तं , वा॒ , यत् , अ॒सु॒र्य॒ , प्रति॑ , त्वा॒ , सु॒ऽमि॒त्रः , इ॒त्था , अ॒स्तौ॒त् , दुः॒ऽमि॒त्रः , इ॒त्था , अ॒स्तौ॒त् । आवः॑ , यत् , द॒स्यु॒ऽहत्ये॑ , कु॒त्स॒ऽपु॒त्रं , प्र , आवः॑ , यत् , द॒स्यु॒ऽहत्ये॑ , कु॒त्स॒ऽव॒त्सं ॥
[१०६] उभाउनूनमित्येकादशर्चस्य सूक्तस्य काश्यपोभूतांशोश्विनौत्रिष्टुप् |
उ॒भा उ॑ नू॒नं तदिद॑र्थयेथे॒ वि त॑न्वाथे॒ धियो॒ वस्त्रा॒पसे॑व । स॒ध्री॒ची॒ना यात॑वे॒ प्रेम॑जीगः सु॒दिने॑व॒ पृक्ष॒ आ तं॑सयेथे ॥
उ॒भौ , ऊँ॒ इति॑ , नू॒नं , तत् , इत् , अ॒र्थ॒ये॒थे॒ इति॑ , वि , त॒न्वा॒थे॒ इति॑ , धियः॑ , वस्त्रा॑ , अ॒पसा॑ऽइव । स॒ध्री॒ची॒ना , यात॑वे , प्र , ईं॒ , अ॒जी॒ग॒रिति॑ , सु॒दिना॑ऽइव , पृक्षः॑ , आ , तं॒स॒ये॒थे॒ इति॑ ॥
उ॒ष्टारे॑व॒ फर्व॑रेषु श्रयेथे प्रायो॒गेव॒ श्वात्र्या॒ शासु॒रेथः॑ । दू॒तेव॒ हि ष्ठो य॒शसा॒ जने॑षु॒ माप॑ स्थातं महि॒षेवा॑व॒पाना॑त् ॥
उ॒ष्टारा॑ऽइव , फर्व॑रेषु , श्र॒ये॒थे॒ इति॑ , प्रा॒यो॒गाऽइ॑व , श्वात्र्या॑ , शासुः॑ , आ , इ॒थः॒ । दू॒ताऽइ॑व , हि , स्थः , य॒शसा॑ , जने॑षु , मा , अप॑ , स्था॒तं॒ , म॒हि॒षाऽइ॑व , अ॒व॒ऽपाना॑त् ॥
सा॒कं॒युजा॑ शकु॒नस्ये॑व प॒क्षा प॒श्वेव॑ चि॒त्रा यजु॒रा ग॑मिष्टं । अ॒ग्निरि॑व देव॒योर्दी॑दि॒वांसा॒ परि॑ज्मानेव यजथः पुरु॒त्रा ॥
सा॒कं॒ऽयुजा॑ , श॒कु॒नस्य॑ऽइव , प॒क्षा , प॒श्वाऽइ॑व , चि॒त्रा , यजुः॑ , आ , ग॒मि॒ष्टं॒ । अ॒ग्निःऽइ॑व , दे॒व॒ऽयोः , दी॒दि॒ऽवांसा॑ , परि॑ज्मानाऽइव , य॒ज॒थः॒ , पु॒रु॒ऽत्रा ॥
आ॒पी वो॑ अ॒स्मे पि॒तरे॑व पु॒त्रोग्रेव॑ रु॒चा नृ॒पती॑व तु॒र्यै । इर्ये॑व पु॒ष्ट्यै कि॒रणे॑व भु॒ज्यै श्रु॑ष्टी॒वाने॑व॒ हव॒मा ग॑मिष्टं ॥
आ॒पी इति॑ , वः॒ , अ॒स्मे इति॑ , पि॒तरा॑ऽइव , पु॒त्रा , उ॒ग्राऽइ॑व , रु॒चा , नृ॒पती॑ इ॒वेति॑ नृ॒पती॑ऽइव , तु॒र्यै । इर्या॑ऽइव , पु॒ष्ट्यै , कि॒रणा॑ऽइव , भु॒ज्यै , श्रु॒ष्टी॒वाना॑ऽइव , हवं॑ , आ , ग॒मि॒ष्टं॒ ॥
वंस॑गेव पूष॒र्या॑ शिं॒बाता॑ मि॒त्रेव॑ ऋ॒ता श॒तरा॒ शात॑पंता । वाजे॑वो॒च्चा वय॑सा घर्म्ये॒ष्ठा मेषे॑वे॒षा स॑प॒र्या॒३॒॑ पुरी॑षा ॥
वंस॑गाऽइव , पू॒ष॒र्या॑ , शिं॒बाता॑ , मि॒त्राऽइ॑व , ऋ॒ता , श॒तरा॑ , शात॑पंता । वाजा॑ऽइव , उ॒च्चा , वय॑सा , घ॒र्म्ये॒ऽस्था , मेषा॑ऽइव , इ॒षा , स॒प॒र्या॑ , पुरी॑षा ॥
सृ॒ण्ये॑व ज॒र्भरी॑ तु॒र्फरी॑तू नैतो॒शेव॑ तु॒र्फरी॑ पर्फ॒रीका॑ । उ॒द॒न्य॒जेव॒ जेम॑ना मदे॒रू ता मे॑ ज॒राय्व॒जरं॑ म॒रायु॑ ॥
सृ॒ण्या॑ऽइव , ज॒र्भरी॒ इति॑ , तु॒र्फरी॑तू॒ इति॑ , नै॒तो॒शाऽइ॑व , तु॒र्फरी॒ इति॑ , प॒र्फ॒रीका॑ । उ॒द॒न्य॒जाऽइ॑व , जेम॑ना , म॒दे॒रू इति॑ , ता , मे॒ , ज॒रायु॑ , अ॒जरं॑ , म॒रायु॑ ॥
प॒ज्रेव॒ चर्च॑रं॒ जारं॑ म॒रायु॒ क्षद्मे॒वार्थे॑षु तर्तरीथ उग्रा । ऋ॒भू नाप॑त्खरम॒ज्रा ख॒रज्रु॑र्वा॒युर्न प॑र्फरत्क्षयद्रयी॒णां ॥
प॒ज्राऽइ॑व , चर्च॑रं , जारं॑ , म॒रायु॑ , क्षद्म॑ऽइव , अर्थे॑षु , त॒र्त॒री॒थः॒ , उ॒ग्रा॒ । ऋ॒भू इति॑ , न , आ॒प॒त् , ख॒र॒म॒ज्रा , ख॒रऽज्रुः॑ , वा॒युः , न , प॒र्फ॒र॒त् , क्ष॒य॒त् , र॒यी॒णां ॥
घ॒र्मेव॒ मधु॑ ज॒ठरे॑ स॒नेरू॒ भगे॑विता तु॒र्फरी॒ फारि॒वारं॑ । प॒त॒रेव॑ चच॒रा चं॒द्रनि॑र्णि॒ङ्मन॑ऋंगा मन॒न्या॒३॒॑ न जग्मी॑ ॥
घ॒र्माऽइ॑व , मधु॑ , ज॒ठरे॑ , स॒नेरू॒ इति॑ , भगे॑ऽअविता , तु॒र्फरी॒ इति॑ , फारि॑वा , अरं॑ । प॒त॒राऽइ॑व , च॒च॒रा , चं॒द्रऽनि॑र्निक् , मनः॑ऽऋंगा , म॒न॒न्या॑ , न , जग्मी॒ इति॑ ॥
बृ॒हंते॑व गं॒भरे॑षु प्रति॒ष्ठां पादे॑व गा॒धं तर॑ते विदाथः । कर्णे॑व॒ शासु॒रनु॒ हि स्मरा॒थोंऽशे॑व नो भजतं चि॒त्रमप्नः॑ ॥
बृ॒हंता॑ऽइव , गं॒भरे॑षु , प्र॒ति॒ऽस्थां , पादा॑ऽइव , गा॒धं , तर॑ते , वि॒दा॒थः॒ । कर्णा॑ऽइव , शासुः॑ , अनु॑ , हि , स्मरा॑थः , अंशा॑ऽइव , नः॒ , भ॒ज॒तं॒ , चि॒त्रं , अप्नः॑ ॥
आ॒रं॒ग॒रेव॒ मध्वेर॑येथे सार॒घेव॒ गवि॑ नी॒चीन॑बारे । की॒नारे॑व॒ स्वेद॑मासिष्विदा॒ना क्षामे॑वो॒र्जा सू॑यव॒सात्स॑चेथे ॥
आ॒रं॒ग॒राऽइ॑व , मधु॑ , आ , ई॒र॒ये॒थे॒ इति॑ , सा॒र॒घाऽइ॑व , गवि॑ , नी॒चीन॑ऽबारे । की॒नारा॑ऽइव , स्वेदं॑ , आ॒ऽसि॒स्वि॒दा॒ना , क्षाम॑ऽइव , ऊ॒र्जा , सु॒य॒व॒स॒ऽअत् , स॒चे॒थे॒ इति॑ ॥
ऋ॒ध्याम॒ स्तोमं॑ सनु॒याम॒ वाज॒मा नो॒ मंत्रं॑ स॒रथे॒होप॑ यातं । यशो॒ न प॒क्वं मधु॒ गोष्वं॒तरा भू॒तांशो॑ अ॒श्विनोः॒ काम॑मप्राः ॥
ऋ॒ध्याम॑ , स्तोमं॑ , स॒नु॒याम॑ , वाजं॑ , आ , नः॒ , मंत्रं॑ , स॒ऽरथा॑ , इ॒ह , उप॑ , या॒तं॒ । यशः॑ , न , प॒क्वं , मधु॑ , गोषु॑ , अं॒तः , आ , भू॒तऽअं॑शः , अ॒श्विनोः॑ , कामं॑ , अ॒प्राः॒ ॥
[१०७] आविरित्येका दशर्चस्य सूक्तस्यांगिरसोदिव्योदक्षिणात्रिष्टुप् चतुर्थीजगती | (प्राजापत्यादक्षिणानामग्निरृषिका वा दक्षिणादातारोवा देवता) |
आ॒विर॑भू॒न्महि॒ माघो॑नमेषां॒ विश्वं॑ जी॒वं तम॑सो॒ निर॑मोचि । महि॒ ज्योतिः॑ पि॒तृभि॑र्द॒त्तमागा॑दु॒रुः पंथा॒ दक्षि॑णाया अदर्शि ॥
आ॒विः , अ॒भू॒त् , महि॑ , माघो॑नं , ए॒षां॒ , विश्वं॑ , जी॒वं , तम॑सः , निः , अ॒मो॒चि॒ । महि॑ , ज्योतिः॑ , पि॒तृऽभिः॑ , द॒त्तं , आ , अ॒गा॒त् , उ॒रुः , पंथाः॑ , दक्षि॑णायाः , अ॒द॒र्शि॒ ॥
उ॒च्चा दि॒वि दक्षि॑णावंतो अस्थु॒र्ये अ॑श्व॒दाः स॒ह ते सूर्ये॑ण । हि॒र॒ण्य॒दा अ॑मृत॒त्वं भ॑जंते वासो॒दाः सो॑म॒ प्र ति॑रंत॒ आयुः॑ ॥
उ॒च्चा , दि॒वि , दक्षि॑णाऽवंतः , अ॒स्थुः॒ , ये , अ॒श्व॒ऽदाः , स॒ह , ते , सूर्ये॑ण । हि॒र॒ण्य॒ऽदाः , अ॒मृ॒त॒ऽत्वं , भ॒जं॒ते॒ , वा॒सः॒ऽदाः , सो॒म॒ , प्र , ति॒रं॒ते॒ , आयुः॑ ॥
दैवी॑ पू॒र्तिर्दक्षि॑णा देवय॒ज्या न क॑वा॒रिभ्यो॑ न॒हि ते पृ॒णंति॑ । अथा॒ नरः॒ प्रय॑तदक्षिणासोऽवद्यभि॒या ब॒हवः॑ पृणंति ॥
दैवी॑ , पू॒र्तिः , दक्षि॑णा , दे॒व॒ऽय॒ज्या , न , क॒व॒ऽअ॒रिभ्यः॑ , न॒हि , ते , पृ॒णंति॑ । अथ॑ , नरः॑ , प्रय॑तऽदक्षिणासः , अ॒व॒द्य॒ऽभि॒या , ब॒हवः॑ , पृ॒णं॒ति॒ ॥
श॒तधा॑रं वा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते ह॒विः । ये पृ॒णंति॒ प्र च॒ यच्छं॑ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा॑तरं ॥
श॒तऽधा॑रं , वा॒युं , अ॒र्कं , स्वः॒ऽविदं॑ , नृ॒ऽचक्ष॑सः , ते , अ॒भि , च॒क्ष॒ते॒ , ह॒विः । ये , पृ॒णंति॑ , प्र , च॒ , यच्छं॑ति , सं॒ऽग॒मे , ते , दक्षि॑णां , दु॒ह॒ते॒ , स॒प्तऽमा॑तरं ॥
दक्षि॑णावान्प्रथ॒मो हू॒त ए॑ति॒ दक्षि॑णावान्ग्राम॒णीरग्र॑मेति । तमे॒व म॑न्ये नृ॒पतिं॒ जना॑नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ॥
दक्षि॑णाऽवान् , प्र॒थ॒मः , हू॒तः , ए॒ति॒ , दक्षि॑णाऽवान् , ग्रा॒म॒ऽनीः , अग्रं॑ , ए॒ति॒ । तं , ए॒व , म॒न्ये॒ , नृ॒ऽपतिं॑ , जना॑नां , यः , प्र॒थ॒मः , दक्षि॑णां , आ॒ऽवि॒वाय॑ ॥
तमे॒व ऋषिं॒ तमु॑ ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं॑ साम॒गामु॑क्थ॒शासं॑ । स शु॒क्रस्य॑ त॒न्वो॑ वेद ति॒स्रो यः प्र॑थ॒मो दक्षि॑णया र॒राध॑ ॥
तं , ए॒व , ऋषिं॑ , तं , ऊँ॒ इति॑ , ब्र॒ह्माणं॑ , आ॒हुः॒ , य॒ज्ञ॒ऽन्यं॑ , सा॒म॒ऽगां , उ॒क्थ॒ऽशसं॑ । सः , शु॒क्रस्य॑ , त॒न्वः॑ , वे॒द॒ , ति॒स्रः , यः , प्र॒थ॒मः , दक्षि॑णया , र॒राध॑ ॥
दक्षि॒णाश्वं॒ दक्षि॑णा॒ गां द॑दाति॒ दक्षि॑णा चं॒द्रमु॒त यद्धिर॑ण्यं । दक्षि॒णान्नं॑ वनुते॒ यो न॑ आ॒त्मा दक्षि॑णां॒ वर्म॑ कृणुते विजा॒नन् ॥
दक्षि॑णा , अश्वं॑ , दक्षि॑णा , गां , द॒दा॒ति॒ , दक्षि॑णा , चं॒द्रं , उ॒त , यत् , हिर॑ण्यं । दक्षि॑णा , अन्नं॑ , व॒नु॒ते॒ , यः , नः॒ , आ॒त्मा , दक्षि॑णां , वर्म॑ , कृ॒णु॒ते॒ , वि॒ऽजा॒नन् ॥
न भो॒जा म॑म्रु॒र्न न्य॒र्थमी॑यु॒र्न रि॑ष्यंति॒ न व्य॑थंते ह भो॒जाः । इ॒दं यद्विश्वं॒ भुव॑नं॒ स्व॑श्चै॒तत्सर्वं॒ दक्षि॑णैभ्यो ददाति ॥
न , भो॒जाः , म॒म्रुः॒ , न , नि॒ऽअ॒र्थं , ई॒युः॒ , न , रि॒ष्यं॒ति॒ , न , व्य॒थं॒ते॒ , ह॒ , भो॒जाः । इ॒दं , यत् , विश्वं॑ , भुव॑नं , स्व१॒॑रिति॒ स्वः॑ , च॒ , ए॒तत् , सर्वं॑ , दक्षि॑णा , ए॒भ्यः॒ , द॒दा॒ति॒ ॥
भो॒जा जि॑ग्युः सुर॒भिं योनि॒मग्रे॑ भो॒जा जि॑ग्युर्व॒ध्वं१॒॑ या सु॒वासाः॑ । भो॒जा जि॑ग्युरंतः॒पेयं॒ सुरा॑या भो॒जा जि॑ग्यु॒र्ये अहू॑ताः प्र॒यंति॑ ॥
भो॒जाः , जि॒ग्युः॒ , सु॒र॒भिं , योनिं॑ , अग्रे॑ , भो॒जाः , जि॒ग्युः॒ , व॒ध्वं॑ , या , सु॒ऽवासाः॑ । भो॒जाः , जि॒ग्युः॒ , अं॒तः॒ऽपेयं॑ , सुरा॑याः , भो॒जाः , जि॒ग्युः॒ , ये , अहू॑ताः , प्र॒ऽयंति॑ ॥
भो॒जायाश्वं॒ सं मृ॑जंत्या॒शुं भो॒जाया॑स्ते क॒न्या॒३॒॑ शुंभ॑माना । भो॒जस्ये॒दं पु॑ष्क॒रिणी॑व॒ वेश्म॒ परि॑ष्कृतं देवमा॒नेव॑ चि॒त्रं ॥
भो॒जाय॑ , अश्वं॑ , सं , मृ॒जं॒ति॒ , आ॒शुं , भो॒जाय॑ , आ॒स्ते॒ , क॒न्या॑ , शुंभ॑माना । भो॒जस्य॑ , इ॒दं , पु॒ष्क॒रिणी॑ऽइव , वेश्म॑ , परि॑ऽकृतं , दे॒व॒मा॒नाऽइ॑व , चि॒त्रं ॥
भो॒जमश्वाः॑ सुष्ठु॒वाहो॑ वहंति सु॒वृद्रथो॑ वर्तते॒ दक्षि॑णायाः । भो॒जं दे॑वासोऽवता॒ भरे॑षु भो॒जः शत्रूं॑त्समनी॒केषु॒ जेता॑ ॥
भो॒जं , अश्वाः॑ , सु॒ष्ठु॒ऽवाहः॑ , व॒हं॒ति॒ , सु॒ऽवृत् , रथः॑ , व॒र्त॒ते॒ , दक्षि॑णायाः । भो॒जं , दे॒वा॒सः॒ , अ॒व॒त॒ , भरे॑षु , भो॒जः , शत्रू॑न् , सं॒ऽअ॒नी॒केषु॑ , जेता॑ ॥
[१०८] किमिच्छंतीत्येकादशर्चस्य सूक्तस्यायुजां पणिनामासुराऋषयः युजामेकादश्याश्च सरमानाग्नीदेवशुनीऋषिका अयुजांसरमादेवता युजामेकादश्याश्चपणयस्त्रिष्टुप् |
किमि॒च्छंती॑ स॒रमा॒ प्रेदमा॑नड्दू॒रे ह्यध्वा॒ जगु॑रिः परा॒चैः । कास्मेहि॑तिः॒ का परि॑तक्म्यासीत्क॒थं र॒साया॑ अतरः॒ पयां॑सि ॥
किं , इ॒च्छंती॑ , स॒रमा॑ , प्र , इ॒दं , आ॒न॒ट् , दू॒रे , हि , अध्वा॑ , जगु॑रिः , प॒रा॒चैः । का , अ॒स्मेऽहि॑तिः , का , परि॑ऽतक्म्या , आ॒सी॒त् , क॒थं , र॒सायाः॑ , अ॒त॒रः॒ , पयां॑सि ॥
इंद्र॑स्य दू॒तीरि॑षि॒ता च॑रामि म॒ह इ॒च्छंती॑ पणयो नि॒धीन्वः॑ । अ॒ति॒ष्कदो॑ भि॒यसा॒ तन्न॑ आव॒त्तथा॑ र॒साया॑ अतरं॒ पयां॑सि ॥
इंद्र॑स्य , दू॒तीः , इ॒षि॒ता , च॒रा॒मि॒ , म॒हः , इ॒च्छंती॑ , प॒ण॒यः॒ , नि॒ऽधीन् , वः॒ । अ॒ति॒ऽस्कदः॑ , भि॒यसा॑ , तत् , नः॒ , आ॒व॒त् , तथा॑ , र॒सायाः॑ , अ॒त॒रं॒ , पयां॑सि ॥
की॒दृङ्ङिंद्रः॑ सरमे॒ का दृ॑शी॒का यस्ये॒दं दू॒तीरस॑रः परा॒कात् । आ च॒ गच्छा॑न्मि॒त्रमे॑ना दधा॒माथा॒ गवां॒ गोप॑तिर्नो भवाति ॥
की॒दृङ् , इंद्रः॑ , स॒र॒मे॒ , का , दृ॒शी॒का , यस्य॑ , इ॒दं , दू॒तीः , अस॑रः , प॒रा॒कात् । आ , च॒ , गच्छा॑त् , मि॒त्रं , ए॒न॒ , द॒धा॒म॒ , अथ॑ , गवां॑ , गोऽप॑तिः , नः॒ , भ॒वा॒ति॒ ॥
नाहं तं वे॑द॒ दभ्यं॒ दभ॒त्स यस्ये॒दं दू॒तीरस॑रं परा॒कात् । न तं गू॑हंति स्र॒वतो॑ गभी॒रा ह॒ता इंद्रे॑ण पणयः शयध्वे ॥
न , अ॒हं , तं , वे॒द॒ , दभ्यं॑ , दभ॑त् , सः , यस्य॑ , इ॒दं , दू॒तीः , अस॑रं , प॒रा॒कात् । न , तं , गू॒हं॒ति॒ , स्र॒वतः॑ , ग॒भी॒राः , ह॒ताः , इंद्रे॑ण , प॒ण॒यः॒ , श॒य॒ध्वे॒ ॥
इ॒मा गावः॑ सरमे॒ या ऐच्छः॒ परि॑ दि॒वो अंतां॑त्सुभगे॒ पतं॑ती । कस्त॑ एना॒ अव॑ सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धा संति ति॒ग्मा ॥
इ॒माः , गावः॑ , स॒र॒मे॒ , याः , ऐच्छः॑ , परि॑ , दि॒वः , अंता॑न् , सु॒ऽभ॒गे॒ , पतं॑ती । कः , ते॒ , ए॒नाः॒ , अव॑ , सृ॒जा॒त् , अयु॑ध्वी , उ॒त , अ॒स्माकं॑ , आयु॑धा , सं॒ति॒ , ति॒ग्मा ॥
अ॒से॒न्या वः॑ पणयो॒ वचां॑स्यनिष॒व्यास्त॒न्वः॑ संतु पा॒पीः । अधृ॑ष्टो व॒ एत॒वा अ॑स्तु॒ पंथा॒ बृह॒स्पति॑र्व उभ॒या न मृ॑ळात् ॥
अ॒से॒न्या , वः॒ , प॒ण॒यः॒ , वचां॑सि , अ॒नि॒ष॒व्याः , त॒न्वः॑ , सं॒तु॒ , पा॒पीः । अधृ॑ष्टः , वः॒ , एत॒वै , अ॒स्तु॒ , पंथाः॑ , बृह॒स्पतिः॑ , वः॒ , उ॒भ॒या , न , मृ॒ळा॒त् ॥
अ॒यं नि॒धिः स॑रमे॒ अद्रि॑बुध्नो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्न्यृ॑ष्टः । रक्षं॑ति॒ तं प॒णयो॒ ये सु॑गो॒पा रेकु॑ प॒दमल॑क॒मा ज॑गंथ ॥
अ॒यं , नि॒ऽधिः , स॒र॒मे॒ , अद्रि॑ऽबुध्नः , गोभिः॑ , अश्वे॑भिः , वसु॑ऽभिः , निऽऋ॑ष्टः । रक्षं॑ति , तं , प॒णयः॑ , ये , सु॒ऽगो॒पाः , रेकु॑ , प॒दं , अल॑कं , आ , ज॒गं॒थ॒ ॥
एह ग॑म॒न्नृष॑यः॒ सोम॑शिता अ॒यास्यो॒ अंगि॑रसो॒ नव॑ग्वाः । त ए॒तमू॒र्वं वि भ॑जंत॒ गोना॒मथै॒तद्वचः॑ प॒णयो॒ वम॒न्नित् ॥
आ , इ॒ह , ग॒म॒न् , ऋष॑यः , सोम॑ऽशिताः , अ॒यास्यः॑ , अंगि॑रसः , नव॑ऽग्वाः । ते , ए॒तं , ऊ॒र्वं , वि , भ॒जं॒त॒ , गोनां॑ , अथ॑ , ए॒तत् , वचः॑ , प॒णयः॑ , वम॑न् , इत् ॥
ए॒वा च॒ त्वं स॑रम आज॒गंथ॒ प्रबा॑धिता॒ सह॑सा॒ दैव्ये॑न । स्वसा॑रं त्वा कृणवै॒ मा पुन॑र्गा॒ अप॑ ते॒ गवां॑ सुभगे भजाम ॥
ए॒व , च॒ , त्वं , स॒र॒मे॒ , आ॒ऽज॒गंथ॑ , प्रऽबा॑धिता , सह॑सा , दैव्ये॑न । स्वसा॑रं , त्वा॒ , कृ॒ण॒वै॒ , मा , पुनः॑ , गाः॒ , अप॑ , ते॒ , गवां॑ , सु॒ऽभ॒गे॒ , भ॒जा॒म॒ ॥
नाहं वे॑द भ्रातृ॒त्वं नो स्व॑सृ॒त्वमिंद्रो॑ विदु॒रंगि॑रसश्च घो॒राः । गोका॑मा मे अच्छदय॒न्यदाय॒मपात॑ इत पणयो॒ वरी॑यः ॥
न , अ॒हं , वे॒द॒ , भ्रा॒तृ॒ऽत्वं , नो इति॑ , स्व॒सृ॒ऽत्वं , इंद्रः॑ , वि॒दुः॒ , अंगि॑रसः , च॒ , घो॒राः । गोऽका॑माः , मे॒ , अ॒च्छ॒द॒य॒न् , यत् , आयं॑ , अप॑ , अतः॑ , इ॒त॒ , प॒ण॒यः॒ , वरी॑यः ॥
दू॒रमि॑त पणयो॒ वरी॑य॒ उद्गावो॑ यंतु मिन॒तीर्ऋ॒तेन॑ । बृह॒स्पति॒र्या अविं॑द॒न्निगू॑ळ्हाः॒ सोमो॒ ग्रावा॑ण॒ ऋष॑यश्च॒ विप्राः॑ ॥
दू॒रं , इ॒त॒ , प॒ण॒यः॒ , वरी॑यः , उत् , गावः॑ , यं॒तु॒ , मि॒न॒तीः , ऋ॒तेन॑ । बृह॒स्पतिः॑ , याः , अविं॑दत् , निऽगू॑ळ्हाः , सोमः॑ , ग्रावा॑णः , ऋष॑यः , च॒ , विप्राः॑ ॥
[१०९] तेवदन्निति सप्तर्चस्य सूक्तस्य ब्रह्मजायाजुहूर्विश्वेदेवास्त्रिष्टुबंत्येद्वेअनुष्टुभौ | (ब्राह्मोवोर्ध्वनाभऋषिः) |
ते॑ऽवदन्प्रथ॒मा ब्र॑ह्मकिल्बि॒षेऽकू॑पारः सलि॒लो मा॑त॒रिश्वा॑ । वी॒ळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो॑ दे॒वीः प्र॑थम॒जा ऋ॒तेन॑ ॥
ते , अ॒व॒द॒न् , प्र॒थ॒माः , ब्र॒ह्म॒ऽकि॒ल्बि॒षे , अकू॑पारः , स॒लि॒लः , मा॒त॒रिश्वा॑ । वी॒ळुऽह॑राः , तपः॑ , उ॒ग्रः , म॒यः॒ऽभूः , आपः॑ , दे॒वीः , प्र॒थ॒म॒ऽजाः , ऋ॒तेन॑ ॥
सोमो॒ राजा॑ प्रथ॒मो ब्र॑ह्मजा॒यां पुनः॒ प्राय॑च्छ॒दहृ॑णीयमानः । अ॒न्व॒र्ति॒ता वरु॑णो मि॒त्र आ॑सीद॒ग्निर्होता॑ हस्त॒गृह्या नि॑नाय ॥
सोमः॑ , राजा॑ , प्र॒थ॒मः , ब्र॒ह्म॒ऽजा॒यां , पुन॒रिति॑ , प्र , अ॒य॒च्छ॒त् , अहृ॑णीयमानः । अ॒नु॒ऽअ॒र्ति॒ता , वरु॑णः , मि॒त्रः , आ॒सी॒त् , अ॒ग्निः , होता॑ , ह॒स्त॒ऽगृह्य॑ , आ , नि॒ना॒य॒ ॥
हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येयमिति॒ चेदवो॑चन् । न दू॒ताय॑ प्र॒ह्ये॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥
हस्ते॑न , ए॒व , ग्रा॒ह्यः॑ , आ॒ऽधिः , अ॒स्याः॒ , ब्र॒ह्म॒ऽजा॒या , इ॒यं , इति॑ , च॒ , इत् , अवो॑चन् । न , दू॒ताय॑ , प्र॒ऽह्ये॑ , त॒स्थे॒ , ए॒षा , तथा॑ , रा॒ष्ट्रं , गु॒पि॒तं , क्ष॒त्रिय॑स्य ॥
दे॒वा ए॒तस्या॑मवदंत॒ पूर्वे॑ सप्तऋ॒षय॒स्तप॑से॒ ये नि॑षे॒दुः । भी॒मा जा॒या ब्रा॑ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो॑मन् ॥
दे॒वाः , ए॒तस्यां॑ , अ॒व॒दं॒त॒ , पूर्वे॑ , स॒प्त॒ऽऋ॒षयः॑ , तप॑से , ये , नि॒ऽसे॒दुः । भी॒मा , जा॒या , ब्रा॒ह्म॒णस्य॑ , उप॑ऽनीता , दुः॒ऽधां , द॒धा॒ति॒ , प॒र॒मे , विऽओ॑मन् ॥
ब्र॒ह्म॒चा॒री च॑रति॒ वेवि॑ष॒द्विषः॒ स दे॒वानां॑ भव॒त्येक॒मंगं॑ । तेन॑ जा॒यामन्व॑विंद॒द्बृह॒स्पतिः॒ सोमे॑न नी॒तां जु॒ह्वं१॒॑ न दे॑वाः ॥
ब्र॒ह्म॒ऽचा॒री , च॒र॒ति॒ , वेवि॑षत् , विषः॑ , सः , दे॒वानां॑ , भ॒व॒ति॒ , एकं॑ , अंगं॑ । तेन॑ , जा॒यां , अनु॑ , अ॒विं॒द॒त् , बृह॒स्पतिः॑ , सोमे॑न , नी॒तां , जु॒ह्वं॑ , न , दे॒वाः॒ ॥
पुन॒र्वै दे॒वा अ॑ददुः॒ पुन॑र्मनु॒ष्या॑ उ॒त । राजा॑नः स॒त्यं कृ॑ण्वा॒ना ब्र॑ह्मजा॒यां पुन॑र्ददुः ॥
पुनः॑ , वै , दे॒वाः , अ॒द॒दुः॒ , पुनः॑ , म॒नु॒ष्याः॑ , उ॒त । राजा॑नः , स॒त्यं , कृ॒ण्वा॒नाः , ब्र॒ह्म॒ऽजा॒यां , पुनः॑ , द॒दुः॒ ॥
पु॒न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वी दे॒वैर्नि॑किल्बि॒षं । ऊर्जं॑ पृथि॒व्या भ॒क्त्वायो॑रुगा॒यमुपा॑सते ॥
पु॒नः॒ऽदाय॑ , ब्र॒ह्म॒ऽजा॒यां , कृ॒त्वी , दे॒वैः , नि॒ऽकि॒ल्बि॒षं । ऊर्जं॑ , पृ॒थि॒व्याः , भ॒क्त्वाय॑ , उ॒रु॒ऽगा॒यं , उप॑ , आ॒स॒ते॒ ॥
[११०] समिद्धइत्येकादशर्चस्य सूक्तस्य भार्गवो जमदग्निरिध्म स्तनूनपाद् इळो बर्हिर्देवीर्द्वारउषासानक्ता दैव्यौहोतारौसरस्वतीळाभारत्यस्त्वष्टावनस्पति स्वाहाकृतयस्त्रिष्टुप् | (जामदग्नि: परशुरामोवा)|
समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः । आ च॒ वह॑ मित्रमहश्चिकि॒त्वांत्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥
संऽइ॑द्धः , अ॒द्य , मनु॑षः , दु॒रो॒णे , दे॒वः , दे॒वान् , य॒ज॒सि॒ , जा॒त॒ऽवे॒दः॒ । आ , च॒ , वह॑ , मि॒त्र॒ऽम॒हः॒ , चि॒कि॒त्वान् , त्वं , दू॒तः , क॒विः , अ॒सि॒ , प्रऽचे॑ताः ॥
तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ समं॒जंत्स्व॑दया सुजिह्व । मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृं॒धंदे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ॥
तनू॑ऽनपात् , प॒थः , ऋ॒तस्य॑ , याना॑न् , मध्वा॑ , सं॒ऽअं॒जन् , स्व॒द॒य॒ , सु॒ऽजि॒ह्व॒ । मन्मा॑नि , धी॒भिः , उ॒त , य॒ज्ञं , ऋं॒धन् , दे॒व॒ऽत्रा , च॒ , कृ॒णु॒हि॒ , अ॒ध्व॒रं , नः॒ ॥
आ॒जुह्वा॑न॒ ईड्यो॒ वंद्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑ । त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥
आ॒ऽजुह्वा॑नः , ईड्यः॑ , वंद्यः॑ , च॒ , आ , या॒हि॒ , अ॒ग्ने॒ , वसु॑ऽभिः , स॒ऽजोषाः॑ । त्वं , दे॒वानां॑ , अ॒सि॒ , य॒ह्व॒ , होता॑ , सः , ए॒ता॒न् , य॒क्षि॒ , इ॒षि॒तः , यजी॑यान् ॥
प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्नां॑ । व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नं ॥
प्रा॒चीनं॑ , ब॒र्हिः , प्र॒ऽदिशा॑ , पृ॒थि॒व्याः , वस्तोः॑ , अ॒स्याः , वृ॒ज्य॒ते॒ , अग्रे॑ , अह्नां॑ । वि , ऊँ॒ इति॑ , प्र॒थ॒ते॒ , वि॒ऽत॒रं , वरी॑यः , दे॒वेभ्यः॑ , अदि॑तये , स्यो॒नं ॥
व्यच॑स्वतीरुर्वि॒या वि श्र॑यंतां॒ पति॑भ्यो॒ न जन॑यः॒ शुंभ॑मानाः । देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥
व्यच॑स्वतीः , उ॒र्वि॒या , वि , श्र॒यं॒तां॒ , पति॑ऽभ्यः , न , जन॑यः , शुंभ॑मानाः । देवीः॑ , द्वा॒रः॒ , बृ॒ह॒तीः॒ , वि॒श्वं॒ऽइ॒न्वाः॒ , दे॒वेभ्यः॑ , भ॒व॒त॒ , सु॒प्र॒ऽअ॒य॒नाः ॥
आ सु॒ष्वयं॑ती यज॒ते उपा॑के उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ । दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ॥
आ , सु॒स्वयं॑ती॒ इति॑ , य॒ज॒ते इति॑ , उपा॑के॒ इति॑ , उ॒षसा॒नक्ता॑ , स॒द॒तां॒ , नि , योनौ॑ । दि॒व्ये इति॑ , योष॑णे॒ इति॑ , बृ॒ह॒ती इति॑ , सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे , अधि॑ , श्रियं॑ , शु॒क्र॒ऽपिशं॑ , दधा॑ने॒ इति॑ ॥
दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै । प्र॒चो॒दयं॑ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शंता॑ ॥
दैव्या॑ , होता॑रा , प्र॒थ॒मा , सु॒ऽवाचा॑ , मिमा॑ना , य॒ज्ञं , मनु॑षः , यज॑ध्यै । प्र॒ऽचो॒दयं॑ता , वि॒दथे॑षु , का॒रू इति॑ , प्रा॒चीनं॑ , ज्योतिः॑ , प्र॒ऽदिशा॑ , दि॒शंता॑ ॥
आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विळा॑ मनु॒ष्वदि॒ह चे॒तयं॑ती । ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदंतु ॥
आ , नः॒ , य॒ज्ञं , भार॑ती , तूयं॑ , ए॒तु॒ , इळा॑ , म॒नु॒ष्वत् , इ॒ह , चे॒तयं॑ती । ति॒स्रः , दे॒वीः , ब॒र्हिः , आ , इ॒दं , स्यो॒नं , सर॑स्वती , सु॒ऽअप॑सः , स॒दं॒तु॒ ॥
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑ । तम॒द्य हो॑तरिषि॒तो यजी॑यांदे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥
यः , इ॒मे इति॑ , द्यावा॑पृथि॒वी इति॑ , जनि॑त्री॒ इति॑ , रू॒पैः , अपिं॑शत् , भुव॑नानि , विश्वा॑ । तं , अ॒द्य , हो॒तः॒ , इ॒षि॒तः , यजी॑यान् , दे॒वं , त्वष्टा॑रं , इ॒ह , य॒क्षि॒ , वि॒द्वान् ॥
उ॒पाव॑सृज॒ त्मन्या॑ समं॒जंदे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑ । वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः स्वदं॑तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥
उ॒प॒ऽअव॑सृज , त्मन्या॑ , सं॒ऽअं॒जन् , दे॒वानां॑ , पाथः॑ , ऋ॒तु॒ऽथा , ह॒वींषि॑ । वन॒स्पतिः॑ , श॒मि॒ता , दे॒वः , अ॒ग्निः , स्वदं॑तु , ह॒व्यं , मधु॑ना , घृ॒तेन॑ ॥
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः । अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दंतु दे॒वाः ॥
स॒द्यः , जा॒तः , वि , अ॒मि॒मी॒त॒ , य॒ज्ञं , अ॒ग्निः , दे॒वानां॑ , अ॒भ॒व॒त् , पु॒रः॒ऽगाः । अ॒स्य , होतुः॑ , प्र॒ऽदिशि॑ , ऋ॒तस्य॑ , वा॒चि , स्वाहा॑ऽकृतं , ह॒विः , अ॒दं॒तु॒ , दे॒वाः ॥
[१११] मनीषिणइति दशर्चस्य सुक्तस्य वैरूपोष्टादंष्त्रः इंद्रत्रिष्टुप् |
मनी॑षिणः॒ प्र भ॑रध्वं मनी॒षां यथा॑यथा म॒तयः॒ संति॑ नृ॒णां । इंद्रं॑ स॒त्यैरेर॑यामा कृ॒तेभिः॒ स हि वी॒रो गि॑र्वण॒स्युर्विदा॑नः ॥
मनी॑षिणः , प्र , भ॒र॒ध्वं॒ , म॒नी॒षां , यथा॑ऽयथा , म॒तयः॑ , संति॑ , नृ॒णां । इंद्रं॑ , स॒त्यैः , आ , ई॒र॒या॒म॒ , कृ॒तेभिः॑ , सः , हि , वी॒रः , गि॒र्व॒ण॒स्युः , विदा॑नः ॥
ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा॑र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् । उद॑तिष्ठत्तवि॒षेणा॒ रवे॑ण म॒हांति॑ चि॒त्सं वि॑व्याचा॒ रजां॑सि ॥
ऋ॒तस्य॑ , हि , सद॑सः , धी॒तिः , अद्यौ॑त् , सं , गा॒र्ष्टे॒यः , वृ॒ष॒भः , गोभिः॑ , आ॒न॒ट् । उत् , अ॒ति॒ष्ठ॒त् , त॒वि॒षेण॑ , रवे॑ण , म॒हांति॑ , चि॒त् , सं , वि॒व्या॒च॒ , रजां॑सि ॥
इंद्रः॒ किल॒ श्रुत्या॑ अ॒स्य वे॑द॒ स हि जि॒ष्णुः प॑थि॒कृत्सूर्या॑य । आन्मेनां॑ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा अप्र॑तीतः ॥
इंद्रः॑ , किल॑ , श्रुत्यै॑ , अ॒स्य , वे॒द॒ , सः , हि , जि॒ष्णुः , प॒थि॒ऽकृत् , सूर्या॑य । आत् , मेनां॑ , कृ॒ण्वन् , अच्यु॑तः , भुव॑त् , गोः , पतिः॑ , दि॒वः , स॒न॒ऽजाः , अप्र॑तिऽइतः ॥
इंद्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॑ व्र॒तामि॑ना॒दंगि॑रोभिर्गृणा॒नः । पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां॑सि दा॒धार॒ यो ध॒रुणं॑ स॒त्यता॑ता ॥
इंद्रः॑ , म॒ह्ना , म॒ह॒तः , अ॒र्ण॒वस्य॑ , व्र॒ता , अ॒मि॒ना॒त् , अंगि॑रःऽभिः , गृ॒णा॒नः । पु॒रूणि॑ , चि॒त् , नि , त॒ता॒न॒ , रजां॑सि , दा॒धार॑ , यः , ध॒रुणं॑ , स॒त्यऽता॑ता ॥
इंद्रो॑ दि॒वः प्र॑ति॒मानं॑ पृथि॒व्या विश्वा॑ वेद॒ सव॑ना॒ हंति॒ शुष्णं॑ । म॒हीं चि॒द्द्यामात॑नो॒त्सूर्ये॑ण चा॒स्कंभ॑ चि॒त्कंभ॑नेन॒ स्कभी॑यान् ॥
इंद्रः॑ , दि॒वः , प्र॒ति॒ऽमानं॑ , पृ॒थि॒व्याः , विश्वा॑ , वे॒द॒ , सव॑ना , हंति॑ , शुष्णं॑ । म॒हीं , चि॒त् , द्यां , आ , अ॒त॒नो॒त् , सूर्ये॑ण , चा॒स्कंभ॑ , चि॒त् , स्कंभ॑नेन , स्कभी॑यान् ॥
वज्रे॑ण॒ हि वृ॑त्र॒हा वृ॒त्रमस्त॒रदे॑वस्य॒ शूशु॑वानस्य मा॒याः । वि धृ॑ष्णो॒ अत्र॑ धृष॒ता ज॑घं॒थाथा॑भवो मघवन्बा॒ह्वो॑जाः ॥
वज्रे॑ण , हि , वृ॒त्र॒ऽहा , वृ॒त्रं , अस्तः॑ , अदे॑वस्य , शूशु॑वानस्य , मा॒याः । वि , धृ॒ष्णो॒ इति॑ , अत्र॑ , धृ॒ष॒ता , ज॒घं॒थ॒ , अथ॑ , अ॒भ॒वः॒ , म॒घ॒ऽव॒न् , बा॒हुऽओ॑जाः ॥
सचं॑त॒ यदु॒षसः॒ सूर्ये॑ण चि॒त्राम॑स्य के॒तवो॒ राम॑विंदन् । आ यन्नक्ष॑त्रं॒ ददृ॑शे दि॒वो न पुन॑र्य॒तो नकि॑र॒द्धा नु वे॑द ॥
सचं॑त , यत् , उ॒षसः॑ , सूर्ये॑ण , चि॒त्रां , अ॒स्य॒ , के॒तवः॑ , रां , अ॒विं॒द॒न् । आ , यत् , नक्ष॑त्रं , ददृ॑शे , दि॒वः , न , पुनः॑ , य॒तः , नकिः॑ , अ॒द्धा , नु , वे॒द॒ ॥
दू॒रं किल॑ प्रथ॒मा ज॑ग्मुरासा॒मिंद्र॑स्य॒ याः प्र॑स॒वे स॒स्रुरापः॑ । क्व॑ स्वि॒दग्रं॒ क्व॑ बु॒ध्न आ॑सा॒मापो॒ मध्यं॒ क्व॑ वो नू॒नमंतः॑ ॥
दू॒रं , किल॑ , प्र॒थ॒माः , ज॒ग्मुः॒ , आ॒सां॒ , इंद्र॑स्य , याः , प्र॒ऽस॒वे , स॒स्रुः , आपः॑ । क्व॑ , स्वि॒त् , अग्रं॑ , क्व॑ , बु॒ध्नः , आ॒सां॒ , आपः॑ , मध्यं॑ , क्व॑ , वः॒ , नू॒नं , अंतः॑ ॥
सृ॒जः सिंधूँ॒रहि॑ना जग्रसा॒नाँ आदिदे॒ताः प्र वि॑विज्रे ज॒वेन॑ । मुमु॑क्षमाणा उ॒त या मु॑मु॒च्रेऽधेदे॒ता न र॑मंते॒ निति॑क्ताः ॥
सृ॒जः , सिंधू॑न् , अहि॑ना , ज॒ग्र॒सा॒नान् , आत् , इत् , ए॒ताः , प्र , वि॒वि॒ज्रे॒ , ज॒वेन॑ । मुमु॑क्षमाणाः , उ॒त , याः , मु॒मु॒च्रे , अध॑ , इत् , ए॒ताः , न , र॒मं॒ते॒ , निऽति॑क्ताः ॥
