वेदपारायण आरंभ मंत्राणि
गणानां त्वेत्यस्य शौनको गृत्समदः ब्रह्मणस्पतिर्जगती, बृहस्पत इत्यस्य बृहस्पतिः ज्ञानं त्रिष्टुप्, नि षु सीदेत्यस्य वैरूपो नभ प्रभेदनः इंद्रस्त्रिष्टुप्, प्र णो देवीत्यस्य बार्हस्पत्यो भरद्वाजः सरस्वती गायत्री, आ नो दिव इत्यस्य भौमोत्रिः विश्वेदेवास्त्रिष्टुप्, वेद वातस्येत्यस्य आजीगर्तिः शुनःशेपः वरुणो गायत्री, शतधारमित्यस्य गाथिनो विश्वामित्रः उपाध्यायस्त्रिष्टुप्, ऋचो अक्षरेत्यस्य औचथ्यो दीर्घतमाः विश्वेदेवास्त्रिष्टुप् छंदः ॥
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमं । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नं ॥2.023.01, 2.6.029.01
बृह॑स्पते प्रथ॒मं वा॒चो, अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा᳚नाः । यदे᳚षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी᳚त्प्रे॒णा तदे᳚षां॒ निहि॑तं॒ गुहा॒विः ॥10.071.01, 8.2.023.01
नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नां । न ऋ॒ते त्वत् क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवंचि॒त्रम॑र्च ॥10.112.09, 8.6.013.04
प्र णो᳚ दे॒वी सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती । धी॒नाम॑वि॒त्र्य॑वतु ॥6.061.04, 4.8.030.04
आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता गं᳚तु य॒ज्ञं । हवं᳚ दे॒वी जु॑जुषा॒णा घृ॒ताची᳚ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥5.043.11, 4.2.022.01
वेद॒ वात॑स्य वर्त॒निमु॒रोरृ॒ष्वस्य॑ बृह॒तः । वेदा॒ ये, अ॒ध्यास॑ते ॥1.025.09, 1.2.017.04
श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणं विप॒श्चितं᳚ पि॒तरं॒ वक्त्वा᳚नां । मे॒ळिं मदं᳚तं पि॒त्रोरु॒पस्थे॒ तं रो᳚दसी पिपृतं सत्य॒वाचं᳚ ॥3.026.09, 3.1.027.04
ऋ॒चो, अ॒क्षरे᳚ पर॒मे व्यो᳚म॒न् यस्मि᳚न् दे॒वा, अधि॒ विश्वे᳚ निषे॒दुः । यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा᳚सते ॥1.164.39, 2.3.021.04
साक्षान्मूल प्रमाणाय विष्णोरमित तेजसे । आद्याय सर्व वेदानां ऋग्वेदाय नमोनमः ॥
1 । गणेश सूक्तं
आतूनैति नवर्चस्य सूक्तस्य काण्वः कुसीदींद्रो गायत्री, गणानां त्वेत्यस्य शौनको गृत्समदः ब्रह्मणस्पतिर्जगती, नि षु सीदेति द्व्यर्चस्य वैरूपो नभःप्रभेदन इंद्रस्त्रिष्टुप् ॥
आ तू न॑ इंद्र क्षु॒मंतं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय । म॒हा॒ह॒स्ती दक्षि॑णेन ॥8.081.01, 6.5.037.01
वि॒द्मा हि त्वा᳚ तुविकू॒र्मिं तु॒विदे᳚ष्णं तु॒वीम॑घं । तु॒वि॒मा॒त्रमवो᳚भिः ॥8.081.02, 6.5.037.02
न॒हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्सं᳚तं । भी॒मं न गां वा॒रयं᳚ते ॥8.081.03, 6.5.037.03
एतो॒ न्विंद्रं॒ स्तवा॒मेशा᳚नं॒ वस्वः॑ स्व॒राजं᳚ । न राध॑सा मर्धिषन्नः ॥8.081.04, 6.5.037.04
प्र स्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त् साम॑ गी॒यमा᳚नं । अ॒भि राध॑सा जुगुरत् ॥8.081.05, 6.5.037.05
आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श । इंद्र॒ मा नो॒ वसो॒र्निर्भा᳚क् ॥8.081.06, 6.5.038.01
उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नां । अदा᳚शूष्टरस्य॒ वेदः॑ ॥8.081.07, 6.5.038.02
इंद्र॒ य उ॒ नु ते॒, अस्ति॒ वाजो॒ विप्रे᳚भिः॒ सनि॑त्वः । अ॒स्माभिः॒ सु तं स॑नुहि ॥8.081.08, 6.5.038.03
स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्यं᳚ वि॒श्वश्चं᳚द्राः । वशै᳚श्च म॒क्षू ज॑रंते ॥8.081.09, 6.5.038.04
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमं । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नं ॥2.023.01, 2.6.029.01
नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नां । न ऋ॒ते त्वत् क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवंचि॒त्रम॑र्च ॥10.112.09, 8.6.013.04
अ॒भि॒ख्या नो᳚ मघव॒न् नाध॑माना॒न् त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नां । रणं᳚ कृधि रणकृत् सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये, अ॒स्मान् ॥10.112.10, 8.6.013.05
2 । पुरुष सूक्तं
सहस्रशीर्षेति षोळशर्चस्य सूक्तस्य नारायणः पुरुषोनुष्टुबंत्यात्रिष्टुप् ।
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् । स भूमिं᳚ वि॒श्वतो᳚ वृ॒त्वाऽत्य॑तिष्ठद्दशांगु॒लं ॥10.090.01, 8.4.017.01
पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्यं᳚ । उ॒तामृ॑त॒त्वस्येशा᳚नो॒ यदन्ने᳚नाति॒रोह॑ति ॥10.090.02, 8.4.017.02
ए॒तावा᳚नस्य महि॒माऽतो॒ ज्यायाँ᳚श्च॒ पूरु॑षः । पादो᳚ऽस्य॒ विश्वा᳚ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं᳚ दि॒वि ॥10.090.03, 8.4.017.03
त्रि॒पादू॒र्ध्व उदै॒त् पुरु॑षः॒ पादो᳚ऽस्ये॒हाभ॑व॒त् पुनः॑ । ततो॒ विष्व॒ङ् व्य॑क्रामत् साशनानश॒ने, अ॒भि ॥10.090.04, 8.4.017.04
तस्मा᳚द्वि॒राळ॑जायत वि॒राजो॒, अधि॒ पूरु॑षः । स जा॒तो, अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो᳚ पु॒रः ॥10.090.05, 8.4.017.05
यत् पुरु॑षेण ह॒विषा᳚ दे॒वा य॒ज्ञमत᳚न्वत । व॒सं॒तो, अ॑स्यासी॒दाज्यं᳚ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥10.090.06, 8.4.018.01
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न् पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा, अ॑यजंत सा॒ध्या ऋष॑यश्च॒ ये ॥10.090.07, 8.4.018.02
तस्मा᳚द्य॒ज्ञात् स᳚र्व॒हुतः॒ संभृ॑तं पृषदा॒ज्यं । प॒शून् ताँश्च॑क्रे वाय॒व्या᳚नार॒ण्यान् ग्रा॒म्याश्च॒ ये ॥10.090.08, 8.4.018.03
तस्मा᳚द्य॒ज्ञात् स᳚र्व॒हुत॒ ऋचः॒ सामा᳚नि जज्ञिरे । छंदां᳚सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा᳚दजायत ॥10.090.09, 8.4.018.04
तस्मा॒दश्वा᳚ अजायंत॒ ये के चो᳚भ॒याद॑तः । गावो᳚ ह जज्ञिरे॒ तस्मा॒त् तस्मा᳚ज्जा॒ता, अ॑जा॒वयः॑ ॥10.090.10, 8.4.018.05
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्य॒ कौ बा॒हू का, ऊ॒रू पादा᳚ उच्येते ॥10.090.11, 8.4.019.01
ब्रा॒ह्म॒णो᳚ स्य॒ मुख॑मासीद्बा॒हू रा᳚ज॒न्यः॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो, अ॑जायत ॥10.090.12, 8.4.019.02
चं॒द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो᳚ अजायत । मुखा॒दिंद्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥10.090.13, 8.4.019.03
नाभ्या᳚ आसीदं॒तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त् तथा᳚ लो॒काँ, अ॑कल्पयन् ॥10.090.14, 8.4.019.04
स॒प्तास्या᳚सन् परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त᳚न्वा॒ना, अब॑ध्न॒न् पुरु॑षं प॒शुं ॥10.090.15, 8.4.019.05
य॒ज्ञेन॑ य॒ज्ञम॑यजंत दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् । ते ह॒ नाकं᳚ महि॒मानः॑ सचंत॒ यत्र॒ पूर्वे᳚ सा॒ध्याः संति॑ दे॒वाः ॥10.090.16, 8.4.019.06
3 । विष्णु सूक्तं
अतो देवा इति षडर्चस्य काण्वो मेधातिथिः विष्णुर्गायत्री ॥
अतो᳚ दे॒वा, अ॑वंतु नो॒ यतो॒ विष्णु᳚र्विचक्र॒मे । पृ॒थि॒व्याः स॒प्त धाम॑भिः ॥1.022.16, 1.2.7.1
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दं । समू᳚ळ्हमस्य पांसु॒रे ॥1.022.17, 1.2.7.2
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा, अदा᳚भ्यः । अतो॒ धर्मा᳚णि धा॒रय᳚न् ॥1.022.18, 1.2.7.3
विष्णोः॒ कर्मा᳚णि पश्यत॒ यतो᳚ व्र॒तानि॑ पस्प॒शे । इंद्र॑स्य॒ युज्यः॒ सखा᳚ ॥1.022.19, 1.2.7.4
तद्विष्णोः᳚ पर॒मं प॒दं सदा᳚ पश्यंति सू॒रयः॑ । दि॒वी᳚व॒ चक्षु॒रात॑तं ॥1.022.20, 1.2.7.5
तद्विप्रा᳚सो विप॒न्यवो᳚ जागृ॒वांसः॒ समिं᳚धते । विष्णो॒र्यत् प॑र॒मं प॒दं ॥1.022.21, 1.2.7.6
विष्णोर्नुकमिति षडृचस्य सूक्तस्यौचध्योदीर्घतमा विष्णुस्त्रिष्टुप् ।
विष्णो॒र्नु कं᳚ वी॒र्या᳚णि॒ प्र वो᳚चं॒ यः पार्थि॑वानि विम॒मे रजां᳚सि । यो, अस्क॑भाय॒दुत्त॑रं स॒धस्थं᳚ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥1.154.01, 2.2.024.01
प्र तद् विष्णुः॑ स्तवते वी॒र्ये᳚ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यंति॒ भुव॑नानि॒ विश्वा᳚ ॥1.154.02, 2.2.024.02
प्र विष्ण॑वे शू॒षमे᳚तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे᳚ । य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको᳚ विम॒मे त्रि॒भिरित् प॒देभिः॑ ॥1.154.03, 2.2.024.03
यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी᳚यमाणा स्व॒धया॒ मदं᳚ति । य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको᳚ दा॒धार॒ भुव॑नानि॒ विश्वा᳚ ॥1.154.04, 2.2.024.04
तद॑स्य प्रि॒यम॒भि पाथो᳚ अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मदं᳚ति । उ॒रु॒क्र॒मस्य॒ स हि बंधु॑रि॒त्था विष्णोः᳚ प॒दे प॑र॒मे मध्व॒ उत्सः॑ ॥1.154.05, 2.2.024.05
ता वां॒ वास्तू᳚न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृंगा, अ॒यासः॑ । अत्रा ह॒तदु॑रुगा॒यस्य॒ वृष्णः॑ पर॒मं प॒दमव॑ भाति॒ भूरि॑ ॥1.154.06, 2.2.024.06
प्रवःपांतमिति षडृचस्य सूक्तस्यौचथ्योदीर्घतमा आद्यानांतिसृणामिंद्राविष्णू ततस्तिसृणांविष्णुर्जगती ।
प्र वः॒ पांत॒मंध॑सो धियाय॒ते म॒हे शूरा᳚य॒ विष्ण॑वे चार्चत । या सानु॑नि॒ पर्व॑ताना॒मदा᳚भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना᳚ ॥1.155.01, 2.2.025.01
त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी᳚वतो॒रिंद्रा᳚विष्णू सुत॒पा वा᳚मुरुष्यति । या मर्त्या᳚य प्रतिधी॒यमा᳚न॒मित् कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ ॥1.155.02, 2.2.025.02
ता, ईं᳚ वर्धंति॒ मह्य॑स्य॒ पौंस्यं॒ नि मा॒तरा᳚ नयति॒ रेत॑से भु॒जे । दधा᳚ति पु॒त्रोऽव॑रं॒ परं᳚ पि॒तुर्नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥1.155.03, 2.2.025.03
तत्त॒दिद॑स्य॒ पौंस्यं᳚ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुषः॑ । यः पार्थि॑वानि त्रि॒भिरिद् विगा᳚मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे᳚ ॥1.155.04, 2.2.025.04
द्वे, इद॑स्य॒ क्रम॑णे स्व॒र्दृशो᳚ऽभि॒ख्याय॒ मर्त्यो᳚ भुरण्यति । तृ॒तीय॑मस्य॒ नकि॒रा द॑धर्षति॒ वय॑श्च॒न प॒तयं᳚तः पत॒त्रिणः॑ ॥1.155.05, 2.2.025.05
च॒तुर्भिः॑ सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यतीँ᳚रवीविपत् । बृ॒हच्छ॑रीरो वि॒मिमा᳚न॒ ऋक्व॑भिर्॒युवाकु॑मारः॒ प्रत्ये᳚त्याह॒वं ॥1.155.06, 2.2.025.06
भवामित्रैति पंचर्चस्य सूक्तस्यौचथ्योदीर्घतमाविष्णुर्जगती ।
भवा᳚ मि॒त्रो न शेव्यो᳚ घृ॒तासु॑तिर्॒विभू᳚तद्युम्न एव॒या, उ॑ स॒प्रथाः᳚ । अधा᳚ ते विष्णो वि॒दुषा᳚ चि॒दर्ध्यः॒ स्तोमो᳚ य॒ज्ञश्च॒ राध्यो᳚ ह॒विष्म॑ता ॥1.156.01, 2.2.026.01
यः पू॒र्व्याय॑ वे॒धसे॒ नवी᳚यसे सु॒मज्जा᳚नये॒ विष्ण॑वे॒ ददा᳚शति । यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त् सेदु॒ श्रवो᳚भि॒र्युज्यं᳚ चिद॒भ्य॑सत् ॥1.156.02, 2.2.026.02
तमु॑ स्तोतारः पू॒र्व्यं यथा᳚ वि॒द ऋ॒तस्य॒ गर्भं᳚ ज॒नुषा᳚ पिपर्तन । आस्य॑ जा॒नंतो॒ नाम॑ चिद् विवक्तन म॒हस्ते᳚ विष्णो सुम॒तिं भ॑जामहे ॥1.156.03, 2.2.026.03
तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं᳚ सचंत॒ मारु॑तस्य वे॒धसः॑ । दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं᳚ व्र॒जं च॒ विष्णुः॒ सखि॑वाँ, अपोर्णु॒ते ॥1.156.04, 2.2.026.04
आ यो वि॒वाय॑ स॒चथा᳚य॒ दैव्य॒ इंद्रा᳚य॒ विष्णुः॑ सु॒कृते᳚ सु॒कृत्त॑रः । वे॒धा, अ॑जिन्वत् त्रिषध॒स्थ आर्य॑मृ॒तस्य॑ भा॒गे यज॑मान॒माभ॑जत् ॥1.156.05, 2.2.026.05
संवामित्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजैंद्राविष्णूत्रिष्टुप् ।
सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मींद्रा᳚विष्णू॒, अप॑सस्पा॒रे, अ॒स्य । जु॒षेथां᳚ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रयं᳚ता ॥6.069.01, 5.1.013.01
या विश्वा᳚सां जनि॒तारा᳚ मती॒नामिंद्रा॒विष्णू᳚ क॒लशा᳚ सोम॒धाना᳚ । प्र वां॒ गिरः॑ श॒स्यमा᳚ना, अवंतु॒ प्र स्तोमा᳚सो गी॒यमा᳚नासो, अ॒र्कैः ॥6.069.02, 5.1.013.02
इंद्रा᳚विष्णू मदपती मदाना॒मा सोमं᳚ यातं॒ द्रवि॑णो॒ दधा᳚ना । सं वा᳚मंजन् त्व॒क्तुभि᳚र्मती॒नां सं स्तोमा᳚सः श॒स्यमा᳚नास उ॒क्थैः ॥6.069.03, 5.1.013.03
आ वा॒मश्वा᳚सो, अभिमाति॒षाह॒ इंद्रा᳚विष्णू सध॒मादो᳚ वहंतु । जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा᳚णि शृणुतं॒ गिरो᳚ मे ॥6.069.04, 5.1.013.04
इंद्रा᳚विष्णू॒ तत् प॑न॒याय्यं᳚ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे । अकृ॑णुतमं॒तरि॑क्षं॒ वरी॒यो ऽप्र॑थतं जी॒वसे᳚ नो॒ रजां᳚सि ॥6.069.05, 5.1.013.05
इंद्रा᳚विष्णू ह॒विषा᳚ वावृधा॒नाऽग्रा᳚द्वाना॒ नम॑सा रातहव्या । घृता᳚सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थः॑ क॒लशः॑ सोम॒धानः॑ ॥6.069.06, 5.1.013.06
इंद्रा᳚विष्णू॒ पिब॑तं॒ मध्वो᳚ अ॒स्य सोम॑स्य दस्रा ज॒ठरं᳚ पृणेथां । आ वा॒मंधां᳚सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा᳚णि शृणुतं॒ हवं᳚ मे ॥6.069.07, 5.1.013.07
उ॒भा जि॑ग्यथु॒र्न परा᳚ जयेथे॒ न परा᳚ जिग्ये कत॒रश्च॒नैनोः᳚ । इंद्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै᳚रयेथां ॥6.069.08, 5.1.013.08
परोमात्रयेति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्टोविष्णुः उरुंयज्ञायेतितिसृणामिंद्राविष्णूत्रिष्टुप् ।
प॒रो मात्र॑या त॒न्वा᳚ वृधान॒ न ते᳚ महि॒त्वमन्व॑श्नुवंति । उ॒भे ते᳚ विद्म॒ रज॑सी पृथि॒व्या विष्णो᳚ देव॒ त्वं प॑र॒मस्य॑ वित्से ॥7.099.01, 5.6.024.01
न ते᳚ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मंत॑माप । उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हंतं᳚ दा॒धर्थ॒ प्राचीं᳚ क॒कुभं᳚ पृथि॒व्याः ॥7.099.02, 5.6.024.02
इरा᳚वती धेनु॒मती॒ हि भू॒तं सू᳚यव॒सिनी॒ मनु॑षे दश॒स्या । व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो᳚ म॒यूखैः᳚ ॥7.099.03, 5.6.024.03
उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नयं᳚ता॒ सूर्य॑मु॒षास॑म॒ग्निं । दास॑स्य चिद् वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु᳚र्नरा पृत॒नाज्ये᳚षु ॥7.099.04, 5.6.024.04
इंद्रा᳚विष्णू दृंहि॒ताः शंब॑रस्य॒ नव॒ पुरो᳚ नव॒तिं च॑ श्नथिष्टं । श॒तं व॒र्चिनः॑ स॒हस्रं᳚ च सा॒कं ह॒थो, अ॑प्र॒त्यसु॑रस्य वी॒रान् ॥7.099.05, 5.6.024.05
इ॒यं म॑नी॒षा बृ॑ह॒ती बृ॒हंतो᳚रुक्र॒मा त॒वसा᳚ व॒र्धयं᳚ती । र॒रे वां॒ स्तोमं᳚ वि॒दथे᳚षु विष्णो॒ पिन्व॑त॒मिषो᳚ वृ॒जने᳚ष्विंद्र ॥7.099.06, 5.6.024.06
वष॑ट्ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे᳚ जुषस्व शिपिविष्ट ह॒व्यं । वर्धं᳚तु त्वा सुष्टु॒तयो॒ गिरो᳚ मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥7.099.07, 5.6.024.07
नूमर्तैति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविष्णुस्त्रिष्टुप् ।
नू मर्तो᳚ दयते सनि॒ष्यन् यो विष्ण॑व उरुगा॒याय॒ दाश॑त् । प्र यः स॒त्राचा॒ मन॑सा॒ यजा᳚त ए॒तावं᳚तं॒ नर्य॑मा॒विवा᳚सात् ॥7.100.01, 5.6.025.01
त्वं वि॑ष्णो सुम॒तिं वि॒श्वज᳚न्या॒मप्र॑युतामेवयावो म॒तिं दाः᳚ । पर्चो॒ यथा᳚ नः सुवि॒तस्य॒ भूरे॒रश्वा᳚वतः पुरुश्चं॒द्रस्य॑ रा॒यः ॥7.100.02, 5.6.025.02
त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा । प्र विष्णु॑रस्तु त॒वस॒स्तवी᳚यान् त्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥7.100.03, 5.6.025.03
वि च॑क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा᳚य॒ विष्णु॒र्मनु॑षे दश॒स्यन् । ध्रु॒वासो᳚ अस्य की॒रयो॒ जना᳚स उरुक्षि॒तिं सु॒जनि॑मा चकार ॥7.100.04, 5.6.025.04
प्र तत्ते᳚ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं᳚सामि व॒युना᳚नि वि॒द्वान् । तं त्वा᳚ गृणामि त॒वस॒मत᳚व्या॒न् क्षयं᳚तम॒स्य रज॑सः परा॒के ॥7.100.05, 5.6.025.05
किमित्ते᳚ विष्णो परि॒चक्ष्यं᳚ भू॒त् प्र यद् व॑व॒क्षे शि॑पिवि॒ष्टो, अ॑स्मि । मा वर्पो᳚ अ॒स्मदप॑ गूह ए॒तद् यद॒न्यरू᳚पः समि॒थे ब॒भूथ॑ ॥7.100.06, 5.6.025.06
वष॑ट्ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे᳚ जुषस्व शिपिविष्ट ह॒व्यं । वर्धं᳚तु त्वा सुष्टु॒तयो॒ गिरो᳚ मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥7.100.07, 5.6.025.07
4 । पंचरुद्र सूक्तं
कद्रुद्रायेतिनवर्चस्य सूक्तस्य घौरः कण्वोरुद्रस्तृतीयायामित्रावरुणौचसप्तम्यादितृचस्य सोमो गायत्र्यंत्यानुष्टुप् ।
कद्रु॒द्राय॒ प्रचे᳚तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शंत॑मं हृ॒दे ॥1.043.01, 1.3.026.01
यथा᳚ नो॒, अदि॑तिः॒ कर॒त् पश्वे॒ नृभ्यो॒ यथा॒ गवे᳚ । यथा᳚ तो॒काय॑ रु॒द्रियं᳚ ॥1.043.02, 1.3.026.02
यथा᳚ नो मि॒त्रो वरु॑णो॒ यथा᳚ रु॒द्रश्चिके᳚तति । यथा॒ विश्वे᳚ स॒जोष॑सः ॥1.043.03, 1.3.026.03
गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला᳚षभेषजं । तच्छं॒योः सु॒म्नमी᳚महे ॥1.043.04, 1.3.026.04
यः शु॒क्र इ॑व॒ सूर्यो॒ हिर᳚ण्यमिव॒ रोच॑ते । श्रेष्ठो᳚ दे॒वानां॒ वसुः॑ ॥1.043.05, 1.3.026.05
शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये᳚ । नृभ्यो॒ नारि॑भ्यो॒ गवे᳚ ॥1.043.06, 1.3.027.01
अ॒स्मे सो᳚म॒ श्रिय॒मधि॒ नि धे᳚हि श॒तस्य॑ नृ॒णां । महि॒ श्रव॑स्तुविनृ॒म्णं ॥1.043.07, 1.3.027.02
मा नः॑ सोमपरि॒बाधो॒ मारा᳚तयो जुहुरंत । आ न॑ इंदो॒ वाजे᳚ भज ॥1.043.08, 1.3.027.03
यास्ते᳚ प्र॒जा, अ॒मृत॑स्य॒ पर॑स्मि॒न् धाम᳚न्नृ॒तस्य॑ । मू॒र्धा नाभा᳚ सोम वेन आ॒भूषं᳚तीः सोम वेदः ॥1.043.09, 1.3.027.04
इमारुद्रायेत्येकादशर्चस्य सूक्तस्य कुत्सोरुद्रोजगतीअंत्येद्वेत्रिष्टुभौ ।
इ॒मा रु॒द्राय॑ त॒वसे᳚ कप॒र्दिने᳚ क्ष॒यद्वी᳚राय॒ प्र भ॑रामहे म॒तीः । यथा॒ शमस॑द् द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं᳚ पु॒ष्टं ग्रामे᳚ अ॒स्मिन्न॑नातु॒रं ॥1.114.01, 1.8.5.1
मृ॒ळा नो᳚ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी᳚राय॒ नम॑सा विधेम ते । यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी᳚तिषु ॥1.114.02, 1.8.5.2
अ॒श्याम॑ ते सुम॒तिं दे᳚वय॒ज्यया᳚ क्ष॒यद्वी᳚रस्य॒ तव॑ रुद्र मीढ्वः । सु॒म्ना॒यन्निद् विशो᳚ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ॥1.114.03, 1.8.5.3
त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं᳚ वं॒कुं क॒विमव॑से॒ नि ह्व॑यामहे । आ॒रे, अ॒स्मद्दैव्यं॒ हेळो᳚ अस्यतु सुम॒तिमिद् व॒यम॒स्या वृ॑णीमहे ॥1.114.04, 1.8.5.4
दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं᳚ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे । हस्ते॒ बिभ्र॑द् भेष॒जा वार्या᳚णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं᳚ यंसत् ॥1.114.05, 1.8.5.5
इ॒दं पि॒त्रे म॒रुता᳚मुच्यते॒ वचः॑ स्वा॒दोः स्वादी᳚यो रु॒द्राय॒ वर्ध॑नं । रास्वा᳚ च नो, अमृत मर्त॒भोज॑नं॒ त्मने᳚ तो॒काय॒ तन॑याय मृळ ॥1.114.06, 1.8.6.1
मा नो᳚ म॒हांत॑मु॒त मा नो᳚ अर्भ॒कं मा न॒ उक्षं᳚तमु॒त मा न॑ उक्षि॒तं । मा नो᳚ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो᳚ रुद्र रीरिषः ॥1.114.07, 1.8.6.2
मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒, अश्वे᳚षु रीरिषः । वी॒रान् मा नो᳚ रुद्र भामि॒तो व॑धीर्ह॒विष्मं᳚तः॒ सद॒मित् त्वा᳚ हवामहे ॥1.114.08, 1.8.6.3
उप॑ ते॒ स्तोमा᳚न् पशु॒पा, इ॒वाक॑रं॒ रास्वा᳚ पितर्मरुतां सु॒म्नम॒स्मे । भ॒द्रा हि ते᳚ सुम॒तिर्मृ॑ळ॒यत्त॒माथा᳚ व॒यमव॒ इत्ते᳚ वृणीमहे ॥1.114.09, 1.8.6.4
आ॒रे ते᳚ गो॒घ्नमु॒त पू᳚रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते᳚ अस्तु । मृ॒ळा च॑ नो॒, अधि॑ च ब्रूहि दे॒वाधा᳚ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः᳚ ॥1.114.10, 1.8.6.5
अवो᳚चाम॒ नमो᳚ अस्मा, अव॒स्यवः॑ शृ॒णोतु॑ नो॒ हवं᳚ रु॒द्रो म॒रुत्वा᳚न् । तन्नो᳚ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी, उ॒त द्यौः ॥1.114.11, 1.8.6.6
आतेपितरिति पंचदशर्चस्य सूक्तस्य शौनको गृत्समदोरुद्रोजगत्यंत्यात्रिष्टुप् ।
आ ते᳚ पितर्मरुतां सु॒म्नमे᳚तु॒ मा नः॒ सूर्य॑स्य सं॒दृशो᳚ युयोथाः । अ॒भि नो᳚ वी॒रो, अर्व॑ति क्षमेत॒ प्र जा᳚येमहि रुद्र प्र॒जाभिः॑ ॥2.033.01, 2.7.016.01
त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा᳚ अशीय भेष॒जेभिः॑ । व्य१॑(अ॒)स्मद्द्वेषो᳚ वित॒रं व्यंहो॒ व्यमी᳚वाश्चातयस्वा॒ विषू᳚चीः ॥2.033.02, 2.7.016.02
श्रेष्ठो᳚ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां᳚ वज्रबाहो । पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा᳚ अ॒भी᳚ती॒ रप॑सो युयोधि ॥2.033.03, 2.7.016.03
मा त्वा᳚ रुद्र चुक्रुधामा॒ नमो᳚भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू᳚ती । उन्नो᳚ वी॒राँ, अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां᳚ शृणोमि ॥2.033.04, 2.7.016.04
हवी᳚मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे᳚भी रु॒द्रं दि॑षीय । ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो᳚ अ॒स्यै ब॒भ्रुः सु॒शिप्रो᳚ रीरधन्म॒नायै᳚ ॥2.033.05, 2.7.016.05
उन्मा᳚ ममंद वृष॒भो म॒रुत्वा॒न् त्वक्षी᳚यसा॒ वय॑सा॒ नाध॑मानं । घृणी᳚व च्छा॒याम॑र॒पा, अ॑शी॒या ऽऽ वि॑वासेयं रु॒द्रस्य॑ सु॒म्नं ॥2.033.06, 2.7.017.01
क्व१॑(अ॒) स्य ते᳚ रुद्र मृळ॒याकु॒र्हस्तो॒ यो, अस्ति॑ भेष॒जो जला᳚षः । अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा᳚ वृषभ चक्षमीथाः ॥2.033.07, 2.7.017.02
प्र ब॒भ्रवे᳚ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी᳚रयामि । न॒म॒स्या क᳚ल्मली॒किनं॒ नमो᳚भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ॥2.033.08, 2.7.017.03
स्थि॒रेभि॒रंगैः᳚ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर᳚ण्यैः । ईशा᳚नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा, उ॑ योषद्रु॒द्राद॑सु॒र्यं᳚ ॥2.033.09, 2.7.017.04
अर्ह᳚न् बिभर्षि॒ साय॑कानि॒ धन्वार्ह᳚न् नि॒ष्कं य॑ज॒तं वि॒श्वरू᳚पं । अर्ह᳚न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा, ओजी᳚यो रुद्र॒ त्वद॑स्ति ॥2.033.10, 2.7.017.05
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा᳚नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रं । मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा᳚नो॒ऽन्यं ते᳚ अ॒स्मन्नि व॑पंतु॒ सेनाः᳚ ॥2.033.11, 2.7.018.01
कु॒मा॒रश्चि॑त् पि॒तरं॒ वंद॑मानं॒ प्रति॑ नानाम रुद्रोप॒यंतं᳚ । भूरे᳚र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे᳚ष॒जा रा᳚स्य॒स्मे ॥2.033.12, 2.7.018.02
या वो᳚ भेष॒जा म॑रुतः॒ शुची᳚नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु । यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ॥2.033.13, 2.7.018.03
परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा᳚त् । अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ॥2.033.14, 2.7.018.04
ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा᳚ देव॒ न हृ॑णी॒षे न हंसि॑ । ह॒व॒न॒श्रुन्नो᳚ रुद्रे॒ह बो᳚धि बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ॥2.033.15, 2.7.018.05
सोमारुद्रेति चतुरृचस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सोमारुद्रौत्रिष्टुप् ।
सोमा᳚रुद्रा धा॒रये᳚थामसु॒र्य१॑(अं॒) प्र वा᳚मि॒ष्टयोऽर॑मश्नुवंतु । दमे᳚दमे स॒प्त रत्ना॒ दधा᳚ना॒ शं नो᳚ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ॥6.074.01, 5.1.018.01
सोमा᳚रुद्रा॒ वि वृ॑हतं॒ विषू᳚ची॒ममी᳚वा॒ या नो॒ गय॑मावि॒वेश॑ । आ॒रे बा᳚धेथां॒ निरृ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ संतु ॥6.074.02, 5.1.018.02
सोमा᳚रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा᳚ त॒नूषु॑ भेष॒जानि॑ धत्तं । अव॑ स्यतं मुं॒चतं॒ यन्नो॒, अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो᳚ अ॒स्मत् ॥6.074.03, 5.1.018.03
ति॒ग्मायु॑धौ ति॒ग्महे᳚ती सु॒शेवौ॒ सोमा᳚रुद्रावि॒ह सु मृ॑ळतं नः । प्र नो᳚ मुंचतं॒ वरु॑णस्य॒ पाशा᳚द् गोपा॒यतं᳚ नः सुमन॒स्यमा᳚ना ॥6.074.04, 5.1.018.04
इमारुद्रायेति चतुरृचस्यसूक्तस्य मैत्रावरुणिर्वसिष्ठो रुद्रोजगत्यंत्यात्रिष्टुप् ।
इ॒मा रु॒द्राय॑ स्थि॒रध᳚न्वने॒ गिरः॑, क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने᳚ । अषा᳚ळ्हाय॒ सह॑मानाय वे॒धसे᳚ ति॒ग्मायु॑धाय भरता शृ॒णोतु॑ नः ॥7.046.01, 5.4.013.01
स हि क्षये᳚ण॒ क्षम्य॑स्य॒ जन्म॑नः॒ साम्रा᳚ज्येन दि॒व्यस्य॒ चेत॑ति । अव॒न्नवं᳚ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ॥7.046.02, 5.4.013.02
या ते᳚ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः । स॒हस्रं᳚ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥7.046.03, 5.4.013.03
मा नो᳚ वधी रुद्र॒ मा परा᳚ दा॒ मा ते᳚ भूम॒ प्रसि॑तौ हीळि॒तस्य॑ । आ नो᳚ भज ब॒र्हिषि॑ जीवशं॒से यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥7.046.04, 5.4.013.04
तवमग्न इत्यस्य शौनको गृत्समदः अग्निर्जगती, आ वो राजानमित्यस्य गौतमो वामदेवः रुद्राग्नी त्रिष्टुप्, तव श्रिय इत्यस्य आत्रेयो वसुश्रुतः मरुद्रुद्रविष्णवः त्रिष्टुप्, तमु ष्टुहीत्यस्य भौमोत्रिः रुद्रस्त्रिष्टुप्, भुवनस्य पितरमित्यस्य भारद्वाज ऋजिश्वा विश्वदेवआस्त्रिष्टुप्, अयं मे हस्त इत्यस्य गौपायना बंध्वादयः हस्तोनुष्टुप्, त्र्यंबकमित्यस्य मैत्रावरुणिर्वसिष्ठः रुद्रोनुष्टुप्, नमो महद्भ्य इत्यस्य आजीगर्तिः शुनःशेपः विश्वदेवास्त्रिष्टुप् ॥
त्वम॑ग्ने रु॒द्रो, असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई᳚शिषे । त्वं वातै᳚ररु॒णैर्या᳚सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा᳚सि॒ नु त्मना᳚ ॥2.001.06, 2.5.018.01
आ वो॒ राजा᳚नमध्व॒रस्य॑ रु॒द्रं होता᳚रं सत्य॒यजं॒ रोद॑स्योः । अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर᳚ण्यरूप॒मव॑से कृणुध्वं ॥4.003.01, 3.4.020.01
तव॑ श्रि॒ये म॒रुतो᳚ मर्जयंत॒ रुद्र॒ यत्ते॒ जनि॑म॒ चारु॑ चि॒त्रं । प॒दं यद्विष्णो᳚रुप॒मं नि॒धायि॒ तेन॑ पासि॒ गुह्यं॒ नाम॒ गोनां᳚ ॥5.003.03, 3.8.016.03
तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ । यक्ष्वा᳚ म॒हे सौ᳚मन॒साय॑ रु॒द्रं नमो᳚भिर्दे॒वमसु॑रं दुवस्य ॥5.042.11, 4.2.019.01
भुव॑नस्य पि॒तरं᳚ गी॒र्भिरा॒भी रु॒द्रं दिवा᳚ व॒र्धया᳚ रु॒द्रम॒क्तौ । बृ॒हंत॑मृ॒ष्वम॒जरं᳚ सुषु॒म्नमृध॑ग्घुवेम क॒विने᳚षि॒तासः॑ ॥6.049.10, 4.8.6.5
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः । अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः ॥10.060.12, 8.1.025.06
त्र्यं᳚बकं यजामहे सु॒गंधिं᳚ पुष्टि॒वर्ध॑नं । उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता᳚त् ॥7.059.12, 5.4.030.06
नमो᳚ म॒हद्भ्यो॒ नमो᳚ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्यः॑ । यजा᳚म दे॒वान् यदि॑ श॒क्नवा᳚म॒ मा ज्याय॑सः॒ शंस॒मा वृ॑क्षि देवाः ॥1.027.13, 1.2.024.03
5 । श्री सूक्तं (परिशिष्टम्)
हिरण्यवर्णामिति पंचदशर्चस्य श्रीसूक्तस्य आनंदकर्दमचिक्लीताः श्रीपुत्राः ऋषयः श्रीरग्निश्च देवते आद्यास्तिस्रोनुष्टुभः चतुर्थी बृहती पंचमीषष्ठ्यौ त्रिष्टुभौ ततोष्टावनुष्टुभः अंत्यास्तारपंक्तिः ॥ [ऋग्वेद मंडल 5.087 सूक्तस्यानंतरं][ऋग्वेद अष्टक 4.004.034 वर्गानंतरं]
हिर᳚ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जां। चं॒द्रां हि॒रण्म॑यीं ल॒क्ष्मीं॒जात॑वेदो म॒ आ व॑ह॥
तां म॒ आ व॑ह जातवेदो ल॒क्ष्मीमन॑पगा॒मिनीं᳚। यस्यां॒ हिर᳚ण्यं विं॒देयं॒गामश्वं॒ पुरु॑षा न॒हं॥
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां॒ ह॒स्तिना᳚दप्र॒बोधि॑नीं (प्र॒मोदि॑नीं)। श्रियं᳚दे॒वी मुप॑ ह्वये॒ श्रीर्मा᳚ दे॒वी जु॑षतां॥
कां॒सो॒स्मि॒तां हिर᳚ण्यप्रा॒कारा᳚मा॒र्द्रांज्वलं᳚तींतृ॒प्तांत॒र्पयं᳚तीं। प॒द्मे॒स्थि॒तां प॒द्मव᳚र्णां॒तामि॒होप॑ ह्वये॒ श्रियं᳚॥
चं॒द्रां प्र॑भा॒सां यश॑सा॒ ज्वलं᳚तीं॒ श्रियं᳚ लो॒के दे॒वजु॑ष्टामुदा॒रां। तां प॒द्मिनी᳚मीं॒ शर॑णं॒ प्रप॑द्येऽल॒क्ष्मीर्मे᳚ नश्यतां॒त्वां वृ॑णे॥
आ॒दि॒त्यव᳚र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒ स्तव॑ वृ॒क्षोऽथ॑ बि॒ल्वः। तस्य॒ फला᳚नि॒ तप॒सा नु॑दंतु मा॒ याऽन्त॑रा॒ याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः॥
उपै᳚तु॒ मांदे᳚वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह। प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन्की॒र्तिमृ॑द्धिंद॒दातु॑ मे॥
क्षुत्पि॑पा॒साम॑लांज्ये॒ष्ठाम॑ल॒क्ष्मी न्ना᳚शयाम्य॒हं। अभू᳚ति॒ मस॑मृद्धिंच॒सर्वा॒न्निर्णु॑द मे गृ॒हात्॥
गंध॑द्वा॒रांदु॑राध॒र्षान्नित्य॑पुष्टांकरी॒षिणीं᳚। ई॒श्वरीं᳚ सर्व॑भूता॒नां॒तामि॒होप॑ ह्वये॒ श्रियं᳚॥
मन॑स॒: काम॒माकू᳚तिं वा॒च स्स॒त्य म॑शीमहि। प॒शू॒नां रू॒पमन्न॑स्य॒मयि॒ श्रीश्श्र॑यतां॒ यशः॑॥
कर्द॑मे॒न प्र॑जाभू॒ता म॒यि सं भ॑व॒ कर्द॑म। श्रियं᳚ वा॒सय॑ मे कु॒ले मा॒तरं᳚ पद्म॒मालि॑नीं॥
आप॑ स्सृ॒जंतु॑ स्निग्धानि॒ चिक्ली᳚त॒ वस॑ मे गृ॒हे। नि च॑ दे॒वीं मा॒तरं॒ श्रियं᳚ वा॒सय॑ मे कु॒ले॥
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं पिं॒गलां᳚ पद्म॒मालि॑नीं। चं॒द्रां हि॒रण्म॑यीं ल॒क्ष्मींजात॑वेदो म॒ आ व॑ह॥
आ॒र्द्रांय॒: करि॑णीं य॒ष्टिं सु॒वर्णां᳚ हेम॒मालि॑नीं। सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मींजात॑वेदो म॒ आ व॑ह॥
तां म॒ आ व॑ह जातवेदो ल॒क्ष्मीमन॑पगा॒मिनीं᳚। यस्यां॒ हिर᳚ण्यं॒ प्रभू᳚तं॒गावो᳚ दा॒स्योऽश्वा᳚न्विं॒देयं॒ पुरु॑षान॒हं॥
फलशृति
यश्शुचि॒: प्रय॑तो भू॒त्वा॒ जु॒हुया᳚ दाज्य॒मन्व॑हं। सूक्तं᳚ पं॒चद॑शर्चं॒च श्री॒काम॑ स्सत॒तंज॑पेत्॥
पद्म॑प्रिये पद्म॒विप॑द्मप॒त्रे॒ पद्मा᳚ऽऽन॒ने पद्म॒दळा᳚यता॒क्षि। विश्व॑प्रिये॒ विष्णु॒मनो᳚ऽनुकू॒ले त्वत्पा᳚दप॒द्मं मयि॒ सन्नि॑धत्स्व॥
प॒द्मा॒न॒ने प॑द्मऊ॒रु॒ प॒द्माक्षि॑ पद्म॒संभ॑वे। तन्मे᳚ भ॒जसि॑ पद्मा॒क्षि॒ ये॒न सौ᳚ख्यं ल॒भाम्य॑हं॥
अ॒श्व॒दायि॑ गोदा॒यि ध॒नदा᳚यि म॒हाध॑ने। धनं᳚ मे॒ जुष॑तांदे॒वि॒ स॒र्वका᳚मांश्च॒ देहि॑ मे॥
पु॒त्र॒पौ॒त्रध॑न न्धा॒न्यं॒ ह॒स्त्यश्वा᳚श्वत॒री र॑थं। प्र॒जा॒नां भ॑वसि मा॒ता॒आ॒युष्मं᳚तंक॒रोतु॑ मे॥
धन॑म॒ग्नि र्ध॑नं वा॒यु॒र्ध॒नं सू᳚र्यो धनं॒ वसुः॑। धन॒ मिंद्रो॒ बृह॒स्पति॒र्वरु॑णो॒ धन॒मश्वि॑ना॥
वैन॑तेय॒ सोमं᳚ पिब॒ सोमं᳚ पिबतु वृत्र॒हा। सोमं॒धन॑स्य सो॒मिनो॒ मह्यं॒ददा᳚तु सो॒मिनः॑॥
न क्रोधो न च॑ मात्स॒र्य॒न्न॒ लोभो᳚ नाऽशु॒भा म॑तिः। भवं᳚ति॒ कृत॑पुण्या॒नां॒ भ॒क्त्या श्रीसू᳚क्त॒जापि॑नां॥
स॒र॒सि॒ज॒नि॒ल॒ये सरो᳚जह॒स्ते॒ धवलतरांशुकगंधमा᳚ल्यशो॒भे। भगवति हरिवल्लभे᳚ मनो॒ज्ञे॒ त्रिभुवनभूतिकरि प्र सी᳚द म॒ह्यं॥
विष्णु॑प॒त्नींक्ष॑मांदे॒वीं॒ मा॒धवीं᳚ माध॒वप्रि॑यां। लक्ष्मीं᳚ प्रि॒यस॑खीं भू॒मि॒न्न॒मा म्य॑च्युत॒वल्ल॑भां॥
म॒हा॒ल॒क्ष्म्यै च॑ वि॒द्महे᳚ विष्णुप॒त्न्यै च॑ धीमहि। तन्नो᳚ लक्ष्मीः प्रचो॒दया᳚त्॥
आनं᳚द॒: कर्द॑म श्री॒द॒श्चि॒क्लीत॑ इति॒ विश्रु॑ताः। ऋष॑य॒ श्श्रिय॑: पुत्रा॒श्च॒श्री॒र्देवी᳚ र्देव॒ता म॑ता॥
ऋण॑रो॒गादि॑ दारि॒द्र्यं॒ पा॒पक्षु॑दप॒मृत्य॑वः। भय॑शो॒कम॑नस्ता॒पा॒ न॒श्यंतु॑ मम॒ सर्व॑दा॥
श्रीर्वर्च॑स्य॒ मायु॑ष्य॒ मारो᳚ग्य॒मावि॑धा॒ च्छोभ॑मानं मही॒यते᳚। धा॒न्यध॒नं प॒शुं ब॒हुपु॑त्रला॒भं श॒तसँ᳚वत्स॒रं दी॒र्घमायुः॑॥
6 । देवी सूक्तं
अहंरुद्रेभिरित्यष्टर्चस्य सूक्तस्यांभृणिर्वागांभृणिर्वाक्त्रिष्टुप्द्वितीयाजगती ।
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒त वि॒श्वदे᳚वैः । अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमिं᳚द्रा॒ग्नी, अ॒हम॒श्विनो॒भा ॥10.125.01, 8.7.011.01
अ॒हं सोम॑माह॒नसं᳚ बिभर्म्य॒हं त्वष्टा᳚रमु॒त पू॒षणं॒ भगं᳚ । अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒3॑(ए॒) यज॑मानाय सुन्व॒ते ॥10.125.02, 8.7.011.02
अ॒हं राष्ट्री᳚ सं॒गम॑नी॒ वसू᳚नां चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नां । तां मा᳚ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या᳚वे॒शयं᳚तीं ॥10.125.03, 8.7.011.03
मया॒ सो, अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं᳚ शृ॒णोत्यु॒क्तं । अ॒मं॒तवो॒ मां त उप॑ क्षियंति श्रु॒धि श्रु॑त श्रद्धि॒वं ते᳚ वदामि ॥10.125.04, 8.7.011.04
अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं᳚ दे॒वेभि॑रु॒त मानु॑षेभिः । यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धां ॥10.125.05, 8.7.011.05
अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हंत॒वा, उ॑ । अ॒हं जना᳚य स॒मदं᳚ कृणोम्य॒हं द्यावा᳚पृथि॒वी, आ वि॑वेश ॥10.125.06, 8.7.012.01
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑र॒प्स्व१॑(अ॒)न्तः स॑मु॒द्रे । ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥10.125.07, 8.7.012.02
अ॒हमे॒व वात॑ इव॒ प्र वा᳚म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा᳚ । प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ॥10.125.08, 8.7.012.03
7 । सरस्वति सूक्तं
इयमददादिति चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजः सरस्वतीगायत्री आद्यास्तिस्रत्रयोदशीचजगत्योंत्यात्रिष्टुप् ।
इ॒यम॑ददाद् रभ॒समृ॑ण॒च्युतं॒ दिवो᳚दासं वध्र्य॒श्वाय॑ दा॒शुषे᳚ । या शश्वं᳚तमाच॒खादा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि॑ तवि॒षा स॑रस्वति ॥6.061.01, 4.8.030.01
इ॒यं शुष्मे᳚भिर्बिस॒खा, इ॑वारुज॒त् सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ । पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभिः॒ सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ॥6.061.02, 4.8.030.02
सर॑स्वति देव॒निदो॒ नि ब᳚र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ । उ॒त क्षि॒तिभ्यो॒ऽवनी᳚रविंदो वि॒षमे᳚भ्यो, अस्रवो वाजिनीवति ॥6.061.03, 4.8.030.03
प्र णो᳚ दे॒वी सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती । धी॒नाम॑वि॒त्र्य॑वतु ॥6.061.04, 4.8.030.04
यस्त्वा᳚ देवि सरस्वत्युपब्रू॒ते धने᳚ हि॒ते । इंद्रं॒ न वृ॑त्र॒तूर्ये᳚ ॥6.061.05, 4.8.030.05
त्वं दे᳚वि सरस्व॒त्यवा॒ वाजे᳚षु वाजिनि । रदा᳚ पू॒षेव॑ नः स॒निं ॥6.061.06, 4.8.031.01
उ॒त स्या नः॒ सर॑स्वती घो॒रा हिर᳚ण्यवर्तनिः । वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिं ॥6.061.07, 4.8.031.02
यस्या᳚ अनं॒तो, अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः । अम॒श्चर॑ति॒ रोरु॑वत् ॥6.061.08, 4.8.031.03
सा नो॒ विश्वा॒, अति॒ द्विषः॒ स्वसॄ᳚र॒न्या ऋ॒ताव॑री । अत॒न्नहे᳚व॒ सूर्यः॑ ॥6.061.09, 4.8.031.04
उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा । सर॑स्वती॒ स्तोम्या᳚ भूत् ॥6.061.10, 4.8.031.05
आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो᳚ अं॒तरि॑क्षं । सर॑स्वती नि॒दस्पा᳚तु ॥6.061.11, 4.8.032.01
त्रि॒ष॒धस्था᳚ स॒प्तधा᳚तुः॒ पंच॑ जा॒ता व॒र्धयं᳚ती । वाजे᳚वाजे॒ हव्या᳚ भूत् ॥6.061.12, 4.8.032.02
प्र या म॑हि॒म्ना म॒हिना᳚सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या, अ॒पसा᳚म॒पस्त॑मा । रथ॑ इव बृह॒ती वि॒भ्वने᳚ कृ॒तोप॒स्तुत्या᳚ चिकि॒तुषा॒ सर॑स्वती ॥6.061.13, 4.8.032.03
सर॑स्वत्य॒भि नो᳚ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् । जु॒षस्व॑ नः स॒ख्या वे॒श्या᳚ च॒ मा त्वत् क्षेत्रा॒ण्यर॑णानि गन्म ॥6.061.14, 4.8.032.04
प्रक्षोदसेति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सरस्वतीतृतीयायाः सरस्वांस्त्रिष्टुप् ।
प्र क्षोद॑सा॒ धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी॒ पूः । प्र॒बाब॑धाना र॒थ्ये᳚व याति॒ विश्वा᳚ अ॒पो म॑हि॒ना सिंधु॑र॒न्याः ॥7.095.01, 5.6.019.01
एका᳚चेत॒त् सर॑स्वती न॒दीनां॒ शुचि᳚र्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् । रा॒यश्चेतं᳚ती॒ भुव॑नस्य॒ भूरे᳚र्घृ॒तं पयो᳚ दुदुहे॒ नाहु॑षाय ॥7.095.02, 5.6.019.02
स वा᳚वृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु᳚र्वृष॒भो य॒ज्ञिया᳚सु । स वा॒जिनं᳚ म॒घव॑द्भ्यो दधाति॒ वि सा॒तये᳚ त॒न्वं᳚ मामृजीत ॥7.095.03, 5.6.019.03
उ॒त स्या नः॒ सर॑स्वती जुषा॒णोप॑ श्रवत् सु॒भगा᳚ य॒ज्णे, अ॒स्मिन् । मि॒तज्ञु॑भिर्नम॒स्यै᳚रिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ॥7.095.04, 5.6.019.04
इ॒मा जुह्वा᳚ना यु॒ष्मदा नमो᳚भिः॒ प्रति॒ स्तोमं᳚ सरस्वति जुषस्व । तव॒ शर्म᳚न् प्रि॒यत॑मे॒ दधा᳚ना॒, उप॑ स्थेयाम शर॒णं न वृ॒क्षं ॥7.095.05, 5.6.019.05
अ॒यमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारा᳚वृ॒तस्य॑ सुभगे॒ व्या᳚वः । वर्ध॑ शुभ्रे स्तुव॒ते रा᳚सि॒ वाजा᳚न् यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥7.095.06, 5.6.019.06
बृहदुगायिषैति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः सरस्वती अंत्यानांतिसृणांसरस्वान् आद्याबृहती द्वितीयासतो बृहती तृतीयाप्रस्तारपंक्तिः अंत्यास्तिस्रोगायत्र्यः ।
बृ॒हदु॑ गायिषे॒ वचो᳚ऽसु॒र्या᳚ न॒दीनां᳚ । सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभिः॒ स्तोमै᳚र्वसिष्ठ॒ रोद॑सी ॥7.096.01, 5.6.020.01
उ॒भे यत्ते᳚ महि॒ना शु॑भ्रे॒, अंध॑सी, अधिक्षि॒यंति॑ पू॒रवः॑ । सा नो᳚ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो᳚ म॒घोनां᳚ ॥7.096.02, 5.6.020.02
भ॒द्रमिद् भ॒द्रा कृ॑णव॒त् सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी᳚वती । गृ॒णा॒ना ज॑मदग्नि॒वत् स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ॥7.096.03, 5.6.020.03
ज॒नी॒यंतो॒ न्वग्र॑वः पुत्री॒यंतः॑ सु॒दान॑वः । सर॑स्वंतं हवामहे ॥7.096.04, 5.6.020.04
ये ते᳚ सरस्व ऊ॒र्मयो॒ मधु॑मंतो घृत॒श्चुतः॑ । तेभि᳚र्नोऽवि॒ता भ॑व ॥7.096.05, 5.6.020.05
पी॒पि॒वांसं॒ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः । भ॒क्षी॒महि॑ प्र॒जामिषं᳚ ॥7.096.06, 5.6.020.06
अंबितमेत्यस्य त्यर्चस्य शौनको गृत्समदः सरस्वती प्रथमे द्वे अनुष्टुभौ अंत्या बृहती, पावका न इति त्यर्चस्य वैश्वामित्रो मधुच्छंदाः सरस्वती गायत्री, सरस्वतीं देवयंत इति त्यर्चस्य यामायनो वेदश्रवाः सरस्वती त्रिष्टुप्, आ नो दिव इत्यस्य भौमोत्रिः विश्वदेवास्त्रिषटुप्, राकामहमिति द्व्यर्चस्य शौनको गृत्समदः राका जगती, अस्ति हि व इत्यस्य वैवस्वतोमनुः विश्वदेवाः सतोबृहती, सिनीवालीति त्यर्चस्य शौनको गृत्समदः सिनीवाली प्रथमे द्वे अनुष्टुभौ अंत्या लिंगोक्ता, यस्ते स्थन इत्यस्य औचथ्यो दीर्घतमाः सरस्वती त्रिष्टुप् ॥
अंबि॑तमे॒ नदी᳚तमे॒ देवि॑तमे॒ सर॑स्वति । अ॒प्र॒श॒स्ता, इ॑व स्मसि॒ प्रश॑स्तिमंब नस्कृधि ॥2.041.16, 2.8.010.01
त्वे विश्वा᳚ सरस्वति श्रि॒तायूं᳚षि दे॒व्यां । शु॒नहो᳚त्रेषु मत्स्व प्र॒जां दे᳚वि दिदिड्ढि नः ॥2.041.17, 2.8.010.02
इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति । या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ॥2.041.18, 2.8.010.03
पा॒व॒का नः॒ सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती । य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥1.003.10, 1.1.6.4
चो॒द॒यि॒त्री सू॒नृता᳚नां॒ चेतं᳚ती सुमती॒नां । य॒ज्ञं द॑धे॒ सर॑स्वती ॥1.003.11, 1.1.6.5
म॒हो, अर्णः॒ सर॑स्वती॒ प्र चे᳚तयति के॒तुना᳚ । धियो॒ विश्वा॒ वि रा᳚जति ॥1.003.12, 1.1.6.6
सर॑स्वतीं देव॒यंतो᳚ हवंते॒ सर॑स्वतीमध्व॒रे ता॒यमा᳚ने । सर॑स्वतीं सु॒कृतो᳚ अह्वयंत॒ सर॑स्वती दा॒शुषे॒ वार्यं᳚ दात् ॥10.017.07, 7.6.024.02
सर॑स्वति॒ या स॒रथं᳚ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मदं᳚ती । आ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयस्वानमी॒वा, इष॒ आ धे᳚ह्य॒स्मे ॥10.017.08, 7.6.024.03
सर॑स्वतीं॒ यां पि॒तरो॒ हवं᳚ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः । स॒ह॒स्रा॒र्घमि॒ळो, अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ॥10.017.09, 7.6.024.04
आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता गं᳚तु य॒ज्ञं । हवं᳚ दे॒वी जु॑जुषा॒णा घृ॒ताची᳚ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥5.043.11, 4.2.022.01
रा॒काम॒हं सु॒हवां᳚ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना᳚ । सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा᳚तु वी॒रं श॒तदा᳚यमु॒क्थ्यं᳚ ॥2.032.04, 2.7.015.04
यास्ते᳚ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा᳚सि दा॒शुषे॒ वसू᳚नि । ताभि᳚र्नो, अ॒द्य सु॒मना᳚ उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा᳚णा ॥2.032.05, 2.7.015.05
अस्ति॒ हि वः॑ सजा॒त्यं᳚ रिशादसो॒ देवा᳚सो॒, अस्त्याप्यं᳚ । प्र णः॒ पूर्व॑स्मै सुवि॒ताय॑ वोचत म॒क्षू सु॒म्नाय॒ नव्य॑से ॥8.027.10, 6.2.032.05
सिनी᳚वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚ । जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे᳚वि दिदिड्ढि नः ॥2.032.06, 2.7.015.06
या सु॑बा॒हुः स्वं᳚गु॒रिः सु॒षूमा᳚ बहु॒सूव॑री । तस्यै᳚ वि॒श्पत्न्यै᳚ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥2.032.07, 2.7.015.07
या गुं॒गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती । इं॒द्रा॒णीम॑ह्व ऊ॒तये᳚ वरुणा॒नीं स्व॒स्तये᳚ ॥2.032.08, 2.7.015.08
यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूर्येन॒ विश्वा॒ पुष्य॑सि॒ वार्या᳚णि । यो र॑त्न॒धा व॑सु॒विद् यः सु॒दत्रः॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ॥1.164.49, 2.3.023.03
8 । मेधा सूक्तं (परिशिष्टम्)
मेधां मह्यमिति एकादशर्चस्य मेधासूक्तस्य भृगुः प्रजापतिर्वा ऋषिः मेधा देवता अनुष्टुभश्छंदांसि, षष्ठी विराड्गायत्री, सप्तमी गायत्री, नवमी त्रिष्टुप्, एकादशी जगती ॥
मे॒धां मह्य॒ मंगि॑रसो मे॒धां स॒प्तऋष॑यो ददुः। मे॒धा मिंद्र॑श्चा॒ऽग्निश्च॑मे॒धांधा॒ता द॑दातु ते॥
मे॒धांते॒ वरु॑णो॒ राजा॑ मे॒धा न्दे॒वी सर॑स्वती। मे॒धांते॑ अ॒श्विनौ॑ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा॥
या मे॒धा अ॑प्स॒रस्सु॑ गंध॒र्वेषु॑ च॒ यन्मनः॑। दैवी॒ या मानु॑षी मे॒धा सा मामा वि॑शता दि॒मां॥
यन्मे॒ नोक्तं॒तद्र॑मतां॒ शके॑यं यद॑नु॒ब्रुवे॑। निशा॑मत॒ न्निशा॑महै॒ मयि॑ व्र॒तं स॒ह व्र॒तेषु॑ भूयासं॒ ब्रह्म॑णा॒ संग॑मेमहि।
शरी॑रं मे॒ विच॑क्षणं॒ वाङ्मे॒ मधु॑म॒द्दुहां॑। अवृ॑द्ध म॒ह म॒सौ सूर्यो॒ ब्रह्म॑ण आ॒णी स्थ॑श्श्रु॒तं मे॒ मा प्र हा॑सीः॥
मे॒धा न्दे॒वीं मन॑सा॒ रेज॑मानांगंध॒र्वजु॑ष्टां॒ प्रति॑ नो जुषस्व। मह्यं॒ मेधाँ॑ वद॒मह्यं॒ श्रियं॑ वद मेधा॒वी भू॑यास म॒जरा॑ जरि॒ष्णु॥
सद॑स॒स्पति॒ मद्भु॑तं प्रि॒य मिंद्र॑स्य॒ काम्यं॑। स॒निं मे॒धा म॑यासिषं॥
यां मे॒धा न्दे॒वग॑णाः पि॒तर॑ श्चो॒पाऽऽस॑ते। तया॒ माम॒द्य मे॒धयाऽग्ने॑ मेधा॒विनं॑कुरु॥
मे॒धा॒व्य॑1(अ॒)हं सु॒मना॑स्सु॒प्रती॑क श्श्र॒द्धाम॑ना स्स॒त्यम॑ति स्सु॒शेवः॑। म॒हा॒य॒शा धा॒रयि॑ष्णुः प्रव॒क्ता भू॒यास॑ मस्मै श॒रया॑ प्रयो॒गे॥
ना॒श॒यि॒त्री प॑लाश॒स्या॒ऽरु॒षसौ॑ पथि॒काम॑सु। अथो॑ त॒तस्य॒ यक्ष्मा॑णम॒पापा॑ रोग॒नाशि॑नी॥
ब्र॒ह्म॒वृ॒क्ष प॑लाश॒ त्वं॒ श्र॒द्धां मे॑धांच॒ देहि॑ मे। वृ॒क्षा॒धि॒प न॑मस्ते॒ऽस्तु॒ अ॒त्र त्वं॑ सन्नि॒धो भ॑व॥
9 । सूर्य सूक्तं
उदुत्यमिति त्रयोदशर्चस्य सूक्तस्य काण्वःप्रस्कण्वः सूर्यो गायत्री अंत्याश्चतस्रोनुष्टुभः (अंत्यस्तृचोरोगघ्नौपनिषदंत्योर्थर्चोद्विषन्न इतिगुणः) ।
उदु॒ त्यं जा॒तवे᳚दसं दे॒वं व॑हंति के॒तवः॑ । दृ॒शे विश्वा᳚य॒ सूर्यं᳚ ॥1.050.01, 1.4.7.1
अप॒ त्ये ता॒यवो᳚ यथा॒ नक्ष॑त्रा यंत्य॒क्तुभिः॑ । सूरा᳚य वि॒श्वच॑क्षसे ॥1.050.02, 1.4.7.2
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒, अनु॑ । भ्राजं᳚तो, अ॒ग्नयो᳚ यथा ॥1.050.03, 1.4.7.3
त॒रणि᳚र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा᳚सि रोच॒नं ॥1.050.04, 1.4.7.4
प्र॒त्यङ् दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे᳚षि॒ मानु॑षान् । प्र॒त्यङ् विश्वं॒ स्व॑र्दृ॒शे ॥1.050.05, 1.4.7.5
येना᳚ पावक॒ चक्ष॑सा भुर॒ण्यंतं॒ जनाँ॒, अनु॑ । त्वं व॑रुण॒ पश्य॑सि ॥1.050.06, 1.4.8.1
वि द्यामे᳚षि॒ रज॑स्पृ॒थ्वहा॒ मिमा᳚नो, अ॒क्तुभिः॑ । पश्यं॒जन्मा᳚नि सूर्य ॥1.050.07, 1.4.8.2
स॒प्त त्वा᳚ ह॒रितो॒ रथे॒ वहं᳚ति देव सूर्य । शो॒चिष्के᳚शं विचक्षण ॥1.050.08, 1.4.8.3
अयु॑क्त स॒प्त शुं॒ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑ । ताभि᳚र्याति॒ स्वयु॑क्तिभिः ॥1.050.09, 1.4.8.4
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्यं᳚त॒ उत्त॑रं । दे॒वं दे᳚व॒त्रा सूर्य॒मग᳚न्म॒ ज्योति॑रुत्त॒मं ॥1.050.10, 1.4.8.5
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिवं᳚ । हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ॥1.050.11, 1.4.8.6
शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि । अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ॥1.050.12, 1.4.8.7
उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह । द्वि॒षंतं॒ मह्यं᳚ रं॒धय॒न् मो, अ॒हं द्वि॑ष॒ते र॑धं ॥1.050.13, 1.4.8.8
चित्रंदेवानामितिषडृचस्य सूक्तस्य कुत्सः सूर्यस्त्रिष्टुप् ।
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी᳚कं॒ चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा᳚पृथि॒वी, अं॒तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥1.115.01, 1.8.7.1
सूर्यो᳚ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा᳚म॒भ्ये᳚ति प॒श्चात् । यत्रा॒ नरो᳚ देव॒यंतो᳚ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रं ॥1.115.02, 1.8.7.2
भ॒द्रा, अश्वा᳚ ह॒रितः॒ सूर्य॑स्य चि॒त्रा, एत॑ग्वा, अनु॒माद्या᳚सः । न॒म॒स्यंतो᳚ दि॒व आ पृ॒ष्ठम॑स्थुः॒ परि॒ द्यावा᳚पृथि॒वी यं᳚ति स॒द्यः ॥1.115.03, 1.8.7.3
तत् सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार । य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै᳚ ॥1.115.04, 1.8.7.4
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो᳚ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे᳚ । अ॒नं॒तम॒न्यद् रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रंति ॥1.115.05, 1.8.7.5
अ॒द्या दे᳚वा॒, उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् । तन्नो᳚ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी, उ॒त द्यौः ॥1.115.06, 1.8.7.6
इंद्रं मित्रमिति द्व्यर्चस्य औचथ्यो दीर्घतमाः सूर्यस्त्रिष्टुप्, हंसः शुचिषदित्यस्य गौतमो वामदेवः सूर्यो जगती, यत् त्वा सूर्येत्यस्य भौमोत्रिः सूर्योनुष्टुप्, यदद्य सूर्येत्यस्य मैत्रावरुणिर्वसिष्ठः सूर्यस्त्रिष्टुप्, उत् सूर्यो इति त्यर्चस्य मैत्रावरुणिर्वसिष्ठः सूर्यस्त्रिष्टुप् ॥
इंद्रं᳚ मि॒त्रं वरु॑णम॒ग्निमा᳚हु॒रथो᳚ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा᳚न् । एकं॒ सद् विप्रा᳚ बहु॒धा व॑दंत्य॒ग्निं य॒मं मा᳚त॒रिश्वा᳚नमाहुः ॥1.164.46, 2.3.022.06
कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा, अ॒पो वसा᳚ना॒ दिव॒मुत्प॑तंति । त आव॑वृत्र॒न् त्सद॑नादृ॒तस्यादिद् घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ॥1.164.47, 2.3.023.01
हं॒सः शु॑चि॒षद् वसु॑रंतरिक्ष॒सद्धोता᳚ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद् व॑र॒सदृ॑त॒सद् व्यो᳚म॒सद॒ब्जा गो॒जा ऋ॑त॒जा, अ॑द्रि॒जा ऋ॒तं ॥4.040.05, 3.7.014.05
यत् त्वा᳚ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः । अक्षे᳚त्रवि॒द् यथा᳚ मु॒ग्धो भुव॑नान्यदीधयुः ॥5.040.05, 4.2.011.05
यद॒द्य सू᳚र्य॒ ब्रवोऽना᳚गा, उ॒द्यन् मि॒त्राय॒ वरु॑णाय स॒त्यं । व॒यं दे᳚व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो᳚ अर्यमन् गृ॒णंतः॑ ॥7.060.01, 5.5.1.1
उत् सूर्यो᳚ बृ॒हद॒र्चींष्य॑श्रेत् पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणां । स॒मो दि॒वा द॑दृशे॒ रोच॑मानः॒ क्रत्वा᳚ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥7.062.01, 5.5.4.1
स सू᳚र्य॒ प्रति॑ पु॒रो न॒ उद् गा᳚ ए॒भिः स्तोमे᳚भिरेत॒शेभि॒रेवैः᳚ । प्र नो᳚ मि॒त्राय॒ वरु॑णाय वो॒चोऽना᳚गसो, अर्य॒म्णे, अ॒ग्नये᳚ च ॥7.062.02, 5.5.4.2
वि नः॑ स॒हस्रं᳚ शु॒रुधो᳚ रदंत्वृ॒तावा᳚नो॒ वरु॑णो मि॒त्रो, अ॒ग्निः । यच्छं᳚तु चं॒द्रा, उ॑प॒मं नो᳚ अ॒र्कमा नः॒ कामं᳚ पूपुरंतु॒ स्तवा᳚नाः ॥7.062.03, 5.5.4.3
उद्वेतीति षडृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः आद्यानांसार्धंचतसृणां सूर्यस्ततोमित्रावरुणौत्रिष्टुप् ।
उद्वे᳚ति सु॒भगो᳚ वि॒श्वच॑क्षाः॒ साधा᳚रणः॒ सूर्यो॒ मानु॑षाणां । चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे᳚व॒ यः स॒मवि᳚व्य॒क् तमां᳚सि ॥7.063.01, 5.5.5.1
उद्वे᳚ति प्रसवी॒ता जना᳚नां म॒हान् के॒तुर᳚र्ण॒वः सूर्य॑स्य । स॒मा॒नं च॒क्रं प᳚र्या॒विवृ॑त्स॒न् यदे᳚त॒शो वह॑ति धू॒र्षु यु॒क्तः ॥7.063.02, 5.5.5.2
वि॒भ्राज॑मान उ॒षसा᳚मु॒पस्था᳚द् रे॒भैरुदे᳚त्यनुम॒द्यमा᳚नः । ए॒ष मे᳚ दे॒वः स॑वि॒ता च॑च्छंद॒ यः स॑मा॒नं न प्र॑मि॒नाति॒ धाम॑ ॥7.063.03, 5.5.5.3
दि॒वो रु॒क्म उ॑रु॒चक्षा॒, उदे᳚ति दू॒रे,अ॑र्थस्त॒रणि॒र्भ्राज॑मानः । नू॒नं जनाः॒ सूर्ये᳚ण॒ प्रसू᳚ता॒, अय॒न्नर्था᳚नि कृ॒णव॒न्नपां᳚सि ॥7.063.04, 5.5.5.4
यत्रा᳚ च॒क्रुर॒मृता᳚ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे᳚ति॒ पाथः॑ । प्रति॑ वां॒ सूर॒ उदि॑ते विधेम॒ नमो᳚भिर्मित्रावरुणो॒त ह॒व्यैः ॥7.063.05, 5.5.5.5
नू मि॒त्रो वरु॑णो, अर्य॒मा न॒स्त्मने᳚ तो॒काय॒ वरि॑वो दधंतु । सु॒गा नो॒ विश्वा᳚ सु॒पथा᳚नि संतु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥7.063.06, 5.5.5.6
उदु त्यदिति त्यर्चस्य मैत्रावरुणिर्वसिष्ठः सूर्यः प्रथमा बृहती द्वितीया सतोबृहती अंत्या पुर उष्णिक्, बण्महाँ असीति द्व्यर्चस्य भार्गवो जमदग्निः सूर्यः प्रथमा बृहती द्वितीया सतोबृहती ॥
उदु॒ त्यद् द॑र्श॒तं वपु॑र्दि॒व ए᳚ति प्रतिह्व॒रे । यदी᳚मा॒शुर्वह॑ति दे॒व एत॑शो॒ विश्व॑स्मै॒ चक्ष॑से॒, अरं᳚ ॥7.066.14, 5.5.010.04
शी॒र्ष्णःशी᳚र्ष्णो॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ स॒मया॒ विश्व॒मा रजः॑ । स॒प्त स्वसा᳚रः सुवि॒ताय॒ सूर्यं॒ वहं᳚ति ह॒रितो॒ रथे᳚ ॥7.066.15, 5.5.010.05
तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् । पश्ये᳚म श॒रदः॑ श॒तं जीवे᳚म श॒रदः॑ श॒तं ॥7.066.16, 5.5.011.01
बण्म॒हाँ, अ॑सि सूर्य॒ बळा᳚दित्य म॒हाँ, अ॑सि । म॒हस्ते᳚ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे᳚व म॒हाँ, अ॑सि ॥8.101.11, 6.7.8.1
बट् सू᳚र्य॒ श्रव॑सा म॒हाँ, अ॑सि स॒त्रा दे᳚व म॒हाँ, अ॑सि । म॒ह्ना दे॒वाना᳚मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा᳚भ्यं ॥8.101.12, 6.7.8.2
नमोमित्रस्येति द्वादशर्चस्य सूक्तस्य सौर्योभितपाः सूर्योजगती दशमी त्रिष्टुप् ।
नमो᳚ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत । दू॒रे॒दृशे᳚ दे॒वजा᳚ताय के॒तवे᳚ दि॒वस्पु॒त्राय॒ सूर्या᳚य शंसत ॥10.037.01, 7.8.012.01
सा मा᳚ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा᳚ च॒ यत्र॑ त॒तन॒न्नहा᳚नि च । विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो᳚ वि॒श्वाहोदे᳚ति॒ सूर्यः॑ ॥10.037.02, 7.8.012.02
न ते॒, अदे᳚वः प्र॒दिवो॒ नि वा᳚सते॒ यदे᳚त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ । प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ॥10.037.03, 7.8.012.03
येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना᳚ । तेना॒स्मद्विश्वा॒मनि॑रा॒मना᳚हुति॒मपामी᳚वा॒मप॑ दु॒ष्ष्वप्न्यं᳚ सुव ॥10.037.04, 7.8.012.04
विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे᳚ळयन्नु॒च्चर॑सि स्व॒धा, अनु॑ । यद॒द्य त्वा᳚ सूर्योप॒ब्रवा᳚महै॒ तं नो᳚ दे॒वा, अनु॑ मंसीरत॒ क्रतुं᳚ ॥10.037.05, 7.8.012.05
तं नो॒ द्यावा᳚पृथि॒वी तन्न॒ आप॒ इंद्रः॑ शृण्वंतु म॒रुतो॒ हवं॒ वचः॑ । मा शूने᳚ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीवं᳚तो जर॒णाम॑शीमहि ॥10.037.06, 7.8.012.06
वि॒श्वाहा᳚ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जावं᳚तो, अनमी॒वा, अना᳚गसः । उ॒द्यंतं᳚ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥10.037.07, 7.8.013.01
महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्वं᳚तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ । आ॒रोहं᳚तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ॥10.037.08, 7.8.013.02
यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शंते᳚ अ॒क्तुभिः॑ । अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना᳚ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥10.037.09, 7.8.013.03
शं नो᳚ भव॒ चक्ष॑सा॒ शं नो॒, अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ । यथा॒ शमध्वं॒छमस॑द्दुरो॒णे तत् सू᳚र्य॒ द्रवि॑णं धेहि चि॒त्रं ॥10.037.10, 7.8.013.04
अ॒स्माकं᳚ देवा, उ॒भया᳚य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे । अ॒दत् पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ॥10.037.11, 7.8.013.05
यद्वो᳚ देवाश्चकृ॒म जि॒ह्वया᳚ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नं । अरा᳚वा॒ यो नो᳚ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न् तदेनो᳚ वसवो॒ नि धे᳚तन ॥10.037.12, 7.8.013.06
सूर्योन इति पंचर्चस्य सूक्तस्य सौर्यश्चक्षुर्मानवः सूर्यो गायत्री ।
सूर्यो᳚ नो दि॒वस्पा᳚तु॒ वातो᳚ अं॒तरि॑क्षात् । अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ॥10.158.01, 8.8.016.01
जोषा᳚ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ, अर्ह॑ति । पा॒हि नो᳚ दि॒द्युतः॒ पतं᳚त्याः ॥10.158.02, 8.8.016.02
चक्षु᳚र्नो दे॒वः स॑वि॒ता चक्षु᳚र्न उ॒त पर्व॑तः । चक्षु॑र्धा॒ता द॑धातु नः ॥10.158.03, 8.8.016.03
चक्षु᳚र्नो धेहि॒ चक्षु॑षे॒ चक्षु᳚र्वि॒ख्यै त॒नूभ्यः॑ । सं चे॒दं वि च॑ पश्येम ॥10.158.04, 8.8.016.04
सु॒सं॒दृशं᳚ त्वा व॒यं प्रति॑ पश्येम सूर्य । वि प॑श्येम नृ॒चक्ष॑सः ॥10.158.05, 8.8.016.05
विभ्राडिति चतुरृचस्य सूक्तस्य सौर्यो विभ्राट् सूर्योजगत्यंयास्तारपंक्तिः ।
वि॒भ्राड् बृ॒हत् पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतं । वात॑जूतो॒ यो, अ॑भि॒रक्ष॑ति॒ त्मना᳚ प्र॒जाः पु॑पोष पुरु॒धा वि रा᳚जति ॥10.170.01, 8.8.028.01
वि॒भ्राड् बृ॒हत् सुभृ॑तं वाज॒सात॑मं॒ धर्म᳚न् दि॒वो ध॒रुणे᳚ स॒त्यमर्पि॑तं । अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हंत॑मं॒ ज्योति॑र्जज्ञे, असुर॒हा स॑पत्न॒हा ॥10.170.02, 8.8.028.02
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् । वि॒श्व॒भ्राड् भ्रा॒जो महि॒ सूर्यो᳚ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒, अच्यु॑तं ॥10.170.03, 8.8.028.03
वि॒भ्राजं॒ज्योति॑षा॒ स्व१॑(अ॒)रग॑च्छो रोच॒नं दि॒वः । येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक᳚र्मणा वि॒श्वदे᳚व्यावता ॥10.170.04, 8.8.028.04
आयंगौरिति तृचस्य सूक्तस्य सार्पराज्ञी सूर्यगायत्री । (अत्रयद्यपि सार्पराज्ञ्यात्मदैवतमित्यनेनप्रकृतासार्पराज्ञीदेवताप्राप्नोति तथापि प्रयोक्तृभिः सूर्यस्यग्रहणात्पाक्षिकोपिसूर्योस्माभि रुपाक्तः
आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं᳚ पु॒रः । पि॒तरं᳚ च प्र॒यन् त्स्वः॑ ॥10.189.01, 8.8.047.01
अं॒तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती । व्य॑ख्यन् महि॒षो दिवं᳚ ॥10.189.02, 8.8.047.02
त्रिं॒शद्धाम॒ वि रा᳚जति॒ वाक् प॑तं॒गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥10.189.03, 8.8.047.03
ऋतंचेति तृचस्य सूक्तस्य माधुच्छंदसोघमर्षणोभाववृत्तिरनुष्टुप् ।
ऋ॒तं च॑ स॒त्यं चा॒भी᳚द्धा॒त् तप॒सोऽध्य॑जायत । ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो, अ᳚र्ण॒वः ॥10.190.01, 8.8.048.01
स॒मु॒द्राद᳚र्ण॒वादधि॑ संवत्स॒रो, अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥10.190.02, 8.8.048.02
सू॒र्या॒चं॒द्र॒मसौ᳚ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं᳚ च पृथि॒वीं चा॒ऽन्तरि॑क्ष॒मथो॒ स्वः॑ ॥10.190.03, 8.8.048.03
10 । श्रद्धा सूक्तं
श्रद्धयेति पंचर्चस्य सूक्तस्य श्रद्धाकामायनीश्रद्धानुष्टुप् ।
श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया᳚ हूयते ह॒विः । श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे᳚दयामसि ॥10.151.01, 8.8.9.1
प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा᳚सतः । प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥10.151.02, 8.8.9.2
यथा᳚ दे॒वा, असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥10.151.03, 8.8.9.3
श्र॒द्धां दे॒वा यज॑माना वा॒युगो᳚पा॒, उपा᳚सते । श्र॒द्धां हृ॑द॒य्य१॑(अ॒)याकू᳚त्या श्र॒द्धया᳚ विंदते॒ वसु॑ ॥10.151.04, 8.8.9.4
श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ । श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा᳚पये॒ह नः॑ ॥10.151.05, 8.8.9.5
11 । ब्रह्मणस्पति सूक्तं
सोमानमिति पंचर्चस्य काण्वो मेधातिथिः गायत्री प्रथमानां तिसृणां ब्रह्मणस्पतिः चतुर्थ्या इंद्रसोमब्रह्मणस्पतयः अंत्याया इंद्रसोमब्रह्मणस्पतयो दक्षिणा देवताः ॥
सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र᳚ह्मणस्पते । क॒क्षीवं᳚तं॒ य औ᳚शि॒जः ॥1.018.01, 1.1.034.01
यो रे॒वान्यो, अ॑मीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्ध॑नः । स नः॑ सिषक्तु॒ यस्तु॒रः ॥1.018.02, 1.1.034.02
मा नः॒ शंसो॒, अर॑रुषो धू॒र्तिः प्रण॒ङ् मर्त्य॑स्य । रक्षा᳚ णो ब्रह्मणस्पते ॥1.018.03, 1.1.034.03
स घा᳚ वी॒रो न रि॑ष्यति॒ यमिंद्रो॒ ब्रह्म॑ण॒स्पतिः॑ । सोमो᳚ हि॒नोति॒ मर्त्यं᳚ ॥1.018.04, 1.1.034.04
त्वं तं ब्र᳚ह्मणस्पते॒ सोम॒ इंद्र॑श्च॒ मर्त्यं᳚ । दक्षि॑णा पा॒त्वंह॑सः ॥1.018.05, 1.1.034.05
उत्तिष्ठेत्यष्टर्चस्य सूक्तस्य घौरः कण्वोब्रह्मणस्पतिः प्रगाथः (अयुजोबृहत्यः युजः सतोबृहत्यः) ।
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यंत॑स्त्वेमहे । उप॒ प्र यं᳚तु म॒रुतः॑ सु॒दान॑व॒ इंद्र॑ प्रा॒शूर्भ॑वा॒ सचा᳚ ॥1.040.01, 1.3.020.01
त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने᳚ हि॒ते । सु॒वीर्यं᳚ मरुत॒ आ स्वश्व्यं॒ दधी᳚त॒ यो व॑ आच॒के ॥1.040.02, 1.3.020.02
प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये᳚तु सू॒नृता᳚ । अच्छा᳚ वी॒रं नर्यं᳚ पं॒क्तिरा᳚धसं दे॒वा य॒ज्ञं न॑यंतु नः ॥1.040.03, 1.3.020.03
यो वा॒घते॒ ददा᳚ति सू॒नरं॒ वसु॒ स ध॑त्ते॒, अक्षि॑ति॒ श्रवः॑ । तस्मा॒, इळां᳚ सु॒वीरा॒मा य॑जामहे सु॒प्रतू᳚र्तिमने॒हसं᳚ ॥1.040.04, 1.3.020.04
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मंत्रं᳚ वदत्यु॒क्थ्यं᳚ । यस्मि॒न्निंद्रो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा दे॒वा, ओकां᳚सि चक्रि॒रे ॥1.040.05, 1.3.020.05
तमिद् वो᳚चेमा वि॒दथे᳚षु शं॒भुवं॒ मंत्रं᳚ देवा, अने॒हसं᳚ । इ॒मां च॒ वाचं᳚ प्रति॒हर्य॑था नरो॒ विश्वेद् वा॒मा वो᳚ अश्नवत् ॥1.040.06, 1.3.021.01
को दे᳚व॒यंत॑मश्नव॒ज्जनं॒ को वृ॒क्तब᳚र्हिषं । प्रप्र॑ दा॒श्वान् प॒स्त्या᳚भिरस्थिताऽन्त॒र्वाव॒त् क्षयं᳚ दधे ॥1.040.07, 1.3.021.02
उप॑ क्ष॒त्रं पृं᳚ची॒त हंति॒ राज॑भिर्भ॒ये चि॑त् सुक्षि॒तिं द॑धे । नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे᳚ अस्ति व॒ज्रिणः॑ ॥1.040.08, 1.3.021.03
गणानामित्येकोन विंशत्यृचस्य सूक्तस्य शौनकोगृत्समदः आद्यापंचमीनवम्येकादशीसप्तदश्यंत्यानां ब्रह्मणस्पतिः शिष्टानां बृहस्पतिर्जगती पंचदश्यंत्येत्रिष्टुभौ ।
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमं । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नं ॥2.023.01, 2.6.029.01
दे॒वाश्चि॑त्ते, असुर्य॒ प्रचे᳚तसो॒ बृह॑स्पते य॒ज्ञियं᳚ भा॒गमा᳚नशुः । उ॒स्रा, इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे᳚षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि ॥2.023.02, 2.6.029.02
आ वि॒बाध्या᳚ परि॒राप॒स्तमां᳚सि च॒ ज्योति॑ष्मंतं॒ रथ॑मृ॒तस्य॑ तिष्ठसि । बृह॑स्पते भी॒मम॑मित्र॒दंभ॑नं रक्षो॒हणं᳚ गोत्र॒भिदं᳚ स्व॒र्विदं᳚ ॥2.023.03, 2.6.029.03
सु॒नी॒तिभि᳚र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न् न तमंहो᳚ अश्नवत् । ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत्ते᳚ महित्व॒नं ॥2.023.04, 2.6.029.04
न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा᳚तयस्तितिरु॒र्न द्व॑या॒विनः॑ । विश्वा॒, इद॑स्माद् ध्व॒रसो॒ वि बा᳚धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ॥2.023.05, 2.6.029.05
त्वं नो᳚ गो॒पाः प॑थि॒कृद् वि॑चक्ष॒णस्तव᳚ व्र॒ताय॑ म॒तिभि॑र्जरामहे । बृह॑स्पते॒ यो नो᳚ अ॒भि ह्वरो᳚ द॒धे स्वा तं म᳚र्मर्तु दु॒च्छुना॒ हर॑स्वती ॥2.023.06, 2.6.030.01
उ॒त वा॒ यो नो᳚ म॒र्चया॒दना᳚गसोऽराती॒वा मर्तः॑ सानु॒को वृकः॑ । बृह॑स्पते॒, अप॒ तं व॑र्तया प॒थः सु॒गं नो᳚ अ॒स्यै दे॒ववी᳚तये कृधि ॥2.023.07, 2.6.030.02
त्रा॒तारं᳚ त्वा त॒नूनां᳚ हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युं । बृह॑स्पते देव॒निदो॒ नि ब᳚र्हय॒ मा दु॒रेवा॒, उत्त॑रं सु॒म्नमुन्न॑शन् ॥2.023.08, 2.6.030.03
त्वया᳚ व॒यं सु॒वृधा᳚ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि । या नो᳚ दू॒रे त॒ळितो॒ या, अरा᳚तयो॒ऽभि संति॑ जं॒भया॒ ता, अ॑न॒प्नसः॑ ॥2.023.09, 2.6.030.04
त्वया᳚ व॒यमु॑त्त॒मं धी᳚महे॒ वयो॒ बृह॑स्पते॒ पप्रि॑णा॒ सस्नि॑ना यु॒जा । मा नो᳚ दुः॒शंसो᳚ अभिदि॒प्सुरी᳚शत॒ प्र सु॒शंसा᳚ म॒तिभि॑स्तारिषीमहि ॥2.023.10, 2.6.030.05
अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः । असि॑ स॒त्य ऋ॑ण॒या ब्र᳚ह्मणस्पत उ॒ग्रस्य॑ चिद्दमि॒ता वी᳚ळुह॒र्षिणः॑ ॥2.023.11, 2.6.031.01
अदे᳚वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां᳚सति । बृह॑स्पते॒ मा प्रण॒क् तस्य॑ नो व॒धो नि क᳚र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः ॥2.023.12, 2.6.031.02
भरे᳚षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गंता॒ वाजे᳚षु॒ सनि॑ता॒ धनं᳚धनं । विश्वा॒, इद॒र्यो, अ॑भिदि॒प्स्वो॒3॑(ओ॒) मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथाँ᳚, इव ॥2.023.13, 2.6.031.03
तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा᳚ नि॒दे द॑धि॒रे दृ॒ष्टवी᳚र्यं । आ॒विस्तत् कृ॑ष्व॒ यदस॑त्त उ॒क्थ्य१॑(अं॒) बृह॑स्पते॒ वि प॑रि॒रापो᳚ अर्दय ॥2.023.14, 2.6.031.04