स॒ध्रीचीः॒ सिंधु॑मुश॒तीरि॑वायंत्स॒नाज्जा॒र आ॑रि॒तः पू॒र्भिदा॑सां । अस्त॒मा ते॒ पार्थि॑वा॒ वसू॑न्य॒स्मे ज॑ग्मुः सू॒नृता॑ इंद्र पू॒र्वीः ॥
स॒ध्रीचीः॑ , सिंधुं॑ , उ॒श॒तीःऽइ॑व , आ॒य॒न् , स॒नात् , जा॒रः , आ॒रि॒तः , पूः॒ऽभित् , आ॒सां॒ । अस्तं॑ , आ , ते॒ , पार्थि॑वा , वसू॑नि , अ॒स्मे इति॑ , ज॒ग्मुः॒ , सू॒नृताः॑ , इं॒द्र॒ , पू॒र्वीः ॥
[११२] इंद्रपिबेति दशर्चस्य सूक्तस्य वैरूपोनभः प्रभेदनइंद्रस्त्रिष्टुप् |
इंद्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी॑तिः । हर्ष॑स्व॒ हंत॑वे शूर॒ शत्रू॑नु॒क्थेभि॑ष्टे वी॒र्या॒३॒॑ प्र ब्र॑वाम ॥
इंद्र॑ , पिब॑ , प्र॒ति॒ऽका॒मं , सु॒तस्य॑ , प्रा॒तः॒ऽसा॒वः , तव॑ , हि , पू॒र्वऽपी॑तिः । हर्ष॑स्व , हंत॑वे , शू॒र॒ , शत्रू॑न् , उ॒क्थेभिः॑ , ते॒ , वी॒र्या॑ , प्र , ब्र॒वा॒म॒ ॥
यस्ते॒ रथो॒ मन॑सो॒ जवी॑या॒नेंद्र॒ तेन॑ सोम॒पेया॑य याहि । तूय॒मा ते॒ हर॑यः॒ प्र द्र॑वंतु॒ येभि॒र्यासि॒ वृष॑भि॒र्मंद॑मानः ॥
यः , ते॒ , रथः॑ , मन॑सः , जवी॑यान् , आ॒ , इं॒द्र॒ , तेन॑ , सो॒म॒ऽपेया॑य , या॒हि॒ । तूयं॑ , आ , ते॒ , हर॑यः , प्र , द्र॒वं॒तु॒ , येभिः॑ , यासि॑ , वृष॑ऽभिः , मंद॑मानः ॥
हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै॑ रू॒पैस्त॒न्वं॑ स्पर्शयस्व । अ॒स्माभि॑रिंद्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा॑दयस्वा नि॒षद्य॑ ॥
हरि॑त्वता , वर्च॑सा , सूर्य॑स्य , श्रेष्ठैः॑ , रू॒पैः , त॒न्वं॑ , स्प॒र्श॒य॒स्व॒ । अ॒स्माभिः॑ , इं॒द्र॒ , सखि॑ऽभिः , हु॒वा॒नः , स॒ध्री॒ची॒नः , मा॒द॒य॒स्व॒ , नि॒ऽसद्य॑ ॥
यस्य॒ त्यत्ते॑ महि॒मानं॒ मदे॑ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्तां । तदोक॒ आ हरि॑भिरिंद्र यु॒क्तैः प्रि॒येभि॑र्याहि प्रि॒यमन्न॒मच्छ॑ ॥
यस्य॑ , त्यत् , ते॒ , म॒हि॒मानं॑ , मदे॑षु , इ॒मे इति॑ , म॒ही इति॑ , रोद॑सी॒ इति॑ , न , अवि॑विक्तां । तत् , ओकः॑ , आ , हरि॑ऽभिः , इं॒द्र॒ , यु॒क्तैः , प्रि॒येभिः॑ , या॒हि॒ , प्रि॒यं , अन्नं॑ , अच्छ॑ ॥
यस्य॒ शश्व॑त्पपि॒वाँ इं॑द्र॒ शत्रू॑ननानुकृ॒त्या रण्या॑ च॒कर्थ॑ । स ते॒ पुरं॑धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा॑य सु॒त इं॑द्र॒ सोमः॑ ॥
यस्य॑ , शश्व॑त् , प॒पि॒ऽवान् , इं॒द्र॒ , शत्रू॑न् , अ॒न॒नु॒ऽकृ॒त्या , रण्या॑ , च॒कर्थ॑ । सः , ते॒ , पुरं॑ऽधिं , तवि॑षीं , इ॒य॒र्ति॒ , सः , ते॒ , मदा॑य , सु॒तः , इं॒द्र॒ , सोमः॑ ॥
इ॒दं ते॒ पात्रं॒ सन॑वित्तमिंद्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो । पू॒र्ण आ॑हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्यं॑ति दे॒वाः ॥
इ॒दं , ते॒ , पात्रं॑ , सन॑ऽवित्तं , इं॒द्र॒ , पिब॑ , सोमं॑ , ए॒ना , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । पू॒र्णः , आ॒ऽहा॒वः , म॒दि॒रस्य॑ , मध्वः॑ , यं , विश्वे॑ , इत् , अ॒भि॒ऽहर्यं॑ति , दे॒वाः ॥
वि हि त्वामिं॑द्र पुरु॒धा जना॑सो हि॒तप्र॑यसो वृषभ॒ ह्वयं॑ते । अ॒स्माकं॑ ते॒ मधु॑मत्तमानी॒मा भु॑वं॒त्सव॑ना॒ तेषु॑ हर्य ॥
वि , हि , त्वां , इं॒द्र॒ , पु॒रु॒धा , जना॑सः , हि॒तऽप्र॑यसः , वृ॒ष॒भ॒ , ह्वयं॑ते । अ॒स्माकं॑ , ते॒ , मधु॑मत्ऽतमानि , इ॒मा , भु॒व॒न् , सव॑ना , तेषु॑ , ह॒र्य॒ ॥
प्र त॑ इंद्र पू॒र्व्याणि॒ प्र नू॒नं वी॒र्या॑ वोचं प्रथ॒मा कृ॒तानि॑ । स॒ती॒नम॑न्युरश्रथायो॒ अद्रिं॑ सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गां ॥
प्र , ते॒ , इं॒द्र॒ , पू॒र्व्याणि॑ , प्र , नू॒नं , वी॒र्या॑ , वो॒चं॒ , प्र॒थ॒मा , कृ॒तानि॑ । स॒ती॒नऽम॑न्युः , अ॒श्र॒थ॒यः॒ , अद्रिं॑ , सु॒ऽवे॒द॒नां , अ॒कृ॒णोः॒ , ब्रह्म॑णे , गां ॥
नि षु सी॑द गणपते ग॒णेषु॒ त्वामा॑हु॒र्विप्र॑तमं कवी॒नां । न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवंचि॒त्रम॑र्च ॥
नि , सु , सी॒द॒ , ग॒ण॒ऽप॒ते॒ , ग॒णेषु॑ , त्वां , आ॒हुः॒ , विप्र॑ऽतमं , क॒वी॒नां । न , ऋ॒ते , त्वत् , क्रि॒य॒ते॒ , किं , च॒न , आ॒रे , म॒हां , अ॒र्कं , म॒घ॒ऽव॒न् , चि॒त्रं , अ॒र्च॒ ॥
अ॒भि॒ख्या नो॑ मघव॒न्नाध॑मानां॒त्सखे॑ बो॒धि व॑सुपते॒ सखी॑नां । रणं॑ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥
अ॒भि॒ऽख्या , नः॒ , म॒घ॒ऽव॒न् , नाध॑मानान् , सखे॑ , बो॒धि , व॒सु॒ऽप॒ते॒ , सखी॑नां । रणं॑ , कृ॒धि॒ , र॒ण॒ऽकृ॒त् , स॒त्य॒ऽशु॒ष्म॒ , अभ॑क्ते , चि॒त् , आ , भ॒ज॒ , रा॒ये , अ॒स्मान् ॥
[११३] तमस्येति दशर्चस्य सूक्तस्य वैरूपः शतप्रभेदनइंद्रजगत्यंत्या त्रिष्टुप् |
तम॑स्य॒ द्यावा॑पृथि॒वी सचे॑तसा॒ विश्वे॑भिर्दे॒वैरनु॒ शुष्म॑मावतां । यदैत्कृ॑ण्वा॒नो म॑हि॒मान॑मिंद्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ अवर्धत ॥
तं , अ॒स्य॒ , द्यावा॑पृथि॒वी इति॑ , सऽचे॑तसा , विश्वे॑भिः , दे॒वैः , अनु॑ , शुष्मं॑ , आ॒व॒तां॒ । यत् , ऐत् , कृ॒ण्वा॒नः , म॒हि॒मानं॑ , इं॒द्रि॒यं , पी॒त्वी , सोम॑स्य , क्रतु॑ऽमान् , अ॒व॒र्ध॒त॒ ॥
तम॑स्य॒ विष्णु॑र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्मधु॑नो॒ वि र॑प्शते । दे॒वेभि॒रिंद्रो॑ म॒घवा॑ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ अ॑भव॒द्वरे॑ण्यः ॥
तं , अ॒स्य॒ , विष्णुः॑ , म॒हि॒मानं॑ , ओज॑सा , अं॒शुं , द॒ध॒न्वान् , मधु॑नः , वि , र॒प्श॒ते॒ । दे॒वेभिः॑ , इंद्रः॑ , म॒घऽवा॑ , स॒याव॑ऽभिः , वृ॒त्रं , ज॒घ॒न्वान् , अ॒भ॒व॒त् , वरे॑ण्यः ॥
वृ॒त्रेण॒ यदहि॑ना॒ बिभ्र॒दायु॑धा स॒मस्थि॑था यु॒धये॒ शंस॑मा॒विदे॑ । विश्वे॑ ते॒ अत्र॑ म॒रुतः॑ स॒ह त्मनाव॑र्धन्नुग्र महि॒मान॑मिंद्रि॒यं ॥
वृ॒त्रेण॑ , यत् , अहि॑ना , बिभ्र॑त् , आयु॑धा , सं॒ऽअस्थि॑थाः , यु॒धये॑ , शंसं॑ , आ॒ऽविदे॑ । विश्वे॑ , ते॒ , अत्र॑ , म॒रुतः॑ , स॒ह , त्मना॑ , अव॑र्धन् , उ॒ग्र॒ , म॒हि॒मानं॑ , इं॒द्रि॒यं ॥
ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृधः॒ प्राप॑श्यद्वी॒रो अ॒भि पौंस्यं॒ रणं॑ । अवृ॑श्च॒दद्रि॒मव॑ स॒स्यदः॑ सृज॒दस्त॑भ्ना॒न्नाकं॑ स्वप॒स्यया॑ पृ॒थुं ॥
ज॒ज्ञा॒नः , ए॒व , वि , अ॒बा॒ध॒त॒ , स्पृधः॑ , प्र , अ॒प॒श्य॒त् , वी॒रः , अ॒भि , पौंस्यं॑ , रणं॑ । अवृ॑श्चत् , अद्रिं॑ , अव॑ , स॒ऽस्यदः॑ , सृ॒ज॒त् , अस्त॑भ्नात् , नाकं॑ , सु॒ऽअ॒प॒स्यया॑ , पृ॒थुं ॥
आदिंद्रः॑ स॒त्रा तवि॑षीरपत्यत॒ वरी॑यो॒ द्यावा॑पृथि॒वी अ॑बाधत । अवा॑भरद्धृषि॒तो वज्र॑माय॒सं शेवं॑ मि॒त्राय॒ वरु॑णाय दा॒शुषे॑ ॥
आत् , इंद्रः॑ , स॒त्रा , तवि॑षीः , अ॒प॒त्य॒त॒ , वरी॑यः , द्यावा॑पृथि॒वी इति॑ , अ॒बा॒ध॒त॒ । अव॑ , अ॒भ॒र॒त् , धृ॒षि॒तः , वज्रं॑ , आ॒य॒सं , शेवं॑ , मि॒त्राय॑ , वरु॑णाय , दा॒शुषे॑ ॥
इंद्र॒स्यात्र॒ तवि॑षीभ्यो विर॒प्शिन॑ ऋघाय॒तो अ॑रंहयंत म॒न्यवे॑ । वृ॒त्रं यदु॒ग्रो व्यवृ॑श्च॒दोज॑सा॒पो बिभ्र॑तं॒ तम॑सा॒ परी॑वृतं ॥
इंद्र॑स्य , अत्र॑ , तवि॑षीभ्यः , वि॒ऽर॒प्शिनः॑ , ऋ॒घा॒य॒तः , अ॒रं॒ह॒यं॒त॒ , म॒न्यवे॑ । वृ॒त्रं , यत् , उ॒ग्रः , वि , अवृ॑श्चत् , ओज॑सा , अ॒पः , बिभ्र॑तं , तम॑सा , परि॑ऽवृतं ॥
या वी॒र्या॑णि प्रथ॒मानि॒ कर्त्वा॑ महि॒त्वेभि॒र्यत॑मानौ समी॒यतुः॑ । ध्वां॒तं तमोऽव॑ दध्वसे ह॒त इंद्रो॑ म॒ह्ना पू॒र्वहू॑तावपत्यत ॥
या , वी॒र्या॑णि , प्र॒थ॒मानि॑ , कर्त्वा॑ , म॒हि॒ऽत्वेभिः॑ , यत॑मानौ , सं॒ऽई॒यतुः॑ । ध्वां॒तं , तमः॑ , अव॑ , द॒ध्व॒से॒ , ह॒ते , इंद्रः॑ , म॒ह्ना , पू॒र्वऽहू॑तौ , अ॒प॒त्य॒त॒ ॥
विश्वे॑ दे॒वासो॒ अध॒ वृष्ण्या॑नि॒ तेऽव॑र्धयं॒त्सोम॑वत्या वच॒स्यया॑ । र॒द्धं वृ॒त्रमहि॒मिंद्र॑स्य॒ हन्म॑ना॒ग्निर्न जंभै॑स्तृ॒ष्वन्न॑मावयत् ॥
विश्वे॑ , दे॒वासः॑ , अध॑ , वृष्ण्या॑नि , ते॒ , अव॑र्धयन् , सोम॑ऽवत्या , व॒च॒स्यया॑ । र॒द्धं , वृ॒त्रं , अहिं॑ , इंद्र॑स्य , हन्म॑ना , अ॒ग्निः , न , जंभैः॑ , तृ॒षु , अन्नं॑ , आ॒व॒य॒त् ॥
भूरि॒ दक्षे॑भिर्वच॒नेभि॒र्ऋक्व॑भिः स॒ख्येभिः॑ स॒ख्यानि॒ प्र वो॑चत । इंद्रो॒ धुनिं॑ च॒ चुमु॑रिं च दं॒भयं॑छ्रद्धामन॒स्या शृ॑णुते द॒भीत॑ये ॥
भूरि॑ , दक्षे॑भिः , व॒च॒नेभिः॑ , ऋक्व॑ऽभिः , स॒ख्येभिः॑ , स॒ख्यानि॑ , प्र , वो॒च॒त॒ । इंद्रः॑ , धुनिं॑ , च॒ , चुमु॑रिं , च॒ , दं॒भय॑न् , श्र॒द्धा॒ऽम॒न॒स्या , शृ॒णु॒ते॒ , द॒भीत॑ये ॥
त्वं पु॒रूण्या भ॑रा॒ स्वश्व्या॒ येभि॒र्मंसै॑ नि॒वच॑नानि॒ शंस॑न् । सु॒गेभि॒र्विश्वा॑ दुरि॒ता त॑रेम वि॒दो षु ण॑ उर्वि॒या गा॒धम॒द्य ॥
त्वं , पु॒रूणि॑ , आ , भ॒र॒ , सु॒ऽअश्व्या॑ , येभिः॑ , मंसै॑ , नि॒ऽवच॑नानि , शंस॑न् । सु॒ऽगेभिः॑ , विश्वा॑ , दुः॒ऽइ॒ता , त॒रे॒म॒ , वि॒दो इति॑ , सु , नः॒ , उ॒र्वि॒या , गा॒धं , अ॒द्य ॥
[११४] घर्मेति दशर्चस्य सूक्तस्य वैरूपः सघ्निर्विश्वेदेवास्त्रिष्टुष्चतुर्थीजगती | ( तापसोघर्मोवाऋषिः) |
घ॒र्मा समं॑ता त्रि॒वृतं॒ व्या॑पतु॒स्तयो॒र्जुष्टिं॑ मात॒रिश्वा॑ जगाम । दि॒वस्पयो॒ दिधि॑षाणा अवेषन्वि॒दुर्दे॒वाः स॒हसा॑मानम॒र्कं ॥
घ॒र्मा , संऽअं॑ता , त्रि॒ऽवृतं॑ , वि , आ॒प॒तुः॒ , तयोः॑ , जुष्टिं॑ , मा॒त॒रिश्वा॑ , ज॒गा॒म॒ । दि॒वः , पयः॑ , दिधि॑षाणाः , अ॒वे॒ष॒न् , वि॒दुः , दे॒वाः , स॒हऽसा॑मानं , अ॒र्कं ॥
ति॒स्रो दे॒ष्ट्राय॒ निर्ऋ॑ती॒रुपा॑सते दीर्घ॒श्रुतो॒ वि हि जा॒नंति॒ वह्न॑यः । तासां॒ नि चि॑क्युः क॒वयो॑ नि॒दानं॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥
ति॒स्रः , दे॒ष्ट्राय॑ , निःऽऋ॑तीः , उप॑ , आ॒स॒ते॒ , दी॒र्घ॒ऽश्रुतः॑ , वि , हि , जा॒नंति॑ , वह्न॑यः । तासां॑ , नि , चि॒क्युः॒ , क॒वयः॑ , नि॒ऽदानं॑ , परे॑षु , याः , गुह्ये॑षु , व्र॒तेषु॑ ॥
चतु॑ष्कपर्दा युव॒तिः सु॒पेशा॑ घृ॒तप्र॑तीका व॒युना॑नि वस्ते । तस्यां॑ सुप॒र्णा वृष॑णा॒ नि षे॑दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा॑ग॒धेयं॑ ॥
चतुः॑ऽकपर्दा , यु॒व॒तिः , सु॒ऽपेशाः॑ , घृ॒तऽप्र॑तीका , व॒युना॑नि , व॒स्ते॒ । तस्यां॑ , सु॒ऽप॒र्णा , वृष॑णा , नि , से॒द॒तुः॒ , यत्र॑ , दे॒वाः , द॒धि॒रे , भा॒ग॒ऽधेयं॑ ॥
एकः॑ सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे । तं पाके॑न॒ मन॑सापश्य॒मंति॑त॒स्तं मा॒ता रे॑ळ्हि॒ स उ॑ रेळ्हि मा॒तरं॑ ॥
एकः॑ , सु॒ऽप॒र्णः , सः , स॒मु॒द्रं , आ , वि॒वे॒श॒ , सः , इ॒दं , विश्वं॑ , भुव॑नं , वि , च॒ष्टे॒ । तं , पाके॑न , मन॑सा , अ॒प॒श्यं॒ , अंति॑तः , तं , मा॒ता , रे॒ळ्हि॒ , सः , ऊँ॒ इति॑ , रे॒ळ्हि॒ , मा॒तरं॑ ॥
सु॒प॒र्णं विप्राः॑ क॒वयो॒ वचो॑भि॒रेकं॒ संतं॑ बहु॒धा क॑ल्पयंति । छंदां॑सि च॒ दध॑तो अध्व॒रेषु॒ ग्रहां॒त्सोम॑स्य मिमते॒ द्वाद॑श ॥
सु॒ऽप॒र्णं , विप्राः॑ , क॒वयः॑ , वचः॑ऽभिः , एकं॑ , संतं॑ , ब॒हु॒धा , क॒ल्प॒यं॒ति॒ । छंदां॑सि , च॒ , दध॑तः , अ॒ध्व॒रेषु॑ , ग्रहा॑न् , सोम॑स्य , मि॒म॒ते॒ , द्वाद॑श ॥
ष॒ट्त्रिं॒शाँश्च॑ च॒तुरः॑ क॒ल्पयं॑त॒श्छंदां॑सि च॒ दध॑त आद्वाद॒शं । य॒ज्ञं वि॒माय॑ क॒वयो॑ मनी॒ष ऋ॑क्सा॒माभ्यां॒ प्र रथं॑ वर्तयंति ॥
ष॒ट्ऽत्रिं॒शान् , च॒ , च॒तुरः॑ , क॒ल्पयं॑तः , छंदां॑सि , च॒ , दध॑तः , आ॒ऽद्वा॒द॒शं । य॒ज्ञं , वि॒ऽमाय॑ , क॒वयः॑ , म॒नी॒षा , ऋ॒क्ऽसा॒माभ्यां॑ , प्र , रथं॑ , व॒र्त॒यं॒ति॒ ॥
चतु॑र्दशा॒न्ये म॑हि॒मानो॑ अस्य॒ तं धीरा॑ वा॒चा प्र ण॑यंति स॒प्त । आप्ना॑नं ती॒र्थं क इ॒ह प्र वो॑च॒द्येन॑ प॒था प्र॒पिबं॑ते सु॒तस्य॑ ॥
चतुः॑ऽदश , अ॒न्ये , म॒हि॒मानः॑ , अ॒स्य॒ , तं , धीराः॑ , वा॒चा , प्र , न॒यं॒ति॒ , स॒प्त । आप्ना॑नं , ती॒र्थं , कः , इ॒ह , प्र , वो॒च॒त् , येन॑ , प॒था , प्र॒ऽपिबं॑ते , सु॒तस्य॑ ॥
स॒ह॒स्र॒धा पं॑चद॒शान्यु॒क्था याव॒द्द्यावा॑पृथि॒वी ताव॒दित्तत् । स॒ह॒स्र॒धा म॑हि॒मानः॑ स॒हस्रं॒ याव॒द्ब्रह्म॒ विष्ठि॑तं॒ ताव॑ती॒ वाक् ॥
स॒ह॒स्र॒धा , पं॒च॒ऽद॒शानि॑ , उ॒क्था , याव॑त् , द्यावा॑पृथि॒वी इति॑ , ताव॑त् , इत् , तत् । स॒ह॒स्र॒धा , म॒हि॒मानः॑ , स॒हस्रं॑ , याव॑त् , ब्रह्म॑ , विऽस्थि॑तं , ताव॑ती , वाक् ॥
कश्छंद॑सां॒ योग॒मा वे॑द॒ धीरः॒ को धिष्ण्यां॒ प्रति॒ वाचं॑ पपाद । कमृ॒त्विजा॑मष्ट॒मं शूर॑माहु॒र्हरी॒ इंद्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ॥
कः , छंद॑सां , योगं॑ , आ , वे॒द॒ , धीरः॑ , कः , धिष्ण्यां॑ , प्रति॑ , वाचं॑ , प॒पा॒द॒ । कं , ऋ॒त्विजां॑ , अ॒ष्ट॒मं , शूरं॑ , आ॒हुः॒ , हरी॒ इति॑ , इंद्र॑स्य , नि , चि॒का॒य॒ , कः , स्वि॒त् ॥
भूम्या॒ अंतं॒ पर्येके॑ चरंति॒ रथ॑स्य धू॒र्षु यु॒क्तासो॑ अस्थुः । श्रम॑स्य दा॒यं वि भ॑जंत्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ॥
भूम्याः॑ , अंतं॑ , परि॑ , एके॑ , च॒रं॒ति॒ , रथ॑स्य , धूः॒ऽसु , यु॒क्तासः॑ , अ॒स्थुः॒ । श्रम॑स्य , दा॒यं , वि , भ॒जं॒ति॒ , ए॒भ्यः॒ , य॒दा , य॒मः , भव॑ति , ह॒र्म्ये , हि॒तः ॥
[११५] चित्रइति नवर्चस्य सूक्तस्य वार्ष्तिहव्य उपस्तुतोग्निर्जगती अष्टमीनवम्यौ त्रिष्टुप्शक्वर्यौ |
चि॒त्र इच्छिशो॒स्तरु॑णस्य व॒क्षथो॒ न यो मा॒तरा॑व॒प्येति॒ धात॑वे । अ॒नू॒धा यदि॒ जीज॑न॒दधा॑ च॒ नु व॒वक्ष॑ स॒द्यो महि॑ दू॒त्यं१॒॑ चर॑न् ॥
चि॒त्रः , इत् , शिशोः॑ , तरु॑णस्य , व॒क्षथः॑ , न , यः , मा॒तरौ॑ , अ॒पि॒ऽएति॑ , धात॑वे । अ॒नू॒धाः , यदि॑ , जीज॑नत् , अध॑ , च॒ , नु , व॒वक्ष॑ , स॒द्यः , महि॑ , दू॒त्यं॑ , चर॑न् ॥
अ॒ग्निर्ह॒ नाम॑ धायि॒ दन्न॒पस्त॑मः॒ सं यो वना॑ यु॒वते॒ भस्म॑ना द॒ता । अ॒भि॒प्र॒मुरा॑ जु॒ह्वा॑ स्वध्व॒र इ॒नो न प्रोथ॑मानो॒ यव॑से॒ वृषा॑ ॥
अ॒ग्निः , ह॒ , नाम॑ , धा॒यि॒ , दन् , अ॒पःऽत॑मः , सं , यः , वना॑ , यु॒वते॑ , भस्म॑ना , द॒ता । अ॒भि॒ऽप्र॒मुरा॑ , जु॒ह्वा॑ , सु॒ऽअ॒ध्व॒रः , इ॒नः , न , प्रोथ॑मानः , यव॑से , वृषा॑ ॥
तं वो॒ विं न द्रु॒षदं॑ दे॒वमंध॑स॒ इंदुं॒ प्रोथं॑तं प्र॒वपं॑तमर्ण॒वं । आ॒सा वह्निं॒ न शो॒चिषा॑ विर॒प्शिनं॒ महि॑व्रतं॒ न स॒रजं॑त॒मध्व॑नः ॥
तं , वः॒ , विं , न , द्रु॒ऽसदं॑ , दे॒वं , अंध॑सः , इंदुं॑ , प्रोथं॑तं , प्र॒ऽवपं॑तं , अ॒र्ण॒वं । आ॒सा , वह्निं॑ , न , शो॒चिषा॑ , वि॒ऽर॒प्शिनं॑ , महि॑ऽव्रतं , न , स॒रजं॑तं , अध्व॑नः ॥
वि यस्य॑ ते ज्रयसा॒नस्या॑जर॒ धक्षो॒र्न वाताः॒ परि॒ संत्यच्यु॑ताः । आ र॒ण्वासो॒ युयु॑धयो॒ न स॑त्व॒नं त्रि॒तं न॑शंत॒ प्र शि॒षंत॑ इ॒ष्टये॑ ॥
वि , यस्य॑ , ते॒ , ज्र॒य॒सा॒नस्य॑ , अ॒ज॒र॒ , धक्षोः॑ , न , वाताः॑ , परि॑ , संति॑ , अच्यु॑ताः । आ , र॒ण्वासः॑ , युयु॑धयः , न , स॒त्व॒नं , त्रि॒तं , न॒शं॒त॒ , प्र , शि॒षंतः॑ , इ॒ष्टये॑ ॥
स इद॒ग्निः कण्व॑तमः॒ कण्व॑सखा॒र्यः पर॒स्यांत॑रस्य॒ तरु॑षः । अ॒ग्निः पा॑तु गृण॒तो अ॒ग्निः सू॒रीन॒ग्निर्द॑दातु॒ तेषा॒मवो॑ नः ॥
सः , इत् , अ॒ग्निः , कण्व॑ऽतमः , कण्व॑ऽसखा , अ॒र्यः , पर॑स्य , अंत॑रस्य , तरु॑षः । अ॒ग्निः , पा॒तु॒ , गृ॒ण॒तः , अ॒ग्निः , सू॒रीन् , अ॒ग्निः , द॒दा॒तु॒ , तेषां॑ , अवः॑ , नः॒ ॥
वा॒जिंत॑माय॒ सह्य॑से सुपित्र्य तृ॒षु च्यवा॑नो॒ अनु॑ जा॒तवे॑दसे । अ॒नु॒द्रे चि॒द्यो धृ॑ष॒ता वरं॑ स॒ते म॒हिंत॑माय॒ धन्व॒नेद॑विष्य॒ते ॥
वा॒जिन्ऽत॑माय , सह्य॑से , सु॒ऽपि॒त्र्य॒ , तृ॒षु , च्यवा॑नः , अनु॑ , जा॒तऽवे॑दसे । अ॒नु॒द्रे , चि॒त् , यः , धृ॒ष॒ता , वरं॑ , स॒ते , म॒हिन्ऽत॑माय , धन्व॑ना , इत् , अ॒वि॒ष्य॒ते॒ ॥
ए॒वाग्निर्मर्तैः॑ स॒ह सू॒रिभि॒र्वसुः॑ ष्टवे॒ सह॑सः सू॒नरो॒ नृभिः॑ । मि॒त्रासो॒ न ये सुधि॑ता ऋता॒यवो॒ द्यावो॒ न द्यु॒म्नैर॒भि संति॒ मानु॑षान् ॥
ए॒व , अ॒ग्निः , मर्तैः॑ , स॒ह , सू॒रिऽभिः॑ , वसुः॑ , स्त॒वे॒ , सह॑सः , सू॒नरः॑ , नृऽभिः॑ । मि॒त्रासः॑ , न , ये , सुऽधि॑ताः , ऋ॒त॒ऽयवः॑ , द्यावः॑ , न , द्यु॒म्नैः , अ॒भि , सं॒ति॒ , मानु॑षान् ॥
ऊर्जो॑ नपात्सहसाव॒न्निति॑ त्वोपस्तु॒तस्य॑ वंदते॒ वृषा॒ वाक् । त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥
ऊर्जः॑ , न॒पा॒त् , स॒ह॒सा॒ऽव॒न् , इति॑ , त्वा॒ , उ॒प॒ऽस्तु॒तस्य॑ , वं॒द॒ते॒ , वृषा॑ , वाक् । त्वां , स्तो॒षा॒म॒ , त्वया॑ , सु॒ऽवीराः॑ , द्राघी॑यः , आयुः॑ , प्र॒ऽत॒रं , दधा॑नाः ॥
इति॑ त्वाग्ने वृष्टि॒हव्य॑स्य पु॒त्रा उ॑पस्तु॒तास॒ ऋष॑योऽवोचन् । ताँश्च॑ पा॒हि गृ॑ण॒तश्च॑ सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो॑ अनक्ष॒न्नमो॒ नम॒ इत्यू॒र्ध्वासो॑ अनक्षन् ॥
इति॑ , त्वा॒ , अ॒ग्ने॒ , वृ॒ष्टि॒ऽहव्य॑स्य , पु॒त्राः , उ॒प॒ऽस्तु॒तासः॑ , ऋष॑यः , अ॒वो॒च॒न् । तान् , च॒ , पा॒हि , गृ॒ण॒तः , च॒ , सू॒रीन् , वष॑ट् , वष॑ट् , इति॑ , ऊ॒र्ध्वासः॑ , अ॒न॒क्ष॒न् , नमः॑ , नमः॑ , इति॑ , ऊ॒र्ध्वासः॑ , अ॒न॒क्ष॒न् ॥
[११६] पिबेति नवर्चस्य सूक्तस्य स्थौरोग्नियुत इंद्रस्त्रिष्टुप् | (अग्नियूपोवा ऋषिः) |
पिबा॒ सोमं॑ मह॒त इं॑द्रि॒याय॒ पिबा॑ वृ॒त्राय॒ हंत॑वे शविष्ठ । पिब॑ रा॒ये शव॑से हू॒यमा॑नः॒ पिब॒ मध्व॑स्तृ॒पदिं॒द्रा वृ॑षस्व ॥
पिब॑ , सोमं॑ , म॒ह॒ते , इं॒द्रि॒याय॑ , पिब॑ , वृ॒त्राय॑ , हंत॑वे , श॒वि॒ष्ठ॒ । पिब॑ , रा॒ये , शव॑से , हू॒यमा॑नः , पिब॑ , मध्वः॑ , तृ॒पत् , इं॒द्र॒ , आ , वृ॒ष॒स्व॒ ॥
अ॒स्य पि॑ब क्षु॒मतः॒ प्रस्थि॑त॒स्येंद्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ । स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ॥
अ॒स्य , पि॒ब॒ , क्षु॒ऽमतः॑ , प्रऽस्थि॑तस्य , इंद्र॑ , सोम॑स्य , वरं॑ , आ , सु॒तस्य॑ । स्व॒स्ति॒ऽदाः , मन॑सा , मा॒द॒य॒स्व॒ , अ॒र्वा॒ची॒नः , रे॒वते॑ , सौभ॑गाय ॥
म॒मत्तु॑ त्वा दि॒व्यः सोम॑ इंद्र म॒मत्तु॒ यः सू॒यते॒ पार्थि॑वेषु । म॒मत्तु॒ येन॒ वरि॑वश्च॒कर्थ॑ म॒मत्तु॒ येन॑ निरि॒णासि॒ शत्रू॑न् ॥
म॒मत्तु॑ , त्वा॒ , दि॒व्यः , सोमः॑ , इं॒द्र॒ , म॒मत्तु॑ , यः , सू॒यते॑ , पार्थि॑वेषु । म॒मत्तु॑ , येन॑ , वरि॑वः , च॒कर्थ॑ , म॒मत्तु॑ , येन॑ , नि॒ऽरि॒णासि॑ , शत्रू॑न् ॥
आ द्वि॒बर्हा॑ अमि॒नो या॒त्विंद्रो॒ वृषा॒ हरि॑भ्यां॒ परि॑षिक्त॒मंधः॑ । गव्या सु॒तस्य॒ प्रभृ॑तस्य॒ मध्वः॑ स॒त्रा खेदा॑मरुश॒हा वृ॑षस्व ॥
आ , द्वि॒ऽबर्हाः॑ , अ॒मि॒नः , या॒तु॒ , इंद्रः॑ , वृषा॑ , हरि॑ऽभ्यां , परि॑ऽसिक्तं , अंधः॑ । गवि॑ , आ , सु॒तस्य॑ , प्रऽभृ॑तस्य , मध्वः॑ , स॒त्रा , खेदां॑ , अ॒रु॒श॒ऽहा , आ , वृ॒ष॒स्व॒ ॥
नि ति॒ग्मानि॑ भ्रा॒शय॒न्भ्राश्या॒न्यव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ । उ॒ग्राय॑ ते॒ सहो॒ बलं॑ ददामि प्र॒तीत्या॒ शत्रू॑न्विग॒देषु॑ वृश्च ॥
नि , ति॒ग्मानि॑ , भ्रा॒शय॑न् , भ्राश्या॑नि , अव॑ , स्थि॒रा , त॒नु॒हि॒ , या॒तु॒ऽजूनां॑ । उ॒ग्राय॑ , ते॒ , सहः॑ , बलं॑ , द॒दा॒मि॒ , प्र॒ति॒ऽइत्य॑ , शत्रू॑न् , वि॒ऽग॒देषु॑ , वृ॒श्च॒ ॥
व्य१॒॑र्य इं॑द्र तनुहि॒ श्रवां॒स्योजः॑ स्थि॒रेव॒ धन्व॑नो॒ऽभिमा॑तीः । अ॒स्म॒द्र्य॑ग्वावृधा॒नः सहो॑भि॒रनि॑भृष्टस्त॒न्वं॑ वावृधस्व ॥
वि , अ॒र्यः , इं॒द्र॒ , त॒नु॒हि॒ , श्रवां॑सि , ओजः॑ , स्थि॒राऽइ॑व , धन्व॑नः , अ॒भिऽमा॑तीः । अ॒स्म॒द्र्य॑क् , व॒वृ॒धा॒नः , सहः॑ऽभिः , अनि॑ऽभृष्टः , त॒न्वं॑ , व॒वृ॒ध॒स्व॒ ॥
इ॒दं ह॒विर्म॑घवं॒तुभ्यं॑ रा॒तं प्रति॑ सम्रा॒ळहृ॑णानो गृभाय । तुभ्यं॑ सु॒तो म॑घवं॒तुभ्यं॑ प॒क्वो॒३॒॑ऽद्धीं॑द्र॒ पिब॑ च॒ प्रस्थि॑तस्य ॥
इ॒दं , ह॒विः , म॒घ॒ऽव॒न् , तुभ्यं॑ , रा॒तं , प्रति॑ , संऽरा॑ट् , अहृ॑णानः , गृ॒भा॒य॒ । तुभ्यं॑ , सु॒तः , म॒घ॒ऽव॒न् , तुभ्यं॑ , प॒क्वः॑ , अ॒द्धि , इं॒द्र॒ , पिब॑ , च॒ , प्रऽस्थि॑तस्य ॥
अ॒द्धीदिं॑द्र॒ प्रस्थि॑ते॒मा ह॒वींषि॒ चनो॑ दधिष्व पच॒तोत सोमं॑ । प्रय॑स्वंतः॒ प्रति॑ हर्यामसि त्वा स॒त्याः सं॑तु॒ यज॑मानस्य॒ कामाः॑ ॥
अ॒द्धि , इत् , इं॒द्र॒ , प्रऽस्थि॑ता , इ॒मा , ह॒वींषि॑ , चनः॑ , द॒धि॒ष्व॒ , प॒च॒ता , उ॒त , सोमं॑ । प्रय॑स्वंतः , प्रति॑ , ह॒र्या॒म॒सि॒ , त्वा॒ , स॒त्याः , सं॒तु॒ , यज॑मानस्य , कामाः॑ ॥
प्रेंद्रा॒ग्निभ्यां॑ सुवच॒स्यामि॑यर्मि॒ सिंधा॑विव॒ प्रेर॑यं॒ नाव॑म॒र्कैः । अया॑ इव॒ परि॑ चरंति दे॒वा ये अ॒स्मभ्यं॑ धन॒दा उ॒द्भिद॑श्च ॥
प्र , इं॒द्रा॒ग्निऽभ्यां॑ , सु॒ऽव॒च॒स्यां , इ॒य॒र्मि॒ , सिंधौ॑ऽइव , प्र , ई॒र॒यं॒ , नावं॑ , अ॒र्कैः । अयाः॑ऽइव , परि॑ , च॒रं॒ति॒ , दे॒वाः , ये , अ॒स्मभ्यं॑ , ध॒न॒ऽदाः , उ॒त्ऽभिदः॑ , च॒ ॥
[११७] नवाइति नवर्चस्य सूक्तस्यांगिरसो भिक्षुर्धनान्नदानंत्रिष्टुबाद्येजगत्यौ |
न वा उ॑ दे॒वाः क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छंति मृ॒त्यवः॑ । उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒ न विं॑दते ॥
न , वै , ऊँ॒ इति॑ , दे॒वाः , क्षुधं॑ , इत् , व॒धं , द॒दुः॒ , उ॒त , आशि॑तं , उप॑ , ग॒च्छं॒ति॒ , मृ॒त्यवः॑ । उ॒तो इति॑ , र॒यिः , पृ॒ण॒तः , न , उप॑ , द॒स्य॒ति॒ , उ॒त , अपृ॑णन् , म॒र्डि॒तारं॑ , न , विं॒द॒ते॒ ॥
य आ॒ध्राय॑ चकमा॒नाय॑ पि॒त्वोऽन्न॑वां॒त्सन्र॑फि॒तायो॑पज॒ग्मुषे॑ । स्थि॒रं मनः॑ कृणु॒ते सेव॑ते पु॒रोतो चि॒त्स म॑र्डि॒तारं॒ न विं॑दते ॥
यः , आ॒ध्राय॑ , च॒क॒मा॒नाय॑ , पि॒त्वः , अन्न॑ऽवान् , सन् , र॒फि॒ताय॑ , उ॒प॒ऽज॒ग्मुषे॑ । स्थि॒रं , मनः॑ , कृ॒णु॒ते , सेव॑ते , पु॒रा , उ॒तो इति॑ , चि॒त् , सः , म॒र्डि॒तारं॑ , न , विं॒द॒ते॒ ॥
स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ । अर॑मस्मै भवति॒ याम॑हूता उ॒ताप॒रीषु॑ कृणुते॒ सखा॑यं ॥
सः , इत् , भो॒जः , यः , गृ॒हवे॑ , ददा॑ति , अन्न॑ऽकामाय , चर॑ते , कृ॒शाय॑ । अरं॑ , अ॒स्मै॒ , भ॒व॒ति॒ , याम॑ऽहूतौ , उ॒त , अ॒प॒रीषु॑ , कृ॒णु॒ते॒ , सखा॑यं ॥
न स सखा॒ यो न ददा॑ति॒ सख्ये॑ सचा॒भुवे॒ सच॑मानाय पि॒त्वः । अपा॑स्मा॒त्प्रेया॒न्न तदोको॑ अस्ति पृ॒णंत॑म॒न्यमर॑णं चिदिच्छेत् ॥
न , सः , सखा॑ , यः , न , ददा॑ति , सख्ये॑ , स॒चा॒ऽभुवे॑ , सच॑मानाय , पि॒त्वः । अप॑ , अ॒स्मा॒त् , प्र , इ॒या॒त् , न , तत् , ओकः॑ , अ॒स्ति॒ , पृ॒णंतं॑ , अ॒न्यं , अर॑णं , चि॒त् , इ॒च्छे॒त् ॥
पृ॒णी॒यादिन्नाध॑मानाय॒ तव्यां॒द्राघी॑यांस॒मनु॑ पश्येत॒ पंथां॑ । ओ हि वर्तं॑ते॒ रथ्ये॑व च॒क्रान्यम॑न्य॒मुप॑ तिष्ठंत॒ रायः॑ ॥
पृ॒णी॒यात् , इत् , नाध॑मानाय , तव्या॑न् , द्राघी॑यांसं , अनु॑ , प॒श्ये॒त॒ , पंथां॑ । ओ इति॑ , हि , व॒र्तं॒ते॒ , रथ्या॑ऽइव , च॒क्रा , अ॒न्यंऽअ॑न्यं , उप॑ , ति॒ष्ठं॒त॒ , रायः॑ ॥
मोघ॒मन्नं॑ विंदते॒ अप्र॑चेताः स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ । नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यं॒ केव॑लाघो भवति केवला॒दी ॥
मोघं॑ , अन्नं॑ , विं॒द॒ते॒ , अप्र॑ऽचेताः , स॒त्यं , ब्र॒वी॒मि॒ , व॒धः , इत् , सः , तस्य॑ । न , अ॒र्य॒मणं॑ , पुष्य॑ति , नो इति॑ , सखा॑यं , केव॑लऽअघः , भ॒व॒ति॒ , के॒व॒ल॒ऽआ॒दी ॥
कृ॒षन्नित्फाल॒ आशि॑तं कृणोति॒ यन्नध्वा॑न॒मप॑ वृंक्ते च॒रित्रैः॑ । वद॑न्ब्र॒ह्माव॑दतो॒ वनी॑यान्पृ॒णन्ना॒पिरपृ॑णंतम॒भि ष्या॑त् ॥
कृ॒षन् , इत् , फालः॑ , आशि॑तं , कृ॒णो॒ति॒ , यन् , अध्वा॑नं , अप॑ , वृं॒क्ते॒ , च॒रित्रैः॑ । वद॑न् , ब्र॒ह्मा , अव॑दतः , वनी॑यान् , पृ॒णन् , आ॒पिः , अपृ॑णंतं , अ॒भि , स्या॒त् ॥
एक॑पा॒द्भूयो॑ द्वि॒पदो॒ वि च॑क्रमे द्वि॒पात्त्रि॒पाद॑म॒भ्ये॑ति प॒श्चात् । चतु॑ष्पादेति द्वि॒पदा॑मभिस्व॒रे सं॒पश्य॑न्पं॒क्तीरु॑प॒तिष्ठ॑मानः ॥
एक॑ऽपात् , भूयः॑ , द्वि॒ऽपदः॑ , वि , च॒क्र॒मे॒ , द्वि॒ऽपात् , त्रि॒ऽपादं॑ , अ॒भि , ए॒ति॒ , प॒श्चात् । चतुः॑ऽपात् , ए॒ति॒ , द्वि॒ऽपदां॑ , अ॒भि॒ऽस्व॒रे , सं॒ऽपश्य॑न् , पं॒क्तीः , उ॒प॒ऽतिष्ठ॑मानः ॥
स॒मौ चि॒द्धस्तौ॒ न स॒मं वि॑विष्टः संमा॒तरा॑ चि॒न्न स॒मं दु॑हाते । य॒मयो॑श्चि॒न्न स॒मा वी॒र्या॑णि ज्ञा॒ती चि॒त्संतौ॒ न स॒मं पृ॑णीतः ॥
स॒मौ , चि॒त् , हस्तौ॑ , न , स॒मं , वि॒वि॒ष्टः , सं॒ऽमा॒तरा॑ , चि॒त् , न , स॒मं , दु॒हा॒ते॒ इति॑ । य॒मयोः॑ , चि॒त् , न , स॒मा , वी॒र्या॑णि , ज्ञा॒ती इति॑ , चि॒त् , संतौ॑ , न , स॒मं , पृ॒णी॒तः॒ ॥
[११८] अग्नेहंसीति नवर्चस्य सूक्तस्यामहीयव उरुक्षयोरक्षोहाग्निर्गायत्री |
अग्ने॒ हंसि॒ न्य१॒॑त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा । स्वे क्षये॑ शुचिव्रत ॥
अग्ने॑ , हंसि॑ , नि , अ॒त्रिणं॑ , दीद्य॑त् , मर्त्ये॑षु , आ । स्वे , क्षये॑ , शु॒चि॒ऽव्र॒त॒ ॥
उत्ति॑ष्ठसि॒ स्वा॑हुतो घृ॒तानि॒ प्रति॑ मोदसे । यत्त्वा॒ स्रुचः॑ स॒मस्थि॑रन् ॥
उत् , ति॒ष्ठ॒सि॒ , सुऽआ॑हुतः , घृ॒तानि॑ , प्रति॑ , मो॒द॒से॒ । यत् , त्वा॒ , स्रुचः॑ , सं॒ऽअस्थि॑रन् ॥
स आहु॑तो॒ वि रो॑चते॒ऽग्निरी॒ळेन्यो॑ गि॒रा । स्रु॒चा प्रती॑कमज्यते ॥