बृह॑स्पते॒, अति॒ यद॒र्यो, अर्हा᳚द् द्यु॒मद् वि॒भाति॒ क्रतु॑म॒ज्जने᳚षु । यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रं ॥2.023.15, 2.6.031.05
मा नः॑ स्ते॒नेभ्यो॒ ये, अ॒भि द्रु॒हस्प॒दे नि॑रा॒मिणो᳚ रि॒पवोऽन्ने᳚षु जागृ॒धुः । आ दे॒वाना॒मोह॑ते॒ वि व्रयो᳚ हृ॒दि बृह॑स्पते॒ न प॒रः साम्नो᳚ विदुः ॥2.023.16, 2.6.032.01
विश्वे᳚भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त् साम्नः॑साम्नः क॒विः । स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो हं॒ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ॥2.023.17, 2.6.032.02
तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां᳚ गो॒त्रमु॒दसृ॑जो॒ यदं᳚गिरः । इंद्रे᳚ण यु॒जा तम॑सा॒ परी᳚वृतं॒ बृह॑स्पते॒ निर॒पामौ᳚ब्जो, अर्ण॒वं ॥2.023.18, 2.6.032.03
ब्रह्म॑णस्पते॒ त्वम॒स्य यं॒ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व । विश्वं॒ तद् भ॒द्रं यदवं᳚ति दे॒वा बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ॥2.023.19, 2.6.032.04
सेमामिति षोळशर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिः प्रथमादशम्योबृहस्पतिर्द्वादश्यैंद्राब्रह्मणस्पती जगतीद्वादश्यंत्येत्रिष्टुभौ ।
सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा । यथा᳚ नो मी॒ढ्वान् त्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑धः॒ सोत नो᳚ म॒तिं ॥2.024.01, 2.7.1.1
यो नंत्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शंब॑राणि॒ वि । प्राच्या᳚वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द् वसु॑मंतं॒ वि पर्व॑तं ॥2.024.02, 2.7.1.2
तद्दे॒वानां᳚ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नन् दृ॒ळ्हाव्र॑दंत वीळि॒ता । उद्गा, आ᳚ज॒दभि॑न॒द् ब्रह्म॑णा व॒लमगू᳚ह॒त्तमो॒ व्य॑चक्षय॒त्स्वः॑ ॥2.024.03, 2.7.1.3
अश्मा᳚स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् । तमे॒व विश्वे᳚ पपिरे स्व॒र्दृशो᳚ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिणं᳚ ॥2.024.04, 2.7.1.4
सना॒ ता का चि॒द्भुव॑ना॒ भवी᳚त्वा मा॒द्भिः श॒रद्भि॒र्दुरो᳚ वरंत वः । अय॑तंता चरतो, अ॒न्यद᳚न्य॒दिद् या च॒कार॑ व॒युना॒ ब्रह्म॑ण॒स्पतिः॑ ॥2.024.05, 2.7.1.5
अ॒भि॒नक्षं᳚तो, अ॒भि ये तमा᳚न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा᳚ हि॒तं । ते वि॒द्वांसः॑ प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न् तदुदी᳚युरा॒विशं᳚ ॥2.024.06, 2.7.2.1
ऋ॒तावा᳚नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो᳚ म॒हस्प॒थः । ते बा॒हुभ्यां᳚ धमि॒तम॒ग्निमश्म॑नि॒ नकिः॒ षो, अ॒स्त्यर॑णो ज॒हुर्हि तं ॥2.024.07, 2.7.2.2
ऋ॒तज्ये᳚न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना । तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ॥2.024.08, 2.7.2.3
स सं᳚न॒यः स वि॑न॒यः पु॒रोहि॑तः॒ स सुष्टु॑तः॒ स यु॒धि ब्रह्म॑ण॒स्पतिः॑ । चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धना ऽऽदित् सूर्य॑स्तपति तप्य॒तुर्वृथा᳚ ॥2.024.09, 2.7.2.4
वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना᳚वतो॒ बृह॒स्पतेः᳚ सुवि॒दत्रा᳚णि॒ राध्या᳚ । इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना᳚ उ॒भये᳚ भुंज॒ते विशः॑ ॥2.024.10, 2.7.2.5
योऽव॑रे वृ॒जने᳚ वि॒श्वथा᳚ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ । स दे॒वो दे॒वान् प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ ॥2.024.11, 2.7.3.1
विश्वं᳚ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नंति व्र॒तं वां᳚ । अच्छें᳚द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे᳚व वा॒जिना᳚ जिगातं ॥2.024.12, 2.7.3.2
उ॒ताशि॑ष्ठा॒, अनु॑ शृण्वंति॒ वह्न॑यः स॒भेयो॒ विप्रो᳚ भरते म॒ती धना᳚ । वी॒ळु॒द्वेषा॒, अनु॒ वश॑ ऋ॒णमा᳚द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पतिः॑ ॥2.024.13, 2.7.3.3
ब्रह्म॑ण॒स्पते᳚रभवद् यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा᳚ करिष्य॒तः । यो गा, उ॒दाज॒त्स दि॒वे वि चा᳚भजन् म॒हीव॑ री॒तिः शव॑सासर॒त् पृथ॑क् ॥2.024.14, 2.7.3.4
ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा᳚ रा॒यः स्या᳚म र॒थ्यो॒3॑(ओ॒) वय॑स्वतः । वी॒रेषु॑ वी॒राँ, उप॑ पृङ्धि न॒स्त्वं यदीशा᳚नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हवं᳚ ॥2.024.15, 2.7.3.5
ब्रह्म॑णस्पते॒ त्वम॒स्य यं॒ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व । विश्वं॒ तद् भ॒द्रं यदवं᳚ति दे॒वा बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ॥2.024.16, 2.7.3.6
इंधानैति पंचर्चस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती ।
इंधा᳚नो, अ॒ग्निं व॑नवद् वनुष्य॒तः कृ॒तब्र᳚ह्मा शूशुवद् रा॒तह᳚व्य॒ इत् । जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥2.025.01, 2.7.4.1
वी॒रेभि᳚र्वी॒रान् व॑नवद् वनुष्य॒तो गोभी᳚ र॒यिं प॑प्रथ॒द् बोध॑ति॒ त्मना᳚ । तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥2.025.02, 2.7.4.2
सिंधु॒र्न क्षोदः॒ शिमी᳚वाँ ऋघाय॒तो वृषे᳚व॒ वध्रीँ᳚र॒भि व॒ष्ट्योज॑सा । अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥2.025.03, 2.7.4.3
तस्मा᳚ अर्षंति दि॒व्या, अ॑स॒श्चतः॒ स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति । अनि॑भृष्टतविषिर्हं॒त्योज॑सा॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥2.025.04, 2.7.4.4
तस्मा॒, इद्विश्वे᳚ धुनयंत॒ सिंध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ । दे॒वानां᳚ सु॒म्ने सु॒भगः॒ स ए᳚धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥2.025.05, 2.7.4.5
ऋजुरिदिति चतुरृचस्य सूक्तस्य शौनकोगृत्समदोब्रह्मणस्पतिर्जगती ।
ऋ॒जुरिच्छंसो᳚ वनवद् वनुष्य॒तो दे᳚व॒यन्निददे᳚वयंतम॒भ्य॑सत् । सु॒प्रा॒वीरिद् व॑नवत् पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नं ॥2.026.01, 2.7.5.1
यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये᳚ । ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ॥2.026.02, 2.7.5.2
स इज्जने᳚न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं᳚ भरते॒ धना॒ नृभिः॑ । दे॒वानां॒ यः पि॒तर॑मा॒विवा᳚सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पतिं᳚ ॥2.026.03, 2.7.5.3
यो, अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त् प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पतिः॑ । उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षो॒3॑(ओं॒)ऽहोश्चि॑दस्मा, उरु॒चक्रि॒रद्भु॑तः ॥2.026.04, 2.7.5.4
चत्त इत इति द्व्यर्चस्य भारद्वाजः शिरिंबिठः ब्रह्मणस्पतिरनुष्टुप्, अच्छा वदेत्यस्य घौरः कण्वः मरुतो गायत्री, त्वमग्न इत्यस्य शौनको गृत्समदः अग्निर्जगती, इंद्राग्नी इत्यस्य आत्रेयः प्रतिक्षत्रः विश्वदेवा जगती ॥
च॒त्तो, इ॒तश्च॒त्तामुतः॒ सर्वा᳚ भ्रू॒णान्या॒रुषी᳚ । अ॒रा॒य्यं᳚ ब्रह्मणस्पते॒ तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि ॥10.155.02, 8.8.013.02
अ॒दो यद्दारु॒ प्लव॑ते॒ सिंधोः᳚ पा॒रे, अ॑पूरु॒षं । तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रं ॥10.155.03, 8.8.013.03
अच्छा᳚ वदा॒ तना᳚ गि॒रा ज॒रायै॒ ब्रह्म॑ण॒स्पतिं᳚ । अ॒ग्निं मि॒त्रं न द॑र्श॒तं ॥1.038.13, 1.3.017.03
त्वम॑ग्न॒ इंद्रो᳚ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्यः॑ । त्वं ब्र॒ह्मा र॑यि॒विद् ब्र᳚ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं᳚ध्या ॥2.001.03, 2.5.017.03
इं॒द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्वः॑ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ, अ॒पः । हु॒वे विष्णुं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं᳚ सवि॒तार॑मू॒तये᳚ ॥5.046.03, 4.2.028.03
परिशिष्टम् [ऋग्वेद मंडल 10.128 सूक्तस्यानंतरं][ऋग्वेद अष्टक 8, अध्याय 7, 16 वर्गानंतरं]
प्रियं मा कुर्वित्यस्य आथर्वणो भृगुः प्रजापतिर्वा ऋषिः देवराजादयः गोत्रांतीया देवताः अनुष्टुप् छंदः ॥
प्रि॒यं मा᳚ कुरु दे॒वेषु॑ प्रि॒यं राज॑सु मा कुरु। प्रि॒यं विश्वे᳚षु गो॒प्त्रेषु॒ मयि॑ धेहि रु॒चा रुचं᳚॥
यत्र बाणा इत्यस्य भारद्वाजः पायुः युद्धभूमिकवचब्रह्मणस्पत्यदित्यः पंक्तिः, प्रातरग्निमित्यस्य मैत्रावरुणिर्वसिष्ठः अग्नींद्रमित्रावरुणाश्विभगपूषब्रह्मणस्पतिसोमरुद्राः जगती, दधिक्रां व इत्यस्य मैत्रावरुणिर्वसिष्ठः दधिक्राव्युषोग्निभगेंद्रविष्णुपूषब्रह्मणस्पतयादित्यद्यावापृथिव्यापः जगती, तमु ज्येष्ठमित्यस्य मैत्रावरुणिर्वसिष्ठः इंद्राब्रह्मणस्पती त्रिष्टुप्, इयं वामित्यस्य मैत्रावरुणिर्वसिष्ठः इंद्राब्रह्मणस्पती त्रिष्टुप्, अग्निरुक्थे इत्यस्य वैवस्वतोमनुः विश्वदेवाः बृहती, पवित्रं त इत्यस्य आंगिरसः पवित्रः पवमआनसोमः जगती, त्वष्टा मायामित्वस्य देवाः अग्निर्जगती, अग्निरिंद्र इत्यस्य वसुकर्णो वासुक्रः विश्वदेवाः जगती, स ईं सत्येभीरत्यस्य आंगिरसो यास्यः बृहस्पतिस्त्रिष्टुप्, ब्रह्मणस्पतिरेता इत्यस्य लौक्यो बृहस्पतिः देवा अनुष्टुप्, यदिंद्रेत्यस्य आंगिरसः प्रचेताः दउःस्वप्ननाशनः अनुष्टुप्, इममिंद्र इत्यस्य आंगिरसो ध्रुवः राजा अनुष्टुप्, अभीवर्तेनेत्यस्य आंगिरसोभीवर्तः राजा अनुष्टुप् ॥
यत्र॑ बा॒णाः सं॒पतं᳚ति कुमा॒रा वि॑शि॒खा, इ॑व । तत्रा᳚ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥6.075.17, 5.1.022.02
प्रा॒तर॒ग्निं प्रा॒तरिंद्रं᳚ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚ । प्रा॒तर्भगं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं᳚ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥7.041.01, 5.4.8.1
द॒धि॒क्रां वः॑ प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये᳚ हुवे । इंद्रं॒ विष्णुं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यान् द्यावा᳚पृथि॒वी, अ॒पः स्वः॑ ॥7.044.01, 5.4.011.01
तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भिः॑ सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं᳚ गृणीषे । इंद्रं॒ श्लोको॒ महि॒ दैव्यः॑ सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा᳚ ॥7.097.03, 5.6.021.03
इ॒यं वां᳚ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेंद्रा᳚य व॒ज्रिणे᳚ अकारि । अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा᳚तीः ॥7.097.09, 5.6.022.04
अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा᳚णो ब॒र्हिर॑ध्व॒रे । ऋ॒चा या᳚मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं᳚ दे॒वाँ, अवो॒ वरे᳚ण्यं ॥8.027.01, 6.2.031.01
प॒वित्रं᳚ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा᳚णि॒ पर्ये᳚षि वि॒श्वतः॑ । अत॑प्ततनू॒र्न तदा॒मो, अ॑श्नुते शृ॒तास॒ इद्वहं᳚त॒स्तत्समा᳚शत ॥9.083.01, 7.3.8.1
त्वष्टा᳚ मा॒या वे᳚द॒पसा᳚म॒पस्त॑मो॒ बिभ्र॒त्पात्रा᳚ देव॒पाना᳚नि॒ शंत॑मा । शिशी᳚ते नू॒नं प॑र॒शुं स्वा᳚य॒सं येन॑ वृ॒श्चादेत॑शो॒ ब्रह्म॑ण॒स्पतिः॑ ॥10.053.09, 8.1.014.04
अ॒ग्निरिंद्रो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः । आ॒दि॒त्या विष्णु᳚र्म॒रुतः॒ स्व॑र्बृ॒हत्सोमो᳚ रु॒द्रो, अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ ॥10.065.01, 8.2.9.1
स ईं᳚ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा᳚यसं॒ वि ध॑न॒सैर॑दर्दः । ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै᳚र्घ॒र्मस्वे᳚देभि॒र्द्रवि॑णं॒ व्या᳚नट् ॥10.067.07, 8.2.016.01
ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् । दे॒वानां᳚ पू॒र्व्ये यु॒गेऽस॑तः॒ सद॑जायत ॥10.072.02, 8.3.1.2
यदिं᳚द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा᳚मसि । प्रचे᳚ता न आंगिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥10.164.04, 8.8.022.04
इ॒ममिंद्रो᳚ अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा᳚ । तस्मै॒ सोमो॒, अधि॑ ब्रव॒त्तस्मा᳚ उ॒ ब्रह्म॑ण॒स्पतिः॑ ॥10.173.03, 8.8.031.03
अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेंद्रो᳚ अभिवावृ॒ते । तेना॒स्मान् ब्र᳚ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ॥10.174.01, 8.8.032.01
परिशिष्टम् [ऋग्वेद मंडल 10, 128 सूक्तस्यानंतरं][ऋग्वेद अष्टक 8, अध्याय 7, 16 वर्गानंतरं]
अग्निर्येनेत्यस्य मंत्रस्य अंगिराः ऋषिः ब्रह्मणस्पतिः देवता अनुष्टुप् छंदः ॥
अ॒ग्नि र्येन॑ वि॒राज॑ति॒ सूर्यो॒ येन॑ वि॒राज॑ति। वि॒राड्येन॒ विरा᳚जति॒ तेना॒स्मान् ब्र᳚ह्मणस्पते॒ विरा᳚ज स॒मिधं᳚ कुरु॥
नि षु सीदेत्यस्य वैरूपो नभ प्रभेदनः इंद्रस्त्रिष्टुप्, अयं मे हस्त इत्यस्य गौपायना बंध्वादयः हस्तोनुष्टुप् ॥
नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नां । न ऋ॒ते त्वत् क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवंचि॒त्रम॑र्च ॥10.112.09, 8.6.013.04
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः । अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः ॥10.060.12, 8.1.025.06
12 । गो सूक्तं
आगावैत्यष्टर्चस्य सूक्तस्य बार्हस्पत्योभरद्वाजोगौस्त्रिष्टुप् (द्वितीयाया इंद्रश्चांत्यपादस्यच) द्वितीयाध्यास्तिस्रोजगत्योंत्यानुष्टुप् ।
आ गावो᳚ अग्मन्नु॒त भ॒द्रम॑क्र॒न् त्सीदं᳚तु गो॒ष्ठे र॒णयं᳚त्व॒स्मे । प्र॒जाव॑तीः पुरु॒रूपा᳚ इ॒ह स्यु॒रिंद्रा᳚य पू॒र्वीरु॒षसो॒ दुहा᳚नाः ॥6.028.01, 4.6.025.01
इंद्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद् द॑दाति॒ न स्वं मु॑षायति । भूयो᳚भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि᳚न्ने खि॒ल्ये नि द॑धाति देव॒युं ॥6.028.02, 4.6.025.02
न ता न॑शंति॒ न द॑भाति॒ तस्क॑रो॒ नासा᳚मामि॒त्रो व्यथि॒रा द॑धर्षति । दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा᳚ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ॥6.028.03, 4.6.025.03
न ता, अर्वा᳚ रे॒णुक॑काटो, अश्नुते॒ न सं᳚स्कृत॒त्रमुप॑ यंति॒ ता, अ॒भि । उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता, अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रंति॒ यज्व॑नः ॥6.028.04, 4.6.025.04
गावो॒ भगो॒ गाव॒ इंद्रो᳚ मे, अच्छा॒न् गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः । इ॒मा या गावः॒ स ज॑नास॒ इंद्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिंद्रं᳚ ॥6.028.05, 4.6.025.05
यू॒यं गा᳚वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त् कृणुथा सु॒प्रती᳚कं । भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद् वो॒ वय॑ उच्यते स॒भासु॑ ॥6.028.06, 4.6.025.06
प्र॒जाव॑तीः सू॒यव॑सं रि॒शंतीः᳚ शु॒द्धा, अ॒पः सु॑प्रपा॒णे पिबं᳚तीः । मा वः॑ स्ते॒न ई᳚शत॒ माघशं᳚सः॒ परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ॥6.028.07, 4.6.025.07
उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यतां । उप॑ ऋष॒भस्य॒ रेत॒स्युपें᳚द्र॒ तव॑ वी॒र्ये᳚ ॥6.028.08, 4.6.025.08
मा॒ता रु॒द्राणां᳚ दुहि॒ता वसू᳚नां॒ स्वसा᳚दि॒त्याना᳚म॒मृत॑स्य॒ नाभिः॑ । प्र नु वो᳚चं चिकि॒तुषे॒ जना᳚य॒ मा गामना᳚गा॒मदि॑तिं वधिष्ट ॥8.101.15, 6.7.8.5
व॒चो॒विदं॒ वाच॑मुदी॒रयं᳚तीं॒ विश्वा᳚भिर्धी॒भिरु॑प॒तिष्ठ॑मानां । दे॒वीं दे॒वेभ्यः॒ पर्ये॒युषीं॒ गामा मा᳚वृक्त॒ मर्त्यो᳚ द॒भ्रचे᳚ताः ॥8.101.16, 6.7.8.6
मयोभूरिति चतुरृचस्य सूक्तस्य काक्षीवतः शंबरोगावस्त्रिष्टुप् ।
म॒यो॒भूर्वातो᳚ अ॒भि वा᳚तू॒स्रा, ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शंतां । पीव॑स्वतीर्जी॒वध᳚न्याः पिबंत्वव॒साय॑ प॒द्वते᳚ रुद्र मृळ ॥10.169.01, 8.8.027.01
याः सरू᳚पा॒ विरू᳚पा॒, एक॑रूपा॒ यासा᳚म॒ग्निरिष्ट्या॒ नामा᳚नि॒ वेद॑ । या, अंगि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥10.169.02, 8.8.027.02
या दे॒वेषु॑ त॒न्व१॑(अ॒)मैर॑यंत॒ यासां॒ सोमो॒ विश्वा᳚ रू॒पाणि॒ वेद॑ । ता, अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिंद्र गो॒ष्ठे रि॑रीहि ॥10.169.03, 8.8.027.03
प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा᳚णो॒ विश्वै᳚र्दे॒वैः पि॒तृभिः॑ संविदा॒नः । शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां᳚ व॒यं प्र॒जया॒ सं स॑देम ॥10.169.04, 8.8.027.04
13 । ऐकमत्य सूक्तं
संसमिति चतुरृचस्य सूक्तस्यांगिरसः संवननः आद्याया अग्निस्ततस्तिसृणां संज्ञानमनुष्टुप् तृतीयात्रिष्टुप् ।
संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ । इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥10.191.01, 8.8.049.01
सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां᳚सि जानतां । दे॒वा भा॒गं यथा॒ पूर्वे᳚ संजाना॒ना, उ॒पास॑ते ॥10.191.02, 8.8.049.02
स॒मा॒नो मंत्रः॒ समि॑तिः समा॒नी स॑मा॒नं मनः॑ स॒ह चि॒त्तमे᳚षां । स॒मा॒नं मंत्र॑म॒भि मं᳚त्रये वः समा॒नेन॑ वो ह॒विषा᳚ जुहोमि ॥10.191.03, 8.8.049.03
स॒मा॒नी व॒ आकू᳚तिः समा॒ना हृद॑यानि वः । स॒मा॒नम॑स्तु वो॒ मनो॒ यथा᳚ वः॒ सुस॒हास॑ति ॥10.191.04, 8.8.049.04
14 । अग्निसूक्तं (ऋग्वेद 1.1)
अग्निमीळ इति नवर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाअग्निर्गायत्री ।
अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजं᳚ । होता᳚रं रत्न॒धात॑मं ॥1.001.01, 1.1.1.1
अ॒ग्निः पूर्वे᳚भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त । स दे॒वाँ, एह व॑क्षति ॥1.001.02, 1.1.1.2
अ॒ग्निना᳚ र॒यिम॑श्नव॒त् पोष॑मे॒व दि॒वेदि॑वे । य॒शसं᳚ वी॒रव॑त्तमं ॥1.001.03, 1.1.1.3
अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ । स इद् दे॒वेषु॑ गच्छति ॥1.001.04, 1.1.1.4
अ॒ग्निर्होता᳚ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः । दे॒वो दे॒वेभि॒रा ग॑मत् ॥1.001.05, 1.1.1.5
यदं॒ग दा॒शुषे॒ त्वमग्ने᳚ भ॒द्रं क॑रि॒ष्यसि॑ । तवेत्तत् स॒त्यमं᳚गिरः ॥1.001.06, 1.1.2.1
उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा᳚वस्तर्धि॒या व॒यं । नमो॒ भरं᳚त॒ एम॑सि ॥1.001.07, 1.1.2.2
राजं᳚तमध्व॒राणां᳚ गो॒पामृ॒तस्य॒ दीदि॑विं । वर्ध॑मानं॒ स्वे दमे᳚ ॥1.001.08, 1.1.2.3
स नः॑ पि॒तेव॑ सू॒नवेऽग्ने᳚ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये᳚ ॥1.001.09, 1.1.2.4
15 । आ नो भद्राः सूक्तं
आनोभद्राइति दशर्चस्य सूक्तस्य राहूगणोगोतमो विश्वेदेवास्त्रिष्टुप् आद्याः पंचसप्तमीच जगत्यः षष्ठीविराट्स्थाना (सूक्तभेदप्रयोगपक्षेतुआद्यानांचतसृणां विश्वेदेवाः ततएकस्याइंद्रापूषणौततश्चतसृणां विश्वेदेवाःततएकस्याअदितिः एवंदश) ।
आ नो᳚ भ॒द्राः क्रत॑वो यंतु वि॒श्वतोऽद॑ब्धासो॒, अप॑रीतास उ॒द्भिदः॑ । दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धे, अस॒न्नप्रा᳚युवो रक्षि॒तारो᳚ दि॒वेदि॑वे ॥1.089.01, 1.6.015.01
दे॒वानां᳚ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वानां᳚ रा॒तिर॒भि नो॒ नि व॑र्ततां । दे॒वानां᳚ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्र ति॑रंतु जी॒वसे᳚ ॥1.089.02, 1.6.015.02
तान् पूर्व॑या नि॒विदा᳚ हूमहे व॒यं भगं᳚ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिधं᳚ । अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥1.089.03, 1.6.015.03
तन्नो॒ वातो᳚ मयो॒भु वा᳚तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत् पि॒ता द्यौः । तद् ग्रावा᳚णः सोम॒सुतो᳚ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वं ॥1.089.04, 1.6.015.04
तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ धियंजि॒न्वमव॑से हूमहे व॒यं । पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द् वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये᳚ ॥1.089.05, 1.6.015.05
स्व॒स्ति न॒ इंद्रो᳚ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे᳚दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒, अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥1.089.06, 1.6.016.01
पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा᳚नो वि॒दथे᳚षु॒ जग्म॑यः । अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे᳚ नो दे॒वा, अव॒सा ग॑मन्नि॒ह ॥1.089.07, 1.6.016.02
भ॒द्रं कर्णे᳚भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि᳚र्यजत्राः । स्थि॒रैरंगै᳚स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ॥1.089.08, 1.6.016.03
श॒तमिन्नु श॒रदो॒, अंति॑ देवा॒ यत्रा᳚ नश्च॒क्रा ज॒रसं᳚ त॒नूनां᳚ । पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भवं᳚ति॒ मा नो᳚ म॒ध्या री᳚रिष॒तायु॒र्गंतोः᳚ ॥1.089.09, 1.6.016.04
अदि॑ति॒र्द्यौरदि॑तिरं॒तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे᳚ दे॒वा, अदि॑तिः॒ पंच॒ जना॒, अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वं ॥1.089.10, 1.6.016.05
16 । ओषधी सूक्तं
याओषधीरिति त्रयोविंशत्यृचस्य सूक्तस्याथर्वणोभिषगोषधयोनुष्टुप् ।
या, ओष॑धीः॒ पूर्वा᳚ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । मनै॒ नु ब॒भ्रूणा᳚म॒हं श॒तं धामा᳚नि स॒प्त च॑ ॥10.097.01, 8.5.8.1
श॒तं वो᳚ अंब॒ धामा᳚नि स॒हस्र॑मु॒त वो॒ रुहः॑ । अधा᳚ शतक्रत्वो यू॒यमि॒मं मे᳚ अग॒दं कृ॑त ॥10.097.02, 8.5.8.2
ओष॑धीः॒ प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः । अश्वा᳚ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः॑ ॥10.097.03, 8.5.8.3
ओष॑धी॒रिति॑ मातर॒स्तद्वो᳚ देवी॒रुप॑ ब्रुवे । स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ॥10.097.04, 8.5.8.4
अ॒श्व॒त्थे वो᳚ नि॒षद॑नं प॒र्णे वो᳚ वस॒तिष्कृ॒ता । गो॒भाज॒ इत्किला᳚सथ॒ यत्स॒नव॑थ॒ पूरु॑षं ॥10.097.05, 8.5.8.5
यत्रौष॑धीः स॒मग्म॑त॒ राजा᳚नः॒ समि॑ताविव । विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी᳚व॒चात॑नः ॥10.097.06, 8.5.9.1
अ॒श्वा॒व॒तीं सो᳚माव॒तीमू॒र्जयं᳚ती॒मुदो᳚जसं । आवि॑त्सि॒ सर्वा॒, ओष॑धीर॒स्मा, अ॑रि॒ष्टता᳚तये ॥10.097.07, 8.5.9.2
उच्छुष्मा॒, ओष॑धीनां॒ गावो᳚ गो॒ष्ठादि॑वेरते । धनं᳚ सनि॒ष्यंती᳚नामा॒त्मानं॒ तव॑ पूरुष ॥10.097.08, 8.5.9.3
इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो᳚ यू॒यं स्थ॒ निष्कृ॑तीः । सी॒राः प॑त॒त्रिणीः᳚ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥10.097.09, 8.5.9.4
अति॒ विश्वाः᳚ परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒3॑(ओ॒) रपः॑ ॥10.097.10, 8.5.9.5
यदि॒मा वा॒जय᳚न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी᳚व॒गृभो᳚ यथा ॥10.097.11, 8.5.010.01
यस्यौ᳚षधीः प्र॒सर्प॒थांग॑मंगं॒ परु॑ष्परुः । ततो॒ यक्ष्मं॒ वि बा᳚धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ॥10.097.12, 8.5.010.02
सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे᳚ण किकिदी॒विना᳚ । सा॒कं वात॑स्य॒ ध्राज्या᳚ सा॒कं न॑श्य नि॒हाक॑या ॥10.097.13, 8.5.010.03
अ॒न्या वो᳚ अ॒न्याम॑वत्व॒न्यान्यस्या॒, उपा᳚वत । ताः सर्वाः᳚ संविदा॒ना, इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥10.097.14, 8.5.010.04
याः फ॒लिनी॒र्या, अ॑फ॒ला, अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः᳚ । बृह॒स्पति॑प्रसूता॒स्ता नो᳚ मुंचं॒त्वंह॑सः ॥10.097.15, 8.5.010.05
मुं॒चंतु॑ मा शप॒थ्या॒3॑(आ॒)दथो᳚ वरु॒ण्या᳚दु॒त । अथो᳚ य॒मस्य॒ पड्बी᳚शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ॥10.097.16, 8.5.011.01
अ॒व॒पतं᳚तीरवदंदि॒व ओष॑धय॒स्परि॑ । यं जी॒वम॒श्नवा᳚महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥10.097.17, 8.5.011.02
या, ओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः । तासां॒ त्वम॑स्युत्त॒मारं॒ कामा᳚य॒ शं हृ॒दे ॥10.097.18, 8.5.011.03
या, ओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ । बृह॒स्पति॑प्रसूता, अ॒स्यै सं द॑त्त वी॒र्यं᳚ ॥10.097.19, 8.5.011.04
मा वो᳚ रिषत्खनि॒ता यस्मै᳚ चा॒हं खना᳚मि वः । द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रं ॥10.097.20, 8.5.011.05
याश्चे॒दमु॑पशृ॒ण्वंति॒ याश्च॑ दू॒रं परा᳚गताः । सर्वाः᳚ सं॒गत्य॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्यं᳚ ॥10.097.21, 8.5.011.06
ओष॑धयः॒ सं व॑दंते॒ सोमे᳚न स॒ह राज्ञा᳚ । यस्मै᳚ कृ॒णोति॑ ब्राह्म॒णस्तं रा᳚जन् पारयामसि ॥10.097.22, 8.5.011.07
त्वमु॑त्त॒मास्यो᳚षधे॒ तव॑ वृ॒क्षा, उप॑स्तयः । उप॑स्तिरस्तु॒ सो॒3॑(ओ॒)ऽस्माकं॒ यो, अ॒स्माँ, अ॑भि॒दास॑ति ॥10.097.23, 8.5.011.08
17 । कुमार सूक्तं
अग्निहोतेति दशर्चस्य सूक्तस्य गौतमोवामदेवोग्निः सप्तम्यष्टम्योःसाहदेव्यःसोमकः अंत्ययोरश्विनौगायत्री ।
अ॒ग्निर्होता᳚ नो, अध्व॒रे वा॒जी सन् परि॑ णीयते । दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥4.015.01, 3.5.015.01
परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व । आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥4.015.02, 3.5.015.02
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् । दध॒द्रत्ना᳚नि दा॒शुषे᳚ ॥4.015.03, 3.5.015.03
अ॒यं यः सृंज॑ये पु॒रो दै᳚ववा॒ते स॑मि॒ध्यते᳚ । द्यु॒माँ, अ॑मित्र॒दंभ॑नः ॥4.015.04, 3.5.015.04
अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी᳚शीत॒ मर्त्यः॑ । ति॒ग्मजं᳚भस्य मी॒ळ्हुषः॑ ॥4.015.05, 3.5.015.05
तमर्वं᳚तं॒ न सा᳚न॒सिम॑रु॒षं न दि॒वः शिशुं᳚ । म॒र्मृ॒ज्यंते᳚ दि॒वेदि॑वे ॥4.015.06, 3.5.016.01
बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा᳚हदे॒व्यः । अच्छा॒ न हू॒त उद॑रं ॥4.015.07, 3.5.016.02
उ॒त त्या य॑ज॒ता हरी᳚ कुमा॒रात् सा᳚हदे॒व्यात् । प्रय॑ता स॒द्य आ द॑दे ॥4.015.08, 3.5.016.03
ए॒ष वां᳚ देवावश्विना कुमा॒रः सा᳚हदे॒व्यः । दी॒र्घायु॑रस्तु॒ सोम॑कः ॥4.015.09, 3.5.016.04
तं यु॒वं दे᳚वावश्विना कुमा॒रं सा᳚हदे॒व्यं । दी॒र्घायु॑षं कृणोतन ॥4.015.10, 3.5.016.05
कुमारमिति द्वादशर्चस्य सूक्तस्य आत्रेयःकुमारः कमेतंविज्योतिषेत्यनयोर्जानोवृशोग्निस्त्रिष्टुप् अंत्याशक्वरी ( पाक्षिकोजरोवृशः सर्वसूक्तेपि । अत्रसर्वानुक्रमभाष्येजननाम्नऋषेः पुत्रोजानैत्येवनिर्णीतं । जरनाग्नऋषेः पुत्रोजारोवृशैतितुसायनभाष्यं । )
कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा᳚ बिभर्ति॒ न द॑दाति पि॒त्रे । अनी᳚कमस्य॒ न मि॒नज्जना᳚सः पु॒रः प॑श्यंति॒ निहि॑तमर॒तौ ॥5.002.01, 3.8.014.01
कमे॒तं त्वं यु॑वते कुमा॒रं पेषी᳚ बिभर्षि॒ महि॑षी जजान । पू॒र्वीर्हि गर्भः॑ श॒रदो᳚ व॒वर्धाऽप॑श्यं जा॒तं यदसू᳚त मा॒ता ॥5.002.02, 3.8.014.02
हिर᳚ण्यदंतं॒ शुचि॑वर्णमा॒रात् क्षेत्रा᳚दपश्य॒मायु॑धा॒ मिमा᳚नं । द॒दा॒नो, अ॑स्मा, अ॒मृतं᳚ वि॒पृक्व॒त् किं माम॑निं॒द्राः कृ॑णवन्ननु॒क्थाः ॥5.002.03, 3.8.014.03
क्षेत्रा᳚दपश्यं सनु॒तश्चरं᳚तं सु॒मद् यू॒थं न पु॒रु शोभ॑मानं । न ता, अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद् यु॑व॒तयो᳚ भवंति ॥5.002.04, 3.8.014.04
के मे᳚ मर्य॒कं वि य॑वंत॒ गोभि॒र्न येषां᳚ गो॒पा, अर॑णश्चि॒दास॑ । य ईं᳚ जगृ॒भुरव॒ ते सृ॑जं॒त्वाजा᳚ति प॒श्व उप॑ नश्चिकि॒त्वान् ॥5.002.05, 3.8.014.05
व॒सां राजा᳚नं वस॒तिं जना᳚ना॒मरा᳚तयो॒ नि द॑धु॒र्मर्त्ये᳚षु । ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जंतु निंदि॒तारो॒ निंद्या᳚सो भवंतु ॥5.002.06, 3.8.014.06
शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द् यूपा᳚दमुंचो॒, अश॑मिष्ट॒ हि षः । ए॒वास्मद॑ग्ने॒ वि मु॑मुग्धि॒ पाशा॒न् होत॑श्चिकित्व इ॒ह तू नि॒षद्य॑ ॥5.002.07, 3.8.015.01
हृ॒णी॒यमा᳚नो॒, अप॒ हि मदैयेः॒ प्र मे᳚ दे॒वानां᳚ व्रत॒पा, उ॑वाच । इंद्रो᳚ वि॒द्वाँ, अनु॒ हि त्वा᳚ च॒चक्ष॒ तेना॒हम॑ग्ने॒, अनु॑शिष्ट॒ आगां᳚ ॥5.002.08, 3.8.015.02
वि ज्योति॑षा बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा᳚नि कृणुते महि॒त्वा । प्रादे᳚वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी᳚ते॒ शृंगे॒ रक्ष॑से वि॒निक्षे᳚ ॥5.002.09, 3.8.015.03
उ॒त स्वा॒नासो᳚ दि॒वि षं᳚त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हंत॒वा, उ॑ । मदे᳚ चिदस्य॒ प्र रु॑जंति॒ भामा॒ न व॑रंते परि॒बाधो॒, अदे᳚वीः ॥5.002.10, 3.8.015.04
ए॒तं ते॒ स्तोमं᳚ तुविजात॒ विप्रो॒ रथं॒ न धीरः॒ स्वपा᳚ अतक्षं । यदीद॑ग्ने॒ प्रति॒ त्वं दे᳚व॒ हर्याः॒ स्व᳚र्वतीर॒प ए᳚ना जयेम ॥5.002.11, 3.8.015.05
तु॒वि॒ग्रीवो᳚ वृष॒भो वा᳚वृधा॒नो᳚ऽश॒त्र्व१॑(अ॒)र्यः सम॑जाति॒ वेदः॑ । इती॒मम॒ग्निम॒मृता᳚ अवोचन् ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ध॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ॥5.002.12, 3.8.015.06
यं कुमार इति त्यर्चस्य यामायनः कुमारः यमोनुष्टुप् ॥
यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः । एके᳚षं वि॒श्वतः॒ प्रांच॒मप॑श्य॒न्नधि॑ तिष्ठसि ॥10.135.03, 8.7.023.03
यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे᳚भ्य॒स्परि॑ । तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तं ॥10.135.04, 8.7.023.04
कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् । कः स्वि॒त्तद॒द्य नो᳚ ब्रूयादनु॒देयी॒ यथाभ॑वत् ॥10.135.05, 8.7.023.05
येयज्ञेनेत्येकादशर्चस्य सूक्तस्य मानवोनाभानेदिष्ठो विश्वेदेवाः प्रनूनमित्यादिचतसृणां सावर्णिर्जगती पंचम्यष्टमीनवम्योनुष्टुभः षष्टी बृहती सप्तमीसतोबृहती दशमीगायत्री अंत्यात्रिष्टुप् (भेदपक्षे अंगिरसः 6 विश्वेदेवाः 1 सावर्णिः 4 एवं 11 । अंगिरसोनुक्रमण्यांपाकषिकाउक्ताः) । येयज्ञेनेतिचतसृणां त्रिष्टुप् छंदस्त्वं कश्चिद्भूतेतद्बहुविरुद्धं । विरोधास्तु षळंगिरसां स्तुतिर्वांत्यात्रिष्टुबित्यनुक्रमाच्छेष जगत्यैति परिभाषाव्याघात एकः । तासां त्रिष्टुप् छंदस्त्वेनादेशपरिभाषयातासामंत्यायाश्चत्रिष्टुब्वे सिद्धेत्यात्रिष्टुबिति सिद्धानुवादलक्षणदोषा विष्करणद्वितीयः । दशमीत्वस्य गायत्री जगत्यन्याविनोत्तमामिति शौनकवचनाज्ञानेनस्वेच्छयाव्याख्यानमिति तृतीयश्चेति) ।
ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒, इंद्र॑स्य स॒ख्यम॑मृत॒त्वमा᳚न॒श । तेभ्यो᳚ भ॒द्रमं᳚गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥10.062.01, 8.2.1.1
य उ॒दाज᳚न् पि॒तरो᳚ गो॒मयं॒ वस्वृ॒तेनाभिं᳚दन् परिवत्स॒रे व॒लं । दी॒र्घा॒यु॒त्वमं᳚गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥10.062.02, 8.2.1.2
य ऋ॒तेन॒ सूर्य॒मारो᳚हयंदि॒व्यप्र॑थयन् पृथि॒वीं मा॒तरं॒ वि । सु॒प्र॒जा॒स्त्वमं᳚गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥10.062.03, 8.2.1.3
अ॒यं नाभा᳚ वदति व॒ल्गु वो᳚ गृ॒हे देव॑पुत्रा ऋषय॒स्तच्छृ॑णोतन । सु॒ब्र॒ह्म॒ण्यमं᳚गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥10.062.04, 8.2.1.4
विरू᳚पास॒ इदृष॑य॒स्त इद्गं᳚भी॒रवे᳚पसः । ते, अंगि॑रसः सू॒नव॒स्ते, अ॒ग्नेः परि॑ जज्ञिरे ॥10.062.05, 8.2.1.5
ये, अ॒ग्नेः परि॑ जज्ञि॒रे विरू᳚पासो दि॒वस्परि॑ । नव॑ग्वो॒ नु दश॑ग्वो॒, अंगि॑रस्तमो॒ सचा᳚ दे॒वेषु॑ मंहते ॥10.062.06, 8.2.2.1
इंद्रे᳚ण यु॒जा निः सृ॑जंत वा॒घतो᳚ व्र॒जं गोमं᳚तम॒श्विनं᳚ । स॒हस्रं᳚ मे॒ दद॑तो, अष्टक॒र्ण्य१॑(अः॒) श्रवो᳚ दे॒वेष्व॑क्रत ॥10.062.07, 8.2.2.2
प्र नू॒नं जा᳚यताम॒यं मनु॒स्तोक्मे᳚व रोहतु । यः स॒हस्रं᳚ श॒ताश्वं᳚ स॒द्यो दा॒नाय॒ मंह॑ते ॥10.062.08, 8.2.2.3
न तम॑श्नोति॒ कश्च॒न दि॒व इ॑व॒ सान्वा॒रभं᳚ । सा॒व॒र्ण्यस्य॒ दक्षि॑णा॒ वि सिंधु॑रिव पप्रथे ॥10.062.09, 8.2.2.4
उ॒त दा॒सा प॑रि॒विषे॒ स्मद्दि॑ष्टी॒ गोप॑रीणसा । यदु॑स्तु॒र्वश्च॑ मामहे ॥10.062.10, 8.2.2.5
स॒ह॒स्र॒दा ग्रा᳚म॒णीर्मा रि॑ष॒न्मनुः॒ सूर्ये᳚णास्य॒ यत॑मानैतु॒ दक्षि॑णा । साव᳚र्णेर्दे॒वाः प्र ति॑रं॒त्वायु॒र्यस्मि॒न्नश्रां᳚ता॒, अस॑नाम॒ वाजं᳚ ॥10.062.11, 8.2.2.6
18 । प्रातः सूक्तं
प्रातरग्निमिति सप्तर्चस्य सूकस्य मैत्रावरुणिर्वसिष्ठोभगः आद्यायाअग्नींद्र मित्रावरुणाश्विभगपूषब्रह्मणस्पतिसोमरुद्रादेवताः अंत्यायाउषा आद्याजगती शेषास्त्रिष्टुभः ।
प्रा॒तर॒ग्निं प्रा॒तरिंद्रं᳚ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚ । प्रा॒तर्भगं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं᳚ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥7.041.01, 5.4.8.1
प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द् यं मन्य॑मानस्तु॒रश्चि॒द् राजा᳚ चि॒द् यं भगं᳚ भ॒क्षीत्याह॑ ॥7.041.02, 5.4.8.2
भग॒ प्रणे᳚त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद᳚न्नः । भग॒ प्र णो᳚ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि᳚र्नृ॒वंतः॑ स्याम ॥7.041.03, 5.4.8.3
उ॒तेदानीं॒ भग॑वंतः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒, अह्नां᳚ । उ॒तोदि॑ता मघव॒न् त्सूर्य॑स्य व॒यं दे॒वानां᳚ सुम॒तौ स्या᳚म ॥7.041.04, 5.4.8.4
भग॑ ए॒व भग॑वाँ, अस्तु देवा॒स्तेन॑ व॒यं भग॑वंतः स्याम । तं त्वा᳚ भग॒ सर्व॒ इज्जो᳚हवीति॒ स नो᳚ भग पुरए॒ता भ॑वे॒ह ॥7.041.05, 5.4.8.5
सम॑ध्व॒रायो॒षसो᳚ नमंत दधि॒क्रावे᳚व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं᳚ नो॒ रथ॑मि॒वाश्वा᳚ वा॒जिन॒ आ व॑हंतु ॥7.041.06, 5.4.8.6
अश्वा᳚वती॒र्गोम॑तीर्न उ॒षासो᳚ वी॒रव॑तीः॒ सद॑मुच्छंतु भ॒द्राः । घृ॒तं दुहा᳚ना वि॒श्वतः॒ प्रपी᳚ता यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥7.041.07, 5.4.8.7
19 । मन्यु सूक्तं
यस्तेमन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युस्त्रिष्टुबाद्याजगती ।
यस्ते᳚ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्यं॒ त्वया᳚ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥10.083.01, 8.3.018.01
म॒न्युरिंद्रो᳚ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे᳚दाः । म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो᳚ मन्यो॒ तप॑सा स॒जोषाः᳚ ॥10.083.02, 8.3.018.02
अ॒भी᳚हि मन्यो त॒वस॒स्तवी᳚या॒न् तप॑सा यु॒जा वि ज॑हि॒ शत्रू᳚न् । अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥10.083.03, 8.3.018.03
त्वं हि म᳚न्यो, अ॒भिभू᳚त्योजाः स्वयं॒भूर्भामो᳚ अभिमातिषा॒हः । वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सहा᳚वान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥10.083.04, 8.3.018.04
अ॒भा॒गः सन्नप॒ परे᳚तो, अस्मि॒ तव॒ क्रत्वा᳚ तवि॒षस्य॑ प्रचेतः । तं त्वा᳚ मन्यो, अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया᳚य॒ मेहि॑ ॥10.083.05, 8.3.018.05
अ॒यं ते᳚ अ॒स्म्युप॒ मेह्य॒र्वाङ् प्र॑तीची॒नः स॑हुरे विश्वधायः । मन्यो᳚ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना᳚व॒ दस्यूँ᳚रु॒त बो᳚ध्या॒पेः ॥10.083.06, 8.3.018.06
अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा᳚ वृ॒त्राणि॑ जंघनाव॒ भूरि॑ । जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒, अग्र॑मु॒भा, उ॑पां॒शु प्र॑थ॒मा पि॑बाव ॥10.083.07, 8.3.018.07
त्वयामन्यविति सप्तर्चस्य सूक्तस्य तापसो मन्युर्मन्युर्जगती आद्यास्तिस्रस्त्रिष्टुभः ।
त्वया᳚ मन्यो स॒रथ॑मारु॒जंतो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः । ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा᳚ना, अ॒भि प्र यं᳚तु॒ नरो᳚ अ॒ग्निरू᳚पाः ॥10.084.01, 8.3.019.01
अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए᳚धि । ह॒त्वाय॒ शत्रू॒न् वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा᳚नो॒ वि मृधो᳚ नुदस्व ॥10.084.02, 8.3.019.02
सह॑स्व मन्यो, अ॒भिमा᳚तिम॒स्मे रु॒जन् मृ॒णन् प्र॑मृ॒णन् प्रेहि॒ शत्रू᳚न् । उ॒ग्रं ते॒ पाजो᳚ न॒न्वा रु॑रुध्रे व॒शी वशं᳚ नयस एकज॒ त्वं ॥10.084.03, 8.3.019.03
एको᳚ बहू॒नाम॑सि मन्यवीळि॒तो विशं᳚विशं यु॒धये॒ सं शि॑शाधि । अकृ॑त्तरु॒क्त्वया᳚ यु॒जा व॒यं द्यु॒मंतं॒ घोषं᳚ विज॒याय॑ कृण्महे ॥10.084.04, 8.3.019.04
वि॒जे॒ष॒कृदिंद्र॑ इवानवब्र॒वो॒3॑(ओ॒)ऽस्माकं᳚ मन्यो, अधि॒पा भ॑वे॒ह । प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥10.084.05, 8.3.019.05
आभू᳚त्या सह॒जा व॑ज्र सायक॒ सहो᳚ बिभर्ष्यभिभूत॒ उत्त॑रं । क्रत्वा᳚ नो मन्यो स॒ह मे॒द्ये᳚धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥10.084.06, 8.3.019.06
संसृ॑ष्टं॒ धन॑मु॒भयं᳚ स॒माकृ॑तम॒स्मभ्यं᳚ दत्तां॒ वरु॑णश्च म॒न्युः । भियं॒ दधा᳚ना॒ हृद॑येषु॒ शत्र॑वः॒ परा᳚जितासो॒, अप॒ नि ल॑यंतां ॥10.084.07, 8.3.019.07
20 । रक्षोघ्नसूक्तं
कृणुष्वेति पंचदशर्चस्य सूक्तस्य गौतमोवामदेवोरक्षोहाग्निस्त्रिष्टुप् ।
कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒, इभे᳚न । तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता᳚सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥4.004.01, 3.4.023.01
तव॑ भ्र॒मास॑ आशु॒या प॑तं॒त्यनु॑ स्पृश धृष॒ता शोशु॑चानः । तपूं᳚ष्यग्ने जु॒ह्वा᳚ पतं॒गानसं᳚दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥4.004.02, 3.4.023.02
प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा᳚ पा॒युर्वि॒शो, अ॒स्या, अद॑ब्धः । यो नो᳚ दू॒रे, अ॒घशं᳚सो॒ यो, अंत्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ॥4.004.03, 3.4.023.03
उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य१॑(अ॒)मित्राँ᳚, ओषतात्तिग्महेते । यो नो॒, अरा᳚तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सन्न शुष्कं᳚ ॥4.004.04, 3.4.023.04
ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने । अव॑ स्थि॒रा त॑नुहि यातु॒जूनां᳚ जा॒मिमजा᳚मिं॒ प्र मृ॑णीहि॒ शत्रू᳚न् ॥4.004.05, 3.4.023.05
स ते᳚ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वा᳚न्यस्मै सु॒दिना᳚नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो᳚ अ॒भि द्यौ᳚त् ॥4.004.06, 3.4.024.01
सेद॑ग्ने, अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये᳚न ह॒विषा॒ य उ॒क्थैः । पिप्री᳚षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ॥4.004.07, 3.4.024.02
अर्चा᳚मि ते सुम॒तिं घोष्य॒र्वाक् सं ते᳚ वा॒वाता᳚ जरतामि॒यं गीः । स्वश्वा᳚स्त्वा सु॒रथा᳚ मर्जयेमा॒ऽस्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥4.004.08, 3.4.024.03
इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन् दोषा᳚वस्तर्दीदि॒वांस॒मनु॒ द्यून् । क्रीळं᳚तस्त्वा सु॒मन॑सः सपेमा॒ऽभि द्यु॒म्ना त॑स्थि॒वांसो॒ जना᳚नां ॥4.004.09, 3.4.024.04
यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो, अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे᳚न । तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा᳚नु॒षग् जुजो᳚षत् ॥4.004.10, 3.4.024.05
म॒हो रु॑जामि बं॒धुता॒ वचो᳚भि॒स्तन्मा᳚ पि॒तुर्गोत॑मा॒दन्वि॑याय । त्वं नो᳚ अ॒स्य वच॑सश्चिकिद्धि॒ होत᳚र्यविष्ठ सुक्रतो॒ दमू᳚नाः ॥4.004.11, 3.4.025.01
अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒, अतं᳚द्रासोऽवृ॒का, अश्र॑मिष्ठाः । ते पा॒यवः॑ स॒ध्र्यं᳚चो नि॒षद्याऽग्ने॒ तव॑ नः पांत्वमूर ॥4.004.12, 3.4.025.02
ये पा॒यवो᳚ मामते॒यं ते᳚ अग्ने॒ पश्यं᳚तो, अं॒धं दु॑रि॒तादर॑क्षन् । र॒रक्ष॒ तान् त्सु॒कृतो᳚ वि॒श्ववे᳚दा॒ दिप्सं᳚त॒ इद् रि॒पवो॒ नाह॑ देभुः ॥4.004.13, 3.4.025.03
त्वया᳚ व॒यं स॑ध॒न्य१॑(अ॒)स्त्वोता॒स्तव॒ प्रणी᳚त्यश्याम॒ वाजा᳚न् । उ॒भा शंसा᳚ सूदय सत्यताते ऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥4.004.14, 3.4.025.04
अ॒या ते᳚ अग्ने स॒मिधा᳚ विधेम॒ प्रति॒ स्तोमं᳚ श॒स्यमा᳚नं गृभाय । दहा॒शसो᳚ र॒क्षसः॑ पा॒ह्य१॑(अ॒)स्मान् द्रु॒हो नि॒दो मि॑त्रमहो, अव॒द्यात् ॥4.004.15, 3.4.025.05
इंद्रासोमेति पंचविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठैंद्रासोमौ अष्टमीषोडश्येकोनविंशी विंश्येकविंशी द्वाविंशी चतुर्विंशीनामिंद्रः नवमी द्वादशी त्रयोदशीनांसोमः दशमीचतुर्दश्योरग्निः एकादश्या विश्वेदेवाः सप्तदश्याग्रावाणः अष्टादश्यामरुतः त्रयोविंश्यावसिष्ठाशीः पृथिव्यंतरिक्षाणि आद्याः षडष्टादशी द्वाविंशी त्रयोविंश्योजगत्योंत्यानुष्टुप् शिष्टास्त्रिष्टुभः । (अस्मिन्सूक्ते रक्षोघ्नत्वंगुणः सर्वासांदेवतानांवक्तव्यः) ।
इंद्रा᳚सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृधः॑ । परा᳚ शृणीतम॒चितो॒ न्यो᳚षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्रिणः॑ ॥7.104.01, 5.7.5.1
इंद्रा᳚सोमा॒ सम॒घशं᳚सम॒भ्य१॑(अ॒)घं तपु᳚र्ययस्तु च॒रुर॑ग्नि॒वाँ, इ॑व । ब्र॒ह्म॒द्विषे᳚ क्र॒व्यादे᳚ घो॒रच॑क्षसे॒ द्वेषो᳚ धत्तमनवा॒यं कि॑मी॒दिने᳚ ॥7.104.02, 5.7.5.2
इंद्रा᳚सोमा दु॒ष्कृतो᳚ व॒व्रे, अं॒तर॑नारंभ॒णे तम॑सि॒ प्र वि॑ध्यतं । यथा॒ नातः॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा᳚मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥7.104.03, 5.7.5.3
इंद्रा᳚सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या, अ॒घशं᳚साय॒ तर्ह॑णं । उत्त॑क्षतं स्व॒र्य१॑(अं॒) पर्व॑तेभ्यो॒ येन॒ रक्षो᳚ वावृधा॒नं नि॒जूर्व॑थः ॥7.104.04, 5.7.5.4
इंद्रा᳚सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि᳚र्यु॒वमश्म॑हन्मभिः । तपु᳚र्वधेभिर॒जरे᳚भिर॒त्रिणो॒ नि पर्शा᳚ने विध्यतं॒ यंतु॑ निस्व॒रं ॥7.104.05, 5.7.5.5
इंद्रा᳚सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे᳚व वा॒जिना᳚ । यां वां॒ होत्रां᳚ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा᳚णि नृ॒पती᳚व जिन्वतं ॥7.104.06, 5.7.6.1
प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै᳚र्ह॒तं द्रु॒हो र॒क्षसो᳚ भंगु॒राव॑तः । इंद्रा᳚सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो नः॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हा ॥7.104.07, 5.7.6.2
यो मा॒ पाके᳚न॒ मन॑सा॒ चरं᳚तमभि॒चष्टे॒, अनृ॑तेभि॒र्वचो᳚भिः । आप॑ इव का॒शिना॒ संगृ॑भीता॒, अस᳚न्न॒स्त्वास॑त इंद्र व॒क्ता ॥7.104.08, 5.7.6.3
ये पा᳚कशं॒सं वि॒हरं᳚त॒ एवै॒र्ये वा᳚ भ॒द्रं दू॒षयं᳚ति स्व॒धाभिः॑ । अह॑ये वा॒ तान् प्र॒ददा᳚तु॒ सोम॒ आ वा᳚ दधातु॒ निरृ॑तेरु॒पस्थे᳚ ॥7.104.09, 5.7.6.4
यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो, अ॑ग्ने॒ यो, अश्वा᳚नां॒ यो गवां॒ यस्त॒नूनां᳚ । रि॒पुः स्ते॒नः स्ते᳚य॒कृद्द॒भ्रमे᳚तु॒ नि ष ही᳚यतां त॒न्वा॒3॑(आ॒) तना᳚ च ॥7.104.10, 5.7.6.5
प॒रः सो, अ॑स्तु त॒न्वा॒3॑(आ॒) तना᳚ च ति॒स्रः पृ॑थि॒वीर॒धो, अ॑स्तु॒ विश्वाः᳚ । प्रति॑ शुष्यतु॒ यशो᳚ अस्य देवा॒ यो नो॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्तं᳚ ॥7.104.11, 5.7.7.1
सु॒वि॒ज्ञा॒नं चि॑कि॒तुषे॒ जना᳚य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते । तयो॒र्यत्स॒त्यं य॑त॒रदृजी᳚य॒स्तदित्सोमो᳚ऽवति॒ हंत्यास॑त् ॥7.104.12, 5.7.7.2
न वा, उ॒ सोमो᳚ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं᳚ मिथु॒या धा॒रयं᳚तं । हंति॒ रक्षो॒ हंत्यास॒द्वदं᳚तमु॒भाविंद्र॑स्य॒ प्रसि॑तौ शयाते ॥7.104.13, 5.7.7.3
यदि॑ वा॒हमनृ॑तदेव॒ आस॒ मोघं᳚ वा दे॒वाँ, अ॑प्यू॒हे, अ॑ग्ने । किम॒स्मभ्यं᳚ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चंतां ॥7.104.14, 5.7.7.4
अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒, अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य । अधा॒ स वी॒रैर्द॒शभि॒र्वि यू᳚या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥7.104.15, 5.7.7.5
यो माया᳚तुं॒ यातु॑धा॒नेत्याह॒ यो वा᳚ र॒क्षाः शुचि॑र॒स्मीत्याह॑ । इंद्र॒स्तं हं᳚तु मह॒ता व॒धेन॒ विश्व॑स्य जं॒तोर॑ध॒मस्प॑दीष्ट ॥7.104.16, 5.7.8.1
प्र या जिगा᳚ति ख॒र्गले᳚व॒ नक्त॒मप॑ द्रु॒हा त॒न्व१॑(अं॒) गूह॑माना । व॒व्राँ, अ॑नं॒ताँ, अव॒ सा प॑दीष्ट॒ ग्रावा᳚णो घ्नंतु र॒क्षस॑ उप॒ब्दैः ॥7.104.17, 5.7.8.2
वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि1॑(इ॒)च्छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन । वयो॒ ये भू॒त्वी प॒तयं᳚ति न॒क्तभि॒र्ये वा॒ रिपो᳚ दधि॒रे दे॒वे, अ॑ध्व॒रे ॥7.104.18, 5.7.8.3
प्र व॑र्तय दि॒वो, अश्मा᳚नमिंद्र॒ सोम॑शितं मघव॒न् त्सं शि॑शाधि । प्राक्ता॒दपा᳚क्तादध॒रादुद॑क्ताद॒भि ज॑हि र॒क्षसः॒ पर्व॑तेन ॥7.104.19, 5.7.8.4
ए॒त उ॒ त्ये प॑तयंति॒ श्वया᳚तव॒ इंद्रं᳚ दिप्संति दि॒प्सवोऽदा᳚भ्यं । शिशी᳚ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं᳚ यातु॒मद्भ्यः॑ ॥7.104.20, 5.7.8.5
इंद्रो᳚ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी᳚नाम॒भ्या॒3॑(आ॒)विवा᳚सतां । अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे᳚व भिं॒दन् त्स॒त ए᳚ति र॒क्षसः॑ ॥7.104.21, 5.7.9.1
उलू᳚कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया᳚तुमु॒त कोक॑यातुं । सु॒प॒र्णया᳚तुमु॒त गृध्र॑यातुं दृ॒षदे᳚व॒ प्र मृ॑ण॒ रक्ष॑ इंद्र ॥7.104.22, 5.7.9.2
मा नो॒ रक्षो᳚ अ॒भि न॑ड्यातु॒माव॑ता॒मपो᳚च्छतु मिथु॒ना या कि॑मी॒दिना᳚ । पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा᳚त्व॒स्मान् ॥7.104.23, 5.7.9.3
इंद्र॑ ज॒हि पुमां᳚सं यातु॒धान॑मु॒त स्त्रियं᳚ मा॒यया॒ शाश॑दानां । विग्री᳚वासो॒ मूर॑देवा ऋदंतु॒ मा ते दृ॑श॒न् त्सूर्य॑मु॒च्चरं᳚तं ॥7.104.24, 5.7.9.4
प्रति॑ चक्ष्व॒ वि च॒क्ष्वेंद्र॑श्च सोम जागृतं । रक्षो᳚भ्यो व॒धम॑स्यतम॒शनिं᳚ यातु॒मद्भ्यः॑ ॥7.104.25, 5.7.9.5
रक्षोहणमिति पंचविंशत्यृचस्य सूक्तस्य भारद्वाजःपायूरक्षोहाग्निस्त्रिष्टुप् अंत्याश्चतस्रोनुष्टुभः ।
र॒क्षो॒हणं᳚ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा᳚नो, अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा᳚तु॒ नक्तं᳚ ॥10.087.01, 8.4.5.1
अयो᳚दंष्ट्रो, अ॒र्चिषा᳚ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः । आ जि॒ह्वया॒ मूर॑देवान् रभस्व क्र॒व्यादो᳚ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ॥10.087.02, 8.4.5.2
उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा᳚ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं᳚ च । उ॒तांतरि॑क्षे॒ परि॑ याहि राजं॒जंभैः॒ सं धे᳚ह्य॒भि या᳚तु॒धाना᳚न् ॥10.087.03, 8.4.5.3
य॒ज्ञैरिषूः᳚ सं॒नम॑मानो, अग्ने वा॒चा श॒ल्याँ, अ॒शनि॑भिर्दिहा॒नः । ताभि᳚र्विध्य॒ हृद॑ये यातु॒धाना᳚न् प्रती॒चो बा॒हून् प्रति॑ भङ्ध्येषां ॥10.087.04, 8.4.5.4
अग्ने॒ त्वचं᳚ यातु॒धान॑स्य भिंधि हिं॒स्राशनि॒र्हर॑सा हंत्वेनं । प्र पर्वा᳚णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णं ॥10.087.05, 8.4.5.5
यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठं᳚तमग्न उ॒त वा॒ चरं᳚तं । यद्वां॒तरि॑क्षे प॒थिभिः॒ पतं᳚तं॒ तमस्ता᳚ विध्य॒ शर्वा॒ शिशा᳚नः ॥10.087.06, 8.4.6.1
उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि᳚र्यातु॒धाना᳚त् । अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒, क्ष्विंका॒स्तम॑दं॒त्वेनीः᳚ ॥10.087.07, 8.4.6.2
इ॒ह प्र ब्रू᳚हि यत॒मः सो, अ॑ग्ने॒ यो या᳚तु॒धानो॒ य इ॒दं कृ॒णोति॑ । तमा र॑भस्व स॒मिधा᳚ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रंधयैनं ॥10.087.08, 8.4.6.3
ती॒क्ष्णेना᳚ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्रांचं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः । हिं॒स्रं रक्षां᳚स्य॒भि शोशु॑चानं॒ मा त्वा᳚ दभन्यातु॒धाना᳚ नृचक्षः ॥10.087.09, 8.4.6.4
नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा᳚ । तस्या᳚ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं᳚ यातु॒धान॑स्य वृश्च ॥10.087.10, 8.4.6.5
त्रिर्या᳚तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो, अ॑ग्ने॒, अनृ॑तेन॒ हंति॑ । तम॒र्चिषा᳚ स्फू॒र्जयं᳚जातवेदः सम॒क्षमे᳚नं गृण॒ते नि वृ᳚ङ्धि ॥10.087.11, 8.4.7.1
तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धानं᳚ । अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये᳚न स॒त्यं धूर्वं᳚तम॒चितं॒ न्यो᳚ष ॥10.087.12, 8.4.7.2
यद॑ग्ने, अ॒द्य मि॑थु॒ना शपा᳚तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नयं᳚त रे॒भाः । म॒न्योर्मन॑सः शर॒व्या॒3॑(आ॒) जाय॑ते॒ या तया᳚ विध्य॒ हृद॑ये यातु॒धाना᳚न् ॥10.087.13, 8.4.7.3
परा᳚ शृणीहि॒ तप॑सा यातु॒धाना॒न् परा᳚ग्ने॒ रक्षो॒ हर॑सा शृणीहि । परा॒र्चिषा॒ मूर॑देवांछृणीहि॒ परा᳚सु॒तृपो᳚ अ॒भि शोशु॑चानः ॥10.087.14, 8.4.7.4
परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णंतु प्र॒त्यगे᳚नं श॒पथा᳚ यंतु तृ॒ष्टाः । वा॒चास्ते᳚नं॒ शर॑व ऋच्छंतु॒ मर्म॒न् विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ॥10.087.15, 8.4.7.5
यः पौरु॑षेयेण क्र॒विषा᳚ समं॒क्ते यो, अश्व्ये᳚न प॒शुना᳚ यातु॒धानः॑ । यो, अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां᳚ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥10.087.16, 8.4.8.1
सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया᳚या॒स्तस्य॒ माशी᳚द्यातु॒धानो᳚ नृचक्षः । पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यंच॑म॒र्चिषा᳚ विध्य॒ मर्म᳚न् ॥10.087.17, 8.4.8.2
वि॒षं गवां᳚ यातु॒धानाः᳚ पिबं॒त्वा वृ॑श्च्यंता॒मदि॑तये दु॒रेवाः᳚ । परै᳚नांदे॒वः स॑वि॒ता द॑दातु॒ परा᳚ भा॒गमोष॑धीनां जयंतां ॥10.087.18, 8.4.8.3
स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां᳚सि॒ पृत॑नासु जिग्युः । अनु॑ दह स॒हमू᳚रान् क्र॒व्यादो॒ मा ते᳚ हे॒त्या मु॑क्षत॒ दैव्या᳚याः ॥10.087.19, 8.4.8.4
त्वं नो᳚ अग्ने, अध॒रादुद॑क्ता॒त् त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता᳚त् । प्रति॒ ते ते᳚ अ॒जरा᳚स॒स्तपि॑ष्ठा, अ॒घशं᳚सं॒ शोशु॑चतो दहंतु ॥10.087.20, 8.4.8.5
प॒श्चात्पु॒रस्ता᳚दध॒रादुद॑क्तात्क॒विः काव्ये᳚न॒ परि॑ पाहि राजन् । सखे॒ सखा᳚यम॒जरो᳚ जरि॒म्णेऽग्ने॒ मर्ताँ॒, अम॑र्त्य॒स्त्वं नः॑ ॥10.087.21, 8.4.9.1
परि॑ त्वाग्ने॒ पुरं᳚ व॒यं विप्रं᳚ सहस्य धीमहि । धृ॒षद्व᳚र्णं दि॒वेदि॑वे हं॒तारं᳚ भंगु॒राव॑तां ॥10.087.22, 8.4.9.2
वि॒षेण॑ भंगु॒राव॑तः॒ प्रति॑ ष्म र॒क्षसो᳚ दह । अग्ने᳚ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिरृ॒ष्टिभिः॑ ॥10.087.23, 8.4.9.3
प्रत्य॑ग्ने मिथु॒ना द॑ह यातु॒धाना᳚ किमी॒दिना᳚ । सं त्वा᳚ शिशामि जागृ॒ह्यद॑ब्धं विप्र॒ मन्म॑भिः ॥10.087.24, 8.4.9.4
प्रत्य॑ग्ने॒ हर॑सा॒ हरः॑ शृणी॒हि वि॒श्वतः॒ प्रति॑ । या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्यं᳚ ॥10.087.25, 8.4.9.5
अग्नेहंसीति नवर्चस्य सूक्तस्यामहीयव उरुक्षयोरक्षोहाग्निर्गायत्री ।
अग्ने॒ हंसि॒ न्य१॑(अ॒)त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा । स्वे क्षये᳚ शुचिव्रत ॥10.118.01, 8.6.024.01
उत्ति॑ष्ठसि॒ स्वा᳚हुतो घृ॒तानि॒ प्रति॑ मोदसे । यत् त्वा॒ स्रुचः॑ स॒मस्थि॑रन् ॥10.118.02, 8.6.024.02
स आहु॑तो॒ वि रो᳚चते॒ऽग्निरी॒ळेन्यो᳚ गि॒रा । स्रु॒चा प्रती᳚कमज्यते ॥10.118.03, 8.6.024.03
घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः । रोच॑मानो वि॒भाव॑सुः ॥10.118.04, 8.6.024.04
जर॑माणः॒ समि॑ध्यसे दे॒वेभ्यो᳚ हव्यवाहन । तं त्वा᳚ हवंत॒ मर्त्याः᳚ ॥10.118.05, 8.6.024.05
तं म॑र्ता॒, अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत । अदा᳚भ्यं गृ॒हप॑तिं ॥10.118.06, 8.6.025.01
अदा᳚भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह । गो॒पा ऋ॒तस्य॑ दीदिहि ॥10.118.07, 8.6.025.02
स त्वम॑ग्ने॒ प्रती᳚केन॒ प्रत्यो᳚ष यातुधा॒न्यः॑ । उ॒रु॒क्षये᳚षु॒ दीद्य॑त् ॥10.118.08, 8.6.025.03
तं त्वा᳚ गी॒र्भिरु॑रु॒क्षया᳚ हव्य॒वाहं॒ समी᳚धिरे । यजि॑ष्ठं॒ मानु॑षे॒ जने᳚ ॥10.118.09, 8.6.025.04
ब्रह्मणाग्रिरिति षडृचस्य सूक्तस्य ब्राह्मोरक्षोहा प्रजापतिरनुष्टुप् । (अत्रसूक्तेऽनुक्रमण्यवष्टंभेनदेवतानिर्णयोनभवति । यतस्तत्र गर्भस्रावे प्रायश्चित्तिरित्युक्तं तेनसूक्तस्य प्रभावमात्रंद्योत्यतेनतुदेवता । अतोत्रप्रजापतिर्देवताग्राह्या । तथाच शौनकः ऽमंत्रएषुह्यनिरुक्तेषु देवतांकर्मतोवदेत् । मंत्रतः कर्मणाचैव प्रजापतिरसंभवेऽ इति । भाष्यकारैरपिप्रजापतिरेवोक्तः । बृहद्देवतायांतु राक्षोघ्नाग्नेयमित्युक्तं तत्रयुक्तायुक्तंसद्भिर्विचारणीयं ) ।
ब्रह्म॑णा॒ग्निः सं᳚विदा॒नो र॑क्षो॒हा बा᳚धतामि॒तः । अमी᳚वा॒ यस्ते॒ गर्भं᳚ दु॒र्णामा॒ योनि॑मा॒शये᳚ ॥10.162.01, 8.8.020.01
यस्ते॒ गर्भ॒ममी᳚वा दु॒र्णामा॒ योनि॑मा॒शये᳚ । अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ॥10.162.02, 8.8.020.02
यस्ते॒ हंति॑ प॒तयं᳚तं निष॒त्स्नुं यः स॑रीसृ॒पं । जा॒तं यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ॥10.162.03, 8.8.020.03
यस्त॑ ऊ॒रू वि॒हर॑त्यंत॒रा दंप॑ती॒ शये᳚ । योनिं॒ यो, अं॒तरा॒रेळ्हि॒ तमि॒तो ना᳚शयामसि ॥10.162.04, 8.8.020.04
यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते । प्र॒जां यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ॥10.162.05, 8.8.020.05
यस्त्वा॒ स्वप्ने᳚न॒ तम॑सा मोहयि॒त्वा नि॒पद्य॑ते । प्र॒जां यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ॥10.162.06, 8.8.020.06
21 । रात्रि सूक्तं
रात्रीत्यष्टर्चस्य सूक्तस्य सौभरः कुशिकोरात्रिर्गायत्री (अत्रभारद्वाजीरात्रिऋषिकापाक्षिकी) ।
रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॑(अ॒)क्षभिः॑ । विश्वा॒, अधि॒ श्रियो᳚ऽधित ॥10.127.01, 8.7.014.01
ओर्व॑प्रा॒, अम॑र्त्या नि॒वतो᳚ दे॒व्यु1॑(उ॒)द्वतः॑ । ज्योति॑षा बाधते॒ तमः॑ ॥10.127.02, 8.7.014.02
निरु॒ स्वसा᳚रमस्कृतो॒षसं᳚ दे॒व्या᳚य॒ती । अपेदु॑ हासते॒ तमः॑ ॥10.127.03, 8.7.014.03
सा नो᳚ अ॒द्य यस्या᳚ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि । वृ॒क्षे न व॑स॒तिं वयः॑ ॥10.127.04, 8.7.014.04
नि ग्रामा᳚सो, अविक्षत॒ नि प॒द्वंतो॒ नि प॒क्षिणः॑ । नि श्ये॒नास॑श्चिद॒र्थिनः॑ ॥10.127.05, 8.7.014.05
या॒वया᳚ वृ॒क्य१॑(अं॒) वृकं᳚ य॒वय॑ स्ते॒नमू᳚र्म्ये । अथा᳚ नः सु॒तरा᳚ भव ॥10.127.06, 8.7.014.06
उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित । उष॑ ऋ॒णेव॑ यातय ॥10.127.07, 8.7.014.07
उप॑ ते॒ गा, इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः । रात्रि॒ स्तोमं॒ न जि॒ग्युषे᳚ ॥10.127.08, 8.7.014.08
परिशिष्टम् [ऋग्वेद मंडल 10.127 सूक्तस्यानंतरं][ऋग्वेद अष्टक 8, अध्याय 7, 14 वर्गानंतरं]
आ रात्रीत्यस्य चतुर्विंशत्यर्चस्य रात्रिसूक्तस्य कुशिकः सौभरो रात्रिर्वा भारद्वाजी ऋषिः रात्रिर्दुर्गा वा देवता गायत्रंचंदः, आद्याः पञ्चदश अनुष्टुभः, सोडशी त्रिष्टुप्, ततोष्टौ अनुष्टुभः, अंत्यौ द्वौ मंत्रौ रक्षोघ्नावनुष्टुभौ ॥
आ रा᳚त्रि॒ पार्थि॑वं॒ रज॑: पि॒तर॑: प्रायु॒ धाम॑भिः। दि॒व स्सदां᳚सि बृह॒ती वि ति॑ष्ठस॒ आ त्वे॒षं व॑र्तते॒ तमः॑॥
ये ते᳚ रात्रि नृ॒चक्ष॑सो यु॒क्तासो᳚ नव॒ति र्नव॑। अ॒शीति॑ स्सन्व॒ष्टा उ॒तो ते᳚ स॒प्त स॑प्त॒तीः॥
रात्रीं॒ प्रप॑द्ये ज॒न॒नीं॒ स॒र्वभू᳚तनि॒वेश॑नीं। भ॒द्रां भ॒गव॑तींकृ॒ष्णां॒॒ वि॒श्वस्य॑ जग॒तो नि॑शां॥
स॒म्वे॒शि॒नीं᳚ सं॒यमि॒नीं॒ग्र॒हन॑क्षत्र॒मालि॑नीं। प्रप᳚न्नो॒ऽहं शि॑वां रा॒त्रीं॒ भ॒द्रे पा᳚र म॒शीम॑हि॥ [भ॒द्रे॒ पा॒र॒ म॒शी॒म॒ह्योन्नमः॑]
स्तो॒ष्या॒मि॒ प्र॒य॒तो॒ देवीं᳚ श॒रण्यां᳚ बह्वृ॒चप्रि॑यां। स॒ह॒स्र॒संमि॑ता न्दु॒र्गां॒जा॒तवे᳚दसे सुनवाम॒ सोमं᳚॥
शां॒त्य॒र्थ॒ न्त॒द्द्वि॒जा॒तीना᳚मृ॒षिभि॑ स्सोम॒पाश्रि॑तां। ऋग्वे᳚दे॒ त्वं स॑मुत्प॒न्ना॒ऽरा॒ती॒य॒तो नि द॑हाति॒ वेदः॑॥
ये त्वां᳚देवि प्र॒पद्यं᳚ति ब्राह्म॒णा ह᳚व्य॒वाह॑नीं। अ॒वि॒द्या॒ बहु॑विद्या॒ वा॒ स न॑: पर्ष॒ दति॑ दु॒र्गाणि॒ विश्वा᳚॥
ये अ॑ग्निव॒र्णां शु॑भां सौ॒म्यां॒की॒र्तयि॑ष्यंति॒ ये द्वि॑जाः। तां॒स्ता॒र॒य॒ति॒ दुर्गा᳚णि ना॒वेव॒ सिंधु᳚ न्दुरि॒ताऽत्य॒ग्निः॥
दु॒र्गे॒षु॒ वि॒ष॒मे॒ घोरे᳚ सं॒ग्रामे᳚ रिपु॒संक॑टे। अग्नि॑चो॒रनि॑पाते॒षु॒ दु॒ष्टग्र॑हनि॒वारि॑णि॥ (दु॒ष्ट॒ग्र॒ह॒नि॒वा॒रि॒ण्योन्नमः॑)।
दु॒र्गे॒षु॒ वि॒ष॒मे॒षु त्वं᳚ सं॒ग्रामे᳚षु व॒नेषु॑ च। मो॒ह॒यि॒त्वा प्र॑पद्यं॒ते॒ ते॒षां मे᳚ अभ॒यंकु॑रु॥ [ते॒षां॒ मे॒ अ॒भ॒यं॒कु॒र्वोन्नमः॑]॥
के॒शि॒नीं॒ सर्व॑भूता॒नां॒ पं॒चमी᳚ति च॒ नाम॑ च। सा॒ मां॒ स॒मा॒ नि॒शा॒ देवी᳚ स॒र्वत॑: परि॒ रक्ष॑तु॥ [स॒र्व॒त॒: प॒रि॒ र॒क्ष॒त्वोन्नमः॑]॥
ता म॒ग्निव᳚र्णा॒ न्तप॑सा ज्वलं॒तीं वै᳚रोच॒नींक᳚र्मफ॒लेषु॒ जुष्टां᳚। दु॒र्गा न्दे॒वीं शर॑ण म॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नम॑स्सु॒तर॑सि तरसे॒ नमः॑॥
दुर्गा᳚ दु॒र्गेषु॑ स्थाने॒षु॒ श॒न्नो दे᳚वी र॒भिष्ट॑ये। य इ॒म न्दु॒र्गास्त॑वं पु॒ण्यं॒रा॒त्रौरा᳚त्रौ स॒दा प॑ठेत्॥
रात्रि॒: कुशि॑क स्सौभ॒रो रात्रि॒र्वा भा᳚रद्वा॒जी रात्रि॒स्तवं᳚गाय॒त्रं॥ रात्री᳚सू॒क्तंज॑पे न्नि॒त्यं॒त॒त्काल॑ मुप॒पद्य॑ते। न योनिं॒ पुन॑ राया॒ति॒ स॒र्वपा᳚पैः प्र॒मुच्य॑ते॥
क्षी॒रेण॒ स्नापि॑ता दु॒र्गा चं॒दने᳚न वि॒लेपि॑ता। बिल्व॑प॒त्रकृ॑ताऽऽपी॒डा न॒मो दु॑र्गे न॒मो न॑मः॥
सर्व॑भू॒तपि॑शाचे॒भ्य॒स्स॒र्वस॑र्पस॒रीसृ॑पैः। दैवे᳚भ्यो॒ मानु॑षेभ्य॒श्च॒उ॒भये᳚भ्योऽभि॒रक्ष॑ मां॥
या ऋ॑ग्वे॒दे स्तु॑ता दे॒वी॒ का॒श्यपे᳚न उ॒दाहृ॑ता। जा॒तवे᳚दप्र॑भा गौ॒री॒ जा॒तवे᳚दसे सुनवाम॒ सोमं᳚॥
सुरा᳚सु॒रै र्द्वि॑जव॒रै॒: पि॒शाचो᳚रग॒राक्ष॑सैः। अरा᳚ति॒भय॑ उत्प॒न्ने॒ अ॒रा॒ती॒य॒तो नि द॑हाति॒ वेदः॑॥
गज॑द्वा॒रेऽप॑थे घो॒रे॒ सं॒ग्रामे᳚षु च॒ गौत॑मी। सर्वं᳚ रक्षतु दुरि॒तं स न॑:पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा᳚॥
महा᳚भ॒ये स॑मुत्प॒न्ने स्मरं᳚ति च ज॒पंति॑ च। सर्वं᳚ता॒रय॑ते दु॒र्गा॒ ना॒वेव॒ सिंधुं᳚दुरि॒ताऽत्य॒ग्निः॥
य इ॒म न्दु॒र्गास्त॑वं पु॒ण्यं॒ शृ॒ण्वंति॑ च ज॒पंति॑ च। त्रिषु॑ लो॒केषु॑ विख्या॒तं॒त्रि॒षु लो᳚केषु॒ पूजि॑तं॥
अपु॑त्रो॒ लभ॑ते पु॒त्रां॒ध॒नही᳚नो ध॒नं ल॑भेत्। अच॑क्षु॒ र्लभ॑ते च॒क्षु॒ र्ब॒द्धोमु॑च्येत॒ बंध॑नात्॥
व्याधि॑तो॒ मुच्य॑ते रो॒गा॒द॒रोगी᳚ श्रिय॒ माप्नु॑यात्। ददा᳚ति॒ कामि॑तं स॒र्वं॒कात्या᳚यनि न॒मोऽस्तु॑ ते॥
उलू᳚कयातुं शुशु॒लूक॑यातुंज॒हि श्वया᳚तु मु॒त कोक॑यातुं। सु॒प॒र्णया᳚तु मु॒त गृध्र॑यातुंदृ॒षदे᳚व॒ प्रमृ॑ण॒ रक्ष॑ इंद्र॥
पि॒शंग॑भृष्टि मंभृ॒णं पि॒शाचि॑ मिंद्र॒ सं मृ॑ण। सर्वं॒ रक्षो॒ नि ब॑र्हय॥
परिशिष्टम् [ऋग्वेद मंडल 10 । 142 सूक्तस्यानंतरं][ऋग्वेद अष्टक 8, अध्याय 7, 30 वर्गानंतरं]
हिमस्य त्वेत्यस्य एकादशर्चस्य शालाग्निसूक्तस्य विश्वामित्रो भृगुर्वा ऋषिः अग्निर्वैश्वानरो वास्तुदेवता च देवता अनुष्टुभश्छंदांसि ॥
हि॒मस्य॑ त्वा ज॒रायु॑णा॒ शाले॒ परि᳚ व्ययामसि। उ॒त ह्र॒दो हि नो॒ धियो॒ऽग्नि र्द॑दातु भेष॒जं॥
शी॒त॒ह्र॒दो हि नो॒ धियो॒ऽग्नि र्द॑दातु भेष॒जं। अंति॒का म॒ग्नि म॒जन॑य॒दूर्वा᳚द॒ श्शश॒हाऽग॑मत्॥
अ॒जा॒त॒पु॒त्र॒प॒क्षाया᳚ हृ॒दयं॒ मम॑ दूयते। विपु॑लं॒ वनं᳚ ब॒ह्वाका᳚शं॒चर॑ जातवेद॒: कामा᳚य॥
मां॒च॒ र॒क्ष॒ पुत्रां᳚श्च॒ शर॑ण मभू॒ त्तव॑। पिं॒गा॒क्ष॒ लो॒हि॒तग्री᳚व कृ॒ष्णव᳚र्ण न॒मोऽस्तु॑ते॥
अ॒स्मान्नि॒ बर्ह॑स्येनां सा॒गर॑स्योर्म॒यो य॑था। इंद्रः॑ क्ष॒त्रंद॑दातु॒ वरु॑ण म॒भि षिं᳚चतु॥
श॒त्र॒वो॒ निध॑नं यां॒तु॒ ज॒य त्वं᳚ ब्रह्म॒तेज॑सा। क॒पि॒ल॒ज॒टीं स॒र्वभ॑क्षंचा॒ऽग्निं प्र॑त्यक्ष॒दैव॑तं। व॒रु॒णं॒च॒ व॒शा॒म्यग्रे᳚ म॒म पु॑त्रांश्च॒ रक्ष॑तु॥ (म॒म॒ पु॒त्रां॒श्च॒ र॒क्ष॒ त्वोन्नमः॑)।
साऽग्रं᳚ व॒र्षश॒तंजी᳚व पि॒ब खा᳚द च॒ मोद॑ च। दु॒:खि॒तां॒श्च द्वि॑जांश्चै॒व॒ प्र॒जांच॑ पशु॒ पाल॑य॥
याव॑दादि॒त्य स्त॑पति॒ याव॑द्भ्राजति॒ चं॒द्रमाः᳚। या॒व॒द्वा॒युः प्लवा᳚यति॒ताव॑ज्जीव॒ जया᳚ जय॥
येन॑ के॒न प्र॑कारे॒ण॒ को॒ हि ना᳚म नु॒ जीव॑ति। परे᳚षा॒ मुप॑कारा॒र्थं॒ य॒ज्जीव॑ति स॒ जीव॑ति॥
ए॒तां॒ वै॒श्वा॒नरीं᳚ स॒र्वदे᳚वान्न॒मोऽस्तु॑ ते॥
न चो᳚र॒भय॒न्न च॑ सर्प॒भय॒न्न च᳚ व्याघ्र॒भय॒न्न च॑ मृत्यु॒भयं᳚। य॒स्या॒ऽप॒मृ॒त्युर्न॑ च मृ॒त्यु॒स्सर्वं᳚ लभते॒ सर्वं᳚जयते॥
22 । स्वस्ति सूक्तं
स्वस्ति नो मिमीतामिति पंचर्चस्य स्वस्त्यात्रेयः विश्वेदेवाः प्रथमानां तिसृणां जगती त्रिष्टुप् वा अंत्ययोर्द्वयोरनुष्टुप् ॥
स्व॒स्ति नो᳚ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑ । स्व॒स्ति पू॒षा, असु॑रो दधातु नः स्व॒स्ति द्यावा᳚पृथि॒वी सु॑चे॒तुना᳚ ॥5.051.11, 4.3.7.1
स्व॒स्तये᳚ वा॒युमुप॑ ब्रवामहै॒ सोमं᳚ स्व॒स्ति भुव॑नस्य॒ यस्पतिः॑ । बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये᳚ स्व॒स्तय॑ आदि॒त्यासो᳚ भवंतु नः ॥5.051.12, 4.3.7.2
विश्वे᳚ दे॒वा नो᳚ अ॒द्या स्व॒स्तये᳚ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये᳚ । दे॒वा, अ॑वंत्वृ॒भवः॑ स्व॒स्तये᳚ स्व॒स्ति नो᳚ रु॒द्रः पा॒त्वंह॑सः ॥5.051.13, 4.3.7.3
स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति । स्व॒स्ति न॒ इंद्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो᳚ अदिते कृधि ॥5.051.14, 4.3.7.4
स्व॒स्ति पंथा॒मनु॑ चरेम सूर्याचंद्र॒मसा᳚विव । पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि ॥5.051.15, 4.3.7.5
परिशिष्टम् [ऋग्वेद मंडल 5, 51 सूक्तस्यानंतरं][ऋग्वेद अष्टक 4, अध्याय 3, 7 वर्गानंतरं]
स्वस्त्ययनमिति द्व्यर्चस्य तार्क्ष्यस्य अरिष्टनेमिः तार्क्ष्यो वा ऋषिः तार्क्ष्यो देवता त्रिष्टुप् छंदः ॥
स्व॒स्त्यय॑नं॒ तार्क्ष्य॒मरि॑ष्टनेमिं म॒हद्भू᳚तं वाय॒सं दे॒वता᳚नां। अ॒सु॒र॒घ्नमिंद्र॑सखं स॒मत्सु॑ बृ॒हद्यशो॒ नाव॑मि॒वा रु॑हेम॥
अं॒हो॒मुच॑मां॒गिर॑सं॒ गयं᳚ च स्व॒स्त्या᳚त्रे॒यं मन॑सा च॒ तार्क्ष्यं᳚। प्रय॑तपाणिः शर॒णं प्र प॑द्ये स्व॒स्ति सं᳚बा॒धेष्वभ॑यं नो, अस्तु ॥
23 । हिरण्यगर्भ सूक्तं
हिरण्यगर्भैति दशर्चस्य सूक्तस्य प्राजापत्योहिरण्यगर्भः प्रजापतिस्त्रिष्टुप् ।
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे᳚ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा᳚धार पृथि॒वीं द्यामु॒तेमां कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ॥10.121.01, 8.7.3.1
य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ॥10.121.02, 8.7.3.2
यः प्रा᳚ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे᳚ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ॥10.121.03, 8.7.3.3
यस्ये॒मे हि॒मवं᳚तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया᳚ स॒हाहुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ॥10.121.04, 8.7.3.4
येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्वः॑ स्तभि॒तं येन॒ नाकः॑ । यो, अं॒तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ॥10.121.05, 8.7.3.5
यं क्रंद॑सी॒, अव॑सा तस्तभा॒ने, अ॒भ्यैक्षे᳚तां॒ मन॑सा॒ रेज॑माने । यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ॥10.121.06, 8.7.4.1
आपो᳚ ह॒ यद् बृ॑ह॒तीर्विश्व॒माय॒न् गर्भं॒ दधा᳚ना ज॒नयं᳚तीर॒ग्निं । ततो᳚ दे॒वानां॒ सम॑वर्त॒तासु॒रेकः॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ॥10.121.07, 8.7.4.2
यश्चि॒दापो᳚ महि॒ना प॒र्यप॑श्य॒द् दक्षं॒ दधा᳚ना ज॒नयं᳚तीर्य॒ज्ञं । यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त् कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ॥10.121.08, 8.7.4.3
मा नो᳚ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं᳚ स॒त्यध᳚र्मा ज॒जान॑ । यश्चा॒पश्चं॒द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ॥10.121.09, 8.7.4.4
प्रजा᳚पते॒ न त्वदे॒तान्य॒न्यो विश्वा᳚ जा॒तानि॒ परि॒ ता ब॑भूव । यत् का᳚मास्ते जुहु॒मस्तन्नो᳚ अस्तु व॒यं स्या᳚म॒ पत॑यो रयी॒णां ॥10.121.10, 8.7.4.5
24 । सत्येनोत्तभिता सूक्तं
सत्येनेति सप्तचत्वारिंशदृचस्य सूक्तस्य सूर्यासावित्रीऋषिका पंचानांसोमोदेवता ततएकादशानां सूर्याविवाहः सप्तदश्यादेवाः अष्टादश्याः सोमार्कौ एकोनविंश्याश्चंद्रमाः ततोनवानांनृणां विवाह मंत्राआशीः प्रायाः ततोद्वयोर्वधूर्वासोदेवता एकत्रिंश्यायक्ष्महा शिष्टानामृचसऊर्यांसावित्री अनुष्टुप्चतुर्दशीएकोनविंश्यादि तिस्रस्रयोविंशी चतुर्विंशीषड्विंशी षट्त्रिंशी सप्तत्रिंशी चतुश्चत्वारिंश्यश्चत्रिष्टुभः अष्टादशी सप्तविंशीत्रिचत्वारिंश्यश्च जगत्यः चतुस्त्रिंश्युरोबृहती ।
स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः । ऋ॒तेना᳚दि॒त्यास्ति॑ष्ठंति दि॒वि सोमो॒, अधि॑ श्रि॒तः ॥10.085.01, 8.3.020.01
सोमे᳚नादि॒त्या ब॒लिनः॒ सोमे᳚न पृथि॒वी म॒ही । अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ॥10.085.02, 8.3.020.02
सोमं᳚ मन्यते पपि॒वान् यत् सं᳚पिं॒षंत्योष॑धिं । सोमं॒ यं ब्र॒ह्माणो᳚ वि॒दुर्न तस्या᳚श्नाति॒ कश्च॒न ॥10.085.03, 8.3.020.03
आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः । ग्राव्णा॒मिच्छृ॒ण्वंति॑ष्ठसि॒ न ते᳚ अश्नाति॒ पार्थि॑वः ॥10.085.04, 8.3.020.04
यत् त्वा᳚ देव प्र॒पिबं᳚ति॒ तत॒ आ प्या᳚यसे॒ पुनः॑ । वा॒युः सोम॑स्य रक्षि॒ता समा᳚नां॒ मास॒ आकृ॑तिः ॥10.085.05, 8.3.020.05
रैभ्या᳚सीदनु॒देयी᳚ नाराशं॒सी न्योच॑नी । सू॒र्याया᳚ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतं ॥10.085.06, 8.3.021.01
चित्ति॑रा, उप॒बर्ह॑णं॒ चक्षु॑रा, अ॒भ्यंज॑नं । द्यौर्भूमिः॒ कोश॑ आसी॒द् यदया᳚त् सू॒र्या पतिं᳚ ॥10.085.07, 8.3.021.02
स्तोमा᳚ आसन् प्रति॒धयः॑ कु॒रीरं॒ छंद॑ ओप॒शः । सू॒र्याया᳚ अ॒श्विना᳚ व॒राऽग्निरा᳚सीत् पुरोग॒वः ॥10.085.08, 8.3.021.03
सोमो᳚ वधू॒युर॑भवद॒श्विना᳚स्तामु॒भा व॒रा । सू॒र्यां यत् पत्ये॒ शंसं᳚तीं॒ मन॑सा सवि॒ताद॑दात् ॥10.085.09, 8.3.021.04
मनो᳚ अस्या॒, अन॑ आसी॒द् द्यौरा᳚सीदु॒त च्छ॒दिः । शु॒क्राव॑न॒ड्वाहा᳚वास्तां॒ यदया᳚त् सू॒र्या गृ॒हं ॥10.085.10, 8.3.021.05
ऋ॒क्सा॒माभ्या᳚म॒भिहि॑तौ॒ गावौ᳚ ते साम॒नावि॑तः । श्रोत्रं᳚ ते च॒क्रे, आ᳚स्तां दि॒वि पंथा᳚श्चराचा॒रः ॥10.085.11, 8.3.022.01
शुची᳚ ते च॒क्रे या॒त्या व्या॒नो, अक्ष॒ आह॑तः । अनो᳚ मन॒स्मयं᳚ सू॒र्याऽऽरो᳚हत् प्रय॒ती पतिं᳚ ॥10.085.12, 8.3.022.02
सू॒र्याया᳚ वह॒तुः प्रागा᳚त् सवि॒ता यम॒वासृ॑जत् । अ॒घासु॑ हन्यंते॒ गावोऽर्जु᳚न्योः॒ पर्यु॑ह्यते ॥10.085.13, 8.3.022.03
यद॑श्विना पृ॒च्छमा᳚ना॒वया᳚तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः᳚ । विश्वे᳚ दे॒वा, अनु॒ तद्वा᳚मजानन् पु॒त्रः पि॒तरा᳚ववृणीत पू॒षा ॥10.085.14, 8.3.022.04
यदया᳚तं शुभस्पती वरे॒यं सू॒र्यामुप॑ । क्वैकं᳚ च॒क्रं वा᳚मासी॒त् क्व॑ दे॒ष्ट्राय॑ तस्थथुः ॥10.085.15, 8.3.022.05
द्वे ते᳚ च॒क्रे सू᳚र्ये ब्र॒ह्माण॑ ऋतु॒था वि॑दुः । अथैकं᳚ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॑दुः ॥10.085.16, 8.3.023.01
सू॒र्यायै᳚ दे॒वेभ्यो᳚ मि॒त्राय॒ वरु॑णाय च । ये भू॒तस्य॒ प्रचे᳚तस इ॒दं तेभ्यो᳚ऽकरं॒ नमः॑ ॥10.085.17, 8.3.023.02
पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळं᳚तौ॒ परि॑ यातो, अध्व॒रं । विश्वा᳚न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ॥10.085.18, 8.3.023.03
नवो᳚नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तुरु॒षसा᳚मे॒त्यग्रं᳚ । भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन् प्र चं॒द्रमा᳚स्तिरते दी॒र्घमायुः॑ ॥10.085.19, 8.3.023.04
सु॒किं॒शु॒कं श᳚ल्म॒लिं वि॒श्वरू᳚पं॒ हिर᳚ण्यवर्णं सु॒वृतं᳚ सुच॒क्रं । आ रो᳚ह सूर्ये, अ॒मृत॑स्य लो॒कं स्यो॒नं पत्ये᳚ वह॒तुं कृ॑णुष्व ॥10.085.20, 8.3.023.05
उदी॒र्ष्वातः॒ पति॑वती॒ ह्ये॒3॑(ए॒)षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी᳚ळे । अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते᳚ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥10.085.21, 8.3.024.01
उदी॒र्ष्वातो᳚ विश्वावसो॒ नम॑सेळा महे त्वा । अ॒न्यामि॑च्छ प्रफ॒र्व्य१॑(अं॒) सं जा॒यां पत्या᳚ सृज ॥10.085.22, 8.3.024.02
अ॒नृ॒क्ष॒रा ऋ॒जवः॑ संतु॒ पंथा॒ येभिः॒ सखा᳚यो॒ यंति॑ नो वरे॒यं । सम᳚र्य॒मा सं भगो᳚ नो निनीया॒त् सं जा᳚स्प॒त्यं सु॒यम॑मस्तु देवाः ॥10.085.23, 8.3.024.03
प्र त्वा᳚ मुंचामि॒ वरु॑णस्य॒ पाशा॒द् येन॒ त्वाब॑ध्नात् सवि॒ता सु॒शेवः॑ । ऋ॒तस्य॒ योनौ᳚ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या᳚ दधामि ॥10.085.24, 8.3.024.04
प्रेतो मुं॒चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करं । यथे॒यमिं᳚द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ॥10.085.25, 8.3.024.05
पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना᳚ त्वा॒ प्र व॑हतां॒ रथे᳚न । गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒ यथासो᳚ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ॥10.085.26, 8.3.025.01
इ॒ह प्रि॒यं प्र॒जया᳚ ते॒ समृ॑ध्यताम॒स्मिन् गृ॒हे गार्ह॑पत्याय जागृहि । ए॒ना पत्या᳚ त॒न्व१॑(अं॒) सं सृ॑ज॒स्वाऽधा॒ जिव्री᳚ वि॒दथ॒मा व॑दाथः ॥10.085.27, 8.3.025.02
नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते । एधं᳚ते, अस्या ज्ञा॒तयः॒ पति॑र्बं॒धेषु॑ बध्यते ॥10.085.28, 8.3.025.03
परा᳚ देहि शामु॒ल्यं᳚ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ । कृ॒त्यैषा प॒द्वती᳚ भू॒त्व्या जा॒या वि॑शते॒ पतिं᳚ ॥10.085.29, 8.3.025.04
अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया᳚मु॒या । पति॒र्यद्व॒ध्वो॒3॑(ओ॒) वास॑सा॒ स्वमंग॑मभि॒धित्स॑ते ॥10.085.30, 8.3.025.05
ये व॒ध्व॑श्चं॒द्रं व॑ह॒तुं यक्ष्मा॒ यंति॒ जना॒दनु॑ । पुन॒स्तान् य॒ज्ञिया᳚ दे॒वा नयं᳚तु॒ यत॒ आग॑ताः ॥10.085.31, 8.3.026.01
मा वि॑दन् परिपं॒थिनो॒ य आ॒सीदं᳚ति॒ दंप॑ती । सु॒गेभि॑र्दु॒र्गमती᳚ता॒मप॑ द्रां॒त्वरा᳚तयः ॥10.085.32, 8.3.026.02
सु॒मं॒ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त । सौभा᳚ग्यमस्यै द॒त् त्वायाऽथास्तं॒ वि परे᳚तन ॥10.085.33, 8.3.026.03
तृ॒ष्टमे॒तत् कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे । सू॒र्यां यो ब्र॒ह्मा वि॒द्यात् स इद्वाधू᳚यमर्हति ॥10.085.34, 8.3.026.04
आ॒शस॑नं वि॒शस॑न॒मथो᳚ अधिवि॒कर्त॑नं । सू॒र्यायाः᳚ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शुं᳚धति ॥10.085.35, 8.3.026.05
गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या᳚ ज॒रद॑ष्टि॒र्यथासः॑ । भगो᳚ अर्य॒मा स॑वि॒ता पुरं᳚धि॒र्मह्यं᳚ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥10.085.36, 8.3.027.01
तां पू᳚षंछि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं᳚ मनु॒ष्या॒3॑(आ॒) वपं᳚ति । या न॑ ऊ॒रू, उ॑श॒ती वि॒श्रया᳚ते॒ यस्या᳚मु॒शंतः॑ प्र॒हरा᳚म॒ शेपं᳚ ॥10.085.37, 8.3.027.02
तुभ्य॒मग्रे॒ पर्य॑वहन् त्सू॒र्यां व॑ह॒तुना᳚ स॒ह । पुनः॒ पति॑भ्यो जा॒यां दा, अ॑ग्ने प्र॒जया᳚ स॒ह ॥10.085.38, 8.3.027.03
पुनः॒ पत्नी᳚म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा । दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा᳚ति श॒रदः॑ श॒तं ॥10.085.39, 8.3.027.04
सोमः॑ प्रथ॒मो वि॑विदे गंध॒र्वो वि॑विद॒ उत्त॑रः । तृ॒तीयो᳚ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ॥10.085.40, 8.3.027.05
सोमो᳚ ददद्गंध॒र्वाय॑ गंध॒र्वो द॑दद॒ग्नये᳚ । र॒यिं च॑ पु॒त्राँश्चा᳚दाद॒ग्निर्मह्य॒मथो᳚ इ॒मां ॥10.085.41, 8.3.028.01
इ॒हैव स्तं॒ मा वि यौ᳚ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतं । क्रीळं᳚तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ॥10.085.42, 8.3.028.02
आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा । अदु᳚र्मंगलीः पतिलो॒कमा वि॑श॒ शं नो᳚ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥10.085.43, 8.3.028.03
अघो᳚रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्यः॑ सु॒मनाः᳚ सु॒वर्चाः᳚ । वी॒र॒सूर्दे॒वका᳚मा स्यो॒ना शं नो᳚ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥10.085.44, 8.3.028.04
इ॒मां त्वमिं᳚द्र मीढ्वः सुपु॒त्रां सु॒भगां᳚ कृणु । दशा᳚स्यां पु॒त्राना धे᳚हि॒ पति॑मेकाद॒शं कृ॑धि ॥10.085.45, 8.3.028.05
स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी᳚ श्व॒श्र्वां भ॑व । ननां᳚दरि स॒म्राज्ञी᳚ भव स॒म्राज्ञी॒, अधि॑ दे॒वृषु॑ ॥10.085.46, 8.3.028.06
समं᳚जंतु॒ विश्वे᳚ दे॒वाः समापो॒ हृद॑यानि नौ । सं मा᳚त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री᳚ दधातु नौ ॥10.085.47, 8.3.028.07
परिशिष्टम् [ऋग्वेद मंडल 10.085 सूक्तस्यानंतरं][ऋग्वेद अष्टक 8, अध्याय 3, 28 वर्गानंतरं]
अविधवा भवेत्यस्य षडर्चस्य प्राजापत्यो ब्रह्मा प्रजापतिर्देवता त्रिष्टुप् छंदः ॥
अ॒वि॒ध॒वा भव॑ वर्षा॒णि॒ श॒तं सा᳚ग्रंतु॒ सव्र॑ता। ते॒ज॒स्वी॒ च य॑शस्वी॒ च॒ध॒र्मप॑त्नी प॒तिव्र॑ता॥
ज॒न॒य॒ द्बहु॑पुत्रा॒णि॒ मा॒ च दु॑:खं ल॒भे त्क्व॑चित्। भ॒र्ता ते॒ सोम॑पा नि॒त्यं॒भ॒वे द्ध᳚र्मप॒राय॑णः॥
अ॒ष्ट॒पु॒त्रा भ॑व त्वं॒च॒ सु॒भगा᳚ च प॒तिव्र॑ता। भर्तु॑श्चै॒व पि॑तु र्भ्रा॒तु॒र्हृ॒दया᳚ऽऽनंदि॒नी स॑दा॥
इं॒द्र॒स्य॒ तु॒ य॒थें॒द्राणी᳚ श्री॒धर॑स्य य॒था श्रि॑या। शं॒क॒र॒स्य॒ य॒था॒ गौरी᳚ त॒द्भर्तु॑ रपि॒ भर्त॑रि॥
अत्रे᳚ र्य॒थाऽनु॑सूया॒ स्या॒द्व॒सिष्ठ॑स्याऽप्य॒रुंध॑ती। कौ॒शि॒क॒स्य॒ य॒था॒ सती᳚ त॒था त्व॑मपि॒ भर्त॑रि॥
ध्रु॒वैधि॒ पो᳚ष्या॒ मयि॒ मह्य᳚ न्त्वाऽदा॒ द्बृह॒स्पतिः॑। मया॒ पत्या᳚ प्र॒जाव॑ती॒संजी᳚व श॒रद॑ श्श॒तं॥
25 । शकुंतक सूक्तं
कनिक्रददिति तृचस्य सूक्तस्य शौनकोगृत्समदःशकुंतस्त्रिष्टुप् ।
कनि॑क्रदज्ज॒नुषं᳚ प्रब्रुवा॒ण इय॑र्ति॒ वाच॑मरि॒तेव॒ नावं᳚ । सु॒मं॒गल॑श्च शकुने॒ भवा᳚सि॒ मा त्वा॒ का चि॑दभि॒भा विश्व्या᳚ विदत् ॥2.042.01, 2.8.011.01
मा त्वा᳚ श्ये॒न उद् व॑धी॒न्मा सु॑प॒र्णो मा त्वा᳚ विद॒दिषु॑मान् वी॒रो, अस्ता᳚ । पित्र्या॒मनु॑ प्र॒दिशं॒ कनि॑क्रदत् सुमं॒गलो᳚ भद्रवा॒दी व॑दे॒ह ॥2.042.02, 2.8.011.02
अव॑ क्रंद दक्षिण॒तो गृ॒हाणां᳚ सुमं॒गलो᳚ भद्रवा॒दी श॑कुंते । मा नः॑ स्ते॒न ई᳚शत॒ माघशं᳚सो बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ॥2.042.03, 2.8.011.03
प्रदक्षिणिदिति तृचस्य सूक्तस्य शौनकोगृत्समदः शकुंतोजगती द्वितीयातिशक्वरी अष्टिर्वा ।
प्र॒द॒क्षि॒णिद॒भि गृ॑णंति का॒रवो॒ वयो॒ वदं᳚त ऋतु॒था श॒कुंत॑यः । उ॒भे वाचौ᳚ वदति साम॒गा, इ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति ॥2.043.01, 2.8.012.01
उ॒द्गा॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शंससि । वृषे᳚व वा॒जी शिशु॑मतीर॒पीत्या᳚ स॒र्वतो᳚ नः शकुने भ॒द्रमा व॑द वि॒श्वतो᳚ नः शकुने॒ पुण्य॒मा व॑द ॥2.043.02, 2.8.012.02
आ॒वदँ॒स्त्वं श॑कुने भ॒द्रमा व॑द तू॒ष्णीमासी᳚नः सुम॒तिं चि॑किद्धि नः । यदु॒त्पत॒न् वद॑सि कर्क॒रिर्य॑था बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ॥2.043.03, 2.8.012.03
परिशिष्टम् [ऋग्वेद मंडल 2.043 सूक्तस्यानंतरं][ऋग्वेद अष्टक 2, अध्याय 8, 12 वर्गानंतरं]
भद्रं वदेति षडर्चस्य कपिंजलसूक्तस्य गृत्समदः इंद्रुतो वा ऋषिः कपिंजलरूपी इंद्रः कपिंजलो वा देवता अनुष्टुप् छंदः, अंत्या त्रिष्टुप् ॥
भ॒द्रं व॑द दक्षिण॒तो भ॒द्रमु॑त्तर॒तो व॑द। भ॒द्रं पु॒रस्ता᳚न्नो वद भ॒द्रं प॑श्चात्क॒पिंज॑ल॥
भ॒द्रं व॑द पु॒त्रैर्भ॒द्रं व॑द गृ॒हेषु॑ च। भ॒द्रम॒स्माक᳚ न्नो वद भ॒द्रन्नो॒ अभ॑यंकृधि॥
भ॒द्र म॒धस्ता᳚ न्नो वद भ॒द्रमु॒परि॑ष्टान्नो वद। भ॒द्रंभ॑द्रन्न॒ आ व॑द भ॒द्रन्न॑ स्सर्व॒तो व॑द॥
अ॒स॒प॒त्नः पु॒रस्ता᳚न्नश्शि॒वंद॑क्षिण॒तस्कृ॑धि। अभ॑यं॒ सत॑तं प॒श्चाद्भ॒द्रमु॑त्तर॒तो गृ॒हे॥
यौ॒वना᳚नि म॒हय॑सि जि॒ग्युषा᳚मिव॒ दुंदु॑भिः। शकुं᳚त॒क प्र॑दक्षि॒णंश॒तप॑त्रा॒ऽभि नो᳚ वद॥
आ॒वदं॒स्त्वं श॑कुने भ॒द्रमा व॑द तू॒ष्णीमासी᳚नस्सुम॒तिंचि॑किद्धि नः। यदु॒त्पत॒न्वद॑सि कर्क॒रि र्य॑थाबृ॒ह द्व॑देम वि॒दथे᳚ सु॒वीराः᳚॥
26 । अस्य वामीय सूक्तं
अस्यवामस्येति द्विपंचाशदृचस्य सूक्तस्य औचथ्योदीर्घतमा आद्यानामेकचत्वारिंशटृचां विश्वेदेवास्तस्याः समुद्राइत्यस्यावाक्समुद्राक्षरापः शकमयमित्यस्याःशकधूमसोमौत्रयः केशिनैत्यस्याअग्निसूर्यवायवो (केशिनैतिगुणः) चत्वारिवागित्यस्यावाक्इंद्रंमित्रमितिद्वयोः सूर्योद्वादशप्रधयैत्यस्याः कालचक्रं (अत्रसंवत्सरसंस्थंकालचक्रवर्णनं) यस्तैत्यस्याः सरस्वतीयज्ञेनेत्यस्याः साध्याःसमानमित्यस्याः सूर्यः (पर्जन्याग्नीवा) दिव्यंसुपर्णमित्यस्याः सरस्वान् (सूर्योवा) त्रिष्टुप् द्वादशी पंचदशी त्रयोविंशी एकोनत्रिंशी षट्त्रिंश्येकचत्वआरिं शीचजगत्यः द्विचत्वारिंशी प्रस्तारपंक्तिः एकपंचाश्यनुष्टुप् ।
अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता᳚ मध्य॒मो, अ॒स्त्यश्नः॑ । तृ॒तीयो॒ भ्राता᳚ घृ॒तपृ॑ष्ठो, अ॒स्यात्रा᳚पश्यं वि॒श्पतिं᳚ स॒प्तपु॑त्रं ॥1.164.01, 2.3.014.01
स॒प्त युं᳚जंति॒ रथ॒मेक॑चक्र॒मेको॒, अश्वो᳚ वहति स॒प्तना᳚मा । त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ॥1.164.02, 2.3.014.02
इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑हं॒त्यश्वाः᳚ । स॒प्त स्वसा᳚रो, अ॒भि सं न॑वंते॒ यत्र॒ गवां॒ निहि॑ता स॒प्त नाम॑ ॥1.164.03, 2.3.014.03
को द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वंतं॒ यद॑न॒स्था बिभ॑र्ति । भूम्या॒, असु॒रसृ॑गा॒त्मा क्व॑ स्वि॒त् को वि॒द्वांस॒मुप॑ गा॒त् प्रष्टु॑मे॒तत् ॥1.164.04, 2.3.014.04
पाकः॑ पृच्छामि॒ मन॒सावि॑जानन् दे॒वाना᳚मे॒ना निहि॑ता प॒दानि॑ । व॒त्से ब॒ष्कयेऽधि॑ स॒प्त तंतू॒न् वि त॑त्निरे क॒वय॒ ओत॒वा, उ॑ ॥1.164.05, 2.3.014.05
अचि॑कित्वांचिकि॒तुष॑श्चि॒दत्र॑ क॒वीन् पृ॑च्छामि वि॒द्मने॒ न वि॒द्वान् । वि यस्त॒स्तंभ॒ षळि॒मा रजां᳚स्य॒जस्य॑ रू॒पे किमपि॑ स्वि॒देकं᳚ ॥1.164.06, 2.3.015.01
इ॒ह ब्र॑वीतु॒ य ई᳚मं॒ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः । शी॒र्ष्णः, क्षी॒रं दु॑ह्रते॒ गावो᳚ अस्य व॒व्रिं वसा᳚ना, उद॒कं प॒दापुः॑ ॥1.164.07, 2.3.015.02
मा॒ता पि॒तर॑मृ॒त आ ब॑भाज धी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे । सा बी᳚भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वंत॒ इदु॑पवा॒कमी᳚युः ॥1.164.08, 2.3.015.03
यु॒क्ता मा॒तासी᳚द् धु॒रि दक्षि॑णाया॒, अति॑ष्ठ॒द् गर्भो᳚ वृज॒नीष्वं॒तः । अमी᳚मेद् व॒त्सो, अनु॒ गाम॑पश्यद् विश्वरू॒प्यं᳚ त्रि॒षु योज॑नेषु ॥1.164.09, 2.3.015.04
ति॒स्रो मा॒तॄस्त्रीन् पि॒तॄन् बिभ्र॒देक॑ ऊ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयंति । मं॒त्रयं᳚ते दि॒वो, अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदं॒ वाच॒मवि॑श्वमिन्वां ॥1.164.10, 2.3.015.05
द्वाद॑शारं न॒हि तज्जरा᳚य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ । आ पु॒त्रा, अ॑ग्ने मिथु॒नासो॒, अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ॥1.164.11, 2.3.016.01
पंच॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ᳚हुः॒ परे॒, अर्धे᳚ पुरी॒षिणं᳚ । अथे॒मे, अ॒न्य उप॑रे विचक्ष॒णं स॒प्तच॑क्रे॒ षळ॑र आहु॒रर्पि॑तं ॥1.164.12, 2.3.016.02
पंचा᳚रे च॒क्रे प॑रि॒वर्त॑माने॒ तस्मि॒न्ना त॑स्थु॒र्भुव॑नानि॒ विश्वा᳚ । तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न शी᳚र्यते॒ सना᳚भिः ॥1.164.13, 2.3.016.03
सने᳚मि च॒क्रम॒जरं॒ वि वा᳚वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हंति । सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ तस्मि॒न्नार्पि॑ता॒ भुव॑नानि॒ विश्वा᳚ ॥1.164.14, 2.3.016.04
सा॒कं॒जानां᳚ स॒प्तथ॑माहुरेक॒जं षळिद् य॒मा ऋष॑यो देव॒जा, इति॑ । तेषा᳚मि॒ष्टानि॒ विहि॑तानि धाम॒शः स्था॒त्रे रे᳚जंते॒ विकृ॑तानि रूप॒शः ॥1.164.15, 2.3.016.05
स्त्रियः॑ स॒तीस्ताँ, उ॑ मे पुं॒स आ᳚हुः॒ पश्य॑दक्ष॒ण्वान् न वि चे᳚तदं॒धः । क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात् स पि॒तुष्पि॒तास॑त् ॥1.164.16, 2.3.017.01
अ॒वः परे᳚ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात् । सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा᳚गा॒त् क्व॑ स्वित् सूते न॒हि यू॒थे, अं॒तः ॥1.164.17, 2.3.017.02
अ॒वः परे᳚ण पि॒तरं॒ यो, अ॑स्यानु॒वेद॑ प॒र ए॒नाव॑रेण । क॒वी॒यमा᳚नः॒ क इ॒ह प्र वो᳚चद् दे॒वं मनः॒ कुतो॒, अधि॒ प्रजा᳚तं ॥1.164.18, 2.3.017.03
ये, अ॒र्वांच॒स्ताँ, उ॒ परा᳚च आहु॒र्ये परां᳚च॒स्ताँ, उ॑ अ॒र्वाच॑ आहुः । इंद्र॑श्च॒ या च॒क्रथुः॑ सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहंति ॥1.164.19, 2.3.017.04
द्वा सु॑प॒र्णा स॒युजा॒ सखा᳚या समा॒नं वृ॒क्षं परि॑ षस्वजाते । तयो᳚र॒न्यः पिप्प॑लं स्वा॒द्वत् त्यन॑श्नन्न॒न्यो, अ॒भि चा᳚कशीति ॥1.164.20, 2.3.017.05
यत्रा᳚ सुप॒र्णा, अ॒मृत॑स्य भा॒गमनि॑मेषं वि॒दथा᳚भि॒स्वरं᳚ति । इ॒नो विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीरः॒ पाक॒मत्रा वि॑वेश ॥1.164.21, 2.3.018.01
यस्मि᳚न् वृ॒क्षे म॒ध्वदः॑ सुप॒र्णा नि॑वि॒शंते॒ सुव॑ते॒ चाधि॒ विश्वे᳚ । तस्येदा᳚हुः॒ पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द्यः पि॒तरं॒ न वेद॑ ॥1.164.22, 2.3.018.02
यद् गा᳚य॒त्रे, अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भाद् वा॒ त्रैष्टु॑भं नि॒रत॑क्षत । यद् वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद् वि॒दुस्ते, अ॑मृत॒त्वमा᳚नशुः ॥1.164.23, 2.3.018.03
गा॒य॒त्रेण॒ प्रति॑ मिमीते, अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कं । वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे᳚ण मिमते स॒प्त वाणीः᳚ ॥1.164.24, 2.3.018.04
जग॑ता॒ सिंधुं᳚ दि॒व्य॑स्तभायद् रथंत॒रे सूर्यं॒ पर्य॑पश्यत् । गा॒य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ᳚हु॒स्ततो᳚ म॒ह्ना प्र रि॑रिचे महि॒त्वा ॥1.164.25, 2.3.018.05
उप॑ ह्वये सु॒दुघां᳚ धे॒नुमे॒तां सु॒हस्तो᳚ गो॒धुगु॒त दो᳚हदेनां । श्रेष्ठं᳚ स॒वं स॑वि॒ता सा᳚विषन्नो॒ऽभी᳚द्धो घ॒र्मस्तदु॒ षु प्र वो᳚चं ॥1.164.26, 2.3.019.01
हिं॒कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू᳚नां व॒त्समि॒च्छंती॒ मन॑सा॒भ्यागा᳚त् । दु॒हाम॒श्विभ्यां॒ पयो᳚ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥1.164.27, 2.3.019.02
गौर॑मीमे॒दनु॑ व॒त्सं मि॒षंतं᳚ मू॒र्धानं॒ हिङ्ङ॑कृणो॒न्मात॒वा, उ॑ । सृक्वा᳚णं घ॒र्मम॒भि वा᳚वशा॒ना मिमा᳚ति मा॒युं पय॑ते॒ पयो᳚भिः ॥1.164.28, 2.3.019.03
अ॒यं स शिं᳚क्ते॒ येन॒ गौर॒भीवृ॑ता॒ मिमा᳚ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता । सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्यं᳚ वि॒द्युद् भवं᳚ती॒ प्रति॑ व॒व्रिमौ᳚हत ॥1.164.29, 2.3.019.04
अ॒नच्छ॑ये तु॒रगा᳚तु जी॒वमेज॑द् ध्रु॒वं मध्य॒ आ प॒स्त्या᳚नां । जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये᳚ना॒ सयो᳚निः ॥1.164.30, 2.3.019.05
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा᳚ च प॒थिभि॒श्चरं᳚तं । स स॒ध्रीचीः॒ स विषू᳚ची॒र्वसा᳚न॒ आ व॑रीवर्ति॒ भुव॑नेष्वं॒तः ॥1.164.31, 2.3.020.01
य ईं᳚ च॒कार॒ न सो, अ॒स्य वे᳚द॒ य ईं᳚ द॒दर्श॒ हिरु॒गिन्नु तस्मा᳚त् । स मा॒तुर्योना॒ परि॑वीतो, अं॒तर्ब॑हुप्र॒जा निरृ॑ति॒मा वि॑वेश ॥1.164.32, 2.3.020.02
द्यौर्मे᳚ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बंधु᳚र्मे मा॒ता पृ॑थि॒वी म॒हीयं । उ॒त्ता॒नयो᳚श्च॒म्वो॒3॑(ओ॒)र्योनि॑रं॒तरत्रा᳚ पि॒ता दु॑हि॒तुर्गर्भ॒माधा᳚त् ॥1.164.33, 2.3.020.03
पृ॒च्छामि॑ त्वा॒ पर॒मंतं᳚ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभिः॑ । पृ॒च्छामि॑ त्वा॒ वृष्णो॒, अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो᳚म ॥1.164.34, 2.3.020.04
इ॒यं वेदिः॒ परो॒, अंतः॑ पृथि॒व्या, अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभिः॑ । अ॒यं सोमो॒ वृष्णो॒, अश्व॑स्य॒ रेतो᳚ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो᳚म ॥1.164.35, 2.3.020.05
स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो᳚स्तिष्ठंति प्र॒दिशा॒ विध᳚र्मणि । ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चितः॑ परि॒भुवः॒ परि॑ भवंति वि॒श्वतः॑ ॥1.164.36, 2.3.021.01
न वि जा᳚नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि । य॒दा माग᳚न् प्रथम॒जा ऋ॒तस्यादिद् वा॒चो, अ॑श्नुवे भा॒गम॒स्याः ॥1.164.37, 2.3.021.02
अपा॒ङ् प्राङे᳚ति स्व॒धया᳚ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये᳚ना॒ सयो᳚निः । ता शश्वं᳚ता विषू॒चीना᳚ वि॒यंता॒ न्य१॑(अ॒)न्यं चि॒क्युर्न नि चि॑क्युर॒न्यं ॥1.164.38, 2.3.021.03
ऋ॒चो, अ॒क्षरे᳚ पर॒मे व्यो᳚म॒न् यस्मि᳚न् दे॒वा, अधि॒ विश्वे᳚ निषे॒दुः । यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा᳚सते ॥1.164.39, 2.3.021.04
सू॒य॒व॒साद् भग॑वती॒ हि भू॒या, अथो᳚ व॒यं भग॑वंतः स्याम । अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चरं᳚ती ॥1.164.40, 2.3.021.05
गौ॒रीर्मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ स॒हस्रा᳚क्षरा पर॒मे व्यो᳚मन् ॥1.164.41, 2.3.022.01
तस्याः᳚ समु॒द्रा, अधि॒ वि क्ष॑रंति॒ तेन॑ जीवंति प्र॒दिश॒श्चत॑स्रः । ततः॑, क्षरत्य॒क्षरं॒ तद् विश्व॒मुप॑ जीवति ॥1.164.42, 2.3.022.02
श॒क॒मयं᳚ धू॒ममा॒राद॑पश्यं विषू॒वता᳚ प॒र ए॒नाव॑रेण । उ॒क्षाणं॒ पृश्नि॑मपचंत वी॒रास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् ॥1.164.43, 2.3.022.03
त्रयः॑ के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषां । विश्व॒मेको᳚ अ॒भि च॑ष्टे॒ शची᳚भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पं ॥1.164.44, 2.3.022.04
च॒त्वारि॒ वाक् परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ । गुहा॒ त्रीणि॒ निहि॑ता॒ नेंग॑यंति तु॒रीयं᳚ वा॒चो म॑नु॒ष्या᳚ वदंति ॥1.164.45, 2.3.022.05
इंद्रं᳚ मि॒त्रं वरु॑णम॒ग्निमा᳚हु॒रथो᳚ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा᳚न् । एकं॒ सद् विप्रा᳚ बहु॒धा व॑दंत्य॒ग्निं य॒मं मा᳚त॒रिश्वा᳚नमाहुः ॥1.164.46, 2.3.022.06
कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा, अ॒पो वसा᳚ना॒ दिव॒मुत्प॑तंति । त आव॑वृत्र॒न् त्सद॑नादृ॒तस्यादिद् घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ॥1.164.47, 2.3.023.01
द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या᳚नि॒ क उ॒ तच्चि॑केत । तस्मि᳚न् त्सा॒कं त्रि॑श॒ता न शं॒कवो᳚ऽर्पि॒ताः ष॒ष्टिर्न च॑लाच॒लासः॑ ॥1.164.48, 2.3.023.02
यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूर्येन॒ विश्वा॒ पुष्य॑सि॒ वार्या᳚णि । यो र॑त्न॒धा व॑सु॒विद् यः सु॒दत्रः॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ॥1.164.49, 2.3.023.03
य॒ज्ञेन॑ य॒ज्ञम॑यजंत दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् । ते ह॒ नाकं᳚ महि॒मानः॑ सचंत॒ यत्र॒ पूर्वे᳚ सा॒ध्याः संति॑ दे॒वाः ॥1.164.50, 2.3.023.04
स॒मा॒नमे॒तदु॑द॒कमुच्चैत्यव॒ चाह॑भिः । भूमिं᳚ प॒र्जन्या॒ जिन्वं᳚ति॒ दिवं᳚ जिन्वंत्य॒ग्नयः॑ ॥1.164.51, 2.3.023.05
दि॒व्यं सु॑प॒र्णं वा᳚य॒सं बृ॒हंत॑म॒पां गर्भं᳚ दर्श॒तमोष॑धीनां । अ॒भी॒प॒तो वृ॒ष्टिभि॑स्त॒र्पयं᳚तं॒ सर॑स्वंत॒मव॑से जोहवीमि ॥1.164.52, 2.3.023.06
27 । पवमान सूक्तं
पवमान पारायण प्रथमोध्यायः
[1] स्वादिष्ठयेति दशर्चस्य सूक्तस्य वैश्वामित्रोमधुच्छंदाः पवमानः सोमो गायत्री ।
स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या । इंद्रा᳚य॒ पात॑वे सु॒तः ॥9.001.01, 6.7.016.01
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो᳚हतं । द्रुणा᳚ स॒धस्थ॒मास॑दत् ॥9.001.02, 6.7.016.02
व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हंत॑मः । पर्षि॒ राधो᳚ म॒घोनां᳚ ॥9.001.03, 6.7.016.03
अ॒भ्य॑र्ष म॒हानां᳚ दे॒वानां᳚ वी॒तिमंध॑सा । अ॒भि वाज॑मु॒त श्रवः॑ ॥9.001.04, 6.7.016.04
त्वामच्छा᳚ चरामसि॒ तदिदर्थं᳚ दि॒वेदि॑वे । इंदो॒ त्वे न॑ आ॒शसः॑ ॥9.001.05, 6.7.016.05
पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता । वारे᳚ण॒ शश्व॑ता॒ तना᳚ ॥9.001.06, 6.7.017.01
तमी॒मण्वीः᳚ सम॒र्य आ गृ॒भ्णंति॒ योष॑णो॒ दश॑ । स्वसा᳚रः॒ पार्ये᳚ दि॒वि ॥9.001.07, 6.7.017.02
तमीं᳚ हिन्वंत्य॒ग्रुवो॒ धमं᳚ति बाकु॒रं दृतिं᳚ । त्रि॒धातु॑ वार॒णं मधु॑ ॥9.001.08, 6.7.017.03
अ॒भी॒3॑(ई॒)ममघ्न्या᳚ उ॒त श्री॒णंति॑ धे॒नवः॒ शिशुं᳚ । सोम॒मिंद्रा᳚य॒ पात॑वे ॥9.001.09, 6.7.017.04
अ॒स्येदिंद्रो॒ मदे॒ष्वा विश्वा᳚ वृ॒त्राणि॑ जिघ्नते । शूरो᳚ म॒घा च॑ मंहते ॥9.001.10, 6.7.017.05
[2] पवस्वेति दशर्चस्य सूक्तस्य काण्वोमेधातिथिः पवमानःसोमोगायत्री ।
पव॑स्व देव॒वीरति॑ प॒वित्रं᳚ सोम॒ रंह्या᳚ । इंद्र॑मिंदो॒ वृषा वि॑श ॥9.002.01, 6.7.018.01
आ व॑च्यस्व॒ महि॒ प्सरो॒ वृषें᳚दो द्यु॒म्नव॑त्तमः । आ योनिं᳚ धर्ण॒सिः स॑दः ॥9.002.02, 6.7.018.02
अधु॑क्षत प्रि॒यं मधु॒ धारा᳚ सु॒तस्य॑ वे॒धसः॑ । अ॒पो व॑सिष्ट सु॒क्रतुः॑ ॥9.002.03, 6.7.018.03
म॒हांतं᳚ त्वा म॒हीरन्वापो᳚ अर्षंति॒ सिंध॑वः । यद्गोभि᳚र्वासयि॒ष्यसे᳚ ॥9.002.04, 6.7.018.04
स॒मु॒द्रो, अ॒प्सु मा᳚मृजे विष्टं॒भो ध॒रुणो᳚ दि॒वः । सोमः॑ प॒वित्रे᳚ अस्म॒युः ॥9.002.05, 6.7.018.05
अचि॑क्रद॒द्वृषा॒ हरि᳚र्म॒हान् मि॒त्रो न द॑र्श॒तः । सं सूर्ये᳚ण रोचते ॥9.002.06, 6.7.019.01
गिर॑स्त इंद॒ ओज॑सा मर्मृ॒ज्यंते᳚ अप॒स्युवः॑ । याभि॒र्मदा᳚य॒ शुंभ॑से ॥9.002.07, 6.7.019.02
तं त्वा॒ मदा᳚य॒ घृष्व॑य उ लोककृ॒त्नुमी᳚महे । तव॒ प्रश॑स्तयो म॒हीः ॥9.002.08, 6.7.019.03
अ॒स्मभ्य॑मिंदविंद्र॒युर्मध्वः॑ पवस्व॒ धार॑या । प॒र्जन्यो᳚ वृष्टि॒माँ, इ॑व ॥9.002.09, 6.7.019.04
गो॒षा, इं᳚दो नृ॒षा, अ॑स्यश्व॒सा वा᳚ज॒सा, उ॒त । आ॒त्मा य॒ज्ञस्य॑ पू॒र्व्यः ॥9.002.10, 6.7.019.05
[3] एषदेव इति दशर्चस्य सूक्तस्याजीगर्तिः शुनःशेपः सकृत्रिमोवैश्वामित्रोदेवरातः पवमानः सोमो गायत्री ।
ए॒ष दे॒वो, अम॑र्त्यः पर्ण॒वीरि॑व दीयति । अ॒भि द्रोणा᳚न्या॒सदं᳚ ॥9.003.01, 6.7.020.01
ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां᳚सि धावति । पव॑मानो॒, अदा᳚भ्यः ॥9.003.02, 6.7.020.02
ए॒ष दे॒वो वि॑प॒न्युभिः॒ पव॑मान ऋता॒युभिः॑ । हरि॒र्वाजा᳚य मृज्यते ॥9.003.03, 6.7.020.03
ए॒ष विश्वा᳚नि॒ वार्या॒ शूरो॒ यन्नि॑व॒ सत्व॑भिः । पव॑मानः सिषासति ॥9.003.04, 6.7.020.04
ए॒ष दे॒वो र॑थर्यति॒ पव॑मानो दशस्यति । आ॒विष्कृ॑णोति वग्व॒नुं ॥9.003.05, 6.7.020.05
ए॒ष विप्रै᳚र॒भिष्टु॑तो॒ऽपो दे॒वो वि गा᳚हते । दध॒द्रत्ना᳚नि दा॒शुषे᳚ ॥9.003.06, 6.7.021.01
ए॒ष दिवं॒ वि धा᳚वति ति॒रो रजां᳚सि॒ धार॑या । पव॑मानः॒ कनि॑क्रदत् ॥9.003.07, 6.7.021.02
ए॒ष दिवं॒ व्यास॑रत् ति॒रो रजां॒स्यस्पृ॑तः । पव॑मानः स्वध्व॒रः ॥9.003.08, 6.7.021.03
ए॒ष प्र॒त्नेन॒ जन्म॑ना दे॒वो दे॒वेभ्यः॑ सु॒तः । हरिः॑ प॒वित्रे᳚ अर्षति ॥9.003.09, 6.7.021.04
ए॒ष उ॒ स्य पु॑रुव्र॒तो ज॑ज्ञा॒नो ज॒नय॒न्निषः॑ । धार॑या पवते सु॒तः ॥9.003.10, 6.7.021.05
[4] सनाचेति दशर्चस्य सूक्तस्यांगिरसो हिरण्यस्तूपः पवमानःसोमो गायत्री
सना᳚ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रवः॑ । अथा᳚ नो॒ वस्य॑सस्कृधि ॥9.004.01, 6.7.022.01
सना॒ ज्योतिः॒ सना॒ स्व१॑(अ॒)र्विश्वा᳚ च सोम॒ सौभ॑गा । अथा᳚ नो॒ वस्य॑सस्कृधि ॥9.004.02, 6.7.022.02
सना॒ दक्ष॑मु॒त क्रतु॒मप॑ सोम॒ मृधो᳚ जहि । अथा᳚ नो॒ वस्य॑सस्कृधि ॥9.004.03, 6.7.022.03
पवी᳚तारः पुनी॒तन॒ सोम॒मिंद्रा᳚य॒ पात॑वे । अथा᳚ नो॒ वस्य॑सस्कृधि ॥9.004.04, 6.7.022.04
त्वं सूर्ये᳚ न॒ आ भ॑ज॒ तव॒ क्रत्वा॒ तवो॒तिभिः॑ । अथा᳚ नो॒ वस्य॑सस्कृधि ॥9.004.05, 6.7.022.05
तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक् प॑श्येम॒ सूर्यं᳚ । अथा᳚ नो॒ वस्य॑सस्कृधि ॥9.004.06, 6.7.023.01
अ॒भ्य॑र्ष स्वायुध॒ सोम॑ द्वि॒बर्ह॑सं र॒यिं । अथा᳚ नो॒ वस्य॑सस्कृधि ॥9.004.07, 6.7.023.02
अ॒भ्य१॑(अ॒)र्षान॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः । अथा᳚ नो॒ वस्य॑सस्कृधि ॥9.004.08, 6.7.023.03
त्वां य॒ज्ञैर॑वीवृध॒न् पव॑मान॒ विध᳚र्मणि । अथा᳚ नो॒ वस्य॑सस्कृधि ॥9.004.09, 6.7.023.04
र॒यिं न॑श्चि॒त्रम॒श्विन॒मिंदो᳚ वि॒श्वायु॒मा भ॑र । अथा᳚ नो॒ वस्य॑सस्कृधि ॥9.004.10, 6.7.023.05
[5] समिद्धैत्येकादशर्चस्य सूक्तस्य काश्यपोसितः क्रमेणेध्मस्तनूनपादिळोबर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौ तिस्रोदेव्यः सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयोगायत्री अंत्याश्चतस्रोनुष्टुभः । ( इतआरभ्यविंशतिसूक्तेषुकाश्यपोदेवलोऽसितेन सहविकल्पते ) ।
समि॑द्धो वि॒श्वत॒स्पतिः॒ पव॑मानो॒ वि रा᳚जति । प्री॒णन् वृषा॒ कनि॑क्रदत् ॥9.005.01, 6.7.024.01
तनू॒नपा॒त् पव॑मानः॒ शृंगे॒ शिशा᳚नो, अर्षति । अं॒तरि॑क्षेण॒ रार॑जत् ॥9.005.02, 6.7.024.02
ई॒ळेन्यः॒ पव॑मानो र॒यिर्वि रा᳚जति द्यु॒मान् । मधो॒र्धारा᳚भि॒रोज॑सा ॥9.005.03, 6.7.024.03
ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन् हरिः॑ । दे॒वेषु॑ दे॒व ई᳚यते ॥9.005.04, 6.7.024.04
उदातै᳚र्जिहते बृ॒हद् द्वारो᳚ दे॒वीर्हि॑र॒ण्ययीः᳚ । पव॑मानेन॒ सुष्टु॑ताः ॥9.005.05, 6.7.024.05
सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति । नक्तो॒षासा॒ न द॑र्श॒ते ॥9.005.06, 6.7.025.01
उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता᳚रा॒ दैव्या᳚ हुवे । पव॑मान॒ इंद्रो॒ वृषा᳚ ॥9.005.07, 6.7.025.02
भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा᳚ म॒ही । इ॒मं नो᳚ य॒ज्ञमा ग॑मन् ति॒स्रो दे॒वीः सु॒पेश॑सः ॥9.005.08, 6.7.025.03
त्वष्टा᳚रमग्र॒जां गो॒पां पु॑रो॒यावा᳚न॒मा हु॑वे । इंदु॒रिंद्रो॒ वृषा॒ हरिः॒ पव॑मानः प्र॒जाप॑तिः ॥9.005.09, 6.7.025.04
वन॒स्पतिं᳚ पवमान॒ मध्वा॒ समं᳚ग्धि॒ धार॑या । स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्ययं᳚ ॥9.005.10, 6.7.025.05
विश्वे᳚ देवाः॒ स्वाहा᳚कृतिं॒ पव॑मान॒स्या ग॑त । वा॒युर्बृह॒स्पतिः॒ सूर्यो॒ऽग्निरिंद्रः॑ स॒जोष॑सः ॥9.005.11, 6.7.025.06
[6] मंद्रयेति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानःसोमो गायत्री
मं॒द्रया᳚ सोम॒ धार॑या॒ वृषा᳚ पवस्व देव॒युः । अव्यो॒ वारे᳚ष्वस्म॒युः ॥9.006.01, 6.7.026.01
अ॒भि त्यं मद्यं॒ मद॒मिंद॒विंद्र॒ इति॑ क्षर । अ॒भि वा॒जिनो॒, अर्व॑तः ॥9.006.02, 6.7.026.02
अ॒भि त्यं पू॒र्व्यं मदं᳚ सुवा॒नो, अ॑र्ष प॒वित्र॒ आ । अ॒भि वाज॑मु॒त श्रवः॑ ॥9.006.03, 6.7.026.03
अनु॑ द्र॒प्सास॒ इंद॑व॒ आपो॒ न प्र॒वता᳚सरन् । पु॒ना॒ना, इंद्र॑माशत ॥9.006.04, 6.7.026.04
यमत्य॑मिव वा॒जिनं᳚ मृ॒जंति॒ योष॑णो॒ दश॑ । वने॒ क्रीळं᳚त॒मत्य॑विं ॥9.006.05, 6.7.026.05
तं गोभि॒र्वृष॑णं॒ रसं॒ मदा᳚य दे॒ववी᳚तये । सु॒तं भरा᳚य॒ सं सृ॑ज ॥9.006.06, 6.7.027.01
दे॒वो दे॒वाय॒ धार॒येंद्रा᳚य पवते सु॒तः । पयो॒ यद॑स्य पी॒पय॑त् ॥9.006.07, 6.7.027.02
आ॒त्मा य॒ज्ञस्य॒ रंह्या᳚ सुष्वा॒णः प॑वते सु॒तः । प्र॒त्नं नि पा᳚ति॒ काव्यं᳚ ॥9.006.08, 6.7.027.03
ए॒वा पु॑ना॒न इं᳚द्र॒युर्मदं᳚ मदिष्ठ वी॒तये᳚ । गुहा᳚ चिद्दधिषे॒ गिरः॑ ॥9.006.09, 6.7.027.04
[7] असृग्रमिति नवर्चस्य सूक्तस्य काश्यपोऽसितः पवमानः सोमो गायत्री ।
असृ॑ग्र॒मिंद॑वः प॒था धर्म᳚न्नृ॒तस्य॑ सु॒श्रियः॑ । वि॒दा॒ना, अ॑स्य॒ योज॑नं ॥9.007.01, 6.7.028.01
प्र धारा॒ मध्वो᳚ अग्रि॒यो म॒हीर॒पो वि गा᳚हते । ह॒विर्ह॒विष्षु॒ वंद्यः॑ ॥9.007.02, 6.7.028.02
प्र यु॒जो वा॒चो, अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने᳚ । सद्मा॒भि स॒त्यो, अ॑ध्व॒रः ॥9.007.03, 6.7.028.03
परि॒ यत् काव्या᳚ क॒विर्नृ॒म्णा वसा᳚नो॒, अर्ष॑ति । स्व᳚र्वा॒जी सि॑षासति ॥9.007.04, 6.7.028.04
पव॑मानो, अ॒भि स्पृधो॒ विशो॒ राजे᳚व सीदति । यदी᳚मृ॒ण्वंति॑ वे॒धसः॑ ॥9.007.05, 6.7.028.05
अव्यो॒ वारे॒ परि॑ प्रि॒यो हरि॒र्वने᳚षु सीदति । रे॒भो व॑नुष्यते म॒ती ॥9.007.06, 6.7.029.01
स वा॒युमिंद्र॑म॒श्विना᳚ सा॒कं मदे᳚न गच्छति । रणा॒ यो, अ॑स्य॒ धर्म॑भिः ॥9.007.07, 6.7.029.02
आ मि॒त्रावरु॑णा॒ भगं॒ मध्वः॑ पवंत ऊ॒र्मयः॑ । वि॒दा॒ना, अ॑स्य॒ शक्म॑भिः ॥9.007.08, 6.7.029.03
अ॒स्मभ्यं᳚ रोदसी र॒यिं मध्वो॒ वाज॑स्य सा॒तये᳚ । श्रवो॒ वसू᳚नि॒ सं जि॑तं ॥9.007.09, 6.7.029.04
[8] एतेसोमा इति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानःसोमो गायत्री ।
ए॒ते सोमा᳚ अ॒भि प्रि॒यमिंद्र॑स्य॒ काम॑मक्षरन् । वर्धं᳚तो, अस्य वी॒र्यं᳚ ॥9.008.01, 6.7.030.01
पु॒ना॒नास॑श्चमू॒षदो॒ गच्छं᳚तो वा॒युम॒श्विना᳚ । ते नो᳚ धांतु सु॒वीर्यं᳚ ॥9.008.02, 6.7.030.02
इंद्र॑स्य सोम॒ राध॑से पुना॒नो हार्दि॑ चोदय । ऋ॒तस्य॒ योनि॑मा॒सदं᳚ ॥9.008.03, 6.7.030.03
मृ॒जंति॑ त्वा॒ दश॒ क्षिपो᳚ हि॒न्वंति॑ स॒प्त धी॒तयः॑ । अनु॒ विप्रा᳚ अमादिषुः ॥9.008.04, 6.7.030.04
दे॒वेभ्य॑स्त्वा॒ मदा᳚य॒ कं सृ॑जा॒नमति॑ मे॒ष्यः॑ । सं गोभि᳚र्वासयामसि ॥9.008.05, 6.7.030.05
पु॒ना॒नः क॒लशे॒ष्वा वस्त्रा᳚ण्यरु॒षो हरिः॑ । परि॒ गव्या᳚न्यव्यत ॥9.008.06, 6.7.031.01
म॒घोन॒ आ प॑वस्व नो ज॒हि विश्वा॒, अप॒ द्विषः॑ । इंदो॒ सखा᳚य॒मा वि॑श ॥9.008.07, 6.7.031.02
वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या, अधि॑ । सहो᳚ नः सोम पृ॒त्सु धाः᳚ ॥9.008.08, 6.7.031.03
नृ॒चक्ष॑सं त्वा व॒यमिंद्र॑पीतं स्व॒र्विदं᳚ । भ॒क्षी॒महि॑ प्र॒जामिषं᳚ ॥9.008.09, 6.7.031.04
[9] परिप्रियेति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानःसोमो गायत्री
परि॑ प्रि॒या दि॒वः क॒विर्वयां᳚सि न॒प्त्यो᳚र्हि॒तः । सु॒वा॒नो या᳚ति क॒विक्र॑तुः ॥9.009.01, 6.7.032.01
प्रप्र॒ क्षया᳚य॒ पन्य॑से॒ जना᳚य॒ जुष्टो᳚ अ॒द्रुहे᳚ । वी॒त्य॑र्ष॒ चनि॑ष्ठया ॥9.009.02, 6.7.032.02
स सू॒नुर्मा॒तरा॒ शुचि॑र्जा॒तो जा॒ते, अ॑रोचयत् । म॒हान् म॒ही ऋ॑ता॒वृधा᳚ ॥9.009.03, 6.7.032.03
स स॒प्त धी॒तिभि᳚र्हि॒तो न॒द्यो᳚ अजिन्वद॒द्रुहः॑ । या, एक॒मक्षि॑ वावृ॒धुः ॥9.009.04, 6.7.032.04
ता, अ॒भि संत॒मस्तृ॑तं म॒हे युवा᳚न॒मा द॑धुः । इंदु॑मिंद्र॒ तव᳚ व्र॒ते ॥9.009.05, 6.7.032.05
अ॒भि वह्नि॒रम॑र्त्यः स॒प्त प॑श्यति॒ वाव॑हिः । क्रिवि॑र्दे॒वीर॑तर्पयत् ॥9.009.06, 6.7.033.01
अवा॒ कल्पे᳚षु नः पुम॒स्तमां᳚सि सोम॒ योध्या᳚ । तानि॑ पुनान जंघनः ॥9.009.07, 6.7.033.02
नू नव्य॑से॒ नवी᳚यसे सू॒क्ताय॑ साधया प॒थः । प्र॒त्न॒वद्रो᳚चया॒ रुचः॑ ॥9.009.08, 6.7.033.03
पव॑मान॒ महि॒ श्रवो॒ गामश्वं᳚ रासि वी॒रव॑त् । सना᳚ मे॒धां सना॒ स्वः॑ ॥9.009.09, 6.7.033.04
[10] प्रस्वानास इति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री ।
प्र स्वा॒नासो॒ रथा᳚ इ॒वार्वं᳚तो॒ न श्र॑व॒स्यवः॑ । सोमा᳚सो रा॒ये, अ॑क्रमुः ॥9.010.01, 6.7.034.01
हि॒न्वा॒नासो॒ रथा᳚ इव दधन्वि॒रे गभ॑स्त्योः । भरा᳚सः का॒रिणा᳚मिव ॥9.010.02, 6.7.034.02
राजा᳚नो॒ न प्रश॑स्तिभिः॒ सोमा᳚सो॒ गोभि॑रंजते । य॒ज्ञो न स॒प्त धा॒तृभिः॑ ॥9.010.03, 6.7.034.03
परि॑ सुवा॒नास॒ इंद॑वो॒ मदा᳚य ब॒र्हणा᳚ गि॒रा । सु॒ता, अ॑र्षंति॒ धार॑या ॥9.010.04, 6.7.034.04
आ॒पा॒नासो᳚ वि॒वस्व॑तो॒ जनं᳚त उ॒षसो॒ भगं᳚ । सूरा॒, अण्वं॒ वि त᳚न्वते ॥9.010.05, 6.7.034.05
अप॒ द्वारा᳚ मती॒नां प्र॒त्ना ऋ᳚ण्वंति का॒रवः॑ । वृष्णो॒ हर॑स आ॒यवः॑ ॥9.010.06, 6.7.035.01
स॒मी॒ची॒नास॑ आसते॒ होता᳚रः स॒प्तजा᳚मयः । प॒दमेक॑स्य॒ पिप्र॑तः ॥9.010.07, 6.7.035.02
नाभा॒ नाभिं᳚ न॒ आ द॑दे॒ चक्षु॑श्चि॒त् सूर्ये॒ सचा᳚ । क॒वेरप॑त्य॒मा दु॑हे ॥9.010.08, 6.7.035.03
अ॒भि प्रि॒या दि॒वस्प॒दम॑ध्व॒र्युभि॒र्गुहा᳚ हि॒तं । सूरः॑ पश्यति॒ चक्ष॑सा ॥9.010.09, 6.7.035.04
[11] उपास्माइति नवर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री ।
उपा᳚स्मै गायता नरः॒ पव॑माना॒येंद॑वे । अ॒भि दे॒वाँ, इय॑क्षते ॥9.011.01, 6.7.036.01
अ॒भि ते॒ मधु॑ना॒ पयोऽथ᳚र्वाणो, अशिश्रयुः । दे॒वं दे॒वाय॑ देव॒यु ॥9.011.02, 6.7.036.02
स नः॑ पवस्व॒ शं गवे॒ शं जना᳚य॒ शमर्व॑ते । शं रा᳚ज॒न्नोष॑धीभ्यः ॥9.011.03, 6.7.036.03
ब॒भ्रवे॒ नु स्वत॑वसेऽरु॒णाय॑ दिवि॒स्पृशे᳚ । सोमा᳚य गा॒थम॑र्चत ॥9.011.04, 6.7.036.04
हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं᳚ पुनीतन । मधा॒वा धा᳚वता॒ मधु॑ ॥9.011.05, 6.7.036.05
नम॒सेदुप॑ सीदत द॒ध्नेद॒भि श्री᳚णीतन । इंदु॒मिंद्रे᳚ दधातन ॥9.011.06, 6.7.037.01
अ॒मि॒त्र॒हा विच॑र्षणिः॒ पव॑स्व सोम॒ शं गवे᳚ । दे॒वेभ्यो᳚ अनुकाम॒कृत् ॥9.011.07, 6.7.037.02
इंद्रा᳚य सोम॒ पात॑वे॒ मदा᳚य॒ परि॑ षिच्यसे । म॒न॒श्चिन्मन॑स॒स्पतिः॑ ॥9.011.08, 6.7.037.03
पव॑मान सु॒वीर्यं᳚ र॒यिं सो᳚म रिरीहि नः । इंद॒विंद्रे᳚ण नो यु॒जा ॥9.011.09, 6.7.037.04
[12] सोमाअसृग्रमिति नवर्चस्य सूक्तस्य काश्यपोसितःपवमानः सोमो गायत्री ।
सोमा᳚ असृग्र॒मिंद॑वः सु॒ता ऋ॒तस्य॒ साद॑ने । इंद्रा᳚य॒ मधु॑मत्तमाः ॥9.012.01, 6.7.038.01
अ॒भि विप्रा᳚ अनूषत॒ गावो᳚ व॒त्सं न मा॒तरः॑ । इंद्रं॒ सोम॑स्य पी॒तये᳚ ॥9.012.02, 6.7.038.02
म॒द॒च्युत् क्षे᳚ति॒ साद॑ने॒ सिंधो᳚रू॒र्मा वि॑प॒श्चित् । सोमो᳚ गौ॒री, अधि॑ श्रि॒तः ॥9.012.03, 6.7.038.03
दि॒वो नाभा᳚ विचक्ष॒णोऽव्यो॒ वारे᳚ महीयते । सोमो॒ यः सु॒क्रतुः॑ क॒विः ॥9.012.04, 6.7.038.04
यः सोमः॑ क॒लशे॒ष्वाँ, अं॒तः प॒वित्र॒ आहि॑तः । तमिंदुः॒ परि॑ षस्वजे ॥9.012.05, 6.7.038.05
प्र वाच॒मिंदु॑रिष्यति समु॒द्रस्याधि॑ वि॒ष्टपि॑ । जिन्व॒न् कोशं᳚ मधु॒श्चुतं᳚ ॥9.012.06, 6.7.039.01
नित्य॑स्तोत्रो॒ वन॒स्पति॑र्धी॒नामं॒तः स॑ब॒र्दुघः॑ । हि॒न्वा॒नो मानु॑षा यु॒गा ॥9.012.07, 6.7.039.02
अ॒भि प्रि॒या दि॒वस्प॒दा सोमो᳚ हिन्वा॒नो, अ॑र्षति । विप्र॑स्य॒ धार॑या क॒विः ॥9.012.08, 6.7.039.03
आ प॑वमान धारय र॒यिं स॒हस्र॑वर्चसं । अ॒स्मे, इं᳚दो स्वा॒भुवं᳚ ॥9.012.09, 6.7.039.04
पवमान पारायण द्वितीयोध्यायः
[13] सोमः पुनानैति नवर्चस्य सूक्तस्य काश्यपोऽसितः पवमानः सोमो गायत्री ।
सोमः॑ पुना॒नो, अ॑र्षति स॒हस्र॑धारो॒, अत्य॑विः । वा॒योरिंद्र॑स्य निष्कृ॒तं ॥9.013.01, 6.8.1.1
पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा᳚यत । सु॒ष्वा॒णं दे॒ववी᳚तये ॥9.013.02, 6.8.1.2
पवं᳚ते॒ वाज॑सातये॒ सोमाः᳚ स॒हस्र॑पाजसः । गृ॒णा॒ना दे॒ववी᳚तये ॥9.013.03, 6.8.1.3
उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिषः॑ । द्यु॒मदिं᳚दो सु॒वीर्यं᳚ ॥9.013.04, 6.8.1.4
ते नः॑ सह॒स्रिणं᳚ र॒यिं पवं᳚ता॒मा सु॒वीर्यं᳚ । सु॒वा॒ना दे॒वास॒ इंद॑वः ॥9.013.05, 6.8.1.5
अत्या᳚ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये । वि वार॒मव्य॑मा॒शवः॑ ॥9.013.06, 6.8.2.1
वा॒श्रा, अ॑र्षं॒तींद॑वो॒ऽभि व॒त्सं न धे॒नवः॑ । द॒ध॒न्वि॒रे गभ॑स्त्योः ॥9.013.07, 6.8.2.2
जुष्ट॒ इंद्रा᳚य मत्स॒रः पव॑मान॒ कनि॑क्रदत् । विश्वा॒, अप॒ द्विषो᳚ जहि ॥9.013.08, 6.8.2.3
अ॒प॒घ्नंतो॒, अरा᳚व्णः॒ पव॑मानाः स्व॒र्दृशः॑ । योना᳚वृ॒तस्य॑ सीदत ॥9.013.09, 6.8.2.4
[14] परिप्रेत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानःसोमो गायत्री ।
परि॒ प्रासि॑ष्यदत् क॒विः सिंधो᳚रू॒र्मावधि॑ श्रि॒तः । का॒रं बिभ्र॑त् पुरु॒स्पृहं᳚ ॥9.014.01, 6.8.3.1
गि॒रा यदी॒ सबं᳚धवः॒ पंच॒ व्राता᳚ अप॒स्यवः॑ । प॒रि॒ष्कृ॒ण्वंति॑ धर्ण॒सिं ॥9.014.02, 6.8.3.2
आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे᳚ दे॒वा, अ॑मत्सत । यदी॒ गोभि᳚र्वसा॒यते᳚ ॥9.014.03, 6.8.3.3
नि॒रि॒णा॒नो वि धा᳚वति॒ जह॒च्छर्या᳚णि॒ तान्वा᳚ । अत्रा॒ सं जि॑घ्रते यु॒जा ॥9.014.04, 6.8.3.4
न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा᳚मृ॒जे युवा᳚ । गाः कृ᳚ण्वा॒नो न नि॒र्णिजं᳚ ॥9.014.05, 6.8.3.5
अति॑ श्रि॒ती ति॑र॒श्चता᳚ ग॒व्या जि॑गा॒त्यण्व्या᳚ । व॒ग्नुमि॑यर्ति॒ यं वि॒दे ॥9.014.06, 6.8.4.1
अ॒भि क्षिपः॒ सम॑ग्मत म॒र्जयं᳚तीरि॒षस्पतिं᳚ । पृ॒ष्ठा गृ॑भ्णत वा॒जिनः॑ ॥9.014.07, 6.8.4.2
परि॑ दि॒व्यानि॒ मर्मृ॑श॒द् विश्वा᳚नि सोम॒ पार्थि॑वा । वसू᳚नि याह्यस्म॒युः ॥9.014.08, 6.8.4.3
[15] एषधियेत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानःसोमोगायत्री ।
ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे᳚भिरा॒शुभिः॑ । गच्छ॒न्निंद्र॑स्य निष्कृ॒तं ॥9.015.01, 6.8.5.1
ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता᳚तये । यत्रा॒मृता᳚स॒ आस॑ते ॥9.015.02, 6.8.5.2
ए॒ष हि॒तो वि नी᳚यते॒ऽन्तः शु॒भ्राव॑ता प॒था । यदी᳚ तुं॒जंति॒ भूर्ण॑यः ॥9.015.03, 6.8.5.3
ए॒ष शृंगा᳚णि॒ दोधु॑व॒च्छिशी᳚ते यू॒थ्यो॒3॑(ओ॒) वृषा᳚ । नृ॒म्णा दधा᳚न॒ ओज॑सा ॥9.015.04, 6.8.5.4
ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभिः॑ । पतिः॒ सिंधू᳚नां॒ भव᳚न् ॥9.015.05, 6.8.5.5
ए॒ष वसू᳚नि पिब्द॒ना परु॑षा ययि॒वाँ, अति॑ । अव॒ शादे᳚षु गच्छति ॥9.015.06, 6.8.5.6
ए॒तं मृ॑जंति॒ मर्ज्य॒मुप॒ द्रोणे᳚ष्वा॒यवः॑ । प्र॒च॒क्रा॒णं म॒हीरिषः॑ ॥9.015.07, 6.8.5.7
ए॒तमु॒ त्यं दश॒ क्षिपो᳚ मृ॒जंति॑ स॒प्त धी॒तयः॑ । स्वा॒यु॒धं म॒दिंत॑मं ॥9.015.08, 6.8.5.8
[16] प्रतेसोतारैत्यष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री ।
प्र ते᳚ सो॒तार॑ ओ॒ण्यो॒3॑(ओ॒) रसं॒ मदा᳚य॒ घृष्व॑ये । सर्गो॒ न त॒क्त्येत॑शः ॥9.016.01, 6.8.6.1
क्रत्वा॒ दक्ष॑स्य र॒थ्य॑म॒पो वसा᳚न॒मंध॑सा । गो॒षामण्वे᳚षु सश्चिम ॥9.016.02, 6.8.6.2
अन॑प्तम॒प्सु दु॒ष्टरं॒ सोमं᳚ प॒वित्र॒ आ सृ॑ज । पु॒नी॒हींद्रा᳚य॒ पात॑वे ॥9.016.03, 6.8.6.3
प्र पु॑ना॒नस्य॒ चेत॑सा॒ सोमः॑ प॒वित्रे᳚ अर्षति । क्रत्वा᳚ स॒धस्थ॒मास॑दत् ॥9.016.04, 6.8.6.4
प्र त्वा॒ नमो᳚भि॒रिंद॑व॒ इंद्र॒ सोमा᳚ असृक्षत । म॒हे भरा᳚य का॒रिणः॑ ॥9.016.05, 6.8.6.5
पु॒ना॒नो रू॒पे, अ॒व्यये॒ विश्वा॒, अर्ष᳚न्न॒भि श्रियः॑ । शूरो॒ न गोषु॑ तिष्ठति ॥9.016.06, 6.8.6.6
दि॒वो न सानु॑ पि॒प्युषी॒ धारा᳚ सु॒तस्य॑ वे॒धसः॑ । वृथा᳚ प॒वित्रे᳚ अर्षति ॥9.016.07, 6.8.6.7
त्वं सो᳚म विप॒श्चितं॒ तना᳚ पुना॒न आ॒युषु॑ । अव्यो॒ वारं॒ वि धा᳚वसि ॥9.016.08, 6.8.6.8
[17] प्रनिम्नेनेवेत्य ष्टर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री ।
प्र नि॒म्नेने᳚व॒ सिंध॑वो॒ घ्नंतो᳚ वृ॒त्राणि॒ भूर्ण॑यः । सोमा᳚ असृग्रमा॒शवः॑ ॥9.017.01, 6.8.7.1
अ॒भि सु॑वा॒नास॒ इंद॑वो वृ॒ष्टयः॑ पृथि॒वीमि॑व । इंद्रं॒ सोमा᳚सो, अक्षरन् ॥9.017.02, 6.8.7.2
अत्यू᳚र्मिर्मत्स॒रो मदः॒ सोमः॑ प॒वित्रे᳚ अर्षति । वि॒घ्नन् रक्षां᳚सि देव॒युः ॥9.017.03, 6.8.7.3
आ क॒लशे᳚षु धावति प॒वित्रे॒ परि॑ षिच्यते । उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ॥9.017.04, 6.8.7.4
अति॒ त्री सो᳚म रोच॒ना रोह॒न्न भ्रा᳚जसे॒ दिवं᳚ । इ॒ष्णन् त्सूर्यं॒ न चो᳚दयः ॥9.017.05, 6.8.7.5
अ॒भि विप्रा᳚ अनूषत मू॒र्धन् य॒ज्ञस्य॑ का॒रवः॑ । दधा᳚ना॒श्चक्ष॑सि प्रि॒यं ॥9.017.06, 6.8.7.6
तमु॑ त्वा वा॒जिनं॒ नरो᳚ धी॒भिर्विप्रा᳚ अव॒स्यवः॑ । मृ॒जंति॑ दे॒वता᳚तये ॥9.017.07, 6.8.7.7
मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः । चारु᳚रृ॒ताय॑ पी॒तये᳚ ॥9.017.08, 6.8.7.8
[18] परिसुवानैति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री ।
परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो᳚ अक्षाः । मदे᳚षु सर्व॒धा, अ॑सि ॥9.018.01, 6.8.8.1
त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमंध॑सः । मदे᳚षु सर्व॒धा, अ॑सि ॥9.018.02, 6.8.8.2
तव॒ विश्वे᳚ स॒जोष॑सो दे॒वासः॑ पी॒तिमा᳚शत । मदे᳚षु सर्व॒धा, अ॑सि ॥9.018.03, 6.8.8.3
आ यो विश्वा᳚नि॒ वार्या॒ वसू᳚नि॒ हस्त॑योर्द॒धे । मदे᳚षु सर्व॒धा, अ॑सि ॥9.018.04, 6.8.8.4
य इ॒मे रोद॑सी म॒ही सं मा॒तरे᳚व॒ दोह॑ते । मदे᳚षु सर्व॒धा, अ॑सि ॥9.018.05, 6.8.8.5
परि॒ यो रोद॑सी, उ॒भे स॒द्यो वाजे᳚भि॒रर्ष॑ति । मदे᳚षु सर्व॒धा, अ॑सि ॥9.018.06, 6.8.8.6
स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो, अ॑चिक्रदत् । मदे᳚षु सर्व॒धा, अ॑सि ॥9.018.07, 6.8.8.7
[19] यत्सोमेति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमानःसोमो गायत्री ।
यत् सो᳚म चि॒त्रमु॒क्थ्यं᳚ दि॒व्यं पार्थि॑वं॒ वसु॑ । तन्नः॑ पुना॒न आ भ॑र ॥9.019.01, 6.8.9.1
यु॒वं हि स्थः स्व॑र्पती॒, इंद्र॑श्च सोम॒ गोप॑ती । ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥9.019.02, 6.8.9.2
वृषा᳚ पुना॒न आ॒युषु॑ स्त॒नय॒न्नधि॑ ब॒र्हिषि॑ । हरिः॒ सन्योनि॒मास॑दत् ॥9.019.03, 6.8.9.3
अवा᳚वशंत धी॒तयो᳚ वृष॒भस्याधि॒ रेत॑सि । सू॒नोर्व॒त्सस्य॑ मा॒तरः॑ ॥9.019.04, 6.8.9.4
कु॒विद् वृ॑ष॒ण्यंती᳚भ्यः पुना॒नो गर्भ॑मा॒दध॑त् । याः शु॒क्रं दु॑ह॒ते पयः॑ ॥9.019.05, 6.8.9.5
उप॑ शिक्षापत॒स्थुषो᳚ भि॒यस॒मा धे᳚हि॒ शत्रु॑षु । पव॑मान वि॒दा र॒यिं ॥9.019.06, 6.8.9.6
नि शत्रोः᳚ सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय॑स्तिर । दू॒रे वा᳚ स॒तो, अंति॑ वा ॥9.019.07, 6.8.9.7
[20] प्रकविरिति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री ।
प्र क॒विर्दे॒ववी᳚त॒येऽव्यो॒ वारे᳚भिरर्षति । सा॒ह्वान् विश्वा᳚ अ॒भि स्पृधः॑ ॥9.020.01, 6.8.010.01
स हि ष्मा᳚ जरि॒तृभ्य॒ आ वाजं॒ गोमं᳚त॒मिन्व॑ति । पव॑मानः सह॒स्रिणं᳚ ॥9.020.02, 6.8.010.02
परि॒ विश्वा᳚नि॒ चेत॑सा मृ॒शसे॒ पव॑से म॒ती । स नः॑ सोम॒ श्रवो᳚ विदः ॥9.020.03, 6.8.010.03
अ॒भ्य॑र्ष बृ॒हद् यशो᳚ म॒घव॑द्भ्यो ध्रु॒वं र॒यिं । इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ॥9.020.04, 6.8.010.04
त्वं राजे᳚व सुव्र॒तो गिरः॑ सो॒मा वि॑वेशिथ । पु॒ना॒नो व᳚ह्ने, अद्भुत ॥9.020.05, 6.8.010.05
स वह्नि॑र॒प्सु दु॒ष्टरो᳚ मृ॒ज्यमा᳚नो॒ गभ॑स्त्योः । सोम॑श्च॒मूषु॑ सीदति ॥9.020.06, 6.8.010.06
क्री॒ळुर्म॒खो न मं᳚ह॒युः प॒वित्रं᳚ सोम गच्छसि । दध॑त् स्तो॒त्रे सु॒वीर्यं᳚ ॥9.020.07, 6.8.010.07
[21] एतेधावंतीति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री ।
ए॒ते धा᳚वं॒तींद॑वः॒ सोमा॒, इंद्रा᳚य॒ घृष्व॑यः । म॒त्स॒रासः॑ स्व॒र्विदः॑ ॥9.021.01, 6.8.011.01
प्र॒वृ॒ण्वंतो᳚ अभि॒युजः॒ सुष्व॑ये वरिवो॒विदः॑ । स्व॒यं स्तो॒त्रे व॑य॒स्कृतः॑ ॥9.021.02, 6.8.011.02
वृथा॒ क्रीळं᳚त॒ इंद॑वः स॒धस्थ॑म॒भ्येक॒मित् । सिंधो᳚रू॒र्मा व्य॑क्षरन् ॥9.021.03, 6.8.011.03
ए॒ते विश्वा᳚नि॒ वार्या॒ पव॑मानास आशत । हि॒ता न सप्त॑यो॒ रथे᳚ ॥9.021.04, 6.8.011.04
आस्मि᳚न् पि॒शंग॑मिंदवो॒ दधा᳚ता वे॒नमा॒दिशे᳚ । यो, अ॒स्मभ्य॒मरा᳚वा ॥9.021.05, 6.8.011.05
ऋ॒भुर्न रथ्यं॒ नवं॒ दधा᳚ता॒ केत॑मा॒दिशे᳚ । शु॒क्राः प॑वध्व॒मर्ण॑सा ॥9.021.06, 6.8.011.06
ए॒त उ॒ त्ये, अ॑वीवश॒न् काष्ठां᳚ वा॒जिनो᳚ अक्रत । स॒तः प्रासा᳚विषुर्म॒तिं ॥9.021.07, 6.8.011.07
[22] एतेसोमासैति सप्तर्चस्य सूक्तस्य काश्यपोसितःपवमानःसोमोगायत्री ।
ए॒ते सोमा᳚स आ॒शवो॒ रथा᳚ इव॒ प्र वा॒जिनः॑ । सर्गाः᳚ सृ॒ष्टा, अ॑हेषत ॥9.022.01, 6.8.012.01
ए॒ते वाता᳚ इवो॒रवः॑ प॒र्जन्य॑स्येव वृ॒ष्टयः॑ । अ॒ग्नेरि॑व भ्र॒मा वृथा᳚ ॥9.022.02, 6.8.012.02
ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा᳚सो॒ दध्या᳚शिरः । वि॒पा व्या᳚नशु॒र्धियः॑ ॥9.022.03, 6.8.012.03
ए॒ते मृ॒ष्टा, अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः । इय॑क्षंतः प॒थो रजः॑ ॥9.022.04, 6.8.012.04
ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यंतो॒ व्या᳚नशुः । उ॒तेदमु॑त्त॒मं रजः॑ ॥9.022.05, 6.8.012.05
तंतुं᳚ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत । उ॒तेदमु॑त्त॒माय्यं᳚ ॥9.022.06, 6.8.012.06
त्वं सो᳚म प॒णिभ्य॒ आ वसु॒ गव्या᳚नि धारयः । त॒तं तंतु॑मचिक्रदः ॥9.022.07, 6.8.012.07
[23] सोमा असृग्रमिति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमोगायत्री ।
सोमा᳚ असृग्रमा॒शवो॒ मधो॒र्मद॑स्य॒ धार॑या । अ॒भि विश्वा᳚नि॒ काव्या᳚ ॥9.023.01, 6.8.013.01
अनु॑ प्र॒त्नास॑ आ॒यवः॑ प॒दं नवी᳚यो, अक्रमुः । रु॒चे ज॑नंत॒ सूर्यं᳚ ॥9.023.02, 6.8.013.02
आ प॑वमान नो भरा॒र्यो, अदा᳚शुषो॒ गयं᳚ । कृ॒धि प्र॒जाव॑ती॒रिषः॑ ॥9.023.03, 6.8.013.03
अ॒भि सोमा᳚स आ॒यवः॒ पवं᳚ते॒ मद्यं॒ मदं᳚ । अ॒भि कोशं᳚ मधु॒श्चुतं᳚ ॥9.023.04, 6.8.013.04
सोमो᳚ अर्षति धर्ण॒सिर्दधा᳚न इंद्रि॒यं रसं᳚ । सु॒वीरो᳚ अभिशस्ति॒पाः ॥9.023.05, 6.8.013.05
इंद्रा᳚य सोम पवसे दे॒वेभ्यः॑ सध॒माद्यः॑ । इंदो॒ वाजं᳚ सिषाससि ॥9.023.06, 6.8.013.06
अ॒स्य पी॒त्वा मदा᳚ना॒मिंद्रो᳚ वृ॒त्राण्य॑प्र॒ति । ज॒घान॑ ज॒घन॑च्च॒ नु ॥9.023.07, 6.8.013.07
[24] प्रसोमासैति सप्तर्चस्य सूक्तस्य काश्यपोसितः पवमानः सोमो गायत्री ।
प्र सोमा᳚सो, अधन्विषुः॒ पव॑मानास॒ इंद॑वः । श्री॒णा॒ना, अ॒प्सु मृं᳚जत ॥9.024.01, 6.8.014.01
अ॒भि गावो᳚ अधन्विषु॒रापो॒ न प्र॒वता᳚ य॒तीः । पु॒ना॒ना, इंद्र॑माशत ॥9.024.02, 6.8.014.02
प्र प॑वमान धन्वसि॒ सोमेंद्रा᳚य॒ पात॑वे । नृभि᳚र्य॒तो वि नी᳚यसे ॥9.024.03, 6.8.014.03
त्वं सो᳚म नृ॒माद॑नः॒ पव॑स्व चर्षणी॒सहे᳚ । सस्नि॒र्यो, अ॑नु॒माद्यः॑ ॥9.024.04, 6.8.014.04
इंदो॒ यदद्रि॑भिः सु॒तः प॒वित्रं᳚ परि॒धाव॑सि । अर॒मिंद्र॑स्य॒ धाम्ने᳚ ॥9.024.05, 6.8.014.05
पव॑स्व वृत्रहंतमो॒क्थेभि॑रनु॒माद्यः॑ । शुचिः॑ पाव॒को, अद्भु॑तः ॥9.024.06, 6.8.014.06
शुचिः॑ पाव॒क उ॑च्यते॒ सोमः॑ सु॒तस्य॒ मध्वः॑ । दे॒वा॒वीर॑घशंस॒हा ॥9.024.07, 6.8.014.07
[25] पवस्वेति षडृचस्य सूक्तस्यागस्त्योदृळ्हच्युतः पवमानः सोमोगायत्री ।
पव॑स्व दक्ष॒साध॑नो दे॒वेभ्यः॑ पी॒तये᳚ हरे । म॒रुद्भ्यो᳚ वा॒यवे॒ मदः॑ ॥9.025.01, 6.8.015.01
पव॑मान धि॒या हि॒तो॒3॑(ओ॒)ऽभि योनिं॒ कनि॑क्रदत् । धर्म॑णा वा॒युमा वि॑श ॥9.025.02, 6.8.015.02
सं दे॒वैः शो᳚भते॒ वृषा᳚ क॒विर्योना॒वधि॑ प्रि॒यः । वृ॒त्र॒हा दे᳚व॒वीत॑मः ॥9.025.03, 6.8.015.03
विश्वा᳚ रू॒पाण्या᳚वि॒शन् पु॑ना॒नो या᳚ति हर्य॒तः । यत्रा॒मृता᳚स॒ आस॑ते ॥9.025.04, 6.8.015.04
अ॒रु॒षो ज॒नय॒न् गिरः॒ सोमः॑ पवत आयु॒षक् । इंद्रं॒ गच्छ᳚न् क॒विक्र॑तुः ॥9.025.05, 6.8.015.05
आ प॑वस्व मदिंतम प॒वित्रं॒ धार॑या कवे । अ॒र्कस्य॒ योनि॑मा॒सदं᳚ ॥9.025.06, 6.8.015.06
[26] तममृक्षंतेति षडृचस्य सूक्तस्य दार्डच्युतैध्मवाहः पवमानः सोमोगायत्री ।
तम॑मृक्षंत वा॒जिन॑मु॒पस्थे॒, अदि॑ते॒रधि॑ । विप्रा᳚सो॒, अण्व्या᳚ धि॒या ॥9.026.01, 6.8.016.01
तं गावो᳚ अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तं । इंदुं᳚ ध॒र्तार॒मा दि॒वः ॥9.026.02, 6.8.016.02
तं वे॒धां मे॒धया᳚ह्य॒न् पव॑मान॒मधि॒ द्यवि॑ । ध॒र्ण॒सिं भूरि॑धायसं ॥9.026.03, 6.8.016.03
तम॑ह्यन् भु॒रिजो᳚र्धि॒या सं॒वसा᳚नं वि॒वस्व॑तः । पतिं᳚ वा॒चो, अदा᳚भ्यं ॥9.026.04, 6.8.016.04
तं साना॒वधि॑ जा॒मयो॒ हरिं᳚ हिन्वं॒त्यद्रि॑भिः । ह॒र्य॒तं भूरि॑चक्षसं ॥9.026.05, 6.8.016.05
तं त्वा᳚ हिन्वंति वे॒धसः॒ पव॑मान गिरा॒वृधं᳚ । इंद॒विंद्रा᳚य मत्स॒रं ॥9.026.06, 6.8.016.06
[27] एषकविरिति षडृचस्य सूक्तस्यांगिरसो नृमेधः पवमानः सोमो गायत्री ।
ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒, अधि॑ तोशते । पु॒ना॒नो घ्नन्नप॒ स्रिधः॑ ॥9.027.01, 6.8.017.01
ए॒ष इंद्रा᳚य वा॒यवे᳚ स्व॒र्जित् परि॑ षिच्यते । प॒वित्रे᳚ दक्ष॒साध॑नः ॥9.027.02, 6.8.017.02
ए॒ष नृभि॒र्वि नी᳚यते दि॒वो मू॒र्धा वृषा᳚ सु॒तः । सोमो॒ वने᳚षु विश्व॒वित् ॥9.027.03, 6.8.017.03
ए॒ष ग॒व्युर॑चिक्रद॒त् पव॑मानो हिरण्य॒युः । इंदुः॑ सत्रा॒जिदस्तृ॑तः ॥9.027.04, 6.8.017.04
ए॒ष सूर्ये᳚ण हासते॒ पव॑मानो॒, अधि॒ द्यवि॑ । प॒वित्रे᳚ मत्स॒रो मदः॑ ॥9.027.05, 6.8.017.05
ए॒ष शु॒ष्म्य॑सिष्यददं॒तरि॑क्षे॒ वृषा॒ हरिः॑ । पु॒ना॒न इंदु॒रिंद्र॒मा ॥9.027.06, 6.8.017.06
[28] एषवाजीति षडृचस्य सूक्तस्यांगिरसः प्रियमेधः पवमानःसोमो गायत्री ।
ए॒ष वा॒जी हि॒तो नृभि᳚र्विश्व॒विन्मन॑स॒स्पतिः॑ । अव्यो॒ वारं॒ वि धा᳚वति ॥9.028.01, 6.8.018.01
ए॒ष प॒वित्रे᳚ अक्षर॒त् सोमो᳚ दे॒वेभ्यः॑ सु॒तः । विश्वा॒ धामा᳚न्यावि॒शन् ॥9.028.02, 6.8.018.02
ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः । वृ॒त्र॒हा दे᳚व॒वीत॑मः ॥9.028.03, 6.8.018.03
ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि᳚र्य॒तः । अ॒भि द्रोणा᳚नि धावति ॥9.028.04, 6.8.018.04
ए॒ष सूर्य॑मरोचय॒त् पव॑मानो॒ विच॑र्षणिः । विश्वा॒ धामा᳚नि विश्व॒वित् ॥9.028.05, 6.8.018.05
ए॒ष शु॒ष्म्यदा᳚भ्यः॒ सोमः॑ पुना॒नो, अ॑र्षति । दे॒वा॒वीर॑घशंस॒हा ॥9.028.06, 6.8.018.06
[29] प्रास्यधाराइति षडृचस्य सूक्तस्यांगिरसोनृमेधः पवमानः सोमो गायत्री
प्रास्य॒ धारा᳚ अक्षर॒न् वृष्णः॑ सु॒तस्यौज॑सा । दे॒वाँ, अनु॑ प्र॒भूष॑तः ॥9.029.01, 6.8.019.01
सप्तिं᳚ मृजंति वे॒धसो᳚ गृ॒णंतः॑ का॒रवो᳚ गि॒रा । ज्योति॑र्जज्ञा॒नमु॒क्थ्यं᳚ ॥9.029.02, 6.8.019.02
सु॒षहा᳚ सोम॒ तानि॑ ते पुना॒नाय॑ प्रभूवसो । वर्धा᳚ समु॒द्रमु॒क्थ्यं᳚ ॥9.029.03, 6.8.019.03
विश्वा॒ वसू᳚नि सं॒जय॒न् पव॑स्व सोम॒ धार॑या । इ॒नु द्वेषां᳚सि स॒ध्र्य॑क् ॥9.029.04, 6.8.019.04
रक्षा॒ सु नो॒, अर॑रुषः स्व॒नात् स॑मस्य॒ कस्य॑ चित् । नि॒दो यत्र॑ मुमु॒च्महे᳚ ॥9.029.05, 6.8.019.05
एंदो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या । द्यु॒मंतं॒ शुष्म॒मा भ॑र ॥9.029.06, 6.8.019.06
[30] प्रधाराइति षडृचस्य सूक्तस्यांगिरसो बिंदुः पवमानःसोमोगायत्री ।
प्र धारा᳚ अस्य शु॒ष्मिणो॒ वृथा᳚ प॒वित्रे᳚ अक्षरन् । पु॒ना॒नो वाच॑मिष्यति ॥9.030.01, 6.8.020.01
इंदु᳚र्हिया॒नः सो॒तृभि᳚र्मृ॒ज्यमा᳚नः॒ कनि॑क्रदत् । इय॑र्ति व॒ग्नुमिं᳚द्रि॒यं ॥9.030.02, 6.8.020.02
आ नः॒ शुष्मं᳚ नृ॒षाह्यं᳚ वी॒रवं᳚तं पुरु॒स्पृहं᳚ । पव॑स्व सोम॒ धार॑या ॥9.030.03, 6.8.020.03
प्र सोमो॒, अति॒ धार॑या॒ पव॑मानो, असिष्यदत् । अ॒भि द्रोणा᳚न्या॒सदं᳚ ॥9.030.04, 6.8.020.04
अ॒प्सु त्वा॒ मधु॑मत्तमं॒ हरिं᳚ हिन्वं॒त्यद्रि॑भिः । इंद॒विंद्रा᳚य पी॒तये᳚ ॥9.030.05, 6.8.020.05
सु॒नोता॒ मधु॑मत्तमं॒ सोम॒मिंद्रा᳚य व॒ज्रिणे᳚ । चारुं॒ शर्धा᳚य मत्स॒रं ॥9.030.06, 6.8.020.06
[31] प्रसोमासैति षडृचस्य सूक्तस्य राहूगणोगोतमःपवमानः सोमोगायत्री ।
प्र सोमा᳚सः स्वा॒ध्य१॑(अः॒) पव॑मानासो, अक्रमुः । र॒यिं कृ᳚ण्वंति॒ चेत॑नं ॥9.031.01, 6.8.021.01
दि॒वस्पृ॑थि॒व्या, अधि॒ भवें᳚दो द्युम्न॒वर्ध॑नः । भवा॒ वाजा᳚नां॒ पतिः॑ ॥9.031.02, 6.8.021.02
तुभ्यं॒ वाता᳚ अभि॒प्रिय॒स्तुभ्य॑मर्षंति॒ सिंध॑वः । सोम॒ वर्धं᳚ति ते॒ महः॑ ॥9.031.03, 6.8.021.03
आ प्या᳚यस्व॒ समे᳚तु ते वि॒श्वतः॑ सोम॒ वृष्ण्यं᳚ । भवा॒ वाज॑स्य संग॒थे ॥9.031.04, 6.8.021.04
तुभ्यं॒ गावो᳚ घृ॒तं पयो॒ बभ्रो᳚ दुदु॒ह्रे, अक्षि॑तं । वर्षि॑ष्ठे॒, अधि॒ सान॑वि ॥9.031.05, 6.8.021.05
स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यं । इंदो᳚ सखि॒त्वमु॑श्मसि ॥9.031.06, 6.8.021.06
[32] प्रसोमासैति षडृचस्य सूक्तस्यात्रेयः श्यावाश्वः पवमानः सोमो गायत्री
प्र सोमा᳚सो मद॒च्युतः॒ श्रव॑से नो म॒घोनः॑ । सु॒ता वि॒दथे᳚ अक्रमुः ॥9.032.01, 6.8.022.01
आदीं᳚ त्रि॒तस्य॒ योष॑णो॒ हरिं᳚ हिन्वं॒त्यद्रि॑भिः । इंदु॒मिंद्रा᳚य पी॒तये᳚ ॥9.032.02, 6.8.022.02
आदीं᳚ हं॒सो यथा᳚ ग॒णं विश्व॑स्यावीवशन्म॒तिं । अत्यो॒ न गोभि॑रज्यते ॥9.032.03, 6.8.022.03
उ॒भे सो᳚माव॒चाक॑शन् मृ॒गो न त॒क्तो, अ॑र्षसि । सीद᳚न्नृ॒तस्य॒ योनि॒मा ॥9.032.04, 6.8.022.04
अ॒भि गावो᳚ अनूषत॒ योषा᳚ जा॒रमि॑व प्रि॒यं । अग᳚न्ना॒जिं यथा᳚ हि॒तं ॥9.032.05, 6.8.022.05
अ॒स्मे धे᳚हि द्यु॒मद् यशो᳚ म॒घव॑द्भ्यश्च॒ मह्यं᳚ च । स॒निं मे॒धामु॒त श्रवः॑ ॥9.032.06, 6.8.022.06
[33] प्रसोमासैति षडृचस्य सूक्तस्याप्त्यस्त्रितः पवमानः सोमोगायत्री ।
प्र सोमा᳚सो विप॒श्चितो॒ऽपां न यं᳚त्यू॒र्मयः॑ । वना᳚नि महि॒षा, इ॑व ॥9.033.01, 6.8.023.01
अ॒भि द्रोणा᳚नि ब॒भ्रवः॑ शु॒क्रा ऋ॒तस्य॒ धार॑या । वाजं॒ गोमं᳚तमक्षरन् ॥9.033.02, 6.8.023.02
सु॒ता, इंद्रा᳚य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ । सोमा᳚ अर्षंति॒ विष्ण॑वे ॥9.033.03, 6.8.023.03
ति॒स्रो वाच॒ उदी᳚रते॒ गावो᳚ मिमंति धे॒नवः॑ । हरि॑रेति॒ कनि॑क्रदत् ॥9.033.04, 6.8.023.04
अ॒भि ब्रह्मी᳚रनूषत य॒ह्वीरृ॒तस्य॑ मा॒तरः॑ । म॒र्मृ॒ज्यंते᳚ दि॒वः शिशुं᳚ ॥9.033.05, 6.8.023.05
रा॒यः स॑मु॒द्राँश्च॒तुरो॒ऽस्मभ्यं᳚ सोम वि॒श्वतः॑ । आ प॑वस्व सह॒स्रिणः॑ ॥9.033.06, 6.8.023.06
[34] प्रसुवानैति षडृचस्य सूक्तस्याप्त्यस्त्रितः पवमानः सोमोगायत्री ।
प्र सु॑वा॒नो धार॑या॒ तनेंदु᳚र्हिन्वा॒नो, अ॑र्षति । रु॒जद्दृ॒ळ्हा व्योज॑सा ॥9.034.01, 6.8.024.01
सु॒त इंद्रा᳚य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ । सोमो᳚ अर्षति॒ विष्ण॑वे ॥9.034.02, 6.8.024.02
वृषा᳚णं॒ वृष॑भिर्य॒तं सु॒न्वंति॒ सोम॒मद्रि॑भिः । दु॒हंति॒ शक्म॑ना॒ पयः॑ ॥9.034.03, 6.8.024.03
भुव॑त् त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिंद्रा᳚य मत्स॒रः । सं रू॒पैर॑ज्यते॒ हरिः॑ ॥9.034.04, 6.8.024.04
अ॒भीमृ॒तस्य॑ वि॒ष्टपं᳚ दुह॒ते पृश्नि॑मातरः । चारु॑ प्रि॒यत॑मं ह॒विः ॥9.034.05, 6.8.024.05
समे᳚न॒मह्रु॑ता, इ॒मा गिरो᳚ अर्षंति स॒स्रुतः॑ । धे॒नूर्वा॒श्रो, अ॑वीवशत् ॥9.034.06, 6.8.024.06
[35] आनःपवस्वेति षडृचस्य सूक्तस्यांगिरसःप्रभूवसुः पवमानःसोमोगायत्री ।
आ नः॑ पवस्व॒ धार॑या॒ पव॑मान र॒यिं पृ॒थुं । यया॒ ज्योति᳚र्वि॒दासि॑ नः ॥9.035.01, 6.8.025.01
इंदो᳚ समुद्रमींखय॒ पव॑स्व विश्वमेजय । रा॒यो ध॒र्ता न॒ ओज॑सा ॥9.035.02, 6.8.025.02
त्वया᳚ वी॒रेण॑ वीरवो॒ऽभि ष्या᳚म पृतन्य॒तः । क्षरा᳚ णो, अ॒भि वार्यं᳚ ॥9.035.03, 6.8.025.03
प्र वाज॒मिंदु॑रिष्यति॒ सिषा᳚सन् वाज॒सा ऋषिः॑ । व्र॒ता वि॑दा॒न आयु॑धा ॥9.035.04, 6.8.025.04
तं गी॒र्भिर्वा᳚चमींख॒यं पु॑ना॒नं वा᳚सयामसि । सोमं॒ जन॑स्य॒ गोप॑तिं ॥9.035.05, 6.8.025.05
विश्वो॒ यस्य᳚ व्र॒ते जनो᳚ दा॒धार॒ धर्म॑ण॒स्पतेः᳚ । पु॒ना॒नस्य॑ प्र॒भूव॑सोः ॥9.035.06, 6.8.025.06
[36] असर्जीति षडृचस्य सूक्तस्यांगिरसः प्रभूवसुः पवमानःसोमोगायत्री ।
अस॑र्जि॒ रथ्यो᳚ यथा प॒वित्रे᳚ च॒म्वोः᳚ सु॒तः । कार्ष्म᳚न् वा॒जी न्य॑क्रमीत् ॥9.036.01, 6.8.026.01
स वह्निः॑ सोम॒ जागृ॑विः॒ पव॑स्व देव॒वीरति॑ । अ॒भि कोशं᳚ मधु॒श्चुतं᳚ ॥9.036.02, 6.8.026.02
स नो॒ ज्योतीं᳚षि पूर्व्य॒ पव॑मान॒ वि रो᳚चय । क्रत्वे॒ दक्षा᳚य नो हिनु ॥9.036.03, 6.8.026.03
शुं॒भमा᳚न ऋता॒युभि᳚र्मृ॒ज्यमा᳚नो॒ गभ॑स्त्योः । पव॑ते॒ वारे᳚ अ॒व्यये᳚ ॥9.036.04, 6.8.026.04
स विश्वा᳚ दा॒शुषे॒ वसु॒ सोमो᳚ दि॒व्यानि॒ पार्थि॑वा । पव॑ता॒मांतरि॑क्ष्या ॥9.036.05, 6.8.026.05
आ दि॒वस्पृ॒ष्ठम॑श्व॒युर्ग᳚व्य॒युः सो᳚म रोहसि । वी॒र॒युः श॑वसस्पते ॥9.036.06, 6.8.026.06
[37] ससुतैति षडृचस्यसूक्तस्यांगिरसोरहूगणः पवमानः सोमो गायत्री ।
स सु॒तः पी॒तये॒ वृषा॒ सोमः॑ प॒वित्रे᳚ अर्षति । वि॒घ्नन् रक्षां᳚सि देव॒युः ॥9.037.01, 6.8.027.01
स प॒वित्रे᳚ विचक्ष॒णो हरि॑रर्षति धर्ण॒सिः । अ॒भि योनिं॒ कनि॑क्रदत् ॥9.037.02, 6.8.027.02
स वा॒जी रो᳚च॒ना दि॒वः पव॑मानो॒ वि धा᳚वति । र॒क्षो॒हा वार॑म॒व्ययं᳚ ॥9.037.03, 6.8.027.03
स त्रि॒तस्याधि॒ सान॑वि॒ पव॑मानो, अरोचयत् । जा॒मिभिः॒ सूर्यं᳚ स॒ह ॥9.037.04, 6.8.027.04
स वृ॑त्र॒हा वृषा᳚ सु॒तो व॑रिवो॒विददा᳚भ्यः । सोमो॒ वाज॑मिवासरत् ॥9.037.05, 6.8.027.05
स दे॒वः क॒विने᳚षि॒तो॒3॑(ओ॒)ऽभि द्रोणा᳚नि धावति । इंदु॒रिंद्रा᳚य मं॒हना᳚ ॥9.037.06, 6.8.027.06
[38] एषौस्यैति षडृचस्य सूक्तस्यांगिरसोरहूगणः पवमानः सोमोगायत्री ।
ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे᳚भिरर्षति । गच्छ॒न् वाजं᳚ सह॒स्रिणं᳚ ॥9.038.01, 6.8.028.01
ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरिं᳚ हिन्वं॒त्यद्रि॑भिः । इंदु॒मिंद्रा᳚य पी॒तये᳚ ॥9.038.02, 6.8.028.02
ए॒तं त्यं ह॒रितो॒ दश॑ मर्मृ॒ज्यंते᳚ अप॒स्युवः॑ । याभि॒र्मदा᳚य॒ शुंभ॑ते ॥9.038.03, 6.8.028.03
ए॒ष स्य मानु॑षी॒ष्वा श्ये॒नो न वि॒क्षु सी᳚दति । गच्छं᳚जा॒रो न यो॒षितं᳚ ॥9.038.04, 6.8.028.04
ए॒ष स्य मद्यो॒ रसोऽव॑ चष्टे दि॒वः शिशुः॑ । य इंदु॒र्वार॒मावि॑शत् ॥9.038.05, 6.8.028.05
ए॒ष स्य पी॒तये᳚ सु॒तो हरि॑रर्षति धर्ण॒सिः । क्रंद॒न् योनि॑म॒भि प्रि॒यं ॥9.038.06, 6.8.028.06
[39] आशुरर्षेति षडृचस्य सूक्तस्यांगिरसो बृहन्मतिः पवमानःसोमोगायत्री ।
आ॒शुर॑र्ष बृहन्मते॒ परि॑ प्रि॒येण॒ धाम्ना᳚ । यत्र॑ दे॒वा, इति॒ ब्रव᳚न् ॥9.039.01, 6.8.029.01
प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒ जना᳚य या॒तय॒न्निषः॑ । वृ॒ष्टिं दि॒वः परि॑ स्रव ॥9.039.02, 6.8.029.02
सु॒त ए᳚ति प॒वित्र॒ आ त्विषिं॒ दधा᳚न॒ ओज॑सा । वि॒चक्षा᳚णो विरो॒चय᳚न् ॥9.039.03, 6.8.029.03
अ॒यं स यो दि॒वस्परि॑ रघु॒यामा᳚ प॒वित्र॒ आ । सिंधो᳚रू॒र्मा व्यक्ष॑रत् ॥9.039.04, 6.8.029.04
आ॒विवा᳚सन् परा॒वतो॒, अथो᳚ अर्वा॒वतः॑ सु॒तः । इंद्रा᳚य सिच्यते॒ मधु॑ ॥9.039.05, 6.8.029.05
स॒मी॒ची॒ना, अ॑नूषत॒ हरिं᳚ हिन्वं॒त्यद्रि॑भिः । योना᳚वृ॒तस्य॑ सीदत ॥9.039.06, 6.8.029.06
[40] पुनानैति षडृचस्य सूक्तस्यांगिरसो बृहन्मतिः पवमानःसोमोगायत्री ।
पु॒ना॒नो, अ॑क्रमीद॒भि विश्वा॒ मृधो॒ विच॑र्षणिः । शुं॒भंति॒ विप्रं᳚ धी॒तिभिः॑ ॥9.040.01, 6.8.030.01
आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिंद्रं॒ वृषा᳚ सु॒तः । ध्रु॒वे सद॑सि सीदति ॥9.040.02, 6.8.030.02
नू नो᳚ र॒यिं म॒हामिं᳚दो॒ऽस्मभ्यं᳚ सोम वि॒श्वतः॑ । आ प॑वस्व सह॒स्रिणं᳚ ॥9.040.03, 6.8.030.03
विश्वा᳚ सोम पवमान द्यु॒म्नानीं᳚द॒वा भ॑र । वि॒दाः स॑ह॒स्रिणी॒रिषः॑ ॥9.040.04, 6.8.030.04