सः , आऽहु॑तः , वि , रो॒च॒ते॒ , अ॒ग्निः , ई॒ळेन्यः॑ , गि॒रा । स्रु॒चा , प्रती॑कं , अ॒ज्य॒ते॒ ॥
घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः । रोच॑मानो वि॒भाव॑सुः ॥
घृ॒तेन॑ , अ॒ग्निः , सं , अ॒ज्य॒ते॒ , मधु॑ऽप्रतीकः , आऽहु॑तः । रोच॑मानः , वि॒भाऽव॑सुः ॥
जर॑माणः॒ समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन । तं त्वा॑ हवंत॒ मर्त्याः॑ ॥
जर॑माणः , सं , इ॒ध्य॒से॒ , दे॒वेभ्यः॑ , ह॒व्य॒ऽवा॒ह॒न॒ । तं , त्वा॒ , ह॒वं॒त॒ , मर्त्याः॑ ॥
तं म॑र्ता॒ अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत । अदा॑भ्यं गृ॒हप॑तिं ॥
तं , म॒र्ताः॒ , अम॑र्त्यं , घृ॒तेन॑ , अ॒ग्निं , स॒प॒र्य॒त॒ । अदा॑भ्यं , गृ॒हऽप॑तिं ॥
अदा॑भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह । गो॒पा ऋ॒तस्य॑ दीदिहि ॥
अदा॑भ्येन , शो॒चिषा॑ , अग्ने॑ , रक्षः॑ , त्वं , द॒ह॒ । गो॒पाः , ऋ॒तस्य॑ , दी॒दि॒हि॒ ॥
स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ । उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥
सः , त्वं , अ॒ग्ने॒ , प्रती॑केन , प्रति॑ , ओ॒ष॒ , या॒तु॒ऽधा॒न्यः॑ । उ॒रु॒ऽक्षये॑षु , दीद्य॑त् ॥
तं त्वा॑ गी॒र्भिरु॑रु॒क्षया॑ हव्य॒वाहं॒ समी॑धिरे । यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥
तं , त्वा॒ , गीः॒ऽभिः , उ॒रु॒ऽक्षयाः॑ , ह॒व्य॒ऽवाहं॑ , सं , ई॒धि॒रे॒ । यजि॑ष्ठं , मानु॑षे , जने॑ ॥
[११९] इतिवाइति त्रयोदशर्चस्य सूक्तस्यैंद्रो लबोगायत्री |
इति॒ वा इति॑ मे॒ मनो॒ गामश्वं॑ सनुया॒मिति॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
इति॑ , वै , इति॑ , मे॒ , मनः॑ , गां , अश्वं॑ , स॒नु॒यां॒ , इति॑ । कु॒वित् , सोम॑स्य , अपां॑ , इति॑ ॥
प्र वाता॑ इव॒ दोध॑त॒ उन्मा॑ पी॒ता अ॑यंसत । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
प्र , वाताः॑ऽइव , दोध॑तः , उत् , मा॒ , पी॒ताः , अ॒यं॒स॒त॒ । कु॒वित् , सोम॑स्य , अपां॑ , इति॑ ॥
उन्मा॑ पी॒ता अ॑यंसत॒ रथ॒मश्वा॑ इवा॒शवः॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
उत् , मा॒ , पी॒ताः , अ॒यं॒स॒त॒ , रथं॑ , अश्वाः॑ऽइव , आ॒शवः॑ । कु॒वित् , सोम॑स्य , अपां॑ , इति॑ ॥
उप॑ मा म॒तिर॑स्थित वा॒श्रा पु॒त्रमि॑व प्रि॒यं । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
उप॑ , मा॒ , म॒तिः , अ॒स्थि॒त॒ , वा॒श्रा , पु॒त्रंऽइ॑व , प्रि॒यं । कु॒वित् , सोम॑स्य , अपां॑ , इति॑ ॥
अ॒हं तष्टे॑व वं॒धुरं॒ पर्य॑चामि हृ॒दा म॒तिं । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
अ॒हं , तष्टा॑ऽइव , वं॒धुरं॑ , परि॑ , अ॒चा॒मि॒ , हृ॒दा , म॒तिं । कु॒वित् , सोम॑स्य , अपां॑ , इति॑ ॥
न॒हि मे॑ अक्षि॒पच्च॒नाच्छां॑त्सुः॒ पंच॑ कृ॒ष्टयः॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
न॒हि , मे॒ , अ॒क्षि॒ऽपत् , च॒न , अच्छां॑त्सुः , पंच॑ , कृ॒ष्टयः॑ । कु॒वित् , सोम॑स्य , अपां॑ , इति॑ ॥
न॒हि मे॒ रोद॑सी उ॒भे अ॒न्यं प॒क्षं च॒न प्रति॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
न॒हि , मे॒ , रोद॑सी॒ इति॑ , उ॒भे इति॑ , अ॒न्यं , प॒क्षं , च॒न , प्रति॑ । कु॒वित् , सोम॑स्य , अपां॑ , इति॑ ॥
अ॒भि द्यां म॑हि॒ना भु॑वम॒भी॒३॒॑मां पृ॑थि॒वीं म॒हीं । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
अ॒भि , द्यां , म॒हि॒ना , भु॒वं॒ , अ॒भि , इ॒मां , पृ॒थि॒वीं , म॒हीं । कु॒वित् , सोम॑स्य , अपां॑ , इति॑ ॥
हंता॒हं पृ॑थि॒वीमि॒मां नि द॑धानी॒ह वे॒ह वा॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
हंत॑ , अ॒हं , पृ॒थि॒वीं , इ॒मां , नि , द॒धा॒नि॒ , इ॒ह , वा॒ , इ॒ह , वा॒ । कु॒वित् , सोम॑स्य , अपां॑ , इति॑ ॥
ओ॒षमित्पृ॑थि॒वीम॒हं जं॒घना॑नी॒ह वे॒ह वा॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
ओ॒षं , इत् , पृ॒थि॒वीं , अ॒हं , जं॒घना॑नि , इ॒ह , वा॒ , इ॒ह , वा॒ । कु॒वित् , सोम॑स्य , अपां॑ , इति॑ ॥
दि॒वि मे॑ अ॒न्यः प॒क्षो॒३॒॑ऽधो अ॒न्यम॑चीकृषं । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
दि॒वि , मे॒ , अ॒न्यः , प॒क्षः , अ॒धः , अ॒न्यं , अ॒ची॒कृ॒षं॒ । कु॒वित् , सोम॑स्य , अपां॑ , इति॑ ॥
अ॒हम॑स्मि महाम॒हो॑ऽभिन॒भ्यमुदी॑षितः । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
अ॒हं , अ॒स्मि॒ , म॒हा॒ऽम॒हः , अ॒भि॒ऽन॒भ्यं , उत्ऽई॑षितः । कु॒वित् , सोम॑स्य , अपां॑ , इति॑ ॥
गृ॒हो या॒म्यरं॑कृतो दे॒वेभ्यो॑ हव्य॒वाह॑नः । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
गृ॒हः , या॒मि॒ , अरं॑ऽकृतः , दे॒वेभ्यः॑ , ह॒व्य॒ऽवाह॑नः । कु॒वित् , सोम॑स्य , अपां॑ , इति॑ ॥
[१२०] तदिदिति नवर्चस्य सूक्तस्याथर्वणोबृहद्दिवइंद्रस्त्रिष्टुप् |
तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः । स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मदं॒त्यूमाः॑ ॥
तत् , इत् , आ॒स॒ , भुव॑नेषु , ज्येष्ठं॑ , यतः॑ , ज॒ज्ञे , उ॒ग्रः , त्वे॒षऽनृ॑म्णः । स॒द्यः , ज॒ज्ञा॒नः , नि , रि॒णा॒ति॒ , शत्रू॑न् , अनु॑ , यं , विश्वे॑ , मदं॑ति , ऊमाः॑ ॥
वा॒वृ॒धा॒नः शव॑सा॒ भूर्यो॑जाः॒ शत्रु॑र्दा॒साय॑ भि॒यसं॑ दधाति । अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते॑ नवंत॒ प्रभृ॑ता॒ मदे॑षु ॥
व॒वृ॒धा॒नः , शव॑सा , भूरि॑ऽओजाः , शत्रुः॑ , दा॒साय॑ , भि॒यसं॑ , द॒धा॒ति॒ । अवि॑ऽअनत् , च॒ , वि॒ऽअ॒नत् , च॒ , सस्नि॑ , सं , ते॒ , न॒वं॒त॒ , प्रऽभृ॑ता , मदे॑षु ॥
त्वे क्रतु॒मपि॑ वृंजंति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भवं॒त्यूमाः॑ । स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो॑धीः ॥
त्वे इति॑ , क्रतुं॑ , अपि॑ , वृं॒जं॒ति॒ , विश्वे॑ , द्विः , यत् , ए॒ते , त्रिः , भवं॑ति , ऊमाः॑ । स्वा॒दोः , स्वादी॑यः , स्वा॒दुना॑ , सृ॒ज॒ , सं , अ॒दः , सु , मधु॑ , मधु॑ना , अ॒भि , यो॒धीः॒ ॥
इति॑ चि॒द्धि त्वा॒ धना॒ जयं॑तं॒ मदे॑मदे अनु॒मदं॑ति॒ विप्राः॑ । ओजी॑यो धृष्णो स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन्यातु॒धाना॑ दु॒रेवाः॑ ॥
इति॑ , चि॒त् , हि , त्वा॒ , धना॑ , जयं॑तं , मदे॑ऽमदे , अ॒नु॒ऽमदं॑ति , विप्राः॑ । ओजी॑यः , धृ॒ष्णो॒ इति॑ , स्थि॒रं , आ , त॒नु॒ष्व॒ , मा , त्वा॒ , द॒भ॒न् , या॒तु॒ऽधानाः॑ , दुः॒ऽएवाः॑ ॥
त्वया॑ व॒यं शा॑शद्महे॒ रणे॑षु प्र॒पश्यं॑तो यु॒धेन्या॑नि॒ भूरि॑ । चो॒दया॑मि त॒ आयु॑धा॒ वचो॑भिः॒ सं ते॑ शिशामि॒ ब्रह्म॑णा॒ वयां॑सि ॥
त्वया॑ , व॒यं , शा॒श॒द्म॒हे॒ , रणे॑षु , प्र॒ऽपश्यं॑तः , यु॒धेन्या॑नि , भूरि॑ । चो॒दया॑मि , ते॒ , आयु॑धा , वचः॑ऽभिः , सं , ते॒ , शि॒शा॒मि॒ , ब्रह्म॑णा , वयां॑सि ॥
स्तु॒षेय्यं॑ पुरु॒वर्प॑स॒मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्यानां॑ । आ द॑र्षते॒ शव॑सा स॒प्त दानू॒न्प्र सा॑क्षते प्रति॒माना॑नि॒ भूरि॑ ॥
स्तु॒षेय्यं॑ , पु॒रु॒ऽवर्प॑सं , ऋभ्वं॑ , इ॒नऽत॑मं , आ॒प्त्यं , आ॒प्त्यानां॑ । आ , द॒र्ष॒ते॒ , शव॑सा , स॒प्त , दानू॑न् , प्र , सा॒क्ष॒ते॒ , प्र॒ति॒ऽमाना॑नि , भूरि॑ ॥
नि तद्द॑धि॒षेऽव॑रं॒ परं॑ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे । आ मा॒तरा॑ स्थापयसे जिग॒त्नू अत॑ इनोषि॒ कर्व॑रा पु॒रूणि॑ ॥
नि , तत् , द॒धि॒षे॒ , अव॑रं , परं॑ , च॒ , यस्मि॑न् , आवि॑थ , अव॑सा , दु॒रो॒णे । आ , मा॒तरा॑ , स्था॒प॒य॒से॒ , जि॒ग॒त्नू इति॑ , अतः॑ , इ॒नो॒षि॒ , कर्व॑रा , पु॒रूणि॑ ॥
इ॒मा ब्रह्म॑ बृ॒हद्दि॑वो विव॒क्तींद्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः । म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजो॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥
इ॒मा , ब्रह्म॑ , बृ॒हत्ऽदि॑वः , वि॒व॒क्ति॒ , इंद्रा॑य , शू॒षं , अ॒ग्रि॒यः , स्वः॒ऽसाः । म॒हः , गो॒त्रस्य॑ , क्ष॒य॒ति॒ , स्व॒ऽराजः॑ , दुरः॑ , च॒ , विश्वाः॑ , अ॒वृ॒णो॒त् , अप॑ , स्वाः ॥
ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्व१॒॑मिंद्र॑मे॒व । स्वसा॑रो मात॒रिभ्व॑रीररि॒प्रा हि॒न्वंति॑ च॒ शव॑सा व॒र्धयं॑ति च ॥
ए॒व , म॒हान् , बृ॒हत्ऽदि॑वः , अथ॑र्वा , अवो॑चत् , स्वां , त॒न्वं॑ , इंद्रं॑ , ए॒व । स्वसा॑रः , मा॒त॒रिभ्व॑रीः , अ॒रि॒प्राः , हि॒न्वंति॑ , च॒ , शव॑सा , व॒र्धयं॑ति , च॒ ॥
[१२१] हिरण्यगर्भइति दशर्चस्य सूक्तस्य प्राजापत्योहिरण्यगर्भः प्रजापतिस्त्रिष्टुप् |
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
हि॒र॒ण्य॒ऽग॒र्भः , सं , अ॒व॒र्त॒त॒ , अग्रे॑ , भू॒तस्य॑ , जा॒तः , पतिः॑ , एकः॑ , आ॒सी॒त् । सः , दा॒धा॒र॒ , पृ॒थि॒वीं , द्यां , उ॒त , इ॒मां , कस्मै॑ , दे॒वाय॑ , ह॒विषा॑ , वि॒धे॒म॒ ॥
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यः , आ॒त्म॒ऽदाः , ब॒ल॒ऽदाः , यस्य॑ , विश्वे॑ , उ॒प॒ऽआस॑ते , प्र॒ऽशिषं॑ , यस्य॑ , दे॒वाः । यस्य॑ , छा॒या , अ॒मृतं॑ , यस्य॑ , मृ॒त्युः , कस्मै॑ , दे॒वाय॑ , ह॒विषा॑ , वि॒धे॒म॒ ॥
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यः , प्रा॒ण॒तः , नि॒ऽमि॒ष॒तः , म॒हि॒ऽत्वा , एकः॑ , इत् , राजा॑ , जग॑तः , ब॒भूव॑ । यः , ईशे॑ , अ॒स्य , द्वि॒ऽपदः॑ , चतुः॑ऽपदः , कस्मै॑ , दे॒वाय॑ , ह॒विषा॑ , वि॒धे॒म॒ ॥
यस्ये॒मे हि॒मवं॑तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाहुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यस्य॑ , इ॒मे , हि॒मऽवं॑तः , म॒हि॒ऽत्वा , यस्य॑ , स॒मु॒द्रं , र॒सया॑ , स॒ह , आ॒हुः॒ । यस्य॑ , इ॒माः , प्र॒ऽदिशः॑ , यस्य॑ , बा॒हू इति॑ , कस्मै॑ , दे॒वाय॑ , ह॒विषा॑ , वि॒धे॒म॒ ॥
येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्वः॑ स्तभि॒तं येन॒ नाकः॑ । यो अं॒तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
येन॑ , द्यौः , उ॒ग्रा , पृ॒थि॒वी , च॒ , दृ॒ळ्हा , येन॑ , स्व१॒॑रिति॒ स्वः॑ , स्त॒भि॒तं , येन॑ , नाकः॑ । यः , अं॒तरि॑क्षे , रज॑सः , वि॒ऽमानः॑ , कस्मै॑ , दे॒वाय॑ , ह॒विषा॑ , वि॒धे॒म॒ ॥
यं क्रंद॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने । यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यं , क्रंद॑सी॒ इति॑ , अव॑सा , त॒स्त॒भा॒ने इति॑ , अ॒भि , ऐक्षे॑तां , मन॑सा , रेज॑माने॒ इति॑ । यत्र॑ , अधि॑ , सूरः॑ , उत्ऽइ॑तः , वि॒ऽभाति॑ , कस्मै॑ , दे॒वाय॑ , ह॒विषा॑ , वि॒धे॒म॒ ॥
आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा॑ना ज॒नयं॑तीर॒ग्निं । ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
आपः॑ , ह॒ , यत् , बृ॒ह॒तीः , विश्वं॑ , आय॑न् , गर्भं॑ , दधा॑नाः , ज॒नयं॑तीः , अ॒ग्निं । ततः॑ , दे॒वानां॑ , सं , अ॒व॒र्त॒त॒ , असुः॑ , एकः॑ , कस्मै॑ , दे॒वाय॑ , ह॒विषा॑ , वि॒धे॒म॒ ॥
यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नयं॑तीर्य॒ज्ञं । यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यः , चि॒त् , आपः॑ , म॒हि॒ना , प॒रि॒ऽअप॑श्यत् , दक्षं॑ , दधा॑नाः , ज॒नयं॑तीः , य॒ज्ञं । यः , दे॒वेषु॑ , अधि॑ , दे॒वः , एकः॑ , आसी॑त् , कस्मै॑ , दे॒वाय॑ , ह॒विषा॑ , वि॒धे॒म॒ ॥
मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ । यश्चा॒पश्चं॒द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
मा , नः॒ , हिं॒सी॒त् , ज॒नि॒ता , यः , पृ॒थि॒व्याः , यः , वा॒ , दिवं॑ , स॒त्यऽध॑र्मा , ज॒जान॑ । यः , च॒ , अ॒पः , चं॒द्राः , बृ॒ह॒तीः , ज॒जान॑ , कस्मै॑ , दे॒वाय॑ , ह॒विषा॑ , वि॒धे॒म॒ ॥
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णां ॥
प्रजा॑ऽपते , न , त्वत् , ए॒तानि॑ , अ॒न्यः , विश्वा॑ , जा॒तानि॑ , परि॑ , ता , ब॒भू॒व॒ । यत्ऽका॑माः , ते॒ , जु॒हु॒मः , तत् , नः॒ , अ॒स्तु॒ , व॒यं , स्या॒म॒ , पत॑यः , र॒यी॒णां ॥
[१२२] वसुमित्यष्टर्चस्य सूक्तस्य वासिष्ठश्चित्रमहाअग्निर्जगती आद्यापंचम्यौत्रिष्टुभौ |
वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यं । स रा॑सते शु॒रुधो॑ वि॒श्वधा॑यसो॒ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्यं॑ ॥
वसुं॑ , न , चि॒त्रऽम॑हसं , गृ॒णी॒षे॒ , वा॒मं , शेवं॑ , अति॑थिं , अ॒द्वि॒षे॒ण्यं । सः , रा॒स॒ते॒ , शु॒रुधः॑ , वि॒श्वऽधा॑यसः , अ॒ग्निः , होता॑ , गृ॒हऽप॑तिः , सु॒ऽवीर्यं॑ ॥
जु॒षा॒णो अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा॑नि वि॒द्वान्व॒युना॑नि सुक्रतो । घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा अ॑जनय॒न्ननु॑ व्र॒तं ॥
जु॒षा॒णः , अ॒ग्ने॒ , प्रति॑ , ह॒र्य॒ , मे॒ , वचः॑ , विश्वा॑नि , वि॒द्वान् , व॒युना॑नि , सु॒क्र॒तो॒ इति॑ सुऽक्रतो । घृत॑ऽनिर्निक् , ब्रह्म॑णे , गा॒तुं , आ , ई॒र॒य॒ , तव॑ , दे॒वाः , अ॒ज॒न॒य॒न् , अनु॑ , व्र॒तं ॥
स॒प्त धामा॑नि परि॒यन्नम॑र्त्यो॒ दाश॑द्दा॒शुषे॑ सु॒कृते॑ मामहस्व । सु॒वीरे॑ण र॒यिणा॑ग्ने स्वा॒भुवा॒ यस्त॒ आन॑ट् स॒मिधा॒ तं जु॑षस्व ॥
स॒प्त , धामा॑नि , प॒रि॒ऽयन् , अम॑र्त्यः , दाश॑त् , दा॒शुषे॑ , सु॒ऽकृते॑ , म॒म॒ह॒स्व॒ । सु॒ऽवीरे॑ण , र॒यिणा॑ , अ॒ग्ने॒ , सु॒ऽआ॒भुवा॑ , यः , ते॒ , आन॑ट् , सं॒ऽइधा॑ , तं , जु॒ष॒स्व॒ ॥
य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तं ह॒विष्मं॑त ईळते स॒प्त वा॒जिनं॑ । शृ॒ण्वंत॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षणं॑ पृ॒णंतं॑ दे॒वं पृ॑ण॒ते सु॒वीर्यं॑ ॥
य॒ज्ञस्य॑ , के॒तुं , प्र॒थ॒मं , पु॒रःऽहि॑तं , ह॒विष्मं॑तः , ई॒ळ॒ते॒ , स॒प्त , वा॒जिनं॑ । शृ॒ण्वंतं॑ , अ॒ग्निं , घृ॒तऽपृ॑ष्ठं , उ॒क्षणं॑ , पृ॒णंतं॑ , दे॒वं , पृ॒ण॒ते , सु॒ऽवीर्यं॑ ॥
त्वं दू॒तः प्र॑थ॒मो वरे॑ण्यः॒ स हू॒यमा॑नो अ॒मृता॑य मत्स्व । त्वां म॑र्जयन्म॒रुतो॑ दा॒शुषो॑ गृ॒हे त्वां स्तोमे॑भि॒र्भृग॑वो॒ वि रु॑रुचुः ॥
त्वं , दू॒तः , प्र॒थ॒मः , वरे॑ण्यः , सः , हू॒यमा॑नः , अ॒मृता॑य , म॒त्स्व॒ । त्वां , म॒र्ज॒य॒न् , म॒रुतः॑ , दा॒शुषः॑ , गृ॒हे , त्वां , स्तोमे॑भिः , भृग॑वः , वि , रि॒रु॒चुः॒ ॥
इषं॑ दु॒हंत्सु॒दुघां॑ वि॒श्वधा॑यसं यज्ञ॒प्रिये॒ यज॑मानाय सुक्रतो । अग्ने॑ घृ॒तस्नु॒स्त्रिर्ऋ॒तानि॒ दीद्य॑द्व॒र्तिर्य॒ज्ञं प॑रि॒यंत्सु॑क्रतूयसे ॥
इषं॑ , दु॒हन् , सु॒ऽदुघां॑ , वि॒श्वऽधा॑यसं , य॒ज्ञ॒ऽप्रिये॑ , यज॑मानाय , सु॒क्र॒तो॒ इति॑ सुऽक्रतो । अग्रे॑ , घृ॒तऽस्नुः॑ , त्रिः , ऋ॒तानि॑ , दीद्य॑त् , व॒र्तिः , य॒ज्ञं , प॒रि॒ऽयन् , सु॒क्र॒तु॒ऽय॒से॒ ॥
त्वामिद॒स्या उ॒षसो॒ व्यु॑ष्टिषु दू॒तं कृ॑ण्वा॒ना अ॑यजंत॒ मानु॑षाः । त्वां दे॒वा म॑ह॒याय्या॑य वावृधु॒राज्य॑मग्ने निमृ॒जंतो॑ अध्व॒रे ॥
त्वां , इत् , अ॒स्याः , उ॒षसः॑ , विऽउ॑ष्टिषु , दू॒तं , कृ॒ण्वा॒नाः , अ॒य॒जं॒त॒ , मानु॑षाः । त्वां , दे॒वाः , म॒ह॒याय्या॑य , व॒वृ॒धुः॒ , आज्यं॑ , अ॒ग्ने॒ , नि॒ऽमृ॒जंतः॑ , अ॒ध्व॒रे ॥
नि त्वा॒ वसि॑ष्ठा अह्वंत वा॒जिनं॑ गृ॒णंतो॑ अग्ने वि॒दथे॑षु वे॒धसः॑ । रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नि , त्वा॒ , वसि॑ष्ठाः , अ॒ह्वं॒त॒ , वा॒जिनं॑ , गृ॒णंतः॑ , अ॒ग्ने॒ , वि॒दथे॑षु , वे॒धसः॑ । रा॒यः , पोषं॑ , यज॑मानेषु , धा॒र॒य॒ , यू॒यं , पा॒त॒ , स्व॒स्तिऽभिः॑ , सदा॑ , नः॒ ॥
[१२३] अयमित्यष्टर्चस्यसूक्तस्य भार्गवोवेनोवेनस्त्रिष्टुप् |
अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ । इ॒मम॒पां सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहंति ॥
अ॒यं , वे॒नः , चो॒द॒य॒त् , पृश्नि॑ऽगर्भाः , ज्योतिः॑ऽजरायुः , रज॑सः , वि॒ऽमाने॑ । इ॒मं , अ॒पां , सं॒ऽग॒मे , सूर्य॑स्य , शिशुं॑ , न , विप्राः॑ , म॒तिऽभिः॑ , रि॒हं॒ति॒ ॥
स॒मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो न॑भो॒जाः पृ॒ष्ठं ह॑र्य॒तस्य॑ दर्शि । ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट् स॑मा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ॥
स॒मु॒द्रात् , ऊ॒र्मिं , उत् , इ॒य॒र्ति॒ , वे॒नः , न॒भः॒ऽजाः , पृ॒ष्ठं , ह॒र्य॒तस्य॑ , द॒र्शि॒ । ऋ॒तस्य॑ , सानौ॑ , अधि॑ , वि॒ष्टपि॑ , भ्राट् , स॒मा॒नं , योनिं॑ , अ॒भि , अ॒नू॒ष॒त॒ , व्राः ॥
स॒मा॒नं पू॒र्वीर॒भि वा॑वशा॒नास्तिष्ठ॑न्व॒त्सस्य॑ मा॒तरः॒ सनी॑ळाः । ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा रि॒हंति॒ मध्वो॑ अ॒मृत॑स्य॒ वाणीः॑ ॥
स॒मा॒नं , पू॒र्वीः , अ॒भि , वा॒व॒शा॒नाः , तिष्ठ॑न् , व॒त्सस्य॑ , मा॒तरः॑ , सऽनी॑ळाः । ऋ॒तस्य॑ , सानौ॑ , अधि॑ , च॒क्र॒मा॒णाः , रि॒हंति॑ , मध्वः॑ , अ॒मृत॑स्य , वाणीः॑ ॥
जा॒नंतो॑ रू॒पम॑कृपंत॒ विप्रा॑ मृ॒गस्य॒ घोषं॑ महि॒षस्य॒ हि ग्मन् । ऋ॒तेन॒ यंतो॒ अधि॒ सिंधु॑मस्थुर्वि॒दद्गं॑ध॒र्वो अ॒मृता॑नि॒ नाम॑ ॥
जा॒नंतः॑ , रू॒पं , अ॒कृ॒पं॒त॒ , विप्राः॑ , मृ॒गस्य॑ , घोषं॑ , म॒हि॒षस्य॑ , हि , ग्मन् । ऋ॒तेन॑ , यंतः॑ , अधि॑ , सिंधुं॑ , अ॒स्थुः॒ , वि॒दत् , गं॒ध॒र्वः , अ॒मृता॑नि , नाम॑ ॥
अ॒प्स॒रा जा॒रमु॑पसिष्मिया॒णा योषा॑ बिभर्ति पर॒मे व्यो॑मन् । चर॑त्प्रि॒यस्य॒ योनि॑षु प्रि॒यः संत्सीद॑त्प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ॥
अ॒प्स॒राः , जा॒रं , उ॒प॒ऽसि॒ष्मि॒या॒णा , योषा॑ , बि॒भ॒र्ति॒ , प॒र॒मे , विऽओ॑मन् । चर॑त् , प्रि॒यस्य॑ , योनि॑षु , प्रि॒यः , सन् , सीद॑त् , प॒क्षे , हि॒र॒ण्यये॑ , सः , वे॒नः ॥
नाके॑ सुप॒र्णमुप॒ यत्पतं॑तं हृ॒दा वेनं॑तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युं ॥
नाके॑ , सु॒ऽप॒र्णं , उप॑ , यत् , पतं॑तं , हृ॒दा , वेनं॑तः , अ॒भि , अच॑क्षत , त्वा॒ । हिर॑ण्यऽपक्षं , वरु॑णस्य , दू॒तं , य॒मस्य॑ , योनौ॑ , श॒कु॒नं , भु॒र॒ण्युं ॥
ऊ॒र्ध्वो गं॑ध॒र्वो अधि॒ नाके॑ अस्थात्प्र॒त्यङ्चि॒त्रा बिभ्र॑द॒स्यायु॑धानि । वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नाम॑ जनत प्रि॒याणि॑ ॥
ऊ॒र्ध्वः , गं॒ध॒र्वः , अधि॑ , नाके॑ , अ॒स्था॒त् , प्र॒त्यङ् , चि॒त्रा , बिभ्र॑त् , अ॒स्य॒ , आयु॑धानि । वसा॑नः , अत्कं॑ , सु॒र॒भिं , दृ॒शे , कं , स्वः॑ , न , नाम॑ , ज॒न॒त॒ , प्रि॒याणि॑ ॥
द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा॑ति॒ पश्य॒न्गृध्र॑स्य॒ चक्ष॑सा॒ विध॑र्मन् । भा॒नुः शु॒क्रेण॑ शो॒चिषा॑ चका॒नस्तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ॥
द्र॒प्सः , स॒मु॒द्रं , अ॒भि , यत् , जिगा॑ति , पश्य॑न् , गृध्र॑स्य , चक्ष॑सा , विऽध॑र्मन् । भा॒नुः , शु॒क्रेण॑ , शो॒चिषा॑ , च॒का॒नः , तृ॒तीये॑ , च॒क्रे॒ , रज॑सि , प्रि॒याणि॑ ॥
[१२४] इमंनइति नवर्चस्य सूक्तस्याद्यायाः पंचम्यादिचतसृणांचाग्निवरुणसोमाऋषयः द्वितीयादितिसृणामग्निरृषिः आद्यानांचतसृणामग्निः पंचमीसप्तम्यष्टमीनांवरुणः षष्ठ्याः सोमो नवम्याः सोमेंद्रौत्रिष्टुप् सप्तमीजगती |
इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पंच॑यामं त्रि॒वृतं॑ स॒प्ततं॑तुं । असो॑ हव्य॒वाळु॒त नः॑ पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ॥
इ॒मं , नः॒ , अ॒ग्ने॒ , उप॑ , य॒ज्ञं , आ , इ॒हि॒ , पंच॑ऽयामं , त्रि॒ऽवृतं॑ , स॒प्तऽतं॑तुं । असः॑ , ह॒व्य॒ऽवाट् , उ॒त , नः॒ , पु॒रः॒ऽगाः , ज्योक् , ए॒व , दी॒र्घं , तमः॑ , आ , अ॒श॒यि॒ष्ठाः॒ ॥
अदे॑वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्प्र॒पश्य॑मानो अमृत॒त्वमे॑मि । शि॒वं यत्संत॒मशि॑वो॒ जहा॑मि॒ स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ॥
अदे॑वात् , दे॒वः , प्र॒ऽचता॑ , गुहा॑ , यन् , प्र॒ऽपश्य॑मानः , अ॒मृ॒त॒ऽत्वं , ए॒मि॒ । शि॒वं , यत् , संतं॑ , अशि॑वः , जहा॑मि , स्वात् , स॒ख्यात् , अर॑णीं , नाभिं॑ , ए॒मि॒ ॥
पश्य॑न्न॒न्यस्या॒ अति॑थिं व॒याया॑ ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ । शंसा॑मि पि॒त्रे असु॑राय॒ शेव॑मयज्ञि॒याद्य॒ज्ञियं॑ भा॒गमे॑मि ॥
पश्य॑न् , अ॒न्यस्याः॑ , अति॑थिं , व॒यायाः॑ , ऋ॒तस्य॑ , धाम॑ , वि , मि॒मे॒ , पु॒रूणि॑ । शंसा॑मि , पि॒त्रे , असु॑राय , शेवं॑ , अ॒य॒ज्ञि॒यात् , य॒ज्ञियं॑ , भा॒गं , ए॒मि॒ ॥
ब॒ह्वीः समा॑ अकरमं॒तर॑स्मि॒न्निंद्रं॑ वृणा॒नः पि॒तरं॑ जहामि । अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वंते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ॥
ब॒ह्वीः , समाः॑ , अ॒क॒रं॒ , अं॒तः , अ॒स्मि॒न् , इंद्रं॑ , वृ॒णा॒नः , पि॒तरं॑ , ज॒हा॒मि॒ । अ॒ग्निः , सोमः॑ , वरु॑णः , ते , च्य॒वं॒ते॒ , प॒रि॒ऽआव॑र्त् , रा॒ष्ट्रं , तत् , अ॒वा॒मि॒ , आ॒ऽयन् ॥
निर्मा॑या उ॒ त्ये असु॑रा अभूवं॒त्वं च॑ मा वरुण का॒मया॑से । ऋ॒तेन॑ राज॒न्ननृ॑तं विविं॒चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ॥
निःऽमा॑याः , ऊँ॒ इति॑ , त्ये , असु॑राः , अ॒भू॒व॒न् , त्वं , च॒ , मा॒ , व॒रु॒ण॒ , का॒मया॑से । ऋ॒तेन॑ , रा॒ज॒न् , अनृ॑तं , वि॒ऽविं॒चन् , मम॑ , रा॒ष्ट्रस्य॑ , अधि॑ऽपत्यं , आ , इ॒हि॒ ॥
इ॒दं स्व॑रि॒दमिदा॑स वा॒मम॒यं प्र॑का॒श उ॒र्व१॒॑न्तरि॑क्षं । हना॑व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ संतं॑ ह॒विषा॑ यजाम ॥
इ॒दं , स्वः॑ , इ॒दं , इत् , आ॒स॒ , वा॒मं , अ॒यं , प्र॒ऽका॒शः , उ॒रु , अं॒तरि॑क्षं । हना॑व , वृ॒त्रं , निः॒ऽएहि॑ , सो॒म॒ , ह॒विः , त्वा॒ , संतं॑ , ह॒विषा॑ , य॒जा॒म॒ ॥
क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् । क्षेमं॑ कृण्वा॒ना जन॑यो॒ न सिंध॑व॒स्ता अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ॥
क॒विः , क॒वि॒ऽत्वा , दि॒वि , रू॒पं , आ , अ॒स॒ज॒त् , अप्र॑ऽभूती , वरु॑णः , निः , अ॒पः , सृ॒ज॒त् । क्षेमं॑ , कृ॒ण्वा॒नाः , जन॑यः , न , सिंध॑वः , ताः , अ॒स्य॒ , वर्णं॑ , शुच॑यः , भ॒रि॒भ्र॒ति॒ ॥
ता अ॑स्य॒ ज्येष्ठ॑मिंद्रि॒यं स॑चंते॒ ता ई॒मा क्षे॑ति स्व॒धया॒ मदं॑तीः । ता ईं॒ विशो॒ न राजा॑नं वृणा॒ना बी॑भ॒त्सुवो॒ अप॑ वृ॒त्राद॑तिष्ठन् ॥
ताः , अ॒स्य॒ , ज्येष्ठं॑ , इं॒द्रि॒यं , स॒चं॒ते॒ , ताः , ईं॒ , आ , क्षे॒ति॒ , स्व॒धया॑ , मदं॑तीः । ताः , ईं॒ , विशः॑ , न , राजा॑नं , वृ॒णा॒नाः , बी॒भ॒त्सुवः॑ , अप॑ , वृ॒त्रात् , अ॒ति॒ष्ठ॒न् ॥
बी॒भ॒त्सूनां॑ स॒युजं॑ हं॒समा॑हुर॒पां दि॒व्यानां॑ स॒ख्ये चरं॑तं । अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा॑ण॒मिंद्रं॒ नि चि॑क्युः क॒वयो॑ मनी॒षा ॥
बी॒भ॒त्सूनां॑ , स॒ऽयुजं॑ , हं॒सं , आ॒हुः॒ , अ॒पां , दि॒व्यानां॑ , स॒ख्ये , चरं॑तं । अ॒नु॒ऽस्तुभं॑ , अनु॑ , च॒र्चू॒र्यमा॑णं , इंद्रं॑ , नि , चि॒क्युः॒ , क॒वयः॑ , म॒नी॒षा ॥
[१२५] अहंरुद्रेभिरित्यष्टर्चस्य सूक्तस्यांभृणिर्वागांभृणिर्वाक्त्रिष्टुप्द्वितीयाजगती |
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः । अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमिं॑द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥
अ॒हं , रु॒द्रेभिः॑ , वसु॑ऽभिः , च॒रा॒मि॒ , अ॒हं , आ॒दि॒त्यैः , उ॒त , वि॒श्वऽदे॑वैः । अ॒हं , मि॒त्रावरु॑णा , उ॒भा , बि॒भ॒र्मि॒ , अ॒हं , इं॒द्रा॒ग्नी इति॑ , अ॒हं , अ॒श्विना॑ , उ॒भा ॥
अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भगं॑ । अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॒॑ यज॑मानाय सुन्व॒ते ॥
अ॒हं , सोमं॑ , आ॒ह॒नसं॑ , बि॒भ॒र्मि॒ , अ॒हं , त्वष्टा॑रं , उ॒त , पू॒षणं॑ , भगं॑ । अ॒हं , द॒धा॒मि॒ , द्रवि॑णं , ह॒विष्म॑ते , सु॒प्र॒ऽअ॒व्ये॑ , यज॑मानाय , सु॒न्व॒ते ॥
अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नां । तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शयं॑तीं ॥
अ॒हं , राष्ट्री॑ , सं॒ऽगम॑नी , वसू॑नां , चि॒कि॒तुषी॑ , प्र॒थ॒मा , य॒ज्ञिया॑नां । तां , मा॒ , दे॒वाः , वि , अ॒द॒धुः॒ , पु॒रु॒ऽत्रा , भूरि॑ऽस्थात्रां , भूरि॑ , आ॒ऽवे॒शयं॑तीं ॥
मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्यु॒क्तं । अ॒मं॒तवो॒ मां त उप॑ क्षियंति श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ॥
मया॑ , सः , अन्नं॑ , अ॒त्ति॒ , यः , वि॒ऽपश्य॑ति , यः , प्राणि॑ति , यः , ईं॒ , शृ॒णोति॑ , उ॒क्तं । अ॒मं॒तवः॑ , मां , ते , उप॑ , क्षि॒यं॒ति॒ , श्रु॒धि , श्रु॒त॒ , श्र॒द्धि॒ऽवं , ते॒ , व॒दा॒मि॒ ॥
अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः । यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धां ॥
अ॒हं , ए॒व , स्व॒यं , इ॒दं , व॒दा॒मि॒ , जुष्टं॑ , दे॒वेभिः॑ , उ॒त , मानु॑षेभिः । यं , का॒मये॑ , तंऽतं॑ , उ॒ग्रं , कृ॒णो॒मि॒ , तं , ब्र॒ह्माणं॑ , तं , ऋषिं॑ , तं , सु॒ऽमे॒धां ॥
अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हंत॒वा उ॑ । अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आ वि॑वेश ॥
अ॒हं , रु॒द्राय॑ , धनुः॑ , आ , त॒नो॒मि॒ , ब्र॒ह्म॒ऽद्विषे॑ , शर॑वे , हंत॒वै , ऊँ॒ इति॑ । अ॒हं , जना॑य , स॒ऽमदं॑ , कृ॒णो॒मि॒ , अ॒हं , द्यावा॑पृथि॒वी इति॑ , आ , वि॒वे॒श॒ ॥
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्व१॒॑न्तः स॑मु॒द्रे । ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥
अ॒हं , सु॒वे॒ , पि॒तरं॑ , अ॒स्य॒ , मू॒र्धन् , मम॑ , योनिः॑ , अ॒प्ऽसु , अं॒तरिति॑ , स॒मु॒द्रे । ततः॑ , वि , ति॒ष्ठे॒ , भुव॑ना , अनु॑ , विश्वा॑ , उ॒त , अ॒मूं , द्यां , व॒र्ष्मणा॑ , उप॑ , स्पृ॒शा॒मि॒ ॥
अ॒हमे॒व वात॑ इव॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ । प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ॥
अ॒हं , ए॒व , वातः॑ऽइव , प्र , वा॒मि॒ , आ॒ऽरभ॑माणा , भुव॑नानि , विश्वा॑ । प॒रः , दि॒वा , प॒रः , ए॒ना , पृ॒थि॒व्या , ए॒ताव॑ती , म॒हि॒ना , सं , ब॒भू॒व॒ ॥
[१२६] नतमित्यष्टर्चस्य सूक्तस्य शैलूषिः कुल्मलबर्हिषो विश्वेदेवाउपरिष्टाद्बृहत्यंत्यात्रिष्टुप् | (अत्रवामदेव्यहोमुक्पाक्षिकऋषिः । कुल्मलबर्हिषइत्यदंतं प्रातिपदिकं) |
न तमंहो॒ न दु॑रि॒तं देवा॑सो अष्ट॒ मर्त्यं॑ । स॒जोष॑सो॒ यम॑र्य॒मा मि॒त्रो नयं॑ति॒ वरु॑णो॒ अति॒ द्विषः॑ ॥
न , तं , अंहः॑ , न , दुः॒ऽइ॒तं , देवा॑सः , अ॒ष्ट॒ , मर्त्यं॑ । स॒ऽजोष॑सः , यं , अ॒र्य॒मा , मि॒त्रः , नयं॑ति , वरु॑णः , अति॑ , द्विषः॑ ॥
तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् । येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः॑ ॥
तत् , हि , व॒यं , वृ॒णी॒महे॑ , वरु॑ण , मित्र॑ , अर्य॑मन् । येन॑ , निः , अंह॑सः , यू॒यं , पा॒थ , ने॒थ , च॒ , मर्त्यं॑ , अति॑ , द्विषः॑ ॥
ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । नयि॑ष्ठा उ नो ने॒षणि॒ पर्षि॑ष्ठा उ नः प॒र्षण्यति॒ द्विषः॑ ॥
ते , नू॒नं , नः॒ , अ॒यं , ऊ॒तये॑ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा । नयि॑ष्ठाः , ऊँ॒ इति॑ , नः॒ , ने॒षणि॑ , पर्षि॑ष्ठाः , ऊँ॒ इति॑ , नः॒ , प॒र्षणि॑ , अति॑ , द्विषः॑ ॥
यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विषः॑ ॥
यू॒यं , विश्वं॑ , परि॑ , पा॒थ॒ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा । यु॒ष्माकं॑ , शर्म॑णि , प्रि॒ये , स्याम॑ , सु॒ऽप्र॒नी॒त॒यः॒ , अति॑ , द्विषः॑ ॥
आ॒दि॒त्यासो॒ अति॒ स्रिधो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । उ॒ग्रं म॒रुद्भी॑ रु॒द्रं हु॑वे॒मेंद्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विषः॑ ॥
आ॒दि॒त्यासः॑ , अति॑ , स्रिधः॑ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा । उ॒ग्रं , म॒रुत्ऽभिः॑ , रु॒द्रं , हु॒वे॒म॒ , इंद्रं॑ , अ॒ग्निं , स्व॒स्तये॑ , अति॑ , द्विषः॑ ॥
नेता॑र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो अ॑र्य॒मा । अति॒ विश्वा॑नि दुरि॒ता राजा॑नश्चर्षणी॒नामति॒ द्विषः॑ ॥
नेता॑रः , ऊँ॒ इति॑ , सु , नः॒ , ति॒रः , वरु॑णः , मि॒त्रः , अ॒र्य॒मा । अति॑ , विश्वा॑नि , दुः॒ऽइ॒ता , राजा॑नः , च॒र्ष॒णी॒नां , अति॑ , द्विषः॑ ॥
शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । शर्म॑ यच्छंतु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒ अति॒ द्विषः॑ ॥
शु॒नं , अ॒स्मभ्यं॑ , ऊ॒तये॑ , वरु॑णः , मि॒त्रः , अ॒र्य॒मा । शर्म॑ , य॒च्छं॒तु॒ , स॒ऽप्रथः॑ , आ॒दि॒त्यासः॑ , यत् , ईम॑हे , अति॑ , द्विषः॑ ॥
यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममुं॑चता यजत्राः । ए॒वो ष्व१॒॑स्मन्मुं॑चता॒ व्यंहः॒ प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥
यथा॑ , ह॒ , त्यत् , व॒स॒वः॒ , गौ॒र्यं॑ , चि॒त् , प॒दि , सि॒तां , अमुं॑चत , य॒ज॒त्राः॒ । ए॒वो इति॑ , सु , अ॒स्मत् , मुं॒च॒त॒ , वि , अंहः॑ , प्र , ता॒रि॒ , अ॒ग्ने॒ , प्र॒ऽत॒रं , नः॒ , आयुः॑ ॥
[१२७] रात्रीत्यष्टर्चस्य सूक्तस्य सौभरः कुशिकोरात्रिर्गायत्री (अत्रभारद्वाजीरात्रिऋषिकापाक्षिकी) |
रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॒॑क्षभिः॑ । विश्वा॒ अधि॒ श्रियो॑ऽधित ॥
रात्री॑ , वि , अ॒ख्य॒त् , आ॒ऽय॒ती , पु॒रु॒ऽत्रा , दे॒वी , अ॒क्षऽभिः॑ । विश्वाः॑ , अधि॑ , श्रियः॑ , अ॒धि॒त॒ ॥
ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु१॒॑द्वतः॑ । ज्योति॑षा बाधते॒ तमः॑ ॥
आ , उ॒रु , अ॒प्राः॒ , अम॑र्त्या , नि॒ऽवतः॑ , दे॒वी , उ॒त्ऽवतः॑ । ज्योति॑षा , बा॒ध॒ते॒ , तमः॑ ॥
निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती । अपेदु॑ हासते॒ तमः॑ ॥
निः , ऊँ॒ इति॑ , स्वसा॑रं , अ॒कृ॒त॒ , उ॒षसं॑ , दे॒वी , आ॒ऽय॒ती । अप॑ , इत् , ऊँ॒ इति॑ , हा॒स॒ते॒ , तमः॑ ॥
सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि । वृ॒क्षे न व॑स॒तिं वयः॑ ॥
सा , नः॒ , अ॒द्य , यस्याः॑ , व॒यं , नि , ते॒ , याम॑न् , अवि॑क्ष्महि । वृ॒क्षे , न , व॒स॒तिं , वयः॑ ॥
नि ग्रामा॑सो अविक्षत॒ नि प॒द्वंतो॒ नि प॒क्षिणः॑ । नि श्ये॒नास॑श्चिद॒र्थिनः॑ ॥
नि , ग्रामा॑सः , अ॒वि॒क्ष॒त॒ , नि , प॒त्ऽवंतः॑ , नि , प॒क्षिणः॑ । नि , श्ये॒नासः॑ , चि॒त् , अ॒र्थिनः॑ ॥
या॒वया॑ वृ॒क्यं१॒॑ वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये । अथा॑ नः सु॒तरा॑ भव ॥
य॒वय॑ , वृ॒क्यं॑ , वृकं॑ , य॒वय॑ , स्ते॒नं , ऊ॒र्म्ये॒ । अथ॑ , नः॒ , सु॒ऽतरा॑ , भ॒व॒ ॥
उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित । उष॑ ऋ॒णेव॑ यातय ॥
उप॑ , मा॒ , पेपि॑शत् , तमः॑ , कृ॒ष्णं , विऽअ॑क्तं , अ॒स्थि॒त॒ । उषः॑ , ऋ॒णाऽइ॑व , या॒त॒य॒ ॥
उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः । रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥
उप॑ , ते॒ , गाःऽइ॑व , आ , अ॒क॒रं॒ , वृ॒णी॒ष्व , दु॒हि॒तः॒ , दि॒वः॒ । रात्रि॑ , स्तोमं॑ , न , जि॒ग्युषे॑ ॥
[१२८] ममाग्नइति नवर्चस्य सूक्तस्यांगिरसोविहव्यो विश्वेदेवास्त्रिष्टुबंत्याजगती |
ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेंधा॑नास्त॒न्वं॑ पुषेम । मह्यं॑ नमंतां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥
मम॑ , अ॒ग्ने॒ , वर्चः॑ , वि॒ऽह॒वेषु॑ , अ॒स्तु॒ , व॒यं , त्वा॒ , इंधा॑नाः , त॒न्वं॑ , पु॒षे॒म॒ । मह्यं॑ , न॒मं॒तां॒ , प्र॒ऽदिशः॑ , चत॑स्रः , त्वया॑ , अधि॑ऽअक्षेण , पृत॑नाः , ज॒ये॒म॒ ॥
मम॑ दे॒वा वि॑ह॒वे सं॑तु॒ सर्व॒ इंद्र॑वंतो म॒रुतो॒ विष्णु॑र॒ग्निः । ममां॒तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन् ॥
मम॑ , दे॒वाः , वि॒ऽह॒वे , सं॒तु॒ , सर्वे॑ , इंद्र॑ऽवंतः , म॒रुतः॑ , विष्णुः॑ , अ॒ग्निः । मम॑ , अं॒तरि॑क्षं , उ॒रुऽलो॑कं , अ॒स्तु॒ , मह्यं॑ , वातः॑ , प॒व॒तां॒ , कामे॑ , अ॒स्मिन् ॥
मयि॑ दे॒वा द्रवि॑ण॒मा य॑जंतां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः । दैव्या॒ होता॑रो वनुषंत॒ पूर्वेऽरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीराः॑ ॥
मयि॑ , दे॒वाः , द्रवि॑णं , आ , य॒जं॒तां॒ , मयि॑ , आ॒ऽशीः , अ॒स्तु॒ , मयि॑ , दे॒वऽहू॑तिः । दैव्याः॑ , होता॑रः , व॒नु॒षं॒त॒ , पूर्वे॑ , अरि॑ष्टाः , स्या॒म॒ , त॒न्वा॑ , सु॒ऽवीराः॑ ॥
मह्यं॑ यजंतु॒ मम॒ यानि॑ ह॒व्याकू॑तिः स॒त्या मन॑सो मे अस्तु । एनो॒ मा नि गां॑ कत॒मच्च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता नः ॥
मह्यं॑ , य॒जं॒तु॒ , मम॑ , यानि॑ , ह॒व्या , आऽकू॑तिः , स॒त्या , मन॑सः , मे॒ , अ॒स्तु॒ । एनः॑ , मा , नि , गां॒ , क॒त॒मत् , च॒न , अ॒हं , विश्वे॑ , दे॒वा॒सः॒ , अधि॑ , वो॒च॒त॒ , नः॒ ॥
देवीः॑ षळुर्वीरु॒रु नः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वं । मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ॥
देवीः॑ , षट् , उ॒र्वीः॒ , उ॒रु , नः॒ , कृ॒णो॒त॒ , विश्वे॑ , दे॒वा॒सः॒ , इ॒ह , वी॒र॒य॒ध्वं॒ । मा , हा॒स्म॒हि॒ , प्र॒ऽजया॑ , मा , त॒नूभिः॑ , मा , र॒धा॒म॒ , द्वि॒ष॒ते , सो॒म॒ , रा॒ज॒न् ॥
अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वं । प्र॒त्यंचो॑ यंतु नि॒गुतः॒ पुन॒स्ते॒३॒॑ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥
अग्ने॑ , म॒न्युं , प्र॒ति॒ऽनु॒दन् , परे॑षां , अद॑ब्धः , गो॒पाः , परि॑ , पा॒हि॒ , नः॒ , त्वं । प्र॒त्यंचः॑ , यं॒तु॒ , नि॒ऽगुतः॑ , पुन॒रिति॑ , ते , अ॒मा , ए॒षां॒ , चि॒त्तं , प्र॒ऽबुधां॑ , वि , ने॒श॒त् ॥
धा॒ता धा॑तॄ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हं । इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पां॑तु॒ यज॑मानं न्य॒र्थात् ॥
धा॒ता , धा॒तॄ॒णां , भुव॑नस्य , यः , पतिः॑ , दे॒वं , त्रा॒तारं॑ , अ॒भि॒मा॒ति॒ऽस॒हं । इ॒मं , य॒ज्ञं , अ॒श्विना॑ , उ॒भा , बृह॒स्पतिः॑ , दे॒वाः , पां॒तु॒ , यज॑मानं , नि॒ऽअ॒र्थात् ॥
उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यंसद॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षुः । स नः॑ प्र॒जायै॑ हर्यश्व मृळ॒येंद्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥
उ॒रु॒ऽव्यचाः॑ , नः॒ , म॒हि॒षः , शर्म॑ , यं॒स॒त् , अ॒स्मिन् , हवे॑ , पु॒रु॒ऽहू॒तः , पु॒रु॒ऽक्षुः । सः , नः॒ , प्र॒ऽजायै॑ , ह॒रि॒ऽअ॒श्व॒ , मृ॒ळ॒य॒ , इंद्र॑ , मा , नः॒ , रि॒रि॒षः॒ , मा , परा॑ , दाः॒ ॥
ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वंत्विंद्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् । वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥
ये , नः॒ , स॒ऽपत्नाः॑ , अप॑ , ते , भ॒वं॒तु॒ , इं॒द्रा॒ग्निऽभ्यां॑ , अव॑ , बा॒धा॒म॒हे॒ , तान् । वस॑वः , रु॒द्राः , आ॒दि॒त्याः , उ॒प॒रि॒ऽस्पृशं॑ , मा॒ , उ॒ग्रं , चेत्ता॑रं , अ॒धि॒ऽरा॒जं , अ॒क्र॒न् ॥
[१२९] नासदिति सप्तर्चस्य सूक्तस्य परमेष्ठी प्रजापतिर्भाववृत्तिस्त्रिष्टुप् |
नास॑दासी॒न्नो सदा॑सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् । किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नंभः॒ किमा॑सी॒द्गह॑नं गभी॒रं ॥
न , अस॑त् , आ॒सी॒त् , नो इति॑ , सत् , आ॒सी॒त् , त॒दानीं॑ , न , आ॒सी॒त् , रजः॑ , नो इति॑ , विऽओ॑म , प॒रः , यत् । किं , आ , अ॒व॒री॒व॒रिति॑ , कुह॑ , कस्य॑ , शर्म॑न् , अंभः॑ , किं , आ॒सी॒त् , गह॑नं , ग॒भी॒रं ॥
न मृ॒त्युरा॑सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒ अह्न॑ आसीत्प्रके॒तः । आनी॑दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा॑द्धा॒न्यन्न प॒रः किं च॒नास॑ ॥
न , मृ॒त्युः , आ॒सी॒त् , अ॒मृतं॑ , न , तर्हि॑ , न , रात्र्याः॑ , अह्नः॑ , आ॒सी॒त् , प्र॒ऽके॒तः । आनी॑त् , अ॒वा॒तं , स्व॒धया॑ , तत् , एकं॑ , तस्मा॑त् , ह॒ , अ॒न्यत् , न , प॒रः , किं , च॒न , आ॒स॒ ॥
तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे॑ऽप्रके॒तं स॑लि॒लं सर्व॑मा इ॒दं । तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैकं॑ ॥
तमः॑ , आ॒सी॒त् , तम॑सा , गू॒ळ्हं , अग्रे॑ , अ॒प्र॒ऽके॒तं , स॒लि॒लं , सर्वं॑ , आः॒ , इ॒दं । तु॒च्छ्येन॑ , आ॒भु , अपि॑ऽहितं , यत् , आसी॑त् , तप॑सः , तत् , म॒हि॒ना , अ॒जा॒य॒त॒ , एकं॑ ॥
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त् । स॒तो बंधु॒मस॑ति॒ निर॑विंदन्हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥
कामः॑ , तत् , अग्रे॑ , सं , अ॒व॒र्त॒त॒ , अधि॑ , मन॑सः , रेतः॑ , प्र॒थ॒मं , यत् , आसी॑त् । स॒तः , बंधुं॑ , अस॑ति , निः , अ॒विं॒द॒न् , हृ॒दि , प्र॒ति॒ऽइष्या॑ , क॒वयः॑ , म॒नी॒षा ॥
ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् । रे॒तो॒धा आ॑सन्महि॒मान॑ आसंत्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त् ॥
ति॒र॒श्चीनः॑ , विऽत॑तः , र॒श्मिः , ए॒षां॒ , अ॒धः , स्वि॒त् , आ॒सी३त् , उ॒परि॑ , स्वि॒त् , आ॒सी॒३त् । रे॒तः॒ऽधाः , आ॒स॒न् , म॒हि॒मानः॑ , आ॒स॒न् , स्व॒धा , अ॒वस्ता॑त् , प्रऽय॑तिः , प॒रस्ता॑त् ॥
को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑च॒त्कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृ॑ष्टिः । अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ॥
कः , अ॒द्धा , वे॒द॒ , कः , इ॒ह , प्र , वो॒च॒त् , कुतः॑ , आऽजा॑ता , कुतः॑ , इ॒यं , विऽसृ॑ष्टिः । अ॒र्वाक् , दे॒वाः , अ॒स्य , वि॒ऽसर्ज॑नेन , अथ॑ , कः , वे॒द॒ , यतः॑ , आ॒ऽब॒भूव॑ ॥
इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न । यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑मं॒त्सो अं॒ग वे॑द॒ यदि॑ वा॒ न वेद॑ ॥
इ॒यं , विऽसृ॑ष्टिः , यतः॑ , आ॒ऽब॒भूव॑ , यदि॑ , वा॒ , द॒धे , यदि॑ , वा॒ , न । यः , अ॒स्य॒ , अधि॑ऽअक्षः , प॒र॒मे , विऽओ॑मन् , सः , अं॒ग , वे॒द॒ , यदि॑ , वा॒ , न , वेद॑ ॥
[१३०] योयज्ञइति सप्तर्चस्य सूक्तस्य प्राजापत्योयज्ञोभाववृत्तिस्त्रिष्टुबाद्याजगती |
यो य॒ज्ञो वि॒श्वत॒स्तंतु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः । इ॒मे व॑यंति पि॒तरो॒ य आ॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ॥
यः , य॒ज्ञः , वि॒श्वतः॑ , तंतु॑ऽभिः , त॒तः , एक॑ऽशतं , दे॒व॒ऽक॒र्मेभिः॑ , आऽय॑तः । इ॒मे , व॒यं॒ति॒ , पि॒तरः॑ , ये , आ॒ऽय॒युः , प्र , व॒य॒ , अप॑ , व॒य॒ , इति॑ , आ॒स॒ते॒ , त॒ते ॥
पुमाँ॑ एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न्वि त॑त्ने॒ अधि॒ नाके॑ अ॒स्मिन् । इ॒मे म॒यूखा॒ उप॑ सेदुरू॒ सदः॒ सामा॑नि चक्रु॒स्तस॑रा॒ण्योत॑वे ॥
पुमा॑न् , ए॒नं॒ , त॒नु॒ते॒ , उत् , कृ॒ण॒त्ति॒ , पुमा॑न् , वि , त॒त्ने॒ , अधि॑ , नाके॑ , अ॒स्मिन् । इ॒मे , म॒यूखाः॑ , उप॑ , से॒दुः॒ , ऊँ॒ इति॑ , सदः॑ , सामा॑नि , च॒क्रुः॒ , तस॑राणि , ओत॑वे ॥
कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् । छंदः॒ किमा॑सी॒त्प्रउ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जंत॒ विश्वे॑ ॥
का , आ॒सी॒त् , प्र॒ऽमा , प्र॒ति॒ऽमा , किं , नि॒ऽदानं॑ , आज्यं॑ , किं , आ॒सी॒त् , प॒रि॒ऽधिः , कः , आ॒सी॒त् । छंदः॑ , किं , आ॒सी॒त् , प्रउ॑गं , किं , उ॒क्थं , यत् , दे॒वाः , दे॒वं , अय॑जंत , विश्वे॑ ॥
अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव । अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते॑र्बृह॒ती वाच॑मावत् ॥
अ॒ग्नेः , गा॒य॒त्री , अ॒भ॒व॒त् , स॒ऽयुग्वा॑ , उ॒ष्णिह॑या , स॒वि॒ता , सं , ब॒भू॒व॒ । अ॒नु॒ऽस्तुभा॑ , सोमः॑ , उ॒क्थैः , मह॑स्वान् , बृह॒स्पतेः॑ , बृ॒ह॒ती , वाचं॑ , आ॒व॒त् ॥
वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिंद्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो अह्नः॑ । विश्वां॑दे॒वांजग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्याः॑ ॥
वि॒ऽराट् , मि॒त्रावरु॑णयोः , अ॒भि॒ऽश्रीः , इंद्र॑स्य , त्रि॒ऽस्तुप् , इ॒ह , भा॒गः , अह्नः॑ । विश्वा॑न् , दे॒वान् , जग॑ती , आ , वि॒वे॒श॒ , तेन॑ , चा॒कॢ॒प्रे॒ , ऋष॑यः , म॒नु॒ष्याः॑ ॥
चा॒कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या॑ य॒ज्ञे जा॒ते पि॒तरो॑ नः पुरा॒णे । पश्य॑न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जंत॒ पूर्वे॑ ॥
चा॒कॢ॒प्रे , तेन॑ , ऋष॑यः , म॒नु॒ष्याः॑ , य॒ज्ञे , जा॒ते , पि॒तरः॑ , नः॒ , पु॒रा॒णे । पश्य॑न् , म॒न्ये॒ , मन॑सा , चक्ष॑सा , तान् , ये , इ॒मं , य॒ज्ञं , अय॑जंत , पूर्वे॑ ॥
स॒हस्तो॑माः स॒हछं॑दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्याः॑ । पूर्वे॑षां॒ पंथा॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒३॒॑ न र॒श्मीन् ॥
स॒हऽस्तो॑माः , स॒हऽछं॑दसः , आ॒ऽवृतः॑ , स॒हऽप्र॑माः , ऋष॑यः , स॒प्त , दैव्याः॑ । पूर्वे॑षां , पंथां॑ , अ॒नु॒ऽदृश्य॑ , धीराः॑ , अ॒नु॒ऽआले॑भिरे , र॒थ्यः॑ , न , र॒श्मीन् ॥
[१३१] अपप्राचइति सप्तर्चस्य सूक्तस्य काक्षीवतः सुकीर्तिरिंद्रश्चतुर्थीपंचम्योरश्विनौत्रिष्टुप् चतुर्थ्यनुष्टुप् |
अप॒ प्राच॑ इंद्र॒ विश्वाँ॑ अ॒मित्रा॒नपापा॑चो अभिभूते नुदस्व । अपोदी॑चो॒ अप॑ शूराध॒राच॑ उ॒रौ यथा॒ तव॒ शर्म॒न्मदे॑म ॥
अप॑ , प्राचः॑ , इं॒द्र॒ , विश्वा॑न् , अ॒मित्रा॑न् , अप॑ , अपा॑चः , अ॒भि॒ऽभू॒ते॒ , नु॒द॒स्व॒ । अप॑ , उदी॑चः , अप॑ , शू॒र॒ , अ॒ध॒राचः॑ , उ॒रौ , यथा॑ , तव॑ , शर्म॑न् , मदे॑म ॥
कु॒विदं॒ग यव॑मंतो॒ यवं॑ चि॒द्यथा॒ दांत्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥
कु॒वित् , अं॒ग , यव॑ऽमंतः , यवं॑ , चि॒त् , यथा॑ , दांति॑ , अ॒नु॒ऽपू॒र्वं , वि॒ऽयूय॑ । इ॒हऽइ॑ह , ए॒षां॒ , कृ॒णु॒हि॒ , भोज॑नानि , ये , ब॒र्हिषः॑ , नमः॑ऽवृक्तिं , न , ज॒ग्मुः ॥
न॒हि स्थूर्यृ॑तु॒था या॒तमस्ति॒ नोत श्रवो॑ विविदे संग॒मेषु॑ । ग॒व्यंत॒ इंद्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यंतो॒ वृष॑णं वा॒जयं॑तः ॥
न॒हि , स्थूरि॑ , ऋ॒तु॒ऽथा , या॒तं , अस्ति॑ , न , उ॒त , श्रवः॑ , वि॒वि॒दे॒ , सं॒ऽग॒मेषु॑ । ग॒व्यंतः॑ , इंद्रं॑ , स॒ख्याय॑ , विप्राः॑ , अ॒श्व॒ऽयंतः॑ , वृष॑णं , वा॒जयं॑तः ॥
यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑ । वि॒पि॒पा॒ना शु॑भस्पती॒ इंद्रं॒ कर्म॑स्वावतं ॥
यु॒वं , सु॒रामं॑ , अ॒श्वि॒ना॒ , नमु॑चौ , आ॒सु॒रे , सचा॑ । वि॒ऽपि॒पा॒ना , शु॒भः॒ , प॒ती॒ इति॑ , इंद्रं॑ , कर्म॑ऽसु , आ॒व॒तं॒ ॥
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेंद्रा॒वथुः॒ काव्यै॑र्दं॒सना॑भिः । यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ॥
पु॒त्रंऽइ॑व , पि॒तरौ॑ , अ॒श्विना॑ , उ॒भा , इंद्र॑ , आ॒वथुः॑ , काव्यैः॑ , दं॒सना॑भिः । यत् , सु॒रामं॑ , वि , अपि॑बः , शची॑भिः , सर॑स्वती , त्वा॒ , म॒घ॒ऽव॒न् , अ॒भि॒ष्ण॒क् ॥
इंद्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
इंद्रः॑ , सु॒ऽत्रामा॑ , स्वऽवा॑न् , अवः॑ऽभिः , सु॒ऽमृ॒ळी॒कः , भ॒व॒तु॒ , वि॒श्वऽवे॑दाः । बाध॑तां , द्वेषः॑ , अभ॑यं , कृ॒णो॒तु॒ , सु॒ऽवीर्य॑स्य , पत॑यः , स्या॒म॒ ॥
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववाँ॒ इंद्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ॥
तस्य॑ , व॒यं , सु॒ऽम॒तौ , य॒ज्ञिय॑स्य , अपि॑ , भ॒द्रे , सौ॒म॒न॒से , स्या॒म॒ । सः , सु॒ऽत्रामा॑ , स्वऽवा॑न् , इंद्रः॑ , अ॒स्मे इति॑ , आ॒रात् , चि॒त् , द्वेषः॑ , स॒नु॒तः , यु॒यो॒तु॒ ॥
[१३२] ईजानमिति सप्तर्चस्य सूक्तस्य नार्मेधः शकपूतो मित्रावरुणावाद्यायाद्युभूम्यश्विनोविराड्रूपाः आद्यान्यंकुसारिणी द्वितीयाषष्ठ्यौ प्रस्तारपंक्ती अंत्यामहासतोबृहती |
ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नं भूमि॑र॒भि प्र॑भू॒षणि॑ । ई॒जा॒नं दे॒वाव॒श्विना॑व॒भि सु॒म्नैर॑वर्धतां ॥
ई॒जा॒नं , इत् , द्यौः , गू॒र्तऽव॑सुः , ई॒जा॒नं , भूमिः॑ , अ॒भि , प्र॒ऽभू॒षणि॑ । ई॒जा॒नं , दे॒वौ , अ॒श्विनौ॑ , अ॒भि , सु॒म्नैः , अ॒व॒र्ध॒तां॒ ॥
ता वां॑ मित्रावरुणा धार॒यत्क्षि॑ती सुषु॒म्नेषि॑त॒त्वता॑ यजामसि । यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या॑म र॒क्षसः॑ ॥
ता , वां॒ , मि॒त्रा॒व॒रु॒णा॒ , धा॒र॒यत्क्षि॑ती॒ इति॑ धा॒र॒यत्ऽक्षि॑ती , सु॒ऽसु॒म्ना , इ॒षि॒त॒त्वता॑ , य॒जा॒म॒सि॒ । यु॒वोः , क्रा॒णाय॑ , स॒ख्यैः , अ॒भि , स्या॒म॒ , र॒क्षसः॑ ॥
अधा॑ चि॒न्नु यद्दिधि॑षामहे वाम॒भि प्रि॒यं रेक्णः॒ पत्य॑मानाः । द॒द्वाँ वा॒ यत्पुष्य॑ति॒ रेक्णः॒ सम्वा॑र॒न्नकि॑रस्य म॒घानि॑ ॥
अध॑ , चि॒त् , नु , यत् , दधि॑षामहे , वां॒ , अ॒भि , प्रि॒यं , रेक्णः॑ , पत्य॑मानाः । द॒द्वान् , वा॒ , यत् , पुष्य॑ति , रेक्णः॑ , सं , ऊँ॒ इति॑ , आ॒र॒न् , नकिः॑ , अ॒स्य॒ , म॒घानि॑ ॥
अ॒साव॒न्यो अ॑सुर सूयत॒ द्यौस्त्वं विश्वे॑षां वरुणासि॒ राजा॑ । मू॒र्धा रथ॑स्य चाक॒न्नैताव॒तैन॑सांतक॒ध्रुक् ॥
अ॒सौ , अ॒न्यः , अ॒सु॒र॒ , सू॒य॒त॒ , द्यौः , त्वं , विश्वे॑षां , व॒रु॒ण॒ , अ॒सि॒ , राजा॑ । मू॒र्धा , रथ॑स्य , चा॒क॒न् , न , ए॒ताव॑ता , एन॑सा , अं॒त॒क॒ऽध्रुक् ॥
अ॒स्मिंत्स्वे॒३॒॑तच्छक॑पूत॒ एनो॑ हि॒ते मि॒त्रे निग॑तान्हंति वी॒रान् । अ॒वोर्वा॒ यद्धात्त॒नूष्ववः॑ प्रि॒यासु॑ य॒ज्ञिया॒स्वर्वा॑ ॥
अ॒स्मिन् , सु , ए॒तत् , शक॑ऽपूते , एनः॑ , हि॒ते , मि॒त्रे , निऽग॑तान् , हं॒ति॒ , वी॒रान् । अ॒वोः , वा॒ , यत् , धात् , त॒नूषु॑ , अवः॑ , प्रि॒यासु॑ , य॒ज्ञिया॑सु , अर्वा॑ ॥
यु॒वोर्हि मा॒तादि॑तिर्विचेतसा॒ द्यौर्न भूमिः॒ पय॑सा पुपू॒तनि॑ । अव॑ प्रि॒या दि॑दिष्टन॒ सूरो॑ निनिक्त र॒श्मिभिः॑ ॥
यु॒वोः , हि , मा॒ता , अदि॑तिः , वि॒ऽचे॒त॒सा॒ , द्यौः , न , भूमिः॑ , पय॑सा , पु॒पू॒तनि॑ । अव॑ , प्रि॒या , दि॒दि॒ष्ट॒न॒ , सूरः॑ , नि॒नि॒क्त॒ , र॒श्मिऽभिः॑ ॥
यु॒वं ह्य॑प्न॒राजा॒वसी॑दतं॒ तिष्ठ॒द्रथं॒ न धू॒र्षदं॑ वन॒र्षदं॑ । ता नः॑ कणूक॒यंती॑र्नृ॒मेध॑स्तत्रे॒ अंह॑सः सु॒मेध॑स्तत्रे॒ अंह॑सः ॥
यु॒वं , हि , अ॒प्न॒ऽराजौ॑ , असी॑दतं , तिष्ठ॑त् , रथं॑ , न , धूः॒ऽसदं॑ , व॒न॒ऽसदं॑ । ताः , नः॒ , क॒णू॒क॒ऽयंतीः॑ , नृ॒ऽमेधः॑ , त॒त्रे॒ , अंह॑सः , सु॒ऽमेधः॑ , त॒त्रे॒ , अंह॑सः ॥
[१३३] प्रोष्विति सप्तर्चस्य सूक्तस्य सुदाः पैजवनइंद्रः शक्वरीचतुर्थ्यादितिस्रो महापंक्तयोत्यात्रिष्टुप् |
प्रो ष्व॑स्मै पुरोर॒थमिंद्रा॑य शू॒षम॑र्चत । अ॒भीके॑ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं॑ बोधि चोदि॒ता नभं॑तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
प्रो इति॑ , सु , अ॒स्मै॒ , पु॒रः॒ऽर॒थं , इंद्रा॑य , शू॒षं , अ॒र्च॒त॒ । अ॒भीके॑ , चि॒त् , ऊँ॒ इति॑ , लो॒क॒ऽकृत् , सं॒ऽगे , स॒मत्ऽसु॑ , वृ॒त्र॒ऽहा , अ॒स्माकं॑ , बो॒धि॒ , चो॒दि॒ता , नभं॑तां , अ॒न्य॒केषां॑ , ज्या॒काः , अधि॑ , धन्व॑ऽसु ॥
त्वं सिंधूँ॒रवा॑सृजोऽध॒राचो॒ अह॒न्नहिं॑ । अ॒श॒त्रुरिं॑द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभं॑तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
त्वं , सिंधू॑न् , अव॑ , अ॒सृ॒जः॒ , अ॒ध॒राचः॑ , अह॑न् , अहिं॑ । अ॒श॒त्रुः , इं॒द्र॒ , ज॒ज्ञि॒षे॒ , विश्वं॑ , पु॒ष्य॒सि॒ , वार्यं॑ , तं , त्वा॒ , परि॑ , स्व॒जा॒म॒हे॒ , नभं॑तां , अ॒न्य॒केषां॑ , ज्या॒काः , अधि॑ , धन्व॑ऽसु ॥
वि षु विश्वा॒ अरा॑तयो॒ऽर्यो न॑शंत नो॒ धियः॑ । अस्ता॑सि॒ शत्र॑वे व॒धं यो न॑ इंद्र॒ जिघां॑सति॒ या ते॑ रा॒तिर्द॒दिर्वसु॒ नभं॑तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
वि , सु , विश्वा॑ , अरा॑तयः , अ॒र्यः , न॒शं॒त॒ , नः॒ , धियः॑ । अस्ता॑ , अ॒सि॒ , शत्र॑वे , व॒धं , यः , नः॒ , इं॒द्र॒ , जिघां॑सति , या , ते॒ , रा॒तिः , द॒दिः , वसु॑ , नभं॑तां , अ॒न्य॒केषां॑ , ज्या॒काः , अधि॑ , धन्व॑ऽसु ॥
यो न॑ इंद्रा॒भितो॒ जनो॑ वृका॒युरा॒दिदे॑शति । अ॒ध॒स्प॒दं तमीं॑ कृधि विबा॒धो अ॑सि सास॒हिर्नभं॑तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
यः , नः॒ , इं॒द्र॒ , अ॒भितः॑ , जनः॑ , वृ॒क॒ऽयुः , आ॒ऽदिदे॑शति । अ॒धः॒ऽप॒दं , तं , ईं॒ , कृ॒धि॒ , वि॒ऽबा॒धः , अ॒सि॒ , स॒स॒हिः , नभं॑तां , अ॒न्य॒केषां॑ , ज्या॒काः , अधि॑ , धन्व॑ऽसु ॥
यो न॑ इंद्राभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्यः॑ । अव॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौरध॒ त्मना॒ नभं॑तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
यः , नः॒ , इं॒द्र॒ , अ॒भि॒ऽदास॑ति , सऽना॑भिः , यः , च॒ , निष्ट्यः॑ । अव॑ , तस्य॑ , बलं॑ , ति॒र॒ , म॒हीऽइ॑व , द्यौः , अध॑ , त्मना॑ , नभं॑तां , अ॒न्य॒केषां॑ , ज्या॒काः , अधि॑ , धन्व॑ऽसु ॥