स नः॑ पुना॒न आ भ॑र र॒यिं स्तो॒त्रे सु॒वीर्यं᳚ । ज॒रि॒तुर्व॑र्धया॒ गिरः॑ ॥9.040.05, 6.8.030.05
पु॒ना॒न इं᳚द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिं । वृष᳚न्निंदो न उ॒क्थ्यं᳚ ॥9.040.06, 6.8.030.06
[41] प्रयेगावैतिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानःसोमो गायत्री ।
प्र ये गावो॒ न भूर्ण॑यस्त्वे॒षा, अ॒यासो॒, अक्र॑मुः । घ्नंतः॑ कृ॒ष्णामप॒ त्वचं᳚ ॥9.041.01, 6.8.031.01
सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं᳚ दुरा॒व्यं᳚ । सा॒ह्वांसो॒ दस्यु॑मव्र॒तं ॥9.041.02, 6.8.031.02
शृ॒ण्वे वृ॒ष्टेरि॑व स्व॒नः पव॑मानस्य शु॒ष्मिणः॑ । चरं᳚ति वि॒द्युतो᳚ दि॒वि ॥9.041.03, 6.8.031.03
आ प॑वस्व म॒हीमिषं॒ गोम॑दिंदो॒ हिर᳚ण्यवत् । अश्वा᳚व॒द् वाज॑वत् सु॒तः ॥9.041.04, 6.8.031.04
स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण । उ॒षाः सूर्यो॒ न र॒श्मिभिः॑ ॥9.041.05, 6.8.031.05
परि॑ णः शर्म॒यंत्या॒ धार॑या सोम वि॒श्वतः॑ । सरा᳚ र॒सेव॑ वि॒ष्टपं᳚ ॥9.041.06, 6.8.031.06
[42] जनयन्नितिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानःसोमो गायत्री ।
ज॒नय᳚न् रोच॒ना दि॒वो ज॒नय᳚न्न॒प्सु सूर्यं᳚ । वसा᳚नो॒ गा, अ॒पो हरिः॑ ॥9.042.01, 6.8.032.01
ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ । धार॑या पवते सु॒तः ॥9.042.02, 6.8.032.02
वा॒वृ॒धा॒नाय॒ तूर्व॑ये॒ पवं᳚ते॒ वाज॑सातये । सोमाः᳚ स॒हस्र॑पाजसः ॥9.042.03, 6.8.032.03
दु॒हा॒नः प्र॒त्नमित् पयः॑ प॒वित्रे॒ परि॑ षिच्यते । क्रंद᳚न् दे॒वाँ, अ॑जीजनत् ॥9.042.04, 6.8.032.04
अ॒भि विश्वा᳚नि॒ वार्या॒भि दे॒वाँ ऋ॑ता॒वृधः॑ । सोमः॑ पुना॒नो, अ॑र्षति ॥9.042.05, 6.8.032.05
गोम᳚न्नः सोम वी॒रव॒दश्वा᳚व॒द् वाज॑वत् सु॒तः । पव॑स्व बृह॒तीरिषः॑ ॥9.042.06, 6.8.032.06
[43] योअत्यैवेतिषडृचस्य सूक्तस्यकाण्वोमेध्यातिथिः पवमानःसोमो गायत्री ।
यो, अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा᳚य हर्य॒तः । तं गी॒र्भिर्वा᳚सयामसि ॥9.043.01, 6.8.033.01
तं नो॒ विश्वा᳚ अव॒स्युवो॒ गिरः॑ शुंभंति पू॒र्वथा᳚ । इंदु॒मिंद्रा᳚य पी॒तये᳚ ॥9.043.02, 6.8.033.02
पु॒ना॒नो या᳚ति हर्य॒तः सोमो᳚ गी॒र्भिः परि॑ष्कृतः । विप्र॑स्य॒ मेध्या᳚तिथेः ॥9.043.03, 6.8.033.03
पव॑मान वि॒दा र॒यिम॒स्मभ्यं᳚ सोम सु॒श्रियं᳚ । इंदो᳚ स॒हस्र॑वर्चसं ॥9.043.04, 6.8.033.04
इंदु॒रत्यो॒ न वा᳚ज॒सृत् कनि॑क्रंति प॒वित्र॒ आ । यदक्षा॒रति॑ देव॒युः ॥9.043.05, 6.8.033.05
पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे । सोम॒ रास्व॑ सु॒वीर्यं᳚ ॥9.043.06, 6.8.033.06
पवमान पारायण तृतीयोध्यायः
[44] प्रणैंदविति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानःसोमो गायत्री ।
प्र ण॑ इंदो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि । अ॒भि दे॒वाँ, अ॒यास्यः॑ ॥9.044.01, 7.1.1.1
म॒ती जु॒ष्टो धि॒या हि॒तः सोमो᳚ हिन्वे परा॒वति॑ । विप्र॑स्य॒ धार॑या क॒विः ॥9.044.02, 7.1.1.2
अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए᳚ति प॒वित्र॒ आ । सोमो᳚ याति॒ विच॑र्षणिः ॥9.044.03, 7.1.1.3
स नः॑ पवस्व वाज॒युश्च॑क्रा॒णश् चारु॑मध्व॒रं । ब॒र्हिष्माँ॒, आ वि॑वासति ॥9.044.04, 7.1.1.4
स नो॒ भगा᳚य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः । सोमो᳚ दे॒वेष्वा य॑मत् ॥9.044.05, 7.1.1.5
स नो᳚ अ॒द्य वसु॑त्तये क्रतु॒विद् गा᳚तु॒वित्त॑मः । वाजं᳚ जेषि॒ श्रवो᳚ बृ॒हत् ॥9.044.06, 7.1.1.6
[45] स पवस्वेति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानःसोमो गायत्री ।
स प॑वस्व॒ मदा᳚य॒ कं नृ॒चक्षा᳚ दे॒ववी᳚तये । इंद॒विंद्रा᳚य पी॒तये᳚ ॥9.045.01, 7.1.2.1
स नो᳚ अर्षा॒भि दू॒त्य१॑(अं॒) त्वमिंद्रा᳚य तोशसे । दे॒वान् त्सखि॑भ्य॒ आ वरं᳚ ॥9.045.02, 7.1.2.2
उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रंज्मो॒ मदा᳚य॒ कं । वि नो᳚ रा॒ये दुरो᳚ वृधि ॥9.045.03, 7.1.2.3
अत्यू᳚ प॒वित्र॑मक्रमीद् वा॒जी धुरं॒ न याम॑नि । इंदु॑र्दे॒वेषु॑ पत्यते ॥9.045.04, 7.1.2.4
समी॒ सखा᳚यो, अस्वर॒न् वने॒ क्रीळं᳚त॒मत्य॑विं । इंदुं᳚ ना॒वा, अ॑नूषत ॥9.045.05, 7.1.2.5
तया᳚ पवस्व॒ धार॑या॒ यया᳚ पी॒तो वि॒चक्ष॑से । इंदो᳚ स्तो॒त्रे सु॒वीर्यं᳚ ॥9.045.06, 7.1.2.6
[46] असृग्रनिति षडृचस्य सूक्तस्यांगिरसोयास्यः पवमानःसोमो गायत्री ।
असृ॑ग्रन् दे॒ववी᳚त॒येऽत्या᳚सः॒ कृत्व्या᳚ इव । क्षरं᳚तः पर्वता॒वृधः॑ ॥9.046.01, 7.1.3.1
परि॑ष्कृतास॒ इंद॑वो॒ योषे᳚व॒ पित्र्या᳚वती । वा॒युं सोमा᳚ असृक्षत ॥9.046.02, 7.1.3.2
ए॒ते सोमा᳚स॒ इंद॑वः॒ प्रय॑स्वंतश्च॒मू सु॒ताः । इंद्रं᳚ वर्धंति॒ कर्म॑भिः ॥9.046.03, 7.1.3.3
आ धा᳚वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत मं॒थिना᳚ । गोभिः॑ श्रीणीत मत्स॒रं ॥9.046.04, 7.1.3.4
स प॑वस्व धनंजय प्रयं॒ता राध॑सो म॒हः । अ॒स्मभ्यं᳚ सोम गातु॒वित् ॥9.046.05, 7.1.3.5
ए॒तं मृ॑जंति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ । इंद्रा᳚य मत्स॒रं मदं᳚ ॥9.046.06, 7.1.3.6
[47] अयासोमैति पंचर्चस्य सूक्तस्य भार्गवःकविः पवमानःसोमो गायत्री
अ॒या सोमः॑ सुकृ॒त्यया᳚ म॒हश्चि॑द॒भ्य॑वर्धत । मं॒दा॒न उद् वृ॑षायते ॥9.047.01, 7.1.4.1
कृ॒तानीद॑स्य॒ कर्त्वा॒ चेतं᳚ते दस्यु॒तर्ह॑णा । ऋ॒णा च॑ धृ॒ष्णुश्च॑यते ॥9.047.02, 7.1.4.2
आत् सोम॑ इंद्रि॒यो रसो॒ वज्रः॑ सहस्र॒सा भु॑वत् । उ॒क्थं यद॑स्य॒ जाय॑ते ॥9.047.03, 7.1.4.3
स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा᳚य॒ रत्न॑मिच्छति । यदी᳚ मर्मृ॒ज्यते॒ धियः॑ ॥9.047.04, 7.1.4.4
सि॒षा॒सतू᳚ रयी॒णां वाजे॒ष्वर्व॑तामिव । भरे᳚षु जि॒ग्युषा᳚मसि ॥9.047.05, 7.1.4.5
[48] तंत्वेति पंचर्चस्य सूक्तस्य भार्गवःकविः पवमानःसोमो गायत्री ।
तं त्वा᳚ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे᳚षु म॒हो दि॒वः । चारुं᳚ सुकृ॒त्यये᳚महे ॥9.048.01, 7.1.5.1
संवृ॑क्तधृष्णुमु॒क्थ्यं᳚ म॒हाम॑हिव्रतं॒ मदं᳚ । श॒तं पुरो᳚ रुरु॒क्षणिं᳚ ॥9.048.02, 7.1.5.2
अत॑स्त्वा र॒यिम॒भि राजा᳚नं सुक्रतो दि॒वः । सु॒प॒र्णो, अ᳚व्य॒थिर्भ॑रत् ॥9.048.03, 7.1.5.3
विश्व॑स्मा॒, इत् स्व॑र्दृ॒शे साधा᳚रणं रज॒स्तुरं᳚ । गो॒पामृ॒तस्य॒ विर्भ॑रत् ॥9.048.04, 7.1.5.4
अधा᳚ हिन्वा॒न इं᳚द्रि॒यं ज्यायो᳚ महि॒त्वमा᳚नशे । अ॒भि॒ष्टि॒कृद् विच॑र्षणिः ॥9.048.05, 7.1.5.5
[49] पवस्वेति पंचर्चस्य सूक्तस्य भार्गवःकविः पवमानःसोमो गायत्री ।
पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ । अ॒य॒क्ष्मा बृ॑ह॒तीरिषः॑ ॥9.049.01, 7.1.6.1
तया᳚ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम᳚न् । जन्या᳚स॒ उप॑ नो गृ॒हं ॥9.049.02, 7.1.6.2
घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः । अ॒स्मभ्यं᳚ वृ॒ष्टिमा प॑व ॥9.049.03, 7.1.6.3
स न॑ ऊ॒र्जे व्य१॑(अ॒)व्ययं᳚ प॒वित्रं᳚ धाव॒ धार॑या । दे॒वासः॑ शृ॒णव॒न् हि कं᳚ ॥9.049.04, 7.1.6.4
पव॑मानो, असिष्यद॒द् रक्षां᳚स्यप॒जंघ॑नत् । प्र॒त्न॒वद् रो॒चय॒न् रुचः॑ ॥9.049.05, 7.1.6.5
[50] उत्तेशुष्मासैति पंचर्चस्य सूक्तस्यांगिरस उचथ्यः पवमानः सोमोगायत्री ।
उत्ते॒ शुष्मा᳚स ईरते॒ सिंधो᳚रू॒र्मेरि॑व स्व॒नः । वा॒णस्य॑ चोदया प॒विं ॥9.050.01, 7.1.7.1
प्र॒स॒वे त॒ उदी᳚रते ति॒स्रो वाचो᳚ मख॒स्युवः॑ । यदव्य॒ एषि॒ सान॑वि ॥9.050.02, 7.1.7.2
अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं᳚ हिन्वं॒त्यद्रि॑भिः । पव॑मानं मधु॒श्चुतं᳚ ॥9.050.03, 7.1.7.3
आ प॑वस्व मदिंतम प॒वित्रं॒ धार॑या कवे । अ॒र्कस्य॒ योनि॑मा॒सदं᳚ ॥9.050.04, 7.1.7.4
स प॑वस्व मदिंतम॒ गोभि॑रंजा॒नो, अ॒क्तुभिः॑ । इंद॒विंद्रा᳚य पी॒तये᳚ ॥9.050.05, 7.1.7.5
[51] अध्वर्यविति पंचर्चस्य सूक्तस्यांगिरस उचथ्यः पवमानः सोमोगायत्री ।
अध्व᳚र्यो॒, अद्रि॑भिः सु॒तं सोमं᳚ प॒वित्र॒ आ सृ॑ज । पु॒नी॒हींद्रा᳚य॒ पात॑वे ॥9.051.01, 7.1.8.1
दि॒वः पी॒यूष॑मुत्त॒मं सोम॒मिंद्रा᳚य व॒ज्रिणे᳚ । सु॒नोता॒ मधु॑मत्तमं ॥9.051.02, 7.1.8.2
तव॒ त्य इं᳚दो॒, अंध॑सो दे॒वा मधो॒र्व्य॑श्नते । पव॑मानस्य म॒रुतः॑ ॥9.051.03, 7.1.8.3
त्वं हि सो᳚म व॒र्धय᳚न् त्सु॒तो मदा᳚य॒ भूर्ण॑ये । वृषं᳚त् स्तो॒तार॑मू॒तये᳚ ॥9.051.04, 7.1.8.4
अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः । अ॒भि वाज॑मु॒त श्रवः॑ ॥9.051.05, 7.1.8.5
[52] परिद्युक्षैति पंचर्चस्य सूक्तस्यांगिरस उचथ्यः पवमानः सोमोगायत्री ।
परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं᳚ नो॒, अंध॑सा । सु॒वा॒नो, अ॑र्ष प॒वित्र॒ आ ॥9.052.01, 7.1.9.1
तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः । स॒हस्र॑धारो या॒त्तना᳚ ॥9.052.02, 7.1.9.2
च॒रुर्न यस्तमीं᳚ख॒येंदो॒ न दान॑मींखय । व॒धैर्व॑धस्नवींखय ॥9.052.03, 7.1.9.3
नि शुष्म॑मिंदवेषां॒ पुरु॑हूत॒ जना᳚नां । यो, अ॒स्माँ, आ॒दिदे᳚शति ॥9.052.04, 7.1.9.4
श॒तं न॑ इंद ऊ॒तिभिः॑ स॒हस्रं᳚ वा॒ शुची᳚नां । पव॑स्व मंह॒यद्र॑यिः ॥9.052.05, 7.1.9.5
[53] उत्तेशुष्मासैति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानः सोमोगायत्री ।
उत्ते॒ शुष्मा᳚सो, अस्थू॒ रक्षो᳚ भिं॒दंतो᳚ अद्रिवः । नु॒दस्व॒ याः प॑रि॒स्पृधः॑ ॥9.053.01, 7.1.010.01
अ॒या नि॑ज॒घ्निरोज॑सा रथसं॒गे धने᳚ हि॒ते । स्तवा॒, अबि॑भ्युषा हृ॒दा ॥9.053.02, 7.1.010.02
अस्य᳚ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ढ्या᳚ । रु॒ज यस्त्वा᳚ पृत॒न्यति॑ ॥9.053.03, 7.1.010.03
तं हि᳚न्वंति मद॒च्युतं॒ हरिं᳚ न॒दीषु॑ वा॒जिनं᳚ । इंदु॒मिंद्रा᳚य मत्स॒रं ॥9.053.04, 7.1.010.04
[54] अस्यप्रत्नामिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानःसोमोगायत्री ।
अ॒स्य प्र॒त्नामनु॒ द्युतं᳚ शु॒क्रं दु॑दुह्रे॒, अह्र॑यः । पयः॑ सहस्र॒सामृषिं᳚ ॥9.054.01, 7.1.011.01
अ॒यं सूर्य॑ इवोप॒दृग॒यं सरां᳚सि धावति । स॒प्त प्र॒वत॒ आ दिवं᳚ ॥9.054.02, 7.1.011.02
अ॒यं विश्वा᳚नि तिष्ठति पुना॒नो भुव॑नो॒परि॑ । सोमो᳚ दे॒वो न सूर्यः॑ ॥9.054.03, 7.1.011.03
परि॑ णो दे॒ववी᳚तये॒ वाजाँ᳚, अर्षसि॒ गोम॑तः । पु॒ना॒न इं᳚दविंद्र॒युः ॥9.054.04, 7.1.011.04
[55] यवंयवमिति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानःसोमोगायत्री ।
यवं᳚यवं नो॒, अंध॑सा पु॒ष्टंपु॑ष्टं॒ परि॑ स्रव । सोम॒ विश्वा᳚ च॒ सौभ॑गा ॥9.055.01, 7.1.012.01
इंदो॒ यथा॒ तव॒ स्तवो॒ यथा᳚ ते जा॒तमंध॑सः । नि ब॒र्हिषि॑ प्रि॒ये स॑दः ॥9.055.02, 7.1.012.02
उ॒त नो᳚ गो॒विद॑श्व॒वित् पव॑स्व सो॒मांध॑सा । म॒क्षूत॑मेभि॒रह॑भिः ॥9.055.03, 7.1.012.03
यो जि॒नाति॒ न जीय॑ते॒ हंति॒ शत्रु॑म॒भीत्य॑ । स प॑वस्व सहस्रजित् ॥9.055.04, 7.1.012.04
[56] परिसोमैति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानःसोमोगायत्री ।
परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे᳚ अर्षति । वि॒घ्नन् रक्षां᳚सि देव॒युः ॥9.056.01, 7.1.013.01
यत् सोमो॒ वाज॒मर्ष॑ति श॒तं धारा᳚ अप॒स्युवः॑ । इंद्र॑स्य स॒ख्यमा᳚वि॒शन् ॥9.056.02, 7.1.013.02
अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या᳚नूषत । मृ॒ज्यसे᳚ सोम सा॒तये᳚ ॥9.056.03, 7.1.013.03
त्वमिंद्रा᳚य॒ विष्ण॑वे स्वा॒दुरिं᳚दो॒ परि॑ स्रव । नॄंत् स्तो॒तॄन् पा॒ह्यंह॑सः ॥9.056.04, 7.1.013.04
[57] प्रतेधाराइति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानःसोमोगायत्री ।
प्र ते॒ धारा᳚ अस॒श्चतो᳚ दि॒वो न यं᳚ति वृ॒ष्टयः॑ । अच्छा॒ वाजं᳚ सह॒स्रिणं᳚ ॥9.057.01, 7.1.014.01
अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा᳚णो, अर्षति । हरि॑स्तुंजा॒न आयु॑धा ॥9.057.02, 7.1.014.02
स म᳚र्मृजा॒न आ॒युभि॒रिभो॒ राजे᳚व सुव्र॒तः । श्ये॒नो न वंसु॑ षीदति ॥9.057.03, 7.1.014.03
स नो॒ विश्वा᳚ दि॒वो वसू॒तो पृ॑थि॒व्या, अधि॑ । पु॒ना॒न इं᳚द॒वा भ॑र ॥9.057.04, 7.1.014.04
[58] तरत्समंदीति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानःसोमोगायत्री ।
तर॒त् स मं॒दी धा᳚वति॒ धारा᳚ सु॒तस्यांध॑सः । तर॒त् स मं॒दी धा᳚वति ॥9.058.01, 7.1.015.01
उ॒स्रा वे᳚द॒ वसू᳚नां॒ मर्त॑स्य दे॒व्यव॑सः । तर॒त् स मं॒दी धा᳚वति ॥9.058.02, 7.1.015.02
ध्व॒स्रयोः᳚ पुरु॒षंत्यो॒रा स॒हस्रा᳚णि दद्महे । तर॒त् स मं॒दी धा᳚वति ॥9.058.03, 7.1.015.03
आ ययो᳚स्त्रिं॒शतं॒ तना᳚ स॒हस्रा᳚णि च॒ दद्म॑हे । तर॒त् स मं॒दी धा᳚वति ॥9.058.04, 7.1.015.04
[59] पवस्वेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानःसोमोगायत्री ।
पव॑स्व गो॒जिद॑श्व॒जिद् वि॑श्व॒जित् सो᳚म रण्य॒जित् । प्र॒जाव॒द् रत्न॒मा भ॑र ॥9.059.01, 7.1.016.01
पव॑स्वा॒द्भ्यो, अदा᳚भ्यः॒ पव॒स्वौष॑धीभ्यः । पव॑स्व धि॒षणा᳚भ्यः ॥9.059.02, 7.1.016.02
त्वं सो᳚म॒ पव॑मानो॒ विश्वा᳚नि दुरि॒ता त॑र । क॒विः सी᳚द॒ नि ब॒र्हिषि॑ ॥9.059.03, 7.1.016.03
पव॑मान॒ स्व᳚र्विदो॒ जाय॑मानोऽभवो म॒हान् । इंदो॒ विश्वाँ᳚, अ॒भीद॑सि ॥9.059.04, 7.1.016.04
[60] प्रगायत्रेणेति चतुरृचस्य सूक्तस्य काश्यपोवत्सारः पवमानः सोमोगायत्री तृतीयापुरौष्णिक्
प्र गा᳚य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिं । इंदुं᳚ स॒हस्र॑चक्षसं ॥9.060.01, 7.1.017.01
तं त्वा᳚ स॒हस्र॑चक्षस॒मथो᳚ स॒हस्र॑भर्णसं । अति॒ वार॑मपाविषुः ॥9.060.02, 7.1.017.02
अति॒ वारा॒न् पव॑मानो, असिष्यदत् क॒लशाँ᳚, अ॒भि धा᳚वति । इंद्र॑स्य॒ हार्द्या᳚वि॒शन् ॥9.060.03, 7.1.017.03
इंद्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे । प्र॒जाव॒द् रेत॒ आ भ॑र ॥9.060.04, 7.1.017.04
[61] अयावीतीति त्रिंशदृचस्य सूक्तस्यांगिरसोऽमहीयुः पवमानः सोमो गायत्री ।
अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इंदो॒ मदे॒ष्वा । अ॒वाह᳚न् नव॒तीर्नव॑ ॥9.061.01, 7.1.018.01
पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो᳚दासाय॒ शंब॑रं । अध॒ त्यं तु॒र्वशं॒ यदुं᳚ ॥9.061.02, 7.1.018.02
परि॑ णो॒, अश्व॑मश्व॒विद्गोम॑दिंदो॒ हिर᳚ण्यवत् । क्षरा᳚ सह॒स्रिणी॒रिषः॑ ॥9.061.03, 7.1.018.03
पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युंद॒तः । स॒खि॒त्वमा वृ॑णीमहे ॥9.061.04, 7.1.018.04
ये ते᳚ प॒वित्र॑मू॒र्मयो᳚ऽभि॒क्षरं᳚ति॒ धार॑या । तेभि᳚र्नः सोम मृळय ॥9.061.05, 7.1.018.05
स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिषं᳚ । ईशा᳚नः सोम वि॒श्वतः॑ ॥9.061.06, 7.1.019.01
ए॒तमु॒ त्यं दश॒ क्षिपो᳚ मृ॒जंति॒ सिंधु॑मातरं । समा᳚दि॒त्येभि॑रख्यत ॥9.061.07, 7.1.019.02
समिंद्रे᳚णो॒त वा॒युना᳚ सु॒त ए᳚ति प॒वित्र॒ आ । सं सूर्य॑स्य र॒श्मिभिः॑ ॥9.061.08, 7.1.019.03
स नो॒ भगा᳚य वा॒यवे᳚ पू॒ष्णे प॑वस्व॒ मधु॑मान् । चारु᳚र्मि॒त्रे वरु॑णे च ॥9.061.09, 7.1.019.04
उ॒च्चा ते᳚ जा॒तमंध॑सो दि॒वि षद् भूम्या द॑दे । उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ॥9.061.10, 7.1.019.05
ए॒ना विश्वा᳚न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणां । सिषा᳚संतो वनामहे ॥9.061.11, 7.1.020.01
स न॒ इंद्रा᳚य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑ । व॒रि॒वो॒वित् परि॑ स्रव ॥9.061.12, 7.1.020.02
उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भं॒गं परि॑ष्कृतं । इंदुं᳚ दे॒वा, अ॑यासिषुः ॥9.061.13, 7.1.020.03
तमिद् व॑र्धंतु नो॒ गिरो᳚ व॒त्सं सं॒शिश्व॑रीरिव । य इंद्र॑स्य हृदं॒सनिः॑ ॥9.061.14, 7.1.020.04
अर्षा᳚ णः सोम॒ शं गवे᳚ धु॒क्षस्व॑ पि॒प्युषी॒मिषं᳚ । वर्धा᳚ समु॒द्रमु॒क्थ्यं᳚ ॥9.061.15, 7.1.020.05
पव॑मानो, अजीजनद्दि॒वश्चि॒त्रं न त᳚न्य॒तुं । ज्योति᳚र्वैश्वान॒रं बृ॒हत् ॥9.061.16, 7.1.021.01
पव॑मानस्य ते॒ रसो॒ मदो᳚ राजन्नदुच्छु॒नः । वि वार॒मव्य॑मर्षति ॥9.061.17, 7.1.021.02
पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा᳚जति द्यु॒मान् । ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ॥9.061.18, 7.1.021.03
यस्ते॒ मदो॒ वरे᳚ण्य॒स्तेना᳚ पव॒स्वांध॑सा । दे॒वा॒वीर॑घशंस॒हा ॥9.061.19, 7.1.021.04
जघ्नि᳚र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं᳚ दि॒वेदि॑वे । गो॒षा, उ॑ अश्व॒सा, अ॑सि ॥9.061.20, 7.1.021.05
सम्मि॑श्लो, अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभिः॑ । सीदं᳚छ्ये॒नो न योनि॒मा ॥9.061.21, 7.1.022.01
स प॑वस्व॒ य आवि॒थेंद्रं᳚ वृ॒त्राय॒ हंत॑वे । व॒व्रि॒वांसं᳚ म॒हीर॒पः ॥9.061.22, 7.1.022.02
सु॒वीरा᳚सो व॒यं धना॒ जये᳚म सोम मीढ्वः । पु॒ना॒नो व॑र्ध नो॒ गिरः॑ ॥9.061.23, 7.1.022.03
त्वोता᳚स॒स्तवाव॑सा॒ स्याम॑ व॒न्वंत॑ आ॒मुरः॑ । सोम᳚ व्र॒तेषु॑ जागृहि ॥9.061.24, 7.1.022.04
अ॒प॒घ्नन् प॑वते॒ मृधोऽप॒ सोमो॒, अरा᳚व्णः । गच्छ॒न्निंद्र॑स्य निष्कृ॒तं ॥9.061.25, 7.1.022.05
म॒हो नो᳚ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ । रास्वें᳚दो वी॒रव॒द् यशः॑ ॥9.061.26, 7.1.023.01
न त्वा᳚ श॒तं च॒न ह्रुतो॒ राधो॒ दित्सं᳚त॒मा मि॑नन् । यत् पु॑ना॒नो म॑ख॒स्यसे᳚ ॥9.061.27, 7.1.023.02
पव॑स्वेंदो॒ वृषा᳚ सु॒तः कृ॒धी नो᳚ य॒शसो॒ जने᳚ । विश्वा॒, अप॒ द्विषो᳚ जहि ॥9.061.28, 7.1.023.03
अस्य॑ ते स॒ख्ये व॒यं तवें᳚दो द्यु॒म्न उ॑त्त॒मे । सा॒स॒ह्याम॑ पृतन्य॒तः ॥9.061.29, 7.1.023.04
या ते᳚ भी॒मान्यायु॑धा ति॒ग्मानि॒ संति॒ धूर्व॑णे । रक्षा᳚ समस्य नो नि॒दः ॥9.061.30, 7.1.023.05
[62] एतेअसृग्रमिति त्रिंशदृचस्य सूक्तस्य भार्गवोजमदग्निः पवमानःसोमो गायत्री ।
ए॒ते, अ॑सृग्र॒मिंद॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ । विश्वा᳚न्य॒भि सौभ॑गा ॥9.062.01, 7.1.024.01
वि॒घ्नंतो᳚ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिनः॑ । तना᳚ कृ॒ण्वंतो॒, अर्व॑ते ॥9.062.02, 7.1.024.02
कृ॒ण्वंतो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षंति सुष्टु॒तिं । इळा᳚म॒स्मभ्यं᳚ सं॒यतं᳚ ॥9.062.03, 7.1.024.03
असा᳚व्यं॒शुर्मदा᳚या॒ऽप्सु दक्षो᳚ गिरि॒ष्ठाः । श्ये॒नो न योनि॒मास॑दत् ॥9.062.04, 7.1.024.04
शु॒भ्रमंधो᳚ दे॒ववा᳚तम॒प्सु धू॒तो नृभिः॑ सु॒तः । स्वदं᳚ति॒ गावः॒ पयो᳚भिः ॥9.062.05, 7.1.024.05
आदी॒मश्वं॒ न हेता॒रोऽशू᳚शुभन्न॒मृता᳚य । मध्वो॒ रसं᳚ सध॒मादे᳚ ॥9.062.06, 7.1.025.01
यास्ते॒ धारा᳚ मधु॒श्चुतोऽसृ॑ग्रमिंद ऊ॒तये᳚ । ताभिः॑ प॒वित्र॒मास॑दः ॥9.062.07, 7.1.025.02
सो, अ॒र्षेंद्रा᳚य पी॒तये᳚ ति॒रो रोमा᳚ण्य॒व्यया᳚ । सीद॒न् योना॒ वने॒ष्वा ॥9.062.08, 7.1.025.03
त्वमिं᳚दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒, अंगि॑रोभ्यः । व॒रि॒वो॒विद् घृ॒तं पयः॑ ॥9.062.09, 7.1.025.04
अ॒यं विच॑र्षणिर्हि॒तः पव॑मानः॒ स चे᳚तति । हि॒न्वा॒न आप्यं᳚ बृ॒हत् ॥9.062.10, 7.1.025.05
ए॒ष वृषा॒ वृष᳚व्रतः॒ पव॑मानो, अशस्ति॒हा । कर॒द् वसू᳚नि दा॒शुषे᳚ ॥9.062.11, 7.1.026.01
आ प॑वस्व सह॒स्रिणं᳚ र॒यिं गोमं᳚तम॒श्विनं᳚ । पु॒रु॒श्चं॒द्रं पु॑रु॒स्पृहं᳚ ॥9.062.12, 7.1.026.02
ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा᳚न आ॒युभिः॑ । उ॒रु॒गा॒यः क॒विक्र॑तुः ॥9.062.13, 7.1.026.03
स॒हस्रो᳚तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः । इंद्रा᳚य पवते॒ मदः॑ ॥9.062.14, 7.1.026.04
गि॒रा जा॒त इ॒ह स्तु॒त इंदु॒रिंद्रा᳚य धीयते । विर्योना᳚ वस॒तावि॑व ॥9.062.15, 7.1.026.05
पव॑मानः सु॒तो नृभिः॒ सोमो॒ वाज॑मिवासरत् । च॒मूषु॒ शक्म॑ना॒सदं᳚ ॥9.062.16, 7.1.027.01
तं त्रि॑पृ॒ष्ठे त्रि॑वंधु॒रे रथे᳚ युंजंति॒ यात॑वे । ऋषी᳚णां स॒प्त धी॒तिभिः॑ ॥9.062.17, 7.1.027.02
तं सो᳚तारो धन॒स्पृत॑मा॒शुं वाजा᳚य॒ यात॑वे । हरिं᳚ हिनोत वा॒जिनं᳚ ॥9.062.18, 7.1.027.03
आ॒वि॒शन् क॒लशं᳚ सु॒तो विश्वा॒, अर्ष᳚न्न॒भि श्रियः॑ । शूरो॒ न गोषु॑ तिष्ठति ॥9.062.19, 7.1.027.04
आ त॑ इंदो॒ मदा᳚य॒ कं पयो᳚ दुहंत्या॒यवः॑ । दे॒वा दे॒वेभ्यो॒ मधु॑ ॥9.062.20, 7.1.027.05
आ नः॒ सोमं᳚ प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमं । दे॒वेभ्यो᳚ देव॒श्रुत्त॑मं ॥9.062.21, 7.1.028.01
ए॒ते सोमा᳚ असृक्षत गृणा॒नाः श्रव॑से म॒हे । म॒दिंत॑मस्य॒ धार॑या ॥9.062.22, 7.1.028.02
अ॒भि गव्या᳚नि वी॒तये᳚ नृ॒म्णा पु॑ना॒नो, अ॑र्षसि । स॒नद्वा᳚जः॒ परि॑ स्रव ॥9.062.23, 7.1.028.03
उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा᳚ अर्ष परि॒ष्टुभः॑ । गृ॒णा॒नो ज॒मद॑ग्निना ॥9.062.24, 7.1.028.04
पव॑स्व वा॒चो, अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभिः॑ । अ॒भि विश्वा᳚नि॒ काव्या᳚ ॥9.062.25, 7.1.028.05
त्वं स॑मु॒द्रिया᳚ अ॒पो᳚ऽग्रि॒यो वाच॑ ई॒रय᳚न् । पव॑स्व विश्वमेजय ॥9.062.26, 7.1.029.01
तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो᳚म तस्थिरे । तुभ्य॑मर्षंति॒ सिंध॑वः ॥9.062.27, 7.1.029.02
प्र ते᳚ दि॒वो न वृ॒ष्टयो॒ धारा᳚ यंत्यस॒श्चतः॑ । अ॒भि शु॒क्रामु॑प॒स्तिरं᳚ ॥9.062.28, 7.1.029.03
इंद्रा॒येंदुं᳚ पुनीतनो॒ग्रं दक्षा᳚य॒ साध॑नं । ई॒शा॒नं वी॒तिरा᳚धसं ॥9.062.29, 7.1.029.04
पव॑मान ऋ॒तः क॒विः सोमः॑ प॒वित्र॒मास॑दत् । दध॑त् स्तो॒त्रे सु॒वीर्यं᳚ ॥9.062.30, 7.1.029.05
[63] आपवस्वेति त्रिंशदृचस्य सूक्तस्य काश्यपोनिध्रुविः पवमानः सोमो गायत्री ।
आ प॑वस्व सह॒स्रिणं᳚ र॒यिं सो᳚म सु॒वीर्यं᳚ । अ॒स्मे श्रवां᳚सि धारय ॥9.063.01, 7.1.030.01
इष॒मूर्जं᳚ च पिन्वस॒ इंद्रा᳚य मत्स॒रिंत॑मः । च॒मूष्वा नि षी᳚दसि ॥9.063.02, 7.1.030.02
सु॒त इंद्रा᳚य॒ विष्ण॑वे॒ सोमः॑ क॒लशे᳚ अक्षरत् । मधु॑माँ, अस्तु वा॒यवे᳚ ॥9.063.03, 7.1.030.03
ए॒ते, अ॑सृग्रमा॒शवोऽति॒ ह्वरां᳚सि ब॒भ्रवः॑ । सोमा᳚ ऋ॒तस्य॒ धार॑या ॥9.063.04, 7.1.030.04
इंद्रं॒ वर्धं᳚तो, अ॒प्तुरः॑ कृ॒ण्वंतो॒ विश्व॒मार्यं᳚ । अ॒प॒घ्नंतो॒, अरा᳚व्णः ॥9.063.05, 7.1.030.05
सु॒ता, अनु॒ स्वमा रजो॒ऽभ्य॑र्षंति ब॒भ्रवः॑ । इंद्रं॒ गच्छं᳚त॒ इंद॑वः ॥9.063.06, 7.1.031.01
अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो᳚चयः । हि॒न्वा॒नो मानु॑षीर॒पः ॥9.063.07, 7.1.031.02
अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ । अं॒तरि॑क्षेण॒ यात॑वे ॥9.063.08, 7.1.031.03
उ॒त त्या ह॒रितो॒ दश॒ सूरो᳚ अयुक्त॒ यात॑वे । इंदु॒रिंद्र॒ इति॑ ब्रु॒वन् ॥9.063.09, 7.1.031.04
परी॒तो वा॒यवे᳚ सु॒तं गिर॒ इंद्रा᳚य मत्स॒रं । अव्यो॒ वारे᳚षु सिंचत ॥9.063.10, 7.1.031.05
पव॑मान वि॒दा र॒यिम॒स्मभ्यं᳚ सोम दु॒ष्टरं᳚ । यो दू॒णाशो᳚ वनुष्य॒ता ॥9.063.11, 7.1.032.01
अ॒भ्य॑र्ष सह॒स्रिणं᳚ र॒यिं गोमं᳚तम॒श्विनं᳚ । अ॒भि वाज॑मु॒त श्रवः॑ ॥9.063.12, 7.1.032.02
सोमो᳚ दे॒वो न सूर्योऽद्रि॑भिः पवते सु॒तः । दधा᳚नः क॒लशे॒ रसं᳚ ॥9.063.13, 7.1.032.03
ए॒ते धामा॒न्यार्या᳚ शु॒क्रा ऋ॒तस्य॒ धार॑या । वाजं॒ गोमं᳚तमक्षरन् ॥9.063.14, 7.1.032.04
सु॒ता, इंद्रा᳚य व॒ज्रिणे॒ सोमा᳚सो॒ दध्या᳚शिरः । प॒वित्र॒मत्य॑क्षरन् ॥9.063.15, 7.1.032.05
प्र सो᳚म॒ मधु॑मत्तमो रा॒ये, अ॑र्ष प॒वित्र॒ आ । मदो॒ यो दे᳚व॒वीत॑मः ॥9.063.16, 7.1.033.01
तमी᳚ मृजंत्या॒यवो॒ हरिं᳚ न॒दीषु॑ वा॒जिनं᳚ । इंदु॒मिंद्रा᳚य मत्स॒रं ॥9.063.17, 7.1.033.02
आ प॑वस्व॒ हिर᳚ण्यव॒दश्वा᳚वत् सोम वी॒रव॑त् । वाजं॒ गोमं᳚त॒मा भ॑र ॥9.063.18, 7.1.033.03
परि॒ वाजे॒ न वा᳚ज॒युमव्यो॒ वारे᳚षु सिंचत । इंद्रा᳚य॒ मधु॑मत्तमं ॥9.063.19, 7.1.033.04
क॒विं मृ॑जंति॒ मर्ज्यं᳚ धी॒भिर्विप्रा᳚ अव॒स्यवः॑ । वृषा॒ कनि॑क्रदर्षति ॥9.063.20, 7.1.033.05
वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या । म॒ती विप्राः॒ सम॑स्वरन् ॥9.063.21, 7.1.034.01
पव॑स्व देवायु॒षगिंद्रं᳚ गच्छतु ते॒ मदः॑ । वा॒युमा रो᳚ह॒ धर्म॑णा ॥9.063.22, 7.1.034.02
पव॑मान॒ नि तो᳚शसे र॒यिं सो᳚म श्र॒वाय्यं᳚ । प्रि॒यः स॑मु॒द्रमा वि॑श ॥9.063.23, 7.1.034.03
अ॒प॒घ्नन् प॑वसे॒ मृधः॑ क्रतु॒वित् सो᳚म मत्स॒रः । नु॒दस्वादे᳚वयुं॒ जनं᳚ ॥9.063.24, 7.1.034.04
पव॑माना, असृक्षत॒ सोमाः᳚ शु॒क्रास॒ इंद॑वः । अ॒भि विश्वा᳚नि॒ काव्या᳚ ॥9.063.25, 7.1.034.05
पव॑मानास आ॒शवः॑ शु॒भ्रा, अ॑सृग्र॒मिंद॑वः । घ्नंतो॒ विश्वा॒, अप॒ द्विषः॑ ॥9.063.26, 7.1.035.01
पव॑माना दि॒वस्पर्यं॒तरि॑क्षादसृक्षत । पृ॒थि॒व्या, अधि॒ सान॑वि ॥9.063.27, 7.1.035.02
पु॒ना॒नः सो᳚म॒ धार॒येंदो॒ विश्वा॒, अप॒ स्रिधः॑ । ज॒हि रक्षां᳚सि सुक्रतो ॥9.063.28, 7.1.035.03
अ॒प॒घ्नन् त्सो᳚म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् । द्यु॒मंतं॒ शुष्म॑मुत्त॒मं ॥9.063.29, 7.1.035.04
अ॒स्मे वसू᳚नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा । इंदो॒ विश्वा᳚नि॒ वार्या᳚ ॥9.063.30, 7.1.035.05
[64] वृषासोमेति त्रिंशदृचस्यसूक्तस्य मारीचः कश्यपः पवमानःसोमोगायत्री ।
वृषा᳚ सोम द्यु॒माँ, अ॑सि॒ वृषा᳚ देव॒ वृष᳚व्रतः । वृषा॒ धर्मा᳚णि दधिषे ॥9.064.01, 7.1.036.01
वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः॑ । स॒त्यं वृ॑ष॒न् वृषेद॑सि ॥9.064.02, 7.1.036.02
अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा, इं᳚दो॒ समर्व॑तः । वि नो᳚ रा॒ये दुरो᳚ वृधि ॥9.064.03, 7.1.036.03
असृ॑क्षत॒ प्र वा॒जिनो᳚ ग॒व्या सोमा᳚सो, अश्व॒या । शु॒क्रासो᳚ वीर॒याशवः॑ ॥9.064.04, 7.1.036.04
शुं॒भमा᳚ना ऋता॒युभि᳚र्मृ॒ज्यमा᳚ना॒ गभ॑स्त्योः । पवं᳚ते॒ वारे᳚ अ॒व्यये᳚ ॥9.064.05, 7.1.036.05
ते विश्वा᳚ दा॒शुषे॒ वसु॒ सोमा᳚ दि॒व्यानि॒ पार्थि॑वा । पवं᳚ता॒मांतरि॑क्ष्या ॥9.064.06, 7.1.037.01
पव॑मानस्य विश्ववि॒त् प्र ते॒ सर्गा᳚ असृक्षत । सूर्य॑स्येव॒ न र॒श्मयः॑ ॥9.064.07, 7.1.037.02
के॒तुं कृ॒ण्वन् दि॒वस्परि॒ विश्वा᳚ रू॒पाभ्य॑र्षसि । स॒मु॒द्रः सो᳚म पिन्वसे ॥9.064.08, 7.1.037.03
हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध᳚र्मणि । अक्रा᳚न् दे॒वो न सूर्यः॑ ॥9.064.09, 7.1.037.04
इंदुः॑ पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती । सृ॒जदश्वं᳚ र॒थीरि॑व ॥9.064.10, 7.1.037.05
ऊ॒र्मिर्यस्ते᳚ प॒वित्र॒ आ दे᳚वा॒वीः प॒र्यक्ष॑रत् । सीद᳚न्नृ॒तस्य॒ योनि॒मा ॥9.064.11, 7.1.038.01
स नो᳚ अर्ष प॒वित्र॒ आ मदो॒ यो दे᳚व॒वीत॑मः । इंद॒विंद्रा᳚य पी॒तये᳚ ॥9.064.12, 7.1.038.02
इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा᳚नो मनी॒षिभिः॑ । इंदो᳚ रु॒चाभि गा, इ॑हि ॥9.064.13, 7.1.038.03
पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना᳚य गिर्वणः । हरे᳚ सृजा॒न आ॒शिरं᳚ ॥9.064.14, 7.1.038.04
पु॒ना॒नो दे॒ववी᳚तय॒ इंद्र॑स्य याहि निष्कृ॒तं । द्यु॒ता॒नो वा॒जिभि᳚र्य॒तः ॥9.064.15, 7.1.038.05
प्र हि᳚न्वा॒नास॒ इंद॒वोऽच्छा᳚ समु॒द्रमा॒शवः॑ । धि॒या जू॒ता, अ॑सृक्षत ॥9.064.16, 7.1.039.01
म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा᳚ समु॒द्रमिंद॑वः । अग्म᳚न्नृ॒तस्य॒ योनि॒मा ॥9.064.17, 7.1.039.02
परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा । पा॒हि नः॒ शर्म॑ वी॒रव॑त् ॥9.064.18, 7.1.039.03
मिमा᳚ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः । प्र यत् स॑मु॒द्र आहि॑तः ॥9.064.19, 7.1.039.04
आ यद् योनिं᳚ हिर॒ण्यय॑मा॒शुरृ॒तस्य॒ सीद॑ति । जहा॒त्यप्र॑चेतसः ॥9.064.20, 7.1.039.05
अ॒भि वे॒ना, अ॑नूष॒तेय॑क्षंति॒ प्रचे᳚तसः । मज्जं॒त्यवि॑चेतसः ॥9.064.21, 7.1.040.01
इंद्रा᳚येंदो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः । ऋ॒तस्य॒ योनि॑मा॒सदं᳚ ॥9.064.22, 7.1.040.02
तं त्वा॒ विप्रा᳚ वचो॒विदः॒ परि॑ ष्कृण्वंति वे॒धसः॑ । सं त्वा᳚ मृजंत्या॒यवः॑ ॥9.064.23, 7.1.040.03
रसं᳚ ते मि॒त्रो, अ᳚र्य॒मा पिबं᳚ति॒ वरु॑णः कवे । पव॑मानस्य म॒रुतः॑ ॥9.064.24, 7.1.040.04
त्वं सो᳚म विप॒श्चितं᳚ पुना॒नो वाच॑मिष्यसि । इंदो᳚ स॒हस्र॑भर्णसं ॥9.064.25, 7.1.040.05
उ॒तो स॒हस्र॑भर्णसं॒ वाचं᳚ सोम मख॒स्युवं᳚ । पु॒ना॒न इं᳚द॒वा भ॑र ॥9.064.26, 7.1.041.01
पु॒ना॒न इं᳚दवेषां॒ पुरु॑हूत॒ जना᳚नां । प्रि॒यः स॑मु॒द्रमा वि॑श ॥9.064.27, 7.1.041.02
दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभं᳚त्या कृ॒पा । सोमाः᳚ शु॒क्रा गवा᳚शिरः ॥9.064.28, 7.1.041.03
हि॒न्वा॒नो हे॒तृभि᳚र्य॒त आ वाजं᳚ वा॒ज्य॑क्रमीत् । सीदं᳚तो व॒नुषो᳚ यथा ॥9.064.29, 7.1.041.04
ऋ॒धक् सो᳚म स्व॒स्तये᳚ संजग्मा॒नो दि॒वः क॒विः । पव॑स्व॒ सूर्यो᳚ दृ॒शे ॥9.064.30, 7.1.041.05
पवमान पारायण चतुर्थोध्यायः
[65] हिन्वंतीति त्रिंशदृचस्य सूक्तस्य वारुणिर्भृगुः पवमानःसोमोगायत्री । (अत्रभार्गवोजमदग्निः पाक्षिकः)
हि॒न्वंति॒ सूर॒मुस्र॑यः॒ स्वसा᳚रो जा॒मय॒स्पतिं᳚ । म॒हामिंदुं᳚ मही॒युवः॑ ॥9.065.01, 7.2.1.1
पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ । विश्वा॒ वसू॒न्या वि॑श ॥9.065.02, 7.2.1.2
आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ । इ॒षे प॑वस्व सं॒यतं᳚ ॥9.065.03, 7.2.1.3
वृषा॒ ह्यसि॑ भा॒नुना᳚ द्यु॒मंतं᳚ त्वा हवामहे । पव॑मान स्वा॒ध्यः॑ ॥9.065.04, 7.2.1.4
आ प॑वस्व सु॒वीर्यं॒ मंद॑मानः स्वायुध । इ॒हो ष्विं᳚द॒वा ग॑हि ॥9.065.05, 7.2.1.5
यद॒द्भिः प॑रिषि॒च्यसे᳚ मृ॒ज्यमा᳚नो॒ गभ॑स्त्योः । द्रुणा᳚ स॒धस्थ॑मश्नुषे ॥9.065.06, 7.2.2.1
प्र सोमा᳚य व्यश्व॒वत् पव॑मानाय गायत । म॒हे स॒हस्र॑चक्षसे ॥9.065.07, 7.2.2.2
यस्य॒ वर्णं᳚ मधु॒श्चुतं॒ हरिं᳚ हि॒न्वंत्यद्रि॑भिः । इंदु॒मिंद्रा᳚य पी॒तये᳚ ॥9.065.08, 7.2.2.3
तस्य॑ ते वा॒जिनो᳚ व॒यं विश्वा॒ धना᳚नि जि॒ग्युषः॑ । स॒खि॒त्वमा वृ॑णीमहे ॥9.065.09, 7.2.2.4
वृषा᳚ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः । विश्वा॒ दधा᳚न॒ ओज॑सा ॥9.065.10, 7.2.2.5
तं त्वा᳚ ध॒र्तार॑मो॒ण्यो॒3॑(ओः॒) पव॑मान स्व॒र्दृशं᳚ । हि॒न्वे वाजे᳚षु वा॒जिनं᳚ ॥9.065.11, 7.2.3.1
अ॒या चि॒त्तो वि॒पानया॒ हरिः॑ पवस्व॒ धार॑या । युजं॒ वाजे᳚षु चोदय ॥9.065.12, 7.2.3.2
आ न॑ इंदो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः । अ॒स्मभ्यं᳚ सोम गातु॒वित् ॥9.065.13, 7.2.3.3
आ क॒लशा᳚ अनूष॒तेंदो॒ धारा᳚भि॒रोज॑सा । एंद्र॑स्य पी॒तये᳚ विश ॥9.065.14, 7.2.3.4
यस्य॑ ते॒ मद्यं॒ रसं᳚ ती॒व्रं दु॒हंत्यद्रि॑भिः । स प॑वस्वाभिमाति॒हा ॥9.065.15, 7.2.3.5
राजा᳚ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ । अं॒तरि॑क्षेण॒ यात॑वे ॥9.065.16, 7.2.4.1
आ न॑ इंदो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्यं᳚ । वहा॒ भग॑त्तिमू॒तये᳚ ॥9.065.17, 7.2.4.2
आ नः॑ सोम॒ सहो॒ जुवो᳚ रू॒पं न वर्च॑से भर । सु॒ष्वा॒णो दे॒ववी᳚तये ॥9.065.18, 7.2.4.3
अर्षा᳚ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा᳚नि॒ रोरु॑वत् । सीदं᳚छ्ये॒नो न योनि॒मा ॥9.065.19, 7.2.4.4
अ॒प्सा, इंद्रा᳚य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ । सोमो᳚ अर्षति॒ विष्ण॑वे ॥9.065.20, 7.2.4.5
इषं᳚ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं᳚ सोम वि॒श्वतः॑ । आ प॑वस्व सह॒स्रिणं᳚ ॥9.065.21, 7.2.5.1
ये सोमा᳚सः परा॒वति॒ ये, अ᳚र्वा॒वति॑ सुन्वि॒रे । ये वा॒दः श᳚र्य॒णाव॑ति ॥9.065.22, 7.2.5.2
य आ᳚र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये᳚ प॒स्त्या᳚नां । ये वा॒ जने᳚षु पं॒चसु॑ ॥9.065.23, 7.2.5.3
ते नो᳚ वृ॒ष्टिं दि॒वस्परि॒ पवं᳚ता॒मा सु॒वीर्यं᳚ । सु॒वा॒ना दे॒वास॒ इंद॑वः ॥9.065.24, 7.2.5.4
पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना । हि॒न्वा॒नो गोरधि॑ त्व॒चि ॥9.065.25, 7.2.5.5
प्र शु॒क्रासो᳚ वयो॒जुवो᳚ हिन्वा॒नासो॒ न सप्त॑यः । श्री॒णा॒ना, अ॒प्सु मृं᳚जत ॥9.065.26, 7.2.6.1
तं त्वा᳚ सु॒तेष्वा॒भुवो᳚ हिन्वि॒रे दे॒वता᳚तये । स प॑वस्वा॒नया᳚ रु॒चा ॥9.065.27, 7.2.6.2
आ ते॒ दक्षं᳚ मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे । पांत॒मा पु॑रु॒स्पृहं᳚ ॥9.065.28, 7.2.6.3
आ मं॒द्रमा वरे᳚ण्य॒मा विप्र॒मा म॑नी॒षिणं᳚ । पांत॒मा पु॑रु॒स्पृहं᳚ ॥9.065.29, 7.2.6.4
आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा । पांत॒मा पु॑रु॒स्पृहं᳚ ॥9.065.30, 7.2.6.5
[66] पवस्वेति त्रिंशदृचस्य सूक्तस्य शतंवैखानसाः पवमानःसोम एकोनविंश्यादितिसृणामग्निः पवमानोगायत्र्यष्टादश्यनुष्टुप् (शतं वैखानसाएतेस्वायंभुवाः अतएषांगोत्रंनास्तिएवमग्रेपिनारायणादयऊह्याः) ।
पव॑स्व विश्वचर्षणे॒ऽभि विश्वा᳚नि॒ काव्या᳚ । सखा॒ सखि॑भ्य॒ ईड्यः॑ ॥9.066.01, 7.2.7.1
ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी । प्र॒ती॒ची सो᳚म त॒स्थतुः॑ ॥9.066.02, 7.2.7.2
परि॒ धामा᳚नि॒ यानि॑ ते॒ त्वं सो᳚मासि वि॒श्वतः॑ । पव॑मान ऋ॒तुभिः॑ कवे ॥9.066.03, 7.2.7.3
पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा᳚नि॒ वार्या᳚ । सखा॒ सखि॑भ्य ऊ॒तये᳚ ॥9.066.04, 7.2.7.4
तव॑ शु॒क्रासो᳚ अ॒र्चयो᳚ दि॒वस्पृ॒ष्ठे वि त᳚न्वते । प॒वित्रं᳚ सोम॒ धाम॑भिः ॥9.066.05, 7.2.7.5
तवे॒मे स॒प्त सिंध॑वः प्र॒शिषं᳚ सोम सिस्रते । तुभ्यं᳚ धावंति धे॒नवः॑ ॥9.066.06, 7.2.8.1
प्र सो᳚म याहि॒ धार॑या सु॒त इंद्रा᳚य मत्स॒रः । दधा᳚नो॒, अक्षि॑ति॒ श्रवः॑ ॥9.066.07, 7.2.8.2
समु॑ त्वा धी॒भिर॑स्वरन् हिन्व॒तीः स॒प्त जा॒मयः॑ । विप्र॑मा॒जा वि॒वस्व॑तः ॥9.066.08, 7.2.8.3
मृ॒जंति॑ त्वा॒ सम॒ग्रुवोऽव्ये᳚ जी॒रावधि॒ ष्वणि॑ । रे॒भो यद॒ज्यसे॒ वने᳚ ॥9.066.09, 7.2.8.4
पव॑मानस्य ते कवे॒ वाजि॒न् त्सर्गा᳚ असृक्षत । अर्वं᳚तो॒ न श्र॑व॒स्यवः॑ ॥9.066.10, 7.2.8.5
अच्छा॒ कोशं᳚ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे᳚ अ॒व्यये᳚ । अवा᳚वशंत धी॒तयः॑ ॥9.066.11, 7.2.9.1
अच्छा᳚ समु॒द्रमिंद॒वोऽस्तं॒ गावो॒ न धे॒नवः॑ । अग्म᳚न्नृ॒तस्य॒ योनि॒मा ॥9.066.12, 7.2.9.2
प्र ण॑ इंदो म॒हे रण॒ आपो᳚ अर्षंति॒ सिंध॑वः । यद्गोभि᳚र्वासयि॒ष्यसे᳚ ॥9.066.13, 7.2.9.3
अस्य॑ ते स॒ख्ये व॒यमिय॑क्षंत॒स्त्वोत॑यः । इंदो᳚ सखि॒त्वमु॑श्मसि ॥9.066.14, 7.2.9.4
आ प॑वस्व॒ गवि॑ष्टये म॒हे सो᳚म नृ॒चक्ष॑से । एंद्र॑स्य ज॒ठरे᳚ विश ॥9.066.15, 7.2.9.5
म॒हाँ, अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा᳚मिंद॒ ओजि॑ष्ठः । युध्वा॒ संछश्व॑ज्जिगेथ ॥9.066.16, 7.2.010.01
य उ॒ग्रेभ्य॑श्चि॒दोजी᳚यां॒छूरे᳚भ्यश्चि॒च्छूर॑तरः । भू॒रि॒दाभ्य॑श्चि॒न्मंही᳚यान् ॥9.066.17, 7.2.010.02
त्वं सो᳚म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूनां᳚ । वृ॒णी॒महे᳚ स॒ख्याय॑ वृणी॒महे॒ युज्या᳚य ॥9.066.18, 7.2.010.03
अग्न॒ आयूं᳚षि पवस॒ आ सु॒वोर्ज॒मिषं᳚ च नः । आ॒रे बा᳚धस्व दु॒च्छुनां᳚ ॥9.066.19, 7.2.010.04
अ॒ग्निरृषिः॒ पव॑मानः॒ पांच॑जन्यः पु॒रोहि॑तः । तमी᳚महे महाग॒यं ॥9.066.20, 7.2.010.05
अग्ने॒ पव॑स्व॒ स्वपा᳚ अ॒स्मे वर्चः॑ सु॒वीर्यं᳚ । दध॑द्र॒यिं मयि॒ पोषं᳚ ॥9.066.21, 7.2.011.01
पव॑मानो॒, अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिं । सूरो॒ न वि॒श्वद॑र्शतः ॥9.066.22, 7.2.011.02
स म᳚र्मृजा॒न आ॒युभिः॒ प्रय॑स्वा॒न् प्रय॑से हि॒तः । इंदु॒रत्यो᳚ विचक्ष॒णः ॥9.066.23, 7.2.011.03
पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् । कृ॒ष्णा तमां᳚सि॒ जंघ॑नत् ॥9.066.24, 7.2.011.04
पव॑मानस्य॒ जंघ्न॑तो॒ हरे᳚श्चं॒द्रा, अ॑सृक्षत । जी॒रा, अ॑जि॒रशो᳚चिषः ॥9.066.25, 7.2.011.05
पव॑मानो र॒थीत॑मः शु॒भ्रेभिः॑ शु॒भ्रश॑स्तमः । हरि॑श्चंद्रो म॒रुद्ग॑णः ॥9.066.26, 7.2.012.01
पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि᳚र्वाज॒सात॑मः । दध॑त् स्तो॒त्रे सु॒वीर्यं᳚ ॥9.066.27, 7.2.012.02
प्र सु॑वा॒न इंदु॑रक्षाः प॒वित्र॒मत्य॒व्ययं᳚ । पु॒ना॒न इंदु॒रिंद्र॒मा ॥9.066.28, 7.2.012.03
ए॒ष सोमो॒, अधि॑ त्व॒चि गवां᳚ क्रीळ॒त्यद्रि॑भिः । इंद्रं॒ मदा᳚य॒ जोहु॑वत् ॥9.066.29, 7.2.012.04
यस्य॑ ते द्यु॒म्नव॒त् पयः॒ पव॑मा॒नाभृ॑तं दि॒वः । तेन॑ नो मृळ जी॒वसे᳚ ॥9.066.30, 7.2.012.05
[67] त्वंसोमासीति द्वात्रिंशदृचस्य सूक्तस्य आद्यानांसप्तानांतृचानांभरद्वाजकश्यपगोतमात्रिविश्वामित्र जमदग्निवसिष्ठा ऋषयः शिष्टानामांगिरसः पवित्रऋषिः (अत्रवसिष्ठोवापवित्रवसिष्ठौवेतिविपक्षौ) पवमानःसोमोदेवता दशम्यादितिसृणांपूषावा यत्तेपवित्रमित्यादिपंचानामग्निः अंत्ययोर्द्वयोः पावमान्यधेतागायत्री षोडश्याद्यास्तिस्रोद्विपदागायत्र्यः त्रिंशीपुरौष्णिक् सप्तविंश्येकत्रिंशीद्वात्रिंश्योनुष्टुभः ।( पंचविंश्यादितिसृणांक्रमात्सविताग्निसवितारौविश्वेदेवाइतिदेवताअग्निनासह विकल्पंते ) ।
त्वं सो᳚मासि धार॒युर्मं॒द्र ओजि॑ष्ठो, अध्व॒रे । पव॑स्व मंह॒यद्र॑यिः ॥9.067.01, 7.2.013.01
त्वं सु॒तो नृ॒माद॑नो दध॒न्वान् म॑त्स॒रिंत॑मः । इंद्रा᳚य सू॒रिरंध॑सा ॥9.067.02, 7.2.013.02
त्वं सु॑ष्वा॒णो, अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् । द्यु॒मंतं॒ शुष्म॑मुत्त॒मं ॥9.067.03, 7.2.013.03
इंदु᳚र्हिन्वा॒नो, अ॑र्षति ति॒रो वारा᳚ण्य॒व्यया᳚ । हरि॒र्वाज॑मचिक्रदत् ॥9.067.04, 7.2.013.04
इंदो॒ व्यव्य॑मर्षसि॒ वि श्रवां᳚सि॒ वि सौभ॑गा । वि वाजा᳚न् त्सोम॒ गोम॑तः ॥9.067.05, 7.2.013.05
आ न॑ इंदो शत॒ग्विनं᳚ र॒यिं गोमं᳚तम॒श्विनं᳚ । भरा᳚ सोम सह॒स्रिणं᳚ ॥9.067.06, 7.2.014.01
पव॑मानास॒ इंद॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ । इंद्रं॒ यामे᳚भिराशत ॥9.067.07, 7.2.014.02
क॒कु॒हः सो॒म्यो रस॒ इंदु॒रिंद्रा᳚य पू॒र्व्यः । आ॒युः प॑वत आ॒यवे᳚ ॥9.067.08, 7.2.014.03
हि॒न्वंति॒ सूर॒मुस्र॑यः॒ पव॑मानं मधु॒श्चुतं᳚ । अ॒भि गि॒रा सम॑स्वरन् ॥9.067.09, 7.2.014.04
अ॒वि॒ता नो᳚ अ॒जाश्वः॑ पू॒षा याम॑नियामनि । आ भ॑क्षत् क॒न्या᳚सु नः ॥9.067.10, 7.2.014.05
अ॒यं सोमः॑ कप॒र्दिने᳚ घृ॒तं न प॑वते॒ मधु॑ । आ भ॑क्षत् क॒न्या᳚सु नः ॥9.067.11, 7.2.015.01
अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ । आ भ॑क्षत् क॒न्या᳚सु नः ॥9.067.12, 7.2.015.02
वा॒चो जं॒तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या । दे॒वेषु॑ रत्न॒धा, अ॑सि ॥9.067.13, 7.2.015.03
आ क॒लशे᳚षु धावति श्ये॒नो वर्म॒ वि गा᳚हते । अ॒भि द्रोणा॒ कनि॑क्रदत् ॥9.067.14, 7.2.015.04
परि॒ प्र सो᳚म ते॒ रसोऽस॑र्जि क॒लशे᳚ सु॒तः । श्ये॒नो न त॒क्तो, अ॑र्षति ॥9.067.15, 7.2.015.05
पव॑स्व सोम मं॒दय॒न्निंद्रा᳚य॒ मधु॑मत्तमः ॥9.067.16, 7.2.016.01
असृ॑ग्रन् दे॒ववी᳚तये वाज॒यंतो॒ रथा᳚ इव ॥9.067.17, 7.2.016.02
ते सु॒तासो᳚ म॒दिंत॑माः शु॒क्रा वा॒युम॑सृक्षत ॥9.067.18, 7.2.016.03
ग्राव्णा᳚ तु॒न्नो, अ॒भिष्टु॑तः प॒वित्रं᳚ सोम गच्छसि । दध॑त् स्तो॒त्रे सु॒वीर्यं᳚ ॥9.067.19, 7.2.016.04
ए॒ष तु॒न्नो, अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते । र॒क्षो॒हा वार॑म॒व्ययं᳚ ॥9.067.20, 7.2.016.05
यदंति॒ यच्च॑ दूर॒के भ॒यं विं॒दति॒ मामि॒ह । पव॑मान॒ वि तज्ज॑हि ॥9.067.21, 7.2.017.01
पव॑मानः॒ सो, अ॒द्य नः॑ प॒वित्रे᳚ण॒ विच॑र्षणिः । यः पो॒ता स पु॑नातु नः ॥9.067.22, 7.2.017.02
यत्ते᳚ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तमं॒तरा । ब्रह्म॒ तेन॑ पुनीहि नः ॥9.067.23, 7.2.017.03
यत्ते᳚ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः । ब्र॒ह्म॒स॒वैः पु॑नीहि नः ॥9.067.24, 7.2.017.04
उ॒भाभ्यां᳚ देव सवितः प॒वित्रे᳚ण स॒वेन॑ च । मां पु॑नीहि वि॒श्वतः॑ ॥9.067.25, 7.2.017.05
त्रि॒भिष्ट्वं दे᳚व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः । अग्ने॒ दक्षैः᳚ पुनीहि नः ॥9.067.26, 7.2.018.01
पु॒नंतु॒ मां दे᳚वज॒नाः पु॒नंतु॒ वस॑वो धि॒या । विश्वे᳚ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा᳚ ॥9.067.27, 7.2.018.02
प्र प्या᳚यस्व॒ प्र स्यं᳚दस्व॒ सोम॒ विश्वे᳚भिरं॒शुभिः॑ । दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥9.067.28, 7.2.018.03
उप॑ प्रि॒यं पनि॑प्नतं॒ युवा᳚नमाहुती॒वृधं᳚ । अग᳚न्म॒ बिभ्र॑तो॒ नमः॑ ॥9.067.29, 7.2.018.04
अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम । आ॒खुं चि॑दे॒व दे᳚व सोम ॥9.067.30, 7.2.018.05
यः पा᳚वमा॒नीर॒ध्येत्यृषि॑भिः॒ संभृ॑तं॒ रसं᳚ । सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा᳚त॒रिश्व॑ना ॥9.067.31, 7.2.018.06
पा॒व॒मा॒नीर्यो, अ॒ध्येत्यृषि॑भिः॒ संभृ॑तं॒ रसं᳚ । तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू᳚द॒कं ॥9.067.32, 7.2.018.07
परिशिष्टम् [ऋग्वेद मंडल 9, 67 सूक्तस्यानंतरं][ऋग्वेद अष्टक 7, अध्याय 2, 18 वर्गानंतरं]
पावमानीः स्वस्त्ययनीरिति विंशत्यर्चस्य पावमानीसूक्तस्य भृगुः प्रजापतिर्वा ऋषिः पवमानः सोमः पावमान्यो देव्यो वा देवताः अनुष्टुप् छंदः, पंचमी त्रिष्टुप्, पंचदशी विराड्जगती ॥
पा॒व॒मा॒नी स्स्व॒स्त्यय॑नीस्सु॒दुघा॒ हि घृ॑त॒श्चुतः॑। ऋषि॑भि॒ स्संभृ॑तो॒ रसो᳚ ब्राह्म॒णेष्व॒मृतं᳚ हि॒तं॥
पा॒व॒मा॒नी र्दि॑शंतु न इ॒मं लो॒क मथो᳚ अ॒मुं। कामा॒ न्त्सम॑र्धयंतु नोदे॒वी र्दे॒वै स्स॒माहि॑ताः॥
येन॑ दे॒वाः प॒वित्रे᳚णा॒ऽऽत्मानं᳚ पु॒नते॒ सदा᳚। तेन॑ स॒हस्र॑धारेण पावमा॒न्यः पु॑नंतु मां॥
प्रा॒जा॒प॒त्यं प॒वित्रं᳚ श॒तोद्या᳚मं हिर॒ण्मयं᳚। तेन॑ ब्रह्म॒विदो᳚ व॒यं पू॒तं ब्रह्म॑ पुनीमहे॥
इंद्र॑ स्सुनी॒ती स॒ह मा᳚ पुनातु॒ सोम॑ स्स्व॒स्त्या वरु॑ण स्स॒मीच्या᳚। य॒मो राजा᳚ प्रमृ॒णाभि॑: पुनातु मा जा॒तवे᳚दा मू॒र्जयं᳚त्या पुनातु॥
ऋ॒ष॒य॒स्तु त॑पस्ते॒पु॒स्स॒र्वे स्व॑र्गजि॒गीष॑वः। त॒प॒स॒स्त॒प॒सो॒ऽग्रियं᳚तुपा॒वमा᳚नीर् ऋ॒चोऽब्रु॑वन्न्॥
यन्मे॒ गर्भे॒ वस॑तः पा॒प मु॒ग्रं यज्जा॑यमा॒नस्य॑ च॒ किंचि॑दन्यत्। जा॒तस्य॑ च॒ यच्चा᳚ऽपि च॒ वर्ध॑तो मे॒ तत्पा᳚वमा॒नीभि॑ र॒हं पु॑नामि॥
मा॒ता॒पि॒त्रोर्य॒न्न कृ॑तं॒ वचो᳚ मे॒ यत्स्था᳚व॒रंजं॒गम॑ माब॒भूव॑। विश्व॑स्य॒ तत्प्र॑हृषि॒तं वचो᳚ मे॒ तत्पा᳚वमा॒नीभि॑ र॒हं पु॑नामि॥
गोघ्ना॒ त्तस्क॑रत्वा॒त्स्त्रीव॑धा॒ द्यच्च॒ किल्बि॑षं। पा॒प॒कंच॒ चर॑णेभ्य॒ स्तत्पा᳚वमा॒नीभि॑ र॒हं पु॑नामि॥
ब्रह्म॑वधा॒ त्सुरा᳚पाना॒त्स्व᳚र्णस्तेया॒द्वृष॑लि गमन मैथुन संग॒मात्। गु॒रो॒र्दा॒राऽधि॒गम॑नाच्च॒ तत्पा᳚वमा॒नीभि॑ र॒हं पु॑नामि॥
बाल॑घ्ना॒ न्मातृ॑पितृवधा॒ द्भूमि॑तस्करा॒त्सर्व॑वर्ण गमनमैथुन संग॒मात्। पा॒पेभ्य॑श्च प्र॒तिग्र॑हा॒त्सद्य॑: प्रहरति॒ सर्व॑दुष्कृतं॒तत्पा᳚वमा॒नीभि॑ र॒हं पु॑नामि॥
क्रय॑विक्रया॒ द्योनि॑दोषा॒द्भक्षा॒ द्भोज्या᳚ त्प्र॒तिग्र॑हात्। अ॒सं॒भो॒ज॒नाच्चा᳚ऽपि नृ॒शंसं॒तत्पा᳚वमा॒नीभि॑ र॒हं पु॑नामि॥
दुर्य॑ष्ट॒ न्दुर॑धीतं॒ पापं॒ यच्चा᳚ज्ञान॒तोऽकृ॑तं। अ॒या॒जि॒ताश्चा॒ऽसंया᳚ज्या॒स्तत्पा᳚वमा॒नीभि॑ र॒हं पु॑नामि॥
अ॒मं॒त्र॒मन्नं᳚ यत्किं॒चि॒द्धू॒यते᳚ च हु॒ताश॑ने। सं॒व॒त्स॒रकृ॑तं पापं॒तत्पा᳚वमा॒नीभि॑ र॒हं पु॑नामि॥
ऋ॒तस्य॒ योन॑योऽमृ॒तस्य॒ धाम॒ विश्वा᳚ दे॒वेभ्य॒: पुण्य॑गंधाः। ता॒ न॒ आप॒: प्र वहं᳚तु पा॒पं॒ शु॒॒द्धा ग॑च्छामि सु॒कृता᳚मु लो॒क न्तत्पा᳚वमा॒नीभि॑ र॒हं पु॑नामि॥
पा॒व॒मा॒नी स्स्व॒स्त्यय॑नी॒र्याभि॑ र्गच्छति नांद॒नं। पुण्यां᳚श्च भ॒क्षा न्भ॑क्षयत्यमृत॒त्वंच॑ गच्छति॥
पा॒व॒मा॒नीः पि॒तॄंदे॒वांध्या॒ये द्य॑श्च स॒रस्व॑तीं। पितॄं᳚स्त॒स्योप॑ वर्ते॒त॒ क्षी॒रं स॒र्पि र्मधू᳚द॒कं॥
पा॒व॒मा॒नं प॑रं ब्र॒ह्म॒ शु॒क्रंज्यो᳚ति स्स॒नात॑नं। ऋषीं᳚स्त॒स्योप॑ तिष्ठे॒त॒ क्षी॒रं स॒र्पि र्मधू᳚द॒कं॥
पा॒व॒मा॒नं प॑रं ब्र॒ह्म॒ ये॒ पठं᳚ति म॒नीषि॑णः। सप्त॑ज॒न्म भ॑वेद्वि॒प्रो॒ ध॒नाढ्यो᳚ वेद॒पार॑गः॥
दशो᳚त्त॒राण्यृ॑चांश्चै॒व॒ पा॒वमा᳚नी श्श॒तानि॑ षट्। ए॒त॒ज्जु॒ह्व॒न्ज॒पे॒ न्मंत्रं᳚घो॒रमृ॑त्युभ॒यं ह॑रेत्॥
ए॒तत्पु॒ण्यं पा᳚पह॒रं रो॒गमृ॑त्युभ॒याप॑हं। पठ॑तां॒ शृण्व॑तांचै॒व॒ द॒दाति॑ पर॒मांग॑तिं॥
28 । ममाज्ञे इति सूक्तं
ममाग्नैति नवर्चस्य सूक्तस्यांगिरसोविहव्यो विश्वेदेवास्त्रिष्टुबंत्याजगती ।
ममा᳚ग्ने॒ वर्चो᳚ विह॒वेष्व॑स्तु व॒यं त्वेंधा᳚नास्त॒न्वं᳚ पुषेम । मह्यं᳚ नमंतां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥10.128.01, 8.7.015.01
मम॑ दे॒वा वि॑ह॒वे सं᳚तु॒ सर्व॒ इंद्र॑वंतो म॒रुतो॒ विष्णु॑र॒ग्निः । ममां॒तरि॑क्षमु॒रुलो᳚कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे᳚ अ॒स्मिन् ॥10.128.02, 8.7.015.02
मयि॑ दे॒वा द्रवि॑ण॒मा य॑जंतां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू᳚तिः । दैव्या॒ होता᳚रो वनुषंत॒ पूर्वेऽरि॑ष्टाः स्याम त॒न्वा᳚ सु॒वीराः᳚ ॥10.128.03, 8.7.015.03
मह्यं᳚ यजंतु॒ मम॒ यानि॑ ह॒व्याकू᳚तिः स॒त्या मन॑सो मे, अस्तु । एनो॒ मा नि गां᳚ कत॒मच्च॒नाहं विश्वे᳚ देवासो॒, अधि॑ वोचता नः ॥10.128.04, 8.7.015.04
देवीः᳚ षळुर्वीरु॒रु नः॑ कृणोत॒ विश्वे᳚ देवास इ॒ह वी᳚रयध्वं । मा हा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो᳚म राजन् ॥10.128.05, 8.7.015.05
अग्ने᳚ म॒न्युं प्र॑तिनु॒दन् परे᳚षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वं । प्र॒त्यंचो᳚ यंतु नि॒गुतः॒ पुन॒स्ते॒3॑(ए॒)ऽमैषां᳚ चि॒त्तं प्र॒बुधां॒ वि ने᳚शत् ॥10.128.06, 8.7.016.01
धा॒ता धा᳚तॄ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हं । इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पां᳚तु॒ यज॑मानं न्य॒र्थात् ॥10.128.07, 8.7.016.02
उ॒रु॒व्यचा᳚ नो महि॒षः शर्म॑ यंसद॒स्मिन्हवे᳚ पुरुहू॒तः पु॑रु॒क्षुः । स नः॑ प्र॒जायै᳚ हर्यश्व मृळ॒येंद्र॒ मा नो᳚ रीरिषो॒ मा परा᳚ दाः ॥10.128.08, 8.7.016.03
ये नः॑ स॒पत्ना॒, अप॒ ते भ॑वंत्विंद्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् । वस॑वो रु॒द्रा, आ᳚दि॒त्या, उ॑परि॒स्पृशं᳚ मो॒ग्रं चेत्ता᳚रमधिरा॒जम॑क्रन् ॥10.128.09, 8.7.016.04
परिशिष्टम् [ऋग्वेद मंडल 10.128 सूक्तस्यानंतरं][ऋग्वेद अष्टक 8, अध्याय 7, 16 वर्गानंतरं]
अर्वांचमिंद्रमित्यस्य मंत्रस्य मैत्रावरुणिः कृष्णः कृष्णो भार्गवो वा ऋषिः इंद्रो देवता त्रिष्टुप् छंदः ॥
अ॒र्वांच॒ मिंद्र॑ म॒मुतो᳚ हवामहे॒ यो गो॒जि द्ध॑न॒जि द॑श्व॒जिद्यः। इ॒मन्नो᳚ ह॒व्यं वि॑ह॒वे जु॑षस्वा॒ऽस्य कु᳚ल्मो हरिवो मे॒दिनं᳚त्वा॥
29 । पूर्णाहुति मंत्राणि
समुद्रादूर्मिरित्येकादशर्चस्य सूक्तस्य गौतमोवामदेवोग्निस्त्रिष्टुबंत्याजगती । (सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता) ।
स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒, उदा᳚र॒दुपां॒शुना॒ सम॑मृत॒त्वमा᳚नट् । घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना᳚म॒मृत॑स्य॒ नाभिः॑ ॥4.058.01, 3.8.010.01
व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन् य॒ज्ञे धा᳚रयामा॒ नमो᳚भिः । उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा᳚नं॒ चतुः॑शृंगोऽवमीद् गौ॒र ए॒तत् ॥4.058.02, 3.8.010.02
च॒त्वारि॒ शृंगा॒ त्रयो᳚ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता᳚सो, अस्य । त्रिधा᳚ ब॒द्धो वृ॑ष॒भो रो᳚रवीति म॒हो दे॒वो मर्त्याँ॒, आ वि॑वेश ॥4.058.03, 3.8.010.03
त्रिधा᳚ हि॒तं प॒णिभि॑र्गु॒ह्यमा᳚नं॒ गवि॑ दे॒वासो᳚ घृ॒तमन्व॑विंदन् । इंद्र॒ एकं॒ सूर्य॒ एकं᳚ जजान वे॒नादेकं᳚ स्व॒धया॒ निष्ट॑तक्षुः ॥4.058.04, 3.8.010.04
ए॒ता, अ॑र्षंति॒ हृद्या᳚त् समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे᳚ । घृ॒तस्य॒ धारा᳚ अ॒भि चा᳚कशीमि हिर॒ण्ययो᳚ वेत॒सो मध्य॑ आसां ॥4.058.05, 3.8.010.05
स॒म्यक् स्र॑वंति स॒रितो॒ न धेना᳚ अं॒तर्हृ॒दा मन॑सा पू॒यमा᳚नाः । ए॒ते, अ॑र्षंत्यू॒र्मयो᳚ घृ॒तस्य॑ मृ॒गा, इ॑व क्षिप॒णोरीष॑माणाः ॥4.058.06, 3.8.011.01
सिंधो᳚रिव प्राध्व॒ने शू᳚घ॒नासो॒ वात॑प्रमियः पतयंति य॒ह्वाः । घृ॒तस्य॒ धारा᳚ अरु॒षो न वा॒जी काष्ठा᳚ भिं॒दन्नू॒र्मिभिः॒ पिन्व॑मानः ॥4.058.07, 3.8.011.02
अ॒भि प्र॑वंत॒ सम॑नेव॒ योषाः᳚ कल्या॒ण्य१॑(अः॒) स्मय॑मानासो, अ॒ग्निं । घृ॒तस्य॒ धाराः᳚ स॒मिधो᳚ नसंत॒ ता जु॑षा॒णो ह᳚र्यति जा॒तवे᳚दाः ॥4.058.08, 3.8.011.03
क॒न्या᳚ इव वह॒तुमेत॒वा, उ॑ अं॒ज्यं᳚जा॒ना, अ॒भि चा᳚कशीमि । यत्र॒ सोमः॑ सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा᳚ अ॒भि तत् प॑वंते ॥4.058.09, 3.8.011.04
अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त । इ॒मं य॒ज्ञं न॑यत दे॒वता᳚ नो घृ॒तस्य॒ धारा॒ मधु॑मत् पवंते ॥4.058.10, 3.8.011.05
धाम᳚न् ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तमं॒तः स॑मु॒द्रे हृ॒द्य१॑(अ॒)न्तरायु॑षि । अ॒पामनी᳚के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मंतं त ऊ॒र्मिं ॥4.058.11, 3.8.011.06
30 । न तमंहो इति सूक्तं
नतमित्यष्टर्चस्य सूक्तस्य शैलूषिः कुल्मलबर्हिषो विश्वेदेवाउपरिष्टाद्बृहत्यंत्यात्रिष्टुप् । (अत्रवामदेव्यहोमुक्पाक्षिकऋषिः । कुल्मलबर्हिषैत्यदंतं प्रातिपदिकं) ।
न तमंहो॒ न दु॑रि॒तं देवा᳚सो, अष्ट॒ मर्त्यं᳚ । स॒जोष॑सो॒ यम᳚र्य॒मा मि॒त्रो नयं᳚ति॒ वरु॑णो॒, अति॒ द्विषः॑ ॥10.126.01, 8.7.013.01
तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् । येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः॑ ॥10.126.02, 8.7.013.02
ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा । नयि॑ष्ठा, उ नो ने॒षणि॒ पर्षि॑ष्ठा, उ नः प॒र्षण्यति॒ द्विषः॑ ॥10.126.03, 8.7.013.03
यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा । यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विषः॑ ॥10.126.04, 8.7.013.04
आ॒दि॒त्यासो॒, अति॒ स्रिधो॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा । उ॒ग्रं म॒रुद्भी᳚ रु॒द्रं हु॑वे॒मेंद्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विषः॑ ॥10.126.05, 8.7.013.05
नेता᳚र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो, अ᳚र्य॒मा । अति॒ विश्वा᳚नि दुरि॒ता राजा᳚नश्चर्षणी॒नामति॒ द्विषः॑ ॥10.126.06, 8.7.013.06
शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो, अ᳚र्य॒मा । शर्म॑ यच्छंतु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒, अति॒ द्विषः॑ ॥10.126.07, 8.7.013.07
यथा᳚ ह॒ त्यद्व॑सवो गौ॒र्यं᳚ चित् प॒दि षि॒ताममुं᳚चता यजत्राः । ए॒वो ष्व१॑(अ॒)स्मन्मुं᳚चता॒ व्यंहः॒ प्र ता᳚र्यग्ने प्रत॒रं न॒ आयुः॑ ॥10.126.08, 8.7.013.08
31 । ते वदन् इति सूक्तं
तेवदन्निति सप्तर्चस्य सूक्तस्य ब्रह्मजायाजुहूर्विश्वेदेवास्त्रिष्टुबंत्येद्वेअनुष्टुभौ । (ब्राह्मोवोर्ध्वनाभऋषिः) ।
ते᳚ऽवदन् प्रथ॒मा ब्र᳚ह्मकिल्बि॒षेऽकू᳚पारः सलि॒लो मा᳚त॒रिश्वा᳚ । वी॒ळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो᳚ दे॒वीः प्र॑थम॒जा ऋ॒तेन॑ ॥10.109.01, 8.6.7.1
सोमो॒ राजा᳚ प्रथ॒मो ब्र᳚ह्मजा॒यां पुनः॒ प्राय॑च्छ॒दहृ॑णीयमानः । अ॒न्व॒र्ति॒ता वरु॑णो मि॒त्र आ᳚सीद॒ग्निर्होता᳚ हस्त॒गृह्या नि॑नाय ॥10.109.02, 8.6.7.2
हस्ते᳚नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येयमिति॒ चेदवो᳚चन् । न दू॒ताय॑ प्र॒ह्ये᳚ तस्थ ए॒षा तथा᳚ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥10.109.03, 8.6.7.3
दे॒वा, ए॒तस्या᳚मवदंत॒ पूर्वे᳚ सप्तऋ॒षय॒स्तप॑से॒ ये नि॑षे॒दुः । भी॒मा जा॒या ब्रा᳚ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो᳚मन् ॥10.109.04, 8.6.7.4
ब्र॒ह्म॒चा॒री च॑रति॒ वेवि॑ष॒द्विषः॒ स दे॒वानां᳚ भव॒त्येक॒मंगं᳚ । तेन॑ जा॒यामन्व॑विंद॒द्बृह॒स्पतिः॒ सोमे᳚न नी॒तां जु॒ह्व१॑(अं॒) न दे᳚वाः ॥10.109.05, 8.6.7.5
पुन॒र्वै दे॒वा, अ॑ददुः॒ पुन᳚र्मनु॒ष्या᳚ उ॒त । राजा᳚नः स॒त्यं कृ᳚ण्वा॒ना ब्र᳚ह्मजा॒यां पुन॑र्ददुः ॥10.109.06, 8.6.7.6
पु॒न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वी दे॒वैर्नि॑किल्बि॒षं । ऊर्जं᳚ पृथि॒व्या भ॒क्त्वायो᳚रुगा॒यमुपा᳚सते ॥10.109.07, 8.6.7.7
32 । शंवती सूक्तं
शंनैंद्राग्नीइति पंचदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् । (अत्रसूक्तेसर्वेपिविश्वेदेवाः)।
शं न॑ इंद्रा॒ग्नी भ॑वता॒मवो᳚भिः॒ शं न॒ इंद्रा॒वरु॑णा रा॒तह᳚व्या । शमिंद्रा॒सोमा᳚ सुवि॒ताय॒ शं योः शं न॒ इंद्रा᳚पू॒षणा॒ वाज॑सातौ ॥7.035.01, 5.3.028.01
शं नो॒ भगः॒ शमु॑ नः॒ शंसो᳚ अस्तु॒ शं नः॒ पुरं᳚धिः॒ शमु॑ संतु॒ रायः॑ । शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो᳚ अर्य॒मा पु॑रुजा॒तो, अ॑स्तु ॥7.035.02, 5.3.028.02
शं नो᳚ धा॒ता शमु॑ ध॒र्ता नो᳚ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑ । शं रोद॑सी बृह॒ती शं नो॒, अद्रिः॒ शं नो᳚ दे॒वानां᳚ सु॒हवा᳚नि संतु ॥7.035.03, 5.3.028.03
शं नो᳚ अ॒ग्निर्ज्योति॑रनीको, अस्तु॒ शं नो᳚ मि॒त्रावरु॑णाव॒श्विना॒ शं । शं नः॑ सु॒कृतां᳚ सुकृ॒तानि॑ संतु॒ शं न॑ इषि॒रो, अ॒भि वा᳚तु॒ वातः॑ ॥7.035.04, 5.3.028.04
शं नो॒ द्यावा᳚पृथि॒वी पू॒र्वहू᳚तौ॒ शमं॒तरि॑क्षं दृ॒शये᳚ नो, अस्तु । शं न॒ ओष॑धीर्व॒निनो᳚ भवंतु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ॥7.035.05, 5.3.028.05
शं न॒ इंद्रो॒ वसु॑भिर्दे॒वो, अ॑स्तु॒ शमा᳚दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑ । शं नो᳚ रु॒द्रो रु॒द्रेभि॒र्जला᳚षः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ॥7.035.06, 5.3.029.01
शं नः॒ सोमो᳚ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावा᳚णः॒ शमु॑ संतु य॒ज्ञाः । शं नः॒ स्वरू᳚णां मि॒तयो᳚ भवंतु॒ शं नः॑ प्र॒स्व१॑(अः॒) शम्व॑स्तु॒ वेदिः॑ ॥7.035.07, 5.3.029.02
शं नः॒ सूर्य॑ उरु॒चक्षा॒, उदे᳚तु॒ शं न॒श्चत॑स्रः प्र॒दिशो᳚ भवंतु । शं नः॒ पर्व॑ता ध्रु॒वयो᳚ भवंतु॒ शं नः॒ सिंध॑वः॒ शमु॑ सं॒त्वापः॑ ॥7.035.08, 5.3.029.03
शं नो॒, अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो᳚ भवंतु म॒रुतः॑ स्व॒र्काः । शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो᳚ अस्तु॒ शं नो᳚ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ॥7.035.09, 5.3.029.04
शं नो᳚ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो᳚ भवंतू॒षसो᳚ विभा॒तीः । शं नः॑ प॒र्जन्यो᳚ भवतु प्र॒जाभ्यः॒ शं नः॒, क्षेत्र॑स्य॒ पति॑रस्तु शं॒भुः ॥7.035.10, 5.3.029.05
शं नो᳚ दे॒वा वि॒श्वदे᳚वा भवंतु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु । शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॒ शं नो᳚ दि॒व्याः पार्थि॑वाः॒ शं नो॒, अप्याः᳚ ॥7.035.11, 5.3.030.01
शं नः॑ स॒त्यस्य॒ पत॑यो भवंतु॒ शं नो॒, अर्वं᳚तः॒ शमु॑ संतु॒ गावः॑ । शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो᳚ भवंतु पि॒तरो॒ हवे᳚षु ॥7.035.12, 5.3.030.02
शं नो᳚ अ॒ज एक॑पाद् दे॒वो, अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्य१॑(अः॒) शं स॑मु॒द्रः । शं नो᳚ अ॒पां नपा᳚त् पे॒रुर॑स्तु॒ शं नः॒ पृश्नि॑र्भवतु दे॒वगो᳚पा ॥7.035.13, 5.3.030.03
आ॒दि॒त्या रु॒द्रा वस॑वो जुषंते॒दं ब्रह्म॑ क्रि॒यमा᳚णं॒ नवी᳚यः । शृ॒ण्वंतु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा᳚ता, उ॒त ये य॒ज्ञिया᳚सः ॥7.035.14, 5.3.030.04
ये दे॒वानां᳚ य॒ज्ञिया᳚ य॒ज्ञिया᳚नां॒ मनो॒र्यज॑त्रा, अ॒मृता᳚ ऋत॒ज्ञाः । ते नो᳚ रासंतामुरुगा॒यम॒द्य यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥7.035.15, 5.3.030.05
परिशिष्टम् [ऋग्वेद मंडल 7.035 सूक्तस्यानंतरं][ऋग्वेद अष्टक 5, अध्याय 3, 30 वर्गानंतरं]
शंवतीः पारयंतीत्यस्य षडर्चस्य शांतिसूक्तस्य काण्वो मेधातिथिर्भृगुर्वा ऋषिः अग्नींद्रपर्जन्याद्याः शांतिदेवताः अनुष्टुप् छंदः, अंत्यौ द्वौ मंत्रौ त्रिष्टुभौ ॥
शंव॑ती॒: पार॑य न्त्ये॒ते तं पृ॑च्छंति॒ वचो॒ युजा᳚। अ॒भ्यारं॒तं य॒माके᳚तुं य ए॒वेद मिति॒ ब्रव᳚न्न्॥
भा॒साके᳚तुं परि॒स्रुतं॒ भार॑ती र्ब्रह्म॒वर्ध॑नीः। सं॒जा॒ना॒ना म॒ही मा॒ता य ए॒वेद मिति॒ ब्रव॑त्॥
इंद्र॒स्तंकिं वि॒भुं प्र॒भुं भा॒नुने॒यं सर॑स्वतीं। येन॑ सूर्य॒ मरो᳚चय॒द्येने॒मे रोद॑सी उ॒भे॥
जु॒षस्वा᳚ऽग्ने अंगिरः का॒ण्वं मेध्या᳚तिथिं। मा त्वा॒ सोम॑स्य॒ बर्बृ॑हत्सु॒तस्य॒ मधु॑मत्तमः॥
त्वम॑ग्ने॒ अंगि॑र॒श्शोच॑स्व देव॒वीत॑मः। आ शं᳚तम॒ शंत॑माभि र॒भिष्टि॑भि श्शां॒ति स्स्व॒स्तिम॑कुर्वत॥
शन्न॒: कनि॑क्रद द्दे॒वः प॒र्जन्यो᳚ अ॒भि व॑र्षतु। शन्नो॒ द्यावा᳚पृथि॒वी शं प्र॒जाभ्य॒ श्शन्न॑ एधि द्वि॒पदे॒ शंचतु॑ष्पदे॥
33 । अग्निसूक्तं (ऋग्वेद 10.80)
अग्निःसप्तिमिति सप्तर्चस्य सूक्तस्य सौचीकोग्निरग्नित्रिष्टुप् (वैश्वानरोग्निर्वाजंभरः सप्तिरितीमावृषीपाक्षिकौ) ।
अ॒ग्निः सप्तिं᳚ वाजंभ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं᳚ कर्मनिः॒ष्ठां । अ॒ग्नी रोद॑सी॒ वि च॑रत् समं॒जन्न॒ग्निर्नारीं᳚ वी॒रकु॑क्षिं॒ पुरं᳚धिं ॥10.080.01, 8.3.015.01
अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राऽग्निर्म॒ही रोद॑सी॒, आ वि॑वेश । अ॒ग्निरेकं᳚ चोदयत् स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ॥10.080.02, 8.3.015.02
अ॒ग्निर्ह॒ त्यं जर॑तः॒ कर्ण॑मावा॒ऽग्निर॒द्भ्यो निर॑दह॒ज्जरू᳚थं । अ॒ग्निरत्रिं᳚ घ॒र्म उ॑रुष्यदं॒तर॒ग्निर्नृ॒मेधं᳚ प्र॒जया᳚सृज॒त्सं ॥10.080.03, 8.3.015.03
अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे᳚शा, अ॒ग्निरृषिं॒ यः स॒हस्रा᳚ स॒नोति॑ । अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ऽग्नेर्धामा᳚नि॒ विभृ॑ता पुरु॒त्रा ॥10.080.04, 8.3.015.04
अ॒ग्निमु॒क्थैरृष॑यो॒ वि ह्व॑यंते॒ऽग्निं नरो॒ याम॑नि बाधि॒तासः॑ । अ॒ग्निं वयो᳚ अं॒तरि॑क्षे॒ पतं᳚तो॒ऽग्निः स॒हस्रा॒ परि॑ याति॒ गोनां᳚ ॥10.080.05, 8.3.015.05
अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या, अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः । अ॒ग्निर्गांध᳚र्वीं प॒थ्या᳚मृ॒तस्या॒ऽग्नेर्गव्यू᳚तिर्घृ॒त आ निष॑त्ता ॥10.080.06, 8.3.015.06
अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर॒ग्निं म॒हाम॑वोचामा सुवृ॒क्तिं । अग्ने॒ प्राव॑ जरि॒तारं᳚ यवि॒ष्ठाऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥10.080.07, 8.3.015.07
34 । बळित्था सूक्तं
बळित्था तद्वपुष इति पंचर्चस्य औचथ्यो दीर्घतमाः अग्निर्जगती ॥
बळि॒त्था तद्वपु॑षे धायि दर्श॒तं दे॒वस्य॒ भर्गः॒ सह॑सो॒ यतो॒ जनि॑ । यदी॒मुप॒ ह्वर॑ते॒ साध॑ते म॒तिरृ॒तस्य॒ धेना᳚ अनयंत स॒स्रुतः॑ ॥1.141.01, 2.2.8.1
पृ॒क्षो वपुः॑ पितु॒मान्नित्य॒ आ श॑ये द्वि॒तीय॒मा स॒प्तशि॑वासु मा॒तृषु॑ । तृ॒तीय॑मस्य वृष॒भस्य॑ दो॒हसे॒ दश॑प्रमतिं जनयंत॒ योष॑णः ॥1.141.02, 2.2.8.2
निर्यदीं᳚ बु॒ध्नान्म॑हि॒षस्य॒ वर्प॑स ईशा॒नासः॒ शव॑सा॒ क्रंत॑ सू॒रयः॑ । यदी॒मनु॑ प्र॒दिवो॒ मध्व॑ आध॒वे गुहा॒ संतं᳚ मात॒रिश्वा᳚ मथा॒यति॑ ॥1.141.03, 2.2.8.3
प्र यत् पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो᳚ वी॒रुधो॒ दंसु॑ रोहति । उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो, अभवद् घृ॒णा शुचिः॑ ॥1.141.04, 2.2.8.4
आदिन्मा॒तॄरावि॑श॒द् यास्वा शुचि॒रहिं᳚स्यमान उर्वि॒या वि वा᳚वृधे । अनु॒ यत् पूर्वा॒, अरु॑हत् सना॒जुवो॒ नि नव्य॑सी॒ष्वव॑रासु धावते ॥1.141.05, 2.2.8.5
35 । नवग्रह मंत्राणि
॥ 1 । आदित्यः ॥
आ कृष्णेनेत्यस्य आंगिरसो हिरण्यस्तूपः सविता त्रिष्टुप् । सूर्यावाहने विनियोगः ।
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय᳚न्न॒मृतं॒ मर्त्यं᳚ च । हि॒र॒ण्यये᳚न सवि॒ता रथे॒ना दे॒वो या᳚ति॒ भुव॑नानि॒ पश्य᳚न् ॥1.035.02, 1.3.6.2
अग्निं दूतमित्यस्य काण्वो मेधातिथिः अग्निर्गायत्री ।अग्न्यावाहने विनियोगः ।
अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता᳚रं वि॒श्ववे᳚दसं । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतुं᳚ ॥1.012.01, 1.1.022.01
कद्रुद्रायेत्यस्य घौरः कण्वः रुद्रो गायत्री । रुद्रावाहने विनियोगः ।
कद्रु॒द्राय॒ प्रचे᳚तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शंत॑मं हृ॒दे ॥1.043.01, 1.3.026.01
(त्र्यंबकमित्यस्य मैत्रावरुणिर्वसिष्ठः रुद्रोनुष्टुप्। रुद्रावाहने विनियोगः ।
त्र्यं᳚बकं यजामहे सु॒गंधिं᳚ पुष्टि॒वर्ध॑नं । उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता᳚त् ॥7.059.12, 5.4.030.06)
॥ 2 । सोमः ॥
आ प्यायस्वेत्यस्य रहूगणो गोतमः सोमो गायत्री । सोमावाहने विनियोगः ।
आ प्या᳚यस्व॒ समे᳚तु ते वि॒श्वतः॑ सोम॒ वृष्ण्यं᳚ । भवा॒ वाज॑स्य संग॒थे ॥1.091.16, 1.6.022.01
अप्सु मे सोम इत्यस्य आंबरीषः सिंधुद्वीपः आपो गायत्री । अबावाहने विनियोगः ।
अ॒प्सु मे॒ सोमो᳚ अब्रवीदं॒तर्विश्वा᳚नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वशं᳚भुवं ॥10.009.06, 7.6.5.6
गौरीर्मिमायेत्यस्य औचथ्यो दीर्घतमाः विश्वेदेवाः जगती । उमावाहने विनियोगः ।
गौ॒रीर्मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ स॒हस्रा᳚क्षरा पर॒मे व्यो᳚मन् ॥1.164.41, 2.3.022.01
॥ 3 । अंगारकः ॥
अग्निर्मूर्धेत्यस्य आंगिरसो विरूपः अग्निर्गायत्री । अंगारकावाहने विनियोगः ।
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या, अ॒यं । अ॒पां रेतां᳚सि जिन्वति ॥8.044.16, 6.3.039.01
स्योना पृथिवीत्यस्य काण्वो मेधातिथिः पृथिवी गायत्री । भूम्यावाहने विनियोगः ।
स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी । यच्छा᳚ नः॒ शर्म॑ स॒प्रथः॑ ॥1.022.15, 1.2.6.5
कुमारम् मातेत्यस्य आत्रेयः कुमारः अग्निस्त्रिष्टुप् । स्कंदावाहने विनियोगः ।
कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा᳚ बिभर्ति॒ न द॑दाति पि॒त्रे । अनी᳚कमस्य॒ न मि॒नज्जना᳚सः पु॒रः प॑श्यंति॒ निहि॑तमर॒तौ ॥5.002.01, 3.8.014.01
(कुमारश्चिदित्यस्य शौनको गृत्समदः रुद्रो जगती छंदः । स्कंदावाहने विनियोगः ।
कु॒मा॒रश्चि॑त् पि॒तरं॒ वंद॑मानं॒ प्रति॑ नानाम रुद्रोप॒यंतं᳚ । भूरे᳚र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे᳚ष॒जा रा᳚स्य॒स्मे ॥ 2.33.12, 2.7.18.2)
॥ 4 । बुधः ॥
उद्बुध्यध्वमित्यस्य सौम्यो बुधः विश्वेदेवा ऋत्विजो वा त्रिष्टुप्। बुधावाहने विनियोगः ।
उद्बु॑ध्यध्वं॒ सम॑नसः सखायः॒ सम॒ग्निमिं᳚ध्वं ब॒हवः॒ सनी᳚ळाः । द॒धि॒क्राम॒ग्निमु॒षसं᳚ च दे॒वीमिंद्रा᳚व॒तोऽव॑से॒ नि ह्व॑ये वः ॥10.101.01, 8.5.018.01
इदं विष्णुरित्यस्य काण्वो मेधातिथिः विष्णुर्गायत्री। विष्ण्वावाहने विनियोगः ।
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दं । समू᳚ळ्हमस्य पांसु॒रे ॥1.022.17, 1.2.7.2
सहस्रशीर्षेत्यस्य नारायणः पुरुषोनुष्टुप्। पुरुषावाहने विनियोगः ।
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् । स भूमिं᳚ वि॒श्वतो᳚ वृ॒त्वाऽत्य॑तिष्ठद्दशांगु॒लं ॥10.090.01, 8.4.017.01
॥ 5 । गुरुः ॥
बृहस्पते अति यदर्य इत्यस्य शौनको गृत्समदः बृहस्पतिस्त्रिष्टुप् । बृहस्पत्यावाहने विनियोगः ।
बृह॑स्पते॒, अति॒ यद॒र्यो, अर्हा᳚द् द्यु॒मद् वि॒भाति॒ क्रतु॑म॒ज्जने᳚षु । यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रं ॥2.023.15, 2.6.031.05
इंद्र श्रेष्ठानीत्यस्य शौनको गृत्समदः इंद्रो त्रिष्टुप्। इंद्रावाहने विनियोगः ।
इंद्र॒ श्रेष्ठा᳚नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे । पोषं᳚ रयी॒णामरि॑ष्टिं त॒नूनां᳚ स्वा॒द्मानं᳚ वा॒चः सु॑दिन॒त्वमह्नां᳚ ॥2.021.06, 2.6.027.06
ब्रह्मणा ते ब्रह्मयुजेत्यस्य गाथिनो विश्वामित्रः इंद्रो त्रिष्टुप् । ब्रह्मावाहने विनियोगः ।
ब्रह्म॑णा ते ब्रह्म॒युजा᳚ युनज्मि॒ हरी॒ सखा᳚या सध॒माद॑ आ॒शू । स्थि॒रं रथं᳚ सु॒खमिं᳚द्राधि॒तिष्ठ᳚न् प्रजा॒नन् वि॒द्वाँ, उप॑ याहि॒ सोमं᳚ ॥3.035.04, 3.2.017.04
॥ 6 । शुक्रः ॥
शुक्रं ते अन्यदित्यस्य बार्हस्पत्यो भरद्वाजः पूषा त्रिष्टुप्। शुक्रावाहने विनियोगः ।
शु॒क्रं ते᳚ अ॒न्यद् य॑ज॒तं ते᳚ अ॒न्यद् विषु॑रूपे॒, अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या, अव॑सि स्वधावो भ॒द्रा ते᳚ पूषन्नि॒ह रा॒तिर॑स्तु ॥6.058.01, 4.8.024.01
इंद्राणीमास्विति मंत्रस्य वरुणः इंद्राणी पंक्तिः। इंद्राण्यावाहने विनियोगः ।
इं॒द्रा॒णीमा॒सु नारि॑षु सु॒भगा᳚म॒हम॑श्रवं । न॒ह्य॑स्या, अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥10.086.11, 8.4.3.1
इंद्रं वो विश्वतस्परीत्यस्य वैश्वामित्रो मधुच्छंदाः इंद्रो गायत्री । इंद्रावाहने विनियोगः ।
इंद्रं᳚ वो वि॒श्वत॒स्परि॒ हवा᳚महे॒ जने᳚भ्यः । अ॒स्माक॑मस्तु॒ केव॑लः ॥1.007.10, 1.1.014.05
॥ 7 । शनिः ॥
शमग्निरग्निभिरित्यस्य काण्व इरिंबिठिः अग्निसूर्यानिला उष्णिक्। शनैश्चरावाहने विनियोगः ।
शम॒ग्निर॒ग्निभिः॑ कर॒च्छं न॑स्तपतु॒ सूर्यः॑ । शं वातो᳚ वात्वर॒पा, अप॒ स्रिधः॑ ॥8.018.09, 6.1.026.04
प्रजापते न त्वदेतान्यन्य इत्यस्य प्राजापत्यो हिरण्यगर्भः प्रजापतिस्त्रिष्टुप्। पजापत्यावाहने विनियोगः ।
प्रजा᳚पते॒ न त्वदे॒तान्य॒न्यो विश्वा᳚ जा॒तानि॒ परि॒ ता ब॑भूव । यत् का᳚मास्ते जुहु॒मस्तन्नो᳚ अस्तु व॒यं स्या᳚म॒ पत॑यो रयी॒णां ॥10.121.10, 8.7.4.5
यमाय सोमं सुनुतेत्यस्य वैवस्वतो यमः यमोनुष्टुप् । यमावाहने विनियोगः ।
य॒माय॒ सोमं᳚ सुनुत य॒माय॑ जुहुता ह॒विः । य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू᳚तो॒, अरं᳚कृतः ॥10.014.13, 7.6.016.03
॥ 8 । राहुः ॥
कया नश्चित्र इत्यस्य गौतमो वामदेवः इंद्रो गायत्री
कया᳚ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा᳚ । कया॒ शचि॑ष्ठया वृ॒ता ॥4.031.01, 3.6.024.01
आयं गौः पृश्निरक्रमीदित्यस्य सार्पराज्ञी सार्पराज्ञी सूर्यो वा गायत्री
आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं᳚ पु॒रः । पि॒तरं᳚ च प्र॒यन् त्स्वः॑ ॥10.189.01, 8.8.047.01
परं मृत्यो अनु परेहित्यस्य यामायनः संकुसुकः मृत्युस्त्रिष्टुप् ॥
परं᳚ मृत्यो॒, अनु॒ परे᳚हि॒ पंथां॒ यस्ते॒ स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मा नः॑ प्र॒जां री᳚रिषो॒ मोत वी॒रान् ॥10.018.01, 7.6.026.01
॥ 9 । केतुः ॥
केतुं कृण्वन्नित्यस्य वैश्वामित्रो मधुच्छंदाः इंद्रो गायत्री। केत्वावाहने विनियोगः ।
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो᳚ मर्या, अपे॒शसे᳚ । समु॒षद्भि॑रजायथाः ॥1.006.03, 1.1.011.03
ब्रह्म जज्ञानमित्यस्य वामदेवो ब्रह्मा त्रिष्टुप्। ब्रह्मावाहने विनियोगः ।
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ॥ (आश्वलायन श्रौतसूत्र 4.6.2)
स चित्र चित्रमित्यस्य बार्हस्पत्यो भरद्वाजः अग्निस्त्रिष्टुप्। चित्रगुप्तावाहने विनियोगः ।
स चि॑त्र चि॒त्रं चि॒तयं᳚तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धां । चं॒द्रं र॒यिं पु॑रु॒वीरं᳚ बृ॒हंतं॒ चंद्र॑ चं॒द्राभि॑र्गृण॒ते यु॑वस्व ॥6.006.07, 4.5.8.7
36 । अलक्ष्मीनाशन सूक्तं
अरायीति पंचर्चस्य सूक्तस्य भारद्वाजः शिरिंबिठोऽलक्ष्मीनाशनो द्वितीयातृतीययोर्ब्रह्मणस्पतिरंत्याया विश्वेदेवाअनुष्टुप् ।
अरा᳚यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे । शि॒रिंबि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ॥10.155.01, 8.8.013.01
च॒त्तो, इ॒तश्च॒त्तामुतः॒ सर्वा᳚ भ्रू॒णान्या॒रुषी᳚ । अ॒रा॒य्यं᳚ ब्रह्मणस्पते॒ तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि ॥10.155.02, 8.8.013.02
अ॒दो यद्दारु॒ प्लव॑ते॒ सिंधोः᳚ पा॒रे, अ॑पूरु॒षं । तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रं ॥10.155.03, 8.8.013.03
यद्ध॒ प्राची॒रज॑गं॒तोरो᳚ मंडूरधाणिकीः । ह॒ता, इंद्र॑स्य॒ शत्र॑वः॒ सर्वे᳚ बुद्बु॒दया᳚शवः ॥10.155.04, 8.8.013.04
परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत । दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ, आ द॑धर्षति ॥10.155.05, 8.8.013.05
37 । आयुष्य सूक्तं
इमंस्तोममिति षोडशर्चस्य सूक्तस्य कुत्सोग्निः पूर्वोदेवाइत्यस्यादेवाअग्निश्च तन्नोमित्र इत्यंत्यार्धर्चस्यमित्रवरुणादिति सिंधुपृथिवीद्यावोजगती अंत्येत्रिष्टुभौ । (यद्दैवत्यंवा सूक्तमितिपक्षेऽग्निरेवदेवता) ।
इ॒मं स्तोम॒मर्ह॑ते जा॒तवे᳚दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया᳚ । भ॒द्रा हि नः॒ प्रम॑तिरस्य सं॒सद्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥1.094.01, 1.6.030.01
यस्मै॒ त्वमा॒यज॑से॒ स सा᳚धत्यन॒र्वा क्षे᳚ति॒ दध॑ते सु॒वीर्यं᳚ । स तू᳚ताव॒ नैन॑मश्नोत्यंह॒तिरग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥1.094.02, 1.6.030.02
श॒केम॑ त्वा स॒मिधं᳚ सा॒धया॒ धिय॒स्त्वे दे॒वा ह॒विर॑द॒न् त्याहु॑तं । त्वमा᳚दि॒त्याँ, आ व॑ह॒ तान् ह्यु1॑(उ॒)श्मस्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥1.094.03, 1.6.030.03
भरा᳚मे॒ध्मं कृ॒णवा᳚मा ह॒वींषि॑ ते चि॒तयं᳚तः॒ पर्व॑णापर्वणा व॒यं । जी॒वात॑वे प्रत॒रं सा᳚धया॒ धियोऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥1.094.04, 1.6.030.04
वि॒शां गो॒पा, अ॑स्य चरंति जं॒तवो᳚ द्वि॒पच्च॒ यदु॒त चतु॑ष्पद॒क्तुभिः॑ । चि॒त्रः प्र॑के॒त उ॒षसो᳚ म॒हाँ, अ॒स्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥1.094.05, 1.6.030.05
त्वम॑ध्व॒र्युरु॒त होता᳚सि पू॒र्व्यः प्र॑शा॒स्ता पोता᳚ ज॒नुषा᳚ पु॒रोहि॑तः । विश्वा᳚ वि॒द्वाँ, आर्त्वि॑ज्या धीर पुष्य॒स्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥1.094.06, 1.6.031.01
यो वि॒श्वतः॑ सु॒प्रती᳚कः स॒दृङ्ङसि॑ दू॒रे चि॒त्संत॒ळिदि॒वाति॑ रोचसे । रात्र्या᳚श्चि॒दंधो॒, अति॑ देव पश्य॒स्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥1.094.07, 1.6.031.02
पूर्वो᳚ देवा भवतु सुन्व॒तो रथो॒ऽस्माकं॒ शंसो᳚ अ॒भ्य॑स्तु दू॒ढ्यः॑ । तदा जा᳚नीतो॒त पु॑ष्यता॒ वचोऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥1.094.08, 1.6.031.03
व॒धैर्दुः॒शंसाँ॒, अप॑ दू॒ढ्यो᳚ जहि दू॒रे वा॒ ये, अंति॑ वा॒ के चि॑द॒त्रिणः॑ । अथा᳚ य॒ज्ञाय॑ गृण॒ते सु॒गं कृ॒ध्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥1.094.09, 1.6.031.04
यदयु॑क्था, अरु॒षा रोहि॑ता॒ रथे॒ वात॑जूता वृष॒भस्ये᳚व ते॒ रवः॑ । आदि᳚न्वसि व॒निनो᳚ धू॒मके᳚तु॒नाऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥1.094.10, 1.6.031.05
अध॑ स्व॒नादु॒त बि॑भ्युः पत॒त्रिणो᳚ द्र॒प्सा यत्ते᳚ यव॒सादो॒ व्यस्थि॑रन् । सु॒गं तत्ते᳚ ताव॒केभ्यो॒ रथे॒भ्योऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥1.094.11, 1.6.032.01
अ॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाय॑से वया॒तां म॒रुतां॒ हेळो॒, अद्भु॑तः । मृ॒ळा सु नो॒ भूत्वे᳚षां॒ मनः॒ पुन॒रग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥1.094.12, 1.6.032.02
दे॒वो दे॒वाना᳚मसि मि॒त्रो, अद्भु॑तो॒ वसु॒र्वसू᳚नामसि॒ चारु॑रध्व॒रे । शर्म᳚न् त्स्याम॒ तव॑ स॒प्रथ॑स्त॒मेऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥1.094.13, 1.6.032.03
तत्ते᳚ भ॒द्रं यत्समि॑द्धः॒ स्वे दमे॒ सोमा᳚हुतो॒ जर॑से मृळ॒यत्त॑मः । दधा᳚सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषेऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥1.094.14, 1.6.032.04
यस्मै॒ त्वं सु॑द्रविणो॒ ददा᳚शोऽनागा॒स्त्वम॑दिते स॒र्वता᳚ता । यं भ॒द्रेण॒ शव॑सा चो॒दया᳚सि प्र॒जाव॑ता॒ राध॑सा॒ ते स्या᳚म ॥1.094.15, 1.6.032.05
स त्वम॑ग्ने सौभग॒त्वस्य॑ वि॒द्वान॒स्माक॒मायुः॒ प्र ति॑रे॒ह दे᳚व । तन्नो᳚ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी, उ॒त द्यौः ॥1.094.16, 1.6.032.06
38 । वरुण सूक्तं
नहि ते क्षत्रमित्यारभ्य उदुत्तममिति दशर्चस्य आजीगर्तिः शुनःशेपः (स कृत्रिमो वैश्वामित्रो देवरातः) वरुणस्त्रैष्टुभम्, नक्तोषासा सुपेशसेत्यस्य काण्वो मेधातिथिः उषासानक्ते गायत्री ॥
न॒हि ते᳚ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तयं᳚त आ॒पुः । नेमा, आपो᳚ अनिमि॒षं चरं᳚ती॒र्न ये वात॑स्य प्रमि॒नंत्यभ्वं᳚ ॥1.024.06, 1.2.014.01
अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं᳚ ददते पू॒तद॑क्षः । नी॒चीनाः᳚ स्थुरु॒परि॑ बु॒ध्न ए᳚षाम॒स्मे, अं॒तर्निहि॑ताः के॒तवः॑ स्युः ॥1.024.07, 1.2.014.02
उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या᳚य॒ पंथा॒मन्वे᳚त॒वा, उ॑ । अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥1.024.08, 1.2.014.03
श॒तं ते᳚ राजन् भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे᳚ अस्तु । बाध॑स्व दू॒रे निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत् ॥1.024.09, 1.2.014.04
अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे᳚युः । अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्चं॒द्रमा॒ नक्त॑मेति ॥1.024.10, 1.2.014.05
तत् त्वा᳚ यामि॒ ब्रह्म॑णा॒ वंद॑मान॒स् तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे᳚ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयुः॒ प्र मो᳚षीः ॥1.024.11, 1.2.015.01
तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स् तद॒यं केतो᳚ हृ॒द आ वि च॑ष्टे । शुनः॒शेपो॒ यमह्व॑द् गृभी॒तः सो, अ॒स्मान् राजा॒ वरु॑णो मुमोक्तु ॥1.024.12, 1.2.015.02
शुनः॒शेपो॒ ह्यह्व॑द् गृभी॒तस् त्रि॒ष्वा᳚दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः । अवै᳚नं॒ राजा॒ वरु॑णः ससृज्याद् वि॒द्वाँ, अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा᳚न् ॥1.024.13, 1.2.015.03
अव॑ ते॒ हेळो᳚ वरुण॒ नमो᳚भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय᳚न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां᳚सि शिश्रथः कृ॒तानि॑ ॥1.024.14, 1.2.015.04
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा᳚ध॒मं वि म॑ध्य॒मं श्र॑थाय । अथा᳚ व॒यमा᳚दित्य व्र॒ते तवाना᳚गसो॒, अदि॑तये स्याम ॥1.024.15, 1.2.015.05
नक्तो॒षासा᳚ सु॒पेश॑सा॒ऽस्मिन् य॒ज्ञ उप॑ ह्वये । इ॒दं नो᳚ ब॒र्हिरा॒सदे᳚ ॥1.013.07, 1.1.025.01
यच्चिद्धितइत्येकविंशत्यृचस्य सूक्तस्याजीर्गर्तिःशुनःशेपोवरुणोगायत्री ।
यच्चि॒द्धि ते॒ विशो᳚ यथा॒ प्र दे᳚व वरुण व्र॒तं । मि॒नी॒मसि॒ द्यवि॑द्यवि ॥1.025.01, 1.2.016.01
मा नो᳚ व॒धाय॑ ह॒त्नवे᳚ जिहीळा॒नस्य॑ रीरधः । मा हृ॑णा॒नस्य॑ म॒न्यवे᳚ ॥1.025.02, 1.2.016.02
वि मृ॑ळी॒काय॑ ते॒ मनो᳚ र॒थीरश्वं॒ न संदि॑तं । गी॒र्भिर्व॑रुण सीमहि ॥1.025.03, 1.2.016.03
परा॒ हि मे॒ विम᳚न्यवः॒ पतं᳚ति॒ वस्य॑इष्टये । वयो॒ न व॑स॒तीरुप॑ ॥1.025.04, 1.2.016.04
क॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑णं करामहे । मृ॒ळी॒कायो᳚रु॒चक्ष॑सं ॥1.025.05, 1.2.016.05
तदित् स॑मा॒नमा᳚शाते॒ वेनं᳚ता॒ न प्र यु॑च्छतः । धृ॒तव्र॑ताय दा॒शुषे᳚ ॥1.025.06, 1.2.017.01
वेदा॒ यो वी॒नां प॒दमं॒तरि॑क्षेण॒ पत॑तां । वेद॑ ना॒वः स॑मु॒द्रियः॑ ॥1.025.07, 1.2.017.02
वेद॑ मा॒सो धृ॒तव्र॑तो॒ द्वाद॑श प्र॒जाव॑तः । वेदा॒ य उ॑प॒जाय॑ते ॥1.025.08, 1.2.017.03
वेद॒ वात॑स्य वर्त॒निमु॒रोरृ॒ष्वस्य॑ बृह॒तः । वेदा॒ ये, अ॒ध्यास॑ते ॥1.025.09, 1.2.017.04
नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒3॑(आ॒)स्वा । साम्रा᳚ज्याय सु॒क्रतुः॑ ॥1.025.10, 1.2.017.05
अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ, अ॒भि प॑श्यति । कृ॒तानि॒ या च॒ कर्त्वा᳚ ॥1.025.11, 1.2.018.01
स नो᳚ वि॒श्वाहा᳚ सु॒क्रतु॑रादि॒त्यः सु॒पथा᳚ करत् । प्र ण॒ आयूं᳚षि तारिषत् ॥1.025.12, 1.2.018.02
बिभ्र॑द्द्रा॒पिं हि॑र॒ण्ययं॒ वरु॑णो वस्त नि॒र्णिजं᳚ । परि॒ स्पशो॒ नि षे᳚दिरे ॥1.025.13, 1.2.018.03
न यं दिप्सं᳚ति दि॒प्सवो॒ न द्रुह्वा᳚णो॒ जना᳚नां । न दे॒वम॒भिमा᳚तयः ॥1.025.14, 1.2.018.04
उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे, असा॒म्या । अ॒स्माक॑मु॒दरे॒ष्वा ॥1.025.15, 1.2.018.05
परा᳚ मे यंति धी॒तयो॒ गावो॒ न गव्यू᳚ती॒रनु॑ । इ॒च्छंती᳚रुरु॒चक्ष॑सं ॥1.025.16, 1.2.019.01
सं नु वो᳚चावहै॒ पुन॒र्यतो᳚ मे॒ मध्वाभृ॑तं । होते᳚व॒ क्षद॑से प्रि॒यं ॥1.025.17, 1.2.019.02
दर्शं॒ नु वि॒श्वद॑र्शतं॒ दर्शं॒ रथ॒मधि॒ क्षमि॑ । ए॒ता जु॑षत मे॒ गिरः॑ ॥1.025.18, 1.2.019.03
इ॒मं मे᳚ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय । त्वाम॑व॒स्युरा च॑के ॥1.025.19, 1.2.019.04
त्वं विश्व॑स्य मेधिर दि॒वश्च॒ ग्मश्च॑ राजसि । स याम॑नि॒ प्रति॑ श्रुधि ॥1.025.20, 1.2.019.05
उदु॑त्त॒मं मु॑मुग्धि नो॒ वि पाशं᳚ मध्य॒मं चृ॑त । अवा᳚ध॒मानि॑ जी॒वसे᳚ ॥1.025.21, 1.2.019.06
प्रसम्राजैत्यष्टर्चस्य सूक्तस्य भौमोत्रिर्वरुणत्रिष्टुप् ।
प्र स॒म्राजे᳚ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ । वि यो ज॒घान॑ शमि॒तेव॒ चर्मो᳚प॒स्तिरे᳚ पृथि॒वीं सूर्या᳚य ॥5.085.01, 4.4.030.01
वने᳚षु॒ व्य१॑(अ॒)न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया᳚सु । हृ॒त्सु क्रतुं॒ वरु॑णो, अ॒प्स्व१॑(अ॒)ग्निं दि॒वि सूर्य॑मदधा॒त् सोम॒मद्रौ᳚ ॥5.085.02, 4.4.030.02
नी॒चीन॑बारं॒ वरु॑णः॒ कवं᳚धं॒ प्र स॑सर्ज॒ रोद॑सी, अं॒तरि॑क्षं । तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ॥5.085.03, 4.4.030.03
उ॒नत्ति॒ भूमिं᳚ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् । सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यंतः॑ श्रथयंत वी॒राः ॥5.085.04, 4.4.030.04
इ॒मामू॒ ष्वा᳚सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो᳚चं । माने᳚नेव तस्थि॒वाँ, अं॒तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये᳚ण ॥5.085.05, 4.4.030.05
इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष । एकं॒ यदु॒द्ना न पृ॒णंत्येनी᳚रासिं॒चंती᳚र॒वन॑यः समु॒द्रं ॥5.085.06, 4.4.031.01
अ॒र्य॒म्यं᳚ वरुण मि॒त्र्यं᳚ वा॒ सखा᳚यं वा॒ सद॒मिद् भ्रात॑रं वा । वे॒शं वा॒ नित्यं᳚ वरु॒णार॑णं वा॒ यत् सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ॥5.085.07, 4.4.031.02
कि॒त॒वासो॒ यद् रि॑रि॒पुर्न दी॒वि यद् वा᳚ घा स॒त्यमु॒त यन्न वि॒द्म । सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाऽधा᳚ ते स्याम वरुण प्रि॒यासः॑ ॥5.085.08, 4.4.031.03
धीरात्वित्यष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुप् ।
धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तंभ॒ रोद॑सी चिदु॒र्वी । प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हंतं᳚ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ॥7.086.01, 5.6.8.1
उ॒त स्वया᳚ त॒न्वा॒3॑(आ॒) सं व॑दे॒ तत्क॒दा न्व१॑(अ॒)न्तर्वरु॑णे भुवानि । किं मे᳚ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना᳚ अ॒भि ख्यं᳚ ॥7.086.02, 5.6.8.2
पृ॒च्छे तदेनो᳚ वरुण दि॒दृक्षूपो᳚ एमि चिकि॒तुषो᳚ वि॒पृच्छं᳚ । स॒मा॒नमिन्मे᳚ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ॥7.086.03, 5.6.8.3
किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत् स्तो॒तारं॒ जिघां᳚ससि॒ सखा᳚यं । प्र तन्मे᳚ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑यां ॥7.086.04, 5.6.8.4
अव॑ द्रु॒ग्धानि॒ पित्र्या᳚ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभिः॑ । अव॑ राजन् पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठं ॥7.086.05, 5.6.8.5
न स स्वो दक्षो᳚ वरुण॒ ध्रुतिः॒ सा सुरा᳚ म॒न्युर्वि॒भीद॑को॒, अचि॑त्तिः । अस्ति॒ ज्याया॒न् कनी᳚यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ॥7.086.06, 5.6.8.6
अरं᳚ दा॒सो न मी॒ळ्हुषे᳚ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना᳚गाः । अचे᳚तयद॒चितो᳚ दे॒वो, अ॒र्यो गृत्सं᳚ रा॒ये क॒वित॑रो जुनाति ॥7.086.07, 5.6.8.7
अ॒यं सु तुभ्यं᳚ वरुण स्वधावो हृ॒दि स्तोम॒ उप॑श्रितश्चिदस्तु । शं नः॒, क्षेमे॒ शमु॒ योगे᳚ नो, अस्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥7.086.08, 5.6.8.8
रदत्पथैति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुप् ।
रद॑त्प॒थो वरु॑णः॒ सूर्या᳚य॒ प्रार्णां᳚सि समु॒द्रिया᳚ न॒दीनां᳚ । सर्गो॒ न सृ॒ष्टो, अर्व॑तीरृता॒यंच॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ॥7.087.01, 5.6.9.1
आ॒त्मा ते॒ वातो॒ रज॒ आ न॑वीनोत्प॒शुर्न भूर्णि॒र्यव॑से सस॒वान् । अं॒तर्म॒ही बृ॑ह॒ती रोद॑सी॒मे विश्वा᳚ ते॒ धाम॑ वरुण प्रि॒याणि॑ ॥7.087.02, 5.6.9.2
परि॒ स्पशो॒ वरु॑णस्य॒ स्मदि॑ष्टा, उ॒भे प॑श्यंति॒ रोद॑सी सु॒मेके᳚ । ऋ॒तावा᳚नः क॒वयो᳚ य॒ज्ञधी᳚राः॒ प्रचे᳚तसो॒ य इ॒षयं᳚त॒ मन्म॑ ॥7.087.03, 5.6.9.3
उ॒वाच॑ मे॒ वरु॑णो॒ मेधि॑राय॒ त्रिः स॒प्त नामाघ्न्या᳚ बिभर्ति । वि॒द्वान् प॒दस्य॒ गुह्या॒ न वो᳚चद्यु॒गाय॒ विप्र॒ उप॑राय॒ शिक्ष᳚न् ॥7.087.04, 5.6.9.4
ति॒स्रो द्यावो॒ निहि॑ता, अं॒तर॑स्मिंति॒स्रो भूमी॒रुप॑राः॒ षड्वि॑धानाः । गृत्सो॒ राजा॒ वरु॑णश्चक्र ए॒तं दि॒वि प्रें॒खं हि॑र॒ण्ययं᳚ शु॒भे कं ॥7.087.05, 5.6.9.5
अव॒ सिंधुं॒ वरु॑णो॒ द्यौरि॑व स्थाद्द्र॒प्सो न श्वे॒तो मृ॒गस्तुवि॑ष्मान् । गं॒भी॒रशं᳚सो॒ रज॑सो वि॒मानः॑ सुपा॒रक्ष॑त्रः स॒तो, अ॒स्य राजा᳚ ॥7.087.06, 5.6.9.6
यो मृ॒ळया᳚ति च॒क्रुषे᳚ चि॒दागो᳚ व॒यं स्या᳚म॒ वरु॑णे॒, अना᳚गाः । अनु᳚ व्र॒तान्यदि॑तेरृ॒धंतो᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥7.087.07, 5.6.9.7
प्रशुंध्युवमिति सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणस्त्रिष्टुबंत्याजगती । (अंत्यापाशविमोचनीतिगुणः) ।
प्र शुं॒ध्युवं॒ वरु॑णाय॒ प्रेष्ठां᳚ म॒तिं व॑सिष्ठ मी॒ळ्हुषे᳚ भरस्व । य ई᳚म॒र्वांचं॒ कर॑ते॒ यज॑त्रं स॒हस्रा᳚मघं॒ वृष॑णं बृ॒हंतं᳚ ॥7.088.01, 5.6.010.01
अधा॒ न्व॑स्य सं॒दृशं᳚ जग॒न्वान॒ग्नेरनी᳚कं॒ वरु॑णस्य मंसि । स्व१॑(अ॒)र्यदश्म᳚न्नधि॒पा, उ॒ अंधो॒ऽभि मा॒ वपु॑र्दृ॒शये᳚ निनीयात् ॥7.088.02, 5.6.010.02
आ यद्रु॒हाव॒ वरु॑णश्च॒ नावं॒ प्र यत्स॑मु॒द्रमी॒रया᳚व॒ मध्यं᳚ । अधि॒ यद॒पां स्नुभि॒श्चरा᳚व॒ प्र प्रें॒ख ईं᳚खयावहै शु॒भे कं ॥7.088.03, 5.6.010.03
वसि॑ष्ठं ह॒ वरु॑णो ना॒व्याधा॒दृषिं᳚ चकार॒ स्वपा॒ महो᳚भिः । स्तो॒तारं॒ विप्रः॑ सुदिन॒त्वे, अह्नां॒ यान्नु द्याव॑स्त॒तन॒न्यादु॒षासः॑ ॥7.088.04, 5.6.010.04
क्व१॑(अ॒) त्यानि॑ नौ स॒ख्या ब॑भूवुः॒ सचा᳚वहे॒ यद॑वृ॒कं पु॒रा चि॑त् । बृ॒हंतं॒ मानं᳚ वरुण स्वधावः स॒हस्र॑द्वारं जगमा गृ॒हं ते᳚ ॥7.088.05, 5.6.010.05
य आ॒पिर्नित्यो᳚ वरुण प्रि॒यः संत्वामागां᳚सि कृ॒णव॒त्सखा᳚ ते । मा त॒ एन॑स्वंतो यक्षिन् भुजेम यं॒धि ष्मा॒ विप्रः॑ स्तुव॒ते वरू᳚थं ॥7.088.06, 5.6.010.06
ध्रु॒वासु॑ त्वा॒सु क्षि॒तिषु॑ क्षि॒यंतो॒ व्य१॑(अ॒)स्मत्पाशं॒ वरु॑णो मुमोचत् । अवो᳚ वन्वा॒ना, अदि॑तेरु॒पस्था᳚द् यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥7.088.07, 5.6.010.07
मोषुवरुणेति पंचर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठोवरुणोगायत्र्यंत्याजगती ।
मो षु व॑रुण मृ॒न्मयं᳚ गृ॒हं रा᳚जन्न॒हं ग॑मं । मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥7.089.01, 5.6.011.01
यदेमि॑ प्रस्फु॒रन्नि॑व॒ दृति॒र्न ध्मा॒तो, अ॑द्रिवः । मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥7.089.02, 5.6.011.02
क्रत्वः॑ समह दी॒नता᳚ प्रती॒पं ज॑गमा शुचे । मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥7.089.03, 5.6.011.03
अ॒पां मध्ये᳚ तस्थि॒वांसं॒ तृष्णा᳚विदज्जरि॒तारं᳚ । मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥7.089.04, 5.6.011.04
यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने᳚ऽभिद्रो॒हं म॑नु॒ष्या॒3॑(आ॒)श्चरा᳚मसि । अचि॑त्ती॒ यत्तव॒ धर्मा᳚ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥7.089.05, 5.6.011.05
अस्माऊष्विति दशर्चस्य सूक्तस्य काण्वोनाभाकोवरुणोमहापंक्तिः ।
अ॒स्मा, ऊ॒ षु प्रभू᳚तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा᳚ वि॒दुष्ट॑रेभ्यः । यो धी॒ता मानु॑षाणां प॒श्वो गा, इ॑व॒ रक्ष॑ति॒ नभं᳚तामन्य॒के स॑मे ॥8.041.01, 6.3.026.01
तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः । ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिंधू᳚ना॒मुपो᳚द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभं᳚तामन्य॒के स॑मे ॥8.041.02, 6.3.026.02
स क्षपः॒ परि॑ षस्वजे॒ न्यु1॑(उ॒)स्रो मा॒यया᳚ दधे॒ स विश्वं॒ परि॑ दर्श॒तः । तस्य॒ वेनी॒रनु᳚ व्र॒तमु॒षस्ति॒स्रो, अ॑वर्धय॒न्नभं᳚तामन्य॒के स॑मे ॥8.041.03, 6.3.026.03
यः क॒कुभो᳚ निधार॒यः पृ॑थि॒व्यामधि॑ दर्श॒तः । स माता᳚ पू॒र्व्यं प॒दं तद्वरु॑णस्य॒ सप्त्यं॒ स हि गो॒पा, इ॒वेर्यो॒ नभं᳚तामन्य॒के स॑मे ॥8.041.04, 6.3.026.04
यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा᳚मपी॒च्या॒3॑(आ॒) वेद॒ नामा᳚नि॒ गुह्या᳚ । स क॒विः काव्या᳚ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभं᳚तामन्य॒के स॑मे ॥8.041.05, 6.3.026.05
यस्मि॒न् विश्वा᳚नि॒ काव्या᳚ च॒क्रे नाभि॑रिव श्रि॒ता । त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे᳚ यु॒जे, अश्वाँ᳚, अयुक्षत॒ नभं᳚तामन्य॒के स॑मे ॥8.041.06, 6.3.027.01
य आ॒स्वत्क॑ आ॒शये॒ विश्वा᳚ जा॒तान्ये᳚षां । परि॒ धामा᳚नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे᳚ दे॒वा, अनु᳚ व्र॒तं नभं᳚तामन्य॒के स॑मे ॥8.041.07, 6.3.027.02
स स॑मु॒द्रो, अ॑पी॒च्य॑स्तु॒रो द्यामि॑व रोहति॒ नि यदा᳚सु॒ यजु॑र्द॒धे । स मा॒या, अ॒र्चिना᳚ प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभं᳚तामन्य॒के स॑मे ॥8.041.08, 6.3.027.03
यस्य॑ श्वे॒ता वि॑चक्ष॒णा ति॒स्रो भूमी᳚रधिक्षि॒तः । त्रिरुत्त॑राणि प॒प्रतु॒र्वरु॑णस्य ध्रु॒वं सदः॒ स स॑प्ता॒नामि॑रज्यति॒ नभं᳚तामन्य॒के स॑मे ॥8.041.09, 6.3.027.04
यः श्वे॒ताँ, अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ, अनु᳚ व्र॒ता । स धाम॑ पू॒र्व्यं म॑मे॒ यः स्कं॒भेन॒ वि रोद॑सी, अ॒जो न द्यामधा᳚रय॒न्नभं᳚तामन्य॒के स॑मे ॥8.041.10, 6.3.027.05
अस्तभ्नाद्द्यामिती त्यर्चस्य काण्वो नाभाकः वरुणस्त्रैष्टुभम्, सुदेवो असीत्यस्य आंगिरसः प्रियमेधः वरुणोनुष्टुप् ॥
अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे᳚दा॒, अमि॑मीत वरि॒माणं᳚ पृथि॒व्याः । आसी᳚द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥8.042.01, 6.3.028.01
ए॒वा वं᳚दस्व॒ वरु॑णं बृ॒हंतं᳚ नम॒स्या धीर॑म॒मृत॑स्य गो॒पां । स नः॒ शर्म॑ त्रि॒वरू᳚थं॒ वि यं᳚सत्पा॒तं नो᳚ द्यावापृथिवी, उ॒पस्थे᳚ ॥8.042.02, 6.3.028.02
इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं᳚ वरुण॒ सं शि॑शाधि । ययाति॒ विश्वा᳚ दुरि॒ता तरे᳚म सु॒तर्मा᳚ण॒मधि॒ नावं᳚ रुहेम ॥8.042.03, 6.3.028.03
सु॒दे॒वो, अ॑सि वरुण॒ यस्य॑ ते स॒प्त सिंध॑वः । अ॒नु॒क्षरं᳚ति का॒कुदं᳚ सू॒र्म्यं᳚ सुषि॒रामि॑व ॥8.069.12, 6.5.7.2
39 । शिव संकल्प हृदयं
परिशिष्टम् [ऋग्वेद मंडल 10, 166 सूक्तस्यानंतरं][ऋग्वेद अष्टक 8, अध्याय 8, 24 वर्गानंतरं]
येनेदमिति षड्विंशत्यर्चस्य शिवसंकल्पसूक्तस्य शिवः सूर्यो मानसं वा आत्मा वा ऋषिः मनः शिवो महेश्वरो वा देवता अनुष्टुप् छंदः, एकादशी त्रिष्टुप्, द्वादशी जगती, प्रथमा पंचमी नवमी दशमी च त्रिष्टुभः ॥
येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑ गृहीतम॒मृते᳚न॒ सर्वं᳚ । येन॑ य॒ज्ञस्ता॒यते स॒प्तहो᳚ता॒ तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥1॥
येन॒ कर्मा᳚ण्य॒पसो᳚ मनी॒षिणो᳚ य॒ज्ञे कृ॒ण्वंति॑ वि॒दथे᳚षु॒ धीराः᳚ । यद॑पू॒र्वं य॒क्षमं॒तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥2॥
यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वेति॑ ।दू॒रं॒ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥3॥
यत् प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑रं॒तर॒मृतं᳚ प्र॒जासु॑ । यस्मा॒न्न ऋ॒ते किंच॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥4॥
यस्मि॒न्नृचः॒ साम॒ यजूं᳚षि॒ यस्मि॒न् प्रति॑ष्ठिता रथ॒नाभावि॑वा॒राः ।यस्मिं᳚श्चि॒त्तं सर्व॒मोतं᳚ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥5॥
सु॒षा॒र॒थिरश्वा᳚निव॒ यन्म॑नु॒ष्या᳚न् नेनी॒यते॒ऽभिशु॑भिर्वा॒जिन॑ इव । हृत्प्रति॑ष्ठं॒ यद॑जि॒रं यवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥6॥
ये पंच॑ पंचा॒शतः॑ श॒तं च॑ स॒हस्रं᳚ च नि॒युतं᳚ चार्बु॒दं च॑ । ते य॑ज्ञचि॒त्तेष्ट॒काटं॒ शरी᳚रं॒ तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥7॥
वेदा॒हमे॒तं पुरु॑षं म॒हांत॑ मादि॒त्यव᳚र्णं॒ तम॑सः॒ पर॑स्तात् । तस्य॒ योनिं॒ परि॑पश्यंति॒ धीरा॒स्तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥8॥
येन॒ कर्मा᳚णि॒ प्रच॑रंति॒ धीरा॒ विप्रा᳚ वा॒चा मन॑सा॒ कर्म॑णा वा । यत् स्वां॒ दिश॑मनु॒ संयं᳚ति प्रा॒णिन॒स्तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥9॥
ये मे॒ मनो॒ हृद॑यं॒ ये च॑ दे॒वा ये, अं॒तरि॑क्षं बहु॒धा क॒ल्पयं᳚ति । ये श्रोत्रं᳚ च च॒क्षुषी॒ संच॑रंति॒ तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥10॥
यस्ये॒दं धीराः᳚ पु॒नंति॑ क॒वयो᳚ ब्र॒ह्माण॑मे॒तं व्यावृ॑णुत॒ इंदुं᳚ । स्थाव॒रं जंग॑मं च॒ द्यौरा᳚का॒शं तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥11॥
येन॒ द्यौरु॒ग्रा पृ॑थि॒वी चां॒तरि॑क्षं॒ येन॒ पर्व॑ताः प्र॒दिशो॒ दिश॑श्च । येने॒दं सर्वं᳚ जग॒द्व्याप्तं᳚ प्र॒जान॒त् तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥12॥
अव्य॑क्तं॒ चाप्र॑मेयं॒ च व्य॒क्ताव्य॑क्तप॒रं शि॑वं । सूक्ष्मा᳚त् सू॒क्ष्मत॑रं ज्ञे॒यं तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥13॥
कै॒लास॒शिख॑रे र॒म्ये शं॒कर॑स्य गृ॒हाल॑यं । दे॒वता॒स्तत् प्र॑मोदं॒ते तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥14॥
आ॒दि॒त्यव᳚र्णं॒ तप॑सा ज्वलं॒तं यत् पश्य॑सि॒ गुहा᳚सु॒ जाय॑मानः । शि॒वरू॒पं शि॒वमु॒दितं शि॒वाल॑यं॒ तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥15॥
येने॒दं सर्वं॒ जग॑तो ब॒भूव॒ यद्दे॒वा, अपि॑ मह॒तो जा॒तवे᳚दाः । यदे॒वाग्र्यं॒ तप॑सो॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥16॥
गोभि॑र्जु॒ष्टो ध॑नेन ह्या॒युषा᳚ च ब॒लेन॑ च । प्र॒जया᳚ प॒शुभिः॑ पुष्करा॒र्धं तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥17॥
योऽसौ᳚ स॒र्वेषु॑ वेदे॒षु प॒ठ्यते᳚ऽनद॒ ईश्व॑रः । अका᳚र्यो॒ निर्व्र॑णो ह्या॒त्मा तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥18॥
यो वेदा᳚दिषु॒ गाय॒त्री स॒र्वव्या᳚पी म॒हेश्व॑रः । तदु॑क्तं॒ च य॑दा ज्ञे॒यं तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥19॥
प्रयत॒प्राण॑ ओंका॒रं प्र॒णवं᳚ च म॒हेश्व॑रं । यः सर्वं॒ यस्य॑ चित् स॒र्वं तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥20॥
यो वै᳚ वे॒द म॑हादे॒वं प्र॒णवं᳚ पुरु॒षोत्त॑मं । ओं॒कारं॒ पर॑मात्मा॒नं तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥21॥[व:4]
ओं॒कारं॒ च॑तुर्भु॒जं लो॒कना᳚थं नारायणं । सर्व॑स्थि॒तं स᳚र्वग॒तं सर्व᳚व्या॒प्तं तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥22॥
त॒त् परा᳚त् पर॒तो ब्र॒ह्मा त॒त् परा᳚त् पर॒तो हरिः॑ । परा᳚त् प॒रत॑रं ज्ञा॒नं तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥23॥
य इ॒दं शिव॑संक॒ल्पं स॒दाधी᳚यंति॒ ब्राह्म॑णाः । ते परं॒ मोक्ष॑माप्स्यं॒ति तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥24॥
अस्ति॒ नास्ति॑ शयि॒त्वा सर्व॑मि॒दं नास्ति॒ पुन॒स्तथै᳚व दृ॒ष्टं ध्रु॒वं । अस्ति॒ नास्ति॑ हि॒तं म॑ध्य॒मं प॒दं तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥25॥
अस्ति॒ नास्ति॑ विप॒रीतो᳚ प्र॒वादो᳚ ऽस्ति॒ नास्ति॒ गुह्यं॒ व इ॒दं सर्वं᳚ । अस्ति॒ नास्ति॑ परा॒त् परो᳚ यत् परं॒ तन्मे॒ मनः॑ शि॒वसं᳚क॒ल्पम॑स्तु ॥26॥
40 । ज्ञान सूक्तं
बृहस्पतैत्येकादशर्चस्य सूक्तस्यांगिरसो बृहस्पतिर्ज्ञानंत्रिष्टुप् नवमी जगती ।
बृह॑स्पते प्रथ॒मं वा॒चो, अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा᳚नाः । यदे᳚षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी᳚त्प्रे॒णा तदे᳚षां॒ निहि॑तं॒ गुहा॒विः ॥10.071.01, 8.2.023.01
सक्तु॑मिव॒ तित॑उना पु॒नंतो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त । अत्रा॒ सखा᳚यः स॒ख्यानि॑ जानते भ॒द्रैषां᳚ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥10.071.02, 8.2.023.02
य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑मायं॒तामन्व॑विंद॒न्नृषि॑षु॒ प्रवि॑ष्टां । तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा, अ॒भि सं न॑वंते ॥10.071.03, 8.2.023.03
उ॒त त्वः॒ पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्वः॑ शृ॒ण्वन्न शृ॑णोत्येनां । उ॒तो त्व॑स्मै त॒न्व१॑(अं॒) वि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः᳚ ॥10.071.04, 8.2.023.04
उ॒त त्वं᳚ स॒ख्ये स्थि॒रपी᳚तमाहु॒र्नैनं᳚ हिन्वं॒त्यपि॒ वाजि॑नेषु । अधे᳚न्वा चरति मा॒ययै॒ष वाचं᳚ शुश्रु॒वाँ, अ॑फ॒लाम॑पु॒ष्पां ॥10.071.05, 8.2.023.05
यस्ति॒त्याज॑ सचि॒विदं॒ सखा᳚यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो, अ॑स्ति । यदीं᳚ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पंथां᳚ ॥10.071.06, 8.2.024.01
अ॒क्ष॒ण्वंतः॒ कर्ण॑वंतः॒ सखा᳚यो मनोज॒वेष्वस॑मा बभूवुः । आ॒द॒घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा, इ॑व॒ स्नात्वा᳚ उ त्वे ददृश्रे ॥10.071.07, 8.2.024.02
हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा᳚ह्म॒णाः सं॒यजं᳚ते॒ सखा᳚यः । अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रंत्यु त्वे ॥10.071.08, 8.2.024.03
इ॒मे ये नार्वाङ्न प॒रश्चरं᳚ति॒ न ब्रा᳚ह्म॒णासो॒ न सु॒तेक॑रासः । त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया᳚ सि॒रीस्तंत्रं᳚ तन्वते॒, अप्र॑जज्ञयः ॥10.071.09, 8.2.024.04
सर्वे᳚ नंदंति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा᳚यः । कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये᳚षा॒मरं᳚ हि॒तो भव॑ति॒ वाजि॑नाय ॥10.071.10, 8.2.024.05
ऋ॒चां त्वः॒ पोष॑मास्ते पुपु॒ष्वान् गा᳚य॒त्रं त्वो᳚ गायति॒ शक्व॑रीषु । ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ॥10.071.11, 8.2.024.06
41 । दुःस्वप्न हरण सूक्तं
अपेहीति पंचर्चस्य सूक्तस्यांगिरसः प्रचेता दुःस्वप्ननाशनोनुष्टुप् तृतीया त्रिष्टुप् अंत्यापंक्तिः ।
अपे᳚हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र । प॒रो निरृ॑त्या॒, आ च॑क्ष्व बहु॒धा जीव॑तो॒ मनः॑ ॥10.164.01, 8.8.022.01
भ॒द्रं वै वरं᳚ वृणते भ॒द्रं युं᳚जंति॒ दक्षि॑णं । भ॒द्रं वै᳚वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मनः॑ ॥10.164.02, 8.8.022.02
यदा॒शसा᳚ निः॒शसा᳚भि॒शसो᳚पारि॒म जाग्र॑तो॒ यत्स्व॒पंतः॑ । अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे, अ॒स्मद्द॑धातु ॥10.164.03, 8.8.022.03
यदिं᳚द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा᳚मसि । प्रचे᳚ता न आंगिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥10.164.04, 8.8.022.04
अजै᳚ष्मा॒द्यास॑नाम॒ चाभू॒माना᳚गसो व॒यं । जा॒ग्र॒त्स्व॒प्नः सं᳚क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ॥10.164.05, 8.8.022.05
यो मे राजन्नित्यस्य गार्त्समदः कूर्मः वरुणस्त्रिष्टुप्, अध स्वप्नस्येत्यस्य दैर्घतमसः कक्षीवान् अश्विनौ गायत्री, यच्च गोष्विति पंचर्चस्य अप्त्यस्त्रितः आदित्या उषाश्च महापंक्तिः ॥
यो मे᳚ राज॒न् युज्यो᳚ वा॒ सखा᳚ वा॒ स्वप्ने᳚ भ॒यं भी॒रवे॒ मह्य॒माह॑ । स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको᳚ वा॒ त्वं तस्मा᳚द् वरुण पाह्य॒स्मान् ॥2.028.10, 2.7.010.05
अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभुं᳚जतश्च रे॒वतः॑ । उ॒भा ता बस्रि॑ नश्यतः ॥1.120.12, 1.8.023.07
यच्च॒ गोषु॑ दु॒ष्ष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः । त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा᳚ वहाने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ॥8.047.14, 6.4.9.4
नि॒ष्कं वा᳚ घा कृ॒णव॑ते॒ स्रजं᳚ वा दुहितर्दिवः । त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ॥8.047.15, 6.4.9.5
तद᳚न्नाय॒ तद॑पसे॒ तं भा॒गमु॑पसे॒दुषे᳚ । त्रि॒ताय॑ च द्वि॒ताय॒ चोषो᳚ दु॒ष्ष्वप्न्यं᳚ वहाने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ॥8.047.16, 6.4.010.01
यथा᳚ क॒लां यथा᳚ श॒फं यथ॑ ऋ॒णं सं॒नया᳚मसि । ए॒वा दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये सं न॑यामस्यने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ॥8.047.17, 6.4.010.02
अजै᳚ष्मा॒द्यास॑नाम॒ चाभू॒माना᳚गसो व॒यं । उषो॒ यस्मा᳚द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ॥8.047.18, 6.4.010.03
42 । गर्भस्राविणी उपनिषत्
प्रमंदिनैत्येकादशर्चस्य सूक्तस्य कुत्स इंद्रोजगतीअंत्याश्चतस्रत्रिष्टुभः । (आद्यागर्भस्राविणीतिगुणः) ।
प्र मं॒दिने᳚ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह᳚न्नृ॒जिश्व॑ना । अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्वं᳚तं स॒ख्याय॑ हवामहे ॥1.101.01, 1.7.012.01
यो व्यं᳚सं जाहृषा॒णेन॑ म॒न्युना॒ यः शंब॑रं॒ यो, अह॒न् पिप्रु॑मव्र॒तं । इंद्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ् म॒रुत्वं᳚तं स॒ख्याय॑ हवामहे ॥1.101.02, 1.7.012.02
यस्य॒ द्यावा᳚पृथि॒वी पौंस्यं᳚ म॒हद् यस्य᳚ व्र॒ते वरु॑णो॒ यस्य॒ सूर्यः॑ । यस्येंद्र॑स्य॒ सिंध॑वः॒ सश्च॑ति व्र॒तं म॒रुत्वं᳚तं स॒ख्याय॑ हवामहे ॥1.101.03, 1.7.012.03
यो, अश्वा᳚नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ᳚रि॒तः कर्म॑णिकर्मणि स्थि॒रः । वी॒ळोश्चि॒दिंद्रो॒ यो, असु᳚न्वतो व॒धो म॒रुत्वं᳚तं स॒ख्याय॑ हवामहे ॥1.101.04, 1.7.012.04
यो विश्व॑स्य॒ जग॑तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे᳚ प्रथ॒मो गा, अविं᳚दत् । इंद्रो॒ यो दस्यूँ॒ रध॑राँ, अ॒वाति॑रन् म॒रुत्वं᳚तं स॒ख्याय॑ हवामहे ॥1.101.05, 1.7.012.05
यः शूरे᳚भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभिः॑ । इंद्रं॒ यं विश्वा॒ भुव॑ना॒भि सं᳚द॒धुर्म॒रुत्वं᳚तं स॒ख्याय॑ हवामहे ॥1.101.06, 1.7.012.06
रु॒द्राणा᳚मेति प्र॒दिशा᳚ विचक्ष॒णो रु॒द्रेभि॒र्योषा᳚ तनुते पृ॒थु ज्रयः॑ । इंद्रं᳚ मनी॒षा, अ॒भ्य॑र्चति श्रु॒तं म॒रुत्वं᳚तं स॒ख्याय॑ हवामहे ॥1.101.07, 1.7.013.01
यद्वा᳚ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा᳚व॒मे वृ॒जने᳚ मा॒दया᳚से । अत॒ आ या᳚ह्यध्व॒रं नो॒, अच्छा᳚ त्वा॒या ह॒विश्च॑कृमा सत्यराधः ॥1.101.08, 1.7.013.02
त्वा॒येंद्र॒ सोमं᳚ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः । अधा᳚ नियुत्वः॒ सग॑णो म॒रुद्भि॑ र॒स्मिन् य॒ज्ञे ब॒र्हिषि॑ मादयस्व ॥1.101.09, 1.7.013.03
मा॒दय॑स्व॒ हरि॑भि॒र्ये त॑ इंद्र॒ वि ष्य॑स्व॒ शिप्रे॒ वि सृ॑जस्व॒ धेने᳚ । आ त्वा᳚सुशिप्र॒ हर॑यो वहंतू॒शन् ह॒व्यानि॒ प्रति॑ नो जुषस्व ॥1.101.10, 1.7.013.04
म॒रुत् स्तो᳚त्रस्य वृ॒जन॑स्य गो॒पा व॒यमिंद्रे᳚ण सनुयाम॒ वाजं᳚ । तन्नो᳚ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी, उ॒त द्यौः ॥1.101.11, 1.7.013.05
43 । विषघ्नसूक्तं
कंकतैति षोळशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योप्तृणसूर्याअनुष्टुप् दशम्याद्यास्तिस्रो महापंक्तयस्त्रयोदशी महाबृहती । (विषन्नसूक्तं) ।
कंक॑तो॒ न कंक॒तोऽथो᳚ सती॒नकं᳚कतः । द्वाविति॒ प्लुषी॒, इति॒ न्य१॑(अ॒)दृष्टा᳚ अलिप्सत ॥1.191.01, 2.5.014.01
अ॒दृष्टा᳚न् हंत्याय॒त्यथो᳚ हंति पराय॒ती । अथो᳚ अवघ्न॒ती हं॒त्यथो᳚ पिनष्टि पिंष॒ती ॥1.191.02, 2.5.014.02
श॒रासः॒ कुश॑रासो द॒र्भासः॑ सै॒र्या, उ॒त । मौं॒जा, अ॒दृष्टा᳚ वैरि॒णाः सर्वे᳚ सा॒कं न्य॑लिप्सत ॥1.191.03, 2.5.014.03
नि गावो᳚ गो॒ष्ठे, अ॑सद॒न् नि मृ॒गासो᳚ अविक्षत । नि के॒तवो॒ जना᳚नां॒ न्य१॑(अ॒)दृष्टा᳚ अलिप्सत ॥1.191.04, 2.5.014.04
ए॒त उ॒ त्ये प्रत्य॑दृश्रन् प्रदो॒षं तस्क॑रा, इव । अदृ॑ष्टा॒ विश्व॑दृष्टाः॒ प्रति॑बुद्धा, अभूतन ॥1.191.05, 2.5.014.05
द्यौर्वः॑ पि॒ता पृ॑थि॒वी मा॒ता सोमो॒ भ्रातादि॑तिः॒ स्वसा᳚ । अदृ॑ष्टा॒ विश्व॑दृष्टा॒स्तिष्ठ॑ते॒लय॑ता॒ सु कं᳚ ॥1.191.06, 2.5.015.01
ये, अंस्या॒ ये, अंग्याः᳚ सू॒चीका॒ ये प्र॑कंक॒ताः । अदृ॑ष्टाः॒ किं च॒नेह वः॒ सर्वे᳚ सा॒कं नि ज॑स्यत ॥1.191.07, 2.5.015.02
उत् पु॒रस्ता॒त् सूर्य॑ एति वि॒श्वदृ॑ष्टो, अदृष्ट॒हा । अ॒दृष्टा॒न् त्सर्वां᳚जं॒भय॒न् त्सर्वा᳚श्च यातुधा॒न्यः॑ ॥1.191.08, 2.5.015.03
उद॑पप्तद॒सौ सूर्यः॑ पु॒रु विश्वा᳚नि॒ जूर्व᳚न् । आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो, अदृष्ट॒हा ॥1.191.09, 2.5.015.04
सूर्ये᳚ वि॒षमा स॑जामि॒ दृतिं॒ सुरा᳚वतो गृ॒हे । सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे, अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥1.191.10, 2.5.015.05
इ॒य॒त्ति॒का श॑कुंति॒का स॒का ज॑घास ते वि॒षं । सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे, अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥1.191.11, 2.5.016.01
त्रिः स॒प्त वि॑ष्पुलिंग॒का वि॒षस्य॒ पुष्प॑मक्षन् । ताश्चि॒न्नु न म॑रंति॒ नो व॒यं म॑रामा॒रे, अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥1.191.12, 2.5.016.02
न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणां । सर्वा᳚सामग्रभं॒ नामा॒रे, अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥1.191.13, 2.5.016.03
त्रिः स॒प्त म॑यू॒र्यः॑ स॒प्त स्वसा᳚रो, अ॒ग्रुवः॑ । तास्ते᳚ वि॒षं वि ज॑भ्रिर उद॒कं कुं॒भिनी᳚रिव ॥1.191.14, 2.5.016.04
इ॒य॒त्त॒कः कु॑षुंभ॒कस्त॒कं भि॑न॒द्म्यश्म॑ना । ततो᳚ वि॒षं प्र वा᳚वृते॒ परा᳚ची॒रनु॑ सं॒वतः॑ ॥1.191.15, 2.5.016.05
कु॒षुं॒भ॒कस्तद॑ब्रवीद् गि॒रेः प्र॑वर्तमान॒कः । वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षं ॥1.191.16, 2.5.016.06
परिशिष्टम् [ऋग्वेद मंडल 1.191 सूक्तस्यानंतरं][ऋग्वेद अष्टक 2, अध्याय 5, 16 वर्गानंतरं]
मा बिभेरिति दशर्चस्य विषघ्नसूक्तस्य दैर्घतमसः अगस्त्यो भार्गवो वा ऋषिः अग्न्यादित्यास्ताक्ष्यो नर्मदा आस्तिको वा देवता अनुष्टुप् छंदः ॥
मा बि॑भे॒र्न म॑रिष्यसि॒ परि॑ त्वा पामि स॒र्वतः॑ । घ॒नेन॒ हन्मि॒ वृश्चि॑क॒महिं᳚ दं॒डेनाग॑तं ॥1॥
आ॒दि॒त्यरथ॒वेगे᳚न वि॒ष्णुबा᳚हुब॒लेन॑ च । ग॒रुड॑प॒क्षनि॑पाते॒न भू॒मिं ग॑च्छ म॒हाय॑शाः ॥2॥
ग॒रुड॑स्य॒ पात॑मात्रे॒ण त्र॒यो लो᳚काः प्र॒कंपि॑ताः । प्र॒कंपि॒ता म॒ही सर्वा᳚ स॒शैल॑वन॒कान॑ना ॥3॥
ग॒गनं॒ नष्ट॑चंद्रा॒र्कं ज्यो॒तिषं᳚ न प्र॒काश॑ते । दे॒वता॒ भय॑भीता॒श्च मा॒रुतो᳚ न प्ल॒वाय॑ति ।
मा॒रुतो᳚ न प्ल॒वाय॒त्यों नमः॑ ॥4॥
भो स॒र्पभ॑द्र भ॒द्रं ते᳚ दू॒रं ग॑च्छ म॒हाविष ।ज॒न्मे᳚ज॒यस्य॑ यज्ञां॒ते, आ॒स्तीक॑वच॒नं स्म॑र ॥5॥
आ॒स्तीक॒वच॑नं॒ श्रुत्वा᳚ यः॒ सर्पो᳚ न नि॒वर्त॑ते ।शत॑धा॒ भिद्य॑ते मू॒र्ध्नि शिं॒शवृ॑क्षफ॒लं य॑था ॥6॥
न॒र्मदा॒यै न॑मः प्रा॒तर्न॒र्मदा᳚यै न॒मो नि॑शि । नमो᳚ऽस्तु॒ नर्म॑दे तु॒भ्यं त्रा॒हि मां᳚ विष॒सर्प॑तः ॥7॥
यो ज॑र॒त्कारु॑णा जा॒तो ज॒रत्का᳚र्वां म॒हाय॑शाः । तस्य॑ स्म॒राभि॑ भद्रं॒ ते दू॒रं ग॑च्छ म॒हाविष ॥8॥
असि॑तिं॒ चार्थ॑सिद्धिं॒ च सुनीतिं᳚ चापि॑ यः स्म॑रेत् । दि॒वा वा॒ यदि॑ वा रा॒त्रौ ना॒स्ति सर्प॑भयं॒ भवेत् ॥9॥
अग॑स्ति॒र्माध॑वश्चै॒व मु॒चुकुं᳚दो म॒हामु॑निः । कपि॑लो॒ मुनि॑रास्ती॒कः पं॒चैते᳚ सुख॒शायि॑नः ॥10॥
44 । अन्नसूक्तं
मऊर्धानं दिव इत्यस्य बार्हस्पत्यो भरद्वाजः वैश्वानरोग्निः त्रिष्टुप्, आमासु पक्वमित्यस्य आंगिरसौ नृमधपुरुमेधौ इंद्रो बृहती, उप ह्वय इति द्व्यर्चस्य औचथ्यो दीर्घतमाः विश्वेदेवाः त्रिष्टुप्, इंद्र दृह्येत्यस्य गाथिनो विश्वामित्रः इंद्रो त्रिष्टुप्, वाशीमंत इतयस्य आत्रेयः श्यावाश्वः मरुतो जगती, चतुष्कपर्देति त्र्यर्चस्य वैरूपः सघ्निः विश्वेदेवाः त्रिष्टुप्, चतुर्थी जगती ॥
मू॒र्धानं᳚ दि॒वो, अ॑र॒तिं पृ॑थि॒व्या वै᳚श्वान॒रमृ॒त आ जा॒तम॒ग्निं । क॒विं स॒म्राज॒मति॑थिं॒ जना᳚नामा॒सन्ना पात्रं᳚ जनयंत दे॒वाः ॥6.007.01, 4.5.9.1
आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यं᳚ रोहयो दि॒वि । घ॒र्मं न साम᳚न् तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे बृ॒हत् ॥8.089.07, 6.6.012.07
उप॑ ह्वये सु॒दुघां᳚ धे॒नुमे॒तां सु॒हस्तो᳚ गो॒धुगु॒त दो᳚हदेनां । श्रेष्ठं᳚ स॒वं स॑वि॒ता सा᳚विषन्नो॒ऽभी᳚द्धो घ॒र्मस्तदु॒ षु प्र वो᳚चं ॥1.164.26, 2.3.019.01
हिं॒कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू᳚नां व॒त्समि॒च्छंती॒ मन॑सा॒भ्यागा᳚त् । दु॒हाम॒श्विभ्यां॒ पयो᳚ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥1.164.27, 2.3.019.02
इंद्र॒ दृह्य॑ यामको॒शा, अ॑भूवन् य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः । दु॒र्मा॒यवो᳚ दु॒रेवा॒ मर्त्या᳚सो निषं॒गिणो᳚ रि॒पवो॒ हंत्वा᳚सः ॥3.030.15, 3.2.3.5
वाशी᳚मंत ऋष्टि॒मंतो᳚ मनी॒षिणः॑ सु॒धन्वा᳚न॒ इषु॑मंतो निषं॒गिणः॑ । स्वश्वाः᳚ स्थ सु॒रथाः᳚ पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभं᳚ ॥5.057.02, 4.3.021.02
चतु॑ष्कपर्दा युव॒तिः सु॒पेशा᳚ घृ॒तप्र॑तीका व॒युना᳚नि वस्ते । तस्यां᳚ सुप॒र्णा वृष॑णा॒ नि षे᳚दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा᳚ग॒धेयं᳚ ॥10.114.03, 8.6.016.03
एकः॑ सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे । तं पाके᳚न॒ मन॑सापश्य॒मंति॑त॒स्तं मा॒ता रे᳚ळ्हि॒ स उ॑ रेळ्हि मा॒तरं᳚ ॥10.114.04, 8.6.016.04
सु॒प॒र्णं विप्राः᳚ क॒वयो॒ वचो᳚भि॒रेकं॒ संतं᳚ बहु॒धा क᳚ल्पयंति । छंदां᳚सि च॒ दध॑तो, अध्व॒रेषु॒ ग्रहा॒न् त्सोम॑स्य मिमते॒ द्वाद॑श ॥10.114.05, 8.6.016.05
पितुंन्वित्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योन्नं गायत्री आद्यानुष्टुगर्भा तृतीयापंचम्याद्याश्चतस्रोनुष्टुभोंत्याबृहतीवा ।
पि॒तुं नु स्तो᳚षं म॒हो ध॒र्माणं॒ तवि॑षीं । यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप᳚र्वम॒र्दय॑त् ॥1.187.01, 2.5.6.1
स्वादो᳚ पितो॒ मधो᳚ पितो व॒यं त्वा᳚ ववृमहे । अ॒स्माक॑मवि॒ता भ॑व ॥1.187.02, 2.5.6.2
उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभिः॑ । म॒यो॒भुर॑द्विषे॒ण्यः सखा᳚ सु॒शेवो॒, अद्व॑याः ॥1.187.03, 2.5.6.3
तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः । दि॒वि वाता᳚ इव श्रि॒ताः ॥1.187.04, 2.5.6.4
तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो । प्र स्वा॒द्मानो॒ रसा᳚नां तुवि॒ग्रीवा᳚ इवेरते ॥1.187.05, 2.5.6.5
त्वे पि॑तो म॒हानां᳚ दे॒वानां॒ मनो᳚ हि॒तं । अका᳚रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥1.187.06, 2.5.7.1
यद॒दो पि॑तो॒, अज॑गन् वि॒वस्व॒ पर्व॑तानां । अत्रा᳚ चिन्नो मधो पि॒तोऽरं᳚ भ॒क्षाय॑ गम्याः ॥1.187.07, 2.5.7.2
यद॒पामोष॑धीनां परिं॒शमा᳚रि॒शाम॑हे । वाता᳚पे॒ पीव॒ इद् भ॑व ॥1.187.08, 2.5.7.3
यत्ते᳚ सोम॒ गवा᳚शिरो॒ यवा᳚शिरो॒ भजा᳚महे । वाता᳚पे॒ पीव॒ इद् भ॑व ॥1.187.09, 2.5.7.4
क॒रं॒भ ओ᳚षधे भव॒ पीवो᳚ वृ॒क्क उ॑दार॒थिः । वाता᳚पे॒ पीव॒ इद् भ॑व ॥1.187.10, 2.5.7.5
तं त्वा᳚ व॒यं पि॑तो॒ वचो᳚भि॒र्गावो॒ न ह॒व्या सु॑षूदिम । दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं᳚ त्वा सध॒मादं᳚ ॥1.187.11, 2.5.7.6
कया᳚ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा᳚ । कया॒ शचि॑ष्ठया वृ॒ता ॥4.031.01, 3.6.024.01
कस्त्वा᳚ स॒त्यो मदा᳚नां॒ मंहि॑ष्ठो मत्स॒दंध॑सः । दृ॒ळ्हा चि॑दा॒रुजे॒ वसु॑ ॥4.031.02, 3.6.024.02
अ॒भी षु णः॒ सखी᳚नामवि॒ता ज॑रितॄ॒णां । श॒तं भ॑वास्यू॒तिभिः॑ ॥4.031.03, 3.6.024.03
स्वादोरिति पंचदशर्चस्य सूक्तस्य काण्वः प्रगाथः सोमस्त्रिष्टुप् पंचमी जगती ।
स्वा॒दोर॑भक्षि॒ वय॑सः सुमे॒धाः स्वा॒ध्यो᳚ वरिवो॒वित्त॑रस्य । विश्वे॒ यं दे॒वा, उ॒त मर्त्या᳚सो॒ मधु॑ ब्रु॒वंतो᳚ अ॒भि सं॒चरं᳚ति ॥8.048.01, 6.4.011.01
अं॒तश्च॒ प्रागा॒, अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य । इंद॒विंद्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी᳚व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ॥8.048.02, 6.4.011.02
अपा᳚म॒ सोम॑म॒मृता᳚ अभू॒माग᳚न्म॒ ज्योति॒रवि॑दाम दे॒वान् । किं नू॒नम॒स्मान् कृ॑णव॒दरा᳚तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥8.048.03, 6.4.011.03
शं नो᳚ भव हृ॒द आ पी॒त इं᳚दो पि॒तेव॑ सोम सू॒नवे᳚ सु॒शेवः॑ । सखे᳚व॒ सख्य॑ उरुशंस॒ धीरः॒ प्र ण॒ आयु॑र्जी॒वसे᳚ सोम तारीः ॥8.048.04, 6.4.011.04
इ॒मे मा᳚ पी॒ता य॒शस॑ उरु॒ष्यवो॒ रथं॒ न गावः॒ सम॑नाह॒ पर्व॑सु । ते मा᳚ रक्षंतु वि॒स्रस॑श्च॒रित्रा᳚दु॒त मा॒ स्रामा᳚द्यवयं॒त्विंद॑वः ॥8.048.05, 6.4.011.05
अ॒ग्निं न मा᳚ मथि॒तं सं दि॑दीपः॒ प्र च॑क्षय कृणु॒हि वस्य॑सो नः । अथा॒ हि ते॒ मद॒ आ सो᳚म॒ मन्ये᳚ रे॒वाँ, इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ॥8.048.06, 6.4.012.01
इ॒षि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भक्षी॒महि॒ पित्र्य॑स्येव रा॒यः । सोम॑ राज॒न् प्र ण॒ आयूं᳚षि तारी॒रहा᳚नीव॒ सूर्यो᳚ वास॒राणि॑ ॥8.048.07, 6.4.012.02
सोम॑ राजन् मृ॒ळया᳚ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒3॑(आ॒)स्तस्य॑ विद्धि । अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरिं᳚दो॒ मा नो᳚ अ॒र्यो, अ॑नुका॒मं परा᳚ दाः ॥8.048.08, 6.4.012.03
त्वं हि न॑स्त॒न्वः॑ सोम गो॒पा गात्रे᳚गात्रे निष॒सत्था᳚ नृ॒चक्षाः᳚ । यत्ते᳚ व॒यं प्र॑मि॒नाम᳚ व्र॒तानि॒ स नो᳚ मृळ सुष॒खा दे᳚व॒ वस्यः॑ ॥8.048.09, 6.4.012.04
ऋ॒दू॒दरे᳚ण॒ सख्या᳚ सचेय॒ यो मा॒ न रिष्ये᳚द्धर्यश्व पी॒तः । अ॒यं यः सोमो॒ न्यधा᳚य्य॒स्मे तस्मा॒, इंद्रं᳚ प्र॒तिर॑मे॒म्यायुः॑ ॥8.048.10, 6.4.012.05
अप॒ त्या, अ॑स्थु॒रनि॑रा॒, अमी᳚वा॒ निर॑त्रसं॒तमि॑षीची॒रभै᳚षुः । आ सोमो᳚ अ॒स्माँ, अ॑रुह॒द्विहा᳚या॒, अग᳚न्म॒ यत्र॑ प्रति॒रंत॒ आयुः॑ ॥8.048.11, 6.4.013.01
यो न॒ इंदुः॑ पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्याँ᳚, आवि॒वेश॑ । तस्मै॒ सोमा᳚य ह॒विषा᳚ विधेम मृळी॒के, अ॑स्य सुम॒तौ स्या᳚म ॥8.048.12, 6.4.013.02
त्वं सो᳚म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा᳚पृथि॒वी, आ त॑तंथ । तस्मै᳚ त इंदो ह॒विषा᳚ विधेम व॒यं स्या᳚म॒ पत॑यो रयी॒णां ॥8.048.13, 6.4.013.03
त्राता᳚रो देवा॒, अधि॑ वोचता नो॒ मा नो᳚ नि॒द्रा, ई᳚शत॒ मोत जल्पिः॑ । व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा᳚सो वि॒दथ॒मा व॑देम ॥8.048.14, 6.4.013.04
त्वं नः॑ सोम वि॒श्वतो᳚ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षाः᳚ । त्वं न॑ इंद ऊ॒तिभिः॑ स॒जोषाः᳚ पा॒हि प॒श्चाता᳚दु॒त वा᳚ पु॒रस्ता᳚त् ॥8.048.15, 6.4.013.05
नवाइति नवर्चस्य सूक्तस्यांगिरसो भिक्षुर्धनान्नदानंत्रिष्टुबाद्येजगत्यौ ।
न वा, उ॑ दे॒वाः, क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छंति मृ॒त्यवः॑ । उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒ न विं᳚दते ॥10.117.01, 8.6.022.01
य आ॒ध्राय॑ चकमा॒नाय॑ पि॒त्वोऽन्न॑वा॒न् त्सन् र॑फि॒तायो᳚पज॒ग्मुषे᳚ । स्थि॒रं मनः॑ कृणु॒ते सेव॑ते पु॒रोतो चि॒त्स म॑र्डि॒तारं॒ न विं᳚दते ॥10.117.02, 8.6.022.02
स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ । अर॑मस्मै भवति॒ याम॑हूता, उ॒ताप॒रीषु॑ कृणुते॒ सखा᳚यं ॥10.117.03, 8.6.022.03
न स सखा॒ यो न ददा᳚ति॒ सख्ये᳚ सचा॒भुवे॒ सच॑मानाय पि॒त्वः । अपा᳚स्मा॒त्प्रेया॒न्न तदोको᳚ अस्ति पृ॒णंत॑म॒न्यमर॑णं चिदिच्छेत् ॥10.117.04, 8.6.022.04
पृ॒णी॒यादिन्नाध॑मानाय॒ तव्यां॒द्राघी᳚यांस॒मनु॑ पश्येत॒ पंथां᳚ । ओ हि वर्तं᳚ते॒ रथ्ये᳚व च॒क्रान्यम᳚न्य॒मुप॑ तिष्ठंत॒ रायः॑ ॥10.117.05, 8.6.022.05
मोघ॒मन्नं᳚ विंदते॒, अप्र॑चेताः स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ । नार्य॒मणं॒ पुष्य॑ति॒ नो सखा᳚यं॒ केव॑लाघो भवति केवला॒दी ॥10.117.06, 8.6.023.01
कृ॒षन्नित्फाल॒ आशि॑तं कृणोति॒ यन्नध्वा᳚न॒मप॑ वृंक्ते च॒रित्रैः᳚ । वद᳚न् ब्र॒ह्माव॑दतो॒ वनी᳚यान् पृ॒णन्ना॒पिरपृ॑णंतम॒भि ष्या᳚त् ॥10.117.07, 8.6.023.02
एक॑पा॒द्भूयो᳚ द्वि॒पदो॒ वि च॑क्रमे द्वि॒पात्त्रि॒पाद॑म॒भ्ये᳚ति प॒श्चात् । चतु॑ष्पादेति द्वि॒पदा᳚मभिस्व॒रे सं॒पश्य᳚न् पं॒क्तीरु॑प॒तिष्ठ॑मानः ॥10.117.08, 8.6.023.03
स॒मौ चि॒द्धस्तौ॒ न स॒मं वि॑विष्टः सम्मा॒तरा᳚ चि॒न्न स॒मं दु॑हाते । य॒मयो᳚श्चि॒न्न स॒मा वी॒र्या᳚णि ज्ञा॒ती चि॒त्संतौ॒ न स॒मं पृ॑णीतः ॥10.117.09, 8.6.023.04
श्रद्धयेति पंचर्चस्य सूक्तस्य श्रद्धाकामायनीश्रद्धानुष्टुप् ।
श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया᳚ हूयते ह॒विः । श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे᳚दयामसि ॥10.151.01, 8.8.9.1
प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा᳚सतः । प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥10.151.02, 8.8.9.2
यथा᳚ दे॒वा, असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥10.151.03, 8.8.9.3
श्र॒द्धां दे॒वा यज॑माना वा॒युगो᳚पा॒, उपा᳚सते । श्र॒द्धां हृ॑द॒य्य१॑(अ॒)याकू᳚त्या श्र॒द्धया᳚ विंदते॒ वसु॑ ॥10.151.04, 8.8.9.4
श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ । श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा᳚पये॒ह नः॑ ॥10.151.05, 8.8.9.5
45 । कितव(द्यूत) सूक्तं
प्रावेपाइति चतुर्दशर्चस्य सूक्तस्य मौजवानक्ष ऋषिः आद्या सप्तमी नवमीद्वादशीनामक्षादेवताः त्रयोदश्याः कृषिः शिष्टानामक्षनिंदा देवता त्रिष्टुप् सप्तमी जगती ।
प्रा॒वे॒पा मा᳚ बृह॒तो मा᳚दयंति प्रवाते॒जा, इरि॑णे॒ वर्वृ॑तानाः । सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ॥10.034.01, 7.8.3.1
न मा᳚ मिमेथ॒ न जि॑हीळ ए॒षा शि॒वा सखि॑भ्य उ॒त मह्य॑मासीत् । अ॒क्षस्या॒हमे᳚कप॒रस्य॑ हे॒तोरनु᳚व्रता॒मप॑ जा॒याम॑रोधं ॥10.034.02, 7.8.3.2
द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना᳚थि॒तो विं᳚दते मर्डि॒तारं᳚ । अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं विं᳚दामि कित॒वस्य॒ भोगं᳚ ॥10.034.03, 7.8.3.3
अ॒न्ये जा॒यां परि॑ मृशंत्यस्य॒ यस्यागृ॑ध॒द्वेद॑ने वा॒ज्य१॑(अ॒)क्षः । पि॒ता मा॒ता भ्रात॑र एनमाहु॒र्न जा᳚नीमो॒ नय॑ता ब॒द्धमे॒तं ॥10.034.04, 7.8.3.4
यदा॒दीध्ये॒ न द॑विषाण्येभिः परा॒यद्भ्योऽव॑ हीये॒ सखि॑भ्यः । न्यु॑प्ताश्च ब॒भ्रवो॒ वाच॒मक्र॑तँ॒, एमीदे᳚षां निष्कृ॒तं जा॒रिणी᳚व ॥10.034.05, 7.8.3.5
स॒भामे᳚ति कित॒वः पृ॒च्छमा᳚नो जे॒ष्यामीति॑ त॒न्वा॒3॑(आ॒) शूशु॑जानः । अ॒क्षासो᳚ अस्य॒ वि ति॑रंति॒ कामं᳚ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ॥10.034.06, 7.8.4.1
अ॒क्षास॒ इदं᳚कु॒शिनो᳚ नितो॒दिनो᳚ नि॒कृत्वा᳚न॒स्तप॑नास्तापयि॒ष्णवः॑ । कु॒मा॒रदे᳚ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ संपृ॑क्ताः कित॒वस्य॑ ब॒र्हणा᳚ ॥10.034.07, 7.8.4.2
त्रि॒पं॒चा॒शः क्री᳚ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध᳚र्मा । उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मंते॒ राजा᳚ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ॥10.034.08, 7.8.4.3
नी॒चा व॑र्तंत उ॒परि॑ स्फुरंत्यह॒स्तासो॒ हस्त॑वंतं सहंते । दि॒व्या, अंगा᳚रा॒, इरि॑णे॒ न्यु॑प्ताः शी॒ताः संतो॒ हृद॑यं॒ निर्द॑हंति ॥10.034.09, 7.8.4.4
जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑तः॒ क्व॑ स्वित् । ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा᳚नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ॥10.034.10, 7.8.4.5
स्त्रियं᳚ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां᳚ जा॒यां सुकृ॑तं च॒ योनिं᳚ । पू॒र्वा॒ह्णे, अश्वा᳚न्युयु॒जे हि ब॒भ्रून् त्सो, अ॒ग्नेरंते᳚ वृष॒लः प॑पाद ॥10.034.11, 7.8.5.1
यो वः॑ सेना॒नीर्म॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो ब॒भूव॑ । तस्मै᳚ कृणोमि॒ न धना᳚ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व॑दामि ॥10.034.12, 7.8.5.2
अ॒क्षैर्मा दी᳚व्यः कृ॒षिमित्कृ॑षस्व वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः । तत्र॒ गावः॑ कितव॒ तत्र॑ जा॒या तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ॥10.034.13, 7.8.5.3
मि॒त्रं कृ॑णुध्वं॒ खलु॑ मृ॒ळता᳚ नो॒ मा नो᳚ घो॒रेण॑ चरता॒भि धृ॒ष्णु । नि वो॒ नु म॒न्युर्वि॑शता॒मरा᳚तिर॒न्यो ब॑भ्रू॒णां प्रसि॑तौ॒ न्व॑स्तु ॥10.034.14, 7.8.5.4
46 । आप्री सूक्तं
समिद्धोअग्नैति त्रयोदशर्चस्य सूक्तस्यौचथ्योदीर्घतमाऋषिः इध्मस्तनूनपान्नराशंसैळो बर्हिर्देवीर्द्वार उषासानक्ता देव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिः स्वाहाकृतयैतिक्रमेणदेवताः अंत्याया इंद्रोनुष्टुप् ।
समि॑द्धो, अग्न॒ आ व॑ह दे॒वाँ, अ॒द्य य॒तस्रु॑चे । तंतुं᳚ तनुष्व पू॒र्व्यं सु॒तसो᳚माय दा॒शुषे᳚ ॥1.142.01, 2.2.010.01
घृ॒तवं᳚त॒मुप॑ मासि॒ मधु॑मंतं तनूनपात् । य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑ ॥1.142.02, 2.2.010.02
शुचिः॑ पाव॒को, अद्भु॑तो॒ मध्वा᳚ य॒ज्ञं मि॑मिक्षति । नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥1.142.03, 2.2.010.03
ई॒ळि॒तो, अ॑ग्न॒ आ व॒हेंद्रं᳚ चि॒त्रमि॒ह प्रि॒यं । इ॒यं हि त्वा᳚ म॒तिर्ममाच्छा᳚ सुजिह्व व॒च्यते᳚ ॥1.142.04, 2.2.010.04
स्तृ॒णा॒नासो᳚ य॒तस्रु॑चो ब॒र्हिर्य॒ज्ञे स्व॑ध्व॒रे । वृं॒जे दे॒वव्य॑चस्तम॒मिंद्रा᳚य॒ शर्म॑ स॒प्रथः॑ ॥1.142.05, 2.2.010.05
वि श्र॑यंतामृता॒वृधः॑ प्र॒यै दे॒वेभ्यो᳚ म॒हीः । पा॒व॒कासः॑ पुरु॒स्पृहो॒ द्वारो᳚ दे॒वीर॑स॒श्चतः॑ ॥1.142.06, 2.2.010.06
आ भंद॑माने॒, उपा᳚के॒ नक्तो॒षासा᳚ सु॒पेश॑सा । य॒ह्वी ऋ॒तस्य॑ मा॒तरा॒ सीद॑तां ब॒र्हिरा सु॒मत् ॥1.142.07, 2.2.011.01
मं॒द्रजि॑ह्वा जुगु॒र्वणी॒ होता᳚रा॒ दैव्या᳚ क॒वी । य॒ज्ञं नो᳚ यक्षतामि॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृशं᳚ ॥1.142.08, 2.2.011.02
शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा᳚ म॒रुत्सु॒ भार॑ती । इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी᳚दंतु य॒ज्ञियाः᳚ ॥1.142.09, 2.2.011.03
तन्न॑स्तु॒रीप॒मद्भु॑तं पु॒रु वारं᳚ पु॒रु त्मना᳚ । त्वष्टा॒ पोषा᳚य॒ वि ष्य॑तु रा॒ये नाभा᳚ नो, अस्म॒युः ॥1.142.10, 2.2.011.04
अ॒व॒सृ॒जन्नुप॒ त्मना᳚ दे॒वान् य॑क्षि वनस्पते । अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रः ॥1.142.11, 2.2.011.05
पू॒ष॒ण्वते᳚ म॒रुत्व॑ते वि॒श्वदे᳚वाय वा॒यवे᳚ । स्वाहा᳚ गाय॒त्रवे᳚पसे ह॒व्यमिंद्रा᳚य कर्तन ॥1.142.12, 2.2.011.06
स्वाहा᳚कृता॒न्या ग॒ह्युप॑ ह॒व्यानि॑ वी॒तये᳚ । इंद्रा ग॑हि श्रु॒धी हवं॒ त्वां ह॑वंते, अध्व॒रे ॥1.142.13, 2.2.011.07
समिद्धैत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य इध्मस्तनूनपादिळोबर्हिर्देवीर्द्वार उषासानक्तादैव्यौहोतारौ सरस्वतीळा भारत्यस्त्वष्टा वनस्पति स्वाहाकृतयैतिक्रमेणदेवताः गायत्रीच्छंदः ।
समि॑द्धो, अ॒द्य रा᳚जसि दे॒वो दे॒वैः स॑हस्रजित् । दू॒तो ह॒व्या क॒विर्व॑ह ॥1.188.01, 2.5.8.1
तनू᳚नपादृ॒तं य॒ते मध्वा᳚ य॒ज्ञः सम॑ज्यते । दध॑त् सह॒स्रिणी॒रिषः॑ ॥1.188.02, 2.5.8.2
आ॒जुह्वा᳚नो न॒ ईड्यो᳚ दे॒वाँ, आ व॑क्षि य॒ज्ञिया᳚न् । अग्ने᳚ सहस्र॒सा, अ॑सि ॥1.188.03, 2.5.8.3
प्रा॒चीनं᳚ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् । यत्रा᳚दित्या वि॒राज॑थ ॥1.188.04, 2.5.8.4
वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः । दुरो᳚ घृ॒तान्य॑क्षरन् ॥1.188.05, 2.5.8.5
सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः । उ॒षासा॒वेह सी᳚दतां ॥1.188.06, 2.5.9.1
प्र॒थ॒मा हि सु॒वाच॑सा॒ होता᳚रा॒ दैव्या᳚ क॒वी । य॒ज्ञं नो᳚ यक्षतामि॒मं ॥1.188.07, 2.5.9.2
भार॒तीळे॒ सर॑स्वति॒ या वः॒ सर्वा᳚ उपब्रु॒वे । ता न॑श्चोदयत श्रि॒ये ॥1.188.08, 2.5.9.3
त्वष्टा᳚ रू॒पाणि॒ हि प्र॒भुः प॒शून् विश्वा᳚न् त्समान॒जे । तेषां᳚ नः स्फा॒तिमा य॑ज ॥1.188.09, 2.5.9.4
उप॒ त्मन्या᳚ वनस्पते॒ पाथो᳚ दे॒वेभ्यः॑ सृज । अ॒ग्निर्ह॒व्यानि॑ सिष्वदत् ॥1.188.10, 2.5.9.5
पु॒रो॒गा, अ॒ग्निर्दे॒वानां᳚ गाय॒त्रेण॒ सम॑ज्यते । स्वाहा᳚कृतीषु रोचते ॥1.188.11, 2.5.9.6
समिद्धोअग्निरित्येकादशर्चस्य सूक्तस्य शौनको गृत्समदैध्मो नराशंसैळो बर्हिर्देवीर्द्वारौषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिस्वाहाकृतयैतिक्रमेणदेवतास्त्रिष्टुप् सप्तम्यौजगत्यौ ।
समि॑द्धो, अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ् विश्वा᳚नि॒ भुव॑नान्यस्थात् । होता᳚ पाव॒कः प्र॒दिवः॑ सुमे॒धा दे॒वो दे॒वान् य॑जत्व॒ग्निरर्ह᳚न् ॥2.003.01, 2.5.022.01
नरा॒शंसः॒ प्रति॒ धामा᳚न्यं॒जन् ति॒स्रो दिवः॒ प्रति॑ म॒ह्ना स्व॒र्चिः । घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमुं॒दन् मू॒र्धन् य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥2.003.02, 2.5.022.02
ई॒ळि॒तो, अ॑ग्ने॒ मन॑सा नो॒, अर्ह᳚न् दे॒वान् य॑क्षि॒ मानु॑षा॒त् पूर्वो᳚ अ॒द्य । स आ व॑ह म॒रुतां॒ शर्धो॒, अच्यु॑त॒मिंद्रं᳚ नरो बर्हि॒षदं᳚ यजध्वं ॥2.003.03, 2.5.022.03
देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं᳚ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्यां । घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे᳚ देवा, आदित्या य॒ज्ञिया᳚सः ॥2.003.04, 2.5.022.04
वि श्र॑यंतामुर्वि॒या हू॒यमा᳚ना॒ द्वारो᳚ दे॒वीः सु॑प्राय॒णा नमो᳚भिः । व्यच॑स्वती॒र्वि प्र॑थंतामजु॒र्या वर्णं᳚ पुना॒ना य॒शसं᳚ सु॒वीरं᳚ ॥2.003.05, 2.5.022.05
सा॒ध्वपां᳚सि स॒नता᳚ न उक्षि॒ते, उ॒षासा॒नक्ता᳚ व॒य्ये᳚व रण्वि॒ते । तंतुं᳚ त॒तं सं॒वयं᳚ती समी॒ची य॒ज्ञस्य॒ पेशः॑ सु॒दुघे॒ पय॑स्वती ॥2.003.06, 2.5.023.01
दैव्या॒ होता᳚रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षतः॒ समृ॒चा व॒पुष्ट॑रा । दे॒वान् यजं᳚तावृतु॒था समं᳚जतो॒ नाभा᳚ पृथि॒व्या, अधि॒ सानु॑षु त्रि॒षु ॥2.003.07, 2.5.023.02
सर॑स्वती सा॒धयं᳚ती॒ धियं᳚ न॒ इळा᳚ दे॒वी भार॑ती वि॒श्वतू᳚र्तिः । ति॒स्रो दे॒वीः स्व॒धया᳚ ब॒र्हिरेदमच्छि॑द्रं पांतु शर॒णं नि॒षद्य॑ ॥2.003.08, 2.5.023.03
पि॒शंग॑रूपः सु॒भरो᳚ वयो॒धाः श्रु॒ष्टी वी॒रो जा᳚यते दे॒वका᳚मः । प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे, अथा᳚ दे॒वाना॒मप्ये᳚तु॒ पाथः॑ ॥2.003.09, 2.5.023.04
वन॒स्पति॑रवसृ॒जन्नुप॑ स्थाद॒ग्निर्ह॒विः सू᳚दयाति॒ प्र धी॒भिः । त्रिधा॒ सम॑क्तं नयतु प्रजा॒नन् दे॒वेभ्यो॒ दैव्यः॑ शमि॒तोप॑ ह॒व्यं ॥2.003.10, 2.5.023.05
घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ । अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा᳚कृतं वृषभ वक्षि ह॒व्यं ॥2.003.11, 2.5.023.06
समित्समिदित्येकादशर्चस्य सूक्तस्य गाथिनोविश्वामित्रैध्मस्तनूनपादिळोबर्हिर्देवीर्द्वारौषासानक्तादैव्यौ होतारौ सरस्वतीळाभारत्यस्त्वष्टावनस्पतिस्वाहाकृतयैतिक्रमेणदेवतास्त्रिष्टुप् ।
स॒मित्स॑मित् सु॒मना᳚ बोध्य॒स्मे शु॒चाशु॑चा सुम॒तिं रा᳚सि॒ वस्वः॑ । आ दे᳚व दे॒वान् य॒जथा᳚य वक्षि॒ सखा॒ सखी᳚न् त्सु॒मना᳚ यक्ष्यग्ने ॥3.004.01, 2.8.022.01
यं दे॒वास॒स्त्रिरह᳚न्ना॒यजं᳚ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो, अ॒ग्निः । सेमं य॒ज्ञं मधु॑मंतंकृधी न॒स्तनू᳚नपाद् घृ॒तयो᳚निं वि॒धंतं᳚ ॥3.004.02, 2.8.022.02
प्र दीधि॑तिर्वि॒श्ववा᳚रा जिगाति॒ होता᳚रमि॒ळः प्र॑थ॒मं यज॑ध्यै । अच्छा॒नमो᳚भिर्वृष॒भं वं॒दध्यै॒ स दे॒वान् य॑क्षदिषि॒तो यजी᳚यान् ॥3.004.03, 2.8.022.03
ऊ॒र्ध्वो वां᳚ गा॒तुर॑ध्व॒रे, अ॑कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि॑ता॒ रजां᳚सि । दि॒वो वा॒ नाभा॒ न्य॑सादि॒ होता᳚ स्तृणी॒महि॑ दे॒वव्य॑चा॒ वि ब॒र्हिः ॥3.004.04, 2.8.022.04
स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना, इन्वं᳚तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ । नृ॒पेश॑सो वि॒दथे᳚षु॒ प्र जा॒ता, अ॒भी॒3॑(ई॒)मं य॒ज्ञं वि च॑रंत पू॒र्वीः ॥3.004.05, 2.8.022.05
आ भंद॑माने, उ॒षसा॒, उपा᳚के, उ॒त स्म॑येते त॒न्वा॒3॑(आ॒) विरू᳚पे । यथा᳚ नो मि॒त्रो वरु॑णो॒ जुजो᳚ष॒दिंद्रो᳚ म॒रुत्वाँ᳚, उ॒त वा॒ महो᳚भिः ॥3.004.06, 2.8.023.01
दैव्या॒ होता᳚रा प्रथ॒मा न्यृं᳚जे स॒प्त पृ॒क्षासः॑ स्व॒धया᳚ मदंति । ऋ॒तं शंसं᳚त ऋ॒तमित्त आ᳚हु॒रनु᳚ व्र॒तं व्र॑त॒पा दीध्या᳚नाः ॥3.004.07, 2.8.023.02
आ भार॑ती॒ भार॑तीभिः स॒जोषा॒, इळा᳚ दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः । सर॑स्वती सारस्व॒तेभि॑र॒र्वाक् ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दंतु ॥3.004.08, 2.8.023.03
तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व । यतो᳚ वी॒रः क᳚र्म॒ण्यः॑ सु॒दक्षो᳚ यु॒क्तग्रा᳚वा॒ जाय॑ते दे॒वका᳚मः ॥3.004.09, 2.8.023.04
वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू᳚दयाति । सेदु॒ होता᳚ स॒त्यत॑रो यजाति॒ यथा᳚ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥3.004.10, 2.8.023.05
आ या᳚ह्यग्ने समिधा॒नो, अ॒र्वाङिंद्रे᳚ण दे॒वैः स॒रथं᳚ तु॒रेभिः॑ । ब॒र्हिर्न॒ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा᳚ दे॒वा, अ॒मृता᳚ मादयंतां ॥3.004.11, 2.8.023.06
सुसमिद्धायेत्येकादशर्चस्य सूक्तस्यात्रेयो वसुश्रुतः इध्मोनराशंस इळोबर्हिर्देवीर्द्वार उषासानक्तादैव्यौहोतारौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पति स्वाहाकृतयो गायत्री ।
सुस॑मिद्धाय शो॒चिषे᳚ घृ॒तं ती॒व्रं जु॑होतन । अ॒ग्नये᳚ जा॒तवे᳚दसे ॥5.005.01, 3.8.020.01
नरा॒शंसः॑ सुषूदती॒मं य॒ज्ञमदा᳚भ्यः । क॒विर्हि मधु॑हस्त्यः ॥5.005.02, 3.8.020.02
ई॒ळि॒तो, अ॑ग्न॒ आ व॒हेंद्रं᳚ चि॒त्रमि॒ह प्रि॒यं । सु॒खै रथे᳚भिरू॒तये᳚ ॥5.005.03, 3.8.020.03
ऊर्ण᳚म्रदा॒ वि प्र॑थस्वा॒ऽभ्य१॑(अ॒)र्का, अ॑नूषत । भवा᳚ नः शुभ्र सा॒तये᳚ ॥5.005.04, 3.8.020.04
देवी᳚र्द्वारो॒ वि श्र॑यध्वं सुप्राय॒णा न॑ ऊ॒तये᳚ । प्रप्र॑ य॒ज्ञं पृ॑णीतन ॥5.005.05, 3.8.020.05
सु॒प्रती᳚के वयो॒वृधा᳚ य॒ह्वी ऋ॒तस्य॑ मा॒तरा᳚ । दो॒षामु॒षास॑मीमहे ॥5.005.06, 3.8.021.01