व॒यमिं॑द्र त्वा॒यवः॑ सखि॒त्वमा र॑भामहे । ऋ॒तस्य॑ नः प॒था न॒याति॒ विश्वा॑नि दुरि॒ता नभं॑तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
व॒यं , इं॒द्र॒ , त्वा॒ऽयवः॑ , स॒खि॒ऽत्वं , आ , र॒भा॒म॒हे॒ । ऋ॒तस्य॑ , नः॒ , प॒था , न॒य॒ , अति॑ , विश्वा॑नि , दुः॒ऽइ॒ता , नभं॑तां , अ॒न्य॒केषां॑ , ज्या॒काः , अधि॑ , धन्व॑ऽसु ॥
अ॒स्मभ्यं॒ सु त्वमिं॑द्र॒ तां शि॑क्ष॒ या दोह॑ते॒ प्रति॒ वरं॑ जरि॒त्रे । अच्छि॑द्रोध्नी पी॒पय॒द्यथा॑ नः स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥
अ॒स्मभ्यं॑ , सु , त्वं , इं॒द्र॒ , तां , शि॒क्ष॒ , या , दोह॑ते , प्रति॑ , वरं॑ , ज॒रि॒त्रे । अच्छि॑द्रऽऊध्नी , पी॒पय॑त् , यथा॑ , नः॒ , स॒हस्र॑ऽधारा , पय॑सा , म॒ही , गौः ॥
[१३४] उभेयदिति सप्तर्चस्य सूक्तस्य यौवनाश्वोमांधातेंद्रः अंत्यानां तिसृणामर्धर्चागोधेंद्रो महापंक्तिरंत्यापंक्तिः |
उ॒भे यदिं॑द्र॒ रोद॑सी आप॒प्राथो॒षा इ॑व । म॒हांतं॑ त्वा म॒हीनां॑ स॒म्राजं॑ चर्षणी॒नां दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
उ॒भे इति॑ , यत् , इं॒द्र॒ , रोद॑सी॒ इति॑ , आ॒ऽप॒प्राथ॑ , उ॒षाःऽइ॑व । म॒हांतं॑ , त्वा॒ , म॒हीनां॑ , सं॒ऽराजं॑ , च॒र्ष॒णी॒नां , दे॒वी , जनि॑त्री , अ॒जी॒ज॒न॒त् , भ॒द्रा , जनि॑त्री , अ॒जी॒ज॒न॒त् ॥
अव॑ स्म दुर्हणाय॒तो मर्त॑स्य तनुहि स्थि॒रं । अ॒ध॒स्प॒दं तमीं॑ कृधि॒ यो अ॒स्माँ आ॒दिदे॑शति दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
अव॑ , स्म॒ , दुः॒ऽह॒ना॒य॒तः , मर्त॑स्य , त॒नु॒हि॒ , स्थि॒रं । अ॒धः॒ऽप॒दं , तं , ईं॒ , कृ॒धि॒ , यः , अ॒स्मान् , आ॒ऽदिदे॑शति , दे॒वी , जनि॑त्री , अ॒जी॒ज॒न॒त् , भ॒द्रा , जनि॑त्री , अ॒जी॒ज॒न॒त् ॥
अव॒ त्या बृ॑ह॒तीरिषो॑ वि॒श्वश्चं॑द्रा अमित्रहन् । शची॑भिः शक्र धूनु॒हींद्र॒ विश्वा॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
अव॑ , त्याः , बृ॒ह॒तीः , इषः॑ , वि॒श्वऽचं॑द्राः , अ॒मि॒त्र॒ऽह॒न् । शची॑भिः , श॒क्र॒ , धू॒नु॒हि॒ , इंद्र॑ , विश्वा॑भिः , ऊ॒तिऽभिः॑ , दे॒वी , जनि॑त्री , अ॒जी॒ज॒न॒त् , भ॒द्रा , जनि॑त्री , अ॒जी॒ज॒न॒त् ॥
अव॒ यत्त्वं श॑तक्रत॒विंद्र॒ विश्वा॑नि धूनु॒षे । र॒यिं न सु॑न्व॒ते सचा॑ सह॒स्रिणी॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
अव॑ , यत् , त्वं , श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो , इंद्र॑ , विश्वा॑नि , धू॒नु॒षे । र॒यिं , न , सु॒न्व॒ते , सचा॑ , स॒ह॒स्रिणी॑भिः , ऊ॒तिऽभिः॑ , दे॒वी , जनि॑त्री , अ॒जी॒ज॒न॒त् , भ॒द्रा , जनि॑त्री , अ॒जी॒ज॒न॒त् ॥
अव॒ स्वेदा॑ इवा॒भितो॒ विष्व॑क्पतंतु दि॒द्यवः॑ । दूर्वा॑या इव॒ तंत॑वो॒ व्य१॒॑स्मदे॑तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
अव॑ , स्वेदाः॑ऽइव , अ॒भितः॑ , विष्व॑क् , प॒तं॒तु॒ , दि॒द्यवः॑ । दूर्वा॑याःऽइव , तंत॑वः , वि , अ॒स्मत् , ए॒तु॒ , दुः॒ऽम॒तिः , दे॒वी , जनि॑त्री , अ॒जी॒ज॒न॒त् , भ॒द्रा , जनि॑त्री , अ॒जी॒ज॒न॒त् ॥
दी॒र्घं ह्यं॑कु॒शं य॑था॒ शक्तिं॒ बिभ॑र्षि मंतुमः । पूर्वे॑ण मघवन्प॒दाजो व॒यां यथा॑ यमो दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
दी॒र्घं , हि , अं॒कु॒शं , य॒था॒ , शक्तिं॑ , बिभ॑र्षि , मं॒तु॒ऽमः॒ । पूर्वे॑ण , म॒घ॒ऽव॒न् , प॒दा , अ॒जः , व॒यां , यथा॑ , य॒मः॒ , दे॒वी , जनि॑त्री , अ॒जी॒ज॒न॒त् , भ॒द्रा , जनि॑त्री , अ॒जी॒ज॒न॒त् ॥
नकि॑र्देवा मिनीमसि॒ नकि॒रा यो॑पयामसि मंत्र॒श्रुत्यं॑ चरामसि । प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ॥
नकिः॑ , दे॒वाः॒ , मि॒नी॒म॒सि॒ , नकिः॑ , आ , यो॒प॒या॒म॒सि॒ , मं॒त्र॒ऽश्रुत्यं॑ , च॒रा॒म॒सि॒ । प॒क्षेभिः॑ , अ॒पि॒ऽक॒क्षेभिः॑ , अत्र॑ , अ॒भि , सं , र॒भा॒म॒हे॒ ॥
[१३५] यस्मिन्निति सप्तर्चस्य सूक्तस्य यामायनः कुमारोयमोनुष्टुप् |
यस्मि॑न्वृ॒क्षे सु॑पला॒शे दे॒वैः सं॒पिब॑ते य॒मः । अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णाँ अनु॑ वेनति ॥
यस्मि॑न् , वृ॒क्षे , सु॒ऽप॒ला॒शे , दे॒वैः , सं॒ऽपिब॑ते , य॒मः । अत्र॑ , नः॒ , वि॒श्पतिः॑ , पि॒ता , पु॒रा॒णान् , अनु॑ , वे॒न॒ति॒ ॥
पु॒रा॒णाँ अ॑नु॒वेनं॑तं॒ चरं॑तं पा॒पया॑मु॒या । अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा॑ अस्पृहयं॒ पुनः॑ ॥
पु॒रा॒णा॑न् , अ॒नु॒ऽवेनं॑तं , चरं॑तं , पा॒पया॑ , अ॒मु॒या । अ॒सू॒यन् , अ॒भि , अ॒चा॒क॒शं॒ , तस्मै॑ , अ॒स्पृ॒ह॒यं॒ , पुन॒रिति॑ ॥
यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः । एके॑षं वि॒श्वतः॒ प्रांच॒मप॑श्य॒न्नधि॑ तिष्ठसि ॥
यं , कु॒मा॒र॒ , नवं॑ , रथं॑ , अ॒च॒क्रं , मन॑सा , अकृ॑णोः । एक॑ऽईषं , वि॒श्वतः॑ , प्रांचं॑ , अप॑श्यन् , अधि॑ , ति॒ष्ठ॒सि॒ ॥
यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे॑भ्य॒स्परि॑ । तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तं ॥
यं , कु॒मा॒र॒ , प्र , अव॑र्तयः , रथं॑ , विप्रे॑भ्यः , परि॑ । तं , साम॑ , अनु॑ , प्र , अ॒व॒र्त॒त॒ , सं , इ॒तः , ना॒वि , आऽहि॑तं ॥
कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् । कः स्वि॒त्तद॒द्य नो॑ ब्रूयादनु॒देयी॒ यथाभ॑वत् ॥
कः , कु॒मा॒रं , अ॒ज॒न॒य॒त् , रथं॑ , कः , निः , अ॒व॒र्त॒य॒त् । कः , स्वि॒त् , तत् , अ॒द्य , नः॒ , ब्रू॒या॒त् , अ॒नु॒ऽदेयी॑ , यथा॑ , अभ॑वत् ॥
यथाभ॑वदनु॒देयी॒ ततो॒ अग्र॑मजायत । पु॒रस्ता॑द्बु॒ध्न आत॑तः प॒श्चान्नि॒रय॑णं कृ॒तं ॥
यथा॑ , अभ॑वत् , अ॒नु॒ऽदेयी॑ , ततः॑ , अग्रं॑ , अ॒जा॒य॒त॒ । पु॒रस्ता॑त् , बु॒ध्नः , आऽत॑तः , प॒श्चात् , निः॒ऽअय॑नं , कृ॒तं ॥
इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते॑ । इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ॥
इ॒दं , य॒मस्य॑ , सद॑नं , दे॒व॒ऽमा॒नं , यत् , उ॒च्यते॑ । इ॒यं , अ॒स्य॒ , ध॒म्य॒ते॒ , ना॒ळीः , अ॒यं , गीः॒ऽभिः , परि॑ऽकृतः ॥
[१३६] केशीति सप्तर्चस्य सूक्तस्य वातरशना जूतिर्वातजूतिर्विप्र जूतिर्वृषाणकः करिक्रत एतशऋष्यशृंग इति क्रमेणैकर्चाऋषयः | केश्यग्निसूर्यवायवोदेवताअनुष्टुप् |
के॒श्य१॒॑ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सी । के॒शी विश्वं॒ स्व॑र्दृ॒शे के॒शीदं ज्योति॑रुच्यते ॥
के॒शी , अ॒ग्निं , के॒शी , वि॒षं , के॒शी , बि॒भ॒र्ति॒ , रोद॑सी॒ इति॑ । के॒शी , विश्वं॑ , स्वः॑ , दृ॒शे , के॒शी , इ॒दं , ज्योतिः॑ , उ॒च्य॒ते॒ ॥
मुन॑यो॒ वात॑रशनाः पि॒शंगा॑ वसते॒ मला॑ । वात॒स्यानु॒ ध्राजिं॑ यंति॒ यद्दे॒वासो॒ अवि॑क्षत ॥
मुन॑यः , वात॑ऽरशनाः , पि॒शंगा॑ , व॒स॒ते॒ , मला॑ । वात॑स्य , अनु॑ , ध्राजिं॑ , यंति॑ , यत् , दे॒वासः॑ , अवि॑क्षत ॥
उन्म॑दिता॒ मौने॑येन॒ वाताँ॒ आ त॑स्थिमा व॒यं । शरी॒रेद॒स्माकं॑ यू॒यं मर्ता॑सो अ॒भि प॑श्यथ ॥
उत्ऽम॑दिताः , मौने॑येन , वाता॑न् , आ , त॒स्थि॒म॒ , व॒यं । शरी॑रा , इत् , अ॒स्माकं॑ , यू॒यं , मर्ता॑सः , अ॒भि , प॒श्य॒थ॒ ॥
अं॒तरि॑क्षेण पतति॒ विश्वा॑ रू॒पाव॒चाक॑शत् । मुनि॑र्दे॒वस्य॑देवस्य॒ सौकृ॑त्याय॒ सखा॑ हि॒तः ॥
अं॒तरि॑क्षेण , प॒त॒ति॒ , विश्वा॑ , रू॒पा , अ॒व॒ऽचाक॑शत् । मुनिः॑ , दे॒वस्य॑ऽदेवस्य , सौकृ॑त्याय , सखा॑ , हि॒तः ॥
वात॒स्याश्वो॑ वा॒योः सखाथो॑ दे॒वेषि॑तो॒ मुनिः॑ । उ॒भौ स॑मु॒द्रावा क्षे॑ति॒ यश्च॒ पूर्व॑ उ॒ताप॑रः ॥
वात॑स्य , अश्वः॑ , वा॒योः , सखा॑ , अथो॒ इति॑ , दे॒वऽइ॑षितः , मुनिः॑ । उ॒भौ , स॒मु॒द्रौ , आ , क्षे॒ति॒ , यः , च॒ , पूर्वः॑ , उ॒त , अप॑रः ॥
अ॒प्स॒रसां॑ गंध॒र्वाणां॑ मृ॒गाणां॒ चर॑णे॒ चर॑न् । के॒शी केत॑स्य वि॒द्वांत्सखा॑ स्वा॒दुर्म॒दिंत॑मः ॥
अ॒प्स॒रसां॑ , गं॒ध॒र्वाणां॑ , मृ॒गाणां॑ , चर॑णे , चर॑न् । के॒शी , केत॑स्य , वि॒द्वान् , सखा॑ , स्वा॒दुः , म॒दिन्ऽत॑मः ॥
वा॒युर॑स्मा॒ उपा॑मंथत्पि॒नष्टि॑ स्मा कुनन्न॒मा । के॒शी वि॒षस्य॒ पात्रे॑ण॒ यद्रु॒द्रेणापि॑बत्स॒ह ॥
वा॒युः , अ॒स्मै॒ , उप॑ , अ॒मं॒थ॒त् , पि॒नष्टि॑ , स्म॒ , कु॒न॒न्न॒मा । के॒शी , वि॒षस्य॑ , पात्रे॑ण , यत् , रु॒द्रेण॑ , अपि॑बत् , स॒ह ॥
[१३७] उतेति सप्तर्चस्य सूक्तस्य भरद्वाजः कश्यपोगौतमोत्रिर्विश्वामित्रोजमदग्निर्वसिष्ठ इतिक्रमेणैकर्चाऋषयो विश्वेदेवा अनुष्टुप् (भेदपक्षे-देवाः १ वातः ३ विश्वेदेवाः १ आपः २ एवं ७) |
उ॒त दे॑वा॒ अव॑हितं॒ देवा॒ उन्न॑यथा॒ पुनः॑ । उ॒ताग॑श्च॒क्रुषं॑ देवा॒ देवा॑ जी॒वय॑था॒ पुनः॑ ॥
उ॒त , दे॒वाः॒ , अव॑ऽहितं , देवाः॑ , उत् , न॒य॒थ॒ , पुन॒रिति॑ । उ॒त , आगः॑ , च॒क्रुषं॑ , दे॒वाः॒ , देवाः॑ , जी॒वय॑थ , पुन॒रिति॑ ॥
द्वावि॒मौ वातौ॑ वात॒ आ सिंधो॒रा प॑रा॒वतः॑ । दक्षं॑ ते अ॒न्य आ वा॑तु॒ परा॒न्यो वा॑तु॒ यद्रपः॑ ॥
द्वौ , इ॒मौ , वातौ॑ , वा॒तः॒ , आ , सिंधोः॑ , आ , प॒रा॒ऽवतः॑ । दक्षं॑ , ते॒ , अ॒न्यः , आ , वा॒तु॒ , परा॑ , अ॒न्यः , वा॒तु॒ , यत् , रपः॑ ॥
आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑ । त्वं हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑से ॥
आ , वा॒त॒ , वा॒हि॒ , भे॒ष॒जं , वि , वा॒त॒ , वा॒हि॒ , यत् , रपः॑ । त्वं , हि , वि॒श्वऽभे॑षजः , दे॒वानां॑ , दू॒तः , ईय॑से ॥
आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः । दक्षं॑ ते भ॒द्रमाभा॑र्षं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥
आ , त्वा॒ , अ॒ग॒मं॒ , शंता॑तिऽभिः , अथो॒ इति॑ , अ॒रि॒ष्टता॑तिऽभिः । दक्षं॑ , ते॒ , भ॒द्रं , आ , अ॒भा॒र्षं॒ , परा॑ , यक्ष्मं॑ , सु॒वा॒मि॒ , ते॒ ॥
त्रायं॑तामि॒ह दे॒वास्त्राय॑तां म॒रुतां॑ ग॒णः । त्रायं॑तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ॥
त्रायं॑तां , इ॒ह , दे॒वाः , त्राय॑तां , म॒रुतां॑ , ग॒णः । त्रायं॑तां , विश्वा॑ , भू॒तानि॑ , यथा॑ , अ॒यं , अ॒र॒पाः , अस॑त् ॥
आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः । आपः॒ सर्व॑स्य भेष॒जीस्तास्ते॑ कृण्वंतु भेष॒जं ॥
आपः॑ , इत् , वै , ऊँ॒ इति॑ , भे॒ष॒जीः , आपः॑ , अ॒मी॒व॒ऽचात॑नीः । आपः॑ , सर्व॑स्य , भे॒ष॒जीः , ताः , ते॒ , कृ॒ण्वं॒तु॒ , भे॒ष॒जं ॥
हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी । अ॒ना॒म॒यि॒त्नुभ्यां॑ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ॥
हस्ता॑भ्यां , दश॑ऽशाखाभ्यां , जि॒ह्वा , वा॒चः , पु॒रः॒ऽग॒वी । अ॒ना॒म॒यि॒त्नुऽभ्यां॑ , त्वा॒ , ताभ्यां॑ , त्वा॒ , उप॑ , स्पृ॒शा॒म॒सि॒ ॥
[१३८] तवत्यइति षडृचस्य सूक्तस्यौरवोंग इंद्रोजगती |
तव॒ त्य इं॑द्र स॒ख्येषु॒ वह्न॑य ऋ॒तं म॑न्वा॒ना व्य॑दर्दिरुर्व॒लं । यत्रा॑ दश॒स्यन्नु॒षसो॑ रि॒णन्न॒पः कुत्सा॑य॒ मन्म॑न्न॒ह्य॑श्च दं॒सयः॑ ॥
तव॑ , त्ये , इं॒द्र॒ , स॒ख्येषु॑ , वह्न॑यः , ऋ॒तं , म॒न्वा॒नाः , वि , अ॒द॒र्दि॒रुः॒ , व॒लं । यत्र॑ , द॒श॒स्यन् , उ॒षसः॑ , रि॒णन् , अ॒पः , कुत्सा॑य , मन्म॑न् , अ॒ह्यः॑ , च॒ , दं॒सयः॑ ॥
अवा॑सृजः प्र॒स्वः॑ श्वं॒चयो॑ गि॒रीनुदा॑ज उ॒स्रा अपि॑बो॒ मधु॑ प्रि॒यं । अव॑र्धयो व॒निनो॑ अस्य॒ दंस॑सा शु॒शोच॒ सूर्य॑ ऋ॒तजा॑तया गि॒रा ॥
अव॑ , अ॒सृ॒जः॒ , प्र॒ऽस्वः॑ , श्वं॒चयः॑ , गि॒रीन् , उत् , आ॒जः॒ , उ॒स्राः , अपि॑बः , मधु॑ , प्रि॒यं । अव॑र्धयः , व॒निनः॑ , अ॒स्य॒ , दंस॑सा , शु॒शोच॑ , सूर्यः॑ , ऋ॒तऽजा॑तया॑ , गि॒रा ॥
वि सूर्यो॒ मध्ये॑ अमुच॒द्रथं॑ दि॒वो वि॒दद्दा॒साय॑ प्रति॒मान॒मार्यः॑ । दृ॒ळ्हानि॒ पिप्रो॒रसु॑रस्य मा॒यिन॒ इंद्रो॒ व्या॑स्यच्चकृ॒वाँ ऋ॒जिश्व॑ना ॥
वि , सूर्यः॑ , मध्ये॑ , अ॒मु॒च॒त् , रथं॑ , दि॒वः , वि॒दत् , दा॒साय॑ , प्र॒ति॒ऽमानं॑ , आर्यः॑ । दृ॒ळ्हानि॑ , पिप्रोः॑ , असु॑रस्य , मा॒यिनः॑ , इंद्रः॑ , वि , आ॒स्य॒त् , च॒कृ॒ऽवान् , ऋ॒जिश्व॑ना ॥
अना॑धृष्टानि धृषि॒तो व्या॑स्यन्नि॒धीँरदे॑वाँ अमृणद॒यास्यः॑ । मा॒सेव॒ सूर्यो॒ वसु॒ पुर्य॒मा द॑दे गृणा॒नः शत्रूँ॑रशृणाद्वि॒रुक्म॑ता ॥
अना॑धृष्टानि , धृ॒षि॒तः , वि , आ॒स्य॒त् , नि॒ऽधीन् , अदे॑वान् , अ॒मृ॒ण॒त् , अ॒यास्यः॑ । मा॒साऽइ॑व , सूर्यः॑ , वसु॑ , पुर्यं॑ , आ , द॒दे॒ , गृ॒णा॒नः , शत्रू॑न् , अ॒शृ॒णा॒त् , वि॒रुक्म॑ता ॥
अयु॑द्धसेनो वि॒भ्वा॑ विभिंद॒ता दाश॑द्वृत्र॒हा तुज्या॑नि तेजते । इंद्र॑स्य॒ वज्रा॑दबिभेदभि॒श्नथः॒ प्राक्रा॑मच्छुं॒ध्यूरज॑हादु॒षा अनः॑ ॥
अयु॑द्धऽसेनः , वि॒ऽभ्वा॑ , वि॒ऽभिं॒द॒ता , दाश॑त् , वृ॒त्र॒ऽहा , तुज्या॑नि , ते॒ज॒ते॒ । इंद्र॑स्य , वज्रा॑त् , अ॒बि॒भे॒त् , अ॒भि॒ऽश्नथः॑ , प्र , अ॒क्रा॒म॒त् , शुं॒ध्यूः , अज॑हात् , उ॒षाः , अनः॑ ॥
ए॒ता त्या ते॒ श्रुत्या॑नि॒ केव॑ला॒ यदेक॒ एक॒मकृ॑णोरय॒ज्ञं । मा॒सां वि॒धान॑मदधा॒ अधि॒ द्यवि॒ त्वया॒ विभि॑न्नं भरति प्र॒धिं पि॒ता ॥
ए॒ता , त्या , ते॒ , श्रुत्या॑नि , केव॑ला , यत् , एकः॑ , एकं॑ , अकृ॑णोः , अ॒य॒ज्ञं । मा॒सां , वि॒ऽधानं॑ , अ॒द॒धाः॒ , अधि॑ , द्यवि॑ , त्वया॑ , विऽभि॑न्नं , भ॒र॒ति॒ , प्र॒ऽधिं , पि॒ता ॥
[१३९] सूर्यरश्मिरिति षडृचस्य सूक्तस्य देवगंधर्वोविश्वावसुः सवितांत्यतिसृणां देवगंधर्वोविश्वावसुस्त्रिष्टुप् |
सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒ अज॑स्रं । तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वांत्सं॒पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥
सूर्य॑ऽरश्मिः , हरि॑ऽकेशः , पु॒रस्ता॑त् , स॒वि॒ता , ज्योतिः॑ , उत् , अ॒या॒न् , अज॑स्रं । तस्य॑ , पू॒षा , प्र॒ऽस॒वे , या॒ति॒ , वि॒द्वान् , सं॒ऽपश्य॑न् , विश्वा॑ , भुव॑नानि , गो॒पाः ॥
नृ॒चक्षा॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अं॒तरि॑क्षं । स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रंत॒रा पूर्व॒मप॑रं च के॒तुं ॥
नृ॒ऽचक्षाः॑ , ए॒षः , दि॒वः , मध्ये॑ , आ॒स्ते॒ , आ॒प॒प्रि॒ऽवान् , रोद॑सी॒ इति॑ , अं॒तरि॑क्षं । सः , वि॒श्वाचीः॑ , अ॒भि , च॒ष्टे॒ , घृ॒ताचीः॑ , अं॒त॒रा , पूर्वं॑ , अप॑रं , च॒ , के॒तुं ॥
रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेंद्रो॒ न त॑स्थौ सम॒रे धना॑नां ॥
रा॒यः , बु॒ध्नः , सं॒ऽगम॑नः , वसू॑नां , विश्वा॑ , रू॒पा , अ॒भि , च॒ष्टे॒ , शची॑भिः । दे॒वःऽइ॑व , स॒वि॒ता , स॒त्यऽध॑र्मा , इंद्रः॑ , न , त॒स्थौ॒ , सं॒ऽअ॒रे , धना॑नां ॥
वि॒श्वाव॑सुं सोम गंध॒र्वमापो॑ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या॑यन् । तद॒न्ववै॒दिंद्रो॑ रारहा॒ण आ॑सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ॥
वि॒श्वऽव॑सुं , सो॒म॒ , गं॒ध॒र्वं , आपः॑ , द॒दृ॒शुषीः॑ , तत् , ऋ॒तेन॑ , वि , आ॒य॒न् । तत् , अ॒नु॒ऽअवै॑त् , इंद्रः॑ , र॒र॒हा॒णः , आ॒सां॒ , परि॑ , सूर्य॑स्य , प॒रि॒ऽधीन् , अ॒प॒श्य॒त् ॥
वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु दि॒व्यो गं॑ध॒र्वो रज॑सो वि॒मानः॑ । यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्याः ॥
वि॒श्वऽव॑सुः , अ॒भि , तत् , नः॒ , गृ॒णा॒तु॒ , दि॒व्यः , गं॒ध॒र्वः , रज॑सः , वि॒ऽमानः॑ । यत् , वा॒ , घ॒ , स॒त्यं , उ॒त , यत् , न , वि॒द्म , धियः॑ , हि॒न्वा॒नः , धियः॑ , इत् , नः॒ , अ॒व्याः॒ ॥
सस्नि॑मविंद॒च्चर॑णे न॒दीना॒मपा॑वृणो॒द्दुरो॒ अश्म॑व्रजानां । प्रासां॑ गंध॒र्वो अ॒मृता॑नि वोच॒दिंद्रो॒ दक्षं॒ परि॑ जानाद॒हीनां॑ ॥
सस्निं॑ , अ॒विं॒द॒त् , चर॑णे , न॒दीनां॑ , अप॑ , अ॒वृ॒णो॒त् , दुरः॑ , अश्म॑ऽव्रजानां । प्र , आ॒सां॒ , गं॒ध॒र्वः , अ॒मृता॑नि , वो॒च॒त् , इंद्रः॑ , दक्षं॑ , परि॑ , जा॒ना॒त् , अ॒हीनां॑ ॥
[१४०] अग्नेतवेति षडृचस्य सूक्तस्य पावकोग्निरग्निः सतोबृहती आध्येविष्टारपंक्ती अंत्योपरिष्टाज्ज्योतिः |
अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजंते अ॒र्चयो॑ विभावसो । बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं१॒॑ दधा॑सि दा॒शुषे॑ कवे ॥
अग्ने॑ , तव॑ , श्रवः॑ , वयः॑ , महि॑ , भ्रा॒जं॒ते॒ , अ॒र्चयः॑ , वि॒भा॒व॒सो॒ इति॑ विभाऽवसो । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो , शव॑सा , वाजं॑ , उ॒क्थ्यं॑ , दधा॑सि , दा॒शुषे॑ , क॒वे॒ ॥
पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ । पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सी उ॒भे ॥
पा॒व॒कऽव॑र्चाः , शु॒क्रऽव॑र्चाः , अनू॑नऽवर्चाः , उत् , इ॒य॒र्षि॒ , भा॒नुना॑ । पु॒त्रः , मा॒तरा॑ , वि॒ऽचर॑न् , उप॑ , अ॒व॒सि॒ , पृ॒णक्षि॑ , रोद॑सी॒ इति॑ , उ॒भे इति॑ ॥
ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मंद॑स्व धी॒तिभि॑र्हि॒तः । त्वे इषः॒ सं द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः ॥
ऊर्जः॑ , न॒पा॒त् , जा॒त॒ऽवे॒दः॒ , सु॒श॒स्तिऽभिः॑ , मंद॑स्व , धी॒तिऽभिः॑ , हि॒तः । त्वे इति॑ , इषः॑ , सं , द॒धुः॒ , भूरि॑ऽवर्पसः , चि॒त्रऽऊ॑तयः , वा॒मऽजा॑ताः ॥
इ॒र॒ज्यन्न॑ग्ने प्रथयस्व जं॒तुभि॑र॒स्मे रायो॑ अमर्त्य । स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतुं॑ ॥
इ॒र॒ज्यन् , अ॒ग्ने॒ , प्र॒थ॒य॒स्व॒ , जं॒तुऽभिः॑ , अ॒स्मे इति॑ , रायः॑ , अ॒म॒र्त्य॒ । सः , द॒र्श॒तस्य॑ , वपु॑षः , वि , रा॒ज॒सि॒ , पृ॒णक्षि॑ , सा॒न॒सिं , क्रतुं॑ ॥
इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षयं॑तं॒ राध॑सो म॒हः । रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिं र॒यिं ॥
इ॒ष्क॒र्तारं॑ , अ॒ध्व॒रस्य॑ , प्रऽचे॑तसं , क्षयं॑तं , राध॑सः , म॒हः । रा॒तिं , वा॒मस्य॑ , सु॒ऽभगां॑ , म॒हीं , इषं॑ , दधा॑सि , सा॒न॒सिं , र॒यिं ॥
ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जनाः॑ । श्रुत्क॑र्णं स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ॥
ऋ॒तऽवा॑नं , म॒हि॒षं , वि॒श्वऽद॑र्शतं , अ॒ग्निं , सु॒म्नाय॑ , द॒धि॒रे॒ , पु॒रः , जनाः॑ । श्रुत्ऽक॑र्णं , स॒प्रथः॑ऽतमं , त्वा॒ , गि॒रा , दैव्यं॑ , मानु॑षा , यु॒गा ॥
[१४१] अग्नेअच्छेति षडृचस्य सूक्तस्य तापसोग्निर्विश्वेदेवा अनुष्टुप् |
अग्ने॒ अच्छा॑ वदे॒ह नः॑ प्र॒त्यङ्नः॑ सु॒मना॑ भव । प्र नो॑ यच्छ विशस्पते धन॒दा अ॑सि न॒स्त्वं ॥
अग्ने॑ , अच्छ॑ , व॒द॒ , इ॒ह , नः॒ , प्र॒त्यङ् , नः॒ , सु॒ऽमनाः॑ , भ॒व॒ । प्र , नः॒ , य॒च्छ॒ , वि॒शः॒ , प॒ते॒ , ध॒न॒ऽदाः , अ॒सि॒ , नः॒ , त्वं ॥
प्र नो॑ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ । प्र दे॒वाः प्रोत सू॒नृता॑ रा॒यो दे॒वी द॑दातु नः ॥
प्र , नः॒ , य॒च्छ॒तु॒ , अ॒र्य॒मा , प्र , भगः॑ , प्र , बृह॒स्पतिः॑ । प्र , दे॒वाः , प्र , उ॒त , सू॒नृता॑ , रा॒यः , दे॒वी , द॒दा॒तु॒ , नः॒ ॥
सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे । आ॒दि॒त्यान्विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पतिं॑ ॥
सोमं॑ , राजा॑नं , अव॑से , अ॒ग्निं , गीः॒ऽभिः , ह॒वा॒म॒हे॒ । आ॒दि॒त्यान् , विष्णुं॑ , सूर्यं॑ , ब्र॒ह्माणं॑ , च॒ , बृह॒स्पतिं॑ ॥
इं॒द्र॒वा॒यू बृह॒स्पतिं॑ सु॒हवे॒ह ह॑वामहे । यथा॑ नः॒ सर्व॒ इज्जनः॒ संग॑त्यां सु॒मना॒ अस॑त् ॥
इं॒द्र॒वा॒यू इति॑ , बृह॒स्पतिं॑ , सु॒ऽहवा॑ , इ॒ह , ह॒वा॒म॒हे॒ । यथा॑ , नः॒ , सर्वः॑ , इत् , जनः॑ , संऽग॑त्यां , सु॒ऽमनाः॑ , अस॑त् ॥
अ॒र्य॒मणं॒ बृह॒स्पति॒मिंद्रं॒ दाना॑य चोदय । वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं॑ च वा॒जिनं॑ ॥
अ॒र्य॒मणं॑ , बृह॒स्पतिं॑ , इंद्रं॑ , दाना॑य , चो॒द॒य॒ । वातं॑ , विष्णुं॑ , सर॑स्वतीं , स॒वि॒तारं॑ , च॒ , वा॒जिनं॑ ॥
त्वं नो॑ अग्ने अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं च॑ वर्धय । त्वं नो॑ दे॒वता॑तये रा॒यो दाना॑य चोदय ॥
त्वं , नः॒ , अ॒ग्ने॒ , अ॒ग्निऽभिः॑ , ब्रह्म॑ , य॒ज्ञं , च॒ , व॒र्ध॒य॒ । त्वं , नः॒ , दे॒वऽता॑तये , रा॒यः , दाना॑य , चो॒द॒य॒ ॥
[१४२] अयमग्नइत्यष्टर्चस्य सूक्तस्य प्रथमयोः शार्ङ्गोजरिता तृतीयाचतुर्थ्योः शार्ङ्गोद्रोणः पंचमीषष्ट्योः शार्ङ्गःसारिसृक्कः सप्तम्यष्टम्योः शार्ङ्गस्तंबमित्रोग्निस्त्रिष्टुप् आद्येजगत्यावंत्येअनुष्टुभौ |
अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॒॑न्यदस्त्याप्यं॑ । भ॒द्रं हि शर्म॑ त्रि॒वरू॑थ॒मस्ति॑ त आ॒रे हिंसा॑ना॒मप॑ दि॒द्युमा कृ॑धि ॥
अ॒यं , अ॒ग्ने॒ , ज॒रि॒ता , त्वे इति॑ , अ॒भू॒त् , अपि॑ , सह॑सः , सू॒नो॒ इति॑ , न॒हि , अ॒न्यत् , अस्ति॑ , आप्यं॑ । भ॒द्रं , हि , शर्म॑ , त्रि॒ऽवरू॑थं , अस्ति॑ , ते॒ , आ॒रे , हिंसा॑नां , अप॑ , दि॒द्युं , आ , कृ॒धि॒ ॥
प्र॒वत्ते॑ अग्ने॒ जनि॑मा पितूय॒तः सा॒चीव॒ विश्वा॒ भुव॑ना॒ न्यृं॑जसे । प्र सप्त॑यः॒ प्र स॑निषंत नो॒ धियः॑ पु॒रश्च॑रंति पशु॒पा इ॑व॒ त्मना॑ ॥
प्र॒ऽवत् , ते॒ , अ॒ग्ने॒ , जनि॑म , पि॒तु॒ऽय॒तः , सा॒चीऽइ॑व , विश्वा॑ , भुव॑ना , नि , ऋं॒ज॒से॒ । प्र , सप्त॑यः , प्र , स॒नि॒षं॒त॒ , नः॒ , धियः॑ , पु॒रः , च॒रं॒ति॒ , प॒शु॒पाःऽइ॑व , त्मना॑ ॥
उ॒त वा उ॒ परि॑ वृणक्षि॒ बप्स॑द्ब॒होर॑ग्न॒ उल॑पस्य स्वधावः । उ॒त खि॒ल्या उ॒र्वरा॑णां भवंति॒ मा ते॑ हे॒तिं तवि॑षीं चुक्रुधाम ॥
उ॒त , वै , ऊँ॒ इति॑ , परि॑ , वृ॒ण॒क्षि॒ , बप्स॑त् , ब॒होः , अ॒ग्ने॒ , उल॑पस्य , स्व॒धा॒ऽवः॒ । उ॒त , खि॒ल्याः , उ॒र्वरा॑णां , भ॒वं॒ति॒ , मा , ते॒ , हे॒तिं , तवि॑षीं , चु॒क्रु॒धा॒म॒ ॥
यदु॒द्वतो॑ नि॒वतो॒ यासि॒ बप्स॒त्पृथ॑गेषि प्रग॒र्धिनी॑व॒ सेना॑ । य॒दा ते॒ वातो॑ अनु॒वाति॑ शो॒चिर्वप्ते॑व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ॥
यत् , उ॒त्ऽवतः॑ , नि॒ऽवतः॑ , या॒सि॒ , बप्स॑त् , पृथ॑क् , ए॒षि॒ , प्र॒ग॒र्धिनी॑ऽइव , सेना॑ । य॒दा , ते॒ , वातः॑ , अ॒नु॒ऽवाति॑ , शो॒चिः , वप्ता॑ऽइव , श्मश्रु॑ , व॒प॒सि॒ , प्र , भूम॑ ॥
प्रत्य॑स्य॒ श्रेण॑यो ददृश्र॒ एकं॑ नि॒यानं॑ ब॒हवो॒ रथा॑सः । बा॒हू यद॑ग्ने अनु॒मर्मृ॑जानो॒ न्य॑ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमिं॑ ॥
प्रति॑ , अ॒स्य॒ , श्रेण॑यः , द॒दृ॒श्रे॒ , एकं॑ , नि॒ऽयानं॑ , ब॒हवः॑ , रथा॑सः । बा॒हू इति॑ , यत् , अ॒ग्ने॒ , अ॒नु॒ऽमर्मृ॑जानः , न्य॑ङ् , उ॒त्ता॒नां , अ॒नु॒ऽएषि॑ , भूमिं॑ ॥
उत्ते॒ शुष्मा॑ जिहता॒मुत्ते॑ अ॒र्चिरुत्ते॑ अग्ने शशमा॒नस्य॒ वाजाः॑ । उच्छ्वं॑चस्व॒ नि न॑म॒ वर्ध॑मान॒ आ त्वा॒द्य विश्वे॒ वस॑वः सदंतु ॥
उत् , ते॒ , शुष्माः॑ , जि॒ह॒तां॒ , उत् , ते॒ , अ॒र्चिः , उत् , ते॒ , अ॒ग्ने॒ , श॒श॒मा॒नस्य॑ , वाजाः॑ । उत् , श्वं॒च॒स्व॒ , नि , न॒म॒ , वर्ध॑मानः , आ , त्वा॒ , अ॒द्य , विश्वे॑ , वस॑वः , स॒दं॒तु॒ ॥
अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नं । अ॒न्यं कृ॑णुष्वे॒तः पंथां॒ तेन॑ याहि॒ वशाँ॒ अनु॑ ॥
अ॒पां , इ॒दं , नि॒ऽअय॑नं , स॒मु॒द्रस्य॑ , नि॒ऽवेश॑नं । अ॒न्यं , कृ॒णु॒ष्व॒ , इ॒तः , पंथां॑ , तेन॑ , या॒हि॒ , वशा॑न् , अनु॑ ॥
आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहंतु पु॒ष्पिणीः॑ । ह्र॒दाश्च॑ पुं॒डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥
आ॒ऽअय॑ने , ते॒ , प॒रा॒ऽअय॑ने , दूर्वाः॑ , रो॒हं॒तु॒ , पु॒ष्पिणीः॑ । ह्र॒दाः , च॒ , पुं॒डरी॑काणि , स॒मु॒द्रस्य॑ , गृ॒हाः , इ॒मे ॥
[१४३] त्यंचिदिति षडृचस्य सूक्तस्य सांख्योत्रिरश्विनावनुष्टुप् |
त्यं चि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒ न यात॑वे । क॒क्षीवं॑तं॒ यदी॒ पुना॒ रथं॒ न कृ॑णु॒थो नवं॑ ॥
त्यं , चि॒त् , अत्रिं॑ , ऋ॒त॒ऽजुरं॑ , अर्थं॑ , अश्वं॑ , न , यात॑वे । क॒क्षीवं॑तं , यदि॑ , पुन॒रिति॑ , रथं॑ , न , कृ॒णु॒थः , नवं॑ ॥
त्यं चि॒दश्वं॒ न वा॒जिन॑मरे॒णवो॒ यमत्न॑त । दृ॒ळ्हं ग्रं॒थिं न वि ष्य॑त॒मत्रिं॒ यवि॑ष्ठ॒मा रजः॑ ॥
त्यं , चि॒त् , अश्वं॑ , न , वा॒जिनं॑ , अ॒रे॒णवः॑ , यं , अत्न॑त । दृ॒ळ्हं , ग्रं॒थिं , न , वि , स्य॒तं॒ , अत्रिं॑ , यवि॑ष्ठं , आ , रजः॑ ॥
नरा॒ दंसि॑ष्ठा॒वत्र॑ये॒ शुभ्रा॒ सिषा॑सतं॒ धियः॑ । अथा॒ हि वां॑ दि॒वो न॑रा॒ पुनः॒ स्तोमो॒ न वि॒ऽशसे॑ ॥
नरा॑ , दंसि॑ष्ठौ , अत्र॑ये , शुभ्रा॑ , सिसा॑सतं , धियः॑ । अथ॑ , हि , वां॒ , दि॒वः , न॒रा॒ , पुन॒रिति॑ , स्तोमः॑ , न , वि॒शसे॑ ॥
चि॒ते तद्वां॑ सुराधसा रा॒तिः सु॑म॒तिर॑श्विना । आ यन्नः॒ सद॑ने पृ॒थौ सम॑ने॒ पर्ष॑थो नरा ॥
चि॒ते , तत् , वां॒ , सु॒ऽरा॒ध॒सा॒ , रा॒तिः , सु॒ऽम॒तिः , अ॒श्वि॒ना॒ । आ , यत् , नः॒ , सद॑ने , पृ॒थौ , सम॑ने , पर्ष॑थः , न॒रा॒ ॥
यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ईं॑खि॒तं । या॒तमच्छा॑ पत॒त्रिभि॒र्नास॑त्या सा॒तये॑ कृतं ॥
यु॒वं , भु॒ज्युं , स॒मु॒द्रे , आ , रज॑सः , पा॒रे , ईं॒खि॒तं । या॒तं , अच्छ॑ , प॒त॒त्रिऽभिः॑ , नास॑त्या , सा॒तये॑ , कृ॒तं॒ ॥
आ वां॑ सु॒म्नैः शं॒यू इ॑व॒ मंहि॑ष्ठा॒ विश्व॑वेदसा । सम॒स्मे भू॑षतं न॒रोत्सं॒ न पि॒प्युषी॒रिषः॑ ॥
आ , वां॒ , सु॒म्नैः , शं॒यू इ॒वेति॑ शं॒यूऽइ॑व , मंहि॑ष्ठा , विश्व॑ऽवेदसा । सं , अ॒स्मे इति॑ , भू॒ष॒तं॒ , न॒रा॒ , उत्सं॑ , न , पि॒प्युषीः॑ , इषः॑ ॥
[१४४] अयंहीति षडृचस्य सूक्तस्य तार्क्ष्यपुत्रः सुपर्णइंद्रो गायत्री द्वितीयाबृहती पंचमीसतोबृहती षष्ठीविष्टारपंक्तिः (यामायन ऊर्ध्वकृशनोवात्रऋषिः) |
अ॒यं हि ते॒ अम॑र्त्य॒ इंदु॒रत्यो॒ न पत्य॑ते । दक्षो॑ वि॒श्वायु॑र्वे॒धसे॑ ॥
अ॒यं , हि , ते॒ , अम॑र्त्यः , इंदुः॑ , अत्यः॑ , न , पत्य॑ते । दक्षः॑ , वि॒श्वऽआ॑युः , वे॒धसे॑ ॥
अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते । अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मदं॑ ॥
अ॒यं , अ॒स्मासु॑ , काव्यः॑ , ऋ॒भुः , वज्रः॑ , दास्व॑ते । अ॒यं , बि॒भ॒र्ति॒ , ऊ॒र्ध्वऽकृ॑शनं , मदं॑ , ऋ॒भुः , न , कृत्व्यं॑ , मदं॑ ॥
घृषुः॑ श्ये॒नाय॒ कृत्व॑न आ॒सु स्वासु॒ वंस॑गः । अव॑ दीधेदही॒शुवः॑ ॥
घृषुः॑ , श्ये॒नाय॑ , कृत्व॑ने , आ॒सु , स्वासु॑ , वंस॑गः । अव॑ , दी॒धे॒त् , अ॒ही॒शुवः॑ ॥
यं सु॑प॒र्णः प॑रा॒वतः॑ श्ये॒नस्य॑ पु॒त्र आभ॑रत् । श॒तच॑क्रं॒ यो॒३॒॑ऽह्यो॑ वर्त॒निः ॥
यं , सु॒ऽप॒र्णः , प॒रा॒ऽवतः॑ , श्ये॒नस्य॑ , पु॒त्रः , आ , अभ॑रत् । श॒तऽच॑क्रं , यः , अ॒ह्यः॑ , व॒र्त॒निः ॥
यं ते॑ श्ये॒नश्चारु॑मवृ॒कं प॒दाभ॑रदरु॒णं मा॒नमंध॑सः । ए॒ना वयो॒ वि ता॒र्यायु॑र्जी॒वस॑ ए॒ना जा॑गार बं॒धुता॑ ॥
यं , ते॒ , श्ये॒नः , चारुं॑ , अ॒वृ॒कं , प॒दा , आ , अभ॑रत् , अ॒रु॒णं , मा॒नं , अंध॑सः । ए॒ना , वयः॑ , वि , ता॒रि॒ , आयुः॑ , जी॒वसे॑ , ए॒ना , जा॒गा॒र॒ , बं॒धुता॑ ॥
ए॒वा तदिंद्र॒ इंदु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यजः॑ । क्रत्वा॒ वयो॒ वि ता॒र्यायुः॑ सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ॥
ए॒व , तत् , इंद्रः॑ , इंदु॑ना , दे॒वेषु॑ , चि॒त् , धा॒र॒या॒ते॒ , महि॑ , त्यजः॑ । क्रत्वा॑ , वयः॑ , वि , ता॒रि॒ , आयुः॑ , सु॒क्र॒तो॒ इति॑ सुऽक्रतो , क्रत्वा॑ , अ॒यं , अ॒स्मत् , आ , सु॒तः ॥
[१४५] इमामिति षडृचस्य सूक्तस्येंद्राणीसपत्नीनाशनमनुष्टुबंत्यापंक्तिः |
इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधं॒ बल॑वत्तमां । यया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ संविं॒दते॒ पतिं॑ ॥
इ॒मां , ख॒ना॒मि॒ , ओष॑धिं , वी॒रुधं॑ , बल॑वत्ऽतमां । यया॑ , स॒ऽपत्नीं॑ , बाध॑ते , यया॑ , सं॒ऽविं॒दते॑ , पतिं॑ ॥
उत्ता॑नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति । स॒पत्नीं॑ मे॒ परा॑ धम॒ पतिं॑ मे॒ केव॑लं कुरु ॥
उत्ता॑नऽपर्णे , सुऽभ॑गे , देव॑ऽजूते , सह॑स्वति । स॒ऽपत्नीं॑ , मे॒ , परा॑ , ध॒म॒ , पतिं॑ , मे॒ , केव॑लं , कु॒रु॒ ॥
उत्त॑रा॒हमु॑त्तर॒ उत्त॒रेदुत्त॑राभ्यः । अथा॑ स॒पत्नी॒ या ममाध॑रा॒ साध॑राभ्यः ॥
उत्ऽत॑रा , अ॒हं , उ॒त्ऽत॒रे॒ , उ॒त्ऽत॒रा , इत् , उत्ऽत॑राभ्यः । अथ॑ , स॒ऽपत्नी॑ , या , मम॑ , अध॑रा , सा , अध॑राभ्यः ॥
न॒ह्य॑स्या॒ नाम॑ गृ॒भ्णामि॒ नो अ॒स्मिन्र॑मते॒ जने॑ । परा॑मे॒व प॑रा॒वतं॑ स॒पत्नीं॑ गमयामसि ॥
न॒हि , अ॒स्याः॒ , नाम॑ , गृ॒भ्णामि॑ , नो इति॑ , अ॒स्मिन् , र॒म॒ते॒ , जने॑ । परां॑ , ए॒व , प॒रा॒ऽवतं॑ , स॒ऽपत्नीं॑ , ग॒म॒या॒म॒सि॒ ॥
अ॒हम॑स्मि॒ सह॑मा॒नाथ॒ त्वम॑सि सास॒हिः । उ॒भे सह॑स्वती भू॒त्वी स॒पत्नीं॑ मे सहावहै ॥
अ॒हं , अ॒स्मि॒ , सह॑माना , अथ॑ , त्वं , अ॒सि॒ , स॒स॒हिः । उ॒भे इति॑ , सह॑स्वती॒ इति॑ , भू॒त्वी , स॒ऽपत्नीं॑ , मे॒ , स॒हा॒व॒है॒ ॥
उप॑ तेऽधां॒ सह॑मानाम॒भि त्वा॑धां॒ सही॑यसा । मामनु॒ प्र ते॒ मनो॑ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ॥
उप॑ , ते॒ , अ॒धां॒ , सह॑मानां , अ॒भि , त्वा॒ , अ॒धां॒ , सही॑यसा । मां , अनु॑ , प्र , ते॒ , मनः॑ , व॒त्सं , गौःऽइ॑व , धा॒व॒तु॒ , प॒था , वाःऽइ॑व , धा॒व॒तु॒ ॥
[१४६] अरण्यानीति षडृचस्य सूक्तस्यैरंमदोदेवमुनिररण्यान्यनुष्टुप् |
अर॑ण्या॒न्यर॑ण्यान्य॒सौ या प्रेव॒ नश्य॑सि । क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विंदती३ँ ॥
अर॑ण्यानि , अर॑ण्यान्यि , अ॒सौ , या , प्रऽइ॑व , नश्य॑सि । क॒था , ग्रामं॑ , न , पृ॒च्छ॒सि॒ , न , त्वा॒ , भीःऽइ॑व , विं॒द॒ती॒३ँ ॥
वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः । आ॒घा॒टिभि॑रिव धा॒वय॑न्नरण्या॒निर्म॑हीयते ॥
वृ॒ष॒ऽर॒वाय॑ , वद॑ते , यत् , उ॒प॒ऽअव॑ति , चि॒च्चि॒कः । आ॒घा॒टिभिः॑ऽइव , धा॒वय॑न् , अ॒र॒ण्या॒निः , म॒ही॒य॒ते॒ ॥
उ॒त गाव॑ इवादंत्यु॒त वेश्मे॑व दृश्यते । उ॒तो अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ॥
उ॒त , गावः॑ऽइव , अ॒दं॒ति॒ , उ॒त , वेश्म॑ऽइव , दृ॒श्य॒ते॒ । उ॒तो इति॑ , अ॒र॒ण्या॒निः , सा॒यं , श॒क॒टीःऽइ॑व , स॒र्ज॒ति॒ ॥
गामं॒गैष आ ह्व॑यति॒ दार्वं॒गैषो अपा॑वधीत् । वस॑न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ॥
गां , अं॒ग , ए॒षः , आ , ह्व॒य॒ति॒ , दारु॑ , अं॒ग , ए॒षः , अप॑ , अ॒व॒धी॒त् । वस॑न् , अ॒र॒ण्या॒न्यां , सा॒यं , अक्रु॑क्षत् , इति॑ , म॒न्य॒ते॒ ॥
न वा अ॑रण्या॒निर्हं॑त्य॒न्यश्चेन्नाभि॒गच्छ॑ति । स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ॥
न , वै , अ॒र॒ण्या॒निः , हं॒ति॒ , अ॒न्यः , च॒ , इत् , न , अ॒भि॒ऽगच्छ॑ति । स्वा॒दोः , फल॑स्य , ज॒ग्ध्वाय॑ , य॒था॒ऽकामं॑ , नि , प॒द्य॒ते॒ ॥
आंज॑नगंधिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलां । प्राहं मृ॒गाणां॑ मा॒तर॑मरण्या॒निम॑शंसिषं ॥
आंज॑नऽगंधिं , सु॒र॒भिं , ब॒हु॒ऽअ॒न्नां , अकृ॑षिऽवलां । प्र , अ॒हं , मृ॒गाणां॑ , मा॒तरं॑ , अ॒र॒ण्या॒निं , अ॒शं॒सि॒षं॒ ॥
[१४७] श्रत्तइति पंचर्चस्य सूक्तस्य शैरीषिः सुवेदाइंद्रोजगत्यंत्यात्रिष्टुप् |
श्रत्ते॑ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं॑ वि॒वेर॒पः । उ॒भे यत्त्वा॒ भव॑तो॒ रोद॑सी॒ अनु॒ रेज॑ते॒ शुष्मा॑त्पृथि॒वी चि॑दद्रिवः ॥
श्रत् , ते॒ , द॒धा॒मि॒ , प्र॒थ॒माय॑ , म॒न्यवे॑ , अह॑न् , यत् , वृ॒त्रं , नर्यं॑ , वि॒वेः , अ॒पः । उ॒भे इति॑ , यत् , त्वा॒ , भव॑तः , रोद॑सी॒ इति॑ , अनु॑ , रेज॑ते , शुष्मा॑त् , पृ॒थि॒वी , चि॒त् , अ॒द्रि॒ऽवः॒ ॥
त्वं मा॒याभि॑रनवद्य मा॒यिनं॑ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः । त्वामिन्नरो॑ वृणते॒ गवि॑ष्टिषु॒ त्वां विश्वा॑सु॒ हव्या॒स्विष्टि॑षु ॥
त्वं , मा॒याभिः॑ , अ॒न॒व॒द्य॒ , मा॒यिनं॑ , श्र॒व॒स्य॒ता , मन॑सा , वृ॒त्रं , अ॒र्द॒यः॒ । त्वां , इत् , नरः॑ , वृ॒ण॒ते॒ , गोऽइ॑ष्टिषु , त्वां , विश्वा॑सु , हव्या॑सु , इष्टि॑षु ॥
ऐषु॑ चाकंधि पुरुहूत सू॒रिषु॑ वृ॒धासो॒ ये म॑घवन्नान॒शुर्म॒घं । अर्चं॑ति तो॒के तन॑ये॒ परि॑ष्टिषु मे॒धसा॑ता वा॒जिन॒मह्र॑ये॒ धने॑ ॥
आ , ए॒षु॒ , चा॒कं॒धि॒ , पु॒रु॒ऽहू॒त॒ , सू॒रिषु॑ , वृ॒धासः॑ , ये , म॒घ॒ऽव॒न् , आ॒न॒शुः , म॒घं । अर्चं॑ति , तो॒के , तन॑ये , परि॑ष्टिषु , मे॒धऽसा॑ता , वा॒जिनं॑ , अह्र॑ये , धने॑ ॥
स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो अ॑स्य॒ रंह्यं॒ चिके॑तति । त्वावृ॑धो मघवंदा॒श्व॑ध्वरो म॒क्षू स वाजं॑ भरते॒ धना॒ नृभिः॑ ॥
सः , इत् , नु , रा॒यः , सुऽभृ॑तस्य , चा॒क॒न॒त् , मदं॑ , यः , अ॒स्य॒ , रंह्यं॑ , चिके॑तति । त्वाऽवृ॑धः , म॒घ॒ऽव॒न् , दा॒शुऽअ॑ध्वरः , म॒क्षु , सः , वाजं॑ , भ॒र॒ते॒ , धना॑ , नृऽभिः॑ ॥
त्वं शर्धा॑य महि॒ना गृ॑णा॒न उ॒रु कृ॑धि मघवंछ॒ग्धि रा॒यः । त्वं नो॑ मि॒त्रो वरु॑णो॒ न मा॒यी पि॒त्वो न द॑स्म दयसे विभ॒क्ता ॥
त्वं , शर्धा॑य , म॒हि॒ना , गृ॒णा॒नः , उ॒रु , कृ॒धि॒ , म॒घ॒ऽव॒न् , श॒ग्धि , रा॒यः । त्वं , नः॒ , मि॒त्रः , वरु॑णः , न , मा॒यी , पि॒त्वः , न , द॒स्म॒ , द॒य॒से॒ , वि॒ऽभ॒क्ता ॥
[१४८] सुष्वाणासइति पंचर्चस्य सूक्तस्य वैन्यः पृथुरिंद्रस्त्रिष्टुप् |
सु॒ष्वा॒णास॑ इंद्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाजं॑ । आ नो॑ भर सुवि॒तं यस्य॑ चा॒कंत्मना॒ तना॑ सनुयाम॒ त्वोताः॑ ॥
सु॒स्वा॒नासः॑ , इं॒द्र॒ , स्तु॒मसि॑ , त्वा॒ , स॒स॒ऽवांसः॑ , च॒ , तु॒वि॒ऽनृ॒म्ण॒ , वाजं॑ । आ , नः॒ , भ॒र॒ , सु॒वि॒तं , यस्य॑ , चा॒कन् , त्मना॑ , तना॑ , स॒नु॒या॒म॒ , त्वाऽऊ॑ताः ॥
ऋ॒ष्वस्त्वमिं॑द्र शूर जा॒तो दासी॒र्विशः॒ सूर्ये॑ण सह्याः । गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु बि॑भृ॒मसि॑ प्र॒स्रव॑णे॒ न सोमं॑ ॥
ऋ॒ष्वः , त्वं , इं॒द्र॒ , शू॒र॒ , जा॒तः , दासीः॑ , विशः॑ , सूर्ये॑ण , स॒ह्याः॒ । गुहा॑ , हि॒तं , गुह्यं॑ , गू॒ळ्हं , अ॒प्ऽसु , बि॒भृ॒मसि॑ , प्र॒ऽस्रव॑णे , न , सोमं॑ ॥
अ॒र्यो वा॒ गिरो॑ अ॒भ्य॑र्च वि॒द्वानृषी॑णां॒ विप्रः॑ सुम॒तिं च॑का॒नः । ते स्या॑म॒ ये र॒णयं॑त॒ सोमै॑रे॒नोत तुभ्यं॑ रथोळ्ह भ॒क्षैः ॥
अ॒र्यः , वा॒ , गिरः॑ , अ॒भि , अ॒र्च॒ , वि॒द्वान् , ऋषी॑णां , विप्रः॑ , सु॒ऽम॒तिं , च॒का॒नः । ते , स्या॒म॒ , ये , र॒णयं॑त , सोमैः॑ , ए॒ना , उ॒त , तुभ्यं॑ , र॒थ॒ऽओ॒ळ्ह॒ , भ॒क्षैः ॥
इ॒मा ब्रह्में॑द्र॒ तुभ्यं॑ शंसि॒ दा नृभ्यो॑ नृ॒णां शू॑र॒ शवः॑ । तेभि॑र्भव॒ सक्र॑तु॒र्येषु॑ चा॒कन्नु॒त त्रा॑यस्व गृण॒त उ॒त स्तीन् ॥
इ॒मा , ब्रह्म॑ , इं॒द्र॒ , तुभ्यं॑ , शं॒सि॒ , दाः , नृऽभ्यः॑ , नृ॒णां , शू॒र॒ , शवः॑ । तेभिः॑ , भ॒व॒ , सऽक्र॑तुः , येषु॑ , चा॒कन् , उ॒त , त्रा॒य॒स्व॒ , गृ॒ण॒तः , उ॒त , स्तीन् ॥
श्रु॒धी हव॑मिंद्र शूर॒ पृथ्या॑ उ॒त स्त॑वसे वे॒न्यस्या॒र्कैः । आ यस्ते॒ योनिं॑ घृ॒तवं॑त॒मस्वा॑रू॒र्मिर्न निम्नैर्द्र॑वयंत॒ वक्वाः॑ ॥
श्रु॒धि , हवं॑ , इं॒द्र॒ , शू॒र॒ , पृथ्याः॑ , उ॒त , स्त॒व॒ते॒ , वे॒न्यस्य॑ , अ॒र्कैः । आ , यः , ते॒ , योनिं॑ , घृ॒तऽवं॑तं , अस्वाः॑ , ऊ॒र्मिः , न , नि॒म्नैः , द्र॒व॒यं॒त॒ , वक्वाः॑ ॥
[१४९] सवितेति पंचर्चस्य सूक्तस्य हैरण्यस्तूपोर्चन्न सवितात्रिष्टुप् |
स॒वि॒ता यं॒त्रैः पृ॑थि॒वीम॑रम्णादस्कंभ॒ने स॑वि॒ता द्याम॑दृंहत् । अश्व॑मिवाधुक्ष॒द्धुनि॑मं॒तरि॑क्षम॒तूर्ते॑ ब॒द्धं स॑वि॒ता स॑मु॒द्रं ॥
स॒वि॒ता , यं॒त्रैः , पृ॒थि॒वीं , अ॒र॒म्णा॒त् , अ॒स्कं॒भ॒ने , स॒वि॒ता , द्यां , अ॒दृं॒ह॒त् । अश्वं॑ऽइव , अ॒धु॒क्ष॒त् , धुनिं॑ , अं॒तरि॑क्षं , अ॒तूर्ते॑ , ब॒द्धं , स॒वि॒ता , स॒मु॒द्रं ॥
यत्रा॑ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां॑ नपात्सवि॒ता तस्य॑ वेद । अतो॒ भूरत॑ आ॒ उत्थि॑तं॒ रजोऽतो॒ द्यावा॑पृथि॒वी अ॑प्रथेतां ॥
यत्र॑ , स॒मु॒द्रः , स्क॒भि॒तः , वि , औन॑त् , अपां॑ , न॒पा॒त् , स॒वि॒ता , तस्य॑ , वे॒द॒ । अतः॑ , भूः , अतः॑ , आः॒ , उत्थि॑तं , रजः॑ , अतः॑ , द्यावा॑पृथि॒वी इति॑ , अ॒प्र॒थे॒तां॒ ॥
प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒ भुव॑नस्य भू॒ना । सु॒प॒र्णो अं॒ग स॑वि॒तुर्ग॒रुत्मा॒न्पूर्वो॑ जा॒तः स उ॑ अ॒स्यानु॒ धर्म॑ ॥
प॒श्चा , इ॒दं , अ॒न्यत् , अ॒भ॒व॒त् , यज॑त्रं , अम॑र्त्यस्य , भुव॑नस्य , भू॒ना । सु॒ऽप॒र्णः , अं॒ग , स॒वि॒तुः , ग॒रुत्मा॑न् , पूर्वः॑ , जा॒तः , सः , ऊँ॒ इति॑ , अ॒स्य॒ , अनु॑ , धर्म॑ ॥
गाव॑ इव॒ ग्रामं॒ यूयु॑धिरि॒वाश्वा॑न्वा॒श्रेव॑ व॒त्सं सु॒मना॒ दुहा॑ना । पति॑रिव जा॒याम॒भि नो॒ न्ये॑तु ध॒र्ता दि॒वः स॑वि॒ता वि॒श्ववा॑रः ॥
गावः॑ऽइव , ग्रामं॑ , युयु॑धिःऽइव , अश्वा॑न् , वा॒श्राऽइ॑व , व॒त्सं , सु॒ऽमनाः॑ , दुहा॑ना । पतिः॑ऽइव , जा॒यां , अ॒भि , नः॒ , नि , ए॒तु॒ , ध॒र्ता , दि॒वः , स॒वि॒ता , वि॒श्वऽवा॑रः ॥
हिर॑ण्यस्तूपः सवित॒र्यथा॑ त्वांगिर॒सो जु॒ह्वे वाजे॑ अ॒स्मिन् । ए॒वा त्वार्च॒न्नव॑से॒ वंद॑मानः॒ सोम॑स्येवां॒शुं प्रति॑ जागरा॒हं ॥
हिर॑ण्यऽस्तूपः , स॒वि॒तः॒ , यथा॑ , त्वा॒ , आं॒गि॒र॒सः , जु॒ह्वे , वाजे॑ , अ॒स्मिन् । ए॒व , त्वा॒ , अर्च॑न् , अव॑से , वंद॑मानः , सोम॑स्यऽइव , अं॒शुं , प्रति॑ , जा॒ग॒र॒ , अ॒हं ॥
[१५०] समिद्धइति पंचर्चस्य सूक्तस्य वासिष्ठोमृळीकोग्निर्बृहती अंत्येद्वेउपरिष्टाज्ज्योतिषी (उपांत्या जगतीवा) |
समि॑द्धश्चि॒त्समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन । आ॒दि॒त्यै रु॒द्रैर्वसु॑भिर्न॒ आ ग॑हि मृळी॒काय॑ न॒ आ ग॑हि ॥
संऽइ॑द्धः , चि॒त् , सं , इ॒ध्य॒से॒ , दे॒वेभ्यः॑ , ह॒व्य॒ऽवा॒ह॒न॒ । आ॒दि॒त्यैः , रु॒द्रैः , वसु॑ऽभिः , नः॒ , आ , ग॒हि॒ , मृ॒ळी॒काय॑ , नः॒ , आ , ग॒हि॒ ॥
इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि । मर्ता॑सस्त्वा समिधान हवामहे मृळी॒काय॑ हवामहे ॥
इ॒मं , य॒ज्ञं , इ॒दं , वचः॑ , जु॒जु॒षा॒णः , उ॒प॒ऽआग॑हि । मर्ता॑सः , त्वा॒ , सं॒ऽइ॒धा॒न॒ , ह॒वा॒म॒हे॒ , मृ॒ळी॒काय॑ , ह॒वा॒म॒हे॒ ॥
त्वामु॑ जा॒तवे॑दसं वि॒श्ववा॑रं गृणे धि॒या । अग्ने॑ दे॒वाँ आ व॑ह नः प्रि॒यव्र॑तान्मृळी॒काय॑ प्रि॒यव्र॑तान् ॥
त्वां , ऊँ॒ इति॑ , जा॒तऽवे॑दसं , वि॒श्वऽवा॑रं , गृ॒णे॒ , धि॒या । अग्ने॑ , दे॒वान् , आ , व॒ह॒ , नः॒ , प्रि॒यऽव्र॑तान् , मृ॒ळी॒काय॑ , प्रि॒यऽव्र॑तान् ॥
अ॒ग्निर्दे॒वो दे॒वाना॑मभवत्पु॒रोहि॑तो॒ऽग्निं म॑नु॒ष्या॒३॒॑ ऋष॑यः॒ समी॑धिरे । अ॒ग्निं म॒हो धन॑साताव॒हं हु॑वे मृळी॒कं धन॑सातये ॥
अ॒ग्निः , दे॒वः , दे॒वानां॑ , अ॒भ॒व॒त् , पु॒रःऽहि॑तः , अ॒ग्निं , म॒नु॒ष्याः॑ , ऋष॑यः , सं , ई॒धि॒रे॒ । अ॒ग्निं , म॒हः , धन॑ऽसातौ , अ॒हं , हु॒वे॒ , मृ॒ळी॒कं , धन॑ऽसातये ॥
अ॒ग्निरत्रिं॑ भ॒रद्वा॑जं॒ गवि॑ष्ठिरं॒ प्राव॑न्नः॒ कण्वं॑ त्र॒सद॑स्युमाह॒वे । अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ॥
अ॒ग्निः , अत्रिं॑ , भ॒रत्ऽवा॑जं , गवि॑ष्ठिरं , प्र , आ॒व॒त् , नः॒ , कण्वं॑ , त्र॒सद॑स्युं , आ॒ऽह॒वे । अ॒ग्निं , वसि॑ष्ठः , ह॒व॒ते॒ , पु॒रःऽहि॑तः , मृ॒ळी॒काय॑ , पु॒रःऽहि॑तः ॥
[१५१] श्रद्धयेति पंचर्चस्य सूक्तस्य श्रद्धाकामायनीश्रद्धानुष्टुप् |
श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि ॥
श्र॒द्धया॑ , अ॒ग्निः , सं , इ॒ध्य॒ते॒ , श्र॒द्धया॑ , हू॒य॒ते॒ , ह॒विः । श्र॒द्धां , भग॑स्य , मू॒र्धनि॑ , वच॑सा , आ , वे॒द॒या॒म॒सि॒ ॥
प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥
प्रि॒यं , श्र॒द्धे॒ , दद॑तः , प्रि॒यं , श्र॒द्धे॒ , दिदा॑सतः । प्रि॒यं , भो॒जेषु॑ , यज्व॑ऽसु , इ॒दं , मे॒ , उ॒दि॒तं , कृ॒धि॒ ॥
यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥
यथा॑ , दे॒वाः , असु॑रेषु , श्र॒द्धां , उ॒ग्रेषु॑ , च॒क्रि॒रे । ए॒वं , भो॒जेषु॑ , यज्व॑ऽसु , अ॒स्माकं॑ , उ॒दि॒तं , कृ॒धि॒ ॥
श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते । श्र॒द्धां हृ॑द॒य्य१॒॑याकू॑त्या श्र॒द्धया॑ विंदते॒ वसु॑ ॥
श्र॒द्धां , दे॒वाः , यज॑मानाः , वा॒युऽगो॑पाः , उप॑ , आ॒स॒ते॒ । श्र॒द्धां , हृ॒द॒य्य॑या , आऽकू॑त्या , श्र॒द्धया॑ , विं॒द॒ते॒ , वसु॑ ॥
श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ । श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह नः॑ ॥
श्र॒द्धां , प्रा॒तः , ह॒वा॒म॒हे॒ , श्र॒द्धां , म॒ध्यंदि॑नं , परि॑ । श्र॒द्धां , सूर्य॑स्य , नि॒ऽम्रुचि॑ , श्रद्धे॑ , श्रत् , धा॒प॒य॒ , इ॒ह , नः॒ ॥
[१५२] शासइति पंचर्चस्य सूक्तस्य भारद्वाजः शासइंद्रोनुष्टुप् |
शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रखा॒दो अद्भु॑तः । न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा॑ च॒न ॥
शा॒सः , इ॒त्था , म॒हान् , अ॒सि॒ , अ॒मि॒त्र॒ऽखा॒दः , अद्भु॑तः । न , यस्य॑ , ह॒न्यते॑ , सखा॑ , न , जीय॑ते , कदा॑ , च॒न ॥
स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी । वृषेंद्रः॑ पु॒र ए॑तु नः सोम॒पा अ॑भयंक॒रः ॥
स्व॒स्ति॒ऽदाः , वि॒शः , पतिः॑ , वृ॒त्र॒ऽहा , वि॒ऽमृ॒धः , व॒शी । वृषा॑ , इंद्रः॑ , पु॒रः , ए॒तु॒ , नः॒ , सो॒म॒ऽपाः , अ॒भ॒यं॒ऽक॒रः ॥
वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमिं॑द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥
वि , रक्षः॑ , वि , मृधः॑ , ज॒हि॒ , वि , वृ॒त्रस्य॑ , हनू॒ इति॑ , रु॒ज॒ । वि , म॒न्युं , इं॒द्र॒ , वृ॒त्र॒ऽह॒न् , अ॒मित्र॑स्य , अ॒भि॒ऽदास॑तः ॥
वि न॑ इंद्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः । यो अ॒स्माँ अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ॥
वि , नः॒ , इं॒द्र॒ , मृधः॑ , ज॒हि॒ , नी॒चा , य॒च्छ॒ , पृ॒त॒न्य॒तः । यः , अ॒स्मान् , अ॒भि॒ऽदास॑ति , अध॑रं , ग॒म॒य॒ , तमः॑ ॥
अपें॑द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो व॒धं । वि म॒न्योः शर्म॑ यच्छ॒ वरी॑यो यवया व॒धं ॥
अप॑ , इं॒द्र॒ , द्वि॒ष॒तः , मनः॑ , अप॑ , जिज्या॑सतः , व॒धं । वि , म॒न्योः , शर्म॑ , य॒च्छ॒ , वरी॑यः , य॒व॒य॒ , व॒धं ॥
[१५३] ईंखयंतीरिति पंचर्चस्य सूक्तस्य देवजामयइंद्रमातरइंद्रोगायत्री |
ईं॒खयं॑तीरप॒स्युव॒ इंद्रं॑ जा॒तमुपा॑सते । भे॒जा॒नासः॑ सु॒वीर्यं॑ ॥
ईं॒खयं॑तीः , अ॒प॒स्युवः॑ , इंद्रं॑ , जा॒तं , उप॑ , आ॒स॒ते॒ । भे॒जा॒नासः॑ , सु॒ऽवीर्यं॑ ॥
त्वमिं॑द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः । त्वं वृ॑ष॒न्वृषेद॑सि ॥
त्वं , इं॒द्र॒ , बला॑त् , अधि॑ , सह॑सः , जा॒तः , ओज॑सः । त्वं , वृ॒ष॒न् , वृषा॑ , इत् , अ॒सि॒ ॥
त्वमिं॑द्रासि वृत्र॒हा व्य१॒॑न्तरि॑क्षमतिरः । उद्द्याम॑स्तभ्ना॒ ओज॑सा ॥
त्वं , इं॒द्र॒ , अ॒सि॒ , वृ॒त्र॒ऽहा , वि , अं॒तरि॑क्षं , अ॒ति॒रः॒ । उत् , द्यां , अ॒स्त॒भ्नाः॒ , ओज॑सा ॥
त्वमिं॑द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः । वज्रं॒ शिशा॑न॒ ओज॑सा ॥
त्वं , इं॒द्र॒ , स॒ऽजोष॑सं , अ॒र्कं , बि॒भ॒र्षि॒ , बा॒ह्वोः । वज्रं॑ , शिशा॑नः , ओज॑सा ॥
त्वमिं॑द्राभि॒भूर॑सि॒ विश्वा॑ जा॒तान्योज॑सा । स विश्वा॒ भुव॒ आभ॑वः ॥
त्वं , इं॒द्र॒ , अ॒भि॒ऽभूः , अ॒सि॒ , विश्वा॑ , जा॒तानि॑ , ओज॑सा । सः , विश्वाः॑ , भुवः॑ , आ , अ॒भ॒वः॒ ॥
[१५४] सोमइति पंचर्चस्य सूक्तस्य वैवस्वती यमी भाववृत्तिरनुष्टुप् |
सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते । येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥
सोमः॑ , एके॑भ्यः , प॒व॒ते॒ , घृ॒तं , एके॑ , उप॑ , आ॒स॒ते॒ । येभ्यः॑ , मधु॑ , प्र॒ऽधाव॑ति , तान् , चि॒त् , ए॒व , अपि॑ , ग॒च्छ॒ता॒त् ॥
तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः । तपो॒ ये च॑क्रि॒रे मह॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥
तप॑सा , ये , अ॒ना॒धृ॒ष्याः , तप॑सा , ये , स्वः॑ , य॒युः । तपः॑ , ये , च॒क्रि॒रे , महः॑ , तान् , चि॒त् , ए॒व , अपि॑ , ग॒च्छ॒ता॒त् ॥
ये युध्यं॑ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यजः॑ । ये वा॑ स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥
ये , युध्यं॑ते , प्र॒ऽधने॑षु , शूरा॑सः , ये , त॒नू॒ऽत्यजः॑ । ये , वा॒ , स॒हस्र॑ऽदक्षिणाः , तान् , चि॒त् , ए॒व , अपि॑ , ग॒च्छ॒ता॒त् ॥
ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा॑न ऋता॒वृधः॑ । पि॒तॄंतप॑स्वतो यम॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥
ये , चि॒त् , पूर्वे॑ , ऋ॒त॒ऽसापः॑ , ऋ॒तऽवा॑नः , ऋ॒त॒ऽवृधः॑ । पि॒तॄन् , तप॑स्वतः , य॒म॒ , तान् , चि॒त् , ए॒व , अपि॑ , ग॒च्छ॒ता॒त् ॥
स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यंति॒ सूर्यं॑ । ऋषीं॒तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ॥
स॒हस्र॑ऽनीथाः , क॒वयः॑ , ये , गो॒पा॒यंति॑ , सूर्यं॑ । ऋषी॑न् , तप॑स्वतः , य॒म॒ , त॒पः॒ऽजान् , अपि॑ , ग॒च्छ॒ता॒त् ॥
[१५५] अरायीति पंचर्चस्य सूक्तस्य भारद्वाजः शिरिंबिठोऽलक्ष्मीनाशनो द्वितीयातृतीययोर्ब्रह्मणस्पतिरंत्याया विश्वेदेवाअनुष्टुप् |
अरा॑यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे । शि॒रिंबि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ॥
अरा॑यि , काणे॑ , विऽक॑टे , गि॒रिं , ग॒च्छ॒ , स॒दा॒न्वे॒ । शि॒रिंबि॑ठस्य , सत्व॑ऽभिः , तेभिः॑ , त्वा॒ , चा॒त॒या॒म॒सि॒ ॥
च॒त्तो इ॒तश्च॒त्तामुतः॒ सर्वा॑ भ्रू॒णान्या॒रुषी॑ । अ॒रा॒य्यं॑ ब्रह्मणस्पते॒ तीक्ष्ण॑शृंगोदृ॒षन्नि॑हि ॥
च॒त्तो इति॑ , इ॒तः , च॒त्ता , अ॒मुतः॑ , सर्वा॑ , भ्रू॒णानि॑ , आ॒रुषी॑ । अ॒रा॒य्यं॑ , ब्र॒ह्म॒णः॒ , प॒ते॒ , तीक्ष्ण॑ऽशृंग , उ॒त्ऽऋ॒षन् , इ॒हि॒ ॥
अ॒दो यद्दारु॒ प्लव॑ते॒ सिंधोः॑ पा॒रे अ॑पूरु॒षं । तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रं ॥
अ॒दः , यत् , दारु॑ , प्लव॑ते , सिंधोः॑ , पा॒रे , अ॒पु॒रु॒षं । तत् , आ , र॒भ॒स्व॒ , दु॒र्ह॒नो॒ इति॑ दुःऽहनो , तेन॑ , ग॒च्छ॒ , प॒रः॒ऽत॒रं ॥
यद्ध॒ प्राची॒रज॑गं॒तोरो॑ मंडूरधाणिकीः । ह॒ता इंद्र॑स्य॒ शत्र॑वः॒ सर्वे॑ बुद्बु॒दया॑शवः ॥
यत् , ह॒ , प्राचीः॑ , अज॑गंत , उरः॑ , मं॒डू॒र॒ऽधा॒णि॒कीः॒ । ह॒ताः , इंद्र॑स्य , शत्र॑वः , सर्वे॑ , बु॒द्बु॒दऽया॑शवः ॥
परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत । दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ आ द॑धर्षति ॥
परि॑ , इ॒मे , गां , अ॒ने॒ष॒त॒ , परि॑ , अ॒ग्निं , अ॒हृ॒ष॒त॒ । दे॒वेषु॑ , अ॒क्र॒त॒ , श्रवः॑ , कः , इ॒मान् , आ , द॒ध॒र्ष॒ति॒ ॥
[१५६] अग्निमिति पंचर्चस्य सूक्तस्याग्नेयः केतुरग्निर्गायत्री |
अ॒ग्निं हि॑न्वंतु नो॒ धियः॒ सप्ति॑मा॒शुमि॑वा॒जिषु॑ । तेन॑ जेष्म॒ धनं॑धनं ॥
अ॒ग्निं , हि॒न्वं॒तु॒ , नः॒ , धियः॑ , सप्तिं॑ , आ॒शुंऽइ॑व , आ॒जिषु॑ । तेन॑ , जे॒ष्म॒ , धनं॑ऽधनं ॥
यया॒ गा आ॒करा॑महे॒ सेन॑याग्ने॒ तवो॒त्या । तां नो॑ हिन्व म॒घत्त॑ये ॥
यया॑ , गाः , आ॒ऽकरा॑महे , सेन॑या , अ॒ग्ने॒ , तव॑ , ऊ॒त्या । तां , नः॒ , हि॒न्व॒ , म॒घत्त॑ये ॥
आग्ने॑ स्थू॒रं र॒यिं भ॑र पृ॒थुं गोमं॑तम॒श्विनं॑ । अ॒ङ्धि खं व॒र्तया॑ प॒णिं ॥
आ , अ॒ग्ने॒ , स्थू॒रं , र॒यिं , भ॒र॒ , पृ॒थुं , गोऽमं॑तं , अ॒श्विनं॑ । अ॒ङ्धि , खं , व॒र्तय॑ , प॒णिं ॥
अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्यं॑ रोहयो दि॒वि । दध॒ज्ज्योति॒र्जने॑भ्यः ॥
अग्ने॑ , नक्ष॑त्रं , अ॒जरं॑ , आ , सूर्यं॑ , रो॒ह॒यः॒ , दि॒वि । दध॑त् , ज्योतिः॑ , जने॑भ्यः ॥
अग्ने॑ के॒तुर्वि॒शाम॑सि॒ प्रेष्ठः॒ श्रेष्ठ॑ उपस्थ॒सत् । बोधा॑ स्तो॒त्रे वयो॒ दध॑त् ॥
अग्ने॑ , के॒तुः , वि॒शां , अ॒सि॒ , प्रेष्ठः॑ , श्रेष्ठः॑ , उ॒प॒स्थ॒ऽसत् । बोध॑ , स्तो॒त्रे , वयः॑ , दध॑त् ॥
[१५७] इमान्विति पंचर्चस्य सूक्तस्याप्त्यो भुवनो विश्वेदेवाद्विपदात्रिष्टुप् | (अत्रभौवनः साधनोवैकल्पिकः)
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेंद्र॑श्च॒ विश्वे॑ च दे॒वाः ॥
इ॒मा , नु , कं॒ , भुव॑ना , सी॒स॒धा॒म॒ , इंद्रः॑ , च॒ , विश्वे॑ , च॒ , दे॒वाः ॥ ।
य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑दि॒त्यैरिंद्रः॑ स॒ह ची॑कॢपाति ॥
य॒ज्ञं , च॒ , नः॒ , त॒न्वं॑ , च॒ , प्र॒ऽजां , च॒ , आ॒दि॒त्यैः , इंद्रः॑ , स॒ह , ची॒कॢ॒पा॒ति॒ ॥ ।
आ॒दि॒त्यैरिंद्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूनां॑ ॥
आ॒दि॒त्यैः , इंद्रः॑ , सऽग॑णः , म॒रुत्ऽभिः॑ , अ॒स्माकं॑ , भू॒तु॒ , अ॒वि॒ता , त॒नूनां॑ ॥ ।
ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदायं॑दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥
ह॒त्वाय॑ , दे॒वाः , असु॑रान् , यत् , आय॑न् , दे॒वाः , दे॒व॒ऽत्वं , अ॒भि॒ऽरक्ष॑माणाः ॥ ।
प्र॒त्यंच॑म॒र्कम॑नयं॒छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥
प्र॒त्यंचं॑ , अ॒र्कं , अ॒न॒य॒न् , शची॑भिः , आत् , इत् , स्व॒धां , इ॒षि॒रां , परि॑ , अ॒प॒श्य॒न् ॥ ।
[१५८] सूर्योन इति पंचर्चस्य सूक्तस्य सौर्यश्चक्षुर्मानवः सूर्यो गायत्री |
सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अं॒तरि॑क्षात् । अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ॥
सूर्यः॑ , नः॒ , दि॒वः , पा॒तु॒ , वातः॑ , अं॒तरि॑क्षात् । अ॒ग्निः , नः॒ , पार्थि॑वेभ्यः ॥
जोषा॑ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ अर्ह॑ति । पा॒हि नो॑ दि॒द्युतः॒ पतं॑त्याः ॥