वात॑स्य॒ पत्म᳚न्नीळि॒ता दैव्या॒ होता᳚रा॒ मनु॑षः । इ॒मं नो᳚ य॒ज्ञमा ग॑तं ॥5.005.07, 3.8.021.02
इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ । ब॒र्हिः सी᳚दंत्व॒स्रिधः॑ ॥5.005.08, 3.8.021.03
शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना᳚ । य॒ज्ञेय॑ज्ञे न॒ उद॑व ॥5.005.09, 3.8.021.04
यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा᳚नि । तत्र॑ ह॒व्यानि॑ गामय ॥5.005.10, 3.8.021.05
स्वाहा॒ग्नये॒ वरु॑णाय॒ स्वाहेंद्रा᳚य म॒रुद्भ्यः॑ । स्वाहा᳚ दे॒वेभ्यो᳚ ह॒विः ॥5.005.11, 3.8.021.06
जुषस्वेत्येकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः इध्मोनराशंसैळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौ सरस्वतीळाभारत्य स्त्वष्टावनस्पतिः स्वाहाकृतयस्त्रिष्टुप् ।
जु॒षस्व॑ नः स॒मिध॑मग्ने, अ॒द्य शोचा᳚ बृ॒हद् य॑ज॒तं धू॒ममृ॒ण्वन् । उप॑ स्पृश दि॒व्यं सानु॒ स्तूपैः॒ सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ॥7.002.01, 5.2.1.1
नरा॒शंस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः । ये सु॒क्रत॑वः॒ शुच॑यो धियं॒धाः स्वदं᳚ति दे॒वा, उ॒भया᳚नि ह॒व्या ॥7.002.02, 5.2.1.2
ई॒ळेन्यं᳚ वो॒, असु॑रं सु॒दक्ष॑मं॒तर्दू॒तं रोद॑सी सत्य॒वाचं᳚ । म॒नु॒ष्वद॒ग्निं मनु॑ना॒ समि॑द्धं॒ सम॑ध्व॒राय॒ सद॒मिन्म॑हेम ॥7.002.03, 5.2.1.3
स॒प॒र्यवो॒ भर॑माणा, अभि॒ज्ञु प्र वृं᳚जते॒ नम॑सा ब॒र्हिर॒ग्नौ । आ॒जुह्वा᳚ना घृ॒तपृ॑ष्ठं॒ पृष॑द्व॒दध्व᳚र्यवो ह॒विषा᳚ मर्जयध्वं ॥7.002.04, 5.2.1.4
स्वा॒ध्यो॒3॑(ओ॒) वि दुरो᳚ देव॒यंतो ऽशि॑श्रयू रथ॒युर्दे॒वता᳚ता । पू॒र्वी शिशुं॒ न मा॒तरा᳚ रिहा॒णे सम॒ग्रुवो॒ न सम॑नेष्वंजन् ॥7.002.05, 5.2.1.5
उ॒त योष॑णे दि॒व्ये म॒ही न॑ उ॒षासा॒नक्ता᳚ सु॒दुघे᳚व धे॒नुः । ब॒र्हि॒षदा᳚ पुरुहू॒ते म॒घोनी॒, आ य॒ज्ञिये᳚ सुवि॒ताय॑ श्रयेतां ॥7.002.06, 5.2.2.1
विप्रा᳚ य॒ज्ञेषु॒ मानु॑षेषु का॒रू मन्ये᳚ वां जा॒तवे᳚दसा॒ यज॑ध्यै । ऊ॒र्ध्वं नो᳚ अध्व॒रं कृ॑तं॒ हवे᳚षु॒ ता दे॒वेषु॑ वनथो॒ वार्या᳚णि ॥7.002.07, 5.2.2.2
आ भार॑ती॒ भार॑तीभिः स॒जोषा॒, इळा᳚ दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः । सर॑स्वती सारस्व॒तेभि॑र॒र्वाक् ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दंतु ॥7.002.08, 5.2.2.3
तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व । यतो᳚ वी॒रः क᳚र्म॒ण्यः॑ सु॒दक्षो᳚ यु॒क्तग्रा᳚वा॒ जाय॑ते दे॒वका᳚मः ॥7.002.09, 5.2.2.4
वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू᳚दयाति । सेदु॒ होता᳚ स॒त्यत॑रो यजाति॒ यथा᳚ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥7.002.10, 5.2.2.5
आ या᳚ह्यग्ने समिधा॒नो, अ॒र्वाङिंद्रे᳚ण दे॒वैः स॒रथं᳚ तु॒रेभिः॑ । ब॒र्हिर्न॒ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा᳚ दे॒वा, अ॒मृता᳚ मादयंतां ॥7.002.11, 5.2.2.6
समिद्धैत्येकादशर्चस्य सूक्तस्य काश्यपोसितः क्रमेणेध्मस्तनूनपादिळोबर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौ तिस्रोदेव्यः सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयोगायत्री अंत्याश्चतस्रोनुष्टुभः । ( इतआरभ्यविंशतिसूक्तेषुकाश्यपोदेवलोऽसितेन सहविकल्पते ) ।
समि॑द्धो वि॒श्वत॒स्पतिः॒ पव॑मानो॒ वि रा᳚जति । प्री॒णन् वृषा॒ कनि॑क्रदत् ॥9.005.01, 6.7.024.01
तनू॒नपा॒त् पव॑मानः॒ शृंगे॒ शिशा᳚नो, अर्षति । अं॒तरि॑क्षेण॒ रार॑जत् ॥9.005.02, 6.7.024.02
ई॒ळेन्यः॒ पव॑मानो र॒यिर्वि रा᳚जति द्यु॒मान् । मधो॒र्धारा᳚भि॒रोज॑सा ॥9.005.03, 6.7.024.03
ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन् हरिः॑ । दे॒वेषु॑ दे॒व ई᳚यते ॥9.005.04, 6.7.024.04
उदातै᳚र्जिहते बृ॒हद् द्वारो᳚ दे॒वीर्हि॑र॒ण्ययीः᳚ । पव॑मानेन॒ सुष्टु॑ताः ॥9.005.05, 6.7.024.05
सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति । नक्तो॒षासा॒ न द॑र्श॒ते ॥9.005.06, 6.7.025.01
उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता᳚रा॒ दैव्या᳚ हुवे । पव॑मान॒ इंद्रो॒ वृषा᳚ ॥9.005.07, 6.7.025.02
भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा᳚ म॒ही । इ॒मं नो᳚ य॒ज्ञमा ग॑मन् ति॒स्रो दे॒वीः सु॒पेश॑सः ॥9.005.08, 6.7.025.03
त्वष्टा᳚रमग्र॒जां गो॒पां पु॑रो॒यावा᳚न॒मा हु॑वे । इंदु॒रिंद्रो॒ वृषा॒ हरिः॒ पव॑मानः प्र॒जाप॑तिः ॥9.005.09, 6.7.025.04
वन॒स्पतिं᳚ पवमान॒ मध्वा॒ समं᳚ग्धि॒ धार॑या । स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्ययं᳚ ॥9.005.10, 6.7.025.05
विश्वे᳚ देवाः॒ स्वाहा᳚कृतिं॒ पव॑मान॒स्या ग॑त । वा॒युर्बृह॒स्पतिः॒ सूर्यो॒ऽग्निरिंद्रः॑ स॒जोष॑सः ॥9.005.11, 6.7.025.06
इमांमैत्येकादशर्चस्य सूक्तस्य वाध्र्यश्वः सुमित्रैध्मोनराशंस इळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौहोतारौप्रचेतसौ सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतयस्त्रिष्टुप् ।
इ॒मां मे᳚ अग्ने स॒मिधं᳚ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताचीं᳚ । वर्ष्म᳚न् पृथि॒व्याः सु॑दिन॒त्वे, अह्ना᳚मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ॥10.070.01, 8.2.021.01
आ दे॒वाना᳚मग्र॒यावे॒ह या᳚तु॒ नरा॒शंसो᳚ वि॒श्वरू᳚पेभि॒रश्वैः᳚ । ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो᳚ दे॒वेभ्यो᳚ दे॒वत॑मः सुषूदत् ॥10.070.02, 8.2.021.02
श॒श्व॒त्त॒ममी᳚ळते दू॒त्या᳚य ह॒विष्मं᳚तो मनु॒ष्या᳚सो, अ॒ग्निं । वहि॑ष्ठै॒रश्वैः᳚ सु॒वृता॒ रथे॒ना दे॒वान् व॑क्षि॒ नि ष॑दे॒ह होता᳚ ॥10.070.03, 8.2.021.03
वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू᳚त्व॒स्मे । अहे᳚ळता॒ मन॑सा देव बर्हि॒रिंद्र॑ज्येष्ठाँ, उश॒तो य॑क्षि दे॒वान् ॥10.070.04, 8.2.021.04
दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी᳚यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वं । उ॒श॒तीर्द्वा᳚रो महि॒ना म॒हद्भि॑र्दे॒वं रथं᳚ रथ॒युर्धा᳚रयध्वं ॥10.070.05, 8.2.021.05
दे॒वी दि॒वो दु॑हि॒तरा᳚ सुशि॒ल्पे, उ॒षासा॒नक्ता᳚ सदतां॒ नि योनौ᳚ । आ वां᳚ दे॒वास॑ उशती, उ॒शंत॑ उ॒रौ सी᳚दंतु सुभगे, उ॒पस्थे᳚ ॥10.070.06, 8.2.022.01
ऊ॒र्ध्वो ग्रावा᳚ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे᳚ । पु॒रोहि॑तावृत्विजा य॒ज्ञे, अ॒स्मिन् वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथां ॥10.070.07, 8.2.022.02
तिस्रो᳚ देवीर्ब॒र्हिरि॒दं वरी᳚य॒ आ सी᳚दत चकृ॒मा वः॑ स्यो॒नं । म॒नु॒ष्वद् य॒ज्ञं सुधि॑ता ह॒वींषीळा᳚ दे॒वी घृ॒तप॑दी जुषंत ॥10.070.08, 8.2.022.03
देव॑ त्वष्ट॒र्यद्ध॑ चारु॒त्वमान॒ड्यदंगि॑रसा॒मभ॑वः सचा॒भूः । स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वाँ, उ॒शन्य॑क्षि द्रविणोदः सु॒रत्नः॑ ॥10.070.09, 8.2.022.04
वन॑स्पते रश॒नया᳚ नि॒यूया᳚ दे॒वानां॒ पाथ॒ उप॑ वक्षि वि॒द्वान् । स्वदा᳚ति दे॒वः कृ॒णव॑द्ध॒वींष्यव॑तां॒ द्यावा᳚पृथि॒वी हवं᳚ मे ॥10.070.10, 8.2.022.05
आग्ने᳚ वह॒ वरु॑णमि॒ष्टये᳚ न॒ इंद्रं᳚ दि॒वो म॒रुतो᳚ अं॒तरि॑क्षात् । सीदं᳚तु ब॒र्हिर्विश्व॒ आ यज॑त्राः॒ स्वाहा᳚ दे॒वा, अ॒मृता᳚ मादयंतां ॥10.070.11, 8.2.022.06
समिद्धैत्येकादशर्चस्य सूक्तस्य भार्गवो जमदग्निरिध्म स्तनूनपाद् इळो बर्हिर्देवीर्द्वारौषासानक्ता दैव्यौहोतारौसरस्वतीळाभारत्यस्त्वष्टावनस्पति स्वाहाकृतयस्त्रिष्टुप् । (जामदग्नि: परशुरामोवा)।
समि॑द्धो, अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान् य॑जसि जातवेदः । आ च॒ वह॑ मित्रमहश्चिकि॒त्वान् त्वं दू॒तः क॒विर॑सि॒ प्रचे᳚ताः ॥10.110.01, 8.6.8.1
तनू᳚नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा᳚ समं॒जन् त्स्व॑दया सुजिह्व । मन्मा᳚नि धी॒भिरु॒त य॒ज्ञमृं॒धंदे᳚व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ॥10.110.02, 8.6.8.2
आ॒जुह्वा᳚न॒ ईड्यो॒ वंद्य॒श्चा या᳚ह्यग्ने॒ वसु॑भिः स॒जोषाः᳚ । त्वं दे॒वाना᳚मसि यह्व॒ होता॒ स ए᳚नान्यक्षीषि॒तो यजी᳚यान् ॥10.110.03, 8.6.8.3
प्रा॒चीनं᳚ ब॒र्हिः प्र॒दिशा᳚ पृथि॒व्या वस्तो᳚र॒स्या वृ॑ज्यते॒, अग्रे॒, अह्नां᳚ । व्यु॑ प्रथते वित॒रं वरी᳚यो दे॒वेभ्यो॒, अदि॑तये स्यो॒नं ॥10.110.04, 8.6.8.4
व्यच॑स्वतीरुर्वि॒या वि श्र॑यंतां॒ पति॑भ्यो॒ न जन॑यः॒ शुंभ॑मानाः । देवी᳚र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो᳚ भवत सुप्राय॒णाः ॥10.110.05, 8.6.8.5
आ सु॒ष्वयं᳚ती यज॒ते, उपा᳚के, उ॒षासा॒नक्ता᳚ सदतां॒ नि योनौ᳚ । दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे, अधि॒ श्रियं᳚ शुक्र॒पिशं॒ दधा᳚ने ॥10.110.06, 8.6.9.1
दैव्या॒ होता᳚रा प्रथ॒मा सु॒वाचा॒ मिमा᳚ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै । प्र॒चो॒दयं᳚ता वि॒दथे᳚षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा᳚ दि॒शंता᳚ ॥10.110.07, 8.6.9.2
आ नो᳚ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विळा᳚ मनु॒ष्वदि॒ह चे॒तयं᳚ती । ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदंतु ॥10.110.08, 8.6.9.3
य इ॒मे द्यावा᳚पृथि॒वी जनि॑त्री रू॒पैरपिं᳚श॒द्भुव॑नानि॒ विश्वा᳚ । तम॒द्य हो᳚तरिषि॒तो यजी᳚यांदे॒वं त्वष्टा᳚रमि॒ह य॑क्षि वि॒द्वान् ॥10.110.09, 8.6.9.4
उ॒पाव॑सृज॒ त्मन्या᳚ समं॒जंदे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑ । वन॒स्पतिः॑ शमि॒ता दे॒वो, अ॒ग्निः स्वदं᳚तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥10.110.10, 8.6.9.5
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना᳚मभवत्पुरो॒गाः । अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा᳚कृतं ह॒विर॑दंतु दे॒वाः ॥10.110.11, 8.6.9.6
47 । इति वा इति सूक्तं
इतिवाइति त्रयोदशर्चस्य सूक्तस्यैंद्रो लबोगायत्री ।
इति॒ वा, इति॑ मे॒ मनो॒ गामश्वं᳚ सनुया॒मिति॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥10.119.01, 8.6.026.01
प्र वाता᳚ इव॒ दोध॑त॒ उन्मा᳚ पी॒ता, अ॑यंसत । कु॒वित्सोम॒स्यापा॒मिति॑ ॥10.119.02, 8.6.026.02
उन्मा᳚ पी॒ता, अ॑यंसत॒ रथ॒मश्वा᳚ इवा॒शवः॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥10.119.03, 8.6.026.03
उप॑ मा म॒तिर॑स्थित वा॒श्रा पु॒त्रमि॑व प्रि॒यं । कु॒वित्सोम॒स्यापा॒मिति॑ ॥10.119.04, 8.6.026.04
अ॒हं तष्टे᳚व वं॒धुरं॒ पर्य॑चामि हृ॒दा म॒तिं । कु॒वित्सोम॒स्यापा॒मिति॑ ॥10.119.05, 8.6.026.05
न॒हि मे᳚ अक्षि॒पच्च॒नाऽच्छा᳚न् त्सुः॒ पंच॑ कृ॒ष्टयः॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥10.119.06, 8.6.026.06
न॒हि मे॒ रोद॑सी, उ॒भे, अ॒न्यं प॒क्षं च॒न प्रति॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥10.119.07, 8.6.027.01
अ॒भि द्यां म॑हि॒ना भु॑वम॒भी॒3॑(ई॒)मां पृ॑थि॒वीं म॒हीं । कु॒वित्सोम॒स्यापा॒मिति॑ ॥10.119.08, 8.6.027.02
हंता॒हं पृ॑थि॒वीमि॒मां नि द॑धानी॒ह वे॒ह वा᳚ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥10.119.09, 8.6.027.03
ओ॒षमित् पृ॑थि॒वीम॒हं जं॒घना᳚नी॒ह वे॒ह वा᳚ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥10.119.10, 8.6.027.04
दि॒वि मे᳚ अ॒न्यः प॒क्षो॒3॑(ओ॒) ऽधो, अ॒न्यम॑चीकृषं । कु॒वित्सोम॒स्यापा॒मिति॑ ॥10.119.11, 8.6.027.05
अ॒हम॑स्मि महाम॒हो᳚ ऽभिन॒भ्यमुदी᳚षितः । कु॒वित्सोम॒स्यापा॒मिति॑ ॥10.119.12, 8.6.027.06
गृ॒हो या॒म्यरं᳚कृतो दे॒वेभ्यो᳚ हव्य॒वाह॑नः । कु॒वित्सोम॒स्यापा॒मिति॑ ॥10.119.13, 8.6.027.07
48 । वास्तु सूक्तं
वास्तोष्पते प्रति जानीहीति तृचस्य मैत्रावरुणिर्वसिष्ठः वास्तोष्पतिस्त्रिष्टुप्, अमीवहेत्यस्य मैत्रावरुणिर्वसिष्ठः वास्तोष्पतिर्गायत्री, वास्तोष्पते ध्रुवा स्थूणामित्वस्य काण्व इरिंबिठिः वास्तोष्पतिर्बृहती ॥
वास्तो᳚ष्पते॒ प्रति॑ जानीह्य॒स्मान् त्स्वा᳚वे॒शो, अ॑नमी॒वो भ॑वा नः । यत् त्वेम॑हे॒ प्रति॒ तन्नो᳚ जुषस्व॒ शं नो᳚ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥7.054.01, 5.4.021.01
वास्तो᳚ष्पते प्र॒तर॑णो न एधि गय॒स्फानो॒ गोभि॒रश्वे᳚भिरिंदो । अ॒जरा᳚सस्ते स॒ख्ये स्या᳚म पि॒तेव॑ पु॒त्रान् प्रति॑ नो जुषस्व ॥7.054.02, 5.4.021.02
वास्तो᳚ष्पते श॒ग्मया᳚ सं॒सदा᳚ ते सक्षी॒महि॑ र॒ण्वया᳚ गातु॒मत्या᳚ । पा॒हि क्षेम॑ उ॒त योगे॒ वरं᳚ नो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥7.054.03, 5.4.021.03
अ॒मी॒व॒हा वा᳚स्तोष्पते॒ विश्वा᳚ रू॒पाण्या᳚वि॒शन् । सखा᳚ सु॒शेव॑ एधि नः ॥7.055.01, 5.4.022.01
वास्तो᳚ष्पते ध्रु॒वा स्थूणांस॑त्रं सो॒म्यानां᳚ । द्र॒प्सो भे॒त्ता पु॒रां शश्व॑तीना॒मिंद्रो॒ मुनी᳚नां॒ सखा᳚ ॥8.017.14, 6.1.024.04
49 । अघमर्षन सूक्तं
आपोहिष्ठेति नवर्चस्य सूक्तस्य आंबरीषः सिंधुद्वीप आपो गायत्री पंचमीवर्धमाना सप्तमीप्रतिष्ठांत्येद्वेअनुष्टुभौ । आपोहिसिंधुद्वीपोवांबरीष इत्येवमनुक्रमण्यां सिंधुद्वीपस्य पाक्षिकत्व स्वीकारे पूर्वोक्तस्त्रिशिराः प्राप्नोतितथापि प्रयोक्तृभिः सिंधुद्वीप एवाद्रियते ।
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा᳚य॒ चक्ष॑से ॥10.009.01, 7.6.5.1
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥10.009.02, 7.6.5.2
तस्मा॒, अरं᳚ गमाम वो॒ यस्य॒ क्षया᳚य॒ जिन्व॑थ । आपो᳚ ज॒नय॑था च नः ॥10.009.03, 7.6.5.3
शं नो᳚ दे॒वीर॒भिष्ट॑य॒ आपो᳚ भवंतु पी॒तये᳚ । शं योर॒भि स्र॑वंतु नः ॥10.009.04, 7.6.5.4
ईशा᳚ना॒ वार्या᳚णां॒ क्षयं᳚तीश्चर्षणी॒नां । अ॒पो या᳚चामि भेष॒जं ॥10.009.05, 7.6.5.5
अ॒प्सु मे॒ सोमो᳚ अब्रवीदं॒तर्विश्वा᳚नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वशं᳚भुवं ॥10.009.06, 7.6.5.6
आपः॑ पृणी॒त भे᳚ष॒जं वरू᳚थं त॒न्वे॒3॑(ए॒) मम॑ । ज्योक् च॒ सूर्यं᳚ दृ॒शे ॥10.009.07, 7.6.5.7
इ॒दमा᳚पः॒ प्र व॑हत॒ यत् किं च॑ दुरि॒तं मयि॑ । यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा᳚ शे॒प उ॒तानृ॑तं ॥10.009.08, 7.6.5.8
आपो᳚ अ॒द्यान्व॑चारिषं॒ रसे᳚न॒ सम॑गस्महि । पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥10.009.09, 7.6.5.9
परिशिष्टम् [ऋग्वेद मंडल 10.009 सूक्तस्यानंतरं][ऋग्वेद अष्टक 7, अध्याय 6, 5 वर्गानंतरं]
सस्रुषीस्तदपस इत्यस्य काण्वो मेधातिथिः आपो गायत्री ॥
स॒स्रुषी॒स्तद॑पसो॒ दिवा॒ नक्तं᳚च स॒स्रुषीः᳚। वरे᳚ण्यक्रतू रह॒ मा दे॒वीरव॑से हुवे॥
ऋतंचेति तृचस्य सूक्तस्य माधुच्छंदसोघमर्षणोभाववृत्तिरनुष्टुप् ।
ऋ॒तं च॑ स॒त्यं चा॒भी᳚द्धा॒त् तप॒सोऽध्य॑जायत । ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो, अ᳚र्ण॒वः ॥10.190.01, 8.8.048.01
स॒मु॒द्राद᳚र्ण॒वादधि॑ संवत्स॒रो, अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥10.190.02, 8.8.048.02
सू॒र्या॒चं॒द्र॒मसौ᳚ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं᳚ च पृथि॒वीं चा॒ऽन्तरि॑क्ष॒मथो॒ स्वः॑ ॥10.190.03, 8.8.048.03
50 । हिरण्य सूक्तं
परिशिष्टम् [ऋग्वेद मंडल 10, 128 सूक्तस्यानंतरं][ऋग्वेद अष्टक 8, अध्याय 7, 16 वर्गानंतरं]
आयुष्यमित्येकादशर्चस्य हिरण्यसूक्तस्य दाक्षायणो प्रचेताः हिरण्यमग्निर्वा देवता अनुष्टुप् छंदः, पंचमी त्रिष्टुप् ॥
आ॒युष्यं᳚ व॒र्चस्यं᳚ रा॒यस्पो᳚ष॒मौद्भि॑द्यं । इ॒दं हिर᳚ण्यं॒ वर्च॑स्व॒ज्जैत्रा॒या वि॑शतादि॒मां ॥1॥
उ॒च्चै॒र्वा॒जि पृ॑तना॒षाट् स॑भासा॒हं ध॑नंज॒यं । सर्वाः॒ सम॑ग्रा॒ ऋद्ध॑यो॒ हिर᳚ण्ये॒ऽस्मिन् स॒माहि॑ताः ॥2॥
शु॒नम॒हं हिर᳚ण्यस्य पि॒तुर्माने᳚व ज॒ग्रभ॑ । तेन॒ मां सूर्यत्वच॒मक॑रं पू॒रुषु॑ प्रि॒यं ॥3॥
स॒म्राजं᳚ च वि॒राजं᳚ चाऽभिष्टि॒र्या च॑ मे ध्रु॒वा । ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मु॑खे॒ तया॒ मामिं᳚द्र॒ सं सृ॑ज ॥4॥
अ॒ग्नेः प्रजा᳚तं॒ परि॒ यद्धिर᳚ण्यम॒मृतं᳚ य॒ज्ञे, अधि॒ मर्त्ये᳚षु । य ए᳚न॒द् वेद॒ स इदे᳚नमर्हति ज॒रामृ॒त्युर्भ॑वति॒ यो बि॒भर्ति॑ ॥5॥[व:1]
यद् वेद॒ राजा॒ वरु॑णो॒ यदु॑ दे॒वी सर॑स्वती । इंद्रो॒ यद् वृ॑त्र॒हा वे᳚द॒ तन्मे॒ वर्च॑स॒ आयु॑षे ॥6॥
न तद् रक्षां॑सि॒ न पि॑शा॒चाश्च॑रंति दे॒वाना॒मोजः॑ प्रथम॒जं ह्ये॒ (ए॒) 1॒॑ तत् । यो बि॒भर्ति॑ दाक्षाय॒णा हिर᳚ण्यं॒ स दे॒वेषु॑ कृणुते दी॒र्घमा᳚युः॒ स म॑नु॒ष्ये᳚षु कृणुते दी॒र्घमायुः॑ ॥7॥
य॒दा ब॑ध्नन् दाक्षाय॒णा हिर᳚ण्यं श॒तानी᳚काय सुमन॒स्यमा᳚ना । तन्न॒ आ ब॑ध्नामि श॒त शा᳚रदा॒याऽयु॑ष्मान् ज॒रद॑ष्टि॒र्यथास॑त् ॥8॥
घृ॒तादुर्लु॑प्तं॒ मधु॑मत् सु॒वर्णं᳚ धनंज॒यं ध॒रुणं धारयि॒ष्णु ॥9॥
ऋ॒णक् स॒पत्ना॒ दध॑राँश्च कृ॒ण्वदारो᳚ह मां मह॒ते सौभ॑गाय ॥10॥
प्रि॒यं मा᳚ कुरु दे॒वेषु॑ प्रि॒यं राज॑सु मा कुरु । प्रि॒यं विश्वे᳚षु गो॒प्त्रेषु॒ मयि॑ धेहि रु॒चा रुचं᳚ ॥11॥
अ॒ग्नि र्येन॑ वि॒राज॑ति॒ सूर्यो॒ येन॑ वि॒राज॑ति। वि॒राड्येन॒ विरा᳚जति॒ तेना॒स्मान् ब्र᳚ह्मणस्पते॒ विरा᳚ज स॒मिधं᳚ कुरु ॥13॥
51 । यम सूक्तं
परेयिवांसमिति षोळशर्चस्य सूक्तस्य वैवस्वतोयमऋषिः यमोदेवता षष्ठ्यांगिरःपित्रथर्वभृगुसोमाः दशम्यादितिसृणांश्वानौ त्रिष्टुप् त्रयोदशीचतुर्दशीषोडश्योनुष्टुभः पंचदशीबृहती ( प्रेहिप्रेहीत्यादितिसृणां पितृदेवतावैकल्पिकी ) ।
प॒रे॒यि॒वांसं᳚ प्र॒वतो᳚ म॒हीरनु॑ ब॒हुभ्यः॒ पंथा᳚मनुपस्पशा॒नं । वै॒व॒स्व॒तं सं॒गम॑नं॒ जना᳚नां य॒मं राजा᳚नं ह॒विषा᳚ दुवस्य ॥10.014.01, 7.6.014.01
य॒मो नो᳚ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू᳚ति॒रप॑भर्त॒वा, उ॑ । यत्रा᳚ नः॒ पूर्वे᳚ पि॒तरः॑ परे॒युरे॒ना ज॑ज्ञा॒नाः प॒थ्या॒3॑(आ॒) अनु॒ स्वाः ॥10.014.02, 7.6.014.02
मात॑ली क॒व्यैर्य॒मो, अंगि॑रोभि॒र्बृह॒स्पति॒रृक्व॑भिर्वावृधा॒नः । याँश्च॑ दे॒वा वा᳚वृ॒धुर्ये च॑ दे॒वान् त्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दंति ॥10.014.03, 7.6.014.03
इ॒मं य॑म प्रस्त॒रमा हि सीदांगि॑रोभिः पि॒तृभिः॑ संविदा॒नः । आ त्वा॒ मंत्राः᳚ कविश॒स्ता व॑हंत्वे॒ना रा᳚जन्ह॒विषा᳚ मादयस्व ॥10.014.04, 7.6.014.04
अंगि॑रोभि॒रा ग॑हि य॒ज्ञिये᳚भि॒र्यम॑ वैरू॒पैरि॒ह मा᳚दयस्व । विव॑स्वंतं हुवे॒ यः पि॒ता ते॒ऽस्मिन् य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ॥10.014.05, 7.6.014.05
अंगि॑रसो नः पि॒तरो॒ नव॑ग्वा॒, अथ᳚र्वाणो॒ भृग॑वः सो॒म्यासः॑ । तेषां᳚ व॒यं सु॑म॒तौ य॒ज्ञिया᳚ना॒मपि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म ॥10.014.06, 7.6.015.01
प्रेहि॒ प्रेहि॑ प॒थिभिः॑ पू॒र्व्येभि॒र्यत्रा᳚ नः॒ पूर्वे᳚ पि॒तरः॑ परे॒युः । उ॒भा राजा᳚ना स्व॒धया॒ मदं᳚ता य॒मं प॑श्यासि॒ वरु॑णं च दे॒वं ॥10.014.07, 7.6.015.02
सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेने᳚ष्टापू॒र्तेन॑ पर॒मे व्यो᳚मन् । हि॒त्वाया᳚व॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑च्छस्व त॒न्वा᳚ सु॒वर्चाः᳚ ॥10.014.08, 7.6.015.03
अपे᳚त॒ वी᳚त॒ वि च॑ सर्प॒तातो॒ऽस्मा, ए॒तं पि॒तरो᳚ लो॒कम॑क्रन् । अहो᳚भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्यव॒सान॑मस्मै ॥10.014.09, 7.6.015.04
अति॑ द्रव सारमे॒यौ श्वानौ᳚ चतुर॒क्षौ श॒बलौ᳚ सा॒धुना᳚ प॒था । अथा᳚ पि॒तॄन् त्सु॑वि॒दत्राँ॒, उपे᳚हि य॒मेन॒ ये स॑ध॒मादं॒ मदं᳚ति ॥10.014.10, 7.6.015.05
यौ ते॒ श्वानौ᳚ यम रक्षि॒तारौ᳚ चतुर॒क्षौ प॑थि॒रक्षी᳚ नृ॒चक्ष॑सौ । ताभ्या᳚मेनं॒ परि॑ देहि राजन् त्स्व॒स्ति चा᳚स्मा, अनमी॒वं च॑ धेहि ॥10.014.11, 7.6.016.01
उ॒रू॒ण॒साव॑सु॒तृपा᳚ उदुंब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒, अनु॑ । ताव॒स्मभ्यं᳚ दृ॒शये॒ सूर्या᳚य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रं ॥10.014.12, 7.6.016.02
य॒माय॒ सोमं᳚ सुनुत य॒माय॑ जुहुता ह॒विः । य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू᳚तो॒, अरं᳚कृतः ॥10.014.13, 7.6.016.03
य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत । स नो᳚ दे॒वेष्वा य॑मद्दी॒र्घमायुः॒ प्र जी॒वसे᳚ ॥10.014.14, 7.6.016.04
य॒माय॒ मधु॑मत्तमं॒ राज्ञे᳚ ह॒व्यं जु॑होतन । इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे᳚भ्यः पथि॒कृद्भ्यः॑ ॥10.014.15, 7.6.016.05
त्रिक॑द्रुकेभिः पतति॒ षळु॒र्वीरेक॒मिद्बृ॒हत् । त्रि॒ष्टुब्गा᳚य॒त्री छंदां᳚सि॒ सर्वा॒ ता य॒म आहि॑ता ॥10.014.16, 7.6.016.06
यस्मिन्निति सप्तर्चस्य सूक्तस्य यामायनः कुमारोयमोनुष्टुप् ।
यस्मि᳚न् वृ॒क्षे सु॑पला॒शे दे॒वैः सं॒पिब॑ते य॒मः । अत्रा᳚ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णाँ, अनु॑ वेनति ॥10.135.01, 8.7.023.01
पु॒रा॒णाँ, अ॑नु॒वेनं᳚तं॒ चरं᳚तं पा॒पया᳚मु॒या । अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा᳚ अस्पृहयं॒ पुनः॑ ॥10.135.02, 8.7.023.02
यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः । एके᳚षं वि॒श्वतः॒ प्रांच॒मप॑श्य॒न्नधि॑ तिष्ठसि ॥10.135.03, 8.7.023.03
यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे᳚भ्य॒स्परि॑ । तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तं ॥10.135.04, 8.7.023.04
कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् । कः स्वि॒त्तद॒द्य नो᳚ ब्रूयादनु॒देयी॒ यथाभ॑वत् ॥10.135.05, 8.7.023.05
यथाभ॑वदनु॒देयी॒ ततो॒, अग्र॑मजायत । पु॒रस्ता᳚द्बु॒ध्न आत॑तः प॒श्चान्नि॒रय॑णं कृ॒तं ॥10.135.06, 8.7.023.06
इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते᳚ । इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ॥10.135.07, 8.7.023.07
52 । नासदीय सूक्तं
नासदिति सप्तर्चस्य सूक्तस्य परमेष्ठी प्रजापतिर्भाववृत्तिस्त्रिष्टुप् ।
नास॑दासी॒न्नो सदा᳚सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो᳚मा प॒रो यत् । किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नंभः॒ किमा᳚सी॒द्गह॑नं गभी॒रं ॥10.129.01, 8.7.017.01
न मृ॒त्युरा᳚सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒, अह्न॑ आसीत् प्रके॒तः । आनी᳚दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा᳚द्धा॒न्यन्न प॒रः किं च॒नास॑ ॥10.129.02, 8.7.017.02
तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे᳚ऽप्रके॒तं स॑लि॒लं सर्व॑मा, इ॒दं । तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त् तप॑स॒स्तन्म॑हि॒नाजा᳚य॒तैकं᳚ ॥10.129.03, 8.7.017.03
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी᳚त् । स॒तो बंधु॒मस॑ति॒ निर॑विंदन् हृ॒दि प्र॒तीष्या᳚ क॒वयो᳚ मनी॒षा ॥10.129.04, 8.7.017.04
ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे᳚षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् । रे॒तो॒धा, आ᳚सन् महि॒मान॑ आसन् त्स्व॒धा, अ॒वस्ता॒त् प्रय॑तिः प॒रस्ता᳚त् ॥10.129.05, 8.7.017.05
को, अ॒द्धा वे᳚द॒ क इ॒ह प्र वो᳚च॒त् कुत॒ आजा᳚ता॒ कुत॑ इ॒यं विसृ॑ष्टिः । अ॒र्वाग्दे॒वा, अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे᳚द॒ यत॑ आब॒भूव॑ ॥10.129.06, 8.7.017.06
इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न । यो, अ॒स्याध्य॑क्षः पर॒मे व्यो᳚म॒न् त्सो, अं॒ग वे᳚द॒ यदि॑ वा॒ न वेद॑ ॥10.129.07, 8.7.017.07
53 । अप्रतिरथ सूक्तं
आशुःशिशानैति त्रयोदशर्चस्य सूक्तस्यैंद्रो प्रतिरथैंद्रश्चतुर्थ्यां बृहस्पतिर्द्वादश्याअप्वादेव्यंत्यायामरुतस्त्रिष्टुबंत्यानुष्टुप् । (आशुः शिशानः सूक्तोपांत्यायाआप्वादेवीत्यनुक्रमण्यां मप्वादेवीतिशौनकीये)
आ॒शुः शिशा᳚नो वृष॒भो न भी॒मो घ॑नाघ॒नः, क्षोभ॑णश्चर्षणी॒नां । सं॒क्रंद॑नोऽनिमि॒ष ए᳚कवी॒रः श॒तं सेना᳚ अजयत्सा॒कमिंद्रः॑ ॥10.103.01, 8.5.022.01
सं॒क्रंद॑नेनानिमि॒षेण॑ जि॒ष्णुना᳚ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚ । तदिंद्रे᳚ण जयत॒ तत्स॑हध्वं॒ युधो᳚ नर॒ इषु॑हस्तेन॒ वृष्णा᳚ ॥10.103.02, 8.5.022.02
स इषु॑हस्तैः॒ स नि॑षं॒गिभि᳚र्व॒शी संस्र॑ष्टा॒ स युध॒ इंद्रो᳚ ग॒णेन॑ । सं॒सृ॒ष्ट॒जित्सो᳚म॒पा बा᳚हुश॒र्ध्यु1॑(उ॒)ग्रध᳚न्वा॒ प्रति॑हिताभि॒रस्ता᳚ ॥10.103.03, 8.5.022.03
बृह॑स्पते॒ परि॑ दीया॒ रथे᳚न रक्षो॒हामित्राँ᳚, अप॒बाध॑मानः । प्र॒भं॒जन् त्सेनाः᳚ प्रमृ॒णो यु॒धा जय᳚न्न॒स्माक॑मेध्यवि॒ता रथा᳚नां ॥10.103.04, 8.5.022.04
ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी᳚रः॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी᳚रो, अ॒भिस॑त्वा सहो॒जा जैत्र॑मिंद्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥10.103.05, 8.5.022.05
गो॒त्र॒भिदं᳚ गो॒विदं॒ वज्र॑बाहुं॒ जयं᳚त॒मज्म॑ प्रमृ॒णंत॒मोज॑सा । इ॒मं स॑जाता॒, अनु॑ वीरयध्व॒मिंद्रं᳚ सखायो॒, अनु॒ सं र॑भध्वं ॥10.103.06, 8.5.022.06
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम᳚न्यु॒रिंद्रः॑ । दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒3॑(ओ॒)ऽस्माकं॒ सेना᳚ अवतु॒ प्र यु॒त्सु ॥10.103.07, 8.5.023.01
इंद्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए᳚तु॒ सोमः॑ । दे॒व॒से॒नाना᳚मभिभंजती॒नां जयं᳚तीनां म॒रुतो᳚ यं॒त्वग्रं᳚ ॥10.103.08, 8.5.023.02
इंद्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुतां॒ शर्ध॑ उ॒ग्रं । म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो᳚ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥10.103.09, 8.5.023.03
उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनां᳚सि । उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा᳚नां॒ जय॑तां यंतु॒ घोषाः᳚ ॥10.103.10, 8.5.023.04
अ॒स्माक॒मिंद्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या, इष॑व॒स्ता ज॑यंतु । अ॒स्माकं᳚ वी॒रा, उत्त॑रे भवंत्व॒स्माँ, उ॑ देवा, अवता॒ हवे᳚षु ॥10.103.11, 8.5.023.05
अ॒मीषां᳚ चि॒त्तं प्र॑तिलो॒भयं᳚ती गृहा॒णांगा᳚न्यप्वे॒ परे᳚हि । अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै᳚रं॒धेना॒मित्रा॒स्तम॑सा सचंतां ॥10.103.12, 8.5.023.06
प्रेता॒ जय॑ता नर॒ इंद्रो᳚ वः॒ शर्म॑ यच्छतु । उ॒ग्रा वः॑ संतु बा॒हवो᳚ऽनाधृ॒ष्या यथास॑थ ॥10.103.13, 8.5.023.07
परिशिष्टम् [ऋग्वेद मंडल 10, 103 सूक्तस्यानंतरं][ऋग्वेद अष्टक 8, अध्याय 5, 23 वर्गानंतरं]
असौ या सेनेति द्व्यर्चस्य सेनामोहनसूक्तस्य दैर्घतमसः जुहुः सेनामोहनो वा ऋषिः मरुतोऽग्निरिंद्रो वा देवता अनुष्टुप् छंदः, प्रथमा त्रिष्टुप् ॥
अ॒सौ या सेना᳚ मरुत॒: परे᳚षाम॒भ्यैति॑ न॒ ओज॑सा॒ स्पर्ध॑माना। तांगू᳚हत॒ तम॒साऽप᳚व्रतेन॒ यथा॒ऽमीषा᳚ म॒न्यो अ॒न्यन्न जाना᳚त्॥
अं॒धा अ॒मित्रा᳚ भवताऽशीर्षा॒णा अह॑यैव। तेषां᳚ वो अ॒ग्निद॑ग्धानाम॒ग्निमू᳚ळ्हाना॒ मिंद्रो᳚ हंतु॒ वरं᳚वरं॥
54 । सपत्नीनाशन सूक्तं
इमामिति षडृचस्य सूक्तस्येंद्राणीसपत्नीनाशनमनुष्टुबंत्यापंक्तिः ।
इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधं॒ बल॑वत्तमां । यया᳚ स॒पत्नीं॒ बाध॑ते॒ यया᳚ संविं॒दते॒ पतिं᳚ ॥10.145.01, 8.8.3.1
उत्ता᳚नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति । स॒पत्नीं᳚ मे॒ परा᳚ धम॒ पतिं᳚ मे॒ केव॑लं कुरु ॥10.145.02, 8.8.3.2
उत्त॑रा॒हमु॑त्तर॒ उत्त॒रेदुत्त॑राभ्यः । अथा᳚ स॒पत्नी॒ या ममाध॑रा॒ साध॑राभ्यः ॥10.145.03, 8.8.3.3
न॒ह्य॑स्या॒ नाम॑ गृ॒भ्णामि॒ नो, अ॒स्मिन् र॑मते॒ जने᳚ । परा᳚मे॒व प॑रा॒वतं᳚ स॒पत्नीं᳚ गमयामसि ॥10.145.04, 8.8.3.4
अ॒हम॑स्मि॒ सह॑मा॒नाथ॒ त्वम॑सि सास॒हिः । उ॒भे सह॑स्वती भू॒त्वी स॒पत्नीं᳚ मे सहावहै ॥10.145.05, 8.8.3.5
उप॑ तेऽधां॒ सह॑मानाम॒भि त्वा᳚धां॒ सही᳚यसा । मामनु॒ प्र ते॒ मनो᳚ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ॥10.145.06, 8.8.3.6
ऋषभमिति पंचर्चस्य सूक्तस्य वैराजऋषभः सपत्ननाशनोनुष्ठुबंत्या महापंक्तिः । (शाक्वरोवाऋषिः)।
ऋ॒ष॒भं मा᳚ समा॒नानां᳚ स॒पत्ना᳚नां विषास॒हिं । हं॒तारं॒ शत्रू᳚णां कृधि वि॒राजं॒ गोप॑तिं॒ गवां᳚ ॥10.166.01, 8.8.024.01
अ॒हम॑स्मि सपत्न॒हेंद्र॑ इ॒वारि॑ष्टो॒, अक्ष॑तः । अ॒धः स॒पत्ना᳚ मे प॒दोरि॒मे सर्वे᳚ अ॒भिष्ठि॑ताः ॥10.166.02, 8.8.024.02
अत्रै॒व वोऽपि॑ नह्याम्यु॒भे, आर्त्नी᳚ इव॒ ज्यया᳚ । वाच॑स्पते॒ नि षे᳚धे॒मान्यथा॒ मदध॑रं॒ वदा᳚न् ॥10.166.03, 8.8.024.03
अ॒भि॒भूर॒हमाग॑मं वि॒श्वक᳚र्मेण॒ धाम्ना᳚ । आ व॑श्चि॒त्तमा वो᳚ व्र॒तमा वो॒ऽहं समि॑तिं ददे ॥10.166.04, 8.8.024.04
यो॒ग॒क्षे॒मं व॑ आ॒दाया॒हं भू᳚यासमुत्त॒म आ वो᳚ मू॒र्धान॑मक्रमीं । अ॒ध॒स्प॒दान्म॒ उद्व॑दत मं॒डूका᳚ इवोद॒कान्मं॒डूका᳚ उद॒कादि॑व ॥10.166.05, 8.8.024.05
55 । राजयक्ष्मनाशन सूक्तं
मुंचामित्वेति पंचर्चस्य सूक्तस्य प्राजापत्यो यक्ष्मनाशन इंद्राग्नीत्रिष्टुबंत्यानुष्टुप् । (मुंचामीति सूक्ते राज यक्ष्मघ्नमित्युक्ते राजयक्ष्मनाशनो देवतेतिकेचित् अन्येप्रजापतिमाहुः इंद्राग्नीइतितुयास्कः इत्थंमतवैविध्येपि ऽषळाहुतिश्चरुर्मुंचामित्वाहविषा जीवनायकमित्येतेनेतिऽ गृह्यसूत्रानुसारिवृत्तिकृत्कारिका कारादिभिरस्य सूक्तस्यैंद्राग्नि (देवतात्वनिर्देशत्तेएवस्माभिरुक्ते)
मुं॒चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा᳚जय॒क्ष्मात् । ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे᳚नं॒ तस्या᳚ इंद्राग्नी॒ प्र मु॑मुक्तमेनं ॥10.161.01, 8.8.019.01
यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे᳚तो॒ यदि॑ मृ॒त्योरं᳚ति॒कं नी᳚त ए॒व । तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा᳚र्षमेनं श॒तशा᳚रदाय ॥10.161.02, 8.8.019.02
स॒ह॒स्रा॒क्षेण॑ श॒तशा᳚रदेन श॒तायु॑षा ह॒विषाहा᳚र्षमेनं । श॒तं यथे॒मं श॒रदो॒ नया॒तींद्रो॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रं ॥10.161.03, 8.8.019.03
श॒तं जी᳚व श॒रदो॒ वर्ध॑मानः श॒तं हे᳚मं॒तांछ॒तमु॑ वसं॒तान् । श॒तमिं᳚द्रा॒ग्नी स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः ॥10.161.04, 8.8.019.04
आहा᳚र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागाः᳚ पुनर्नव । सर्वां᳚ग॒ सर्वं᳚ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदं ॥10.161.05, 8.8.019.05
परिशिष्टम् [ऋग्वेद मंडल 10, 161 सूक्तस्यानंतरं][ऋग्वेद अष्टक 8, अध्याय 8, 12 वर्गानंतरं]
ऊर्ध्वरेखेत्यस्य आयुष्यसूक्तस्य दैर्घतमसः इंद्राग्नी अमृतं वा देवता त्रिष्टुप् छंदः ॥
ऊ॒र्ध्व॒रे॒खा प्र॒ दहं᳚ते॒ विष्णु॑रि॒म मिं᳚द्रा॒ग्नी अ॒मृतं᳚जुषेथां। मह्य॒ न्दधा᳚ना॒ उप॑ दी॒र्घमायु॑र॒स्मे ध॑त्तं॒ पुरु॑भुजा॒ पुरं᳚धिः॥
अक्षीभ्यामिति षडृचस्य सूक्तस्य काश्यपोविवृहायक्ष्महानुष्टुप् ।
अ॒क्षीभ्यां᳚ ते॒ नासि॑काभ्यां॒ कर्णा᳚भ्यां॒ छुबु॑का॒दधि॑ । यक्ष्मं᳚ शीर्ष॒ण्यं᳚ म॒स्तिष्का᳚ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥10.163.01, 8.8.021.01
ग्री॒वाभ्य॑स्त उ॒ष्णिहा᳚भ्यः॒ कीक॑साभ्यो, अनू॒क्या᳚त् । यक्ष्मं᳚ दोष॒ण्य१॑(अ॒)मंसा᳚भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥10.163.02, 8.8.021.02
आं॒त्रेभ्य॑स्ते॒ गुदा᳚भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ । यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥10.163.03, 8.8.021.03
ऊ॒रुभ्यां᳚ ते, अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्यां । यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ॥10.163.04, 8.8.021.04
मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ । यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥10.163.05, 8.8.021.05
अंगा᳚दंगा॒ल्लोम्नो᳚लोम्नो जा॒तं पर्व॑णिपर्वणि । यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥10.163.06, 8.8.021.06
56 । उषस्सूक्तं
आयाहीति चतुरृचस्य सूक्तस्यांगिरसः संवर्त उषाद्विपदाविराट् ।
आ या᳚हि॒ वन॑सा स॒ह गावः॑ सचंत वर्त॒निं यदूध॑भिः ॥10.172.01, 8.8.30.1
आ या᳚हि॒ वस्व्या᳚ धि॒या मंहि॑ष्ठो जार॒यन्म॑खः सु॒दानु॑भिः ॥10.172.02, 8.8.30.2
पि॒तु॒भृतो॒ न तंतु॒मित्सु॒दान॑वः॒ प्रति॑ दध्मो॒ यजा᳚मसि ॥10.172.03, 8.8.30.3
उ॒षा, अप॒ स्वसु॒स्तमः॒ सं व॑र्तयति वर्त॒निं सु॑जा॒तता᳚ ॥10.172.04, 8.8.30.4
57 । बृहस्पति सूक्तं
बृहस्पतिरिति तृचस्य सूक्तस्य बार्हस्पत्यस्त पुर्मूर्धा बृहस्पतिस्त्रिष्टुप् ।
बृह॒स्पति᳚र्नयतु दु॒र्गहा᳚ ति॒रः पुन᳚र्नेषद॒घशं᳚साय॒ मन्म॑ । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज॑मानाय॒ शं योः ॥10.182.01, 8.8.040.01
नरा॒शंसो᳚ नोऽवतु प्रया॒जे शं नो᳚ अस्त्वनुया॒जो हवे᳚षु । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज॑मानाय॒ शं योः ॥10.182.02, 8.8.040.02
तपु᳚र्मूर्धा तपतु र॒क्षसो॒ ये ब्र᳚ह्म॒द्विषः॒ शर॑वे॒ हंत॒वा, उ॑ । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज॑मानाय॒ शं योः ॥10.182.03, 8.8.040.03
58 । ध्रुव सूक्तं
अभीवर्तेनेति पंचर्चस्य सूक्तस्यांगिरसोभीवर्तो राजानुष्टुप् ।
अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेंद्रो᳚ अभिवावृ॒ते । तेना॒स्मान् ब्र᳚ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ॥10.174.01, 8.8.032.01
अ॒भि॒वृत्य॑ स॒पत्ना᳚न॒भि या नो॒, अरा᳚तयः । अ॒भि पृ॑त॒न्यंतं᳚ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ॥10.174.02, 8.8.032.02
अ॒भि त्वा᳚ दे॒वः स॑वि॒ताभि सोमो᳚ अवीवृतत् । अ॒भि त्वा॒ विश्वा᳚ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥10.174.03, 8.8.032.03
येनेंद्रो᳚ ह॒विषा᳚ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः । इ॒दं तद॑क्रि देवा, असप॒त्नः किला᳚भुवं ॥10.174.04, 8.8.032.04
अ॒स॒प॒त्नः स॑पत्न॒हाभिरा᳚ष्ट्रो विषास॒हिः । यथा॒हमे᳚षां भू॒तानां᳚ वि॒राजा᳚नि॒ जन॑स्य च ॥10.174.05, 8.8.032.05
प्रवैति चतुरृचस्य सूक्तस्योर्ध्वग्रावार्बुदः सर्पऋषिपुत्रोग्रावाणोगायत्री ।
प्र वो᳚ ग्रावाणः सवि॒ता दे॒वः सु॑वतु॒ धर्म॑णा । धू॒र्षु यु॑ज्यध्वं सुनु॒त ॥10.175.01, 8.8.033.01
ग्रावा᳚णो॒, अप॑ दु॒च्छुना॒मप॑ सेधत दुर्म॒तिं । उ॒स्राः क॑र्तन भेष॒जं ॥10.175.02, 8.8.033.02
ग्रावा᳚ण॒ उप॑रे॒ष्वा म॑ही॒यंते᳚ स॒जोष॑सः । वृष्णे॒ दध॑तो॒ वृष्ण्यं᳚ ॥10.175.03, 8.8.033.03
ग्रावा᳚णः सवि॒ता नु वो᳚ दे॒वः सु॑वतु॒ धर्म॑णा । यज॑मानाय सुन्व॒ते ॥10.175.04, 8.8.033.04
59 । विश्वकर्म सूक्तं
यैमाविश्वेति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप् द्वितीयाविराड्रूपा ।
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी᳚दत्पि॒ता नः॑ । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा᳚नः प्रथम॒च्छदव॑राँ॒, आ वि॑वेश ॥10.081.01, 8.3.016.01
किं स्वि॑दासीदधि॒ष्ठान॑मा॒रंभ॑णं कत॒मत्स्वि॑त्क॒थासी᳚त् । यतो॒ भूमिं᳚ ज॒नय᳚न् वि॒श्वक᳚र्मा॒ वि द्यामौर्णो᳚न्महि॒ना वि॒श्वच॑क्षाः ॥10.081.02, 8.3.016.02
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो᳚मुखो वि॒श्वतो᳚बाहुरु॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी᳚ ज॒नय᳚न् दे॒व एकः॑ ॥10.081.03, 8.3.016.03
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ᳚स॒ यतो॒ द्यावा᳚पृथि॒वी नि॑ष्टत॒क्षुः । मनी᳚षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय᳚न् ॥10.081.04, 8.3.016.04
या ते॒ धामा᳚नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं᳚ वृधा॒नः ॥10.081.05, 8.3.016.05
विश्व॑कर्मन्ह॒विषा᳚ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्यां । मुह्यं᳚त्व॒न्ये, अ॒भितो॒ जना᳚स इ॒हास्माकं᳚ म॒घवा᳚ सू॒रिर॑स्तु ॥10.081.06, 8.3.016.06
वा॒चस्पतिं᳚ वि॒श्वक᳚र्माणमू॒तये᳚ मनो॒जुवं॒ वाजे᳚ अ॒द्या हु॑वेम । स नो॒ विश्वा᳚नि॒ हव॑नानि जोषद्वि॒श्वशं᳚भू॒रव॑से सा॒धुक᳚र्मा ॥10.081.07, 8.3.016.07
चक्षुषैति सप्तर्चस्य सूक्तस्य भौवनोविश्वकर्माविश्वकर्मात्रिष्टुप् ।
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो᳚ घृ॒तमे᳚ने, अजन॒न्नन्न॑माने । य॒देदंता॒, अद॑दृहंत॒ पूर्व॒ आदिद्द्यावा᳚पृथि॒वी, अ॑प्रथेतां ॥10.082.01, 8.3.017.01
वि॒श्वक᳚र्मा॒ विम॑ना॒, आद्विहा᳚या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् । तेषा᳚मि॒ष्टानि॒ समि॒षा म॑दंति॒ यत्रा᳚ सप्तऋ॒षीन् प॒र एक॑मा॒हुः ॥10.082.02, 8.3.017.02
यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा᳚नि॒ वेद॒ भुव॑नानि॒ विश्वा᳚ । यो दे॒वानां᳚ नाम॒धा, एक॑ ए॒व तं सं᳚प्र॒श्नं भुव॑ना यंत्य॒न्या ॥10.082.03, 8.3.017.03
त आय॑जंत॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे᳚ जरि॒तारो॒ न भू॒ना । अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ᳚ण्वन्नि॒मानि॑ ॥10.082.04, 8.3.017.04
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ । कं स्वि॒द्गर्भं᳚ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यंत॒ विश्वे᳚ ॥10.082.05, 8.3.017.05
तमिद्गर्भं᳚ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छंत॒ विश्वे᳚ । अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न् विश्वा᳚नि॒ भुव॑नानि त॒स्थुः ॥10.082.06, 8.3.017.06
न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मंत॑रं बभूव । नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या᳚ चासु॒तृप॑ उक्थ॒शास॑श्चरंति ॥10.082.07, 8.3.017.07
60 । तार्क्ष्य सूक्तं
त्यमूष्विति तृचस्य सूक्तस्य तार्क्ष्योरिष्टनेमिस्तार्क्ष्यस्त्रिष्टुप् ।
त्यमू॒ षु वा॒जिनं᳚ दे॒वजू᳚तं स॒हावा᳚नं तरु॒तारं॒ रथा᳚नां । अरि॑ष्टनेमिं पृत॒नाज॑मा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥10.178.01, 8.8.036.01
इंद्र॑स्येव रा॒तिमा॒जोहु॑वानाः स्व॒स्तये॒ नाव॑मि॒वा रु॑हेम । उर्वी॒ न पृथ्वी॒ बहु॑ले॒ गभी᳚रे॒ मा वा॒मेतौ॒ मा परे᳚तौ रिषाम ॥10.178.02, 8.8.036.02
स॒द्यश्चि॒द्यः शव॑सा॒ पंच॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॒तान॑ । स॒ह॒स्र॒साः श॑त॒सा, अ॑स्य॒ रंहि॒र्न स्मा᳚ वरंते युव॒तिं न शर्यां᳚ ॥10.178.03, 8.8.036.03
61 । वाक् सूक्तं
गआयत्रेण प्रति मिमीत इत्यस्य औचथ्यो दीर्घतमाः विश्वेदेवाः त्रिष्टुप्, तस्याः समुद्रा इत्यस्य औचथ्यो दीर्घतमाः प्रथमार्धस्य वाक् द्वितीयाअर्धस्यापो वा प्रस्तारपंक्तिः, चत्वारि वागित्वस्य औचथ्यो दीर्घतमाः वाक् त्रिष्टुप्, ससर्परीरभरदित्यस्य गाथिनो विश्वामित्रः ससर्परी वाग्जगती, यद्वाग्वदंतीति द्व्यर्चस्य भार्गवो नेमः वाक् त्रिष्टुप्, सक्तुमिव तितौनेत्यस्य बार्हस्पतिः ज्ञानं त्रिष्टुप् ॥
गा॒य॒त्रेण॒ प्रति॑ मिमीते, अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कं । वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे᳚ण मिमते स॒प्त वाणीः᳚ ॥1.164.24, 2.3.018.04
तस्याः᳚ समु॒द्रा, अधि॒ वि क्ष॑रंति॒ तेन॑ जीवंति प्र॒दिश॒श्चत॑स्रः । ततः॑, क्षरत्य॒क्षरं॒ तद् विश्व॒मुप॑ जीवति ॥1.164.42, 2.3.022.02
च॒त्वारि॒ वाक् परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ । गुहा॒ त्रीणि॒ निहि॑ता॒ नेंग॑यंति तु॒रीयं᳚ वा॒चो म॑नु॒ष्या᳚ वदंति ॥1.164.45, 2.3.022.05
स॒स॒र्प॒रीर॑भर॒त् तूय॑मे॒भ्योऽधि॒ श्रवः॒ पांच॑जन्यासु कृ॒ष्टिषु॑ । सा प॒क्ष्या॒3॑(आ॒) नव्य॒मायु॒र्दधा᳚ना॒ यां मे᳚ पलस्तिजमद॒ग्नयो᳚ द॒दुः ॥3.053.16, 3.3.022.01
यद्वाग्वदं᳚त्यविचेत॒नानि॒ राष्ट्री᳚ दे॒वानां᳚ निष॒साद॑ मं॒द्रा । चत॑स्र॒ ऊर्जं᳚ दुदुहे॒ पयां᳚सि॒ क्व॑ स्विदस्याः पर॒मं ज॑गाम ॥8.100.10, 6.7.5.4
दे॒वीं वाच॑मजनयंत दे॒वास्तां वि॒श्वरू᳚पाः प॒शवो᳚ वदंति । सा नो᳚ मं॒द्रेष॒मूर्जं॒ दुहा᳚ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥8.100.11, 6.7.5.5
सक्तु॑मिव॒ तित॑उना पु॒नंतो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त । अत्रा॒ सखा᳚यः स॒ख्यानि॑ जानते भ॒द्रैषां᳚ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥10.071.02, 8.2.023.02
62 । शची सूक्तं
उदसाविति षढचस्य सूक्तस्य पौलोमी शचीशच्यनुष्टुप् ।
उद॒सौ सूर्यो᳚ अगा॒दुद॒यं मा᳚म॒को भगः॑ । अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ॥10.159.01, 8.8.017.01
अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी । ममेदनु॒ क्रतुं॒ पतिः॑ सेहा॒नाया᳚ उ॒पाच॑रेत् ॥10.159.02, 8.8.017.02
मम॑ पु॒त्राः श॑त्रु॒हणोऽथो᳚ मे दुहि॒ता वि॒राट् । उ॒ताहम॑स्मि संज॒या पत्यौ᳚ मे॒ श्लोक॑ उत्त॒मः ॥10.159.03, 8.8.017.03
येनेंद्रो᳚ ह॒विषा᳚ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः । इ॒दं तद॑क्रि देवा, असप॒त्ना किला᳚भुवं ॥10.159.04, 8.8.017.04
अ॒स॒प॒त्ना स॑पत्न॒घ्नी जयं᳚त्यभि॒भूव॑री । आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒, अस्थे᳚यसामिव ॥10.159.05, 8.8.017.05
सम॑जैषमि॒मा, अ॒हं स॒पत्नी᳚रभि॒भूव॑री । यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा᳚नि॒ जन॑स्य च ॥10.159.06, 8.8.017.06
63 । केशी सूक्तं
केशीति सप्तर्चस्य सूक्तस्य वातरशना जूतिर्वातजूतिर्विप्र जूतिर्वृषाणकः करिक्रत एतशऋष्यशृंग इति क्रमेणैकर्चाऋषयः । केश्यग्निसूर्यवायवोदेवताअनुष्टुप् ।
के॒श्य१॑(अ॒)ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सी । के॒शी विश्वं॒ स्व॑र्दृ॒शे के॒शीदं ज्योति॑रुच्यते ॥10.136.01, 8.7.024.01
मुन॑यो॒ वात॑रशनाः पि॒शंगा᳚ वसते॒ मला᳚ । वात॒स्यानु॒ ध्राजिं᳚ यंति॒ यद्दे॒वासो॒, अवि॑क्षत ॥10.136.02, 8.7.024.02
उन्म॑दिता॒ मौने᳚येन॒ वाताँ॒, आ त॑स्थिमा व॒यं । शरी॒रेद॒स्माकं᳚ यू॒यं मर्ता᳚सो, अ॒भि प॑श्यथ ॥10.136.03, 8.7.024.03
अं॒तरि॑क्षेण पतति॒ विश्वा᳚ रू॒पाव॒चाक॑शत् । मुनि॑र्दे॒वस्य॑देवस्य॒ सौकृ॑त्याय॒ सखा᳚ हि॒तः ॥10.136.04, 8.7.024.04
वात॒स्याश्वो᳚ वा॒योः सखाथो᳚ दे॒वेषि॑तो॒ मुनिः॑ । उ॒भौ स॑मु॒द्रावा क्षे᳚ति॒ यश्च॒ पूर्व॑ उ॒ताप॑रः ॥10.136.05, 8.7.024.05
अ॒प्स॒रसां᳚ गंध॒र्वाणां᳚ मृ॒गाणां॒ चर॑णे॒ चर᳚न् । के॒शी केत॑स्य वि॒द्वान् त्सखा᳚ स्वा॒दुर्म॒दिंत॑मः ॥10.136.06, 8.7.024.06
वा॒युर॑स्मा॒, उपा᳚मंथत्पि॒नष्टि॑ स्मा कुनन्न॒मा । के॒शी वि॒षस्य॒ पात्रे᳚ण॒ यद्रु॒द्रेणापि॑बत्स॒ह ॥10.136.07, 8.7.024.07
64 । सर्पसूक्तं
परिशिष्टम् [ऋग्वेद मंडल 7, 55 सूक्तस्यानंतरं][ऋग्वेद अष्टक 5, अध्याय 4, 22 वर्गानंतरं]
स्वप्न स्वप्नाधिकरण इति द्वादशर्चस्य प्रस्वापनसूक्तस्य मैत्रावरुणिर्वसिष्ठो दैर्घतमसो देवरातो वा ऋषिः अग्निः सर्पाः इंद्रो वा देवता अनुष्टुप् छंदः, षष्ठी सप्तमी द्वादशी च त्रिष्टभः ॥
स्व॒प्न स्व॒प्नाधि॒कर॑णे॒ सर्व॒न्निष्वा᳚पया॒ जनं᳚। आ सू॒र्य म॒न्यांत्स्वा॒पया॒ द्व्यु॑౧॒॑(ऊ॒)ळ्हंंजा᳚ग्रिया द॒हं॥
अज॑गरो नाम स॒र्प स्स॒र्पि र॑विषो म॒हान्। तस्मि॒न्हि सर्प॒ स्सुधि॑त॒ स्तेन॑ त्वा स्वापयामसि॥
सर्प॒ स्सर्पो᳚ अ॒जग॑र स्स॒र्पि र॑विषो म॒हान्। तस्य॒ सर्पा᳚त्सिंधव॒ स्तस्य॑ गा॒ध म॑शीमहि॥
का॒ळि॒को ना᳚म स॒र्पो न॒वना᳚ग स॒हस्र॑बळः। य॒मु॒न॒ह्र॒दे ह॑ सो जा॒तो॒౩॒॑(ओ॒) यो ना᳚रायण॒वाह॑नः॥
यदि॑ का॒ळिक॑दूत॒स्य य॒दि का᳚: काळि॒काद्भ॑यात्। जन्म॑भू॒मि म॑तिक्रां॒तो नि॒र्विषो᳚ याति॒ काळि॑कः॥
आ या᳚हींद्र प॒थिभि॑ रीळि॒तेभि॑ र्य॒ज्ञ मि॒मन्नो᳚ भाग॒धेयं᳚जुषस्व। तृ॒प्तांज॑हु॒ र्मातु॑लस्येव॒ योषा᳚ भा॒गस्ते पैतृ॑ष्व॒सेयी᳚ व॒पामि॑व॥
य॒शस्क॑रं॒ बल॑वंतं प्र॒भुत्व॑ न्तमे॒व रा᳚जाऽधि॒पति॑ र्बभूव। संकी॒र्णना᳚गाऽश्व॒पति᳚ र्नरा॒णां सु॑मं॒गल्यं᳚ सततं दी॒र्घमायुः॑॥
क॒र्को॒ट॒को ना᳚म स॒र्पो यो॒ दृष्टी᳚विष॒ उच्य॑ते। तस्य॑ स॒र्पस्य॑ सर्प॒त्व न्त॒स्मै स॑र्प न॒मोऽस्तु॑ते॥
येऽदो रो᳚च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑। येषा᳚ म॒प्सु सद॑स्कृ॒त न्तेभ्य॑ स्स॒र्पेभ्यो॒ नमः॑॥
या इष॑वो यातु॒धाना᳚नां॒ ये वा॒ वन॒स्पती॒ꣲ ननु॑। ये वा᳚ऽव॒टेषु॒ शेर॑ते॒ तेभ्य॑ स्स॒र्पेभ्यो॒ नमः॑॥
नमो᳚ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वी मनु॑। ये अं॒तरि॑क्षे॒ ये दि॒वि तेभ्य॑ स्स॒र्पेभ्यो॒ नमः॑॥
उ॒ग्रा॒ऽऽयु॒धाः प्रम॑तिनः प्रवी॒रा माया॒विनो᳚ ब॒लिना॒मिच्छ॑मानाः। ये दे॒वा नसु॑राः प॒राऽभ॑व॒ न्तांस्त्वं वज्रे᳚ण मघव॒ न्निवा᳚रय॥
65 । इंद्र सूक्तं
विश्वजित इति षडृचस्य सूक्तस्यशौनकोगृत्समदैंद्रोजगत्यंत्यात्रिष्टुप् ।
वि॒श्व॒जिते᳚ धन॒जिते᳚ स्व॒र्जिते᳚ सत्रा॒जिते᳚ नृ॒जित॑ उर्वरा॒जिते᳚ । अ॒श्व॒जिते᳚ गो॒जिते᳚ अ॒ब्जिते᳚ भ॒रेंद्रा᳚य॒ सोमं᳚ यज॒ताय॑ हर्य॒तं ॥2.021.01, 2.6.027.01
अ॒भि॒भुवे᳚ऽभिभं॒गाय॑ वन्व॒तेऽषा᳚ळ्हाय॒ सह॑मानाय वे॒धसे᳚ । तु॒वि॒ग्रये॒ वह्न॑ये दु॒ष्टरी᳚तवे सत्रा॒साहे॒ नम॒ इंद्रा᳚य वोचत ॥2.021.02, 2.6.027.02
स॒त्रा॒सा॒हो ज॑नभ॒क्षो ज॑नंस॒हश्च्यव॑नो यु॒ध्मो, अनु॒ जोष॑मुक्षि॒तः । वृ॒तं॒च॒यः सहु॑रिर्वि॒क्ष्वा᳚रि॒त इंद्र॑स्य वोचं॒ प्र कृ॒तानि॑ वी॒र्या᳚ ॥2.021.03, 2.6.027.03
अ॒ना॒नु॒दो वृ॑ष॒भो दोध॑तो व॒धो गं᳚भी॒र ऋ॒ष्वो, अस॑मष्टकाव्यः । र॒ध्र॒चो॒दः श्नथ॑नो वीळि॒तस्पृ॒थुरिंद्रः॑ सुय॒ज्ञ उ॒षसः॒ स्व॑र्जनत् ॥2.021.04, 2.6.027.04
य॒ज्ञेन॑ गा॒तुम॒प्तुरो᳚ विविद्रिरे॒ धियो᳚ हिन्वा॒ना, उ॒शिजो᳚ मनी॒षिणः॑ । अ॒भि॒स्वरा᳚ नि॒षदा॒ गा, अ॑व॒स्यव॒ इंद्रे᳚ हिन्वा॒ना द्रवि॑णान्याशत ॥2.021.05, 2.6.027.05
इंद्र॒ श्रेष्ठा᳚नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे । पोषं᳚ रयी॒णामरि॑ष्टिं त॒नूनां᳚ स्वा॒द्मानं᳚ वा॒चः सु॑दिन॒त्वमह्नां᳚ ॥2.021.06, 2.6.027.06
शासैति पंचर्चस्य सूक्तस्य भारद्वाजः शासैंद्रोनुष्टुप् ।
शा॒स इ॒त्था म॒हाँ, अ॑स्यमित्रखा॒दो, अद्भु॑तः । न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा᳚ च॒न ॥10.152.01, 8.8.010.01
स्व॒स्ति॒दा वि॒शस्पति᳚र्वृत्र॒हा वि॑मृ॒धो व॒शी । वृषेंद्रः॑ पु॒र ए᳚तु नः सोम॒पा, अ॑भयंक॒रः ॥10.152.02, 8.8.010.02
वि रक्षो॒ वि मृधो᳚ जहि॒ वि वृ॒त्रस्य॒ हनू᳚ रुज । वि म॒न्युमिं᳚द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥10.152.03, 8.8.010.03
वि न॑ इंद्र॒ मृधो᳚ जहि नी॒चा य॑च्छ पृतन्य॒तः । यो, अ॒स्माँ, अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ॥10.152.04, 8.8.010.04
अपें᳚द्र द्विष॒तो मनोऽप॒ जिज्या᳚सतो व॒धं । वि म॒न्योः शर्म॑ यच्छ॒ वरी᳚यो यवया व॒धं ॥10.152.05, 8.8.010.05
66 । अग्ने नयेति सूक्तं (अग्निनमस्कारमंत्राः)
अग्नेनयेत्यष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्योग्निस्त्रिष्टुप् ।
अग्ने॒ नय॑ सु॒पथा᳚ रा॒ये, अ॒स्मान् विश्वा᳚नि देव व॒युना᳚नि वि॒द्वान् । यु॒यो॒ध्य१॑(अ॒)स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥1.189.01, 2.5.010.01
अग्ने॒ त्वं पा᳚रया॒ नव्यो᳚ अ॒स्मान् त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा᳚ तो॒काय॒ तन॑याय॒ शं योः ॥1.189.02, 2.5.010.02
अग्ने॒ त्वम॒स्मद् यु॑यो॒ध्यमी᳚वा॒, अन॑ग्नित्रा, अ॒भ्यमं᳚त कृ॒ष्टीः । पुन॑र॒स्मभ्यं᳚ सुवि॒ताय॑ देव॒ क्षां विश्वे᳚भिर॒मृते᳚भिर्यजत्र ॥1.189.03, 2.5.010.03
पा॒हि नो᳚ अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान् । मा ते᳚ भ॒यं ज॑रि॒तारं᳚ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ॥1.189.04, 2.5.010.04
मा नो᳚ अ॒ग्नेऽव॑ सृजो, अ॒घाया᳚वि॒ष्यवे᳚ रि॒पवे᳚ दु॒च्छुना᳚यै । मा द॒त्वते॒ दश॑ते॒ मादते᳚ नो॒ मा रीष॑ते सहसाव॒न् परा᳚ दाः ॥1.189.05, 2.5.010.05
वि घ॒ त्वावाँ᳚ ऋतजात यंसद् गृणा॒नो, अ॑ग्ने त॒न्वे॒3॑(ए॒) वरू᳚थं । विश्वा᳚द् रिरि॒क्षोरु॒त वा᳚ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे᳚व वि॒ष्पट् ॥1.189.06, 2.5.011.01
त्वं ताँ, अ॑ग्न उ॒भया॒न् वि वि॒द्वान् वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र । अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो᳚ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ॥1.189.07, 2.5.011.02
अवो᳚चाम नि॒वच॑नान्यस्मि॒न् मान॑स्य सू॒नुः स॑हसा॒ने, अ॒ग्नौ । व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुं ॥1.189.08, 2.5.011.03
67 । अग्न्युपस्थान सूक्तं
अग्नेत्वंनैति चतुरृचस्य सूक्तस्य गौपायना लौपायनावाबंधुः सुबंधुः श्रुतबंधुर्विप्रबंधुश्चक्रमेणर्षयोऽग्निर्द्विपदा विराट् ।
अग्ने॒ त्वं नो॒, अंत॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॑ ॥5.024.01, 4.1.016.01
वसु॑र॒ग्निर्वसु॑श्रवा॒, अच्छा᳚ नक्षि द्यु॒मत्त॑मं र॒यिं दाः᳚ ॥5.024.02, 4.1.016.02
स नो᳚ बोधि श्रु॒धी हव॑मुरु॒ष्या णो᳚ अघाय॒तः स॑मस्मात् ॥5.024.03, 4.1.016.03
तं त्वा᳚ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी᳚महे॒ सखि॑भ्यः ॥5.024.04, 4.1.016.04
वधेन दस्युमिति षडृचस्य आत्रेयो वसुश्रुतः अग्निस्त्रिष्टुप् ॥
व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒3॑(ए॒) स्वायै᳚ । पिप॑र्षि॒ यत् स॑हसस्पुत्र दे॒वान् त्सो, अ॑ग्ने पाहि नृतम॒ वाजे᳚ अ॒स्मान् ॥5.004.06, 3.8.019.01
व॒यं ते᳚ अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा᳚वक भद्रशोचे । अ॒स्मे र॒यिं वि॒श्ववा᳚रं॒ समि᳚न्वा॒स्मे विश्वा᳚नि॒ द्रवि॑णानि धेहि ॥5.004.07, 3.8.019.02
अ॒स्माक॑मग्ने, अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यं । व॒यं दे॒वेषु॑ सु॒कृतः॑ स्याम॒ शर्म॑णा नस्त्रि॒वरू᳚थेन पाहि ॥5.004.08, 3.8.019.03
विश्वा᳚नि नो दु॒र्गहा᳚ जातवेदः॒ सिंधुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि । अग्ने᳚ अत्रि॒वन्नम॑सा गृणा॒नो॒3॑(ओ॒)ऽस्माकं᳚ बोध्यवि॒ता त॒नूनां᳚ ॥5.004.09, 3.8.019.04
यस्त्वा᳚ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि । जात॑वेदो॒ यशो᳚ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने, अमृत॒त्वम॑श्यां ॥5.004.10, 3.8.019.05
यस्मै॒ त्वं सु॒कृते᳚ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नं । अ॒श्विनं॒ स पु॒त्रिणं᳚ वी॒रवं᳚तं॒ गोमं᳚तं र॒यिं न॑शते स्व॒स्ति ॥5.004.11, 3.8.019.06
68 । अस्तीदमधिमंथनमिति सूक्तं
अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्रोग्निस्त्रिष्टुप् ( पंचम्याऋत्विजोवा) आद्य चतुर्थीदशमीद्वादश्योनुष्टुभः षष्ठ्येकादशी पंचदश्योजगत्यः ।
अस्ती॒दम॑धि॒मंथ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तं । ए॒तां वि॒श्पत्नी॒मा भ॑रा॒ग्निं मं᳚थाम पू॒र्वथा᳚ ॥3.029.01, 3.1.032.01
अ॒रण्यो॒र्निहि॑तो जा॒तवे᳚दा॒ गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी᳚षु । दि॒वेदि॑व॒ ईड्यो᳚ जागृ॒वद्भि᳚र्ह॒विष्म॑द्भिर्मनु॒ष्ये᳚भिर॒ग्निः ॥3.029.02, 3.1.032.02
उ॒त्ता॒ना या॒मव॑ भरा चिकि॒त्वान् त्स॒द्यः प्रवी᳚ता॒ वृष॑णं जजान । अ॒रु॒षस्तू᳚पो॒ रुश॑दस्य॒ पाज॒ इळा᳚यास् पु॒त्रो व॒युने᳚ऽजनिष्ट ॥3.029.03, 3.1.032.03
इळा᳚यास्त्वा प॒दे व॒यं नाभा᳚ पृथि॒व्या, अधि॑ । जात॑वेदो॒ नि धी᳚म॒ह्यग्ने᳚ ह॒व्याय॒ वोळ्ह॑वे ॥3.029.04, 3.1.032.04
मंथ॑ता नरः क॒विमद्व॑यंतं॒ प्रचे᳚तसम॒मृतं᳚ सु॒प्रती᳚कं । य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रस्ता᳚द॒ग्निं न॑रो जनयता सु॒शेवं᳚ ॥3.029.05, 3.1.032.05
यदी॒ मंथं᳚ति बा॒हुभि॒र्वि रो᳚च॒तेऽश्वो॒ न वा॒ज्य॑रु॒षो वने॒ष्वा । चि॒त्रो न याम᳚न्न॒श्विनो॒रनि॑वृतः॒ परि॑ वृण॒क्त्यश्म॑न॒स्तृणा॒ दह᳚न् ॥3.029.06, 3.1.033.01
जा॒तो, अ॒ग्नी रो᳚चते॒ चेकि॑तानो वा॒जी विप्रः॑ कविश॒स्तः सु॒दानुः॑ । यं दे॒वास॒ ईड्यं᳚ विश्व॒विदं᳚ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ ॥3.029.07, 3.1.033.02
सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान् त्सा॒दया᳚ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ᳚ । दे॒वा॒वीर्दे॒वान् ह॒विषा᳚ यजा॒स्यग्ने᳚ बृ॒हद् यज॑माने॒ वयो᳚ धाः ॥3.029.08, 3.1.033.03
कृ॒णोत॑ धू॒मं वृष॑णं सखा॒योऽस्रे᳚धंत इतन॒ वाज॒मच्छ॑ । अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ ऽयेन॑ दे॒वासो॒, अस॑हंत॒ दस्यू᳚न् ॥3.029.09, 3.1.033.04
अ॒यं ते॒ योनि᳚रृ॒त्वियो॒ यतो᳚ जा॒तो, अरो᳚चथाः । तं जा॒नन्न॑ग्न॒ आ सी॒दाथा᳚ नो वर्धया॒ गिरः॑ ॥3.029.10, 3.1.033.05
तनू॒नपा᳚दुच्यते॒ गर्भ॑ आसु॒रो नरा॒शंसो᳚ भवति॒ यद्वि॒जाय॑ते । मा॒त॒रिश्वा॒ यदमि॑मीत मा॒तरि॒ वात॑स्य॒ सर्गो᳚ अभव॒त्सरी᳚मणि ॥3.029.11, 3.1.034.01
सु॒नि॒र्मथा॒ निर्म॑थितः सुनि॒धा निहि॑तः क॒विः । अग्ने᳚ स्वध्व॒रा कृ॑णु दे॒वान् दे᳚वय॒ते य॑ज ॥3.029.12, 3.1.034.02
अजी᳚जनन् न॒मृतं॒ मर्त्या᳚सोऽस्रे॒माणं᳚ त॒रणिं᳚ वी॒ळुजं᳚भं । दश॒ स्वसा᳚रो, अ॒ग्रुवः॑ समी॒चीः पुमां᳚सं जा॒तम॒भि सं र॑भंते ॥3.029.13, 3.1.034.03
प्र स॒प्तहो᳚ता सन॒काद॑रोचत मा॒तुरु॒पस्थे॒ यदशो᳚च॒दूध॑नि । न नि मि॑षति सु॒रणो᳚ दि॒वेदि॑वे॒ यदसु॑रस्य ज॒ठरा॒दजा᳚यत ॥3.029.14, 3.1.034.04
अ॒मि॒त्रा॒युधो᳚ म॒रुता᳚मिव प्र॒याः प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः । द्यु॒म्नव॒द् ब्रह्म॑ कुशि॒कास॒ एरि॑र॒ एक॑एको॒ दमे᳚ अ॒ग्निं समी᳚धिरे ॥3.029.15, 3.1.034.05
यद॒द्य त्वा᳚ प्रय॒ति य॒ज्ञे, अ॒स्मिन् होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह । ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः प्रजा॒नन् वि॒द्वाँ, उप॑ याहि॒ सोमं᳚ ॥3.029.16, 3.1.034.06
69 । त्वमग्ने प्रथम इति सूक्तं
त्वमग्नइत्यष्टादशर्चस्य सूक्तस्यांगिरसोहिरण्यस्तूपोग्निर्जगती अष्टमी षोळश्यंत्यास्त्रिष्टुभः ।
त्वम॑ग्ने प्रथ॒मो, अंगि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना᳚मभवः शि॒वः सखा᳚ । तव᳚ व्र॒ते क॒वयो᳚ विद्म॒नाप॒सोऽजा᳚यंत म॒रुतो॒ भ्राज॑दृष्टयः ॥1.031.01, 1.2.032.01
त्वम॑ग्ने प्रथ॒मो, अंगि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्र॒तं । वि॒भुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे᳚ ॥1.031.02, 1.2.032.02
त्वम॑ग्ने प्रथ॒मो मा᳚त॒रिश्व॑न आ॒विर्भ॑व सुक्रतू॒या वि॒वस्व॑ते । अरे᳚जेतां॒ रोद॑सी होतृ॒वूर्येऽस॑घ्नोर्भा॒रमय॑जो म॒हो व॑सो ॥1.031.03, 1.2.032.03
त्वम॑ग्ने॒ मन॑वे॒ द्याम॑वाशयः पुरू॒रव॑से सु॒कृते᳚ सु॒कृत्त॑रः । श्वा॒त्रेण॒ यत् पि॒त्रोर्मुच्य॑से॒ पर्या त्वा॒ पूर्व॑मनय॒न्नाप॑रं॒ पुनः॑ ॥1.031.04, 1.2.032.04
त्वम॑ग्ने वृष॒भः पु॑ष्टि॒वर्ध॑न॒ उद्य॑तस्रुचे भवसि श्र॒वाय्यः॑ । य आहु॑तिं॒ परि॒ वेदा॒ वष॑ट्कृति॒मेका᳚यु॒रग्रे॒ विश॑ आ॒विवा᳚ससि ॥1.031.05, 1.2.032.05
त्वम॑ग्ने वृजि॒नव॑र्तनिं॒ नरं॒ सक्म᳚न् पिपर्षि वि॒दथे᳚ विचर्षणे । यः शूर॑साता॒ परि॑तक्म्ये॒ धने᳚ द॒भ्रेभि॑श्चि॒त् समृ॑ता॒ हंसि॒ भूय॑सः ॥1.031.06, 1.2.033.01
त्वं तम॑ग्ने, अमृत॒त्व उ॑त्त॒मे मर्तं᳚ दधासि॒ श्रव॑से दि॒वेदि॑वे । यस्ता᳚तृषा॒ण उ॒भया᳚य॒ जन्म॑ने॒ मयः॑ कृ॒णोषि॒ प्रय॒ आ च॑ सू॒रये᳚ ॥1.031.07, 1.2.033.02
त्वं नो᳚ अग्ने स॒नये॒ धना᳚नां य॒शसं᳚ का॒रुं कृ॑णुहि॒ स्तवा᳚नः । ऋ॒ध्याम॒ कर्मा॒पसा॒ नवे᳚न दे॒वैर्द्या᳚वापृथिवी॒ प्राव॑तं नः ॥1.031.08, 1.2.033.03
त्वं नो᳚ अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒वेष्व॑नवद्य॒ जागृ॑विः । त॒नू॒कृद् बो᳚धि॒ प्रम॑तिश्च का॒रवे॒ त्वं क᳚ल्याण॒ वसु॒ विश्व॒मोपि॑षे ॥1.031.09, 1.2.033.04
त्वम॑ग्ने॒ प्रम॑ति॒स्त्वं पि॒तासि॑ न॒स् त्वं व॑य॒स्कृत्तव॑ जा॒मयो᳚ व॒यं । सं त्वा॒ रायः॑ श॒तिनः॒ सं स॑ह॒स्रिणः॑ सु॒वीरं᳚ यंति व्रत॒पाम॑दाभ्य ॥1.031.10, 1.2.033.05
त्वाम॑ग्ने प्रथ॒ममा॒युमा॒यवे᳚ दे॒वा, अ॑कृण्व॒न् नहु॑षस्य वि॒श्पतिं᳚ । इळा᳚मकृण्व॒न् मनु॑षस्य॒ शास॑नीं पि॒तुर्यत् पु॒त्रो मम॑कस्य॒ जाय॑ते ॥1.031.11, 1.2.034.01
त्वं नो᳚ अग्ने॒ तव॑ देव पा॒युभि᳚र्म॒घोनो᳚ रक्ष त॒न्व॑श्च वंद्य । त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा᳚म॒स्यनि॑मेषं॒ रक्ष॑माण॒स्तव᳚ व्र॒ते ॥1.031.12, 1.2.034.02
त्वम॑ग्ने॒ यज्य॑वे पा॒युरंत॑रोऽनिषं॒गाय॑ चतुर॒क्ष इ॑ध्यसे । यो रा॒तह᳚व्योऽवृ॒काय॒ धाय॑से की॒रेश्चि॒न् मंत्रं॒ मन॑सा व॒नोषि॒ तं ॥1.031.13, 1.2.034.03
त्वम॑ग्न उरु॒शंसा᳚य वा॒घते᳚ स्पा॒र्हं यद्रेक्णः॑ पर॒मं व॒नोषि॒ तत् । आ॒ध्रस्य॑ चि॒त् प्रम॑तिरुच्यसे पि॒ता प्र पाकं॒ शास्सि॒ प्र दिशो᳚ वि॒दुष्ट॑रः ॥1.031.14, 1.2.034.04
त्वम॑ग्ने॒ प्रय॑तदक्षिणं॒ नरं॒ वर्मे᳚व स्यू॒तं परि॑ पासि वि॒श्वतः॑ । स्वा॒दु॒क्षद्मा॒ यो व॑स॒तौ स्यो᳚न॒कृज् जी᳚वया॒जं यज॑ते॒ सोप॒मा दि॒वः ॥1.031.15, 1.2.034.05
इ॒माम॑ग्ने श॒रणिं᳚ मीमृषो न इ॒ममध्वा᳚नं॒ यमगा᳚म दू॒रात् । आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन् मर्त्या᳚नां ॥1.031.16, 1.2.035.01
म॒नु॒ष्वद॑ग्ने, अंगिर॒स्वदं᳚गिरो ययाति॒वत् सद॑ने पूर्व॒वच्छु॑चे । अच्छ॑ या॒ह्या व॑हा॒ दैव्यं॒ जन॒मा सा᳚दय ब॒र्हिषि॒ यक्षि॑ च प्रि॒यं ॥1.031.17, 1.2.035.02
ए॒तेना᳚ग्ने॒ ब्रह्म॑णा वावृधस्व॒ शक्ती᳚ वा॒ यत्ते᳚ चकृ॒मा वि॒दा वा᳚ । उ॒त प्र णे᳚ष्य॒भि वस्यो᳚ अ॒स्मान् त्सं नः॑ सृज सुम॒त्या वाज॑वत्या ॥1.031.18, 1.2.035.03
70 । त्वमग्न द्युभिरिति सूक्तं
त्वमग्नैतिषोळशर्चस्य सूक्तस्य शौनकोगृत्समदोग्निर्जगती ।
त्वम॑ग्ने॒ द्युभि॒स्त्वमा᳚शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥2.001.01, 2.5.017.01
तवा᳚ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः । तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे᳚ ॥2.001.02, 2.5.017.02
त्वम॑ग्न॒ इंद्रो᳚ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्यः॑ । त्वं ब्र॒ह्मा र॑यि॒विद् ब्र᳚ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं᳚ध्या ॥2.001.03, 2.5.017.03
त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्यः॑ । त्वम᳚र्य॒मा सत्प॑ति॒र्यस्य॑ सं॒भुजं॒ त्वमंशो᳚ वि॒दथे᳚ देव भाज॒युः ॥2.001.04, 2.5.017.04
त्वम॑ग्ने॒ त्वष्टा᳚ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो᳚ मित्रमहः सजा॒त्यं᳚ । त्वमा᳚शु॒हेमा᳚ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो᳚ असि पुरू॒वसुः॑ ॥2.001.05, 2.5.017.05
त्वम॑ग्ने रु॒द्रो, असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई᳚शिषे । त्वं वातै᳚ररु॒णैर्या᳚सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा᳚सि॒ नु त्मना᳚ ॥2.001.06, 2.5.018.01
त्वम॑ग्ने द्रविणो॒दा, अ॑रं॒कृते॒ त्वं दे॒वः स॑वि॒ता र॑त्न॒धा, अ॑सि । त्वं भगो᳚ नृपते॒ वस्व॑ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्तेऽवि॑धत् ॥2.001.07, 2.5.018.02
त्वाम॑ग्ने॒ दम॒ आ वि॒श्पतिं॒ विश॒स्त्वां राजा᳚नं सुवि॒दत्र॑मृंजते । त्वं विश्वा᳚नि स्वनीक पत्यसे॒ त्वं स॒हस्रा᳚णि श॒ता दश॒ प्रति॑ ॥2.001.08, 2.5.018.03
त्वाम॑ग्ने पि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वां भ्रा॒त्राय॒ शम्या᳚ तनू॒रुचं᳚ । त्वं पु॒त्रो भ॑वसि॒ यस्तेऽवि॑ध॒त् त्वं सखा᳚ सु॒शेवः॑ पास्या॒धृषः॑ ॥2.001.09, 2.5.018.04
त्वम॑ग्न ऋ॒भुरा॒के न॑म॒स्य१॑(अ॒)स्त्वं वाज॑स्य क्षु॒मतो᳚ रा॒य ई᳚शिषे । त्वं वि भा॒स्यनु॑ दक्षि दा॒वने॒ त्वं वि॒शिक्षु॑रसि य॒ज्ञमा॒तनिः॑ ॥2.001.10, 2.5.018.05
त्वम॑ग्ने॒, अदि॑तिर्देव दा॒शुषे॒ त्वं होत्रा॒ भार॑ती वर्धसे गि॒रा । त्वमिळा᳚ श॒तहि॑मासि॒ दक्ष॑से॒ त्वं वृ॑त्र॒हा व॑सुपते॒ सर॑स्वती ॥2.001.11, 2.5.019.01
त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः॑ । त्वं वाजः॑ प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः ॥2.001.12, 2.5.019.02
त्वाम॑ग्न आदि॒त्यास॑ आ॒स्य१॑(अं॒) त्वां जि॒ह्वां शुच॑यश्चक्रिरे कवे । त्वां रा᳚ति॒षाचो᳚ अध्व॒रेषु॑ सश्चिरे॒ त्वे दे॒वा ह॒विर॑दं॒त्याहु॑तं ॥2.001.13, 2.5.019.03
त्वे, अ॑ग्ने॒ विश्वे᳚ अ॒मृता᳚सो, अ॒द्रुह॑ आ॒सा दे॒वा ह॒विर॑दं॒त्याहु॑तं । त्वया॒ मर्ता᳚सः स्वदंत आसु॒तिं त्वं गर्भो᳚ वी॒रुधां᳚ जज्ञिषे॒ शुचिः॑ ॥2.001.14, 2.5.019.04
त्वं तान् त्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने᳚ सुजात॒ प्र च॑ देव रिच्यसे । पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा᳚पृथि॒वी रोद॑सी, उ॒भे ॥2.001.15, 2.5.019.05
ये स्तो॒तृभ्यो॒ गो,अ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚ रा॒तिमु॑पसृ॒जंति॑ सू॒रयः॑ । अ॒स्मांच॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ॥2.001.16, 2.5.019.06
71 । निरृति सूक्तं
प्रतार्यायुरिति दशर्चस्य सूक्तस्य गौपायनाबंध्वादय ऋषयः आद्यानांचतसृणां निरृतिर्देवता चतुर्थ्यानिरृतिसोमौ पंचमीषष्ठयोरसुनीतिदेवी सप्तम्याः पृथिवीद्यावंतरिक्षसोमपूषपथ्यास्वस्तयोदेवताः अंत्यानांतिसृणां द्यावापृथिव्यौत्रिष्टुप् अंत्यार्धर्चस्येंद्रः अंत्यास्तिस्रःक्रमेणपंक्तिमहा पंक्तिपंक्त्युत्तराः ।
प्र ता॒र्यायुः॑ प्रत॒रं नवी᳚यः॒ स्थाता᳚रेव॒ क्रतु॑मता॒ रथ॑स्य । अध॒ च्यवा᳚न॒ उत्त॑वी॒त्यर्थं᳚ परात॒रं सु निरृ॑तिर्जिहीतां ॥10.059.01, 8.1.022.01
साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा᳚महे॒ सु पु॑रु॒ध श्रवां᳚सि । ता नो॒ विश्वा᳚नि जरि॒ता म॑मत्तु परात॒रं सु निरृ॑तिर्जिहीतां ॥10.059.02, 8.1.022.02
अ॒भी ष्व१॑(अ॒)र्यः पौंस्यै᳚र्भवेम॒ द्यौर्न भूमिं᳚ गि॒रयो॒ नाज्रा᳚न् । ता नो॒ विश्वा᳚नि जरि॒ता चि॑केत परात॒रं सु निरृ॑तिर्जिहीतां ॥10.059.03, 8.1.022.03
मो षु णः॑ सोम मृ॒त्यवे॒ परा᳚ दाः॒ पश्ये᳚म॒ नु सूर्य॑मु॒च्चरं᳚तं । द्युभि᳚र्हि॒तो ज॑रि॒मा सू नो᳚ अस्तु परात॒रं सु निरृ॑तिर्जिहीतां ॥10.059.04, 8.1.022.04
असु॑नीते॒ मनो᳚ अ॒स्मासु॑ धारय जी॒वात॑वे॒ सु प्र ति॑रा न॒ आयुः॑ । रा॒रं॒धि नः॒ सूर्य॑स्य सं॒दृशि॑ घृ॒तेन॒ त्वं त॒न्वं᳚ वर्धयस्व ॥10.059.05, 8.1.022.05
असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो᳚ धेहि॒ भोगं᳚ । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चरं᳚त॒मनु॑मते मृ॒ळया᳚ नः स्व॒स्ति ॥10.059.06, 8.1.023.01
पुन᳚र्नो॒, असुं᳚ पृथि॒वी द॑दातु॒ पुन॒र्द्यौर्दे॒वी पुन॑रं॒तरि॑क्षं । पुन᳚र्नः॒ सोम॑स्त॒न्वं᳚ ददातु॒ पुनः॑ पू॒षा प॒थ्या॒3॑(आं॒) या स्व॒स्तिः ॥10.059.07, 8.1.023.02
शं रोद॑सी सु॒बंध॑वे य॒ह्वी ऋ॒तस्य॑ मा॒तरा᳚ । भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥10.059.08, 8.1.023.03
अव॑ द्व॒के, अव॑ त्रि॒का दि॒वश्च॑रंति भेष॒जा । क्ष॒मा च॑रि॒ष्ण्वे᳚क॒कं भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥10.059.09, 8.1.023.04
समिं᳚द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा᳚ण्या॒, अनः॑ । भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥10.059.10, 8.1.023.05
72 । वायु सूक्तं
विहिहोत्राइति पंचर्चस्य सूक्तस्य गौतमोवामदेवोवायुरनुष्टुप् ।
वि॒हि होत्रा॒, अवी᳚ता॒ विपो॒ न रायो᳚ अ॒र्यः । वाय॒वा चं॒द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ॥4.048.01, 3.7.024.01
नि॒र्यु॒वा॒णो, अश॑स्तीर्नि॒युत्वाँ॒, इंद्र॑सारथिः । वाय॒वा चं॒द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ॥4.048.02, 3.7.024.02
अनु॑ कृ॒ष्णे वसु॑धिती ये॒माते᳚ वि॒श्वपे᳚शसा । वाय॒वा चं॒द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ॥4.048.03, 3.7.024.03
वहं᳚तु त्वा मनो॒युजो᳚ यु॒क्तासो᳚ नव॒तिर्नव॑ । वाय॒वा चं॒द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ॥4.048.04, 3.7.024.04
वायो᳚ श॒तं हरी᳚णां यु॒वस्व॒ पोष्या᳚णां । उ॒त वा᳚ ते सह॒स्रिणो॒ रथ॒ आ या᳚तु॒ पाज॑सा ॥4.048.05, 3.7.024.05