जोष॑ , स॒वि॒तः॒ , यस्य॑ , ते॒ , हरः॑ , श॒तं , स॒वान् , अर्ह॑ति । पा॒हि , नः॒ , दि॒द्युतः॑ , पतं॑त्याः ॥
चक्षु॑र्नो दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त पर्व॑तः । चक्षु॑र्धा॒ता द॑धातु नः ॥
चक्षुः॑ , नः॒ , दे॒वः , स॒वि॒ता , चक्षुः॑ , नः॒ , उ॒त , पर्व॑तः । चक्षुः॑ , धा॒ता , द॒धा॒तु॒ , नः॒ ॥
चक्षु॑र्नो धेहि॒ चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नूभ्यः॑ । सं चे॒दं वि च॑ पश्येम ॥
चक्षुः॑ , नः॒ , धे॒हि॒ , चक्षु॑षे , चक्षुः॑ , वि॒ऽख्यै , त॒नूभ्यः॑ । सं , च॒ , इ॒दं , वि , च॒ , प॒श्ये॒म॒ ॥
सु॒सं॒दृशं॑ त्वा व॒यं प्रति॑ पश्येम सूर्य । वि प॑श्येम नृ॒चक्ष॑सः ॥
सु॒ऽसं॒दृशं॑ , त्वा॒ , व॒यं , प्रति॑ , प॒श्ये॒म॒ , सू॒र्य॒ । वि , प॒श्ये॒म॒ , नृ॒ऽचक्ष॑सः ॥
[१५९] उदसाविति षढचस्य सूक्तस्य पौलोमी शचीशच्यनुष्टुप् |
उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑ । अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ॥
उत् , अ॒सौ , सूर्यः॑ , अ॒गा॒त् , उत् , अ॒यं , मा॒म॒कः , भगः॑ । अ॒हं , तत् , वि॒द्व॒ला , पतिं॑ , अ॒भि , आ॒सा॒क्षि॒ , वि॒ऽस॒स॒हिः ॥
अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी । ममेदनु॒ क्रतुं॒ पतिः॑ सेहा॒नाया॑ उ॒पाच॑रेत् ॥
अ॒हं , के॒तुः , अ॒हं , मू॒र्धा , अ॒हं , उ॒ग्रा , वि॒ऽवाच॑नी । मम॑ , इत् , अनु॑ , क्रतुं॑ , पतिः॑ , से॒हा॒नायाः॑ , उ॒प॒ऽआच॑रेत् ॥
मम॑ पु॒त्राः श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒ऽराट् । उ॒ताहम॑स्मि संज॒या पत्यौ॑ मे॒ श्लोक॑ उत्त॒मः ॥
मम॑ , पु॒त्राः , श॒त्रु॒ऽहनः॑ , अथो॒ इति॑ , मे॒ , दु॒हि॒ता , वि॒राट् । उ॒त , अ॒हं , अ॒स्मि॒ , सं॒ऽज॒या , पत्यौ॑ , मे॒ , श्लोकः॑ , उ॒त्ऽत॒मः ॥
येनेंद्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः । इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवं ॥
येन॑ , इंद्रः॑ , ह॒विषा॑ , कृ॒त्वी , अभ॑वत् , द्यु॒म्नी , उ॒त्ऽत॒मः । इ॒दं , तत् , अ॒क्रि॒ , दे॒वाः॒ , अ॒स॒प॒त्ना , किल॑ , अ॒भु॒वं॒ ॥
अ॒स॒प॒त्ना स॑पत्न॒घ्नी जयं॑त्यभि॒भूव॑री । आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒ अस्थे॑यसामिव ॥
अ॒स॒प॒त्ना , स॒प॒त्न॒ऽघ्नी , जयं॑ती , अ॒भि॒ऽभूव॑री । आ , अ॒वृ॒क्षं॒ , अ॒न्यासां॑ , वर्चः॑ , राधः॑ , अस्थे॑यसांऽइव ॥
सम॑जैषमि॒मा अ॒हं स॒पत्नी॑रभि॒भूव॑री । यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा॑नि॒ जन॑स्य च ॥
सं , अ॒जै॒षं॒ , इ॒माः , अ॒हं , स॒ऽपत्नीः॑ , अ॒भि॒ऽभूव॑री । यथा॑ , अ॒हं , अ॒स्य , वी॒रस्य॑ , वि॒ऽराजा॑नि , जन॑स्य , च॒ ॥
[१६०] तीव्रस्येति पंचर्चस्य सूक्तस्य वैश्वामित्रः पूरणइंद्रस्त्रिष्टुप् |
ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मुं॑च । इंद्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रमं॒तुभ्य॑मि॒मे सु॒तासः॑ ॥
ती॒व्रस्य॑ , अ॒भिऽव॑यसः , अ॒स्य , पा॒हि॒ , स॒र्व॒ऽर॒था , वि , हरी॒ इति॑ , इ॒ह , मुं॒च॒ । इंद्र॑ , मा , त्वा॒ , यज॑मानासः , अ॒न्ये , नि , री॒र॒म॒न् , तुभ्यं॑ , इ॒मे , सु॒तासः॑ ॥
तुभ्यं॑ सु॒तास्तुभ्य॑मु॒ सोत्वा॑स॒स्त्वां गिरः॒ श्वात्र्या॒ आ ह्व॑यंति । इंद्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा॑हि॒ सोमं॑ ॥
तुभ्यं॑ , सु॒ताः , तुभ्यं॑ , ऊँ॒ इति॑ , सोत्वा॑सः , त्वां , गिरः॑ , श्वात्र्याः॑ , आ , ह्व॒यं॒ति॒ । इंद्र॑ , इ॒दं , अ॒द्य , सव॑नं , जु॒षा॒णः , विश्व॑स्य , वि॒द्वान् , इ॒ह , पा॒हि॒ , सोमं॑ ॥
य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका॑मः सु॒नोति॑ । न गा इंद्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ॥
यः , उ॒श॒ता , मन॑सा , सोमं॑ , अ॒स्मै॒ , स॒र्व॒ऽहृ॒दा , दे॒वऽका॑मः , सु॒नोति॑ । न , गाः , इंद्रः॑ , तस्य॑ , परा॑ , द॒दा॒ति॒ , प्र॒ऽश॒स्तं , इत् , चारुं॑ , अ॒स्मै॒ , कृ॒णो॒ति॒ ॥
अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान्न सु॒नोति॒ सोमं॑ । निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो॑ हं॒त्यना॑नुदिष्टः ॥
अनु॑ऽस्पष्टः , भ॒व॒ति॒ , ए॒षः , अ॒स्य॒ , यः , अ॒स्मै॒ , रे॒वान् , न , सु॒नोति॑ , सोमं॑ । निः , अ॒र॒त्नौ , म॒घऽवा॑ , तं , द॒धा॒ति॒ , ब्र॒ह्म॒ऽद्विषः॑ , हं॒ति॒ , अन॑नुऽदिष्टः ॥
अ॒श्वा॒यंतो॑ ग॒व्यंतो॑ वा॒जयं॑तो॒ हवा॑महे॒ त्वोप॑गंत॒वा उ॑ । आ॒भूषं॑तस्ते सुम॒तौ नवा॑यां व॒यमिं॑द्र त्वा शु॒नं हु॑वेम ॥
अ॒श्व॒ऽयंतः॑ , ग॒व्यंतः॑ , वा॒जयं॑तः , हवा॑महे , त्वा॒ , उप॑ऽगं॒त॒वै , ऊँ॒ इति॑ । आ॒ऽभूषं॑तः , ते॒ , सु॒ऽम॒तौ , नवा॑यां , व॒यं , इं॒द्र॒ , त्वा॒ , शु॒नं , हु॒वे॒म॒ ॥
[१६१] मुंचामित्वेति पंचर्चस्य सूक्तस्य प्राजापत्यो यक्ष्मनाशन इंद्राग्नीत्रिष्टुबंत्यानुष्टुप् | (मुंचामीति सूक्ते राज यक्ष्मघ्नमित्युक्ते राजयक्ष्मनाशनो देवतेतिकेचित् अन्येप्रजापतिमाहुः इंद्राग्नीइतितुयास्कः इत्थंमतवैविध्येपि 'षळाहुतिश्चरुर्मुंचामित्वाहविषा जीवनायकमित्येतेनेति' गृह्यसूत्रानुसारिवृत्तिकृत्कारिका कारादिभिरस्य सूक्तस्यैंद्राग्नि (देवतात्वनिर्देशत्तेएवस्माभिरुक्ते)
मुं॒चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात् । ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे॑नं॒ तस्या॑ इंद्राग्नी॒ प्र मु॑मुक्तमेनं ॥
मुं॒चामि॑ , त्वा॒ , ह॒विषा॑ , जीव॑नाय , कं , अ॒ज्ञा॒त॒ऽय॒क्ष्मात् , उ॒त , रा॒ज॒ऽय॒क्ष्मात् । ग्राहिः॑ , ज॒ग्राह॑ , यदि॑ , वा॒ , ए॒तत् , ए॒नं॒ , तस्याः॑ , इं॒द्रा॒ग्नी॒ इति॑ , प्र , मु॒मु॒क्तं॒ , ए॒नं॒ ॥
यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योरं॑ति॒कं नी॑त ए॒व । तमा ह॑रामि॒ निर्ऋ॑तेरु॒पस्था॒दस्पा॑र्षमेनं श॒तशा॑रदाय ॥
यदि॑ , क्षि॒तऽआ॑युः , यदि॑ , वा॒ , परा॑ऽइतः , यदि॑ , मृ॒त्योः , अं॒ति॒कं , निऽइ॑तः , ए॒व । तं , आ , ह॒रा॒मि॒ , निःऽऋ॑तेः , उ॒पऽस्था॑त् , अस्पा॑र्षं , ए॒नं॒ , श॒तऽशा॑रदाय ॥
स॒ह॒स्रा॒क्षेण॑ श॒तशा॑रदेन श॒तायु॑षा ह॒विषाहा॑र्षमेनं । श॒तं यथे॒मं श॒रदो॒ नया॒तींद्रो॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रं ॥
स॒ह॒स्र॒ऽअ॒क्षेण॑ , श॒तऽशा॑रदेन , श॒तऽआ॑युषा , ह॒विषा॑ , आ , अ॒हा॒र्षं॒ , ए॒नं॒ । श॒तं , यथा॑ , इ॒मं , श॒रदः॑ , नया॑ति , इंद्रः॑ , विश्व॑स्य , दुः॒ऽइ॒तस्य॑ , पा॒रं ॥
श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑मं॒तांछ॒तमु॑ वसं॒तान् । श॒तमिं॑द्रा॒ग्नी स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः ॥
श॒तं , जी॒व॒ , श॒रदः॑ , वर्ध॑मानः , श॒तं , हे॒मं॒तान् , श॒तं , ऊँ॒ इति॑ , व॒सं॒तान् । श॒तं , इं॒द्रा॒ग्नी इति॑ , स॒वि॒ता , बृह॒स्पतिः॑ , श॒तऽआ॑युषा , ह॒विषा॑ , इ॒मं , पुनः॑ , दुः॒ ॥
आहा॑र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागाः॑ पुनर्नव । सर्वां॑ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदं ॥
आ , अ॒हा॒र्षं॒ , त्वा॒ , अवि॑दं , त्वा॒ , पुनः॑ , आ , अ॒गाः॒ , पु॒नः॒ऽन॒व॒ । सर्व॑ऽअंग , सर्वं॑ , ते॒ , चक्षुः॑ , सर्वं॑ , आयुः॑ , च॒ , ते॒ , अ॒वि॒दं॒ ॥
[१६२] ब्रह्मणाग्रिरिति षडृचस्य सूक्तस्य ब्राह्मोरक्षोहा प्रजापतिरनुष्टुप् | (अत्रसूक्तेऽनुक्रमण्यवष्टंभेनदेवतानिर्णयोनभवति | यतस्तत्र गर्भस्रावे प्रायश्चित्तिरित्युक्तं तेनसूक्तस्य प्रभावमात्रंद्योत्यतेनतुदेवता | अतोत्रप्रजापतिर्देवताग्राह्या | तथाच शौनकः 'मंत्रेषुह्यनिरुक्तेषु देवतांकर्मतोवदेत् | मंत्रतः कर्मणाचैव प्रजापतिरसंभवे' इति | भाष्यकारैरपिप्रजापतिरेवोक्तः | बृहद्देवतायांतु राक्षोघ्नाग्नेयमित्युक्तं तत्रयुक्तायुक्तंसद्भिर्विचारणीयं ) |
ब्रह्म॑णा॒ग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः । अमी॑वा॒ यस्ते॒ गर्भं॑ दु॒र्णामा॒ योनि॑मा॒शये॑ ॥
ब्रह्म॑णा , अ॒ग्निः , सं॒ऽवि॒दा॒नः , र॒क्षः॒ऽहा , बा॒ध॒तां॒ , इ॒तः । अमी॑वा , यः , ते॒ , गर्भं॑ , दुः॒ऽनामा॑ , योनिं॑ , आ॒ऽशये॑ ॥
यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑ । अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ॥
यः , ते॒ , गर्भं॑ , अमी॑वा , दुः॒ऽनामा॑ , योनिं॑ , आ॒ऽशये॑ । अ॒ग्निः , तं , ब्रह्म॑णा , स॒ह , निः , क्र॒व्य॒ऽअदं॑ , अ॒नी॒न॒श॒त् ॥
यस्ते॒ हंति॑ प॒तयं॑तं निष॒त्स्नुं यः स॑रीसृ॒पं । जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
यः , ते॒ , हंति॑ , प॒तयं॑तं , नि॒ऽस॒त्स्नुं , यः , स॒री॒सृ॒पं । जा॒तं , यः , ते॒ , जिघां॑सति , तं , इ॒तः , ना॒श॒या॒म॒सि॒ ॥
यस्त॑ ऊ॒रू वि॒हर॑त्यंत॒रा दंप॑ती॒ शये॑ । योनिं॒ यो अं॒तरा॒रेळ्हि॒ तमि॒तो ना॑शयामसि ॥
यः , ते॒ , ऊ॒रू इति॑ , वि॒ऽहर॑ति , अं॒त॒रा , दंप॑ती॒ इति॒ दंऽप॑ती , शये॑ । योनिं॑ , यः , अं॒तः , आ॒ऽरेळ्हि॑ , तं , इ॒तः , ना॒श॒या॒म॒सि॒ ॥
यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते । प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
यः , त्वा॒ , भ्राता॑ , पतिः॑ , भू॒त्वा , जा॒रः , भू॒त्वा , नि॒ऽपद्य॑ते । प्र॒ऽजां , यः , ते॒ , जिघां॑सति , तं , इ॒तः , ना॒श॒या॒म॒सि॒ ॥
यस्त्वा॒ स्वप्ने॑न॒ तम॑सा मोहयि॒त्वा नि॒पद्य॑ते । प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
यः , त्वा॒ , स्वप्ने॑न , तम॑सा , मो॒ह॒यि॒त्वा , नि॒ऽपद्य॑ते । प्र॒ऽजां , यः , ते॒ , जिघां॑सति , तं , इ॒तः , ना॒श॒या॒म॒सि॒ ॥
[१६३] अक्षीभ्यामिति षडृचस्य सूक्तस्य काश्यपोविवृहायक्ष्महानुष्टुप् |
अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ । यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥
अ॒क्षीभ्यां॑ , ते॒ , नासि॑काभ्यां , कर्णा॑भ्यां , छुबु॑कात् , अधि॑ । यक्ष्मं॑ , शी॒र्ष॒ण्यं॑ , म॒स्तिष्का॑त् , जि॒ह्वायाः॑ , वि , वृ॒हा॒मि॒ , ते॒ ॥
ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्यो अनू॒क्या॑त् । यक्ष्मं॑ दोष॒ण्य१॒॑मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥
ग्री॒वाभ्यः॑ , ते॒ , उ॒ष्णिहा॑भ्यः , कीक॑साभ्यः , अ॒नू॒क्या॑त् । यक्ष्मं॑ , दो॒ष॒ण्यं॑ , अंसा॑भ्यां , बा॒हुऽभ्यां॑ , वि , वृ॒हा॒मि॒ , ते॒ ॥
आं॒त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ । यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥
आं॒त्रेभ्यः॑ , ते॒ , गुदा॑भ्यः , व॒नि॒ष्ठोः , हृद॑यात् , अधि॑ । यक्ष्मं॑ , मत॑स्नाभ्यां , य॒क्नः , प्ला॒शिऽभ्यः॑ , वि , वृ॒हा॒मि॒ , ते॒ ॥
ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्यां । यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ॥
ऊ॒रुऽभ्यां॑ , ते॒ , अ॒ष्ठी॒वत्ऽभ्यां॑ , पार्ष्णि॑ऽभ्यां , प्रऽप॑दाभ्यां । यक्ष्मं॑ , श्रोणि॑ऽभ्यां , भास॑दात् , भंस॑सः , वि , वृ॒हा॒मि॒ , ते॒ ॥
मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ । यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥
मेह॑नात् , व॒नं॒ऽकर॑णात् , लोम॑ऽभ्यः , ते॒ , न॒खेभ्यः॑ । यक्ष्मं॑ , सर्व॑स्मात् , आ॒त्मनः॑ , तं , इ॒दं , वि , वृ॒हा॒मि॒ , ते॒ ॥
अंगा॑दंगा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि । यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥
अंगा॑त्ऽअंगात् , लोम्नः॑ऽलोम्नः , जा॒तं , पर्व॑णिऽपर्वणि । यक्ष्मं॑ , सर्व॑स्मात् , आ॒त्मनः॑ , तं , इ॒दं , वि , वृ॒हा॒मि॒ , ते॒ ॥
[१६४] अपेहीति पंचर्चस्य सूक्तस्यांगिरसः प्रचेता दुःस्वप्ननाशनोनुष्टुप् तृतीया त्रिष्टुप् अंत्यापंक्तिः |
अपे॑हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र । प॒रो निर्ऋ॑त्या॒ आ च॑क्ष्व बहु॒धा जीव॑तो॒ मनः॑ ॥
अप॑ , इ॒हि॒ , म॒न॒सः॒ , प॒ते॒ , अप॑ , क्रा॒म॒ , प॒रः , च॒र॒ । प॒रः , निःऽऋ॑त्यै , आ , च॒क्ष्व॒ , ब॒हु॒धा , जीव॑तः , मनः॑ ॥
भ॒द्रं वै वरं॑ वृणते भ॒द्रं युं॑जंति॒ दक्षि॑णं । भ॒द्रं वै॑वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मनः॑ ॥
भ॒द्रं , वै , वरं॑ , वृ॒ण॒ते॒ , भ॒द्रं , युं॒जं॒ति॒ , दक्षि॑णं । भ॒द्रं , वै॒व॒स्व॒ते , चक्षुः॑ , ब॒हु॒ऽत्रा , जीव॑तः , मनः॑ ॥
यदा॒शसा॑ निः॒शसा॑भि॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पंतः॑ । अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥
यत् , आ॒ऽशसा॑ , निः॒ऽशसा॑ , अ॒भि॒ऽशसा॑ , उ॒प॒ऽआ॒रि॒म , जाग्र॑तः , यत् , स्व॒पंतः॑ । अ॒ग्निः , विश्वा॑नि , अप॑ , दुः॒ऽकृ॒तानि॑ , अजु॑ष्टानि , आ॒रे , अ॒स्मत् , दा॒धा॒तु॒ ॥
यदिं॑द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा॑मसि । प्रचे॑ता न आंगिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥
यत् , इं॒द्र॒ , ब्र॒ह्म॒णः॒ , प॒ते॒ , अ॒भि॒ऽद्रो॒हं , चरा॑मसि । प्रऽचे॑ताः , नः॒ , आं॒गि॒र॒सः , द्वि॒ष॒तां , पा॒तु॒ , अंह॑सः ॥
अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यं । जा॒ग्र॒त्स्व॒प्नः सं॑क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ॥
अजै॑ष्म , अ॒द्य , अस॑नाम , च॒ , अभू॑म , अना॑गसः , व॒यं । जा॒ग्र॒त्ऽस्व॒प्नः , सं॒ऽक॒ल्पः , पा॒पः , यं , द्वि॒ष्मः , तं , सः , ऋ॒च्छ॒तु॒ , यः , नः॒ , द्वेष्टि॑ , तं , ऋ॒च्छ॒तु॒ ॥
[१६५] देवाइति पंचर्चस्य सूक्तस्य नैरृतः कपोतोर्विश्वेदेवास्त्रिष्टुप् |
देवाः॑ क॒पोत॑ इषि॒तो यदि॒च्छंदू॒तो निर्ऋ॑त्या इ॒दमा॑ज॒गाम॑ । तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥
देवाः॑ , क॒पोतः॑ , इ॒षि॒तः , यत् , इ॒च्छन् , दू॒तः , निःऽऋ॑त्याः , इ॒दं , आ॒ऽज॒गाम॑ । तस्मै॑ , अ॒र्चा॒म॒ , कृ॒णवा॑म , निःऽकृ॑तिं , शं , नः॒ , अ॒स्तु॒ , द्वि॒ऽपदे॑ , शं , चतुः॑ऽपदे ॥
शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॑वाः शकु॒नो गृ॒हेषु॑ । अ॒ग्निर्हि विप्रो॑ जु॒षतां॑ ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ॥
शि॒वः , क॒पोतः॑ , इ॒षि॒तः , नः॒ , अ॒स्तु॒ , अ॒ना॒गाः , दे॒वाः॒ , श॒कु॒नः , गृ॒हेषु॑ । अ॒ग्निः , हि , विप्रः॑ , जु॒षतां॑ , ह॒विः , नः॒ , परि॑ , हे॒तिः , प॒क्षिणी॑ , नः॒ , वृ॒ण॒क्तु॒ ॥
हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्र्यां प॒दं कृ॑णुते अग्नि॒धाने॑ । शं नो॒ गोभ्य॑श्च॒ पुरु॑षेभ्यश्चास्तु॒ मा नो॑ हिंसीदि॒ह दे॑वाः क॒पोतः॑ ॥
हे॒तिः , प॒क्षिणी॑ , न , द॒भा॒ति॒ , अ॒स्मान् , आ॒ष्ट्र्यां , प॒दं , कृ॒णु॒ते॒ , अ॒ग्नि॒ऽधाने॑ । शं , नः॒ , गोभ्यः॑ , च॒ , पुरु॑षेभ्यः , च॒ , अ॒स्तु॒ , मा , नः॒ , हिं॒सी॒त् , इ॒ह , दे॒वाः॒ , क॒पोतः॑ ॥
यदुलू॑को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोतः॑ प॒दम॒ग्नौ कृ॒णोति॑ । यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥
यत् , उलू॑कः , वद॑ति , मो॒घं , ए॒तत् , यत् , क॒पोतः॑ , प॒दं , अ॒ग्नौ , कृ॒णोति॑ । यस्य॑ , दू॒तः , प्रऽहि॑तः , ए॒षः , ए॒तत् , तस्मै॑ , य॒माय॑ , नमः॑ , अ॒स्तु॒ , मृ॒त्यवे॑ ॥
ऋ॒चा क॒पोतं॑ नुदत प्र॒णोद॒मिषं॒ मदं॑तः॒ परि॒ गां न॑यध्वं । सं॒यो॒पयं॑तो दुरि॒तानि॒ विश्वा॑ हि॒त्वा न॒ ऊर्जं॒ प्र प॑ता॒त्पति॑ष्ठः ॥
ऋ॒चा , क॒पोतं॑ , नु॒द॒त॒ , प्र॒ऽनोदं॑ , इषं॑ , मदं॑तः , परि॑ , गां , न॒य॒ध्वं॒ । सं॒ऽयो॒पयं॑तः , दुः॒ऽइ॒तानि॑ , विश्वा॑ , हि॒त्वा , नः॒ , ऊर्जं॑ , प्र , प॒ता॒त् , पति॑ष्ठः ॥
[१६६] ऋषभमिति पंचर्चस्य सूक्तस्य वैराजऋषभः सपत्ननाशनोनुष्ठुबंत्या महापंक्तिः | (शाक्वरोवाऋषिः)|
ऋ॒ष॒भं मा॑ समा॒नानां॑ स॒पत्ना॑नां विषास॒हिं । हं॒तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवां॑ ॥
ऋ॒ष॒भं , मा॒ , स॒मा॒नानां॑ , स॒ऽपत्ना॑नां , वि॒ऽस॒स॒हिं । हं॒तारं॑ , शत्रू॑णां , कृ॒धि॒ , वि॒ऽराजं॑ , गोऽप॑तिं , गवां॑ ॥
अ॒हम॑स्मि सपत्न॒हेंद्र॑ इ॒वारि॑ष्टो॒ अक्ष॑तः । अ॒धः स॒पत्ना॑ मे प॒दोरि॒मे सर्वे॑ अ॒भिष्ठि॑ताः ॥
अ॒हं , अ॒स्मि॒ , स॒प॒त्न॒ऽहा , इंद्रः॑ऽइव , अरि॑ष्टः , अक्ष॑तः । अ॒धः , स॒ऽपत्नाः॑ , मे॒ , प॒दोः , इ॒मे , सर्वे॑ , अ॒भिऽस्थि॑ताः ॥
अत्रै॒व वोऽपि॑ नह्याम्यु॒भे आर्त्नी॑ इव॒ ज्यया॑ । वाच॑स्पते॒ नि षे॑धे॒मान्यथा॒ मदध॑रं॒ वदा॑न् ॥
अत्र॑ , ए॒व , वः॒ , अपि॑ , न॒ह्या॒मि॒ , उ॒भे इति॑ , आर्त्नी॑ इ॒वेत्यार्त्नी॑ऽइव , ज्यया॑ । वाचः॑ , प॒ते॒ , नि , से॒ध॒ , इ॒मान् , यथा॑ , मत् , अध॑रं , वदा॑न् ॥
अ॒भि॒भूर॒हमाग॑मं वि॒श्वक॑र्मेण॒ धाम्ना॑ । आ व॑श्चि॒त्तमा वो॑ व्र॒तमा वो॒ऽहं समि॑तिं ददे ॥
अ॒भि॒ऽभूः , अ॒हं , आ , अ॒ग॒मं॒ , वि॒श्वऽक॑र्मेण , धाम्ना॑ । आ , वः॒ , चि॒त्तं , आ , वः॒ , व्र॒तं , आ , वः॒ , अ॒हं , संऽइ॑तिं , द॒दे॒ ॥
यो॒ग॒क्षे॒मं व॑ आ॒दाया॒हं भू॑यासमुत्त॒म आ वो॑ मू॒र्धान॑मक्रमीं । अ॒ध॒स्प॒दान्म॒ उद्व॑दत मं॒डूका॑ इवोद॒कान्मं॒डूका॑ उद॒कादि॑व ॥
यो॒ग॒ऽक्षे॒मं , वः॒ , आ॒ऽदाय॑ , अ॒हं , भू॒या॒सं॒ , उ॒त्ऽत॒मः , आ , वः॒ , मू॒र्धानं॑ , अ॒क्र॒मीं॒ । अ॒धः॒ऽप॒दात् , मे॒ , उत् , व॒द॒त॒ , मं॒डूकाः॑ऽइव , उ॒द॒कात् , मं॒डूकाः॑ , उ॒द॒कात्ऽइ॑व ॥
[१६७] तुभ्येदमिति चतुरृचस्य सूक्तस्य गाथिभार्गवौ विश्वामित्र जमदग्नी इंद्रस्त्रतीयायाः सोमवरुण बृहस्पत्यनुमतिधातृविधातारोजगती |
तुभ्ये॒दमिं॑द्र॒ परि॑ षिच्यते॒ मधु॒ त्वं सु॒तस्य॑ क॒लश॑स्य राजसि । त्वं र॒यिं पु॑रु॒वीरा॑मु नस्कृधि॒ त्वं तपः॑ परि॒तप्या॑जयः॒ स्वः॑ ॥
तुभ्य॑ , इ॒दं , इं॒द्र॒ , परि॑ , सि॒च्य॒ते॒ , मधु॑ , त्वं , सु॒तस्य॑ , क॒लश॑स्य , रा॒ज॒सि॒ । त्वं , र॒यिं , पु॒रु॒ऽवीरां॑ , ऊँ॒ इति॑ , नः॒ , कृ॒धि॒ , त्वं , तपः॑ , प॒रि॒ऽतप्य॑ , अ॒ज॒यः॒ , स्व१॒॑रिति॒ स्वः॑ ॥
स्व॒र्जितं॒ महि॑ मंदा॒नमंध॑सो॒ हवा॑महे॒ परि॑ श॒क्रं सु॒ताँ उप॑ । इ॒मं नो॑ य॒ज्ञमि॒ह बो॒ध्या ग॑हि॒ स्पृधो॒ जयं॑तं म॒घवा॑नमीमहे ॥
स्वः॒ऽजितं॑ , महि॑ , मं॒दा॒नं , अंध॑सः , हवा॑महे , परि॑ , श॒क्रं , सु॒तान् , उप॑ । इ॒मं , नः॒ , य॒ज्ञं , इ॒ह , बो॒धि॒ , आ , ग॒हि॒ , स्पृधः॑ , जयं॑तं , म॒घऽवा॑नं , ई॒म॒हे॒ ॥
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य॒ धर्म॑णि॒ बृह॒स्पते॒रनु॑मत्या उ॒ शर्म॑णि । तवा॒हम॒द्य म॑घव॒न्नुप॑स्तुतौ॒ धात॒र्विधा॑तः क॒लशाँ॑ अभक्षयं ॥
सोम॑स्य , राज्ञः॑ , वरु॑णस्य , धर्म॑णि , बृह॒स्पतेः॑ , अनु॑ऽमत्याः , ऊँ॒ इति॑ , शर्म॑णि । तव॑ , अ॒हं , अ॒द्य , म॒घ॒ऽव॒न् , उप॑ऽस्तुतौ , धातः॑ , विधा॑त॒रिति॒ विऽधा॑तः , क॒लशा॑न् , अ॒भ॒क्ष॒यं॒ ॥
प्रसू॑तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं॑ चे॒मं प्र॑थ॒मः सू॒रिरुन्मृ॑जे । सु॒ते सा॒तेन॒ यद्याग॑मं वां॒ प्रति॑ विश्वामित्रजमदग्नी॒ दमे॑ ॥
प्रऽसू॑तः , भ॒क्षं , अ॒क॒रं॒ , च॒रौ , अपि॑ , स्तोमं॑ , च॒ , इ॒मं , प्र॒थ॒मः , सू॒रिः , उत् , मृ॒जे॒ । सु॒ते , सा॒तेन॑ , यदि॑ , आ , अग॑मं , वां॒ , प्रति॑ , वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी॒ इति॑ , दमे॑ ॥
[१६८] वातस्येति चतुरृचस्य सूक्तस्य वातायनोनिलोवायुस्त्रिष्टुप् |
वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने॑ति स्त॒नय॑न्नस्य॒ घोषः॑ । दि॒वि॒स्पृग्या॑त्यरु॒णानि॑ कृ॒ण्वन्नु॒तो ए॑ति पृथि॒व्या रे॒णुमस्य॑न् ॥
वात॑स्य , नु , म॒हि॒मानं॑ , रथ॑स्य , रु॒जन् , ए॒ति॒ , स्त॒नय॑न् , अ॒स्य॒ , घोषः॑ । दि॒वि॒ऽस्पृक् , या॒ति॒ , अ॒रु॒णानि॑ , कृ॒ण्वन् , उ॒तो इति॑ , ए॒ति॒ , पृ॒थि॒व्या , रे॒णुं , अस्य॑न् ॥
सं प्रेर॑ते॒ अनु॒ वात॑स्य वि॒ष्ठा ऐनं॑ गच्छंति॒ सम॑नं॒ न योषाः॑ । ताभिः॑ स॒युक्स॒रथं॑ दे॒व ई॑यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥
सं , प्र , ई॒र॒ते॒ , अनु॑ , वात॑स्य , वि॒ऽस्थाः , आ , ए॒नं॒ , ग॒च्छं॒ति॒ , सम॑नं , न , योषाः॑ । ताभिः॑ , स॒ऽयुक् , स॒ऽरथं॑ , दे॒वः , ई॒य॒ते॒ , अ॒स्य , विश्व॑स्य , भुव॑नस्य , राजा॑ ॥
अं॒तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाहः॑ । अ॒पां सखा॑ प्रथम॒जा ऋ॒तावा॒ क्व॑ स्विज्जा॒तः कुत॒ आ ब॑भूव ॥
अं॒तरि॑क्षे , प॒थिऽभिः॑ , ईय॑मानः , न , नि , वि॒श॒ते॒ , क॒त॒मत् , च॒न , अह॒रिति॑ । अ॒पां , सखा॑ , प्र॒थ॒म॒ऽजाः , ऋ॒तऽवा॑ , क्व॑ , स्वि॒त् , जा॒तः , कुतः॑ , आ , ब॒भू॒व॒ ॥
आ॒त्मा दे॒वानां॒ भुव॑नस्य॒ गर्भो॑ यथाव॒शं च॑रति दे॒व ए॒षः । घोषा॒ इद॑स्य शृण्विरे॒ न रू॒पं तस्मै॒ वाता॑य ह॒विषा॑ विधेम ॥
आ॒त्मा , दे॒वानां॑ , भुव॑नस्य , गर्भः॑ , य॒था॒ऽव॒शं , च॒र॒ति॒ , दे॒वः , ए॒षः । घोषाः॑ , इत् , अ॒स्य॒ , शृ॒ण्वि॒रे॒ , न , रू॒पं , तस्मै॑ , वाता॑य , ह॒विषा॑ , वि॒धे॒म॒ ॥
[१६९] मयोभूरिति चतुरृचस्य सूक्तस्य काक्षीवतः शंबरोगावस्त्रिष्टुप् |
म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शंतां । पीव॑स्वतीर्जी॒वध॑न्याः पिबंत्वव॒साय॑ प॒द्वते॑ रुद्र मृळ ॥
म॒यः॒ऽभूः , वातः॑ , अ॒भि , वा॒तु॒ , उ॒स्राः , ऊर्ज॑स्वतीः , ओष॑धीः , आ , रि॒शं॒तां॒ । पीव॑स्वतीः , जी॒वऽध॑न्याः , पि॒बं॒तु॒ , अ॒व॒साय॑ , प॒त्ऽवते॑ , रु॒द्र॒ , मृ॒ळ॒ ॥
याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ । या अंगि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥
याः , सऽरू॑पाः , विऽरू॑पाः , एक॑ऽरूपाः , यासां॑ , अ॒ग्निः , इष्ट्या॑ , नामा॑नि , वेद॑ । याः , अंगि॑रसः , तप॑सा , इ॒ह , च॒क्रुः , ताभ्यः॑ , प॒र्ज॒न्य॒ , महि॑ , शर्म॑ , य॒च्छ॒ ॥
या दे॒वेषु॑ त॒न्व१॒॑मैर॑यंत॒ यासां॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ । ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिंद्र गो॒ष्ठे रि॑रीहि ॥
याः , दे॒वेषु॑ , त॒न्वं॑ , ऐर॑यंत , यासां॑ , सोमः॑ , विश्वा॑ , रू॒पाणि॑ , वेद॑ । ताः , अ॒स्मभ्यं॑ , पय॑सा , पिन्व॑मानाः , प्र॒जाऽव॑तीः , इं॒द्र॒ , गो॒ऽस्थे , रि॒री॒हि॒ ॥
प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै॑र्दे॒वैः पि॒तृभिः॑ संविदा॒नः । शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां॑ व॒यं प्र॒जया॒ सं स॑देम ॥
प्र॒जाऽप॑तिः , मह्यं॑ , ए॒ताः , ररा॑णः , विश्वैः॑ , दे॒वैः , पि॒तृऽभिः॑ , सं॒ऽवि॒दा॒नः । शि॒वाः , स॒तीः , उप॑ , नः॒ , गो॒ऽस्थं , आ , अ॒क॒रित्य॑कः , तासां॑ , व॒यं , प्र॒ऽजया॑ , सं , स॒दे॒म॒ ॥
[१७०] विभ्राडिति चतुरृचस्य सूक्तस्य सौर्यो विभ्राट् सूर्योजगत्यंयास्तारपंक्तिः |
वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतं । वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥
वि॒ऽभ्राट् , बृ॒हत् , पि॒ब॒तु॒ , सो॒म्यं , मधु॑ , आयुः॑ , दध॑त् , य॒ज्ञऽप॑तौ , अवि॑ऽहुतं । वात॑ऽजूतः , यः , अ॒भि॒ऽरक्ष॑ति , त्मना॑ , प्र॒ऽजाः , पु॒पो॒ष॒ , पु॒रु॒धा , वि , रा॒ज॒ति॒ ॥
वि॒भ्राड्बृ॒हत्सुभृ॑तं वाज॒सात॑मं॒ धर्मं॑दि॒वो ध॒रुणे॑ स॒त्यमर्पि॑तं । अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हंत॑मं॒ ज्योति॑र्जज्ञे असुर॒हा स॑पत्न॒हा ॥
वि॒ऽभ्राट् , बृ॒हत् , सुऽभृ॑तं , वा॒ज॒ऽसात॑मं , धर्मं॑ , दि॒वः , ध॒रुणे॑ , स॒त्यं , अर्पि॑तं । अ॒मि॒त्र॒ऽहा , वृ॒त्र॒ऽहा , द॒स्यु॒हंऽत॑मं , ज्योतिः॑ , ज॒ज्ञे॒ , अ॒सु॒र॒ऽहा , स॒प॒त्न॒ऽहा ॥
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् । वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो॑ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒ अच्यु॑तं ॥
इ॒दं , श्रेष्ठं॑ , ज्योति॑षां , ज्योतिः॑ , उ॒त्ऽत॒मं , वि॒श्व॒ऽजित् , ध॒न॒ऽजित् , उ॒च्य॒ते॒ , बृ॒हत् । वि॒श्व॒ऽभ्राट् , भ्रा॒जः , महि॑ , सूर्यः॑ , दृ॒शे , उ॒रु , प॒प्र॒थे॒ , सहः॑ , ओजः॑ , अच्यु॑तं ॥
वि॒भ्राजं॒ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः । येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता ॥
वि॒ऽभ्राज॑न् , ज्योति॑षा , स्वः॑ , अग॑च्छः , रो॒च॒नं , दि॒वः । येन॑ , इ॒मा , विश्वा॑ , भुव॑नानि , आऽभृ॑ता , वि॒श्वऽक॑र्मणा , वि॒श्वदे॑व्यऽवता ॥
[१७१] त्वंत्यमिति चतुर्भचस्य सूक्तस्य भार्गवइटइंद्रोगायत्री |
त्वं त्यमि॒टतो॒ रथ॒मिंद्र॒ प्रावः॑ सु॒ताव॑तः । अशृ॑णोः सो॒मिनो॒ हवं॑ ॥
त्वं , त्यं , इ॒टतः॑ , रथं॑ , इंद्र॑ , प्र , आ॒वः॒ , सु॒तऽव॑तः । अशृ॑णोः , सो॒मिनः॑ , हवं॑ ॥
त्वं म॒खस्य॒ दोध॑तः॒ शिरोऽव॑ त्व॒चो भ॑रः । अग॑च्छः सो॒मिनो॑ गृ॒हं ॥