73 । सोम सूक्तं
त्वंसोमैति त्रयोविंशत्यृचस्य सूक्तस्य राहूगणोगोतमःसोमस्त्रिष्टुप् पंचम्यादिद्वादशगायत्र्यः सप्तदश्युष्णिक् ।
त्वं सो᳚म॒ प्र चि॑कितो मनी॒षा त्वं रजि॑ष्ठ॒मनु॑ नेषि॒ पंथां᳚ । तव॒ प्रणी᳚ती पि॒तरो᳚ न इंदो दे॒वेषु॒ रत्न॑मभजंत॒ धीराः᳚ ॥1.091.01, 1.6.019.01
त्वं सो᳚म॒ क्रतु॑भिः सु॒क्रतु॑र्भू॒स्त्वं दक्षैः᳚ सु॒दक्षो᳚ वि॒श्ववे᳚दाः । त्वं वृषा᳚ वृष॒त्वेभि᳚र्महि॒त्वा द्यु॒म्नेभि॑र्द्युं॒ न्य॑भवो नृ॒चक्षाः᳚ ॥1.091.02, 1.6.019.02
राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद् ग॑भी॒रं तव॑ सोम॒ धाम॑ । शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो᳚ अर्य॒मेवा᳚सि सोम ॥1.091.03, 1.6.019.03
या ते॒ धामा᳚नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । तेभि᳚र्नो॒ विश्वैः᳚ सु॒मना॒, अहे᳚ळ॒न् राजं᳚त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥1.091.04, 1.6.019.04
त्वं सो᳚मासि॒ सत्प॑ति॒स्त्वं राजो॒त वृ॑त्र॒हा । त्वं भ॒द्रो, अ॑सि॒ क्रतुः॑ ॥1.091.05, 1.6.019.05
त्वं च॑ सोम नो॒ वशो᳚ जी॒वातुं॒ न म॑रामहे । प्रि॒यस्तो᳚त्रो॒ वन॒स्पतिः॑ ॥1.091.06, 1.6.020.01
त्वं सो᳚म म॒हे भगं॒ त्वं यून॑ ऋताय॒ते । दक्षं᳚ दधासि जी॒वसे᳚ ॥1.091.07, 1.6.020.02
त्वं नः॑ सोम वि॒श्वतो॒ रक्षा᳚ राजन्नघाय॒तः । न रि॑ष्ये॒त् त्वाव॑तः॒ सखा᳚ ॥1.091.08, 1.6.020.03
सोम॒ यास्ते᳚ मयो॒भुव॑ ऊ॒तयः॒ संति॑ दा॒शुषे᳚ । ताभि᳚र्नोऽवि॒ता भ॑व ॥1.091.09, 1.6.020.04
इ॒मं य॒ज्ञमि॒दं वचो᳚ जुजुषा॒ण उ॒पाग॑हि । सोम॒ त्वं नो᳚ वृ॒धे भ॑व ॥1.091.10, 1.6.020.05
सोम॑ गी॒र्भिष्ट्वा᳚ व॒यं व॒र्धया᳚मो वचो॒विदः॑ । सु॒मृ॒ळी॒को न॒ आ वि॑श ॥1.091.11, 1.6.021.01
ग॒य॒स्फानो᳚ अमीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्ध॑नः । सु॒मि॒त्रः सो᳚म नो भव ॥1.091.12, 1.6.021.02
सोम॑ रारं॒धि नो᳚ हृ॒दि गावो॒ न यव॑से॒ष्वा । मर्य॑ इव॒ स्व ओ॒क्ये᳚ ॥1.091.13, 1.6.021.03
यः सो᳚म स॒ख्ये तव॑ रा॒रण॑द्देव॒ मर्त्यः॑ । तं दक्षः॑ सचते क॒विः ॥1.091.14, 1.6.021.04
उ॒रु॒ष्या णो᳚ अ॒भिश॑स्तेः॒ सोम॒ नि पा॒ह्यंह॑सः । सखा᳚ सु॒शेव॑ एधि नः ॥1.091.15, 1.6.021.05
आ प्या᳚यस्व॒ समे᳚तु ते वि॒श्वतः॑ सोम॒ वृष्ण्यं᳚ । भवा॒ वाज॑स्य संग॒थे ॥1.091.16, 1.6.022.01
आ प्या᳚यस्व मदिंतम॒ सोम॒ विश्वे᳚भिरं॒शुभिः॑ । भवा᳚ नः सु॒श्रव॑स्तमः॒ सखा᳚ वृ॒धे ॥1.091.17, 1.6.022.02
सं ते॒ पयां᳚सि॒ समु॑ यंतु॒ वाजाः॒ सं वृष्ण्या᳚न्यभिमाति॒षाहः॑ । आ॒प्याय॑मानो, अ॒मृता᳚य सोम दि॒वि श्रवां᳚स्युत्त॒मानि॑ धिष्व ॥1.091.18, 1.6.022.03
या ते॒ धामा᳚नि ह॒विषा॒ यजं᳚ति॒ ता ते॒ विश्वा᳚ परि॒भूर॑स्तु य॒ज्ञं । ग॒य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी᳚रहा॒ प्र च॑रा सोम॒ दुर्या᳚न् ॥1.091.19, 1.6.022.04
सोमो᳚ धे॒नुं सोमो॒, अर्वं᳚तमा॒शुं सोमो᳚ वी॒रं क᳚र्म॒ण्यं᳚ ददाति । सा॒द॒न्यं᳚ विद॒थ्यं᳚ स॒भेयं᳚ पितृ॒श्रव॑णं॒ यो ददा᳚शदस्मै ॥1.091.20, 1.6.022.05
अषा᳚ळ्हं यु॒त्सु पृत॑नासु॒ पप्रिं᳚ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पां । भ॒रे॒षु॒जां सु॑क्षि॒तिं सु॒श्रव॑सं॒ जयं᳚तं॒ त्वामनु॑ मदेम सोम ॥1.091.21, 1.6.023.01
त्वमि॒मा, ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो, अ॑जनय॒स्त्वं गाः । त्वमा त॑तंथो॒र्व१॑(अ॒)न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो᳚ ववर्थ ॥1.091.22, 1.6.023.02
दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गं स॑हसावन्न॒भि यु॑ध्य । मा त्वा त॑न॒दीशि॑षे वी॒र्य॑स्यो॒भये᳚भ्यः॒ प्र चि॑कित्सा॒ गवि॑ष्टौ ॥1.091.23, 1.6.023.03
74 । वात सूक्तं
वातैति तृचस्य सूकस्य वातायनौलोवायुर्गायत्री ।
वात॒ आ वा᳚तु भेष॒जं शं॒भु म॑यो॒भु नो᳚ हृ॒दे । प्र ण॒ आयूं᳚षि तारिषत् ॥10.186.01, 8.8.044.01
उ॒त वा᳚त पि॒तासि॑ न उ॒त भ्रातो॒त नः॒ सखा᳚ । स नो᳚ जी॒वात॑वे कृधि ॥10.186.02, 8.8.044.02
यद॒दो वा᳚त ते गृ॒हे॒3॑(ए॒)ऽमृत॑स्य नि॒धिर्हि॒तः । ततो᳚ नो देहि जी॒वसे᳚ ॥10.186.03, 8.8.044.03
75 । मरुत्सूक्तं
प्रशर्धायेति पंचदशर्चस्य सूक्तस्यात्रेयः श्यावाश्वोमरुतोजगती चतुर्दशीत्रिष्टुप् ।
प्र शर्धा᳚य॒ मारु॑ताय॒ स्वभा᳚नव इ॒मां वाच॑मनजा पर्वत॒च्युते᳚ । घ॒र्म॒स्तुभे᳚ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत ॥5.054.01, 4.3.014.01
प्र वो᳚ मरुतस्तवि॒षा, उ॑द॒न्यवो᳚ वयो॒वृधो᳚ अश्व॒युजः॒ परि॑ज्रयः । सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वरं॒त्यापो॒ऽवना॒ परि॑ज्रयः ॥5.054.02, 4.3.014.02
वि॒द्युन्म॑हसो॒ नरो॒, अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुतः॑ पर्वत॒च्युतः॑ । अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा᳚दुनी॒वृतः॑ स्त॒नय॑दमा रभ॒सा, उदो᳚जसः ॥5.054.03, 4.3.014.03
व्य१॑(अ॒)क्तून् रु॑द्रा॒ व्यहा᳚नि शिक्वसो॒ व्य१॑(अ॒)न्तरि॑क्षं॒ वि रजां᳚सि धूतयः । वि यदज्राँ॒, अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ ॥5.054.04, 4.3.014.04
तद् वी॒र्यं᳚ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नं । एता॒ न यामे॒, अगृ॑भीतशोचि॒षो ऽन॑श्वदां॒ यन्न्यया᳚तना गि॒रिं ॥5.054.05, 4.3.014.05
अभ्रा᳚जि॒ शर्धो᳚ मरुतो॒ यद᳚र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः । अध॑ स्मा नो, अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यंत॒मनु॑ नेषथा सु॒गं ॥5.054.06, 4.3.015.01
न स जी᳚यते मरुतो॒ न ह᳚न्यते॒ न स्रे᳚धति॒ न व्य॑थते॒ न रि॑ष्यति । नास्य॒ राय॒ उप॑ दस्यंति॒ नोतय॒ ऋषिं᳚ वा॒ यं राजा᳚नं वा॒ सुषू᳚दथ ॥5.054.07, 4.3.015.02
नि॒युत्वं᳚तो ग्राम॒जितो॒ यथा॒ नरो᳚ ऽर्य॒मणो॒ न म॒रुतः॑ कबं॒धिनः॑ । पिन्वं॒त्युत्सं॒ यदि॒नासो॒, अस्व॑र॒न् व्युं᳚दंति पृथि॒वीं मध्वो॒, अंध॑सा ॥5.054.08, 4.3.015.03
प्र॒वत्व॑ती॒यं पृ॑थि॒वी म॒रुद्भ्यः॑ प्र॒वत्व॑ती॒ द्यौर्भ॑वति प्र॒यद्भ्यः॑ । प्र॒वत्व॑तीः प॒थ्या᳚ अं॒तरि॑क्ष्याः प्र॒वत्वं᳚तः॒ पर्व॑ता जी॒रदा᳚नवः ॥5.054.09, 4.3.015.04
यन्म॑रुतः सभरसः स्वर्णरः॒ सूर्य॒ उदि॑ते॒ मद॑था दिवो नरः । न वोऽश्वाः᳚ श्रथयं॒ताह॒ सिस्र॑तः स॒द्यो, अ॒स्याध्व॑नः पा॒रम॑श्नुथ ॥5.054.10, 4.3.015.05
अंसे᳚षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयो॒ वक्ष॑स्सु रु॒क्मा म॑रुतो॒ रथे॒ शुभः॑ । अ॒ग्निभ्रा᳚जसो वि॒द्युतो॒ गभ॑स्त्योः॒ शिप्राः᳚ शी॒र्षसु॒ वित॑ता हिर॒ण्ययीः᳚ ॥5.054.11, 4.3.016.01
तं नाक॑म॒र्यो, अगृ॑भीतशोचिषं॒ रुश॒त् पिप्प॑लं मरुतो॒ वि धू᳚नुथ । सम॑च्यंत वृ॒जनाति॑त्विषंत॒ यत् स्वरं᳚ति॒ घोषं॒ वित॑तमृता॒यवः॑ ॥5.054.12, 4.3.016.02
यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या᳚म र॒थ्यो॒3॑(ओ॒) वय॑स्वतः । न यो युच्छ॑ति ति॒ष्यो॒3॑(ओ॒) यथा᳚ दि॒वो॒3॑(ओ॒) ऽस्मे रा᳚रंत मरुतः सह॒स्रिणं᳚ ॥5.054.13, 4.3.016.03
यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी᳚रं यू॒यमृषि॑मवथ॒ साम॑विप्रं । यू॒यमर्वं᳚तं भर॒ताय॒ वाजं᳚ यू॒यं ध॑त्थ॒ राजा᳚नं श्रुष्टि॒मंतं᳚ ॥5.054.14, 4.3.016.04
तद् वो᳚ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॑(अ॒)र्ण त॒तना᳚म॒ नॄँर॒भि । इ॒दं सु मे᳚ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे᳚म॒ तर॑सा श॒तं हिमाः᳚ ॥5.054.15, 4.3.016.05
76 । शुद्धिसूक्तं
एतोन्विंद्रमिति तृचस्य आंगिरसो नृमेधः इंद्रोनुष्टुप् ॥
एतो॒ न् विंद्रं॒ स्तवा᳚म शु॒द्धं शु॒द्धेन॒ साम्ना᳚ । शु॒द्धैरु॒क्थैर्वा᳚वृ॒ध्वांसं᳚ शु॒द्ध आ॒शीर्वा᳚न्ममत्तु ॥8.095.07, 6.6.031.02
इंद्र॑ शु॒द्धो न॒ आ ग॑हि शु॒द्धः शु॒द्धाभि॑रू॒तिभिः॑ । शु॒द्धो र॒यिं नि धा᳚रय शु॒द्धो म॑मद्धि सो॒म्यः ॥8.095.08, 6.6.031.03
इंद्र॑ शु॒द्धो हि नो᳚ र॒यिं शु॒द्धो रत्ना᳚नि दा॒शुषे᳚ । शु॒द्धो वृ॒त्राणि॑ जिघ्नसे शु॒द्धो वाजं᳚ सिषाससि ॥8.095.09, 6.6.031.04
77 । अप नः शोशुचदिति सूक्तं
अपनैत्यष्टर्चस्य सूक्तस्यकुत्सःशुचिरग्निर्गायत्री ।
अप॑ नः॒ शोशु॑चद॒घमग्ने᳚ शुशु॒ग्ध्या र॒यिं । अप॑ नः॒ शोशु॑चद॒घं ॥1.097.01, 1.7.5.1
सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे । अप॑ नः॒ शोशु॑चद॒घं ॥1.097.02, 1.7.5.2
प्र यद् भंदि॑ष्ठ एषां॒ प्रास्माका᳚सश्च सू॒रयः॑ । अप॑ नः॒ शोशु॑चद॒घं ॥1.097.03, 1.7.5.3
प्र यत्ते᳚ अग्ने सू॒रयो॒ जाये᳚महि॒ प्र ते᳚ व॒यं । अप॑ नः॒ शोशु॑चद॒घं ॥1.097.04, 1.7.5.4
प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यंति॑ भा॒नवः॑ । अप॑ नः॒ शोशु॑चद॒घं ॥1.097.05, 1.7.5.5
त्वं हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ । अप॑ नः॒ शोशु॑चद॒घं ॥1.097.06, 1.7.5.6
द्विषो᳚ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय । अप॑ नः॒ शोशु॑चद॒घं ॥1.097.07, 1.7.5.7
स नः॒ सिंधु॑मिव ना॒वयाति॑ पर्षा स्व॒स्तये᳚ । अप॑ नः॒ शोशु॑चद॒घं ॥1.097.08, 1.7.5.8
78 । वारि सूक्तं ( अब्लिग्ङ्गाः मंत्राः )
आपोयंवैति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआपस्त्रिष्टुप् ।
आपो॒ यं वः॑ प्रथ॒मं दे᳚व॒यंत॑ इंद्र॒पान॑मू॒र्मिमकृ᳚ण्वते॒ळः । तं वो᳚ व॒यं शुचि॑मरि॒प्रम॒द्य घृ॑त॒प्रुषं॒ मधु॑मंतं वनेम ॥7.047.01, 5.4.014.01
तमू॒र्मिमा᳚पो॒ मधु॑मत्तमं वो॒ ऽपां नपा᳚दवत्वाशु॒हेमा᳚ । यस्मि॒न्निंद्रो॒ वसु॑भिर्मा॒दया᳚ते॒ तम॑श्याम देव॒यंतो᳚ वो, अ॒द्य ॥7.047.02, 5.4.014.02
श॒तप॑वित्राः स्व॒धया॒ मदं᳚तीर्दे॒वीर्दे॒वाना॒मपि॑ यंति॒ पाथः॑ । ता, इंद्र॑स्य॒ न मि॑नंति व्र॒तानि॒ सिंधु॑भ्यो ह॒व्यं घृ॒तव॑ज्जुहोत ॥7.047.03, 5.4.014.03
याः सूर्यो᳚ र॒श्मिभि॑रात॒तान॒ याभ्य॒ इंद्रो॒, अर॑दद् गा॒तुमू॒र्मिं । ते सिं᳚धवो॒ वरि॑वो धातना नो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥7.047.04, 5.4.014.04
समुद्रज्येष्ठ इति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठआपस्त्रिष्टुप् ।
स॒मु॒द्रज्ये᳚ष्ठाः सलि॒लस्य॒ मध्या᳚त् पुना॒ना यं॒त्यनि॑विशमानाः । इंद्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता, आपो᳚ दे॒वीरि॒ह माम॑वंतु ॥7.049.01, 5.4.016.01
या, आपो᳚ दि॒व्या, उ॒त वा॒ स्रवं᳚ति ख॒नित्रि॑मा, उ॒त वा॒ याः स्व॑यं॒जाः । स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता, आपो᳚ दे॒वीरि॒ह माम॑वंतु ॥7.049.02, 5.4.016.02
यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये᳚ सत्यानृ॒ते, अ॑व॒पश्यं॒जना᳚नां । म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा᳚व॒कास्ता, आपो᳚ दे॒वीरि॒ह माम॑वंतु ॥7.049.03, 5.4.016.03
यासु॒ राजा॒ वरु॑णो॒ यासु॒ सोमो॒ विश्वे᳚ दे॒वा यासूर्जं॒ मदं᳚ति । वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता, आपो᳚ दे॒वीरि॒ह माम॑वंतु ॥7.049.04, 5.4.016.04
आमामिति चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ मित्रावरुणापग्निर्विश्वेदेवानद्यैति क्रमेणदेवताजगत्यंत्यातिजगतीशक्वरीवा ।
आ मां मि॑त्रावरुणे॒ह र॑क्षतं कुला॒यय॑द् वि॒श्वय॒न्मा न॒ आ ग᳚न् । अ॒ज॒का॒वं दु॒र्दृशी᳚कं ति॒रो द॑धे॒ मा मां पद्ये᳚न॒ रप॑सा विद॒त् त्सरुः॑ ॥7.050.01, 5.4.017.01
यद् वि॒जाम॒न् परु॑षि॒ वंद॑नं॒ भुव॑दष्ठी॒वंतौ॒ परि॑ कु॒ल्फौ च॒ देह॑त् । अ॒ग्निष्टच्छोच॒न्नप॑ बाधतामि॒तो मा मां पद्ये᳚न॒ रप॑सा विद॒त् त्सरुः॑ ॥7.050.02, 5.4.017.02
यच्छ᳚ल्म॒लौ भव॑ति॒ यन्न॒दीषु॒ यदोष॑धीभ्यः॒ परि॒ जाय॑ते वि॒षं । विश्वे᳚ दे॒वा निरि॒तस्तत् सु॑वंतु॒ मा मां पद्ये᳚न॒ रप॑सा विद॒त् त्सरुः॑ ॥7.050.03, 5.4.017.03
याः प्र॒वतो᳚ नि॒वत॑ उ॒द्वत॑ उद॒न्वती᳚रनुद॒काश्च॒ याः । ता, अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः शि॒वा दे॒वीर॑शिप॒दा भ॑वंतु॒ सर्वा᳚ न॒द्यो᳚ अशिमि॒दा भ॑वंतु ॥7.050.04, 5.4.017.04
आपोहिष्ठेति नवर्चस्य सूक्तस्य आंबरीषः सिंधुद्वीप आपो गायत्री पंचमीवर्धमाना सप्तमीप्रतिष्ठांत्येद्वेअनुष्टुभौ । आपोहिसिंधुद्वीपोवांबरीष इत्येवमनुक्रमण्यां सिंधुद्वीपस्य पाक्षिकत्व स्वीकारे पूर्वोक्तस्त्रिशिराः प्राप्नोतितथापि प्रयोक्तृभिः सिंधुद्वीप एवाद्रियते ।
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा᳚य॒ चक्ष॑से ॥10.009.01, 7.6.5.1
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥10.009.02, 7.6.5.2
तस्मा॒, अरं᳚ गमाम वो॒ यस्य॒ क्षया᳚य॒ जिन्व॑थ । आपो᳚ ज॒नय॑था च नः ॥10.009.03, 7.6.5.3
शं नो᳚ दे॒वीर॒भिष्ट॑य॒ आपो᳚ भवंतु पी॒तये᳚ । शं योर॒भि स्र॑वंतु नः ॥10.009.04, 7.6.5.4
ईशा᳚ना॒ वार्या᳚णां॒ क्षयं᳚तीश्चर्षणी॒नां । अ॒पो या᳚चामि भेष॒जं ॥10.009.05, 7.6.5.5
अ॒प्सु मे॒ सोमो᳚ अब्रवीदं॒तर्विश्वा᳚नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वशं᳚भुवं ॥10.009.06, 7.6.5.6
आपः॑ पृणी॒त भे᳚ष॒जं वरू᳚थं त॒न्वे॒3॑(ए॒) मम॑ । ज्योक् च॒ सूर्यं᳚ दृ॒शे ॥10.009.07, 7.6.5.7
इ॒दमा᳚पः॒ प्र व॑हत॒ यत् किं च॑ दुरि॒तं मयि॑ । यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा᳚ शे॒प उ॒तानृ॑तं ॥10.009.08, 7.6.5.8
आपो᳚ अ॒द्यान्व॑चारिषं॒ रसे᳚न॒ सम॑गस्महि । पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥10.009.09, 7.6.5.9
परिशिष्टम् [ऋग्वेद मंडल 10, 9 सूक्तस्यानंतरं][ऋग्वेद अष्टक 7, अध्याय 6, 5 वर्गानंतरं]
सस्रुषीस्तदपस इत्यस्य काण्वो मेधातिथिः आपो गायत्री ॥
स॒स्रुषी॒स्तद॑पसो॒ दिवा॒ नक्तं᳚च स॒स्रुषीः᳚। वरे᳚ण्यक्रतू रह॒ मा दे॒वीरव॑से हुवे॥
79 । नदीस्तुति सूक्तं
प्रसुवैति नवर्चस्य सूक्तस्य प्रैयमेधः सिंधुक्षिन्नद्योजगती ।
प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो᳚चाति॒ सद॑ने वि॒वस्व॑तः । प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिंधु॒रोज॑सा ॥10.075.01, 8.3.6.1
प्र ते᳚ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः सिंधो॒ यद्वाजाँ᳚, अ॒भ्यद्र॑व॒स्त्वं । भूम्या॒, अधि॑ प्र॒वता᳚ यासि॒ सानु॑ना॒ यदे᳚षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑ ॥10.075.02, 8.3.6.2
दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑नं॒तं शुष्म॒मुदि॑यर्ति भा॒नुना᳚ । अ॒भ्रादि॑व॒ प्र स्त॑नयंति वृ॒ष्टयः॒ सिंधु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ॥10.075.03, 8.3.6.3
अ॒भि त्वा᳚ सिंधो॒ शिशु॒मिन्न मा॒तरो᳚ वा॒श्रा, अ॑र्षंति॒ पय॑सेव धे॒नवः॑ । राजे᳚व॒ युध्वा᳚ नयसि॒ त्वमित्सिचौ॒ यदा᳚सा॒मग्रं᳚ प्र॒वता॒मिन॑क्षसि ॥10.075.04, 8.3.6.4
इ॒मं मे᳚ गंगे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं᳚ सचता॒ परु॒ष्ण्या । अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒याऽऽर्जी᳚कीये शृणु॒ह्या सु॒षोम॑या ॥10.075.05, 8.3.6.5
तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सर्त्वा᳚ र॒सया᳚ श्वे॒त्या त्या । त्वं सिं᳚धो॒ कुभ॑या गोम॒तीं क्रुमुं᳚ मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से ॥10.075.06, 8.3.7.1
ऋजी॒त्येनी॒ रुश॑ती महि॒त्वा परि॒ ज्रयां᳚सि भरते॒ रजां᳚सि । अद॑ब्धा॒ सिंधु॑र॒पसा᳚म॒पस्त॒माश्वा॒ न चि॒त्रा वपु॑षीव दर्श॒ता ॥10.075.07, 8.3.7.2
स्वश्वा॒ सिंधुः॑ सु॒रथा᳚ सु॒वासा᳚ हिर॒ण्ययी॒ सुकृ॑ता वा॒जिनी᳚वती । ऊर्णा᳚वती युव॒तिः सी॒लमा᳚वत्यु॒ताधि॑ वस्ते सु॒भगा᳚ मधु॒वृधं᳚ ॥10.075.08, 8.3.7.3
सु॒खं रथं᳚ युयुजे॒ सिंधु॑र॒श्विनं॒ तेन॒ वाजं᳚ सनिषद॒स्मिन्ना॒जौ । म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यतेऽद॑ब्धस्य॒ स्वय॑शसो विर॒प्शिनः॑ ॥10.075.09, 8.3.7.4
80 । पर्जन्य सूक्तं
अच्छावदेति दशर्चस्य सूक्तस्य भौमोत्रिः पर्जन्यस्त्रिष्टुप् द्वितीयादितिस्रोजगत्यो नवम्यनुष्टुप् ।
अच्छा᳚ वद त॒वसं᳚ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास । कनि॑क्रदद् वृष॒भो जी॒रदा᳚नू॒ रेतो᳚ दधा॒त्योष॑धीषु॒ गर्भं᳚ ॥5.083.01, 4.4.027.01
वि वृ॒क्षान् हं᳚त्यु॒त हं᳚ति र॒क्षसो॒ विश्वं᳚ बिभाय॒ भुव॑नं म॒हाव॑धात् । उ॒ताना᳚गा, ईषते॒ वृष्ण्या᳚वतो॒ यत् प॒र्जन्यः॑ स्त॒नय॒न् हंति॑ दु॒ष्कृतः॑ ॥5.083.02, 4.4.027.02
र॒थीव॒ कश॒याश्वाँ᳚, अभिक्षि॒पन्ना॒विर्दू॒तान् कृ॑णुते व॒र्ष्या॒3॑(आँ॒) अह॑ । दू॒रात् सिं॒हस्य॑ स्त॒नथा॒, उदी᳚रते॒ यत् प॒र्जन्यः॑ कृणु॒ते व॒र्ष्य१॑(अं॒) नभः॑ ॥5.083.03, 4.4.027.03
प्र वाता॒ वांति॑ प॒तयं᳚ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑ । इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत् प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति ॥5.083.04, 4.4.027.04
यस्य᳚ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य᳚ व्र॒ते श॒फव॒ज्जर्भु॑रीति । यस्य᳚ व्र॒त ओष॑धीर्वि॒श्वरू᳚पाः॒ स नः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥5.083.05, 4.4.027.05
दि॒वो नो᳚ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि᳚न्वत॒ वृष्णो॒, अश्व॑स्य॒ धाराः᳚ । अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षिं॒चन्नसु॑रः पि॒ता नः॑ ॥5.083.06, 4.4.028.01
अ॒भि क्रं᳚द स्त॒नय॒ गर्भ॒मा धा᳚ उद॒न्वता॒ परि॑ दीया॒ रथे᳚न । दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्यं᳚चं स॒मा भ॑वंतू॒द्वतो᳚ निपा॒दाः ॥5.083.07, 4.4.028.02
म॒हांतं॒ कोश॒मुद॑चा॒ नि षिं᳚च॒ स्यंदं᳚तां कु॒ल्या विषि॑ताः पु॒रस्ता᳚त् । घृ॒तेन॒ द्यावा᳚पृथि॒वी व्युं᳚धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्यः॑ ॥5.083.08, 4.4.028.03
यत् प॑र्जन्य॒ कनि॑क्रदत् स्त॒नय॒न् हंसि॑ दु॒ष्कृतः॑ । प्रती॒दं विश्वं᳚ मोदते॒ यत् किं च॑ पृथि॒व्यामधि॑ ॥5.083.09, 4.4.028.04
अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याऽक॒र्धन्वा॒न्यत्ये᳚त॒वा, उ॑ । अजी᳚जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो᳚ऽविदो मनी॒षां ॥5.083.10, 4.4.028.05
तिस्रोवाचैति षडृचस्य सूक्तस्याग्नेयः कुमारः पर्जन्यस्त्रिष्टुप् ।( तिस्रोवाचः पर्जन्यायेतिसूक्तयोर्वृष्टिकामोवसिष्ठः पाक्षिकः) ।
ति॒स्रो वाचः॒ प्र व॑द॒ ज्योति॑रग्रा॒ या, ए॒तद्दु॒ह्रे म॑धुदो॒घमूधः॑ । स व॒त्सं कृ॒ण्वन् गर्भ॒मोष॑धीनां स॒द्यो जा॒तो वृ॑ष॒भो रो᳚रवीति ॥7.101.01, 5.7.1.1
यो वर्ध॑न॒ ओष॑धीनां॒ यो, अ॒पां यो विश्व॑स्य॒ जग॑तो दे॒व ईशे᳚ । स त्रि॒धातु॑ शर॒णं शर्म॑ यंसत् त्रि॒वर्तु॒ ज्योतिः॑ स्वभि॒ष्ट्य१॑(अ॒)स्मे ॥7.101.02, 5.7.1.2
स्त॒रीरु॑ त्व॒द् भव॑ति॒ सूत॑ उ त्वद् यथाव॒शं त॒न्वं᳚ चक्र ए॒षः । पि॒तुः पयः॒ प्रति॑ गृभ्णाति मा॒ता तेन॑ पि॒ता व॑र्धते॒ तेन॑ पु॒त्रः ॥7.101.03, 5.7.1.3
यस्मि॒न् विश्वा᳚नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुरापः॑ । त्रयः॒ कोशा᳚स उप॒सेच॑नासो॒ मध्वः॑ श्चोतंत्य॒भितो᳚ विर॒प्शं ॥7.101.04, 5.7.1.4
इ॒दं वचः॑ प॒र्जन्या᳚य स्व॒राजे᳚ हृ॒दो, अ॒स्त्वंत॑रं॒ तज्जु॑जोषत् । म॒यो॒भुवो᳚ वृ॒ष्टयः॑ संत्व॒स्मे सु॑पिप्प॒ला, ओष॑धीर्दे॒वगो᳚पाः ॥7.101.05, 5.7.1.5
स रे᳚तो॒धा वृ॑ष॒भः शश्व॑तीनां॒ तस्मि᳚न्ना॒त्मा जग॑तस्त॒स्थुष॑श्च । तन्म॑ ऋतं पातु श॒तशा᳚रदय यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥7.101.06, 5.7.1.6
पर्जन्यायेति तृचस्य सूक्तस्याग्नेयःकुमारः पर्जन्यो गायत्री ।
प॒र्जन्या᳚य॒ प्र गा᳚यत दि॒वस्पु॒त्राय॑ मी॒ळ्हुषे᳚ । स नो॒ यव॑समिच्छतु ॥7.102.01, 5.7.2.1
यो गर्भ॒मोष॑धीनां॒ गवां᳚ कृ॒णोत्यर्व॑तां । प॒र्जन्यः॑ पुरु॒षीणां᳚ ॥7.102.02, 5.7.2.2
तस्मा॒, इदा॒स्ये᳚ ह॒विर्जु॒होता॒ मधु॑मत्तमं । इळां᳚ नः सं॒यतं᳚ करत् ॥7.102.03, 5.7.2.3
संवत्सरमिति दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः पर्जन्यस्तुतिमंडूकस्त्रिष्टुबाद्यानुष्टुप् ।
सं॒व॒त्स॒रं श॑शया॒ना ब्रा᳚ह्म॒णा व्र॑तचा॒रिणः॑ । वाचं᳚ प॒र्जन्य॑जिन् वितां॒ प्र मं॒डूका᳚ अवादिषुः ॥7.103.01, 5.7.3.1
दि॒व्या, आपो᳚ अ॒भि यदे᳚न॒मायं॒दृतिं॒ न शुष्कं᳚ सर॒सी शया᳚नं । गवा॒मह॒ न मा॒युर्व॒त्सिनी᳚नां मं॒डूका᳚नां व॒ग्नुरत्रा॒ समे᳚ति ॥7.103.02, 5.7.3.2
यदी᳚मेनाँ, उश॒तो, अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तः प्रा॒वृष्याग॑तायां । अ॒ख्ख॒ली॒कृत्या᳚ पि॒तरं॒ न पु॒त्रो, अ॒न्यो, अ॒न्यमुप॒ वदं᳚तमेति ॥7.103.03, 5.7.3.3
अ॒न्यो, अ॒न्यमनु॑ गृभ्णात्येनोर॒पां प्र॑स॒र्गे यदमं᳚दिषातां । मं॒डूको॒ यद॒भिवृ॑ष्टः॒ कनि॑ष्क॒न् पृश्निः॑ संपृं॒क्ते हरि॑तेन॒ वाचं᳚ ॥7.103.04, 5.7.3.4
यदे᳚षाम॒न्यो, अ॒न्यस्य॒ वाचं᳚ शा॒क्तस्ये᳚व॒ वद॑ति॒ शिक्ष॑माणः । सर्वं॒ तदे᳚षां स॒मृधे᳚व॒ पर्व॒ यत्सु॒वाचो॒ वद॑थ॒नाध्य॒प्सु ॥7.103.05, 5.7.3.5
गोमा᳚यु॒रेको᳚ अ॒जमा᳚यु॒रेकः॒ पृश्नि॒रेको॒ हरि॑त॒ एक॑ एषां । स॒मा॒नं नाम॒ बिभ्र॑तो॒ विरू᳚पाः पुरु॒त्रा वाचं᳚ पिपिशु॒र्वदं᳚तः ॥7.103.06, 5.7.4.1
ब्रा॒ह्म॒णासो᳚ अतिरा॒त्रे न सोमे॒ सरो॒ न पू॒र्णम॒भितो॒ वदं᳚तः । सं॒व॒त्स॒रस्य॒ तदहः॒ परि॑ ष्ठ॒ यन्मं᳚डूकाः प्रावृ॒षीणं᳚ ब॒भूव॑ ॥7.103.07, 5.7.4.2
ब्रा॒ह्म॒णासः॑ सो॒मिनो॒ वाच॑मक्रत॒ ब्रह्म॑ कृ॒ण्वंतः॑ परिवत्स॒रीणं᳚ । अ॒ध्व॒र्यवो᳚ घ॒र्मिणः॑ सिष्विदा॒ना, आ॒विर्भ॑वंति॒ गुह्या॒ न के चि॑त् ॥7.103.08, 5.7.4.3
दे॒वहि॑तिं जुगुपुर्द्वाद॒शस्य॑ ऋ॒तुं नरो॒ न प्र मि॑नंत्ये॒ते । सं॒व॒त्स॒रे प्रा॒वृष्याग॑तायां त॒प्ता घ॒र्मा, अ॑श्नुवते विस॒र्गं ॥7.103.09, 5.7.4.4
गोमा᳚युरदाद॒जमा᳚युरदा॒त् पृश्नि॑रदा॒द्धरि॑तो नो॒ वसू᳚नि । गवां᳚ मं॒डूका॒ दद॑तः श॒तानि॑ सहस्रसा॒वे प्र ति॑रंत॒ आयुः॑ ॥7.103.10, 5.7.4.5
परिशिष्टम् [ऋग्वेद मंडल 7, 103 सूक्तस्यानंतरं][ऋग्वेद अष्टक 7, अध्याय 7, 4 वर्गानंतरं]
उपप्लवत मंडूकीत्यस्य वर्षावाहनसूक्तस्य अथर्वा भृगुर्वा ऋषिः मंडूकी वर्षं वा देवता अनुष्टुप् छंदः ॥
उ॒प॒प्लव॑त मंडूकि व॒र्षमा व॑द तादुरि। मध्ये᳚ ह्र॒दस्य॑ प्ल॒वस्व॑ नि॒गृह्य॑ च॒तुर॑: प॒दः॥
प्रदेवत्रेति पंचदशर्चस्य सूक्तस्यैलूषः कवषआपस्त्रिष्टुप् ।
प्र दे᳚व॒त्रा ब्रह्म॑णे गा॒तुरे᳚त्व॒पो, अच्छा॒ मन॑सो॒ न प्रयु॑क्ति । म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिं ॥10.030.01, 7.7.024.01
अध्व᳚र्यवो ह॒विष्मं᳚तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शंतः । अव॒ याश्चष्टे᳚ अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ॥10.030.02, 7.7.024.02
अध्व᳚र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा᳚तं ह॒विषा᳚ यजध्वं । स वो᳚ दददू॒र्मिम॒द्या सुपू᳚तं॒ तस्मै॒ सोमं॒ मधु॑मंतं सुनोत ॥10.030.03, 7.7.024.03
यो, अ॑नि॒ध्मो दीद॑यद॒प्स्व१॑(अ॒)न्तर्यं विप्रा᳚स॒ ईळ॑ते, अध्व॒रेषु॑ । अपां᳚ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिंद्रो᳚ वावृ॒धे वी॒र्या᳚य ॥10.030.04, 7.7.024.04
याभिः॒ सोमो॒ मोद॑ते॒ हर्ष॑ते च कल्या॒णीभि᳚र्युव॒तिभि॒र्न मर्यः॑ । ता, अ॑ध्वर्यो, अ॒पो, अच्छा॒ परे᳚हि॒ यदा᳚सिं॒चा, ओष॑धीभिः पुनीतात् ॥10.030.05, 7.7.024.05
ए॒वेद्यूने᳚ युव॒तयो᳚ नमंत॒ यदी᳚मु॒शन्नु॑श॒तीरेत्यच्छ॑ । सं जा᳚नते॒ मन॑सा॒ सं चि॑कित्रेऽध्व॒र्यवो᳚ धि॒षणाप॑श्च दे॒वीः ॥10.030.06, 7.7.025.01
यो वो᳚ वृ॒ताभ्यो॒, अकृ॑णोदु लो॒कं यो वो᳚ म॒ह्या, अ॒भिश॑स्ते॒रमुं᳚चत् । तस्मा॒, इंद्रा᳚य॒ मधु॑मंतमू॒र्मिं दे᳚व॒माद॑नं॒ प्र हि॑णोतनापः ॥10.030.07, 7.7.025.02
प्रास्मै᳚ हिनोत॒ मधु॑मंतमू॒र्मिं गर्भो॒ यो वः॑ सिंधवो॒ मध्व॒ उत्सः॑ । घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो᳚ रेवतीः शृणु॒ता हवं᳚ मे ॥10.030.08, 7.7.025.03
तं सिं᳚धवो मत्स॒रमिं᳚द्र॒पान॑मू॒र्मिं प्र हे᳚त॒ य उ॒भे, इय॑र्ति । म॒द॒च्युत॑मौशा॒नं न॑भो॒जां परि॑ त्रि॒तंतुं᳚ वि॒चरं᳚त॒मुत्सं᳚ ॥10.030.09, 7.7.025.04
आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा᳚ गोषु॒युधो॒ न नि॑य॒वं चरं᳚तीः । ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी᳚र॒पो वं᳚दस्व स॒वृधः॒ सयो᳚नीः ॥10.030.10, 7.7.025.05
हि॒नोता᳚ नो, अध्व॒रं दे᳚वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना᳚नां । ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूधः॑ श्रुष्टी॒वरी᳚र्भूतना॒स्मभ्य॑मापः ॥10.030.11, 7.7.026.01
आपो᳚ रेवतीः॒, क्षय॑था॒ हि वस्वः॒ क्रतुं᳚ च भ॒द्रं बि॑भृ॒थामृतं᳚ च । रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नीः॒ सर॑स्वती॒ तद्गृ॑ण॒ते वयो᳚ धात् ॥10.030.12, 7.7.026.02
प्रति॒ यदापो॒, अदृ॑श्रमाय॒तीर्घृ॒तं पयां᳚सि॒ बिभ्र॑ती॒र्मधू᳚नि । अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना, इंद्रा᳚य॒ सोमं॒ सुषु॑तं॒ भरं᳚तीः ॥10.030.13, 7.7.026.03
एमा, अ॑ग्मन् रे॒वती᳚र्जी॒वध᳚न्या॒, अध्व᳚र्यवः सा॒दय॑ता सखायः । नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा᳚ संविदा॒नास॑ एनाः ॥10.030.14, 7.7.026.04
आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे, अ॑सदंदेव॒यंतीः᳚ । अध्व᳚र्यवः सुनु॒तेंद्रा᳚य॒ सोम॒मभू᳚दु वः सु॒शका᳚ देवय॒ज्या ॥10.030.15, 7.7.026.05
81 । घर्म सूक्तं
घर्मेति दशर्चस्य सूक्तस्य वैरूपः सघ्निर्विश्वेदेवास्त्रिष्टुष्चतुर्थीजगती । ( तापसोघर्मोवाऋषिः) ।
घ॒र्मा समं᳚ता त्रि॒वृतं॒ व्या᳚पतु॒स्तयो॒र्जुष्टिं᳚ मात॒रिश्वा᳚ जगाम । दि॒वस्पयो॒ दिधि॑षाणा, अवेषन् वि॒दुर्दे॒वाः स॒हसा᳚मानम॒र्कं ॥10.114.01, 8.6.016.01
ति॒स्रो दे॒ष्ट्राय॒ निरृ॑ती॒रुपा᳚सते दीर्घ॒श्रुतो॒ वि हि जा॒नंति॒ वह्न॑यः । तासां॒ नि चि॑क्युः क॒वयो᳚ नि॒दानं॒ परे᳚षु॒ या गुह्ये᳚षु व्र॒तेषु॑ ॥10.114.02, 8.6.016.02
चतु॑ष्कपर्दा युव॒तिः सु॒पेशा᳚ घृ॒तप्र॑तीका व॒युना᳚नि वस्ते । तस्यां᳚ सुप॒र्णा वृष॑णा॒ नि षे᳚दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा᳚ग॒धेयं᳚ ॥10.114.03, 8.6.016.03
एकः॑ सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे । तं पाके᳚न॒ मन॑सापश्य॒मंति॑त॒स्तं मा॒ता रे᳚ळ्हि॒ स उ॑ रेळ्हि मा॒तरं᳚ ॥10.114.04, 8.6.016.04
सु॒प॒र्णं विप्राः᳚ क॒वयो॒ वचो᳚भि॒रेकं॒ संतं᳚ बहु॒धा क᳚ल्पयंति । छंदां᳚सि च॒ दध॑तो, अध्व॒रेषु॒ ग्रहा॒न् त्सोम॑स्य मिमते॒ द्वाद॑श ॥10.114.05, 8.6.016.05
ष॒ट्त्रिं॒शाँश्च॑ च॒तुरः॑ क॒ल्पयं᳚त॒श्छंदां᳚सि च॒ दध॑त आद्वाद॒शं । य॒ज्ञं वि॒माय॑ क॒वयो᳚ मनी॒ष ऋ॑क्सा॒माभ्यां॒ प्र रथं᳚ वर्तयंति ॥10.114.06, 8.6.017.01
चतु॑र्दशा॒न्ये म॑हि॒मानो᳚ अस्य॒ तं धीरा᳚ वा॒चा प्र ण॑यंति स॒प्त । आप्ना᳚नं ती॒र्थं क इ॒ह प्र वो᳚च॒द्येन॑ प॒था प्र॒पिबं᳚ते सु॒तस्य॑ ॥10.114.07, 8.6.017.02
स॒ह॒स्र॒धा पं᳚चद॒शान्यु॒क्था याव॒द्द्यावा᳚पृथि॒वी ताव॒दित्तत् । स॒ह॒स्र॒धा म॑हि॒मानः॑ स॒हस्रं॒ याव॒द्ब्रह्म॒ विष्ठि॑तं॒ ताव॑ती॒ वाक् ॥10.114.08, 8.6.017.03
कश्छंद॑सां॒ योग॒मा वे᳚द॒ धीरः॒ को धिष्ण्यां॒ प्रति॒ वाचं᳚ पपाद । कमृ॒त्विजा᳚मष्ट॒मं शूर॑माहु॒र्हरी॒, इंद्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ॥10.114.09, 8.6.017.04
भूम्या॒, अंतं॒ पर्येके᳚ चरंति॒ रथ॑स्य धू॒र्षु यु॒क्तासो᳚ अस्थुः । श्रम॑स्य दा॒यं वि भ॑जंत्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ॥10.114.10, 8.6.017.05
82 । पृथिवी सूक्तं
मही द्यौः पृथिवी चेति द्व्यर्चस्य काण्वो मेधातिथिः द्यावापृथिव्यौ गायत्री ॥
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षतां । पि॒पृ॒तां नो॒ भरी᳚मभिः ॥1.022.13, 1.2.6.3
तयो॒रिद् घृ॒तव॒त् पयो॒ विप्रा᳚ रिहंति धी॒तिभिः॑ । गं॒ध॒र्वस्य॑ ध्रु॒वे प॒दे ॥1.022.14, 1.2.6.4
बळित्थेति तृचस्य सूक्तस्य भौमोत्रिःपृथिव्यनुष्टुप् ।
बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि । प्र या भूमिं᳚ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि ॥5.084.01, 4.4.029.01
स्तोमा᳚सस्त्वा विचारिणि॒ प्रति॑ ष्टोभंत्य॒क्तुभिः॑ । प्र या वाजं॒ न हेषं᳚तं पे॒रुमस्य॑स्यर्जुनि ॥5.084.02, 4.4.029.02
दृ॒ळ्हा चि॒द् या वन॒स्पती᳚न् क्ष्म॒या दर्ध॒र्ष्योज॑सा । यत्ते᳚ अ॒भ्रस्य॑ वि॒द्युतो᳚ दि॒वो वर्षं᳚ति वृ॒ष्टयः॑ ॥5.084.03, 4.4.029.03
परिशिष्टम् [ऋग्वेद मंडल 5, 84 सूक्तस्यानंतरं][ऋग्वेद अष्टक 4, अध्याय 4, 29 वर्गानंतरं]
वर्षंतु ते विभावरित्यस्य वर्षावाहनसूक्तस्य अथर्वा भृगुर्वा ऋषिः अभ्रं पर्जन्यो वा देवता अनुष्टुप् छंदः ॥
वर्षं᳚तु ते विभावरि दि॒वो, अ॒भ्रस्य॑ वि॒द्युतः॑ । रोहं᳚तु॒ सर्व॑बीजा॒न्यव॑ ब्रह्म॒द्विषो᳚ जहि ॥
83 । क्षेत्रपति सूक्तं
क्षेत्रस्येत्यष्टर्चस्य सूक्तस्य गौतमोवामदेव आद्यानांतिसृणां क्षेत्रपतिर्देवता चतुर्थ्याःशुनः पंचम्यष्टम्योः शुनासीरौ षष्ठीसप्तम्योः सीता आद्याचतुर्थीषष्ठीसप्तम्योनुष्टुभः पंचमीपुरौष्णिक् शेषास्त्रिष्टुभः (अत्रचतुर्थ्याः शुनोऽदंतः । तथाशुनासीरावित्यत्र केचइद्वाय्वादित्या वित्युंचारयंतितन्नचतुरस्रं यतः वायुः शुनः सूर्य एवात्रसीरः शुनासीरौवायुसूर्योवदंति । शुनासीरंयास्कैंद्रतुमेने सूर्येद्रौ तौमन्यतेशाकपूर्णि रितिशुनासीरस्वरूपेशौनकेनाचार्यमतदर्शनव्याजेनवैविध्यंप्रतिपादितं तस्मात्प्रकृतिभूतशुनासीरशब्देनोच्चारणंयुक्तं) ।
क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने᳚व जयामसि । गामश्वं᳚ पोषयि॒त्न्वा स नो᳚ मृळाती॒दृशे᳚ ॥4.057.01, 3.8.9.1
क्षेत्र॑स्य पते॒ मधु॑मंतमू॒र्मिं धे॒नुरि॑व॒ पयो᳚ अ॒स्मासु॑ धुक्ष्व । म॒धु॒श्चुतं᳚ घृ॒तमि॑व॒ सुपू᳚तमृ॒तस्य॑ नः॒ पत॑यो मृळयंतु ॥4.057.02, 3.8.9.2
मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्वं॒तरि॑क्षं । क्षेत्र॑स्य॒ पति॒र्मधु॑मान् नो, अ॒स्त्वरि॑ष्यंतो॒, अन्वे᳚नं चरेम ॥4.057.03, 3.8.9.3
शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लांग॑लं । शु॒नं व॑र॒त्रा ब॑ध्यंतां शु॒नमष्ट्रा॒मुदिं᳚गय ॥4.057.04, 3.8.9.4
शुना᳚सीरावि॒मां वाचं᳚ जुषेथां॒ यद्दि॒वि च॒क्रथुः॒ पयः॑ । तेने॒मामुप॑ सिंचतं ॥4.057.05, 3.8.9.5
अ॒र्वाची᳚ सुभगे भव॒ सीते॒ वंदा᳚महे त्वा । यथा᳚ नः सु॒भगास॑सि॒ यथा᳚ नः सु॒फलास॑सि ॥4.057.06, 3.8.9.6
इंद्रः॒ सीतां॒ नि गृ᳚ह्णातु॒ तां पू॒षानु॑ यच्छतु । सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समां᳚ ॥4.057.07, 3.8.9.7
शु॒नं नः॒ फाला॒ वि कृ॑षंतु॒ भूमिं᳚ शु॒नं की॒नाशा᳚ अ॒भि यं᳚तु वा॒हैः । शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो᳚भिः॒ शुना᳚सीरा शु॒नम॒स्मासु॑ धत्तं ॥4.057.08, 3.8.9.8
84 । ये यज्ञेनेति सूक्तं
येयज्ञेनेत्येकादशर्चस्य सूक्तस्य मानवोनाभानेदिष्ठो विश्वेदेवाः प्रनूनमित्यादिचतसृणां सावर्णिर्जगती पंचम्यष्टमीनवम्योनुष्टुभः षष्टी बृहती सप्तमीसतोबृहती दशमीगायत्री अंत्यात्रिष्टुप् (भेदपक्षे अंगिरसः 6 विश्वेदेवाः 1 सावर्णिः 4 एवं 11 । अंगिरसोनुक्रमण्यांपाकषिकाउक्ताः) । येयज्ञेनेतिचतसृणां त्रिष्टुप् छंदस्त्वं कश्चिद्भूतेतद्बहुविरुद्धं । विरोधास्तु षळंगिरसां स्तुतिर्वांत्यात्रिष्टुबित्यनुक्रमाच्छेष जगत्यैति परिभाषाव्याघात एकः । तासां त्रिष्टुप् छंदस्त्वेनादेशपरिभाषयातासामंत्यायाश्चत्रिष्टुब्वे सिद्धेत्यात्रिष्टुबिति सिद्धानुवादलक्षणदोषा विष्करणद्वितीयः । दशमीत्वस्य गायत्री जगत्यन्याविनोत्तमामिति शौनकवचनाज्ञानेनस्वेच्छयाव्याख्यानमिति तृतीयश्चेति) ।
ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒, इंद्र॑स्य स॒ख्यम॑मृत॒त्वमा᳚न॒श । तेभ्यो᳚ भ॒द्रमं᳚गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥10.062.01, 8.2.1.1
य उ॒दाज᳚न् पि॒तरो᳚ गो॒मयं॒ वस्वृ॒तेनाभिं᳚दन् परिवत्स॒रे व॒लं । दी॒र्घा॒यु॒त्वमं᳚गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥10.062.02, 8.2.1.2
य ऋ॒तेन॒ सूर्य॒मारो᳚हयंदि॒व्यप्र॑थयन् पृथि॒वीं मा॒तरं॒ वि । सु॒प्र॒जा॒स्त्वमं᳚गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥10.062.03, 8.2.1.3
अ॒यं नाभा᳚ वदति व॒ल्गु वो᳚ गृ॒हे देव॑पुत्रा ऋषय॒स्तच्छृ॑णोतन । सु॒ब्र॒ह्म॒ण्यमं᳚गिरसो वो, अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥10.062.04, 8.2.1.4
विरू᳚पास॒ इदृष॑य॒स्त इद्गं᳚भी॒रवे᳚पसः । ते, अंगि॑रसः सू॒नव॒स्ते, अ॒ग्नेः परि॑ जज्ञिरे ॥10.062.05, 8.2.1.5
ये, अ॒ग्नेः परि॑ जज्ञि॒रे विरू᳚पासो दि॒वस्परि॑ । नव॑ग्वो॒ नु दश॑ग्वो॒, अंगि॑रस्तमो॒ सचा᳚ दे॒वेषु॑ मंहते ॥10.062.06, 8.2.2.1
इंद्रे᳚ण यु॒जा निः सृ॑जंत वा॒घतो᳚ व्र॒जं गोमं᳚तम॒श्विनं᳚ । स॒हस्रं᳚ मे॒ दद॑तो, अष्टक॒र्ण्य१॑(अः॒) श्रवो᳚ दे॒वेष्व॑क्रत ॥10.062.07, 8.2.2.2
प्र नू॒नं जा᳚यताम॒यं मनु॒स्तोक्मे᳚व रोहतु । यः स॒हस्रं᳚ श॒ताश्वं᳚ स॒द्यो दा॒नाय॒ मंह॑ते ॥10.062.08, 8.2.2.3
न तम॑श्नोति॒ कश्च॒न दि॒व इ॑व॒ सान्वा॒रभं᳚ । सा॒व॒र्ण्यस्य॒ दक्षि॑णा॒ वि सिंधु॑रिव पप्रथे ॥10.062.09, 8.2.2.4
उ॒त दा॒सा प॑रि॒विषे॒ स्मद्दि॑ष्टी॒ गोप॑रीणसा । यदु॑स्तु॒र्वश्च॑ मामहे ॥10.062.10, 8.2.2.5
स॒ह॒स्र॒दा ग्रा᳚म॒णीर्मा रि॑ष॒न्मनुः॒ सूर्ये᳚णास्य॒ यत॑मानैतु॒ दक्षि॑णा । साव᳚र्णेर्दे॒वाः प्र ति॑रं॒त्वायु॒र्यस्मि॒न्नश्रां᳚ता॒, अस॑नाम॒ वाजं᳚ ॥10.062.11, 8.2.2.6
85 । मृत्यु सूक्तं
परंमृत्योइति चतुर्दशर्चस्य सूक्तस्य यामायनः संकुसुकः आद्यानांचतसृणांमृत्युः पंचम्याधाता षष्ठ्यास्त्वष्टा शिष्टानां पितृमेधास्त्रिष्टुप् एकादशीप्रस्तारपंक्तिः त्रयोदशीजगत्यंत्येनुष्टुभौ (अंत्यायाः प्रजापतिर्वादेवता) ।
परं᳚ मृत्यो॒, अनु॒ परे᳚हि॒ पंथां॒ यस्ते॒ स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मा नः॑ प्र॒जां री᳚रिषो॒ मोत वी॒रान् ॥10.018.01, 7.6.026.01
मृ॒त्योः प॒दं यो॒पयं᳚तो॒ यदैत॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः । आ॒प्याय॑मानाः प्र॒जया॒ धने᳚न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ॥10.018.02, 7.6.026.02
इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू᳚द्भ॒द्रा दे॒वहू᳚तिर्नो, अ॒द्य । प्रांचो᳚ अगाम नृ॒तये॒ हसा᳚य॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः ॥10.018.03, 7.6.026.03
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒, अर्थ॑मे॒तं । श॒तं जी᳚वंतु श॒रदः॑ पुरू॒चीरं॒तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥10.018.04, 7.6.026.04
यथाहा᳚न्यनुपू॒र्वं भवं᳚ति॒ यथ॑ ऋ॒तव॑ ऋ॒तुभि॒र्यंति॑ सा॒धु । यथा॒ न पूर्व॒मप॑रो॒ जहा᳚त्ये॒वा धा᳚त॒रायूं᳚षि कल्पयैषां ॥10.018.05, 7.6.026.05
आ रो᳚ह॒तायु॑र्ज॒रसं᳚ वृणा॒ना, अ॑नुपू॒र्वं यत॑माना॒ यति॒ ष्ठ । इ॒ह त्वष्टा᳚ सु॒जनि॑मा स॒जोषा᳚ दी॒र्घमायुः॑ करति जी॒वसे᳚ वः ॥10.018.06, 7.6.027.01
इ॒मा नारी᳚रविध॒वाः सु॒पत्नी॒रांज॑नेन स॒र्पिषा॒ सं वि॑शंतु । अ॒न॒श्रवो᳚ऽनमी॒वाः सु॒रत्ना॒, आ रो᳚हंतु॒ जन॑यो॒ योनि॒मग्रे᳚ ॥10.018.07, 7.6.027.02
उदी᳚र्ष्व नार्य॒भि जी᳚वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ । ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ॥10.018.08, 7.6.027.03
धनु॒र्हस्ता᳚दा॒ददा᳚नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला᳚य । अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वाः॒ स्पृधो᳚ अ॒भिमा᳚तीर्जयेम ॥10.018.09, 7.6.027.04
उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवां᳚ । ऊर्ण᳚म्रदा युव॒तिर्दक्षि॑णावत ए॒षा त्वा᳚ पातु॒ निरृ॑तेरु॒पस्था᳚त् ॥10.018.10, 7.6.027.05
उच्छ्वं᳚चस्व पृथिवि॒ मा नि बा᳚धथाः सूपाय॒नास्मै᳚ भव सूपवंच॒ना । मा॒ता पु॒त्रं यथा᳚ सि॒चाभ्ये᳚नं भूम ऊर्णुहि ॥10.018.11, 7.6.028.01
उ॒च्छ्वंच॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रयं᳚तां । ते गृ॒हासो᳚ घृत॒श्चुतो᳚ भवंतु वि॒श्वाहा᳚स्मै शर॒णाः सं॒त्वत्र॑ ॥10.018.12, 7.6.028.02
उत्ते᳚ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो, अ॒हं रि॑षं । ए॒तां स्थूणां᳚ पि॒तरो᳚ धारयंतु॒ तेऽत्रा᳚ य॒मः साद॑ना ते मिनोतु ॥10.018.13, 7.6.028.03
प्र॒ती॒चीने॒ मामह॒नीष्वाः᳚ प॒र्णमि॒वा द॑धुः । प्र॒तीचीं᳚ जग्रभा॒ वाच॒मश्वं᳚ रश॒नया᳚ यथा ॥10.018.14, 7.6.028.04
86 । पैतृकं सूक्तं
उदीरतामिति चतुर्दशर्चस्य सूक्तस्य यामायनः शंखः पितरस्त्रिष्टुप् एकादशीजगती ।
उदी᳚रता॒मव॑र॒ उत्परा᳚स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ । असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो᳚ऽवंतु पि॒तरो॒ हवे᳚षु ॥10.015.01, 7.6.017.01
इ॒दं पि॒तृभ्यो॒ नमो᳚ अस्त्व॒द्य ये पूर्वा᳚सो॒ य उप॑रास ई॒युः । ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा᳚ नू॒नं सु॑वृ॒जना᳚सु वि॒क्षु ॥10.015.02, 7.6.017.02
आहं पि॒तॄन् त्सु॑वि॒दत्राँ᳚, अवित्सि॒ नपा᳚तं च वि॒क्रम॑णं च॒ विष्णोः᳚ । ब॒र्हि॒षदो॒ ये स्व॒धया᳚ सु॒तस्य॒ भजं᳚त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥10.015.03, 7.6.017.03
बर्हि॑षदः पितर ऊ॒त्य१॑(अ॒)र्वागि॒मा वो᳚ ह॒व्या च॑कृमा जु॒षध्वं᳚ । त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा᳚ नः॒ शं योर॑र॒पो द॑धात ॥10.015.04, 7.6.017.04
उप॑हूताः पि॒तरः॑ सो॒म्यासो᳚ बर्हि॒ष्ये᳚षु नि॒धिषु॑ प्रि॒येषु॑ । त आ ग॑मंतु॒ त इ॒ह श्रु॑वं॒त्वधि॑ ब्रुवंतु॒ ते᳚ऽवंत्व॒स्मान् ॥10.015.05, 7.6.017.05
आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे᳚ । मा हिं᳚सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा᳚म ॥10.015.06, 7.6.018.01
आसी᳚नासो, अरु॒णीना᳚मु॒पस्थे᳚ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या᳚य । पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं᳚ दधात ॥10.015.07, 7.6.018.02
ये नः॒ पूर्वे᳚ पि॒तरः॑ सो॒म्यासो᳚ऽनूहि॒रे सो᳚मपी॒थं वसि॑ष्ठाः । तेभि᳚र्य॒मः सं᳚ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ॥10.015.08, 7.6.018.03
ये ता᳚तृ॒षुर्दे᳚व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो, अ॒र्कैः । आग्ने᳚ याहि सुवि॒दत्रे᳚भिर॒र्वाङ्स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥10.015.09, 7.6.018.04
ये स॒त्यासो᳚ हवि॒रदो᳚ हवि॒ष्पा, इंद्रे᳚ण दे॒वैः स॒रथं॒ दधा᳚नाः । आग्ने᳚ याहि स॒हस्रं᳚ देववं॒दैः परैः॒ पूर्वैः᳚ पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥10.015.10, 7.6.018.05
अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः । अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा᳚ र॒यिं सर्व॑वीरं दधातन ॥10.015.11, 7.6.019.01
त्वम॑ग्न ईळि॒तो जा᳚तवे॒दोऽवा᳚ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी । प्रादाः᳚ पि॒तृभ्यः॑ स्व॒धया॒ ते, अ॑क्षन्न॒द्धि त्वं दे᳚व॒ प्रय॑ता ह॒वींषि॑ ॥10.015.12, 7.6.019.02
ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ, उ॑ च॒ न प्र॑वि॒द्म । त्वं वे᳚त्थ॒ यति॒ ते जा᳚तवेदः स्व॒धाभि᳚र्य॒ज्ञं सुकृ॑तं जुषस्व ॥10.015.13, 7.6.019.03
ये, अ॑ग्निद॒ग्धा ये, अन॑ग्निदग्धा॒ मध्ये᳚ दि॒वः स्व॒धया᳚ मा॒दयं᳚ते । तेभिः॑ स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं᳚ कल्पयस्व ॥10.015.14, 7.6.019.04
87 । अरण्य सूक्तं
अरण्यानीति षडृचस्य सूक्तस्यैरंमदोदेवमुनिररण्यान्यनुष्टुप् ।
अर᳚ण्या॒न्यर᳚ण्यान्य॒सौ या प्रेव॒ नश्य॑सि । क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विंदती3ँ ॥10.146.01, 8.8.4.1
वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः । आ॒घा॒टिभि॑रिव धा॒वय᳚न्नरण्या॒निर्म॑हीयते ॥10.146.02, 8.8.4.2
उ॒त गाव॑ इवादंत्यु॒त वेश्मे᳚व दृश्यते । उ॒तो, अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ॥10.146.03, 8.8.4.3
गामं॒गैष आ ह्व॑यति॒ दार्वं॒गैषो, अपा᳚वधीत् । वस᳚न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ॥10.146.04, 8.8.4.4
न वा, अ॑रण्या॒निर्हं᳚त्य॒न्यश्चेन्नाभि॒गच्छ॑ति । स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ॥10.146.05, 8.8.4.5
आंज॑नगंधिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलां । प्राहं मृ॒गाणां᳚ मा॒तर॑मरण्या॒निम॑शंसिषं ॥10.146.06, 8.8.4.6
88 । मन आवर्तन सूक्तं
यत्तेयममिति द्वादशर्चस्य सूक्तस्य गौपायनाबंधुः श्रुतबंधुर्विप्रबंधुर्मनोनुष्टुप् ।
यत्ते᳚ य॒मं वै᳚वस्व॒तं मनो᳚ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥10.058.01, 8.1.020.01
यत्ते॒ दिवं॒ यत् पृ॑थि॒वीं मनो᳚ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥10.058.02, 8.1.020.02
यत्ते॒ भूमिं॒ चतु॑र्भृष्टिं॒ मनो᳚ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥10.058.03, 8.1.020.03
यत्ते॒ चत॑स्रः प्र॒दिशो॒ मनो᳚ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥10.058.04, 8.1.020.04
यत्ते᳚ समु॒द्रम᳚र्ण॒वं मनो᳚ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥10.058.05, 8.1.020.05
यत्ते॒ मरी᳚चीः प्र॒वतो॒ मनो᳚ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥10.058.06, 8.1.020.06
यत्ते᳚ अ॒पो यदोष॑धी॒र्मनो᳚ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥10.058.07, 8.1.021.01
यत्ते॒ सूर्यं॒ यदु॒षसं॒ मनो᳚ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥10.058.08, 8.1.021.02
यत्ते॒ पर्व॑तान् बृह॒तो मनो᳚ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥10.058.09, 8.1.021.03
यत्ते॒ विश्व॑मि॒दं जग॒न्मनो᳚ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥10.058.10, 8.1.021.04
यत्ते॒ पराः᳚ परा॒वतो॒ मनो᳚ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥10.058.11, 8.1.021.05
यत्ते᳚ भू॒तं च॒ भव्यं᳚ च॒ मनो᳚ ज॒गाम॑ दूर॒कं । तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥10.058.12, 8.1.021.06
89 । माया सूक्तं
पतंगमिति तृचस्य सूक्तस्य प्राजापत्यः पतंगोमायाभेदस्त्रिष्टुप् आद्याजगती ।
प॒तं॒गम॒क्तमसु॑रस्य मा॒यया᳚ हृ॒दा प॑श्यंति॒ मन॑सा विप॒श्चितः॑ । स॒मु॒द्रे, अं॒तः क॒वयो॒ वि च॑क्षते॒ मरी᳚चीनां प॒दमि॑च्छंति वे॒धसः॑ ॥10.177.01, 8.8.035.01
प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां गं᳚ध॒र्वो᳚ऽवद॒द्गर्भे᳚ अं॒तः । तां द्योत॑मानां स्व॒र्यं᳚ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पां᳚ति ॥10.177.02, 8.8.035.02
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा᳚ च प॒थिभि॒श्चरं᳚तं । स स॒ध्रीचीः॒ स विषू᳚ची॒र्वसा᳚न॒ आ व॑रीवर्ति॒ भुव॑नेष्वं॒तः ॥10.177.03, 8.8.035.03
90 । दक्षिणा सूक्तं
आविरित्येका दशर्चस्य सूक्तस्यांगिरसोदिव्योदक्षिणात्रिष्टुप् चतुर्थीजगती । (प्राजापत्यादक्षिणानामग्निरृषिका वा दक्षिणादातारोवा देवता) ।
आ॒विर॑भू॒न्महि॒ माघो᳚नमेषां॒ विश्वं᳚ जी॒वं तम॑सो॒ निर॑मोचि । महि॒ ज्योतिः॑ पि॒तृभि॑र्द॒त्तमागा᳚दु॒रुः पंथा॒ दक्षि॑णाया, अदर्शि ॥10.107.01, 8.6.3.1
उ॒च्चा दि॒वि दक्षि॑णावंतो, अस्थु॒र्ये, अ॑श्व॒दाः स॒ह ते सूर्ये᳚ण । हि॒र॒ण्य॒दा, अ॑मृत॒त्वं भ॑जंते वासो॒दाः सो᳚म॒ प्र ति॑रंत॒ आयुः॑ ॥10.107.02, 8.6.3.2
दैवी᳚ पू॒र्तिर्दक्षि॑णा देवय॒ज्या न क॑वा॒रिभ्यो᳚ न॒हि ते पृ॒णंति॑ । अथा॒ नरः॒ प्रय॑तदक्षिणासोऽवद्यभि॒या ब॒हवः॑ पृणंति ॥10.107.03, 8.6.3.3
श॒तधा᳚रं वा॒युम॒र्कं स्व॒र्विदं᳚ नृ॒चक्ष॑स॒स्ते, अ॒भि च॑क्षते ह॒विः । ये पृ॒णंति॒ प्र च॒ यच्छं᳚ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा᳚तरं ॥10.107.04, 8.6.3.4
दक्षि॑णावान् प्रथ॒मो हू॒त ए᳚ति॒ दक्षि॑णावान् ग्राम॒णीरग्र॑मेति । तमे॒व म᳚न्ये नृ॒पतिं॒ जना᳚नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ॥10.107.05, 8.6.3.5
तमे॒व ऋषिं॒ तमु॑ ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं᳚ साम॒गामु॑क्थ॒शासं᳚ । स शु॒क्रस्य॑ त॒न्वो᳚ वेद ति॒स्रो यः प्र॑थ॒मो दक्षि॑णया र॒राध॑ ॥10.107.06, 8.6.4.1
दक्षि॒णाश्वं॒ दक्षि॑णा॒ गां द॑दाति॒ दक्षि॑णा चं॒द्रमु॒त यद्धिर᳚ण्यं । दक्षि॒णान्नं᳚ वनुते॒ यो न॑ आ॒त्मा दक्षि॑णां॒ वर्म॑ कृणुते विजा॒नन् ॥10.107.07, 8.6.4.2
न भो॒जा म᳚म्रु॒र्न न्य॒र्थमी᳚यु॒र्न रि॑ष्यंति॒ न व्य॑थंते ह भो॒जाः । इ॒दं यद्विश्वं॒ भुव॑नं॒ स्व॑श्चै॒तत्सर्वं॒ दक्षि॑णैभ्यो ददाति ॥10.107.08, 8.6.4.3
भो॒जा जि॑ग्युः सुर॒भिं योनि॒मग्रे᳚ भो॒जा जि॑ग्युर्व॒ध्व१॑(अं॒) या सु॒वासाः᳚ । भो॒जा जि॑ग्युरंतः॒पेयं॒ सुरा᳚या भो॒जा जि॑ग्यु॒र्ये, अहू᳚ताः प्र॒यंति॑ ॥10.107.09, 8.6.4.4
भो॒जायाश्वं॒ सं मृ॑जंत्या॒शुं भो॒जाया᳚स्ते क॒न्या॒3॑(आ॒) शुंभ॑माना । भो॒जस्ये॒दं पु॑ष्क॒रिणी᳚व॒ वेश्म॒ परि॑ष्कृतं देवमा॒नेव॑ चि॒त्रं ॥10.107.10, 8.6.4.5
भो॒जमश्वाः᳚ सुष्ठु॒वाहो᳚ वहंति सु॒वृद्रथो᳚ वर्तते॒ दक्षि॑णायाः । भो॒जं दे᳚वासोऽवता॒ भरे᳚षु भो॒जः शत्रू᳚न् त्समनी॒केषु॒ जेता᳚ ॥10.107.11, 8.6.4.6
91 । इंद्रं मित्रमिति सूक्तं
इंद्रंमित्रमिति सप्तर्चस्य सूक्तस्य कुत्सो विश्वेदेवाजगतीअंत्यात्रिष्टुप् ।
इंद्रं᳚ मि॒त्रं वरु॑णम॒ग्निमू॒तये॒ मारु॑तं॒ शर्धो॒, अदि॑तिं हवामहे । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ॥1.106.01, 1.7.024.01
त आ᳚दित्या॒, आ ग॑ता स॒र्वता᳚तये भू॒त दे᳚वा वृत्र॒तूर्ये᳚षु शं॒भुवः॑ । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ॥1.106.02, 1.7.024.02
अवं᳚तु नः पि॒तरः॑ सुप्रवाच॒ना, उ॒त दे॒वी दे॒वपु॑त्रे ऋता॒वृधा᳚ । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ॥1.106.03, 1.7.024.03
नरा॒शंसं᳚ वा॒जिनं᳚ वा॒जय᳚न्नि॒ह क्ष॒यद्वी᳚रं पू॒षणं᳚ सु॒म्नैरी᳚महे । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ॥1.106.04, 1.7.024.04
बृह॑स्पते॒ सद॒मिन्नः॑ सु॒गं कृ॑धि॒ शं योर्यत्ते॒ मनु᳚र्हितं॒ तदी᳚महे । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ॥1.106.05, 1.7.024.05
इंद्रं॒ कुत्सो᳚ वृत्र॒हणं॒ शची॒पतिं᳚ का॒टे निबा᳚ळ्ह॒ ऋषि॑रह्वदू॒तये᳚ । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒, अंह॑सो॒ निष्पि॑पर्तन ॥1.106.06, 1.7.024.06
दे॒वैर्नो᳚ दे॒व्यदि॑ति॒र्नि पा᳚तु दे॒वस्त्रा॒ता त्रा᳚यता॒मप्र॑युच्छन् । तन्नो᳚ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी, उ॒त द्यौः ॥1.106.07, 1.7.024.07
92 । विजयप्रद सूक्तं
जीमूतस्येवेत्येकोनविंशत्यृचस्य सूक्तस्य भारद्वाजः पायुः आद्यानांनवानांक्रमेण वर्मधनुर्ज्या धनुष्कोटीषुधिः सारथी रश्मयोऽश्वारथोरथगोपाः दशम्याब्राह्मणपितृसोमपृथिवीपूषाणः एकादश्यादिद्वयोरिषवः त्रयोदश्याः प्रतोदः चतुर्दश्याहस्तत्राणं पंचदशीषोडश्योरिषवः सप्तदश्यायुद्धभूमिकवच ब्रह्मणस्पत्यदित्यः अष्टादश्यावर्मसोमवरुणाः अंत्यायादेवब्रह्माणित्रिष्टुप् । षष्ठीदशम्यौजगत्यौ द्वादशीत्रयोदशीपंचदशीषोळश्यंत्यानुष्टुभः सप्तदशीपंक्तिः ।(त्रयोदश्याः प्रतोदैत्यत्राश्वोदेवतेतिकेचित् । चतुर्दश्याहस्तघ्नमित्यत्रहस्तत्राणं चतुर्दश्यामितिशौनकोक्तेर्हस्तत्राणमेवयुक्तं । पराः पंक्त्यादयोलिंगोक्तदेवता इत्येवमनुक्रमण्यांसत्यामंत्ययोर्द्वयोर्विश्वेदेवा इति केचिन्मन्यंतेबहुदैवतत्वात् । पंचदश्यादिद्वयोर्विषाक्तमुखबाण इतिशौनकः)।
जी॒मूत॑स्येव भवति॒ प्रती᳚कं॒ यद् व॒र्मी याति॑ स॒मदा᳚मु॒पस्थे᳚ । अना᳚विद्धया त॒न्वा᳚ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥6.075.01, 5.1.019.01
धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो᳚ जयेम । धनुः॒ शत्रो᳚रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः᳚ प्र॒दिशो᳚ जयेम ॥6.075.02, 5.1.019.02
व॒क्ष्यंती॒वेदा ग॑नीगंति॒ कर्णं᳚ प्रि॒यं सखा᳚यं परिषस्वजा॒ना । योषे᳚व शिंक्ते॒ वित॒ताधि॒ धन्वं॒ज्या, इ॒यं सम॑ने पा॒रयं᳚ती ॥6.075.03, 5.1.019.03
ते, आ॒चरं᳚ती॒ सम॑नेव॒ योषा᳚ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे᳚ । अप॒ शत्रू᳚न् विध्यतां संविदा॒ने, आर्त्नी᳚ इ॒मे वि॑ष्फु॒रंती᳚ अ॒मित्रा᳚न् ॥6.075.04, 5.1.019.04
ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ । इ॒षु॒धिः संकाः॒ पृत॑नाश्च॒ सर्वाः᳚ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू᳚तः ॥6.075.05, 5.1.019.05
रथे॒ तिष्ठ᳚न् नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू᳚नां महि॒मानं᳚ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छंति र॒श्मयः॑ ॥6.075.06, 5.1.020.01
ती॒व्रान् घोषा᳚न् कृण्वते॒ वृष॑पाण॒यो ऽश्वा॒ रथे᳚भिः स॒ह वा॒जयं᳚तः । अ॒व॒क्रामं᳚तः॒ प्रप॑दैर॒मित्रा᳚न् क्षि॒णंति॒ शत्रूँ॒रन॑पव्ययंतः ॥6.075.07, 5.1.020.02
र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा᳚ व॒यं सु॑मन॒स्यमा᳚नाः ॥6.075.08, 5.1.020.03
स्वा॒दु॒षं॒सदः॑ पि॒तरो᳚ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती᳚वंतो गभी॒राः । चि॒त्रसे᳚ना॒, इषु॑बला॒, अमृ॑ध्राः स॒तोवी᳚रा, उ॒रवो᳚ व्रातसा॒हाः ॥6.075.09, 5.1.020.04
ब्राह्म॑णासः॒ पित॑रः॒ सोम्या᳚सः शि॒वे नो॒ द्यावा᳚पृथि॒वी, अ॑ने॒हसा᳚ । पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि᳚र्नो, अ॒घशं᳚स ईशत ॥6.075.10, 5.1.020.05
सु॒प॒र्णं व॑स्ते मृ॒गो, अ॑स्या॒ दंतो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू᳚ता । यत्रा॒ नरः॒ सं च॒ वि च॒ द्रवं᳚ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यंसन् ॥6.075.11, 5.1.021.01
ऋजी᳚ते॒ परि॑ वृङ्धि॒ नो ऽश्मा᳚ भवतु नस्त॒नूः । सोमो॒, अधि॑ ब्रवीतु॒ नो ऽदि॑तिः॒ शर्म॑ यच्छतु ॥6.075.12, 5.1.021.02
आ जं᳚घंति॒ सान्वे᳚षां ज॒घनाँ॒, उप॑ जिघ्नते । अश्वा᳚जनि॒ प्रचे᳚त॒सो ऽश्वा᳚न् त्स॒मत्सु॑ चोदय ॥6.075.13, 5.1.021.03
अहि॑रिव भो॒गैः पर्ये᳚ति बा॒हुं ज्याया᳚ हे॒तिं प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा᳚ व॒युना᳚नि वि॒द्वान् पुमा॒न् पुमां᳚सं॒ परि॑ पातु वि॒श्वतः॑ ॥6.075.14, 5.1.021.04
आला᳚क्ता॒ या रुरु॑शी॒र्ष्ण्यथो॒ यस्या॒, अयो॒ मुखं᳚ । इ॒दं प॒र्जन्य॑रेतस॒ इष्वै᳚ दे॒व्यै बृ॒हन्नमः॑ ॥6.075.15, 5.1.021.05
अव॑सृष्टा॒ परा᳚ पत॒ शर᳚व्ये॒ ब्रह्म॑संशिते । गच्छा॒मित्रा॒न् प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ॥6.075.16, 5.1.022.01
यत्र॑ बा॒णाः सं॒पतं᳚ति कुमा॒रा वि॑शि॒खा, इ॑व । तत्रा᳚ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥6.075.17, 5.1.022.02
मर्मा᳚णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्तां । उ॒रोर्वरी᳚यो॒ वरु॑णस्ते कृणोतु॒ जयं᳚तं॒ त्वानु॑ दे॒वा म॑दंतु ॥6.075.18, 5.1.022.03
यो नः॒ स्वो, अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां᳚सति । दे॒वास्तं सर्वे᳚ धूर्वंतु॒ ब्रह्म॒ वर्म॒ ममांत॑रं ॥6.075.19, 5.1.022.04
93 । राज सूक्तं
आत्वेति षडृचस्य सूक्तस्यांगिरसोध्रुवोराजानुष्टुप् ।
आ त्वा᳚हार्षमं॒तरे᳚धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा᳚ वांछंतु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥10.173.01, 8.8.031.01
इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलिः । इंद्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥10.173.02, 8.8.031.02
इ॒ममिंद्रो᳚ अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा᳚ । तस्मै॒ सोमो॒, अधि॑ ब्रव॒त्तस्मा᳚ उ॒ ब्रह्म॑ण॒स्पतिः॑ ॥10.173.03, 8.8.031.03
ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता, इ॒मे । ध्रु॒वं विश्व॑मि॒दं जग॑द् ध्रु॒वो राजा᳚ वि॒शाम॒यं ॥10.173.04, 8.8.031.04
ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ । ध्रु॒वं त॒ इंद्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा᳚रयतां ध्रु॒वं ॥10.173.05, 8.8.031.05
ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒ऽभि सोमं᳚ मृशामसि । अथो᳚ त॒ इंद्रः॒ केव॑ली॒र्विशो᳚ बलि॒हृत॑स्करत् ॥10.173.06, 8.8.031.06
अभीवर्तेनेति पंचर्चस्य सूक्तस्यांगिरसोभीवर्तो राजानुष्टुप् ।
अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेंद्रो᳚ अभिवावृ॒ते । तेना॒स्मान् ब्र᳚ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ॥10.174.01, 8.8.032.01
अ॒भि॒वृत्य॑ स॒पत्ना᳚न॒भि या नो॒, अरा᳚तयः । अ॒भि पृ॑त॒न्यंतं᳚ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ॥10.174.02, 8.8.032.02
अ॒भि त्वा᳚ दे॒वः स॑वि॒ताभि सोमो᳚ अवीवृतत् । अ॒भि त्वा॒ विश्वा᳚ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥10.174.03, 8.8.032.03
येनेंद्रो᳚ ह॒विषा᳚ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः । इ॒दं तद॑क्रि देवा, असप॒त्नः किला᳚भुवं ॥10.174.04, 8.8.032.04
अ॒स॒प॒त्नः स॑पत्न॒हाभिरा᳚ष्ट्रो विषास॒हिः । यथा॒हमे᳚षां भू॒तानां᳚ वि॒राजा᳚नि॒ जन॑स्य च ॥10.174.05, 8.8.032.05
94 । रति सूक्तं
पूर्वीरमिति षडृचस्य सूक्तस्य मैत्रावरुणिरगस्त्यः आद्ययोर्द्वयोर्लोपामुद्राऋषिका अंत्ययोर्द्वयोरगस्त्यांतेवासीब्रह्मचारीऋषिः सर्वासांरतिर्देवता त्रिष्टुप् पंचमी बृहती ।
पू॒र्वीर॒हं श॒रदः॑ शश्रमा॒णा दो॒षा वस्तो᳚रु॒षसो᳚ ज॒रयं᳚तीः । मि॒नाति॒ श्रियं᳚ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥1.179.01, 2.4.022.01
ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस᳚न् त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ । ते चि॒दवा᳚सुर्न॒ह्यंत॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥1.179.02, 2.4.022.02
न मृषा᳚ श्रां॒तं यदवं᳚ति दे॒वा विश्वा॒, इत् स्पृधो᳚ अ॒भ्य॑श्नवाव । जया॒वेदत्र॑ श॒तनी᳚थमा॒जिं यत् स॒म्यंचा᳚ मिथु॒नाव॒भ्यजा᳚व ॥1.179.03, 2.4.022.03
न॒दस्य॑ मा रुध॒तः काम॒ आग᳚न्नि॒त आजा᳚तो, अ॒मुतः॒ कुत॑श्चित् । लोपा᳚मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी᳚रा धयति श्व॒संतं᳚ ॥1.179.04, 2.4.022.04
इ॒मं नु सोम॒मंति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे । यत् सी॒माग॑श्चकृ॒मा तत् सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्यः॑ ॥1.179.05, 2.4.022.05
अ॒गस्त्यः॒ खन॑मानः ख॒नित्रैः᳚ प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा᳚नः । उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो᳚ जगाम ॥1.179.06, 2.4.022.06
95 । यमयमी सूक्तं
ओचिदिति चतुर्दशर्चस्य सूक्तस्य नवमी वर्ज्यानामयुजां षष्ठ्याश्च वैवस्वतीयमी ऋषिका यमोदेवता षष्ठीवर्ज्यानांयुजां नवम्याश्च वैवस्वतोयमीत्रिष्टुप् ।
ओ चि॒त्सखा᳚यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् । पि॒तुर्नपा᳚त॒मा द॑धीत वे॒धा, अधि॒ क्षमि॑ प्रत॒रं दीध्या᳚नः ॥10.010.01, 7.6.6.1
न ते॒ सखा᳚ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा᳚ति । म॒हस्पु॒त्रासो॒, असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ॥10.010.02, 7.6.6.2
उ॒शंति॑ घा॒ ते, अ॒मृता᳚स ए॒तदेक॑स्य चित् त्य॒जसं॒ मर्त्य॑स्य । नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्युः॒ पति॑स्त॒न्व१॑(अ॒)मा वि॑विश्याः ॥10.010.03, 7.6.6.3
न यत्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒ता वदं᳚तो॒, अनृ॑तं रपेम । गं॒ध॒र्वो, अ॒प्स्वप्या᳚ च॒ योषा॒ सा नो॒ नाभिः॑ पर॒मं जा॒मि तन्नौ᳚ ॥10.010.04, 7.6.6.4
गर्भे॒ नु नौ᳚ जनि॒ता दंप॑ती कर्दे॒वस्त्वष्टा᳚ सवि॒ता वि॒श्वरू᳚पः । नकि॑रस्य॒ प्र मि॑नंति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी, उ॒त द्यौः ॥10.010.05, 7.6.6.5
को, अ॒स्य वे᳚द प्रथ॒मस्याह्नः॒ क ईं᳚ ददर्श॒ क इ॒ह प्र वो᳚चत् । बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ॥10.010.06, 7.6.7.1
य॒मस्य॑ मा य॒म्य१॑(अं॒) काम॒ आग᳚न् त्समा॒ने योनौ᳚ सह॒शेय्या᳚य । जा॒येव॒ पत्ये᳚ त॒न्वं᳚ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये᳚व च॒क्रा ॥10.010.07, 7.6.7.2
न ति॑ष्ठंति॒ न नि मि॑षंत्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये चरं᳚ति । अ॒न्येन॒ मदा᳚हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये᳚व च॒क्रा ॥10.010.08, 7.6.7.3
रात्री᳚भिरस्मा॒, अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् । दि॒वा पृ॑थि॒व्या मि॑थु॒ना सबं᳚धू य॒मीर्य॒मस्य॑ बिभृया॒दजा᳚मि ॥10.010.09, 7.6.7.4
आ घा॒ ता ग॑च्छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मयः॑ कृ॒णव॒न्नजा᳚मि । उप॑ बर्बृहि वृष॒भाय॑ बा॒हुम॒न्यमि॑च्छस्व सुभगे॒ पतिं॒ मत् ॥10.010.10, 7.6.7.5
किं भ्राता᳚स॒द्यद॑ना॒थं भवा᳚ति॒ किमु॒ स्वसा॒ यन्निरृ॑तिर्नि॒गच्छा᳚त् । काम॑मूता ब॒ह्वे॒3॑(ए॒)तद्र॑पामि त॒न्वा᳚ मे त॒न्व१॑(अं॒) सं पि॑पृग्धि ॥10.010.11, 7.6.8.1
न वा, उ॑ ते त॒न्वा᳚ त॒न्व१॑(अं॒) सं प॑पृच्यां पा॒पमा᳚हु॒र्यः स्वसा᳚रं नि॒गच्छा᳚त् । अ॒न्येन॒ मत्प्र॒मुदः॑ कल्पयस्व॒ न ते॒ भ्राता᳚ सुभगे वष्ट्ये॒तत् ॥10.010.12, 7.6.8.2
ब॒तो ब॑तासि यम॒ नैव ते॒ मनो॒ हृद॑यं चाविदाम । अ॒न्या किल॒ त्वां क॒क्ष्ये᳚व यु॒क्तं परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षं ॥10.010.13, 7.6.8.3
अ॒न्यमू॒ षु त्वं य᳚म्य॒न्य उ॒ त्वां परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षं । तस्य॑ वा॒ त्वं मन॑ इ॒च्छा स वा॒ तवाधा᳚ कृणुष्व सं॒विदं॒ सुभ॑द्रां ॥10.010.14, 7.6.8.4
96 । तंतुवेष्टन सूक्तं
परि त्वा गिर्वण इत्यस्य वैश्वामित्रो मधुच्छंदाः इंद्रोनुष्टुप्, दशावनिभ्य इति चतुर्चस्य काद्रवेयोर्बुदः सर्पः ग्रावाणः प्रथमा त्रिष्टुप् अन्या जगत्यः, सुते अध्वर् इत्यस्य काद्रवेयोर्बुदः सर्पः ग्रावाणः त्रिष्टुप् ॥
परि॑ त्वा गिर्वणो॒ गिर॑इ॒मा भ॑वंतु वि॒श्वतः॑ । वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा᳚ भवंतु॒ जुष्ट॑यः ॥1.010.12, 1.1.020.06
दशा᳚वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः । दशा᳚भीशुभ्यो, अर्चता॒जरे᳚भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ॥10.094.07, 8.4.030.02
ते, अद्र॑यो॒ दश॑यंत्रास आ॒शव॒स्तेषा᳚मा॒धानं॒ पर्ये᳚ति हर्य॒तं । त ऊ᳚ सु॒तस्य॑ सो॒म्यस्यांध॑सों॒ऽशोः पी॒यूषं᳚ प्रथ॒मस्य॑ भेजिरे ॥10.094.08, 8.4.030.03
ते सो॒मादो॒ हरी॒, इंद्र॑स्य निंसतें॒ऽशुं दु॒हंतो॒, अध्या᳚सते॒ गवि॑ । तेभि॑र्दु॒ग्धं प॑पि॒वान् त्सो॒म्यं मध्विंद्रो᳚ वर्धते॒ प्रथ॑ते वृषा॒यते᳚ ॥10.094.09, 8.4.030.04
वृषा᳚ वो, अं॒शुर्न किला᳚ रिषाथ॒नेळा᳚वंतः॒ सद॒मित् स्थ॒नाशि॑ताः । रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒, अजु॑षध्वमध्व॒रं ॥10.094.10, 8.4.030.05
सु॒ते, अ॑ध्व॒रे, अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं᳚ तु॒दंतः॑ । वि षू मुं᳚चा सुषु॒वुषो᳚ मनी॒षां वि व॑र्तंता॒मद्र॑य॒श्चाय॑मानाः ॥10.094.14, 8.4.031.04
97 । सूर्यवैश्वानर सूक्तं
हनिष्पांतमित्येकोन विंशत्यृचस्य सूक्तस्यांगिरसोमूर्धन्वान्सूर्यवैश्वानरौत्रिष्टुप् । (मरीचिः हविष्पांतद्विदैवत्यं सौर्यवैश्वानरी यकमितिद्वेदेवतेअत्र । तेनसूर्यवैश्वानरैत्यग्नेर्गुणैतिवदंतः परास्ताः ) ।
ह॒विष्पांत॑म॒जरं᳚ स्व॒र्विदि॑ दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ । तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा धर्म॑णे॒ कं स्व॒धया᳚ पप्रथंत ॥10.088.01, 8.4.010.01
गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते, अ॒ग्नौ । तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये, अ॑स्य ॥10.088.02, 8.4.010.02
दे॒वेभि॒र्न् वि॑षि॒तो य॒ज्ञिये᳚भिर॒ग्निं स्तो᳚षाण्य॒जरं᳚ बृ॒हंतं᳚ । यो भा॒नुना᳚ पृथि॒वीं द्यामु॒तेमामा᳚त॒तान॒ रोद॑सी, अं॒तरि॑क्षं ॥10.088.03, 8.4.010.03
यो होतासी᳚त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒मांज॒न्नाज्ये᳚ना वृणा॒नाः । स प॑त॒त्री᳚त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे᳚दाः ॥10.088.04, 8.4.010.04
यज्जा᳚तवेदो॒ भुव॑नस्य मू॒र्धन्नति॑ष्ठो, अग्ने स॒ह रो᳚च॒नेन॑ । तं त्वा᳚हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो᳚ अभवो रोदसि॒प्राः ॥10.088.05, 8.4.010.05
मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्ततः॒ सूर्यो᳚ जायते प्रा॒तरु॒द्यन् । मा॒यामू॒ तु य॒ज्ञिया᳚नामे॒तामपो॒ यत् तूर्णि॒श्चर॑ति प्रजा॒नन् ॥10.088.06, 8.4.011.01
दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धोऽरो᳚चत दि॒वियो᳚निर्वि॒भावा᳚ । तस्मि᳚न्न॒ग्नौ सू᳚क्तवा॒केन॑ दे॒वा ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ॥10.088.07, 8.4.011.02
सू॒क्त॒वा॒कं प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयंत दे॒वाः । स ए᳚षां य॒ज्ञो, अ॑भवत्तनू॒पास्तं द्यौर्वे᳚द॒ तं पृ॑थि॒वी तमापः॑ ॥10.088.08, 8.4.011.03
यं दे॒वासोऽज॑नयंता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा᳚ । सो, अ॒र्चिषा᳚ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा᳚नो, अतपन्महि॒त्वा ॥10.088.09, 8.4.011.04
स्तोमे᳚न॒ हि दि॒वि दे॒वासो᳚ अ॒ग्निमजी᳚जनं॒छक्ति॑भी रोदसि॒प्रां । तमू᳚ अकृण्वंत्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू᳚पाः ॥10.088.10, 8.4.011.05
य॒देदे᳚न॒मद॑धुर्य॒ज्ञिया᳚सो दि॒वि दे॒वाः सूर्य॑मादिते॒यं । य॒दा च॑रि॒ष्णू मि॑थु॒नावभू᳚ता॒मादित्प्राप॑श्य॒न् भुव॑नानि॒ विश्वा᳚ ॥10.088.11, 8.4.012.01
विश्व॑स्मा, अ॒ग्निं भुव॑नाय दे॒वा वै᳚श्वान॒रं के॒तुमह्ना᳚मकृण्वन् । आ यस्त॒तानो॒षसो᳚ विभा॒तीरपो᳚ ऊर्णोति॒ तमो᳚ अ॒र्चिषा॒ यन् ॥10.088.12, 8.4.012.02
वै॒श्वा॒न॒रं क॒वयो᳚ य॒ज्ञिया᳚सो॒ऽग्निं दे॒वा, अ॑जनयन्नजु॒र्यं । नक्ष॑त्रं प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हंतं᳚ ॥10.088.13, 8.4.012.03
वै॒श्वा॒न॒रं वि॒श्वहा᳚ दीदि॒वांसं॒ मंत्रै᳚र॒ग्निं क॒विमच्छा᳚ वदामः । यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी, उ॒तावस्ता᳚दु॒त दे॒वः प॒रस्ता᳚त् ॥10.088.14, 8.4.012.04
द्वे स्रु॒ती, अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना᳚मु॒त मर्त्या᳚नां । ताभ्या᳚मि॒दं विश्व॒मेज॒त्समे᳚ति॒ यदं᳚त॒रा पि॒तरं᳚ मा॒तरं᳚ च ॥10.088.15, 8.4.012.05
द्वे स॑मी॒ची बि॑भृत॒श्चरं᳚तं शीर्ष॒तो जा॒तं मन॑सा॒ विमृ॑ष्टं । स प्र॒त्यङ्विश्वा॒ भुव॑नानि तस्था॒वप्र॑युच्छंत॒रणि॒र्भ्राज॑मानः ॥10.088.16, 8.4.013.01
यत्रा॒ वदे᳚ते॒, अव॑रः॒ पर॑श्च यज्ञ॒न्योः᳚ कत॒रो नौ॒ वि वे᳚द । आ शे᳚कु॒रित्स॑ध॒मादं॒ सखा᳚यो॒ नक्षं᳚त य॒ज्ञं क इ॒दं वि वो᳚चत् ॥10.088.17, 8.4.013.02
कत्य॒ग्नयः॒ कति॒ सूर्या᳚सः॒ कत्यु॒षासः॒ कत्यु॑ स्वि॒दापः॑ । नोप॒स्पिजं᳚ वः पितरो वदामि पृ॒च्छामि॑ वः कवयो वि॒द्मने॒ कं ॥10.088.18, 8.4.013.03
या॒व॒न्मा॒त्रमु॒षसो॒ न प्रती᳚कं सुप॒र्ण्यो॒3॑(ओ॒) वस॑ते मातरिश्वः । ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन् ब्रा᳚ह्म॒णो होतु॒रव॑रो नि॒षीद᳚न् ॥10.088.19, 8.4.013.04
98 । वसूरुद्रा पुरुमंतू इति सूक्तं
वसूरुद्राइति षडृचस्य सूक्तस्यौचथ्योदीर्घतमाअश्विनौत्रिष्टुबंत्यानुष्टुप् ।
वसू᳚ रु॒द्रा पु॑रु॒मंतू᳚ वृ॒धंता᳚ दश॒स्यतं᳚ नो वृषणाव॒भिष्टौ᳚ । दस्रा᳚ ह॒ यद् रेक्ण॑ औच॒थ्यो वां॒ प्र यत् स॒स्राथे॒, अक॑वाभिरू॒ती ॥1.158.01, 2.3.1.1
को वां᳚ दाशत् सुम॒तये᳚ चिद॒स्यै वसू॒ यद् धेथे॒ नम॑सा प॒दे गोः । जि॒गृ॒तम॒स्मे रे॒वतीः॒ पुरं᳚धीः काम॒प्रेणे᳚व॒ मन॑सा॒ चरं᳚ता ॥1.158.02, 2.3.1.2
यु॒क्तो ह॒ यद् वां᳚ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒, अर्ण॑सो॒ धायि॑ प॒ज्रः । उप॑ वा॒मवः॑ शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवैः᳚ ॥1.158.03, 2.3.1.3
उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धां । मा मामेधो॒ दश॑तयश्चि॒तो धा॒क् प्र यद् वां᳚ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षां ॥1.158.04, 2.3.1.4
न मा᳚ गरन् न॒द्यो᳚ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधुः॑ । शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त् स्व॒यं दा॒स उरो॒, अंसा॒वपि॑ ग्ध ॥1.158.05, 2.3.1.5
दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वान् द॑श॒मे यु॒गे । अ॒पामर्थं᳚ य॒तीनां᳚ ब्र॒ह्मा भ॑वति॒ सार॑थिः ॥1.158.06, 2.3.1.6
99 । पवित्रं ते इति सूक्तं
पवित्रंतैति पंचर्चस्य सूक्तस्यांगिरसः पवित्रः पवमानसोमोजगती ।
प॒वित्रं᳚ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा᳚णि॒ पर्ये᳚षि वि॒श्वतः॑ । अत॑प्ततनू॒र्न तदा॒मो, अ॑श्नुते शृ॒तास॒ इद्वहं᳚त॒स्तत्समा᳚शत ॥9.083.01, 7.3.8.1
तपो᳚ष्प॒वित्रं॒ वित॑तं दि॒वस्प॒दे शोचं᳚तो, अस्य॒ तंत॑वो॒ व्य॑स्थिरन् । अवं᳚त्यस्य पवी॒तार॑मा॒शवो᳚ दि॒वस्पृ॒ष्ठमधि॑ तिष्ठंति॒ चेत॑सा ॥9.083.02, 7.3.8.2
अरू᳚रुचदु॒षसः॒ पृश्नि॑रग्रि॒य उ॒क्षा बि॑भर्ति॒ भुव॑नानि वाज॒युः । मा॒या॒विनो᳚ ममिरे, अस्य मा॒यया᳚ नृ॒चक्ष॑सः पि॒तरो॒ गर्भ॒मा द॑धुः ॥9.083.03, 7.3.8.3
गं॒ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः । गृ॒भ्णाति॑ रि॒पुं नि॒धया᳚ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा᳚शत ॥9.083.04, 7.3.8.4
ह॒विर्ह॑विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा᳚नः॒ परि॑ यास्यध्व॒रं । राजा᳚ प॒वित्र॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टिर्जयसि॒ श्रवो᳚ बृ॒हत् ॥9.083.05, 7.3.8.5
100 । उतदेवा अवहितमिति सूक्तं
उतेति सप्तर्चस्य सूक्तस्य भरद्वाजः कश्यपोगौतमोत्रिर्विश्वामित्रोजमदग्निर्वसिष्ठ इतिक्रमेणैकर्चाऋषयो विश्वेदेवा अनुष्टुप् (भेदपक्षेदेवाः 1 वातः 3 विश्वेदेवाः 1 आपः 2 एवं 7) ।
उ॒त दे᳚वा॒, अव॑हितं॒ देवा॒, उन्न॑यथा॒ पुनः॑ । उ॒ताग॑श्च॒क्रुषं᳚ देवा॒ देवा᳚ जी॒वय॑था॒ पुनः॑ ॥10.137.01, 8.7.025.01
द्वावि॒मौ वातौ᳚ वात॒ आ सिंधो॒रा प॑रा॒वतः॑ । दक्षं᳚ ते, अ॒न्य आ वा᳚तु॒ परा॒न्यो वा᳚तु॒ यद्रपः॑ ॥10.137.02, 8.7.025.02
आ वा᳚त वाहि भेष॒जं वि वा᳚त वाहि॒ यद्रपः॑ । त्वं हि वि॒श्वभे᳚षजो दे॒वानां᳚ दू॒त ईय॑से ॥10.137.03, 8.7.025.03
आ त्वा᳚गमं॒ शंता᳚तिभि॒रथो᳚ अरि॒ष्टता᳚तिभिः । दक्षं᳚ ते भ॒द्रमाभा᳚र्षं॒ परा॒ यक्ष्मं᳚ सुवामि ते ॥10.137.04, 8.7.025.04
त्रायं᳚तामि॒ह दे॒वास्त्राय॑तां म॒रुतां᳚ ग॒णः । त्रायं᳚तां॒ विश्वा᳚ भू॒तानि॒ यथा॒यम॑र॒पा, अस॑त् ॥10.137.05, 8.7.025.05
आप॒ इद्वा, उ॑ भेष॒जीरापो᳚ अमीव॒चात॑नीः । आपः॒ सर्व॑स्य भेष॒जीस्तास्ते᳚ कृण्वंतु भेष॒जं ॥10.137.06, 8.7.025.06
हस्ता᳚भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी । अ॒ना॒म॒यि॒त्नुभ्यां᳚ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ॥10.137.07, 8.7.025.07
101 । नक्षत्र सूक्तं (नक्षत्रदेवतामंत्राः)
[1] अश्विनी
सत्यमिद्वा इति द्व्यर्चस्य आत्रेयः पौरः अश्विनौ अनुष्टुप्
स॒त्यमिद् वा, उ॑ अश्विना यु॒वामा᳚हुर्मयो॒भुवा᳚ । ता याम᳚न् याम॒हूत॑मा॒ याम॒न्ना मृ॑ळ॒यत्त॑मा ॥5.073.09, 4.4.012.04
इ॒मा ब्रह्मा᳚णि॒ वर्ध॑ना॒ ऽश्विभ्यां᳚ संतु॒ शंत॑मा । या तक्षा᳚म॒ रथाँ᳚, इ॒वाऽवो᳚चाम बृ॒हन्नमः॑ ॥5.073.10, 4.4.012.05
अश्पिना वर्तिरित्यस्य रहूगणो गोतमः अश्विनौ उष्णिक् ॥
अश्वि॑ना व॒र्तिर॒स्मदा गोम॑द्दस्रा॒ हिर᳚ण्यवत् । अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं ॥1.092.16, 1.6.027.01
[2] भरणी
यमाय घृतवदिति द्व्यर्चस्य वैवस्वतो यमः यमः प्रथमानुष्टुप् द्वितीया बृहती ॥
य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत । स नो᳚ दे॒वेष्वा य॑मद्दी॒र्घमायुः॒ प्र जी॒वसे᳚ ॥10.014.14, 7.6.016.04
य॒माय॒ मधु॑मत्तमं॒ राज्ञे᳚ ह॒व्यं जु॑होतन । इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे᳚भ्यः पथि॒कृद्भ्यः॑ ॥10.014.15, 7.6.016.05
यमाय सोममित्वस्य वैवस्वतो यमः यमोनुष्टुप् ॥
य॒माय॒ सोमं᳚ सुनुत य॒माय॑ जुहुता ह॒विः । य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू᳚तो॒, अरं᳚कृतः ॥10.014.13, 7.6.016.03
[3] कृत्तिका
उत नो ब्रह्मन्निति द्व्यर्चस्य वैश्वामित्र वर्षभः अग्निरनुष्टुप्
उ॒त नो॒ ब्रह्म᳚न्नविष उ॒क्थेषु॑ देव॒हूत॑मः । शं नः॑ शोचा म॒रुद्वृ॒धोऽग्ने᳚ सहस्र॒सात॑मः ॥3.013.06, 3.1.013.06
नू नो᳚ रास्व स॒हस्र॑वत् तो॒कव॑त् पुष्टि॒मद् वसु॑ । द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितं ॥3.013.07, 3.1.013.07
अग्निस्तुविश्रवस्तममित्वस्य आत्रेयो वसूयुः अग्निरनुष्टुप्
अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र᳚ह्माणमुत्त॒मं । अ॒तूर्तं᳚ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे᳚ ॥5.025.05, 4.1.017.05
[4] रोहिणी
स इत्क्षेतीति द्व्यर्चस्य गौतमो वामदेवः बृहस्पतिस्त्रिष्टुप्, प्रजापते न त्वदेतान्यन्य इत्वस्य प्राजापत्यो हिरण्यगर्भः प्रजापतिस्त्रिष्टुप् ॥
स इत् क्षे᳚ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒, इळा᳚ पिन्वते विश्व॒दानीं᳚ । तस्मै॒ विशः॑ स्व॒यमे॒वा न॑मंते॒ यस्मि᳚न् ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ॥4.050.08, 3.7.027.03
अप्र॑तीतो जयति॒ सं धना᳚नि॒ प्रति॑जन्यान्यु॒त या सज᳚न्या । अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वंति दे॒वाः ॥4.050.09, 3.7.027.04
प्रजा᳚पते॒ न त्वदे॒तान्य॒न्यो विश्वा᳚ जा॒तानि॒ परि॒ ता ब॑भूव । यत् का᳚मास्ते जुहु॒मस्तन्नो᳚ अस्तु व॒यं स्या᳚म॒ पत॑यो रयी॒णां ॥10.121.10, 8.7.4.5
[5] मृगशिर
या ते धामानीति द्व्यर्चस्य रहूगणो गोतमः सोमस्त्रिष्टुप् ॥
या ते॒ धामा᳚नि ह॒विषा॒ यजं᳚ति॒ ता ते॒ विश्वा᳚ परि॒भूर॑स्तु य॒ज्ञं । ग॒य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी᳚रहा॒ प्र च॑रा सोम॒ दुर्या᳚न् ॥1.091.19, 1.6.022.04
सोमो᳚ धे॒नुं सोमो॒, अर्वं᳚तमा॒शुं सोमो᳚ वी॒रं क᳚र्म॒ण्यं᳚ ददाति । सा॒द॒न्यं᳚ विद॒थ्यं᳚ स॒भेयं᳚ पितृ॒श्रव॑णं॒ यो ददा᳚शदस्मै ॥1.091.20, 1.6.022.05
[6] आर्द्रा
इमा रुद्रायेति द्व्यर्चस्य आंगिरसः कुत्सः रुद्रो जगती ॥
इ॒मा रु॒द्राय॑ त॒वसे᳚ कप॒र्दिने᳚ क्ष॒यद्वी᳚राय॒ प्र भ॑रामहे म॒तीः । यथा॒ शमस॑द् द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं᳚ पु॒ष्टं ग्रामे᳚ अ॒स्मिन्न॑नातु॒रं ॥1.114.01, 1.8.5.1
मृ॒ळा नो᳚ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी᳚राय॒ नम॑सा विधेम ते । यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी᳚तिषु ॥1.114.02, 1.8.5.2
[7] पुनर्वसू
भूर्जज्ञ इति द्व्यर्चस्य लौक्यो बृहस्पतिः देवा अनुष्टुप्, अदितिर्नो दिवेत्यस्य काण्व इरिंबिठिः अदितिरुष्णिक् ॥
भूर्ज॑ज्ञ उत्ता॒नप॑दो भु॒व आशा᳚ अजायंत । अदि॑ते॒र्दक्षो᳚ अजायत॒ दक्षा॒द्वदि॑तिः॒ परि॑ ॥10.072.04, 8.3.1.4
अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ । तां दे॒वा, अन्व॑जायंत भ॒द्रा, अ॒मृत॑बंधवः ॥10.072.05, 8.3.1.5
अदि॑तिर्नो॒ दिवा᳚ प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः । अदि॑तिः पा॒त्वंह॑सः स॒दावृ॑धा ॥8.018.06, 6.1.026.01
[8] पुष्यमि
एवा पित्रे इति द्व्यर्चस्य गौतमो वामदेवः बृहस्पतिस्त्रिष्टुप्, बृहस्पते अति यदर्य इत्वस्य शौनको गृत्समदः बृहस्पतिस्त्रिष्टुप् ॥
ए॒वा पि॒त्रे वि॒श्वदे᳚वाय॒ वृष्णे᳚ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ । बृह॑स्पते सुप्र॒जा वी॒रवं᳚तो व॒यं स्या᳚म॒ पत॑यो रयी॒णां ॥4.050.06, 3.7.027.01
स इद् राजा॒ प्रति॑जन्यानि॒ विश्वा॒ शुष्मे᳚ण तस्थाव॒भि वी॒र्ये᳚ण । बृह॒स्पतिं॒ यः सुभृ॑तं बि॒भर्ति॑ वल्गू॒यति॒ वंद॑ते पूर्व॒भाजं᳚ ॥4.050.07, 3.7.027.02
बृह॑स्पते॒, अति॒ यद॒र्यो, अर्हा᳚द् द्यु॒मद् वि॒भाति॒ क्रतु॑म॒ज्जने᳚षु । यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रं ॥2.023.15, 2.6.031.05
[9] आश्लेषा
स्वप्न स्वप्नाधिकरणे इत्यस्य स्वप्नसूक्तस्य अगस्त्यः सर्पराज्ञी वा ऋषिः निद्रा देवता अनुष्टुप् छंदः, काळिको नामेत्यस्य सर्पसूक्तस्य कश्यपो ऋषिः नागा देवता अनुष्टुप् छंदः ॥
स्व॒प्न स्व॒प्नाधि॒कर॑णे॒ सर्व॒.न्निष्वा॑पया॒ जन॑म्। आ सूर्य॑ म॒न्या.न्त्स्वा॒पया॒ व्यु॑1(उ॒)ष.ञ्जा॑ग्रिया । म॒हम्॥
का॒ळि॒को ना॑म स॒र्पो॒ न॒वना॑ग । स॒हस्र॑बलः। य॒मु॒न॒ह्र॒दे ह॑ सो जा॒तो॒3(ओ॒) यो ना॑रायण॒वाह॑नः॥
नमो अस्तु सर्पेभ्य इत्यस्य सर्पसूक्तस्य कश्यपः सर्पराज्ञी वा ऋषिः सर्पा देवता अनुष्टुप् छंदः ॥
नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वी । मनु॑। ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्य॑ । स्स॒र्पेभ्यो॒ नमः॑॥
[10] मघा
त्वमग्न ईळित इति द्व्यर्चस्य यामायनः शंखः पितरो देवता त्रिष्टुप् छंदः ॥
त्वम॑ग्न ईळि॒तो जा᳚तवे॒दोऽवा᳚ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी । प्रादाः᳚ पि॒तृभ्यः॑ स्व॒धया॒ ते, अ॑क्षन्न॒द्धि त्वं दे᳚व॒ प्रय॑ता ह॒वींषि॑ ॥10.015.12, 7.6.019.02
ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ, उ॑ च॒ न प्र॑वि॒द्म । त्वं वे᳚त्थ॒ यति॒ ते जा᳚तवेदः स्व॒धाभि᳚र्य॒ज्ञं सुकृ॑तं जुषस्व ॥10.015.13, 7.6.019.03
आहं पितॄन् इत्यस्य यामायनः शंखः पितरो देवता त्रिष्टुप् छंदः ॥
आहं पि॒तॄन् त्सु॑वि॒दत्राँ᳚, अवित्सि॒ नपा᳚तं च वि॒क्रम॑णं च॒ विष्णोः᳚ । ब॒र्हि॒षदो॒ ये स्व॒धया᳚ सु॒तस्य॒ भजं᳚त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥10.015.03, 7.6.017.03
[11] पूर्व फल्गुनी
उतेदानीं भगवंत इति द्व्यर्चस्य मैत्रावरुणिर्वसिष्ठः भगो देवता त्रिष्टुप् छंदः ॥
उ॒तेदानीं॒ भग॑वंतः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒, अह्नां᳚ । उ॒तोदि॑ता मघव॒न् त्सूर्य॑स्य व॒यं दे॒वानां᳚ सुम॒तौ स्या᳚म ॥7.041.04, 5.4.8.4
भग॑ ए॒व भग॑वाँ, अस्तु देवा॒स्तेन॑ व॒यं भग॑वंतः स्याम । तं त्वा᳚ भग॒ सर्व॒ इज्जो᳚हवीति॒ स नो᳚ भग पुरए॒ता भ॑वे॒ह ॥7.041.05, 5.4.8.5
अर्यमा नो अदितिरित्यस्य वैश्वामित्रो प्रजापतिः विश्वेदेवा देवता त्रिष्टुप् छंदः ॥
अ॒र्य॒मा णो॒, अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ । यु॒योत॑ नो, अनप॒त्यानि॒ गंतोः᳚ प्र॒जावा᳚न् नः पशु॒माँ, अ॑स्तु गा॒तुः ॥3.054.18, 3.3.027.03
[12] उत्तरफल्गूनी
त्वमग्ने वरुणो जायसे इति द्व्यर्चस्य आत्रेयो वसुश्रुतः अग्निर्देवता प्रथमा विराट् द्वितीया त्रिष्टुप् छंदः ॥
त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत् त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः । त्वे विश्वे᳚ सहसस्पुत्र दे॒वास्त्वमिंद्रो᳚ दा॒शुषे॒ मर्त्या᳚य ॥5.003.01, 3.8.016.01
त्वम᳚र्य॒मा भ॑वसि॒ यत् क॒नीनां॒ नाम॑ स्वधाव॒न् गुह्यं᳚ बिभर्षि । अं॒जंति॑ मि॒त्रं सुधि॑तं॒ न गोभि॒र्यद् दंप॑ती॒ सम॑नसा कृ॒णोषि॑ ॥5.003.02, 3.8.016.02
[13] हस्त
शं नो भव चक्षसेति द्व्यर्चस्य सौर्योभितपाः सूर्यो देवता प्रथमा त्रिष्टुप् द्वितीया जगती छंदः ॥
शं नो᳚ भव॒ चक्ष॑सा॒ शं नो॒, अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ । यथा॒ शमध्वं॒छमस॑द्दुरो॒णे तत् सू᳚र्य॒ द्रवि॑णं धेहि चि॒त्रं ॥10.037.10, 7.8.013.04
अ॒स्माकं᳚ देवा, उ॒भया᳚य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे । अ॒दत् पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ॥10.037.11, 7.8.013.05
उदु त्यं जातवेदसमित्वस्य काण्वः प्रस्कण्वः सूर्यो देवता गायत्री छंदः ॥
उदु॒ त्यं जा॒तवे᳚दसं दे॒वं व॑हंति के॒तवः॑ । दृ॒शे विश्वा᳚य॒ सूर्यं᳚ ॥1.050.01, 1.4.7.1
[14] चित्त
प्रति नः स्तोममिति द्व्यर्चस्य मैत्रावरुणिर्वसिष्ठः विश्वेदेवा देवता त्रिष्टुप्, चित्रं देवानामित्वस्य आंगिरसः कुत्सः सूर्यो देवता त्रिष्टुप् छंदः ॥
प्रति॑ नः॒ स्तोमं॒ त्वष्टा᳚ जुषेत॒ स्याद॒स्मे, अ॒रम॑तिर्वसू॒युः ॥7.034.21, 5.3.027.01
ता नो᳚ रासन् राति॒षाचो॒ वसू॒न्या रोद॑सी वरुणा॒नी शृ॑णोतु । वरू᳚त्रीभिः सुशर॒णो नो᳚ अस्तु॒ त्वष्टा᳚ सु॒दत्रो॒ वि द॑धातु॒ रायः॑ ॥7.034.22, 5.3.027.02
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी᳚कं॒ चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा᳚पृथि॒वी, अं॒तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥1.115.01, 1.8.7.1
[15] स्वाती
वायो शुक्रो अयामि ते इत्वस्य गौतमो वामदेवः वायुरनुष्टुप्, इंद्रश्च वायवेषामित्यस्य गौतमो वामदेवः इंद्रवायू अनुष्टुप्, वायवा याहि दर्शतेत्यस्य वैश्वामित्रो मधुच्छंदाः वायुर्गायत्री छंदः ॥
वायो᳚ शु॒क्रो, अ॑यामि ते॒ मध्वो॒, अग्रं॒ दिवि॑ष्टिषु । आ या᳚हि॒ सोम॑पीतये स्पा॒र्हो दे᳚व नि॒युत्व॑ता ॥4.047.01, 3.7.023.01
इंद्र॑श्च वायवेषां॒ सोमा᳚नां पी॒तिम᳚र्हथः । यु॒वां हि यंतींद॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥4.047.02, 3.7.023.02
वाय॒वा या᳚हि दर्शते॒मे सोमा॒, अरं᳚कृताः । तेषां᳚ पाहि श्रु॒धी हवं᳚ ॥1.002.01, 1.1.3.1
[16] विशाखा
इंद्राग्नी अपादियमिति द्व्यर्चस्य बार्हस्पत्यो भरद्वाजः इंद्राग्नी प्रथमा बृहती द्वितीया अनुष्टुप्, इंद्राग्नी आ गतं सुतमित्वस्य गाथिनो विश्वामित्रः इंद्राग्नी गायत्री छंदः ॥
इंद्रा᳚ग्नी, अ॒पादि॒यं पूर्वागा᳚त् प॒द्वती᳚भ्यः । हि॒त्वी शिरो᳚ जि॒ह्वया॒ वाव॑द॒च्चर॑त् त्रिं॒शत् प॒दा न्य॑क्रमीत् ॥6.059.06, 4.8.026.01
इंद्रा᳚ग्नी॒, आ हि त᳚न्व॒ते नरो॒ धन्वा᳚नि बा॒ह्वोः । मा नो᳚ अ॒स्मिन् म॑हाध॒ने परा᳚ वर्क्तं॒ गवि॑ष्टिषु ॥6.059.07, 4.8.026.02
इंद्रा᳚ग्नी॒, आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे᳚ण्यं । अ॒स्य पा᳚तं धि॒येषि॒ता ॥3.012.01, 3.1.011.01
[17] अनूराधा
अयं मत्रो नमस्य इति द्व्यर्चस्य गाथिनो विश्वामित्रः मित्रस्त्रिष्टुप्, मित्रो जनान् यातयतीत्यस्य गाथिनो विश्वामित्रः मित्रस्त्रिष्टुप् छंदः ॥
अ॒यं मि॒त्रो न॑म॒स्यः॑ सु॒शेवो॒ राजा᳚ सुक्ष॒त्रो, अ॑जनिष्ट वे॒धाः । तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म ॥3.059.04, 3.4.5.4
म॒हाँ, आ᳚दि॒त्यो नम॑सोप॒सद्यो᳚ यात॒यज्ज॑नो गृण॒ते सु॒शेवः॑ । तस्मा᳚ ए॒तत् पन्य॑तमाय॒ जुष्ट॑म॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ॥3.059.05, 3.4.5.5
मि॒त्रो जना᳚न् यातयति ब्रुवा॒णो मि॒त्रो दा᳚धार पृथि॒वीमु॒त द्यां । मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ॥3.059.01, 3.4.5.1
[18] ज्येष्ठा
पिबा सोममभि यमुग्र तर्देति द्व्यर्चस्य बार्हस्पत्यो भरद्वाजः इंद्रस्त्रिष्टुप्, इंद्र श्रेष्ठानि द्रविणानि धेहीत्यस्य शौनको गृत्समदः इंद्रस्त्रिष्टुप् छंदः ॥
पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इं᳚द्र । वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा᳚ वृ॒त्रम॑मि॒त्रिया॒ शवो᳚भिः ॥6.017.01, 4.6.1.1
स ईं᳚ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान् वृष॒भो यो म॑ती॒नां । यो गो᳚त्र॒भिद् व॑ज्र॒भृद् यो ह॑रि॒ष्ठाः स इं᳚द्र चि॒त्राँ, अ॒भि तृं᳚धि॒ वाजा᳚न् ॥6.017.02, 4.6.1.2
इंद्र॒ श्रेष्ठा᳚नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे । पोषं᳚ रयी॒णामरि॑ष्टिं त॒नूनां᳚ स्वा॒द्मानं᳚ वा॒चः सु॑दिन॒त्वमह्नां᳚ ॥2.021.06, 2.6.027.06
[19] मूल
प्र तार्यायुः प्रतरं नवीय इति द्व्यर्चस्य गौपायना बंध्वादयः निरृतिस्त्रिष्टुप्, मो षु नः परापरा निरृतिरित्यस्य घौरः कण्वः मरुतो गायत्री छंदः ॥
प्र ता॒र्यायुः॑ प्रत॒रं नवी᳚यः॒ स्थाता᳚रेव॒ क्रतु॑मता॒ रथ॑स्य । अध॒ च्यवा᳚न॒ उत्त॑वी॒त्यर्थं᳚ परात॒रं सु निरृ॑तिर्जिहीतां ॥10.059.01, 8.1.022.01
साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा᳚महे॒ सु पु॑रु॒ध श्रवां᳚सि । ता नो॒ विश्वा᳚नि जरि॒ता म॑मत्तु परात॒रं सु निरृ॑तिर्जिहीतां ॥10.059.02, 8.1.022.02
मो षु णः॒ परा᳚परा॒ निरृ॑तिर्दु॒र्हणा᳚ वधीत् । प॒दी॒ष्ट तृष्ण॑या स॒ह ॥1.038.06, 1.3.016.01
[20] पूर्वाषाढा
इदमापः प्र वहत इति द्व्यर्चस्य आंबरीषः सिंधुद्वीपः आपोऽनुष्टुप्, आपो हि ष्ठा मयोभुव इत्यस्य आंबरीषः सिंधुद्वीपः आपो गायत्री छंदः ॥
इ॒दमा᳚पः॒ प्र व॑हत॒ यत् किं च॑ दुरि॒तं मयि॑ । यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा᳚ शे॒प उ॒तानृ॑तं ॥10.009.08, 7.6.5.8
आपो᳚ अ॒द्यान्व॑चारिषं॒ रसे᳚न॒ सम॑गस्महि । पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥10.009.09, 7.6.5.9
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा᳚य॒ चक्ष॑से ॥10.009.01, 7.6.5.1
[21] उत्तराषाढा
देवं वो अद्य सवितारमेष इति द्व्यर्चस्य आत्रेयः प्रतिप्रभुः विश्वेदेवास्त्रिष्टुप्, विश्वे देवाः शृणुतेमं हवमेति भरद्वाज ऋजिश्वा विश्वेदेवास्त्रिष्टुप् छंदः ॥
दे॒वं वो᳚ अ॒द्य स॑वि॒तार॒मेषे॒ भगं᳚ च॒ रत्नं᳚ वि॒भजं᳚तमा॒योः । आ वां᳚ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ॥5.049.01, 4.3.3.1
प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान् त्सू॒क्तैर्दे॒वं स॑वि॒तारं᳚ दुवस्य । उप॑ ब्रुवीत॒ नम॑सा विजा॒नंज्येष्ठं᳚ च॒ रत्नं᳚ वि॒भजं᳚तमा॒योः ॥5.049.02, 4.3.3.2
विश्वे᳚ देवाः शृणु॒तेमं हवं᳚ मे॒ ये, अं॒तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ । ये, अ॑ग्निजि॒ह्वा, उ॒त वा॒ यज॑त्रा, आ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्वं ॥6.052.13, 4.8.016.03
[22] श्रवणा
प्र विष्णवे शूषमेतु मन्मेति द्व्यर्चस्य औचथ्यो दीर्घतमाः विष्णुस्त्रिष्टुप्, वषट्ते विष्णवास आ कृणोमीत्यस्य मैत्रावरुणिर्वसिष्ठः विष्णुस्त्रिष्टुप् छंदः ॥
प्र विष्ण॑वे शू॒षमे᳚तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे᳚ । य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको᳚ विम॒मे त्रि॒भिरित् प॒देभिः॑ ॥1.154.03, 2.2.024.03
यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी᳚यमाणा स्व॒धया॒ मदं᳚ति । य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको᳚ दा॒धार॒ भुव॑नानि॒ विश्वा᳚ ॥1.154.04, 2.2.024.04
वष॑ट्ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे᳚ जुषस्व शिपिविष्ट ह॒व्यं । वर्धं᳚तु त्वा सुष्टु॒तयो॒ गिरो᳚ मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥7.100.07, 5.6.025.07
[23] धनिष्ठा
जनिष्ठा उग्रः सहसे तुरायेति द्व्यर्चस्य शाक्त्यो गौरिवीतिः इंद्रस्त्रिष्टुप्, यथा ह त्यद् वसवो गौर्यंचितित्यस्य गौतमो वामदेवः अग्निस्त्रिष्टुप् छंदः ॥
जनि॑ष्ठा, उ॒ग्रः सह॑से तु॒राय॑ मं॒द्र ओजि॑ष्ठो बहु॒लाभि॑मानः । अव॑र्ध॒न्निंद्रं᳚ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥10.073.01, 8.3.3.1
द्रु॒हो निष॑त्ता पृश॒नी चि॒देवैः᳚ पु॒रू शंसे᳚न वावृधु॒ष्ट इंद्रं᳚ । अ॒भीवृ॑तेव॒ ता म॑हाप॒देन॑ ध्वां॒तात्प्र॑पि॒त्वादुद॑रंत॒ गर्भाः᳚ ॥10.073.02, 8.3.3.2
यथा᳚ ह॒ त्यद् व॑सवो गौ॒र्यं᳚ चित् प॒दि षि॒ताममुं᳚चता यजत्राः । ए॒वो ष्व१॑(अ॒)स्मन्मुं᳚चता॒ व्यंहः॒ प्र ता᳚र्यग्ने प्रत॒रं न॒ आयुः॑ ॥4.012.06, 3.5.012.06
इ॒मं मे᳚ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय । त्वाम॑व॒स्युरा च॑के ॥1.025.19, 1.2.019.04
[24] शतभिषं
अव ते हेळो वरुण नमोभिरिति द्व्यर्चस्य आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः वरुणस्त्रिष्टुप्, समुद्रः सिंधू रजो अंतरिक्षमित्यस्य वसुकर्णो वासुक्रः विश्वेदेवा जगती छंदः ॥
अव॑ ते॒ हेळो᳚ वरुण॒ नमो᳚भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय᳚न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां᳚सि शिश्रथः कृ॒तानि॑ ॥1.024.14, 1.2.015.04
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा᳚ध॒मं वि म॑ध्य॒मं श्र॑थाय । अथा᳚ व॒यमा᳚दित्य व्र॒ते तवाना᳚गसो॒, अदि॑तये स्याम ॥1.024.15, 1.2.015.05
स॒मु॒द्रः सिंधू॒ रजो᳚ अं॒तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर᳚र्ण॒वः । अहि॑र्बु॒ध्न्यः॑ शृणव॒द्वचां᳚सि मे॒ विश्वे᳚ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ॥10.066.11, 8.2.014.01
[25] पूर्वाभाद्रा
उत नोऽहिर्बुध्न्यः शृणोत्वित्यस्य द्व्यर्चस्य भारद्वाज ऋजिश्वा विश्वेदेवास्त्रिष्टुप्, उत नो नक्तमपां वृषण्वसू इत्यस्य पार्थ्यस्तान्वः विश्वेदेवाः प्रस्तार पंक्ति छंदः ॥
उ॒त नोऽहि॑र्बु॒ध्न्यः॑ शृणोत्व॒ज एक॑पात् पृथि॒वी स॑मु॒द्रः । विश्वे᳚ दे॒वा ऋ॑ता॒वृधो᳚ हुवा॒नाः स्तु॒ता मंत्राः᳚ कविश॒स्ता, अ॑वंतु ॥6.050.14, 4.8.010.04
ए॒वा नपा᳚तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा᳚जा, अ॒भ्य॑र्चंत्य॒र्कैः । ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे᳚ स्तु॒तासो᳚ भूता यजत्राः ॥6.050.15, 4.8.010.05
उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या᳚ । सचा॒ यत्साद्ये᳚षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्यः॑ ॥10.093.05, 8.4.026.05
[26] उत्तराभाद्रा
सजूर्देवेभिरपां नपातमित्यस्य मैत्रावरुणिर्वसिष्ठः विश्वेदेवा द्विपदाविराट्, अब्जामुक्थैरहिं गृणीष इत्यस्य मैत्रावरुणिर्वसिष्ठः अह्निर्द्विपदाविराट्, मा नोऽहिर्बुध्न्यो रिषे धादित्यस्य मैत्रावरुणिर्वसिष्ठः अहिर्बुध्न्य द्विपदाविराट्, पूषा गा अन्वेतु न इत्यस्य बार्हस्पत्यो भरद्वाजः पूषा गायत्री छंदः ॥
स॒जूर्दे॒वेभि॑र॒पां नपा᳚तं॒ सखा᳚यं कृध्वं शि॒वो नो᳚ अस्तु ॥7.034.15, 5.3.026.05
अ॒ब्जामु॒क्थैरहिं᳚ गृणीषे बु॒ध्ने न॒दीनां॒ रज॑स्सु॒ षीद᳚न् ॥7.034.16, 5.3.026.06
मा नोऽहि॑र्बु॒ध्न्यो᳚ रि॒षे धा॒न्मा य॒ज्ञो, अ॑स्य स्रिधदृता॒योः ॥7.034.17, 5.3.026.07 {
पू॒षा गा, अन्वे᳚तु नः पू॒षा र॑क्ष॒त्वर्व॑तः । पू॒षा वाजं᳚ सनोतु नः ॥6.054.05, 4.8.019.05
[27] रेवती
यास्ते पूषन्नावो अंतः समुत्रे हिरण्ययीरंतरिक्षे चरंतीति द्व्यर्चस्य बार्हस्पत्यो भरद्वाजः पूषा त्रिष्टुप्, रेवतीर्नः सधमाद इंद्रे संतु तुविवाजा इत्यस्य आजीगर्तिः शुनःशेपः इंद्रो गायत्री छंदः ॥
यास्ते᳚ पूष॒न्नावो᳚ अं॒तः स॑मु॒द्रे हि॑र॒ण्ययी᳚रं॒तरि॑क्षे॒ चरं᳚ति । ताभि᳚र्यासि दू॒त्यां सूर्य॑स्य॒ कामे᳚न कृत॒ श्रव॑ इ॒च्छमा᳚नः ॥6.058.03, 4.8.024.03
पू॒षा सु॒बंधु॑र्दि॒व आ पृ॑थि॒व्या, इ॒ळस्पति᳚र्म॒घवा᳚ द॒स्मव॑र्चाः । यं दे॒वासो॒, अद॑दुः सू॒र्यायै॒ कामे᳚न कृ॒तं त॒वसं॒ स्वंचं᳚ ॥6.058.04, 4.8.024.04
रे॒वती᳚र्नः सध॒माद॒ इंद्रे᳚ संतु तु॒विवा᳚जाः । क्षु॒मंतो॒ याभि॒र्मदे᳚म ॥1.030.13, 1.2.030.03
[28] अभिजित्
ब्रह्मणा ते ब्रह्मयुजा युनज्मीत्यस्य गाथिनो विश्वामित्रः इंद्रस्त्रिष्टुप् छंदः ॥
ब्रह्म॑णा ते ब्रह्म॒युजा᳚ युनज्मि॒ हरी॒ सखा᳚या सध॒माद॑ आ॒शू । स्थि॒रं रथं᳚ सु॒खमिं᳚द्राधि॒तिष्ठ᳚न् प्रजा॒नन् वि॒द्वाँ, उप॑ याहि॒ सोमं᳚ ॥3.035.04, 3.2.017.04
102 । मंडलाद्यंतमंत्राः
अग्निमीळे पुरोहितमित्यस्य वैश्वामित्रो मधुच्छंदाः अग्निर्गायत्री, कुषुंभकस्तदब्रवीदित्यस्य मैत्रावरुणिरगस्त्यः अप्तृणसूर्या अनुष्टुप्, त्वमग्ने द्युभिस्त्यत्याशुशुक्षणिरित्यस्य शौनको गृत्समदः अग्निर्जगती, आवदऴ्त्वं शकुने भद्रमावदेत्यस्य शौनको गृत्समदः शकुंतः (कपिंजलरूपींद्रः) जगती, सोमस्य मा तवसं वक्ष्यग्ने इत्यस्य गाथिनो विश्वामित्रः अग्निस्त्रिष्टुप्, गृणाना जमदग्निनेत्यस्य विश्वामित्रो जमदग्निर्वा मित्रावरुणौ गायत्री, त्वां ह्यग्ने सदमित् समन्यवो इत्यस्य गौतमो वामदेवः अग्निरष्टिः, धामन् ते विश्वं भुवनमधि शरि तमिति द्व्यर्चस्य गौतमो वामदेवः सूर्योवापोवागावोवाघृतस्तुतिर्वादेवता जगती, अबोध्यग्निः समिधा जनानामित्यस्य अत्रेयौ बुधगविष्ठिरा अग्निस्त्रिष्टुप्, गंता नो यज्ञं यज्ञियाः सुशमिति द्व्यर्चस्य एवयामरुदात्रेयः मरुतो अतिजगती, त्वं ह्यग्ने प्रथमो मनोताऽस्या इतयस्य बार्हस्पत्यो भरद्वाजः अग्निस्त्रिष्टुप्, यो नः स्वो, अरणो यश्च निष्ट्यो इत्यस्य भारद्वाजः पायुः एवब्रह्माण्यनुष्टुप्, अग्निं नरो दीधितिभिररण्योरित्यस्य मैत्रावरुणिर्वसिष्ठः अग्निर्विराट्, प्रति चक्ष्व वि चक्ष्वेंद्रश्च सोमेत्यस्य मैत्रावरुणिर्वसिष्ठः इंद्रासोमौ रक्षोहण्यनुष्टुप्, मा चिदन्यद्वि शंसत सखायो इत्यस्य प्रगाथो घौरः काण्वो वा इंद्रो बृहती, आग्ने याहि मरुत्सखा रुद्रेभिरित्यस्य काण्वः सोभरिः अग्नामरुतो अनुष्टुप्, स्वादिष्ठया मदिष्ठया पवस्व सोमेत्यस्य वैश्वामित्रो मधुच्छंदाः पवमानः सोमो गायत्री, यत्ते राजंछृतं हविस्तेनेत्यस्य मारीचः कश्यपः पवमानः सोमः पंक्तिः, अग्रे बृहन्नुषसामूर्थ्वो, अस्थानित्यस्य अप्त्यस्त्रितः अग्निस्त्रिष्टुप्, समानी व आकूतिः समाना हृदअयनि व इत्यस्य आंगिरसः संवननः संज्ञानमनुष्टुप् छंदः ॥
अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजं᳚ । होता᳚रं रत्न॒धात॑मं ॥1.001.01, 1.1.1.1
कु॒षुं॒भ॒कस्तद॑ब्रवीद् गि॒रेः प्र॑वर्तमान॒कः । वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षं ॥1.191.16, 2.5.016.06
त्वम॑ग्ने॒ द्युभि॒स्त्वमा᳚शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥2.001.01, 2.5.017.01
आ॒वदँ॒स्त्वं श॑कुने भ॒द्रमा व॑द तू॒ष्णीमासी᳚नः सुम॒तिं चि॑किद्धि नः । यदु॒त्पत॒न् वद॑सि कर्क॒रिर्य॑था बृ॒हद् व॑देम वि॒दथे᳚ सु॒वीराः᳚ ॥2.043.03, 2.8.012.03
सोम॑स्य मा त॒वसं॒ वक्ष्य॑ग्ने॒ वह्निं᳚ चकर्थ वि॒दथे॒ यज॑ध्यै । दे॒वाँ, अच्छा॒ दीद्य॑द् युं॒जे, अद्रिं᳚ शमा॒ये, अ॑ग्ने त॒न्वं᳚ जुषस्व ॥3.001.01, 2.8.013.01
गृ॒णा॒ना ज॒मद॑ग्निना॒ योना᳚वृ॒तस्य॑ सीदतं । पा॒तं सोम॑मृतावृधा ॥3.062.18, 3.4.011.08
त्वां ह्य॑ग्ने॒ सद॒मित् स॑म॒न्यवो᳚ दे॒वासो᳚ दे॒वम॑र॒तिं न्ये᳚रि॒र इति॒ क्रत्वा᳚ न्येरि॒रे । अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे᳚वं जनत॒ प्रचे᳚तसं॒ विश्व॒मादे᳚वं जनत॒ प्रचे᳚तसं ॥4.001.01, 3.4.012.01
धाम᳚न् ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तमं॒तः स॑मु॒द्रे हृ॒द्य१॑(अ॒)न्तरायु॑षि । अ॒पामनी᳚के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मंतं त ऊ॒र्मिं ॥4.058.11, 3.8.011.06
अबो᳚ध्य॒ग्निः स॒मिधा॒ जना᳚नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षासं᳚ । य॒ह्वा, इ॑व॒ प्र व॒यामु॒ज्जिहा᳚नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥5.001.01, 3.8.012.01
गंता᳚ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए᳚व॒याम॑रुत् । ज्येष्ठा᳚सो॒ न पर्व॑तासो॒ व्यो᳚मनि यू॒यं तस्य॑ प्रचेतसः॒ स्यात॑ दु॒र्धर्त॑वो नि॒दः ॥5.087.09, 4.4.034.04
त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒ऽस्या धि॒यो, अभ॑वो दस्म॒ होता᳚ । त्वं सीं᳚ वृषन्नकृणोर्दु॒ष्टरी᳚तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ॥6.001.01, 4.4.035.01
यो नः॒ स्वो, अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां᳚सति । दे॒वास्तं सर्वे᳚ धूर्वंतु॒ ब्रह्म॒ वर्म॒ ममांत॑रं ॥6.075.19, 5.1.022.04
अ॒ग्निं नरो॒ दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युती जनयंत प्रश॒स्तं । दू॒रे॒दृशं᳚ गृ॒हप॑तिमथ॒र्युं ॥7.001.01, 5.1.023.01
प्रति॑ चक्ष्व॒ वि च॒क्ष्वेंद्र॑श्च सोम जागृतं । रक्षो᳚भ्यो व॒धम॑स्यतम॒शनिं᳚ यातु॒मद्भ्यः॑ ॥7.104.25, 5.7.9.5
मा चि॑द॒न्यद्वि शं᳚सत॒ सखा᳚यो॒ मा रि॑षण्यत । इंद्र॒मित् स्तो᳚ता॒ वृष॑णं॒ सचा᳚ सु॒ते मुहु॑रु॒क्था च॑ शंसत ॥8.001.01, 5.7.010.01
आग्ने᳚ याहि म॒रुत्स॑खा रु॒द्रेभिः॒ सोम॑पीतये । सोभ᳚र्या॒, उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व᳚र्णरे ॥8.103.14, 6.7.015.04
स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या । इंद्रा᳚य॒ पात॑वे सु॒तः ॥9.001.01, 6.7.016.01
यत्ते᳚ राजंछृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः । अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ नः॒ किं च॒नाम॑म॒दिंद्रा᳚येंदो॒ परि॑ स्रव ॥9.114.04, 7.5.028.04
अग्रे᳚ बृ॒हन्नु॒षसा᳚मू॒र्ध्वो, अ॑स्थान्निर्जग॒न्वान् तम॑सो॒ ज्योति॒षागा᳚त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वंग॒ आ जा॒तो विश्वा॒ सद्मा᳚न्यप्राः ॥10.001.01, 7.5.029.01
स॒मा॒नी व॒ आकू᳚तिः समा॒ना हृद॑यानि वः । स॒मा॒नम॑स्तु वो॒ मनो॒ यथा᳚ वः॒ सुस॒हास॑ति ॥10.191.04, 8.8.049.04
103 । देव ऋचः
नमो महद्भ्यो नमो अर्भकेभ्य इत्यस्य आजीगर्तिः शुनःशेपः विश्वेदेवास्त्रिष्टुप्, ममत्तु नः परिज्मा वसर्हेत्यस्य दैर्घतमसः कक्षीवान् विश्वेदेवास्त्रिष्टुप्, कथा ते अग्ने शुचयंत आयोरत्यस्य औचथ्यो दीर्घतमाः अग्निस्त्रिष्टुप्, यज्ञेन यज्ञमयजंत देवा इत्यस्य औचथ्यो दईर्घतमाः साध्यास्त्रिष्टुप्, परा शुभ्रा, अयासो यव्या साधारण्येवमरुतो मिमिक्षुरित्यस्य मैत्रावरुणिरगस्त्यः मरुतस्त्रिष्टुप्, त्वे राय इंद्र तोशतमा इत्यस्य मैत्रावरुणिरगस्त्यः इंद्रस्त्रिष्टुप्, उभा शंसा नर्या मामविष्टामुभे इत्यस्य मैत्रावरुणिरगस्त्यः द्यावापऋथिव्यौ त्रिष्टुप्, उत न ईं मरुतो वृद्धसेना इत्यस्य मैत्रावरुणिरगस्त्यः विश्वेदेवास्त्रिष्टुप्, तव स्याम पुरुवीरस्य शर्मन्नित्यस्य गार्त्समदः कूर्मः वरुणस्त्रिष्टुप्, दिवश्चिदा ते रुचयंत रोका इत्यस्य गाथिनो विश्वामित्रः अग्निस्त्रिष्टुप्, शंसा महामिंद्रं यसमिन् विश्वा इत्यस्य गाथिनो विश्वामित्रः इंद्रस्त्रिष्टुप्, नापाभूत न वोऽतीतृषामाऽनिःशस्ता इत्यस्य गौतमो वामदेवः ऋभवस्त्रिष्टुप्, अप्रतीतो जयति सं धनानीत्यस्य गौतमो वामदेवः बृहस्पतिस्त्रिष्टुप्, को वस्त्राता वसवः को वरूतेत्यस्य गौतमो वामदेवः विश्वेदेवास्त्रइष्टुप्, त्वमपो यदवे तुर्वशायाऽरमय इत्यस्य आत्रेयो वस्युः इंद्रो कुत्सो वा, इंद्र उशना वा त्रिष्टुप्, मूर्धानं दिवो, अरतिं पृथिव्या इत्यस्य बार्हस्पत्यो भरद्वाजः वैश्वानरोग्निस्त्रिष्टुप्, नाभिं यज्ञानां सदनं रयीणामित्यस्य बार्हस्पत्यो भरद्वाजः वैश्वानरोग्नइस्त्रिष्टुप्, ते नो रायो द्युमतो वाजवतो इत्यस्य भारद्वाज ऋजिश्वा विश्वेदेवास्त्रिष्टुप्, ये के च ज्मा महिनो, अहिमाया इत्यस्य भारद्वाज ऋजिश्वा विश्वेदेवास्त्रिष्टुप्, अस्मे रुद्रा मेहना पर्वतासो इत्यस्य काण्वः प्रगाथः देवास्त्रिष्टुप्, परि प्र धन्वेंद्राय सओम स्वादुरित्यस्य द्व्यर्चस्य ऐश्वरयो धिष्ण्याग्नयः पवमानः सोमो द्विपदाविराट्, प्रयाजान्मे अनुयाजाँश्च केवलानित्यस्य सौचीकोग्निः देवा भुरिक्त्रिष्टुप्, ऐभिर्ददे वृष्ण्या पौंस्यानित्यस्य वामदेव्यो बृहदुक्थः इंद्रस्त्रिष्टुप्, अनृक्षरा ऋजवः संतु पंथा इत्यस्य सूर्या सावित्री नृणां विवाह मंत्राआशीः प्रायास्त्रिष्टुप्, गृभ्णामि ते सौभगत्वाय हस्तमित्यस्य सूर्या सावित्री सूर्या त्रिष्टुप्, समस्मिंजायमान आसत ग्ना इत्यस्य उर्वशी पुरुरवा ऐळस्त्रिष्टुप्, ब्रह्मचारी चरति वेविषद्विष इत्यस्य ब्रह्मजायाजुहू विश्वेदेवास्त्रइष्टुप्, सद्यो जातो व्य्यमिमीत यज्ञमग्निरित्यस्य भार्गवो जमदग्निः स्वाहाकृतयस्त्रिष्टुप्, इदं ते पात्रं सनवित्तमिंद्रेत्यस्य वैरूपो नभ प्रभेदनः इंद्रस्त्रिष्टुप् छंदः ॥
नमो᳚ म॒हद्भ्यो॒ नमो᳚ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्यः॑ । यजा᳚म दे॒वान् यदि॑ श॒क्नवा᳚म॒ मा ज्याय॑सः॒ शंस॒मा वृ॑क्षि देवाः ॥1.027.13, 1.2.024.03
म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो᳚ अ॒पां वृष᳚ण्वान् । शि॒शी॒तमिं᳚द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे᳚ वरिवस्यंतु दे॒वाः ॥1.122.03, 2.1.1.3
क॒था ते᳚ अग्ने शु॒चयं᳚त आ॒योर्द॑दा॒शुर्वाजे᳚भिराशुषा॒णाः । उ॒भे यत्तो॒के तन॑ये॒ दधा᳚ना ऋ॒तस्य॒ साम᳚न् र॒णयं᳚त दे॒वाः ॥1.147.01, 2.2.016.01
य॒ज्ञेन॑ य॒ज्ञम॑यजंत दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् । ते ह॒ नाकं᳚ महि॒मानः॑ सचंत॒ यत्र॒ पूर्वे᳚ सा॒ध्याः संति॑ दे॒वाः ॥1.164.50, 2.3.023.04
परा᳚ शु॒भ्रा, अ॒यासो᳚ य॒व्या सा᳚धार॒ण्येव॑ म॒रुतो᳚ मिमिक्षुः । न रो᳚द॒सी, अप॑ नुदंत घो॒रा जु॒षंत॒ वृधं᳚ स॒ख्याय॑ दे॒वाः ॥1.167.04, 2.4.4.4
त्वे राय॑ इंद्र तो॒शत॑माः प्रणे॒तारः॒ कस्य॑ चिदृता॒योः । ते षु णो᳚ म॒रुतो᳚ मृळयंतु॒ ये स्मा᳚ पु॒रा गा᳚तू॒यंती᳚व दे॒वाः ॥1.169.05, 2.4.8.5
उ॒भा शंसा॒ नर्या॒ माम॑विष्टामु॒भे मामू॒ती, अव॑सा सचेतां । भूरि॑ चिद॒र्यः सु॒दास्त॑राये॒षा मदं᳚त इषयेम देवाः ॥1.185.09, 2.5.3.4
उ॒त न॑ ईं म॒रुतो᳚ वृ॒द्धसे᳚नाः॒ स्मद् रोद॑सी॒ सम॑नसः सदंतु । पृष॑दश्वासो॒ऽवन॑यो॒ न रथा᳚ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ॥1.186.08, 2.5.5.3
तव॑ स्याम पुरु॒वीर॑स्य॒ शर्म᳚न्नुरु॒शंस॑स्य वरुण प्रणेतः । यू॒यं नः॑ पुत्रा, अदितेरदब्धा, अ॒भि क्ष॑मध्वं॒ युज्या᳚य देवाः ॥2.028.03, 2.7.9.3
दि॒वश्चि॒दा ते᳚ रुचयंत रो॒का, उ॒षो वि॑भा॒तीरनु॑ भासि पू॒र्वीः । अ॒पो यद॑ग्न उ॒शध॒ग्वने᳚षु॒ होतु᳚र्मं॒द्रस्य॑ प॒नयं᳚त दे॒वाः ॥3.006.07, 2.8.027.02
शंसा᳚ म॒हामिंद्रं॒ यस्मि॒न् विश्वा॒, आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य᳚न् । यं सु॒क्रतुं᳚ धि॒षणे᳚ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां᳚ ज॒नयं᳚त दे॒वाः ॥3.049.01, 3.3.013.01
नापा᳚भूत॒ न वो᳚ऽतीतृषा॒माऽनिः॑शस्ता ऋभवो य॒ज्ञे, अ॒स्मिन् । समिंद्रे᳚ण॒ मद॑थ॒ सं म॒रुद्भिः॒ सं राज॑भी रत्न॒धेया᳚य देवाः ॥4.034.11, 3.7.4.6
अप्र॑तीतो जयति॒ सं धना᳚नि॒ प्रति॑जन्यान्यु॒त या सज᳚न्या । अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वंति दे॒वाः ॥4.050.09, 3.7.027.04
को व॑स्त्रा॒ता व॑सवः॒ को व॑रू॒ता द्यावा᳚भूमी, अदिते॒ त्रासी᳚थां नः । सही᳚यसो वरुण मित्र॒ मर्ता॒त् को वो᳚ऽध्व॒रे वरि॑वो धाति देवाः ॥4.055.01, 3.8.6.1
त्वम॒पो यद॑वे तु॒र्वशा॒याऽर॑मयः सु॒दुघाः᳚ पा॒र इं᳚द्र । उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद्वा᳚मु॒शनारं᳚त दे॒वाः ॥5.031.08, 4.1.030.03
मू॒र्धानं᳚ दि॒वो, अ॑र॒तिं पृ॑थि॒व्या वै᳚श्वान॒रमृ॒त आ जा॒तम॒ग्निं । क॒विं स॒म्राज॒मति॑थिं॒ जना᳚नामा॒सन्ना पात्रं᳚ जनयंत दे॒वाः ॥6.007.01, 4.5.9.1
नाभिं᳚ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा᳚हा॒वम॒भि सं न॑वंत । वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां᳚ य॒ज्ञस्य॑ के॒तुं ज॑नयंत दे॒वाः ॥6.007.02, 4.5.9.2
ते नो᳚ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो᳚ भूत नृ॒वतः॑ पुरु॒क्षोः । द॒श॒स्यंतो᳚ दि॒व्याः पार्थि॑वासो॒ गोजा᳚ता॒, अप्या᳚ मृ॒ळता᳚ च देवाः ॥6.050.11, 4.8.010.01
ये के च॒ ज्मा म॒हिनो॒, अहि॑माया दि॒वो ज॑ज्ञि॒रे, अ॒पां स॒धस्थे᳚ । ते, अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायुः॒, क्षप॑ उ॒स्रा व॑रिवस्यंतु दे॒वाः ॥6.052.15, 4.8.016.05
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः᳚ । यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इंद्र॑ज्येष्ठा, अ॒स्माँ, अ॑वंतु दे॒वाः ॥8.063.12, 6.4.043.06
परि॒ प्र ध॒न्वेंद्रा᳚य सोम स्वा॒दुर्मि॒त्राय॑ पू॒ष्णे भगा᳚य ॥9.109.1, 7.5.20.1
इंद्र॑स्ते सोम सु॒तस्य॑ पेयाः॒ क्रत्वे॒ दक्षा᳚य॒ विश्वे᳚ च दे॒वाः ॥9.109.2, 7.5.20.2
प्र॒या॒जान्मे᳚ अनुया॒जाँश्च॒ केव॑ला॒नूर्ज॑स्वंतं ह॒विषो᳚ दत्त भा॒गं । घृ॒तं चा॒पां पुरु॑षं॒ चौष॑धीनाम॒ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ॥10.051.08, 8.1.011.03
ऐभि॑र्ददे॒ वृष्ण्या॒ पौंस्या᳚नि॒ येभि॒रौक्ष॑द्वृत्र॒हत्या᳚य व॒ज्री । ये कर्म॑णः क्रि॒यमा᳚णस्य म॒ह्न ऋ॑तेक॒र्ममु॒दजा᳚यंत दे॒वाः ॥10.055.07, 8.1.017.02
अ॒नृ॒क्ष॒रा ऋ॒जवः॑ संतु॒ पंथा॒ येभिः॒ सखा᳚यो॒ यंति॑ नो वरे॒यं । सम᳚र्य॒मा सं भगो᳚ नो निनीया॒त् सं जा᳚स्प॒त्यं सु॒यम॑मस्तु देवाः ॥10.085.23, 8.3.024.03
गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या᳚ ज॒रद॑ष्टि॒र्यथासः॑ । भगो᳚ अर्य॒मा स॑वि॒ता पुरं᳚धि॒र्मह्यं᳚ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥10.085.36, 8.3.027.01
सम॑स्मिं॒जाय॑मान आसत॒ ग्ना, उ॒तेम॑वर्धन्न॒द्य१॑(अः॒) स्वगू᳚र्ताः । म॒हे यत् त्वा᳚ पुरूरवो॒ रणा॒याव॑र्धयंदस्यु॒हत्या᳚य दे॒वाः ॥10.095.07, 8.5.2.2
ब्र॒ह्म॒चा॒री च॑रति॒ वेवि॑ष॒द्विषः॒ स दे॒वानां᳚ भव॒त्येक॒मंगं᳚ । तेन॑ जा॒यामन्व॑विंद॒द्बृह॒स्पतिः॒ सोमे᳚न नी॒तां जु॒ह्व१॑(अं॒) न दे᳚वाः ॥10.109.05, 8.6.7.5
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना᳚मभवत्पुरो॒गाः । अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा᳚कृतं ह॒विर॑दंतु दे॒वाः ॥10.110.11, 8.6.9.6
इ॒दं ते॒ पात्रं॒ सन॑वित्तमिंद्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो । पू॒र्ण आ᳚हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्यं᳚ति दे॒वाः ॥10.112.06, 8.6.013.01
नमो महद्भ्यो ममत्तु नः कथाते यज्ञेन यज्ञं पराशुभ्रा त्वे राय इंद्र उभा शंसा उतन ईं तवस्याम
दिवश्चिदाते शंसामहामिंद्रं त्रिरुत्तमा नापाभू त अप्रतीतो कोवस्त्राता त्वमपो मूर्धानं नाभिं यज्ञानां
तेनो रायो ये के चज्मा अस्मे रुद्रा परि प्रधन्वा प्रयजान्मे ऐभिर्दधे अनृक्षरा गृभ्णामिते समस्मिन् ब्रह्मचारी सद्यो जात
इदं ते पात्रमिति त्रिंशद्देव ऋचः
104 । सौभाग्य ऋचः
हइंकृण्वती वसुपत्नी वसूनामिति द्व्यर्चस्य औचथ्यो दीर्घतमाः विश्वदेवास्त्रिष्टुप्, समिद्धस्य श्रयमाणः पुरस्तात् इत्यस्य गाथिनो विश्वामित्रः यूपस्त्रिष्टुप्, वनस्पते शतवल्शो वि रोहेत्यस्य गाथिनो विश्वामित्रः व्रश्चनस्त्रिष्टुप्, इंदुर्देवानामुप सख्यमायन् इत्यस्य वासिष्ठैंद्रप्रमतिः पवमानः सोमस्त्रिष्टुप्, अस्य पिब क्षुमतः प्रस्थितस्येत्यस्य स्थौरोग्नियुतोग्नियूपो वा इंद्रस्त्रिष्टुप् छंदः ॥
हिं॒कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू᳚नां व॒त्समि॒च्छंती॒ मन॑सा॒भ्यागा᳚त् । दु॒हाम॒श्विभ्यां॒ पयो᳚ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥1.164.27, 2.3.019.02
समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द् ब्रह्म॑ वन्वा॒नो, अ॒जरं᳚ सु॒वीरं᳚ । आ॒रे, अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥3.008.02, 3.1.3.2
वन॑स्पते श॒तव᳚ल्शो॒ वि रो᳚ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम । यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ॥3.008.11, 3.1.4.6
इंदु॑र्दे॒वाना॒मुप॑ स॒ख्यमा॒यन् त्स॒हस्र॑धारः पवते॒ मदा᳚य । नृभिः॒ स्तवा᳚नो॒, अनु॒ धाम॒ पूर्व॒मग॒न्निंद्रं᳚ मह॒ते सौभ॑गाय ॥9.097.05, 7.4.011.05
अ॒स्य पि॑ब क्षु॒मतः॒ प्रस्थि॑त॒स्येंद्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ । स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ॥10.116.02, 8.6.020.02
परिशिष्टम् [ऋग्वेद मंडल 10, 128 सूक्तस्यानंतरं][ऋग्वेद अष्टक 8, अध्याय 7, 16 वर्गानंतरं]
घृतादुल्लुप्तं मधुम त्सुवर्णं धनंजयन्नित्यस्य षट् सौभाग्य ऋचः छंदः ॥
घृ॒तादुर्लु॑प्तं॒ मधु॑मत् सु॒वर्णं᳚ धनंज॒यं ध॒रुणं धारयि॒ष्णु। ऋ॒णक् स॒पत्ना॒ दध॑राँश्च कृ॒ण्वदारो᳚ह मां मह॒ते सौभ॑गाय॥
हिंकृण्वती समिद्धस्य वनस्पते इंदुर्देवानां अस्य पिब घृतादुर्लुप्तमिति षट् सौभाग्य ऋचः
105 । आयुर् ऋचः
भद्रं कर्णेभिः शृणुयाम देवेत्यस्य रहूगणो गोतमः विश्वेदेवास्त्रिष्टुप्, पुनःपुनर्जायमाना पुराणीत्यस्य रहूगणो गोतमः उषास्त्रिष्टुप्, द्रविणोदा द्रविणसस्तुरस्येत्यस्य कुत्सः द्रविणोदा अग्निर्वा त्रिष्टुप्, उदीर्ध्वं जीवो, असुर्न आगादपत्यस्य कुत्सः उषास्त्रिष्टउप्, दक्षिणावतामिदिमानि चित्रामित्यस्य दैर्घतमसः कक्षीवान् स्वनयस्यदानस्तुतिस्त्रिष्टुप्, इमे भोजा, अंगिरसो विरूपा इत्यस्य गाथिनो विश्वामित्रः इंद्रस्त्रिष्टुप्, यथा ह त्यद् वसवो गौर्यं चिदित्यस्य गौतमो वामदेवः अग्निस्त्रिष्टुप्, गोमायुरदादजमायुरदादित्यस्य मऐत्रावरुणिर्वसिष्ठः मंडूकास्त्रिष्टुप्, ऋदूरेण सख्या सचेयेत्यस्य काण्वः प्रगाथः सोमस्त्रिष्टुप्, अप त्या, अस्थुरनिरा, अमीवामित्यस्य काण्वः प्रगाथः सोमस्त्रिष्टुप्, वृष्टिं दिवः शतधारः पवस्वेत्यस्य दैवोदासिः प्रतर्दनः पवमानः सोमस्त्रिष्टुप्, सविता पश्चातात्सविता पुरस्तादित्यस्य धानाकोलुशः विश्वेदेवास्त्रिष्टुप्, नवोनवो भवति जायमानोऽह्नामित्यस्य सूर्या सावित्री चंद्रमास्त्रिष्टुप्, विद्युन्न या पतंती, दविद्योद्भरं तीमित्यस्य इळः पुरूरवाः उर्वशी त्रिष्टुप्, उच्चा दिवि दक्षिणावंतो अस्थुर्येत्यस्य आंगिरसो दिव्यः दक्षिणास्त्रिष्टुप्
भ॒द्रं कर्णे᳚भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि᳚र्यजत्राः । स्थि॒रैरंगै᳚स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ॥1.089.08, 1.6.016.03
पुनः॑पुन॒र्जाय॑माना पुरा॒णी स॑मा॒नं वर्ण॑म॒भि शुंभ॑माना । श्व॒घ्नीव॑ कृ॒त्नुर्विज॑ आमिना॒ना मर्त॑स्य दे॒वी ज॒रयं॒त्यायुः॑ ॥1.092.10, 1.6.025.05
द्र॒वि॒णो॒दा द्रवि॑णसस्तु॒रस्य॑ द्रविणो॒दाः सन॑रस्य॒ प्र यं᳚सत् । द्र॒वि॒णो॒दा वी॒रव॑ती॒मिषं᳚ नो द्रविणो॒दा रा᳚सते दी॒र्घमायुः॑ ॥1.096.08, 1.7.4.3
उदी᳚र्ध्वं जी॒वो, असु᳚र्न॒ आगा॒दप॒ प्रागा॒त्तम॒ आ ज्योति॑रेति । आरै॒क् पंथां॒ यात॑वे॒ सूर्या॒याग᳚न्म॒ यत्र॑ प्रति॒रंत॒ आयुः॑ ॥1.113.16, 1.8.4.1
दक्षि॑णावता॒मिदि॒मानि॑ चि॒त्रा दक्षि॑णावतां दि॒वि सूर्या᳚सः । दक्षि॑णावंतो, अ॒मृतं᳚ भजंते॒ दक्षि॑णावंतः॒ प्र ति॑रंत॒ आयुः॑ ॥1.125.06, 2.1.010.06
इ॒मे भो॒जा, अंगि॑रसो॒ विरू᳚पा दि॒वस्पु॒त्रासो॒, असु॑रस्य वी॒राः । वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रंत॒ आयुः॑ ॥3.053.07, 3.3.020.02
यथा᳚ ह॒ त्यद् व॑सवो गौ॒र्यं᳚ चित् प॒दि षि॒ताममुं᳚चता यजत्राः । ए॒वो ष्व१॑(अ॒)स्मन्मुं᳚चता॒ व्यंहः॒ प्र ता᳚र्यग्ने प्रत॒रं न॒ आयुः॑ ॥4.012.06, 3.5.012.06
गोमा᳚युरदाद॒जमा᳚युरदा॒त् पृश्नि॑रदा॒द्धरि॑तो नो॒ वसू᳚नि । गवां᳚ मं॒डूका॒ दद॑तः श॒तानि॑ सहस्रसा॒वे प्र ति॑रंत॒ आयुः॑ ॥7.103.10, 5.7.4.5
ऋ॒दू॒दरे᳚ण॒ सख्या᳚ सचेय॒ यो मा॒ न रिष्ये᳚द्धर्यश्व पी॒तः । अ॒यं यः सोमो॒ न्यधा᳚य्य॒स्मे तस्मा॒, इंद्रं᳚ प्र॒तिर॑मे॒म्यायुः॑ ॥8.048.10, 6.4.012.05
अप॒ त्या, अ॑स्थु॒रनि॑रा॒, अमी᳚वा॒ निर॑त्रसं॒तमि॑षीची॒रभै᳚षुः । आ सोमो᳚ अ॒स्माँ, अ॑रुह॒द्विहा᳚या॒, अग᳚न्म॒ यत्र॑ प्रति॒रंत॒ आयुः॑ ॥8.048.11, 6.4.013.01
वृ॒ष्टिं दि॒वः श॒तधा᳚रः पवस्व सहस्र॒सा वा᳚ज॒युर्दे॒ववी᳚तौ । सं सिंधु॑भिः क॒लशे᳚ वावशा॒नः समु॒स्रिया᳚भिः प्रति॒रन्न॒ आयुः॑ ॥9.096.14, 7.4.8.4
स॒वि॒ता प॒श्चाता᳚त्सवि॒ता पु॒रस्ता᳚त्सवि॒तोत्त॒रात्ता᳚त्सवि॒ताध॒रात्ता᳚त् । स॒वि॒ता नः॑ सुवतु स॒र्वता᳚तिं सवि॒ता नो᳚ रासतां दी॒र्घमायुः॑ ॥10.036.14, 7.8.011.04
नवो᳚नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तुरु॒षसा᳚मे॒त्यग्रं᳚ । भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन् प्र चं॒द्रमा᳚स्तिरते दी॒र्घमायुः॑ ॥10.085.19, 8.3.023.04
वि॒द्युन्न या पतं᳚ती॒ दवि॑द्यो॒द्भरं᳚ती मे॒, अप्या॒ काम्या᳚नि । जनि॑ष्टो, अ॒पो नर्यः॒ सुजा᳚तः॒ प्रोर्वशी᳚ तिरत दी॒र्घमायुः॑ ॥10.095.10, 8.5.2.5
उ॒च्चा दि॒वि दक्षि॑णावंतो, अस्थु॒र्ये, अ॑श्व॒दाः स॒ह ते सूर्ये᳚ण । हि॒र॒ण्य॒दा, अ॑मृत॒त्वं भ॑जंते वासो॒दाः सो᳚म॒ प्र ति॑रंत॒ आयुः॑ ॥10.107.02, 8.6.3.2
परिशिष्टम् [ऋग्वेद मंडल 7, 55 सूक्तस्यानंतरं][ऋग्वेद अष्टक 5, अध्याय 4, 22 वर्गानंतरं]
यशस्करं बलवंतं प्रभुत्वं तमेव राजाधिपतिर्बभूवेत्यस्य मंत्रः ॥
य॒शस्क॑रं॒ बल॑वंतं प्र॒भुत्व॑ न्तमे॒व रा᳚जाऽधि॒पति॑ र्बभूव। संकी॒र्णना᳚गाऽश्व॒पति᳚ र्नरा॒णां सु॑मं॒गल्यं᳚ सततं दी॒र्घमायुः॑॥
इंद्रावरुणा सौमनसमदृप्तं रायस्पोषमित्यस्य सुपर्णः इंद्रावरुणौ जगती छंदः ॥
इंद्रा᳚वरुणा सौमन॒समदृ॑प्तं रा॒यस्पोषं॒ यज॑मानेषु धत्तं । प्र॒जां पु॒ष्टिं भू᳚तिम॒स्मासु॑ धत्तं दीर्घायु॒त्वाय॒ प्र ति॑रतं न॒ आयुः॑ ॥8.059.07, 6.4.031.03
परिशिष्टम् [ऋग्वेद मंडल 10, 128 सूक्तस्यानंतरं][ऋग्वेद अष्टक 8, अध्याय 7, 16 वर्गानंतरं]
न तद्रक्षांसि न पिशाचाश्चरंतीत्यस्य प्राजापत्यो ब्रह्मा परिशिष्ट मंत्रोऽनुष्टुप् छंदः ॥
न तद्रक्षां᳚सि॒ न पि॑शा॒चा श्च॑रंति दे॒वाना॒ मोज॑: प्रथम॒जं ह्ये॒3(ए॒)तत्। यो बि॒भर्ति॑ दाक्षाय॒णा हिर॑ण्यं॒ स दे॒वेषु॑ कृणुते दी॒र्घ मायु॒स्स म॑नु॒ष्ये᳚षु कृणुते दी॒र्घ मायुः॑॥
भद्रं कर्णेभिः पुनः पुनर् द्रविणोदा उदीर्ध्वं दक्षिणावतां इमे भोजा यथाहत्यद् गोमायुर् ऋदूरेण अपत्या
अस्थुर वृष्टिं दिवः सविता पश्चातान् नवोनवो विद्युन्न योच्चा दिवि इंद्रावरुणा यशस्करं नतद्रक्षांसि इति अष्टादश आयुरृचः
106 । स्वस्ति ऋचः
हइमेनाग्निं घ्रंसमवारयेथामित्यस्य दैर्घतमसः कक्षीवान् अश्विनौ त्रिष्टुप्, अजोहवीदश्विना तौग्र्यो वामित्यस्य दैर्घतमसः कक्षीवान् अश्विनौ त्रिष्टुप्, त्वं धुनिरिंद्र धुनिमतीरृणोरप इत्यस्य मैत्रावरुणिरगस्त्यः इंद्रस्त्रिष्टुप्, आरे, अस्मदमतिमारे, अंह आरे विश्वआमिति द्व्यर्चस्य गौतमो वामदेवः अग्निस्त्रिष्टुप्, यस्मै त्वं सुकृते जातवेद उ लोकमग्ने इत्यस्य आत्रेयो वसुश्रुतः अग्निस्त्रिष्टुप्, प्र श्येनो न मदिरमंशुमस्मै शिरो दासस्येत्यस्य बार्हस्पत्यो भरद्वाजः इंद्रस्त्रिष्टुप्, असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिति द्व्यर्चस्य गौपायना बंध्वादयः असुनीतिस्त्रिष्टुप् छंदः ॥
हि॒मेना॒ग्निं घ्रं॒सम॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा, अधत्तं । ऋ॒बीसे॒, अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि᳚न्यथुः॒ सर्व॑गणं स्व॒स्ति ॥1.116.08, 1.8.9.3
अजो᳚हवीदश्विना तौ॒ग्र्यो वां॒ प्रोळ्हः॑ समु॒द्रम᳚व्य॒थिर्ज॑ग॒न्वान् । निष्टमू᳚हथुः सु॒युजा॒ रथे᳚न॒ मनो᳚जवसा वृषणा स्व॒स्ति ॥1.117.15, 1.8.015.05
त्वं धुनि॑रिंद्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रवं᳚तीः । प्र यत् स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया᳚ तु॒र्वशं॒ यदुं᳚ स्व॒स्ति ॥1.174.09, 2.4.017.04
आ॒रे, अ॒स्मदम॑तिमा॒रे, अंह॑ आ॒रे विश्वां᳚ दुर्म॒तिं यन्नि॒पासि॑ । दो॒षा शि॒वः स॑हसः सूनो, अग्ने॒ यं दे॒व आ चि॒त् सच॑से स्व॒स्ति ॥4.011.06, 3.5.011.06
यस्मै॒ त्वं सु॒कृते᳚ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नं । अ॒श्विनं॒ स पु॒त्रिणं᳚ वी॒रवं᳚तं॒ गोमं᳚तं र॒यिं न॑शते स्व॒स्ति ॥5.004.11, 3.8.019.06
प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो᳚ दा॒सस्य॒ नमु॑चेर्मथा॒यन् । प्राव॒न्नमीं᳚ सा॒प्यं स॒संतं᳚ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ॥6.020.06, 4.6.010.01
असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो᳚ धेहि॒ भोगं᳚ । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चरं᳚त॒मनु॑मते मृ॒ळया᳚ नः स्व॒स्ति ॥10.059.06, 8.1.023.01
107 । क्रतुसाद्गुण्यक्रतुसंरक्षकदेवता मंत्राः
आ तू न इंद्र क्षुमंतं चित्रं ग्राभं सं गृभाये᳙त्यस्य काण्वः कुसीदीः इंद्रो गायत्री, जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेद इत्यस्य मारीचः कश्यपः जातवेदाग्निर्वा त्रिष्टुप्, क्षेत्रस्य पतिना वयं हितेनेव जयामसत्यस्य गौतमो वामदेवः क्षेत्रपतिरनुष्टुप्, क्राणा शइशुर्महीनां हिन्वन्नृतस्य दीधितीमित्यस्य अप्त्यस्त्रितः पवमानः सोम उष्णिक्, आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यंति वासरमित्यस्य काण्वो वत्सः इंद्रो गायत्री, अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवदत्यस्य रहूगणो गोतमः अश्विनौ उष्णिक्, इंद्रं वो विश्वतस्परि हवामहे जनेभ्य इत्यस्य वैश्वामित्रो मधुच्छंदाः इंद्रो गायत्री, अग्निं दूतं वृणीमहे होतारं विश्ववेदसमित्यस्य काण्वो मेधातिथिः अग्निर्गायत्री, यमाय सोमं सुनुत यमाय जुहुता हविरित्यस्य वैवस्वतो यमः यमोऽनुष्टुप्, मो षु नः परापरा निरृतिर्दुर्हणा वधीदत्यस्य घौरः कण्वः मरुतो गायत्री, इमं मे वरुण श्रुधी हवमद्या च मृळयेत्यस्य आजीगर्तिः शुनःशेपः वरुणो गायत्री, तव वायवृतस्पते त्वष्टुर्जामातरद्भुतेत्यस्य आंगिरसोव्यश्वः वायुर्गायत्री, सोमो धेनुं सोमो, अर्वंतमाशुं सोमो वीरं कर्मण्यं ददातीत्यस्य रहूगणो गोतमः सोमस्त्रिष्टुप्, तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयमित्यस्य रहूगणो गोतमः विश्वदेवा जगती छंदः ॥
आ तू न॑ इंद्र क्षु॒मंतं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय । म॒हा॒ह॒स्ती दक्षि॑णेन ॥8.081.01, 6.5.037.01
जा॒तवे᳚दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा᳚ ना॒वेव॒ सिंधुं᳚ दुरि॒तात्य॒ग्निः ॥1.099.01, 1.7.7.1
क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने᳚व जयामसि । गामश्वं᳚ पोषयि॒त्न्वा स नो᳚ मृळाती॒दृशे᳚ ॥4.057.01, 3.8.9.1
क्रा॒णा शिशु᳚र्म॒हीनां᳚ हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं । विश्वा॒ परि॑ प्रि॒या भु॑व॒दध॑ द्वि॒ता ॥9.102.01, 7.5.4.1
आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यंति वास॒रं । प॒रो यदि॒ध्यते᳚ दि॒वा ॥8.006.30, 5.8.014.05
अश्वि॑ना व॒र्तिर॒स्मदा गोम॑द्दस्रा॒ हिर᳚ण्यवत् । अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं ॥1.092.16, 1.6.027.01
इंद्रं᳚ वो वि॒श्वत॒स्परि॒ हवा᳚महे॒ जने᳚भ्यः । अ॒स्माक॑मस्तु॒ केव॑लः ॥1.007.10, 1.1.014.05
अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता᳚रं वि॒श्ववे᳚दसं । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतुं᳚ ॥1.012.01, 1.1.022.01
य॒माय॒ सोमं᳚ सुनुत य॒माय॑ जुहुता ह॒विः । य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू᳚तो॒, अरं᳚कृतः ॥10.014.13, 7.6.016.03
मो षु णः॒ परा᳚परा॒ निरृ॑तिर्दु॒र्हणा᳚ वधीत् । प॒दी॒ष्ट तृष्ण॑या स॒ह ॥1.038.06, 1.3.016.01
इ॒मं मे᳚ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय । त्वाम॑व॒स्युरा च॑के ॥1.025.19, 1.2.019.04
तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत । अवां᳚स्य॒ वृणीमहे ॥8.026.21, 6.2.030.01
सोमो᳚ धे॒नुं सोमो॒, अर्वं᳚तमा॒शुं सोमो᳚ वी॒रं क᳚र्म॒ण्यं᳚ ददाति । सा॒द॒न्यं᳚ विद॒थ्यं᳚ स॒भेयं᳚ पितृ॒श्रव॑णं॒ यो ददा᳚शदस्मै ॥1.091.20, 1.6.022.05
तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ धियंजि॒न्वमव॑से हूमहे व॒यं । पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द् वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये᳚ ॥1.089.05, 1.6.015.05
108 । सप्तऋषि मंत्राः
ऋषे मंत्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिर इत्यस्य मारीचः कश्यपः पवमानः सोमः पंक्तिः, स्वर्भानोरध यदिंद्र माया, अवो दिवो वर्तमाना इत्यस्य भौमोत्रिः अत्रिस्त्रिष्टुप्, अविंदंते, अतिहितं यदासीद् यज्ञस्य धाम इत्यस्य सप्रथो भारद्वाजः विश्वेदेवास्त्रिष्टुप्, इमे भोजा, अंगिरसो विरूपा दिवस्पुत्रासो इत्यस्य गाथिनो विश्वामित्रः इंद्रस्त्रिष्टुप्, अभि त्वा गोतमा गिरा जातवेदो विचक्षणेत्यस्य रहूगणो गोतमः अग्निर्गायत्री, प्रसूतो भक्षमकरं चरावपि स्तोमं चेम इत्यस्य गाथिभार्गवौ विश्वामित्र जमदग्नी इंद्रो जगती, उतासि मैत्रावरउणो वसिष्ठोर्वश्या ब्रह्मन्नित्यस्य मैत्रावरुणिर्वसिष्ठः वसिष्ठदेवता त्रिष्टुप्, श्वित्यंचो मा दक्षिणतस्कपर्दा धियंजिन्वास इत्यस्य वसिष्ठपुत्राः इंद्रस्त्रिष्टुप्, देवा, एतस्यामवदंत पूर्वे सप्तऋषयस्तपसे ये निषेदुरत्यस्य ब्रह्मजायाजुहू विश्वेदेवास्त्रिष्टुप्, सहस्तोमाः सहछंदस आवृतः सहप्रमा ऋषय इत्यस्य प्राजापत्यो यज्ञः भाववृत्तिस्त्रिष्टुप् छंदः ॥
ऋषे᳚ मंत्र॒कृतां॒ स्तोमैः॒ कश्य॑पोद्व॒र्धय॒न् गिरः॑ । सोमं᳚ नमस्य॒ राजा᳚नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिंद्रा᳚येंदो॒ परि॑ स्रव ॥9.114.02, 7.5.028.02
स्व॑र्भानो॒रध॒ यदिं᳚द्र मा॒या, अ॒वो दि॒वो वर्त॑माना, अ॒वाह᳚न् । गू॒ळ्हं सूर्यं॒ तम॒साप᳚व्रतेन तु॒रीये᳚ण॒ ब्रह्म॑णाविंद॒दत्रिः॑ ॥5.040.06, 4.2.012.01
अविं᳚दं॒ते, अति॑हितं॒ यदासी᳚द् य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् । धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो᳚र्भ॒रद्वा᳚जो बृ॒हदा च॑क्रे, अ॒ग्नेः ॥10.181.02, 8.8.039.02
इ॒मे भो॒जा, अंगि॑रसो॒ विरू᳚पा दि॒वस्पु॒त्रासो॒, असु॑रस्य वी॒राः । वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रंत॒ आयुः॑ ॥3.053.07, 3.3.020.02
अ॒भि त्वा॒ गोत॑मा गि॒रा जात॑वेदो॒ विच॑र्षणे । द्यु॒म्नैर॒भि प्र णो᳚नुमः ॥1.078.01, 1.5.026.01
प्रसू᳚तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं᳚ चे॒मं प्र॑थ॒मः सू॒रिरुन् मृ॑जे । सु॒ते सा॒तेन॒ यद्याग॑मं वां॒ प्रति॑ विश्वामित्रजमदग्नी॒ दमे᳚ ॥10.167.04, 8.8.025.04
उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठो॒र्वश्या᳚ ब्रह्म॒न् मन॒सोऽधि॑ जा॒तः । द्र॒प्सं स्क॒न्नं ब्रह्म॑णा॒ दैव्ये᳚न॒ विश्वे᳚ दे॒वाः पुष्क॑रे त्वाददंत ॥7.033.11, 5.3.024.01
(श्वि॒त्यंचो᳚ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो᳚ अ॒भि हि प्र॑मं॒दुः । उ॒त्तिष्ठ᳚न् वोचे॒ परि॑ ब॒र्हिषो॒ नॄन् न मे᳚ दू॒रादवि॑तवे॒ वसि॑ष्ठाः ॥ 7.33.1, 5.3.22.1)
दे॒वा, ए॒तस्या᳚मवदंत॒ पूर्वे᳚ सप्तऋ॒षय॒स्तपसे॒ ये नि॑षे॒दुः । भी॒मा जा॒या ब्रा᳚ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो᳚मन् ॥10.109.04, 8.6.7.4
स॒हस्तो᳚माः स॒हछं᳚दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्याः᳚ । पूर्वे᳚षां॒ पंथा᳚मनु॒दृश्य॒ धीरा᳚ अ॒न्वाले᳚भिरे र॒थ्यो॒3॑(ओ॒) न र॒श्मीन् ॥10.130.07, 8.7.018.07
109 । शांति मंत्राः
आनोभद्र सूक्तं ॥ स्वस्तिसूक्तं ॥ शंवतीसूक्तं ॥
यत इंद्र भयामहे ततो नो, अभयं कृधीत्यस्य प्रागाथो भर्गः इंद्रो बृहती, त्वं हि राधस्पते राधसो मह इत्यस्य प्रागाथो भर्गः इंद्रः सतोबृहती, इंद्रः स्पळुत वृत्रहा परस्पा इत्यस्य प्रागाथो भर्गः इंद्रो बृहती, त्वं नः पश्चादधरादुत्तरात्पुर इत्यस्य प्रागाथो भर्गः इंदरः सतोबृहती, अद्याद्या श्वःश्व इंद्र त्रास्व परे च न इत्यस्य प्रागाथो भर्गः इंद्रो बृहती, प्रभंगी शूरो मघवा तुवीमघ इत्यस्य प्रागाथो भर्गः इंद्रः सतोबृहती, भद्रं नो, अपि वातय मन इत्यस्य ऐंद्रो विमदः अग्निरेकपदा विराट् छंदः ॥
यत॑ इंद्र॒ भया᳚महे॒ ततो᳚ नो॒, अभ॑यं कृधि । मघ॑वंछ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो᳚ जहि ॥8.061.13, 6.4.038.03
त्वं हि रा᳚धस्पते॒ राध॑सो म॒हः, क्षय॒स्यासि॑ विध॒तः । तं त्वा᳚ व॒यं म॑घवन्निंद्र गिर्वणः सु॒तावं᳚तो हवामहे ॥8.061.14, 6.4.038.04
इंद्रः॒ स्पळु॒त वृ॑त्र॒हा प॑र॒स्पा नो॒ वरे᳚ण्यः । स नो᳚ रक्षिषच्चर॒मं स म॑ध्य॒मं स प॒श्चात्पा᳚तु नः पु॒रः ॥8.061.15, 6.4.038.05
त्वं नः॑ प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इंद्र॒ नि पा᳚हि वि॒श्वतः॑ । आ॒रे, अ॒स्मत्कृ॑णुहि॒ दैव्यं᳚ भ॒यमा॒रे हे॒तीरदे᳚वीः ॥8.061.16, 6.4.039.01
अ॒द्याद्या॒ श्वःश्व॒ इंद्र॒ त्रास्व॑ प॒रे च॑ नः । विश्वा᳚ च नो जरि॒तॄन् त्स॑त्पते॒, अहा॒ दिवा॒ नक्तं᳚ च रक्षिषः ॥8.061.17, 6.4.039.02
प्र॒भं॒गी शूरो᳚ म॒घवा᳚ तु॒वीम॑घः॒ सम्मि॑श्लो वि॒र्या᳚य॒ कं । उ॒भा ते᳚ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं᳚ मिमि॒क्षतुः॑ ॥8.061.18, 6.4.039.03
भ॒द्रं नो॒, अपि॑ वातय॒ मनः॑ ॥10.020.01, 7.7.2.1
अप्रतिरथ सूक्तं ॥ मुंचामित्वा सूक्तं ॥ तार्क्ष्य सूक्तं ॥
महीति तृचस्य सूक्तस्य वारुणिः सत्यधृतिरादित्या गायत्री । (महि सत्यधृतिर्वारुणिरादित्यं स्वस्त्ययनमित्यनुक्रमण्या अदितिर्देवतायस्येत्यादित्यं आदित्योदेवतायस्येत्यादित्यमिति द्वैविध्येनप्राप्ता वप्यत्रादित्यानामेवदेवतात्वंनादितेः ऽमाहित्रंयन्महित्रीणामादित्यआनांस्तुतिर्विदुःऽ इतिशौनकोक्तेः)।
महि॑ त्री॒णामवो᳚ऽस्तु द्यु॒क्षं मि॒त्रस्या᳚र्य॒म्णः । दु॒रा॒धर्षं॒ वरु॑णस्य ॥10.185.01, 8.8.043.01
न॒हि तेषा᳚म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे᳚ रि॒पुर॒घशं᳚सः ॥10.185.02, 8.8.043.02
यस्मै᳚ पु॒त्रासो॒, अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या᳚य । ज्योति॒र्यच्छं॒त्यज॑स्रं ॥10.185.03, 8.8.043.03
रात्रीसूक्तं ॥ सर्प सूक्तं ॥
रक्षा णो, अग्ने तव रक्षणेभि रारक्षाणः सुमख प्रीणाण इत्यस्य गौतमो वामदेवः अग्निस्त्रिष्टुप्, ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूदित्यस्य अप्त्यस्त्रितः अग्निस्त्रिष्टुप् छंदः ॥
रक्षा᳚ णो, अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः । प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो᳚ ज॒हि रक्षो॒ महि॑ चिद् वावृधा॒नं ॥ 4.3.14, 3.4.22.4
ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् । रक्षा᳚ णो, अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒3॑(ओ॒) अप्र॑युच्छन् ॥10.004.07, 7.5.032.07
ग्रहदेवतामंत्राः ॥ क्रतु सद्गुण्य क्रतु संरक्षकदेवता मंत्राः ॥
(ॐ भूमिमुपस्पृशेत् । अग्न इळा नम इळा नम ऋषिभ्यो मंत्रकृ द्भ्यो मंत्रपतिभ्यो नमो वो अस्तु देवेभ्यः । शि॒वानः॒ शंत॑मा भव सुमृळी॒का सर॑स्वति । माते॒ व्यो᳚म सं॒दृशि॑ ।)
भद्रं कर्णेभिः—— यदायुः ॥ शं न इं द्राग्नी —-वाजसातौ ॥
सतुषे जनं सुव्रतं नव्यसीभिर्गिर्भिर्मित्त्रावरुणा सुम्नयंता इत्यस्य भारद्वाज ऋजिश्वा विश्वेदेवास्त्रिष्टुप्, कया नश्चित्र आ भुवदूती सदावृधः सखेत्यस्य गौतमो वामदेवः इंद्रो गायत्री, कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदंधस इत्यस्य गौतमो वामदेवः इंद्रो गायत्री, अभि षु नः सखीनामविता जरितॄणामित्यस्य गौतमो वामदेवः इंद्रो गायत्री छंदः ॥
स्तु॒षे जनं᳚ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यंता᳚ । त आ ग॑मंतु॒ त इ॒ह श्रु॑वंतु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो, अ॒ग्निः ॥6.049.01, 4.8.5.1
कया᳚ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा᳚ । कया॒ शचि॑ष्ठया वृ॒ता ॥4.031.01, 3.6.024.01
कस्त्वा᳚ स॒त्यो मदा᳚नां॒ मंहि॑ष्ठो मत्स॒दंध॑सः । दृ॒ळ्हा चि॑दा॒रुजे॒ वसु॑ ॥4.031.02, 3.6.024.02
अ॒भी षु णः॒ सखी᳚नामवि॒ता ज॑रितॄ॒णां । श॒तं भ॑वास्यू॒तिभिः॑ ॥4.031.03, 3.6.024.03
ऋजुनीतीनैतिनवर्चस्य सूक्तस्य राहूगणोगोतमो विश्वेदेवागायत्री अंत्यानुष्टुप् (वैश्वदेवसूक्तेप्यस्मिन्भेदप्रयोगकरणाशक्यत्वान्नवानामपिविश्वेदेवाएव) ।
ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् । अ॒र्य॒मा दे॒वैः स॒जोषाः᳚ ॥1.090.01, 1.6.017.01
ते हि वस्वो॒ वस॑वाना॒स्ते, अप्र॑मूरा॒ महो᳚भिः । व्र॒ता र॑क्षंते वि॒श्वाहा᳚ ॥1.090.02, 1.6.017.02
ते, अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये᳚भ्यः । बाध॑माना॒, अप॒ द्विषः॑ ॥1.090.03, 1.6.017.03
वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यंत्विंद्रो᳚ म॒रुतः॑ । पू॒षा भगो॒ वंद्या᳚सः ॥1.090.04, 1.6.017.04
उ॒त नो॒ धियो॒ गो,अ॑ग्राः॒ पूष॒न् विष्ण॒वेव॑यावः । कर्ता᳚ नः स्वस्ति॒मतः॑ ॥1.090.05, 1.6.017.05
मधु॒ वाता᳚ ऋताय॒ते मधु॑ क्षरंति॒ सिंध॑वः । माध्वी᳚र्नः सं॒त्वोष॑धीः ॥1.090.06, 1.6.018.01
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त् पार्थि॑वं॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता ॥1.090.07, 1.6.018.02
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ, अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो᳚ भवंतु नः ॥1.090.08, 1.6.018.03
शं नो᳚ मि॒त्रः शं वरु॑णः॒ शं नो᳚ भवत्वर्य॒मा । शं न॒ इंद्रो॒ बृह॒स्पतिः॒ शं नो॒ विष्णु॑रुरुक्र॒मः ॥1.090.09, 1.6.018.04
ओष्ठा पिधाना नकुली दंतैःपरुव्रता पविः ।
उदितश्शुक्रियं दधेत्यस्य मंत्रः, तच्चक्षुर्देवहितं शुक्रमुच्चरदित्यस्य मंत्रः, त्वमग्ने रुद्रो असुरो महो दिवस्त्वमिति द्व्यर्चस्य मंत्रः, भद्रं नो, अपि वातय मन इत्यस्य ऐंद्रो विमदः अग्निरेकपदा विराट् छंदः ॥
उदि॑तश्शु॒क्रियं᳚दधे । तम॒हमा॒त्मनि॑ दधे । अनु॒ मामै᳚त्विंद्रि॒यं । मयि॒ श्रीर्म यि॒ यशः॑ । सर्व॑स्सप्रा॒ण स्स॑बलः । उत्ति॑ष्ठा॒म्यनु॑ मा॒ श्रीः । उत्ति॑ष्ठ॒त्वनु॑ मा यं तु दे॒वताः᳚ । अद॑ब्धं च॒क्षुरि॑षि॒तं मनः॑ । सूर्यो॒ ज्योति॑षां॒ श्रेष्ठो॒ दीक्षे॒ मा मा᳚ हिंसीः ।
तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् । पश्ये᳚म श॒रदः॑ श॒तं जीवे᳚म श॒रदः॑ श॒तं ॥
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई᳚शिषे । त्वं वातै᳚ ररु॒णैर्या᳚सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा᳚सि॒नु त्मना᳚॥
भ॒द्रन्नो॒ अपि॑ वातय॒ मनः॑ ॥
ऋग्वेद ऐतरेयोपनिषत्
ॐ वाङ्मे॒ मन॑सि॒ प्रति॑ष्ठिता॒ मनो᳚ मे॒ वाचि॒प्रति॑ष्ठितमा॒विरा॒वीर्म॑ एधि वे॒दस्य म॒ आणी᳚स्थः श्रु॒तं मे॒ मा प्रहा᳚सीर॒नेना॒धीते᳚नाहोरा॒त्रान् संद॑धाम्यृ॒तं व॑दिष्यामि स॒त्यं व॑दिष्यामि॒ तन्माम॑वतु॒ तद्व॒क्तार॑मव॒त्वव॑तु॒ मामव॑तु व॒क्तार॒मव॑तु व॒क्तारं᳚ । ॐ शांतिश्शांतिश्शांतिः ॥
मआ न एकस्मिन्नागसि मा द्वयोरुत त्रिषु वधीर्मा शूर भूरिषुमित्यस्य काण्वः त्रिशोकः इंद्रो गायत्री, विश्वानि देव सवितर्दुरितानि परा सुव यद् भद्रं तन्न आ सुवत्यस्य आत्रेयः श्यावाश्वः सविता गायत्री, शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानामित्यस्य गाथिनो वइश्वामित्रः उपाध्यायस्त्रिष्टुप्, ऋचो, अक्षरे परमे व्योमन् यस्मिन् देवा, अधि विश्वे निषेदुरत्यस्य औचथ्यो दीर्घतमाः विश्वेदेवास्त्रिष्टुप् छंदः, तच्छंयोरा वृणीमहे गातुं यज्ञायेत्यस्य शंयुः विश्वेदेवाः शक्वरी, नमो ब्रह्मणे नमोऽस्त्वग्नय इत्यस्य प्रजापतिः विश्वेदेवा जगती छंदः शांता पृथिवी शिवमंतरिक्षमित्यस्य ब्रह्म विश्वेदेवा अनुष्टुप् छंदः ॥
मा न॒ एक॑स्मि॒न्नाग॑सि॒ मा द्वयो᳚रु॒त त्रि॒षु । वधी॒र्मा शू᳚र॒ भूरि॑षु ॥8.045.34, 6.3.048.04
विश्वा᳚नि देव सवितर्दुरि॒तानि॒ परा᳚ सुव । यद् भ॒द्रं तन्न॒ आ सु॑व ॥5.082.05, 4.4.025.05
श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणं विप॒श्चितं᳚ पि॒तरं॒ वक्त्वा᳚नां । मे॒ळिं मदं᳚तं पि॒त्रोरु॒पस्थे॒ तं रो᳚दसी पिपृतं सत्य॒वाचं᳚ ॥3.026.09, 3.1.027.04
ऋ॒चो, अ॒क्षरे᳚ पर॒मे व्यो᳚म॒न् यस्मि᳚न् दे॒वा, अधि॒ विश्वे᳚ निषे॒दुः । यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा᳚सते ॥1.164.39, 2.3.021.04
तच्छं॒योरा वृ॑णीमहे गा॒तुं य॒ज्ञाय॑ गा॒तुं य॒ज्ञप॑तये। दैवी᳚ स्व॒स्ति र॑स्तु नस्स्व॒स्ति र्मानु॑षेभ्यः। ऊ॒र्ध्वंजि॑गातु भेष॒जं शन्नो᳚ अस्तु द्वि॒पदे॒ शंचतु॑ष्पदे॥
शांता᳚ पृथि॒वी शि॒वमं॒तरि॑क्षं॒ द्यौनौ᳚ दे॒व्य भ॑यं नो अस्तु ।
शि॒वा॒दिशः॑ प्र॒दिश॑ उ॒द्दिशो᳚ न॒ आपो᳚ वि॒द्युतः॒ परि॑पांतु स॒र्वतः॒ शांतिः॒ शांतिः॒ शांतिः॑ ॥
नमो॒ ब्रह्म॑णे॒ नमो᳚ऽस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः ।
नमो᳚ वा॒चे नमो᳚ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे मह॒ते क॑रोमि ॥
॥ हरिः ॐ ॥ स्वस्ति ॥