त्वं , म॒खस्य॑ , दोध॑तः , शिरः॑ , अव॑ , त्व॒चः , भ॒रः॒ । अग॑च्छः , सो॒मिनः॑ , गृ॒हं ॥
त्वं त्यमिं॑द्र॒ मर्त्य॑मास्त्रबु॒ध्नाय॑ वे॒न्यं । मुहुः॑ श्रथ्ना मन॒स्यवे॑ ॥
त्वं , त्यं , इं॒द्र॒ , मर्त्यं॑ , आ॒स्त्र॒ऽबु॒ध्नाय॑ , वे॒न्यं । मुहुः॑ , श्र॒थ्नाः॒ , म॒न॒स्यवे॑ ॥
त्वं त्यमिं॑द्र॒ सूर्यं॑ प॒श्चा संतं॑ पु॒रस्कृ॑धि । दे॒वानां॑ चित्ति॒रो वशं॑ ॥
त्वं , त्यं , इं॒द्र॒ , सूर्यं॑ , प॒श्चा , संतं॑ , पु॒रः , कृ॒धि॒ । दे॒वानां॑ , चि॒त् , ति॒रः , वशं॑ ॥
[१७२] आयाहीति चतुरृचस्य सूक्तस्यांगिरसः संवर्त उषाद्विपदाविराट् |
आ या॑हि॒ वन॑सा स॒ह गावः॑ सचंत वर्त॒निं यदूध॑भिः ॥
आ , या॒हि॒ , वन॑सा , स॒ह , गावः॑ , स॒चं॒त॒ , व॒र्त॒निं , यत् , ऊध॑ऽभिः ॥ ।
आ या॑हि॒ वस्व्या॑ धि॒या मंहि॑ष्ठो जार॒यन्म॑खः सु॒दानु॑भिः ॥
आ , या॒हि॒ , वस्व्या॑ , धि॒या , मंहि॑ष्ठः , जा॒र॒यत्ऽम॑खः , सु॒दानु॑ऽभिः ॥ ।
पि॒तु॒भृतो॒ न तंतु॒मित्सु॒दान॑वः॒ प्रति॑ दध्मो॒ यजा॑मसि ॥
पि॒तु॒ऽभृतः॑ , न , तंतुं॑ , इत् , सु॒ऽदान॑वः , प्रति॑ , द॒ध्मः॒ , यजा॑मसि ॥ ।
उ॒षा अप॒ स्वसु॒स्तमः॒ सं व॑र्तयति वर्त॒निं सु॑जा॒तता॑ ॥
उ॒षाः , अप॑ , स्वसुः॑ , तमः॑ , सं , व॒र्त॒य॒ति॒ , व॒र्त॒निं , सु॒ऽजा॒तता॑ ॥ ।
[१७३] आत्वेति षडृचस्य सूक्तस्यांगिरसोध्रुवोराजानुष्टुप् |
आ त्वा॑हार्षमं॒तरे॑धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वांछंतु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥
आ , त्वा॒ , अ॒हा॒र्षं॒ , अं॒तः , ए॒धि॒ , ध्रु॒वः , ति॒ष्ठ॒ , अवि॑ऽचाचलिः । विशः॑ , त्वा॒ , सर्वाः॑ , वां॒छं॒तु॒ , मा , त्वत् , रा॒ष्ट्रं , अधि॑ , भ्र॒श॒त् ॥
इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलिः । इंद्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥
इ॒ह , ए॒व , ए॒धि॒ , मा , अप॑ , च्यो॒ष्ठाः॒ , पर्व॑तःऽइव , अवि॑ऽचाचलिः । इंद्र॑ऽइव , इ॒ह , ध्रु॒वः , ति॒ष्ठ॒ , इ॒ह , रा॒ष्ट्रं , ऊँ॒ इति॑ , धा॒र॒य॒ ॥
इ॒ममिंद्रो॑ अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ । तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा॑ उ॒ ब्रह्म॑ण॒स्पतिः॑ ॥
इ॒मं , इंद्रः॑ , अ॒दी॒ध॒र॒त् , ध्रु॒वं , ध्रु॒वेण॑ , ह॒विषा॑ । तस्मै॑ , सोमः॑ , अधि॑ , ब्र॒व॒त् , तस्मै॑ , ऊँ॒ इति॑ , ब्रह्म॑णः , पतिः॑ ॥
ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता इ॒मे । ध्रु॒वं विश्व॑मि॒दं जग॑द्ध्रु॒वो राजा॑ वि॒शाम॒यं ॥
ध्रु॒वा , द्यौः , ध्रु॒वा , पृ॒थि॒वी , ध्रु॒वासः॑ , पर्व॑ताः , इ॒मे । ध्रु॒वं , विश्वं॑ , इ॒दं , जग॑त् , ध्रु॒वः , राजा॑ , वि॒शां , अ॒यं ॥
ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ । ध्रु॒वं त॒ इंद्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वं ॥
ध्रु॒वं , ते॒ , राजा॑ , वरु॑णः , ध्रु॒वं , दे॒वः , बृह॒स्पतिः॑ । ध्रु॒वं , ते॒ , इंद्रः॑ , च॒ , अ॒ग्निः , च॒ , रा॒ष्ट्रं , धा॒र॒य॒तां॒ , ध्रु॒वं ॥
ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भि सोमं॑ मृशामसि । अथो॑ त॒ इंद्रः॒ केव॑ली॒र्विशो॑ बलि॒हृत॑स्करत् ॥
ध्रु॒वं , ध्रु॒वेण॑ , ह॒विषा॑ , अ॒भि , सोमं॑ , मृ॒शा॒म॒सि॒ । अथो॒ इति॑ , ते॒ , इंद्रः॑ , केव॑लीः , विशः॑ , ब॒लि॒ऽहृतः॑ , क॒र॒त् ॥
[१७४] अभीवर्तेनेति पंचर्चस्य सूक्तस्यांगिरसोभीवर्तो राजानुष्टुप् |
अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेंद्रो॑ अभिवावृ॒ते । तेना॒स्मान्ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ॥
अ॒भि॒ऽव॒र्तेन॑ , ह॒विषा॑ , येन॑ , इंद्रः॑ , अ॒भि॒ऽव॒वृ॒ते । तेन॑ , अ॒स्मान् , ब्र॒ह्म॒णः॒ , प॒ते॒ , अ॒भि , रा॒ष्ट्राय॑ , व॒र्त॒य॒ ॥
अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः । अ॒भि पृ॑त॒न्यंतं॑ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ॥
अ॒भि॒ऽवृत्य॑ , स॒ऽपत्ना॑न् , अ॒भि , याः , नः॒ , अरा॑तयः । अ॒भि , पृ॒त॒न्यंतं॑ , ति॒ष्ठ॒ , अ॒भि , यः , नः॒ , इ॒र॒स्यति॑ ॥
अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृतत् । अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥
अ॒भि , त्वा॒ , दे॒वः , स॒वि॒ता , अ॒भि , सोमः॑ , अ॒वी॒वृ॒त॒त् । अ॒भि , त्वा॒ , विश्वा॑ , भू॒तानि॑ , अ॒भि॒ऽव॒र्तः , यथा॑ , अस॑सि ॥
येनेंद्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः । इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवं ॥
येन॑ , इंद्रः॑ , ह॒विषा॑ , कृ॒त्वी , अभ॑वत् , द्यु॒म्नी , उ॒त्ऽत॒मः । इ॒दं , तत् , अ॒क्रि॒ , दे॒वाः॒ , अ॒स॒प॒त्नः , किल॑ , अ॒भु॒वं॒ ॥
अ॒स॒प॒त्नः स॑पत्न॒हाभिरा॑ष्ट्रो विषास॒हिः । यथा॒हमे॑षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च ॥
अ॒स॒प॒त्नः , स॒प॒त्न॒ऽहा , अ॒भिऽरा॑ष्ट्रः , वि॒ऽस॒स॒हिः । यथा॑ , अ॒हं , ए॒षां , भू॒तानां॑ , वि॒ऽराजा॑नि , जन॑स्य , च॒ ॥
[१७५] प्रवइति चतुरृचस्य सूक्तस्योर्ध्वग्रावार्बुदः सर्पऋषिपुत्रोग्रावाणोगायत्री |
प्र वो॑ ग्रावाणः सवि॒ता दे॒वः सु॑वतु॒ धर्म॑णा । धू॒र्षु यु॑ज्यध्वं सुनु॒त ॥
प्र , वः॒ , ग्रा॒वा॒णः॒ , स॒वि॒ता , दे॒वः , सु॒व॒तु॒ , धर्म॑णा । धूः॒ऽसु , यु॒ज्य॒ध्वं॒ , सु॒नु॒त ॥
ग्रावा॑णो॒ अप॑ दु॒च्छुना॒मप॑ सेधत दुर्म॒तिं । उ॒स्राः क॑र्तन भेष॒जं ॥
ग्रावा॑णः , अप॑ , दु॒च्छुनां॑ , अप॑ , से॒ध॒त॒ , दुः॒ऽम॒तिं । उ॒स्राः , क॒र्त॒न॒ , भे॒ष॒जं ॥
ग्रावा॑ण॒ उप॑रे॒ष्वा म॑ही॒यंते॑ स॒जोष॑सः । वृष्णे॒ दध॑तो॒ वृष्ण्यं॑ ॥
ग्रावा॑णः , उप॑रेषु , आ , म॒ही॒यंते॑ , स॒ऽजोष॑सः । वृ॒ष्णे॒ , दध॑तः , वृष्ण्यं॑ ॥
ग्रावा॑णः सवि॒ता नु वो॑ दे॒वः सु॑वतु॒ धर्म॑णा । यज॑मानाय सुन्व॒ते ॥
ग्रावा॑णः , स॒वि॒ता , नु , वः॒ , दे॒वः , सु॒व॒तु॒ , धर्म॑णा । यज॑मानाय , सु॒न्व॒ते ॥
[१७६] प्रसूनवइति चतुरृचस्य सूक्तस्यार्भवः सूनुरग्निराद्यायाऋभवोनुष्टुप् द्वितीया गायत्री |
प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वंत वृ॒जना॑ । क्षामा॒ ये वि॒श्वधा॑य॒सोऽश्नं॑धे॒नुं न मा॒तरं॑ ॥
प्र , सू॒नवः॑ , ऋ॒भू॒णां , बृ॒हत् , न॒वं॒त॒ , वृ॒जना॑ । क्षाम॑ , ये , वि॒श्वऽधा॑यसः , अश्न॑न् , धे॒नुं , न , मा॒तरं॑ ॥
प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसं । ह॒व्या नो॑ वक्षदानु॒षक् ॥
प्र , दे॒वं , दे॒व्या , धि॒या , भर॑त , जा॒तऽवे॑दसं । ह॒व्या , नः॒ , व॒क्ष॒त् , आ॒नु॒षक् ॥
अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते । रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वांचेतति॒ त्मना॑ ॥
अ॒यं , ऊँ॒ इति॑ , स्यः , प्र , दे॒व॒ऽयुः , होता॑ , य॒ज्ञाय॑ , नी॒य॒ते॒ । रथः॑ , न , योः , अ॒भिऽवृ॑तः , घृणि॑ऽवान् , चे॒त॒ति॒ , त्मना॑ ॥
अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः । सह॑सश्चि॒त्सही॑यांदे॒वो जी॒वात॑वे कृ॒तः ॥
अ॒यं , अ॒ग्निः , उ॒रु॒ष्य॒ति॒ , अ॒मृता॑त्ऽइव , जन्म॑नः । सह॑सः , चि॒त् , सही॑यान् , दे॒वः , जी॒वात॑वे , कृ॒तः ॥
[१७७] पतंगमिति तृचस्य सूक्तस्य प्राजापत्यः पतंगोमायाभेदस्त्रिष्टुप् आद्याजगती |
प॒तं॒गम॒क्तमसु॑रस्य मा॒यया॑ हृ॒दा प॑श्यंति॒ मन॑सा विप॒श्चितः॑ । स॒मु॒द्रे अं॒तः क॒वयो॒ वि च॑क्षते॒ मरी॑चीनां प॒दमि॑च्छंति वे॒धसः॑ ॥
प॒तं॒गं , अ॒क्तं , असु॑रस्य , मा॒यया॑ , हृ॒दा , प॒श्यं॒ति॒ , मन॑सा , वि॒पः॒ऽचितः॑ । स॒मु॒द्रे , अं॒तरिति॑ , क॒वयः॑ , वि , च॒क्ष॒ते॒ , मरी॑चीनां , प॒दं , इ॒च्छं॒ति॒ , वे॒धसः॑ ॥
प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां गं॑ध॒र्वो॑ऽवद॒द्गर्भे॑ अं॒तः । तां द्योत॑मानां स्व॒र्यं॑ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पां॑ति ॥
प॒तं॒गः , वाचं॑ , मन॑सा , बि॒भ॒र्ति॒ , तां , गं॒ध॒र्वः , अ॒व॒द॒त् , गर्भे॑ , अं॒तरिति॑ । तां , द्योत॑मानां , स्व॒र्यं॑ , म॒नी॒षां , ऋ॒तस्य॑ , प॒दे , क॒वयः॑ , नि , पां॒ति॒ ॥
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चरं॑तं । स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्वं॒तः ॥
अप॑श्यं , गो॒पां , अनि॑ऽपद्यमानं , आ , च॒ , परा॑ , च॒ , प॒थिऽभिः॑ , चरं॑तं । सः , स॒ध्रीचीः॑ , सः , विषू॑चीः , वसा॑नः , आ , व॒री॒व॒र्ति॒ , भुव॑नेषु , अं॒तरिति॑ ॥
[१७८] त्यमूष्विति तृचस्य सूक्तस्य तार्क्ष्योरिष्टनेमिस्तार्क्ष्यस्त्रिष्टुप् |
त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं स॒हावा॑नं तरु॒तारं॒ रथा॑नां । अरि॑ष्टनेमिं पृत॒नाज॑मा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥
त्यं , ऊँ॒ इति॑ , सु , वा॒जिनं॑ , दे॒वऽजू॑तं , स॒हऽवा॑नं , त॒रु॒ऽतारं॑ , रथा॑नां । अरि॑ष्टऽनेमिं , पृ॒त॒नाजं॑ , आ॒शुं , स्व॒स्तये॑ , तार्क्ष्यं॑ , इ॒ह , हु॒वे॒म॒ ॥
इंद्र॑स्येव रा॒तिमा॒जोहु॑वानाः स्व॒स्तये॒ नाव॑मि॒वा रु॑हेम । उर्वी॒ न पृथ्वी॒ बहु॑ले॒ गभी॑रे॒ मा वा॒मेतौ॒ मा परे॑तौ रिषाम ॥
इंद्र॑स्यऽइव , रा॒तिं , आ॒ऽजोहु॑वानाः , स्व॒स्तये॑ , नावं॑ऽइव , आ , रु॒हे॒म॒ । उर्वी॒ इति॑ , न , पृथ्वी॒ इति॑ , बहु॑ले॒ इति॑ , गभी॑रे॒ इति॑ , मा , वां॒ , आऽइ॑तौ , मा , परा॑ऽइतौ , रि॒षा॒म॒ ॥
स॒द्यश्चि॒द्यः शव॑सा॒ पंच॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॒तान॑ । स॒ह॒स्र॒साः श॑त॒सा अ॑स्य॒ रंहि॒र्न स्मा॑ वरंते युव॒तिं न शर्यां॑ ॥
स॒द्यः , चि॒त् , यः , शव॑सा , पंच॑ , कृ॒ष्टीः , सूर्यः॑ऽइव , ज्योति॑षा , अ॒पः , त॒तान॑ । स॒ह॒स्र॒ऽसाः , श॒त॒ऽसाः , अ॒स्य॒ , रंहिः॑ , न , स्म॒ , व॒रं॒ते॒ , यु॒व॒तिं , न , शर्यां॑ ॥
[१७९] उत्तिष्ठतेति तृचस्य सूक्तस्यौशीनरः शिबिः १ काशिराजः प्रतर्दनो रोहिदश्ववसुमना३ इर्तिक्रर्मेणैकर्चा इंद्रत्रिष्टुबाद्यानुष्टुप् |
उत्ति॑ष्ठ॒ताव॑ पश्य॒तेंद्र॑स्य भा॒गमृ॒त्वियं॑ । यदि॑ श्रा॒तो जु॒होत॑न॒ यद्यश्रा॑तो मम॒त्तन॑ ॥
उत् , ति॒ष्ठ॒त॒ , अव॑ , प॒श्य॒त॒ , इंद्र॑स्य , भा॒गं , ऋ॒त्वियं॑ । यदि॑ , श्रा॒तः , जु॒होत॑न , यदि॑ , अश्रा॑तः , म॒म॒त्तन॑ ॥
श्रा॒तं ह॒विरो ष्विं॑द्र॒ प्र या॑हि ज॒गाम॒ सूरो॒ अध्व॑नो॒ विम॑ध्यं । परि॑ त्वासते नि॒धिभिः॒ सखा॑यः कुल॒पा न व्रा॒जप॑तिं॒ चरं॑तं ॥
श्रा॒तं , ह॒विः , ओ इति॑ , सु , इं॒द्र॒ , प्र , या॒हि॒ , ज॒गाम॑ , सूरः॑ , अध्व॑नः , विऽम॑ध्यं । परि॑ , त्वा॒ , आ॒स॒ते॒ , नि॒धिऽभिः॑ , सखा॑यः , कु॒ल॒ऽपाः , न , व्रा॒जऽप॑तिं , चरं॑तं ॥
श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा॑तं मन्ये॒ तदृ॒तं नवी॑यः । माध्यं॑दिनस्य॒ सव॑नस्य द॒ध्नः पिबें॑द्र वज्रिन्पुरुकृज्जुषा॒णः ॥
श्रा॒तं , म॒न्ये॒ , ऊध॑नि , श्रा॒तं , अ॒ग्नौ , सुऽश्रा॑तं , म॒न्ये॒ , तत् , ऋ॒तं , नवी॑यः । माध्यं॑दिनस्य , सव॑नस्य , द॒ध्नः , पिब॑ , इं॒द्र॒ , व॒ज्रि॒न् , पु॒रु॒ऽकृ॒त् , जु॒षा॒णः ॥
[१८०] प्रससाहिषइति तृचस्य सूक्तस्यैंद्रिर्जयइंद्रस्त्रिष्टुप् |
प्र स॑साहिषे पुरुहूत॒ शत्रूं॒ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इंद्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पतिः॒ सिंधू॑नामसि रे॒वती॑नां ॥
प्र , स॒स॒हि॒षे॒ , पु॒रु॒ऽहू॒त॒ , शत्रू॑न् , ज्येष्ठः॑ , ते॒ , शुष्मः॑ , इ॒ह , रा॒तिः , अ॒स्तु॒ । इंद्र॑ , आ , भ॒र॒ , दक्षि॑णेन , वसू॑नि , पतिः॑ , सिंधू॑नां , अ॒सि॒ , रे॒वती॑नां ॥
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गंथा॒ पर॑स्याः । सृ॒कं सं॒शाय॑ प॒विमिं॑द्र ति॒ग्मं वि शत्रूं॑ताळ्हि॒ वि मृधो॑ नुदस्व ॥
मृ॒गः , न , भी॒मः , कु॒च॒रः , गि॒रि॒ऽस्थाः , प॒रा॒ऽवतः॑ , आ , ज॒गं॒थ॒ , पर॑स्याः । सृ॒कं , सं॒ऽशाय॑ , प॒विं , इं॒द्र॒ , ति॒ग्मं , वि , शत्रू॑न् , ता॒ळ्हि॒ , वि , मृधः॑ , नु॒द॒स्व॒ ॥
इंद्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नां । अपा॑नुदो॒ जन॑ममित्र॒यंत॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कं ॥
इंद्र॑ , क्ष॒त्रं , अ॒भि , वा॒मं , ओजः॑ , अजा॑यथाः , वृ॒ष॒भ॒ , च॒र्ष॒णी॒नां । अप॑ , अ॒नु॒दः॒ , जनं॑ , अ॒मि॒त्र॒ऽयंतं॑ , उ॒रुं , दे॒वेभ्यः॑ , अ॒कृ॒णोः॒ , ऊँ॒ इति॑ , लो॒कं ॥
[१८१] प्रथेश्चेति तृचस्य सूक्तस्य वासिष्ठः प्रथो १। भारद्वाजःसप्रथ२ सौर्याघर्म३ कर्चाविश्वेदेवास्त्रिष्टुप् |
प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो॑ ह॒विर्यत् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ॥
प्रथः॑ , च॒ , यस्य॑ , स॒ऽप्रथः॑ , च॒ , नाम॑ , आनु॑ऽस्तुभस्य , ह॒विषः॑ , ह॒विः , यत् । धा॒तुः , द्युता॑नात् , स॒वि॒तुः , च॒ , विष्णोः॑ , र॒थं॒ऽत॒रं , आ , ज॒भा॒र॒ , वसि॑ष्ठः ॥
अविं॑दं॒ते अति॑हितं॒ यदासी॑द्य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑र्भ॒रद्वा॑जो बृ॒हदा च॑क्रे अ॒ग्नेः ॥
अविं॑दन् , ते , अति॑ऽहितं , यत् , आसी॑त् , य॒ज्ञस्य॑ , धाम॑ , प॒र॒मं , गुहा॑ , यत् । धा॒तुः , द्युता॑नात् , स॒वि॒तुः , च॒ , विष्णोः॑ , भ॒रत्ऽवा॑जः , बृ॒हत् , आ , च॒क्रे॒ , अ॒ग्नेः ॥
ते॑ऽविंद॒न्मन॑सा॒ दीध्या॑ना॒ यजुः॑ ष्क॒न्नं प्र॑थ॒मं दे॑व॒यानं॑ । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या॑दभरन्घ॒र्ममे॒ते ॥
ते , अ॒विं॒द॒न् , मन॑सा , दीध्या॑नाः , यजुः॑ , स्क॒न्नं , प्र॒थ॒मं , दे॒व॒ऽयानं॑ । धा॒तुः , द्युता॑नात् , स॒वि॒तुः , च॒ , विष्णोः॑ , आ , सूर्या॑त् , अ॒भ॒र॒न् , घ॒र्मं , ए॒ते ॥
[१८२] बृहस्पतिरिति तृचस्य सूक्तस्य बार्हस्पत्यस्त पुर्मूर्धा बृहस्पतिस्त्रिष्टुप् |
बृह॒स्पति॑र्नयतु दु॒र्गहा॑ ति॒रः पुन॑र्नेषद॒घशं॑साय॒ मन्म॑ । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥
बृह॒स्पतिः॑ , न॒य॒तु॒ , दुः॒ऽगहा॑ , ति॒रः , पुनः॑ , ने॒ष॒त् , अ॒घऽशं॑साय , मन्म॑ । क्षि॒पत् , अश॑स्तिं , अप॑ , दुः॒ऽम॒तिं , ह॒न् , अथ॑ , क॒र॒त् , यज॑मानाय , शं , योः ॥
नरा॒शंसो॑ नोऽवतु प्रया॒जे शं नो॑ अस्त्वनुया॒जो हवे॑षु । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥
नरा॒शंसः॑ , नः॒ , अ॒व॒तु॒ , प्र॒ऽया॒जे , शं , नः॒ , अ॒स्तु॒ , अ॒नु॒ऽया॒जः , हवे॑षु । क्षि॒पत् , अश॑स्तिं , अप॑ , दुः॒ऽम॒तिं , ह॒न् , अथ॑ , क॒र॒त् , यज॑मानाय , शं , योः ॥
तपु॑र्मूर्धा तपतु र॒क्षसो॒ ये ब्र॑ह्म॒द्विषः॒ शर॑वे॒ हंत॒वा उ॑ । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥
तपुः॑ऽमूर्धा , त॒प॒तु॒ , र॒क्षसः॑ , ये , ब्र॒ह्म॒ऽद्विषः॑ , शर॑वे , हंत॒वै , ऊँ॒ इति॑ । क्षि॒पत् , अश॑स्तिं , अप॑ , दुः॒ऽम॒तिं , ह॒न् , अथ॑ , क॒र॒त् , यज॑मानाय , शं , योः ॥
[१८३] अपश्यमिति तृचस्य सूक्तस्य प्राजापत्यः प्रजावानृषिः यजमानोयजमानपत्नीहोता इतिक्रमेणदेवतास्त्रिष्टुप् | (अपश्यंत्वेत्येतस्याद्य यायजमानमीक्षते द्वितीयया पत्नींतृतीययात्मानं आ। श्रौ।)
अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तं । इ॒ह प्र॒जामि॒ह र॒यिं ररा॑णः॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकाम ॥
अप॑श्यं , त्वा॒ , मन॑सा , चेकि॑तानं , तप॑सः , जा॒तं , तप॑सः , विऽभू॑तं । इ॒ह , प्र॒ऽजां , इ॒ह , र॒यिं , ररा॑णः , प्र , जा॒य॒स्व॒ , प्र॒ऽजया॑ , पु॒त्र॒ऽका॒म॒ ॥
अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वायां॑ त॒नू ऋत्व्ये॒ नाध॑मानां । उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूयाः॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकामे ॥
अप॑श्यं , त्वा॒ , मन॑सा , दीध्या॑नां , स्वायां॑ , त॒नू इति॑ , ऋत्व्ये॑ , नाध॑मानां । उप॑ , मां , उ॒च्चा , यु॒व॒तिः , ब॒भू॒याः॒ , प्र , जा॒य॒स्व॒ , प्र॒ऽजया॑ , पु॒त्र॒ऽका॒मे॒ ॥
अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्वं॒तः । अ॒हं प्र॒जा अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् ॥
अ॒हं , गर्भं॑ , अ॒द॒धां॒ , ओष॑धीषु , अ॒हं , विश्वे॑षु , भुव॑नेषु , अं॒तरिति॑ । अ॒हं , प्र॒ऽजाः , अ॒ज॒न॒यं॒ , पृ॒थि॒व्यां , अ॒हं , जनि॑ऽभ्यः , अ॒प॒रीषु॑ , पु॒त्रान् ॥
[१८४] विष्णुरिति तृचस्य सूक्तस्य गर्भकर्तात्वष्टा आद्याया विष्णुत्वष्टृप्रजापतिधातारो द्वितीयायाः सिनीवालि सरस्वत्यश्विनस्तृतीयायाअश्विनावनुष्टुप् | (प्राजापत्योविष्णुर्वाऋषिः) |
विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिंशतु । आ सिं॑चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते ॥
विष्णुः॑ , योनिं॑ , क॒ल्प॒य॒तु॒ , त्वष्टा॑ , रू॒पाणि॑ , पिं॒श॒तु॒ । आ , सिं॒च॒तु॒ , प्र॒जाऽप॑तिः , धा॒ता , गर्भं॑ , द॒धा॒तु॒ , ते॒ ॥
गर्भं॑ धेहि सिनीवालि॒ गर्भं॑ धेहि सरस्वति । गर्भं॑ ते अ॒श्विनौ॑ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा ॥
गर्भं॑ , धे॒हि॒ , सि॒नी॒वा॒लि॒ , गर्भं॑ , धे॒हि॒ , स॒र॒स्व॒ति॒ । गर्भं॑ , ते॒ , अ॒श्विनौ॑ , दे॒वौ , आ , ध॒त्तां॒ , पुष्क॑रऽस्रजा ॥
हि॒र॒ण्ययी॑ अ॒रणी॒ यं नि॒र्मंथ॑तो अ॒श्विना॑ । तं ते॒ गर्भं॑ हवामहे दश॒मे मा॒सि सूत॑वे ॥
हि॒र॒ण्ययी॒ इति॑ , अ॒रणी॒ इति॑ , यं , निः॒ऽमंथ॑तः , अ॒श्विना॑ । तं , ते॒ , गर्भं॑ , ह॒वा॒म॒हे॒ , द॒श॒मे , मा॒सि , सूत॑वे ॥
[१८५] महीति तृचस्य सूक्तस्य वारुणिः सत्यधृतिरादित्या गायत्री | (महि सत्यधृतिर्वारुणिरादित्यं स्वस्त्ययनमित्यनुक्रमण्या अदितिर्देवतायस्येत्यादित्यं आदित्योदेवतायस्येत्यादित्यमिति द्वैविध्येनप्राप्ता वप्यत्रादित्यानामेवदेवतात्वंनादितेः 'माहित्रंयन्महित्रीणामादित्यानांस्तुतिर्विदुः' इतिशौनकोक्तेः)|
महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः । दु॒रा॒धर्षं॒ वरु॑णस्य ॥
महि॑ , त्री॒णां , अवः॑ , अ॒स्तु॒ , द्यु॒क्षं , मि॒त्रस्य॑ , अ॒र्य॒म्णः । दुः॒ऽआ॒धर्षं॑ , वरु॑णस्य ॥
न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे॑ रि॒पुर॒घशं॑सः ॥
न॒हि , तेषां॑ , अ॒मा , च॒न , न , अध्व॑ऽसु , वा॒र॒णेषु॑ । ईशे॑ , रि॒पुः , अ॒घऽशं॑सः ॥
यस्मै॑ पु॒त्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य । ज्योति॒र्यच्छं॒त्यज॑स्रं ॥
यस्मै॑ , पु॒त्रासः॑ , अदि॑तेः , प्र , जी॒वसे॑ , मर्त्या॑य । ज्योतिः॑ , यच्छं॑ति , अज॑स्रं ॥
[१८६] वातइति तृचस्य सूकस्य वातायनउलोवायुर्गायत्री |
वात॒ आ वा॑तु भेष॒जं शं॒भु म॑यो॒भु नो॑ हृ॒दे । प्र ण॒ आयूं॑षि तारिषत् ॥
वातः॑ , आ , वा॒तु॒ , भे॒ष॒जं , शं॒ऽभु , म॒यः॒ऽभु , नः॒ , हृ॒दे । प्र , नः॒ , आयूं॑षि , ता॒रि॒ष॒त् ॥
उ॒त वा॑त पि॒तासि॑ न उ॒त भ्रातो॒त नः॒ सखा॑ । स नो॑ जी॒वात॑वे कृधि ॥
उ॒त , वा॒त॒ , पि॒ता , अ॒सि॒ , नः॒ , उ॒त , भ्राता॑ , उ॒त , नः॒ , सखा॑ । सः , नः॒ , जी॒वात॑वे , कृ॒धि॒ ॥
यद॒दो वा॑त ते गृ॒हे॒३॒॑ऽमृत॑स्य नि॒धिर्हि॒तः । ततो॑ नो देहि जी॒वसे॑ ॥
यत् , अ॒दः , वा॒त॒ , ते॒ , गृ॒हे , अ॒मृत॑स्य , नि॒ऽधिः , हि॒तः । ततः॑ , नः॒ , दे॒हि॒ , जी॒वसे॑ ॥
[१८७] प्राग्नयइति पंचर्चस्य सूक्तस्याग्नेयोवत्सोग्निर्गायत्री |
प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नां । स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
प्र , अ॒ग्नये॑ , वाचं॑ , ई॒र॒य॒ , वृ॒ष॒भाय॑ , क्षि॒ती॒नां । सः , नः॒ , प॒र्ष॒त् , अति॑ , द्विषः॑ ॥
यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते । स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
यः , पर॑स्याः , प॒रा॒ऽवतः॑ , ति॒रः , धन्व॑ , अ॒ति॒ऽरोच॑ते । सः , नः॒ , प॒र्ष॒त् , अति॑ , द्विषः॑ ॥
यो रक्षां॑सि नि॒जूर्व॑ति॒ वृषा॑ शु॒क्रेण॑ शो॒चिषा॑ । स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
यः , रक्षां॑सि , नि॒ऽजूर्व॑ति , वृषा॑ , शु॒क्रेण॑ , शो॒चिषा॑ । सः , नः॒ , प॒र्ष॒त् , अति॑ , द्विषः॑ ॥
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति । स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
यः , विश्वा॑ , अ॒भि , वि॒ऽपश्य॑ति , भुव॑ना , सं , च॒ , पश्य॑ति । सः , नः॒ , प॒र्ष॒त् , अति॑ , द्विषः॑ ॥
यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत । स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
यः , अ॒स्य , पा॒रे , रज॑सः , शु॒क्रः , अ॒ग्निः , अजा॑यत । सः , नः॒ , प॒र्ष॒त् , अति॑ , द्विषः॑ ॥
[१८८] प्रनूनमिति तृचस्य सूक्तस्याग्नेयः श्येनोजातवेदाअग्निर्गायत्री |
प्र नू॒नं जा॒तवे॑दस॒मश्वं॑ हिनोत वा॒जिनं॑ । इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥
प्र , नू॒नं , जा॒तऽवे॑दसं , अश्वं॑ , हि॒नो॒त॒ , वा॒जिनं॑ । इ॒दं , नः॒ , ब॒र्हिः , आ॒ऽसदे॑ ॥
अ॒स्य प्र जा॒तवे॑दसो॒ विप्र॑वीरस्य मी॒ळ्हुषः॑ । म॒हीमि॑यर्मि सुष्टु॒तिं ॥
अ॒स्य , प्र , जा॒तऽवे॑दसः , विप्र॑ऽवीरस्य , मी॒ळ्हुषः॑ । म॒हीं , इ॒य॒र्मि॒ , सु॒ऽस्तु॒तिं ॥
या रुचो॑ जा॒तवे॑दसो देव॒त्रा ह॑व्य॒वाह॑नीः । ताभि॑र्नो य॒ज्ञमि॑न्वतु ॥
याः , रुचः॑ , जा॒तऽवे॑दसः , दे॒व॒ऽत्रा , ह॒व्य॒ऽवाह॑नीः । ताभिः॑ , नः॒ , य॒ज्ञं , इ॒न्व॒तु॒ ॥
[१८९] आयंगौरिति तृचस्य सूक्तस्य सार्पराज्ञी सूर्यगायत्री । (अत्रयद्यपि सार्पराज्ञ्यात्मदैवतमित्यनेनप्रकृतासार्पराज्ञीदेवताप्राप्नोति तथापि प्रयोक्तृभिः सूर्यस्यग्रहणात्पाक्षिकोपिसूर्योस्माभि रुपाक्तः
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यंत्स्वः॑ ॥
आ , अ॒यं , गौः , पृश्निः॑ , अ॒क्र॒मी॒त् , अस॑दत् , मा॒तरं॑ , पु॒रः । पि॒तरं॑ , च॒ , प्र॒ऽयन् , स्व१॒॑रिति॒ स्वः॑ ॥
अं॒तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती । व्य॑ख्यन्महि॒षो दिवं॑ ॥
अं॒तरिति॑ , च॒र॒ति॒ , रो॒च॒ना , अ॒स्य , प्रा॒णात् , अ॒प॒ऽअ॒न॒ती । वि , अ॒ख्य॒त् , म॒हि॒षः , दिवं॑ ॥
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑तं॒गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥
त्रिं॒शत् , धाम॑ , वि , रा॒ज॒ति॒ , वाक् , प॒तं॒गाय॑ , धी॒य॒ते॒ । प्रति॑ , वस्तोः॑ , अह॑ , द्युऽभिः॑ ॥
[१९०] ऋतंचेति तृचस्य सूक्तस्य माधुच्छंदसोघमर्षणोभाववृत्तिरनुष्टुप् |
ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत । ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥
ऋ॒तं , च॒ , स॒त्यं , च॒ , अ॒भिऽइ॑द्धात् , तप॑सः , अधि॑ , अ॒जा॒य॒त॒ । ततः॑ , रात्री॑ , अ॒जा॒य॒त॒ , ततः॑ , स॒मु॒द्रः , अ॒र्ण॒वः ॥
स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥
स॒मु॒द्रात् , अ॒र्ण॒वात् , अधि॑ , सं॒व॒त्स॒रः , अ॒जा॒य॒त॒ । अ॒हो॒रा॒त्राणि॑ , वि॒ऽदध॑त् , विश्व॑स्य , मि॒ष॒तः , व॒शी ॥
सू॒र्या॒चं॒द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं॑ च पृथि॒वीं चां॒तरि॑क्ष॒मथो॒ स्वः॑ ॥
सू॒र्या॒चं॒द्र॒मसौ॑ , धा॒ता , य॒था॒ऽपू॒र्वं , अ॒क॒ल्प॒य॒त् । दिवं॑ , च॒ , पृ॒थि॒वीं , च॒ , अं॒तरि॑क्षं , अथो॒ इति॑ , स्व१॒॑रिति॒ स्वः॑ ॥
[१९१] संसमिति चतुरृचस्य सूक्तस्यांगिरसः संवननः आद्याया अग्निस्ततस्तिसृणां संज्ञानमनुष्टुप् तृतीयात्रिष्टुप् |
संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ । इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥
संऽसं॑ , इत् , यु॒व॒से॒ , वृ॒ष॒न् , अग्ने॑ , विश्वा॑नि , अ॒र्यः , आ । इ॒ळः , प॒दे , सं , इ॒ध्य॒से॒ , सः , नः॒ , वसू॑नि , आ , भ॒र॒ ॥
सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां॑सि जानतां । दे॒वा भा॒गं यथा॒ पूर्वे॑ संजाना॒ना उ॒पास॑ते ॥
सं , ग॒च्छ॒ध्वं॒ , सं , व॒द॒ध्वं॒ , सं , वः॒ , मनां॑सि , जा॒न॒तां॒ । दे॒वाः , भा॒गं , यथा॑ , पूर्वे॑ , सं॒ऽजा॒ना॒नाः , उ॒प॒ऽआस॑ते ॥
स॒मा॒नो मंत्रः॒ समि॑तिः समा॒नी स॑मा॒नं मनः॑ स॒ह चि॒त्तमे॑षां । स॒मा॒नं मंत्र॑म॒भि मं॑त्रये वः समा॒नेन॑ वो ह॒विषा॑ जुहोमि ॥
स॒मा॒नः , मंत्रः॑ , संऽइ॑तिः , स॒मा॒नी , स॒मा॒नं , मनः॑ , स॒ह , चि॒त्तं , ए॒षां॒ । स॒मा॒नं , मंत्रं॑ , अ॒भि , मं॒त्र॒ये॒ , वः॒ , स॒मा॒नेन॑ , वः॒ , ह॒विषा॑ , जु॒हो॒मि॒ ॥
स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः । स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ वः॒ सुस॒हास॑ति ॥
स॒मा॒नी , वः॒ , आऽकू॑तिः , स॒मा॒ना , हृद॑यानि , वः॒ । स॒मा॒नं , अ॒स्तु॒ , वः॒ , मनः॑ , यथा॑ , वः॒ , सुऽस॑ह , अस॑ति ॥